अथावृत्तिदीपकसरः.
समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः । आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः ॥
पदतदर्थयोस्समस्तयोर्ब्यस्तयोश्चानेकोपकारकतया दीपस्थानीययोरावृत्तौ त्रिविधमावृत्तिदीपकमित्यर्थः । पदतदर्थयोरुभयोरावृत्तावेकः प्रकारः, पदस्यैव अर्थस्यैव चावृत्तौ द्वौ प्रकाराविति त्रयोऽस्य प्रकाराः। एकक्रियाया अनेककारकान्वयवदनेककारकस्यावृत्तक्रियान्वयादावृत्तिदीपकमित्यन्वर्थाभिधानमिदम् ॥
यथाक्रममुदाहरणानि–
हरिभूभृदुदयभाजो हरेर्महस्फूर्तिपरिचये नॄणाम् । विकसति दृगब्जबृन्दं विकसति हृदयाब्जबृन्दं च ॥ ५७३ ॥
हरिभूभृत् वेङ्कटगिरिः स एव उदयः तं भजतीति तथोक्तः । तस्य हरेः भगवत एव भानुमतः महस्फूर्तिरुत्सवस्फूर्तिरेव तेजस्स्फूर्तिः तस्याः परिचये सति । अत्र विकसनक्रियातद्वाचकपदयोर्द्वयोरावृत्तिरितीदमुभयावृत्तिदीपकम् ॥
यथा वा–
कर्षति दृगेकतो मां श्रुतिरेषाऽन्यत्र कर्षति मुरारे । रसना परत्र कर्षति साध्वी भक्तिः किमत्र कुर्वीत ॥ ५७१ ॥
मां त्वां द्रष्टुं त्वत्कथां श्रोतुं त्वन्नाम वक्तुं चाभीप्सन्तमिति भावः दृक् चक्षुरिन्द्रियं एकतः स्वविषये इत्यर्थः । एवमुत्तरत्रापि । शिष्टं स्पष्टम् । अत्र कर्षणक्रियातद्वाचकपदयोरुभयोरप्यावृत्तिः । इदं धूर्तबहुसपत्नीकदर्थितसाध्वीदयितवृत्तान्तसमारोपरूपसमासोक्त्या सङ्कीर्णम्, पूर्वं तु रूपकेण ॥
यथावा–
प्रसजेद्यदि पापं नः प्रसजेद्दातुं हरिः फलं तस्य । प्रसजेत्कृपाऽपि लक्ष्म्याः प्रसजेत्सा स्वदयितं प्रसादयितुम् ॥ ५७५ ॥
यथावा–
करिवरनिनदो मूर्छति हरिवरनिनदोऽपि मूर्छति समन्तात् । मूर्छति च तत्प्रतिस्रुद्गुहागृहाभ्यन्तरेषु शेषगिरेः ॥ ५७६ ॥
यथावा–
कूजन्ति चक्रवाकाः कूजन्ति शुकाः पिकाश्च कूजन्ति । कूजन्ति सारसा अपि कर्णानन्दप्रदाः पृदाकुगिरौ ॥ ५७७ ॥
इदमुदाहरणत्रितयं शुद्धम् । अत्राप्याद्ययोरुदाहरणयोः कारणमाला ध्वन्यते । अन्तिमं तूदाहरणं शुद्धतमम् ॥
पदावृत्तिदीपकं यथा–
व्यालोत्तमाचलेन्दोरालोकाद्दूरतस्तमो द्रवति ।
शरणगतानामन्तःकरणसुधाकिरणदृषदपि द्रवति ॥
अत्र द्रवतीति पदस्यैवावृत्तिः न तु तदर्थस्य, आद्यस्य धावतीति अन्त्यस्यार्द्रा भवतीत्यर्थयोर्भदात् ॥
यथावा–
स्वैरं यशो विसृमरं स्मेरं भवतो विधूयते शौरे । स्फारं यशोप्यसुहृदां दूरन्दूरं विधूयते दिक्षु ॥
अत्रापि विधूयते इत्यनयोः विधुरिवाचरतीति प्रकम्प्यत इति चार्थभेदादिदमपि पदावृत्तिदीपकम् ॥
यथावा–
बहुशो धयति स्वामिन्नहिशैले धन्य एव तव तीर्थम् । बहु शोधयति च तमिमं कलशोदधिजाधिनाथ तत्तीर्थम् ॥ ५८० ॥
हे स्वामिन्! अहिशैले धन्यः पुण्यवानेव तव तीर्थं त्वद भिषेकतीर्थमित्यर्थः, बहुशः बहु धयति पिबति । ‘घेट् पाने’ तमिमं तीर्थधातारं जनं तत्तीर्थं कर्तु बहु यथा स्यात्तथा शोधयति शुद्धं करोति अपास्तसमस्तांहस्ततिं तनोतीत्यर्थः । अत्रापि पदमात्रावृत्तिः ॥
यथावा–
चेतो मम बहु धावति वातन्धयगिरिजमद्भुतं किमपि । बहुधाऽवति च महाम्भोवहधाम तदद्भुतं स्मरन्तं माम् ॥ ५८१ ॥
मम चेतः कर्तृ । वातन्धयगिरिजातं किमप्यद्भुतं सर्वाश्चर्यनिधिं श्रीनिवासमित्यर्थः । धावति स्मरतीति यावत् । महाम्भोवहधाम महावारिवाहनीलमित्यर्थः । तदद्भुतं भगवानित्यर्थः । स्मरन्तं मां बहुधा अवति प्रीणयति रक्षति च । अत्रापि पदमात्रावृत्तिः । आद्योदाहरणद्वये अभङ्गश्लेषेण अनन्तरोदाहृत्योस्सभङ्गश्लेषेण निर्व्यूढमिदम् ॥
यथावा–
योऽन्तर्धत्ते कमलाकान्तं काकोदराद्रिभास्वतम् । अन्तर्धत्ते तस्य च सन्तमसं भवमयं स हि नितान्तम् ॥ ५८२ ॥
यः पुमान् अन्तः मनसि धत्ते ध्यायतीत्यर्थः । तस्य पुंसः भवमयं सन्तमसं सः भगवान् अन्तर्धत्ते पिदधाति विनिवर्तयतीति यावत् । अत्रापि पदस्यैवावृत्तिः ॥
अर्थावृत्तिदीपकं यथा–
क्षालयति वेङ्कटाचलपालयितुरघानि सपदि नामसुधा । मार्जयति कुजनसन्नुत्यार्जितमूर्जितमपीह दौर्जन्यम् ॥ ५८३ ॥
अत्र क्रियापदभेदेऽपि तदर्थस्य शोधनस्याभेदादर्थावृत्तिदीपकमिदम् ॥
यथावा–
यत्रेन्धे वनमाला चकास्ति कौस्तुभमणिर्लसति च श्रीः। कियदिव तद्भाग्यं स्यात्पङ्कजमालाऽपि तत्र दीव्यति चेत् ॥ ५८४ ॥
अत्रापि इन्धे इत्यादिक्रियावाचिपदभेदेऽपि तदर्थस्य प्रकाशस्याभेद इति ध्येयम् । इदं च उत्कृष्टव्यक्तिसमुचितोत्त मस्थानतत्तुल्यकक्ष्यासमिन्धानापकृष्टव्यक्तिभागधेयप्रशंसालक्षणव्यवहारसमारोपरूपसमासोक्तिसङ्कीर्णमिति विभावनीयम् ॥
यथावा–
प्राप्नोति जयं लभते श्रियं ह्रियं विन्दते नयं भजते । प्रियमयतेऽपिच नियतं श्रियःपते त्वां श्रयन्नयं लोकः ॥ ५८५ ॥
ह्रियं अकार्येभ्यो लज्जां विन्दते । अयं महान्गुणः। यथोच्यते तत्रतत्र ‘ह्रीनिषेवी’ इति । आद्योदाहरणद्वये कर्तॄणामावृत्तक्रियान्वयः, इह तु जयमित्यादिकर्मणामिति विशेषः ॥
नन्वत्र धर्मनिर्देशस्य प्रस्तुताप्रस्तुतोभयविषयत्वाभावात्कथं दीपकशब्दव्यपदेश इति चेन्न, अनेकोपकारकत्वसाम्येन तदुपपत्तेः । अत एव कुवलयानन्दे- ‘आवृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः’ इत्युक्तम् । अत्र मात्रपदं प्रयुञ्जानैर्दीक्षितैः पृथगेवायमलङ्कारो न तु दीपकप्रभेद इति सूचितम् । अत एवोक्तं दण्डिना-
अर्थावृतिः पदवृत्तिरुभयावृत्तिरित्यपि । दीपकस्थानमेवेष्टमलङ्कारत्रयं यथा ॥
इति । त्रिप्रकारोऽयमलङ्कारो दीपकसदृश इति तदर्थः ॥
इत्यलङ्कारमणिहारे आवृत्तिदीपकसरोऽष्टादशः