स्रोतांसि - नाना लेखनानि।
गतिः, यतिः
नियता गतिश् छन्दसो लक्षणम्।
गेयस्पर्शो भवति।
गतयः केचन द्रुताः, केचन विलम्बिताः।
छन्दसि गतिभेदे यतिस्थानम् भवति ।
यत्र पद-यतिर् मात्रायत्या सह मिलति, तद् उत्तमम्।
लयः
पद्य-पादावयवानां मात्रा-समत्वं
तेषां सम-ताल-बद्धता वा
लयशब्देन बोध्यते।
लयान्वितत्वं गेयाधिक्यम् उपजनयति।
गेयाधिक्येन चार्थावगमो ह्रासमुपयाति।
सतान-च्छन्दांसि
सतान-च्छन्दस्सु मात्रा-गणानां
पौनः-पुन्येनावर्तगतयः सिद्ध्यन्ति।
संज्ञाः - त्र्यश्रगतिः, चतुरश्रगतिः, (५-मात्राणां) खण्डगतिः, सप्तमात्राणां च मिश्रगतिः।
सङ्कलित-द्रुतावर्तगतिः (२+४ / ४+२) सङ्कलित-मध्यावर्तगतिश् च (३+५ / ५+३)
अल्प-लय-च्छन्दांसि
एष्व् अर्थम् प्रत्य् आकृष्यते मनः।
अनुष्टुप् श्लोकः, शार्दूलविक्रीडितम्।
अनुष्टुभ्
गणेश-टिप्पन्यः
- न क्वचिद् अव्यवहिताश् ४ लघवस् स्युः।
- विषम-पादान्ते
- समासेऽनुवर्तमाने सति, न तत्र लघुस् स्यात्। नैवम् - तापत्रयाग्निसंतप्तसमाह्लादनचंद्रिका॥ अन्त्यथा दण्डाकारपठनं स्याद् अविरतम्।
- उत्तरार्धे लघुबाहुल्ये सति -
- पञ्चमाक्षरं
- पूर्वार्धे (विशिष्यान्तिमवर्णयोः) गुरुप्राचुर्ये सति, लघु स्यात्।
- अन्यथा गुरुर् अपि भवेत्। यथा - षाण्मातुरः शक्तिधरः कुमारः क्रौंचदारणः ॥
- पादान्ते पदान्तम् अपि स्यात्। नैवम् - कालिंदीपावनजलालोककौतूहली हली ।
- पञ्चमाक्षरं
- सम-पादे
- पूर्वार्धे द्वितीय-चतुर्थयोर् अन्यतरो वा गुरुस् स्यात्। नैवम् - कमलया समाराध्यं भजे वैकुंठवासिनम्, अपि तु - कमलाकरकंजातप्रीतं विष्णुपदं भजे॥