[[अर्थालंकारम् Source: EB]]
[
Arthalankaram
अथ
अर्थालङ्काराः
निरूप्यन्ते
।
1.
उपमा -
आचार्यभरतस्याभिमतेन -
यत्किञ्चित्
काव्यबन्धेषु
सादृश्येनोपमीयते
।
उपमा
नाम
सा
ज्ञेया
गुणाकृतिसमाश्रया
॥ (
नाशा. 16.41)
एकस्यैकेन
सा
कार्या
ह्यनेकेनाथवा
पुनः
।
अनेकस्य
तथैकेन
बहूनां
बहुभिस्तथा
॥ (
नाशा. 16.42)
प्रशंसोपमा,
निन्दोपमा,
कल्पितोपमा,
सदृश्युपमा,
किञ्चित्सदृश्युपमा
चेति
पञ्चधेयमिति
मुनेरभिमतम्
।
यथाक्रममेते
भेदाः
अत्र
प्रतिपाद्यन्ते -
दृष्ट्वा
तु
तां
विशालाक्षीं
तुतोष
मनुजाधिपः
।
मुनिभिः
साधितां
कृच्छ्रात्
सिदिं्ध
मूर्तिमतीमिव
॥ (
नाशा. 16.47)
सा
तं
सर्वगुणैर्हीनं
सस्वजे
कर्कशच्छविम्
।
वने
कण्टकिनं
वल्ली
दावदग्धमिव
द्रुमम्
॥ (
नाशा. 16.48)
क्षरन्तो
दानसलिलं
लालामन्थरगामिनः
।
मतङ्गजा
विराजन्ते
जङ्गमा
इव
पर्वताः
॥ (
नाशा. 16.49)
यत्त्वयाऽद्य
कृतं
कर्म
परचित्तानुरोधिना
।
सदृशं
तत्तवैव
स्यादतिमानुषकर्मणः
॥ (
नाशा. 16.50)
संपूर्णचन्द्रवदना
नीलोत्पलदलेक्षणा
।
मत्तमात्तङ्गगमना
संप्राप्तेयं
सखी
मम
॥ (
नाशा. 16.51)
भामहकृतं
लक्षणं
यथा -
विरुद्धेनोपमानेन
देशकालक्रियादिभिः
।
उपमेयस्य
यत्साम्यं
गुणलेशेन
सोपमा
॥ (
कालभा. 2.30)
दण्डिनो
यथा -
यथाकथञ्चित्
सादृश्यं
यत्रोद्भूतं
प्रतीयते
।
उपमा
नाम
सा
तस्याः
प्रपञ्चोऽयं
प्रदश्र्यते
॥ (
काद. 2.14)
दण्डिनाऽत्रोपमायाः
धर्मोपमाप्रभृतयः
द्वातिं्रशद्भेदाः
निरूपिताः
।
यथाक्रममेतेषां
लक्षणानि
सोदाहरणानि
प्रतिपादयामः
।
(1)
धर्मोपमा -
अम्भोरुहमिवाताम्रं
मुग्धे
करतलं
तव
।
इति
धर्मोपमा
साक्षात्तुल्यधर्मप्रदर्शनम्
॥ (
काद. 2.15)
(2)
वस्तूपमा -
राजीवमिव
ते
वक्त्रं
नेत्रे
नीलोत्पले
इव
।
इयं
प्रतीयमानैकधर्मा
वस्तूपमैव
सा
॥ (
काद. 2.16)
(3)
विपर्यासोपमा -
त्वदाननमिवोन्निद्रमरविन्दमभूदिति
।
सा
प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते
॥ (
काद. 2.17)
(4)
अन्योन्योपमा -
तवाननमिवाम्भोजमम्भोजमिव
ते
मुखम्
।
इत्यन्योन्योपमा
सेयमन्योन्योत्कर्षशंसिनी
॥ (
काद. 2.18)
(5)
नियमोपमा -
त्वन्मुखं
कमलेनैव
तुल्यं
नान्येन
केनचित्
।
इत्यन्यसाम्यव्यावृत्तेरियं
सा
नियमोपमा
॥ (
काद. 2.19)
(6)
अनियमोपमा -
पद्मं
तावत्तवान्वेति
मुखमन्यच्च
तादृशम्
।
अस्ति
चेदस्तु
तत्कारीत्यसावनियमोपमा
॥ (
काद. 2.20)
(7)
समुच्चयोपमा -
समुच्चयोपमाऽप्यस्ति
न
कान्त्यैव
मुखं
तव
।
ह्लादनाख्येन
चान्वेति
कर्मणेन्दुमितीदृशी
॥ (
काद. 2.21)
(8)
अतिशयोपमा -
त्वय्येव
त्वन्मुखं
दृष्टं
दृश्यते
दिवि
चन्द्रमाः
।
इयत्येव
भिदा
नान्येत्यसावतिशयोपमा
॥ (
काद. 2.22)
(9)
उत्प्रेक्षितोपमा -
मय्येवास्या
मुखश्रीरित्यलमिन्दोर्विकत्थनम्
।
पद्मेऽपि
सा
यदस्त्येवेत्यसावुत्प्रेक्षितोपमा
॥ (
काद. 2.23)
(10)
अद्भुतोपमा -
यदि
किञ्चिद्
भवेत्
पद्मं
सुभ्रु
विभ्रान्तलोचनम्
।
तत्ते
मुखश्रियं
धत्तामित्यसावद्भुतोपमा
॥ (
काद. 2.24)
(11)
मोहोपमा -
शशीत्युत्प्रेक्ष्य
तन्वङ्गि
त्वन्मुखं
त्वन्मुखाशया
।
इन्दुमप्यनुधावामीत्येषा
मोहोपमा
स्मृता
॥ (
काद. 2.25)
(12)
संशयोपमा -
किं
पद्ममन्तभ्र्रान्तालि
किन्ते
लोलेक्षणं
मुखम्
।
मम
दोलायते
चित्तमितीयं
संशयोपमा
॥ (
काद. 2.26)
(13)
निर्णयोपमा -
न
पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी
द्युतिः
।
अतस्त्वन्मुखमेवेदमित्यसौ
निर्णयोपमा
॥ (
काद. 2.27)
(14)
श्लेषोपमा -
शिशिरांशुप्रतिस्पर्धि
श्रीमत्सुरभिगन्धि
च
।
अम्भोजमिव
ते
वक्त्रमिति
श्लेषोपमा
॥ (
काद. 2.28)
(15)
समानोपमा -
सरूपशब्दवाच्यत्वात्
सा
समानोपमा
यथा
।
बाले
वोद्यानमालेयं
सालकाननशोभिनी
॥ (
काद. 2.29)
(16)
निन्दोपमा -
पद्मं
बहुरजश्चन्द्रः
क्षयी
ताभ्यां
तवाननम्
।
समानमपि
सोत्सेकमिति
निन्दोपमा
स्मृता
॥ (
काद. 2.30)
(17)
प्रशंसोपमा -
ब्रह्मणोऽप्युद्भवः
पद्मश्चन्द्रः
शम्भुशिरोद्धृतः
।
तौ
तुल्यौ
त्वन्मुखेनेति
सा
प्रशंसोपमोच्यते
॥ (
काद. 2.31)
(18)
आचिख्यासोपमा -
चन्द्रेण
त्वन्मुखं
तुल्यमित्याचिख्यासु
मे
मनः
।
स
गुणो
वास्तु
दोषो
वेत्याचिख्यासोपमां
विदुः
॥ (
काद. 2.32)
(19)
विरोधोपमा -
शतपत्रं
शरच्चन्द्रस्त्वदाननमिति
त्रयम्
।
परस्परविरोधीति
सा
विरोधोपमा
मता
॥ (
काद. 2.33)
(20)
प्रतिषेधोपमा -
न
जातु
शक्तिरिन्दोस्ते
मुखेन
प्रतिगर्जितुम्
।
कलङ्किनो
जडस्येति
प्रतिषेधोपमैव
सा
॥ (
काद. 2.34)
(21)
असाधारणोपमा -
चन्द्रारविन्दयोः
कान्तिमतिक्रम्य
मुखं
तव
।
आत्मनैव
भवत्तुल्यमित्यसाधारणोपमा
॥ (
काद. 2.35)
(22)
चटूपमा -
मृगेक्षणाङ्कं
ते
वक्त्रं
मृगेणैवाङ्कितः
शशी
।
तथापि
सम
एवासौ
नोत्कर्षीति
चटूपमा
॥ (
काद. 2.36)
(23)
आख्यानोपमा -
न
पद्मं
मुखमेवेदं
न
भृङ्गौ
चक्षुषी
इमे
।
इति
विस्पष्टसादृश्यात्
तत्त्वाख्यानोपमैव
सा
॥ (
काद. 2.37)
(24)
अभूतोपमा -
सर्वपद्मप्रभासारः
समाहृत
इव
क्वचित्
।
त्वदाननं
विभातीति
तामभूतोपमां
विदुः
॥ (
काद. 2.38)
(25)
असंभावितोपमा -
चन्द्रविम्बादिव
विषं
चन्दनादिव
पावकः
।
परुषा
वागितो
वक्त्रादित्यसंभावितोपमा
॥ (
काद. 2.39)
(26)
बहूपमा -
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः
।
स्पर्शस्तवेत्यतिशयं
बोधयन्ती
बहूपमा
॥ (
काद. 2.40)
(27)
विक्रियोपमा -
चन्द्रबिम्बादिवोत्कीर्णं
पद्मगर्भादिवोद्धृतम्
।
तव
तन्वङ्गि
वदनमित्यसौ
विक्रियोपमा
॥ (
काद. 2.41)
(28)
मालोपमा -
पूष्ण्यातप
इवाह्नीव
पूषा
व्योम्नीव
वासरः
।
विक्रमस्त्वय्यधाल्लक्ष्मीमिति
मालोपमा
मता
॥ (
काद. 2.42)
(29)
वाक्यार्थोपमा -
वाक्यार्थेनैव
वाक्यार्थः
कोऽपि
यद्युपमीयते
।
एकानेकेव
शब्दत्वात्सा
वाक्यार्थोपमा
द्विधा
॥ (
काद. 2.43)
सेयं
वाक्यार्थोपमा
एकेवशब्दघटिता
अनेकेवशब्दघटिता
च
।
यथाक्रममेतयोरुदाहरणे
निरूप्येते
।
त्वदाननमधीराक्षमाविर्दशनदीधिति
।
भ्रमद्भृङ्गमिवालक्ष्यकेसरं
भाति
पङ्कजम्
॥ (
काद. 2.44)
नलिन्या
इव
तन्वङ्ग्यास्तस्याः
पद्ममिवाननम्
।
मया
मधुव्रतेनेव
पायं
पायमरम्यत
॥ (
काद. 2.45)
(30)
प्रतिवस्तूपमा -
वस्तु
किञ्चिदुपन्यस्य
न्यसनात्तत्सधर्मणः
।
साम्यप्रतीतिरस्तीति
प्रतिवस्तूपमा
यथा
॥ (
काद. 2.46)
उदा. -
नैकोऽपि
त्वादृशोऽद्यापि
जायमानेषु
राजसु
।
ननु
द्वितीयो
नास्त्येव
पारिजातस्य
पादपः
॥ (
काद. 2.47)
(31)
तुल्ययोगोपमा -
अधिकेन
समीकृत्य
हीनमेकक्रियाविधौ
।
यद्ब्रुवन्ति
स्मृता
सेयं
तुल्ययोगोपमा
यथा
॥ (
काद. 2.48)
उदा. -
दिवो
जागर्त्ति
रक्षायै
पुलोमारिर्भुवो
भवान्
।
असुरास्तेन
हन्यन्ते
सावलेपास्त्वया
नराः
॥ (
काद. 2.49)
(32)
हेतूपमा -
कान्त्या
चन्द्रमसं
धाम्ना
सूर्यं
धैर्येण
चार्णवम्
।
राजन्ननु
करोषीति
सैषा
हेतूपमा
मता
॥ (
काद. 2.50)
उभयोः
समानमेकं
गुणादि
सिद्धं
भवेद्यथैकत्र
।
अर्थेऽन्यत्र
तथा
तत्
साध्यत
इति
सोपमा
त्रेधा
॥ (
कालरु. 8.4)
वाक्योपमा
समासोपमा
प्रत्ययोपमा
चेति
रुद्रटमतेनेयं
त्रिविधा
।
वाक्योपमात्र
षोढा
तत्र
त्वेका
प्रयुज्यते
यत्र
।
उपमानमिवादीनामेकं
सामान्यमुपमेयम्
॥ (
कालरु. 8.5)
उदा. -
कमलमिव
चारुवदनं
मृणालमिव
कोमलं
भुजायुगलम्
।
अलिमालेव
सुनीला
तवैव
मदिरेक्षणे
कबरी
॥ (
कालरु. 8.6)
इयमन्या
सामान्यं
यत्रेवादिप्रयोगसामथ्र्यात्
।
गम्येत
सुप्रसिध्दं
तद्वाचिपदाप्रयोगेऽपि
॥ (
कालरु. 8.7)
उदा. -
शशिमण्डलमिव
वदनं
मृणालमिव
भुजलतायुगलमेतत्
।
करकुम्भाविव
च
कुचौ
रम्भागर्भाविवोरू
ते
॥ (
कालरु. 8.8)
वस्त्वन्तरमस्त्यनयोर्न
सममिति
परस्परस्य
यत्र
भवेत्
।
उभयोरुपमानत्वं
सक्रममुभयोपमा
सान्या
॥ (
कालरु. 8.9)
उदा. -
शशिमण्डलमिव
विमलं
वदनं
ते
मुखमिवेन्दुबिम्बमपि
।
कुमुदमिव
स्मितमेतत्स्मितमिव
कुमुदं
च
धवलमिदम्
॥ (
कालरु. 8.10)
सा
स्यादनन्वयाख्या
यत्रैकं
वस्त्वनन्यसदृशमिति
।
स्वस्य
स्वयमेव
भवेदुपमानं
चोपमेयं
च
॥ (
कालरु. 8.11)
उदा. -
आनन्दसुन्दरमिदं
त्वमिव
त्वं
सरसि
नागनासोरु
।
इयमियमिव
तव
च
तनुः
स्फारस्फुरदुरु
रुचिप्रसरा
॥ (
कालरु. 8.12)
(
मम्मटादिमतेन
अयमनन्वयनामा
अन्य
एव
अलङ्कारः
।)
सा
कल्पितोपमाख्या
यैरुपमेयं
विशेषणैर्युक्तम्
।
तावद्भिस्तादृग्भिः
स्यादुपमानं
तथा
यत्र
॥ (
कालरु. 8.13)
उदा. -
मुखमापूर्णकपोलं
मृगमदलिखितार्धपत्रलेखं
ते
।
भाति
लसत्सकलकलं
स्फुटलाञ्छनमिन्दुबिम्बमिव
॥ (
कालरु. 8.14)
अनुपममेतद्वस्त्वित्युपमानं
तद्विशेषणं
चासत्
।
संभाव्य
सयद्यर्थं
या
क्रियते
सोपमोत्पाद्या
॥ (
कालरु. 8.15)
उदा. -
कुमुददलदीधितीनां
त्वक्सम्भूय
च्यवेत
यदि
ताभ्यः
।
इदुमुपमीयेत
तया
सुतनोरस्याः
स्तनावरणम्
॥ (
कालरु. 8.16)
(
मम्मटमतेन
अयमतिशयोक्तेः
प्रकारोऽपर
एवालङ्कारः
।)
सामान्यपदेन
समं
यत्र
समस्येत
तूपमानपदम्
।
अन्तर्भूतेवार्था
सात्र
समासोपमा
प्रथमा
॥ (
कालरु. 8.17)
उदा. -
मुखमिन्दुसुन्दरमिदं
बिसकिसलयकोमले
भुजालतिके
।
जघनस्थली
च
सुन्दरि
तव
शैलशिलाविशालेयम्
॥ (
कालरु. 8.18)
पदमिदमन्यपदार्थे
समस्यतेऽथोपमेयवचनेन
।
यस्यां
तु
सा
द्वितीया
सर्वसमासेति
सम्पूर्णा
॥ (
कालरु. 8.19)
उदा. -
शरदिन्दुसुन्दरमुखी
कुवलयदलदीर्घलोचना
सा
मे
।
दहति
मनः
कथमनिशं
रम्भागर्भाभिरामोरूः
॥ (
कालरु. 8.20)
उपमानपदेन
समं
यत्र
समस्येत
चोपमेयपदम्
।
अन्यपदार्थे
सोदितसामान्येवाभिधेयान्या
॥ (
कालरु. 8.21)
उदा. -
नवविकसितकलकरे
कुवलयदललोचने
सितांशुमुखि
।
दहसि
मनो
यत्तÏ
त्क
रम्भागर्भोरु
युक्तं
ते
॥ (
कालरु. 8.22)
उपमानात्सामान्ये
प्रत्ययमुत्पाद्य
या
प्रयुज्जेत
।
सा
प्रत्ययोपमा
स्यादन्तर्भूतेवशब्दार्था
॥ (
कालरु. 8.23)
उदा. -
पद्यायते
मुखं
ते
नयनयुगं
कुवलयायते
यदिदम्
।
कुमुदायते
तथा
स्मितमेवं
शरदेव
सुतनु
त्वम्
॥ (
कालरु. 8.24)
मालोपमेति
सेयं
यत्रैकं
वस्त्वनेकसामान्यम्
।
उपमीयेतानेकैरुपमानैरेकसामान्यैः
॥ (
कालरु. 8.25)
उदा. -
श्यामा
लतेव
तन्वी
चन्द्रकलेवातिनिर्मला
सा
मे
।
हंसीव
कलालापा
चैतन्यं
हरति
निद्रेव
॥ (
कालरु. 8.26)
अर्थानामौपम्ये
यत्र
बहूनां
भवेद्यथापूर्वम्
।
उपमानमुत्तरेषां
सेयं
रशनोपमेत्यन्या
॥ (
कालरु. 8.27)
(
मम्मटेन
गौरवभिया
रशनोपमा
नैव
स्वीकृता
।)
उदा. -
नभ
इव
विमलं
सलिलं
सलिलमिवानन्दकारि
शशिबिम्बम्
।
शशिबिम्बमिव
लसद्द्युति
तरुणीवदनं
शरत्कुरुते
॥ (
कालरु. 8.28)
क्रियतेऽर्थयोस्तथा
या
तदवयवानां
तथैकदेशानाम्
।
परमन्या
ते
भवतः
समस्तविषयैकदेशिन्यौ
॥ (
कालरु. 8.29)
उदा. -
अलिवलयैरलकैरिव
कुसुमस्तबकैः
स्तनैरिव
वसन्ते
।
भान्ति
लता
ललना
इव
पाणिभिरिव
किसलयैः
सपदि
॥ (
कालरु. 8.30)
इयं
समस्तविषया
।
कमलदलैरधरैरिव
दशनैरिव
केसरैर्विराजन्ते
।
अलिवलयैरलकैरिव
कमलैर्वदनैरिव
नलिन्यः
॥ (
कालरु. 8.31)
इयम्
एकदेशविषया
।
उपमा -
भेदे
सति
साधम्र्यम्
।
सा
च
प्रथमं
त्रिधा
भवति - (1)
भेद
प्रधाना,
(2)
अभेद
प्रधाना, (3)
भेदाभेद
प्रधाना
।
मम्मटमतेन
भेदे
सति
एव
इयं
भवति
।
अत्र
एकवाक्यं
अपेक्षितम्
।
प्रकृतस्य (
वदनादेः)
ततो
भिन्नेन (
राका
चन्द्रादिना)
लोकप्रसिद्धेन
च
एकवाक्य
प्रतिपाद्यं,
कवि
समय
सम्मतं,
कान्तिमत्त्वादिभिः
यत्
साधम्र्यं (
समान
धर्मता
सम्बन्धः)
सा
उपमा
॥
लोकप्रसिद्धपदं
उत्प्रेक्षा
व्यावर्तकं,
तत्र
उपमा
कवि
प्रौढि
सिद्धा;
भिन्न
पदं
अनन्वय
व्यावर्तकं,
तत्र
उपमानोपमेययोरालिंगितत्वात्;
वाच्य
पदं
रूपकादि
व्यावर्तकं,
तत्र
गम्यमानौपम्य
त्वात्;
कविसम्मत
पदं
हीनोपमादि
व्यावर्तकं,
तत्र
कविसम्मत्यभावात्
।
एकवाक्यता
पदं
उपमेयोपमा
व्यावर्तकं,
तत्र
वाक्य
द्वयापेक्षा
सत्त्वात्
।
उपमायां
चत्वारः
अंशाः -
उपमानं,
उपमेयं,
साधारण
धर्मः,
उपमा
प्रतिपादक
वाचकं
च
।
एषां
चतुर्णां
सत्त्वे
पूर्णोपमा
।
सा
श्रौती,
आर्थी
चेति
द्विविधा
।
श्रौत्यां
साक्षात्
सादृश्य
वाचकानि
यथा,
इव,
वा,
वति
प्रत्ययादयः (
तत्र
तस्येवेति)
भवन्ति
।
आथ्र्यां
धर्मि
व्यवहित
प्रतिपादक
वाचकानि -
निभ,
संकाश,
सदृश,
तुल्य,
सम,
उपम
आदयः,
वति
प्रत्ययः (
तेन
तुल्यं
क्रिया
चेत्)
।
उभावप्येतौ
वाक्यगत,
तद्धितगत,
समासगत
भेदेन
त्रिधा
।
उदा -
वाक्यगा
श्रौती - "
मुखं
चन्द्रः
इव
सुन्दरम्"
।
समासगा
श्रौती - "
मुखं
चन्द्रइव
सुन्दरम्"
।
तद्धितगा
श्रौती - "
मुखं
चन्द्रवत्
सुन्दरम्"
।
वाक्यगा
आर्थी - "
मुखं
चन्द्रेण
समं
सुन्दरम्"
।
समासगा
आर्थी - "
मुखं
चन्द्रसमं
सुन्दरम्"
।
तद्धितगा
आर्थी - "
मुखं
चन्द्रवत्
प्रकाशते"
।
यदा
एक,
द्वि,
त्र्यंशाः
लुप्यन्ते
तदा
लुप्तोपमा
।
तत्र
धर्मलुप्ता - "
मुखं
चन्द्रः
इव", "
मुखं
चन्द्रइव", "
मुखं
चन्द्रेण
समं",
"
मुखं
चन्द्रसमं"
।
उपमानलुप्ता
वाक्यगा - "
मुखं
सुन्दरं", "
मुखं
प्रकाशते"
। (
अत्र
वाचकस्यापि
लोपः)
समासगा -
द्विपदा - "
चन्द्र
सुन्दरं
मुखम्"
।
बहुपदा - "
पूर्ण
चन्द्र
सुन्दरं
मुखम्"
।
वाचक
लुप्ता -
कर्म
क्यङ् - "
नायकः
नायकीमुखं
चन्द्रीयते"
।
आधार
क्यच् - "
राजा
रणमुखे
अन्तःपुरीयति"
।
कर्तृ
क्यङ् - "
मुखं
चन्द्रीयते"
।
कर्म
णमुल् - "
नायकः
नायिकामुखं
चन्द्रदर्शं
पश्यति"
।
कर्तृ
णमुल् - "
मुखं
चन्द्रकाशं
काशते"
।
धर्म
वाचक
लुप्ता -
क्विब्गा - "
मुखं
चन्द्रति (
विधवति
वा)"
।
-
समासगा - "
मुखचन्द्रः
प्रकाशते"
।
धर्मोपमान
लुप्ता -
समासगा - "
मुखसदृशं
न
दृश्यते"
।
वाक्यगा - "
मुखेन
सदृशं
न
दृश्यते"
।
वाचकोपमेय
लुप्ता - "
एतत्
चन्द्रीयति"
।
त्रिलुप्ता - "
मृगनयना"
। (
मृगस्य
नयने
इव
नयने
यस्याः
सा -
मध्यमपदलोपी
समासः)
राजानकरुय्यकमतेन -
उपमानोपमेययोः
साधम्र्ये
भेदाभेदतुल्यत्वे
उपमा
॥ (
अस. 11)
।
उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम्
।
साधम्र्ये
त्रयः
प्रकाराः
।
भेदप्राधान्यं
व्यतिरेकादिवत्
।
अभेदप्राधान्यं
रूपकादिवत्
।
द्वयोस्तुल्यत्वं
यथास्याम्
।
यदाहुः - "
यत्र
किंचित्सामान्यं
कश्चिच्च
विशेषः
स
विषयः
सदृशतायाः"
इति
उपमैवानेकप्रकार-
वैचित्र्येणानेकालंकारबीजभूतेति
प्रथमं
निर्दिष्टा
।
अस्याश्च
पूर्णालुप्तात्वभेदाच्चिरन्तनैर्बहुविधत्वमुक्तम्
।
तत्रापि
साधारणधर्मस्य
क्वचिदनुगामितयैकरूप्येण
निर्देशः
।
क्वचिद्वस्तुप्रतिवस्तुभावेन
पृथङ्निर्देशः
पृथङ्निर्देशे
च
सम्बन्धिभेदमात्रं
प्रतिवस्तूपमावत्
।
बिम्बप्रतिबिम्बभावो
वा
दृष्टान्तवत्
।
क्रमेणोदाहरणम् -
उदा. -
प्रभामहत्या
शिखयेव
दीपस्त्रिमार्गयेव
त्रिदिवस्य
मार्गः
।
संस्कारवत्येव
गिरा
मनीषी
तया
स
पूतश्च
विभूषितश्च
॥ (
अस. 13)
उदा. -
यान्त्या
मुहुर्बलितकन्धरमाननं
तदावृत्तवृन्तशतपत्रनिभं
वहन्त्या
।
दिग्धोऽमृतेन
च
विषेण
च
पक्ष्मलाक्ष्या
गाढं
निखात
इव
मे
हृदये
कटाक्षः
॥ (
अस. 14)
उदा. -
पाण्ड्योऽयमंसार्पितलम्बहारः
किप्ताङ्गरागो
हरिचन्दनेन
।
आभाति
बालातपरक्तसानुः
सनिर्झरोद्गार
इवाद्रिराजः
॥ (
अस. 15)
पीयूषकवेः
जयदेवस्याभिमतं
यत् -
उपमा
यत्र
सादृश्यलक्ष्मीरुल्लसति
द्वयोः
।
उदा. -
हृदये
खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव
॥ (
चन्द्रा. 11)
चमत्कारिसाम्यमुपमा,
सा
प्रत्ययाव्ययतुल्यार्थसमासैश्चतुर्धा -
इति
प्रथमवाग्भटे
(
कानु.
पृ.33)
साम्यं
वाच्यमवैधम्र्यं
वाक्यैक्य
उपमा
द्वयोः
॥
इति
विश्वनाथः
(
साद. 10.14)
रूपकादिषु
साम्यस्य
व्यङ्ग्यत्वम्,
व्यतिरेके
च
वैधम्र्यस्याप्युक्तिः,
उपमेयोपमायां
च
वाक्यद्वयम्,
अनन्वये
त्वेकस्यैव
साम्योक्तिरित्यस्याः
भेदः
इति
तत्रैव
वृत्तौ
।
षड्विधां
पूर्णां,
लुप्तां
चैकविंशतिविधां
प्रतिपादयति
विश्वनाथः
।
तत्र
धर्मलुप्तायाः
पञ्च,
उपमानलुप्तायाः
द्वौ,
वाचकलुप्ताया
अपि
द्वौ,
धर्मोपमानलुप्ताया
अपि
द्वौ,
तथैव
धर्मवाचकलुप्तायाः,
उपमेयलुप्ताया
एकः,
तथैव
धर्मोपमेयलुप्तायाः,
तथा
च
त्रिलुप्ताया
भेदा
भवन्ति
इति
साकल्येन
एकविंशतिर्भेदाः
।
विश्वनाथमतेन
उपमाया
भेदा
इत्थं
भवन्ति -
पूर्णोपमायाः
षड्विधत्वम् -
यथा -
(1)
तद्धितगा
श्रौती
पूर्णोपमा - "
सौरभमम्भोरुहवत्
मुखस्य
।"
(2)
समासगा
श्रौती
पूर्णोपमा - "
कुम्भाविव
स्तनौ
पीनौ
।"
(3)
वाक्यगा
श्रौती
पूर्णोपमा - "
हृदयं
मदयति
वदनं
तव
शरदिन्दुर्यथा
बाले
।"
(4)
तद्धितगा
आर्थी
पूर्णोपमा - "
मधुरः
सुधावदधरः
।"
(5)
समासगा
आर्थी
पूर्णोपमा - "
पल्लवतुल्योऽतिपेलवः
पाणिः
।"
(6)
वाक्यगा
आर्थी
पूर्णोपमा - "
चकितमृगलोचनाभ्यां
सदृशी
चपले
च
लोचने
तस्याः"
।
(
साद. 10.16
वृत्तौ)
।
केशवमिश्रस्तु
दशभेदान्
उपमाया
ऊरीकुरुते (
अशे.
पृ.30)
।
ते
यथा -
वाक्यार्थोपमा,
सातिशयोपमा,
श्लेषोपमा,
निन्दोपमा,
भूतोपमा,
विपर्ययोपमा,
संशयोपमा,
नियमोपमा,
स्वोपमा,
विक्रियोपमा
चेति
।
वाक्यार्थेनैव
वाक्यार्थो
यदुपमीयते,
सा
वाक्यार्थोपमा,
सा
च
द्विधा -
सादृश्यानपेक्षा,
तत्सापेक्षा
च
।
उपमानस्यैवोपमेयतायां
विपर्ययोपमा,
यथा -
अथ
सुललितयोषिद्भ्रूलताचारुशाङ्र्गम्
रतिवलयपदाङ्के
चापमासज्य
कण्ठे
।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे
प्राञ्जलिः
पुष्पधन्वा
॥
(
अशे.
पृ.31)
इत्युदाहरणं
केशवेनेह
कुमारसम्भवगतं
दत्तम्,
भ्रूलताया
उपमेयभूताया
उपमानत्वात्,
मदनधनुष
उपमानभूतस्य
चोपमेयतयोल्लेखादिह
विपर्ययः
।
यत्रेतरव्यावृत्त्या
साम्यलाभस्तत्र
नियमोपमा
।
यथा -
कस्ते
पुरन्दरादन्यः
प्रतिमल्लो
भविष्यति
।
ऋते
सहस्रकिरमात्त्वत्प्रतापसमो
हि
कः
॥ (
अशे.
पृ.31)
स्वोपमा
तु
मम्मटादिभिः
प्रोक्तोऽनन्वयालङ्कारः
।
उपमेयस्य
उपमानविकारतयोक्तौ
विक्रियोपमा,
यथा -
हरिणादथ
तन्नयनादथ
पद्मात्
पद्मपत्राच्च
।
आहृत्य
कान्तिसारं
विधिरसृजत्
सुभ्रुवो
दृष्टिम्
॥ (
अशे.
पृ.31)
अत्र
श्रीपादस्यापि
मतं
समभिव्याहारोपमाप्यस्ति (
अशे.
पृ.32)
इति
केशव
उदाजहार
।
2.
रशनोपमा -
आमम्मटम्
इयं
न
केनापि
पृथगलङ्कारत्वेन
स्वीकृता
।
मम्मट
एनामुपमा
प्रपञ्चे
आविर्भावयति
।
विश्वनाथेन
पुनः
पृथक्तयाऽस्या
लक्षणमकारि,
तद्यथा -
यथोध्र्वमुपमेयस्य
यदि
स्यादुपमानता
। (
साद. 10.25)
उदा. -
चन्द्रायते
शुक्लरुचापि
हंसो
हंसायते
चारुगतेन
कान्ता
।
कान्तायते
स्पर्शसुखेन
वारि
वारीयते
स्वच्छतया
विहायः
॥ (
तत्रैव
वृत्तौ)
3.
मालोपमा -
इयमपि
आमम्मटमस्वीकृता
पृथगलङ्कारतया,
विश्वनाथेन
तु
पृथग्लक्षिता
।
मालोपमा
यदेकस्योपमानं
बहु
दृश्यते
। (
साद. 10.26)
इति
च
लक्षणम्
।
उदा. -
वारिजेनेव
सरसी
शशिनेव
निशीथिनी
।
यौवनेनेव
वनिता
नयेन
श्रीर्मनोहरा
॥ (
तत्रैव
वृत्तौ)
4.
अनन्वयः -
न
विद्यते
अन्वयः
उपमानान्तरेण
सम्बन्धो
यस्मिन्
स
अनन्वयः
।
यथा -"
मुखं
मुखमिव"
।
द्वितीय-
सदृश-
व्यवच्छेदः
फलम्
।
उदा. -
गगनं
गगनाकारं
सागरः
सागरोपमः
।
रामरावणयोः
युद्धं
रामरावणयोरिव
॥"
रुय्यकमतेन - "
एकस्यैवोपमानोपमेयत्वेऽनन्वयः" (
अस. 12)
उदा. -
युद्धेऽर्जुनोऽर्जुन
इव
प्रथितप्रतापो
भीमोऽपि
भीम
इव
वैरिषु
भीमकर्मा
।
न्यग्रोधवर्तिनमथाधिपतिं
कुरूणामुत्प्रासनार्थमिव
जग्मतुरादरेण
॥ (
अस. 16)
जयदेवकृतं
लक्षणन्त्वस्यालङ्कारस्य
रुय्यकस्य
संविधानमेव
समर्थयति
।
उदा. -
इन्दुरिन्दुरिव
। (
चन्द्रा. 5.12)
5.
उपमेयोपमा -
उपमानोपमेययोः
विपर्यासः
वाक्यद्वये - "
मुखं
चन्द्र
इव,
चन्द्रः
मुखमिव"
।
रुय्यकमतेन - "
द्वयोः
पर्यायेण
तस्मिन्नुपमेयोपमा"
॥ (
अस. 13)
इयं
च
धर्मस्य
साधारण्ये
वस्तुप्रतिवस्तुनिर्देशे
च
द्विधा
।
आद्ये
यथा -
खमिव
जलं
जलमिव
खं
हंसश्चन्द्र
इव
हंस
इव
चन्द्रः
।
कुमुदाकारास्तारास्ताराकाराणि
कुमुदानि
॥ (
अस. 17)
द्वितीये
यथा -
सच्छायाम्भोजवदनाः
सच्छायवदनाम्बुजा
।
वाप्योऽङ्गना
इवाभान्ति
यत्र
वाप्य
इवाङ्गनाः
॥ (
अस. 18)
जयदेवोऽत्र "
पर्यायेण
द्वयोस्तच्चेदुपमेयोपमा
मता
॥" (
चन्द्रा. 1.13)
इति
लक्षणं
विधाय
रुय्यकमेवानुकरोति
।
तदुदाहरणं
यथा -
धर्मोऽर्थ
इव
पूर्णश्रीरर्थो
धर्म
इव
त्वयि
॥ (
चन्द्रा. 1.13)
भामहेनेयमिदम्प्रथमतयोल्लिखिता
।
धर्मसूरेर्लक्षणम् -
द्वयोः
क्रमेण
भवेतां
चेदुपमानोपमेयते
।
वाक्यद्वयेनोपमेयोपमा
सा
कथिता
द्विधा
॥ (
सार.
पृ.573)
धर्मस्य
वस्तुप्रतिवस्तुतया
निर्देशः,
साधारण्येन
वेति
द्विधा
एनां
धर्मसूरिर्विभजते
।
पण्डितराजस्तु
उक्तधर्मा
व्यक्तधर्मा
चेति
भिन्नावेव
भेदौ
व्यवस्थापयति
।
6.
उत्प्रेक्षा -
अविवक्षितसामान्या
किञ्चिच्चोपमया
सह
।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता
॥ (
कालभा. 2.91)
दण्डिनः
संविधानं
यथा -
अन्यथैव
स्थिता
वृत्तिश्चेतनस्येतरस्य
वा
।
अन्यथोत्प्रेक्षते
यत्र
तामुत्प्रेक्षां
विदुर्यथा
॥ (
काद. 2.221)
एतदनुसारेण
चेतनोत्प्रेक्षाऽचेतनोत्प्रेक्षा
चेति
द्विधेयम्
।
(1)
चेतनोत्प्रेक्षा -
मध्यन्दिनार्कसन्तप्तः
सरसीं
गाहते
गजः
।
मन्ये
मात्र्तण्डगृह्याणि
पद्मान्युद्धर्तुमुद्यतः
॥ (
काद. 2.222)
स्नातुं
पातुं
विसान्यत्तुं
करिणो
जलगाहनम्
।
तद्वैरनिष्क्रयायेति
कविनोत्प्रेक्ष्य
वण्र्यते
॥ (
काद. 2.223)
(2)
अचेतनोत्प्रेक्षा -
कर्णस्य
भूषणमिदं
ममायाति
विरोधिनः
।
इति
कर्णोत्पलं
प्रायस्तव
दृष्ट्या
विलङ्घ्यते
॥ (
काद. 2.224)
अपाङ्गभागपातिन्या
दृष्टेरंशुभिरुत्पलम्
।
स्पृश्यते
वा
न
वेत्येवं
कविनोत्प्रेक्ष्य
वण्र्यते
॥ (
काद. 2.225)
रुद्रटमतेन -
अतिसारूप्यादैक्यं
विधाय
सिद्धोपमानसद्भावम्
।
आरोप्यते
च
तस्मिन्नतद्गुणादीति
सोत्प्रेक्षा
॥ (
कालरु. 8.32)
चम्पकतरुशिखरमिदं
कुसुमसमूहच्छलेन
मदनशिखी
।
अयमुच्चैरारूढः
पश्यति
पथिकान्दिधक्षुरिव
॥ (
कालरु. 8.33)
सान्येत्युपमेयगतं
यस्यां
संभाव्यतेऽन्यदुपमेयम्
।
उपमानप्रतिबद्धापरोपमानस्य
तत्वेन
॥ (
कालरु. 8.34)
आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण
।
शशिशङ्कयेव
पतितं
लाञ्छनमस्या
मुखे
सुतनोः
॥ (
कालरु. 8.35)
रुद्रटमतेन
भेदान्तरम् -
यत्र
विशिष्टे
वस्तुनि
सत्यसत्यमारोप्यते
समं
तस्य
।
वस्त्वन्तरमुपपत्त्या
सम्भाव्यं
सापरोत्प्रेक्षा
॥ (
कालरु. 8.36)
उदा. -
अतिघनकुङ्कुमरागा
पुरः
पताकेव
दृश्यते
सन्ध्या
।
उदयतटान्तरितस्य
प्रथयत्यासनतां
भानोः
॥ (
कालरु. 8.37)
रुद्रटेन
अतिशयोक्तिमूलकालङ्कारेषु
पृथगयं
लक्षितः
।
यथा -
यत्रातितथाभूते
संभाव्येत
क्रियाद्यसंभाव्यम्
।
संभूतमतद्वति
वा
विज्ञेया
सेयमुत्प्रेक्षा
॥ (
कालरु. 9.11)
घनसमयसलिलधौते
नभसि
शरच्चन्द्रिका
विसर्पन्ती
।
अतिसान्द्रतयेह
नृणां
गात्राण्यनुलिम्पतीवेयम्
॥ (
कालरु. 9.12)
पल्लवितं
चन्द्रकरैरखिलं
नीलाश्मकुट्टिमोर्वीषु
।
ताराप्रतिमाभिरिदं
पुष्पितमवनीपतेः
सौधम्
॥ (
कालरु. 9.13)
अन्यनिमित्तवशाद्यद्यथा
भवेद्वस्तु
तस्य
तु
तथात्वे
।
हेत्वन्तरमतदीयं
यत्रारोप्येत
सान्येयम्
॥ (
कालरु. 9.14)
सरसि
समुल्लसदम्भसि
कादम्बवियोगदूयमानेव
।
नलिनी
जलप्रवेशं
चकार
वर्षागमे
सद्यः
॥ (
कालरु. 9.15)
संभावना -
उत्कट
कोटिकः
सन्देहः
द्वयोः (
साध्यः
अध्यवसायः)
उत्प्रेक्षाया
मुख्यं
लक्षणम्
। "
स्थाणुर्वा
पुरुषो
वा"
इत्यत्र
समकोटिकः
स
सन्देहः "
चन्द्र
एव
इति
मन्ये"-
इत्यत्र
उत्कटकोटिकः
।
उपमानं
च
कविकल्पितम्
। (
मन्ये
इत्यादिः
वाचकः)
सम्भावनमथोत्प्रेक्षा
प्रकृतस्य
समेन
यत्
। (
काप्र.
सू. 137)
मम्मटमतेन
भेदाः -
हेतूत्प्रेक्षा - "
उन्मेषं
यो
मम
न
सहते
जातिवैरी
निशायाम्
इन्दोरिन्दीवरदलदृशा
तस्य
सौन्दर्यदर्पः
।
नीतः
शाÏ
न्त
प्रसभमनया
वक्त्रकान्त्येति
हर्षाल्-
लग्ना
मन्ये
ललिततनु
ते
पादयोः
पद्मलक्ष्मीः
॥" (
काप्र.
उ. 416)
अंशे
कविकल्पितं -
क्रियोत्प्रेक्षा - "
लिम्पतीव
तमोऽङ्गानि
वर्षतीवाञ्जनं
नभः
।
असत्पुरुषसेवेव
दृष्टिर्विफलतां
गता
॥" (
काप्र.
उ. 417)
फलोत्प्रेक्षा - "
जटिलः
शरीरबद्धः
प्रथमाश्रमो
यथा"
।
सा
जाति,
गुण,
क्रिया,
द्रव्य
भेदेन
चतुर्विधा
पुनः
प्रत्येकं
भाव,
अभाव
रूपेण
च,
ते
च
गुणरूपाध्यवसाय,
क्रियारूपाध्यवसायाभ्यां,
ततः
सनिमित्त,
अनिमित्ताभ्यां,
पुनः
हेतु,
स्वरूप,
फल
रूपेण
त्रैविध्येन
च
षण्णवतिधा
।
ठ्ठ.
अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा - (
अर्केन्दुशून्याभावात्)
"
भुवनानि
विभाव्यन्ते
प्रसिद्धार्केन्दु
शून्यवत्
।"
ड.
जातिहेतूत्प्रेक्षा - "
तव
कीत्र्या
सुरसरितेव
जगत्त्रयं
पवित्रितम्"
।
ड़.
जातिफलोत्प्रेक्षा - "
रणांगणे
तव
करवालः
चर्ममयं
कोशं
जहौ" (
वैरिणां
रत्न
कोशाय)
ड्ड.
गुणस्वरूपोत्प्रेक्षा - "
भक्तानां
मनोगतो
रागः
रामस्य
पादपद्मयोः
अवतीर्णः
इति
नूनं
अवैमि"
। (
राग
गुणः
उत्प्रेक्षितः)
ड्ढ.
गुणहेतूत्प्रेक्षा - "
हारेषु
त्रुटितेषु
भयेन
क्षीणं
वलग्नं (
नीवी
वा)
स्वत
एव
नूनं
अमुचत्"
।
ढ.
गुणफलोत्प्रेक्षा - "
प्रतीपाः
नृपाः
देहान्
सौख्येच्छया
सत्यं
जहुः"
।
ढ़.
क्रियास्वरूपोत्प्रेक्षा - "
रिपुवधूचक्षुस्तरलता
रामखड्गे
न्यस्ता
ध्रुवम्"
।
ण्.
क्रियाहेतूत्प्रेक्षा - "
रिपूणां
तरलप्राणपारणैः
रामस्य
करवालः
नूनं
तरलः
संजातः"
। (
तारल्य
क्रियाया
हेतुत्वं)
। "
खलु
यतः
लक्ष्मीः
सुधारससहजा
अतः
जीवहेतुभूता"
।
त्.
क्रियाफलोत्प्रेक्षा - "
समीराः
नीरन्ध्र
निकुञ्जान्निविश्य
लताङ्गनालिंगनलालसाः
पुनः
विनिर्गमे
न
शक्नुवन्ति
ध्रुवम्"
।
(
आलिंगन
क्रियायाः
फलत्वं)
।
त्र्.
द्रव्योत्प्रेक्षा - "
शेषः
रघूद्वहभुजाकृतिम्
आप
नूनम्"
।
त्त्.
द्रव्यहेतूत्प्रेक्षा - "
श्रेष्ठसर्पाः
ताक्ष्र्यादिव
रघुपतिशरीरात्
भीताः
न
गराणि
विमुञ्चन्ति
नाकुलीनाः"
। (
श्लेषोत्थापिता
उत्प्रेक्षा)
थ्.
द्रव्यफलोत्प्रेक्षा - "
संज्ञायै
जननीजनस्य
ते
जाताः
ध्रुवम्"
। (
ये
सदाचारं
त्यजन्ति
षडिन्द्रिय
वैफल्यात्)
।
विश्वनाथस्तु
उत्प्रेक्षाया
द्वातिं्रशद्भेदानूरीकरोति
।
तत्र
प्रथमं
वाच्या
प्रतीयमानेति
भेदद्वयम्
।
उभौ
इमौ
भेदौ
जाति-
गुण-
क्रिया-
द्रव्य-
भेदेन
प्रत्येकं
द्विधेति
अष्टौ
भेदाः
।
भावाभावाभिमानतः
तथा
च
निमित्तस्य
गुणक्रियास्वरूपत्वात्
प्रत्येकं
चतुर्विधा
इति
द्वातिं्रशद्भेदाः
।
रुय्यकमतेन -
अध्यवसाये
व्यापारप्राधान्ये
उत्प्रेक्षा
। (
अस. 21)
।
तत्र
भेदाः -
जात्युत्प्रेक्षा -
स
वः
पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारेर्यो
मूÐ
ध्न
ज्वलनकपिशे
भाति
निहितः
।
स्रवन्मन्दाकिन्याः
प्रतिदिवससिक्तेन
पयसा
कपालेनोन्मुक्तः
स्फटिकधवलेनाङ्कुर
इव
॥ (
अस. 48)
क्रियोत्प्रेक्षा -
लिम्प्तीव
तमोङ्गानि
वर्षतीवाञ्जनं
नभः
। (
अस. 49)
गुणोत्प्रेक्षा -
सैषा
स्थली
यत्र
विचिन्वता
त्वां
भ्रष्टं
मया
नूपुरमेकमुव्र्याम्
।
अदृश्यत
त्वच्चरणारविन्दविश्लेषदुःखादिव
बद्धमौनम्
॥ (
अस. 50)
द्रव्योत्प्रेक्षा -
पातालमेतन्नयनोत्सवेन
विलोक्य
शून्यं
मृगलाञ्छनेन
।
इहाङ्गनाभिः
स्वमुखच्छलेन
कृताम्बरे
चन्द्रमयीव
सृष्टिः
॥ (
अस. 51)
एतानि
भावाभिमाने
उदाहरणानि
।
अभावाभिमाने
यथा -
कपोलफलकावस्याः
कष्टं
भूत्वा
तथाविधौ
।
अपश्यन्ताविवान्योन्यमीदृक्षां
क्षामतां
गतौ
॥ (
अस. 52)
गुणस्य
निर्निमित्तत्वं - "
नवविसलताकोटिकुटिलः "
इत्यादि
। (
अस.
पृ.90)
क्रियायाः
निर्निमित्तत्वं - "
ईदृक्षां
क्षामतां
गतौ"
इत्यादि
। (
अस.
पृ.91)
निमित्तोपादानस्यैते
उदाहरणे
।
अनुपादाने - "
लिम्पतीव
तमोऽङ्गानि"
इत्यादि
। (
अस.
पृ.91)
हेतूत्प्रेक्षा - "
विश्लेषदुःखादिव
बद्धमौनम् "
इत्यादि
। (
अस.
पृ.91)
स्वरूपोत्प्रेक्षा -
कुबेरजुष्टां
दिशमुष्णरश्मौ
गन्तुं
प्रवृत्ते
समयं
विलङ्घ्य
।
दिग्दक्षिणा
गन्धवहं
मुखेन
व्यलीकनिःश्वासमिवोत्ससर्ज॥ (
अस. 53)
फलोत्प्रेक्षा -
चोलस्य
यद्भीतिपलायितस्य
भालत्वचं
कण्टकिनो
वनान्ताः
।
अद्यापि
किं
वानुभविष्यतीति
व्यपाटयन्द्रष्टुमिवाक्षराणि
॥ (
अस. 54)
प्रतीयमानोत्प्रेक्षा -
महिलासहस्रभरिते
तव
हृदये
सुभग !
सा
अमान्ती
।
अनुदिनमनन्यकर्मा
अङ्गं
तनुकमपि
तनूकरोति
॥ (
अस. 55)
श्लिष्टशब्दहेतुर्यथा -
अनन्यसामान्यतया
प्रसिद्धस्त्यागीति
गीतो
जगतीतले
यः
।
अभूदहंपूर्विकया
गतानामतीव
भूमिः
स्मरमार्गणानाम्
॥ (
अस. 56)
उपमोपक्रमोत्प्रेक्षा -
कस्तूरीतिलकन्ति
भालफलके
देव्या
मुखाम्भोरुहे
रोलम्बन्ति
तमालबालमुकुलोत्तंसन्ति
मौलावपि
।
याः
कर्णे
विकचोत्पलन्ति
कुचयोरङ्के
च
कालागुरु-
स्थासन्ति
प्रथयन्तु
तास्तव
शिवं
श्रीकण्ठकण्ठत्विषः
॥ (
अस. 57)
सापह्नवोत्प्रेक्षा -
गतासु
तीरं
तिमिघट्टनेन
ससंभ्रमं
पौरविलासिनीषु
।
यत्रोल्लसत्फेनततिच्छलेन
मुक्ताट्टहासेव
विभाति
सिप्रा
॥ (
अस. 58)
जयदेवस्य -
उत्प्रेक्षोन्नीयते
यत्र
हेत्वादिर्निह्नुतिं
विना
।
उदा. -
त्वन्मुखश्रीकृते
नूनं
पद्मैर्वैरायते
शशी
॥ (
चन्द्रा. 5.29)
अत्यन्तसादृश्यादसतोऽपि
धर्मस्य
कल्पनमुत्प्रेक्षा
।
इति
प्रथमवाग्भटे (
कानु.
पृ.34)
।
7.
ससन्देहः -
उपमानेन
तत्त्वञ्च
भेदञ्च
वदतः
पुनः
।
ससन्देहं
वचःस्तुत्यै
ससन्देहं
विदुर्यथा
॥ (
कालभा. 3.43)
वस्तुनि
यत्रैकस्मिन्ननेकविषयस्तु
भवति
संदेहः
।
प्रतिपत्तुः
सादृश्यादनिश्चयः
संशयः
स
इति
॥ (
कालरु. 8.59)
किमिदं
लीनालिकुलं
कमलं
किं
वा
मुखं
सुनीलकचम्
।
इति
संशेते
लोकस्त्वयि
सुतनु
सरोवतीर्णायाम्
॥ (
कालरु. 8.60)
उपमेये
सदसंभवि
विपरीतं
वा
तथोपमानेऽपि
।
यत्र
स
निश्चयगर्भस्ततोऽपरो
निश्चयान्तोऽन्यः
॥ (
कालरु. 8.61)
एतÏ
त्क
शशिबिम्बं
न
तदस्ति
कथं
कलङ्कमङ्केऽस्य
॥ (
कालरु. 8.62)
किं
पुनरिदं
भवेदिति
सौधतलालक्ष्यसकलदेहायाः
।
वदनमिदं
ते
वरतनु
विलोक्य
संशेरते
पथिकाः
॥ (
कालरु. 8.63)
किमयं
हरिः
कथं
तद्गौरः
किंवा
हरः
क्व
सोऽस्य
वृषः
।
इति
संशय्य
भवन्तं
नाम्ना
निश्चिन्वते
लोकाः
॥ (
कालरु. 8.64)
यत्रानेकत्रार्थे
संदेहस्त्वेककारकत्वगतः
।
स्यादेकत्वगतो
वा
सादृश्यात्संशयः
सोऽन्यः
॥ (
कालरु. 8.65)
गमनमधीतं
हंसैस्त्वत्तः
सुभगे
त्वया
नु
हंसेभ्यः
।
किं
शशिनः
प्रतिबिम्बं
वदनं
ते
किं
मुखस्य
शशी
॥ (
कालरु. 8.66)
- (
स्थाणुर्वा
पुरुषो
वा)
भेदोक्तौ -
शुद्धः - "
मुखं
वा
चन्द्रो
वा"
निश्चयगर्भः - "
किमयं
चन्द्रः ?
स
तु
गगने
प्रकाशते"
निश्चयान्तः - "
किमयं
चन्द्रः ?
यदि
तर्हि
क्व
कलङ्कः ?"
इत्यादिना
मुखमिति
निश्चीयते
।
भेदानुक्तौ - "
किं
चन्द्र
एव
अत्र
प्रकाशते ?"
।
"
अस्याः
सर्गविधौ
प्रजापतिः
अभूत्
चन्द्रो
नु
कान्तिप्रदः ?"
। (
काप्र.
उ. 420)
ससन्देहस्तु
भैदोक्तौ
तदनुक्तौ
च
संशयः
। (
काप्र.
सू. 138)
विषयस्य
सन्दिहमानत्वे
सन्देहः
। (
अस. 17)
तदत्र
रुय्यकः
भेदाभेदव्यतिरिक्तत्वेन
शुद्धः,
निश्चयगर्भः,
निश्चयान्तश्चेति
केवलं
भेदत्रयं
स्वीकुरुते
।
शुद्धो
यथा -
किं
तारुण्यतरोरियं
रसभरोद्भिन्ना
नवा
वल्लरी
लीलाप्रोच्छलितस्य
किं
लहरिका
लावण्यवारांनिधेः
।
उद्गाढोत्कलिकावतां
स्वसमयोपन्यासविस्रम्भिणः
किं
साक्षादुपदेशयष्टिरथवा
देवस्य
शृङ्गारिणः
॥ (
अस. 34)
निश्चयगयर्भः -
अयं
मार्तण्डः
किं
स
खलु
तुरगैः
सप्तभिरितः
कृशानुः
किं
साक्षात्प्रसरति
दिशो
नैष
नियतम्
।
कृतान्तः
किं
साक्षान्महिषवहनोऽसाविति
पुरः
समालोक्याजौ
त्वां
विदधति
विकल्पान्प्रतिभटाः
॥ (
अस. 35)
निश्चयान्तः -
इन्दुः
किं
क्व
कलङ्कः
सरसिजमेतत्किमम्बु
कुत्र
गतम्
।
ललितसविलासवचनैर्मुखमिति
हरिणाक्षि
निश्चितं
परतः
॥ (
अस. 36)
क्वचिदारोप्यमाणानां
भिन्नाश्रयत्वे
दृश्यते
यथा -
रञ्जिता
नु
विविधास्तरुशैला
नामितं
नु
गगनं
स्थगितं
नु
।
पूरिता
नु
विषमेषु
धरित्री
संहृता
नु
ककुभस्तिमिरेण
॥ (
अस. 37)
सन्देहविचिकित्सायां
सन्देहोऽलङ्कार
इति
जयदेवः
॥ (
चन्द्रा. 5.31)
उदा. -
पङ्कजं
वा
सुधांशुर्वेत्यस्माकं
तु
न
निर्णयः
। (
चन्द्रा. 5.32)
विश्वनाथस्त्वत्र
सन्देहः
प्रतिभोत्थितः
स्यादित्यपेक्षते
। (
साद. 10.35)
भेदत्रयं
चास्यासौ
स्वीकरोति
।
8.
रूपकम् - (
रूपयतीति) -
अतिसाम्यात्
अभेदारोपः,
अनपह्नुतभेदः
वा
सादृश्याधारेण
प्रकृते
विविधदृश्याणां
रूपनिर्वर्णना
रूपकम्
इति
मुनिः
।
तत्कृतं
लक्षणं
यथा -
स्वविकल्पेन
रचितं
तुल्यावयवलक्षणम्
।
किञ्चित्सादृश्यसम्पन्नं
यद्रूपं
रूपकं
तु
तत्
॥ (
नाशा. 16.56)
तत्त्वनिरूपणमिति
भामहः
।
भामहकृतं
लक्षणं
यथा -
उपमानेन
यतत्त्वमुपमेयस्य
रूप्यते
।
गुणानां
समतां
दृष्ट्वा
रूपकं
नाम
तद्विदुः
॥ (
कालभा. 2.21)
दण्डिनो
यथा -
उपमैव
तिरोभूतभेदा
रूपकमुच्यते
।
यथा
बाहुलता
पाणिपद्मं
चरणपल्लवः
॥ (
काद. 2.66)
असमस्तरूपकम् -
अङ्गुल्यः
पल्लवान्यासन्
कुसुमानि
नखत्विषः
।
बाहू
लते
वसन्तश्रीस्त्वं
नः
प्रत्यक्षचारिणी
॥ (
काद. 2.67)
समस्तव्यस्तरूपकम् -
स्मितं
मुखेन्दोज्र्योत्स्नेति
समस्तव्यस्तरूपकम्
॥ (
काद. 2.68)
सकलरूपकम् -
ताम्राङ्गुलिदलश्रेणि
नखदीधितिकेसरम्
।
ध्रियते
मूÐ
ध्न
भूपालैर्भवच्चरणपङ्कजम्
॥ (
काद. 2.69)
अवयवरूपकम् -
अकस्मादेव
ते
चण्डि
स्फुरिताधरपल्लवम्
।
मुखं
मुक्तारुचो
धत्ते
घर्माम्भःकणमञ्जरीः
॥ (
काद. 2.71)
अवयविरूपकम् -
वल्गितभ्रु
गलद्घर्मजलमालोहितेक्षणम्
।
विवृणोति
मदावस्थामिदं
वदनपङ्कजम्
॥ (
काद. 2.73)
एकाङ्गरूपकम् -
मदपाटलगण्डेन
रक्तनेत्रोत्पलेन
ते
।
मुखेन
मुग्धः
सोऽप्येष
जनो
रागमयः
कृतः
॥ (
काद. 2.75)
युक्तरूपकम् -
स्मितपुष्पोज्ज्वलं
लोलनेत्रभृङ्गमिदं
मुखम्
।
इति
पुष्पद्विरेफाणां
सङ्गत्या
युक्तरूपकम्
॥ (
काद. 2.77)
अयुक्तरूपकम् -
इदमाद्र्रस्मितज्योत्स्नं
स्निग्धनेत्रोत्पलं
मुखम्
।
इति
ज्योत्स्नोत्पलायोगादयुक्तं
नाम
रूपकम्
॥ (
काद. 2.78)
विषमरूपकम् -
रूपणादङ्गिनोऽङ्गानां
रूपणारूपणाश्रयात्
।
रूपकं
विषमं
नाम
ललितं
जायते
यथा
॥ (
काद. 2.79)
उदा. -
मदरक्तकपोलेन
मन्मथस्त्वन्मुखेन्दुना
।
नर्त्तितभ्रूलतेनालं
मर्दितुं
भुवनत्रयम्
॥ (
काद. 2.80)
सविशेषणरूपकम् -
हरिपादः
शिरोलग्नजह्नुकन्याजलांशुकः
।
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः
॥ (
काद. 2.81)
विशेषणसमग्रस्य
रूपं
केतोर्यदीदृशम्
।
पादे
तदर्पणादेतत्सविशेषणरूपकम्
॥ (
काद. 2.82)
विरुद्धरूपकम् -
न
मीलयति
पद्मानि
न
नभोऽप्यवगाहते
।
त्वन्मुखेन्दुर्ममासूनां
हरणायैव
कल्पते
॥ (
काद. 2.83)
अक्रियाचन्द्रकार्याणामन्यकार्यस्य
च
क्रिया
।
अत्र
सन्दश्र्यते
यस्माद्विरुद्धं
नाम
रूपकम्
॥ (
काद. 2.84)
हेतुरूपकम् -
गाम्भीर्येण
समुद्रोऽसि
गौरवेणासि
पर्वतः
।
कामदत्वाच्च
लोकानामसि
त्वं
कल्पपादपः
॥ (
काद. 2.85)
गाम्भीर्यप्रमुखैरत्र
हेतुभिः
सागरो
गिरिः
।
कल्पद्रुमश्च
क्रियते
तदिदं
हेतुरूपकम्
॥ (
काद. 2.86)
श्लिष्टरूपकम् -
राजहंसोपभोगार्हं
भ्रमरप्राथ्र्यसौरभम्
।
सखि
वक्त्राम्बुजमिदं
तवेति
श्लिष्टरूपकम्
॥ (
काद. 2.87)
उपमारूपकं
व्यतिरेकरूपकञ्च -
इष्टं
साधम्र्यवैधम्र्यदर्शनाद्गौणमुख्ययोः
।
उपमाव्यतिरेकाख्यं
रूपकद्वितयं
यथा
॥ (
काद. 2.88)
यथाक्रममेतयोरुदाहरणं
यथा -
अयमालोहितच्छायो
मदेन
मुखचन्द्रमाः
।
सन्नद्धोदयरागस्य
चन्द्रस्य
प्रतिगर्जति
॥ (
काद. 2.89)
चन्द्रमाः
पीयते
देवैर्मया
त्वन्मुखचन्द्रमाः
।
असमग्रोऽप्यसौ
शश्वदयमापूर्णमण्डलः
॥ (
काद. 2.90)
समाधानरूपकम् -
मुखेन्दुरपि
ते
चण्डि
मां
निर्दहति
निर्दयम्
।
भाग्यदोषान्ममैवेति
तत्समाधानरूपकम्
॥ (
काद. 2.92)
रूपकरूपकम् -
मुखपङ्कजरङ्गेऽस्मिन्
भ्रूलतानत्र्तकी
तव
।
लीलानृत्यं
करोतीति
रम्यं
रूपकरूपकम्
॥ (
काद. 2.93)
अपह्नवरूपकम् -
नैतन्मुखमिदं
पद्मं
न
नेत्रे
भ्रमराविमौ
।
एतानि
केसराण्येव
नैता
दन्तार्चिषस्तव
॥ (
काद. 2.94)
तत्त्वारोप
इति
वामनः
।
स्वरूपार्पणमिति
कुन्तकः
।
उपमानोपमेययोरभेद
इति
दण्डि-
मम्मट-
वाग्भटद्वय-
केशवमिश्र-
पण्डितराजादयः
।
अभेदरूपारोप
इति
रुय्यक-
हेम-
जयदेव-
विश्वनाथादयः
।
विश्वनाथेन
रूपकभेदाः
मम्मटवद्
लक्षिताः,
परन्तु
आरोप्यमाणस्य
उपमानस्यापेक्षया
आरोपविषय
उपमेये
यदि
वैशिष्ट्यम्,
आधिक्यं
वा
किमपि
स्यात्,
तर्हि
अधिकारूढवैशिष्ट्यं
नाम
रूपकं
मन्तव्यमिति
असावभिप्रैति
।
धर्मसूरिस्तु -
विषयानिह्नवेनान्यस्यारोपे
रूपकं
मतम्
। (
सार.
पृ.528)
रुद्रटमतेन -
यत्र
गुणानां
साम्ये
सत्युपमानोपमेययोरभिदा
।
अविविक्षितसामान्या
कल्प्यत
इति
रूपकं
प्रथमम्
॥ (
कालरु. 8.38)
साक्षादेव
भवान्विष्णुर्भार्या
लक्ष्मीरियं
च
ते
।
नान्यभद्भूतसृजा
सृष्टं
लोके
मिथुनमीदृशम्
॥ (
कालरु. 8.39)
उपसर्जनोपमेयं
कृत्वा
समासमेतयोरुभयोः
।
यत्तु
प्रयुज्यते
तद्रूपमन्यत्समासोक्तम्
॥ (
कालरु. 8.40)
सावयवं
निरवयवं
सङ्कीर्णं
चेति
भिद्यते
भूयः
।
द्वयमपि
पुनर्द्विधैतत्समस्तविषयैकदेशितया
॥ (
कालरु. 8.41)
उभयस्यावयवानामन्योन्यं
तद्वदेव
यत्क्रियते
।
तत्सावयवं
त्रेधा
सहजाहार्योभयैस्तैः
स्यात्
॥ (
कालरु. 8.42)
उदा. -
ललनाः
सरोरुहिण्यः
कमलानि
मुखानि
केसरैर्दशनैः
।
अधरैर्दलैश्च
तासां
नवबिसनालानि
बाहुलताः
॥ (
कालरु. 8.43)
विकसितताराकुमुदे
गगनसरस्यमलचन्द्रिकासलिले
।
विलसति
शशिकलहंसः
प्रावृड्विपदपगमे
सद्यः
॥ (
कालरु. 8.44)
अलिकुलकुन्तलभाराः
सरसिजवदनाश्च
चक्रवाककुचाः
।
राजन्ति
हंसवसनाः
सम्प्रति
वाणीविलासिन्यः
॥ (
कालरु. 8.45)
निरवयवलक्षणम् -
मुक्त्वावयवविवक्षां
विधीयते
यत्तु
तत्तु
निरवयवम्
।
भवति
चतुर्धा
शुद्धं
माला
रशना
परम्परितम्
॥ (
कालरु. 8.46)
शुद्धमिदं
सा
माला
रशनाया
वैपरीत्यमन्यदिदम्
।
यस्मिन्नुपमानाभ्यां
समस्यमुपमेयमन्यार्थे
॥ (
कालरु. 8.47)
उदा. -
कः
पूरयेदशेषान्कामानुपशमितसकलसंतापः
।
अखिलार्थिनां
यदि
त्वं
न
स्याः
कल्पद्रुमो
राजन्
॥ (
कालरु. 8.48)
कुसुमायुधपरमास्त्रं
लावण्यमहोदधिर्गुणनिधानम्
।
आनन्दमन्दिरमहो
हृदि
दयिता
स्खलति
मे
शल्यम्
॥ (
कालरु. 8.49)
किसलयकरैर्लतानां
करकमलैः
कामिनां
जगज्जयति
।
नलिनीनां
कमलमुखैर्मुखेन्दुभिर्योषितां
मदनः
॥ (
कालरु. 8.50)
स्मरशबरचापयष्टिर्जयति
जनानन्दजलधिशशिलेखा
।
लावण्यसलिलसिन्धुः
सकलकलाकमलसरसीयम्
॥ (
कालरु. 8.51)
इति
यथाक्रमं
चतुर्णामुदाहरणानि
।
उपमेयस्य
क्रियते
तदवयवानां
च
साकमुपमानैः
।
उभयेषां
निरवयवैर्विज्ञेयं
तदिति
संकीर्णम्
॥ (
कालरु. 8.52)
लक्ष्मीस्त्वं
मुखमिन्दुर्नयने
नीलोत्पले
करौ
कमले
।
केशाः
केकिकलापो
दशना
अपि
कुन्दकलिकास्ते
॥ (
कालरु. 8.53)
सुतनु
सरो
गगनमिदं
हंसरवो
मदनचापनिर्घोषः
।
कुमुदवनं
हरहसितं
कुवलयजालं
दृशः
सुदृशाम्
॥ (
कालरु. 8.54)
इन्द्रस्त्वं
तव
बाहू
जयलक्ष्मीद्वारतोरणस्तम्भौ
।
खङ्गः
कृतान्तरसना
जिह्वा
च
सरस्वती
राजन्
॥ (
कालरु. 8.55)
उक्तं
समस्तविषयं
लक्षणमनयोस्तथैकदेशीदम्
।
कमलाननैर्नलिन्यः
केसरदशनैः
स्मितं
चक्रुः
॥ (
कालरु. 8.56)
अतिसाम्यादुपमेयं
यस्यामसदेव
कथ्यते
सदपि
।
उपमानमेव
सदिति
च
विज्ञेयापह्नुतिः
सेयम्
॥ (
कालरु. 8.57)
नवबिसकिसलयकोमलसकलावयवा
विलासिनी
सैषा
।
आनन्दयति
जनानां
नयनानि
सितांशुलेखेव
॥ (
कालरु. 8.58)
मम्मटमतेन -
तद्रूपकमभेदो
य
उपमानोपमेययोः
। (
काप्र.
सू. 139)
समस्तवस्तुविषयं
श्रौता
आरोपिता
यदा
॥ (
काप्र.
सू. 140)
(
आरोप्यमाणस्य
प्राधान्यं,
श्रौती,
आर्थी
भेदश्च)
सावयवं (
साङ्गं) -
समस्तवस्तुविषयं -
"
ज्योत्स्ना
भस्मच्छुरणधवला
बिभ्रती
तारकास्थी-
न्यन्तर्धानव्यसनरसिका
रात्रिकापालिकीयम्
।
द्वीपाद्द्वीपं
भ्रमति
दधती
चन्द्रमुद्राकपाले
न्यस्तं
सिद्धाञ्जनपरिमलं
लाञ्छनस्य
च्छलेन
॥" (
काप्र.
उ. 421)
श्रौता
आर्थाश्च
ते
यस्मिन्नेकदेशविवर्ति
तत्
। (
काप्र.
सू. 141)
एकदेशवृत्ति - "
जस्स
रणन्तेउरए
करे
कुणन्तस्स
मण्डलग्गलअम्
।
रससंमुही
वि
सहसा
परंमुही
होई
रिउसेणा
॥" (
काप्र.
उ. 422)
(
राज्ञा
रणान्तःपुरे
मण्डलाग्रलता
करे
गृहीता)
।
निरवयवं -
केवलः - "
मुखं
चन्द्रः", "
कुरङ्गीवाङ्गानि
स्तिमितयति
गीतध्वनिषु
यत्
सखीं
कान्तोदन्तं
श्रुतमपि
पुनः
प्रश्नयति
यत्
।
अनिद्रं
यच्चान्तः
स्वपिति
तदहो
वेद्म्यभिनवां
प्रवृत्तोऽस्याः
सेक्तुं
हृदि
मनसिजः
प्रेमलतिकाम्
॥" (
काप्र.
उ. 423)
मालारूपः - "
सौन्दर्यस्य
तरङ्गिणी
तरुणिमोत्कर्षस्य
हर्षोद्गमः
कान्तेः
कार्मणकर्म
नर्मरहसामुल्लासनावासभूः
।
विद्या
वक्रगिरां
विधेरनवधिप्रावीण्यसाक्षात्क्रिया
बाणाः
पञ्च
शिलीमुखस्य
ललनाचूडामणिः
सा
प्रिया
॥" (
काप्र.
उ. 424)
परम्परितं -
श्लिष्टः -
केवलः - "
अलौकिकमहालोकप्रकाशित
जगत्त्रयः
।
स्तूयते
देव
सद्वंशमुक्तारत्नं
न
कैर्भवान्"
॥ (
काप्र.
उ. 427)
मालारूपः - "
विद्वन्मानसहंस
वैरिकमलासंकोच
दीप्तद्युते
दुर्गामार्गणनीललोहित
समित्स्वीकारवैश्वानर
।
सत्यप्रीतिविधानदक्ष
विजयप्राग्भावभीम
प्रभो
साम्राज्यं
वरवीर
वत्सरशतं
वैरिञ्चमुच्चैः
क्रियाः
॥" (
काप्र.
उ. 425)
अश्लिष्टः -
केवलः - "
चतुर्दशलोकवल्लिकन्दः"
मालारूपः - "
आलानं
जयकुञ्जरस्य
दृषदां
सेतुर्विपद्वारिधेः
पूर्वाद्रिः
करवालचण्डमहसो
लीलोपधानं
श्रियः
।
समग्रामामृतसागरप्रमथनक्रीडाविधौ
मन्दरो
राजन्
राजति
वीरवैरिवनितावैधव्यदस्ते
भुजः
॥" (
काप्र.
उ. 426)
अभेदप्राधान्ये
आरोपे
आरोपविषयापह्नवे
रूपकम्
॥ (
अस. 15)
अनेनाप्यष्टौ
भेदाः
स्वीकृताः
।
यत्रोपमानचित्रेण
सर्वथाप्युपरज्यते
।
उपमेयमयी
भित्तिस्तत्र
रूपकमिष्यते
॥ (
चन्द्रा. 5.18)
जयदेवेन
लक्षणकत्र्तृकं
पद्यमिदमुदाहरणत्वेनापि
प्रस्तुतम्
।
केशवमिश्रस्तु
पञ्चधा
रूपकमाह -
विरुद्धम्,
समस्तम्,
व्यस्तम्,
रूपकरूपकम्,
श्लिष्टं
च
।
यत्र
उपमानविरुद्धोऽर्थस्तत्र
विरुद्धम्
।
रूपकरूपकं
यथा -
मुखपङ्कजरङ्गेऽस्मिन्
भ्रूलता
नर्तकी
तव
।
नरीनर्ति
लसत्स्वर्णकेतकीदललोचने
॥ (
अशे.
पृ.33)
9.
अपह्नुतिः -
अपह्नुतिरभीष्टा
च
किञ्चिदन्तर्गतोपमा
।
भूतार्थापह्नवादस्याः
क्रियते
चाभिधा
यथा
॥ (
कालभा. 3.21)
मम्मटमतेन -
प्रकृतं
यन्निषिध्यान्यत्
साध्यते
सा
त्वपह्नुतिः
। (
काप्र.
सू. 146)
उपमेयं
असत्यं
कृत्वा
उपमानं
सत्याप्यते
।
आरोप्यप्रकृतनिषेधः - "
अयं
चन्द्रः,
न
मुखम्"
।
निषिध्यारोपः - "
एतन्मुखं
नास्ति,
चन्द्रः
अयम्"
।
"
अयं
शशाङ्कस्य
वपुषि
कलङ्को
न",
"
अवाप्तः
प्रागल्भ्यं
परिणतरुचः
शेलतनये
कलङ्को
नैवायं
विलसति
शशाङ्कस्य
वपुषि
।
अमुख्येयं
मन्ये
विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता
शेते
रजनिरमणी
गाढमुरसि"
॥ (
काप्र.
उ. 430)
छलादिशब्दप्रयोगः (
आर्थी) - "
बत
सखि
कियदेतत्
पश्य
वैरं
स्मरस्य
प्रियविरहकृशेऽस्मिन्
रागिलोके
तथा
हि
।
उपवनसहकारोद्भासिभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं
कालकूटम्"
॥ (
काप्र.
उ. 431)
विषयस्यापह्नवेऽपह्नुतिः
॥ (
अस. 20)
अस्य
चालङ्कारस्य
त्रयी
बन्धच्छाया
।
अपह्नवपूर्वक
आरोपः,
आरोपपूर्वकोऽपह्नवः,
छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः
।
आद्यो
यथा -
यदेतच्चन्द्रोन्तर्जलदलवलीलां
प्रकुरुते
तदाचष्टे
लोकः
शशक
इति
नो
मां
प्रति
तथा
।
अहं
त्विन्दुं
मन्ये
त्वदरिविरहक्लान्ततरुणी-
कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्
॥ (
अस. 42)
द्वितीयो
यथा -
विलसदमरनारीनेत्रनीलाब्जषण्डा-
न्यधिवसति
सदा
यः
संयमाधःकृतानि
।
न
तु
रुचिरकलापे
वर्तते
यो
मयूरे
वितरतु
स
कुमारो
ब्रह्मचर्यश्रियं
वः
॥ (
अस. 44)
तृतीयो
यथा -
उद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः
कुच-
प्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना
।
सार्धं
त्वद्रिपुभिस्त्वदीययशसां
शून्ये
मरौ
धावतां
भ्रष्टं
राजमृगाङ्ककुन्दमुकुलस्थूलैः
श्रमाम्भःकणैः
॥ (
अस. 45)
जयदेवस्य
मतेन -
अतथ्यमारोपयितुं
तथ्यापास्तिरपह्नुतिः
॥ (
चन्द्रा. 5.24)
उदा. -
नायं
सुधांशुः
किं
तर्हि
व्योमगङ्गासरोरुहम्
॥ (
चन्द्रा. 5.24)
तदत्रायमलङ्कारस्यास्य
भेदचतुष्टयं
नावीन्येन
प्रतिपादयति
।
क्रमशस्तेषां
सोदाहरणं
लक्षणं
प्रतिपाद्यते
।
(1)
पर्यस्तापह्नुतिः -
पर्यस्तापह्नुतिर्यत्र
धर्ममात्रं
निषिध्यते
।
नायं
सुधांशुः
किं
तर्हि
सुधांशुः
प्रेयसीमुखम्
॥ (
चन्द्रा. 5.25)
(2)
भ्रान्तापह्नुतिः -
भ्रान्तापह्नुतिरन्यस्य
शङ्कया
तथ्यनिर्णये
।
शरीरं
सोत्कम्पं
ज्वरः
किं
न
सखि
स्मरः
॥ (
चन्द्रा. 5.26)
(3)
छेकापह्नुतिः -
छेकापह्नुतिरन्यस्य
शङ्कया
तथ्यनिह्नवे
।
प्रजल्पन्मत्पदे
लग्नः
कान्तः
किं
न
हि
नूपुरः
॥ (
चन्द्रा. 5.27)
(4)
कैतवापह्नुतिः -
कैतवापह्नुतिव्र्यक्ते
व्याजाद्यैर्निह्नवे
पदैः
।
निर्यान्ति
स्मरनाराचाः
कान्तादृक्पातकैतवात्
॥ (
चन्द्रा. 5.28)
पद्येषु
चैतेषु
पूर्वार्धाः
लक्षणद्योतकाः
उत्तरार्धाश्चोदाहरणघटकाः
।
विश्वनाथ
स्तु
मम्मटप्रोक्तं
लक्षणमनूद्य
अपरथाप्यपह्नुतिमित्थं
लक्षयति -
गोपनीयं
कमप्यर्थं
द्योतयित्वा
कथञ्चन
।
यदि
श्लेषेणान्यथा
वान्यथयेत्
साप्यपह्नुतिः
॥ (
साद. 10.38)
श्लेषेण
यथा -
काले
वारिधराणामपतितया
नैव
शक्यते
स्थातुम्
।
उत्कण्ठितासि
तरले,
नहि
नहि
सखि
पिच्छिलः
पन्थाः
॥ (
तत्रैव
वृत्तौ)
अश्लेषेण
यथा -
इह
पुरोऽनिलकम्पितविग्रहा
मिलति
का
न
वनस्पतिना
लता
।
स्मरसि
किं
सखि
कान्तरतोत्सवं
नहि
घनागमरीतिरुदाहृता
॥ (
तत्रैव
वृत्तौ)
वक्रोक्तौ
परोक्तेरन्यथाकारः,
इह
तु
स्वोक्तेरेवेति
भेदः
।
गोपनकृता
गोपनीयस्यापि
प्रथममभिहितत्वाच्च
व्याजोक्तेः
अपि
भेदोऽवगन्तव्य
इति
तत्रैव
।
10.
निश्चयः -
विश्वनाथेनायमलङ्कारोऽङ्गीकृतः
।
अन्यन्निषिध्य
प्रकृतस्थापनं
निश्चयः
पुनः
। (
साद. 10.39)
अपह्नुतौ
प्रकृतस्य
निषेधः,
अप्रकृतस्य
च
स्थापना,
इह
तु
अप्रकृतस्य
निषेधः,
प्रकृतस्यैव
च
स्थापना
।
उदा. -
वदनमिदं
न
सरोजं,
नयने
नेन्दीवरे
एते
।
इह
सविधे
मुग्धदृशो
भ्रमर
मुदा
किं
परिभ्रमसि
॥ (
तत्रैव
वृत्तौ)
नायं
निश्चयान्तः
सन्देहः,
तत्र
संशयनिश्चययोरेकाश्रयत्वेनावस्थानात्,
न
च
रूपकध्वनिरियं,
मुखस्य
कमलत्वेनानिर्धारणात्
।
11.
श्लेषः -
नाट्यशास्त्रे
अग्नौ
च
नायं
निरूपितः
।
परन्तु
तत्र
काव्यगुणेषु
श्लेषनाम्नो
गुणस्य
निरूपणं
वरीवर्ति
।
दण्डिनि
वामने
चायं
गुणरूपेण
अलङ्काररूपेणोभयथा
विवृतः
।
भामहोद्भटरुय्यकादयस्तु
एनं
केवलमर्थालङ्कारेष्वेव
पठन्ति
।
रुद्रट-
भोज-
मम्मटादयः
शब्दश्लेषमर्थश्लेषं
चेति
द्विविधं
श्लेषं
प्रतिपादयन्ति
।
तेषु
एकं
शब्दालङ्कारेषु,
अपरं
चार्थालङ्कारेषु
व्यवस्थापयन्ति
।
अन्ये
तु
उभावपि
शब्दार्थश्लेषौ
अर्थालङ्कारेष्वेव
परिगणयन्ति
।
उपमानेन
यत्तत्त्वमुपमेयस्य
साध्यते
।
गुणक्रियाभ्यां
नाम्ना
च
श्लिष्टं
तदभिधीयते
॥ (
कालभा. 3.14)
यत्रैकमनेकार्थैर्वाक्यं
रचितं
पदैरनेकस्मिन्
।
अर्थे
कुरुते
निश्चयमर्थश्लेषः
स
विज्ञेयः
॥ (
कालरु. 10.1)
रुद्रटमतेन
शुद्धश्लेषः
दशविधः -
अविशेषः,
विरोधः,
अधिकः,
वक्रः,
व्याजः,
उक्तिः,
असम्भवः,
अवयवः,
तत्त्वं,
विरोधाभासश्च
। (
कालरु. 10.1-2)
अविशेषः
श्लेषोऽसौ
विज्ञेयो
यत्र
वाक्यमेकस्मात्
।
अर्थादन्यं
गमयेदविशिष्टविशेषणोपेतम्
॥ (
कालरु. 10.3)
उदा. -
शरदिन्दुसुन्दररुचं
सुकुमारां
सुरभिपरिमलामनिशम्
।
निदधाति
नाल्पपुण्यः
कण्ठे
नवमालिकां
कान्ताम्
॥ (
कालरु. 10.4)
विरोधः
श्लेषः -
यत्र
विरुद्धविशेषणमवगमयेदन्यमर्थसामान्यम्
।
प्रक्रान्तमतोऽन्यादृग्
वाक्यश्लेषो
विरोधोऽसौ
॥ (
कालरु. 10.5)
उदा. -
संवर्धितविविधाधिककमलोऽप्यदलितनालिकः
सोऽभूत्
।
सकलारिदाररसिकोऽप्यनभिमतपराङ्गनासङ्गः
॥ (
कालरु. 10.6)
अधिकश्लेषः -
यत्राधिकमारब्धादसमानविशेषणं
तथा
वाक्यम्
।
अर्थान्तरमवगमयेदधिकश्लेषः
स
विज्ञेयः
॥ (
कालरु. 10.7)
उदा. -
प्रेम्णा
निधाय
मूÐ
ध्न
वक्रमपि
बिभर्ति
यः
कलावन्तम्
।
भूतिं
च
वृषारूढः
स
एव
परमेश्वरो
जयति
॥ (
कालरु. 10.8)
वक्रः
श्लेषः -
यत्रार्थादन्यरसस्तत्प्रतिबद्धश्च
गम्यतेऽन्योऽर्थः
।
वाक्येन
सुप्रसिद्धो
वक्रश्लेषः
स
विज्ञेयः
॥ (
कालरु. 10.9)
उदा. -
आक्रम्य
मध्यदेशं
विदधत्
संवाहनं
तथाङ्गानाम्
।
पतति
करः
काञ्च्यामपि
तवनिर्जितकामरूपस्य
॥ (
कालरु. 10.10)
ब्याजश्लेषः -
यस्मिन्
निन्दा
स्तुतितो
निन्दाया
वा
स्तुतिः
प्रतीयेत
।
अन्याविवक्षिताया
व्याजश्लेषः
स
विज्ञेयः
॥ (
कालरु. 10.11)
उदा. -
त्वया
मदर्थे
समुपेत्य
दत्तमिदं
यथा
भोगवते
शरीरम्
।
तथास्य
ते
दूति
कृतस्य
शक्या
प्रतिक्रियानेन
न
जन्मना
मे
॥ (
कालरु. 10.12)
भोगवते
इति
सर्पाय,
अन्यत्र
विलासिने
।
दूती
विलासिना
रमणं
विधाय
अधरेऽहं
सर्पेण
दष्टा
इति
व्याजं
कृतवती
।
मम्मटादिमतेनात्र
अर्थशक्त्युत्थो
ध्वनिः,
व्याजस्तुतिरलङ्कारश्च
स्यात्
।
उक्तिश्लेषः -
यत्र
विवक्षितमर्थं
पुष्णन्ती
लौकिकी
प्रसिद्धोक्तिः
।
गम्येतान्या
तस्मादुक्तिश्लेषः
स
विज्ञेयः
॥ (
कालरु. 10.14)
उदा. -
कलावतः
सम्भृतमण्डलस्य
यया
हसन्त्यैव
हृताशु
लक्ष्मीः
।
नृणामपाङ्गेन
कृतश्च
कामस्तस्याः
करस्था
ननु
मालिकश्रीः
॥ (
कालरु. 10.15)
असम्भवश्लेषः -
गम्येत
प्रक्रान्तादसम्भवत्
तद्विशेषणोऽन्योऽर्थः।
वाक्येन
सुप्रसिद्धः
स
ज्ञेयोऽसम्भवश्लेषः॥ (
कालरु. 10.16)
उदा. -
परिहृतभुजङ्गसङ्गः
समनयनो
न
कुरुते
वृषं
चाधः
।
नन्वन्य
एव
दृष्टस्त्वमत्र
परमेश्वरो
जगति
॥ (
कालरु. 10.17)
अवयवश्लेषः -
यत्रावयवमुखस्थितसमुदायविशेषणं
प्रधानार्थम्
।
पुष्यन्
गम्येतान्यः
सोऽयं
स्यादवयवश्लेषः
॥ (
कालरु. 10.18)
उदा. -
भुजयुगले
बलभद्रः
सकलजगल्लङ्घने
तथा
बलिजित्
।
अक्रूरो
हृदयेऽसौ
राजाभूदर्जुनो
यशसि
॥ (
कालरु. 10.19)
तत्त्वश्लेषः -
यस्मिन्
वाक्येन
यो
प्रक्रान्तस्य
प्रसाधयत्
तत्त्वम्
।
गम्येतान्यद्वाच्यं
तत्त्वश्लेषः
स
विज्ञेयः
॥ (
कालरु. 10.20)
उदा. -
नयने
हि
तरलतारे
सुतनु
कपोलौ
च
चन्द्रकान्तौ
ते
।
अधरोऽपद्मरागस्त्रिभुवनरत्नं
ततो
वदनम्
॥ (
कालरु. 10.21)
स
इति
विरोधाभासो
यस्मिन्नर्थद्वयं
पृथग्भूतम्
।
अन्यद्वाक्यं
गमयेदविरुद्वं
सद्विरुद्धमिव
॥ (
कालरु. 10.22)
तव
दक्षिणोऽपि
वामो
बलभद्रोऽपि
प्रलम्ब
एष
भुजः
।
दुर्योधनोऽपि
राजन्युधिष्ठिरोऽस्तीत्यहो
चित्रम्
॥ (
कालरु. 10.23)
एषां
तु
चतुर्णामपि
संकीर्णानां
स्युरगणिता
भेदाः
।
तन्नामानस्तेषां
लक्षणमंशेषु
संयोज्यम्
॥ (
कालरु. 10.24)
योगवशादेतेषां
तिलतण्डुलवच्च
दुग्धजलवच्च
।
व्यक्ताव्यक्तांशत्वात्संकर
उत्पद्यते
द्वेधा
॥ (
कालरु. 10.25)
अभियुज्य
लोलनयना
साध्वसजनितोरुवेपथुस्वेदा
।
अबलेव
वैरिसेना
नृप
जन्ये
भज्यते
भवता
॥ (
कालरु. 10.26)
सन्नारीभरणो
भवानपि
न
किं
किं
नाधिरूढो
वृषं
किं
वा
नो
भवता
निकामविषमा
दग्धाः
पुरो
विद्विषाम्
।
इत्थं
द्वौ
परमेश्वराविह
शिवस्त्वं
चैकरूपस्थिती
तÏ
त्क
लोकविभो
न
जातु
कुरुषे
सङ्गं
भुजंगैः
सह
॥ (
कालरु. 10.27)
आलोकनं
भवत्या
जननयनानन्दनेन्दुकरजालम्
।
हृदयाकर्षणपाशः
स्मरतापप्रशमहिमसलिलम्
॥ (
कालरु. 10.28)
आदौ
चुम्बति
चन्द्रबिम्बविमलां
लोलः
कपोलस्थलीं
संप्राप्य
प्रसरं
क्रमेण
कुरुते
पीनस्तनास्फालनम्
।
युष्मद्वैरिवधूजनस्य
सततं
कण्ठे
लगत्युल्लसन्
किं
वा
यन्न
करोत्यवारितरसः
कामीव
बाष्पः
पतन्
॥ (
कालरु. 10.29)
श्लेषः
स
वाक्य
एकस्मिन्
यत्रानेकार्थता
भवेत्
। (
काप्र.
सू. 147)
-
एकार्थप्रतिपादकानामेव
शब्दानां
यत्र
अनेकोऽर्थः
।
ठ्ठ. "
उदयमयते
दिङ्मालिन्यं
निराकुरुतेतराम्
नयति
निधनं
निद्रामुद्रां
प्रवर्तयति
क्रियाः
।
रचयतितरां
स्वैराचारप्रवर्तनकर्तनम्
बत
बत
लसत्तेजः
पुञ्जो
विभाति
विभाकरः
॥" (
काप्र.
उ. 433) (
विभाकरः -
अर्कभूपौ)
ड.
अप्रस्तुते - "
महापदोपस्थितयः
सदारामावियोगिनः
।
अलंकाराश्रया
राम
भवन्ति
भवतो
हिताः
॥" (
शब्दश्लेषः) (?)
प्रस्तुते - "
अपविक्रमसङ्कोचं
गोसहस्रोल्लसत्तनुम्
।
नाकोल्लासिनमत्येति
रामो
हर्यश्वमोजसा
॥" (
अप्रस्तुतयोः
इन्द्रसूर्ययोः) (?)
द्वयोः
प्राकरणिकयोरप्राकरणिकयोः
प्राकरणिकाप्राकरणिकयोर्वा
श्लिष्टपदोपनिबन्धे
श्लेष
इति
रुय्यकः
।
तन्निबद्धा
कारिका
यथा -
विशेष्यस्यापि
साम्ये
द्वयोर्वोपादाने
श्लेषः
॥ (
अस. 33)
क्रमेणात्रोपस्थाप्यन्ते
उदाहरणानि
।
प्राकरणिकयोः
श्लिष्टत्वम् -
येन
ध्वस्तमनोभवेन
बलिजित्कायः
पुरास्त्रीकृतो
यश्चोद्वृत्तभुजङ्गहारवलयो
गङ्गां
च
यो
धारयन्
।
यस्याहुः
शशिमच्छिरोहर
इति
स्तुत्यं
च
नामामराः
पायात्स
स्वयमन्धकक्षयकरस्त्वां
सर्वदोमाधवः
। (
अस. 117)
अप्रस्तुतयोः
श्लिष्टत्वम् -
नीतानामाकुलीभावं
लुब्धैर्भूरिशिलीमुखैः
।
सदृशे
वनवृद्धानां
कमलानां
तदीक्षणे
॥ (
अस. 118)
प्रस्तुताप्रस्तुतयोः
श्लिष्टत्वम् -
स्वेच्छोपजातविषयोऽपि
न
याति
वक्तुं
देहीति
मार्गणशतैश्च
ददाति
दुःखम्
।
मोहात्समाक्षिपति
जीवितमप्यकाण्डे
कष्टं
मनोभव
इवेश्वरदुर्विदग्धः
॥ (
अस. 119)
जयदेव
स्त्वत्र
खण्डश्लेषो
भङ्गश्लेषोऽर्थश्लेषश्चेति
त्रिविधं
श्लेषालङ्कारं
निर्णयति
।
यथाक्रममत्रोपस्थाप्यन्तेऽधः
।
खण्डश्लेषः -
खण्डश्लेषः
पदानां
चेदेकैकं
पृथगर्थता
।
उच्छलद्भूरिकीलालः
शुशुभे
वाहिनीपतिः
॥ (
चन्द्रा. 5.63)
भङ्गश्लेषः -
भङ्गश्लेषः
पदस्तोमस्यैव
चेत्पृथगर्थता
।
अजरामरता
कस्य
नायोध्येव
पुरी
प्रिया
॥ (
चन्द्रा. 5.64)
अर्थश्लेषः -
अर्थश्लेषोऽर्थमात्रस्य
यद्यनेकार्थसंश्रयः
।
कुटिलाः
श्यामला
दीर्घाः
कटाक्षाः
कुन्तलाश्च
ते
॥ (
चन्द्रा. 5.65)
केवलप्रस्तुतगतत्वेन,
केवलाप्रस्तुतगतत्वेन
च
द्विधा
श्लेष
इति
धर्मसूरिः
।
तल्लक्षणं
यथा -
श्लेषः
साम्ये
समादिष्टो
विशेषणविशेष्ययोः
। (
सार.
पृ.596)
12.
समासोक्तिः -
अलङ्कारस्यास्य
लक्षणे
उद्भटस्य
मतमेके
मानयन्ति,
वामनस्यापरे
।
भोज-
रुद्रटौ
वामनमतमेव
मन्येते,
मम्मट-
रुय्यक-
हेमचन्द्र-
विद्याधर-
विद्यानाथ-
विश्वनाथादयश्च
रुय्यकमूरीकुरुतः
।
भामहस्य
यथा -
यत्रोक्ते
गम्यतेऽन्योर्थस्तत्समानविशेषणः
।
सा
समासोक्तिरुद्दिष्टा
संक्षिप्तार्थतया
यथा
॥ (
कालभा. 2.79)
रुद्रटमतेन -
सकलसमानविशेषणमेकं
यत्राभिधीयमानं
सत्
।
उपमानमेव
गमयेदुपमेयं
सा
समासोक्तिः
॥ (
कालरु. 8.67)
फलमविकलमलघीयो
लघुपरिणति
जायतेऽस्य
सुस्वादु
।
प्रीणितसकलप्रणयिप्रणतस्य
सदुन्नतेः
सुतरोः
॥ (
कालरु. 8.68)
(
विशेषणमात्रसाम्यं,
विवक्षितमप्रस्तुतं,
प्रस्तुतं
विशेषणं)
"
अयमैन्द्रीमुखं
पश्य
रक्तश्चुम्बति
चन्द्रमाः"
।
रक्तः -
नायकः
मम्मटमतेन -
परोक्तिर्भेदकैः
श्लिष्टैः
समासोक्तिः
। (
काप्र.
सू. 148)
विश्वनाथस्य -
समासोक्तिस्तु
सा
कार्या
समैर्लिङ्गविशेषणैः
।
व्यवहारसमारोपः
प्रकृतेऽन्यस्य
वस्तुनः
॥ (
साद. 10.56)
रुय्यकमतेन -
विशेषणसाम्यादप्रस्तुतस्य
गम्यत्वे
समासोक्तिः
। (
अस. 31)
तच्च
विशेषणसाम्यं
श्लिष्टतया,
साधारण्येनौपम्यगर्भत्वेन
च
भावात्त्रिधा
भवति
।
तत्र
श्लिष्टतया
यथा -
उपोढरागेण
विलोलतारकं
तथा
गृहीतं
शशिना
निशामुखम्
।
यथा
समस्तं
तिमिरांशुकं
तया
पुरोऽपि
रागाद्गलितं
न
लक्षितम्
॥ (
अस. 96)
साधारण्येन
यथा -
तन्वी
मनोरमा
बाला
लोलाक्षी
पुष्पहासिनी
।
विकासमेति
सुभग
भवद्दर्शनमात्रतः
॥ (
अस. 97)
औपम्यगर्भत्वेन
यथा -
दन्तप्रभापुष्पचिता
पाणिपल्लवशोभिनी
।
केशपाशालिवृन्देन
सुवेषा
हरिणेक्षणा
॥ (
अस. 98)
जयदेवस्तु
सोदाहरणं
लक्षणमेवं
प्रस्तौति -
समासोक्तिः
परिस्फूर्तिः
प्रस्तुतेऽप्रस्तुतस्य
चेत्
।
अयमैन्द्रीमुखं
पश्य
रक्तश्चुम्बति
चन्द्रमाः
॥ (
चन्द्रा. 5.62)
धर्मसूरिरपि
मम्मटमनुसरन्नित्थं
लक्षयति -
विशेषणान्येव
परमर्थं
गमयितुं
यदा
।
प्रकृतस्य
समर्थानि
समासोक्तिस्तदा
भवेत्
॥ (
सार.
पृ.588)
(
विवक्षितः),
चन्द्रमाः -
प्रस्तुतः
उपमेयश्लेषोक्तौ
उपमानप्रतीतिः
समासोक्तिरिति
वाग्भटप्रथमस्य
लक्षणम्
।
उदाहरणत्वेनासौ
कालिदासस्य -
उपोढरागेण
विलोलतारकं
तथा
गृहीतं
शशिना
निशामुखम्
।
यथा
समस्तं
तिमिरांशुकं
तया
पुरोऽपि
रागाद्
गलितं
न
लक्षितम्
॥
इति
पद्यं
प्रस्तौति
। (
कानु.
पृ.36)
।
अन्यदेवाभिप्रेत्य
अन्याभिधानं
समासोक्तिरिति
लक्षणं
विदधानः
केशवमिश्रस्तु
समासोक्तिम्
अन्यापदेशं
चाभिन्नत्वेन
मनुते
। (
अशे.
पृ.34)
13.
निदर्शना -
प्रथम
उल्लेखो
विष्णुधर्मोत्तरे
प्राप्यते
।
कार्यान्तरे
प्रवृत्ते
आनुषङ्गिकफलोपलब्धौ
निदर्शनेति
दण्डी
।
वाचकपदरहितं
गम्यमानौपम्येन
क्रियया
विशिष्टार्थप्रदर्शनं
निदर्शनेति
भामहः
।
तद्यथा -
क्रिययैव
विशिष्टस्य
तदर्थस्योपदर्शनात्
।
ज्ञेया
निदर्शना
नाम
यथेववतिभिर्विना
॥ (
कालभा. 3.33)
वस्तुसम्बन्धाभावेऽपि
उपमानोपमेयभावसम्बन्धकल्पना
विदर्शनेति
उद्भटः
।
(
उद्भटे
विदर्शना
इत्येव
पाठः)
मम्मटस्तु -
अभवन्
वस्तु
सम्बन्ध
उपमा
परिकल्पकः
। (
काप्र.
सू. 149)
इति
लक्षणं
करोति
।
रुय्यकस्य -
संभवतासंभवता
वा
वस्तुसम्बन्धेन
गम्यमानं
प्रतिबिम्बकरणं
निदर्शना
। (
अस. 27)
चन्द्रालोककारः
सोदाहरणं
लक्षणं
निरूपयन्नाह -
वाक्यार्थयोः
सदृशयोरैक्यारोपो
निदर्शना
।
या
दातुः
सौम्यता
सेयं
सुधांशोरकलङ्कता
॥ (
चन्द्रा. 5.58)
विश्वनाथ
एतल्लक्षणं
मनाङ्
विपर्यासयन्नूचे -
सम्भवन्
वस्तु
सम्बन्धोऽसम्भवन्
वापि
कुत्रचित्
।
यत्र
बिम्बानुबिम्बत्वं
बोधयेत्
सा
निदर्शना
॥ (
साद. 10.51)
प्रथमस्योदाहरणम् -
कोऽत्र
भूमिवलये
जनान्
मुधा
तापयन्
सुचिरमेति
सम्पदम्
।
वेदयन्निति
दिनेन
भानुमानाससाद
चरमाचलं
यतः
॥ (
तत्रैव
वृत्तौ)
अत्र
रवेरीदृशार्थवेदनक्रियायां
वक्तृत्वेनान्वयः
सम्भवत्येव
।
असम्भवद्वस्तुनिदर्शना
पुनर्द्विधा -
एकवाक्यगा,
अनेकवाक्यगा
च
।
आद्योदाहरणम् -
कलयति
कुवलयमालाललितं
कुटिलः
कटाक्षविक्षेपः
।
अधरः
किसलयलीलामाननमस्याः
कलानिधेर्विलासम्
॥ (
तत्रैव
वृत्तौ)
अनेकवाक्यगा
यथा -
इदं
किलाव्याजमनोहरं
वपुः
तपःक्षमं
साधयितुं
य
इच्छति
।
ध्रुवं
स
नीलोत्पलपत्रधारया
शमीलतां
छेत्तुमृषिव्र्यवस्यति
॥ (
तत्रैव
वृत्तौ)
इति
कालिदासीयं
पद्यं
विश्वनाथ
उदाजहार
।
धर्मसूरिरेनामित्थं
लक्षयति -
अन्यधर्मान्यसम्बन्धासङ्गतौ
वस्तुनोद्र्वयोः
।
प्रतिबिम्बत्वमाक्षिप्तं
यत्र
तत्र
निदर्शना
॥ (
सार.
पृ.578)
आर्थी - "
क्व
सूर्यप्रभवो
वंशः
क्व
चाल्पविषया
मतिः
।
तितीर्षुः
दुस्तरं
मोहादुडुपेनास्मि
सागरम्
॥" (
काप्र.
उ. 435)
संभवन्वस्तुसंबन्धे -
एकवाक्यगता -
"
उदयति
विततोध्र्वरश्मिरज्जावहिमरुचौ
हिमधाम्नि
याति
चास्तम्
।
वहति
गिरिरयं
विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्"
॥ (
काप्र.
उ. 436)
मालारूपा - "
दोभ्र्यां
तितीर्षति
तरङ्गवती
भुजङ्गमादातुमिच्छति
करे
हरिणाङ्कबिम्बम्
।
मेरुं
लिलङ्घयिषति
ध्रुवमेष
देव
यस्ते
गुणान्
गदितुमुद्यममादधाति
॥" (
काप्र.
उ. 437)
"
क्षिपसि
शुकं
वृषदंशकवदने
मृगमर्पयसि
मृगादनरदने
।" (?)
स्वस्वहेत्वन्वयोक्तौ - "
उन्नतं
पदमवाप्य
यो
लघुर्हेलयैव
स
पतेदिति
ब्रुवन्
।
शैलशेखरगतो
दृषत्कणश्चारुमारुतधुतः
पतत्यधः
॥" (
काप्र.
उ. 438)
14.
अप्रस्तुतप्रशंसा -
अप्रस्तुतस्य
स्तुतिरप्रस्तुतप्रशंसेति
भामहः
।
दण्डी
अग्निश्च
तमनुहरतः
।
दण्डी -
अप्रस्तुतप्रशंसा
स्यादप्रक्रान्तेषु
या
स्तुतिः
॥ (
काद. 2.340)
भामहस्य -
अधिकारादपेतस्य
वस्तुनोऽन्यस्य
या
स्तुतिः
।
अप्रस्तुतप्रशंसा
सा
चैवं
कथ्यते
यथा
॥ (
कालभा. 3.29)
रुद्रटस्य -
असमानविशेषणमपि
यत्र
समानेतिवृत्तमुपमेयम्
।
उक्तेन
गम्यते
परमुपमानेनेति
साऽन्योक्तिः
॥ (
कालरु. 8.74)
मुक्त्वा
सलीलहंसं
विकसितकमलोज्ज्वलं
सरः
सरसम्
।
बकलुलितजलं
पल्वलमभिलषसि
सखे
न
हंसोऽसि
॥ (
कालरु. 8.75)
मम्मटस्तु -
अप्रस्तुतप्रशंसा
या
सैव
प्रस्तुताश्रया
॥ (
काप्र.
सू. 151)
-
अप्राकरणिकस्य
अभिधानेन
प्राकरणिकस्य
आक्षेपः
॥ (
तत्रैव
वृत्तौ)
ठ्ठ.
कार्ये - "
याता
किं
न
मिलन्ति
सुन्दरि
पुनश्चिन्ता
त्वया
मत्कृते
नो
कार्या
नितरां
कृशासि
कथयत्येवं
सबाष्पे
मयि
।
लज्जामन्थरतारकेण
निपतत्पीताश्रुणा
चक्षुषा
दृष्ट्वा
मां
हसितेन
भाविमरणोत्साहस्तया
सूचितः
॥" (
काप्र.
उ. 439)
ड.
निमित्ते - "
राजन्
राजसुता
न
पाठयति
मां
देव्योऽपि
तूष्णीं
स्थिताः
कुब्जे
भोजय
मां
कुमारसचिवैर्नाद्यापि
किं
भुज्यते
।
इत्थं
नाथ
शुकस्तवारिभवने
मुक्तोऽध्वगैः
पञ्जरात्
चित्रस्थानवलोक्य
शून्यवलभावेकैकमाभाषते
॥" (
काप्र.
उ. 440)
ड़.
सामान्ये - "
एतत्तस्य
मुखात्कियत्
कमलिनीपत्रे
कणं
वारिणो
यन्मुक्तामणिरित्यमंस्त
स
जडः
शृण्वन्यदस्मादपि
।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने
शनैः
कुत्रोड्डीय
गतो
ममेत्यनुदिनं
निद्राति
नान्तःशुचा
॥" (
काप्र.
उ. 441)
ड्ड.
विशेषे - "
पादाहतं
यदुत्थाय
मूर्धानमधिरोहति
।
स्वस्थादेवापमानेऽपि
देहिनस्तद्वरं
रजः
॥" (?)
ड्ढ.
तुल्ये -
श्लेषे - "
सहकारः
सदामोदः
वसन्तश्रीसमन्वितः
।
समुज्ज्वलरुचिः
श्रीमान्
प्रभूतोत्कलिकाकुलः
॥" (
विशेषणे
श्लेषः) (?)
"
पुंस्त्वादपि
प्रविचलेत्
यदि
यद्यधोऽपि
यायात्
यदि
प्रणयने
न
महानपि
स्यात्
।
अभ्युद्धरेत्तदपि
विश्वमितीदृशीयं
केनापि
दिक्
प्रकटिता
पुरुषोत्तमेन
॥" (
काप्र.
उ. 443)
समासोक्तिः - "
येनास्यभ्युदितेन
चन्द्र
गमितः
क्लाÏ
न्त
रवौ
तत्र
ते
युज्येत
प्रतिकर्तुमेव
न
पुनस्तस्यैव
पादग्रहः
।
क्षीणेनैतदनुष्ठितं
यदि
ततः
किं
लज्जसे
नो
मनाक्
अस्त्वेवं
जडधामता
तु
भवतो
यद्व्योम्नि
विस्फूर्जसे
॥" (
काप्र.
उ. 444)
सादृश्यमात्रं -
वाच्यसंभव - "
एकः
कपोतपोतः
शतशः
श्येनाः
क्षुधाभिधावन्ति
।
अम्बरमावृतिशून्यं
हरहर
शरणं
विधेः
करुणा
॥" (?)
वाच्यासंभव - "
कोकिलोऽहं
भवान्
काकः
समानः
कालिमावयोः
।
अन्तरं
कथयिष्यन्ति
काकलीकोविदाः
पुनः
॥" (?)
उभयरूप - "
अन्तश्छिद्राणि
भूयांसि
कण्टका
बहवो
बहिः
।
कथं
कमलनाभस्य
मा
भूवन्
भङ्गुरा
गुणाः
॥" (?)
धर्मसूरेर्लक्षणं
मम्मटमनुसरति -
अप्रस्तुतेन
वाच्येन
प्रस्तुतं
गम्यते
यदि
।
अप्रस्तुतप्रशंसेयं
कथिता
पञ्चधा
बुधैः
॥ (
सार.
पृ.604)
"
अप्रस्तुतात्सामान्यविशेषभावे
कार्यकारणभावे
सारूप्ये
च
प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा
॥"
इति
रुय्यकः
। (
अस. 34)
सामान्यविशेषभावे
सामान्याद्विशेषस्य
विशेषाद्वा
सामान्यस्य
प्रतीतौ
द्वैविध्यम्
।
कार्यकारणभावेऽप्यनयैव
भङ्ग्या
द्विधात्वम्
।
सारूप्ये
त्वेको
भेद
इत्यस्याः
पञ्च
प्रकाराः
।
तत्राद्यो
यथा -
तन्नास्ति
किमपि
पत्युः
प्रकल्पितं
यन्न
नियतिगृहिण्या
।
अनवरतगमनशीलस्य
कालपथिकस्य
पाथेयम्
॥ (
अस. 126)
द्वितीयो
यथा -
एतत्तस्य
मुखात्कियत्कमलिनीपत्रे
कणं
वारिणो
यन्मुक्तामणिरित्यमंस्त
स
जडः
शृण्वन्यदस्मादपि
।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने
शनै-
स्तत्रोड्डीय
गतो
इहेत्यनुदिनं
निद्राति
नान्तः
शुचा
॥ (
अस. 127)
तृतीयो
यथा -
पश्यामः
किमियं
प्रपद्यत
इति
स्थैर्यं
मयालम्बितं
किं
मां
नालपतीत्ययं
खलु
शठः
कोपस्तयाप्याश्रितः
।
इत्यन्योन्यविलक्षदृष्टिचतुरे
तस्मिन्नवस्थान्तरे
सव्याजं
हसितं
मया
धृतिहरो
बाष्पस्तु
मुक्तस्तया
॥ (
अस. 128)
चतुर्थो
यथा -
इन्दुर्लिप्त
इवाञ्जनेन
जडिता
दृष्टिर्मृगीणामिव
प्रम्लानारुणिमेव
विद्रुमरुचिः
श्यामेव
हेमप्रभा
।
कार्कश्यं
कलयामि
कोकिलवधूकण्ठेष्विव
प्रस्तुतं
सीतायाः
पुरतश्च
हन्त
शिखिनां
बर्हाः
सगर्हा
इव
॥ (
अस. 129)
पञ्चमस्तु
प्रकारः
साधम्र्यवैधम्र्याभ्यां
द्विविधः
।
उपर्युक्तान्येव
साधम्र्यस्योदाहरणानि
।
वैधम्र्यस्य
यथा -
धन्याः
खलु
वने
वाताः
कल्हारस्पर्शशीतलाः
।
राममिन्दीवरश्यामं
ये
स्पृशन्त्यनिवारिताः
॥ (
अस. 133)
जयदेवस्तु
मम्मटस्य
लक्षणविधानमनुकुर्वन्नेव
स्वकं
लक्षणं
प्रस्तवीति
।
तद्यथा -
अप्रस्तुतप्रशंसा
स्यात्सा
यत्र
प्रस्तुतानुगा
।
कार्यकारणसामान्यविशेषादेरसौ
मता
॥ (
चन्द्रा. 5.66)
उदाहरणं
यथा -
कमलैः
कमलावासैः
किं
किं
नासादि
सुन्दरम्
।
अप्यम्बुधेः
परं
पारं
प्रयान्ति
व्यवसायिनः
॥ (
चन्द्रा. 5.67)
उपमेयस्य
किञ्चिदुक्तावप्रस्तुतप्रशंसा -
इति
वाग्भटप्रथमस्य
लक्षणम्
।
"
लावण्यसिन्धुरपरैव
हि
केयमत्र
यत्रापरे
कदलिकाण्डमृणालदण्डाः
।
यत्रोत्पलानि
शशिना
सह
संप्लवन्ते
उन्मज्जति
द्विरदकुम्भतटी
च
यत्र
॥"
इति
पद्यमुदाहृतं
तेन (
कानु.
पृ. 36),
एतत्
तु
पद्यं
मम्मटेन
रूपकालङ्कारस्योदाहरणत्वेन
प्रस्तुतमिति
वाग्भटीयलक्षणोदाहरणे
चिन्त्ये
।
अन्योक्तिनाम्ना
पृथगललङ्कारमसौ
प्रतिपादयति,
अतः
मम्मटस्य
अप्रस्तुतप्रशंसातस्तदीया
अप्रस्तुतप्रशंसा
अन्यैवेति
ऊह्यम्
।
15.
अतिशयोक्तिः -
भरतेन
अयमलङ्कारो
न
प्रतिपादितः
।
भामहमतेन
लोकातिक्रान्तगोचरं
वचोऽतिशयोक्तिः
।
तच्च
नालङ्कारमात्रम्,
अलङ्काराणां
मूलमपि
।
तद्यथा -
निमित्ततो
वचो
यत्तु
लोकातिक्रान्तगोचरम्
।
मन्यन्तेऽतिशयोकिं्त
तामलङ्कारतया
यथा
॥ (
कालभा. 2.81)
दण्डी,
अग्निः,
उद्भटः,
वामनः,
भोजः,
कुन्तकश्च
अस्य
लोकसीमातिगोचरत्वं
द्रढयन्ति
।
मम्मटः
धर्मसूरिश्च
अलङ्कारविशेषमेव
एनां
मनुतः
।
उद्भटेनेयं
चतुर्षु
भेदेषु
विभाजितः,
त
एव
भेदा
मम्मटेन
नामान्तरैरूरीकृताः
।
मम्मटमतेनास्य
भेदाः -
ठ्ठ.
निगीर्याध्यवसानं - "
चन्द्र
एवायं
प्रकाशते"
। (
प्रकृतस्य
परेण)
ड.
अन्यदादि
शब्द
प्रयोगे - "
अण्णं
लडहत्तणअं
अण्णा
विअ
का
वि
वत्तणच्छाआ
।
सामा
सामण्मपआवइणो
रेह
च्चिअ
ण
होई
॥ (
काप्र.
उ. 450) (
अन्यत्
सौकुमार्यं ..
।)"
ड़.
यद्यर्थोक्तिमूलके - "
राकायामकलङ्कं
चेदमृतांशोर्भवेद्वपुः
।
तस्या
मुखं
तदा
साम्यपराभवमवाप्नुयात्"
॥ (
काप्र.
उ. 451)
ड्ड.
पौर्वापर्यविपर्यये - "
प्रागेव
हरिणाक्षीणां
चित्तमुत्कलिकाकुलम्
।
पश्चादुद्भिन्नबकुल
रसालमुकुलश्रियः
॥" (?)
"
सममेव
समाक्रान्तं
द्वयम्
द्विरदगामिना
।
तेन
सिंहासनं
पित्र्यं
मण्डलं
च
महीक्षिताम्
॥" (?)
रुय्यकस्य -
अध्यवसितप्राधान्ये
त्वतिशयोक्तिः
॥ (
अस. 22)
अयन्त्वलङ्कारस्यास्य
पञ्चभेदान्
स्वीकुरुते
।
ते
यथा -
ठ्ठ.
भेदेऽभेदः -
कमलमनम्भसि
कमले
च
कुवलये
तानि
कनकलतिकायाम्
।
सा
च
सुकुमारसुभगेत्युत्पातपरम्परा
केयम्
॥ (
अस. 61)
ड.
अभेदे
भेदः -
अन्यल्लटभत्वमन्यैव
च
कापि
वत्र्तनच्छाया
।
श्यामा
सामान्यप्रजापते
रेखैव
न
भवति
॥ (
अस. 62)
ड़.
संबन्धेऽसम्बन्धः -
लावण्यद्रविणव्ययो
न
गणितः
क्लेशो
महान्स्वीकृतः
स्वच्छन्दस्य
सुखं
जनस्य
वसतश्चिन्तानलोद्दीपितः
।
एषापि
स्वयमेव
तुल्यरमणाभावाद्वराकी
हता
कोऽर्थश्चेतसि
वेधसा
विनिहितस्तन्वास्तनुं
तन्वता
॥ (
अस. 64)
ड्ड.
असम्बन्धे
सम्बन्धः -
पुष्पं
प्रवालोपहितं
यदि
स्यान्मुक्ताफलं
वा
स्फुटविद्रुमस्थम्
।
ततोऽनुकुर्याद्विशदस्य
तस्यास्ताम्रौष्ठपर्यस्तरुचः
स्मितस्य॥ (
अस. 66)
ड्ढ.
कार्यकारणपौर्वापर्यविध्वंसः -
हृदयमधिष्ठितमादौ
मालत्याः
कुसुमचापबाणेन
।
चरमं
रमणीवल्लभ
लोचनविषयं
त्वया
भजता
॥ (
अस. 68)
जयदेवस्त्वत्राक्रमातिशयोक्तिः,
अत्यन्तातिशयोक्तिः,
चपलातिशयोक्तिः,
सम्बन्धातिशयोक्तिः,
भेदकातिशयोक्तिः,
रूपकातिशयोक्तिश्चेत्यतिशयोक्तेः
षड्विधत्वं
स्वीकृतवान्
।
क्रमेणैतेषां
सोदाहरणलक्षणानि
निरूप्यन्तेऽत्र -
(
ठ्ठ)
अक्रमातिशयोक्तिः -
अक्रमातिशयोक्तिश्चेद्
युगपदत्कार्यकारणे
।
आलिङ्गन्ति
समं
देव
ज्यां
शराश्च
पराश्च
ते
॥ (
चन्द्रा. 5.41)
(
ड)
अत्यन्तातिशयोक्तिः -
अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिक्रमे
।
अग्रे
मानो
गतः
पश्चादनुनीता
प्रियेण
सा
॥ (
चन्द्रा. 5.42)
(
ड़)
चपलातिशयोक्तिः -
चपलातिशयोक्तिस्तु
कार्ये
हेतुप्रसक्तिजे
।
यामीति
प्रियपृष्टाया
वलयोऽभवदूर्मिका
॥ (
चन्द्रा. 5.43)
(
ड्ड)
सम्बन्धातिशयोक्तिः -
सम्बन्धातिशयोक्तिः
स्यात्तदभावेऽपि
तद्वचः
।
पश्य
सौधाग्रसंसक्तं
विभाति
विधुमण्डलम्
॥ (
चन्द्रा. 5.44)
(
ड्ढ)
भेदकातिशयोक्तिः -
भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते
।
अहो
अन्यैव
लावण्यलीला
बालाकुचस्थले
॥ (
चन्द्रा. 5.45)
(
ढ)
रूपकातिशयोक्तिः -
रूपकातिशयोक्तिश्चेद्
रूप्यं
रूपकमध्यगम्
।
पश्य
नीलोत्पलद्वन्द्वान्निःसरन्ति
शिताः
शराः
॥ (
चन्द्रा. 5.46)
धर्मसूरिस्तु
एनां
षोढा
विभजते,
कवि
प्रौढोक्तितां
च
सर्वासां
षण्णामतिशयोक्तीनां
सामान्यलक्षणं
च
प्रतिपादयति
।
अत्युक्तिरतिशयोक्तिरिति
वाग्भटप्रथमः
। (
कानु.
पृ.36)
16.
प्रतिवस्तूपमा -
भामहः
दण्डी
चैनामुपमाभेदेषु
क्रोडीकुरुतः
।
भामहस्याभिमतं
यत् -
समानवस्तुन्यासेन
प्रतिवस्तूपमोच्यते
।
यथेवानभिधानेऽपि
गुणसाम्यप्रतीतितः
॥ (
कालभा. 2.34)
उद्भटोऽस्या
इदम्प्रथमतया
स्वतन्त्रपदं
ददौ
।
रुद्रटमतेन
इयमुभयन्यासालङ्कार
एव
।
भोजः
पुनः
उभयन्यासम्
अर्थान्तरस्याभिन्नं
स्वीकुर्वाण
एनां
तत्रैव
गतार्थयति
।
(
वाक्यद्वयं
अपेक्षितं,
एकः
साधारणधर्मः
उभयत्र
वर्तते)
मम्मटमतेन -
प्रतिवस्तूपमा
तु
सा
॥
सामान्यस्य
द्विरेकस्य
यत्र
वाक्यद्वये
स्थितिः
। (
काप्र.
सू. 154)
साधम्र्ये - "
देवीभावं
गमिता
परिवारपदं
कथं
भजत्वेषा
।
न
खलु
परिभोगयोग्यं
दैवतरूपाङ्कितं
रत्नम्
॥" (
काप्र.
उ. 453)
वैधम्र्ये - "
चकोर्य
एव
चतुराश्चन्द्रिकापानकर्मणि
।
विनावन्तीर्न
निपुणाः
सुदृशो
रतनर्मणि
॥" (?)
मालारूपा - "
विमल
एव
रविर्विशदः
शशी
प्रकृतिशोभन
एव
हि
दर्पणः
।
शिवगिरिः
शिवहाससहोदरः
सहजसुन्दर
एव
हि
सज्जनः
॥" (?)
"
यदि
दहत्यनलोऽत्र
किमद्भुतं
यदि
च
गौरवमद्रिषु
किं
ततः
।
लवणमम्बु
सदैव
महोदधेः
प्रकृतिरेव
सतामविषादिता
॥" (
काप्र.
उ. 454)
रुय्यकस्य
मतेन
तु "
वाक्यार्थगतत्वेन
सामान्यस्य
वाक्यद्वये
पृथङ्निर्देशे
प्रतिवस्तूपमा
।"
इति
। (
अस. 25)
उदा. -
चकोर्य
एव
चतुराश्चन्द्रिकाचामकर्मणि
।
आवन्त्य
एव
निपुणाः
सुदृशो
रतनर्मणि
॥ (
अस. 78)
चन्द्रालोककारस्याभिमतं
यथा -
वाक्ययोरर्थसामान्ये
प्रतिवस्तूपमा
मता
।
तापेन
भ्राजते
सूर्यः
शूरश्चापेन
राजते
॥ (
चन्द्रा. 5.55)
पद्यस्यास्य
पूर्वार्धे
लक्षणम्
उत्तरार्धे
चोदाहरणं
प्रस्तुते
।
17.
दृष्टान्तः -
उद्भटेनायमिदम्प्रथमतया
उल्लिखितः
।
वामन-
हेमचन्द्र-
केशवमिश्रान्
विहाय
परवर्तिभिः
प्रायः
सर्वैः
स्वीकृतः
।
भोज
एनं
साम्यालङ्कारभेदेषु
गतार्थयति
।
रुद्रटमतेन -
अर्थविशेषः
पूर्वं
यादृङ्
न्यस्तो
विवक्षितेतरयोः
।
तादृशमन्यं
न्यस्येद्यत्र
पुनः
सोऽत्र
दृष्टान्तः
॥ (
कालरु. 8.94)
त्वयि
दृष्ट
एव
तस्या
निर्वाति
मनो
मनोभवज्वलितम्
।
आलोके
हि
सितांशोर्विकसित
कुमुदं
कुमुद्वत्याः
॥ (
कालरु. 8.95)
लोकं
लोलितकिसलयविषवनवातोऽपि
मङक्षु
मोहयति
।
तापयतितरां
तस्या
हृदयं
त्वद्रमणवार्तापि
॥ (
कालरु. 8.96)
(
बिम्बप्रतिबिम्बभावः,
वाक्यद्वये)
साधम्र्ये - "
अविदितगुणाऽपि
सत्कविफणितिः
कर्णेषु
वमति
मधुधाराम्
।
अनधिगतपरिमलाऽपि
हि
हरति
दृशं
मालतीमाला
॥" (
साद. 50
वृत्तौ)
वैधम्र्ये - "
त्वयि
दृष्टे
कुरङ्गाक्ष्याः
स्रंसते
मदनव्यथा
।
दृष्टानुदयभाजीन्दौ
ग्लानिः
कुमुदसंहतेः
॥" (
साद. 50
वृत्तौ)
धर्मसूरेर्लक्षणम् -
बिम्बानुबिम्बभावाच्चेदुपमानोपमेययोः
।
साधम्र्यं
पृथगादिष्टं
स
दृष्टान्तो
द्विधा
मतः॥ (
सार.
पृ.569)
द्वयोरपि
वाक्ययोः
साधम्र्यं
पृथक्
पृथक्
निर्दिष्टं
स्यादिति
मम्मटोऽभिप्रैति
।
रुय्यकस्तु "
तस्यापि
बिम्बप्रतिबिम्बभावतया
निर्देशे
दृष्टान्तः" (
अस. 26)
इति
लक्षणं
विधाय
साधम्र्यवैधम्र्याभ्यां
द्वैविध्यमप्यस्य
समर्थयति
।
आद्यो
यथा -
अब्धिर्लङ्घित
एव
वानरभटैः
किं
त्वस्य
गम्भीरता-
मापातालनिमग्नपीवरतनुर्जानाति
मन्थाचलः
।
देवीं
वाचमुपासते
हि
बहवः
सारं
तु
सारस्वतं
जानीते
नितरामसौ
गुरुकुक्लिष्टो
मुरारिः
कविः
॥ (
अस. 79)
द्वितीयो
यथा -
कृतं
च
गर्वाभिमुखं
मनस्त्वया
किमन्यदेवं
निहिताश्च
नोऽरयः
।
तमांसि
तिष्ठन्ति
हि
तावदंशुमान्न
यावदायात्युदयाद्रिमौलिताम्
॥ (
अस. 80)
चन्द्रालोककारस्य
सोदाहरणं
लक्षणविधानं
यथा -
चेद्
बिम्बप्रतिबिम्बत्वं
दृष्टान्तस्तदलङ्कृतिः
।
स्यान्मल्लप्रतिमल्लत्वे
संग्रामोद्दामहुङ्कृतिः
॥ (
चन्द्रा. 5.56)
18.
दीपकम् -
भरतमुनिमतेन -
नानाधिकरणार्थानां
शब्दानां
संप्रदीपकम्
।
एकवाक्येन
संयुक्तं
तद्दीपकमुच्यते
॥ (
नाशा. 16.53)
भामहमतेन -
आदिमध्यान्तविषयं
त्रिधा
दीपकमिष्यते
।
एकस्यैव
त्र्यवस्थत्वादिति
तद्भिद्यते
त्रिधा
॥ (
कालभा. 2.25)
रुद्रटमतेन -
यत्रैकमनेकेषां
वाक्यार्थानां
क्रियापदं
भवति
।
तद्वत्
कारकपदमपि
तदेतदिति
दीपकं
द्वेधा
॥ (
कालरु. 7.64)
आदौ
मध्येऽन्ते
वा
वाक्ये
तत्
स्थितं
दीपयति
।
वाक्यार्थानिति
भूयस्त्रिधेत्येवं
भवेत्
षोढा
॥ (
कालरु. 7.65)
उदाहरणानि -
कान्ता
ददाति
मदनं
मदनः
सन्तापमसममनुपशयम्
।
सन्तापो
मरणमहो
तथापि
शरणं
नृणां
सैव
॥ (
आदिक्रियादीपकम्)
तारुण्यमाशुमदनं
मदनः
कुरुते
विलासविस्तारम्
।
स
च
रमणीषु
प्रभवञ्जनहृदयावर्जनं
बलवत्
॥ (
मध्यक्रियादीपकम्)
नवयौवनमङ्गेषु
प्रियसङ्गमनोरथो
हि
हृदयेषु
।
अथ
चेष्टासु
विकारः
प्रभवति
रम्यः
कुमारीणाम्
॥ (
अन्तक्रियादीपकम्)
निद्रापहरति
जागरमुपशमयति
मदनदहनसन्तापम्
।
जनयति
कान्तासङ्गमसुखं
च
कोन्यस्ततो
बन्धुः
॥ (
आदिकर्तृदीपकम्)
स्रंसयति
गात्रमखिलं
ग्लपयति
चेतो
निकाममनुरागः
।
जन्मसुलभं
प्रति
सखे
प्राणानपि
मङ्क्षु
मुष्णाति
॥ (
मध्यकर्तृ
दीपकम् )
दूरादुत्कण्ठन्ते
दयितानां
सन्निधौ
तु
लज्जन्ते
।
त्रस्यन्ति
वेपमानाः
शयने
नवपरिणयाः
वध्वः
॥ (
अन्तकर्तृदीपकम्) (
कालरु. 7.66-71)
अस्य
दीपकस्य
प्रायोऽलङ्कारान्तरैः
समावेश
इष्यते,
तथा
आद्ययोरुदाहरणयोः
कारणमाला-
सद्भावः,
तृतीय-
चतुर्थ-
पञ्चमेषु
वास्तवसमुच्चयस्य,
षष्ठे
जातेः (
तत्रैव)
।
मम्मटमतेन -
कारकस्य
सकृद्वृत्तिः
बह्वीषु
क्रियासु (
एका
क्रिया
वा
अनेककारकेषु)
सकृद्वृत्तिस्तु
धर्मस्य
प्रकृताप्रकृतात्मनाम्
।
सैव
क्रियासु
बह्वीषु
कारकस्येति
दीपकम्
॥ (
काप्र.
सू. 156)
क्रियादि
दीपकम् - "
कृपणानां
धनं
नागानां
फणामणिः
केसराः
सिंहानाम्
।
कुलबालिकानां
स्तनाः
कुतः
स्पृश्यन्तेऽमृतानाम्
॥" -
छाया - (
काप्र.
उ. 457)
कारकदीपकम् - "
स्विद्यति
कूणति
वेल्लति
विचलति
निमिषति
विलोकयति
तिर्यक्
।
अनन्तर्नन्दति
चुम्बितुमिच्छति
नवपरिणया
वधूः
शयने
॥" (
काप्र.
उ. 458)
रुय्यकस्य -
प्रस्तुताप्रस्तुतानां
तु
दीपकम्
॥ (
अस. 24)
उदाहरणानि
यथा -
राजते
मिहिरेण
नभो
रसेन
काव्यं
स्मरेण
यौवनम्
।
अमृतेन
धुनीधवस्त्वया
नरनाथ
भुवनमिदम्
॥
संचारपूतानि
दिगन्तराणि
कृत्वा
दिनान्ते
निलयाय
गन्तुम्
।
प्रचक्रमे
पल्लवरागताम्रा
प्रभापतङ्गस्य
मुनेश्च
धेनुः
॥
कृपणानां
धनं
नागानां
फणामणिः
केसराः
सिंहानाम्
।
कुलबालिकानां
च
स्तनाः
कुतः
स्पृश्यन्तेऽमृतानाम्
॥ (
अस. 74-76)
एवमेकक्रियं
दीपकत्रयं
निर्णीतम्
।
अत्र
च
यथानेककारकगतत्वेनैकक्रियं
दीपकं,
तथानेकक्रियागतत्वेनैककारकमपि
दीपकम्
।
यथा -
साधूनामुपकर्तुं
लक्ष्मीं
धर्तुं
विहायसा
गन्तुम्
।
न
कुतूहलि
कस्य
मनश्चरितं
च
महात्मनां
श्रोतुम्
॥ (
अस. 77)
चन्द्रालोककारस्त्वत्र
रुय्यकमनुकुर्वन्नेव
लक्षणं
लक्षयति
।
तदित्थम् -
प्रस्तुताप्रस्तुतानां
च
तुल्यत्वे
दीपकं
मतम्
।
मेधां
बुधः
सुधामिन्दुर्बिभर्ति
वसुधां
भवान्
॥ (
चन्द्रा. 5.53)
उदाहरणन्त्वत्रैवोत्तरार्धे
सन्निहितम्
।
आवृत्तिदीपकमिति
दीपकान्तरमस्यैवाकलनम्
।
तद्यथा -
आवृत्ते
दीपकपदे
भवेदावृतिदीपकम्
।
दीप्त्याग्निर्भाति
भातीन्दुः
कान्त्या
भाति
रविस्त्विषा
॥ (
चन्द्रा. 5.54)
धर्मसूरिस्तु
द्रव्य-
गुण-
क्रियाणां
सद्भावे
त्रिविधं,
तेषामभावे
पुनस्त्रिविधमिति
षोढा
दीपकं
विभजति
।
आदिमध्यवर्तिनैकेन
जातिक्रियागुणद्रव्यरूपिणा
पदार्थेन
यत्रार्थसङ्गतिस्तत्र
दीपकमिति
प्रथमवाग्भटः
। (
कानु.
पृ.36)
19.
मालादीपकम् -
मम्मटस्तु
मालादीपकं
दीपकभेदतया
व्यवस्थापयति
।
रुय्यकः
पुनरेनं
पृथगलङ्कारं
स्वीचकार
।
एतत्कृतं
लक्षणं
यथा -
पूर्वस्य
पूर्वस्योत्तरोत्तरगुणावहत्वे
मालादीपकम्
। (
अस. 55)
उदाहरणम् -
संग्रामाङ्गणसंगतेन
भवता
चापे
समारोपिते
देवाकर्णय
येन
येन
सहसा
यद्यत्समासादितम्
।
कोदण्डेन
शराः
शरैररिशिरस्तेनापि
भूमण्डलम्
तेन
त्वं
भवता
च
कीर्तिरमला
कीत्र्या
च
लोकत्रयम्
॥ (
अस. 189)
चन्द्रालोककारोऽत्र
दीपकैकावल्योः
संयोगजन्यं
फलमेव
मालादीपकत्वेनानुगृह्णाति
।
तत्कृतं
लक्षणमुदाहरणञ्चेदम् -
दीपकैकावलीयोगान्मालादीपकमुच्यते
।
स्मरेण
हृदये
तस्यास्तेन
त्वयि
कृता
स्थितिः
॥ (
चन्द्रा. 5.89)
धर्मसूरिस्त्वेनं
शृङ्खलान्यायमूलकेषु
अलङ्कारेषु
गणयति
।
उत्तरोत्तरभावः -
"
त्वयि
संगरसंप्राप्ते
धनुषासादिताः
शराः
।
शरैररिशिरस्तेन
भूस्तया
त्वं
त्वया
यशः
॥" (?)
20.
तुल्ययोगिता -
भामह-
दण्डिनोर्लक्षणे
न
परवर्तिभिरनुकृते,
उद्भटलक्षणमेव
त
ऊरीचक्रुः
।
भामहस्य
यथा -
न्यूनस्यापि
विशिष्टेन
गुणसाम्यविवक्षया
।
तुल्यकार्यक्रियायोगादित्युक्ता
तुल्ययोगिता
॥ (
कालभा. 3.27)
नियतानां
सकृद्धर्मः
सा
पुनस्तुल्ययोगिता
। (
काप्र.
सू. 158)
प्राकरणिकानां
अप्राकरणिकानां
वा
एकस्यैव
।
प्राकरणिके - "
पाण्डु
क्षामं
वदनं
हृदयं
सरसं
तवालसं
च
वपुः
।
आवेदयति
नितान्तं
क्षेत्रियरोगं
सखि
हृदन्तः
॥" (
काप्र.
उ. 460)
अप्राकरणिके - "
कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्दृशोः
पुरः
का
।
अमृतममृतरश्मिरम्बुजम््म प्रतिहतमेकपदे
तवाननस्य
॥" (
काप्र.
उ. 461)
रुय्यकस्तु -
औपम्यस्य
गम्यत्वे
पदार्थगतत्वेन
प्रस्तुतानामप्रस्तुतानां
वा
समानधर्माभिसम्बन्धे
तुल्ययोगिता
। (
अस. 23)
तत्र
प्राकरणिकानामप्राकरणिकानां
वार्थानां
समानगुणक्रियाभिसंबन्धाभ्यां
तुल्ययोगिता
चतुर्धा
।
यथाक्रममेतेषामुदाहरणानि
प्रतिपाद्यन्तेऽत्र
।
प्राकरणिकानां
गुणाभिसम्बन्धत्वेन -
योगपट्टो
जटाजालं
तारवी
त्वङ्मृगाजिनम्
।
उचितानि
तवाङ्गेषु
यद्यमूनि
तदुच्यताम्
॥ (
अस. 71)
क्रियाभिसम्बन्धत्वेन -
सज्जातपत्रप्रकराञ्चितानि
समुद्वहन्ति
स्फुटपाटलत्वम्
।
विकस्वराण्यर्ककरप्रभावाद्दिनानि
पद्मानि
च
वृद्धिमीयुः
॥ (
अस. 70)
अप्राकरणिकानां
गुणाभिसंबन्धत्वेन -
त्वदङ्गमार्दवं
द्रष्टुः
कस्य
चित्ते
न
भासते
।
मालतीशशभृल्लेखाकदलीनां
कठोरता
॥ (
अस. 73)
क्रियाभिसंबन्धत्वेन
यथा -
धावत्त्वदश्वपृतनापतितं
मुखेऽस्य
निर्निद्रनीलनलिनच्छदकोमलाङ्ग्या
।
भग्नस्य
गूर्जरनृपस्य
रजः
कयापि
तन्व्या
तवासिलतया
च
यशः
प्रमृष्टम्
॥ (
अस. 72)
जयदेवकृतं
लक्षणं
यथा -
क्रियादिभिरनेकस्य
तुल्यता
तुल्ययोगिता
। (
चन्द्रा. 5.51)
उदाहरणं
यथा -
सङ्कुचन्ति
सरोजानि
स्वैरिणीवदनानि
च
।
प्राचीनाचलचूडाग्रचुम्बिबिम्बे
सुधाकरे
॥ (
चन्द्रा. 5.52)
विश्वनाथस्तु -
पदार्थानां
प्रस्तुतानामन्येषां
वा
यदा
भवेत्
।
एकधर्माभिसम्बन्धः
स्यात्
तदा
तुल्ययोगिता
॥ (
साद. 10.47-48)
इति
लक्षणं
विहितवान्
।
पण्डितराजस्तु
दीपकतुल्ययोगितयोः
अभेदं
प्रतिपादयति
।
सेयं
स्तुत्यर्थनिन्दार्थाभ्यां
द्विविधेति
दण्डी
।
प्रस्तुतानामेव
अप्रस्तुतानामेव
वेति
उद्भटमम्मटादीनां
द्विविधविभाजन
सरणिः
।
धर्मसूरिस्तु
द्विविधां
भेदसरणिमित्थं
व्यवस्थापयति - (1)
धर्मस्य
क्रिया-
गुण-
रूपतया
द्वैविध्ये
चातुर्विध्यमस्येत्येके
। (2)
द्रव्य-
गुण-
कर्मणां
तदभावानां
च
षण्णां
धर्मत्वमङ्गीकृत्य
प्रकृताप्रकृतगतत्वेन
द्वादशप्रकारा
इत्यन्ये
।
उदा. -
डिण्डीरपाण्डुरा
राम
कीर्तयश्च
गुणाश्च
ते
।
अन्तर्निगूढब्रह्माण्डाः
सञ्चरन्ति
निरर्गलाः
॥ (
सार.
पृ.59?)
अत्र
प्रकृतानां
रामगुणकीर्तीनां
द्रव्यगुणकर्मरूपैः
तदभावरूपैश्च
धर्मैः
षड्भिरौपम्यं
गम्यते
।
अप्रकृतानां
तुल्ययोगिता,
यथा -
गाम्भीर्येण
रघूद्वहेन
विजिताः
सप्तापि
पाथोधयः
प्रायो
निःसृतजीवना
हृदि
विवृद्धौर्वाग्निचिन्तानलाः
।
त्यक्ताः
शैत्यगुणेन
पाण्डुरमुखा
डिण्डीरपिण्डच्छलात्
कम्पन्ते
सततं
मनागपि
धृतिं
नाद्यापि
विन्दन्त्यहो
॥ (
सार.
पृ.60?)
21.
व्यतिरेकः -
भामहस्य
मतेन -
उपमानवतोऽर्थस्य
यद्विशेषनिदेर्शनम्
।
व्यतिरेकं
तमिच्छन्ति
विशेषापादनाद्यथा
॥ (
कालभा. 2.75)
रुद्रटेन
उपमेयस्य
आधिक्यम् -
यो
गुण
उपमेये
स्यात्
प्रतिपन्थी
च
दोष
उपमाने
।
व्यस्तसमस्तन्यस्तौ
तौ
व्यतिरेकं
त्रिधा
कुरुतः
॥ (
कालरु. 7.86)
उदाहरणम् -
सकलङ्केन
जडेन
च
साम्यं
दोषाकरेण
कीदृक्
ते
।
अभुजङ्गः
समनयनः
कथमुपमेयो
हरेणासि
॥ (
कालरु. 7.87)
रुद्रटमतेन
भेदान्तरम् -
यो
गुण
उपमाने
तत्
परिपन्थी
च
दोष
उपमेये
।
भवतो
यत्र
समस्तौ
स
व्यतिरेकोऽयमन्यस्तु
॥ (
कालरु. 7.89)
उदाहरणं
यदिह
दत्तं,
तदग्रे
दीयते,
मम्मटेन
व्यतिरेकस्योदाहरणत्वेन
तदेव
प्रस्तुतम्
।
रुय्यकस्तु
उपमानस्याधिक्येऽपि
व्यतिरेकालङ्कृतिमूरीकरोति
।
"
क्षीणः
क्षीणोऽपि
शशी"
त्यादिपद्ये (
अग्रे
उद्धृते)
असौ
उपमानस्य
चन्द्रस्यैव
प्रकर्षं
प्रतिपादितं
मनुते
।
जयदेवोऽप्यस्याभिमतं
सहकुर्वन्नेव
ब्रवीति
यत् - "
व्यतिरेको
विशेषश्चेदुपमानोपमेययोः
। "
इति
। (
चन्द्रा. 5.59)
उदाहरणं
यथा -"
शैला
इवोन्नताः
सन्तः
किं
तु
प्रकृतिकोमलाः
।" (
चन्द्रा. 5.59)
मम्मटेनायं
निराकृतः
।
मम्मटस्य
लक्षणम् -
उपमानाद्
यदन्यस्य
व्यतिरेकः
स
एव
सः
। (
काप्र.
सू. 159)
"
क्षीणः
क्षीणोऽपि
शशी
भूयो
भूयोऽभिवर्धते
सत्यम्
।
विरम
प्रसीद
सुन्दरि
यौवनमनिवर्ति
यातं
तु
॥" (
काप्र.
उ. 462)
हेतुद्वयोक्तौ
शाब्दी - "
अकलङ्कं
मुखं
तस्या
न
कलङ्की
विधुर्यथा
।" (
साद. 53
वृत्तौ)
आर्थी - "
अकलङ्कं
मुखं
तस्या
न
कलङ्किविधूपमम्
।" (
तत्रैव
वृत्तौ)
आक्षिप्तं - "
आननेनाकलङ्केन
जयतीन्दुं
कलङ्किनम्
।" (
काप्र.
उ. 564)
उपमेयोत्कर्षानुक्तौ
शाब्दी - "
मुखं
तस्या
न
कलङ्की
विधुर्यथा
।" (
साद. 53
वृत्तौ)
आर्थी - "
मुखं
तस्या
न
कलङ्किविधूपमम्
।" (
तत्रैव
वृत्तौ)
आक्षिप्तं - "
मुखं
तस्या
जयतीन्दुं
कलङ्किनम्
।"
उपमाननिकर्षानुक्तौ
शाब्दी - "
अकलङ्कं
मुखं
तस्या
न
विधुर्यथा
।"
आर्थी - "
अकलङ्कं
मुखं
तस्या
न
विधूपमम्
।"
आक्षिप्तं - "
अकलङ्कं
मुखं
तस्या
जयतीन्दुम्
।"
उभयानुक्तौ
शाब्दी - "
मुखं
तस्या
न
विधुर्यथा
।"
आर्थी - "
मुखं
तस्या
न
विधूपमम्
।"
आक्षिप्तं - "
मुखं
तस्या
जयतीन्दुम्
।"
श्लेषे
हेतुद्वयोक्तौ
शाब्दी - "
जितेन्द्रियतया
सम्यग्विद्यावृद्धनिषेविणः
।
अतिगाढगुणस्यास्य
नाब्जवद्भङ्गुरा
गुणाः"
॥ (
काप्र.
उ. 466)
आर्थी - "
अतिगाढगुणस्यास्य
नाब्जाभा
भङ्गुरा
गुणाः
।" (
साद. 53
वृत्तौ)
आक्षिप्तं - "
अतिगाढगुणस्यास्य
न
गुणा
अब्जभङ्गुराः
।" (
तत्रैव
वृत्तौ)
उपमेयोत्कर्षानुक्तौ
शाब्दी - "
अस्य
नाब्जवद्भङ्गुरा
गुणाः"
।
आर्थी - "
अस्य
नाब्जाभा
भङ्गुरा
गुणाः
।"
आक्षिप्तं - "
अस्य
न
गुणा
अब्जभङ्गुराः
।"
उपमाननिकर्षानुक्तौ
शाब्दी - "
अतिगाढगुणास्यास्य
नाब्जवद्
गुणाः"
।
आर्थी - "
अतिगाढगुणस्यास्य
नाब्जाभा
गुणाः
।"
आक्षिप्तं - "
अतिगाढगुणः
सोयं
गुणैः
अब्जं
जयति
।"
उभयानुक्तौ
शाब्दी - "
अस्य
नाब्जवद्
गुणाः"
।
आर्थी - "
अस्य
नाब्जाभा
गुणाः
।"
आक्षिप्तं - "
एष
गुणैः
अब्जं
जयति
।"
एवमेव
उपमेयस्य
उपमानान्न्यूनत्वेऽपि
।
यथा - "
हनूमदाद्यैर्यशसा
मया
पुनर्द्विषां
हसैर्दूतपथः
सितीकृतः
।" (
तत्रैव
वृत्तौ)
मालाव्यतिरेके - (
तुल्यार्थे
वतिः,
विषमादयश्च
श्लिष्टाः)
"
हरवन्न
विषमदृष्टिर्हरिवन्न
विभो
विधूतविततवृषः
।
रविवन्न
चातिदुःसहकरतापितभूः
कदाचिदसि
॥" (
काप्र.
उ. 468)
विश्वनाथो
रुद्रटमनुसरन्
उपमेयस्य
न्यूनतायामपि
व्यतिरेकमूरीकुरुते (
साद. 10.52)
।
व्यतिरेकस्य
चत्वारिंशद्भेदा
अनेन
विवेचिताः
।
धर्मसूरिर्मम्मटमेवानुहरति,
तस्य
लक्षणम् -
व्यतिरेकस्तूपमानादुपमेयेऽतिशायिनि
। (
सार.
पृ.582)
व्यतिरेकभेदा
अनेन
न
दर्शिताः
।
22.
आक्षेपः -
भामहस्य -
प्रतिषेध
इवेष्टस्य
यो
विशेषाभिधित्सया
।
आक्षेप
इति
तं
सन्तः
शंसन्ति
द्विविधं
यथा
॥ (
कालभा. 2.68)
रुद्रटेन -
वस्तु
प्रसिद्धमिति
यद्विरुद्धमिति
वास्य
वचनमाक्षिप्य
।
अन्यत्तथात्वसिध्यै
यत्र
ब्रूयात्स
आक्षेपः
॥ (
कालरु. 8.89)
जनयति
संतापमसौ
चन्द्रकलाकोमलापि
मे
चित्रम्
।
अथवा
किमत्र
चित्रं
दहति
हिमानी
हि
भूमिरुहः
॥ (
कालरु. 8.90)
तव
गणयामि
गुणानहमलमथवासत्प्रलापिनी
धिङ्माम्
।
कः
खलु
कुम्भैरम्भो
मातुमलं
जलनिधेरखिलम्
॥ (
कालरु. 8.91)
उक्तविषये
वस्तुनिषेधे - "
बालक
नाहं
दूती
तस्याः
प्रियोऽसि
इति
न
मे
व्यापारः
।
सा
म्रियते
तवायशः
एतत्
धर्माक्षरं
भणामः
॥" (
दूतीत्ववस्तुनः) (
साद. 64
वृत्तौ)
कथननिषेधे - "
ज्योत्स्ना
मौक्तिकदाम
चन्दनरसः
शीतांशुकान्तद्रवः
कर्पूरं
कदलीमृणालवलयान्यम्भोजिनीपल्लवाः
।
अन्तर्मानसमास्त्वया
प्रभवता
तस्याः
स्फुलिङ्गोत्कर-
व्यापाराय
भवन्ति
हन्त
किमनेनोक्तेन
न
ब्रूमहे
॥" (
काप्र.
उ. 472)
वक्ष्यमाणविषये
सर्वात्मना
निषेधे - "
स्मरशरशतविधुराया
भणामि
सख्याः
कृते
किमपि
।
क्षणमिह
विश्रम्य
सखे
निर्दयहृदयस्य
किं
वदाम्यथवा
॥" (
साद. 64
वृत्तौ)
आंशिकनिषेधे - "
तव
विरहे
हरिणाक्षि
निरीक्ष्य
नवमालिकां
दलिताम्
।
हन्त
नितान्तमिदानीम्
आः
किं
हतजल्पितैरथवा
॥" (
तत्रैव
वृत्तौ)
गम्यनिषेधे - "
गच्छ
गच्छसि
चेत्पान्थ
पन्थानः
सन्तु
ते
शिवाः
।
ममापि
जम््म तत्रैव
भूयाद्यत्र
गतो
भवान्
॥" (
साद. 65
वृत्तौ)
रुय्यकस्य
यथा -
उक्तवक्ष्यमाणयोः
प्राकरणिकयोर्विशेषप्रतीत्यर्थं
निषेधाभास
आक्षेपः
इति
॥ (
अस. 38)
।
अनेनापि
चतुर्विधत्वमस्य
स्वीकृतम्
।
क्रमेण
तन्निरूप्यते
।
उक्तविषये
वस्तुनिषेधे - (
उपरि
तूल्लिखितमेतत्)
वस्तुकथनस्य
निषेधे -
प्रसीदेति
ब्रूयामिदमसति
कोपे
न
घटते
करिष्याम्येवं
नो
पुनरिति
भवेदभ्युपगमः
।
न
मे
दोषोऽस्तीति
त्वमिदमपि
हि
ज्ञास्यसि
मृषा
किमेतस्मिन्वक्तुं
क्षममिति
न
वेद्मि
प्रियतमे
॥ (
अस. 146)
सामान्यस्योक्तौ
विशेषस्याक्षेपत्वे -
सुभग
विलम्बस्व
स्तोकं
यावदिदं
विरहकातरं
हृदयम्
।
संस्थाप्य
भणिष्यामि
अथवा
व्रजस्व
किं
भणामः
॥ (
अस. 147)
अंशस्योक्तावंशान्तरस्य
निषेधे -
ज्योत्स्ना
तमः
पिकवचः
क्रकचस्तुषारः
क्षारो
मृणालवलयानि
कृतान्तदन्ताः
।
सर्वं
दुरन्तमिदमद्य
शिरीषमृद्वी
सा
नूनमाः
किमथवा
हतजल्पितेन
॥ (
अस. 148)
जयदेवस्त्वित्थं
ब्रूते -
आक्षेपस्तु
प्रयुक्तस्य
प्रतिषेधो
विचारणात्
।
चन्द्र
सन्दर्शयात्मानमथवास्ति
प्रियामुखम्
॥ (
चन्द्रा. 5.72)
उत्तरार्धमस्य
पद्यस्योदाहरणमेव
द्योतयति
।
विश्वनाथो
मम्मटकृतं
लक्षणमस्य
सर्वथा
स्वीकुरुते,
परन्तु
विकल्पतया
अन्यथाप्याक्षेपमसौ
लक्षयति,
तद्यथा -
अनिष्टस्य
तथार्थस्य
विध्याभासः
परो
मतः
। (
साद. 10.65)
तथेति
पूर्ववद्
विशेषप्रतिपत्तये
।
उदा. -
गच्छ
गच्छसि
चेत्
कान्त
पन्थानः
सन्तु
ते
शिवाः
।
ममापि
जम््म तत्रैव
भूयाद्
यत्र
गतो
भवान्
॥ (
तत्रैव
वृत्तौ)
एकेन
प्रस्तुतस्य
असिद्धिराक्षेप
इति
केशवमिश्रः
। (
अशे.
पृ.37)
यथा -
इन्द्रेण
किं
यदि
स
कर्णनरेन्द्रसूनुरैरावतेन
किमसौ
यदि
तद्द्विपेन्द्रः
।
दम्भोलिनाप्यलमयंयदि
तत्प्रतापः
स्वर्गोऽप्ययं
ननु
मुधा
यदि
तत्पुरी
सा
॥ (
अशे.
पृ.37)
23.
विभावना -
भामहमतेन -
क्रियायाः
प्रतिषेधे
या
तत्फलस्य
विभावना
।
ज्ञेया
विभावनैवासौ
समाधौ
सुलभे
सति
॥ (
कालभा. 2.77)
रुद्रटेन
अतिशयोक्तिमूलकालङ्कारेषु
अयमलङ्कारः
परिगणितः
।
सेयं
विभावनाख्या
यस्यामुपलभ्यमानमभिधेयम्
।
अभिधीयते
यतः
स्यात्तत्कारणमन्तरेणैव
॥ (
कालरु. 9.16)
निहतातुलतिमिरभरः
स्फारस्फुरदुरुतरप्रभाप्रसरः
।
शं
वो
दिनकृद्दिश्यादतैलपूरो
जगद्दीपः
॥ (
कालरु. 9.17)
यस्यां
तथा
विकारस्तत्कारणमन्तरेण
सुव्यक्तः
।
प्रभवति
वस्तुविशेषे
विभावना
सेयमन्या
तु
॥ (
कालरु. 9.18)
जाता
ते
सखि
सांप्रतमश्रमपरिमन्थरा
गतिः
किमियम्
।
कस्मादभवदकस्मादियममधुमदालसा
दृष्टिः
॥ (
कालरु. 9.19)
यस्य
यथात्वं
लोके
प्रसिद्धमर्थस्य
विद्यते
तस्मात्
।
अन्यस्यापि
तथात्वं
यस्यामुच्येत
सान्येयम्
॥ (
कालरु. 9.20)
स्फुटमपरं
निद्रायाः
सरसमचैतन्यकारणं
पुंसाम्
।
अपटलमान्ध्यनिमित्तं
मदहेतुरनासवो
लक्ष्मीः
॥ (
कालरु. 9.21)
-
हेतुरूपक्रियानिषेधेऽपि
फलप्रकाशनम्
"
अपि
लाक्षारसासिक्तं
रक्तं
तच्चरणद्वयम्
।" (?)
उक्ते - "
अनायासकृशं
मध्यमशङ्कतरले
दृशौ
।
अभूषणमनोहारि
वपुर्वयसि
सुभ्रुवः
॥" (
साद. 66
वृत्तौ)
अनुक्ते - "
अनायासकृशं
मध्यमशङ्कतरले
दृशौ
।
अभूषणमनोहारि
वपुर्भाति
मृगीदृशः
॥" (
तत्रैव
वृत्तौ)
रुय्यकस्य
यथा -
कारणाभावे
कार्यस्योत्पत्तिर्विभावना
॥ (
अस. 41)
उक्तनिमित्ताऽनुक्तनिमित्ता
चेयमिति
द्विविधा
।
तत्राद्यस्योदाहरणं
यथा -
असंभृतं
मण्डनमङ्गयष्टेरनासवाख्यं
करणं
मदस्य
।
कामस्य
पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं
साथ
वयः
प्रपेदे
॥ (
अस. 161)
द्वितीया
यथा -
अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम्
।
अनलक्तकताम्राभामोष्ठलेखां
च
बिभ्रतीम्
॥ (
अस. 162)
जयदेवोऽत्र
प्रकारान्तरेण
रुय्यकमेवानुकुर्वन्
लक्षणं
विदधाति
।
तदित्थम् -
विभावना
विनाऽपि
स्यात्
कारणं
कार्यजम््म चेत्
।
पश्य,
लाक्षारसासिक्तं
रक्तं
त्वच्चरणद्वयम्
॥ (
चन्द्रा. 5.77)
उदाहरणन्त्वत्रैव
सन्निहितम्
।
24.
विशेषोक्तिः -
भामहस्य -
एकदेशस्य
विगमे
या
गुणान्तरसंस्थितिः
।
विशेषप्रथनायासौ
विशेषोक्तिर्मता
यथा
॥ (
कालभा. 3.23)
कारणेषु
सत्स्वपि
फलाभावः
।
उक्ते - "
धनिनोऽपि
निरुन्मादा
युवानोऽपि
न
चञ्चलाः
।
प्रभवोऽप्यप्रमत्तास्ते
महामहिमशालिनः
॥" (
साद. 67
वृत्तौ)
अनुक्ते - "
धनिनोऽपि
निरुन्मादा
युवानोऽपि
न
चञ्चलाः
।
प्रभवोऽप्यप्रमत्तास्ते
कियन्तः
सन्ति
भूतले
॥" (
तत्रैव
वृत्तौ)
अचिन्त्ये - "
स
एकस्त्रीणि
जयति
जगन्ति
कुसुमायुधः
।
हरतापि
तनुं
यस्य
शंभुना
न
बलं
हृतम्
॥" (
तत्रैव
वृत्तौ)
रुय्यककृतं
लक्षणं
यथा -
कारणसामग्र्ये
कार्यानुत्पत्तिर्विशेषोक्तिः
। (
अस. 42)
सेयं
विशेषोक्तिरुक्तनिमित्ताऽनुक्तनिमित्ता
चेति
द्विविधा
।
अनुक्तनिमित्ता
पुनः
चिन्त्याचिन्त्यत्वेन
द्विविधेति
कृत्वा
समुदायेन
त्रिविधा
।
प्रत्येकस्योदाहरणं
यथा
क्रमशः -
(1)
कर्पूर
इव
दग्धोऽपि
शक्तिमान्यो
जने
जने
।
नमोऽस्त्ववार्यवीर्याय
तस्मै
कुसुमधन्वने
॥ (
अस. 163)
(2)
आहूतोऽपि
सहायैरोमित्युक्त्वा
विमुक्तनिद्रोऽपि
।
गन्तुमना
अपि
पथिकः
संकोचं
नैव
शिथिलयति
॥ (
अस. 164)
(3)
स
एकस्त्रीणि
जयति
जगन्ति
कुसुमायुधः
।
हरतापि
तनुं
यस्य
शंभुना
न
हृतं
बलम्
॥ (
अस. 165)
रुय्यकमनुकुर्वतैव
जयदेवेन
लक्षणं
कृतम् -
विशेषोक्तिरनुत्पत्तिः
कार्यस्य
सति
कारणे
।
नमन्तमपि
धीमन्तं
न
लङ्घयति
कश्चन
॥ (
चन्द्रा. 5.78)
उदाहरणन्त्वत्रैव
निर्दिष्टम्
।
25.
यथासंख्यं -
भामहस्य -
भूयसामुपदिष्टानामर्थानामसधर्मणाम्
।
क्रमशो
योऽनुनिर्देशो
यथासंख्यं
तदुच्यते
॥ (
कालभा. 2.89)
रुद्रटमतेन -
निर्दिश्यन्ते
यस्मिन्नर्था
विविधा
ययैव
परिपाट्या
।
पुनरपि
तत्प्रतिबद्धास्तयैव
तत्स्याद्
यथासङ्ख्यम्
॥ (
कालरु. 7.34)
तद्द्विगुणं
त्रिगुणं
वा
बहूषूद्दिष्टेषु
जायते
रम्यम्
।
यत्
तेषु
तथैव
ततो
द्वयोस्तु
बहुशोऽपि
बध्नीयात्
॥ (
कालरु. 7.35)
त्रिगुणोदाहरणम् -
कज्जलहिमकनकरुचः
सुपर्णहंसवृषवाहनाः
शं
वः
।
जलनिधिगिरिपद्मस्था
हरिहरचतुरानना
ददतु
॥ (
कालरु. 7.36)
द्वयोर्बहुगुणोदाहरणम् -
दुग्धोदधिशैलस्थौ
सुपर्णवृषवाहनौ
घनेन्दुरुची
।
मधुमकरध्वजमथनौ
पातां
वः
शाङ्र्गशूलधरौ
॥ (
कालरु. 7.37)
मम्मटेन -
यथासङ्ख्यं
क्रमेण
क्रमिकाणां
समन्वयः
। (
काप्र.
सू. 164)
यथा - "
एकस्त्रिधा
वससि
चेतसि
चित्रमत्र
देव
द्विषां
च
विदुषां
च
मृगीदृशां
च
।
तापं
च
संमदरसं
च
रतिं
च
पुष्णन्
शौर्योष्मणा
च
विनयेन
च
लीलया
च
॥" (
काप्र.
उ. 477)
उद्दिष्टानामर्थानां
क्रमेणानुनिर्देशो
यथासंख्यम्
। (
अस. 59)
तच्च
यथासंख्यं
शाब्दमार्थं
चेति
द्विधा
।
आद्यो
यथा -
लावण्यौकसि
सप्रतापगरिमण्यग्रेसरे
त्यागिनां
देवत्वय्यवनीभरक्षमभुजे
निष्पादिते
वेधसा
।
इन्दुः
किं
घटितः
किमेष
विहितः
पूषा
किमुत्पादितं
चिन्तारत्नमहो
मुधैव
किममी
सृष्टाः
कुलक्ष्माभृतः
॥ (
अस. 198)
द्वितीयो
यथा -
कज्जलहिमकनकरुचः
सुपर्णवृषहंसवाहनाः
शं
वः
।
जलनिधिगिरिकमलस्था
हरिहरचतुरानना
ददतु
॥ (
अस. 199)
जयदेवस्य
संविधानत्वे
सोदाहरणं
लक्षणं
यथा -
यथासंख्यं
द्विधार्थाश्चेत्
क्रमादेकैकमन्विताः
।
शत्रुं
मित्रं
द्विषत्पक्षं
जय
रञ्जय
भञ्जय
॥ (
चन्द्रा. 5.92)
26.
अर्थान्तरन्यासः -
रुद्रटेन -
धर्मिणमर्थविशेषं
सामान्यं
वाभिधाय
तत्सिद्ध्यै
।
यत्र
सधर्मकमितरं
न्यस्येत्सोऽर्थान्तरन्यासः
॥ (
कालरु. 8.79)
तुङ्गानामपि
मेघा
शैलानामुपरि
विदधते
छायाम्
।
उपकर्तुं
हि
समर्था
भवन्ति
महतां
महीयांसः
॥ (
कालरु. 8.80)
सकलमिदं
सुखदुःखं
भवति
यथावासनं
तथाहीह
।
रमयन्तितरां
तरुणीर्नखक्षतादीनि
रतिकलहे
॥ (
कालरु. 8.81)
पूर्ववदभिधायैकं
विशेषसामान्ययोर्द्वितीयं
तु
।
तत्सिद्धयेऽभिदध्याद्विपरीतं
यत्र
सोऽन्योऽयम्
॥ (
कालरु. 8.82)
अभिसारिकाभिरभिहतनिबिडतमा
निन्द्यते
सितांशुरपि
।
अनुकूलतया
हि
नृणां
सकलं
स्फुटमभिमतीभवति
॥ (
कालरु. 8.83)
हृदयेन
निर्वृतानां
भवति
नृणां
सर्वमेव
निर्वृतये
।
इन्दुरपि
तथाहि
मनः
खेदयतितरां
प्रियाविरहे
॥ (
कालरु. 8.84)
सामान्यावप्यर्थौ
स्फुटमुपमायाः
स्वरूपतोऽपेतौ
।
निर्दिश्येते
यस्मिन्नुभयन्यासः
स
विज्ञेयः
॥ (
कालरु. 8.85)
सकलजगत्साधारणविभवा
भुवि
साधवोऽधुना
विरलाः
।
सन्ति
कियन्तस्तरवः
सुस्वादुसुगन्धि
चारुफलाः
॥ (
कालरु. 8.86)
साधम्र्ये
विशेषेण
सामान्यसमर्थनं - "
निजदोषावृतमनसामतिसुन्दरमेव
भाति
विपरीतम्
।
पश्यति
पित्तोपहतः
शशिशुभ्रं
शङ्खमपि
पीतम्
॥"(
काप्र.
उ. 478)
सामान्येन
विशेषसमर्थनं - "
यावदर्थपदां
वाचमेवमादाय
माधवः
।
विरराम
महीयांसः
प्रकृत्या
मितभाषिणः
॥" (
साद. 61
वृत्तौ)
"
हनुमानतरदÏ
ब्ध
दुष्करं
किं
महात्मनाम्
।" (?)
वैधम्र्ये
विशेषेण
सामान्यसमर्थनं - "
गुणानामेव
दौरात्म्याद्धुरि
धुर्यो
नियुज्यते
।
असंजातकिणस्कन्धः
सुखं
स्वपिति
गौर्गलिः
॥" (
काप्र.
उ. 480)
सामान्येन
विशेषसमर्थनं - "
इत्थमाराध्यमानोऽपि
क्लिश्नाति
भुवनत्रयम्
।
शाम्येत्प्रत्यपकारेण
नोपकारेण
दुर्जनः
॥" (
साद. 61
वृत्तौ)
रुय्यकस्तु -
सामान्यविशेषकार्यकारणभावाभ्यां
निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः
।
(
अस. 35)
इत्यनेन
तस्यैव
मम्मटस्वीकृतभेदचतुष्टयस्य
कार्यकारणभावाभ्यामष्टौ
भेदान्
निरूपयति
।
जयदेवस्य
यथा -
भवेदर्थान्तरन्यासोऽनुषक्तार्थान्तराभिधा
।
हनुमानब्धिमतरद्
दुष्करं
किं
महात्मनाम्
॥ (
चन्द्रा. 5.68)
उदाहरणन्त्वत्रैव
सुस्पष्टम्
।
27.
विरोधः -
भामहस्य -
गुणस्य
वा
क्रियाया
वा
विरुद्धान्यक्रियाभिधा
।
या
विशेषाभिधानाय
विरोधं
तं
विदुर्यथा
॥ (
कालभा. 3.25)
रुद्रटस्य -
यस्मिन्द्रव्यादीनां
परस्परं
सर्वथा
विरुद्धानाम्
।
एकत्रावस्थानं
समकालं
भवति
स
विरोधः
॥ (
कालरु. 9.30)
अस्य
सजातीयानां
विधीयमानस्य
सन्ति
चत्वारः
।
भेदास्तन्नामानः
पञ्च
त्वन्ये
तदन्येषाम्
॥ (
कालरु. 9.31)
जातिद्रव्यविरोधी
न
संभवत्येव
तेन
न
षडेते
।
अन्ये
तु
वक्ष्यमाणाः
सन्ति
विरोधास्तु
चत्वारः
॥ (
कालरु. 9.32)
यत्रावश्यंभावी
ययोः
यज्जातीययोर्भवेदेकः
।
एकत्र
विरोधवतोस्तयोरभावोऽयमन्यस्तु
॥ (
कालरु. 9.33)
अत्रेन्द्रनीलभित्तिषु
गुहासु
शैले
सदा
सुवेलाख्ये
।
अन्योन्यानभिभूते
तेजस्तमसी
प्रवर्तेते
॥ (
कालरु. 9.34)
सत्यं
त्वमेव
सरलो
जगति
जराजनितकुब्जभावोऽपि
।
ब्रह्मन्परमसि
विमलो
वितताध्वरधूममलिनोऽपि
॥ (
कालरु. 9.35)
बालमृगलोचनायाश्चरितमिदं
चित्रमत्र
यदसौ
माम्
।
जडयति
संतापयति
च
दूरे
हृदये
च
मे
वसति
॥ (
कालरु. 9.36)
एकस्यामेव
तनौ
बिभर्ति
युगपन्नरत्वसिंहत्वे
।
मनुजत्ववराहत्वे
तथैव
यो
विभुरसौ
जयति
॥ (
कालरु. 9.37)
तेजस्विना
गृहीतं
मार्दवमुपयाति
पश्य
लोहमपि
।
पात्रं
तु
महद्विहितं
तरति
तदन्यच्च
तारयति
॥ (
कालरु. 9.38)
सा
कोमलापि
दलयति
मम
हृदयं
पश्यतो
दिशः
सकलाः
।
अभिनवकदम्बधूलीधूसरशुभ्रभ्रमद्भ्रमराः
॥ (
कालरु. 9.39)
वरतनु
विरुद्धमेतत्तव
चरितमदृष्टपूर्वमिह
लोके
।
मन्थासि
येन
नितरामबला
हि
बलान्मनो
यूनाम्
॥ (
कालरु. 9.40)
अविवेकितया
स्थानं
जातं
न
जलं
न
च
स्थलं
तस्याः
।
अनुरज्य
चलप्रकृतौ
त्वय्यपि
भर्ता
यया
मुक्तः
॥ (
कालरु. 9.41)
न
मृदु
न
कठिनमिदं
मे
हतहृदयं
पश्य
मन्दपुण्यायाः
।
यद्विरहानलतप्तं
न
विलयमुपयाति
न
च
दाढर्यम्
॥ (
कालरु. 9.42)
नास्ते
न
याति
हंसः
पश्यन्गगनं
घनश्यामम्
।
चिरपरिचितां
च
बिसिनीं
स्वयमुपभुक्तातिरिक्तरसाम्
॥ (
कालरु. 9.43)
न
स्त्री
न
चायमस्त्री
जातः
कुलपांसनो
जनो
यत्र
।
कथमिव
तत्पातालं
न
यातु
कुलमनवलम्बितया
॥ (
कालरु. 9.44)
विरोधः
सोऽविरोधेऽपि
विरुद्धत्वेन
यद्वचः
। (
काप्र.
सू. 166)
वस्तुवृत्तेऽविरोधेऽपि
विरोधत्वेनाभिधानम् -
मम्मटमतेन
दश
भेदाः
।
1.
जात्या
जातिः - "
अभिनवनलिनीकिसलयमृणालवलयादि
दवदहनराशिः
।
सुभगकुरङ्गदृशोऽस्या
विधिवशतस्त्वद्वियोगपविपाते
॥ (
काप्र.
उ. 482)
2.
गुणेन
जातिः -
गिरयोऽप्यनुन्नतियुजो
मरुदप्यचलोऽब्धयोऽप्यगम्भीराः
।
विश्वम्भराप्यतिलघुर्नरनाथ
तवान्तिके
नियतम्
॥ (
काप्र.
उ. 483)
3.
क्रियया
जातिः -
येषां
कण्ठपरिग्रहप्रणयितां
संप्राप्य
धाराधर-
स्तीक्ष्णः
सोऽप्यनुरज्यते
च
कमपि
स्नेहं
पराप्नोति
च
।
तेषां
संगरसंगसक्तमनसां
राज्ञां
त्वया
भूपते
पांसूनां
पटलैः
प्रसाधनविधिर्निर्वत्र्यते
कौतुकम्
॥ (
काप्र.
उ. 484)
4.
द्रव्येण
जातिः -
सृजति
च
जगदिदमवति
च
संहरति
च
हेलयैव
यो
नियतम्
।
अवसरवशतः
शफरो
जनार्दनः
सोऽपि
चित्रमिदम्
॥ (
काप्र.
उ. 485)
5.
गुणेन
गुणः -
सततं
मुसलासक्ता
बहुतरगृहकर्मघटनया
नृपते
।
द्विजपत्नीनां
कठिनाः
सति
भवति
कराः
सरोजसुकुमाराः
॥ (
काप्र.
उ. 486)
6.
क्रियया
गुणः -
पेशलमपि
खलवचनं
दहतितरां
मानसं
सतत्त्वविदाम्
।
परुषमपि
सुजनवाक्यं
मलयजरसवत्
प्रमोदयति
॥ (
काप्र.
उ. 487)
7.
द्रव्येण
गुणः -
क्रौञ्चाद्रिरुद्दामदृषद्दृढोऽसौ
यन्मार्गणानर्गलशातपाते
।
अभून्नवाम्भोजदलाभिजातः
स
भार्गवः
सत्यमपूर्वसर्गः
॥ (
काप्र.
उ. 488)
8.
क्रियया
क्रिया -
परिच्छेदातीतः
सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं
यो
न
गतवान्
।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः
कोऽप्यन्तर्जडयति
च
तापं
च
कुरुते
॥ (
काप्र.
उ. 489)
9.
द्रव्येण
क्रिया -
अयं
वारामेको
निलय
इति
रत्नाकर
इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः
।
क
एवं
जानीते
निजकरपुटीकोटरगतं
क्षणादेनं
ताम्यत्तिमिमकरमापास्यति
मुनिः
॥ (
काप्र.
उ. 490)
10.
द्रव्यस्य
द्रव्येण -
समदमतङ्गजमदजलनिःस्यन्दतरङ्गिणीपरिष्वङ्गात्
।
क्षितितिलक
त्वयि
तटजुषि
शङ्करचूडापगापि
कालिन्दी
॥ (
काप्र.
उ. 491)
रुय्यकोऽपि "
विरुद्धाभासत्वं
विरोधः" (
अस. 40)
इति
लक्षणं
प्रतिपाद्य
मम्मटस्येव
दशभेदान्
स्वीकुरुते
।
जयदेवस्य
यथा -
विरोधोऽनुपपत्तिश्चेद्
गुणद्रव्यक्रियादिषु
।
अमन्दचन्दनस्यन्दः
स्वच्छन्दं
दन्दहतीति
माम्
॥ (
चन्द्रा. 5.74)
28.
स्वभावोक्तिः -
भामहस्य -
स्वभावोक्तिरलङ्कार
इति
केचित्प्रचक्षते
।
अर्थस्य
तदवस्थत्वं
स्वभावोऽभिहितो
यथा
॥ (
कालभा. 2.93)
रुद्रटस्तु
जातिनामानमलङ्कारमेव
निरूपयति
।
तल्लक्षणं
यथा -
संस्थानावयवस्थानक्रियादि
यद्यस्य
सदृशं
भवति
।
लोके
चिरप्रसिद्धं
तत्कथनमन्यथा
जातिः
॥ (
कालरु. 7.30)
शिशुमुग्धयुवतिकातरतिर्यक्सम्भ्रान्तहीनपात्राणाम्
।
सा
कालावस्थोचितचेष्टासु
विशेषतो
रम्या
॥ (
कालरु. 7.31)
उदाहरणम् -
धूलीधूसरतनवो
राज्यस्थितिरचनकल्पितैकनृपाः
।
कृतमुखवाद्यविकाराः
क्रीडन्ति
सुनिर्भरं
डिम्भाः
॥ (
कालरु. 7.32)
मम्मटेन -
स्वभावोक्तिस्तु
डिम्भादेः
स्वक्रियारूपवर्णनम्
। (
काप्र.
सू. 168)
पश्चादङ्घ्री
प्रसार्य
त्रिकनतिविततं
द्राघयित्वाङ्गमुच्चैः
आसज्याभुग्नकण्ठो
मुखमुरसि
सटां
धूलिध्रूम्रां
विधूय
।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं
शब्दायमानो
विलिखति
शयनादुत्थितः
क्ष्मां
खुरेण
॥ (
काप्र.
उ. 492)
उदाहरणान्तरम् -
करारविन्देन
पदारविन्दं
मुखारविन्दे
विनिवेशयन्तम्
।
वटस्य
पत्रस्य
पुटे
शयानं
बालं
मुकुन्दं
मनसा
स्मरामि
॥ (?)
रुय्यकोऽत्र
ब्रूते -
सूक्ष्मवस्तुस्वभावयथावद्वर्णनं
स्वभावोक्तिः
इति
। (
अस. 79)
उदाहरणं
यथा -
हुंकारो
नखकोटिचञ्चुपुटकव्याघट्टनोट्टङ्कित-
स्तन्व्याः
कुन्तलकौतुकव्यतिकरे
सीत्कारसीमन्तितः
।
पृष्ठश्लिष्यदवामनस्तनभरोत्सेधाङ्कपालीसुधा-
सेकाकेकरलोचनस्य
कृतिनः
कर्णावतंसीभवेत्
॥ (
अस. 251)
जयदेवस्य
यथा -
स्वभावोक्तिः
स्वभावस्य
जात्यादिषु
च
वर्णनम्
।
कुरङ्गैरुत्तरङ्गाक्षि
स्तब्धकर्णैरुदीक्ष्यते
॥ (
चन्द्रा. 5.112)
यथास्थितवस्तुस्वरूपवर्णनमग्राम्यं
जातिः,
सा
च
त्रस्तार्भकदीनतिर्यग्युवतिप्रभृतिषु
विशेषतो
रम्या -
इति
प्रथमवाग्भटे
। (
पृ.32)
29.
व्याजस्तुतिः -
दूराधिकगुणस्तोत्रव्यपदेशेन
तुल्यताम्
।
किञ्चिद्विधित्सोर्या
निन्दा
व्याजस्तुतिरसौ
यथा
॥ (
कालभा. 3.31)
मम्मटमतेन -
व्याजस्तुतिर्मुखे
निन्दा
स्तुतिर्वा,
रूढिरन्यथा
। (
काप्र.
सू.169)
हित्वा
त्वामुपरोधवन्ध्यमनसां
मन्ये
न
मौलिः
परः
लज्जावर्जनमन्तरेण
न
रमामन्यत्र
संदृश्यते
।
यस्त्यागं
तनुतेतरां
मुखशतैरेत्याश्रितायाः
श्रियः
प्राप्य
त्यागकृतावमाननमपि
त्वय्येव
यस्याः
स्थितिः
॥ (
काप्र.
उ. 493)
हे
हेलाजितबोधिसत्त्व
वचसां
किं
विस्तरैस्तोयधे
नास्ति
त्वत्सदृशः
परः
परहिताधाने
गृहीतव्रतः
।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो
भारप्रोद्वहने
करोषि
कृपया
साहायकं
यन्मरोः
॥ (
काप्र.
उ. 494)
रुय्यकस्य
संविधानं
यथा -
स्तुतिनिन्दाभ्यां
निन्दास्तुत्योर्गम्यत्वे
व्याजस्तुतिः
।
इति
। (
अस. 37)
सेयं
व्याजस्तुतिः
स्तुतेर्निन्दारूपेण
पर्यवसानरूपा,
निन्दायाः
स्तुतिरूपेण
पर्वसानरूपा
चेति
द्विविधा
।
तदेतयोरुदाहरणं
क्रमेण
यथा -
हे
हेलाजितबोधिसत्त्व
वचसां
किं
विस्तरैस्तोयधे
नास्ति
त्वत्सदृशः
परः
परहिताधाने
गृहीतव्रतः
।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
भारप्रोद्वहने
करोषि
कृपया
साहायकं
यन्मरोः
॥ (
अस. 142)
इन्दोर्लक्ष्म
त्रिपुरजयिनः
कण्ठपीठी
मुरारि-
र्दिङ्नागानां
मदजलमषीभाञ्जि
गण्डस्थलानि
।
अद्याप्युर्वीवलयतिलक
श्यामलिम्नानुलिप्ता-
न्युद्भासन्ते
वद
धवलितं
किं
यशोभिस्तदीयैः
॥ (
अस. 143)
जयदेवस्य
यथा -
उक्तिव्र्याजस्तुतिर्निन्दास्तुतिभ्यां
स्तुतिनिन्दयोः
।
कस्ते
विवेको
नयसि
स्वर्गं
पातकिनोऽपि
यत्
॥ (
चन्द्रा. 5.71)
30.
सहोक्तिः -
भिन्नयोः
पदार्थयोः
कृते
क्रियाद्वयस्थाने
एकायामेव
क्रियायां
प्रयुक्तायां
सहोक्तिरिति
भामहः
।
यथा -
तुल्यकाले
क्रिये
यत्र
वस्तुद्वयसमाश्रये
।
पदेनैकेन
कथ्येते
सहोक्तिः
सा
मता
यथा
॥ (
कालभा. 3.39)
दण्डी
पुनः
द्वयोः
गुणयोः
स्थाने
एके
गुणे
कथितेऽपि
सहोक्तिमूरीकुरुते
।
रुद्रटमतेन
वास्तवमूलकोऽयमलङ्कारः
।
तल्लक्षणं
यथा -
भवति
यथारूपोऽर्थः
कुर्वन्नेवापरं
तथाभूतम्
।
उक्तिस्तस्य
समाना
तेन
समं
या
सहोक्तिः
सा
। (
कालरु. 7.13)
उदाहरणम् -
कष्टं
सखे
क्व
यामः
सकलजगन्मन्मथेन
सह
तस्याः
।
प्रतिदिनमुपैति
वृदिं्ध
कुचकलशनितम्बभित्तिभरः
॥ (
कालरु. 7.14)
रुद्रटमतेन
प्रकारान्तरम् -
यो
वा
येन
क्रियते
तथैव
भवता
च
तेन
तस्यापि
।
अभिधानं
यत्
क्रियते
समानमन्या
सहोक्तिस्सा
॥ (
कालरु. 7.15)
भवदपराधैः
सार्धं
सन्तापो
वर्धतेतरां
तस्याः
।
क्षयमेति
वराकी
स्नेहेन
समं
त्वदीयेन
॥ (
कालरु. 7.16)
रुद्रटमतेन
प्रकारान्तरम् -
अन्योन्यं
निरपेक्षौ
यावर्थावेककालमेकविधौ
।
भवतस्तत्कथनं
यत्
सापि
सहोक्तिः
किलेत्यपरे
॥ (
कालरु. 7.17)
उदाहरणम् -
कुमुददलैः
सह
सम्प्रति
विघटन्ते
चक्रवाकमिथुनानि
।
सह
कमलैर्ललनानां
मानः
सङ्कोचमायाति
। (
कालरु. 7.18)
औपम्यमूलकालङ्कारेषु
पृथक्तया
रुद्रटेन
सहोक्तिरलक्षिता,
यथा -
सा
हि
सहोक्तिर्यस्यां
प्रसिद्धदूराधिकक्रियो
योऽर्थः
।
तस्य
समानक्रिय
इति
कथ्येतान्यः
समं
तेन
॥ (
कालरु. 8.99)
मधुपानोद्धतमधुकरमदकलकलकण्ठदीपितोत्कण्ठाः
।
सपदि
मधौ
निजसदनं
मनसा
सह
यान्त्यमी
पथिकाः
॥ (
कालरु. 8.100)
यत्रैककर्तृका
स्यादनेककर्माश्रिता
क्रिया
तत्र
।
कथ्येतापरसहितं
कर्मैकं
सेयमन्या
स्यात्
॥ (
कालरु. 8.101)
स
त्वां
विभर्ति
हृदये
गुरुभिरसंख्यैर्मनोरथैः
सार्धम्
।
ननु
कोपनेऽवकाशः
कथमपरस्या
भवेत्तत्र
॥ (
कालरु. 8.102)
रुय्यकस्तु
उपमानोपमेययोरेकस्य
प्राधान्यनिर्देशेऽपरस्य
सहार्थसम्बन्धे
सहोकिं्त
स्वीकरोति
। (
अस. 29)
।
तदेतस्या
भेदाः
क्रमशः
निरुप्यन्ते
। (
तत्रैव
वृत्तौ)
कार्यकारणप्रतिनियमविपर्ययरूपा
यथा - "
भवदपराधैः
सार्धं
संतापो
वर्धतेतरामस्याः
।"
श्लेषभित्तिकाभेदाध्यवसायरूपा
यथा - "
अस्तं
भास्वान्प्रयातः
सह
रिपुभिरयं
संह्रियन्तां
बलानि
।"
अश्लेषमूला
सहोक्तिर्यथा - "
कुमुदवनैः
सह
संप्रति
विघटन्ते
चक्रवाकमिथुनानि
।"
जयदेवस्य
मतेन -
सहोक्तिः
सहभावश्चेद्
भासते
जनरञ्जनः
।
दिगन्तमगमद्
यस्य
कीर्तिः
प्रत्यर्थिभिः
सह॥ (
चन्द्रा. 5.60)
एवमेव
विद्यानाथ-
विद्याधर-
धर्मसूरिप्रमुखाः
।
मम्मटमतेन
अस्या
लक्षणम् -
सा
सहोक्तिः
सहार्थस्य
बलादेकं
द्विवाचकम्
। (
काप्र.
सू. 170)
सह
दिअहणिसाहिं
दीहरा
सासदण्डा
सह
मणिवलयेहिं
वाप्पघारा
गलन्ति
।
तुह
सुहअ
विओए
तीय
उव्विग्गिरीए
सह
अ
तणुलताए
दुब्बला
जीविदासा
॥ (
काप्र.
उ. 495)
31.
विनोक्तिः -
मम्मटेनेयमिदम्प्रथमतया
निरूपिता
।
यत्र
अन्येन
विना
अन्यः
भवति,
न
इतरः
।
क्वचित्
शोभनः,
क्वचिदशोभनः
।
अरुचिर्निशया
विना
शशी
शशिना
सापि
विना
महत्तमः
।
उभयेन
विना
मनोभवस्फुरितं
नैव
चकास्ति
कामिनोः
॥ (
काप्र.
उ. 496)
मृगलोचनया
विना
विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः
।
अमृतद्युतिसुन्दराशयोऽयं
सुहृदा
तेन
विना
नरेन्द्रसूनुः
॥ (
काप्र.
उ. 497)
धर्मसूरिरस्यामौपम्यस्य
गम्यत्वं
प्रतिपादयति
। (
सार.
पृ.586)
रुय्यकस्तु
मम्मटस्याभिमतं
स्वीकुरुते "
विना
कञ्चिदन्यस्य
सदसत्त्वाभावो
विनोक्तिः" (
अस. 30)
इति
लक्षणं
निरूपयन्
।
सत्त्वस्य
शोभनत्वस्याभावोऽशोभनत्वम्
।
एवमसत्त्वस्याशोभनत्वस्याभावोऽशोभनत्वम्
।
ते
द्वे
यत्र
कस्यचिदसन्निधानान्निबध्येते
सा
द्विधा
विनोक्तिः
।
तत्राद्या
यथा -
विनयेन
विना
का
श्रीः
का
निशा
शशिना
विना
।
रहिता
सत्कवित्वेन
कीदृशी
वाग्विदग्धता
॥ (
अस. 93)
द्वितीया
यथा -
मृगलोचना
विना
विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः
।
अमृतद्युतिसुन्दराशयोऽयं
सुहृदा
तेन
विना
नरेन्द्रसूनुः
॥ (
अस. 95)
जयदेवस्य
यथा -
विनोक्तिश्चेद्
विना
किञ्चित्
प्रस्तुतं
हीनमुच्यते
।
विद्या
हृद्यापि
सावद्या
विना
विनयसम्पदम्
॥ (
चन्द्रा. 5.61)
32.
परिवृत्तिः -
भामहस्य -
विशिष्टस्य
यदादानमन्यापोहेन
वस्तुनः
।
अर्थान्तरन्यासवती
परिवृत्तिरसौ
यथा
॥ (
कालभा. 3.41)
रुद्रटस्य -
युगपदादानेऽन्योन्यं
वस्तुनोः
क्रियेते
यत्
।
क्वचिदुपचर्येते
वा
प्रसिद्धितः
सेति
परिवृत्तिः
॥ (
कालरु. 7.77)
उदाहरणम् -
दत्वा
दर्शनमेते
प्राणा
वरतनु
त्वया
क्रीताः
किं
त्वमपहरसि
मनो
यद्
ददासि
रणरणकमेतदसत्
॥ (
कालरु. 7.78)
मम्मटेन -
परिवृत्तिर्विनिमयो
योऽर्थानां
स्यात्
समासमैः (
काप्र.
सू. 172)
लतानामेतासामुदितकुसुमानां
मरुदयं
मतं
लास्यं
दत्वा
श्रयति
भृशमामोदमसमम्
।
लतास्त्वध्वन्यानामहह
दृशमादाय
सहसा
ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम्
॥ (
काप्र.
उ. 498)
प्रथमार्धे
समेन
समस्य,
द्वितीये
उत्तमेन
न्यूनस्य
।
नानाविधैः
प्रहरणैर्नृप
सम्प्रहारे
स्वीकृत्य
दारुणनिनादवतः
प्रहारान्
।
दृप्तारिवीरविजयेन
वसुन्धरेयं
निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा
॥ (
काप्र.
उ. 499)
तदत्र
रुय्यकः "
समन्यूनाधिकानां
समाधिकन्यूनैर्विनिमयः
परिवृत्तिः" (
अस. 62)
इति
लक्षणं
विधाय
मम्मटस्येव
त्रिप्रकारां
परिवृत्तिमभिधत्ते
।
जयदेवोऽत्र
प्रकारान्तरेण
रुय्यकमेवानुकरोति
।
33.
भाविकम् -
भामहस्य -
भाविकत्वमिति
प्राहुः
प्रबन्धविषयं
गुणम्
।
प्रत्यक्षा
इव
दृश्यन्ते
यत्रार्था
भूतभाविनः
॥ (
कालभा. 3.53)
प्रत्यक्षा
इव
यद्
भावाः
क्रियन्ते
भूतभाविनः
।
तद्
भाविकम्
। (
काप्र.
सू. 173)
भावः
कवेरभिप्रायोऽत्रास्तीति
भाविकम् (
तत्रैव
वृत्तौ)
आसीदञ्जनमत्रेति
पश्यामि
तव
लोचने
।
भाविभूषणसम्भारां
साक्षात्कुर्वे
तवाकृतिम्
॥ (
काप्र.
उ. 500)
रुय्यकस्त्वत्र
प्रकारान्तरेण
मम्मटस्यैव
लक्षणविधानप्रकारं
स्वीकुरुते
।
चन्द्रालोककारस्यापि
संविधानमेतत्सहकृतमेव
।
34.
काव्यलिङ्गम् - (
हेतुः)
रुद्रटेन -
हेतुमता
सह
हेतोरभिधानमभेदकृद्
भवेद्
यत्र
।
सोऽलङ्कारो
हेतुः
स्यादन्येभ्यः
पृथग्भूतः
॥ (
कालरु. 7.82)
उदाहरणम् -
अविरलकमलविकासः
सकलालिमदश्च
कोकिलानन्दः
।
रम्योऽयमेति
सम्प्रति
लोकोत्कण्ठाकरः
कालः
॥ (
कालरु. 7.83)
काव्यलिङ्गं
हेतोर्वाक्यपदार्थता
। (
काप्र.
सू. 174)
मम्मटमतेनास्य
त्रैविध्यम् -
वाक्यार्थतया,
अनेकपदार्थतया
एकपदार्थतया
च
।
क्रमेणोदाहरणानि
।
वपुः
प्रादुर्भावादनुमितमिदं
जन्मनि
पुरा
पुरारे
न
प्रायो
क्वचिदपि
भवन्तं
प्रणतवान्
।
नमन्
मुक्तः
सम्प्रत्यहमतनुरग्रेऽप्यनतिभाक्
महेश
क्षन्तव्यं
तदिदमपराधद्वयमपि
॥ (
काप्र.
उ. 501)
प्रणयिसखीसलीलपरिहासरसाधिगतैर्ललितशिरीषपुष्पहननैरपि
ताम्यति
यत्
।
वपुषि
वधाय
तत्र
तव
शस्त्रमुपक्षिपतः
पततु
शिरस्यकाण्डयमदण्ड
इवैष
भुजः
॥ (
काप्र.
उ. 502)
भस्मोद्धूलनभद्रमस्तु
भवते
रुद्राक्षमाले
शुभं
हा
सोपानपरम्परां
गिरिसुताकान्तालयालङ्कृतिम्
।
अद्याराधनतोषितेन
विभुना
युष्मत्सपर्यासुखा-
लोकोच्छेदिनि
मोक्षनामनि
महामोहे
निधीयामहे
॥ (
काप्र.
उ. 503)
रुय्यकोऽप्यत्र
मम्मटमेवानुकरोति
।
जयदेवस्याभिमतं
यथा -
स्यात्
काव्यलिङ्गं
वागर्थो
नूतनार्थसमर्पकः
।
जितोऽसि
मन्दकन्दर्प
मच्चित्तेऽस्ति
त्रिलोचनः
॥ (
चन्द्रा. 5.38)
35.
पर्यायोक्तिः -
पर्यायोक्तिरिति
नामान्तरमस्य
प्रयुक्तं
दृश्यते
।
पर्यायेण
भङ्ग्यन्तरेण
प्रकारान्तरेण
वा
उक्तिरिति
लक्षणमस्य
भामहे
अग्नौ
चास्ति
।
भामहस्याभिमतं
यथा -
पर्यायोक्तं
यदन्येन
प्रकारेणाभिधीयते
।
उवाच
रत्नाहरणे
चैद्यं
शाङ्र्गधनुर्यथा
॥ (
कालभा. 3.8)
इष्टार्थमनभिधाय
तत्प्रतीत्यै
प्रकारान्तरेण
कथनं
पर्यायोक्तमिति
दण्डी
।
वाच्यवाचकव्यापारशून्यतया
अवगमनव्यापारेण
अन्यथा
वा
अभिधानं
पर्यायोक्तमिति
उद्भटः
।
एतदेव
द्रढयति
मम्मटः -
पर्यायोक्तं
विना
वाच्यवाचकत्वेन
यद्
वचः
। (
काप्र.
सू. 175)
वाच्यवाचकव्यतिरिक्तेन
अवगमनव्यापारेण
यत्
प्रतिपादनं
तत्
पर्यायेण
भङ्ग्यन्तरेण
कथनात्
पर्यायोक्तम्
।
यं
प्रेक्ष्य
चिररूढापि
निवासप्रीतिरुज्झिता
।
मदेनैरावणमुखे
मानेन
हृदये
हरेः
॥ (
काप्र.
उ. 504)
रुय्यकेनाप्येतत्समथ्र्यते -
गम्यस्यापि
पर्यायान्तरेणाभिधानं
पर्यायोक्तम्
॥ (
अस. 36)
उदा. -
स्पृष्टास्ता
नन्दने
शच्याः
केशसंभोगलालिताः
।
सावज्ञं
पारिजातस्य
मञ्जर्यो
यस्य
सैनिकैः
॥ (
अस. 141)
जयदेवस्य
मतन्त्वेतस्माद्भिन्नमवलम्बते
।
तद्धि -
कार्याद्यैः
प्रस्तुतैरुक्ते
पर्यायोकिं्त
प्रचक्षते
।
तृणान्यङ्कुरयामास
विपक्षनृपसद्मसु
॥ (
चन्द्रा. 5.70)
ठ्ठड्डड्ड
द्यण्ड्ढ
ध्त्ड्ढध्र्
दृढ
क़्ण्ठ्ठद्धथ्र्ठ्ठद्मद्वद्धत्.
36.
उदात्तः -
भामहोऽत्रोदाहरणमुखेनैवोदात्तं
निरूपयति
।
तद्यथा -
उदात्तं
शक्तिमान्
रामो
गुरुवाक्यानुरोधकः
।
विहायोपनतं
राज्यं
यथा
वनमुपागमत्
॥ (
कालभा. 3.11)
उदात्तं
वस्तुनः
सम्पत् (
काप्र.
सू. 176)
मुक्ताः
केलिविसूत्रहारगलिताः
सम्मार्जनीभिर्हृताः
प्रातः
प्राङ्गणसीम्नि
मन्थरचलद्बालाङ्घ्रि
लाक्षारुणाः
।
दूराद्दाडिमबीजशङ्कितधियः
कर्षन्ति
केलीशुकाः
यद्
विद्वद्भवनेषु
भोजनृपतेस्तत्
त्यागलीलायितम्
॥ (
काप्र.
उ. 505)
मम्मटमतेन
वैकल्पिकं
लक्षणम् (
अन्यविध
उदात्तः) -
महतां
चोपलक्षणम्
। (
काप्र.
सू. 177)
उदाहरणम् -
तदिदमरण्यं
यस्मिन्
दशरथवचनानुपालनव्यसनी
।
निवसन्
बाहुसहायश्चकार
रक्षः
क्षयं
रामः
॥ (
काप्र.
उ. 506)
रुय्यकोऽत्र
प्रथममेव
लक्षणं
द्रढयति -
समृद्धिमद्वस्तुवर्णनमुदात्तम्
॥ (
अस. 81)
उदाहरणन्तु
तदेव,
यत्खलु
मम्मटेन
प्रतिपादितम्
।
जयदेवकृतं
सोदाहरणं
लक्षणं
यथा -
उदात्तमृद्धिश्चरितं
श्लाघ्यं
चान्योपलक्षणम्
।
सानौ
यस्याभवद्
युद्धं
तद्धूर्जटिकिरीटिनोः
॥ (
चन्द्रा. 5.115)
37.
समुच्चयः -
रुद्रटमतेन -
यत्रैकत्रानेकं
वस्तु
परं
शयात्
सुखावहाद्येव
।
ज्ञेयः
समुच्चयोऽसौ
त्रेधान्यः
सदसतोर्योगः
॥ (
कालरु. 7.19)
क्रमेण
उदाहरणानि -
दुर्गं
त्रिकूटं
परिखा
पयोनिधिः
प्रभुर्दशास्यः
सुभटाश्च
राक्षसाः
।
नरोऽभियोक्ता
सचिवैः
प्लवङ्गमैः
किमत्र
वो
हास्यपदे
महद्भयम्
॥ (
कालरु. 7.20)
सुखमिदमेतावदिह
स्फारस्फुरदिन्दुमण्डला
रजनी
।
सौधतलं
काव्यकथा
सुहृदः
स्निग्धा
विदग्धाश्च
॥ (
कालरु. 7.21)
तरलत्वममालिन्यं
पक्ष्मलतामायतिं
सुमाधुर्यम्
।
आधास्यन्नस्त्रत्वं
मदनस्तव
नयनयोः
कुरुते
॥
प्रस्फुरन्नधरोष्ठं
गात्रं
रोमाञ्चयन्
गिरः
स्खलयन्
।
मण्डयति
रहसि
तरुणीः
कुसुमशरस्तरलयन्नयने
॥
सतोर्योगः -
सामोदे
मधुकुसुमे
जननयनानन्दने
सुधाचन्द्रे
।
क्वचिदपि
रूपवति
गुणा
जगति
सुनीतं
विधातुरिदम्
॥
असतोर्योगः -
आलिङ्गिताः
करीरैः
शम्यस्तप्तोषपांसुनिचयेन
।
मरुतोऽतिखराः
ग्रीष्मे
किमतोऽन्यदभद्रमस्तु
मरौ
॥
सदसतोर्योगः -
कमलवनेषु
तुषारो
रूपविलासादिशालिनीषु
जरा
।
रमणीष्वपि
दुश्चरितं
धातुर्लक्ष्मीश्च
नीचेषु
॥ (
कालरु. 7.22-26)
रुद्रट
मतेन
समुच्चयस्य
प्रकारान्तरम् -
व्यधिकरणे
वा
यस्मिन्
गुणक्रिये
चैककालमेकस्मिन्
।
उपजायेते
देशे
समुच्चयः
स्यात्
तदन्योऽसौ
॥ (
कालरु. 7.27)
उदाहरणम् -
विदलितसकलारिकुलं
तव
बलमिदमभवदाशु
विमलं
च
।
प्रस्खलन्मुखानि
नराधिप
मलिनानि
च
तानि
जातानि
। (
कालरु. 7.28)
क्रियासमुच्चयः -
दैवादहमत्र
तया
चपलायतनेत्रया
वियुक्तश्च
।
अविरलविलोलजलदः
कालः
समुपागतश्चायम्
॥ (
कालरु. 7.29)
औपम्यमूलकालङ्कारेषु
पृथगयं
रुद्रटेन
परिगणितः,
लक्षणं
च -
सोऽयं
समुच्चयः
स्याद्यत्रानेकोऽर्थ
एकसामान्यः
।
अनिवादिद्र्रव्यादिः
सत्युपमानोपमेयत्वे
॥ (
कालरु. 8.103)
जालेन
सरसि
मीना
हिंस्रैरेणा
वने
च
वागुरया
।
संसारे
भूतसृजा
स्नेहेन
नराश्च
बध्यन्ते
॥ (
कालरु. 8.104)
अथ
मम्मटकृतं
समुच्चयलक्षणम् -
तत्सिद्धिहेतावेकस्मिन्
यत्रान्यत्
तत्करो
भवेत्
।
समुच्चचयोऽसौ (
काप्र.
सू. 178)
अयं
सद्योगे
असद्योगे
सदसद्योगे
च
पर्यवस्यति
।
दुर्वाराः
स्मरमार्गणाः
प्रियतमो
दूरे
मनोऽत्युत्सुकं
गाढं
प्रेम
नवं
वयोऽतिकठिनाः
प्राणाः
कुलं
निर्मलम्
।
स्त्रीत्वं
धैर्यविरोधि
मन्मथसुहृत्
कालः
कृतान्तोऽक्षमो
नो
सख्यश्चतुराः
कथं
नु
विरहः
सोढव्य
इत्थं
शठः
॥
एतदसद्योगे
। (
काप्र.
उ. 507)
कुलममलिनं
भद्रा
मूर्तिर्मतिः
श्रुतिशालिनी
भुजबलमलं
स्फीता
लक्ष्मीः
प्रभुत्वमखण्डितम्
।
प्रकृतिसुभगा
ह्येते
भावा
अमीभिरयं
जनो
व्रजति
सुतरां
दर्पं
राजन्
त
एव
तवाङ्कुशाः
॥
अत्र
सतां
योगः
। (
काप्र.
उ. 508)
शशी
दिवसधूसरो
विगतयौवना
कामिनी
सरो
विगतवारिजं
मुखमनक्षरं
स्वाकृतेः
।
प्रभुर्धनपरायणः
सततदुर्गतः
सज्जनो
नृपाङ्गणगतः
खलो
मनसि
सप्त
शल्यानि
मे
॥
अत्र
सदसद्योगः
। (
काप्र.
उ. 509)
तदिदं
तत्त्वं
रुय्यकेन
द्वितीयसमुच्चयस्य
लक्षणे
स्वीकृतम्
।
तदेवम् -
एकस्य
सिद्धिहेतुत्वेऽन्यस्य
तत्करत्वं
च
।
इति (
अस. 67)
जयदेवस्याभिधानं
यथा -
भूयसामेकसम्बन्धभाजां
गुम्फः
समुच्चयः
।
नश्यन्ति
पश्चात्
पश्यन्ति
भ्रश्यन्ति
च
तव
द्विषः
॥ (
चन्द्रा. 5.97)
38.
समुच्चयः (
अन्यः) -
मम्मटे -
स
त्वन्यो
युगपद्
या
गुणक्रियाः
। (
काप्र.
सू. 179)
विदलितसकलारिकुलं
तव
बलमिदमभवदाशु
विमलं
च
।
प्रखलमुखानि
नराधिप
मलिनानि
च
जातानि
॥
अत्र
गुणयोर्यौगपद्यम्
। (
काप्र.
उ. 510)
अयमेकपदे
तया
वियोगः
प्रियया
चोपनतः
सुदुस्सहो
मे
।
नववारिधरोदयादहोभिर्भवितव्यं
च
निरापतत्वरम्यैः
॥ (
काप्र.
उ. 511)
अत्र
क्रिययोर्यौगपद्यम्
।
कलुषं
च
तवाहितेष्वकस्मात्
सितपङ्केरुहसोदरश्रि
चक्षुः
।
पतितं
च
महीपतीन्द्र
तेषां
वपुषि
प्रस्फुटमापदां
कटाक्षैः
॥ (
काप्र.
उ. 512)
अत्र
गुणक्रिययोर्यौगपद्यम्
।
गुणक्रियायौगपद्यं
समुच्चयः
॥ (
अस. 66)
।
रुय्यकस्यानेन
प्रथमसमुच्चयगतलक्षणेन
मम्मटकृतसमुच्चयः (
अन्यः)
इत्यस्याभिव्यक्तिः
सहक्रियते
।
39.
पर्यायः -
रुद्रटमतेन -
वस्तु
विवक्षितवस्तुप्रतिपादनशक्तमसदृशं
तस्य
।
यदजनकमजन्यं
वा
तत्
कथनं
यत्
स
पर्यायः
। (
कालरु. 7.42)
उदाहरणम् -
राजन्
जहासि
निद्रां
रिपुबन्दीनिबिडनिगडशब्देन
।
तेनैव
यदन्तरितः
स
कलकलो
बन्दिवृन्दस्य
॥ (
कालरु. 7.43)
एकं
प्रकारान्तरमाह -
यत्रैकमनेकस्मिनन्नेकमनेकत्र
वा
स्यात्
।
वस्तु
सुखादिप्रकृति
क्रियेत
वान्यः
स
पर्यायः
। (
कालरु. 7.44)
उदाहरणम् -
कमलेषु
विकासोऽभूदुदयति
भानावुपेत्य
कुमुदेभ्यः
।
नभसोऽपससार
तमो
बभूव
तस्मिन्नतथा
लोकः
॥ (
कालरु. 7.45)
मम्मटमतेन -
क्रमेणानेकस्मिन्
पर्यायः
। (
काप्र.
सू. 180)
वास्तविके
एकत्वे
आरोपिते
चापि
अयं
भवति
।
नन्वाश्रयस्थितिरियं
तव
कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा
।
प्रागर्णवस्य
हृदये
वृषलक्ष्मणोऽथ
कण्ठेऽधुना
वससि
वाचि
पुनः
खलानाम्
॥ (
काप्र.
उ. 513)
बिम्बोष्ठ
एव
रागस्ते
तन्वि
पूर्मदृश्यत
।
अधुना
हृदयेऽप्येष
मृगशावाक्षि
लक्ष्यते
॥ (
काप्र.
उ. 514)
अत्र
आरोपितमेकत्वम्
।
तं
ताण
सिरिसहोअररअणाहरणम्मि
हिअअमेक्करसम्
।
बिम्बाहरे
पिआणं
णिवेसिअं
कुसुमबाणेण
॥ (
काप्र.
उ. 515)
एकमनेकत्र
क्रियत
इत्यस्येदमुदाहरणम्
।
40.
पर्यायः (
अन्यः) -
अन्यस्ततोऽन्यथा
। (
काप्र.
सू. 181)
अनेकमेकस्मिन्
भवति
क्रियते
वा
।
मधुरिमरुचिरं
वचः
खलानाममृतमहो
प्रथमं
पृथु
व्यनक्ति
।
अथ
कथयति
मोहहेतुमन्तर्गतमिव
हालहलं
विषं
तदेव
॥ (
काप्र.
उ. 516)
तद्
गेहं
नतभित्ति
मन्दिरमिदं
लब्धावकाशं
दिवः
सा
धेनुर्जरती
नदन्ति
करिणामेता
घनाभा
घटाः
।
स
क्षुद्रो
मुसलध्वनिः
कलमिदं
सङ्गीतकं
योषिताम्
आश्चर्यं
दिवसैर्द्विजोऽयमियतीं
भूमिं
समारोपितः
॥ (
काप्र.
उ. 517)
रुय्यकोऽपि
पर्यायस्य
द्वैविध्यं
प्रतिपादयति,
परमसौ
मम्मटेन
पृथक्
पृथक्
व्यवस्थापितयोः
पर्याययोः
लक्षणद्वयमादाय
एकालङ्कारत्वेन
प्रथमं
यमकं
निरूपयति
।
तदित्थम् -
एकमनेकस्मिन्ननेकमेकस्मिन्
क्रमेण
पर्यायः
॥ (
अस. 60)
द्वितीयस्तु -
एकस्मिन्नाधारेऽनेकमाधेयं
स
द्वितीयः
॥ (
अस. 61)
तत्रानेकोऽसंहतरूपः
संहतरूपश्चेति
द्विविधः
।
तच्च
द्वैविध्यमाधाराधेयगतमिति
चत्वारोऽस्य
भेदाः
।
क्रमेणोदाहरणानि -
नन्वाश्रयस्थितिरियं
किल
कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा
।
प्रागर्णवस्य
हृदये
वृषलक्ष्मणोऽथ
कण्ठेऽधुना
वससि
वाचि
पुनः
खलानाम्
॥ (
अस. 200)
विसृष्टरागादधरान्निवर्तितः
स्तनाङ्गरागारुणिताच्च
कन्दुकात्
।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी
तया
करः
॥ (
अस. 201)
निशासु
भास्वत्कलनूपुराणां
यः
संचरोऽभूदभिसारिकाणाम्
।
नदन्मुखोल्काविचितामिषाभिः
स
वाह्यते
राजपथः
शिवाभिः
॥ (
अस. 202)
यत्रैव
मुग्धेति
कृशोदरीति
प्रियेति
कान्तेति
महोत्सवोऽभूत्
।
तत्रैव
दैवाद्वदने
मदीये
पत्नीति
भार्येति
गिरश्चरन्ति
॥ (
अस. 203)
चन्द्रालोककारस्त्वित्थं
ब्रूते -
पर्यायश्चेदनेकत्र
स्यादेकस्य
समन्वयः
।
पद्मं
मुक्त्वा
गता
चन्द्रं
कामिनीवदनोपमा
॥ (
चन्द्रा. 5.93)
विश्वनाथस्तु
मम्मटेन
पृथक्
पृथक्
व्यवस्थापितयोरुभयोरपि
पर्याययोर्लक्षणे
एकालङ्कारतया
निरूपयति,
तथाहि -
क्वचिदेकमनेकस्मिन्ननेकं
चैकगं
क्रमात्
।
भवति
क्रियते
वा
चेत्
तदा
पर्याय
इष्यते
॥ (
साद. 10.79-80)
क्रमेणास्योदाहरणानि
तत्रैव -
स्थिताः
क्षणं
पक्ष्मसु
ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः
।
वलीषु
तस्याः
स्खलिताः
प्रपेदिरे
चिरेण
नाभिं
प्रथमोदबिन्दवः
॥ (
तत्रैव
वृत्तौ)
इति
कालिदासीय-
कुमारसम्भवे
तपोनिरत-
पार्वतीवर्णनं
प्रथमस्य,
विचरन्ति
विलासिन्यो
यत्र
श्रोणीभरालसाः
।
वृककाकशिवास्तत्र
धावन्त्यरिपुरे
तव
॥
(
तत्रैव
वृत्तौ)
इति
द्वितीयस्य
।
अत
एकस्य
अनेकत्र,
अनेकेषामेकत्र
वा
सम्पादने,
विधानवर्णने
वोदाहरणानि -
विसृष्टरागादधरान्निवर्तितः,
स्तनाङ्गरागादरुणाच्च
कन्दुकात्
।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी
तया
करः
॥ (
तत्रैव
वृत्तौ)
ययोरारोपितस्तारो
हारस्तेऽरिवधूजनैः
।
निधीयन्ते
तयोः
स्थूलाः
स्तनयोरश्रु
बिन्दवः
॥ (
तत्रैव
वृत्तौ)
एकस्य
अनेकत्र
क्रमेणैव
वर्तनाद्विशेषात्,
विनिमयाभावाच्च
परिवृत्तेरस्य
भेदः
इत्यपि
तत्रैव
।
41.
अनुमानम् -
रुद्रटस्य -
वस्तु
परोक्षं
यस्मिन्
साध्यमुपन्यस्य
साधकं
तस्य
।
पुनरन्यदुपन्यस्येद्
विपरीतं
चैतदनुमानम्
॥ (
कालरु. 7.56)
उदाहरणम् -
सावज्ञमागमिष्यन्नूनं
पतितोऽसि
पादयोस्तस्याः
।
कथमन्यथा
ललाटे
यावकरसतिलकपङ्क्तिरियम्
॥ (
कालरु. 7.57)
अस्य
भेदान्तराणि -
यत्र
बलीयः
कारणमालोक्याभूतमेव
भूतमिति
।
भावीति
वा
तथान्यत्
कथ्येत
तदन्यदनुमानम्
॥ (
कालरु. 7.59)
उदाहरणम् -
अविरलविलोलजलदः
कुटजार्जुननीपसुरभिवनवातः
।
अयमायातः
कालो
हन्त
मृताः
पथिकगेहिन्यः
॥ (
कालरु. 7.60)
भाविन्याह -
यास्यन्ति
यथा
तूर्णं
विकसितकमलोज्ज्वलादमी
सरसः
।
हंसा
यथैवमेतां
मलिनयति
घनावली
ककुभम्
॥ (
कालरु. 7.62)
मम्मटेन -
अनुमानं
तदुक्तं
यत्
साध्यसाधकयोर्वचः
॥ (
काप्र.
सू. 182)
यत्रैता
लहरीचलाचलदृशो
व्यापारयन्ति
भ्रुवं
यत्
तत्रैव
पतन्ति
सन्ततममी
मर्मस्पृशो
मार्गणाः
।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करक्रोधनो
धावत्यग्रत
एव
शासनधरः
सत्यं
तदासां
स्मरः
॥ (
काप्र.
उ. 518)
अत्र
तु
रुय्यकस्य
लक्षणं
मम्मटस्य
लक्षणेन
सह
प्रकारान्तरेण
साम्यमादधाति
।
तद्यथा -
साध्य-
साधननिर्देशोऽनुमानम्
। (
अस. 58)
तदनुसारमनुमानमिदं
कविकल्पितवैचित्र्यं
शुद्धञ्चेति
द्विधा
व्यपदिश्यते
।
क्रमशः
एतयोरुदाहरणं
यथा -
यथा
रन्ध्रं
व्योम्नश्चलजलदधूमः
स्थगयति
स्फुलिङ्गानां
रूपं
दधति
च
यथा
कीटमणयः
।
यथा
विद्युज्ज्वालोज्ज्वलनपरिपिङ्गाश्च
ककुभ-
स्तथा
मन्ये
लग्नः
पथिकतरुषण्डे
स्मरदवः
॥ (
अस. 196)
यत्रैता
लहरीचलाञ्चलदृशो
व्यापारयन्ति
भ्रुवं
यत्तत्रैव
पतन्ति
संततममी
मर्मस्पृशो
मार्गणाः
।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः
क्रोधनो
धावत्यग्रत
एव
शासनधरः
सत्यं
सदासां
स्मरः
॥ (
अस. 197)
चन्द्रालोककारेणाप्येतदनुकृतम्
।
तत्कृतं
संविधानं
यथा -
अनुमानं
च
कार्यादेः
कारणाद्यवधारणम्
।
अस्ति
किञ्चिद्यदनया
मां
विलोक्य
स्मितं
मनाक्
॥ (
चन्द्रा. 5.36)
42.
परिकरः -
रुद्रटमतेन -
साभिप्रायैः
सम्यग्
विशेषणैर्वस्तु
यद्
विशिष्येत
।
द्रव्यादिभेदभिन्नं
चतुर्विधः
परिकरः
स
इति
॥ (
कालरु. 7.72)
उदाहरणानि -
उचितपरिणामरमणीयं
स्वादु
सुगन्धि
स्वयं
करे
पतितम्
।
फलमुत्सृज्य
तदानीं
ताम्यसि
मुग्धे
मुधेदानीम्
॥ (
कालरु. 7.73)
कार्येषु
विघ्नतेच्छं
विहितमहीयोपराधसंवरणम्
।
अस्माकमधन्यानामार्जवमपि
दुर्लभं
जातम्
॥ (
कालरु. 7.74)
सततमनिर्वृतमानसमायाससहस्रसङ्कटक्लिष्टम्
।
गतनिद्रमविश्वासं
जीवति
राजा
जिगीषुरयम्
॥ (
कालरु. 7.75)
अत्यन्तमसहमानामुरुशक्तीनामनिघ्नवृत्तीनाम्
।
एकं
सकले
जगति
स्पृहणीयं
जम््म केसरिणाम्
॥ (
कालरु. 7.76)
मम्मटमतेन -
साकूतैरुक्तिः
परिकरस्तु
सः
। (
काप्र.
सू. 183)
महौजसो
मानधना
धनार्चिता
धनुर्भृतः
संयति
लब्धकीर्तयः
।
न
संहतास्तस्य
न
भेदवृत्तयः
प्रियाणि
वाञ्छन्त्यसुभिः
समीहितुम्
॥ (
काप्र.
उ. 519)
रुय्यकस्याभिमतं
यत् -
विशेषणसाभिप्रायत्वं
परिकरः
॥ (
अस. 32)
यथा -
राज्ञो
मानधनस्य
कार्मुकभृतो
दुर्योधनस्याग्रतः
प्रत्यक्षं
कुरुबान्धवस्य
मिषतः
कर्णस्य
शल्यस्य
च
।
पीतं
तस्य
मयाद्य
पाण्डववधूकेशाम्बराकर्षिणः
कोष्णं
जीवत
एव
तीक्ष्णकरजक्षुण्णादसृग्वक्षसः
॥ (
अस. 116)
जयदेवस्त्वेतदभिमतमेव
समर्थयति
।
43.
ब्याजोक्तिः -
ब्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम्
। (
काप्र.
सू. 184)
शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-
रोमाञ्चादिविसंष्ठुलाखलविधिव्यासङ्गभङ्गाकुलः
।
हा
शैत्यं
तुहिनाचलस्य
करयोरित्यूचिवान्
सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्
वः
शिवः
॥ (
काप्र.
उ. 520)
रुय्यकस्त्वत्र
मम्मटमेवानुकरोति
।
रुय्यकोऽप्यत्र
सहकृताभिमतो
दृश्यते
।
44.
परिसङ्ख्या -
रुद्रटमतेन -
पृष्टमपृष्टं
वा
सद्गुणादि
यत्
कथ्यते
क्वचित्
तुल्यम्
॥
अन्यत्र
तु
तदभावः
प्रतीयते
सेति
परिसङ्ख्या
॥ (
कालरु. 7.79)
उदाहरणानि -
किं
सुखमपारतन्त्र्यं
किं
धनमविनाश-
निर्मला
विद्या
।
किं
कार्यं
सन्तोषो
विप्रस्य
महेच्छता
राज्ञाम्
॥ (
कालरु. 7.80)
अपृष्टोदाहरणम् -
कौटिल्यं
कचनिचये
करचरणाधरदलेषु
रागस्ते
।
काठिन्यं
कुचयुगले
तरलत्वं
नयनयोर्वसति
॥ (
कालरु. 7.81)
मम्मटस्य -
किञ्चित्
पृष्टमपृष्टं
वा
कथितं
यत्
प्रकल्प्यते
।
तादृगन्यव्यपोहाय
परिसङ्ख्या
तु
सा
स्मृता
॥ (
काप्र.
सू. 185)
मम्मटमतेन
सदृशवस्त्वन्तरव्यवच्छेदः
फलम्
।
कथनं
प्रश्नपूर्वकं
तदन्यथा
च
परिदृष्टम्
।
तत्रापि
व्यपोह्यमानस्य
प्रतीयमानता
वाच्यत्वं
चेति
चत्वारो
भेदाः
।
किमासेव्यं
पुंसां
सविधमनवद्यं
द्युसरितः
किमेकान्ते
ध्येयं
चरणयुगलं
कौस्तुभभृतः
।
किमाराध्यं
पुण्यं
किमभिलषणीयं
च
करुणा
यदासक्त्या
चेतो
निरवधिविमुक्त्यै
प्रभवति
॥
(
काप्र.
उ. 521)
किं
भूषणं
सुदृढमत्र
यशो
न
रत्नं
किं
कार्यमार्यचरितं
सुकृतं
न
दोषः
।
किं
चक्षुरप्रतिहतं
धिषणा
न
नेत्रं
जानाति
कस्त्वदपरः
सदसद्विवेकम्
॥ (
काप्र.
उ. 522)
कौटिल्यं
कचनिचये
करचरणाधरदलेषु
रागस्ते
।
काठिन्यं
कुचयुगले
तरलत्वं
नयनयोर्वसति
॥ (
काप्र.
उ. 523)
भक्तिर्भवे
न
विभवे
व्यसनं
शास्त्रे
न
युवतिकामास्त्रे
।
चिन्ता
यशसि
न
वपुषि
प्रायः
परिदृश्यते
महताम्
॥ (
काप्र.
उ. 524)
रुय्यको
यथा -
एकस्यानेकत्र
प्राप्तावेकत्र
नियमनं
परिसंख्या
। (
अस. 63)
तत्र
प्रश्नपूर्विका,
तदन्यथा,
शाब्दी,
आर्थी
चेत्यस्य
चत्वारो
भेदाः
।
उदाहरणानि
तूपर्युक्तान्येव
।
जयदेवस्य
यथा -
परिसङ्ख्या
निषिध्यैकमन्यस्मिन्
वस्तुयन्त्रणम्
।
स्नेहक्षयः
प्रदीपेषु
स्वान्तेषु
न
नतभ्रुवाम्
॥ (
चन्द्रा. 5.95)
विश्वनाथः
सर्वथा
मम्मटमनुहरतीति
न
तत्र
कश्चिद्
विशेषः
।
45.
कारणमाला -
मम्मटमतेन -
यथोत्तरं
चेत्
पूर्वस्य
पूर्वस्यार्थस्य
हेतुता
।
कारणमाला
स्यात् (
काप्र.
सू. 186 )
।
जितेन्द्रियत्वं
विनयस्य
कारणं
गुणप्रकर्षो
विनयादवाप्यते
।
गुणप्रकर्षेण
जनोऽनुरज्यते
जनानुरागप्रभवा
हि
सम्पदः
॥ (
काप्र.
उ. 525)
रुय्यकस्त्वत्र
मम्मटमेवानुकरोति
।
46.
अन्योन्यः -
रुद्रटमतेन -
यत्र
परस्परमेकः
कारकभावोऽभिधेययोः
क्रियया
।
सञ्जायेत
स्फारिततत्त्वविशेषस्तदन्योन्यम्
॥ (
कालरु. 7.91)
उदाहरणम् -
रूपं
यौवनलक्ष्म्या
यौवनमपि
रूपसम्पदस्तस्याः
।
अन्योन्यमलङ्करणं
विभाति
शरदिन्दुसुन्दर्याः
॥ (
कालरु. 7.92)
मम्मटस्य -
क्रियया
तु
परस्परम्
।
वस्तुनोर्जननेऽन्योन्यम्
। (
काप्र.
सू. 187)
हंसाणं
सरेहिं
सरी
सारिज्जइ
अह
सराण
हंसेहिं
।
अण्णोण्णं
विअ
एए
अप्पाणं
णवर
गरुअन्ति
॥
रुय्यकस्य
यथा -
परस्परं
क्रियाजननेऽन्योन्यम्
॥ (
अस. 49)
उदाहरणम् -
कण्ठस्य
तस्याः
स्तनबन्धुरस्य
मुक्ताकलापस्य
च
निस्तलस्य
।
अन्योन्यशोभाजननाद्वभूव
साधारणो
भूषणभूष्यभावः
॥ (
अस. 180)
जयदेवस्य
यथा -
अन्योन्यं
नाम
यत्र
स्यादुपकारकः
परस्परम्
।
त्रियामा
शशिना
भाति
शशी
भाति
त्रियामया
॥ (
चन्द्रा.5.84)
अन्योन्यमुभयोरेकक्रियायाः
कारणं
मिथः
। (
साद. 10.72)
उदा. -
त्वया
सा
शोभते
तन्वी
तया
त्वमपि
शोभसे
।
रजन्या
शोभते
चन्द्रश्चन्द्रेणापि
निशीथिनी
॥ (
तत्रैव
वृत्तौ)
47.
उत्तरः -
रुद्रटेनायं
वास्तवमूलके,
औपम्यमूलकेऽपि
च
वर्गे
सन्निवेशितः
।
यत्र
ज्ञातादप्यन्यत्
तत्त्वेन
वक्ति
तत्तुल्यम्
।
कार्येणानन्यसमख्यातेन
तदुत्तरं
ज्ञेयम्
॥ (
कालरु. 8.72)
किं
मरणं
दारिद्र्यं
को
व्याधिर्जीवितं
दरिद्रस्य
।
कः
स्वर्गः
सन्मित्रं
सुकलत्रं
सुप्रभुः
सुसुतः
॥ (
कालरु. 8.73)
उत्तरवचनश्रवणादुन्नयनं
यत्र
पूर्व
वचनानाम्
।
क्रियते
तदुत्तरं
प्रश्नादप्युत्तरं
यत्र
॥ (
कालरु. 7.93)
उदाहरणम् -
भण
मानमन्यथा
मे
भ्रुकुटिं
मौनं
विधातुमहमसहा
।
शक्नोमि
तस्य
पुरतः
सखि
न
खलु
पराङ्मुखीभवितुम्
॥ (
कालरु. 7.94)
उदाहरणान्तरम् -
किं
स्वर्गादधिकसुखं
बन्धुसुहृत्पण्डितैः
समं
लक्ष्मीः
।
सौराज्यमदुर्भिक्षं
सत्काव्यरसामृतस्वादः
॥ (
कालरु. 7.95)
मम्मटस्य - ..
उत्तरश्रुतिमात्रतः
।
प्रश्नस्योन्नयनं
यत्र
क्रियते
तत्र
वा
सति
।
असकृद्
यद्
असम्भाव्यमुत्तरं
स्यात्
तदुत्तरम्
॥ (
काप्र.
सू. 188)
वाणिअअ
हत्थिदन्ता
कुत्तो
अम्हाण
वग्घकित्ती
अ
।
जाव
लुलिआलअमुही
घरम्मि
परिसक्कए
सोण्हा
॥ (
काप्र.
उ. 528)
प्रश्नादनन्तरं
लोकातिक्रान्तगोचरतया
यदसम्भाव्यरूपं
प्रतिवचनम्
तत्र
अपरमुत्तरम्
॥
का
विसमा
देव्वगई
किं
लद्धं
जं
जणो
गुणग्गाही
।
किं
सौख्खं
सुकलत्तं
किं
दुक्खं
जं
खलो
लोओ
॥
परिसङ्ख्यायां
व्यावर्तनमपि
भवति,
नेहेति
न
तत्रातिव्याप्तिः
।
तदत्र
रुय्यकस्य
प्रतिपाद्यं
मम्मटादभिन्नम्
।
48.
सूक्ष्मम् -
रुद्रटमतेन -
यत्रायुक्तिमदर्थो
गमयति
शब्दो
निजार्थसम्बन्धम्
।
अर्थान्तरमुपपत्तिमदिति
तत्
सञ्जायते
सूक्ष्मम्
॥ (
कालरु. 7.98)
उदा. -
आदौ
पश्यति
बुद्धिव्र्यवसायोऽकालहीनमारभते
।
धैर्यं
व्यूढमहाभरमुत्साहः
साधयत्यर्थम्
॥ (
कालरु. 7.99)
मम्मटमतेन -
कुतोऽपि
लक्षितः
सूक्ष्मोऽप्यर्थोऽन्यस्मै
प्रकाश्यते
।
धर्मेण
केनचिद्
यत्र
तत्
सूक्ष्मं
परिचक्षते
॥ (
काप्र.
सू. 189)
वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा
भिन्नं
कुङ्कुमं
कापि
कण्ठे
।
पुंस्त्वं
तन्व्या
व्यञ्जयन्ती
वयस्या
स्मित्वा
पाणौ
खड्गलेखां
लिलेख
॥ (
काप्र.
उ. 530)
सङ्केतकालमनसं
विटं
ज्ञात्वा
विदग्धया
।
हसन्नेत्रार्पिताकूतं
लीलापद्मं
निमीलितम्
॥
(
काप्र.
उ. 531)
रुय्यकस्य
यथा -
संलक्षितसूक्ष्मार्थप्रकाशनं
सूक्ष्मम्
॥ (
अस. 76)
तच्च
सूक्ष्ममिङ्गिताकाराभ्यां
द्विविधम्
।
उदाहरणमनयोः "
संकेतकालमनसमि"
त्यादि
"
वक्त्रस्ये"
त्यादि
चोपर्युक्तं
पद्यद्वयमेव
।
इङ्गिताकारलक्ष्येऽर्थे
सूक्ष्ममिति
प्रथमवाग्भटः (
कानु.
पृ.43)
उदा. -
अद्यापि
तन्मनसि
सम्प्रति
वर्तते
मे
रात्रौ
मयि
क्षुतवति
क्षितिपालपुत्र्या
।
जीवेति
मङ्गलवचः
परिहृत्य
कोपात्
कर्णे
कृतं
कनकपत्रमनालपन्त्या
॥
इति
बिल्हणकवेश्चौरसुरतपञ्चाशिकागतं
पद्यमसौ
उदाजहार
।
संलक्षितस्तु
सूक्ष्मोऽर्थ
आकारेणेङ्गितेन
वा
।
कयापि
सूच्यते
भङ्ग्या
यत्र
सूक्ष्मं
तदुच्यते
॥ (
साद. 10.91)
वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा
भिन्नं
कुङ्कुमं
कापि
कण्ठे
।
पुंस्त्वं
तन्व्या
व्यञ्जयन्ती
वयस्या
स्मित्वा
पाणौ
खड्गलेखां
लिलेख
॥
(
तत्रैव
वृत्तौ)
।
अत्र
आकारेण
।
इङ्गितेन,
यथा -
सङ्केतकालमनसं
विटं
ज्ञात्वा
विदग्धया
।
हसन्नेत्रार्पिताकूतं
लीलापद्मं
निमीलितम्
॥ (
तत्रैव
वृत्तौ)
49.
सारः -
अलङ्कारस्यास्य
आविर्भावको
रुद्रटः
।
पूर्वस्मात्
पूर्वस्माद्
वस्तुन
उत्तरोत्तरवस्तुनि
सारश्चेत्
प्रदश्र्येत,
तदा
सारालङ्कारः
।
धर्मसूरिरप्येवं
मनुते
।
पण्डितराजस्तु
एकस्यैव
वस्तुनः
कालभेदेनापि
यद्युत्कर्षः
प्रतिपाद्येत,
तदापि
सारालङ्कारमूरीकरोति
।
रुद्रटस्य -
यत्र
यथा
समुदायाद्यैकदेशं
क्रमेण
गुणवदिति
।
निर्धार्यते
परावधि
निरतिशयं
भवेत्
सारम्
॥ (
कालरु. 7.96)
उदाहरणम् -
राज्ये
सारं
वसुधा
वसुधायां
पुरं
पुरे
सौधम्
।
सौधे
तल्पं
तल्पे
वराङ्गनानङ्गसर्वस्वम्
॥ (
कालरु. 7.97)
मम्मटमतेन -
उत्तरोत्तरमुत्कर्षो
भवेत्
सारः
परावधिः
। (
काप्र.
सू. 190)
उदा. -
राज्ये
सारं
वसुधा
वसुधायां
पुरं
पुरे
सौधम्
।
सौधे
तल्पं
तल्पे
वराङ्गनानङ्गसर्वस्वम्
॥ (
काप्र.
उ. 532)
उत्तरोत्तरमुत्कर्षः
सारः
। (
अस. 56)
उदा. -
जये
धरित्र्याः
पुरमेव
सारं
पुरे
गृहं
सद्मनि
चैकदेशः
।
तथापि
शय्या
शयने
वराङ्गी
रत्नोज्ज्वला
राज्यसुखस्य
सारम्
॥ (
अस. 190)
जयदेवेन
तु
रुय्यकस्य
संविधानमनुकृत्यैव
लक्षणं
कृतम्
।
यथा -
सारो
नाम
पदोत्कर्षः
सारताया
यथोत्तरम्
।
सारं
सारस्वतं
तत्र
काव्यं
तत्र
शिवस्तवः
॥ (
चन्द्रा. 5.90)
प्रथमवाग्भटस्तु
समुदायादुत्कृष्टोत्कृष्टनिर्धारणं
सारमिति
लक्षयति
।
उदाहरणेऽस्य
न
किमपि
नावीन्यम्
। (
कानु.
पृ.43)
50.
लेशः -
मम्मटेन
नैव
निरूपितः
।
रुद्रटमतेन -
दोषीभावो
यस्मिन्
गुणस्य
दोषस्य
वा
गुणीभावः
।
अभिधीयते
तथाविधकर्मनिमित्तः
स
लेशः
स्यात्
॥ (
कालरु. 7.100)
उदाहरणम् -
अन्यैव
यौवनश्रीस्तस्याः
सा
कापि
दैवहतिकायाः
।
मथ्नाति
यया
यूनां
मनांसि
समाकृष्य
॥ (
कालरु. 7.101)
मम्मटमतेनेदमुदाहरणम्
अतिशयोक्तेः
एकस्य
प्रकारस्य
स्यात्
।
दोषस्य
गुणीभावे
उदा. -
हृदयं
सदैव
येषामनभिज्ञं
गुणवियोगदुःखस्य
।
धन्यास्ते
गुणहीना
विदग्धगोष्ठीरसापेताः
॥ (
कालरु. 7.102)
कार्यतो
गुणदोषविपर्ययो
लेश
इति
प्रथमवाग्भटकृतं
लक्षणम्
।
गुणस्य
दोषीभावे,
दोषस्य
गुणीभावे
चासौ
तथैवोदाहरति
।
51.
अवसरः -
मम्मटेन
नैव
निरूपितः
।
अर्थान्तरमुत्कृष्टं
सरसं
यदि
वोपलक्षणं
क्रियते
।
अर्थस्य
तदभिधानप्रसङ्गतो
यत्र
सोऽवसरः
॥ (
कालरु. 7.103)
तदिदमरण्यं
यस्मिन्
दशरथवचनानुपालनव्यसनी
।
निवसन्
बाहुसहायश्चकार
रक्षः
क्षयं
रामः
॥ (
कालरु. 7.104)
52.
मीलितम् -
मम्मटेन
नैव
स्वीकृतः
।
तन्मीलितमिति
यस्मिन्
समानचिह्नेन
हर्षकोपादि
।
अपरेण
तिरस्क्रियते
नित्येनागन्तुकेनापि
॥ (
कालरु. 7.106)
तिर्यक्प्रेक्षणतरले
सुस्निग्धे
च
स्वभावतस्तस्याः
।
अनुरागो
नयनयुगे
सन्नपि
केनोपलक्ष्येत
॥ (
कालरु. 7.107)
वस्तुना
वस्त्वन्तरनिगूहनं
मीलितम्
॥ (
अस. 71)
तच्च
सहजागन्तुकाभ्यां
द्विविधम्
।
क्रमशो
यथा -
अपाङ्गतरले
दृशौ
मधुरवक्रवर्णा
गिरो
विलासभरमन्थरा
गतिरतीव
कान्तं
मुखम्
।
इति
स्फुरितमङ्गकैर्मृगदृशां
स्वतो
लीलया
तदत्र
न
मदोदयः
कृतपदोऽपि
संलक्ष्यते
॥ (
अस. 230)
ये
कन्दरासु
निवसन्ति
सदा
हिमाद्रेस्त्वत्पातशङ्कितधियो
विवशा
द्विषस्ते
।
अप्यङ्गमुत्पलकमुद्वहतां
सकम्पं
तेषामहो
बत
भिया
न
बुधोऽप्यभिज्ञः
॥ (
अस. 231)
मीलितं
बहुसादृश्याद्
भेदवच्चेन्न
लक्ष्यते
।
रसो
नालक्षि
लाक्षायाश्चरणे
सहजारुणे
॥ (
चन्द्रा. 5.33)
53.
असङ्गतिः -
विस्पष्टे
समकालं
कारणमन्यत्र
कार्यमन्यत्र
।
यस्यामुपलभ्येते
विज्ञेया
संगतिः
सेयम्
॥ (
कालरु. 9.48)
नवयौवनेन
सुतनोरिन्दुकलाकोमलानि
पूर्यन्ते
।
अङ्गान्यसंगतानां
यूनां
हृदि
वर्धते
कामः
॥ (
कालरु. 9.49)
-
भिन्नदेशतयात्यन्तं
कार्यकारणभूतयोः
।
मम्मटमतेन -
युगपद्धर्मयोर्यत्र
ख्यातिः
सा
स्यादसङ्गतिः
॥ (
काप्र.
सू. 191)
जस्सेअ
वणो
तस्सेअ
वेअणा
भणइ
तं
जमो
अलिअम्
।
दन्तक्खअं
कवोले
वहूए
वेअणा
सवत्तीणं
॥ (
काप्र.
उ. 533)
तयोर्विभिन्नदेशत्वेऽसङ्गतिः
॥ (
अस. 44)
सा
बाला
वयमप्रगल्भवचसः
सा
स्त्री
वयं
कातराः
सा
पीनोन्नतिमत्पयोधरभरं
धत्ते
सखेदा
वयम्
।
सा
क्लान्ता
जघनस्थलेन
गुरुणा
गन्तुं
न
शक्ता
वयं
दोषैरन्यसमाश्रितैरपटवो
जाताः
स्म
इत्यद्भुतम्
॥ (
अस. 170)
आख्याने
भिन्नदेशत्वे
कार्यहेत्वोरसङ्गतिः
।
त्वद्भक्तानां
नमत्यङ्गं
भङ्गमेति
भवक्लमः
॥ (
चन्द्रा. 5.79)
कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः
। (
साद. 10.69)
54.
समाधिः -
समाधिः
सुकरं
कार्यं
कारणान्तरयोगतः
। (
काप्र.
सू. 192)
मानमस्या
निराकर्तुं
पादयोर्मे
पतिष्यतः
।
उपकाराय
दिष्ट्येदमुदीर्णं
घनगर्जितम्
॥ (
काप्र.
उ. 534)
रुय्यकस्तु
प्रकारान्तरेण
तदित्थन्त्वमेव
स्वीकुरुते
।
चन्द्रालोककारोऽपि
लक्षणमिदमनुकरोति
।
अतस्तत्र
न
कोऽपि
विशेषः
।
55.
समम् -
समं
योग्यता
योगो
यदि
सम्भावितः
क्वचित्
। (
काप्र.
सू. 193)
सद्योगे
असद्योगे
चायं
द्विधा
।
दातुः
शिल्पातिशयनिकषस्थानमेषा
मृगाक्षी
रूपे
देवोऽप्ययमनुपमो
दत्तपत्रः
स्मरस्य
।
जातं
देवात्
सदृशमनयोः
सङ्गतं
यत्
तदेतच्छृङ्गारस्योपनतमधुना
राज्यमेकातपत्रम्
॥ (
काप्र.
उ. 535)
चित्रं
चित्रं
बत
बत
महच्चित्रमेतद्
विचित्रं
जातो
देवादुचितरचना
संविधाता
विधाता
।
यन्निम्बानां
परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः
कवलनकलाकोविदः
काकलोकः
॥ (
काप्र.
उ. 536)
तद्विपर्ययः
समम्
॥ (
अस. 46)
स
चालङ्कारोऽभिरूप
अनभिरूपत्वेन
द्विविधः
।
तत्र
आद्यो
यथा -
त्वमेवंसौन्दर्या
स
च
रुचिरतायाः
परिचितः
कलानां
सीमान्तं
परमिह
युवामेव
भजथः
।
अयि
द्वन्द्वं
दिष्ट्या
तदिह
सुभगे
संवदति
वा-
मतः
शेषं
यत्स्याज्जितमिह
तदानीं
गुणितया
॥ (
अस. 175)
द्वितीयो
यथा -
चित्रं
चित्रं
बत
बत
महच्चित्रमेतद्विचित्रं
जातो
दैवादुचितरचनासंविधाता
विधाता
।
यन्निम्बानां
परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः
कवलनकलाकोविदः
काकलोकः
॥ (
अस. 176)
सममौचित्यतोऽनेकवस्तुसम्बन्धवर्णनम्
।
अनुरूपं
कृतं
सद्म
हारेण
कुचमण्डलम्
॥ (
चन्द्रा. 5.81)
समं
स्यादानुरूप्येण
श्लाघा
योग्यस्य
वस्तुनः
। (
साद. 10.71)
उदा. -
शशिनमुपगतेयं
कौमुदी
मेघमुक्तं
जलनिधिमनुरूपं
जह्नुकन्यावतीर्णा
।
इति
समगुणयोगप्रीतयस्तत्र
पौराः
श्रवणकटु
नृपाणामेकवाक्यं
विवव्रुः
॥
(
तत्रैव
वृत्तौ)
।
कालिदासीयमिदं
पद्यम्
।
56.
विषमम् -
भामहेन
दण्डिना
मम्मटेन
नैव
स्वीकृतः
।
रुद्रटेन
यल्लक्षणं
कृतं,
तदनुसारेण
अस्य
अन्तर्भावो
विरोधे
वा
असङ्गतौ
वा
स्यात्
।
कार्यस्य
कारणस्य
च
यत्र
विरोधः
परस्परं
गुणयोः
।
तद्वत्क्रिययोरथवा
संजायेतेति
तद्विषमम्
॥ (
कालरु. 9.45)
अरिकरिकुम्भविदारणरुधिरारुणदारुणादतः
खग्डात्
।
वसुधाधिपते
धवलं
कान्तं
च
यशो
बभूव
तव
॥ (
कालरु. 9.46)
आनन्दममन्दमिमं
कुवलयदललोचनो
ददासि
त्वम्
।
विरहस्त्वयैव
जनितस्तापयतितरां
शरीरं
मे
॥ (
कालरु. 9.47)
विरूपकार्याऽनर्थयोरुत्पत्तिर्विरूपसंघटना
च
विषमम्
। (
अस. 45)
सोदाहरणमस्य
भेदाः
यथा -
विरूपकार्योत्पत्तिरूपं
विषमम् -
सद्यः
करस्पर्शमवाप्य
चित्रं
रणे
रणे
यस्य
कृपाणलेखा
।
तमालनीला
शरदिन्दुपाण्डु
यशस्त्रिलोकाभरणं
प्रसूते
॥ (
अस. 171)
अनर्थोत्पत्तिरूपं
विषमम् -
तीर्थान्तरेषु
मलपङ्कवतीर्विहाय
दिव्यास्तनूस्तनुभृतः
सहसा
लभन्ते
।
वाराणसि
त्वयि
तु
मुक्तकलेवराणां
लाभोऽस्तु
मूलमपि
यात्यपुनर्भवाय
॥ (
अस. 172)
विरूपसंघटनारूपं
विषमम् -
अरण्यानी
क्वेयं
धृतकनकसूत्रः
क्व
स
मृगः
क्व
मुक्ताहारोऽयं
क्व
च
स
पतगः
क्वेयमबला
।
क्व
तत्कन्यारत्नं
ललितमहिभर्तुः
क्व
च
वयं
स्वमाकूतं
धाता
किमपि
निभृतं
पल्लवयति
॥ (
अस. 173)
विषमं
यद्यनौचित्यादनेकान्वयकल्पनम्
।
क्वातितीव्रविषाः
सर्पाः
क्वासौ
चन्दनभूरुहः
॥ (
चन्द्रा. 5.80)
विषम
इति
प्रथितोऽसौ
वक्ता
विघटयति
कमपि
सम्बन्धम्
।
यत्रार्थयोरसन्तं
परमतमाशङ्क्य
तत्
सत्त्वे
॥ (
कालरु. 7.47)
उदाहरणम् -
यो
यस्य
नैव
विषयो
न
स
तं
कुर्यादहो
बलात्कारः
।
सततं
खलेषु
भवतां
क्व
खलाः
क्व
च
सज्जनस्तुल्यः
॥ (
कालरु. 7.48)
प्रकारान्तरम् -
अभिधीयते
सतो
वा
सम्बन्धस्यार्थयोरनौचित्यम्
।
यत्र
स
विषमोऽन्योऽयं
यत्रासम्भाव्यभावो
वा
॥ (
कालरु. 7.49)
उदाहरणम् -
रूपं
क्व
मधुरमेतत्
क्व
चेदमस्याः
सुदारुणं
व्यसनम्
।
इति
चिन्तयन्ति
पथिकास्तव
वैरिवधूं
वने
दृष्ट्वा
॥ (
कालरु. 7.50)
तदिति
चतुर्धा
विषमं
यत्राण्वपि
नैव
गुर्वपि
च
कार्यात्
।
कार्यं
कुर्यात्
कर्ता
हीनोऽपि
ततोऽधिकोऽपि
वा
॥ (
कालरु. 7.51)
उदाहरणानि -
त्वद्भृत्यावयवानपि
सोढुं
समरे
क्षमा
न
ते
सुहृदः
।
असिधारापथपतितं
त्वं
तु
निहन्या
महेन्द्रमपि
॥ (
कालरु. 7.52)
त्वं
तावदास्व
दूरे
भृत्यावयवोऽपि
ते
निहन्ति
हतान्
।
का
गणना
तैः
समरे
सोढुं
शक्रोऽपि
न
सहस्त्वाम्
॥ (
कालरु. 7.53)
प्रकारान्तरम् -
यत्र
क्रियाविपत्तेर्न
भवेदेव
क्रियाफलं
तावत्
।
कर्तुरनर्थश्च
भवेत्
तदपरमभिधीयते
विषमम्
॥ (
कालरु. 7.54)
उदाहरणम् -
उत्कण्ठा
परितापो
रणरणकं
जागरस्तनोः
तनुता
।
फलमिदमहो
मयाप्तं
सुखाय
मृगलोचनां
दृष्ट्वा
॥ (
कालरु. 7.55)
मम्मटमतेन -
क्वचिद्
यदतिवैधम्र्यान्न
श्लेषो
घटनामियात्
।
कर्तुः
क्रियाफलावाप्तिर्नैवानर्थश्च
यद्
भवेत्
॥
गुणक्रियाभ्यां
कार्यस्य
कारणस्य
गुणक्रिया
।
क्रमेण
च
विरुद्धे
यत्
स
एष
विषमो
मतः
॥ (
काप्र.
सू. 194)
(1)
द्वयोः
अनुपपद्यमानतया
योगः, (2)
कर्ता
क्रियायाः
प्रणाशात्
अभीष्टं
फलं
न
लभेत,
अनर्थं
च
आसादयेत् (3-4)
सत्यपि
कार्यस्य
कारणानुरूपानुकारे
तयोर्गुणौ
क्रिये
च
परस्परं
विरुध्यतः
इत्ययं
चतुर्विधः
।
शिरीषादपि
मृद्वङ्गी
केयमायतलोचना
।
अयं
क्व
च
कुकूलाग्निकर्कशो
मदनानलः
॥ (
काप्र.
उ. 537)
सिंहिकासुतसन्त्रस्तः
शशः
शीतांशुमाश्रितः
।
जग्रसे
साश्रयं
तत्र
तमन्यः
सिंहिकासुतः
॥ (
काप्र.
उ. 538)
सद्यः
करस्पर्शमवाप्य
चित्रं
रणे
रणे
यस्य
कृपाणलेखा
।
तमालनीला
शरदिन्दुपाण्डु
यशस्त्रिलोक्याभरणं
प्रसूते
॥ (
काप्र.
उ. 539)
आनन्दममन्दमिदं
कुवलयदललोचने
ददासि
त्वम्
।
विरहस्त्वयैव
जनितस्तापयतितरां
शरीरं
मे
॥ (
काप्र.
उ. 540)
मम्मटमतेनैतदपि
उदाहरणं
भवति (
माघकाव्ये 13-
सर्गे )
विपुलेन
सागरशयस्य
कुक्षिणा
भुवनानि
यस्य
पपिरे
युगक्षये
।
मदविभ्रमासकलया
पपे
पुनः
स
पुरस्त्रियैकतमयैकया
दृशा
॥ (
काप्र.
उ. 541)
विरूपकार्याऽनर्थयोरुत्पत्तिर्विरूपसंघटना
च
विषमम्
॥ (
अस. 45)
उदाहरणानि -
सद्यः
करस्पर्शमवाप्य
चित्रं
रणे
रणे
यस्य
कृपाणलेखा
।
तमालनीला
शरदिन्दुपाण्डु
यशस्त्रिलोकाभरणं
प्रसूते
॥ (
अस. 171)
तीर्थान्तरेषु
मलपङ्कवतीर्विहाय
दिव्यास्तनूस्तनुभृतः
सहसा
लभन्ते
।
वाराणसि
त्वयि
तु
मुक्तकलेवराणां
लाभोऽस्तु
मूलमपि
यात्यपुनर्भवाय
॥ (
अस. 172)
अरण्यानी
क्वेयं
धृतकनकसूत्रः
क्व
स
मृगः
क्व
मुक्ताहारोऽयं
क्व
च
स
पतगः
क्वेयमबला
।
क्व
तत्कन्यारत्नं
ललितमहिभर्तुः
क्व
च
वयं
स्वमाकूतं
धाता
किमपि
निभृतं
पल्लवयति
॥ (
अस. 173)
परहिअअं
मग्गंतीइ
हारिअं
अत्तुणो
उए
हिअअं
।
अंहो
ल्लाहस्स
कए
मूलाओ
विच्छेइआ
जाआ
॥ (
अस. 174)
विषमं
यद्यनौचित्यादनेकान्वयकल्पनम्
।
क्वातितीव्रविषाः
सर्पाः
क्वासौ
चन्दनभूरुहः
॥ (
चन्द्रा. 5.80)
गुणौ
क्रिये
वा
चेत्
स्यातां
विरुद्धे
हेतुकार्ययोः
॥ (
साद. 10.69)
यद्वारब्धस्य
वैफल्यमनर्थस्य
च
सम्भवः
।
विरूपयोः
सङ्घटना
या
च
तद्
विषमं
स्मृतम्
॥ (
साद. 10.70)
57.
अधिकम् -
रुद्रटमतेन -
यत्रान्योन्यविरुद्धं
विरुद्धबलवत्क्रियाप्रसिद्धं
वा
।
वस्तुद्वयमेकस्माज्जयत
इति
तद्भवेदधिकम्
॥ (
कालरु. 9.26)
मुञ्चति
वारि
पयोदो
ज्वलन्तमनलं
च
यत्तदाश्चर्यम्
।
उदपद्य
नीरनिधेर्विषममृतं
चेति
तच्चित्रम्
॥ (
कालरु. 9.27)
यत्राधारे
सुमहत्याधेयमवस्थितं
तनीयोऽपि
।
अतिरिच्येत
कथंचित्तदधिकमपरं
परिज्ञेयम्
॥ (
कालरु. 9.28)
जगद्विशाले
हृदि
तस्य
तन्वी
प्रविश्य
सास्ते
स्म
तथा
यथा
तत्
।
पर्याप्तमासीदखिलं
न
तस्यास्तत्रावकाशस्तु
कुतोऽपरस्याः (
कालरु. 9.29)
मम्मटमतेन -
महतोर्यन्महीयांसावाश्रिताश्रययोः
क्रमात्
।
आश्रयाश्रयिणौ
स्यातां
तनुत्वेऽप्यधिकं
तु
तत्
॥ (
काप्र.
सू. 195)
अहो
विशालं
भूपाल
भुवनत्रितयोदरम्
।
माति
मातुमशक्योऽपि
यशोराशिर्यदत्र
ते
॥ (
काप्र.
उ. 542)
युगान्तकालप्रतिसंहृतात्मनो
जगन्ति
यस्यां
सविकाशमासत
।
तनौ
ममुस्तत्र
न
कैटभद्विषस्तपोधनाभ्यागमसम्भवा
मुदः
॥ (
काप्र.
उ. 543)
आधारादाधेयस्याधेयादाधारस्य
वाऽऽधिक्येऽधिकमिति
वाग्भटप्रथमः
।
आधरादाधेयस्याधिक्यं
यथा -
युगान्तकालप्रतिसंहृतात्मनो
जगन्ति
यस्यां
सविकाशमासत
।
तनौ
ममुस्तत्र
न
कैटभद्विषस्तपोधनाभ्यागमसम्भवा
मुदः
।
आधेयादाधारस्याधिक्यं
यथा -
नवेन्दुना
तन्नभसोपमेयं
शावैकसिंहेन
च
काननेन
।
रघोः
कुलं
कुड्मलपुष्करेण
तोयेन
चाप्रौढनरेन्द्रमासीत्
॥ (
कानु.
पृ.45)
आश्रयाश्रयिणोरानुरूप्यमधिकम्
। (
अस. 48)
आश्रयाधिक्यरूपमधिकम् -
द्यौरत्र
क्वचिदाश्रिता
प्रविततं
पातालमत्र
क्वचि-
त्क्वाप्यत्रैव
धराधराधरजलाधारावधिर्वर्तते
।
स्फीतस्फीतमहो
नभः
कियदिदं
यस्येत्थमेवंविधै-
र्दूरे
पूरणमस्तु
शून्यमिति
यन्नामापि
नास्तं
गतम्
॥ (
अस. 179)
आश्रिताधिक्यरूपमधिकम् -
दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-
ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः
।
द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर-
भ्राम्यत्पिण्डितचण्डिमा
कथमहो
नाद्यापि
विश्राम्यति
॥ (
अस. 180)
अधिकं
बोध्यमाधारादाधेयाधिकवर्णनम्
।
यया
व्याप्तं
जगत्तस्यां
वाचि
मान्ति
न
ते
गुणाः
॥ (
चन्द्रा. 5.83)
आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते
। (
साद. 10.72)
उदा. -
किमधिकमस्य
ब्रूमो
महिमानं
वारिधेर्हरिर्यत्र
।
अज्ञात
एव
शेते
कुक्षौ
निक्षिप्य
भुवनानि
॥ (
तत्रैव
वृत्तौ)
58.
प्रत्यनीकम् -
रुद्रटमतेन -
वक्तुमुपमेयमुत्तममुपमानं
तज्जिगीषया
यत्र
।
तस्य
विरोधीत्युक्त्या
कल्प्येत
प्रत्यनीकं
तत्
॥ (
कालरु. 8.92)
यदि
तव
तया
जिगीषोस्तद्वदनमहारि
कान्तिसर्वस्वम्
।
मम
तत्र
किमापतितं
तपसि
सितांशो
यदेवं
माम्
॥ (
कालरु. 8.93)
मम्मटमतेन -
प्रतिपक्षमशक्तेन
प्रतिकर्तुं
तिरस्क्रिया
।
या
तदीयस्य
तत्स्तुत्यै
प्रत्यनीकं
तदुच्यते
॥ (
काप्र.
सू. 196)
त्वं
विनिर्जितमनोभवरूपः
सा
च
सुन्दर
भवत्यनुरक्ता
।
पञ्चभिर्युगपदेव
शरैस्तां
तापयत्यनुशयादिव
कामः
॥ (
काप्र.
उ. 544)
यस्य
किञ्चिदपकर्तुमक्षमः
कायनिग्रहगृहीतविग्रहः
।
कान्तवक्त्रसदृशाकृतिं
कृती
राहुरिन्दुमधुनापि
बाधते
॥ (
काप्र.
उ. 545)
भोज
स्तु
प्रत्यनीकं
विरोधं
चाभिन्नं
मनुते
।
प्रत्यनीके
यद्यपि
भवति
विरोधे
पर्यवसितिस्तथापि
उभयोरन्तरमपि
स्पष्टमेव
।
प्रत्यनीके
न
विरोधस्य
प्रतिपादनं
लक्ष्यम्
अपितु
विरोधे
असमर्थस्य
जनस्य
अशक्तेः
प्रतिपादनं
लक्ष्यम्
॥
प्रतिपक्षप्रतिकाराशक्तौ
तदीयतिरस्कारः
प्रत्यनीकम्
॥ (
अस. 69)
उदाहरणे
तु
न
तथा
नावीन्यम्
।
जयदेवस्य
यथा -
प्रत्यनीकं
बलवतः
शत्रोः
पक्षे
पराक्रमः
।
जैत्रनेत्रानुगौ
कर्णावुत्पलाभ्यामधः
कृतौ
॥ (
चन्द्रा. 5.99)
प्रतिपक्षबाधाशक्तौ
तदीयतिरस्कारे
प्रत्यनीकम्
इति
वाग्भटप्रथमः
।
उदा. -
चक्रेण
विष्णोः
कृतशीर्षशेषः
प्रहर्तुमिच्छन्नपि
नास्य
शक्तः
।
राहुः
समानाख्यतयैव
वध्यान्
तमोशिषः
सन्
भजति
स्म
चक्रान्
॥ (
कानु.
पृ.45)
59.
एकावली -
एकावलीति
सेयं
यत्रार्थपरम्परा
यथालाभम्
।
आधीयते
यथोत्तरविशेषणा
स्थित्यपोहाभ्याम्
॥ (
कालरु. 7.109)
उदा. -
सलिलं
विकासि
कमलं
कमलानि
सुगन्धिमधुसमृद्धानि
।
मधु
लीनालिकुलाकुलमलिकुलमपि
मधुराणि
तमिह
॥ (
कालरु. 7.110)
(
अत्र
विधिमुखेन
निर्देशः)
नाकुसुमस्तरुरस्मिन्नुद्याने
नामधूनि
कुसुमानि
।
नालीनालिकुलं,
मधु
नामधुरक्वाणमलिवलयम्
॥ (
कालरु. 7.111)
भोज
स्तु
साभिप्रायविशेषणप्रधाने
एकावलीं
गतार्थयति
।
भोजवर्जं
प्रायः
सर्वैः
परवर्तिभिरियमूरीकृता
।
तत्र
मम्मटस्य
लक्षणम् -
स्थाप्यतेऽपोह्यते
वापि
सैकावली
द्विधा (
काप्र.
सू. 198)
पुराणि
यस्यां
सवराङ्गनानि
वराङ्गना
रूपपुरस्कृताङ्ग्यः
।
रूपं
समुन्मीलितसद्विलासमस्त्रं
विलासः
कुसुमायुधस्य
॥ (
काप्र.
उ. 548)
न
तज्जलं
यन्न
सुचारुपङ्कजं
न
पङ्कजं
तद्
यदलीनषट्पदम्
।
न
षट्पदोऽसौ
न
जुगुञ्ज
यः
कलं
न
गुञ्जितं
तन्न
जहार
यन्मनः
॥ (
काप्र.
उ. 549)
(
न
षट्पदोऽसौ
कलगुञ्जितो
न
यो
इति
मम्मटस्य
पाठः)
यथापूर्वं
परस्य
विशेषणतया
स्थापनापोहने
एकावली
॥ (
अस. 54)
इति
रुय्यकः
।
उदाहरणे
त्वस्य
न
किमपि
नूतनत्वम्
।
जयदेवस्य -
गृहीतमुक्तरीत्यर्थश्रेणिरेकावली
मता
।
नेत्रे
कर्णान्तविश्रान्ते
कर्णौ
दोर्मूलदोलिनौ
॥ (
चन्द्रा. 5.88)
धर्मसूरिः
पुनरित्थं
लक्षयति -
विशेषणं
पूर्वपूर्वस्योत्तरोत्तरमुच्यते
।
एकावलीमलङ्कारमूचिरे
तत्र
पण्डिताः
॥ (
सार.
पृ.643)
60.
स्मरणम् -
रुद्रटमतेन -
वस्तुविशेषं
दृष्ट्वा
प्रतिपत्ता
स्मरति
यत्र
तत्सदृशम्
।
कालान्तरानुभूतं
वस्त्वन्तरमित्यदः
स्मरणम्
॥ (
कालरु. 8.109)
तव
भग्ने
पश्यन्तः
सथूलस्थूलेन्द्रनीलमणिमालाः
।
भूभृन्नाथ
मयूराः
स्मरन्त्यमी
कृष्णसर्पाणाम्
॥ (
कालरु. 8. 110)
मम्मटस्य -
यथानुभवमर्थस्य
दृष्टे
तत्
सदृशी
स्मृतिः
।
स्मरणम् (
काप्र.
सू. 199)
निम्ननाभिकुहरेषु
यदम्भः
प्लावितं
चलदृशां
लहरीभिः
।
तद्भवैः
कुहरुतैः
सुरनार्यः
स्मारिताः
सुरतकण्ठरुतानाम्
॥ (
काप्र.
उ. 550)
रुय्यकस्य -
सदृशानुभवाद्वस्त्वन्तरस्मृतिः
स्मरणम्
॥ (
अस. 14)
उदाहरणम् -
अतिशयितसुरासुरप्रभावं
शिशुमवलोक्य
तवैव
तुल्यरूपम्
।
कुशिकसुतमखद्विषां
प्रमाथे
धृतधनुषं
रघुनन्दनं
स्मरामि
॥ (
अस. 19)
जयदेवस्तु
स्मृतिरित्यभिधानमात्रेणैव
स्मरणालङ्कारं
स्वीकुरुते
।
उदा. -
पङ्कजं
पश्यतस्तस्याः
मुखं
मे
गाहते
मनः
। (
चन्द्रा. 5.31)
61.
भ्रान्तिमान् -
रुद्रटमतेन -
अर्थविशेषं
पश्यन्नवगच्छेदन्यमेव
तत्सदृशम्
।
निः
संदेहं
यस्मिन्प्रतिपत्ता
भ्रान्तिमान्स
इति
॥ (
कालरु. 8.87)
पालयति
त्वयि
वसुधां
विविधाध्वरधूममालिनीः
ककुभः
।
पश्यन्तो
दूयन्ते
घनसमयाशङ्कया
हंसाः
॥ (
कालरु. 8.88)
मम्मटस्य -
भ्रान्तिमान्
अन्यसंवित्तत्तुल्यदर्शने
। (
काप्र.
सू. 200)
कपाले
मार्जारः
पय
इति
करान्
लेढि
शशिनः
तरुच्छिद्रप्रोतान्
बिसमिति
करी
संकलयति
।
रतान्ते
तल्पस्थान्
हरति
वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो
जगदिदमहो
विप्लवयति
॥ (
काप्र.
उ. 552)
सादृश्याद्वस्त्वन्तरप्रतीतिभ्र्रान्तिमान्
॥ (
अस. 18)
उदाहरणम् -
ओष्ठे
बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णालंकृतिभाजि
दाडिमफलभ्रान्त्या
च
शोणे
मणौ
।
निष्पत्त्या
सकृदुत्पलच्छददृशामात्तक्लमानां
मरौ
राजन्
गुर्जरराजपञ्जरशुकैः
सद्यस्तृषा
मूर्छितम्
॥ (
अस. 38)
जयदेवेन
भ्रान्तिरिति
नाम्नैव
भ्रान्तिमानलङ्कारो
व्यपदिष्टः
।
उदा. -
अयं
प्रमत्तमधुपस्त्वन्मुखं
वेद
पङ्कजम्
। (
चन्द्रा. 5.32)
विश्वनाथस्तु
ससन्देह
इव
इहापि
प्रतिभोत्थितत्वमपेक्षते। (
साद. 10.36)
62.
प्रतीपम् -
रुद्रटमतेन -
यत्रानुकम्प्यते
सममुपमाने
निन्द्यते
वापि
।
उपमेयमतिस्तोतुं
दुरवस्थमिति
प्रतीपं
स्यात्
॥ (
कालरु. 8.76)
वदनमिदं
सममिन्दोः
सुन्दरमपि
ते
कथं
चिरं
न
भवेत्
।
मलिनयति
यत्कपोलौ
लोचनसलिलं
हि
कज्जलवत्
॥ (
कालरु. 8.77)
गर्वमसंवाह्यमिमं
लोचनयुगलेन
वहसि
किं
भद्रे
।
सन्तीदृशानि
दिशि
दिशि
सरःसु
ननु
नीलनलिनानि
॥ (
कालरु. 8.78)
मम्मटस्य -
आक्षेप
उपमानस्य
प्रतीपमुपमेयता
।
तस्यैव
यदि
वा
कल्प्या
तिरस्कारनिवन्धनम्
॥ (
काप्र.
सू. 201)
कैमथ्र्यैन
उपमानस्य
आक्षेप
उपमानान्तरविवक्षया
उपमेयस्य
अनादर
इति
अस्य
द्वैविध्यम्
।
यथा -
लावण्यौकसि
सप्रतापगरिमण्यग्रेसरे
त्यागिनां
देव
त्वय्यवनीभरक्षमभुजे
निष्पादिते
वेधसा
।
इन्दुः
किं
घटितः
किमेष
विहितः
पूषा
किमुत्पादितं
चिन्तारत्नमदो
मुधैव
किममी
स्रष्टाः
कुलक्ष्माभृतः
॥ (
काप्र.
उ. 553)
ए
एहि
दाव
सुन्दरि
कण्णं
दाऊण
सुणसु
वअणिज्जं
।
तुज्झ
मुहेण
किसोदरि
चन्दो
उवमिज्जइ
जणेण
॥ (
काप्र.
उ. 554)
गर्वमसंवाह्यमिमं
लोचनयुगलेन
किं
वहसि
मुग्धे
।
सन्तीदृशानि
दिशि
दिशि
सरःसु
ननु
नीलनलिनानि
॥ (
काप्र.
उ. 555)
अहमेव
गुरुः
सुदारुणानामिति
हालाहल
तात
मा
स्म
दृप्यः
।
ननु
सन्ति
भवादृशानि
भूयो
भुवनेऽस्मिन्
वचनानि
दुर्जनानाम्
॥ (
काप्र.
उ. 556)
रुय्यकस्तु
प्रतीपस्य
लक्षणम्
इत्थं
विदधाति -
उपमानस्याक्षेप
उपमेयताकल्पनं
वा
प्रतीपम्
॥ (
अस. 70)
उदाहरणानि
तु
मम्मटस्यैव
।
जयदेवो
यता -
प्रतीपमुपमानस्य
हीनत्वमुपमेयतः
।
दृष्टं
चेद्वदनं
तस्याः
किं
पद्मेन
किमिन्दुना
॥ (
चन्द्रा. 5.100)
विश्वनाथस्तु
द्विधा
प्रतीपं
लक्षयति
।
प्रथमं
लक्षणं
यथा -
प्रसिद्धस्योपमानस्योपमेयत्व
प्रकल्पनम्
।
निष्फलत्वाभिधानं
वा
प्रतीपमिति
कथ्यते
॥ (
साद. 10.87)
यथा -
यत्त्वन्नेत्रसमानकान्तिसलिले
मग्नं
तदिन्दीवरम्
। (
तत्रैव
वृत्तौ)
तथा
च -
तद्
वक्त्रं
यदि
मुद्रिता
शशिकथा
हा
हेम
सा
चेद्द्युतिः
तच्चक्षुर्यदि
हारितं
कुवलयैस्तच्चेत्स्मितं
का
सुधा ?
।
धिक्कन्दर्पधनुभ्र्रुवौ
यदि
च
ते
किं
वा
बहु
ब्रूमहे
यत्सत्यं
पुनरुक्तवस्तुविमुखः
सर्गक्रमो
वेधसः
॥ (
तत्रैव
वृत्तौ)
इत्युपमानस्योमेयत्वकल्पनायास्तन्निष्फलतायाश्च
क्रमेणोदाहरणे
।
द्वितीयं
विश्वनाथस्य
लक्षणं
चेत्थम् -
उक्त्वा
चात्यन्तमुत्कर्षमत्युत्कृष्टस्य
वस्तुनः
।
कल्पितेऽप्युपमानत्वे
प्रतीपं
केचिदूचिरे
॥ (
साद. 10.88)
उदा. -
अहमेव
गुरुः
सुदारुणानामिति
हालाहल
तात
मा
स्म
दृप्यः
।
ननु
सन्ति
भवादृशानि
भूयो
भुवनेऽस्मिन्
वचनानि
दुर्जनानाम्
॥ (
तत्रैव
वृत्तौ)
63.
सामान्यम् -
मम्मटमतेन -
प्रस्तुतस्य
यदन्येन
गुणसाम्यविवक्षया
।
ऐकात्म्यं
बध्यते
योगात्
तत्
सामान्यमिति
स्मृतम्
॥ (
काप्र.
सू. 202)
मलयजरसविलिप्ततनवो
नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्त्ररुचो
रुचिरामलांशुकाः
।
शशभृति
विततधाम्नि
धवलयति
धरामविभाव्यतां
गताः
प्रियवसतिं
प्रयान्ति
सुखमेव
निरस्तभियोऽभिसारिकाः
॥ (
काप्र.
उ. 557)
रुय्यकोऽत्र
प्रकारान्तरेण
मम्मटमेव
समर्थयति
।
जयदेवस्तु -
सामान्यं
यदि
सादृश्याद्
भेद
एव
न
लक्ष्यते
।
पद्माकरप्रविष्टानां
मुखं
नालक्षि
सुभ्रुवाम्
॥ (
चन्द्रा. 5.34)
विश्वनाथः -
सामान्यं
प्रकृतस्यान्यतादात्म्यं
सदृशैर्गुणैः
। (
साद. 10.89)
उदा. -
मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः
।
अविभाव्याः
सुखं
यान्ति
चन्द्रिकास्वभिसारिकाः
॥ (
तत्रैव
वृत्तौ)
64.
विशेषः -
रुद्रटेनायम्
अतिशयोक्तिमूलकेषु
अलङ्कारेषु
परिगणितः
।
लक्षणं
यथा -
किञ्चिदवश्याधेयं
यस्मिन्नभिधीयते
निराधारम्
।
तादृगुपलभ्यमानं
विज्ञेयोऽसौ
विशेष
इति
॥ (
कालरु. 9.5)
दिवमप्युपयातानामाकल्पमनल्पगुणगणा
येषाम्
।
रमयन्ति
जगन्ति
गिरः
कथमिह
कवयो
न
ते
वन्द्याः
॥ (
कालरु. 9.6)
यत्रैकमनेकस्मिन्नाधारे
वस्तु
विद्यमानतया
।
युगपदभिधीयतेऽसावत्रान्यः
स्याद्विशेष
इति
॥ (
कालरु. 9.7)
हृदये
चक्षुषि
वाचि
च
तव
सैवाभिनवयौवना
वसति
।
वयमत्र
निरवकाशा
विरम
कृतं
पादपतनेन
॥ (
कालरु. 9.8)
यत्रान्यत्कुर्वाणो
युगपत्कार्यान्तरं
च
कुर्वीत
।
कर्तुमशक्यं
कर्ता
विज्ञेयोऽसौ
विशेषोऽन्यः
॥ (
कालरु. 9.9)
लिखितं
बालमृगाक्ष्या
मम
मनसि
तया
शरीरमात्मीयम्
।
स्फुटमात्मनो
लिखन्त्या
तिलकं
विमले
कपोलतले
॥ (
कालरु. 9.10)
मम्मटे -
विना
प्रसिद्धमाधारमाधेयस्य
व्यवस्थितिः
।
एकात्मा
युगपद्
वृत्तिरेकस्यानेकगोचरा
॥
अन्यत्
प्रकुर्वतः
कार्यमशक्यस्यान्यवस्तुनः
।
तथैवकरणं
चेति
विशेषस्त्रिविधः
स्मृतः
॥ (
काप्र.
सू. 203)
प्रसिद्धाधारपरिहारेण
आधेयस्य
विशिष्टा
स्थितिः,
यथा -
दिवमप्युपयातानामाकल्पमनल्पगुणगणा
येषाम्
।
रमयन्ति
जगन्ति
गिरः
कथमिह
कवयो
न
ते
वन्द्याः
॥ (
काप्र.
उ. 559)
एकमपि
वस्तु
एकेनैव
स्वभावेन
युगपदनेकत्र
वर्तते,
यथा -
सा
वसइ
तुज्झ
हिअए
सा
च्चिअ
अच्छीसु
सा
अ
वअणेसु
।
अह्मारिसाण
सुन्दर
ओसासो
कत्थ
पावाणं
॥ (
काप्र.
उ. 560)
रभसा
आरभमाणः
यत्नेनाशक्यमपि
कार्यान्तरमारभते,
यथा -
स्फुरदद्भुतरूपमुत्प्रतापज्वलनं
त्वां
सृजतानवद्यविद्यम्
।
विधिना
ससृजे
नवो
मनोभूर्भुवि
सत्यं
सविता
बृहस्पतिश्च
॥ (
काप्र.
उ. 561)
यथा
वा -
गृहिणी
सचिवः
सखी
मिथः
प्रियशिष्या
ललिते
कलाविधौ
।
करुणा
विमुखेन
मृत्युना
हरता
त्वां
वद
किं
न
मे
हृतम्
॥ (
काप्र.
उ. 562)
रुय्यकस्तु -
अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं
विशेषः
॥ (
अस. 50)
तस्य
पुनस्त्रयो
भेदाः
।
ते
यथा -
आधारहीन
आधेयरूपो
विशेषालङ्कारः -
दिवमप्युपयातानामाकल्पमनल्पगुणगणा
येषाम्
।
रमयन्ति
जगन्ति
गिरः
कथमिव
कवयो
न
ते
वन्द्याः
॥ (
अस. 182)
एकस्यानेकगोचरत्वरूपो
विशेषः -
प्रासादे
सा
पथि
पथि
च
सा
पृष्ठतः
सा
पुरः
सा
पर्यङ्के
सा
दिशि
दिशि
च
सा
तद्वियोगातुरस्य
।
हंहो
चेतः
प्रकृतिरपरा
नास्ति
मे
कापि
सा
सा
सा
सा
सा
सा
जगति
सकले
कोऽयमद्वैतवादः
॥ (
अस. 183)
असम्भाव्यवस्त्वन्तरस्य
निष्पादनरूपो
विशेषः -
निमेषमपि
यद्येकं
क्षीणदोषे
करिष्यसि
।
पदं
चित्ते
तदा
शम्भो
किं
न
सम्पादयिष्यसि
॥ (
अस. 184)
जयदेवेन -
विशेषः
ख्यातमाधारं
विनाप्याधेयवर्णनम्
।
गतेऽपि
सूर्ये
दीपस्थास्तमश्छिन्दन्ति
तत्कराः
॥ (
चन्द्रा. 5.85)
प्रसिद्धाधारं
विनाप्याधेयस्यावस्थानं
विशेष
इति
वाग्भटप्रथमः
।
उदाहरणं
तु
अनेन
उपरि
उद्धृतं
दिवमप्युपयातानामित्याद्येव
दत्तम्
।
विश्वनाथस्तु
त्रिविधं
विशेषमूरीकरोति,
तथाहि -
यदाधेयमनाधारमेकं
चानेकगोचरम्
।
किञ्चित्
प्रकुर्वतः
कार्यमशक्यस्येतरस्य
वा
॥
कार्यस्य
कारणं
दैवाद्
विशेषस्त्रिविधस्ततः
॥ (
साद. 10.74)
क्रमेणोदाहरणानि -
दिवमप्युपयातानामाकल्पमनल्पगुणगणा
येषाम्
।
रमयन्ति
जगन्ति
गिरः
कथमिव
कवयो
न
ते
वन्द्याः
॥ (
तत्रैव
वृत्तौ)
कानने
सरिदुद्देशे
गिरीणामपि
कन्दरे
।
पश्यन्त्यन्तकसंकाशं
त्वामेकं
रिपवः
पुरः
॥ (
तत्रैव
वृत्तौ)
गृहिणी
सचिवः
सखी
मिथः
प्रियशिष्या
ललिते
कलाविधौ
।
करुणा
विमुखेन
मृत्युना
हरता
त्वां
वद
किं
न
मे
हृतम्
॥ (
तत्रैव
वृत्तौ)
65.
तद्गुणः -
रुग्रटमतेन -
यस्मिन्नैकगुणानामर्थानां
योगलक्ष्यरूपाणाम्
।
संसर्गे
नानात्वं
न
लक्ष्यते
तद्गुणः
स
इति
॥ (
कालरु. 9.22)
नवधौतधवलवसनाश्चन्द्रिकया
सान्द्रया
तिरोगमिताः
।
रमणभवनान्यशङ्काः
सर्पन्त्यभिसारिकाः
सपदि
॥ (
कालरु. 9.23)
असमानगुणं
यस्मिन्नतिबहलगुणेन
वस्तुना
वस्तु
।
संसृष्टं
तद्गुणतां
धत्तेऽन्यस्तद्गुणः
स
इति
॥ (
कालरु. 9.24)
कुब्जकमालापि
कृता
कार्तस्वरभास्वरे
त्वया
कण्ठे
।
एतत्प्रभानुलिप्ता
चम्पकदामभ्रमं
कुरुते
॥ (
कालरु. 9.25)
मम्मटेन -
स्वमुत्सृज्य
गुणं
योगादत्युज्ज्वलगुणस्य
यत्
।
वस्तु
तद्गुणतामेति
भण्यते
स
तु
तद्गुणः
॥ (
काप्र.
सू. 204)
विभिन्नवर्णा
गरुडाग्रजेन
सूर्यस्य
रथ्याः
परितः
स्फुरन्त्या
।
रत्नैः
पुनर्यत्र
रुचा
रुचं
स्वामानिन्यिरे
वंशकरीरनीलैः
॥ (
काप्र.
उ. 563)
रुय्यकेन -
स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः
॥ (
अस. 73)
उदाहरणे
तु
रुय्यकस्य
न
किमपि
नूतनत्वम्
।
जयदेवः -
तद्गुणः
स्वगुणत्यागादन्यतः
स्वगुणोदयः
।
पद्मरागारुणं
नासामौक्तिकं
तेऽधराश्रितम्
॥ (
चन्द्रा. 5.102)
यत्र
वस्तु
स्वगुणमुत्सृज्यान्यगुणयोगात्
तद्गुणतामेति
स
तद्गुणः
इति
प्रथमवाग्भटः
। (
कानु.
पृ.45)
66.
अतद्गुणः -
म्मटस्य -
तद्रूपाननुहारश्चेदस्य
तत्
स्यादतद्गुणः
। (
काप्र.
सू. 205)
धवलोऽसि
जह
वि
सुन्दर
तह
वि
तुए
मज्झ
रञ्जिअं
हिअअं
।
राअभरिए
वि
हिअए
सुहअ
णिहित्तो
ण
रत्तोसि
॥ (
काप्र.
उ. 564)
अप्रकृतस्य
रूपं
प्रकृतेन
कुतोऽपि
नानुविधीयते
निमित्तवशात्,
तत्रापि
अतद्गुणः
।
यथा -
गाङ्गमम्बु
सितमम्बु
यामुनं
कज्जलाभमुभयत्र
मज्जतः
।
राजहंस
तव
सैव
शुभ्रता
चीयते
न
च
न
चापचीयते
॥ (
काप्र.
उ. 565)
रुय्यकस्य
यथा -
सति
हेतौ
तद्गुणाननुहारोऽतद्गुणः
॥ (
अस. 74)
उदाहरणन्तु
मम्मटानुगतम्
।
जयदेवस्य
यथा -
सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम्
।
विशन्नपि
रवेर्मध्यं
शीत
एव
सदा
शशी
॥ (
चन्द्रा. 5.105)
तत्
संश्लिष्टमपि
वस्तु
यद्
गुणं
नाश्रयति
सोऽतद्गुणः
इति
प्रथमवाग्भटः
।
उदा. -
सज्जणसंगेण
विदुज्जणस्स
कसुसिमानओसरइं
।
ससिमण्डलमब्भपरिहिउहि
किस
णुव्विअ
कुरंगो
॥ (
कानु.
पृ.45)
67.
व्याघातः -
अन्यैरप्रतिहतमपि
कारणमुत्पादनं
न
कार्यस्य
।
यस्मिन्नभिधीयेत
व्याघातः
स
इति
विज्ञेयः
॥ (
कालरु. 9.52)
यत्र
सुरतप्रदीपा
निष्कज्जलवर्तयो
महामणयः
।
माल्यस्यापि
न
गम्या
हृतवसनवधूविसृष्टस्य
॥ (
कालरु. 9.53)
मम्मटेन -
यद्
यथा
साधितं
केनाप्यपरेण
तदन्यथा
।
तथैव
तद्
विधीयेत
स
व्याघात
इति
स्मृतः
॥ (
काप्र.
सू. 206)
दृशा
दग्धं
मनसिजं
जीवयन्ति
दृशैव
याः
।
विरूपाक्षस्य
जयिनीस्ताः
स्तुवे
वामलोचनाः
॥ (
काप्र.
उ. 566)
रुय्यकस्त्वत्र
प्रकारान्तरेण
तदित्थन्त्वमेव
समर्थयति
।
जयदेवस्तु -
स्याद्
व्याघातोऽन्यथाकारि
वस्त्वन्यक्रियमुच्यते
।
यैर्जगत्
प्रीयते
हन्ति
तैरेव
कुसुमायुधः
॥ (
चन्द्रा. 5.86)
विश्वनाथस्तु -
व्याघातः
स
तु
केनापि
वस्तु
येन
यथाकृतम्
।
तेनैव
चेदुपायेन
कुरुतेऽन्यस्तदन्यथा
॥ (
साद. 10.74-75)
तदुदाहरणं
यथा -
दृशा
दग्धं
मनसिजं
जीवयन्ति
दृशैव
याः
।
विरूपाक्षस्य
जयिनीस्ताः
स्तुवे
वामलोचनाः
॥ (
तत्रैव
वृत्तौ)
प्रकारान्तरमपि
व्याघातस्य
लक्षयति
विश्वनाथः -
सौकर्येण
च
कार्यस्य
विरुद्धं
क्रियते
यदि
।
उदा. -
इहैव
त्वं
तिष्ठ
द्रुतमहमहोभिः
कतिपयैः
समागन्ता
कान्ते
मृदुरसि
न
चायाससहना
।
मृदुत्वं
मे
हेतुः
सुभग
भवता
गन्तुमधिकं
न
मृद्वी
सोढा
यद्विरहकृतमायासमसमम्
। (
तत्रैव
वृत्तौ)
अत्र
नायकेन
नायिकाया
मृदुत्वं
सहगमनाभावहेतुत्वेनोक्तम्
।
नायिकया
च
प्रत्युत
सहगमने
ततोऽपि
सौकर्येण
हेतुतयोपन्यस्तम्
। (
तत्रैव
वृत्तौ)
।
एकेन
कृतकार्यमपरेण
तथैवान्यथा
विधीयते
स
व्याघातः
इति
लक्षणं
प्रथमवाग्भटस्य (
कानु.
पृ.44)
।
उदाहरणमसौ
मम्मटदत्तमेव
ददाति
।
68.
संसृष्टिः -
भामहस्य -
वरा
विभूषा
संसृष्टिर्बह्वलङ्कारयोगतः
।
रचिता
रत्नमालेव
सा
चैवमुदिता
यथा
॥ (
कालभा. 3.49)
मम्मटस्य -
सैषा
संसृष्टिरेतेषां
भेदेन
यदिह
स्थितिः
। (
काप्र. 207)
भेदेन
इति
यथासम्भवमन्योन्य
निरपेक्षतया (
तत्रैव
वृत्तौ)
।
शब्दालङ्कारसंसृष्टिर्यथा -
वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमशोभितशोभया
।
चलितया
विदधे
कलमेखलाकलकलोऽलकलोलदृशान्यया
॥ (
काप्र.
उ. 567)
अर्थालङ्कारसंसृष्टिर्यथा -
लिम्पतीव
तमोऽङ्गानि
वर्षतीवाञ्जनं
नभः
।
असत्पुरुषसेवेव
दृष्टिर्विफलतां
गता
॥ (
काप्र.
उ. 568)
अत्र
पूर्वार्धे
परस्परनिरपेक्षौ
यमकानुप्रासौ,
उत्तरार्धे
च
तथाविधे
एव
उपमोत्प्रेक्षे
संसृÏ
ष्ट
प्रयोजयतः
।
शब्दार्थालङ्कारयोः
संसृष्टिर्यथा -
सो
णत्थि
एत्थ
गामे
जो
एअं
महमहन्तलावण्णं
।
तरुणाण
हिअअलूडिं
परिसक्कन्तीं
णिवारेइ
॥ (
काप्र.
उ. 569)
अत्र
अनुप्रासो
यमकं
चान्योन्यनिरपेक्षे
।
रुय्यकस्तु "
एषां
तिलतण्डुलन्यायेन
मिश्रत्वे
संसृष्टिः" (
अस. 85)
इति
लक्षणं
निरूपयति
।
मम्मटस्येवालङ्कारस्यास्य
त्रैविध्यमप्यनेन
प्रतिपादितम्
।
यथाक्रममेतेषामुदाहरणानि
यथा -
शब्दालङ्कारसंसृष्टिः -
कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया
।
चलितया
विदधे
कलमेखलाकलकलोऽलकलोलदृशान्यया
॥ (
अस. 264)
अर्थालङ्कारसंसृष्टिः -
देवि
क्षपा
गलति
चक्षुरमन्दतारमुन्मीलयाशु
नलिनीव
सभृङ्गमब्जम्
।
एष
त्वदाननरुचेव
विलुण्ठ्यमानः
पश्याम्बरं
त्यजति
निष्प्रतिभः
शशाङ्कः
॥ (
अस. 265)
उभयसंसृष्टिः -
आनन्दमन्थरपुरन्दरमुक्तमाल्यं
मौलौ
हठेन
निहितं
महिषासुरस्य
।
पादाम्बुजं
भवतु
मे
विजयाय
मञ्जुमञ्जीरशिञ्जितमनोहरमम्बिकायाः
॥ (
अस. 267)
69.
सङ्करः -
मम्मटः -
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं
तु
सङ्करः। (
काप्र.
सू. 208)
यत्रैते
अनासादितस्वतन्त्रभावाः
परस्परम्
अनुग्राह्यानुग्राहकतां
दधति,
स
एतेषां
सङ्कीर्यमाणरूपत्वात्
सङ्करः
।
आत्ते
सीमन्तरत्ने
मरकतिनि
हृते
हेमताटङ्कपत्रे
लुप्तायां
मेखलायां
झटिति
मणितुलाकोटियुग्मे
गृहीते
।
शोणं
बिम्बोष्ठकान्त्या
त्वदरिमृगदृशामित्वरीणामरण्ये
राजन्
गुञ्जाफलानां
स्रज
इति
शबरा
नैव
हारं
हरन्ति
॥ (
काप्र.
उ. 570)
अत्र
तद्गुणमपेक्ष्य
भ्रान्तिमता
प्रादुर्भूतम्,
तदाश्रयेण
च
तद्गुणः
प्रभूतचमत्कृतिनिमित्तं
सञ्जात
इति
मम्मटः
वृत्तौ
।
यथा
वा -
जटाभाभिर्भाभिः
करधृतकलङ्काक्षवलयो
वियोगिव्यापत्तेरिव
कलितवैराग्यविशदः
।
परिप्रेङ्खत्तारापरिकरकपालाङ्किततले
शशी
भस्मापाण्डुः
पितृवन
इव
व्योम्नि
चरति
॥ (
काप्र.
उ. 571)
उपमा
रूपकम्
उत्प्रेक्षा
श्लेषश्चेति
चत्वारोऽत्र
अङ्गाङ्गितया
प्रतीयन्ते
।
अयं
शब्दालङ्कारयोरपि
स्यात्,
यथा -
राजति
तटीयमभिहतदानवरासातिपातिसारवनदा
।
गजता
च
यूयमविरतदानवरा
सातिपाति
सारा
वनदा
॥ (
काप्र.
उ. 572)
अत्र
यमकम्
अनुलोमप्रतिलोमश्च
चित्रभेदः
पादद्वयगते
परस्परापेक्षे
।
अन्यच्च -
एकस्य
च
ग्रहे
न्यायदोषाभावादनिश्चयः
। (
काप्र.
सू. 209)
अयं
निश्चयाभावरूपः
द्वितीयः
सङ्करः
।
यथा -
जह
गहिरो
जह
रअणणिब्भरो
जहअ
णिम्मलच्छाओ
।
तह
किं
विहिणा
एसो
सरसवाणीओ
जलणिही
ण
किओ
॥
अत्र
समासोक्तिः,
अथवा
अप्रस्तुतप्रशंसा
इति
सन्देहः
।
यथा
वा -
नयनानन्ददायीन्दोर्बिम्बमेतत्
प्रसीदति
।
अधुनापि
निरुद्धाशमविशीर्णमिदं
तमः
॥ (
काप्र.
उ. 574)
अत्र
पर्यायोक्तमतिशयोक्तिर्वा
रूपकं
दीपकं
तुल्ययोगिता
समासोक्तिरप्रस्तुतप्रशंसा
वेति
सन्देहः
।
स्फुटमेकत्र
विषये
शब्दार्थालङ्कृतिद्वयम्
।
व्यवस्थितं
च (
काप्र.
सू. 210)
अभिन्ने
एव
पदे
शब्दार्थालङ्कारौ
व्यवस्थां
यत्र
समासादयतः,
स
अपरः
सङ्करः
।
यथा -
स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो
दिवसारविन्दम्
।
श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावलि
सङ्चुकोच
॥ (
काप्र.
उ. 579)
अनुग्राह्यानुग्राहकतया,
सन्देहेन,
एकपदप्रतिपाद्यतया
च
व्यवस्थापनात्
।
रुय्यकस्य
यथा -
क्षीरनीरन्यायेन
तु
सङ्करः
॥ (
अस. 86)
अनुत्कटभेदत्वमिश्रत्वं
सङ्करः
।
तच्च
मिश्रत्वमङ्गाङ्गिभावेन,
संशयेन,
एकवाचकानुप्रवेशेन
च
त्रिधा
।
क्रमेण
यथा -
अङ्गुलीभिरिव
केशसंचयं
संनियम्य
तिमिरं
मरीचिभिः
।
कुड्मलीकृतसरोजलोचनं
चुम्बतीव
रजनीमुखं
शशी
॥ (
अस. 268)
यः
कौमारहरः
स
एव
हि
वरस्ता
एव
चैत्रक्षपा-
स्ते
चोन्मीलितमालतीसुरभयः
प्रौढाः
कदम्बानिलाः
।
सा
चैवास्मि
तथापि
तत्र
सुरतव्यापारलीलाविधौ
रेवारोधसि
वेतसीतरुतले
चेतः
समुत्कण्ठते
॥ (
अस. 271)
मुरारिनिर्गता
नूनं
नरकप्रतिपन्थिनी
।
तवापि
मूÐ
ध्न
गङ्गेव
चक्रधारा
पतिष्यति
॥ (
अस. 276)
70.
वास्तवम् -
रुद्रटेन -
वास्तवमिति
तज्ज्ञेयं
क्रियते
वस्तुरूपकथनं
यत्
।
पुष्टार्थमविपरीतं
निरुपममनतिशयमश्लेषम्
॥ (
कालरु. 7.10)
तस्य
सहोक्तिसमुच्चयजातियथासङ्ख्यभावपर्यायाः
।
विषमानुमानदीपकपरिकरपरिवृत्तिपरिसङ्ख्याः
॥ (
कालरु. 7.11)
हेतुः
कारणमाला
व्यतिरेकोऽन्योन्यमुत्तरं
सारम्
।
सूक्ष्मं
लेशोऽवसरो
मीलितमेकावली
भेदाः
॥ (
कालरु. 7.12)
71.
भावः -
रुद्रटमतेन -
यस्य
विकारः
प्रभवन्नप्रतिबद्धेन
हेतुना
येन
।
गमयति
तदभिप्रायं
तत्
प्रतिबन्धं
च
भावोऽसौ
॥ (
कालरु. 7.38)
ग्रामतरुणं
तरुण्या
नववञ्जुलमञ्जरीसनाथकरम्
।
पश्यन्त्या
भवति
मुहुर्नितरां
मलिना
मुखच्छाया
॥ (
कालरु. 7.39)
मम्मटेनेदमुदाहरणं
मध्यमकाव्यस्य (
गुणीभूतव्यङ्ग्यस्य)
कृत्वा
दत्तम्
।
प्रकारान्तरेण
भावः -
अभिधेयमभिदधानं
तदेव
तदसदृशसकलगुणदोषम्
।
अर्थान्तरमवगमयति
यद्वाक्यं
सोऽपरो
भावः
॥ (
कालरु. 7.40)
उदाहरणम् -
एकाकिनी
यदबला
तरुणी
तथाहमस्मिन्
गृहे
गृहपतिश्च
गतो
विदेशम्
।
किं
याचसे
तदिह
वासमियं
वराकी
श्वश्रूर्ममान्धबधिरा
ननु
मूढ
पान्थ
॥ (
कालरु. 7.40)
वाग्भटप्रथमस्तु -
यत्र
प्रतीयमानोऽर्थो
वाच्योपयोगी
स
भाव
इति
लक्षणमाह
।
(
कानु.
पृ.44)
उदाहरणमसौ
ग्रामतरुणं
तरुण्या -
इत्येव
प्रस्तौति
।
72.
मतम् -
रुद्रटेन -
तन्मतमिति
यत्रोक्त्वा
वक्तान्यमतेन
सिद्धमुपमेयम्
।
ब्रूयादथोपमानं
तथा
विशिष्टं
स्वमतसिद्धम्
॥ (
कालरु. 8.69)
मदिरामदभरपाटलमलिकुलनीलालकालिधम्मिल्लम्
।
तरुणीमुखमिति
यदिदं
कथयति
लोकः
समस्तोऽयम्
॥ (
कालरु. 8.70)
उदाहरणम् -
मन्येऽहमिन्दुरेषः
स्फुटमुदयेऽरुणरुचिः
स्थितैः
पश्चात्
।
उदयगिरी
छद्मपरैर्निशातमोभिर्गृहीत
इव
॥ (
कालरु. 8.71)
वाग्भटप्रतमस्तु -
प्रकृतमुत्क्षिप्य
वक्ता
यदन्यथा
मन्यते
तन्मतम्
। (
कानु.
पृ.44)
उदा. -
यदेतत्
कन्यानामुरसि
तरुणीसङ्गसमये
कृतोद्भेदं
किञ्चित्
पुलकमिदमाहुः
किल
जनाः
।
मतिस्त्वेषास्माकं
कुचयुगतटीचुम्बनशिला
समावेषाकृष्टस्मरशरशलाकोत्कर
इव
॥ (
कानु.
पृ.44)
मम्मटादिनिरूपितायामपह्नुतौ
अस्यान्तर्भावः
कर्तुं
शक्यते
।
73.
पूर्वम् -
भामह-
दण्डि-
मम्मटादिभिर्नायमलङ्कारो
निरूपितः
।
रुद्रटस्य -
यत्रैकविधावर्थौ
जायेते
यौ
तयोरपूर्वस्य
।
अभिधानं
प्राग्भवतः
सतोऽभिधीयेत
तत्
पूर्वम्
॥ (
कालरु. 8.97)
काले
जलदकुलाकुलदशदिशि
पूर्वं
वियोगिनीवदनम्
।
गलदविरलसलिलभरं
पश्चादुपजायते
गगनम्
॥ (
कालरु. 8.98)
रुद्रटेनातिशयमूलकालङ्कारेष्वपि
पृथक्तया
अयं
निरूपितः
।
यत्रातिप्रबलतया
विवक्ष्यते
पूर्वमेव
जन्यस्य
।
प्रादुर्भावः
पश्चाज्जनकस्य
तु
तद्
भवेत्पूर्वम्
॥ (
कालरु. 9.3)
जन्मसुलभमभिलषतामादौ
दन्दह्यते
मनो
यूनाम्
।
गुरुरनिवारप्रसरः
पश्चान्मदनानलो
ज्वलति
॥ (
कालरु. 9.4)
मम्मटमतेनायमतिशयोक्तेः
कारणकार्यभावविपर्ययरूपाया
एव
भेदः
।
अर्वाचीनस्यार्थस्य
पृथगभिधानं
पूर्वम्
इति
वाग्भटप्रथमस्य
लक्षणम्
।
भवभूतेः
पद्यमिदमनेनोदाहृतम् -
हृदयमधिष्ठितमादौ
मालत्याः
कुसुमचापबाणेन
।
चरमं
रमणीवल्लभलोचनविषयं
त्वया
भजता
॥ (
कानु.
पृ.43)
74.
साम्यम् -
वामन-
मम्मटादिभिरेतन्नामा
अलङ्कारो
नैव
निरूपितः
।
रुद्रटेऽस्य
लक्षणम् -
अर्थक्रियया
यस्मिन्नुपमानस्यैति
साम्यमुपमेयम्
।
तत्सामान्यगुणमधिककारणया
तद्भवेत्साम्यम्
॥ (
कालरु. 8.105)
अभिसर
रमणं
किमिमां
दिशमैन्द्रीमाकुलं
विलोकयसि
।
शशिनः
करोति
कार्यं
सकलं
मुखमेव
ते
मुग्धे
॥ (
कालरु. 8.106)
सर्वाकारं
यस्मिन्नुभयोरभिधातुमन्यथा
साम्यम्
।
उपमेयोत्कर्षकरं
कुर्वीत
विशेषमन्यत्तत्
॥ (
कालरु. 8.107)
मृगं
मृगाङ्कः
सहजं
कलङ्कं
विभर्ति
तस्यास्तु
मुखं
कदाचित्
।
आहार्यमेवं
मृगनाभिपत्रमियानशेषेण
तयोर्विशेषः
॥ (
कालरु. 8.108)
75.
पिहितम् -
भामह-
दण्डि-
वामन-
मम्मट-
प्रभृतिभिर्नेदं
स्वीकृतम्
।
रुद्रटमतेन -
यत्रातिप्रबलतया
गुणः
समानाधिकरणमसमानम्
।
अर्थान्तरं
पिदध्यादाविर्भूतमपि
तत्पिहितम्
॥ (
कालरु. 9.50)
प्रियतमवियोगजनिता
कृशता
कथमिव
तवेयमङ्गेषु
।
लसदिन्दुकलाकोमलकान्तिकलापेषु
लक्ष्येत
॥ (
कालरु. 9.51)
एकत्राधारे
यत्राधेयद्वयस्यैकेनैकं
पिधीयते,
तत्
पिहितम्
।
इति
वाग्भटप्रथमस्य
लक्षणम्
।
अनन्तरत्नप्रभवस्य
यस्य
हिमं
न
सौभाग्यविलोपि
जातम्
।
एको
हि
दोषो
गुणसन्निपाते
निमज्जतीन्दोः
किरणेष्विवाङ्कः
॥
इति
कलिदासीयं
हिमालयवर्णनमसौ
उदाहरति
। (
कानु.
पृ.43)
76.
परिणामः -
रुय्यकोऽस्याविर्भावयितेति
प्रतीयते,
ततः
प्राक्
भामह-
दण्डि-
वामन-
कुन्तकादिषु
अस्य
अनिरूपितत्वात्
।
परवर्तिषु
शोभाकर-
जयदेव-
विद्यानाथ-
विद्याधर-
विश्वनाथाप्पयदीक्षित-
पण्डितराज-
प्रभृतिभिरयं
निरूपितः
।
रूपक
इव
अस्मिन्नपि
प्रकृते
अप्रकृतस्य
आरोपो
भवति
।
रूपके
रूपारोपः,
परिणामे
तु
कार्यारोप
इति
भेदः
।
रुय्यक-
विश्वनाथ-
पण्डितराजाप्पयदीक्षितानां
मतेन
अत्र
आरोप्यमाणस्य
प्रकृतरूपेण
परिणमनं,
विद्यानाथादीनां
च
मतेन
आरोप्यमाणस्य
अवस्थान्तरप्राप्तिश्च
स्वीक्रियते
।
आरोप्यमाणस्य
प्रकृतोपयोगित्वे
परिणामः
॥ (
अस. 16)
तस्य
सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्
द्वैविध्यम्
।
आद्यो
यथा -
तीत्र्वा
भूतेशमौलिस्रजममरधुनीमात्मनासौ
तृतीय-
स्तस्मै
सौमित्रिमैत्रीमयमुपहृतवानातरं
नाविकाय
।
व्यामग्राह्यस्तनीभिः
शबरयुवतिभिः
कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानस्त्वरितमथ
गिरिं
चित्रकूटं
प्रतस्थे
॥ (
अस. 32)
द्वितीयो
यथा -
अथ
पक्त्रिमतामुपेयिवद्भिः
सरसैर्वक्त्रपथाश्रितैर्वचोभिः
।
क्षितिभर्तुरुपायनं
चकार
प्रथमं
तत्परतस्तुरंगमाद्यैः
॥ (
अस. 33)
जयदेवस्तु -
परिणामोऽनयोर्यस्मिन्नभेदः
पर्यवस्यति
।
कान्तेन
पृष्टा
रहसि
मौनमेवोत्तरं
ददौ
॥ (
चन्द्रा. 5.22)
विश्वनाथोऽप्येवमेव
लक्षयति -
विषयात्मतया
रोप्ये
प्रकृतार्थोपयोगिनि
।
परिणामो
भवेत्
तुल्यातुल्याधिकरणो
द्विधा
॥ (
साद. 10.34)
उदा. -
स्मितेनोपायनं
दूरादागतस्य
कृतं
मम
।
स्तनोपपीडमाश्लेषः
कृतो
द्यूते
पणस्तया
॥ (
तत्रैव
वृत्तौ)
अत्र
प्रथमार्धे
वैयधिकरण्येन,
द्वितीयार्धे
च
सामानाधिकरण्येन
प्रयोगः
।
रूपके
उपरञ्जकतामात्रम्,
अत्र
तु
प्रकृते
उपयोगोऽपीति
विशेषः
।
रूपकवदयमपि
अधिकारूढवैशिष्ट्योऽलक्षि
विश्वनाथेन
।
तस्योदाहरणं
च
कालिदासीयं
पद्यमिदं
प्रदत्तम् -
वनेचराणां
वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः
।
भवन्ति
यत्रौषधयो
रजन्यामतैलपूराः
सुरतप्रदीपाः
॥
धर्मसूरिमतेनास्य
लक्षणम् -
आरोप्य
मूत्र्या
विषयः
परिणामं
भजेद्यदि
।
प्रकृतार्थोपयोगाय
परिणामः
स
तु
द्विधा
॥ (
सार.
पृ.543-44)
अयं
च
सामानाधिकरण्य-
वैयधिकरण्याभ्यां
द्वेधा
विभाजितो
धर्मसूरिणा
।
आद्यस्योदाहरणम् -
बोधाय
विबुधलक्ष्म्या
नष्टाया
दशमुखादिदष्टायाः
।
भवतो
गारुडमन्त्रा
विजयन्ते
राम
चापटङ्काराः
॥ (
सार.
पृ.544)
चापटङ्कारैरिति
पाठादयमेव
वैयधिकरण्यस्योदाहरणम्
।
77.
उल्लेखः -
अस्याप्यलङ्कारस्याविर्भावको
रुय्यक
एव
प्रतीयते
।
आमुनेरा
मम्मटादस्यानुल्लेखात्
।
परवर्तिषु
हेमचन्द्र-
वाग्भटद्वितीय-
शौद्धोधनि-
केशवमिश्रादिभिरपि
नायमुल्लेख
उल्लिखितः
।
धर्मसूरि-
शोभाकर-
जयदेव-
विद्यानाथ-
विश्वनाथाप्पयदीक्षित-
नरसिंहकवि-
नरेन्द्रप्रभसूरिभिरयं
निरूपितः
।
रुय्यकस्य
यथा -
एकस्यापि
निमित्तवशादनेकधा
ग्रहणमुल्लेखः
। (
अस. 19)
उदा. -
यथारुचि
यथार्थित्वं
यथाव्युत्पत्ति
भिद्यते
।
आभासोऽप्यर्थ
एकस्मिन्ननुसंधानसाधिते
॥ (
अस. 40)
बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता
मता
।
स्त्रीभिः
कामः
प्रियैश्चन्द्रः
कालः
शत्रुभिरैक्षि
सः
॥ (
चन्द्रा. 5.23)
विश्वनाथेनायमित्थमलक्षि -
क्वचिद्
भेदाद्
ग्रहीतॄणां
विषयाणां
तथा
क्वचित्
।
एकस्यानेकधोल्लेखो
यः
स
उल्लेख
उच्यते
॥ (
साद. 10.37)
ज्ञातृभेदनिबन्धनं
यथा -
प्रियतम
इति
गोपवधूभिः
शिशुरिति
वृद्धैरधीश
इति
देवैः
।
नारायण
इति
भक्तैब्र्रह्मेत्यग्राहि
योगिभिर्देवः
॥ (
तत्रैव
वृत्तौ)
अत्र
भगवतः
प्रियत्वादीनां
वास्तवत्वाद्
ग्रहीतृभेदाच्च
न
मालारूपकम्,
न
च
भ्रान्तिमान्,
न
चायमभेदे
भेद
इति
रूपातिशयोक्तिः
।
विषयभेदनिबन्धन
उल्लेखो
यथा -
गाम्भीर्येण
समुद्रोऽसि
गौरवेणासि
पर्वतः
॥ (
तत्रैव
वृत्तौ)
धर्मसूरेर्लक्षणम् - -
78.
प्रश्नोत्तरिका -
अलङ्कारोऽयं
भोज-
द्वितीयवाग्भट-
विद्याधर-
धर्मसूरिभिः
प्रतिपादितः
।
भोजस्त्वेनं
वाकोवाक्यमिति
संज्ञपयति
प्रश्नोत्तरमिति
वाग्भटः
प्रश्नोत्तरिकेति
धर्मसूरि-
विद्याधरौ
॥
भोजनिर्दिष्टं
वाकोवाक्यमिति
नामान्तरं
विद्याधरो
विकल्पयति
।
प्रश्नोत्तरद्वारेण
चमत्कारापादनम्,
प्रश्न
एवोत्तरनिबन्धनम्
इति
सामान्यमस्य
लक्षणं
सर्वे
स्वीकुर्वन्ति
।
जयदेवस्य
यथा -
प्रश्नोत्तरं
क्रमेणोक्तौ
स्यूतमुत्तरमुत्तरम्
।
यत्रासौ
वेतसी
पान्थ
तत्रासौ
सुतरा
सरित्
॥ (
चन्द्रा. 5.108)
धर्मसूरेर्लक्षणं
यथा -
मिश्रश्चमत्क्रियालापो
यः
प्रश्नोत्तरिकेति
सा
। (
सार.
पृ.706)
समुदायादुत्कृष्टोत्कृष्टनिर्धारणं
सारमिति
वाग्भटप्रथमः
। (
काव्यानु.
पृ.42)
79.
अर्थापत्तिः -
भोजोऽस्यालङ्कारस्याविर्भावकः
प्रतीयते
।
अप्पयदीक्षित-
नरसिंहप्रभृतयोऽर्थापत्तौ
कैमुतिकन्यायमपेक्षन्ते,
विश्वनाथः,
तमनुरुन्धानो
धर्मसूरिश्च
लक्षणे
दण्डापूपिकन्यायं
प्रदर्शयतः
।
विश्वनाथस्य
लक्षणम् -
दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते
। (
साद. 10.83)
विश्वनाथ
एनं
द्विधा
विभाजयति -
प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनमिति
प्रथमः,
अप्राकरणिकाच्च
प्राकरणिकस्येति
द्वितीयो
भेदः
।
उभयोरुदाहरणानि -
हारोऽयं
हरिणाक्षीणां
लुठति
स्तनमण्डले
।
मुक्तानामप्यवस्थेयं
के
वयं
स्मरकिङ्कराः
॥ (
तत्रैव
वृत्तौ)
विललाप
सबाष्पगद्गदं
सहजामप्यपहाय
धीरताम्
।
अतितप्तमयोऽपि
मार्दवं
भजते
कैव
कथा
शरीरिषु
॥ (
तत्रैव
वृत्तौ)
(
द्वितीयं
पद्यं
कालिदासीय-
रघुवंशेऽजविलापप्रसङ्गस्य
।
अभितप्तमयोऽपि-
इति
तत्र
पाठः)
धर्मसूरिस्तु
इह
कैमुतिकन्यायमप्युल्लिखति
।
तल्लक्षणं
यथा -
कÏ
स्मश्चिदर्थे
निष्पन्ने
यद्यर्थान्तरमापतेत्
।
दण्डापूपनयेनार्थापत्तिस्तत्र
ह्यलङ्कृतिः
॥ (
सार.
पृ.657)
भोजेन
षड्विधेयं
परिकल्पिता,
रुय्यक-
विद्यानाथ-
विश्वनाथ-
धर्मसूरयः
द्वैविध्यमस्या
ऊरीकुर्वन्ति
।
पण्डितराजः
पुनश्चतुर्विंशतिर्भेदानस्याः
प्रत्यपादयत्
।
रुय्यकस्य
यथा -
दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः
। (
अस. 64)
अलङ्कारस्यास्य
द्वैविध्यमनेन
स्वीकृतम्
।
प्राकरणिकादप्राकरणिकस्यार्थस्यापतनमेकः
प्रकारः
।
अप्राकरणिकात्प्राकरणिकस्यार्थापतनं
द्वितीयः
।
आद्यो
यथा -
पशुपतिरपि
तान्यहानि
कृच्छ्रादगमयदद्रिसुतासमागमोत्कः
।
कमपरमवशं
न
विप्रकुर्युर्विभुमपि
तं
यदमी
स्पृशन्ति
भावाः
॥ (
अस. 213)
द्वितीयो
यथा -
धृतधनुषि
बाहुशालिनि
शैला
न
नमन्ति
यत्तदाश्चर्यम्
।
रिपुसंज्ञकेषु
गणना
कैव
वराकेषु
काकेषु
॥ (
अस. 214)
अर्थापत्तिः
स्वयं
सिध्येत्
पदार्थान्तरवर्णनम्
।
स
जितस्त्वन्मुखेनेन्दुः
का
वात्र्ता
सरसीरुहाम्
॥ (
चन्द्रा. 5.37)
80.
अनुकल्पः -
अलङ्कारोऽयं
धर्मसूरेः
प्राङ्
न
कुत्राप्युल्लिखितो
दृश्यते
।
अनुकल्पस्तु
गौणोक्तिर्मुख्योक्तिसमनन्तरम्
। (
सार.
पृ.721)
उदा. -
श्लाघ्यः
कोदण्डविद्यायां
राघवो
रावणोऽपि
वा
।
यथा
ध्वान्तहृतौ
दक्षस्तपनो
दहनोऽथवा
।
। (
तत्रैव
वृत्तौ)
तुल्यबलत्वे
विकल्पः,
प्रधानापेक्षया
तदितरमुख्यासम्भावनया
गौणाभिधाने
विकल्प
इत्यनयोर्भेदः
।
81.
समीहितम् -
वाग्भटप्रथमेनायमलङ्कारो
निरूपितः
।
कार्यमारभमाणस्य
दैवादुपायसम्पत्तिः
समीहितम्
।
मनस्विनी
वल्लभवेश्म
गन्तुमुत्कण्ठिता
यावदभून्निशायाम्
।
तावन्नवाम्भोधरधीरनादप्रबोधितः
सौधशिखी
चुकूज
॥ (
कानु.
पृ.42)
82.
उभयन्यासः -
वाग्भटप्रथमः -
सामान्यं
सामान्येन
यत्
समथ्र्यते
स
उभयन्यासः
। (
कानु.
पृ.44)
उदा. -
आपत्समुद्धरणधीरधियः
परेषां
जाता
महत्यपि
कुले
न
भवन्ति
सर्वे
।
विन्ध्याटवीषु
विरलाः
खलु
पादपास्ते
ये
दन्तिदन्तमुशलोल्लिखितं
सहन्ते
॥ (
कानु.
पृ.44)
83.
अनुकूलम् -
विश्वनाथः -
अनुकूलं
प्रातिकूल्यमनुकूलानुबन्धि
चेत्
। (
साद. 10.64)
उदा. -
कुपितासि
यदा
तन्वि
निधाय
करजक्षतम्
।
बधान
भुजपाशाभ्यां
कण्ठमस्य
दृढं
तदा
॥ (
तत्रैव
वृत्तौ)
84.
विचित्रम् -
रुय्यकस्य -
स्वविपरीतफलनिष्पत्तये
प्रयत्नो
विचित्रम्
। (
अस. 47)
उदा. -
घेत्तुं
मुञ्चइ
अहरो
अण्णन्तो
वलइ
पेक्खिउं
दिट्ठी
।
घडिदुं
विहडंति
भुआ
रआअ
सुरअम्भि
वीसामो
॥ (
अस. 177)
जयदेवस्तु -
विचित्रं
चेत्
प्रयत्नः
स्याद्
विपरीतफलप्रदः
।
नमन्ति
सन्तस्त्रैलोक्यादपि
लब्धुं
समुन्नतिम्
॥ (
चन्द्रा. 5.82)
विचित्रं
तद्
विरुद्धस्य
कृतिरिष्टफलाय
चेत्
। (
साद. 10.71)
उदा. -
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति
प्राणान्
।
दुःखीयति
सुखहेतोः
को
मूढः
सेवकादन्यः
॥ (
तत्रैव
वृत्तौ)
85.
विकल्पः -
रुय्यकमतेन -
तुल्यबलविरोधो
विकल्पः
। (
अस. 65)
उदा. -
भक्तिप्रह्वविलोकनप्रणयिनी
नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां
समाधिनिरतैर्नीते
हितप्राप्तये
।
लावण्यस्य
महानिधी
रसिकतां
लक्ष्मीदृशोस्तन्वती
युष्माकं
कुरुतां
भवार्तिशमनं
नेत्रे
तनुर्वा
हरेः
॥ (
अस. 216)
जयदेवस्तु -
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः
।
कान्ताचित्तेऽधरे
वापि
कुरु
त्वं
वीतरागताम्
॥ (
चन्द्रा. 5.96)
विस्वनाथः -
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः
। (
साद. 10.83)
उदा. -
नमयन्तु
शिरांसि
धनूंषि
वा
कर्णपूरीक्रियतामाज्ञा
मौव्र्यो
वा
।
(
अत्र
शिरसां
धनुषां
च
नमनयोः
सन्धि
विग्रहोपलक्षणत्वात्
विरोधः )
]