प्रस्तावना
अथेदानीं किञ्चिदत्र प्रस्तूयते—सुप्रसिद्धं खल्व् एतत् प्रेक्षावताम् अपेक्षावतां च सर्वेषां पुरुषाणाम्, यत्- कर्णाट-जन-पद–सम्पद्-अधिष्ठान-भूत-मही-शूर-महाराजाधानीय-मध्य– विद्योतमान-दिव्य-रत्न-सिंहासनाधिरूढ– श्रीमन्-महाराज-श्रीकृष्ण-राज-सार्वभौम–वंश-देशिकेन्द्राः श्रीकृष्ण-ब्रह्म-पर-तन्त्र–पर-काल-संयमीन्द्राः परश्-शत-प्रबन्ध-निर्माण-धुरन्-धराः सर्व-तन्त्र-स्वतन्त्राः अनन्य-जन-सामान्य-मान्यतमाऽनेक-कार्य-निर्वहण-विचक्षणाः श्री-ब्रह्म-तन्त्र-पर-काल-महास्थानम् अभूषयन्न् इति।
ते किल महाभागाः अलञ्चक्रुर् अपि निखिलेतर-शास्त्रेष्व् इवालङ्कार-शास्त्रे केन-चन महता प्रबन्धेन अलङ्कार-मणिहार-नामधेयेन भगवन्तं श्रीनिवासं परमं दैवतं देवतानाम् अपि। अयं च प्रबन्धः प्रत्यलङ्कारम् आत्मीयैर् एव लक्ष्यमाणैः केवल-भग-वद्-विभूति-विषयकैर् आरचितः परिहृतश् च तेन बहोः कालाद् आपतितो महतोलङ्कारशास्त्रस्य उदाहरणगर्हणनिबन्धनो दोषः। इदानीं पुरातनेन महता प्रबन्धेन लक्ष्यलक्षणसमन्वयविषयकसङ्कोचोपि शिथिलीभविष्यति पठितॄणां पाठयितॄणां च॥
किं चास्मिन् प्रबन्धे प्राच्योदीच्याखिलालङ्कारिकसम्मतस्सिद्धान्तः परस्परं मतभेदः तत्र साधुत्वासाधुत्वविवेकश्च स्फुटं निरूपितः प्रायः सर्वेष्वप्यलङ्कारेषु। तेन च सशुकं विज्ञातुमखिलमप्यलङ्कारसर्वस्वम्, अन्तरेणैव अवलोकनं प्राचीनस्य नवीनस्य वा कस्याप्यपरस्यालङ्कारस्यानुबन्धस्य।
अस्मिंश्च पुस्तके प्रथमभागे उपमालङ्कारमारभ्य समासोक्तिपर्यन्ताः पञ्चविंशतिरलङ्काराः सविचाराः सङ्ग्रथिताः, द्वितीयभागे चावशिष्टा सङ्ग्रथ्यन्ते, इत्यावेदयति
मैसूरु
सज्जन विधेयः
31—3—1917
लक्ष्मीपुरं श्रीनिवासाचार्यः.
विषयसूची(मूलग्रन्थे नास्ति)