अक्षर-व्यत्यासः

चतुर्भिस् त्रिभिर् वाक्षरैर् ऊना अपि ऋचांस् त्रिष्टुप्सूक्तस्थास् त्रिष्टुभ एव,
न तु तासां निचृत्पन्ङ्क्तित्व–भुरिक्-पङ्कित्वादि ।

यथा –

अ॒स्मा इ॒दु॒ त्यमु॑प॒मं स्व॒र्षां (१) भरा॑म्याङ्ग्व॒मा॒स्ये॑न (२) । मंहि॑ष्ठ॒मच्छक्तिभिर्म॑ती॒नां (३) सुवृ॒क्तिभिः॑ सू॒रं वा॑वृ॒षध्यै (४) ॥' ( ऋ० सं० १/४/२७१३ )

इत्येषा षड्भिरक्षरैरूनापि त्रिष्टुबेव । इतिशब्दः प्रकारे । उद्देशः सङ्क्षेपः ।
पूर्वोक्त-प्रकारो बहूनेषु तत्-तद्-अधिकारात् तद्-आत्मक-सप्त-च्छन्दस् तु गायत्र्यादिष्व् अभिमत इत्यर्थः ।
तेन ‘त्रयः सप्तकाः पाद-निचृद्’ इत्य् एक-विंशत्य्-अक्षरापि,

‘मध्यमः षट्श्वेदतिनिवृदिति च विंशत्यक्षरापि गायत्र्येवेत्यादि सिद्धं भवति ।

समामनन्ति हि - ‘न वा एकेनाक्षरेण छन्दांसि वियन्ति, न द्वाभ्याम् ’ ( ऐ० ब्रा० १।६।१ ) इति । +++(5)+++

न वियन्ति अन्यत्वं न गच्छन्तीत्यर्थः। द्व्येकयोरुपलक्षणत्वाद् बहूनेष्व् अपि भवतीति ।

एतेन – ’ न्य॑ य॒ग्वातोऽव॑ वाति॒ (1) म्य॑क्तपति॒ सूर्य॑ः (२) । नी॒चीन॑म॒श्या दुहे॒ (३) न्य॑ग्भवतु ते॒ रप॑ः (४) ॥’ (ऋ० सं० ८।१।२५।५) इत्यस्याः विंशत्यक्षराया अप्यनुष्टुत्वमपि व्याख्यातम् ।

अथ देव्यादयः प्रदर्श्यन्ते –

  • [१] दैवी - ‘देवं ग॒मम॑सि ’ ( तै० सं० १।१।२।२० /
  • [२] आसुरी - ‘स्व॒धा पि॒तृभ्य॑ पृथिवि॒षद्भ्यः॑ ।’ ( अथ० सं० १८|४|७८ )
  • [३] प्राजापत्या – ‘दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्या॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नाभि॑रसि ।’ ( शु० वा० सं० ३७११ )
  • [४] याजुषी - ‘अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेत॑ः ।’ ( तै० आ० ४/२/१५ )
  • [५] साम्नी - ‘ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ।’ (सा० सं० पू० ५/२/७/९ )
  • [६] आर्ची—ए॒ता अ॑स॒दन्त्सु॒कृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पाहि य॒ज्ञं पाहि य॒ज्ञ- प॑ति॑ि पा॒हि मां य॑श॒नय॑म् |’ ( तै० सं० 919199 )
  • [७] ब्राह्मी - ‘विय औत् पृथि॒वीं जाय॑मान॒ आ स॑मु॒द्रुमद॑धाद॒न्तरि॑क्षे । तस्य॑ दे॒वस्य॑ क्रुद्धस्यै॒तदाग॒ य ए॒वं वि॒द्वाँसि॑ ब्राह्म॒णं ज॒नाति॑ । उद्वैपय रोहित प्रक्षिणीहि ब्रह्म॒ज्य॑स्य॒ प्रति॑ च॒ मुञ्च॒ पाशा॑न् ॥ ( अथ० सं० १३।३।२२ )

६. ‘जगती गततमं छन्दः । जलचरगतिर्वा, जल्गल्यमानोऽसृजदिति च ब्राह्म- णम् ।’ इति निरुक्तम् ( ७।१३।१ ) ।

कात्यायनाचार्यो का यथा – ‘सप्तमं जगती, जगतपदा [१] अष्टस्त्रयः स्वौ च द्वौ मद्दासतोबृद्दती [२] अष्टकौ सप्तकः पको दशको नवकश्च षडष्टका वा महापङ्किः [३] ( ऋ० सर्वा० १० ) इति त्रिविधा जगत्यः. Photos [१] तत्र जगती- प्रदर्शयिष्यते ( ४१७ ) इत्यत्र ।