विस्तारः (द्रष्टुं नोद्यम्)
Bhamaha: Kavyalamkara
Bhamaha: Kavyalamkara
Based on: Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation
and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri.
Madras, Mylapore : Sri Balamanorama Press, 1956.
(Sri Balamanorama Series, 54)
Input by Dominic Goodall (EFEO)
(The text is not proofread!)
PLAIN TEXT VERSION
[Notes by D. Goodall:]
Some corrections from Raniero GNOLI’s
Udbhaṭa’s Commentary on the Kāvyālaṃkāra of Bhāmaha with an Appendix by Margherita Taticchi including some fragments of Kālidāsa’s Raghuvaṃśa.
Literary and Historical Documents from Pakistan II. Rome: Istituto Italiano per il Medio ed Estremo Oriente, 1962.
Supplemented with readings (not consistently in the 1st 3 chapters) from Kashi Sanskrit Series 61,
the 1928 edition of Batuk Nātha “Sarmā and Baldeva Upādhyāya (/edB):
Kāvyālaṅkāra of Bhāmaha Edited With Introduction etx. By Batuk Nāth Śarmā, M.A., Sāhityopādhyāya,
and Baldeva Upādhyāya, M.A., Sāhitya Śāstrī,
Professors, Benares Hindu University. With a Foreword By Principal A.B. Dhruva, M.A., LL.B.,
Pro-Vice-Chancellor, Benares Hindu University.
The Kashi Sanskrit Series (Haridas Sanskrit Granthamala) 61 (Alaṅkāra Śāstra Section No. 2.)
Benares: Chowkhamba Sanskrit Series Office, 1928.
The recent Chowkhamba edition (Kāvyālaṅkāra of Bhāmaḥ [sic] with `Aanand’ Hindi commentary
by Dr. Ramanand Sharma. Chowkhamba Sanskrit Series 110. Varanasi: Chowkhamba Sanskrit Series Office, 2002) has been ignored. The Hindi translation may be useful, but the edition is not a careful one:
it incorporates the suggestions of earlier editors intermittently and without acknowledgement (e.g.6:60),
and it sometimes translates someone’s improvement without accepting it into the text (e.g. 6:56a). It takes
no account of GNOLI (see e.g. 1:9).
No other editions available to me at the moment; but D.T. Tatacharya Siromani’s edition with his
commentary (udyānavṛtti) published from Tiruvadi in 1934 (according to GNOLI 1962:xxxix, fn.2)
should be sought.
प्रणम्य सार्वं सर्वज्ञं मनोवाक्कायकर्मभिः ।
काव्यालङ्कार इत्येष यथाबुद्धि विधास्यते ॥ भ्_१।१ ॥
धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ॥ भ्_१।२ ॥
अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् ।
अज्ञस्येव प्रगल्भत्वम् अकवेः शास्त्रवेदनम् ॥ भ्_१।३ ॥
विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥ भ्_१।४ ॥
गुरूपदेशादध्येतुं शास्त्रं जडधियो ऽप्यलम् ।
काव्यं तु जायते जातु कस्यचित् प्रतिभावतः ॥ भ्_१।५ ॥
उपेयुषामपि दिवं सन्निबन्धविधायिनाम् ।
आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥ भ्_१।६ ॥
रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ भ्_१।७ ॥
अतो ऽभिवाञ्छता कीर्तिं स्थेयसीमाभुवः स्थितेः ।
यत्नो विदितवेद्येन विधेयः काव्यलक्षणः ॥ भ्_१।८ ॥
शब्दश्छन्दो ऽभिधानार्था इतिहासाश्रयाः कथाः ।
लोको युक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः ॥ भ्_१।९ ॥
% काव्यहेतवः] उद्भटऽस् चोम्म्। (सेए ग्नोलि १९६२, प्।Xल्); काव्यगैर्ह्यमी ।एद्म्; काव्ययैर्वशी ।एद्ब्; काव्ययैरमी? ।एद्ब्प्च्(।एद्ब्व्ल्?)
शब्दाभिधेये विज्ञाय कृत्वा तद्विदुपासनम् ।
% तद्विदुपासनम्] ।एद्म्; तद्विदुपासनाम् ।एद्ब्
विलोक्यान्यनिबन्धांश्च कार्यः काव्यक्रियादरः ॥ भ्_१।१० ॥
सर्वथा पदमप्येकं न निगाद्यमवद्यवत् ।
विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ॥ भ्_१।११ ॥
नाकवित्वमधर्माय व्याधये दण्डनाय वा ।
% नाकवित्वम्] ।एद्म्; अकवित्वम् ।एद्ब्
कुकवित्वं पुनः साक्षान् मृतिमाहुर्मनीषिणः ॥ भ्_१।१२ ॥
रूपकादिरलङ्कारस् तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनितामुखम् ॥ भ्_१।१३ ॥
रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥ भ्_१।१४ ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कार- भेदादिष्टं द्वयं तु नः ॥ भ्_१।१५ ॥
%% चितेद् इन् काव्यप्रकाश ६
शब्दार्थौ सहितौ काव्यं गद्यं पद्यं च तद्द्विधा ।
संस्कृतं प्राकृतं चान्यद् अपभ्रम्श इति त्रिधा ॥ भ्_१।१६ ॥
वृत्तदेवादिचरित- शंसि चोत्पाद्यवस्तु च ।
कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥ भ्_१।१७ ॥
सर्गबन्धो ऽभिनेयार्थं तथैवाख्यायिकाकथे ।
अनिबद्धं च काव्यादि तत्पुनः पञ्चधोच्यते ॥ भ्_१।१८ ॥
सर्गबन्धो महाकाव्यं महतां च महच्च यत् ।
अग्राम्यशब्दमर्थ्यं च सालङ्कारं सदाश्रयम् ॥ भ्_१।१९ ॥
मन्त्रदूतप्रयाणाजि- नायकाभ्युदयैश्च यत् ।
% मन्त्र] ।एद्म्।एद्ब्; मन्त्रि ।एद्ब्क
पञ्चभिः सन्धिभिर्युक्तं नातिव्याख्येयमृद्धिमत् ॥ भ्_१।२० ॥
%% नातिव्याख्येयम्—थिस् थेमे फ़मोउस्ल्य् रेतुर्नेद् तो इन् २:२० बेलोw
चतुर्वर्गाभिधाने ऽपि भूयसार्थोपदेशकृत् ।
युक्तं लोकस्वभावेन रसैश्च सकलैः पृथक् ॥ भ्_१।२१ ॥
नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः ।
न तस्यैव वधं ब्रूयाद् अन्योत्कर्षाभिधित्सया ॥ भ्_१।२२ ॥
यदि काव्यशरीरस्य न स व्यापितयेष्यते ।
न चाभ्युदयभाक्तस्य मुधादौ ग्रहणस्तवौ ॥ भ्_१।२३ ॥
% ग्रहणस्तवौ] ।एद्म्।एद्ब्; ग्रहणं स्तवे ।एद्ङ्ग
नाटकं द्विपदीशम्या- रासकस्कन्धकादि यत् ।
उक्तं तदभिनेयार्थम् उक्तो ऽन्यैस्तस्य विस्तरः ॥ भ्_१।२४ ॥
संस्कृतानाकुलश्रव्य- शब्दार्थपदवृत्तिना ।
% संस्कृता@] ।एद्म्; प्रकृता@ ।एद्ब्; प्रसृता@ ।एद्ब्ख; प्रकृता(सृता) ।एद्ब्घ
गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ॥ भ्_१।२५ ॥
वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम् ।
वक्त्रं चापरवक्त्रं च काले भाव्यार्थशंसि च ॥ भ्_१।२६ ॥
कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्किता ।
% कथनैः] ।एद्म्; कथानैः ।एद्ब्
कन्याहरणसङ्ग्राम- विप्रलम्भोदयान्विता ॥ भ्_१।२७ ॥
न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छासवत्यपि ।
संस्कृतासंस्कृता चेष्टा कथापभ्रंशभाक् तथा ॥ भ्_१।२८ ॥
% संस्कृतासंस्कृता] ।एद्म्; संस्कृतं संस्कृता ।एद्ब्
अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते ।
स्वगुणाविष्कृतिं कुर्याद् अभिजातः कथं जनः ॥ भ्_१।२९ ॥
% कथं जनः] ।एद्म्।एद्ब्; कथञ्चन ग्नोलि
अनिबद्धं पुनर्गाथा- श्लोकमात्रादि तत्पुनः ।
युक्तं वक्रस्वभावोक्त्या सर्वमेवैतदिष्यते ॥ भ्_१।३० ॥
वैदर्भमन्यदस्तीति मन्यन्ते सुधियो ऽपरे ।
तदेव च किल ज्यायः सदर्थमपि नापरम् ॥ भ्_१।३१ ॥
गौडीयमिदमेतत्तु वैदर्भमिति किं पृथक् ।
गतानुगतिकन्यायान् नानाख्येयममेधसाम् ॥ भ्_१।३२ ॥
ननु चाश्मकवंशादि वैदर्भमिति कथ्यते ।
% चाश्मकवंशादि] ।एद्म्।एद्ब्; * * कवंश्यादि ग्नोलि
कामं तथास्तु प्रायेण सञ्ज्ञेच्छातो विधीयते ॥ भ्_१।३३ ॥
अपुष्टार्थमवक्त्रोक्ति प्रसन्नमृजु कोमलम् ।
भिन्नं गेयमिवेदं तु केवलं श्रुतिपेशलम् ॥ भ्_१।३४ ॥
अलङ्कारवदग्राम्यम् अर्थ्यं न्याय्यमनाकुलम् ।
गौडीयमपि साधीयो वैदर्भमिति नान्यथा ॥ भ्_१।३५ ॥
न नितान्तादिमात्रेण जायते चारुता गिराम् ।
वक्राभिधेयशब्दोक्तिर् इष्टा वाचामलङ्कृतिः ॥ भ्_१।३६ ॥
% [षट् काव्यदोषाः]
नेयार्थं क्लिष्टमन्यार्थम् अवाचकमयुक्तिमत् ।
गूढशब्दाभिधानं च कवयो न प्रयुञ्जते ॥ भ्_१।३७ ॥
नेयार्थं नीयते युक्तो यस्यार्थः कृतिभिर्बलात् ।
शब्दन्यायानुपारूढः कथञ्चित्स्वाभिसन्धिना ॥ भ्_१।३८ ॥
मायेव भद्रेति यथा सा चासाध्वी प्रकल्पना ।
वेणुदाकेरिति च तां नयन्ति वचनाद्विना ॥ भ्_१।३९ ॥
% तां नयन्ति] ।एद्म्; तान्नियन्ति ।एद्ब्
%% सेवेरल् इन्तेर्प्रेततिओन्स् ओफ़् थिस् एxअम्प्ले अरे प्रेसेन्तेद् इन् ।म्स्म्, बुत् इत् रेमैन्स् म्य्स्तेरिओउस्
क्लिष्टं व्यवहितं विद्याद् अन्यार्थं विगमे यथा ।
% @न्यार्थं विगमे] ।एद्म्।एद्ब्ग; @न्यर्थविगमे ।एद्ब्
विजह्रुस्तस्य ताः शोकं क्रीडायां विकृतं च तत् ॥ भ्_१।४० ॥
%% थे अन्यार्थ इस् ऽऽएफ़्फ़ेच्तेद् ब्य् थे वि [इन् विजह्रुः]"। अप्परेन्त्ल्य् थिस् wओउल्द् चोमे उन्देर् अवाचक फ़ोर् मम्मट
हिमापहामित्रधरैर् व्याप्तं व्योमेत्यवाचकम् ।
साक्षादरूढं वाच्ये ऽर्थे नाभिधानं प्रतीयते ॥ भ्_१।४१ ॥
%% अप्परेन्ल्त्य् थिस् wओउल्द् चोमे उन्देर् क्लिष्ट फ़ोर् मम्मट
अयुक्तिमद् यथा दूता जलभृन्मारुतेन्दवः ।
% @मारुतेन्दवः] ।एद्म्।एद्ब्; @मात्रकेङच ।एद्ब्ग; @मात्र(रु?)तेषु च ।एद्ब्क
तथा भ्रमरहारीत- चक्रवाकशुकादयः ॥ भ्_१।४२ ॥
% तथा भ्रमर@] ।एद्म्।एद्ब्; तत्राभ्रमरहारीत@ ग्नोलि
अवाचो ऽव्यक्तवाचश्च दूरदेशविचारिणः ।
कथं दूत्यं प्रपद्येरन्न् इति युक्त्या न युज्यते ॥ भ्_१।४३ ॥
यदि चोत्कण्ठया यत्तद् उन्मत्त इव भाषते ।
तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ भ्_१।४४ ॥
गूढशब्दाभिधानं च न प्रयोज्यं कथञ्चन ।
सुधियामपि नैवेदम् उपकाराय कल्पते ॥ भ्_१।४५ ॥
असितर्तितुगद्रिच्छित् स्वःक्षितां पतिरद्विदृक् ।
अमिद्भिः शुभ्रदृग्दृष्टैर् द्विषो जेघ्नीयिषीष्ट वः ॥ भ्_१।४६ ॥
% असितर्तिभुगद्रिक्षित् स्वः कितां पतिरद्विदृक्। अमीभिः शुभ्रदृग्वृष्टैर्द्विषो जेघ्नीयिषीष्ट वः ।एद्ब्घ
%% इन्तेर्प्रेतेद् इन् ।म्स्म्। wइथ् थे ऐद् ओफ़् रत्नेश्वरसूरिऽस् चोम्मेन्तर्य् ओन् थे सरस्वतीकण्ठाभरण
%% [अपरे चत्वारो दोषाः]
श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि ।
श्रुतिकष्टं तथैवाहुर् वाचं दोषं चतुर्विधम् ॥ भ्_१।४७ ॥
विड्वर्चोविष्ठितक्लिन्नच्- छिन्नवान्तप्रवृत्तयः ।
% @क्लिन्नच्छिन्न@] ।एद्म्।एद्ब्; @च्छिन्नक्लिन्न@ ।एद्ब्क
प्रचारधर्षितोद्गार- विसर्गहदयन्त्रिताः ॥ भ्_१।४८ ॥
% @हदयन्त्रिताः] ।एद्म्।एद्ब्; @हदयन्तृताः ।एद्ब्ग
हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः ।
वाक्काटवादयश्चेति श्रुतिदुष्टा मता गिरः ॥ भ्_१।४९ ॥
अर्थदुष्टं पुनर्ज्ञेयं यत्रोक्ते जायते मतिः ।
असभ्यवस्तुविषया शब्दैस्तद्वाचिभिर्यथा ॥ भ्_१।५० ॥
हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
% स्तब्धस्य] ।एद्म्।एद्ब्; स्तम्भस्य ।एद्ब्ग
पतनं जायते ऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥ भ्_१।५१ ॥
पदद्वयस्य सन्धाने यदनिष्टं प्रकल्पते ।
% प्रकल्पते] ।एद्म्।एद्ब्; प्रगल्भते ।एद्ब्क; प्रकल्प्यते ।एद्ब्घ
तदाहुः कल्पनादुष्टं स शौर्याभरणो यथा ॥ भ्_१।५२ ॥
यथा।अजिह्लददित्यादि श्रुतिकष्टं च तद्विदुः ।
न तद् इच्छन्ति कृतिनो गण्डमप्यपरे किल ॥ भ्_१।५३ ॥
सन्निवेशविशेषात्तु दुरुक्तमपि शोभते ।
नीलं पलाशमाबद्धम् अन्तराले स्रजामिव ॥ भ्_१।५४ ॥
किञ्चिदाश्रयसौन्दर्याद् धत्ते शोभामसाध्वपि ।
कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ भ्_१।५५ ॥
आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे ।
सङ्गमात् पाण्डुशब्दस्य गण्डः साधु यथोदितम् ॥ भ्_१।५६ ॥
अनयान्यद् अपि ज्ञेयं दिशा युक्तमसाध्वपि ।
यथा विक्लिन्नगण्डानां करिणां मदवारिभिः ॥ भ्_१।५७ ॥
% मद@] ।एद्म्।एद्ब्; मुद@ ।एद्ब्घ
मदक्लिन्नकपोलानां द्विरदानां चतुःशती ।
यथा तद्वदसाधीयः साधीयश्च प्रयोजयेत् ॥ भ्_१।५८ ॥
एतद् ग्राह्यं सुरभि कुसुमं ग्राम्यम् एतन्निधेयं धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य ।
मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम् ॥ भ्_१।५९ ॥
।चोलो
इति भामहालङ्कारे प्रथमः परिच्छेदः
।छप्तेर्
द्वितीयः परिच्छेदः
माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः ।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥ भ्_२।१ ॥
केचिदोजो ऽभिधित्सन्तः समस्यन्ति बहून्यपि ।
यथा मन्दारकुसुम- रेणुपिञ्जरितालका ॥ भ्_२।२ ॥
श्रव्यं नातिसमस्तार्थं काव्यं मधुरमिष्यते ।
आविद्वदङ्गनाबाल- प्रतीतार्थं प्रसादवत् ॥ भ्_२।३ ॥
अनुप्रासः सयमको रूपकं दीपकोपमे ।
इति वाचामलङ्काराः पञ्चैवान्यैरुदाहृताः ॥ भ्_२।४ ॥
सरूपवर्णविन्यासम् अनुप्रासं प्रचक्षते ।
किं तया चिन्तया कान्ते नितान्तेति यथोदितम् ॥ भ्_२।५ ॥
ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियो ऽपरे ।
स लोलमालानीलालि- कुलाकुलगलो बलः ॥ भ्_२।६ ॥
नानार्थवन्तो ऽनुप्रासा न चाप्यसदृशाक्षराः ।
युक्त्यानया मध्यमया जायन्ते चारवो गिरः ॥ भ्_२।७ ॥
लाटीयमप्यनुप्रासम् इहेच्छन्त्यपरे यथा ।
दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ॥ भ्_२।८ ॥
आदिमध्यान्तयमकं पादाभ्यासं तथावली ।
समस्तपादयमकम् इत्येतत् पञ्चधोच्यते ॥ भ्_२।९ ॥
सन्दष्टकसमुद्गादेर् अत्रैवान्तर्गतिर्मता ।
आदौ मध्यान्तयोर्वा स्याद् इति पञ्चैव तद्यथा ॥ भ्_२।१० ॥
साधुना साधुना तेन राजता राजता भृता ।
सहितं सहितं कर्तुं सङ्गतं सङ्गतं जनम् ॥ भ्_२।११ ॥
साधुः संसाराद्बिभ्यदस्मादसारात् कृत्वा क्लेशान्तं याति वर्त्म प्रशान्तम् ।
जातिं व्याधीनां दुर्दमानामधीनां वाञ्छञ्ज्यायस्त्वं छिन्धि मुक्तानयस्त्वम् ॥ भ्_२।१२ ॥
% दुर्दमानाम्] ।एद्म्; दुर्नयानाम् ।एद्ब्; दुर्दयानाम् ।एद्ब्ग
% वाञ्छञ्ज्यायस्त्वं छिन्धि मुक्तानयस्त्वम् ।एद्म्; वाञ्छन्त्या(ञ्ज्या?)यस्त्वं छिन्धि मुक्तान(म?)यस्त्वम् ।एद्ब्
न ते धिर्धीर भोगेषु रमणीयेषु सङ्गता ।
मुनीनपि हरन्त्येते रमणी येषु सङ्गता ॥ भ्_२।१३ ॥
%% [पादाभ्यास]
सितासिताक्षीं सुपयोधराधरां सुसम्मदां व्यक्तमदां ललामदाम् ।
घनाघना नीलघना घनालकां प्रियामिमामुत्सुकयन्ति यन्ति च ॥ भ्_२।१४ ॥
%% [आवली]
अमी नृपा दत्तसमग्रशासनाः कदाचिदप्यप्रतिबद्धशासनाः ।
कृतागसां मार्गभिदां च शासनाः पितृक्रमाध्यासिततादृशासनाः ॥ भ्_२।१५ ॥
%% [समस्तपादयमकम्]
अनन्तरैकान्तरयोर् एवं पादान्तयोरपि ।
कृत्स्नं च सर्वपादेषु दुष्करं साधु तादृशम् ॥ भ्_२।१६ ॥
% दुष्करम्] ।एद्म्; दुष्कृतम् ।एद्ब्
तुल्यश्रुतीनां भिन्नानाम् अभिधेयैः परस्परम् ।
वर्णानां यः पुनर्वादो यमकं तन्निगद्यते ॥ भ्_२।१७ ॥
प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च ।
प्रसादि स्वभिधानं च यमकं कृतिनां मतम् ॥ भ्_२।१८ ॥
नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी ।
प्रहेलिका सा ह्युदिता रामशर्माच्युतोत्तरे ॥ भ्_२।१९ ॥
काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् ।
उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ॥ भ्_२।२० ॥
उपमानेन यत्तत्त्वम् उपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥ भ्_२।२१ ॥
समस्तवस्तुविषयम् एकदेशविवर्ति च ।
द्विधा रूपकमुद्दिष्टम् एतत्तच्चोच्यते यथा ॥ भ्_२।२२ ॥
शीकराम्भोमदसृजस् तुङ्गा जलददन्तिनः ।
निर्यान्तो मदयन्तीमे शक्रकार्मुकवारणाः ॥ भ्_२।२३ ॥
% मदयन्तीमे शक्रकार्मुकवारणाः] ।एद्म्(चोन्ज्); मण्डयन्तीमे शक्रकार्मुककाननम् ।एद्ब्; मदयन्तीमे शक्रकार्मुककारणम् ।एद्ब्ग
तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् ।
% तडिद्वलय@] ।एद्ब्; तटिद्वलय@ ।एद्म्
पयोमुचां ध्वनिर्धीरो दुनोति मम तां प्रियाम् ॥ भ्_२।२४ ॥
आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते ।
एकस्यैव त्र्यवस्थत्वाद् इति तद्भिद्यते त्रिधा ॥ भ्_२।२५ ॥
अमूनि कुर्वते ऽन्वर्थाम् अस्याख्यामर्थदीपनात् ।
त्रिभिर्निदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ॥ भ्_२।२६ ॥
मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् ।
% सानङ्गम्] ।एद्म्।एद्ब्; सानलां ।एद्ब्क
स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ॥ भ्_२।२७ ॥
मालिनीरंशुकभृतः स्त्रियो ऽलङ्कुरुते मधुः ।
हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥ भ्_२।२८ ॥
चीरीमवतीररण्यानीः सरितः शुष्यदम्भसः ।
% चीरी@] ।एद्म्।एद्ब्; चरी@ ।एद्ब्क
प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥ भ्_२।२९ ॥
विरुद्धेनोपमानेन देशकालक्रियादिभिः ।
उपमेयस्य यत्साम्यं गुणलेशेन सोपमा ॥ भ्_२।३० ॥
यथेवशब्दौ सादृश्यम् आहतुर्व्यतिरेकिणोः ।
दूर्वाकाण्डमिव श्यामं तन्वी श्यामालता यथा ॥ भ्_२।३१ ॥
% श्यामम्] ।एद्म्।एद्ब्; श्यामा ।एद्ब्घ
% श्यामालता] ।एद्म्।एद्ब्; श्यामलता ।एद्ब्ग।एद्ब्घ
विना यथेवशब्दाभ्यां समासाभिहिता परा ।
यथा कमलपत्राक्षी शशाङ्कवदनेति च ॥ भ्_२।३२ ॥
वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते ।
द्विजातिवदधीते ऽसौ गुरुवच्चानुशास्ति नः ॥ भ्_२।३३ ॥
समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते ।
यथेवानभिधाने ऽपि गुणसाम्यप्रतीतितः ॥ भ्_२।३४ ॥
साधुसाधारणत्वादिर् गुणो ऽत्र व्यतिरिच्यते ।
स साम्यमापादयति विरोधे ऽपि तयोर्यथा ॥ भ्_२।३५ ॥
कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः ।
स्वादुपाकफलानम्राः कियन्तो वाध्वशाखिनः ॥ भ्_२।३६ ॥
यदुक्तं त्रिप्रकारत्वं तस्याः कैश्चिन्महात्मभिः ।
निन्दाप्रशंसाचिख्यासा- भेदादत्राभिधीयते ॥ भ्_२।३७ ॥
सामान्यगुणनिर्देशात् त्रयमप्युदितं ननु ।
मालोपमादिः सर्वो ऽपि न ज्यायान् विस्तरो मुधा ॥ भ्_२।३८ ॥
हीनतासम्भवो लिङ्ग- वचोभेदो विपर्ययः ।
उपमानाधिकत्वं च तेनासदृशतापि च ॥ भ्_२।३९ ॥
त एत उपमादोषाः सप्त मेधाविनोदिताः ।
सोदाहरणलक्ष्माणो वर्ण्यन्ते ऽत्र च ते पृथक् ॥ भ्_२।४० ॥
स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासमब्जम् ।
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ॥ भ्_२।४१ ॥
%% चितेद् ब्य् नमिसाधु अद् कावालङ्कार ओफ़् रुद्रट ११:२४ wइथ् शशिभासि शङ्खम् (लेच्तिओ फ़चिलिओर्?)
शक्रचापग्रहादत्र दर्शितं किल कार्मुकम् ।
वासःशङ्खानुपादानाद् धीनमित्यभिधीयते ॥ भ्_२।४२ ॥
सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् ।
यथोपपत्ति कृतिभिर् उपमासु प्रयुज्यते ॥ भ्_२।४३ ॥
अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति ।
यत्किञ्चित्कान्तिसामान्याच् छशिनैवोपमीयते ॥ भ्_२।४४ ॥
किं च काव्यानि नेयानि लक्षणेन महात्मनाम् ।
दृष्टं वा सर्वसारूप्यं राजमित्रे यथोदितम् ॥ भ्_२।४५ ॥
सूर्यांशसम्मीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु ।
साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥ भ्_२।४६ ॥
% विनेशुः] ।एद्म्।एद्ब्; विनेदुः ।एद्ब्क
%% थिस् वेर्से इस् चितेद् ब्य् वामन इन् हिस् काव्यालङ्कारसूत्रवृत्ति अद् ४।२।१०
निष्पेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणो ऽर्कात् ॥ भ्_२।४७ ॥
शाकवर्धनस्य
%% [इल्लुस्त्रतिओन् ओफ़् असम्भव; क़ुओतेद् इन् थे १०थ् उल्लास ओफ़् मम्मटऽस् काव्यप्रकाश]
कथं पातो ऽम्बुधाराणां ज्वलन्तीनां विवस्वतः ।
असम्भवादयं युक्त्या तेनासम्भव उच्यते ॥ भ्_२।४८ ॥
तत्रासम्भविनार्थेन कः कुर्यादुपमां कृती ।
को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मणः ॥ भ्_२।४९ ॥
यस्यातिशयवानर्थः कथं सो ऽसम्भवो मतः ।
इष्टं चातिशयार्थत्वम् उपमोत्प्रेक्षयोर्यथा ॥ भ्_२।५० ॥
पुञ्जीभूतमिव ध्वान्तम् एष भाति मतङ्गजः ।
सरः शरत्प्रसन्नाम्भो नभःखण्डमिवोज्झितम् ॥ भ्_२।५१ ॥
%% नोते थत्, फ़ोर् भामह, लिङ्गभेद इस् नोत् अ प्रोब्लेम् इन् उपमास् इफ़् थे गेन्देर्स् अरे मस्चुलिने अन्द् नेउतेर्, अस् हे एxप्लैन्स् बेलोw (२:५७)।
अथ लिङ्गवचोभेदाव् उच्येते सविपर्ययौ ।
हीनाधिकत्वात् स द्वेधा त्रयमप्युच्यते यथा ॥ भ्_२।५२ ॥
अविगाह्यो ऽसि नारीणाम् अनन्यमनसामपि ।
विषमोपलभिन्नोर्मिर् आपगेवोत्तितीर्षतः ॥ भ्_२।५३ ॥
क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ भ्_२।५४ ॥
%% ।एद्म्। नोतेस् थत् थे वेर्से इस् चितेद् इन् केशवमिश्रऽस् अलङ्कारशेखर (व्।१)
अयं पद्मासनासीनश् चक्रवाको विराजते ।
युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ भ्_२।५५ ॥
ननूपमीयते पाणिः कमलेन विकासिना ।
अधरो विद्रुमच्छेद- भासा बिम्बफलेन च ॥ भ्_२।५६ ॥
उच्यते काममस्तीदं किं तु स्त्रीपुंसयोरयम् ।
विधिर्नाभिमतो ऽन्यैस्तु त्रयाणामपि नेष्यते ॥ भ्_२।५७ ॥
स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥ भ्_२।५८ ॥
रामशर्मणः
शशिनो ग्रहणादेतद् आधिक्यं किल न ह्ययम् ।
निर्दिष्ट उपमेये ऽर्थे वाच्यो वा जलजो ऽत्र तु ॥ भ्_२।५९ ॥
% जलजो] ।एद्म्; जलदो ।एद्ब्
%% जलज मुस्त् रेफ़ेर् हेरे तो थे चोन्छ्।
न सर्वसारूप्यमिति विस्तरेणोदितो विधिः ।
अभिप्रायात्कवेर्नात्र विधेया जलजे मतिः ॥ भ्_२।६० ॥
%% भामह मिघ्त् बे इन्तेन्दिन्ग् तो चोन्वेय् थत् हे इस् नोत् दोग्मतिच् ओन् थे पोइन्त् ब्य् सुग्गेस्तिन्ग् थत् रामशर्मन् मिघ्त् हवे इन्तेन्देद् थे इम्बलन्चे।
आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत् ।
% न्याय्यम्] ।एद्म्।एद्ब्; न्याय्या ।एद्ब्घ
गोक्षीरकुन्दहलिनां विशुद्ध्या सदृशं यशः ॥ भ्_२।६१ ॥
एकेनैवोपमानेन ननु सादृश्यमुच्यते ।
% एकेनै@] ।एद्म्।एद्ब्; एतेनै@ ।एद्ब्ग
उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ॥ भ्_२।६२ ॥
%% नो अन्स्wएर् गिवेन् तो थिस् ओब्जेच्तिओन्।
वने ऽथ तस्मिन्वनितानुयायिनः प्रवृत्तदानार्द्रकटा मतङ्गजाः ।
%% क़ुओतेद् ब्य् नमिसाधु अद् रुद्रटऽस् काव्यालङ्कार ११:२४, रेअदिन्ग् वनिताविहारिणः प्रभिन्नदानार्द्रकटा मतङ्गजाः
विचित्रबर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः ॥ भ्_२।६३ ॥
ग्रहैरपि गजादीनां यदि सादृश्यमुच्यते ।
तथापि तेषां तैरस्ति कान्तिर्वाप्युग्रतापि वा ॥ भ्_२।६४ ॥
इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः ।
उपमादेरलङ्काराद् विशेषो ऽन्यो ऽभिधीयते ॥ भ्_२।६५ ॥
%% [अपरे षडलङ्काराः]
आक्षेपो ऽर्थान्तरन्यासो व्यतिरेको विभावना ।
समासातिशयोक्ती च षडलङ्कृतयो ऽपराः ॥ भ्_२।६६ ॥
वक्ष्यमाणोक्तविषयस् तत्राक्षेपो द्विधा मतः ।
एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ॥ भ्_२।६७ ॥
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥ भ्_२।६८ ॥
% आक्षेप इति] ।एद्म्।एद्ब्; आक्षेपमिति ग्नोलि
अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।
% त्वाम्] ।एद्म्।एद्ब्; त्वा ।एद्ब्ग
इयदेवास्त्वतो ऽन्येन किमुक्तेनाप्रियेण ते ॥ भ्_२।६९ ॥
% इयदेवास्त्वतो ऽन्येन] ।एद्म्।एद्ब्; इयदेवास्तु वान्येन ।ग्नोलि
%% [थुस् वक्ष्यमाणविषय आक्षेप]
स्वविक्रमाक्रान्तभुवश् चित्रं यन्न तवोद्धतिः ।
% स्वविक्रमाक्रान्त@] ।एद्म्; स्वविक्रमान्त@ ।एद्ब्।उन्मेत्रिचल्
को वा हेतुरलं सिन्धोर् विकारकरणं प्रति ॥ भ्_२।७० ॥
% को वा हेतुरलम्] ।एद्ग्नोलि; को वा सेतुरलं ।एद्म्।एद्ब्
उपन्यसनमन्यस्य यदर्थस्योदितादृते ।
ज्ञेयः सो ऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥ भ्_२।७१ ॥
परानीकानि भीमानि विविक्षोर्न तव व्यथा ।
साधु वासाधु वागामि पुंसामात्मैव शंसति ॥ भ्_२।७२ ॥
%% च्हेच्क् नमिसाधु ओन् रुद्रटऽस् काव्यालङ्कार अद् ८:२४
हिशब्देनापि हेत्वर्थ- प्रथनादुक्तसिद्धये ।
अयमर्थान्तरन्यासः सुतरां व्यज्यते यथा ॥ भ्_२।७३ ॥
वहन्ति गिरयो मेघान् अभ्युपेतान् गुरूनपि ।
गरीयानेव हि गुरून् बिभर्ति प्रणयागतान् ॥ भ्_२।७४ ॥
उपमानवतो ऽर्थस्य यद्विशेषनिदर्शनम् ।
व्यतिरेकं तमिच्छन्ति विशेषापादनाद्यथा ॥ भ्_२।७५ ॥
सितासिते पक्ष्मवती नेत्रे ते ताम्रराजिनी ।
एकान्तशुभ्रश्यामे तु पुण्डरीकासितोत्पले ॥ भ्_२।७६ ॥
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ भ्_२।७७ ॥
अपीतमत्ताः शिखिनो दिशो ऽनुत्कण्ठिताकुलाः ।
नीपो ऽविलिप्तसुरभिर् अभ्रष्टकलुषं जलम् ॥ भ्_२।७८ ॥
यत्रोक्ते गम्यते ऽन्यो ऽर्थस् तत्समानविशेषणः ।
सा समासोक्तिरुद्दिष्टा सङ्क्षिप्तार्थतया यथा ॥ भ्_२।७९ ॥
% सङ्क्षिप्तार्थतया यथा] ।एद्म्।एद्ब्; सङ्क्षिप्तार्था यथा तथा ।एद्ब्क
स्कन्धवानृजुरव्यालः स्थिरो ऽनेकमहाफलः ।
जातस्तरुरयं चोच्चैः पातितश्च नभस्वता ॥ भ्_२।८० ॥
निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।
मन्यन्ते ऽतिशयोक्तिं ताम् अलङ्कारतया यथा ॥ भ्_२।८१ ॥
स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः ।
अन्वमीयन्त भृङ्गालि- वाचा सप्तच्छदद्रुमाः ॥ भ्_२।८२ ॥
अपां यदि त्वक्छिथिला च्युता स्यात् फणिनामिव ।
तदा शुक्लांशुकानि स्युर् अङ्गेष्वम्भसि योषिताम् ॥ भ्_२।८३ ॥
% @शुकानि स्युरङ्गे@] ।एद्म्।एद्ब्; @शुकान्य् आसन्न् अङ्गे@ ग्नोलि
इत्येवमादिरुदिता गुणातिशययोगतः ।
सर्वैवातिशयोक्तिस्तु तर्कयेत्तां यथागमम् ॥ भ्_२।८४ ॥
सैष सर्वैव वक्रोक्तिर् अनयार्थो विभाव्यते ।
यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना ॥ भ्_२।८५ ॥
हेतुश्च सूक्ष्मो लेशो ऽथ नालङ्कारतया मतः ।
समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ॥ भ्_२।८६ ॥
गतो ऽस्तमर्को भातीन्दुर् यान्ति वासाय पक्षिणः ।
%% चितेद् ब्य् दण्डिन् इन् काव्यादर्श २:२४४
इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते ॥ भ्_२।८७ ॥
यथासङ्ख्यमथोत्प्रेक्षाम् अलङ्कारद्वयं विदुः ।
सङ्ख्यानमिति मेधाविन्- ओत्प्रेक्षाभिहिता क्वचित् ॥ भ्_२।८८ ॥
भूयसामुपदिष्टानाम् अर्थानामसधर्मणाम् ।
क्रमशो यो ऽनुनिर्देशो यथासङ्ख्यं तदुच्यते ॥ भ्_२।८९ ॥
पद्मेन्दुभृङ्गमातङ्ग- पुंस्कोकिलकलापिनः ।
वक्त्रकान्तीक्षणगति- वाणीवालैस्त्वया जिताः ॥ भ्_२।९० ॥
अविवक्षितसामान्या किञ्चिच्चोपमया सह ।
अतद्गुणक्रियायोगाद् उत्प्रेक्षातिशयान्विता ॥ भ्_२।९१ ॥
किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।
दग्धादग्धमरण्यान्याः पश्यतीव विभावसुः ॥ भ्_२।९२ ॥
स्वभावोक्तिरलङ्कार इति केचित् प्रचक्षते ।
अर्थस्य तदवस्थत्वं स्वभावो ऽभिहितो यथा ॥ भ्_२।९३ ॥
आक्रोशन्नाह्वयन्नन्यान् आधावन्मण्डलै रुदन् ।
% मण्डलै रुदन्] ।एद्म्; मण्डलैर्नुदन् ।एद्ब्
गा वारयति दण्डेन डिम्भः सस्यावतारणीः ॥ भ्_२।९४ ॥
% सस्या@] ।एद्म्; शस्या@ ।एद्ब्
समासेनोदितमिदं धीखेदायैव विस्तरः ।
असङ्गृहीतमप्यन्यद् अभ्यूह्यमनया दिशा ॥ भ्_२।९५ ॥
स्वयं कृतैरेव निदर्शनैरियं मया प्रकॢप्ता खलु वागलङ्कृतिः ।
अतः परं चारुरनेकधापरो गिरामलङ्कारविधिर्विधास्यते ॥ भ्_२।९६ ॥
।चोलो
इति भामहालङ्कारे द्वितीयः परिच्छेदः
।छप्तेर्
तृतीयः परिच्छेदः
प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ।
द्विप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ॥ भ्_३।१ ॥
अपह्नुतिं विशेषोक्तं विरोधं तुल्ययोगिताम् ।
% विरोधम्] ।एद्म्; विशेषं ।एद्ब्
अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ॥ भ्_३।२ ॥
उपमारूपकं चान्यद् उपमेयोपमामपि ।
सहोक्तिपरिवृत्ती च ससन्देहमनन्वयम् ॥ भ्_३।३ ॥
उत्प्रेक्षावयवं चान्ये संसृष्टिमपि चापरे ।
% संसृष्टिमपि] ।एद्म्; संसृष्टमपि ।एद्ब्
भाविकत्वं च निजगुर् अलङ्कारं सुमेधसः ॥ भ्_३।४ ॥
प्रेयो गृहागतं कृष्णम् अवादीद्विदुरो यथा ।
अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत् प्रीतिस् तवैवागमनात् पुनः ॥ भ्_३।५ ॥
%% चितेद् ब्य् दण्डिन् अस् काव्यादर्श २:२७६
%% च्फ़्। वेर्से रेलेगतेद् तो अप्पेन्दिx ओफ़् च्रित्। एद्। ओफ़् महाभारत:
%%% ५।९०।२८
%%% अफ़्तेर् २८, क्४ ब् द्न्
%%% द्स् द्२ (मर्ग्।)।३-९ इन्स्।:
%% ०५०४१७_०१ या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा
%% ०५०४१७_०२ सा किम् आख्यायते तुभ्यम् अन्तरात्मासि देहिनाम्
रसवद्दर्शितस्पष्ट- शृङ्गारादिरसं यथा ।
देवी समागमद्धर्म मस्करिण्यतिरोहिता ॥ भ्_३।६ ॥
ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः ।
द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः ॥ भ्_३।७ ॥
पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।
उवाच रत्नाहरणे चैद्यं शार्ङ्गधनुर्यथा ॥ भ्_३।८ ॥
गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः ।
न भुञ्जते द्विजास्तच्च रसदाननिवृत्तये ॥ भ्_३।९ ॥
समाहितं राजमित्रे यथा क्षत्रिययोषिताम् ।
रामप्रसत्त्यै यान्तीनां पुरो ऽदृश्यत नारदः ॥ भ्_३।१० ॥
% @प्रसत्त्यै] ।एद्म्; @प्रसक्त्यै ।एद्ब्
उदात्तं शक्तिमान् रामो गुरुवाक्यानुरोधकः ।
% उदात्तम्] ।एद्म्; उदात्त@ ।एद्ब्
विहायोपनतं राज्यं यथा वनमुपागतम् ॥ भ्_३।११ ॥
% विहायोपनतम्] ।एद्म्।एद्ब्; विहायोपवनं ।एद्ब्ग
एतदेवापरे ऽन्येन व्याख्यानेनान्यथा विदुः ।
नानारत्नादियुक्तं यत् तत्किलोदात्तमुच्यते ॥ भ्_३।१२ ॥
चाणक्यो नक्तमुपयान्न् अन्दक्रीडागृहं यथा ।
शशिकान्तोपलच्छन्नं विवेद पयसां कणैः ॥ भ्_३।१३ ॥
% कणैः] ।एद्म्; ग(क?)णैः ।एद्ब्
उपमानेन यत्तत्त्वम् उपमेयस्य साध्यते ।
गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥ भ्_३।१४ ॥
लक्षणं रूपके ऽपीदं लक्ष्यते काममत्र तु ।
इष्टः प्रयोगो युगपद् उपमानोपमेययोः ॥ भ्_३।१५ ॥
% चोउल्द् इष्टः बे अ चोर्रुप्तिओन् ओफ़् श्लिष्टः ?
शीकराम्भोमदसृजस् तुङ्गा जलददन्तिनः ।
इत्यत्र मेघकरिणां निर्देशः क्रियते समम् ॥ भ्_३।१६ ॥
श्लेषादेवार्थवचसोर् अस्य च क्रियते भिदा ।
तत्सहोक्त्युपमाहेतु- निर्देशात्त्रिविधं यथा ॥ भ्_३।१७ ॥
% @हेतुनिर्देशात्त्रिविधम्] ।एद्म्; @हेतुनिर्देशात् क्रमशो ।एद्ब्; @हेतुर्निर्देशात् क्रमशो ।एद्ब्घ
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ भ्_३।१८ ॥
%% [—अ चोम्बिनतिओन् ओफ़् श्लिष्ट अन्द् सहोक्ति]
उन्नता लोकदयिता महान्तः प्राज्यवर्षिणः ।
शमयन्ति क्षितेस्तापं सुराजानो घना इव ॥ भ्_३।१९ ॥
%% [—अ चोम्बिनतिओन् ओफ़् श्लिष्ट अन्द् उपमा]
रत्नवत्त्वादगाधत्वात् स्वमर्यादाविलङ्घनात् ।
बहुसत्त्वाश्रयत्वाच्च सदृशस्त्वमुदन्वता ॥ भ्_३।२० ॥
%% [—अ चोम्बिनतिओन् ओफ़् श्लिष्ट अन्द् हेतुनिर्देश]
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ॥ भ्_३।२१ ॥
नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ भ्_३।२२ ॥
% अयमाकृष्यमाणस्य] ।एद्म्।एद्ब्; अयमाक्रन्दमाणस्य ।एद्ब्ग
एकदेशस्य विगमे या गुणान्तरसंस्थितिः ।
विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ॥ भ्_३।२३ ॥
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥ भ्_३।२४ ॥
%% चोन्त्रस्त् wइथ् विभावना ओफ़् २:७७।
गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा ।
या विशेषाभिधानाय विरोधं तं विदुर्बुधाः ॥ भ्_३।२५ ॥
उपान्तरूढोपवनच्- छायाशीतापि धूरसौ ।
विदूरदेशानपि वः सन्तापयति विद्विषः ॥ भ्_३।२६ ॥
न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।
तुल्यकार्यक्रियायोगाद् इत्युक्ता तुल्ययोगिता ॥ भ्_३।२७ ॥
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः ।
यदलङ्घितमर्यादाश् चलन्तीं बिभृथ क्षितिम् ॥ भ्_३।२८ ॥
%% चितेद् इन् थे ध्वन्यालोक
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥ भ्_३।२९ ॥
प्रीणितप्रणयि स्वादु काले परिणतं बहु ।
विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥ भ्_३।३० ॥
दूराधिकगुणस्तोत्र- व्यपदेशेन तुल्यताम् ।
किञ्चिद्विधित्सोर्या निन्दा व्याजस्तुतिरसौ यथा ॥ भ्_३।३१ ॥
रामः सप्ताभिनत् सालान् गिरिं क्रौञ्चं भृगूत्तमः ।
% सालान्] ।एद्म्; सा(ता?)लान् ।एद्ब्
शतांशेनापि भवता किं तयोः सदृशं कृतम् ॥ भ्_३।३२ ॥
क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् ।
ज्ञेया निदर्शना नाम यथेववतिभिर्विना ॥ भ्_३।३३ ॥
अयं मन्दद्युतिर्भास्वान् अस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ भ्_३।३४ ॥
उपमानेन तद्भावम् उपमेयस्य साधयन् ।
% साधयन्] ।एद्म्; साधयत् ।एद्ब्
यां वदत्युपमामेतद् उपमारूपकं यथा ॥ भ्_३।३५ ॥
समग्रगगनायाम- मानदण्डो रथाङ्गिनः ।
पादो जयति सिद्धस्त्री- मुखेन्दुनवदर्पणः ॥ भ्_३।३६ ॥
%% इस् इत् थत् थे फ़ोओत् इस् फ़िर्स्त् “चोम्परेद्” तो अ मेअसुरिन्ग् रोद् अन्द् थेन् wइथ् अ मिर्रोर् फ़ोर् थे फ़चेस् ओफ़् थे चेलेस्तिअल् wओमेन् थत् मकेस् थिस् उपमारूपक? ।एद्म्। अल्सो पुज़्ज़्लेद्।
उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ।
उपमेयोपमां नाम ब्रुवते तां यथोदितम् ॥ भ्_३।३७ ॥
% यथोदितम्] ।एद्म्; यथोदिताम् ।एद्ब्
सुगन्धि नयनानन्दि मदिरामदपाटलम् ।
अम्भोजमिव वक्त्रं ते त्वदास्यमिव पङ्कजम् ॥ भ्_३।३८ ॥
तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रये ।
पदेनैकेन कथ्यते सहोक्तिः सा मता यथा ॥ भ्_३।३९ ॥
हिमपाताविलदिशो गाढालिङ्गनहेतवः ।
वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ॥ भ्_३।४० ॥
विशिष्टस्य यदादानम् अन्यापोहेन वस्तुनः ।
अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥ भ्_३।४१ ॥
प्रदाय वित्तमर्थिभ्यः स यशोधनमाअदित ।
% यशोधनमादित] ।एद्म्; यशोधनमादितः ।एद्ब्
%% (आदित इस् अन् अओरिस्त् ओफ़् आदा)
सतां विश्वजनीनानाम् इदमस्खलितं व्रतम् ॥ भ्_३।४२ ॥
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ॥ भ्_३।४३ ॥
किमयं शशी न स दिवा विराजते कुसुमायुधो न धनुरस्य कौसुमम् ।
इति विस्मयाद्विमृशतो ऽपि मे मतिस् त्वयि वीक्षते न लभते ऽर्थनिश्चयम् ॥ भ्_३।४४ ॥
यत्र तेनैव तस्य स्याद् उपमानोपमेयता ।
असादृश्यविवक्षातस् तमित्याहुरनन्वयम् ॥ भ्_३।४५ ॥
ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।
इन्दीवराभनयनं तवेव वदनं तव ॥ भ्_३।४६ ॥
श्लिष्टस्यार्थेन संयुक्तः किञ्चिदुत्प्रेक्षयान्वितः ।
रूपकार्थेन च पुनर् उत्प्रेक्षावयवो यथा ॥ भ्_३।४७ ॥
तुल्योदयावसानत्वाद् गते ऽस्तं प्रति भास्वति ।
वासाय वासरः क्लान्तो विशतीव तमोगृहम् ॥ भ्_३।४८ ॥
वरा विभूषा संसृष्टिर् बह्वलङ्कारयोगतः ।
रचिता रत्नमालेव सा चैवमुदिता यथा ॥ भ्_३।४९ ॥
गाम्भीर्यलावण्यवतोर् युवयोः प्राज्यरत्नयोः ।
% @लावण्य@] ।एद्म्; @लाघव@ ।एद्ब्
सुखसेव्यो जनानां त्वं दुष्टग्राहो ऽम्भसां पतिः ॥ भ्_३।५० ॥
%% [—थुस् संसृष्टि ओफ़् श्लिष्ट अन्द् व्यतिरेक]
अनलङ्कृतकान्तं ते वदनं वनजद्युति ।
निशाकृतः प्रकृत्यैव चारोः का वास्त्यलङ्कृतिः ॥ भ्_३।५१ ॥
% निशाकृतः] ।एद्म्।एद्ब्; निशाकृतं ।एद्ब्ग
%% [—थुस् संसृष्टि ओफ़् विभावना, उपमा अन्द् अर्थान्तरन्यास]
अन्येषामपि कर्तव्या संसृष्टिरनया दिशा ।
कियदुद्घट्टितज्ञेभ्यः शक्यं कथयितुं मया ॥ भ्_३।५२ ॥
भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ॥ भ्_३।५३ ॥
चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता ।
% स्वभिनीतता] ।एद्म्।एद्ब्; स्वविनीतता ।एद्ब्घ
शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते ॥ भ्_३।५४ ॥
% हेतून्] तेस्तिमोनिअ (रुय्यक अन्द् इन्दुराजऽस् चोम्म्। ओन् उद्भटऽस् काव्यालङ्कारसङ्ग्रह); हेतुं ।एद्म्।एद्ब्
आशीरपि च केषाञ्चिद् अलङ्कारतया मता ।
सौहृदय्याविरोधोक्तौ प्रयोगो ऽस्याश्च तद्यथा ॥ भ्_३।५५ ॥
% सौहृदय्या@] ।एद्म्; सौहृदय्या(स्या?) ।एद्ब्
अस्मिञ् जहीहि सुहृदि प्रणयाभ्यसूयाम् आश्लिष्य गाढममुमानतमादरेण ।
विन्ध्यं महानिव घनः समये ऽभिवर्षन्न् आनन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥ भ्_३।५६ ॥
मदान्धमातङ्गविभिन्नसाला हतप्रवीरा द्रुतभीतपौराः ।
त्वत्तेजसा दग्धसमस्तशोभा द्विषां पुरः पश्यतु राजलोकः ॥ भ्_३।५७ ॥
गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः ।
अनेन वागर्थविदामलङ्कृता विभाति नारीव विदग्धमण्डना ॥ भ्_३।५८ ॥
।चोलो
इति भामहालङ्कारे तृतीयः परिच्छेदः
।छप्तेर्
चतुर्थः परिच्छेदः
अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ॥ भ्_४।१ ॥
देशकालकलालोक- न्यायागमविरोधि च ।
प्रतिज्ञाहेतुदृष्टान्त- हीनं दुष्टं च नेष्यते ॥ भ्_४।२ ॥
अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः ।
अर्थवान् वर्णसङ्घातः सुप्तिङन्तं पदं पुनः ॥ भ्_४।३ ॥
पदानामेव सङ्घातः सापेक्षाणां परस्परम् ।
निराकाङ्क्षं च तद्वाक्यम् एकवस्तुनिबन्धनम् ॥ भ्_४।४ ॥
क्रमवृत्तिषु वर्णेषु सङ्घातादि न युज्यते ।
बुद्धौ तु सम्भवत्येतद् अन्यत्वे ऽपि प्रतिक्षणम् ॥ भ्_४।५ ॥
धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः ।
वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥ भ्_४।६ ॥
अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।
गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥ भ्_४।७ ॥
समुदायार्थशून्यं यत् तदपार्थकमिष्यते ।
दाडिमानि दशापूपाः षडित्यादि यथोदितम् ॥ भ्_४।८ ॥
विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते ।
% विरुद्धार्थम्] ।एद्म्।एद्ब्ग; निरुद्धार्थं ।एद्ब्
पूर्वापरार्थव्याघातात् विपर्ययकरं यथा ॥ भ्_४।९ ॥
सखि मानं प्रिये धेहि लघुतामस्य मा गमः ।
भर्तुश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥ भ्_४।१० ॥
उपासितगुरुत्वात्त्वं विजितेन्द्रयशत्रुषु ।
श्रेयसो विनयाधानम् अधुनातिष्ठ केवलम् ॥ भ्_४।११ ॥
यदभिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते ।
पुनरुक्तमिदं प्राहुर् अन्ये शब्दार्थभेदतः ॥ भ्_४।१२ ॥
न शब्दपुनरुक्तं तु स्थौल्यादत्रोपवर्ण्यते ।
कथमाक्षिप्तचित्तः सन्न् उक्तमेवाभिधास्यते ॥ भ्_४।१३ ॥
भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।
यथाह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ॥ भ्_४।१४ ॥
% न तद्विदुः] ।एद्म्।एद्ब्ग; च तद्विदुः ।एद्ब्
अत्रार्थपुनरुक्तं यत् तदेवैकार्थमिष्यते ।
उक्तस्य पुनराख्याने कार्यासम्भवतो यथा ॥ भ्_४।१५ ॥
तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम् ।
सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ॥ भ्_४।१६ ॥
श्रुतेः सामान्यधर्माणां विशेषस्यानुदाहृतेः ।
अप्रतिष्ठं यदत्रेति तज्ज्ञानं संशयं विदुः ॥ भ्_४।१७ ॥
% यदत्रेति तज्ज्ञानम्] ।एद्म्; यदेकत्र तज्ज्ञानं ।एद्ब्; यदत्रैज्ज्ञानं (यदेकत्र तज्ज्ञानं ?) ।एद्ब्ग
ससंशयमिति प्राहुस् ततस्तज्जननं वचः ।
इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ॥ भ्_४।१८ ॥
% दोलायेत] ।एद्म्; वेलायेति (वेलायति?) ।एद्ब्
व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।
विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥ भ्_४।१९ ॥
यथोपदेशं क्रमशो निर्देशो ऽत्र क्रमो मतः ।
तदपेतं विपर्यासाद् इत्याख्यातमपक्रमम् ॥ भ्_४।२० ॥
विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी ।
रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ॥ भ्_४।२१ ॥
सूत्रकृत्पादकारेष्ट- प्रयोगाद्यो ऽन्यथा भवेत् ।
तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ॥ भ्_४।२२ ॥
%तमाप्तश्रावकासिद्धेः] ।एद्म्।एद्ब्घ; तमाप्तश्रावकाः सिद्धेः ।एद्ब्
स्फुरत्तडिद्वलयिनो वितताम्भोगरीयसः ।
% स्फुरत्तडिद्वलयिनो] ।एद्ब्; स्फुरत्तटिद्वलयिनो ।एद्म्
तेजस्तिरयतः सौरं घनान् पश्य दिवो ऽभितः ॥ भ्_४।२३ ॥
% दिवो ऽभितः] ।एद्म्।एद्ब्घ; दिवाभितः ।एद्ब्
%% Wह्य् इस् थिस् शब्दहीन? इस् इत् पेर्हप्स् थत् wए हवे अन् -इन् सुफ़्फ़िx अत्तछेद् तो wहत् चोउल्द् बे अ बहुव्रीहि (स्फुरत्तडिद्वलयिनः)?
यतिश्छन्दो ऽधिरूढानां शब्दानां या विचारणा ।
% यतिश्छन्दो ऽधिरूढानाम्] ।एद्म्।एद्ब्क; यतिच्छन्दो निरूढानां ।एद्ब्घ; यतिश्छन्दो निरूढानां ।एद्ब्
तदपेतं यतिभ्रष्टम् इति निर्दिश्यते यथा ॥ भ्_४।२४ ॥
विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ॥ भ्_४।२५* ॥*
%% थिस् पाद ओफ़् स्रग्धरा लच्क्स् थे यति अफ़्तेर् थे फ़िर्स्त् सेवेन् स्य्ल्लब्लेस् (स्रग्धरा स्होउल्द् हवे अ चएसुर अफ़्तेर् एअछ् ग्रोउप् ओफ़् ७ स्य्ल्लब्लेस्)।
%% थिस् हल्फ़्-वेर्से अलोने नुम्बेरेद् २५ इन् ।एद्म्
गुरोर्लघोश्च वर्णस्य यो ऽस्थाने रचनाविधिः ।
तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ॥ भ्_४।२५ ॥
% २६ इन् ।एद्म्
भ्रमति भ्रमरमाला काननेषून्मदासौ ।*
%% अ पाद ओफ़् मालिनी
विरहितरमणीको ऽर्हस्यद्य गन्तुम् ॥ भ्_४।२६ ॥*
%% अ पाद ओफ़् क्ष्मा (नोत् तो बे चोन्फ़ुसेद् wइथ् क्षमा), अच्चोर्दिन्ग् तो अप्तेऽस् “अ च्लस्सिफ़िएद् लिस्त् ओफ़् सन्स्क्रित् दिच्तिओनरिएस्” (अप्पेन्दिx अ, पर्त् इइ)।
% २७ इन् ।एद्म्
कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी ।
पातां वः शम्भुशर्वाण्याव् इति प्राहुर्विसन्ध्यदः ॥ भ्_४।२७ ॥
% २८ इन् ।एद्म्
या देशे द्रव्यसम्भूतिर् अपि वा नोपदिश्यते ।
तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ॥ भ्_४।२८ ॥
% २९ इन् ।एद्म्
मलये कन्दरोपान्त- रूढकालागुरुद्रुमे ।
सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ॥ भ्_४।२९ ॥
% ३० इन् ।एद्म्
षण्णामृतूनां भेदेन कालः षोढेव भिद्यते ।
तद्विरोधकृदित्याहुर् विपर्यासादिदं यथा ॥ भ्_४।३० ॥
% ३१ इन् ।एद्म्
उदूढशिशिरासारान् प्रावृषेण्यान् नभस्वतः ।
% उदूढ@] ।एद्म्।एद्ब्घ; उपूढ@ ।एद्ब्
फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥ भ्_४।३१ ॥
% ३२ इन् ।एद्म्
कला सङ्कलना प्रज्ञा शिल्पान्यस्याश्च गोचरः ।
% सङ्कलना प्रज्ञा] ।एद्म्; सङ्कलना प्रज्ञाः ।एद्ब्घ; सङ्कलनाप्रज्ञा ।एद्ब्
विपर्यस्तं तथैवाहुस् तद्विरोधकरं यथा ॥ भ्_४।३२ ॥
% ३३ इन् ।एद्म्
ऋषभात्पञ्चमस्तस्मात् सषड्जं धैवतं स्मृतम् ।
% पञ्चमस्तस्मात्] ।एद्म्; पञ्चमात्तस्मात् ।एद्ब्
अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥ भ्_४।३३ ॥
% ३४ इन् ।एद्म्
% मध्यमे पीडितर्षभः] ।एद्म्; मध्यमोत्पीडितर्षभः ।एद्ब्
इति साधारितं मोहाद् अन्यथैवावगच्छति ।
% अन्यथैवा@] ।एद्म्।एद्ब्; अन्यथेवा@ ।एद्ब्घ
अन्यस्वपि कलास्वेवम् अभिधेया विरोधिता ॥ भ्_४।३४ ॥
% ३५ इन् ।एद्म्
स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः ।
स च तद्व्यवहारो ऽत्र तद्विरोधकरं यथा ॥ भ्_४।३५ ॥
% ३६ इन् ।एद्म्
तेषां कटतटभ्रष्टैर् गजानां मदबिन्दुभिः ।
प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ भ्_४।३६ ॥
% ३७ इन् ।एद्म्
धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् ।
चकार जानुदध्नापान् प्रतिदिङ्मुखमध्वनः ॥ भ्_४।३७ ॥
% ३८ इन् ।एद्म्
न्यायः शास्त्रं त्रिवर्गोक्तिर् दण्डनीतिं च तां विदुः ।
अतो न्यायविरोधीष्टम् अपेतं यत्तया यथा ॥ भ्_४।३८ ॥
% ३९ इन् ।एद्म्
विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।
तस्यैव कृतिनः पश्चाद् अभ्यधाच्चारशून्यताम् ॥ भ्_४।३९ ॥
% ४० इन् ।एद्म्
% @च्चार@] ।एद्म्।एद्ब्; @पा(च्चा?)र@ ।एद्ब्ग
अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् ।
% अन्तर्योध@] ।एद्म्।एद्ब्; अन्तर्योधं ।एद्ब्घ
% @नेतृकम्] ।एद्म्।एद्ब्; @नेत्रकम् ।एद्ब्क।एद्ब्ग
तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥ भ्_४।४० ॥
% ४१ इन् ।एद्म्
यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ भ्_४।४१ ॥
% ४२ इन् ।एद्म्
शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः ।
मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥ भ्_४।४२ ॥
% ४३ इन् ।एद्म्
हतो ऽनेन मम भ्राता मम पुत्रः पिता मम ।
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ भ्_४।४३ ॥
% ४४ इन् ।एद्म्
अस्यन्तो विविधान्याजाव् आयुधान्यपराधिनम् ।
एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥ भ्_४।४४ ॥
% ४५ इन् ।एद्म्
नमो ऽस्तु तेभ्यो विद्वद्भ्यो ये ऽभिप्रायं कवेरिमम् ।
शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ॥ भ्_४।४५ ॥
% ४६ इन् ।एद्म्
सचेतसो वनेभस्य चर्मणा निर्मितस्य च ।
विशेषं वेद बालो ऽपि कष्टं किं नु कथं नु तत् ॥ भ्_४।४६ ॥
% ४७ इन् ।एद्म्
% किं नु] ।एद्म्।एद्ब्; किं तु ।एद्ब्क
आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता ।
तद्विरोधि तदाचार- व्यतिक्रमणतो यथा ॥ भ्_४।४७ ॥
% ४८ इन् ।एद्म्
भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम् ।
अलङ्करिष्णुना वंशं गुरौ सति जिगीषुणा ॥ भ्_४।४८ ॥
% ४९ इन् ।एद्म्
अभार्योढेन संस्कारम् अन्तरेण द्विजन्मना ।
नरवाहनदत्तेन वेश्यावान् निशि पीडितः ॥ भ्_४।४९ ॥
% ५० इन् ।एद्म्
न दूषणायामुदाहृतो विधिर् न चाभिमानेन किमु प्रतीतये ।
कृतात्मनां तत्त्वदृशां च मादृशो जनो ऽभिसन्धिं क इवावभोत्स्यते ॥ भ्_४।५० ॥
% ५१ इन् ।एद्म्
।चोलो
इति भामहालङ्कारे चतुर्थः परिच्छेदः
।छप्तेर्
पञ्चमः परिच्छेदः
अथ प्रतिज्ञाहेत्वादि- हीनं दुष्टं च वर्ण्यते ।
समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥ भ्_५।१ ॥
% समासेन] ।एद्ब्; समासेने ।एद्म्
प्रायेण दुर्बोधतया शास्त्राद् बिभत्यमेधसः ।
तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥ भ्_५।२ ॥
% @लवोच्चयः] ।एद्म्।एद्ब्; @वलोच्चयः ।एद्ब्क
स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते ।
प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥ भ्_५।३ ॥
न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।
% तद्वाच्यम्] ।एद्म्।एद्ब्; तद्वाक्यं ।एद्ब्क
जायते यन्न काव्याङ्गम् अहो भारो महान् कवेः ॥ भ्_५।४ ॥
सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।
असाधारणसामान्य- विषयत्वं तयोः किल ॥ भ्_५।५ ॥
प्रत्यक्षं कल्पनापोढं ततो ऽर्थादिति केचन ।
कल्पनां नामजात्यादि- योजनां प्रतिजानते ॥ भ्_५।६ ॥
% प्रतिजानते] ।एद्म्।एद्ब्; प्रतिजन्यते ।एद्ब्घ
समारोपः किलैतावान् सदर्थालम्बनं च तत् ।
जात्याद्यपोहे वृत्तिः क्व क्व विशेषः कुतश्च सः ॥ भ्_५।७ ॥
तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा ।
अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ॥ भ्_५।८ ॥
% वितथम्] ।एद्म्।एद्ब्; वितयं ।एद्ब्घ
ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि ।
विज्ञानमात्रसादृश्याद् विशेषो ऽस्य विकल्पना ॥ भ्_५।९ ॥
%विज्ञानमात्र@] ।एद्म्; विज्ञानमत्र ।एद्ब्
% ।अस्य] ।एद्म्।एद्ब्; स(स्य?) ।एद्ब्ग
अर्थादेवेति रूपादेस् तत एवेति नान्यतः ।
% नान्यतः] ।एद्म्।एद्ब्; न्यायतः ।एद्ब्ग
अन्यथा घटविज्ञानम् अन्येन व्यपदिश्यते ॥ भ्_५।१० ॥
% अन्यथा] ।एद्म्।एद्ब्; अन्यदा ।एद्ब्ख।एद्ब्घ
त्रिरूपाल्लिङ्गतो ज्ञानम् अनुमानं च केचन ।
% केचन] ।एद्म्।एद्ब्; केन च ।एद्ब्ग
तद्विदो नान्तरीयार्थ- दर्शनं चापरे विदुः ॥ भ्_५।११ ॥
विवादास्पदधर्मेण धर्मी कृतविशेषणः ।
% विवादास्पद@] ।एद्म्; विविधास्पद@ ।एद्ब्
पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ॥ भ्_५।१२ ॥
तदर्थहेतुसिद्धान्त- सर्वागमविरोधिनी ।
प्रसिद्धधर्मा प्रत्यक्ष- बाधिनी चेति दुष्यति ॥ भ्_५।१३ ॥
% प्रसिद्धधर्मा] ।एद्म्।एद्ब्ग; विरुद्धधर्मा ।एद्ब्
% @बाधिनी] ।एद्म्।एद्ब्; @वादिनी ।एद्ब्ख।एद्ब्घ
तयैव हि तदर्थस्य विरोधकरणं यथा ।
यतिर्मम पिता बाल्यात् सूनुर्यस्याहमौरसः ॥ भ्_५।१४ ॥
अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी ।
% अस्त्यात्मा] ।एद्म्।एद्ब्; अस्यात्मा ।एद्ब्ग
धर्मिणो ऽस्याप्रसिद्धत्वात् तद्धर्मो ऽपि न सेत्स्यति ॥ भ्_५।१५ ॥
% तद्धर्मो ऽपि] ।एद्म्।एद्ब्; तदर्थो ऽपि ।एद्ब्क
शाश्वतो ऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ ।
जायते भेदविषयो विवादो वादिनोर्मिथः ॥ भ्_५।१६ ॥
% वादिनोर्मिथः] ।एद्म्।एद्ब्; धादिनो मिश्रः ।एद्ब्क; वादिनो मिश्रः ।एद्ब्घ
स्वसिद्धान्तविरोधित्वाद् विज्ञेया तद्विरोधिनी ।
कणभक्षो यथा शब्दम् आचक्षीताविनश्वरम् ॥ भ्_५।१७ ॥
सर्वशास्त्रविरुद्धत्वात् सर्वागमविरोधिनी ।
यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ॥ भ्_५।१८ ॥
% शुचस्तनुस्त्रीणि प्रमाणानि न सन्ति वा] ।एद्म्।एद्ब्ग; शुचिस्तनुः स्त्रैणी तत्प्रमाणानि सन्ति वा ।एद्ब्; शुचि * सुनु स्त्रैणी ।लच् ।ग्नोलिम्स्
आकुमारमसन्दिग्ध- धर्माहितविशेषणा ।
प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ॥ भ्_५।१९ ॥
प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते ।
यथा शीतो ऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥ भ्_५।२० ॥
% रूपमुष्णः (?) क्षपाकरः] ।एद्म्।एद्ब्; कूपमुष्णः क्षपाकरः ।एद्ब्क; *ऊपे उष्णश्चन्द्रमा ।ग्नोलिम्स्।उन्मेत्रिचल्
सन् द्वयोः सदृशे सिद्धो व्यावृत्तस्तद्विपक्षतः ।
% द्वयोः] ।एद्म्; पक्षे ।एद्ब्; द्वयो ।एद्ब्ग
हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ॥ भ्_५।२१ ॥
सन् द्वयोरिति यः सिद्धः स्वपक्षपरपक्षयोः ।
अभिन्नलक्षणः पक्षः फलभेदादयं द्विधा ॥ भ्_५।२२ ॥
परपक्षानुपादाने तद्वृत्तेश्चानुदाहृतौ ।
% @पादाने] ।एद्म्; @पादानं ।एद्ब्
कथमन्यतरासिद्ध- हेत्वाभासव्यवस्थितिः ॥ भ्_५।२३ ॥
साध्यधर्मानुगमतः सदृशस्तत्र यश्च सन् ।
अन्यो ऽप्यसावेक इव सामान्यादुपचर्यते ॥ भ्_५।२४ ॥
विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र यो ह्यसन् ।
इति द्वयैकानुगति- व्यावृत्ती लक्ष्मसाधुता ॥ भ्_५।२५ ॥
% @वृत्ती लक्ष्मसाधुता] ।ग्नोलि; @वृत्तिर्लक्ष्मसाधुता ।एद्म्।एद्ब्; @वृत्ती लक्ंससाधुना ।एद्ब्घ
%% सेए ग्नोलि १९६२, प्।Xलि
%% पुर्पोर्त्: अनुगति अन्द् व्यावृत्ति अरे रेक़ुइरेद् रेस्पेच्तिवेल्य् इन् २ थिन्ग्स् (विज़्। पक्ष अन्द् सपक्ष) अन्द् इन् १ थिन्ग् (विज़्। विपक्ष)।
साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते ।
तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ॥ भ्_५।२६ ॥
साध्येन लिङ्गानुगतिस् तदभावे च नास्तिता ।
ख्याप्यते येन दृष्टान्तः स किलान्यैर्द्विधोच्यते ॥ भ्_५।२७ ॥
दूषणं न्यूनताद्युक्तिर् न्यूनं हेत्वादिनाथ वा ।
% दूषणम्] ।एद्म्; दूषण@ ।एद्ब्
% हेत्वादिनाथ वा] ।एद्म्; हेत्वादिनात्र च ।एद्ब्; हेत्वादिनाथ च ।एद्ब्ग
तन्मूलत्वात्कथायाश्च न्यूनं नेष्टं प्रतिज्ञया ॥ भ्_५।२८ ॥
जातयो दूषणाभासास् ताः साधर्म्यसमादयः ।
% @समादयः] ।एद्म्; @समाधयः ।एद्ब्
तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥ भ्_५।२९ ॥
अपरं वक्ष्यते न्याय- लक्षणं काव्यसंश्रयम् ।
इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥ भ्_५।३० ॥
अथ नित्याविनाभावि दृष्टं जगति कारणम् ।
कारणं चेन्न तन्नित्यं नित्यं चेत्कारणं न तत् ॥ भ्_५।३१ ॥
% नित्यं चेत्] ।एद्म्।एद्ब्; नित्यश्चेत् ।एद्ब्घ
लक्ष्म प्रयोगदोषाणां भेदेनानेन वर्त्मना ।
% @नेन वर्त्मना] ।एद्म्।एद्ब्क; @नेकवर्त्मना ।एद्ब्
सन्धादिसाधनासिद्ध्यै शास्त्रेषूदितमन्यथा ॥ भ्_५।३२ ॥
% @साधनासिद्ध्यै] ।एद्म्; @साधनं सिद्ध्यै ।एद्ब्
तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथा ।
तत्र लोकाश्रयं काव्यम् आगमास्तत्त्वदर्शिनः ॥ भ्_५।३३ ॥
% तत्त्वदर्शिनः] ।एद्म्।एद्ब्ग; तत्त्वशंसिनः ।एद्ब्
असिसङ्काशमाकाशं शब्दो दूरानुपात्ययम् ।
सदैव वारि सिन्धूनाम् अहो स्थेमा महार्चिषः ॥ भ्_५।३४ ॥
% सदैव वारि] ।एद्म्; तदेव वापि ।एद्ब्
रूपादीनां यथा द्रव्यम् आश्रयो नश्यतीति च ।
% ३४एफ़् इन् ।एद्म्
% नश्यतीति च] ।एद्म्; नश्वरीति या ।एद्ब्
इष्टकार्याभ्युपगमं प्रतिज्ञां प्रतिजानते ॥ भ्_५।३५ ॥
% ३५अब् इन् ।एद्म्
धर्मार्थकामकोपानां संश्रयात् सा चतुर्विधा ।
% ३५च्द् इन् ।एद्म्
जरामेष बिभर्मीति प्रतिज्ञाय पितुर्यथा । # ३६अब् इन् ।एद्म्
तथैव पुरुणाभारि सा स्याद्धर्मनिबन्धनी ॥ भ्_५।३६ ॥
% ३६च्द् इन् ।एद्म्
उपलप्स्ये स्वयं सीताम् इति भर्तृनिदेशतः ।
हनुमता प्रतिज्ञाय सा ज्ञातेत्यर्थसंश्रया ॥ भ्_५।३७ ॥
आहरिष्याम्यमूमद्य महासेनात्मजामिति ।
% @म्यमूमद्य] ।एद्म्; @म्यमुमद्य ।एद्ब्।उन्मेत्रिचल्
कृत्वा प्रतिज्ञां वत्सेन हृतेति मदनाश्रया ॥ भ्_५।३८ ॥
भ्रातुर्भ्रातृव्यमुन्मथ्य पास्याम्यस्यासृगाहवे ।
प्रतिज्ञाय यथा भीमस् तच्चकारावशो रुषा ॥ भ्_५।३९ ॥
कार्यो ऽन्यत्र प्रतिज्ञायाः प्रयोगो न कथं चन ।
परित्यागश्च कर्तव्यो नासां चतसृणामपि ॥ भ्_५।४० ॥
% परित्यागश्च] ।एद्म्; परित्यागस्य ।एद्ब्
प्रायोपवेशाय यथा प्रतिज्ञाय सुयोधनः ।
राज्याय पुनरुत्तस्थाव् इति धर्मविरोधिनी ॥ भ्_५।४१ ॥
आहूतो न निवर्ते ऽहं द्यूतायेति युधिष्ठिरः ।
% निवर्ते ऽहम्] ।एद्म्।एद्ब्ग; निवर्तेय ।एद्ब्
कृत्वा सन्धां शकुनिना दिदेवेत्यर्थबाधिनी ॥ भ्_५।४२ ॥
अद्यारभ्य निवत्स्यामि मुनिवद्वचनादिति ।
पितुः प्रियाय यां भीष्मश् चक्रे सा कामबाधिनी ॥ भ्_५।४३ ॥
अत्याजयद्यथा रामः सर्वक्षत्रवधाश्रयाम् ।
जामदग्न्यं युधा जित्वा सा ज्ञेया कोपबाधिनी ॥ भ्_५।४४ ॥
% युधा] ।एद्म्।एद्ब्; यथा ।एद्ब्घ
अथाभ्युपगमप्राप्तिः सन्धाभ्युपगमाद्विना ।
अनुक्तमपि यत्रार्थाद् अभ्युपैति यथोच्यते ॥ भ्_५।४५ ॥
किमिन्द्रियद्विषा ज्ञेयं को निराक्रियते ऽरिभिः ।
% @द्विषा] ।एद्म्।एद्ब्; @द्विषां ।एद्ब्क
% निराक्रियते] ।एद्म्; निराकृतये ।एद्ब्
को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥ भ्_५।४६ ॥
किमित्ययं तु यः क्षेपः सौकर्यं दर्शयत्यसौ ।
हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥ भ्_५।४७ ॥
अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये ।
यथाभितो वनाभोगम् एतदस्ति महत् सरः । # ४८च्द् इन् ।एद्ब्
कूजनात्कुररीणां च कमलानां च सौरभात् ॥ भ्_५।४८ ॥
% ४९अब् इन् ।एद्ब्
% कुररीणाम्] ।एद्म्; कुरराणां ।एद्ब्
अन्यधर्मो ऽपि तत्सिद्धिं सम्बन्धेन करोत्ययम् ।
% ४९च्द् इन् ।एद्ब्
धूमादभ्रङ्कषात्साग्नेः प्रदेशस्यानुमामिव ॥ भ्_५।४९ ॥
% ५०अब् इन् ।एद्ब्
अपृथक्कृतसाध्यो ऽपि हेतुश्चात्र प्रतीयते ।
% ५०च्द् इन् ।एद्ब्
अन्वयव्यतिरेकाभ्यां विनैवार्थगतिर्यथा ॥ भ्_५।५० ॥
% ५१अब् इन् ।एद्ब्
% विनैवार्थ@] ।एद्म्।एद्ब्; विनैकार्थ@ ।एद्ब्क
दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा ।
% ५१च्द् इन् ।एद्ब्
हेतुः प्रदीप्रदीपत्वम् अपवृत्तौ रवेरिह ॥ भ्_५।५१ ॥
% ५२अब् इन् ।एद्ब्
% हेतुः] ।एद्म्; हेतु@ ।एद्ब्
तस्यापि सुधियामिष्टा दोषाः प्रागुदितास्त्रयः ।
% ५२च्द् इन् ।एद्ब्
अज्ञानसंशयज्ञान- विपर्ययकृतो यथा ॥ भ्_५।५२ ॥
% ५३अब् इन् ।एद्ब्
काशा हरन्ति हृदयम् अमी कुसुमसौरभात् ।
% ५३च्द् इन् ।एद्ब्
% @सौरभात्] ।एद्म्।एद्ब्; @साहृदात् ।एद्ब्क
अपामभ्यर्णवर्तित्वाद् एते ज्ञेयाः शरारयः ॥ भ्_५।५३ ॥
% ५४अब् इन् ।एद्ब्
% शरारयः] ।एद्म्; शरारवः ।एद्ब्
असौ शुक्लान्तनेत्रत्वाच् चकोर इति गृह्यताम् ।
% ५४च्द् इन् ।एद्ब्
तुल्यजातावदृष्टत्वात् साधयतचकोरताम् ॥ भ्_५।५४ ॥
% ५५अब् इन् ।एद्ब्
उक्तस्यार्थस्य दृष्टान्तः प्रतिबिम्बनिदर्शनम् ।
% ५५च्द् इन् ।एद्ब्
% दृष्टान्तः] ।एद्म्; दृष्टान्तं ।एद्ब्; दृष्टानां ।एद्ब्घ
ननूपमानुमैवास्तु न हेत्वनभिधानतः ॥ भ्_५।५५ ॥
% ५६अब् इन् ।एद्ब्
% ननूपमानुमैवास्तु] ।एद्म्; ननूपमानमेवास्तु ।एद्ब्
साध्यसाधनयोरुक्तिर् उक्तादन्यत्र नेष्यते ।
% ५६च्द् इन् ।एद्ब्
मुखं पद्ममिवेत्यत्र किं साध्यं किं च साधनम् ॥ भ्_५।५६ ॥
% ५७अब् इन् ।एद्ब्
इति प्रयोगस्य यथा कलावपि भवानिह ।
श्रेयान् वृद्धानुशिष्टत्वात् पूर्वे कृतयुगे यथा ॥ भ्_५।५७ ॥
% कृतयुगे] ।एद्म्; कार्तयुगे ।एद्ब्
यत्र दृष्टान्तमात्रेण व्यज्येते साध्यसाधने ।
तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ॥ भ्_५।५८ ॥
भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः ।
त्वमेव वीर प्रद्युम्नस् त्वमेव नरवाहनः ॥ भ्_५।५९ ॥
कथमेकपदेनैव व्यजेरन्नस्य ते गुणाः ।
इति प्रयुञ्जते सन्तः केचिद्विस्तरभीरवः ॥ भ्_५।६० ॥
पदमेकं वरं साधु नार्वाचीननिबन्धनम् ।
% वरम्] ।एद्म्; परं ।एद्ब्
% नार्वाचीन@] ।एद्म्; नार्वाचीनं ।एद्ब्
वैपरीत्याद्विपर्यासं कीर्तेरपि करोति तत् ॥ भ्_५।६१ ॥
अहृद्यमसुनिर्भेदं रसवत्त्वे ऽप्यपेशलम् ।
% @सुनिर्भेदम्] ।एद्म्; @सुभि(नि?)र्भेदं ।एद्ब्
काव्यं कपित्थमामं यत् केषाञ्चित्तादृशं यथा ॥ भ्_५।६२ ॥
% कपित्थमामं यत् केषाञ्चित्तादृशम्] ।एद्म्; कपित्थमाम्रं वत्(मञ्च) केषाञ्चित्सदृशं ।एद्ब्
प्रजाजनश्रेष्ठवरिष्ठभूभृच्- छिरोर्चिताङ्घ्रेः पृथुकीर्तिधिष्ण्य ।
% @छिरोर्चिताङ्घ्रेः] ।एद्म्; @छिरोचिताङ्घ्रेः ।एद्ब्
% @धिष्ण्य] ।एद्म्।एद्ब्; @धिष्ण्यः ।एद्ब्घ
अहिघ्नपद्मस्य जलारिधाम्नस् तवैव नान्यस्य सुतस्य वृत्तम् ॥ भ्_५।६३ ॥
% अहिघ्न@] ।एद्म्।एद्ब्; यहिघ्न@ ।एद्ब्घ?
अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः ।
फुल्लैश्च कुसुमैरन्ये वाचो ऽलङ्कुर्वते यथा ॥ भ्_५।६४ ॥
% कुसुमैरन्ये] ।एद्म्; कुसुमैरन्यैर् ।एद्ब्
शुभमरकतपद्मरागचित्रे सफलसपल्लवभूरिचारुवृक्षे ।
% @वृक्षे] ।एद्म्; @वृत्ते ।एद्ब्
बहुकुसुमविभूषिते स तस्थौ सुरमुनिसिद्धयुते सुमेरुपृष्ठे ॥ भ्_५।६५ ॥
तदेभिरङ्गैर्भूष्यन्ते भूषणोपवनस्रजः ।
वाचां वक्रार्थशब्दोक्तिर् अलङ्काराय कल्पते ॥ भ्_५।६६ ॥
विरुद्धपदमस्वर्थं बहुपूरणमाकुलम् ।
कुर्वन्ति काव्यमपरे व्यायताभीप्सया यथा ॥ भ्_५।६७ ॥
एलातक्कोलनागस्फुटबकुललताचन्दनस्पन्दनाढ्यो मुक्ताकर्पूरचक्रागरुकमनशिलास्थासकव्याप्ततीरः ।
% @स्पन्दनाढ्यो मुक्ताकर्पूरचक्रागरुकमनशिलास्थासक@] ।एद्म्; @स्यन्दनाढ्यसृक्काकर्पूरचक्रागुरुमनःशिलाध्यामका@ ।एद्ब्।उन्मेत्रिचल्
शङ्खव्राताकुलो ऽन्तस्तिमिमकरकुलाकीर्णवीचीप्रतानो दध्रे यस्याम्बुराशिः शशिकुमुदसुधाक्षीरशुद्धां सुकीर्तिम् ॥ भ्_५।६८ ॥
% @कुलो ऽन्तस्तिमिमकर@] ।एमेन्द्; @कुलो ऽन्तस्तितिमिमकर@ ।एद्म्।उन्मेत्रिचल्; @कुलान्तस्तिमिमकर@ ।एद्ब्
% @कुमुद@] ।एद्म्; @कुमद@ ।एद्ब्
इति निगदितास्तास्ता वाचामलङ्कृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च ।
प्रथितवचसः सन्तो ऽभिज्ञाः प्रमाणमिहापरे गुरुतरधियामस्वाराधं मनो ऽकृतबुद्धिभिः ॥ भ्_५।६९ ॥
।चोलो
इति भामहालङ्कारे पञ्चमः परिच्छेदः
।छप्तेर्
षष्ठः परिच्छेदः
सूत्राम्भसं पदावर्तं पारायणरसातलम् ।
धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् ॥ भ्_६।१ ॥
धीरैरालोकितप्रान्तम् अमेधोभिरसूयितम् ।
सदोपभुक्तं सर्वाभिर् अन्यविद्याकरेणुभिः ॥ भ्_६।२ ॥
नापारयित्वा दुर्गाधम् अमुं व्याकरणार्णवम् ।
शब्दरत्नं स्वयङ्गम्यम् अलं कर्तुमयं जनम् ॥ भ्_६।३ ॥
% स्वयङ्गम्यम्] ।एद्म्; स्वयङ्गम(म्य?)म् ।एद्ब्
तस्य चाधिगमे यत्नः कार्यं काव्यं विधित्सता ।
परप्रत्ययतो यत्तु क्रियते तेन का रतिः ॥ भ्_६।४ ॥
नान्यप्रत्ययशब्दा वाग् आविभाति मुदे सताम् ।
% वागाविभाति] ।एद्म्; वाग - - - ।एद्ब्
परेण घृतमुक्तेव सरसा कुसुमावली ॥ भ्_६।५ ॥
मुख्यस्तावदयं न्यायो यत् स्वशक्त्या प्रवर्तते ।
अन्यसारस्वता नाम सन्त्यन्योक्तानुवादिनः ॥ भ्_६।६ ॥
% अन्य@] ।एद्म्।एद्ब्ग; अन्ये ।एद्ब्
प्रतीतिरर्थेषु यतस् तं शब्दं ब्रुवते ऽपरे ।
धूमभासोरपि प्राप्ता शब्दताग्न्यनुमां प्रति ॥ भ्_६।७ ॥
नन्वकारादिवर्णानां समुदायो ऽभिधेयवान् ।
अर्थप्रतीतये गीतः शब्द इत्यभिधीयते ॥ भ्_६।८ ॥
प्रत्येकमसमर्थानां समुदायो ऽर्थवान् कथम् ।
वर्णानां क्रमवृत्तित्वान् न्याया नापि च संहतिः ॥ भ्_६।९ ॥
न चापि समुदायिभ्यः समुदायो ऽतिरिच्यते ।
दारुभित्तिभुवो ऽतीत्य किमन्यत्सद्म कल्प्यते ॥ भ्_६।१० ॥
% किमन्यत्सद्म कल्प्यते] ।एद्म्।एद्ब्; किमन्यं सत् प्रकल्प्यते ।एद्ब्घ
तस्मात्कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा ।
प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥ भ्_६।११ ॥
शपथैरपि चादेयं वचो न स्फोटवादिनाम् ।
नमःकुसुममस्तीति श्रद्दध्यात् कः सचेतनः ॥ भ्_६।१२ ॥
इत्यन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः ।
व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥ भ्_६।१३ ॥
स कूटस्थो ऽनपायी च नादादन्यश्च कथ्यते ।
मन्दाः साङ्केतिकानर्थान् मन्यन्ते पारमार्थिकान् ॥ भ्_६।१४ ॥
विनश्वरो ऽस्तु नित्यो वा सम्बन्धो ऽर्थेन वा सता ।
नमो ऽस्तु तेभ्यो विद्वद्भ्यः प्रमाणं ये ऽस्य निश्चितौ ॥ भ्_६।१५ ॥
अन्यापोहेन शब्दो ऽर्थम् आहेत्यन्ये प्रचक्षते ।
% अन्यापोहेन] ।एद्म्।एद्ब्; अन्यापोहे तु ।एद्ब्घ
अन्यापोहश्च नामान्य- पदार्थापाकृतिः किल ॥ भ्_६।१६ ॥
% नामान्यपदार्थापाकृतिः] ।एद्म्।एद्ब्; नामान्य वा(प?)दार्थो वा(पा?)कृतिः ।एद्ब्ग
यदि गौरित्ययं शब्दः कृतार्थो ऽन्यनिराकृतौ ।
जनको गवि गोबुद्धेर् मृग्यतामपरो ध्वनिः ॥ भ्_६।१७ ॥
अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् ।
अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥ भ्_६।१८ ॥
पुरा गौरिति विज्ञानं गोशब्दश्रवणाद्भवेत् ।
येनागोप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥ भ्_६।१९ ॥
वर्णभेदादिदं भिन्नं वर्णाः स्वांशविकल्पतः ।
के शब्दाः किं च तद्वाच्यम् इत्यहो वर्त्म दुस्तरम् ॥ भ्_६।२० ॥
द्रव्यक्रियाजातिगुण- भेदात् ते च चतुर्विधाः ।
यदृच्छाशब्दमप्यन्ये डित्थादिं प्रतिजानते ॥ भ्_६।२१ ॥
% डित्थादिम्] ।एद्म्; डित्थादि ।एद्ब्
नानाभाषाविषयिणाम् अपर्यन्तार्थवर्तिनाम् ।
इयत्ता केन वामीषां विशेषादवधार्यते ॥ भ्_६।२२ ॥
वक्रवाचां कवीनां ये प्रयोगं प्रति साधवः ।
प्रयोक्तुं ये न युक्ताश्च तद्विवेको ऽयमुच्यते ॥ भ्_६।२३ ॥
नाप्रयुक्तं प्रयुञ्जीत चेतःसम्मोहकारिणम् ।
तुल्यार्थत्वे ऽपि हि ब्रूयात् को हन्तिं गतिवाचिनम् ॥ भ्_६।२४ ॥
श्रौत्रादिं न तु दुर्बोधं न दुष्टादिमपेशलम् ।
% श्रौत्रादिम्] ।एद्म्; श्रोत्रादिं ।एद्ब्
ग्राम्यं न पिण्डीशूरादिं न डित्थादिमपार्थकम् ॥ भ्_६।२५ ॥
नाप्रतीतान्यथार्थत्वं धात्वनेकार्थतावशात् ।
न लेशज्ञापकाकृष्टं स हन्ति ध्याति वा यथा ॥ भ्_६।२६ ॥
% @कृष्टं स हन्ति] ।एद्म्; @कृष्टसंहति ।एद्ब्
न शिष्टैरुक्तमित्येव न तन्त्रान्तरसाधितम् ।
छन्दोवदिति चोत्सर्गान् न चापि च्छान्दसं वदेत् ॥ भ्_६।२७ ॥
क्रमागतं श्रुतिसुखं शब्दमर्थ्यमुदीरयेत् ।
% @र्थ्यम्] ।एद्म्।एद्ब्; @थ्यम् ।एद्ब्ग
अतिशेते ह्यलङ्कारम् अन्यं व्यञ्जनचारुता ॥ भ्_६।२८ ॥
सिद्धो यश्चोपसङ्ख्यानाद् इष्ट्या यश्चोपपादितः ।
तमाद्रियेत प्रायेण न तु योगविभागजम् ॥ भ्_६।२९ ॥
इयं चन्द्रमुखी कन्या प्रकृत्यैव मनोहरा ।
अस्यां सुवर्णालङ्कारः पुष्णाति नितरां श्रियम् ॥ भ्_६।३० ॥
वृद्धिपक्षं प्रयुञ्जीत सङ्क्रमे ऽपि मृजेर्यथा ।
मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥ भ्_६।३१ ॥
सरूपशेषं तु पुमान् स्त्रिया यत्र च शिष्यते ।
यथाह वरुणाविन्द्रौ भवौ शर्वौ मृडाविति ॥ भ्_६।३२ ॥
यथा पटयतीत्यादि णिच्प्रातिपदिकात्ततः ।
णाविष्ठवदितीष्ट्या च तथा क्रशयतीत्यपि ॥ भ्_६।३३ ॥
प्रयुञ्जीताव्ययीभावम् अदन्तं नाप्यपञ्चमी ।
तृतीयासप्तमीपक्षे नालुग्विषयमानयेत् ॥ भ्_६।३४ ॥
तिष्ठद्गुप्रभृतौ वाच्यौ नक्तन्दिवसगोचरौ ।
यथा विद्वानधीते ऽसौ तिष्ठद्गु च वहद्गु च ॥ भ्_६।३५ ॥
शिष्टप्रयोगमात्रेण न्यासकारमतेन वा ।
तृचा समस्तषष्ठीकं न कथञ्चिदुदाहरेत् ॥ भ्_६।३६ ॥
सूत्रज्ञापकमात्रेण वृत्रहन्ता यथोदितः ।
अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ॥ भ्_६।३७ ॥
पञ्चराजीति च यथा प्रयुञ्जीत द्विगुं स्त्रियाम् ।
नपुंसकं तत्पुरुषं पुरुहूतसभं यथा ॥ भ्_६।३८ ॥
सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा ।
प्रियोन्मनायते सा ते किं शठाभिमनायसे ॥ भ्_६।३९ ॥
तृतीयैकवचः षष्ठ्याम् आमन्तं च वदेत् क्विपि ।
% तृतीयैकवचः षष्ठ्याम्] ।एद्म्।एद्ब्; तृतीयैव चतुः षष्ठ्या ।एद्ब्क
यथोदितं बलभिदा सुरुचां विद्युतामिव ॥ भ्_६।४० ॥
असन्तमपि यद्वाक्यं तत्तथैव प्रयोजयेत् ।
यथोच्यते ऽम्भसा भासा यशसामम्भसामिति ॥ भ्_६।४१ ॥
पुंसि स्त्रियां च क्वस्वन्तम् इच्छन्त्यच्छान्दसं किल ।
उपेयुषामपि दिवं यथा न व्येति चारुता ॥ भ्_६।४२ ॥
इभकुम्भनिभे बाला दधुषी कञ्चुकं स्तने ।
% @निभे] ।एद्म्।एद्ब्ग; @निभौ ।एद्ब्
% कञ्चुकं स्तने] ।एद्म्; कन्तुके स्तनौ ।एद्ब्; कन्तुकौ स्तनौ ।एद्ब्घ
रतिखेदपरिश्रान्ता जहार हृदयं नृणाम् ॥ भ्_६।४३ ॥
शबलादिभ्यो ऽतितरां भाति णिज्विहितो यथा ।
% @तितराम्] ।एद्म्; नितरां ।एद्ब्
बलाकाः पश्य सुश्रेणि घनाञ्छबलयन्त्यमूः ॥ भ्_६।४४ ॥
शिशिरासारकणिका- सदृशः सेतुगन्धवाट् ।
% @कणिकासदृशः सेतुगन्धवाट्] ।एद्म्; @कणिकां सदृशस्ते तु कङ्गवत् ।एद्ब्
त्वां वीजयति सुश्रेणि रतिखेदालसेक्षणाम् ॥ भ्_६।४५ ॥
% त्वां वीजयति] ।एद्म्; संवीजयति ।एद्ब्
एवं णिचः प्रयोगस्तु सर्वत्रालङ्कृतिः परा ।
लिङ्गत्रयोपपन्नं च ताच्छील्यविषयं णिनिम् ॥ भ्_६।४६ ॥
तस्य हारी स्तनाभोगो वदनं हारि सुन्दरम् ।
हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥ भ्_६।४७ ॥
ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनादयः ।
% एव तृनादयः] ।एद्म्।एद्ब्; एवात्र नादयः ।एद्ब्ग
विशेषेण च तत्रेष्टा युच्कुरज्वरजिष्णुचः ॥ भ्_६।४८ ॥
%विशेषेण च] ।एद्म्।एद्ब्ग; विशेषेणैव ।एद्ब्
% युच्कुर@] ।एद्म्; युत्कुर@ ।एद्ब्
क्तिन्नन्तं च प्रयुञ्जीत सङ्गतिः संहतिर्यथा ।
शाकारौ जागुरिष्टौ च जागर्या जागरा यथा ॥ भ्_६।४९ ॥
% शाकारौ] ।एद्म्; शकारौ ।एद्ब्
उपासनेति च युचं नित्यमासेः प्रयोजयेत् ।
ल्युटं च कर्तृविषयं देवनो रमणो यथा ॥ भ्_६।५० ॥
अणन्तादपि ङीबिष्टो लक्ष्मीः पौरन्दरी यथा ।
% अणन्तादपि] ।एद्म्; अण्णान्तादपि ।एद्ब्
अञ्महारजनाल्लाक्षा- रोचनाभ्यां तथा च ठक् ॥ भ्_६।५१ ॥
% अञ्] ।एद्म्; अण् ।एद्ब्
ड्मतुबिष्टं च कुमुदाद् यथेयं भूः कुमुद्वती ।
ठक् चापि तेन जयतीत्य् आक्षिकः शास्त्रिको यथा ॥ भ्_६।५२ ॥
हितप्रकरणे णं च सर्वशब्दात् प्रयुञ्जते ।
ततश्छमिष्ट्या च यथा सार्वः सर्वीय इत्यपि ॥ भ्_६।५३ ॥
% ततश्छमिष्ट्या] ।एद्म्।एद्ब्; ततश्चमिष्ट्या ।एद्ब्क
वदेदिमनिजन्तं च पटिमा लघिमा यथा ।
विशेषेणेयसुन्निष्टो ज्यायानाप कनीयसीम् ॥ भ्_६।५४ ॥
द्वयसज्दघ्नचाविष्टौ प्रमाणविषयौ यथा ।
जानुदघ्नी सरिन्नारी- नितम्बद्वयसं सरः ॥ भ्_६।५५ ॥
मतुप्प्रकरणे ज्योत्स्ना- तमिस्राशृङ्गिणादयः ।
% मतुप्प्रकरणे] ।एद्म्; मतुप्प्रकरणो ।एद्ब्
इनच्च फलबर्हाभ्यां फलिनो बर्हिणो यथा ॥ भ्_६।५६ ॥
इनिः प्रयुक्तः प्रायेण तथा ठंश्च मनीषिभिः ।
तत्रापि मेखालामाला- मायानां सुतरां मतौ ॥ भ्_६।५७ ॥
% मतौ] ।एद्म्; मता ।एद्ब्
अभ्यस्ताज्झेरदादेशे दधतीत्यादयो ऽपि च ।
रोदिति स्वपितीत्यादि सहेटा सार्वधातुकम् ॥ भ्_६।५८ ॥
अभ्यस्तेषु प्रयोक्तव्यम् अदन्तं घुभृञोः शतुः ।
% घुभृञोः] ।एद्म्; च विदेः ।एद्ब्
असौ दधदलङ्कारं स्रजं बिभ्रच्च शोभते ॥ भ्_६।५९ ॥
[न तवर्गं शकारेण क्वचित् सं]योगिनं वदेत् ।
% न तवर्गं शकारेण क्वचित् संयोगिनम्] ।एद्म्; ।लचुन रं योगिनं ।एद्ब्
यथैतच्छ्याममाभाति वनं वनजलोचने ॥ भ्_६।६० ॥
नैकत्रैकारभूयस्तं गतो यातो हतो यथा ।
सावर्ण्यवज्झयो हस्य ब्रूयान्नान्यत्र पद्धतेः ॥ भ्_६।६१ ॥
% सावर्ण्यवज्झयो हस्य] ।एद्म्; सावर्ण्यवत्सयोर्भस्य ।एद्ब्
% ब्रूयान्नान्यत्र] ।एद्म्।एद्ब्; भूयान्नान्यत्र ।एद्ब्क
सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतो ऽहमतो विचारात् ।
शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधेरिति विस्मयो ऽसौ ॥ भ्_६।६२ ॥
विद्यानां सततमपाश्रयो ऽपरासां तासूक्तान्न च विरुणद्धि कांश्चिदर्थान् ।
% तासूक्तान्न] ।एद्म्।एद्ब्; तासूक्तां न ।एद्ब्ग
श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम् ॥ भ्_६।६३ ॥
अवलोक्य मतानि सत्कवीनाम् अवगम्य स्वधिया च काव्यलक्ष्म ।
सुजनावमयाय भामहेन ग्रथितं रक्रिलगोमिसूनुनेदम् ॥ भ्_६।६४ ॥
% रक्रिल@] ।एद्म्।एद्ब्; वकिल@ ।एद्ब्क।उन्मेत्रिचल्; रक्त्रिल@ ।एद्ब्घ
।चोलो
इति श्रीभामहालङ्कारे षष्ठः परिच्छेदः
%% थुस् ।एद्ब्; ।एद्म्। प्लचेस् इत्स् चोलोफोन् अफ़्तेर् वेर्से ६६।
षष्ट्या शरीरं निर्णीतं शतषष्ट्या त्वलङ्कृतिः ।
पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ॥ भ्_६।६५ ॥
षष्ट्या शब्दस्य शुद्धिः स्याद् इत्येवं वस्तुपञ्चकम् ।
% स्यादित्येवम्] ।एद्म्।एद्ब्; स्यादित्येव ।एद्ब्ग
उक्तं षड्भिः परिच्छेदैर् भामहेन क्रमेण वः ॥ भ्_६।६६ ॥