13 भ्रान्तिमदलंकारसरः (११)

अथ भ्रान्तिमदलङ्कारसरः.


चमत्कृतिमती भ्रान्तिर्यस्मिन्त्सादृश्यहेतुका । अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥ ४६

सदृशे धर्मिणि धर्म्यन्तरप्रकारकोऽनाहार्यनिश्चयस्साद्दश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च सुरनरतिर्यगादिगता यस्मिन् वचनसन्दर्भेऽनूद्यते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्रमलङ्कारः । भ्रान्तिमानिति व्यवहृतिस्त्वौपचारिकी । यदाहुः–

प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमानिति ख्यातोऽलङ्कारे त्यौपचारिकः ॥

इति । लक्षणे मीलितसामान्यतद्गुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा । संशयवारणाय निश्चय इति, इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रङ्गे रजतमिति बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तितत्वम् ॥ यथा–

जलविहृतौ प्रतिवीचि प्रतिबिम्बान्यब्धिजादृशोर्वीक्ष्य। पृथुशफरभ्रमसकलाश्शकुला दूरं द्रवन्ति भयविकलाः ॥ २८७ ॥

पृथुशफराः महामीनाः इति भ्रमेण सकलाः सम्पूर्णाः ‘समग्रसकलाखण्डपूर्णादीन्यप्यनूनके’ इत्यमरः । शकुलाः मत्स्याः अर्भका इति भावः । अत्र शकुलभयावेगोपस्कारकतया तद्गता भ्रान्तिरलङ्कारः ॥

यथा वा–

कमलाकपोलफलके कलितः कनकाचलेश्वरकटाक्षः । दृग्दोषधूतिदत्ताञ्जनबिन्दुभ्रान्तिदश्श्रियं दत्ताम् ॥ २८८ ॥

अत्राविशेषोक्तेस्सुरनरादिसर्वगता भ्रान्तिरलङ्कारः । सादृश्यनिमित्तैव भ्रान्तिरलङ्कारविषयो न निमित्तान्तरोपस्थापिता ॥

यथा–

नानेह नास्ति किञ्चन जाने सर्वान्तरात्मभूतं त्वाम् । भ्राम्यति योऽस्मिन्नर्थे भ्राम्यति स भवेचिरादहिगिरीन्दो ॥ २८९ ॥

हे अहिगिरीन्दो! इह त्वयीत्यर्थः । नाना भेदः नस्ति, परब्रह्मभूतस्त्वमेक एवेत्यर्थः । तत्र हेतुः जाने इत्यादिः । त्वां सर्वान्तरात्मभूतं सर्वदेशकालवर्तिनां पदार्थानां अन्तरात्मभूतं जाने । अस्मिन्नर्थे यो भ्राम्यति भ्रान्तो भवति सः भवे संसारे चिरात् भ्राम्यति भ्रमणं प्राप्नोति । अनेन–

यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन । मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ॥

इति श्रुत्यर्थोऽनुसंहितः । अत्र भ्रान्तेरसादृश्यनिबन्धनत्वान्नालङ्कारत्वम् । सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोन्मेषितैव गृह्यते । यथा अनुपदमेव ‘जलविहृतौ’ इत्युदाहृते पद्ये । न स्वरसोन्मेषिता शुक्तिरजतवत् । एवं सादृश्यनिमित्तकत्वादनुगाम्यादयोऽस्य साधारणधर्मा यथासम्भवं भवन्ति ।

तत्रानुगामी धर्मो यथा–

उपगूहितुमुपसर्पति चपलतया श्रीस्सरीसृपगिरीन्दौ । द्युमणिरिति कौस्तुभमणिं घृणिमन्तं संवृणोति पाणिभ्याम् ॥ २९० ॥

अत्र घृणिमन्तमित्यनुगामितया निर्दिष्टो धर्मः ॥

बिम्बप्रतिबिम्बभावापन्नो यथा–

रोमाळिशिखरलग्ने कौस्तुभरत्ने सनाळनलिनधिया। झगिति लगन्ति भ्रमराः कमलाकर्णावतंसकह्लारात् ॥ २९१ ॥

झगिति झडितीत्यर्थः । एवमन्यदप्यूह्यं बुद्धिमद्भिः ॥ क्वचिद्भ्रान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः, यथा–

मरकतशिखामणिं शुकमथ मकुटं शोणमणिमयं शौरेः । तन्निष्कुलाकृतं श्रीर्दाडिममवयन्ति तव विलासशुकाः ॥ २९२ ॥

हे श्रीः तव विलासशुकाः शौरेः मरकतरूपं शिखामणिं किरीटकोटिगतं शुकं अवयन्ति जानन्ति, अथ अनन्तरमेव शोणमणिमयं पद्मरागप्रचुरं तैः खचितमित्यर्थः । मकुटं तेन शुकेन निष्कुलाकृतं त्रोटीकोटीकुट्टनेन बहिराविष्कृतबीजराजिकं दाडिमफलमवयन्तीत्यनुषज्यते । निष्कुलाकृतमित्यत्र ‘निष्कुलान्निष्कोषणे’ इति सूत्रेण निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥

क्वचित्परस्परविषयभ्रान्तिनिबन्धनेन विच्छित्तिविशेषः, यथा–

बिभ्यति वीक्ष्य मयूरान् कादम्बा नूतनाम्बुदभ्रान्त्या । तेऽपि निरीक्ष्य मराळान् शारदनीरदधिया वृषाद्रिवने ॥ २९३ ॥

अलङ्कारमणिहारः.pdf

अथास्य ध्वनिः.


यथा–

प्रणतमृडमकुटसरिति प्रतिवीचि त्वत्पदप्रतिच्छन्दान् । प्रणमन् विलोक्य गजमुखशिशुस्स्वशुण्डां प्रसारयति शौरे ॥ २९४ ॥

अत्र भगवच्चरणप्रतिबिम्बेषु पद्मभ्रान्तिर्ध्वन्यते ॥

इत्यलङ्कारमणिहारे भ्रान्तिसर एकादशः.

अलङ्कारमणिहारः.pdf