आङ्ग्लानुवादो ऽत्र ।
मङ्गलाचरणम्
श्रीमदप्पयदीक्षितविरचितः कुवलयानन्दः॥
॥श्री गणेशाय नमः॥
अमरी-कबरी-भार-
भ्रमरी-मुखरी-कृतम।
दूरी-करोतु दुरितं
गौरी-चरण-पङ्कजम्॥१॥ +++(5)+++
परस्पर-तपः-सम्पत्-
फलायित-परस्परौ।
प्रपञ्च-माता-पितरौ
प्राञ्चौ जाया-पती स्तुमः॥२॥ +++(5)+++
उद्घाट्य योग-कलया हृदयाब्ज-कोशं
धन्यैश् चिराद् अपि यथा-रुचि गृह्यमाणः।
यः प्रस्फुरत्य् अविरतं परि-पूर्ण-रूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः॥३॥
प्रतिज्ञा
अलङ्कारेषु बालानाम्
अवगाहन-सिद्धये।
ललितः क्रियते तेषां
लक्ष्य-लक्षण-सङ्ग्रहः॥४॥
येषां चन्द्रालोके
दृश्यन्ते लक्ष्य-लक्षण-श्लोकाः।
प्रायस् त एव तेषाम्
इतरेषां त्व् अभिनवा विरच्यन्ते॥५॥
०१. उपमालङ्कारः
उपमा यत्र सादृश्य-
लक्ष्मीरुल्लसति द्वयोः।
हंसीव कृष्ण ! ते कीर्तिः
स्वर्गङ्गाम् अवगाहते॥६॥ +++(5)+++
अङ्गविवरणम्
यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारु सादृश्यम् उद्भूततयोल्लसति - व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते, तत्रोपमालङ्कारः ।
हंसीवेत्य् उदाहरणम् । इयं च पूर्णोपमेत्य् उच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनम् इवशब्दश् चेति +एषाम् उपामानोपमेय-साधारण-धर्मोपमावाचाकानां चतुर्णामप्युपादानात् ।
उदाहरणान्तरम्
यथा वा -
गुण-दोषौ बुधो गृह्णन्न्
इन्दु-क्ष्वेडाव् इवेश्वरः ।
शिरसा श्लाघते पूर्वं
परं कण्ठे नियच्छति ॥ +++(5)+++
अत्र यद्युप्युपमानोपमेययोर्नैकः साधारणो धर्मः ।
उपमाने ईश्वरे चन्द्रगरलयोर् ग्रहणमुपादानं,
तयोर्मध्ये पूर्वस्य चन्द्रस्य श्लाघनं वहनम्,
उत्तरस्य गरलस्य कण्ठे नियमनं संस्थापनम् ।
उपमेये बुधे गुणदोषयोर्ग्रहणं ज्ञानं,
तयोर् मध्ये पूर्वस्य शिरसा श्लाघानं शिरःकम्पेन अभिनन्दनम्,
उत्तरस्य दोषस्य कण्ठे नियमनं काण्ठादुपरि वाचनादनुद्घाटनम् इति भेदात् +++(वचनम्)+++।
तथापि चन्द्रगरलयोर् गुणदोषयोश् च बिम्बप्रतिबिम्बभावेनाभेदात्,
उपादानज्ञानादीनां गृह्णन्निति एकशब्दोपादानेन अभेदाध्यवसायाच्च साधारणधर्मतेति पूर्ववद् विशेषः ।
वस्तुतो भिन्नयोरपि उपमानोपमेय-धर्मयोः परस्परसादृश्याद् अभिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः इति आलङ्कारिकसमयः ।
लुप्तोपमाः
वर्ण्योपमान-धर्माणाम्
उपमा-वाचकस्य च।
एक-द्वि-त्र्य्-अनुपादानैर्
भिन्ना लुप्तोपमा ऽष्टधा॥७॥ +++(२^३!)+++
उदाहरणानि
तडिद्-गौरीन्दुतुल्यास्या
+++(वाचकलुप्ता धर्मलुप्ता)+++
कर्पूरन्ती दृशोर् मम।
+++(धर्मवाचकलुप्ता)+++
कान्त्या स्मर-वधूयन्ती
+++(वाचकोपमेय-लुप्ता)+++
दृष्टा तन्वी रहो मया॥८॥ +++(5)+++
यत् तया मेलनं तत्र
लाभो मे यश् च तद्-रतेः।
तद् एतत् काक-तालीयम्
अवितर्कित-संभवम्॥९॥ +++(3)+++
+++(ताल-पत्त्र-पतनम् इति उपानम् अनुक्तम्।)+++
०२. अनन्वयालङ्कारः
उपमानोपमेयत्वं
यद् एकस्यैव वस्तुनः।
इन्दुर् इन्दुरिव श्रीमान्
इत्यादौ तद् अनन्वयः॥१०॥ +++(5)+++
०३. उपमेयोपमालङ्कारः
पर्यायेण द्वयोस् तच् चेद्
उपमेयोपमा मता।
धर्मोऽर्थ इव पूर्णश्रीर्
अर्थो धर्म इव त्वयि॥११॥ +++(5)+++
०४. प्रतीपालङ्कारः
प्रतीपम् उपमानस्योपमेयत्व-प्रकल्पनम्।
त्वल्-लोचन-समं पद्मं, त्वद्-वक्त्र-सदृशो विधुः॥१२॥ +++(5)+++
अनादरवचने भेदौ
अन्योपमेय-लाभेन
वर्ण्यस्यानादरश् च तत्।
अलं गर्वेण ते वक्त्र !
कान्त्या चन्द्रोऽपि तादृशः॥१३॥ +++(5)+++
वर्ण्योपमेय-लाभेन
तथान्यस्याप्य् अनादरः।
कः क्रौर्य-दर्पस् ते मृत्यो !
त्वत्-तुल्याः सन्ति हि स्त्रियः॥१४॥ +++(5)+++
उपमानिष्पत्तिः
वर्ण्येनान्यस्योपमाया
अनिष्पत्ति-वचश् च तत्।
मुधापवादो मुग्धाक्षि !
त्वन्-मुखाभं किलाम्बुजम्॥१५॥ +++(5)+++
कैमर्थ्यम्
प्रतीपम् उपमानस्य
कैमर्थ्यम् अपि मन्वते।
दृष्टं चेद् वदनं तस्याः
किं पद्मेन किम् इन्दुना॥१६॥+++(5)+++
०५ रूपकालङ्कारः
विषय्य्+++(=तोलनवस्तु)+++-अभेद-ताद्रूप्य-
रञ्जनं विषयस्य तत्।
रूपकं तत् +++(प्रत्येकं)+++ त्रिधा ऽऽधिक्य-
न्यूनत्वानुभयोक्तिभिः॥१७॥ +++(तेन २*३ प्रभेदाः।)+++
अयं हि धूर्जटिः साक्षाद्
येन दग्धाः पुरः क्षणात् +++(इत्य् अभेद-साम्यम्)+++।
अयम् आस्ते विना शम्भुस्
तार्तीयीकं विलोचनम्॥१८॥+++(5)+++ +++(इत्य् अभिन्न-वर्ण्य-न्यूनत्वम्)+++
शम्भुर् विश्वम् अवत्य् अद्य
स्वीकृत्य समदृष्टिताम्। +++(इत्य् अभिन्न-वर्ण्याधिक्यम्)+++
अस्या मुखेन्दुना लब्धे
नेत्रानन्दे किम् इन्दुना +++(इति ताद्रूप्यसाम्यम्)+++॥१९॥+++(5)+++
+++(उदाहरणे छायाऽस्ति कैमर्थ्य-प्रतीपस्य। )+++
साध्वीयम् अपरा लक्ष्मीर्
असुधा-सागरोदिता। +++(इति तद्रूप-वर्ण्य-न्यूनता)+++
अयं कलङ्किनश् चन्द्रान्
मुख-चन्द्रो ऽतिरिच्यते +++(इति तद्रूप-वर्ण्याधिकयम्)+++॥२०॥+++(5)+++
०६. परिणामालङ्कारः
परिणामः क्रियार्थश् चेद्
विषयी विषयात्मना।
प्रसन्नेन दृग्-अब्जेन
वीक्षते मदिरेक्षणा॥२१॥ +++(3)+++
+++(अब्जेन न सम्भवति वीक्षणम् - तेन, अब्जपरिणामो ऽपेक्षितः।)+++
०७. उल्लेखालङ्कारः
बहुभिर् बहुधोल्लेखाद्
एकस्योल्लेख इष्यते।
स्त्रीभिः कामो ऽर्थिभिः स्वर्द्रुः
कालः शत्रुभिर् ऐक्षि सः॥२२॥+++(5)+++
एकेन बहुधोल्लेखे
ऽप्यसौ विषय-भेदतः +++(यथा श्लेषेण)+++।
गुरुर् वचस्य्, अर्जुनोऽयं
कीर्तौ, भीष्मः शरासने॥२३॥ +++(4)+++
+++(गुरुः, अर्जुनः, भीष्मः इति प्रत्येकस्य अर्थद्वयम् अपि।)+++
०८-१० स्मृति-भ्रान्ति-संदेहालङ्काराः
स्यात् स्मृतिभ्रान्ति-संदेहैस्
तदङ्कालङ्कृति-त्रयम्।
पङ्कजं पश्यतः कान्ता-
मुखं मे गाहते मनः +++(इति स्मृतिः)+++॥२४॥ +++(5)+++
अयं प्रमत्त-मधुपस्
त्वन्-मुखं वेत्ति पङ्कजम् +++(इति भ्रान्तिः)+++। +++(5)+++
पङ्कजं वा सुधांशुर्वेत्य्
अस्माकं तु न निर्णयः +++(इति सन्देहः)+++॥२५॥ +++(5)+++
११. अपह्नुत्यलङ्कारः
शुद्धापह्नुतिर् अन्यस्याऽऽरोपार्थो धर्म-निह्नवः।
नायं सुधांशुः, किं तर्हि? व्योम-गङ्गा-सरोरुहम्॥२६॥ +++(5)+++
प्रभेदाः
स एव युक्तिपूर्वश् चेद्
उच्यते हेत्व्-अपह्नुतिः।
नेन्दुस् तीव्रो न निश्य् अर्कः,
सिन्धोर् और्वो ऽयम् उत्थितः॥२७॥+++(5)+++
अन्यत्र तस्यारोपार्थः
पर्यस्तापह्नुतिस् तु सः।
नायं सुधांशुः, किं तर्हि?
सुधांशुः प्रेयसी-मुखम्॥२८॥+++(5)+++
भ्रान्तापह्नुतिर् अन्यस्य
शङ्कायां भ्रान्तिवारणे।
तापं करोति सोत्कम्पं,
ज्वरः किं? न, सखि ! स्मरः॥२९॥
छेकापह्नुतिरन्यस्य
शङ्कातस् तथ्यनिह्नवे।
प्रजल्पन् मत्पदे लग्नः
कान्तः किं? नहि, नूपुरः॥३०॥
कैतवापह्नुतिर् व्यक्तौ
व्याजाद्यैर्निह्नुतेः पदैः।
निर्यान्ति स्मरनाराचाः+++(=बाणाः)+++
कान्तादृक्पातकैतवात्॥३१॥
१२. उत्प्रेक्षालङ्कारः
संभावना स्यादुत्प्रेक्षा
वस्तुहेतुफलात्मना।
उक्तानुक्तास्पदाद्य् अत्र
सिद्धाऽसिद्धास्पदे परे॥३२॥
उदाहरणानि
धूमस्तोमं तमः शङ्के
कोकीविरहशुष्मणाम्।
लिम्पतीव तमोऽङ्गानि
वर्षतीवाञ्जनं नभः॥३३॥
रक्तौ तवाङ्घ्री मृदुलौ
भुवि विक्षेपणाद् ध्रुरवम्।
त्वन्मुखाभेच्छया नूनं
पद्मैर् वैरायते शशी॥३४॥
मध्यः किं कुचयोर् धृत्यै
बद्धः कनकदामभिः।
प्रायोऽब्जं त्वत्पदेनैक्यं
प्राप्तुं तोये तपस्यति॥३५॥
१३. अतिशयोक्त्यलङ्कारः
रूपकातिशयोक्तिः स्यान्
निगीर्याध्यवसानतः।
पश्य नीलोत्पलद्वन्द्वान्
निःसरन्ति शिताः शराः॥३६॥
यद्यपह्नुतिगर्भत्वं
सैव सापह्नवा मता।
त्वत्सूक्तिषु सुधा राजन्
भ्रान्ताः पश्यन्ति तां विधौ॥३७॥
भेदकातिशयोक्तिस्तु तस्यै-
-वान्यत्ववर्णनम्।
अन्यद् एवास्य गाम्भीर्यम्
अन्यद्धैर्यं महीपतेः॥३८॥
संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम्।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्॥३९॥
योगेऽप्ययोगोऽसंबन्धा-
-तिशयोक्तिरितीर्यते।
त्वयि दातरि राजेन्द्र !
स्वर्द्रुमान्नाद्रियामहे॥४०॥
अक्रमातिशयोक्तिः स्यात्
सहत्वे हेतुकार्ययोः।
आलिङ्गन्ति समं देव !
ज्यां शराश्च पराश्च ते॥४१॥
चपलातिशयोक्तिस्तु
कार्ये हेतुप्रसक्तिजे।
यास्यामीत्युदिते तन्व्या
वलयोऽभवदूर्मिका+++(=अङ्गुलीयकम्)+++॥४२॥
अत्यन्तातिशयोक्तिस्तु
पौर्वापर्य-व्यतिक्रमे।
अग्रे मानो गतः पश्चाद्
अनुनीता प्रियेण सा॥४३॥
१४. तुल्ययोगितालङ्कारः
वर्ण्यानामितरेषां वा
धर्मैक्यं तुल्ययोगिता।
सङ्कुचन्ति सरोजानि
स्वैरिणीवदनानि च॥४४॥
त्वदङ्गमार्दवे दृष्टे
कस्य चित्ते न भासते।
मालती-शशभृल्लेखा-
-कदलीनां कठोरता॥४५॥
हिताहिते वृत्तितौल्यम्
अपरा तुल्ययोगिता।
प्रदीयते पराभूतिर्
मित्रशत्रवयोस् त्वया॥४६॥
गुणोत्कृष्टैः समीकृत्य
वचोऽन्या तुल्ययोगिता।
लोकपालो यमः पाशी
श्रीदः शक्रो भवानपि॥४७॥
१५. दीपकालङ्कारः
वदन्ति वर्ण्यावर्ण्यानां
धर्मैक्यं दीपकं बुधाः।
मदेन भाति कलभः
प्रतापेन महीपतिः॥४८॥
१६. आवृत्तिदीपकालङ्कारः
त्रिविधं दीपकावृत्तौ
भवेदावृत्तिदीपकम्।
वर्षत्यम्बुदमालेयं
वर्षत्येषा च शर्बरी।४९॥
उन्मीलन्ति कदम्बानि
स्फुटन्ति कुटजो+++(=वृक्षविशेषो)+++द्गमाः।
माद्यन्ति चातकास्तृप्ता
माद्यन्ति च शिखावलाः॥५०॥
१७. प्रतिवस्तूपमालङ्कारः
वाक्ययोर् एकसामान्ये
प्रतिवस्तूपमा मता।
तापेन भ्राजते सूरः
शूरश्चापेन राजते॥५१॥
१८. दृष्टान्तालङ्कारः
चेद् बिम्बप्रतिबिम्बत्वं
दृष्टान्तस् तदलङ्कृतिः।
त्वमेव कीर्तिमान् राजन् !
विधुरेव हि कान्तिमान्॥५२॥
१९. निदर्शनालङ्कारः
वाक्यार्थयोः सदृशयोर्
ऐक्यारोपो निदर्शना।
यद्दातुः सौम्यता सेयं
पूर्णेन्दोरकलङ्कता॥५३॥
पदार्थवृत्तिम् अप्येके
वदन्त्यन्यां निदर्शनाम्।
त्वन्नेत्रयुगलं धत्ते
लीलां नीलाम्बुजन्मनोः॥५४॥
अपरां बोधनं प्राहुः
क्रियया ऽसत्सदर्थयोः।
नश्येद् राजविरोधीति
क्षीणं चन्द्रोदये तमः॥५५॥
उदयन्नेव सविता
पद्मेष्वर्पयति श्रियम्।
विभावयन् समृद्धीनां
फलं सुहृदनुग्रहः +++(इति)+++॥५६॥
२०. व्यतिरेकालङ्कारः
व्यतिरेको विशेषश्चेद्
उपमानोपमेययोः।
शैला इवोन्नताः सन्तः
किन्तु प्रकृतिकोमलाः॥५७॥
२१. सहोक्त्यलङ्कारः
सहोक्तिः सहभावश्चेद्
भासते जनरञ्जनः।
दिगन्तमगमत् तस्य
कीर्तिः प्रत्यर्थिभिः सह॥५८॥
२२. विनोक्त्यलङ्कारः
विनोक्तिश्चेद्विना किञ्चित्
प्रस्तुतं हीनमुच्यते।
विद्या हृद्यापि सा ऽवद्या
विना विनयसंपदम्॥५९॥
तच् चेत् किञ्चिद् विना रम्यं
विनोक्तिः सापि कथ्यते।
विना खलैर् विभात्येषा
राजेन्द्र ! भवतः सभा॥६०॥
२३. समासोक्त्यलङ्कारः
समासोक्तिः परिस्फूर्तिः
प्रस्तुते ऽप्रस्तुतस्य चेत्।
अयमैन्द्रीमुखं पश्य
रक्तश् चुम्बति चन्द्रमाः॥६१॥
२४. परिकरालङ्कारः
अलङ्कारः परिकरः
साभिप्राये विशेषणे।
सुधांशुकलितोत्तंसस्
तापं हरतु वः शिवः॥६२॥
२५. परिकराङ्कुरालङ्कारः
साभिप्राये विशेष्ये तु
भवेत् परिकराङ्कुरः।
चतुर्णां पुरुषार्थानां
दाता देवश् चतुर्भुजः॥६३॥
२६. श्लेषालङ्कारः
नानार्थसंश्रयः श्लेषो
वर्ण्यावर्ण्योभयाश्रितः।
सर्वदो माधवः+++(उमाधवो वा शिवपक्षे)+++ पायात्
स यो ऽगं+++(=गोवर्धनगिरिम्)+++ गाम् +++(=भुवं)+++ +++(गङ्गाम् वा शिवपक्षे)+++ अदीधरत्॥६४॥
अब्जेन+++(=चन्द्रेण, पद्मेन वा)+++ त्वन्मुखं तुल्यं
हरिणाहितसक्तिना +++(=सूर्येणाहितसक्तिना/ मृगाहित्तसक्तिना)+++।
उच्चरद्भूरि-कीलालः+++(=रक्तः/ जलः)+++
शुशुभे वाहिनी+++(=सैन्य/ नदी)+++पतिः॥६५॥
२७. अप्रस्तुतप्रशंसालङ्कारः
अप्रस्तुतप्रशंसा स्यात्
सा यत्र प्रस्तुताश्रया।
एकः कृती शकुन्तेषु +++(चातकः)+++
योऽन्यं शक्रान्न याचते॥६६॥
२८. प्रस्तुताङ्कुरालङ्कारः
प्रस्तुतेन प्रस्तुतस्य
द्योतेने प्रस्तुताङ्कुरः।
+++(प्रेयसी प्रेयसं वक्ति -)+++
किं भृङ्ग ! सत्यां मालत्यां
केतक्या +++(अविकसितत्वात्)+++ कण्टकेद्धया?॥६७॥
२९. पर्यायोक्तालङ्कारः
पर्यायोक्तं तु गम्यस्य
वचो भङ्ग्यन्तराश्रयम्।
नमस् तस्मै +++(विष्णवे)+++ कृतौ येन
मुधा राहुवधूकुचौ॥६८॥
पर्यायोक्तं तदप्याहुर्
यद् व्याजेनेष्टसाधनम्।
+++(अहं दूती)+++ यामि चूतलतां द्रष्टुं
युवाभ्याम् +++(कामुकाभ्याम्)+++ आस्यतामिह॥६९॥
३०. व्याज-स्तुत्यलङ्कारः
उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः।
कः स्वर्धुनि विवेकस्ते पापिनो नयसे दिवम्॥७०॥
साधु दूति ! पुनः साधु कर्तव्यं किमतः परम्।
यन्मदर्थे विलूनासि दन्तैरपि नखैरपि॥७१॥
३१. व्याजनिन्दालङ्कारः
निन्दाया निन्दया व्यक्तिर्
व्याजनिन्देति गीयते।
विधे ! स निन्द्यो यस् ते
प्रागेकमेवाहरच् छिरः॥७२॥
३२. आक्षेपालङ्कारः
आक्षेपः स्वयमुक्तस्य
प्रतिषेधो विचारणात्।
चन्द्र ! संदर्शयात्मानम्
अथवास्ति प्रियामुखम्॥७३॥
निषेधाभासमाक्षेपं
बुधाः केचन मन्वते।
नाहं दूती तनोस् तापस्
तस्याः कालानलोपमः॥७४॥
आक्षेपो ऽन्यो विधौ व्यक्ते
निषेधे च तिरोहिते।
गच्छ गच्छसि चेत्कान्त !
तत्रैव स्याज् जनिर्मम॥७५॥
३३. विरोधाभासालङ्कारः
अभासत्वे विरोधस्य
विरोधाभास इष्यते।
विनापि तन्वि ! हारेण
वक्षोजौ तव हारिणौ॥७६॥
३४. विभावनालङ्कारः
विभावना विनापि स्यात्
कारणं कार्यजन्म चेत्।
अप्यलाक्षारसासिक्तं
रक्तं तच् चरणद्वयम्॥७७॥
हेतूनामसमग्रत्वे
कार्याेत्पत्तिश्च सा मता।
अस्त्रैर् अतीक्ष्णकठिनैर्
जगज्जयति मन्मथः॥७८॥
कार्योत्पत्तिस् तृतीया स्यात्
सत्यपि प्रतिबन्धके।
नरेन्द्रानेव ते राजन् !
दशत्यसिभुजङ्गमः॥७९॥
अकारणात् कार्यजन्म चतुर्थी स्याद्विभावना।
शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम्॥८०॥
विरुद्धात् कार्यसंपत्तिर्
दृष्टा काचिद्विभावना।
सितांशुकिरणास् तन्वीं
हन्त संतापयन्ति ताम्॥८१॥
कार्यात् कारणजन्मापि
दृष्टा काचिद्विभावना।
यशः पयोराशिर् अभूत्
करकल्पतरोस् तव॥८२॥
३५. विशेषोक्त्यलङ्कारः
कार्यजनिर् विशेषोक्तिः
सति पुष्कलकारणे।
हृदि स्नेहक्षयो नाभूत्
स्मरदीपे ज्वलत्यपि॥८३॥
३६. असम्भवालङ्कारः
असम्भवोऽर्थनिष्पत्तेर्
असम्भाव्यत्ववर्णनम्।
को वेद गोपशिशुकः
शैलमुत्पाटयेदिति॥८४॥
३७. असङ्गत्यलङ्कारः
विरुद्धं भिन्नदेशत्वं
कार्यहेत्वोर् असङ्गतिः।
विषं+++(=जलं)+++ जलधरैः पीतं,
मूर्च्छिताः पथिकाङ्गनाः॥८५॥
अन्यत्र करणीयस्य
ततोऽन्यत्र कृतिश्च सा।
अन्यत्कर्तुं प्रवृत्तस्य
तद्विरुद्धकृतिस्तथा॥८६॥
+++(कृष्ण!)+++ अपारिजातां+++(=अशत्रुं)+++ वसुधां
चिकीर्षन् द्यां तथा ऽकृथाः +++(सत्यभामया पारिजातपुष्पानयनेन)+++।
+++(वराहविष्णो!)+++ गोत्रोद्धारप्रवृत्तो ऽपि
गोत्रोद्भेदं पुरा ऽकरोः +++(खुरचिह्नैः)+++॥८७॥
३८. विषमालङ्कारः
विषमं वर्ण्यते यत्र
घटना ऽननुरूपयोः।
क्वेयं शिरीषमृद्वङ्गी,
क्व तावन्मदनज्वरः॥८८॥
विरूपकार्यस्योत्पत्तिर्
अपरं विषमं मतम्।
कीर्तिं प्रसूते धवलां
श्यामा तव कृपाणिका॥८९॥
अनिष्टस्याप्यवाप्तिश्च
तदिष्टार्थसमुद्यमात्।
भक्ष्याशया ऽहिमञ्जूषां
दृष्ट्वाखुस्तेन भक्षितः॥९०॥
३९. समालङ्कारः
समं स्याद् वर्णनं यत्र
द्वयोरप्यनुरूपयोः।
स्वानुरूपं कृतं सद्म
हारेण कुचमण्डलम्॥९१॥
सारूप्यमपि कार्यस्य
कारणेन समं विदुः।
नीचप्रवणता लक्ष्मि !
जलजायास् तवोचिता॥९२॥
विनाऽनिष्टं च तत्सिद्धिर्
यमर्थं कर्तुमुद्यतः।
युक्तो वारणलाभोऽयं
स्यान् न ते वारणार्थिनः॥९३॥
४०. विचित्रालङ्कारः
विचित्रं तत्प्रयत्नश्चेद्
विपरीतः फलेच्छया।
नमन्ति सन्तस् त्रैलोक्याद्
अपि लब्धुं समुन्नतिम्॥९४॥
४१. अधिकालङ्कारः
अधिकं पृथुलाधाराद्
आधेयाधिक्यवर्णनम्।
ब्रह्माण्डानि जले यत्र
तत्र मान्ति न ते गुणाः॥९५॥
पृथ्वाधेयाद् यदाधारा-
-धिक्यं तदपि तन्मतम्।
कियद् वाग् ब्रह्म यत्रैते
विश्राम्यन्ति गुणास्तव॥९६॥
४२. अल्पालङ्कारः
अल्पं तु सूक्ष्मादाधेयाद्
यदाधारास्य सूक्ष्मता।
+++(हे विरहक्षुब्धे!)+++ मणिमालोर्मिका+++(=मण्यङ्गुलीयकं)+++ तेऽद्य
जपमालायते करे॥९७॥
४३. अन्योन्यालङ्कारः
अन्योन्यं नाम यत्र स्याद्
उपकारः परस्परम्।
त्रियामा शशिना भाति
शशी भाति त्रियामया॥९८॥
४४. विशेषालङ्कारः
विशेषः ख्यातमाधारं
विनाप्याधेयवर्णनम्।
गतेऽपि सूर्ये दीपस्थास्
तमश्छिन्दन्ति तत्कराः॥९९॥
विशेषः सोऽपि यद्येकं
वस्त्वनेकत्र वर्ण्यते।
अन्तर्बहिः पुरः पश्चात्
सर्वदिक्ष्वपि सैव मे॥१००॥
किञ्चिदारम्भतो ऽशक्य-
-वस्त्वन्तरकृतिश्च सः।
त्वां पश्यता मया लब्धं
कल्पवृक्षनिरीक्षणम्॥१०१॥
४५. व्याघातालङ्कारः
स्याद्व्याघातो ऽन्यथाकारि
तथाकारि क्रियेत चेत्।
यैर्जगत् प्रीयते, हन्ति
तैरेव कुसुमायुधः॥१०२॥
सौकर्येण निबद्धापि
क्रिया कार्यविरोधिनी।
+++(हे राजन्!)+++ दया चेद् बाल इति +++(राजकुमारे)+++ मय्य्
अपरित्याज्य एव ते +++(- अतो मां युद्धं नय)+++॥१०३॥
४६. कारणमालालङ्कारः
गुम्फः कारणमाला स्याद्
यथाप्राक्प्रान्तकारणैः।
नयेन श्रीः श्रिया त्यागस्
त्यागेन विपुलं यशः॥१०४॥
४७. एकावल्यलङ्कारः
गृहीतम् उक्तरीत्यार्थ-
-श्रेणिर् एकावलिर् मता।
नेत्रे कर्णान्तविश्रान्ते
कर्णौ दोःस्तम्भदोलितौ॥१०५॥
दोःस्तम्भौ जानुपर्यन्त-
-प्रलम्बनमनोहरौ।
जानुनी रत्नमुकुरा+++(=दर्पणा)+++-
-कारे तस्य हि भूभुजः॥१०६॥
४८. मालादीपकालङ्कारः
दीपकैकावलीयोगान्
मालादीपकमिष्यते।
स्मरेण हृदये तस्यास्
तेन +++(हृदयेन)+++ त्वयि कृता स्थितिः॥१०७॥
४९. सारालङ्कारः
उत्तरोत्तरम् उत्कर्षः
सार इत्यभिधीयते।
मधु मधुरं तस्माच्च
सुधा तस्याः कवेर्वचः॥१०८॥
५०. यथासंख्यालङ्कारः
यथासंख्यं क्रमेणैव
क्रमिकाणां समन्वयः।
शत्रुं मित्रं विपत्तिं च
जय रञ्जय भञ्जय॥१०९॥
५१. पर्यायालङ्कारः
पर्यायो यदि पर्यायेणै-
-कस्यानेकसंश्रयः।
पद्मं मुक्त्वा गता चन्द्रं
कामिनीवदनोपमा॥११०॥
एकस्मिन् यद्यनेकं वा
पर्यायः सोऽपि संमतः।
अधुना पुलिनं तत्र
यत्र स्रोतः पुराऽजनि॥१११॥
५२. परिवृत्त्यलङ्कारः
परिवृत्तिर् विनिमयो
न्यूनाभ्यधिकयोर् मिथः।
जग्राहैकं शरं मुक्त्वा
कटाक्षात्स रिपुश्रियम्॥११२॥
५३. परिसंख्यालङ्कारः
परिसंख्या निषिध्यैकम्
एकस्मिन् वस्तुयन्त्रणम्।
स्नेहक्षयः प्रदीपेषु न
स्वान्तेषु नतभ्रुवाम्॥११३॥
५४. विकल्पालङ्कारः
विरोधे तुल्यबलयोर्
विकल्पालङ्कृतिर् मता।
सद्यः शिरांसि चापान् वा
नमयन्तु महीभुजः॥११४॥
५५. समुच्चयालङ्कारः
बहूनां युगपद्-भाव-
-भाजां गुम्फः समुच्चयः।
नश्यन्ति+++(=धावन्ति)+++ पश्चात् पश्यन्ति
भ्रश्यन्ति+++(=पतन्ति)+++ च भवद्द्विषः॥११५॥
अहं प्राथमिकाभाजाम्
एककार्यान्वयेऽपि सः।
कुलं रूपं वयो विद्या
धनं च मदयन्त्यमुम्॥११६॥
५६. कारकदीपकालङ्कारः
क्रमिकैकगतानां तु +++(न तु समुच्चयवद् युगपदागतानां)+++
गुम्फः कारकदीपकम्।
गच्छत्यागच्छति पुनः
पान्थः पश्यति पृच्छति॥११७॥
५७. समाध्यलङ्कारः
समाधिः कार्यसौकर्यं
कारणान्तरसन्निधेः।
उत्कण्ठिता च तरुणी +++(प्रियं द्रष्टुम्)+++
जगामास्तं च भानुमान्॥११८॥
५८. प्रत्यनीकालङ्कारः
प्रत्यनीकं बलवतः
शत्रोः पक्षे पराक्रमः।
जैत्रनेत्रानुगौ कर्णाव्
उत्पलाभ्याम् +++(नेत्रजिताभ्यां कोपेनेव)+++ अधःकृतौ॥११९॥
५९. अर्थापत्त्यलङ्कारः
कैमुत्येनार्थसंसिद्धिः
काव्यार्थापतिरिष्यते।
स जितस् त्वन्मुखेनेन्दुः,
का वार्ता सरसीरुहाम?॥१२०॥
६०. काव्यलिङ्गालङ्कारः
समर्थनीयस्यार्थस्य
काव्यलिङ्गं समर्थनम्।
जितोऽसि मन्द ! कन्दर्प !
मच्चित्तेऽस्ति त्रिलोचनः॥१२१॥
६१. अर्थान्तरन्यासालङ्कारः
उक्तिरर्थान्तरन्यासः स्यात्
सामान्यविशेषयोः।
हनूमानब्धिमतरद्
दुष्करं किं महात्मनाम्॥१२२॥
गुणवद्वस्तुसंसर्गाद्
याति स्वल्पोऽपि गौरवम्।
पुष्पमालानुषङ्गेण
सूत्रं शिरसि धार्यते॥१२३॥
६२.विकस्वरालङ्कारः
यस्मिन् विशेषसामान्य-
-विशेषाः स विकस्वरः।
स न जिग्ये+++(=जितो ऽभूत्)+++ महान्तो हि
दुर्धर्षाः सागरा इव॥१२४॥
६३. प्रौढोक्त्यलङ्कारः
प्रौढोक्तिर् उत्कर्षाहेतौ
तद्धेतुत्वप्रकल्पनम्।
+++(कृष्णस्य केश)+++कचाः कलिन्दजा+++(=यमुना कालजला)+++-तीर-
-तमाल-स्तोम-मेचकाः+++(=कृष्णाः)+++॥१२५॥
६४. सम्भावनालङ्कारः
सम्भावना यदीत्थं स्याद्
इत्यूहो ऽन्यस्य सिद्धये।
यदि +++(द्विसहस्रजिह्वः)+++ शेषो भवेद्वक्ता
कथिताः स्युर् गुणास् तव॥१२६॥
६५. मिथ्याध्यवसित्यलङ्कारः
किञ्चिन् मिथ्यात्वसिद्ध्यर्थं
मिथ्यार्थान्तरकल्पनम्।
मिथ्याध्यवसितिर् +++(यथा)+++- वेश्यां
वशयेत् +++(अवर्तमानम्)+++ खस्रजं वहन् +++(- नाम न वशयतीति)+++॥१२७॥
६६. ललितालङ्कारः
वर्ण्ये स्याद् वर्ण्यवृत्तान्त-
-प्रतिबिम्बस्य वर्णनम्।
ललितं +++(यथा)+++- निर्गते नीरे
सेतुमेषा +++(नष्टकामा प्रियप्रेप्सुः)+++ चिकीर्षति॥१२८॥
६७. प्रहर्षणालङ्कारः
उत्कण्ठितार्थसंसिद्धिर्
विना यत्नं प्रहर्षणम्।
तामेव ध्यायते तस्मै
निसृष्टा सैव दूतिका॥१२९॥
वाञ्छिताद् अधिकार्थस्य
संसिद्धिश्च प्रहर्षणम्।
दीपम् उद्योजयेद् यावत्
तावद् अभ्युदितो रविः॥१३०॥
यत्नाद् उपायसिद्ध्यर्थात्
साक्षाल्लाभः फलस्य च।
निध्यञ्जनौषधी+++(औषधिविशेषः)+++मूलं
खनता साधितो निधिः॥१३१॥
६८. विषादनालङ्कारः
इष्यमाण-विरुद्धार्थ-
-संप्राप्तिस्तु विषादनम्।
दीपमुद्योजयेद् यावन्
निर्वाणस्तावदेव सः॥१३२॥
६९. उल्लासालङ्कारः
एकस्य गुणदोषाभ्याम्
उल्लासो ऽन्यस्य तौ यदि।
अपि मां पावयेत् साध्वी
स्नात्वेतीच्छति जाह्नवी॥१३३॥
+++(विधवात्वाद् विफलं)+++ काठिन्यं कुचयोः स्रष्टुं
वाञ्छन्त्यः पादपद्मयोः।
निन्दन्ति च विधातारं
त्वद्धाटीष्व्+++(=त्वदाक्रमेषु)+++ अरियोषितः +++(पलायन्त्यः)+++॥१३४॥
+++(इति कुचदोषेण पाददोषोल्लासः)+++
तद् अभाग्यं धनस्यैव
यन् नाश्रयति सज्जनम् +++(इति सज्जनगुणेन दोषोल्लासः)+++।
लाभोऽयमेव भूपाल-
-सेवकानां न चेद् वधः +++(इति राजदोषेण दासवृत्तिगुणोल्लासः)+++॥१३५॥
७०. अवज्ञालङ्कारः
ताभ्यां तौ यदि न स्याताम्
अवज्ञालङ्कृतिस्तु सा।
स्वल्पमेवाम्बु लभते
प्रस्थं+++(=मानपात्रविशेषः)+++ प्राप्यापि सागरम्॥
मीलन्ति यदि पद्मानि
का हानिरमृतद्युतेः॥१३६॥
७१. अनुज्ञालङ्कारः
दोषस्याभ्यर्थनानुज्ञा
तत्रैव गुणदर्शनात्।
विपदः सन्तुः नः शश्वद्
यासु सङ्कीर्त्यते हरिः॥१३७॥
७२. लेशालङ्कारः
लेशः स्याद्दोषगुणयोर्
गुणदोषत्वकल्पनम्।
अखिलेषु विहङ्गेषु
हन्त स्वच्छन्दचारिषु॥
शुक ! पञ्जरबन्धस् ते
मधुराणां गिरां फलम्॥१३८॥
७३. मुद्रालङ्कारः
सूच्यार्थसूचनं मुद्रा
प्रकृतार्थपरैः पदैः।
नितम्बगुर्वी तरुणी
दृग्-युग्मविपुला+++(=अनुष्ठुभ्-वक्त्र-भेदस्यापि नाम)+++ च सा॥१३९॥
७४. रत्नावल्यलङ्कारः
क्रमिकं प्रकृतार्थानां
न्यासं रत्नावलीं विदुः।
चतुरास्यः+++(=चतुरमुखः इति वा, ब्रह्मेत्यपि)+++, पतिर्लक्ष्म्याः+++(=विष्णुरित्यपि)+++,
सर्वज्ञस्+++(=शिवः इत्यपि)+++ त्वं महीपते !॥१४०॥
७५. तद्गुणालङ्कारः
तद्गुणः स्वगुणत्यागाद्
अन्यदीयगुणग्रहः।
पद्मरागायते नासा-
-मौक्तिकं ते ऽधरत्विषा॥१४१॥
७६. पूर्वरूपालङ्कारः
पुनः स्वगुणसंप्राप्तिः
पूर्वरूपमुदाहृतम्।
हरकण्ठांशुलिप्तोऽपि
शेषत्वद्यशसा सितः॥१४२॥
+++(सितो हि शेष इति प्रसिद्धिः।)+++
पूर्वावस्थानुवृत्तिश्च
विकृते सति वस्तुनि।
दीपे निर्वापितेऽप्यासीत्
काञ्चीरत्नैर् महन् महः+++(=प्रकाशः)+++॥१४३॥
७७. अतद्गुणालङ्कारः
सङ्गतान्यगुणानङ्गी-
-कारमाहुर् अतद्गुणम्।
चिरं रागिणि मच्चत्ते
निहितोऽपि न रञ्जसि +++(वर्णयुक्तपेटिकायां चिरं वर्तमानं वस्तु तद्वर्णमाप्नुयान्ननु।)+++॥१४४॥
७८. अनुगुणालङ्कारः
प्राक्-सिद्ध-स्वगुणोत्कर्षो
ऽनुगुणाः परसन्निधेः।
नीलोत्पलानि दधते
+++(वधू-)+++कटाक्षैर् अतिनीलताम्॥१४५॥
७९. मीलितालङ्कारः
मीलितं यदि सादृश्याद्
भेद एव न लक्ष्यते।
रसो नालक्षि लाक्षायाश्
चरणे सहजारुणे॥१४६॥
८०. सामान्यालङ्कारः
सामान्यं यदि सादृश्याद्
विशेषो नोपलक्ष्यते।
पद्माकरप्रविष्टानां
मुखं नालक्षि सुभ्रुवाम्॥१४७॥
८१-८२ उन्मीलित-विशेषालङ्कारौ
भेदवैशिष्ट्ययोः स्फूर्ताव्
उन्मीलितविशेषकौ।
हिमाद्रिं त्वद्-यशो-मग्नं
सुरा शीतेन जानते॥
लक्षितान्य् उदिते चन्द्रे
पद्मानि च मुखानि च॥१४८॥
८३. उत्तरालङ्कारः
किञ्चिदाकूतसहितं
स्याद्गूढोत्तरम् उत्तरम्।
+++(पान्थकामिनी मेलनस्थानं सूचयन्ती-)+++
यत्रासौ वेतसी पान्थ !
तत्रेयं सुतरा सरित्॥१४९॥
प्रश्नोत्तरान्तराभिन्नम्
उत्तरं चित्रमुच्यते।
के-दारपोषणरताः, +++(केदारः = जलमग्नकृषिक्षेत्रम्)+++
के खेटाः +++(=खेचराः)+++, किं चलं वयः॥१५०॥
८४. सूक्ष्मालङ्कारः
सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम्।
मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्॥१५१॥
८५. पिहितालङ्कारः
पिहितं परवृत्तान्त-
-ज्ञातुः साकूतचेष्टितम्।
प्रिये गृहागते प्रातः
कान्ता +++(पररतिश्रान्तं तं ज्ञात्वा तज्ज्ञानं दर्शयितुं)+++ तल्पमकल्पयत्॥१५२॥
८६. व्याजोक्त्यलङ्कारः
व्याजोक्तिरन्यहेतूक्त्या
यदाकारस्य गोपनम्।
+++(सुरतलक्ष्यकाया वक्ति-)+++ सखि ! पश्य गृहाराम-
-परागैरस्मि धूसरा॥१५३॥
८७. गूढोक्त्यलङ्कारः
गूढोक्तिरन्योद्देश्यं चेद्
यदन्यं प्रति कथ्यते।
+++(कामुकं अपगन्तुं वदति -)+++ वृषापेहि परक्षेत्राद्
आयाति क्षेत्ररक्षकः॥१५४॥
८८. विवृतोक्त्यलङ्कारः
विवृतोक्तिः श्लिष्टगुप्तं
कविनाविष्कृतं यदि।
वृषापेहि परक्षेत्रादि्
इति वक्ति ससूचनम्॥१५५॥
८९. युक्त्यलङ्कारः
युक्तिः परातिसन्धानं
क्रियया मर्मगुप्तये।
त्वामालिखन्ती दृष्ट्वाऽन्यं +++(वीक्षितुम् आगच्छन्तं)+++
धनुः पौष्पं करेऽलिखत् +++(त्वद्ध्यानं गोप्तुं)+++॥१५६॥
९०. लोकोक्त्यलङ्कारः
लोकप्रवादानुकृतिर्
लोकोक्तिरिति भण्यते।
सहस्व कतिचिन् मासान्
{मीलयित्वा विलोचने}+++( इयं लोकोक्तिः)+++॥१५७॥
९१. छेकोक्त्यलङ्कारः
छेकोक्तिर् यत्र लोकोक्तेः
स्यादर्थान्तरगर्भिता।
भुजङ्ग एव जानीते
भुजङ्गचरणं सखे !॥१५८॥
९२. वक्रोक्त्यलङ्कारः
वक्रोक्तिः श्लेषकाकुभ्याम्
अपरार्थप्रकल्पनम्।
+++(प्रियो वक्ति-)+++ मुञ्च मानं दिनं+++(मा नन्दिनं)+++ प्राप्तं
+++(प्रेयसी वक्ति-)+++ नेह नन्दी हरान्तिके॥१५९॥
९३. स्वभावोक्त्यलङ्कारः
स्वभावोक्तिः स्वभावस्य
जात्यादिस्थस्य वर्णनम्।
कुरङ्गैरुत्तरङ्गाक्षैः
स्तब्धकर्णैरुदीक्ष्यते॥१६०॥
९४. भाविकालङ्कारः
भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम्।
अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः॥१६१॥
९५. उदात्तालङ्कारः
उदात्तमृद्धेचरितं श्लाघ्यं चान्योपलक्षणम्।
सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः॥१६२॥
९६. अत्युक्त्यलङ्कारः
अत्युक्तिरद्भूतातथ्यशौर्योदार्यादिवर्णनम्।
त्वयि दातरि राजेन्द्र ! याचकाः कल्पशाखिनः॥१६३॥
९७. निरुक्त्यलङ्कारः
निरूक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्॥१६४॥
९८. प्रतिषेधालङ्कारः
प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम्।
न द्यूतमेतत्कितव ! क्रीडनं निशितैः शरैः॥१६५॥
९९. विध्यलङ्कारः
सिद्धस्यैव विधानं यत्तमाहुर्विध्यलङ्कृतिम्।
पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्॥१६६॥
१००. हेत्वलङ्कारः
हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते।
असावुदेति शीतांशुर्मानच्छेदाय सुभु्रवाम्॥१६७॥
हेतुहेतुमतोरैक्यं हेतुं केचित् प्रचक्षते।
लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः॥१६८॥
इत्थं शतमलङ्कारा लक्षयित्वा निदर्शिताः।
प्रचामाधुनिकानां च मतान्यालोच्य सर्वतः॥१६९॥
अथ रसवदाद्यलङ्काराः
रसभावतदाभासभावशान्तिनिबन्धनाः।
चत्वारो रसवत्प्रेय ऊर्जस्वि च समाहितम्॥१७०॥
भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः।
अष्टौ प्रमाणालङ्काराः प्रत्यक्षप्रमुखाः क्रमात्॥ एवं पञ्चदशान्यानप्यलङ्कारान् विदुर्बुधाः॥१७१॥
१०१ तत्र रसवदलङ्कारः
तत्र रसवदुदाहरणम्- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः।
येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥
१०२ प्रेयोलङ्कारः
प्रेयोलङ्कार एव भावालङ्कार उच्यते। स यथा (गं.लं.)- कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम्।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन् ! प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्॥
१०३ ऊर्जस्व्यलङ्कारः
ऊर्जस्वि यथा,- त्वत्प्रत्यर्थिवसुन्धरेशतरुणीः सन्त्रासतः सत्वरं यान्तीर्वीर ! विलुण्ठितंु सरभसं याताः किराता वने।
तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि॥
१०४ समाहितालङ्कारः
समाहितं यथा- पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया॥ अत्र शृङ्गारस्य कोपशान्तिरङ्गम्॥
१०५ भावोदयालङ्कारः
भावोदयो यथा (नैषध. ९/६६)- तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामी भवद्विलोकिनी।
अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः॥ अत्र नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्याङ्गम्॥
१०६ भावसन्ध्यलङ्कारः
भावसन्धिर्यथा- एकाभूत् कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली।
लोलाक्षीं क्षणमात्राभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर ! भवतः प्रौढाहवाडम्बरम्॥ अत्र रमणीप्रेम रणौत्सुक्ययोः सन्धिः प्रभुविषयभावस्याङ्गम्॥
१०७ भावशबलालङ्कारः
भावशबलं यथा- क्वाकार्यं शशलक्ष्मणः क्व च कुलं?, भूयोऽपि दृश्येत सा, दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः, स्वप्नेऽपि सा दुर्लभा, चेतः ! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति?॥
१०८ प्रत्यक्षालङ्कारः
प्रमाणालङ्कारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥
१०९. अनुमानालङ्कारः
अनुमानं यथा- यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः।
यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः॥
११०. उपमानालङ्कारः
उपमानं यथा- तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले।
यस्तन्वि ! तारकान्यासः शकटाकारमाश्रितः॥
१११ शब्दप्रमाणालङ्कारः
शब्दप्रमाणं यथा (कुमार. ५/८१) विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम्।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति?॥
११२ स्मृत्यलङ्कारः
तत्र स्मृतिर्यथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः।
सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत्॥
११३ श्रुत्यलङ्कारः
तत्र श्रुतिर्यथा- त्वं हि नाम्नैव वरदो नाधत्से वरमुद्रिकाम्।
न हि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः॥
११४ अर्थापत्त्यलङ्कारः
अर्थापत्तिर्यथा-
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि !।
अन्यथा नोपपद्येत पयोधरभरस्थितिः॥
११५ अनुपलब्ध्यलङ्कारः
अनुपलब्धिर्यथा- स्फुटमसदवलग्नं तन्वि ! निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः।
कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः॥
११६ सम्भवालङ्कारः
संभवो यथा- अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम्।
किंतु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः॥
११७ ऐतिह्यालङ्कारः
ऐतिह्यं यथा-
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥
(अथ संसृष्टिसङ्करौ-) अथैतेषामलङ्काराणां यथासम्भवं क्वचिन्मेलने लौकिकालङ्काराणां मेलन इव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेन पृथगलङ्कारावस्थितौ तन्निर्णयः क्रियते। तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालङ्कारमेलने संसृष्टिः। नीरक्षीरन्यायेनास्फुटभेदालङ्कारमेलने सङ्करः। स चाङ्गाङ्गिभावेन समप्राधान्येन सन्देहेन एकवाचकानुप्रवेशेन च चतुर्विधः। एवं नृसिंहाकाराः पञ्चालङ्काराः।
११८ अलङ्कारसंसृष्टिः
तत्रालङ्कारसंसृष्टिर्यथा- (माघ. ६/१४), कुसुमसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसंभृतशोभया।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया॥
११९ अङ्गाङ्गिभावसङ्करालङ्कारः
अङ्गाङ्गिभावसङ्करो यथा- तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्।
शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्राखण्डाः॥
१२० समप्राधान्यसङ्करालङ्कारः
समप्राधान्यसङ्करो यथा- अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा।
स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः॥
१२१ सन्देहसङ्करालङ्कारः
सन्देहसङ्करो यथा- (रघु. ६/८५) शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥
१२२ एकवचनानुप्रवेशसङ्करः
एकवाचकानुप्रवेशसङ्करस्तु शब्दार्थालङ्कारयोरेवेति लक्षयित्वा काव्यप्रकाशकार उदाजहार- स्पष्टोच्छ्वसत्किरणकेसरसूर्यबिम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम्।
श्लिष्टाष्टदिग्दलकलापमुखावतार- बद्धान्धकारमधुपावलि सञ्चुकोच॥
१२३ सङ्करसङ्करालङ्कारः
क्वचित्सङ्कराणामपि सङ्करो दृश्यते। यथा- मुक्ताः केलिविसूत्राहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्घ्रिलाक्षारुणाः।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्॥ उपसंहारः अमुं कुवलयानन्दमकरोदप्पदीक्षितः।
नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः॥१७१॥
चन्द्रालोको विजयतां शरदागमसंभवः।
हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम्॥१७२॥
इति श्रीमदद्वैतविद्याचार्यश्रीमद्भरद्वाजकुलजलधिकौस्तुभ श्रीरङ्गराजाध्वरीन्द्रवरसूनोः श्रीमदप्पयदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः॥