हलायुधवृत्तिः
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ १ ॥
श्रीमत्पिङ्गलनागोक्तच्छन्दःशास्त्रमहोदधेः । वृत्तानि मौक्तिकानीव कानिचिदिचिनोम्यहम् ॥ २ ॥
वेदानां प्रथमाङ्गस्य कवीनां नयनस्य च । पिङ्गलाचार्यसूत्रस्य मया वृत्तिर्विधास्यते ॥ ३ ॥
क्षीराब्धेरमृतं यद्वदुद्धृतं देवदानवैः । छन्दोऽब्धेः पिङ्गलाचार्य्यच्छन्दोऽमृतं तथोद्धृतम् ॥ ४ ॥
इह हि त्रैवर्णिकानां साङ्गस्य वेदस्याध्ययनमान्नायते (२) अर्थावबोधपय्र्यन्तश्चाध्ययनविधिः । वेदाङ्गच्च छन्दः । ततस्तदद्ध्य-यनं विधिबोधितत्वादनुष्ठेयम् (२) । अथ अनुष्टुभा यजति हहत्या गायति गायत्त्रया स्तौतोत्येवमादिश्रवणादीन्वयायातमनुष्टु-बादिज्ञानम् । किञ्च, छन्दसामपरिज्ञानात् प्रत्युत (५) प्रत्यवायः श्रूयते । यथा। “यो ह वा अविदितार्षेयच्छन्दोदैवतविनियोगेन ब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा, स स्थाणुं वच्छति गर्त्त वा पद्यते वा प्रमीयते पापीयान् भवति यातयामान्यस्य च्छन्दांसि भवन्ति” इति च्छन्दोगब्राह्मणं (५) । तस्माच्छन्दः-परिज्ञानं कर्त्तव्यम् । तदर्थमिदं शास्त्रमारभ्यते । तत्र लघुनोपायेन शास्त्रावबोधसिद्धार्थ सञ्ज्ञाः परिभाषते सूत्रकारः (६) ।
1
1.1
सूत्रप्रकारः
संज्ञा
मूलम्
धी श्री स्त्री म्
पदच्छेदः
धी,श्री,स्त्री,म्
हलायुधवृत्तिः
धी श्री स्त्रोत्यनेन गुरुत्त्रयं सञ् जित्वनोपलचयति, मकारञ्च सञ्ज्ञात्वेन । ततश्चायमर्थः, सर्व्वगुरास्त्रिकस्य मसञ्ज्ञा (१) परिभाष्यते । ध्यादीनामुपादानप्रयोजनमुपरिष्टाटु वक्ष्यामः । मप्रदेशाः “विद्युन्माला मौ गौ” इत्येवमादयः ॥
1.2
सूत्रप्रकारः
संज्ञा
मूलम्
वरा सा य्
पदच्छेदः
वरा,सा,य्
हलायुधवृत्तिः
वरा सा इत्यनेनादिलघोस्त्रिकस्य यसञ्ज्ञा (२) परिभाव्यते । यप्रदेशाः " भुजङ्गप्रयातं यः" इत्येवमादयः ॥
1.3
सूत्रप्रकारः
संज्ञा
मूलम्
का गुहा र्
पदच्छेदः
का,गुहा,र्
हलायुधवृत्तिः
का गुहा इत्यनेन मध्यलघोस्त्रिकस्य रसञ्ज्ञा (२) परिभाष्यते । रप्रदेशाः “स्रग्विणी रः” इत्येवमादयः ॥
1.4
सूत्रप्रकारः
संज्ञा
मूलम्
वसुधा स्
पदच्छेदः
वसुधा,स्
हलायुधवृत्तिः
वसुधा इत्यनेनान्तगुरोस्तिकस्य ससञज्ञा (४) परिभाष्यते । सप्रदेशाः “ तोटकं सः” इत्येवमादयः ॥
1.5
सूत्रप्रकारः
संज्ञा
मूलम्
सा ते क्व त्
पदच्छेदः
सा,ते,क्व,त्
हलायुधवृत्तिः
सा ते क इत्यनेनान्तलघोस्त्रिकस्य तकारः सञ ज्ञात्वेनोपादी-यते (१) । तप्रदेशाः " तनुमध्या त्यौ” इत्येवमादयः ॥
1.6
सूत्रप्रकारः
संज्ञा
मूलम्
कदा स ज्
पदच्छेदः
कदा,सः,ज्
हलायुधवृत्तिः
कदा स इत्यनेन मध्यगुरोस्त्रिकस्य जसञ ज्ञा (२) परिभाष्यते । जप्रदेशाः “कुमारललिता ज्सौ ग्” इत्येवमाद्यः ॥
1.7
सूत्रप्रकारः
संज्ञा
मूलम्
किं वद भ्
पदच्छेदः
किम्,वद,भ्
हलायुधवृत्तिः
किं वद इत्यनेनादिगुरोस्त्रिकस्य भसञ्ज्ञा ज्ञाप्यते (२) । भप्रदेशाः “चित्रपदा भौ गौ" इत्येवमादयः ॥
1.8
सूत्रप्रकारः
संज्ञा
मूलम्
न हसन्
पदच्छेदः
न,हसन्
हलायुधवृत्तिः
न हस इत्यनेन सर्व्वलघोस्तिकस्य नसञ नोपदिश्यते (४) । न-प्रदेशाः “दण्डको नौ रः” इत्येवमादयः ॥
1.9
सूत्रप्रकारः
संज्ञा
मूलम्
गृल्
पदच्छेदः
गृ,ल्
हलायुधवृत्तिः
गृग्रहणं ह्रस्वैकाक्षरोपलक्षणार्थम् । तस्य लकारसञ् ज्ञा भवति (१)। लशब्दच लघुवाचकः । तेन क्रस्वमक्षरं लघु-66 सञ्ज्ञं भवतीत्यर्थः सम्पद्यते । लप्रदेशाः “लः समुद्रा गणः” इत्येवमादयः ॥
1.10
सूत्रप्रकारः
संज्ञा
मूलम्
गन्ते
पदच्छेदः
ग्,अन्ते
अनुवृत्तिः = “गृ”
हलायुधवृत्तिः
गृग्रहणमनुवर्त्तते । गृशब्दोपलक्षितस्य ह्रस्वाक्षरस्य पादान्ते वर्त्तमानस्य गुरुसञ्ज्ञाऽतिदिश्यते (१)। ग् इति प्रथमाचरप्रतीकेन गुरुशब्दस्य ग्रहणं (२) । ननु ग्लिति समानीत्यादीनां (४) पादान्ते वर्त्तमानस्य ह्रस्वस्य गुरुत्वं न दृश्यते । नैष दोषः । सर्वत्र पादान्ते वर्त्तमानस्य ह्रस्वस्य गुरुत्वमुत्सर्गसिद्धं । तच्च लकारश्रुत्यापवादेन बाध्यते । यथा । ग्लिति समानी, गोत्याय्या ल इत्यादौ सामान्यस्य विशेषेण बाधः कस्य न सम्मतः (*) । तस्मादचाद्यमेतत् (१)। केचिदिदं सूत्र व्यवस्थितविभाषया व्याचचते, प्रमाण्या-दौनामन्ते गुरुत्वमेव, समान्यादीनामन्त लघुत्वमेव, (१) शेषाणामिच्छ्या गुरुत्वं लघुत्वञ्चति । तदनुपपन्नं । विकल्प-स्याप्रस्तुतत्वात् कस्य व्यवस्थेति न विद्मः । ननु केनापक्तिं, “वा पादान्ते गुरु” इति (२) गुरुत्वं । सत्यमुक्तं । दुरुक्त हि तत् । वान्ते गुरु इति (२) प्रोक्त’ यैस्तु खेतपदादिभिः । उत्सर्गस्यापवादेन बाधस्तैर्नावधारितः ॥ इत्युक्ते इच्छया गुरुत्वं लघुत्वञ्च नोपपद्यते । कस्येच्छया, किं शास्त्रकारस्य कवेर्वा । न तावदाद्यः पचः । सूत्रेष्वदर्शनात् । नापि द्वितीयः । कवे-रपि इच्छायां (४) व्यवस्थाभावात्, को जानाति कस्य कीदृशी-च्छेति । अन्ये त्वाहुः । ननु पादान्ते वर्त्तमानस्य ह्रस्वस्य पाणि-निना गुरुसञ्ज्ञा न कृता । तेनोक्त’ “संयोगे गुरु, दीर्घच्च” (१।४।११-१२) इति । नायं संयोगादिर्न च दीर्घः । तस्मात् गन्त इति सूत्रमयुक्तः । अत्रोच्यते । पाणिनिना स्वशास्त्रप्रयो-जनार्थ गुरुसञ्ज्ञा कृता । “गुरोश्च हलः” (३।३।१०३) इत्यकारः प्रत्ययो यथा स्यात् । कुण्डा हुण्डा ईहाञ्चक्रे जहा-ञ्चक्र इत्येवमादीनां “इजादेश्च गुरुमतोनृच्छः” इति (३।१।३६ ) सूत्रेणाम्प्रत्ययश्च (५) । पादान्ते वर्त्तमानस्य लघोर्गुरुत्वाति-देशे पाणिनेः प्रयोजनमेव नास्ति । किञ्चानुस्वारादिपूर्वस्य वर्णस्य वनं घटः सम्पदित्यादौ स्थितस्य गुरुसञ्ज्ञा पाणिनिना न कृता, किमेतावता अन्यैरपि न कर्त्तव्या । तस्मात् सूत्रमिदं " गन्ते " इति । गप्रदेशाः “गावन्त आपोडः” इत्येवमादयः ॥
1.11
सूत्रप्रकारः
संज्ञा
मूलम्
ध्रादिपरः
पदच्छेदः
ध्र-आदि-परः
अनुवृत्तिः = “ग्”
हलायुधवृत्तिः
ध्र इति व्यञ्जनसंयोगस्योपलचणम् । ध्र आदिर्येषां ते भ्राद्यः । ‘आदि’पदेन विसर्जनीयानुस्वारजिह्वामूलीयोप-मानीयानां ग्रहणं । भ्रादयः परे यस्मात् सः घ्रादिपरः । ततश्चायं सूत्रार्थः, व्यञ्जनसंयोगात् पूर्व्वस्य इस्त्रस्य (१) अनुस्वारविसर्जनीयजिह्वामूलीयोपध्मानीयेभ्यश्च गुरुसञ् ज्ञाति-दिश्यते ॥
1.12
सूत्रप्रकारः
संज्ञा
मूलम्
हे
पदच्छेदः
हे
अनुवृत्तिः = “ग्”
हलायुधवृत्तिः
ग इत्यनुवर्त्तते । हे इति द्दिमात्रोपलणार्थ ं । ततञ्चायं मूत्रा-र्थः, डिमात्रस्य (९) दीर्घस्य गकारसञ्ज्ञा क्रियते ॥
1.13
मूलम्
लौ सः
पदच्छेदः
लौ,सः
हलायुधवृत्तिः
स इति गकारस्य परामर्शः । स गकारी डिमात्रो हौ लघू कृत्वा गणनीयः (१) ॥
1.14
सूत्रप्रकारः
अधिकारः
मूलम्
ग्लौ
पदच्छेदः
ग्-लौ
अधिकारः
ग्लौ
हलायुधवृत्तिः
अधिकारोऽयमाशास्त्रपरिसमाप्तेः । यत्र विशेषान्तरं न श्रूयते तत्र ग्लावित्युपतिष्ठते । गायत्र्या वसवः (३।३) इत्येव मादिषुवत् प्लुतेनेह व्यवहारो नास्ति ॥
1.15
मूलम्
अष्टौ वसव इति
पदच्छेदः
अष्टौ,वसवः,इति
अधिकारः
ग्लौ
हलायुधवृत्तिः
अत्र शास्त्रे वसव इत्युच्यमानेऽष्टसङ्ख्योपलचिता गुरुलघु-स्वरूपा वर्णाः (१) ग्टह्यन्ते । लौकिकप्रसिडुरपलक्षणार्थमिदं सूत्रं । तेन चतुणीं समुद्राः, पञ्चानामिन्द्रियाणोत्येवमादयः सञ्ज्ञा-विशेषा लौकिकेभ्यः (२) प्रत्येतराः । ‘इति’कारोऽध्यायसमाप्ति-सूचकः ॥
2
2.0
अधिकारः
ग्लौ
हलायुधवृत्तिः
इह ध्यादीनामुपादान्प्रयोजनं वर्ण्यते । अध्ययनात् धोर्भवति । य। धोस्तस्य श्रोः, बुद्धिपूर्वकत्वात् विभूतेः । यस्य श्रोस्तस्य स्त्री, अर्थमूलकत्वात् गार्हस्थास्य । वरा सा इत्यनेन सर्वेषां स्त्रीसाधनोपायानां बुडेरुपायस्य माहाक्य’ दर्शयति,
तथाचोक्तम्,
““अडाङ्गलपरीणाहजिह्वाग्रायासभौरवः ।
सर्वाङ्गीण (१) परिक्त यमबुधाः कर्म कुर्व्वते” ॥
तत्राह शिष्यः, का गुहा । ‘गुहा’शब्दः स्थानपर्य्यीयः । ‘का गुहा,’ यत्रासौ तिष्ठति । उपाध्यायो ब्रूते । ‘वसुधा’ पृथिव्यां (९), लभ्यते धोर्नात्रातिविषादः कर्त्तव्यः । पुनरप्राह शिष्यः, सा ते क । ‘सा’ धीः, त्वयोपदिष्टा, पृथिवां ‘क’, स्वितेन, (१) लभ्यते । गुरुराह, (४) गृहे । पुनरप्याह शिष्यः, कदा सः । ‘सः’ गृहस्थः पुरुषः, ‘कदा’ कस्मिन् काले, तां धियं प्राप्नोति ॥ अत्त्रोत्तरम्, (५) घ्रादिपरः । धारणार्थाव-बोधपरोऽसौ यदा स्यात् तदा धियं लभते । भूयोऽपि प्रश्नः, किं वद । ‘किं,’ कुर्वन् असौ तां धियं लभते तत् ‘वद’ (१) । तत्रोत्तरम्, न हसन् । हासादि-चापल्य’ (०) अकुर्वाणस्तः धियं लभते इत्यर्थः ॥
इति भट्टहलायुधक्कती छन्दोवृत्तौ (´^) प्रथमोऽध्यायः ॥ १ ॥
2.1
सूत्रप्रकारः
अधिकारः
मूलम्
छन्दः
पदच्छेदः
छन्दः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
अधिकारोऽयमाशास्त्रपरिसमाप्तेः । इत ऊर्ध्वं यद्वक्ष्यामश्छन्दस्तत्रोपतिष्ठते । छन्दःशब्देनाक्षरसङ्ख्यावत् छन्दोऽत्राभिधीयते ॥
2.2
सूत्रप्रकारः
अधिकारः
मूलम्
गायत्री
पदच्छेदः
गायत्री
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
अधिकारोऽयमाद्वादशसूत्रपरिसमाप्तेः । “तान्युष्णिग्” इत्यादिसूत्रात् (१) प्राक् यदुच्यते छन्दः, तद् गायत्रीसञ्ज्ञं वेदितव्यम् ॥
2.3
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
दैव्येकम्
पदच्छेदः
दैवी,एकम्
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
एकाक्षरं छन्दो दैवीगायत्रीति सञ्ज्ञायते । तत्रायं प्रदर्शनोपायः । चतुरङ्गक्रीडायामिव चतुःषष्टिकोष्ठान् (२) लिखित्वा, प्रथमपङ्क्तौ आर्षीनाम लिखित्वा द्वितीयादिकोष्ठेष्वङ्गानामुपरि गायत्र्यादिसप्तच्छन्दसां नामानि विन्यसेत् । ततो द्वितीयायां (२) पङ्क्तौ प्रथमे कोष्ठे दैवीशब्दं विन्यसेत् । सञ्ज्ञाज्ञापनार्थं द्वितीये एकसङ्ख्याकमङ्गम् (४) ॥
2.4
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
आसुरी पञ्चदश
पदच्छेदः
आसुरी,पञ्चदश
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
आसुरी गायत्री पञ्चदशाक्षरा । तानि चाचराणि “ग्लो” (१।१४) इत्यधिकारात् गुरूणि लघूनि च यथासम्भवं द्रष्टव्यानि । तत्र टतोयस्यां पङ्क्तौ प्रथमे कोष्ठे आसुरीशब्दं व्यवस्थाप्य द्वितीये पञ्चदशसञ्ज्याङ्गं विन्यसेत् (१) ॥
2.5
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
प्राजापत्याऽष्टौ
पदच्छेदः
प्राजापत्या,अष्टौ
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
(२) प्राजापत्या गायत्री अष्टाक्षा भवति । यत्र कचिद् वेदे-ऽष्टाचरं छन्द्रः सा (२) प्राजापत्या गायत्रीति ज्ञेयम् । नत्र चतुष्थ्यां पङ्क्तौ प्रथमे कोष्ठे प्राजापत्याशब्दं लिखित्वा द्वितीयेऽष्टसङ्ख्याङ्क लिखेत् ॥
2.6
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
यजुषां षट्
पदच्छेदः
यजुषाम्,षट्
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
यजुषां गायत्री षडक्षरा भवति । यत्त्र क्वचिद् वेदे षडक्षरं छन्दः तत् याजुषी गायत्री (४) सञ्ज्ञायते । तत्र पञ्चम्यां पङ्क्तौ प्रथमे कोष्ठे याजुषीशब्दं (५) व्यवस्थाप्य द्वितीये षट्सङ्ङ्ख्याङ्कं लिखेत् ॥
2.7
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
साम्नां द्विः
पदच्छेदः
साम्नाम्,द्विः
अनुवृत्तिः = “षट्”
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
षडित्यनुवर्त्तते । द्विरितिक्रियाभ्यावृत्तिदर्शनात् करोति-रध्याक्रियते (१) । तेन द्विःकता द्विगुणिता षट्सङ्ख्या साम्नां गायत्री भवति । यत्र कचिदु वेदे द्वादशाचरं छन्दः, तत् साम्नां गायत्रोति सञ्जायते । तत्त्र षष्ठंगा (२) पङ्क्तौ प्रथमे कोष्ठे सामशब्दं लिखित्वा द्वितीये द्वादशसङ्ख्याङ्क’ लिखेत् ॥
2.8
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
ऋचां त्रिः
पदच्छेदः
ऋचाम्,त्रिः
अनुवृत्तिः = “षट्”
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
षडित्यनुवर्त्तते । अत्रापि पूर्ववत् क्रियाभ्यावृत्तिः, तेन विगुणिता षट्सङ्ख्या ऋचां गायत्री भवति । यत्र क्वचिदु वेदेऽ-ष्टादशाक्षरं छन्दः सा ऋचां गायत्री सञ्जायते (९) । तत्र (*) सप्तम्यां पङ्क्तौ प्रथमे कोष्ठे ऋक्ां व्यवस्थाप्य द्वितीयेऽष्टादश-सङ्ख्याङ्ग ं लिखेत् ॥
2.9
मूलम्
द्वौ द्वौ साम्नां वर्धेत
पदच्छेदः
द्वौ,द्वौ,साम्नाम्,वर्धेत
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
गायत्रौत्यनुवर्त्तते । साम्नां पङ्क्तौ गायत्रो हौ हौ सङ्ख्याङ्गो ग्गृहीत्वा पूर्वात् पूर्वात् वर्डेत, यावदष्टमं कोष्ठ ं प्राप्नोति । तत्र साम्नां पङ्क्तौ तृतीयादिषु कोष्ठेषु क्रमेण वर्जितान्यचराणि अङ्गेन विन्यसेत् ॥
2.10
मूलम्
त्रींस्त्रीनृचाम्
पदच्छेदः
त्रीन्,त्रीन्,ऋचाम्
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
गायत्रोत्यनुवर्त्तते । ऋचां गायत्रो चोंस्त्रीन् सङ्ख्याङ्कान् (१) ग्गृहीत्वा पूर्ववत् वर्द्धत । अत्रापि ऋचां पङ्क्तौ तृतीयादिषु कोष्ठेषु त्रिसङ्ख्याकं क्रमेण वडमङ स्थापयेत् (९) ॥
2.11
मूलम्
चतुरश्चतुरः प्राजापत्यायाः
पदच्छेदः
चतुरः,चतुरः,प्राजापत्यायाः
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
प्रजापत्यायाः पङ्क्तो गायत्री चतुरश्चतुरःसङख्याङ्गान् गृहीत्वा वहुत । अत्रापि टतीयादिषु कोष्ठेषु विन्यासः पूर्व्ववदेव ॥
2.12
मूलम्
एकैकं शेषे
पदच्छेदः
एकैकम्,शेषे
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
अनुक्तः शेषः । यत्र गायत्रयां सङख्यावृडिर्नोक्ता सा एकैकं सङख्याङ्क ग्टहीत्वा वर्डेत । देवी, याज्जुषो, च शेषशब्देनोच्यते, आमुय्यां विशेषाभिधानात् (१) । तेन दैवो टतोयादिषु कोष्ठ-व्व कैकमङ्ग’ (१) ग्टहोत्वा वर्द्धत । तथैव याजुषो ॥
2.13
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
जह्यादासुरी
पदच्छेदः
जह्यात्,आसुरी
अनुवृत्तिः = “एकैकम्”
अधिकारः
गायत्री, छन्दः, ग्लौ
हलायुधवृत्तिः
एकैकमित्यनुवर्त्तते । आसुरी गायत्री एकैकमक्षरं त्यजेत् । उत्तरेषु कोष्ठेषु वडौ प्राप्तायां ह्रासो विधीयते । तेऽङ्गाः क्रमेण स्थाप्याः ॥
2.14
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
तान्युष्णिगनुष्टुब्-बृहती-पङ्क्ति-त्रिष्टुब्-जगत्यः
पदच्छेदः
तानि,उष्णिक्-अनुष्टुप्-बृहती-पङ्क्ति-त्रिष्टुब्-जगत्यः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
तानि’ इति छन्दांसि, गायत्रयाः परस्तात् (१) उष्णिग्-अनुष्टुव्-वृहती-पङ क्ति-त्रिष्टुव्-जगत्याख्यानि क्रमेण भवन्ति ॥
2.15
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
तिस्रस्तिस्रः सनाम्नन्य एकैका ब्राह्म्यः
पदच्छेदः
तिस्रः-तिस्रः,सनाम्नन्यः,एका-एकाः,ब्राह्म्यः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
यजुषां पङ्क्तिमाराभ्य ‘तिस्रः’ याजुषो, साम्नी, आर्ची, चेति गायत्राः, मिलिता एका षट्त्रिंशदक्षरा ब्राह्मो गायत्री भवति । सनाम्ना इत्येकसञ्ज्ञा इत्यर्थः । तिस्रस्तिस्त्र इति वीप्सया परेषामुष्णिगादोनामिह ग्रहणम् । तथा एकैकेति वीप्सया ताश्च (२) ब्राह्मयो भवन्तोति विधीयते । ब्राह्मा इति गायत्रवादीनां जगतोपर्यन्तानां विशेषणम् । एवं याजुषो, साम्नौ, आचर्ची, चउष्णि-ग् मिलित्वा (२) एका डाचत्वारिंशदक्षरा ब्राह्मी उष्णिक् भवतीति । एवं तिस्स्रोऽनुष्टुभः सङ्गताः सत्याऽष्टाचत्वारिंशदक्षरा ब्राह्मानुष्टुप् भवति । ता एव तिस्रो बृहत्यः, सङ्गताः सत्ययतुःपञ्चाशदक्षरा एका ब्राह्मो बृहतो भवति । ता-एव तिस्रः पङ्क्त्य सङ्गताः षष्टाचरा एका ब्राह्मोपङ्क्ति-र्भवति । ता एव तिस्वस्तिशुभः सङ्गताः षट्षय्यचरा एका ब्राह्मो त्रिष्टुप् भवति । ता एव तिस्स्रो जगत्यः सङ्गता दासप्तत्यचरा एका ब्राह्मौ जगतो भवति । अचाष्टम्यां पङ्क्तो प्रथमे कोष्ठ ब्राह्मौशब्द व्यवस्थाप्य द्वितीयादो क्रमेण गायत्री-प्रमुखान् (१) षट्त्रिंशदाद्यङ्गान् विन्यसेत् ॥
2.16
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
प्राग् यजुषामार्ष्य इति
पदच्छेदः
प्राग्,यजुषाम्,आर्ष्यः,इति
अनुवृत्तिः = “तिस्रः-तिस्रः”
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
तिस्रस्तिस्त्र इत्यनुवर्त्तते । यजुषां पतेः प्राक् प्राजा-पत्या, आसुरी, देवो, इति यास्तिस्त्रो गायत्रास्ताः सङ्गताः सत्यश्चतुर्विंशत्यचरा एका आर्षी गायत्री भवति । ता एव तिस्र उष्णिहः सङ्गता अष्टाविंशत्यचरा एका आर्षी उष्णिक् भवति । ता एव तिस्स्रोऽनुष्टुभः सङ्गता डात्रिंशदक्षरा एका आर्षी अनुष्टुप् भवति । ता एव तिस्रो वृहत्यः सङ्गताः षट्त्रिंशदक्षरा एका आर्षी वृहती भवति । ता एव तिस्रः पतयः सङ्गतायत्वारिंशदक्षरा एका आर्षी पक्तिर्भवति । ता एव तिस्स्रस्त्रिष्टुभः सङ्गताश्चतुश्चत्वारिंशदचरा एका आर्षी त्रिष्टप् भवति । ता एव तिस्स्रो जगत्यः सङ्गता अष्टाचत्वारिंशद-चरा एका आर्षी जगतो भवति । तत्र प्रथमायां पङ्क्तौ प्रथमे कोष्ठे आर्षीशब्दं व्यवस्थाप्य हितोयादिषु चतुर्विंशत्याद्यङ्गान् विन्यसेत् । प्रथमपङ्क्तेर्हितोयादिकोष्ठेष्वङ्कानामुपरि गायत्रया-दोनि नामानि लिखेत् (२) । अयं स्पष्टतरःप्रदर्शनोपाय इति ॥
इति भट्टहलायुधक्कृतायां छन्दोवृत्तौ द्वितीयो ऽध्यायः ॥ २ ॥
3
3.1
मूलम्
पादः
पदच्छेदः
पादः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
अधिकारो ऽयमाध्यायसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तत् पाद इत्यधिकृतं वेदितव्यम् । वक्ष्यति च गायत्र्या वसवः (३।३) इति ॥
3.2
मूलम्
इयादिपूरणः
अनुवृत्तिः = “पादः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पाद इत्यनुवर्त्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिशब्देन उवादयो गृह्यन्ते । अत्रायमर्थः, यत्र गायत्र्यादौ छन्दसि पादस्याक्षरसङ्ख्या न पूर्यते, तत्र इयादिभिः पूरयितव्या । यथा, तत् सवितुर्वरेणियं, दिवं गच्छ सुवःपत-इत्यादि (१) ॥
3.3
सूत्रप्रकारः
परिभाषा
मूलम्
गायत्र्या वसवः
अनुवृत्तिः = “पादः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पाद इत्यनुवर्त्तते । परिभाषेयं । गायत्रयाः पादः ‘वसवः’ अष्टात्तराणि, भवन्ति । यत्र यत्र गायत्रयाः पादोऽभिधास्यते, तत्र तत्राष्टाक्षरी ग्राह्यः (१) ॥
3.4
सूत्रप्रकारः
परिभाषा
मूलम्
जगत्या आदित्याः
अनुवृत्तिः = “पादः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पाद इत्यनुवर्त्तते । परिभाषेयं । जगत्याः पादो द्वादशाक्षरी भवति । यत्र कचित् जागतः पादस्तत्र हादशाक्षरी गृह्यते ॥
3.5
सूत्रप्रकारः
परिभाषा
मूलम्
विराजो दिशः
अनुवृत्तिः = “पादः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पाद इत्यनुवर्त्तते । यत्र कचिद् वैराजः पाद इत्युच्यते, तत्त्र दशावरः प्रत्येतव्यः ॥
3.6
सूत्रप्रकारः
परिभाषा
मूलम्
त्रिष्टुभो रुद्राः
अनुवृत्तिः = “पादः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
त्रैष्टुभः पाद इत्युक्ते सर्व्वत्रैकादशाक्षरी गृह्यते । अस्मिन्ने-वाध्याये परिभाषा एताचतस्रः ॥
3.7
सूत्रप्रकारः
परिभाषा?
मूलम्
एकद्वित्रिचतुष्पादुक्तपादम्
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
एभिश्चतुर्भिर्लक्षणैर्युक्तः पादो यस्य तत् ‘उक्तपादं,’ (१) । यस्य च्छन्दसो यादृशः पादः परिभाषितस्तच्छन्दस्तेनैव पादेन क्वचि-देकपात्, कचिद् द्विपात्, कचित् त्रिपात्, कचिञ्च्चतुष्यादु, भवति । गायत्री च त्रिपादेव (२) । चतुर्भिरष्टाक्षरैः पादैरनुष्टुबेव भवति (१) ॥
3.8
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
आद्यं चतुष्पादृतुभिः
पदच्छेदः
आद्यम्,चतुष्पात्,ऋतुभिः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
ऋतु’ शब्देन लक्षणया षडक्षरः पादोऽभिधीयते । तैः पादैश्चतुष्पादाद्यं गायत्र्यं (४) छन्दो भवति । एवं चतुर्व्विंशत्यक्षराणि जायन्ते (*)। तत्रोदाहरणम् ।
- इन्द्रः शचीपतिर्वलेन वीलितः ।
दुश्च्यवनो वृषालमत्सु सासहिः (१) ॥
3.9
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
क्वचित्त्रिपादृषिभिः
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
क्वचिच्च वेदे सप्ताक्षरोपलक्षितैः पादैस्त्रिभिर्गायत्र्येव भवति । एवमेकविंशत्यक्षराणि जायन्ते । तत्रोदाहरणम् ।
- यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नां । भू॒याम॑ वाज॒दाव्ना॑म् ॥ ऋ० । १म० । ४अ० । १७सू० ॥ ४ ॥ (२)
3.10
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
सा पादनिचृत्
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
सैव गायत्रो पानिवृदिति सञ्ज्ञां लभते । प्रयोक्तुरदृष्टा-भ्युदयसम्वन्धन्ज्ञापनार्थमियं सञ्जा। वेदस्यानादित्वात् (२) महत्ते -ऽपि च न दुष्यति ॥
3.11
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत्
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
प्रथमः षड़च्चरः, द्वितीयोऽष्टाक्षरः, तृतीयः सप्ताच्चरः, एवं त्रिभिः पादैर्या गायत्री सा अतिपादनिष्टत् । त्रिपादित्यनुवर्त्त-नीयम् ॥ (१)
3.12
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
द्दौ नवकौ षट्कश्च सा नागी
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
आद्यौ (९) हौ नवाक्षरी पादौ, तृतीयः षड़क्षरः, एवं त्रिपात् या गायत्री, सा नागोत्युच्यते (१) ॥
3.13
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
विपरीता वाराही
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
इयमेव नागी गायत्री, विपरीता सती, वाराही नाम (४) भवति । प्रथमः षड़चरः, (५) द्वितीयटतोयौ नवाक्षरौ ॥
3.14
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
षट्कसप्तकाष्टकैर्वर्द्धमाना
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
षड़क्षरः प्रथमः पादः, सप्ताक्षरो द्वितीयः, अष्टाक्षरस्तृतीयः, एवं विभिः पादैर्वईमाना (१) गायत्री भवति ॥ तत्रोदाहरणम् ।
- त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।
देवेभि॒र्मानु॑षे॒ जने॑ ॥ ऋ०। ६म०। २अ० । १६स० ॥१॥
3.15
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
विपरीता प्रतिष्ठा
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
सैव वर्द्धमाना यदा विपरीता स्यात्तदा प्रतिष्ठा गायत्री भवति (२) । अष्टाचरः प्रथमः, पादः, द्वितीयः सप्ताच्चरः, तृतीयः षड़चरः (४) ॥ तत्रोदाहरणम् ।
- आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒मम॑ ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ॥ ऋ० । १म० । ५अ० । २३सू० ॥२१॥
3.16
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
तृतीयं द्विपाज्जागतगायत्राभ्याम्
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
तृतीयशब्देनैतदद्ध्यायसूत्रपाठक्रमापेचया विराजमाह । तथा-चोक्तम्, “विराजो दिशः (३।५)”” इति । यदा द्वादशाक्षरी-ऽष्टाचरश्च पादः स्यात् ततस्ताभ्यां द्विपादु विराड्नाम गायत्री भवति ॥ तत्त्रोदाहरणम् ।
- प॒श्वा न ता॒युं गुहा॒ चत॑न्त॒ नमो॑ युजा॒नं नमो॒ वह॑न्तं ।
स॒जोषाः॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न् विश्वे यज॑त्राः ॥ ऋ०।१म०।१२अ०।६५सू०॥१॥ (१)
3.17
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
त्रिपात्त्रैष्टुभैः
पदच्छेदः
त्रिपात्त्रै,ष्टुभैः
अनुवृत्तिः = “आद्यम्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
एकादशाचरैः पादैस्त्रिपाद (२) विराड् नाम गायत्री भवति । तृतीयमित्यनुवर्त्तनीयं (२) । तत्रोदाहरणम् ।
- दु॒हे॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाजव॑त्यै ।
इषे च॑ नो मिमीतं धेनुमत्यै॑ ॥ ऋ० । १म० । १७अ० । १२०सू ॥ ८ ॥ (१)
इति गायत्र्यधिकारः ॥
3.18
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
उष्णिग्गायत्रौ जागतश्च
पदच्छेदः
उष्णिक्,गायत्रौ,जागतः,च
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यत्र गायत्रावष्टाक्षरौ (१) पादौ, जागतश्च द्वादशाक्षरः, एवं त्रिभिः पादैरुष्णिङ् नाम छन्दो भवति । अत्र च क्रमो न विवक्षितः । पादसङ्ख्यामात्रं विधीयते ॥
3.19
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
ककुम्मध्ये चेदन्त्यः
अनुवृत्तिः = “उष्णिक्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
गायत्रयोः (२) पादयोर्मध्ये जागतश्चेत् पादो भवति, तदा सा उष्णिक् ककुप्सञ्ज्ञां लभते ॥ तत्रोदाहरणम् ।
- सु॒दे॒वः स॑महाऽसति सवीरो॑ नरो मरुतः॒ स मर्त्यः॑ । यं त्राय॑ध्वे स्याम ते ॥ऋ०।५म०।४अ०।५४सू०॥१५॥ (१)
3.20
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
पुरउष्णिक् पुरतः
अनुवृत्तिः = “उष्णिक्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पुरतश्चेज्जागतः पादः स्यात्, (९) गायत्रौ च परतः, तदा सा पुरउष्णिक्सञ्जां लभते (१) ॥ तत्रोदाहरणम् ।
- अ॒प्स्व॒न्तर॒मृत॑म॒प्सु भे॑ष॒ज॑म॒पामुत प्रश॑स्तये ।
देवा॒ भव॑त वा॒जिनः॑ ॥ऋ०।१म०।५अ०।२३सू०॥१९॥ (*)
3.21
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
परोष्णिक् परः
अनुवृत्तिः = “उष्णिक्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
जागतः (१) पादः परखेदु भवति, पूर्वी च गायत्री, (१) तदा परोष्णिक् नाम भवति (४)। ““उष्णिग्गायत्री जागतश्च” (३।१८) इत्यनेन गतार्थमेतत्, विशेषसञ्जा-विधानार्थ पुनरुच्चते ।
प्रथमसूत्रे उष्णिग्ग्रहणमधिकारार्थम् ॥ तत्रोदाहरणम् ।
- अग्ने॒ वाज॑स्य॒ गोम॑त ईशानः सहसो यचो । अस्मे धेहि जातवेदो महि श्रवः ॥ चऋ०।१म०।१३०।
७८सू० ॥४॥
3.22
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
चतुष्पादृषिभिः
अनुवृत्तिः = “उष्णिक्”
अधिकारः
पादः, छन्दः, ग्लौ
अध्यायः = “सप्ताक्षरैश्चतुर्भिः पादैरुष्णिमेव भवति ॥ तत्रोदाहरणम्।”
अध्यायः = “* नदं चतुर्दन्तीनां नदं यी युवतीनाम् । पतिं वो अघ्नानां धेनूनामिषुधासि ॥ (ऋ० ८।५८/२)”
3.23
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
अनुष्टब् गायत्रैः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
चतुष्पादित्यनुवर्त्तते । ‘गायचेः’ अष्टाक्षरै पादैः, चतुष्या च्छन्दः, अनुष्टुप्सञ्ज्ञं भवति । तत्रोदाहरणम् ।
- गाय॑न्ति त्वा गायत्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑ ।
ब्रह्माण॑स्त्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥ ऋ०। १म०। ३०० १०सू ॥ १ ॥ (१)
3.24
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
त्रिपात् क्वचिज्जागताभ्याञ्च
अनुवृत्तिः = “अनुष्टुप्,गायत्रैः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
अनुष्टुबित्यनुवर्त्तते । गायत्रग्रहणञ्च । गायत्रेण (१) एकेन पादेन, डाभ्यां जागताभ्यां (१), कचित् त्रिपादनुष्टुबेव स्यात् (१) ॥
3.25
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
मध्येऽन्ते च
अनुवृत्तिः = “अनुष्टुप्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
जागतयोः पाद्योर्मध्येऽन्ते च यदा गायत्रः (१) पादो भवति, तदाप्यनुष्टुवेव स्यात् । मध्यपचे उदाहरणम् ।
- प्रपूष्ण प्रधन्व वाजसातये । पवित्राणि सचक्षणिः । द्विषस्तरध्या ऋणया ईयसे ॥
अन्तपचे उदाहरणम् । - मा कस्मै धातम॒भ्य॑ मित्रिणें नो मा कुत्रा नो गृहेभ्यो धेनवौ गुः ।
स्तनामुजो अशिश्वीः ॥ ऋ०। १म०।१७०। १२०-सू० ॥ ८ ॥(९)
इत्यनुष्टुवधिकारः॥
3.26
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
वृहती जागतस्त्रयश्च गायत्राः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
एको जागतः पादः, त्रयश्च गायत्राः (१), तदा वृहती नाम छन्दो भवति ॥
3.27
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
पथ्या पूर्वश्च त्तृतीयः
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
3.28
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
न्यङ्गसारिणी द्वितीयः
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पूर्वचेदित्यनुवर्त्तते । पूर्वश्चज्जागतः पादो द्वितीयो भवति, शेषाश्च गायत्राः, तदा न्यङ्गुसारिणीनाम्नी वृहती भवति ॥
3.29
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
स्कन्धोग्रीवी क्रौष्टुकेः
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
इयमेव न्यङ्गुसारिणी क्रौष्टुकेराचार्यस्य मतेन स्कन्धोग्रीवी नाम छन्दो भवति । आचार्य्यग्रहणं पूजार्थम् ॥
3.30
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
उरोवृद्धती यास्कस्य
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
इयमेव न्यङ्गुसारिणौ यास्कस्याचाय्र्यस्य मतेन उरोष्टहती-नाम्नी (२) भवति ॥
3.31
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
उपरिष्टाद् वृहत्यन्ते
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा जागतः (१) पादोऽन्त भवति, शेषाच गायत्राः, तदा उपरिष्टाहृहतो नाम भवति ॥ तत्रोदाहरणम् ।
*सखायस्त्वा वष्टमन्हे देवं मर्त्तास ऊतये ।
अपां नपातं सुभगं सुदी धितिं सुप्रतूर्त्तिमनेहसं ॥ ऋ०।३।१।१।
3.32
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
पुरस्ताद्वृहती पुरः
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
स एव जागतः पादः पूर्वये इवति, शेषाश्य गायत्राः, तदा पुरस्तादृष्टहती नाम भवति । “हहती जागतस्त्रयच गायत्राः (३।२५)” इत्यनेनैव गतार्थमेतत् (१) सञ्जाविशेषदर्शनार्थ (१) पुनरुचते ॥
3.33
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
कचिन्नवकाश्चत्वारः
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
कचिद् वेदे नवाक्षराश्यत्वारः पादा दृश्यन्ते, सापि वृहत्येव तत्रोदाहरणम् ।
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम । देवेभ्यस्त्वा सधमादद्मस्मभ्यं त्वा सधमादम् ॥ त्र्ऋ०१। १८। ११।
3.34
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
वैराजौ गायत्रौ च
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यत्र वैराजो पादौ, पूर्वी, दशाक्षरी भवतः, ततो गायत्री, च सापि (१) वृहती ॥
3.35
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
चिभिर्जागतैर्महावृहती
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
विभिर्जागतैः पादैश्छन्दो महावृहतोनाम ॥
3.36
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
सतोवृद्धती ताण्डिनः
अनुवृत्तिः = “बृहती”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
इयमेव वृहती ताण्डिन आचार्य्यस्य मते सतोष्वृहती नाम भवति ॥ इति वृहत्यधिकारः॥
3.37
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
पङ्क्तिजीगतौ गायत्री च
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा द्वौ जागतौ पादौ, तथा गायत्रौ च, (१) तदा पङ्क्तिर्नाम छन्दः ॥
3.38
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
पूर्वौ चेदयुजौ सतःपङ्क्तिः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा (१) पूर्वीद्दिष्टौ पादावयुजौ भवतः, प्रथमटतीयौ पादौ जागतावित्यर्थः । द्वितीयचतुर्थों च गायत्रौ, तच्छन्दः सतः-पङ्क्तिर्नाम ॥
3.39
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
विपरीतौ च
अनुवृत्तिः = “सतःपङ्क्तिः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा तावेव पादौ विपरीतो भवतस्तदापि सत.पङ्क्ति-रेव । अयमर्थः, प्रथमटतोयौ पादौ गायत्रौ, द्वितीयचतुर्थों जागतौ ॥
3.40
सूत्रप्रकारः
सञ्ज्ञा
सूत्रम् = “आस्तारपङ्क्तिः परतः
"
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा जागतौ पादौ, परौ भवतः (१), गायत्रौ च पूर्वी, तदा आस्तारपङ्क्तिर्नाम ॥
3.41
सूत्रप्रकारः
सञ्ज्ञा
मूलम्
प्रस्तारपङक्तिः पुरतः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा जागतौ पादौ पूर्वी भवतः, गायत्रौ च परतः, तदा प्रस्तारपङ्क्तिर्नाम ॥ “पङ्क्तिर्जागतो गायत्रौ च (३।३७) इत्यनेन गतार्थमिदं, सञ्जाविशेषज्ञापनार्थ पुनरुच्यते ॥
3.42
मूलम्
विष्टारपङ क्तिरन्तः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा जागतौ पादौ मध्ये भवतः, आद्यन्तयोश्च गायत्रौ, तदा विष्टारपङक्तिर्नाम ॥
3.43
मूलम्
संस्तारपङ्क्तिर्वहिः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा तावेव जागतौ पादौ वहिर्भवतः, मध्ये च गायत्रौ, तदा संस्तारपङ्क्तिर्नाम च्छन्दः ॥
3.44
मूलम्
अक्षरपङ्क्तिः पञ्चकाश्चत्वारः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पञ्चाचरैचतुर्भिः पादैरतरपङ्क्तिर्नाम च्छन्दः । ननु चत्वा-रिंशदक्षरा पङ्क्तिच्छन्दः, तत् कथं पञ्चकाश्चत्वार इत्युच्यते । तत्वोत्तरम् । “हावप्यल्पशः” (३।४५) इत्यस्मात् सिंहावलोकित न्यायेनाल्यग्रहणमनुवर्त्तते, तेन पङ्क्तेरल्पत्वं विशेषात् प्रतिपादितं भवति ॥
3.45
मूलम्
द्वावप्यल्पशः
अनुवृत्तिः = “पञ्चकाः,पङ्क्तिः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पञ्चग्रहणमनुवर्त्तते । पञ्चाक्षराभ्यां पादाभ्यां अल्पशः-पङ्क्तिर्नाम छन्दी भवति, क्वचिदेव वेदे न सर्व्वत्र ॥
3.46
मूलम्
पदपङ्क्तिः पञ्च
अनुवृत्तिः = “पञ्चकाः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पञ्चका इत्यनुवर्त्तते । यदा पश्ञ्चाचराः पञ्च पादा भवन्ति, तदा पट्पङ्क्तिर्नाम च्छन्दः ॥
3.47
मूलम्
चतुष्कषट्कौ त्रयश्च
अनुवृत्तिः = “पञ्चकाः,पङ्क्तिः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
चकारः, पञ्चका इत्यनुकर्षणार्थः । यदा प्रथमश्चतुरचरः पादः, द्वितीयः षड़चरः, ततस्त्रयः पञ्चाचराः, तदा पञ्चपदा पक्तिरेव ॥
3.48
मूलम्
पथ्या पञ्चभिर्गायत्रैः
अनुवृत्तिः = “पङ्क्तिः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
पञ्चभिरष्टाक्षरैः पादैः पथ्या नाम पङ्क्तिर्भवति । अस्योदाहरणम् ।
अक्षणमीमदन्त हीति ॥ (ऋ०१।८२।२॥ इति पङ्क्त्यधिकारः ॥
3.49
मूलम्
जगती षड्भिः
अनुवृत्तिः = “गायत्रैः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
गायत्रैरित्यनुवर्त्तते । गायत्रैः षड्भिः पादैर्जगतोनाम-छन्दो भवति ॥
3.50
मूलम्
एकेन त्रिष्टुव् ज्योतिष्मती
अनुवृत्तिः = “गायत्रैः”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
त्रिष्टुभः प्रस्तुतत्वात् प्रत्यासत्तेश्च तस्या एव सम्बन्धः । एकेन त्रैष्टुभेन पादेनाधिकाराच्चतुर्भिगायत्रैः पञ्चपात्त्रिष्टुब्, ज्योतिष्मती नाम (१) । त्रैष्टुभेन सह पञ्चभिर्गायत्रैरित्युक्ते चत्वार एव गायत्राः पादा लभ्यन्ते । यथोपाध्यायेन सह पच्च शिष्या आगता इत्युक्ते उपाध्यायपञ्चमाः प्रतीयन्ते ॥
3.51
मूलम्
तथा जगती
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
एकेन जागतेन, पादेन, चतुर्भिर्गायत्रैः, पञ्चपाज्जगती, ज्योतिष्मती नाम (१) ॥
3.52
मूलम्
पुरस्ताज्ज्योतिः प्रथमेन
अनुवृत्तिः = “जगती,त्रिष्टुप्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
प्रथमेन त्रैष्टुभेन पादेन, शेषैश्च गायत्रैः, पुरस्ताव्योतिर्नाम त्रिष्टुब् भवति । पूर्वेणैव गतार्थत्वादु विशेषसज्जाज्ञापनार्थमिदम् । तथा जगतोत्यनुवर्त्तनीयम् । तेनाद्येन जागतेन पादेन, चतुर्भिच गायत्रैः, पुरस्ताज्जयोतिर्नाम जगतो भर्वात (१) ॥
3.53
मूलम्
मध्येज्योतिर्मध्यमेन
अनुवृत्तिः = “जगती,त्रिष्टुप्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा मध्यमस्वैष्टुभः पादो भवति, उभयतश्च हौ हौ गायत्री, तदा मध्येज्योतिर्नाम त्रिष्टुव् भवति । मध्येज्योतिरित्यलुक्-समासः । तथा जगतीत्यनुवर्त्तनीयं । तेन मध्यमेन जागतेन उभयतच हौ हो गायत्रो (२) तदा मध्येज्योतिर्नाम जगती भवति (९) ॥
3.54
मूलम्
उपरिष्टाज्ज्योतिरन्तेन
अनुवृत्तिः = “जगती,त्रिष्टुप्”
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा चत्वारो गायत्राः पादा भवन्ति, अन्ते च त्रैष्टुभः, तदा उपरिष्टाज्ज्योतिर्नाम त्रिष्टुब् भवति । तथा जगतीत्यनुवर्तनीयम् । तेनान्तेन जागतेन, शेषैश्च गायत्रैश्चतुर्भिः, उपरिष्टाज्जगे-तिर्नाम जगती भवति (१) ॥
3.55
मूलम्
एकस्मिन् पञ्चके छन्दः शङ्कुमती
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदैकः पञ्चाचरः पादो भवति, त्रयश्च षड़क्षराः, तदा शङ-मती नाम गायत्री (२) । छन्दोग्रहणे प्रक्कते, पुनश्छन्दोग्रहणं छन्दीमात्रप्रतिपत्त्यर्थं । तेन सर्वेषु छन्दःसु पञ्चाक्षरैकपादलचिता शङ्गमती भवति । इत्तरथा ह्यनन्तरं सम्प्रत्ययः स्यात् (१) ॥
3.56
मूलम्
षट्के ककुम्मती
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
एकस्मिन् षडक्षरे पादे, अन्येषु यथालक्षणमुपात्तेषु, छन्दो माचं ककुम्मतो नाम *) भवति ॥
3.57
मूलम्
त्रिपादणिष्ठमध्या पिपीलिकमध्या
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदाद्यन्तो पादौ बहत्तरी, मध्यमोऽल्पतराक्षरः (१), तदा-ऽणिष्ठमध्या सती पिपीलिकमध्या नाम भवति । अयमर्थः, आद्यन्तौ पादो अष्टाक्षरी (१), मध्यमस्त्यक्षरः, एवं त्रिपादु, गायत्री पिपीलिकमध्या नाम भवति (९) । एवं चतुरतरे पञ्चा-क्षरेऽपि मध्यमे पादे पिपीलिकमध्या सिद्धाति । यत् किञ्चि-त्रिपाच्छन्दः (१), लघुमध्यमपादं, तत्सर्व ं पिपौलिकमध्यमुच्यते ॥
3.58
मूलम्
विपरीता यवमध्या
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
आद्यन्तौ पादौ लघुचरी, मध्यमय बह्वक्षरः, सा गायत्री यवमध्या नाम भवति । एवमुष्णिगादिष्वपि योज्यम् ॥
3.59
मूलम्
ऊनाधिकेनैकेन (*) निवृड्ङ्गुरिजौ
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
चतुर्विंशत्यक्षरा गायत्री, एकेनाचरेण न्यूनेन, सा निव-दिति विशेषसञ्ज्ञां लभते । एकेनाधिकेन भुरिगिति । एव-मुष्णिगादिष्वपि द्रष्टव्यम् ॥
3.60
मूलम्
द्वाभ्यां विराट्स्वराजौ
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
ऊनाधिकग्रहणमनुवर्त्तते (५) । द्वाभ्यामतराभ्यां ऊनाधि-काभ्यां (१) गायत्री यथाक्रमं विराटस्वराट्-सञ्ज्ञा भवति (०) ।
3.61
मूलम्
आदितः सन्दिग्धे
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
यदा षड्विंशत्यतरं छन्दो भवति, तदा किं प्रतिपत्तव्यं, किं गायत्री स्वराट्, उत (१) उष्णिग्विराडिति । एवं सन्दिग्धे सति छन्दसि आदिभूतात् पादात् निर्णयः कर्त्तव्यः । यदि प्रथमः पादो गायत्रस्तदा (२) गायत्रेत्रवासौ । अथोप्णिहस्तदोष्णिगिति । एवं सर्वच ॥
3.62
मूलम्
देवतादितश्च
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
इदमपरं निर्णयनिमित्तमुच्यते । सन्दिग्धे छन्दसि देवतादेय निर्णयः कर्त्तव्यः । ‘आदि’ ग्रहणं स्वरादिपरिग्रहार्थम् । कस्य छन्दसः का देवता यथा निर्णयः कर्त्तव्यः । इत्यपेक्षायामिदमुच्यते ।
3.63
मूलम्
अग्निः सविता सोमो वृहस्पतिर्वरुण इन्द्रो विश्वेदेवाः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
गायचादीनां जगतीपर्यन्तानां यथाक्रममग्न्याट्यो देवता वेदितव्याः । तत्र सन्दिग्धे छन्दसि, यदाऽऽग्नेयं तदा गायत्री, यदि सावित्रं तदोष्णिक् । एवं सर्व्वत्र । वैदिकेष्वेव छन्दःसु निष्ट-इरिजौ, तथा विराट्स्वराजौ दृश्येते, न लौकिकेषु । अतो लौकि केषु (१) सन्देहाभावानिर्णयनिमित्तभूता देवतादयो नेष्यन्ते ।
3.64
मूलम्
स्वराः षड्जादयः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
षड्जर्षभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादाः स्वरा गाय-त्रादिषु क्रमेण द्रष्टव्याः ॥
3.65
मूलम्
सित-सारङ्ग-पिसङ्ग-कृष्ण-नील लोहित-गौरा वर्णाः
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
गायत्यादिषु क्रमेण वर्णा वर्णनिर्णयनिमित्तमभिधीयन्ते ॥
3.66
मूलम्
आग्निवेश्य-काश्यप-गौतमाङ्गिरस-भार्गव कौशिक-वाशिष्ठानि गोत्राणि इति
अधिकारः
पादः, छन्दः, ग्लौ
हलायुधवृत्तिः
गायचादीनां क्रमेणैतानि गोत्राणि, भवन्तीति वाक्यशेषः । श्यामान्यतिछन्दांसि, रोचनाभाः कृतयः (१), इत्येवमधीयते-ऽतिछान्दसाः (१) । तनोपपद्यते । कृतीनामतिच्छन्दसाञ्च निह-इरिजोर्विराट्स्वराजीव प्रदेशाभावात् कश्चित्रास्ति संशयः । यस्य निर्णयनिमित्त वर्णविन्यासः क्रियते, (१) तद्धि ऋषि-देवता-स्वर-वणीनां ज्ञानानिःश्रेयसमिच्छन्ति छान्दसाः (१) ॥
इति भट्टहलायुधकृतौ छन्दोवृत्तौ (१) तृतीयोऽध्यायः ॥ ३ ॥
4
4.1
मूलम्
चतुःशतमुत्कृतिः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
चतुरधिकं शतं चतुःशतं । मध्यमपदलोपो समासः । अथवा चत्वारि च शतश्च चतुःशतं । इन्ड-समासः । कर्मधारयपच्चस्तु (४) नेष्यते । तत्र चतुः शतानौति प्राप्नोति । यत्र चतुः शतमचराणां -सङ्ख्या भवति, तत्, उत्कृतिनीम च्छन्दः ॥
4.2
मूलम्
चतुरश्चतुरस्त्यजेदुत्कृतेः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
चतुःशताक्षराच् छन्दसः क्रमेण चतुरश्चतुरः सङ्ख्याविशेषान् त्यजेत्। एतदुक्तम्भवति, उत्कृतेरारभ्य चतुर्भिश्चतुर्भिरक्षरै-न्र्यूनानि छन्दांसि अन्यानि स्थापयेत्, अष्टचत्वारिंशदक्षरं यावत् ॥
4.3
मूलम्
तान्यभिसंव्याप्रेभ्यः कृतिः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
तानि’ उत्कृतेरनन्तराणि च्छन्दांसि, अभि सम् वि आङ् प्र इत्येतेभ्यः पराणि कृतिसञ्ज्ञानि भवन्ति । तत्र शताचरं छन्दोऽ भिकृतिः । षणवत्यक्षरं, सङ्कृतिः । द्वानवत्यच्चरं, विक्कृतिः । अष्टाशोत्यचरम्, आक्कृतिः । चतुरशोत्यतरं, प्रकृतिः ॥
4.4
मूलम्
प्रकृत्या च
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
उपसर्गवर्जितः शुडः कृतिशब्दः प्रक्तत्या स्वरूपेणैवावतिष्ठते । तेनैतदुक्त ं भवति, अशोत्यतरं, हातिः (१) ॥
4.5
मूलम्
धुत्यष्टि-शर्करी जगत्यः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
कृतेरधस्ताद्धति अष्टि गर्करी जगतो इत्येते शब्दाः क्रमेण व्यवस्थापनीयाः ॥
4.6
मूलम्
पृथक् पृथक् पूर्वत एतान्येवैषाम्
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
एषां’ भृत्यादीनां, ‘पूर्व्वतः पृथक् पृथक्’, ‘एतान्येव’ शब्द-रूपाणि, विन्यसेत् । पृथक् पृथग्-ग्रहणं प्रत्येकं पूर्व्वत्वज्ञापनार्थम् । अन्यथा हि समुदायपूर्ववृत्तित्वमेषां (९) स्यात् । तेनायमर्थः, धृतिशब्दात् पूर्वं धृतिशब्दः, अष्टिशब्दात् पूर्वमष्टिशब्दः, शक्र्करीशब्दात् पूव्व” शर्करीशब्दः, जगतोशब्दात् पूव्व” जगतीशब्दः ॥
4.7
मूलम्
द्वितीयं द्वितीयमतितः
अधिकारः
छन्दः, ग्लौ
हलायुधवृत्तिः
अत्र द्वितीयं द्वितीयं शब्दरूपम् (१) अतिशब्दात् परतः प्रयोक्तव्यम् । एवं सत्युत्तरेषां छन्दसामेताः सञ्ज्ञाः क्रमेण भवन्ति । तत्र षट्सप्तत्यचरम्, अतिष्टतिः (१) । हासप्तत्यक्षरं, धृतिः । अष्टषध्यतरम्, अत्यष्टिः । चतुःषष्ट्यक्षरम्, अष्टिः। षष्यचरम्, अतिशङ्करी । षट्पञ्चाशदक्षरं, शर्करौ । द्वापञ्चाशद-चरम्, अतिजगती। अष्टाचत्वारिंशदक्षरं, जगतो ॥
4.8
मूलम्
अत्र लौकिकम्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अधिकारोऽयमाशास्त्रपरिसमाप्तः । पूर्वेषां छन्दसां वैदिक-त्वमेव । इतः प्रभृत्याय्यादीनां चूलिकापर्यन्तानां लौकित्वमेव । समान्यादीनामुत्कृतिपर्यन्तानां वैदिकत्वं लौकिकत्वञ्च । ‘अत्र’ वैदिकच्छन्दसां प्रस्तावे, प्रसङ्गाद् वेदवदनादिमुनिपारम्पर्य्या-गतं स्मृतिपुराणेतिहासादिषु दृश्यमानमार्यादिदण्डकपय्र्यन्त’ ‘लौकिक’च्छन्दाजातमधिक्रियते । तन्मूलत्वात् काव्यस्य । काव्यच्च कीर्त्तिरूपत्वादानन्दहेतुत्वाच्च पुरुषार्थः ॥
4.9
मूलम्
आत्रैष्टुभाच्च यदार्षम्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
आङभिविधौ । त्रिष्टुबेव चैष्टुभं, स्वार्थ तडितः । गायत्रयादि-त्रिष्टुप्पयन्तं यदार्ष छन्दोजातं, वैदिके व्याख्यातं, लौकिके च तत्, तथैव द्रष्टव्यं । किं तदार्ष ? चतुर्विशत्यचरा गायत्री । अष्टाविंशत्यचरोष्णिक् । द्वाविंशदक्षराऽनुष्टुप् । षट्त्रिंशदक्षरा बृहतौ। चत्वारिंशदक्षरा पङ्क्तिः । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । ‘चः’ समुच्चये ॥
4.10
मूलम्
पादश्चतुर्भागः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
चतुभीगः’ (१) चतुर्वि शत्यक्षराया गायत्रग्राश्चतुर्थी भागः, पादसञ्ज्ञां लभते । गायच्याः षड़चरः पादः । एवमुष्णिगा-दिष्वपि द्रष्टव्यम् (१) । समवृत्तविषयमेतत् ॥
4.11
मूलम्
यथावृत्तसमाप्तिवी
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य वृत्तस्य यादृशैः पादैर्भूनाचरैरधिकाचरैवी समाप्ति-दृश्यते, तस्य तादृशा एव पादा ग्रहीतव्याः । ‘वा’शब्दो व्यव-स्थितविभाषा । उद्गतादिषु विषमवृत्तेषु चतुभीगातिक्रमेणापि पादव्यवस्थादर्शनात् ॥
आदौ तावदु गणच्छन्दो मात्राच्छन्दस्ततः परम् । तृतीयमचरच्छन्दः (8) छन्दस्त्रेधा तु लौकिकम् ॥
आर्य्याद्युदुङ्गीतिपर्य्यन्तं गणच्छन्दः समौरितम् । वैताल्यादि चूलिकान्त’ मात्राच्छन्दः प्रकीर्त्तितम् ॥ समान्याद्युत्कृतिं यावदक्षरच्छन्द एव च (१)। तवादौ तावदायालचणसिद्धार्थ गणसञ्ज्ञां करोति ।
4.12
मूलम्
लः समुद्रा गणः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
ल इत्येकमात्रिकस्याचरस्य ग्रहणम् । समुद्रा इति चतुः-सङ्ङ्ग्योपलचणार्थम् । चतुणीं लकाराणां, गणः, इत्येषा सञ्जा विधीयते ।
4.13
मूलम्
गौ गन्तमध्यादिर्लश्च
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अनेन गणस्य विन्यासभेदं दर्शयति । सहि गणः कदाचिदु गुरुइयेन भवति, कदाचिदन्तेनैकेन गुरुणा, कदाचिन्मध्यमेन, कदाचिदाद्येन, कदाचिच्चतुर्भिर्लघुभिः । षष्ठस्य भेदस्याभावात् (२) विस्पष्टार्थमिदं सूत्रम् । अन्तमध्यादिरिति प्रथमं इन्दसमासं क्कृत्वा पश्चाद् गकारेण बहुव्रीहिः । इन्द्वात्परी यः श्रूयते, लभ-तेऽसौ प्रत्येकाभिसम्वन्धम् । हो गकारौ, चत्वारी लघवो भवन्ति, स एको गणः (SS)। गकारोऽन्ते यस्य स गन्तो द्वितीयो गणः (IS) । गकारी मध्ये यस्य स गमध्यस्तृतीयो गणः (ISI) । गकार आदि-यंस्य (१) स गादियतुर्थी गणः (जा) । नकारलकारी मिलितौ चत्वारी लघवी भवन्ति, स पञ्चमी गणः (m)। एवं गणेषु सिद्धेषु इदानीमार्य्यालक्षणं करोति ॥
4.14
मूलम्
स्वरा अर्धञ्चार्य्यार्द्धम्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
गणग्रहणमनुवर्त्तते । स्वरा इति सप्तानां सज्जा । यत्र प्रस्तारे गणाः सप्त भवन्ति, अर्डईच्च गणस्य, तदाय्यार्ड’ निष्पद्यते । द्वितीय-मप्यई तादृशमेव । समप्रविभागेऽईशब्दः । यद्येवम्, अर्जश-व्दस्य अई न पुंसकम् इत्यनेनैकदेशिसमासे सति पूर्वनिपातः प्राप्नोति । यथा, अर्ड।ढकम्, अईपलम्, अईखारी, इति । नैष दोषः । सत्यपि समप्रविभागत्वे सम्बन्धमात्रस्यात्र विवचितत्वात् समप्रविभागस्याईशब्दस्यैकदेशिसमास व्यभिचारदर्शनात् । यथा, तुलार्डेन गां क्रोणाति (९) ।
पणार्द्धक्रीतताम्बूलचवणीद् गर्विताननाः।
अनभ्यासाद् गलल्लाला यान्त्येते वारयात्रिकाः॥
तथा अत्र समप्रविभागत्वेऽप्यईशब्दस्यैकदेशिसमासदर्शनाच्च ।
अर्धचन्द्रं दधन्मूङ्गि पातु वः पार्बतीपतिः ।
कालकूटविषं हन्तुं सङ्गृहीतमिवामृतम् ॥
तथाच।
तुल्यार्थ तुल्यसामर्थ्य मीचं व्यवसायिनम् ।
अर्द्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥
अत्रार्द्धस्य लक्षणं कुर्वाण एवं ज्ञापयत्याचाय्यः, यदाय्याया-मवान्तरपादव्यवस्था नास्ति । तेन हौपादन्यस्मादित्यादौ गण-त्रयस्यान्ते गुरुत्वं (१) न स्यात् ॥
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥
4.15
मूलम्
अत्रायुङ् न ज्
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अत्र’ आर्य्याच्छन्दसि, ‘अयुग्’ गणः, प्रथमस्तृतीयः पञ्चमः सप्तमच, ‘न जगणः’ मध्यगुरुर्न (१) कर्त्तव्यः । शेषास्तु कामतोऽच भवन्ति ॥
4.16
मूलम्
षष्ठो ज्
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अत्रार्याच्छन्दसि षष्ठो जगणो (।ऽ।) मध्यगुरुरेव भवति । तत्रोदाहरणम्-
१ २ ३ ४ ५ ६ ७
⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞
ऽऽ ।ऽ। ।ऽ। ऽ।। ऽऽ ।ऽ। ।ऽ
यादृ श्यतेऽम्ब रतले कंसव धोत्पा तविद्यु दिव ।
4.17
मूलम्
न्लौ वा
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
षष्ठः’ इत्यनुवर्तते। आर्यायाः षष्ठो गणः (।। ।।) सर्वलघुर्वा भवति । तत्रोदाहरणम्-
रूपान्तरेणदेवीं तामेव स्तौमि सपदिकिल महिषः ।
पादस्पर्शसुखादिव मीलितनयनोऽभवद्यस्याः ।।
4.18
मूलम्
न्लौ चेत्पदं द्वितीयादि
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
षष्ठो (।। ।।) गणः सर्वलघुश्चेद्भवति, तदा द्वितीयाक्षरादारभ्य पदं प्रवर्तते । पूर्वमेवोदाहरणम् ।।
4.19
मूलम्
सप्तमः प्रथमादि
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
षष्ठे गणे मध्यगुरौ (।ऽ।) सर्वलघौ (IIII) वा जाते सप्तमो गणः (IIII) सर्वलघुश्चेद्भवति, तदा प्रथमाक्षरादारभ्य पदं प्रवर्तते । तत्रोदाहरणम् -
ब्रह्मक्षत्रकुलीनः समस्त सामन्तचक्रनुतचरणः ।
सकलसुकृतैकपुञ्जः श्रीमान् मुञ्जश्चिरं जयति ।।
जयति भुवनैकवीरः सीरायुधतुलितविपुलबलविभवः ।
अनवरतवित्तवितरण निर्जितचम्पाधिपो मुञ्जः ।।
4.20
मूलम्
अन्त्ये पञ्चमः
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अन्त्ये भवमन्त्यम् । दिगादित्वाद्यत् । अन्त्ये द्वितीयार्धे पञ्चमश्चेद्गणः (।।।।) सर्वलघुर्भवति, तदा प्रथमादि पदं प्रवर्तते । तत्रोदाहरणम्-
स जयति वाक्पतिराजः सकलार्थिमनोरथैक कल्पतरुः ।
प्रत्यर्भिभूतपार्थिव लक्ष्मीहठहरणदुर्ललितः ।।
4.21
मूलम्
षष्ठश्च ल्
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अन्त्ये’ इत्यनुवर्तते। अन्त्ये द्वितीयेऽर्थे मध्यगुरौ (।ऽ।) सर्वलधौ (।। ।।) वा षष्ठे गणे प्राप्ते तदपवादो लकारो विधीयते । पूर्वमेवोदाहरणम् ।।
4.22
मूलम्
त्रिषु गणेषु पादः पथ्याद्ये च
अनुवृत्तिः = “आर्या”
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
चकारोऽन्त्य इत्यनुकर्षणार्थः । यस्या आर्याया अन्त्येऽर्धे आद्ये च त्रिषु गणेषु पादः समाप्यते, सा आर्या ‘पथ्या’ नाम भवति । तद्यथा-
पथ्या-शी व्या-यामी स्त्रीषु जि- तात्मा नरो न रोगी स्यात् ।
यदि वच-सा मन-सा वा- द्रुह्यति नित्यं न भूते-भ्यः ।।
पादग्रहणं यत्युपलक्षणार्थम् ।।
4.23
मूलम्
विपुलान्या
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य आर्याया अन्त्येऽर्थे, आद्ये वोभयोर्वा त्रिषु गणेषु पादो न विश्राम्यति, सा आर्या ‘विपुला’ नाम । सा चाद्यन्तोभयपूर्वकत्वात्रिधा भवति । सामान्येन विधानमेतत् ।। तत्रादिविपुला-
स्निग्ध - च्छाया लावण्यलेपिनी किं चिदवन- तघ्राणा ।
मुखविपुला सौभाग्यं लभते स्त्रीत्या -ह माण्ड-व्यः ।।
अन्त्यविपुला-
चित्तं हरन्ति हरिणीदीर्घदृशः कामिनां क-लाला-पैः ।
नीवी-विमोच- नव्या- जकथित - जघना जघनवि- पु-लाः ॥
उभयविपुला-
या स्त्री कुचकल-शनितम्बमण्ड- ले जायते महाविपु-ला ।
गम्भीरनाभि-रतिदी- पलोचना भवति सा सु-भ-गा।
अत्रोच्यते - पथ्याविपुलालक्षणयोः सहानवस्थानलक्षणो विरोधः, तेन मिश्रीभावो नास्ति । य एवांशो विपुलयाभिस्पृष्टस्तेनैव पथ्यात्वं नष्टं भवति, उभयाश्रयत्वाच्च पथ्या-लक्षणस्य विपुलायास्तत्रांशेनापि प्रवेशो दुर्लभः । ततश्च पथ्यालक्षणैकांशवैकल्येऽपि तद-न्यमात्रविषयत्वाद्विपुला भवत्येव । पथ्याचपलोश्च विरोधाभावाद्वाध्यबाधकभावो नास्ति । तत्रायं संग्रहः -
‘एकैव भवति पथ्या तिस्रो विपुलाश्चतस्त्र एवं ताः ।
चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥
गीतिचतुष्टयमित्थं प्रत्येकं षोडशप्रकारं स्यात् ।
साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः ।।’
तेषामनुक्तोदाहरणान्यूह्यानि ।।
4.24
मूलम्
चपला द्वितीयचतुर्थों ग्मध्ये जौ
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
मृतसञ्जीवनी-अधिकारोऽयम् । द्वितीयचतुर्थी गणौ मध्यगुरु (।ऽ।) भवतः । प्रथमश्चान्तगुरु (।।ऽ), तृतीयो द्विगुरुः (ऽऽ), पञ्चमश्चादिगुरुः (ऽ।।)। शेषं यथाप्राप्तम् । एवं गकारयोर्मध्ये द्वितीयचतुर्थी जकारौ भवतः, सा आर्या ‘चपला’ नाम। उदाहरणमग्रतः ।।
4.25
मूलम्
पूर्वे मुखपूर्वा
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
पूर्वेऽर्धे चपलालक्षणं चेद्भवति, तदासौ ‘मुखचपला’ आर्या । पथ्यापूर्वकं मुखचपलोदाहरणम्-
अतिदा-रुणा द्वि-जिह्वा परस्य ‘रन्ध्रा- नुचारिणी कुटि-ला।
दूरा-त्परिहर-णीया नारी नागी- व मुखच-प-ला ।।
आदिविपुलापूर्वकं मुखचपलोदाहरणम् -
यस्या विलोचने पि-ङ्गले भु-वौ सं- गते मुखं दीर्घम् ।
विपुलो-न्त्रताश्च दन्ताः कान्ता- सौ भवति मुखच-प-ला ।।
अन्त्यविपुलापूर्वकं मुखचपलोदाहरणम्-
विपुलाभिजातवंशोद्भवापि रूपातिरेकरम्यापि।
निर्वा-स्यते गृ-हाद्व-ल्लभापि चेद्भवति मुखच-प-ला ।।
4.26
मूलम्
जघनपूर्वेतरत्र
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
द्वितीयेऽर्धे चपलालक्षणं चेद्भवति, सार्या ‘जघनचपला’ नाम । तत्र पथ्यापूर्वकं जघनचपलोदाहरणम्-
यत्पा-दस्य क- निष्ठा न स्पृशति महीमनामि-का वा-पि।
सास-र्वधूर्त-भोग्याभवेद- वश्यंजघनच-प-ला ।।
अन्त्यविपुलापूर्वकं जघनचपलोदाहरणम्-
यस्याः पादाङ्गुष्ठं व्यतीत्य याति प्रदेशि-नी दीर्घा ।
विपुले कुले प्र-सूता-पि सा ध्रुवं जघनचपला स्यात् ।।
महाविपुलापूर्वकं जघनचपलोदाहरणम् -
मकरध्वजस-द्मनि दृश्यते स्फुटं तिलकलाञ्छनं यस्याः ।
विपुला- न्वयप्रजातापि जायते जघन-च-पला- सौ ।।
4.27
मूलम्
उभयोर्महाचपला
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्या उभयोरर्धयोश्चपलालक्षणं भवति, सार्या ‘महाचपला’ नाम । तत्र पथ्यापूर्वकं महाचपलोदाहरणम् -
हृदयं हरन्ति नायों मुनेर-पि भ्रू- कटाक्ष- विक्षे-पैः ।
दोर्मू-लनाभि-देशं निदर्श- यन्त्यो महाच-प-लाः ।।
विपुलापूर्वकं महाचपलोदाहरणम् -
चिबुके कपोल-देशे ऽपि कूपिका दृश्यते स्मिते य-स्याः ।
विपुला- न्वयप्र- जाता- पि जायते सा महाच-प-ला ।।
4.28
मूलम्
आद्यर्धसमा गीतिः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
आद्यर्धेन सममन्त्यमर्ध यस्याः साद्यर्धसमा ‘गीतिः’ नाम। अन्त्यपदलोपी समासः । एतदुक्तं भवति - द्वितीयेऽप्यर्धे षष्ठो गणो (।ऽ।) जकारो न्लौ (।। ।।) वा कर्तव्यः ।।
तत्र पथ्यागीत्युदाहरणम् -
मधुरं वीणा-रणितं पञ्चमसुभगश्च कोकिलाला-पः ।
गीतिः पौरव-धूनां सुप्तं कुसुमा - युधं प्र- बोधय-ति ।।
आदिविपुलागीत्युदाहरणम् -
इयमप-रा विपु-ला गी- तिरुच्यते सर्वलोक- हितहेतोः ।
यदनिष्टमात्म- नस्त- त्परेषु भवतापि मा क्वचित्कारि ।।
पथ्यामहाचपलागीत्युदाहरणम्-
कामं चकास्ति- गीति- मृगीदृशां सीधुपान- चपला - नाम् ।
सुरतं च मुक्तलज्जं निरर्गलोल्लापमणित - रमणी - यम् ।।
महाविपुलामहाचपलागीत्युदाहरणम्-
पञ्चे-षुवल्ल-भः पञ्चमध्वनिस्तत्र भवति यदि विपुलः ।
4.29
मूलम्
अन्त्येनोपगीतिः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
समा’ इत्यनुवर्तते । अन्त्येनार्धेन सममाद्यमर्धं यस्याः, सार्या ’ उपगीतिः’ नाम । तत्र पथ्योपगीत्युदाहरणम्-
गान्धर्वं मकरध्वज देव-स्यास्त्रं जगद्वि-ज-यि ।
इति सम-वेक्ष्य मुमुक्षुभिरुपगी- तिस्त्य- ज्य- ते दे-शः ।।
महाविपुलोपगीत्युदाहरणम् -
विपुलो-पगीति झङ्कारमुखरि ते भ्रम-रमाला-नाम् ।
रैवत-कोपव-ने व-स्तुमस्तु सततं मम प्री-तिः ॥
पथ्यामहाचपलोपगीत्युदाहरणम् -
विषया-मिषाभि-लाषं करोति चित्तं सदा च-प- लम्।
वैरा- ग्यभाव- नानां तथोप- गीत्या भ-वेत्स्व - स्थम् ।।
महाविपुलामहाचपलोपगीत्युदाहरणम्-
विपुलोपगीति संत्यज्यतामि दं स्थान कं भि-क्षो ।
विषया-भिलाष-दोषेण बाध्य - ते च-च-लं चित्तम् ।।
4.30
मूलम्
उत्क्रमेणोद्गीतिः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
पूर्वोक्तात्क्रमाद्विपरीतः क्रम उत्क्रमः । अयमर्थः- आद्यमन्त्यं भवत्यर्थम्, अन्त्यमादौ, सा ‘उद्गीतिः’ नाम आर्या। तत्र पथ्योद्गीत्युदाहरणम् -
व्याध इवोद्गीतिरवैः प्रथमं तावन्मनोहरसि ।
दुर्नय कर विश्राम्यसि पश्चात्प्राणेषु विप्रियैः श-ल्यैः ।।
महाविपुलोद्गीत्युदाहरणम् -
एषा तवाप-रोगी-तिरत्र विपुला परिभ्र-म-ति ।
त्वद्वल्लभापि यत्कीर्तिरखिलदिक्पालपार्श्वमुपयाति ।।
पथ्यामहाचपलोद्गीत्युदाहरणम् -
उद्गीतिरत्र नित्यं प्रवर्तते का-मचपलानाम् ।
तस्मान्मुने वि-मुञ्च प्रदेश- मेतं समेतमेता-भिः ।।
महाविपुलामहाचपलोद्गीत्युदाहरणम्-
विपुलापयोधरश्रोणिमण्डले चक्षुषोश्चपला।
उद्गीतिशालिनी कामिनी च सा वाणिनी मनोहरति ।।
4.31
मूलम्
अर्धे वसुगण’ आर्यागीतिः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अष्ट गणाः प्रथमेऽर्धे यस्या भवन्ति सा ‘आर्यागीतिः’ नामार्या । अष्टमोऽपि गणश्चतुर्मात्रिको भवतीत्यर्थः । विशेषाभावात् द्वितीयमप्यर्धं तादृशमेव । अत्रापि षष्ठो मणो द्विविकल्प एव, न लकारः । अर्धे इति वर्तमान पुनरर्धग्रहणाद्गणग्रहणाच्च । इयमपि पथ्यादिलक्षणपूर्वकत्वात् तद्वदार्यागीतिः ।। पथ्यार्यागीत्युदाहरणम् -
अजमज-रममर-मेकं प्रत्यक्चैतन्यमीश्वरं ब्रह्मपरम् ।
आत्मानं भावयतो भवमुक्तिः स्यादितीयमार्यागीतिः ।।
महाविपुलार्यागीत्युदाहरणम् -
विषयांभिलाषमृगतृष्णिकाध्रुवं हरतिहरिणमिवहतहृदयम् ।
विपुलात्ममोक्षसुखकाङ्क्षिभिस्ततस्त्यज्यते विषयरससङ्गः ।।
पथ्याजघनचपलार्यागीत्युदाहरणम् -
वाता - हतोर्मि- माला- चपलं संप्रेक्ष्य विषय - सुखमल्पतरम् ।
मुक्त्वा समस्त-सङ्गं तपोवनान्या- श्रयन्ति तेना-त्मविदः ।।
महाविपुलामहाचपलार्यागीत्युदाहरणम्-
चपला-निचक्षु-रादी- नि चित्त हारी च हन्त हतविषयगणः ।
एकान्तशीलिनां योगिनामतो भवति परमसुखसंप्राप्तिः ।।
इत्यार्याधिकारः ।
4.32
मूलम्
वतालीयं द्विः स्वरा अयुक्पादे युग्वसवोऽन्ते र्ल्गः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
लः’ इत्यनुवर्तते । यत्रायुक्पादे प्रथमे तृतीये च द्विः स्वराश्चतुर्दश लकारा भवन्ति, युक्पादे च द्वितीये चतुर्थे च युग्वसवः षोडश लकाराः, तत् ‘वैतालीयं’ नाम छन्दः । तेषां लां मध्ये उभयोरपि पादयोरन्ते रेफलकारगकाराः कर्तव्याः । आद्ये पादे षड् लकाराः ‘पश्चादवशिष्यन्ते, द्वितीये चाष्टौ । एवं वैतालीयार्धं सिद्ध्यति । द्वितीयमप्यर्ध तादृशमेव । तत्रोदाहरणम्-
क्षु-त्क्षी-ण-श-री-र-सं-च-या व्यक्ती-भू-त-शि-रा-स्थि-प-अ-राः ।
के-शैः प-रु-बै-स्त-वा-र-यो वै-ता-ली-य-त-नुं वि-त-न्व-ते ।।अपि च ।
त-व-त-न्वि क-टा-क्ष-वी-क्षि-तैः प्र-स-र-द्भिः श्र-व-णा-न्त-गो-च-रैः ।
वि-शि-खै-रि-व ती-क्ष्ण-को-टि-भिः प्र-ह-तः प्रा-णि-ति दु-ष्क-रं न-रः ।।
यथा च ।
श-व-शो-णि-त-प-ङ्क-च-र्चि-तं पु-रु-षा-न्त्र-ग्र-थि-तो-ध्र्ध्व-मू-र्ध-जम् ।
व-पु-रा-न्त-र-व-हि-दी-पि-तं वै-ता-ली-य-मि-दं वि-लो-क्य-ताम् ।।
वैतालीयमिति वेतालशब्दात्कृशाश्वा (पा०सू० ४।२।८०) देराकृतिगणत्वाच्छण्-प्रत्ययश्चातुरर्थिकः । अत्र पादग्रहणमिदं ज्ञापयति, यत्-आर्यादीनां ‘पादश्चतुर्भागः’ (पि० सू० ४।१०) इति व्यवस्था नास्ति ।।
4.33
मूलम्
गौपच्छन्दसकम्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अस्मिन् वैतालीये छन्दस्यते गकारश्चेदधिको भवति, तद् ‘औपच्छन्दसकं’ नाम छन्दः । तत्रोदाहरणम् -
वाक्यै-र्म-धु-रैः प्रतार्य पूर्वं यः प-था-द-तिसंदधाति मित्रम् ।
तं दु-ष्ट-म-तिं वि-शि-ष्ट-गो-ष्ठ्या-मौ-प-च्छ-न्द-स-कं व-द-न्ति बा-ह्यम् ।।
प-र-म-र्म-नि-री-क्ष-णा-नु-र-क्तं स्व-य-म-त्य-न्त-नि-गू-ढ-चि-त्त-वृ-त्तिम् ।
अ-न-व-स्थि-त-म-र्थ-लु-ब्ध-मा-रा-दौ-प-च्छन्द-स-कं ज-ही-हि मि-त्रम् ।।
उपछन्दः शब्दादरीहणादि (पा०सू० ४।२।८०) पाठाच्चातुरर्थिको वुञ्प्रत्ययः ।।
4.34
मूलम्
आपतालिका भ्गौ ग्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
रेफलकारगकाराणामपवादः । ‘द्विस्वरा अयुक्पादे युग्वसवोऽन्ते’ (पि०सू० ४।३२) इत्यनुवर्तते । पूर्वलक्षणयोरन्ते भकारो गकारी - च भवतः, तद्वैतालीयम् ‘आपातलिका’ नाम लभते । तत्रोदाहरणम्-
पि-ङ्ग-ल-के-शी क-पि-ला-क्षी वा-चा-टा वि-क-टो-न-त-द-न्ती ।
आ-पा-त-लि-का पु-न-रे-षा नृ-प-ति-कु-ले-ऽपि न भा-ग्य-मु-पै-ति ।। आपातलिका अस्थिरेत्यर्थः ।।
4.35
मूलम्
शेषे परेण युङ् न साकम्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अत्र वैतालीयाधिकारे येषां लकाराणां नियम उक्तस्तव्यतिरिक्तो लकारवर्णः शेषः, तस्मिन्नियमः क्रियते - युग्लकारः परेण साकं न मिश्रीकर्तव्यः । द्वितीयस्तृतीयेन, चतुर्थः, पञ्चमेन, युक्पादे षष्ठश्च सप्तमेन। एवं वदता शेषाणां मिश्रीभावोऽप्यनुज्ञातः । अत्रोदाहरणं पूर्वमेव ।।
4.36
मूलम्
षट् चामिश्रा युजि
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अत्र द्वितीयचतुर्थयोः पादयोः षट् लकारा अमिश्रा न कर्तव्याः । पृथग् न प्रयोक्तव्या इत्यर्थः । प्रथमतृतीययोश्च पादयोः स्वरुचिः । तत्रोदाहरणं वैतालीये तावत्-
स-म-र-शि-र-सि स-ह्य-ते द्वि-षां न-व-नि-शि-ता-यु-ध-वृ-ष्टि-र-ग्र-तः ।
कु-व-ल-य-द-ल-दी-र्घ-च-क्षुषां प्र-म-दा-नां न क-टा-क्ष-वी-क्षि-तम् ।।
औपच्छन्दसकोदाहरणम् -
प-र-यु-व-ति-षु-पु-त्र-भा-व-मा-दौ कृ-त्वा-प्रा-र्थ-य-ते त-तः प-ति-त्वम् ।
इ-द-म-प-र-मि-हो-च्य-ते वि-शे-षा-दौ-प-च्छ-न्द-स-कं ख-ल-स्य वृ-त्तम् ।।
आपातलिकोदाहरणम् -
अ-भि-र-म-य-ति किं-न-र-क-ण्ठी हं-स-ग-तिः श्र-व-णा-य-त-ने-त्रा ।
वि-श-द-क-म-ल-को-म-ल-गा-त्री यु-व-ति-रि-यं ह-द-यं त-रु-णा-नाम् ।।
4.37
मूलम्
पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
इदानीं विशेषलक्षणमाह- ‘शेषे परेण युङ् न साकम्’ (पि०सू० ४।३५) इत्यत्र पञ्चमचतुर्थयोरेकीभावो निषिद्धः सोऽनेन विधीयते। ‘युजि’ इत्यनुवर्तते । यदा युक्पादे पञ्चमेन लकारेण पूर्वः संगच्छते तदा ‘प्राच्यवृत्तिः’ नाम वैतालीयं भवति ।
शेषं यथा प्राप्तम् । तत्रोदाहरणम्-
वि-पु-ला-र्थ-सु-वा-च-का-क्ष-राः क-स्य ना-मन ह-र-न्ति मा-न-सम्?।
र-स-भा-व-वि-शे-ष-पे-श-लाः प्रा-च्य-वृ-त्ति-क-वि-का-व्य-सं-प-दः ।।
4.38
मूलम्
अयुक्तृतीयेनोदीच्यवृत्तिः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
पूर्वः साकम्’ इत्यनुवर्तते । अयुक्पादे तृतीयेन लकारेण यदि पूर्वः संगच्छते, तदा ‘उदीच्यवृत्तिः’ नाम वैतालीयम् । शेषं यथाप्राप्तमेव । तत्रोदाहरणम्-
अ-वा-च-क-म-नू-र्जि-ता-क्ष-रं श्रु-ति-दु-प्ष्टं य-ति-क-ष्ट-म-क्र-मम् ।
प्र-सा-द-र-हि-तं च ने-ष्य-ते क-वि-भिः का-व्य-मु-दी-च्य-वृ-त्ति-भिः ।।
4.39
मूलम्
आभ्यां युगपत्प्रवृत्तकम्
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
आभ्यां पूर्वोक्तलक्षणाभ्यां युगपत्प्रवृत्ताभ्यां ‘प्रवृत्तकं’ नाम वैतालीयम् । युक्पादे पञ्चमेन पूर्वः संगच्छते, अयुक्पादे तृतीयेन द्वितीय इत्यर्थः । तत्रोदाहरणम् –
इ-द भ-र-त-वं-श-भू-भृ-तां श्रू-य-तां श्रु-ति-म-नो-र-सा-य-नम् ।
प-वि-त्र-म-धि-कं शु-भो-द-यं व्या-स-व-क्र-क-धि-तं प्र-वृ-त्त-कम् ।।
4.40
मूलम्
अयुक्चारुहासिनी
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य सर्वे पादा अयुग्लक्षणयुक्तास्तद्वैतालीयं ‘चारुहासिनी’ नाम । किं तल्लक्षणम् ? चतुर्दशमात्रत्वं, तृतीयेन पूर्वस्य योगः । तत्रोदाहरणम् -
म-ना-क्प्र-सृ-त-द-न्त-दी-धि-तिः स्म-रो-ल्ल-सि-त-ग-ण्ड-म-ण्ड-ला।
क-टा-क्ष-ल-लि-ता तु का-मि-नी म-नो ह-र-ति चा-रु-हा-सि-नी ।।
4.41
मूलम्
युगपरान्तिका
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
युग्लक्षणयुक्तैश्चतुर्भिः पादैः ‘अपरान्तिका’ नाम वैतालीयम् । किं तल्लक्षणम् ? षोडशमात्रत्वम्, पञ्चमेन पूर्वस्य योगः, षण्णां मिश्राणां प्रयोगश्च । तत्रो-दाहरणम्-
स्थि-र-वि-ला-स-न-त-मौ-क्ति-का-व-ली क-म-ल-को-म-ला-ङ्गी मृ-गे-क्ष-णा ।
ह-र-ति क-स्य ह-द-यं न का-मि-नः सु-र-त-के-लि-कु-श-ला-प-रा-न्ति-का ॥
अपरस्यान्तिके समीपे स्थिता, परकीयेत्यर्थः ।।
इति वैतालीयाधिकारः ।
4.42
मूलम्
गन्ता द्विर्वसवो मात्रासमकं ल् नवमः
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
वैतालीयम्-’(पि०सू० ४।३२) इत्यादिसूत्रात्सप्तम्यन्तं ‘पाद’ ग्रहणमनुवर्तते । ‘ल्’ इति च महानधिकारः। तेनायमर्थः- यत्र पादे गन्ताः सन्तः, षोडश लकारा भवन्ति, तत् ‘मात्रासमकं’ नाम छन्दः। अन्ते द्वाभ्यामेको गुरुः (5) कर्तव्यः । नवमश्च लकार (1) एव । ‘द्विर्वसवः’ इति द्विगुणिता वसवः, लकाराः षोडशेत्यर्थः । ‘शेषे परेण युङ् न साकम्’ (पि०सू० ४।३५) इत्यनुवर्तनीयम् । तत्रोदाहरणम् -
अश्मश्रु-मु-खो वि-र-लै-र्द-न्तै र्ग-म्भी-रा-क्षोन-त-ना-सा-ग्रः ।
नि-र्मा-स-ह-नुः स्फु-टि-तैः के-शै र्मा-त्रा-स-म-कं ल-भ-ते दुःखम् ॥
‘गन्त-’ (पि०सू० ४।३२) इत्यनेनैवान्तस्य गुरुत्वे सिद्धे पुनर्गन्तग्रहणमातिदेशिक-गुरुत्वनिवृत्त्यर्थम् । तेनात्र द्वौ लकारौ (।।) भङ्क्त्वा द्विमात्रिको गुरुः (ऽ) क्रियत इति वाक्यशेषः ।।
4.43
मूलम्
द्वादशश्च वानवासिका
अधिकारः
लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य मात्रासमकस्य पादे द्वादशो लकारः (।) स्वरूपेणावतिष्ठते चकारान्त्रवमश्च, तन्मात्रासमकं ‘वानवासिका’ नाम । तत्रोदाहरणम् -
म-न्म-थ-चा-प-ध्व-नि-र-म-णी-यः सु-र-त-म-हो-त्स-व-प-ट-ह-नि-ना-दः ।
व-न-वा-स-स्त्री-स्व-नि-त-वि-शे-षः क-स्य न चि-त्तं र-म-य-ति पुं-सः ॥
4.44
मूलम्
विश्लोकः पञ्चमाष्टमौ
हलायुधवृत्तिः
द्वादशग्रहणं नवमग्रहणं च निवृत्तम् । यत्र चतुषु पादेषु पञ्चमाष्टमौ लकारी (।) तिष्ठतः, शेषं यथाप्राप्तम्, तन्मात्रासमकं ‘विश्लोका’ नाम । तत्रोदाहरणम्-
भ्रा-त-गु-ण-र-हि-तं वि-श्लो-कं दु-र्न-य-क-र-ण-क-द-र्थि-त-लो-कम् ।
जा-त-म-हि-त-कु-ले-ऽप्य-वि-नी-तं मित्रं प-रि-ह-र सा-धु-वि-गी तम् ।।
4.45
मूलम्
चिंत्रा नवमश्च
हलायुधवृत्तिः
यस्य नवमो लकार (।) एवावशिष्यते चकारात्पञ्चमाष्टमौ च, तन्मात्रासमकं ‘चित्रा’ नाम । तत्रोदाहरणम् -
य-दि वा-ञ्छ-सि प-र-प-द-मा-रो-ढुं मै-त्री प-रि-ह-र स-ह व-नि-ता-भिः ।
मु-ह्य-ति मु-नि-र-पि वि-ष-या-स-ङ्गा- च्चि-त्रा भ-व-ति हि म-न-सो वृ-त्तिः ॥
‘नवमः’ (पि०सू० ४।४२) इत्यनुवर्तमानेऽपि पुनर्नवमग्रहणमुपचित्राप्रतिप्रसवार्थम् ।
4.46
मूलम्
परयुक्तेनोपचित्रा
हलायुधवृत्तिः
परयुक्तेन दशमेन सहैकीभूतेन नवमेन ‘उपचित्रा’ नाम भवति । पूर्व लघुनियमेन लक्षणं प्रोक्तम्। इदं तु गुरुनियमेनोच्यते । तत्रोदाहरणम् -
य-च्चि-त्तं गु-रु-स-क्त-मु-दा-रं वि-द्या-ध्या-स-म-हा-व्य-स-नं च।
पृथ्वी त-स्य गुणै-रु-प-चि-त्रा च-न्द्र-म-री-चि-नि-भै-र्भ-व-ती-यम् ।।
4.47
मूलम्
एभिः पादाकुलकम्
हलायुधवृत्तिः
एषां पञ्चानां मध्ये यैः कैश्चिदपि चतुर्भिः पादैः ‘पादाकुलकं’ नाम । मात्रासमकविश्लोकवानवासिकोपचित्राणां पादैरुदाहरणम् –
अ-लि-वा-चा-लि-त-वि क-सि-त-चू-ते का-ले म-द-न-स-मा-ग-म-दू-ते।
स्मृ-त्वा का-तां प-रि-ह-त-सा-र्थः पा-दा-कुल-कं धा-व-ति पा-न्थः ॥
तथा विश्लोकोपचित्रामात्रासमकोपचित्राणां पादैः ‘पादाकुलकम्’ । तत्रोदाहरणम् -
चि-त्तं भ्रा-म्य-त्य-न-व-स्था-नं पा-दा-कु-ल-क-श्लो-क-स-मा-नम् ।
का-यः का-य-ति शा-य-ति श-क्ति-स्त-द-पि न म-मं प-र-लो-के भ-क्तिः ।।
यथा पादाकुलकनाम्नः श्लोकस्य पादेष्वस्थिरता तथेत्यर्थः ।
उपचित्रापादेनैकेन, वानवासिकापादेन, पुनरुपचित्रापादाभ्यां पादाकुलकम् । तत्रोदाहरणम्-
प-रि-ह-त-स-र्व-प-रि-ग्र-ह-लो-कः
प्र-ति-दि-न-व-र्धि-त-गु-रु-त-र-शो-कः ।
दुः-ख-वि-व-र्धि-त-लो-च-न-वा-रिः
पा-दा-कु-ल-कं या-ति त-वा-रिः ।।
इति मात्रासमकाधिकारः ।
4.48
मूलम्
गीत्यार्या लः
हलायुधवृत्तिः
यत्र पादे द्विर्वसवः षोडश लकारा भवन्ति सा ‘गीत्यार्या’ नाम जातिः । ‘लः’ इत्यनुवर्तमाने पुनर्लग्रहणं द्विमात्रिकनिवृत्त्यर्थम् । तत्रोदाहरणम् -
म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि
वि-क-सि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि।
गि-रि-व-र-प-रि-स-र-स-र-सि म-ह-ति ख-लु
र-ति-र-ति-श-य-मि-ह म-म ह-दि वि-ल-स-ति ।।
सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तन्नाम नोक्तम् ।।
4.49
मूलम्
शिखा विपर्यस्तार्धा
हलायुधवृत्तिः
सैव गीत्यार्या विपर्यस्तार्धा यदा भवति तदा ‘शिखा’ इत्याख्यां लभते । अयमर्थः - यत्रार्धं सर्वलघु भवति, अर्धं च सर्वगुरु, इति ।
एवं तस्या एव विन्यासभेदेन संज्ञाद्वयमाह -
4.50
मूलम्
लः पूर्वश्चेज्ज्योतिः
हलायुधवृत्तिः
पूर्वश्चेदर्धभागः सर्वलघुर्द्वात्रिंशल्लकारो (३२) भवति, उत्तरश्च सर्वगुरुः षोडश (१६) गकारस्तदा ‘ज्योतिः’ नाम शिखा भवति । तत्रोदाहरणम् -
य-दि सु-ख-म-नु-प-म-म-प-र-म-भि-ल-ष-सि
प-रि-ह-र यु-व-ति-षु र-ति-म-ति-श-य-मि-ह।
आ-त्म-ज्यो-ति-यों-गा-भ्या-सा-
दृष्ट्वा दुःख-च्छे-दं कुर्याः ॥
4.51
मूलम्
गश्चेत्सौम्या
हलायुधवृत्तिः
तस्या एव शिखायाः पूर्वार्धभागः सर्वगुरुः षोडश (१६) गकारश्चेद्भवति, उत्तरश्च द्वात्रिंश (३२) ल्लकारो भवति, तदा ‘सौम्या’ नाम शिखा भवति । तत्रोदाहरणम् -
सौ-म्यां दृ-ष्टिं देहि स्ने-हा
द्दे-हे-ऽस्माकं मा-नं मुक्त्वा ।
श-श-ध-र-मु-खि! सु-ख-मु-प-न-यम-म ह-दि
म-न- सि- ज-रु-ज-म-प-ह-र ल-घु-त-र-मि-ह ।।
4.52
मूलम्
चूलिकैकोनत्रिंशदेकत्रिंशदन्ते ग्
हलायुधवृत्तिः
अर्ध ग्रहणम् (पि०सू० ४।४९) अनुवर्तते । यत्र प्रथमेऽर्थे एकोनत्रिंश (२९) ल्लकारा भवन्ति, द्वितीये चार्ध एकत्रिंशत् (३१), तयोश्चान्ते द्वौ (।।) लकारावुन्मूल्य प्रत्येकमेको गुरुः (5) क्रियते, तत् ‘चूलिका’ नाम छन्दः । ‘अन्ते ग्’ इति विशेषो-पादानसामर्थ्यादन्येषां लघुत्वमुक्तं भवति । तेनाद्ये सप्तविंशति (२७) र्लघवः, अन्ते गुरुरेको भवति । द्वितीयेऽप्येकोनत्रिंश (२९) ल्लघवः, अन्ते गुरुश्चैकः । तत्रोदाहरणम्-
र-ति-क-र-म-ल-य-म-रु-ति शु-भ-श-श-
म-भि-ह-त-हि-म-म-ह-सि म-धु-स-म-ये।
प्र-व-स-सि प-थि-क! वि-र-हि-त! क-थ-मि-ह तु
प-रि-ह-त-यु-व-ति-र-ति-च-प-ल-त-या ।।
अन्यैः पुनरन्यथैवेदं सूत्रमधीयते- ‘चूलिकार्धमेकोनत्रिंशदन्ते ग्’ इति । तेषामुभ-योश्चाप्यर्धयोरेकोनत्रिंशन्मात्रा गुर्वन्ता भवन्ति । तत्रोदाहरणम् -
घ-न-प-रि-म-ल-मि-ल-द-लि-कु-ल-मु-ख
रि-त-नि-खि-ल-क-म-ल-म-ल-य-प-व-ने।
ज-न-य-ति म-न-सि श-शि-मु-खि मु-द-म
ति-श-य-मि-ह म-म म-धु-र-य म-धु-ना ।।
‘अर्ध’ ग्रहणादत्र पादव्यवस्था नास्तिः ।।
इदानीं गणमात्राच्छन्दसां गुरुलघुसंख्यापरिज्ञानार्थमिदमाह -
4.53
मूलम्
साग् येन न समा लां ग्ल इति
हलायुधवृत्तिः
सा गुरुसंख्या वेदितव्या । येन यावद्भिरक्षरैः। लां लघूनां मात्राणाम्। समाः समसंख्या ग्लो न स्युः । अपि तु न्यूनसंख्या एव । ‘ग्लः’ इत्यक्षराण्यभिधीयन्ते तेषां गुरूलघुरुपत्वात् । अयमभिप्रायः- आर्यादिषु शास्त्रे यावत्यो मात्रा उपदिष्टास्तावन्त्यक्षराणि यथासंख्यं न पूर्यन्ते, सा तत्र गुरुसंख्या वेदितव्या। अवशिष्टा लघुसंख्या। तत्रायमुपयोगः-यदा कश्चित्पृच्छति, चत्वारिंशदक्षरायामार्यायां कति गुरवः संपद्यन्ते, ? कति वा लघव? इति, तदा सप्तपञ्चाशन्मात्रोपदिष्टायामार्यायां मात्रासंख्यायां चत्वारिंशदक्षरसंख्या (४०) मपनीय तत्र येऽवशिष्यन्ते, तान् गुरूनुपदिशेत्। ते च सप्तदशैव (१७)। शेषांस्तु त्रयोविंशति (२३) लघुरूपानुपदिशेत् । तद्यथा-
स्त-न-युग-म-श्रु- स्ना- तं
स-मी-प-त-र-व र्ति ह-दय-शो का ग्नेः ।
च-र-ति-वि-मुक्ता - हा- रं
व्र-त-मि-व भ-व- तो रिपु स्त्रीणाम् ।।
5
5.1
मूलम्
वृत्तम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अधिकारो ऽयमाशास्त्रपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तद् ‘वृत्तम्’ वेदितव्यम् । तेन प्राक्तनं लौकिकं छन्दोजातं ‘जातिः’ इत्युच्यते। इत उत्तरं च ‘वृत्तम्’ । तथा चोक्तम् -
‘पद्यं चतुष्पदी’ तच्च वृत्तं जातिरिति द्विधा।’ (का०द० १।११)
गायत्र्यादौ छन्दसि वर्तत इति ‘वृत्तम्। तच्च स्थिरगुरुलघ्वक्षरविन्यासमिष्यते । पादेन संयोगात् ‘पद्यम्। यथा-आर्यादिच्छन्दः स्वपि पादव्यवस्था नास्तीति पादौ संयुक्तौ, वृत्ते पुनः पृथग्भवत इत्यर्थः । पादेन संयोगाभावात् । तथा चोक्तम् -
‘एकदेशस्थिता जातिवृत्तं गुरुलघुस्थितम्’ इति ।।
5.2
मूलम्
सममर्धसमं विषमं च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
समसर्वावयवत्वात् ‘समम्’ । यस्य चत्वारः पादा एकलक्षणयुक्तास्तत् ‘समं’ वृत्तम् । शेषं च संज्ञानुरूपमेव । तत्रार्धे समे यस्य तत् ‘अर्धसमम्’ सर्वावयवेभ्यः । अर्धाभ्यां च विगतं समं यस्य तद् ‘विषमम्’ । एवं त्रिप्रकारमपि वृत्तजातमुक्तम् ।।
5.3
मूलम्
समं तावत्कृत्वः कृतमर्धसमम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
समम्’ इति समवृत्तसंख्योच्यते । तयैव गुणितं ‘तावत्कृत्वः कृतम्’ उच्यते । एतदुक्तं भवति - समवृत्तसंख्यागुणिते समवृत्तसंख्यायाः पिण्डे या संख्या निष्पद्यते, तावत्संख्यमर्धसमं वेदितव्यम् । तत्र गायत्रे छन्दसि समवृत्तसंख्या चतुःषष्टि (६४) रष्टमाध्यायसिद्धा । तस्यां चतुःषष्टि (६४) संख्यागुणितायामर्धसमवृत्त संख्या संपद्यते - चत्वारि सहस्त्राणि, षण्नवतिश्च वृत्तानि । अङ्कतोऽपि (६४ × ६४) = ४०९६ ।।
5.4
मूलम्
विषमं च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अर्धसमं तावत्कृत्वः कृतं ‘विषमं’ भवति । एतदुक्तं भवति -अर्धसमवृत्तसंख्या (४०९६) अर्धसमवृत्तसंख्यया (४०९६) एव गुणिता विषमवृत्तसंख्या संपद्यते-एका कोटिः, सप्तषष्टिर्लक्षाणि, सप्तसप्ततिसहस्त्राणि, द्वे शते, षोडशोत्तरे । अङ्कतोऽपि (४०९६ × ४०९६) = १६७७७२१६ इति ।।
समसमार्धसमोपचितमर्धसमं विषमं च यथाक्रमं समोपचितं समार्धसमाभ्यां चोपचितं वेदिव्यम् ।।
5.5
मूलम्
राश्यूनम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
तद् विषमं वृत्तं (१६७७७२१६) अर्धसमं (४०९६) वा राश्यूनम् (१६७७७२१६-४०९६ = १६७७३१२०) कर्तव्यम् । मूलराशिः (४०९६) समुदायात् (१६७७७२१६) अपवेतव्य इति। कोटिरेका, सप्तषष्टिर्लक्षाणि, त्रिसप्ततिसहस्राणि, विंशत्युत्तरं शतं शुद्धविषमवृत्तस्य संख्या । अङ्कतः १६७७७३१२० । चत्वारि सहस्राणि, द्वात्रिंशचेति शुद्धार्धसमसंख्या। अङ्कतोऽपि (४०९६-६४) = ४०३२ उभयशेषोऽयं राश्यूनमिति ।।
5.6
मूलम्
ग्लिति समानी
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
गकार (ऽ) लकारा (।) भ्यां यहृतं समाप्यते, तत् ‘समानी’ नाम । ‘पादस्यानुष्टुब्बकम्’ (पि०सू० ५।९) इत्यतः सूत्रात् सिंहावलोकितन्यायेनानुष्टुब्ग्रहणमनुवर्तते । तेनाष्टाक्षरः पादो यावद्भिर्गकारलकारैः पूर्यते, तावतामेव ग्रहणम् । तत्रोदाहरणम्-
वा-स-वो-ऽपि वि-क्र-मे-ण य-त्स-मा-न-तां न या-ति ।
त-स्य व-ल्ल-भे-श्व-र-स्य के-न तुल्य-ता क्रि-ये-त? ॥
अपि च ।
ओँ न-मो ज-ना-र्द-ना-य-प-बंध-मो-च-ना-य।
दु-ष्ट-दै-त्य-म-र्द-ना-य पु-ण्ड-री-क-लो-च-ना-य ।।
5.7
मूलम्
ल्गिति प्रमाणी
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
लकार (१) गकारा (ऽ) भ्यां यद्वृतं समाप्यते तत् ‘प्रमाणी’ नाम । ‘जरौ ‘लगौ’ इत्यपरे’। तत्रोदाहरणम् -
स-रो-ज-यो-नि-र-म्ब-रे र-सा-त-ले त-था-च्यु-तः ।
त-व प्र-मा-ण-मी-क्षि-तुं क्ष-मौ न तौ ब-भू-व-तुः ।।
5.8
मूलम्
वितानमन्यत्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
आभ्यां समानी-प्रमाणीभ्यामन्यदष्टाक्षरपादं छन्दो ‘वितानं’ नाम । तत्रोदाहरणम् -
तृष्णां त्य-ज ध-र्म भ-ज पा-पे हृ-द-यं मा कु-रु ।
इ-ष्टा य-दिल-क्ष्मी-स्त व शि-ष्टा-न-नि-शं सं-श्र-य ।।
द्वितीयं च-
ह-द-यं य-स्यं वि-शा-लं ग-ग-ना-भो-ग-स-मा-नम् ।
ल-भ-ते-ऽसौ म-णि-चि-त्रं नृ-प-ति-र्मू-र्नि वि-ता-नम् ।।
अन्यूच्च-
क-ङ्का-ल-मा-ल-भा-रि-णं कं-द-र्प-द-र्प-हा-रि-णम् ।
सं-सा-र-ब-न्ध-मो-च-नं व-न्दा-म-हे त्रि-लो-च-नम् ।।
अपि च-
त-स्याः स्म-रा-मि सु-न्द-रं च-न्द्रो-प-मा-न-मा-न-नम् ।
कं-द-र्प-चा-प-भ-ङ्गु-र-भ्रू-वि-भ्र-मो-प-शो-भि-तम् ।।
(अपि च) -
अ-न्य-द-तो हि वि-ता-नं श्वे-त-प-टे-न य दु-क्तम् ।
चि-त्र-प-दा-पिच भौ गौ ते-न ग-ता-र्थ-मि-वै-तत् ।।
किं च ‘वितानमन्यत्’ इति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारतां दर्शयति । अन्यथा ‘वितानं भौ गौ’ इत्येव ब्रूयात् ।।
5.9
मूलम्
पादस्यानुष्टुब्वक्रम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
पादस्य’ इत्ययमधिकार आसप्तमाध्यायपरिसमाप्तेः । ‘अनुष्टुब्वक्रम्’ इति च प्राक् पदचतुरूर्ध्वात् (वि०सू० ५।२०) अधिकृतं वेदितव्यम् ।।
5.10
मूलम्
न प्रथमात्स्नौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
प्रतिषेधार्थमिदं सूत्रम् । अत्र वक्रजातौ पादस्य प्रथमादक्षरादूर्ध्व सगण-(।।ऽ) नगणौ (।।।) न कर्तव्यौ ।।
5.11
मूलम्
द्वितीयचतुर्थयो रश्च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
द्वितीयचतुर्थयोश्च पादयोः प्रथमादूर्ध्व रेफो (ऽ।ऽ) न कर्तव्य इत्युपदेशः ।।
5.12
मूलम्
वान्यत्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अन्येषां षण्णां गणानां मध्ये यत्किंचित् गणान्तरं प्रथमान्तरं कर्तव्यम् ।।
5.13
मूलम्
य चतुर्थात्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
य’ इति लुप्तविभक्तिको निर्देशः । पादस्य चतुर्थादक्षरादूर्ध्वं यगणः (।ऽऽ) प्रयोक्तव्यः । सर्वेषामुदाहरणानि -
न वधारा म्बुसंसि-क्त व सुधागन्धिनिःश्वा-सम् ।
किं चिदुन्न तघोणा-ग्रं म ही काम यते व-कम् ।।
अन्यैरप्युक्तम्-
नी लोत्पल वनेष्व-द्य च रन्त्यश्चा रुसंरा-वाः ।
रामाः कौशे यसंवी-ताः प्र नृत्यन्ती-व काद-म्बाः ।।
तथा-
दुर्भाषितेऽपि सौभाग्यं प्रायः प्रकुरुते प्री-तिः ।
मा तुर्मनो हरन्त्ये-व दौ र्लालित्योक्तिभिर्बा-लाः ।।
इत्यादि ।।
5.14
मूलम्
पथ्या युजो ज्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
चतुर्थात्’ (पि०सू० ५।१३) इति वर्तते । अत्र वक्रे युजः (२,४) पादस्य चतुर्था दक्षरादूर्ध्व जगणः (।ऽ।) प्रयुज्यते, तद्वक्रं ‘पथ्या’ नाम । ‘य’ (।ऽऽ) स्यापवादः । अत्रोदाहरणम् -
नित्यं नीति निषण्ण-स्य राज्ञो राष्ट्र न सीद-ति ।
न हि पथ्याशिनः का-ये जायन्ते व्या धिवेद नाः ।।
5.15
मूलम्
विपरीतैकीयम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
उक्तलक्षणाद्विपरीता ‘पथ्या’ भवतीत्येकीयं मतम्, ‘अयुक्पादे चतुर्थादक्षरात् परतो जकारः कर्तव्यः, युक्पादे य एवावतिष्ठते । अत्रोदाहरणम् -
भर्तुराज्ञा नुवर्ति-नी या स्त्री स्यात्सा गृहे ल-क्ष्मीः ।
स्व प्रभुत्वा भिमानि-नी विपरीता परित्या-ज्या ।।
5.16
मूलम्
चपलायुजो न्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अयुक् (१,६) पादस्य यदा चतुर्थादक्षरादूर्ध्वं नकारो (।।।) भवति युक्- (२,४) पादे। य (।ऽऽ) एवावतिष्ठते, तदा ‘चपला’ नाम सानुष्टुव् । तत्रोदाहरणम्-
क्षीयमाणा ग्रदश-ना व क्रनिर्मा सनासा-ग्रा ।
कन्यका वाक्यचपला लभते धूर्तसौभाग्यम् ।।
5.17
मूलम्
विपुला युग्लः सप्तमः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अधिकारोऽयम्। ‘य चतुर्थात्’ (पि०सू० ५।१३) इत्यनेन सर्वत्र यकारे (।ऽऽ) कृते यदा युक् (२,४) पादे सप्तमो वर्णों लघुर्भवति, तदा ‘विपुला’ नाम सानुष्टुव् ।।
ननु पथ्यालक्षणेऽन्तर्भूतत्वात् पुनरुक्तमेतत् । नैवम्, विपुलावर्गस्येदानीमारभ्यमाण-त्वात्तद्विनानुपपत्तेः । युक् (२,४) पादे सप्तमेन लघुनावश्यमेव भवितव्यम् । प्रथमतृतीययोश्चैतावता यकारस्यापवादः । तथा च वक्ष्यति - ‘सर्वतः सैतवस्य’ (पि०सू० ५।१८) इत्यादिना । पथ्यायां तु यकार (।ऽऽ) एवावतिष्ठते ।।
5.18
मूलम्
सर्वतः सैतवस्य
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
सैतवस्याचार्यस्य मतेन युक् (२,४) पादे अयुक् (१,३) पादे च सप्तमो लकार (।) एव कर्तव्यः । अत्रोदाहरणम् -
सै तवेन पथार्ण वं ती र्णो दश रथात्म जः ।
र क्षः क्षय करीं पुनः प्रतिज्ञां स्वे न बाहु ना ।।
5.19
मूलम्
भ्रौ न्तौ च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
सर्वतः सैतवस्य’ (पि०सू० ५।१८) इति निवृत्तम् । ‘चपलायुजो न्’ (पि०सू० ५।१६) इत्येतस्मादयुग्ग्रहणमनुवर्तते । ‘विपुला युग्लः सप्तमः’ (पि०सू० ५।१७) इति सर्वमनुवर्तनीयम्। अयुक् (१,३) पादे यदा चतुर्थादक्षरात्परतो यकारं (।ऽऽ) बाधित्वा भकार (ऽ।।) रेफ (ऽ।ऽ) नकार (।।।) तकारा (ऽऽ।) विकल्पेन भवन्ति, तदासौ ‘विपुला’ नाम । तत्र भकारेण विपुलोदाहरणम् -
इ यं सखे चन्द्रमुखीस्मि तज्योत्स्ना च मानिनी ।
इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ।।
‘अयुजः’ (पि०सू० ५।१६) इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा। तथा च महाकवीनां प्रयोगाः -
वटे वटे वैश्रव णः चत्वरे चत्वरे शिवः ।
पर्वते पर्वते रामः सर्वत्र मधुसूदनः ।। (अग्निपु० ३०५/१४)
देवः सजयति श्रीमान् दण्डधारो महामतिः ।
यस्य प्रसा दाद्भुव नं शाश्वते पथि तिष्ठति ।।
उपस्थितं प्राञ्जलि ना वि नीतेन गरुत्म ता ।
ना रायणे स्तौमि सदा भक्तानां भयनाश नम् ।।
इत्यादि ।।
इदानीं रेफ (ऽ।ऽ) विपुलोदाहरणम्-
लक्ष्मीपतिं लोकना थं रथाङ्गधरमच्युतम् ।
यज्ञेश्वरं शार्ङ्गपा णिं प्रणमामि त्रयीत नुम् ।।
व्यक्तिपक्षे प्रथमे पादे -
म हाकविं कालिदा सं व न्दे वाग्देवतां गुरुम् ।
य ज्ज्ञाने वि श्वमाभाति दर्पणे प्रतिबिम्बवत् ।।
तृतीये पादे-
कामिनीभिः सह प्रीतिः कास्मै नाम न रोच ते।
य दि न स्या द्वारिवी चि चञ्चलं हतजीवि तम् ।।
इदानीं नकार (।।।) विपुलोदाहरणम्-
यस्या विभाति विपुला मन्मथस्था नपिण्डिका।
या चतुःष ष्टिचतु रा सा स्त्री स्यान्नृप वल्लभा ।।
तथैव भारविः -
यु युत्सुने व कव चं कि मामुक्त मिदं त्व या? ।
त पस्विनो हि वस ने केवलाजिनवल्क ले ।।
(किरात० ११।१५)
व्यक्तिपक्षे कालिदासः-
अ नाकृष्ट स्य विष यैर् विद्यानां पा रदृश्व नः ।
त स्य धर्मरतेरा सीद् वृ द्धत्वं ज रसा वि ना ।।
(र०वं० १।२३)
तथा च-
त व मन्त्र कृतो मन्त्रैर् दू रात्सश मितारि भिः ।
प्र त्यादिश्य न्त इव मे दृंष्टलक्ष्यभिदः शराः ।।
(र०वं० १।६१)
तथा च-
त व मन्त्रकृतो म न्त्रैर् दू रात्सश मितारि भिः ।
प्र त्यादिश्य न्त इव मे दू (१) ष्टलक्ष्य (४) भिदःश (७) राः ।।
इदानीं तकार (ऽऽ।) विपुलोदाहरणम्-
जातिपक्षे-
व (१) न्दे देवं (४) सोमेश्व (७) रं ज (१) टामुकु (४) टमण्डि (७) तम् ।
ख (१) ट्वाङ्गध (४) रं चन्द्र (७) मः शि (१) खामणि (४) विभूषि (७) तम् ।।
व्यक्तिपक्षे-
व (१) न्दे कविं (४) श्रीभार (७) विं लो (१) कसंत (४) मसच्छि (७)दम् ।
दि (१) वा दीपा (४) इवाभा (७) न्ति य (१) स्याग्रे क (४) वयोऽप (७) रे ।।
तथान्येषामपि प्रयोगाः -
लो (१) कवत्त्र (४) तिपत्त (७) व्यो लौ (१) किकोऽर्थः (४) परीक्षा (७) कैः ।
लो(१) कव्यव (४) हारं प्र (७) ति स (१) दृशौ बा (४) लपण्डि (७) तौ ।।
इदानीं चकाराकृष्टं मकार (ऽऽऽ) विपुलोदाहरणम् -
स (१) र्वातिरि (४) क्तं लाव (७) ण्यं बि (१) भ्रती चा (४) रुविभ्र (७) मा।
स्त्री (१) लोकसृ (४) ष्टिस्त्वयै (७) व निः (१) सामान्य (४) स्य वेध (७) सः ।।
व्यक्तिपक्षे श्रीकालिदासः -
म (१) नोभिरा (४) माः शृण्व (७) न्तौ र (१) थनेमि (४) स्वनोन्मु (७) खैः ।
ष (१) ड्जसंवा (४) दिनीः के (७) का द्वि (१) धा भिन्नाः (४) शिखण्डि (७)भिः ।।
(र०वं० १।३९)
अ (१) थ प्रदो (४) षे दोष (७) ज्ञः सं (१) वेशाय (४) विशांप (७) तिम् ।
सू (१) नुः सूनृ (४) तवाक्त्र (७) ष्टु- र्वि (१) ससर्जो (४) र्जितश्रि (७) यम् ।।
(र०वं० १।९३)
तृतीयपादे-
अ(१)दूरव (४) र्तिनीं सि (७) द्धिं रा (१) जन्विग (४) णयात्म (७) नः ।
उ (१) पस्थिते (४) यं कल्या (७) णी ना (१) ग्नि कीर्ति (४) त एव (७) यत् ।।
(र०वं० १।८७)
श्ला (१) ध्यस्त्यागो (४) ऽपि वैदे (७) ह्याः प (१) त्युः प्राग्वं (४) शवासि (७) नः ।
अ (१) नन्यजा (४) नेस्तस्या (७) सीत् सै (१) व जाया (४) हिरण्म (७) यी ।।
(र०वं० १५।६१)
सकारेणा (।।ऽ) पि क्वचिद्विपुला दृश्यते । यथा-
जि (१) ते न ल (४) भते ल (७) क्ष्मीं मृ (१) तेनापि (४) सुराङ्ग (७)नाः ।
क्ष (१) णविध्वं (४) सिनि का (७) ये का (१) चिन्ता म (४) रणे र (७) णे? ।।
(परा०स्मृ० ३।३८)
संकीर्णाश्च विपुलाप्रकारा दृश्यन्ते। तथा च भामहेनोक्तम्-क्व (१) चित्काले (४) प्रसर (७) ता क्व (१) चिदाप (४) त्य निघ्न (७) ता।
शु (१) नेव सा (४) रङ्गकु (७) लं त्व (१) या भिन्नं (४) द्विषां ब (७) लम्
(का०लं० २।५४)
इत्यादयो विपुलाविकल्पाः संकीर्णाश्च कोटिशः काव्येषु दृश्यन्ते । सर्वासां विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः ।।
अतः परं विषमवृत्तान्याह-
5.20
मूलम्
प्रतिपादं चतुर्वृद्ध्या पदचतुरूर्ध्वम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
चतुर्णामक्षराणां वृद्धिश्चतुर्वृद्धिः । अनुष्टुभः पादादूर्ध्वं प्रतिपादं चतुरक्षरवृध्द्या यद्वृत्तं निष्पद्यते, तत् ‘पदचतुरूर्ध्वं’ नाम । तत्रोदाहरणम् -
त-स्याः क-टा-क्ष-वि-क्षे-पैः
क-म्पि-त-त-नु-कु-टि-लै-र-ति-दी-र्घैः।
त-क्ष-क-द-ष्ट इ-वे-न्द्रि-य-शू-न्यः क्ष-त-चै-त-न्यः
प-द-च-तु-रू-र्ध्वं न च-ल-ति पुरुषः प-त-ति स-ह-सै-व ।।
अत्र गुरुलघुविभागो नेष्यते ।।
5.21
मूलम्
गावन्त आपीडः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
गकारौ (ऽऽ) द्वावन्ते चेद्भवतश्चतुर्णामपि पादानां तत् पदचतुरूर्ध्वं ‘आपीड’ संज्ञकं भवति । अन्ते गुरुद्वयग्रहणादत्र शेषाणां लघुत्वमभ्यनुज्ञातं सूत्रकारेणेति मन्यामहे ।
कु-सु-मि-त-स-ह-का-रे
ह-त-हि-म-म-हि-म-शु-चि-श-शा-ङ्के।
वि-क-सि-त-क-म-ल-स-र-सि म-धु-स-म-ये-ऽस्मिन्
प्र-व-स-सि-प-थि-क-ह-त-क य-दि भ-व-ति त-व-वि-प-त्तिः ।।
5.22
मूलम्
गावादौ चेत्प्रत्यापीडः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
गकारौ (ऽऽ) द्वावादौ चेद्भवतश्चतुर्णामपि पादानां, तदा तत् पदचतुरूर्ध्वं ‘प्रत्यापीड’ संज्ञं ‘भवति। अत्रापि पूर्ववच्छेषाणां लघुत्वमेव । तत्रोदाहरणम् -
चि-त्तं म-म र-म-य-ति
का-न्तं व-न-मि-द-मु-प-गि-रि-न-दि।
कू-ज-न्म-धु-क-र-क-ल-र-व-कृ-त-ज-न-धु-ति
पुं-स्को-कि-ल-मु-ख-रि-त-सु-र-भि-कु-सु-म-चि-त-त-रु-त-ति ।।
5.23
मूलम्
प्रत्यापीडो गावादौ च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
चकारोऽन्त इति समुच्चयार्थः । तस्यैव पदचतुरूर्ध्वस्यान्ते आदौ च यदि गकारौ (ऽऽ) भवतस्तदापि ‘प्रत्यापीड’ एव भवति । तत्रोदाहरणम् -
का-न्ता-व-द-न-स-रो-जं
ह-द्यं घ-न-सु-र-भि-म-धु-र-सा-ढ्यम् ।
पा-तुं र-ह-सि स-त-त-म-भि-ल-ष-ति म-नो मे
किं-चि-न्मु-कु-लि-त-न-य-न-म-वि-र-त-म-णि-त-र-म-णी-यम् ।।
तदेवं द्विप्रकारः प्रत्यापीडो भवति ।।
5.24
मूलम्
प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
आपीडग्रहणं निवृत्तम् । तेनैव समं लघ्वक्षराभ्यनुज्ञानं च । तदेव पदचतुरूर्ध्व प्रथमस्य विपर्यासे मञ्जरी-लवली-अमृतधाराभिधानं भवति । प्रथमस्य पादस्य द्वितीयेन विपर्यासे ‘मञ्जरी’ । प्रथमस्य तृतीयेन विपर्यासे ‘लवली’ । प्रथमस्य चतुर्थेन विपर्यासे ‘अमृतधारा’ ।।
तत्र मञ्जर्युदाहरणम् -
ज-न-य-ति म-ह-तीं प्री-तिं हृ-द-ये
का-मि-नां चू-त-म-ञ्ज-री।
मि-ल-द-लि-च-क्र-च-ञ्चु-प-रि-चु-म्बि-त-के-स-रा
को-म-ल-म-ल-य-वा-त-प-रि-न-र्ति-त-त-रु-शि-र-सि स्थि-ता ।।
लवल्युदाहरणम्-
वि-र-ह-वि-धु-र-हू-ण-का-ङ्ग-ना-क-पो-लो-प-मं
प-रि-ण-ति-ध-रं पी-त-पा-ण्डु-च्छ-वि ।
ल-व-ली-फ-लं नि-दा-घे
भ-व-ति ज-ग-ति हि-म-क-र-शी-त-ल-म-ति-स्वा-दू-ष्ण-ह-रम् ।।
अमृतधारोदाहरणम् -
यदि वा-ञ्छ-सि कर्ण-र-सा-य-नं स-त-त-म-मृ-त-धा-रा-भिः
य-दि हृ-दि वा प-र-मा-न-न्द-र-सम् ।
चे-तः! शृणु ध-र-णी-ध-र-वा-णी-म-मृ-त-म-यीं
त-त्का-व्य-गु-ण-भू-ष-णम् ।।
केचिदापीडादिष्वपि पादविपर्यासे सति मञ्जर्यादिनामानीच्छन्ति ।।
इति पदचतुरूर्वाधिकारः ।
5.25
मूलम्
उद्गतामेकतः सूजौ स्लौ, न्सौ ज्गौ, भ्नौ जूलौ ग्, स्जौ सूजौ ग् ।
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
पाद-’ (पि०सू० ५।९) इति प्रकृतमनुवर्तते । यत्र प्रथमे पादे सकार (।।ऽ) जकार (।ऽ।) सकार (।।ऽ) ल (।) कारैर्दशाक्षराणि भवन्ति, द्वितीये पादे नकार-(III) सकार (।।ऽ) जकार (।ऽ।) ग (ऽ) कारैर्दशैव, तृतीये पादे भकार (ऽ।।) नकार (III)-जकार (।ऽ।) लकार (।) ग (ऽ) कारैरेकादशैव, चतुर्थे पादे सकार (।।ऽ) जकार (।ऽ।) सकार-(।।ऽ) जकार (।ऽ।) ग (ऽ) कारैस्त्रयोदश तद्वृत्तम् ‘उद्गता’ नाम । तत्रोदाहरणम् -
मृ-ग-लो-च-ना श-शि-मु-खी च
रु-चि-र-द-श-ना नि-त-म्बिनी।
हं-स-ल-लि-त-ग-म-ना ल-ल- ना
प-रि-णी-य-ते यदि भवेत्कु लो-द्ग-ता ।।
यत्र सूत्रे गकारो (ऽ) लकारो (।) वा श्रूयते, तत्र तेनैव वृत्तस्य पादः परिसमाप्यते ।
‘उद्गताम्’ इति कर्मविभक्तिश्रवणात् पठेदित्यध्याहार्यम्। ‘एकतः’ इति प्रथमं पादं द्वितीयेन सहाविलम्बेन पठेदित्यर्थः । ‘उपस्थितप्रचुपितं पृथगाद्यम्’ (पि०सू० ५।२८) इत्यतः सिंहावलोकितन्यायेन ‘आद्य’ ग्रहणमनुवर्तनीयम् । तेनाद्यमेव पादमेकतः पठेत् । ‘एकतः’ इति ल्यब्लोपे पञ्चमी ।।
5.26
मूलम्
तृतीयस्य सौरभकं नै भ्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
तृतीयस्य’ इति ग्रहणात्तस्या उद्गताया एवान्ये त्रयः पादा गृह्यन्ते । तृतीयपादे तु विशेषः । तृतीये पादे रेफ (ऽ।ऽ) नकार (।।।) भकार (ऽ।।) ग (ऽ) कारैर्दशाक्षराणि भवन्ति तत ‘सौरभकं’ नाम। तत्रोदाहरणम् -
वि-नि-वा-रि-तोऽपि न-य-ने-न त-द-पि कि-मि-हा-ग-तो भ-वान् ? ।
ए-त-दे-व त-व सौ-र-भ-कं य-दु-दी-रि-ता-र्थ-म-पि ना-व- बु-ध्य-ते ।।
5.27
मूलम्
ललितं नौ सौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
तस्या एव उद्गतायास्तृतीयपादस्थाने यदा नौ (।।।.।।।) सौ (।।ऽ.।।ऽ) भवतस्तदा ‘ललितं’ नाम वृत्तम् ।
तत्रोदाहरणम् —
स-त-तं प्रि-यं-व-द-मु-दा-र
म-म-ल-हृ-द-यं गुणो-त्त-रम्।
सु-ल-लि-त-म-ति-क-म-नी-य-तनुं
पुरुषं त्यज-न्ति नतु जातु योषितः ।।
5.28
मूलम्
उपस्थितप्रचुपितं पृथगाद्यं म्सौ ज्भौ गौ, स्नौ जौ ग्, नौ स्, नौ न् ज्यौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यत्र प्रथमे पादे मकार (ऽऽऽ) सकार (।।ऽ) जकार (।ऽ।) भकारा (ऽ।।) गकारौ (ऽऽ) च भवतः, द्वितीये पादे सकार (।।ऽ) नकार (।।।) जकार (।ऽ।) रेफा (ऽ।ऽ) गकार (ऽ)श्च, तृतीये नकारौ (।।।.।।।) सकार (ऽ) श्च, चतुर्थे त्रयो नकारा (।।।.।।।.।।।) जकार (।ऽ।) यकारौ (।ऽऽ) च, तत् ‘उपस्थितप्रचुपितं’ नाम वृत्तं भवति । तत्रोदाहरणम्-
रा-मा का-म-क-रेणुका मृगायत-ने-त्रा
हृ-द- यं ह-र-ति प-यो-ध-रा- वन- म्रा ।
इ-य-म-ति-श-य-सु-भ-गा
ब-हु-वि-ध-नि-धु व-न-कु-श-ला ल-लि-ता-ङ्गी ।।
‘पृथगाद्यम्’ इति उद्गतामेकतः पठेत्’ (पि०सू० ५।२५) इत्यनुवृत्तिनिरासार्थम् । अत्र तृतीयपादव्यवस्था सकारस्य विभज्य पाठलिङ्गात् ।।
5.29
मूलम्
वर्द्धमानं नौ स्नौ न्सौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
तृतीयस्य’ (पि०सू० ५।२६) इत्यनुवर्तते । तस्मिन्नपस्थितप्रचुपिते तृतीयस्य पादस्य स्थाने यदा ‘नकारौ (।।।.।।।) सकार (।।ऽ) नकारौ (।।।) पुनर्नकार (।।।) सकारौ (ऽ।।) च भवतस्तदा ‘वर्द्धमानं’ नाम वृत्तं भवति । तत्रोदाहरणम् -
बि-म्बो-ष्ठी क-ठि-नोन्न-त-स्तना वन-ता ङ्गी
ह-रि-णी-शि-शु- नयना नितम्ब गुर्वी ।
म-द-क-ल-क-रि-ग-म-ना प-रि-ण-त-श-शि-व द-ना
ज-न-य-ति म-म म-न-सि मुदं मदिराक्षी ॥
5.30
मूलम्
शुद्धविराडृषभं तज्राः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
तस्मिन्नेव उपस्थितप्रचुपिते यदा तृतीयस्य पादस्य स्थाने तकार (ऽऽ।) जकार (।ऽ।) रेफा (ऽ।ऽ) भवन्ति, तदा ‘शुद्धविराडृषभं’ नाम वृत्तं भवति । तत्रोदाहरणम्-
क-न्ये-यं क-न-को-ज्ज्वला मनो-ह-र-दीप्तिः
श-शि-नि-र्म-ल-व-द-ना वि-शा-ल-नेत्रा।
पी-नो-रु-नि-त-म्ब-शा-लि-नी
सुखयति हृदय मति शयं तरुणानाम् ॥
उपस्थितप्रचुपितादीनामस्मिन्प्रवेशयितुं न शक्यन्ते संज्ञाः, इति नोक्ताः ।।
5.31
मूलम्
अर्द्धे
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
पूर्वमुच्चावचानि छन्दांस्युक्तानि । इदानीं नियमेनोच्यन्ते । ‘अर्द्धे’ इत्यधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामः, अर्द्ध एव तद्वेदितव्यम् ॥
5.32
मूलम्
उपचित्रकं सौ स्लौ ग्, भौ भ्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे सकारास्त्रयः (।।ऽ.।।ऽ.।।ऽ), लकार (।) गकारौ (ऽ) च क्रमेण, द्वितीये भकारास्त्रयो (ऽ।।.ऽ।।.ऽ।।) गकारौ (ऽऽ) च भवतः, तत् ‘उपचित्रकं’ नाम वृत्तम् । अर्द्धशब्दस्य समप्रविभागवचनत्वाद्वितीयमप्यर्द्धं तादृशमेव । तत्रोदाहरणम् -
उ-प-चित्र-कम-त्र विराजते
चू-त-व-नं कु-सु-मै-र्वि-क-सद्भिः ।
प-र-पुष्ट-वि-घु-ष्ट- मनो-ह- रं
म-न्म-थ-के-लि-नि-के-त-न- मे-तत् ।।
5.33
मूलम्
द्रुतमध्या भौ भूगौ ग्, न्जौ ज्यौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे त्रयो भकारा (ऽ।।.ऽ।।.ऽ।।) गकारौ (ऽ.ऽ) च, द्वितीये नकार (।।।) जकारौ (।ऽ।) जकार (।ऽ।) यकारौ (।ऽऽ) च, तद् ‘द्रुतमध्या’ नाम वृत्तम् । अत्रापि प्रथमद्वितीयाविव तृतीयचतुर्थौ पादौ । तत्रोदाहरणम्-
य-द्य-पि शी-घ्र-ग-तिर्मृ-दु-गा-मी
ब-हु-ध-न-वा-न-पि दुःख-मु- पैति ।
ना-ति-श-य-त्व-रि-तानच मृ द्वी
नृ-प-ति-ग-तिः क-थि-ता द्रु-त-म-ध्या ।।
5.34
मूलम्
वेगवती सौ स्गौ, भौ भ्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे त्रयः सकारा (।।ऽ.।।ऽ.।।ऽ) गकार (ऽ) श्चैकः, द्वितीये भकारास्त्रयो (ऽ।।.ऽ।।.ऽ।।) गकारौ (ऽऽ) च भवतः, तत् ‘वेगवती’ नाम वृत्तम् । तत्रोदाहरणम्-
त-व मु-ञ्ज न-रा-धि-प! से-नां
वे-ग-व-तीं स-ह-ते स-म- रेषु।
प्र-ल-यो-र्मि-मि-वा-भि-मु-खीं तां
कः स-क-ल-क्षि-ति-भृ-न्नि-व हे षु? ।।
5.35
मूलम्
भद्रविराट् त्जौ र्गौ, म्सौ जगौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे तकार (ऽऽ।) जकारौ (।ऽ।) रेफ (ऽ।ऽ) गकारौ (ऽ) च, द्वितीये मकार (ऽऽऽ) सकार (।।ऽ) जकारा (।ऽ।) गकारौ (ऽऽ) च, तद् वृत्तं ‘भद्रविराट्’ नाम । तत्रोदाहरणम् –
य-त्पा-द-त-ले च-का-स्ति च-क्रं
ह-स्ते वा कु-लि-शं स-रो-रु-हं वा।
रा-जा ज-ग-दे-क-च-क्र-व-र्ती
स्या-च्छं भ-द्र-वि-राट् स-म-श्नु-ते ऽसौ ।।
अस्यौपच्छन्दसिकान्तः पातित्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः ।।
5.36
मूलम्
केतुमती स्जौ स्गौ, भरौ न्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे सकार (।।ऽ) जकारौ (।ऽ।) सकार (।।ऽ) गकारौ (ऽ) च, द्वितीये भकार (ऽ।।) रेभ (ऽ।ऽ) नकारा (।।।) गकारौ (ऽऽ) च, तत् ‘केतुमती’ नाम वृत्तं भवति । तत्रोदाहरणम् -
हृ-त-भू-रि-भू-मि-प-ति-चि-ह्नां
यु-द्ध-स-ह-स्र-ल-ब्ध-ज-य-ल-क्ष्मीम् ।
स-ह-ते न-कोऽ-पि व-सु-धा-यां
के-तु-म-तीं न-रे-द्र! त-व से-नाम् ।।
5.37
मूलम्
आख्यानकी तौ ज्गौ ग्, ज्तौ ज्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे तकारौ (ऽऽ।.ऽऽ।) जकारो (।ऽ।) गकारौ (ऽऽ) च, द्वितीये जकार (।ऽ।) तकारौ (ऽऽ।) जकार (।ऽ।) गकारौ (ऽऽ) च, तत् ‘आख्यानकी’ नाम वृत्तम् । तत्रोदाहरणम्-
भृ-ङ्गा-व-ली म-ङ्ग-ल-गी-त-ना- दै
र्ज-न-स्य चि-त्ते मु-द-मा-द-धा-ति ।
आ-ख्या-न-की-व स्म-र-ज-न्म-वा-र्ता
म-हो-त्स-व-स्या-म्र-व-णे क्व-ण-न्ती ।
आख्यानकी वार्ताहारिकोच्यते ।।
5.38
मूलम्
विपरीताख्यानकी ज्तौ ज्गौ ग्, तौ ज्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे जकार (।ऽ।) तकारो (ऽऽ।) जकारो (।ऽ।) गकारौ (ऽऽ) च, द्वितीये तकारौ (ऽऽ।.ऽऽ।) जकारो (।ऽ।) गकारौ (ऽऽ) च, तद् ‘विपरीताख्यानकी’ नाम वृत्तम् । तत्रोदाहरणम् -
अ-लं त-वा-ली-क-व-चो-भिं-रे-भिः
स्वा-र्थं प्रि-ये! सा-ध-य कार्य-म-न्यत् ।
क-थं क-थां-क-र्ण-न-कौ-तु-कं स्या
दा-ख्या-न-की चे-द्वि-प-री-त-वृत्तिः?।।
एतयोश्च वक्ष्यमाणोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः ।
5.39
मूलम्
हरिणप्लुता सौ स्लौ ग्, न्भौ भ्रौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे सकारास्त्रयो (।।ऽ.।।ऽ.।।ऽ) लकार (।) गकारो (ऽ) च, द्वितीये नकार (।।।) भकारौ (ऽ।।) भकार (ऽ।।) रेफौ (ऽ।ऽ) च, तद् वृत्तं ‘हरिणप्लुता’ नाम । तत्रोदाहरणम्-
त-व-मु-ञ्ज-न-रा-धि-प वि-द्वि-षां
भ-य-वि-व-र्जि-त-के-तु-ल-घीय-साम्
र-ण-भू-मि-प-रा-ङ्मु-ख-व-र्त्म- नां
भ-व-ति शी-घ्र-ग-तिर्ह-रि-ण- प्लुता ।
5.40
मूलम्
अपरव्रकं नौ र्लौ ग्, न्जौ ज्रौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे नकारौ (।।।.।।।) रेफ (ऽ।ऽ) लकार (।) गकारा (ऽ) श्च, द्वितीये नकार (।।।) जकारौ (।ऽ।) जकार (।ऽ।) रेफौ (ऽ।ऽ) च, तद्वृत्तम् ’ अपवक्रं’ नाम । तत्रोदाहरणम्-
स-कृ-द-पि कृ-प-णे-न चक्षुषा
न-र-व-र! प-श्य-ति-य-स्त-वा- न-नम् ।
न-पु-न-र-प-र-व-क्र-मी-क्ष- ते
स हि सु-खि-तो-ऽर्थि-ज-न-स्त-था-विधः ।।
अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंज्ञार्थमिहोपन्यासः ।।
5.41
मूलम्
पुष्पिताग्रा नौ र्यौ, न्जौ ज्रौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे नकारौ (।।।.।।।) रेफ (ऽ।ऽ) यकारौ (।ऽऽ) च, द्वितीये नकार (।।।) जकारौ (।ऽ।) जकार (।ऽ।) रेफौ (ऽ।ऽ) गकार (ऽ) श्च, तहृतं ‘पुष्पिताग्रा’ नाम । तत्रोदाहरणम्-
स्मि-त-सु-भ-गा प्रि-य-वा-दि-नी वि-द-ग्धा ।
अ-प-ह-र-ति नृणां म-नां सिरा मा
भ्र-म-र-कु-ला-नि ल-ते-व पुष्पिता ग्रा।।
इयमप्यौपच्छन्दसकान्तर्गतां विशेषसंज्ञापनार्थमत्रोच्यते ।।
5.42
मूलम्
यवमती र्जौ र्जौ, ज्रौ ज्रौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य प्रथमे पादे रेफ (ऽ।ऽ) जकारौ (।ऽ।) भूयोऽपि रेफ (ऽ।ऽ) जकारौ (।ऽ।) भवतः, द्वितीये जकार (।ऽ।) रेफौ (ऽ।ऽ) पुर्जकार (।ऽ।) रेफौ (ऽ।ऽ) गुरु (ऽ) श्च, तद्वृत्तं ‘यवमती’ नाम । अत्र संप्रदायात्पादव्यवस्था । तत्रोदाहरणम् -
प-द्म-क-न्तु को-म-ले क-रे वि-भा-ति
प्र-श-स्त-म-त्स्य-लाञ्छ-नं पदेचयस्याः ।
साय-वा-न्वि-ता भ-वे-द्ध-ना-धि-का च
स-म-स्त-ब-न्धु-पू-जि-ता प्रि-या च प-त्युः ॥
यवान्विता यवमतीत्यर्थः ।।
5.43
मूलम्
शिखैकोनत्रिंदशदेकत्रिंदशदन्ते ग्
हलायुधवृत्तिः
यस्य प्रथमे पादे एकोनत्रिंशद् (२९) अक्षराणि, द्वितीये च एकत्रिंशत् (३१), द्वयोरपि (१.२) पादयोरन्ते च प्रत्येकं गुरुः (ऽ), तद्वृत्तं ‘शिखा’ नाम। ‘अर्धे’ (पि०सू० ५।३१) इत्यधिकाराद्वितीयमप्यर्धं तादृशमेव । ‘अन्ते ग्’ इति नियमार्थमेतत् । अन्ते एव गुरुर्नान्यत्र । तेन अयुक् (१,३) पादे अष्टाविंशति (२८) रक्षराणि लघूनि, अन्ते गुरु (१)-रेकः । युक् (२,४) पादे त्रिंश (३०) ल्लघवः, अन्ते गुरु (१) श्च। तत्रोदाहरणम् -
अभिमतबकुलकुसुमघनपरिमलमिलदलिमुखरितहरिति मधौ
सहचरमलयपवनरयतरलितसरसिजरजसि शयतरणिवितते ।
विकसितविविधकुसुमसुलभसुरभिशरमदननिहतसकलजने
ज्वलयति मम हृदयमविरतमिह सुतनु ! तव विरहदहनविषमशिखा ।।
5.44
मूलम्
खञ्जा महत्ययुजीति
हलायुधवृत्तिः
इयमेव शिखा पूर्वोक्ते महति बह्वक्षरे पादे अयुजि (१,३) सति, पारिशेष्यादितरस्मिंश्च युजि (२,४) सति ‘खञ्जा’ नाम च्छन्दो भवति। अयमर्थः -एकत्रिंशदक्षरो विषमः पादः कर्तव्यः; एकोनत्रिंशद (२९) क्षरश्च सगः पादः । शेषं यथाप्राप्तमेव । तत्रोदाहरणम्-
अपगत घनविशददशदिशि हृतजनदृशि परिणतकणकपिलकलमे
प्रविकसदसमकुसुमघनपरिमलसुरभितमरुति शरदि समये ।
शुचिशशिमहसि विवृतसरसिरुहि मुदितमधुलिहि विमलितधरणितले
किमपरमिह कमलमुखि ! सुखमनुभवति मम हृदयकमलमधुना ।।
अर्धसमवृत्ताधिकारो निवृत्तः ।
6
6.1
मूलम्
यतिर्विच्छेदः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
विच्छिद्यते विभज्यते पदपाठोऽस्मिन्निति विच्छेदो विश्रामस्थानं, स च यतिरित्युच्यते । नन्वत्र शास्त्रे यतिशब्देन व्यवहारादर्शनान्निरर्थकं संज्ञाकरणम् ! । नैष दोषः, यतिरित्यागमादिष्वाचार्यपारम्पर्यागता संज्ञेयं ‘तनुमध्यादि’ वत् । तस्याः शिष्यव्युत्पत्त्यर्थमर्थकथनम् ‘यतिर्विच्छेदः’ इति । अस्ति च लोके शास्त्रान्तरेषु च यति संज्ञाव्यवहारः । अपि च ‘यतिः’ इत्यधिकार आसप्तमाध्यायपरिसमाप्तेः समुद्रेन्द्रियरसादिनिर्देशेषूपतिष्ठते । समुद्रादिशब्दाः साकाङ्क्षत्वात् ‘यतिः’ इत्यनेनैव संबध्यन्ते । यतिशब्दस्याधिकरणव्युत्पत्त्या समुद्राद्यवच्छिन्नेष्वक्षरेषु यतिः कर्तव्येत्यर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषद्भवति -
यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः ।
समुद्रादिपदान्ते, च व्यक्ताव्यक्तविभक्तिके ।।
क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरैः भागौ न स्यातामेकवर्णकौ ।।
पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् ।
द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ।।
नित्यं प्राक्पदसंबन्धाश्चादयः प्राक्पदान्तवत् ।
परेण नित्यसंबन्धाः प्रादयश्च परादिवत् ।।
‘यतिः सर्वत्र पादान्ते’ इत्यस्योदाहरणम्- ‘विशुद्धज्ञानदेहाय’ (मी. श्लो. वा. १।१) इत्यादि । तस्यैव प्रत्युदाहरणम्-
‘नमस्तस्मै महादेवा,-य शशाङ्कार्धधारिणे’ इत्यादि ।
‘श्लोकार्थे तु विशेषतः’ इत्यत्र संधिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः ।
तत्रोदाहरणं यथा-
‘नमस्यामि सदोद्भूतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ।।’
अत्र ‘ईश्वराख्यम्’ इत्यस्य पूर्वमकारेण संयोगो न कर्तव्यः । समासे प्रत्युदाहरणं [ यथा-]
‘सुरासुरशिरोरत्नस्फुरत्किरणमञ्जरी’ -। पिञ्जरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् ।।’
‘समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके’ तत्र श्रूयमाणविभक्त्यन्तं व्यक्तविभक्तिकम् समासान्तर्भूतविभक्त्यन्तमव्यक्तविभक्तिकम् । तत्रोदाहरणं [यथा-]
‘यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु’ (मे.सं. १।१) इत्यादि ।
‘व्यक्ताव्यक्तविभक्तिके’ इति ‘यतिः सर्वत्र पादान्ते’ इत्यनेन संबध्यते। तत्रोदाहरणम्-
‘वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषशशिलेखाशिखामणिम् ।।’
अपि च ।
‘नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे। त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ।।’
‘क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत्। यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ।।’
तत्रोदाहरणम् -
‘पर्याप्तं तप्तचामी, करकटकतटे श्लिष्टशीतेतरांशौ’ इत्यादि। तथा- ‘कूजत्कोयष्टिकोला, - हलमुखरभुवः प्रान्तकान्तारदेशाः’ इत्यादि । तथा- ‘हासो हस्ताग्रसंवा, - हनमपि तुलिता, द्रीन्द्रसारद्विषोऽसौ’ इत्यादि। तथा- ‘वैरिञ्चानां तथोच्चा, -रितरुचिरऋचां चाननानां चतुर्णाम्’ इत्यादि । तथा- ‘खड्गे पानीयमाह्ला, दयति च महिषं पक्षपाती पृथक्कः’ इत्यादि। समुद्रादाविति किम् ?। पदमध्ये यतिः पादान्ते मा भूत् । तद्यथा - ‘प्रणमत भवबन्धक्लेशनाशाय नारा, यणचरणसरोजद्वन्द्वमानन्दहेतुम्’ इत्यादि ।
पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दुष्यति । तत्रोदाहरणम्-
‘एतस्या ग, - ण्डतलममलं गाहते चन्द्रकक्षाम्’ इत्यादि । ‘एतस्या रा, जति सुमुखमिदं पूर्णचन्द्रप्रकाशम् ।’ इत्यादि । तथा- ‘सुरासुरशिरोनिघृ, - ष्टचरणारविन्दः शिवः’ इत्यादि ।
‘पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत्’ । अस्यार्थः - योऽयं पूर्वपरयोरेकादेशः स्वरसंधौ विधीयते, स क्वचित्पूर्वस्यान्तवद्भवति क्वचित्परस्यादिवत् । तथा च पाणिनेः स्मरणम्- ‘अन्तादिवच्च’ (पा०सू० ६।१।८५) । तत्र पूर्वान्तवद्भावे उदाहरणम् -
‘स्यादस्थानो - पगतयमुनासंगमेवाभिरामा’ (मे.सं. १।५१) । ‘जम्भारातीभकुम्भोद्भवमिव दधतः’ इत्यादि ।
तथा-
‘दिक्कालाद्यनवच्छिन्ना-नन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ।।’ (नौ. श. १) इत्यादि ।
परादिवद्भावे उदाहरणम्-
‘स्कन्धं विन्ध्याद्रिबुद्ध्या, निकषति महिष-स्याहितोऽसूनहार्षीत्’ इत्यादि ।
‘शूलं शूलं तु गाढं प्रहर हर! हृषीकेश! केशोऽपि वक्र-श्चक्रेणाकारि किं ते’ इत्यादि ।
तत्र हि स्वरस्य परादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात्तदादिवद्भवति ।
‘यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ’ इत्यन्तादिवद्भावविधावपि संबध्यते । तेन ‘अस्या वक्रा - ब्जमवजितपू-र्णेन्दुशोभं विभाति’ इत्येवंविधा यतिर्न भवति ।
‘यणादेशः परादिवत्’ इत्यस्योदाहरणम् -
‘विततघनतुषारक्षोदशुभ्रांशुपूर्वा-स्वविरलपदमालां श्यामलामुल्लिखन्तः’ इत्यादि ।
‘नित्यं प्राक्पदसंबन्धाश्चादयः प्राक्पदान्तवत्’ । तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः ।
तत्रोदाहरणम्-
‘स्वादु स्वच्छं च हिमसलिलं प्रीतये कस्य न स्यात्’ ? इत्यादि ।
नित्यं प्राक्पदसंबन्धा इति किम् ? । अन्येषां पूर्वपदान्तवद्भावो मा भूत् । तद् यथा-
‘मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः’ (मे.सं. १।३८) इत्यादि ।
तथा- ‘इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे’ (मे.सं. १।५) इत्यादि ।
‘परेण नित्यसंबन्धाः प्रादयश्च परादिवत्’ । तेभ्यः परा यतिर्न भवतीत्यर्थः । तत्रोदाहरणम् -
‘दुःखं मे प्र-क्षिपति हृदये दुःसहस्त्वद्वियोगः’ इत्यादि ।
परेण नित्यसंबन्धा इति किम् ? । कर्मप्रवचनीयेभ्यः परापि यतिर्यथा स्यात् इति,
तत्रोदाहरणम्-
‘प्रियं प्रतिस्फुरत्पादे मन्दायन्ते नखत्विषः ।’
‘श्रेयांसि बहुविघ्नानि भवन्ति महतामपि’ इत्यादि ।
अयं तु चादीनां प्रादीनां चैकाक्षरत्वेनैकाक्षराणामेव पादान्ते यतावन्तादिवद्भाव इष्यते, न त्वेनकाक्षराणां पदमध्ये यतौ। तत्र हि पदमध्येऽपि चामीकरादिष्विव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनामुदाहरणम् -
‘प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्’ (मे.सं. २।२८) इति ।
प्रादीनामुदाहरणम् -
‘द्वारारूढप्रमोदं हसितमिव परिस्पष्टमासा सखीभिः’ इत्यादि ।
न पर्यन्तोऽस्ति वृत्तानां प्रस्तारगणनाविधौ ।
पूर्वाचार्यकृताभिख्याचिह्नं किंचिदिहोच्यते ।।
(उक्थायाम्) एकाक्षरायाम्-
श्रीच्छन्दः (१।१) - श्री सा ।
जं गो ।। प्रा० पिं० सू० २।१ ।।
(अत्युक्थायाम्) द्यक्षरायाम् -
कामच्छन्दः (२।१)- दीहा वीहा।
कामो रामो ।। प्रा० पिं० सू० २।४ ॥
(‘स्त्री’ इति नामान्तरं कामस्य च्छन्दः कौस्तुभादौ ।)
महीच्छन्दः (२।२)- लगो जहीं।
मही कही ।। प्रा० पिं० सू० २।८ ॥
सारुच्छन्दः (२।३) - सारु एह ।
गो वि रेह ।। प्रा० पि० सू० २।१० ।।
(चारु-वृत्तचन्द्रिकायाम्)
मधुच्छन्दः (२।४) - लहु जुअ ।
महु धुअ । प्रा० पिं० सू० २।६ ।।
(मध्यायाम्) त्र्यक्षरायाम् -
तालीच्छन्दः (३।१) - ताली ए जाणीए ।
गो कण्णो तिब्बण्णो ।। प्रा० पिं० सू० २।१२ ॥
(‘नारी’ - वृ०र०)
शशीच्छन्दः (३।२) - ससी यो जणीयो ।
फणींदो भणीओ ।। प्रा० पिं० सू० २।१६ ॥
(‘केसा’ - वृ०र०)
प्रियाच्छन्दः (३।३) - हे पिए लेक्खिए ।
अक्खरे तिण्णि रे ।। प्रा० पिं० सू० २।१४ ॥
(‘मृगी’ इति छन्दः कौस्तुभादौ ।)
रमणच्छन्दः (३।४) - सगणो रमणो ।
सहिओ कहिओ ।। प्रा० पिं० सू० २।१८ ॥
पञ्चालच्छन्दः (३।५) - तक्कार जं दिट्ठ ।
पंचाल उक्किट्ठ ।। प्रा० पिं० सू० २।२० ॥
मृगेन्द्रच्छन्दः (३।६) - णरेंद ठवेहु ।
मिएंद करेहु ।। प्रा० पिं० सू० २।२२ ।।
मन्दरच्छन्दः (३।७) - भो जहि सो सहि ।
मंदर सुंदर ।। प्रा० पिं० सू० २।२४ ।।
कमलच्छन्दः (३।८) - कमल पभण ।
सुमुहि णगण ।। प्रा० पिं० सू० २।२६ ।।
(प्रतिष्ठायाम्) चतुरक्षरायाम् -
तीर्णाच्छन्दः (४।१) - चारी हारा इट्ठा कारा ।
वीए कण्णा जाणे तिण्णा ।। प्रा० पिं० सू० २।२८ ॥
व्रीडाच्छन्दः (४।२) - यगौ व्रीडा । वृ०र० ३।७
समृद्धिच्छन्दः (४।३) - र्गो समृद्धिः । वृ० र० ३।११
सुमतिच्छन्दः (४।४) - सुमतिः स्गौ । वृ० र० ३।१०
लासिनीच्छन्दः (४।६) - ज्ग लासिनी। वृ०र० ३।८ (‘नगाणिका’ प्रा०पिं०सू० २।३२)
सुमुखीच्छन्दः (४।७) - भ्गौ सुमुखी। वृ०र० ३।९
घारीच्छन्दः (४।११) - वण्ण चारि मुद्धि घारि ।
विण्णि हार दो स सार ।। प्रा० पिं० सू० २।३० ॥
(‘धारि’-वा० भू०)
(सुप्रतिष्ठायाम्) पञ्चाक्षरायाम्-
संमोहाच्छन्दः (५।१) - संमोहारूअं दिट्ठो सो भूअं । ब कण्णा हारा भूअत्तासारा ।। प्रा० पिं० सू० २।३४ ॥
(‘पङ्क्तिः’ इति नामान्तरं संमोहाख्यच्छन्दसः) (‘कन्या’-ग० पु०, वृ० र० । ‘कीर्णा’ वृ० चं०)
हारीच्छन्दः (५।५) - आईहि अंते हारे सुजुत्ते । मज्झेक्कगंधो हारी अछंदो ।। प्रा० पि० सू० २।३६॥ (‘हारीतबन्ध’ इति नामान्तरं हारीच्छन्दसः)
हंसच्छन्दः (५।७)- पिंगलदिट्ठो भ द्दइ सिट्ठो ।
कण्णइ दिज्जो हंस मुणिज्जो ॥ प्रा० पिं० सू० २।३८ ॥ (‘पङ्क्तिः’ इति नामान्तरं हंसस्य छन्दः कौस्तुभादौ, छन्दोमञ्जर्यां न.)
विदग्धकच्छन्दः (५।११) - ‘रो लगौ यदा स्याद्विदग्धकः’ ।
प्रियाच्छन्दः (५।१२) - ‘सलगैः प्रिया’ इत्यधिकं छन्दः कौस्तुभवृत्तरत्नाकरादावुपलभ्यते, न प्राकृतपिङ्गले ॥
यमकच्छन्दः (५।३२) - सुपिअगण सरसुगुण ।
सरह गण जमअ भण ।। प्रा० पिं० सू० २।४० ॥
तत्र गायत्रे छन्दसि वृत्तम्-
6.2
मूलम्
तनुमध्या त्यौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे तकार (ऽऽ।) यकारौ (।ऽऽ), तत् ‘तनुमध्या’ नाम
वृत्तम् । तत्रोदाहरणम् -
ध-न्या त्रि-षु नी-चा क-न्या त-नु-म-ध्या।
श्रो-णी-स्तन-गु-र्वी उ-र्वी-प-ति-भो-ग्या ।।
अत्र तु पादान्ते विशेषेण विश्रामः कर्तव्य इत्याम्नायः ।।
6.3
मूलम्
कुमारललिता ज्सौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे जकार (।ऽ।) सकारौ (।।ऽ) गकार (ऽ) श्च तद्वृतं ‘कुमारललिता’ नाम । त्रिभिश्चतुर्भिश्च यत्युपदेशं वर्णयन्ति । तत्रोदाहरणम् -
य-दी-य,-र-ति-भू-मौ वि-भा-ति, ति-ल-का-ङ्कः ।
कु-मा-र,-ल-लि-ता-सौ कु-ला-न्य, ट-ति ना-री ।।
अत्र केचिद् द्वाभ्यां (२) पञ्चभि (५)श्च यतिमिच्छन्ति । तत्रोदाहरणम् -
इ-दं (२), व-द-न-प-द्मं (५) प्रि-ये (२), त-व वि-भा-ति (५)।
इ-ह (२), व्र-ज-ति मु-ग्धे (५) म-नो (२), भ्र-म-र-तां मे (५) ।।
6.4
मूलम्
माणवकाक्रीडितकं भ्तौ ल्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भकार (ऽ।।) तकारौ (ऽऽ।) लकार (।) गकारौ (ऽ) च, तत् ‘माणवकाक्रीडितकं नाम वृत्तम् ।। तत्रोदाहरणम्-
माणव-का (४), क्रीडि-त-कं (४) यः कुरु-ते (४), वृद्ध-व-याः ।
हास्यमसौ (४), याति जने (४) भिक्षुरिव (४),स्त्रीचपलः ।। अत्र चतुर्भि (४) श्चतुर्भिश्च यतिरित्याम्नायः ।।
6.5
मूलम्
चित्रपदा भौ गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भकारौ (ऽ।।.ऽ।।) गकारौ (ऽ.ऽ) च भवतस्तत् ‘चित्रपदा’ नाम वृत्तम् । तत्रोदाहरणम्-
यस्य मु-खे प्रिय-वा-णी चेतसि सज्जन-ता च ।
चित्रप-दापि च लक्ष्मी- स्तं पुरुषं न ज-हा-ति ॥
अत्र पादान्ते यतिः ।।
6.6
मूलम्
विद्युन्माला मौ गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मकारौ (ऽऽऽ.ऽऽऽ) गकारौ (ऽ.ऽ) च तद् ‘विद्युन्माला’’ नाम वृत्तम् ।।
तत्रोदाहरणम्-
विद्युन्मा-ला (४), लोलान् भो-गान्
मुक्त्वा मु-क्तौ (४), यत्नं कुर्यात् ।
ध्यानोत्प-न्नं (४), निःसा-मा-न्यं
सौख्यं भो-(४), क्तुं यद्या-का-ङ्क्षेत ।।
अत्र चतुर्भि (४) श्चतुर्भिश्च यतिरित्याम्नायः ।।
6.7
मूलम्
हंसरुतं म्नौ गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगण (ऽऽऽ) नगणौ (।।।) गकारौ (ऽ.ऽ) च भवतस्तद् ‘हंसरुतं’ नाम ।। तत्रोदाहरणम्-
लावण्यं वपुषि का-न्ते लोकाती-तमति-सौ-म्यम् ।
नैष्ठुर्य मनसि य-त्ते द्वैविध्यं किमिति ध-त्से? ।।
6.8
मूलम्
भुजगशिशुसृता नौ म्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नकारौ (।।।.।।।) मकार (ऽऽऽ) श्च भवति, तत् ‘भुजगशिशुसृता’ नाम वृत्तम् ।। तत्रोदाहरणम्-
इयम-धिकत-रं(७), रम्या विकच -कुवल-य(७), श्यामा ।
रमय-ति हृद-यं (७), यूनां भुजग-शिशुसृ-ता (७), नारी ।।
वक्रगतिरित्यर्थः ।। शिशुशब्दस्य सार्थकत्वात् । अन्यैरप्युक्तम्-
‘अभ्यस्यता नु तरणीगतिवक्रभावानुन्मूलिताः फणिशिशोर्भवतापराधाः ।’ इति
सप्तभिर्दाभ्यां च यतिरित्याम्नायः ।।
6.9
मूलम्
हलमुखीर्नौ स्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे रेफ (ऽ।ऽ) नकार (।।।) सकारा (।।ऽ) भवन्ति तद्वृतं ‘हलमुखी’ । तत्रोदाहरणम् -
गण्डयो (३),-रतिश-यकृशं (६) यन्मुखं (३), प्रकट-दशनम् (६) ।।
आयतं (३), कलह-निरतं (६) तां स्त्रियं (३), त्यज हलमुखीम् (६) ।।
त्रिभिः षड्भिश्च यतिरित्याम्नायः ।
6.10
मूलम्
शुद्धविराट् म्सौ ज्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मकार (ऽऽऽ) सकार (।।ऽ) जकार (।ऽ।) गकारा (ऽ) भवन्ति तद्वृत्तम् ‘शुद्धविराड्’ नाम ।। तत्रोदाहरणम् -
विश्वं ति-ष्ठति कु-क्षिकोट-रे वक्रे य-स्य सर-स्वती स-दा ।
अस्मद्वं-शपिता-महा गु-रुर् ब्रह्मा शुद्धविराट् पुनातु नः ।
अत्र पादान्ते यतिः ।।
6.11
मूलम्
पणवो म्नौ य्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मकार (ऽऽऽ) नकार (।।।) यकार (।ऽऽ) गकारा (ऽ) भवन्ति तद्वृत्तं ‘पणवो’ नाम ।। तत्रोदाहरणम् -
मीमांसा-रस (५),-म-मृतं पी-त्वा शास्त्रोक्तिः कटु (५),-रि-तरा भा-ति ।
एवं सं-सदि (५),-वि-दुषां मध्ये जङ्गमो जय (५),-प-णबन्ध-त्वात् ।।
अत्र पञ्चभिः पञ्चभिर्यतिरित्याम्नायः ।।
6.12
मूलम्
रुक्मवती भ्मौ स्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भकार (ऽ।।) मकार (ऽऽऽ) सकार (।।ऽ) गकारा (ऽ) भवन्ति तद्वृत्तं ‘रुक्मवती’ नाम ।। तत्रोदाहरणम् -
पादत-ले पद्मो-दरगौ-रे राजति यस्या ऊर्ध्वगरे-खा।
सा भव-ति स्त्री ल-क्षणयु-क्ता रुक्मव-ती सौभाग्यवती च ।।
6.13
मूलम्
मयूरसारिणी र्जौ र्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे रेफ (ऽ।ऽ) जकारौ (।ऽ।) रेफ (ऽ।ऽ) गकारी (ऽ) च, तद्वृत्तं ‘मयूरसारिणी’ नाम ।। तत्रोदाहरणम् -
या वना-न्तराण्यु-पै-ति र-न्तुं या भुजङ्गभोग-सक्तचि-त्ता ।
या द्रुतं प्रयाति सन्नतां-सा तां मयू-रसारि-णीं विज-ह्यात् ।।
अत्र पादान्ते यतिः ।।
6.14
मूलम्
मत्ता म्भौ स्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मकार (ऽऽऽ) भकार (ऽ।।) सकार (।।ऽ) गकारः (ऽ), तद्वृत्तं ‘मत्ता’ नाम । तत्रोदाहरणम् –
स्वैरोल्ला-पैः(४), श्रुति-पटुपे-यैर्(६) गीतक्री-डा(४),सुर-तविशे-षैः(६) ।
वासागा-रे(४), कृत-सुरता-नां(६) मत्ता ना-री(४), रम-यति चे-तः (६) ॥
चतुर्भिः षड्भिश्च यतिरित्याम्नायः ॥
6.15
मूलम्
उपस्थिता त्जौ ज्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे तकार (ऽऽ।) जकारौ (।ऽ।), जकार (।ऽ।) गकारौ (ऽ) च, तद्वृत्तं ‘उपस्थिता’ नाम । तत्रोदाहरणम्-
एषा(२), ज-गदेक-मनोह-रा(८) कन्या(२), क-नकोज्ज्व-लदीधि-तिः(८ )।
लक्ष्मी(२),-रि-व दान-वसूद-नं(८) पुण्यै(२ ),-र्न-रनाथ-मुपस्थि-ता(८) ॥
अत्र द्वाभ्यामष्टाभिश्च यत्तिरित्याम्नायः ॥
6.16
मूलम्
इन्द्रवज्रा तौ ज्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे तकारौ (ऽऽ।.ऽऽ।) जकार (।ऽ।) गकारौ (ऽ) गकार (ऽ) श्च, तद्वृत्तं ‘इन्द्रवज्रा’ तत्रोदाहरणम्-
यस्यां त्रि-षट्सप्त-ममक्ष-रं स्याद् ह्रस्वं सु-जङ्घे! न-वमं च त-द्वत् ।
गत्या वि-लक्षीकृ-तहंस–का-न्ते! तामिन्द्र-वज्रां ब्रु-वते क-वी-न्द्राः ॥ (श्रु० बो० २१)
अपि च-
ये दुष्ट-दैत्या इ-ह भूमि-लो-के द्वेषं व्य-धुर्गोद्वि–जदेव-स-ङ्घे ।
तानिन्द्र-वज्राद-पि दारु-णा-ङ्गान् व्याजीव-यद्यः स-ततं न-म-स्ते ॥
तथा-
गोब्राह्म-णस्त्रीव्र-तिभिर्वि-रु-द्धंमोहात्क-रोत्यल्प-मतिर्नृ-पो यः ।
तस्येन्द्र-वज्राभि-हतस्य पा-तः क्षोणीध-रस्येव भवत्य-व-श्यम् ॥
पादान्ते यतिः ॥
6.17
मूलम्
उपेन्द्रवज्रा ज्तौ ज्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे जकार (।ऽ।) तकार (ऽऽ।) जकारा (ऽ) गकारो (ऽ.ऽ) च, तद्वृत्तम् ‘उपेन्द्रवज्रा’ नाम ॥ तत्रोदाहरणम् –
भवन्न-खाः कुन्द-दलश्रि-यो ये नमन्ति लक्ष्मीस्त-नलेख-ने-ऽपि ।
उपेन्द्र!-वज्राधि-ककर्क-श-त्वं कथं ग–तास्ते रि-पुदार-णा-याम्? ॥
अत्र पादान्ते यतिः ॥
6.18
मूलम्
आद्यन्तावुपजातयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
6.19
मूलम्
दोधकं भौ भ्गौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणास्त्रयो (ऽ।।.ऽ।।.ऽ।।) गकारौ (ऽ.ऽ) च भवतस्तद् ‘दोधकं’ नाम वृत्तम् । तत्रोदाहरणम्-
दोधक-मर्थवि-रोधक-मु-ग्रं स्त्री-चप-लं युधि कातर-चि-त्तम् ।
स्वार्थप-रं मति-हीनम-मा-त्यं मुञ्चति यो नृप-तिः स सु-खी स्यात् ॥
अत्र पादान्ते यतिः । दोग्धीति दोधकः । केनाप्युपायेन राजानं दोग्धि ।
6.20
मूलम्
शालिनी म्तौ त्गौ ग् समुद्रऋषयः
हलायुधवृत्तिः
यस्य पादे मगणतगणौ, (ऽऽऽ.ऽऽ।) तगणो, (ऽऽ।) गकार (ऽ.ऽ) च भवतस्तद्वृत्तं ‘शालिनी’ नाम । चतुर्षु, सप्तसु च यतिः । तत्रोदाहरण –
शस्त्रश्या-मा(४)स्निग्ध-मुग्धाय-ता-क्षी( ७)
पीनश्रो-णि(४)र्दक्षि-णावर्त-ना-भिः(७) ।
मध्ये क्षा-मा(४)पीव-रोरुस्त-नी या(७)
श्लाघ्या भर्तुः (४)शालि-नी कामि-नी स्यात्(७) ॥
6.21
मूलम्
वातोर्मी म्भौ त्गौ ग् च
हलायुधवृत्तिः
यस्य पादे मगणभगणतगणाः (ऽऽऽ.ऽ।।.ऽऽ।) गकारी (ऽ.ऽ) च भवतस्तद्वृत्तं ‘वातोर्मी’ नाम । चतुर्भिः सप्तभिश्च यतिः । चकारो यत्यनुकर्षणार्थः ।
तथोदाहरणम्-
यात्युत्से-कं(४)सप-दि प्राप्य-किं-चि(७)
त्स्याद्वा य-स्या(४)श्चप-ला चित्त-वृ-त्तिः(७) |
या दीर्घा-ङ्गी(४)स्फुट-शब्दाट्ट-हा-सा (७)
त्याज्या सा स्त्री(४) द्रुत-वातोर्मि-मा-ला (७) ॥
वातोर्मीति स्त्रियां ‘कृदिकारादक्तिनः’ (व्या.वार्ति.) इति ङीष् ।
6.22
मूलम्
भ्रमरविलसितं म्भौ न्लौ ग्
हलायुधवृत्तिः
यस्य पादे मगणभगणनगणलकारगकाराः (ऽऽऽ.ऽ।।.।।।.।.ऽ) भवन्ति तद् ‘भ्रमरविलसितं’ नाम । चतुर्भिः सप्तभिश्च यतिः । तत्रोदाहरण –
किं ते व-क्रं(४)चल-दलक-चि-तं (७)
किंवा प-द्मं(४)भ्रम-रविल-सि-तम् (७) ।
इत्येवं मे(४)जन-यति म-न-सि(७)
भ्रान्तिं का-न्ते!(४)परि-सरस-र-सि (७) ॥
6.23
मूलम्
रथोद्धता र्नौ र्लौ ग्
हलायुधवृत्तिः
यस्य पादे रगणनगणरगणलकारगकारा (ऽ।ऽ.।।।.ऽ।ऽ.।.ऽ) भवन्ति तद्वृत्तं ‘रथोद्धता’ नाम । | तत्रोदाहरणम्-
या करो-ति विवि-धैर्विटैः स-मं सङ्गतिं परगृ-हे रता च या।
म्लानय-त्युभय-तोऽपि बा-न्ध-वान् मार्गधू-लिरिव सा रथो-द्ध-ता ॥
पादान्ते यतिः ।
6.24
मूलम्
स्वागता र्नौ भ्गौ ग्
हलायुधवृत्तिः
यस्य पादे रगणनगणौ (ऽ।ऽ.।।।) भगणो (ऽ।।) गकारौ (ऽ.ऽ) च तद्वृत्तं ‘स्वागता’ नाम । तत्रोदाहरणम्-
आहवं प्रविश-तो यदि रा-हुः पृष्ठत-श्चरति वायुस–मे–तः ।
प्राणवृ-त्तिरपि यस्य श-री-रे स्वागता भवति तस्य ज-य-श्रीः ॥
पादान्ते यतिः ।
6.25
मूलम्
वृन्ता नौ स्गौ ग्
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) सगणः (।।ऽ) गकारौ (ऽ.ऽ) च तद्वृत्तं ‘वृन्ता’ नाम । अत्र मण्डूकप्लुतिन्यायेन ‘समुद्रऋषय’ इत्यनुवर्तते । तेन चतुर्भिः सप्तभिश्च यतिः । तत्रोदाहरणम् –
द्विजगु-रु(४)परि-भवका–री-यो(७
नरप-ति(४)रति-धनलु-ब्धा-त्मा (७) |
ध्रुवमि-ह(४)निप-तति पा-पो-ऽसौ (७)
फलमि-व(४)पव-नहतं-वृ-न्तात् (७) ॥
6.26
मूलम्
श्येनी र्जौ र्लौ ग्
हलायुधवृत्तिः
यस्य पादे रगणजगणौ (ऽ।ऽ.।ऽ।) रगणलकारौ (ऽ।ऽ.।) गकार (ऽ) श्च तद्वृत्तं ‘श्येनी’ नाम । तत्रोदाहरणम् –
क्रूरदृ-ष्टिराय-ताग्रना-सि-का चञ्चला-कठोर-तीक्ष्णना-दि-नी ।
युद्धका-ङ्क्षिणी स-दामिष-प्रि-या श्येनिके-व सा वि-गर्हिता-ङ्ग-ना॥
अत्र पादान्ते यतिः ।
6.27
मूलम्
विलासिनी ज्रौ ज्गौ ग्
हलायुधवृत्तिः
यस्य पादे जगणरगणौ (।ऽ।.ऽ।ऽ) जगणो (।ऽ।) गकारौ (ऽ.ऽ) च तद्वृत्तं ‘विलासिनी’ नाम । तत्रोदाहरणम्–
विलासि-नी विलो-कितैः स-का-मं दधाति-कामस-त्त्वचेष्टि-तं या ।
करोति चञ्चला-क्षिदृष्टि-पा-तै- र्यतात्म-नश्च यो-गिनोऽपि म-त्तान् ॥
6.28
मूलम्
जगती
हलायुधवृत्तिः
अधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तज्जगतीत्येवं वेदितव्यम् । वक्ष्यति च “तोटकं सः” (६।३२) तज्जगतीपादस्य लक्षणं भवति ॥
6.29
मूलम्
वंशस्था ज्तौ ज्रौ
हलायुधवृत्तिः
यस्य पादे जगणतगणौ (।ऽ।.ऽऽ।) जगणरगणौ (।ऽ।.ऽ।ऽ) च भवतस्तद्वत्तं ‘वंशस्था’ नाम । तत्रोदाहरणम् -
विशुद्ध-वंशस्थ-मुदार-चेष्टितं गुणप्रि-यं मित्र-मुपास्स्व सज्जनम् ।
विपत्ति-मग्नस्य कराव-लम्बनं करोति यत्प्राण-परिक्र-येण सः ॥ पादान्ते यतिः ।
6.30
मूलम्
इन्द्रवंशा तौ ज्रौ
हलायुधवृत्तिः
यस्य पादे तगणौ (ऽऽ।.ऽऽ।) जगणरगणौ (।ऽ।.ऽ।ऽ) च तद्वृतं ‘इन्द्रवंशा’ नाम तत्रोदाहरणम् -
कुर्वीत यो देव-गुरुद्वि-जन्मना- मुर्वीप-तिः पाल-नमर्थ-लिप्सया ।
तस्येन्द्र-वंशेऽपि गृहीत-जन्मनः संजाय-ते श्रीः प्र-तिकूल-वर्त्तिनी ॥
अत्रापि पादान्ते यतिः ।
6.31
मूलम्
द्रुतविलम्बितं न्भौ भ्रौ
हलायुधवृत्तिः
यस्य पादे नगणभगणौ (।।।.ऽ।।) भगणरगणौ (ऽ।।.ऽ।ऽ) च भवतस्तद्वृत्तं ‘द्रुतविलम्बितं’ नाम । तत्रोदाहरणम् -
द्रुतगतिः पुरु-षो धन-भाजनं भवति मन्दग-तिश्च सु-खोचितः ।
द्रुतवि-लम्बित-खेलग-तिर्नृपः सकल-राज्यसु-खं प्रिय-मश्नुते ॥
6.32
मूलम्
तोटकं सः
हलायुधवृत्तिः
जगतीत्यधिकारे यावद्भिः सकारै (।।ऽ)र्जगतीपादः पूर्यते, तावन्त एकपादे सकारा भवन्ति तद्वृत्तं ‘तोटकं’ नाम । तत्रोदाहरणम्-
त्यज तो-टकम-र्थनियो-गकरं प्रमदा-धिकृतं व्यसनो-पहतम्।
उपधा-भिरशु-द्धमतिं सचिवं नरना-यक! भी-रुकमा-युधिकम् ॥
पादान्ते यतिः ।
6.33
मूलम्
पुटो नौ म्यौ वसुसमुद्राः
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) मगणयगणौ (ऽऽऽ.।ऽऽ) च तद्वृत्तं ‘पुटो’ नाम । अष्टमिश्चतुर्मिश्च यतिः । तत्रोदाहरणम् –
न विच-लति क-थ ञ्चि (८)न्न्या-यमार्गा(४)
द्वसुनि शिथिल-मुष्टिः(८)पा-र्थिवो यः(४) ।
अमृत-पुट इ-वासौ(८)पु–ण्यकर्मा(४)
भवति जगति सेव्यः(८)स–र्वलोकैः(४) ॥
6.34
मूलम्
जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः
हलायुधवृत्तिः
यस्य पादे जगणसगणौ (।ऽ।.।।ऽ) पुनरपि तावेव (।ऽ।.।।ऽ) तद्वृत्तं ‘जलोद्धतगति’ र्नाम । षड्भिः षड्भिश्च यतिः ।
भनक्ति समरे(६) बहून-पि रिपून् (६) हरिः प्र-भुरसौ(६)भुजोर्जि-तबलः(६)।
जलोद्ध-तगति-(६)र्यथैव मकर-(६) स्तरङ्ग-निकरं(६) करेण परितः (६) ॥
6.35
मूलम्
ततं नौ म्रौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) मगणरगणौ (ऽऽऽ.ऽ।ऽ) च तत् ततं नाम ॥
कुरु क-रुणमि-यं गाढो-त्कण्ठिका यदुत्त-नय! च-कोरीभा राधिका ।
विरह-दहन-सङ्गाद-ङ्गैः कृशा पिबतु तव मु-खेन्दोर्बि-म्बं दृशा ॥
6.36
मूलम्
कुसुमविचित्रा न्यौ न्यौ
हलायुधवृत्तिः
यस्य पादे नगणयगणौ (।।।.।ऽऽ) पुनरपि तावेव (।।।.।ऽऽ) तत् ‘कुसुमविचित्रा’ नाम ।
विगलि-तहारा सकुसु-ममाला सचर-णलाक्षा वलय-सुलक्षा ।
विरचि-तवेषं सुरत–विशेषं कथय-ति शय्या कुसुम-विचित्रा ॥
6.37
मूलम्
चञ्चलाक्षिका नौ रौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) रगणौ (ऽ।ऽ.ऽ।ऽ) च भवतस्तद्वृत्तं ‘चञ्चलाक्षिका’ नाम ।
अति सु-रभिर-भाजि पु-ष्पश्रिया- मतनु-तरत-येव सं-तानकः ।
तरुण-परभृ-तः स्वनं रागिणा- मतनु-त रत-ये वसं-तानकः ॥
6.38
मूलम्
भुजङ्गप्रयातं यः
हलायुधवृत्तिः
यस्य पादे चत्वारो यगणा (।ऽऽ.।ऽऽ.।ऽऽ.।ऽऽ) भवन्ति, तद् ‘भुजङ्गप्रयातं’ नाम ।
पुनः सा-धुवद्व-क्ति मिथ्या विनीतः परोक्षे करोत्य-र्थनाशं हताशः ।
भुजङ्ग-प्रयातो-पमं य-स्य चित्तं त्यजेत्ता-दृशं दु-श्चरित्रं कुमित्रम् ॥
अत्र पादान्ते यतिः ।
6.39
मूलम्
स्रग्विणी रः
हलायुधवृत्तिः
यस्य पादे रगणा (ऽ।ऽ.ऽ।ऽ.ऽ।ऽ.ऽ।ऽ) श्चत्वारस्तत् ‘स्रग्विणी’ नाम ।
यो रणे - युध्यते निर्भरं निर्भय स्त्यागिता यस्य सर्वस्वदा-नावधिः ।
तं नरं वीरल-क्ष्मीर्यशः-स्रग्विणी नूनम-भ्येति स-त्कीर्तिशु-क्लांशुका ॥
6.40
मूलम्
प्रमिताक्षरा स्जौ सौ
हलायुधवृत्तिः
यस्य पादे सगणजगणौ (।।ऽ.।ऽ।) सगणौ (।।ऽ.।।ऽ) च भवतस्तद्वृत्तं ‘प्रमिताक्षरा’ नाम । तत्रोदाहरणम्-
परिशुद्धवाक्य-रचना-तिशयं परिषि-ञ्चती श्र-वणयो-रमृतम् ।
प्रमिता-क्षरापि विपुला-र्थवती तव-भा-रती ह-रति मे हृदयम् ॥
अत्र पादान्ते यतिः ।
6.41
मूलम्
कान्तोत्पीडा भ्मौ स्मौ
हलायुधवृत्तिः
यस्य पादे भगणमगणौ (ऽ।।.ऽऽऽ) सगणमगणौ (ऽ।।.ऽऽऽ) च भवतस्तद्वृत्तं ‘कान्तोत्पीडा’ नाम । तत्रोदाहरणम्
कामश-रैर्व्याप्ता खलु का-न्तोत्पीडा- माप्तव-ती दुःखैः परिमु-ह्यन्ती या ।
सा लभ-ते चेत्का-मुकयो-गं गाढ दुःखवि-मुक्ता स्या-त्परमा-नन्दाप्ता ॥
6.42
मूलम्
वैश्वदेवी मौ याविन्द्रियऋषयः
हलायुधवृत्तिः
यस्य पादे मगणौ (ऽऽऽ.ऽऽऽ) यगणौ (।ऽऽ.।ऽऽ) च भवतस्तद्वृत्तं ‘वैश्वदेवी’ नाम । पञ्चसु सप्तसु च यतिः । तत्रोदाहरणम् –
धन्यः पु-ण्यात्मा(५)जा-यते क्वा-पि वंशे(७)
तादृक्पु-त्रोऽसौ(५)ये–न गोत्रं पवित्रम् (७) ।
गोविप्र–ज्ञाति(५)स्वा–मिकार्ये प्रवृत्तः(७)
शुद्ध श्रा-द्धादौ(५)वै-श्वदेवी भवेद्यः(७) ॥
6.43
मूलम्
वाहिनी त्यौ म्यावृषिकामशराः
हलायुधवृत्तिः
यस्य पादे १तगणयगणौ (ऽऽ।.।ऽऽ) मगणयगणौ (ऽऽऽ.।ऽऽ) च भवतस्तद्वृत्तं ‘वाहिनी’ नाम । सप्तभिः पञ्चभिश्च यतिः । तत्रोदाहरणम्-
शक्ता ज-गतीं कृ-त्स्नां (७)जेतुं सुयोधा(५)
हस्त्यश्व-रथोदा–रा(७)सा वाहिनी ते(५)।
छन्ने र-जसा भा-नौ(७)यस्याः प्रयाणे(५
घस्रेऽपि निशाभ्रा-न्ति(७)धत्ते नृलोकः(५) ॥
6.44
मूलम्
नवमालिनी न्जौ भ्याविति
हलायुधवृत्तिः
यस्य पादे नगणजगणभगणयगणा (।।।.।ऽ।.ऽ।।.।ऽऽ) भवन्ति तद्वृत्तं ‘नवमालिनी’ नाम । तत्रोदाहरणम् –
धवल-यशोंऽशु-केन(८)प-रिवीता(४)
सकल-जनानु-राग(८)घु-सृणाक्ता(४) ।
दृढगु-णबद्ध-कीर्ति(८)कु-सुमौघै(४)
स्तव न-वमालि-नीव(८)नृ-प लक्ष्मीः(४) ॥
अत्र वसुसमुद्रैर्यतिरित्याम्नायः |
7
7.1
मूलम्
प्रहर्षिणी म्नौ जरौ ग् त्रिकदशकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
इदानीमतिजगती शक्वर्यतिशकवर्यष्टिरत्यष्टिर्धृतिरतिधृतिश्चेति सप्त अतिच्छन्दांसि एकैकाक्षरवृद्ध्या क्रमेणोदाह्रियन्ते ।
यस्य पादे मगणनगणौ (ऽऽऽ.।।।) जगणरगणगकाराश्च (।ऽ।.ऽ।ऽ.ऽ) भवन्ति, तद्वृत्तं ‘प्रहर्षिणी’ नाम । त्रिभिर्दशभिश्च यतिः । तत्रोदाहरणम्-
उत्तुङ्ग(३)स्तनक-लशद्व-योन्नता-ङ्गी(१०)
लोलाक्षी(३)विपुल-नितम्ब-शालिनी च(१०)।
बिम्बोष्ठी(३ )नरव-र! मुष्टि-मेयम-ध्या(१०)
सा नारी(३)भवतु मनःप्र-हर्षिणी ते(१०) ॥
7.2
मूलम्
रुचिरा ज्भौ स्जौ ग् चतुर्नवकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे जगणभगणौ (।ऽ।.ऽ।।) सगणजगणौ (।।ऽ.।ऽ।) गुरुश्च (ऽ), तद्वृत्तं ‘रुचिरा’ नाम । चतुर्भिर्नवभिश्च यतिः । तत्रोदाहरणम् –
मृगत्व-चा(४)रुचि-रतरा-म्बरक्रि-यः(९)
कपाल-भृ(४)त्कपि-लजटा-ग्रपल्ल-वः(९) ।
ललाट दृ(४)ग्दह-नतृणी-कृतस्म-रः(९)
पुनातु वः(४)शिशु-शशिशे-खरः शि-वः(९) ॥
7.3
मूलम्
मत्तमयूरं म्तौ य्सौ ग् समुद्रनवकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणतगणयगणसगणगकाराः (ऽऽऽ.ऽऽ।.।ऽऽ.।।ऽ.ऽ) भवन्ति, तद्वृत्तं ‘मत्तमयुरम्’ नाम । पूर्वैव यतिः । तत्रोदाहरणम्–
व्यूढोर-स्कः सिंह-समाना-नतम-ध्यः
पीनस्क-न्धः सिन्धु-रहस्ता-यतबा-हुः
कम्बुग्री-वः स्निग्ध-शरीर-स्तनुलो-मा
भुङ्क्ते रा-ज्यं मत्त-मयूरा-कृति ने-त्रः ॥
7.4
मूलम्
गौरी नौ न्सौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणत्रयं (।।।.।।।.।।।) सगणो (।।ऽ) गुरुश्च (ऽ), तद्वृत्तं ‘गौरी’ नाम । तत्रोदाहरणम्-
सकल-भुवन-जगण-नतपा-दा निजप-दभंज-नशमि-त विषा-दा ।
विजित-सरसि-रुहन-यनप-द्या भरतु सकल-मिह ज-गति गौ-री ॥
7.5
मूलम्
असंबाधा म्तौ न्सौ गाविन्द्रियनवकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणतगणनगणसगणा (ऽऽऽ.ऽऽ।.।।।.।।ऽ) गकारौ (ऽ.ऽ) च भवतस्तद्वृत्तम् ‘असंबाधा’ नाम । पञ्चभिर्नवभिश्च यतिः । तत्रोदाहरणम् –
भङ्क्त्वा दु-र्गाणि(५)द्रु-भवन-मखिलं छि-त्त्वा (९)
हत्वा त-त्सैन्यं(५)क-रितुर-गबलं हृ-त्वा(९)
येनासं-बाधा(५)स्थि-तिरज-नि विप-क्षा-णां(९)
सेर्वीवी-नाथः(५)स जयति नृपति-र्मु-ञ्जः(९) ||
7.6
मूलम्
अपराजिता नौ र्सौ ल्गौ स्वरऋषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) रगणसगणलकारा गकारश्च (ऽ।ऽ.।।ऽ.।.ऽ) तद्वृत्तम् ‘अपराजिता’ नाम । सप्तभिः सप्तभिश्च यतिः । तत्रोदाहरणम्-
फणिप-तिवल-यं(७)जटा-मुकुटो-ज्व-लं(७)
मनसि-जमथ-नं(७)त्रिशू-लविभू-षि-तम्( ७)
स्मरसि यदि स-खे(७)शिवं शशिशे-ख-रं(७)
भवति तव त-नुः(७)परै-रपरा-जि-ता(७) ॥
7.7
मूलम्
प्रहरणकलिता नौ भ्नौ ल्गौ च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) भगणनगणौ, (ऽ।।.।।।) लकारो गकारश्च (ऽ) भवन्ति, तद्वृत्तं ‘प्रहरणकलिता’ नाम । चकारात्पूर्वोक्तैव यतिः । तत्रोदाहरणम् –
सुरमु-निमनु-जै(७)रुप-चितच-र-णां (७)
रिपुभ-यचकि-त(७)त्रिभु-वनश-र-णाम् (७) ।
प्रणम-त महि-षा(७)सुर-वधकु-पि-तां(७)
प्रहर-णकलि-तां(७)पशु-पतिद-यि-ताम् (७) ॥
7.8
मूलम्
वसन्ततिलका त्भौ जौ गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे तगणभगणौ (ऽऽ।.ऽ।।) जगणौ (।ऽ।.।ऽ।) गकारौ (ऽ.ऽ) च तद्वृत्तं ‘वसन्ततिलका’ नाम । तत्रोदाहरणम्-
उद्धर्षि-णी जन-दृशां स्त-नभार-गु-र्वी
नीलोत्प-लद्युति-मलिम्लु-चलो च-ना च।
सिंहोन्न-तत्रिक-तटी कु-टिलाल-का-न्ता
कान्ता व-सन्तति-लका नृ-पवल्ल-भा-सौ ॥
पादान्ते यतिः ।
7.9
मूलम्
सिंहोन्नता काश्यपस्य
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
इयमेव वसन्ततिलका काश्यपस्याचार्यस्य मतेन “सिंहोन्नता” नाम भवति । पूर्वमेवोदाहरणम् ।
7.10
मूलम्
उद्धर्षिणी सैतवस्य
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
इयमेव वसन्ततिलका सैतवस्याचार्यस्य मते ‘उद्धर्षिणी’ नाम । पूर्वमेवोदाहरणम् ।
7.11
मूलम्
चन्द्रावर्ता नौ नौ स्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणाश्चत्वारः (॥.।॥.॥॥.॥॥) सगणश्च (॥5), तद्वतं “चन्द्रावर्ता’” नाम । तत्रोदाहरणम्-
पटुज-वपव-न(७)चलि-तजल-लहरी (८)
तरलि-तविह-ग(७)निव-हरव-मुखरम् (८) ।
विकसि-तकम-ल(७)सुर-भिशुचि सलिलं (८)
विचर-ति पथि-क(७)मन-सि-शर-दि सरः (८) ।
7.12
मूलम्
मालर्तुनवकौ चेत्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
सैव चन्द्रावर्ता ‘माला’ नाम भवति; यदा षष्ठे, नवमे च वर्णे यतिः । तत्रोदाहरणम्-
नववि-कसित(६)-कुवल-यदल-नयने (९)
निशम-य नव(६)-जलध-रमिह गगने (९) ।
अपन-य रुष(६)-मुपस-र मम सविधं (९)
यदि र-तिसुख(६)-मभिल-षसि ब-हुविधम् (९) ॥
7.13
मूलम्
मणिगुणनिकरो वस्वृषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
सैव चन्द्रावर्ता ‘मणिगुणनिकरो’ नाम भवति, यदाष्टभिः, सप्तभिश्च यतिः । तत्रोदाहरणम्-
कथम-पि निप-तित(८)म-तिमह-ति पदे(७)
नरम-नु-सर-ति न(८)फ-लमनु-पचितम् (७) ।
अपि व-रयुव-तिषु(८)कु-चतट-निहितः (७)
स्पृशति न वपु-रिह(८)म-णिगुण-निकरः (७) ॥
7.14
मूलम्
मालिनी नौ म्यौ य्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणौ, मगणयगणौ, यगणश्च (।।।.।।।.ऽऽऽ.।ऽऽ.।ऽऽ)
भवति, तद्वृत्तं ‘मालिनी’ नाम । पूर्वैव यतिः । तत्रोदाहरणम्-
अतिवि-पुलल-लाटं(८)पी-वरोरः-कपाटं (७)
सुघटि-त दश-नोष्ठं(८ )व्या-घ्रतुल्य-प्रकोष्ठम् (७)
पुरुष-मशनि-लेखा(८)ल-क्षणं वी-रलक्ष्मी (७)
रतिसु-रभिय-शोभि(८)र्मा-लिनी-वा-भ्युपैति (७) ॥
7.15
मूलम्
ऋषभगजविलसितं भ्रौ नौ न्गौ स्वरनवकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणरगणौ, नगणास्त्रयो, गकारश्च भवति (ऽ।।.ऽ।ऽ.।।।.।।।.।।।.ऽ) तद्वृत्तं ‘ऋषभगजविलसितं’ नाम | सप्तभिर्नवभिश्च यतिः । तत्रोदाहरणम्-
आयत-बाहुद-ण्ड(७)मुप-चितपृ-थुहृद-यं(९)
पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९) ।
वीरमु-दारस-त्तव.७)मति शयगु-णरसि-कं(९)
श्रीरति-चञ्चला-पि(७)न प-रिहर-ति पुरु-षम्(९) ॥
7.16
मूलम्
हरिणी न्सौ म्रौ स्लौ गृतुसमुद्रऋषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणसगणमगणरगणसगणलकारणकाराश्च (।।।.।।ऽ.ऽऽऽ.ऽ।ऽ.।।ऽ.।ऽ), तद्वृत्तं ‘हरिणी’ नाम । षड्भिः, चतुर्भिः, सप्तभिश्च यतिः ।
कुवल-यदल(६)-श्यामा पी-नो(४)न्नत-स्तनशा-लि-नी(७)
चकित-हरिणी(६)नेत्रच्छा-या(४)मदा’-लसलो-च-ना(७) ।
मनसि-जधनु(२)-…र्पानिर्घो-षै(४)रिव-श्रुतिपे-श-लै(७)
मनसि ललना(६)-लीलाला-पैः(४)करो-ति ममो-त्स-वम् (७) ॥ एतदृषभविलसितमित्यपरे ।
7.17
मूलम्
पृथ्वी ज्सौ ज्सौ यलौ ग् वसुनवकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे जगणसगणौ (।ऽ।.।।ऽ) पुनर्जगणसगणौ (।ऽ।.।।ऽ)
यगणलकारगकाराश्च (।ऽऽ.।.ऽ), तद्वृत्तं ‘पृथ्वी’ नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम् –
हताः स-मिति श-त्रव(८)स्रि-भुवने विकीर्णं य-शः (९)
कृतश्च गुणिनां गृहे(८)नि-रवधि-र्महानु-त्स-वः(९)
त्वया कृ-तपरि-ग्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने(९)
नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृता (९) ॥
7.18
मूलम्
वंशपत्रपतितं भ्रौ न्भौ न्लौ ग् दिगृषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (ऽ।।.ऽ।ऽ.।।।.ऽ।।.।।।.।.ऽ) भवन्ति, तद्वृत्तं ‘वंशपत्रपतितम्’ नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम्-
अद्य कु-रुष्व कर्म सुकृ-तं(१०)यद-परदि-व-से(७)
मित्र! वि-धेयम-स्ति भव-तः(१०)किमु चिरय-सि तत् ?(७) ।
जीवित-मल्पका-लकल-ना(१०)लघु-तरत-र-लं(७)
नश्यति वंशप-त्रपति-तं(१०)हिम-सलिल-मि-व (७) ॥
7.19
मूलम्
मन्दाक्रान्ता म्भौ न्तौ त्गौ ग् समुद्रर्तुस्वराः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणभगणनगणाः, (ऽऽऽ.ऽ।।.।।।) तगणौ, (ऽऽ।.ऽऽ।) गकारौ च (ऽ.ऽ) तद् ‘मन्दक्रान्ता’ नाम चतुर्षु षट्सु सप्तसु च यतिः । तत्रोदाहरणम् –
प्रत्यादि-ष्टं(४)सम-रशिर-सः(६)कान्दि-शीभूय न-ष्टं(७)
त्वं निःशे-षं(४)कुरु रिपुब-लं(६)मार्ग-मासाद्य स-द्यः (७) ।
किं नाश्रौ-षीः(४)परि-णतधि-यां(६)नीति-मार्गोप-दे-शं ?(७)
मन्दाक्रा-न्ता(४)भव-ति फलि-नी(६)वारि-लक्ष्मीः क्ष-या-य(७) ॥
7.20
मूलम्
शिखरिणी यमौ न्सौ भ्लौ गृतुरुद्राः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे यगणमगणनगणसगणभगणलकारगकाराश्च (।ऽऽ.ऽऽऽ.।।।.।।ऽ.ऽ।।.।.ऽ) भवन्ति तद्वृत्तं ‘शिखरिणी’ नाम । षट्स्वेकादशसु च यतिः । तत्रोदाहरणम्-
यशःशे-षीभूते(६) जगतिः वरना-थे गुण-नि-धौ (११)
प्रवृत्ते वैराग्ये(६) विषय-रसनि-क्रान्तम-न-साम् (११) |
इदानी-मस्माकं(६) घनत-रुलता-निर्झर-व-तीं (११)
तपस्त-प्तुं चेतो (६) भवति गिरिमा-लां शिख-रि-णीम् (११) ॥
7.21
मूलम्
कुसुमितलतावेल्लिता म्तौ न्यौ याविन्द्रियर्तुस्वराः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणतगणनगणयगणा (ऽऽऽ.ऽऽ।.।।।.।ऽऽ) यगणौ (।ऽऽ.।ऽऽ) च तद्वृत्तं ‘कुसुमितलतावेल्लिता’ नाम । पञ्चसु, षट्सु, सप्तसु च यतिः । तत्रोदाहरणम्-
धन्याना-मताः(५)कु-सुमित-लता(६)वे-ल्लितोत्फु-ल्लवृक्षाः(७)
सोत्कण्ठं कूज(५)त्प-रभृत-कला(६)ला-पकोला-हलिन्यः(७) ।
मध्वादौ माद्य(५)न्म-धुकर-कलो(६)द्गी-तझङ्का-रसम्या (७)
ग्रामान्तः-स्रोतः(५)प-रिसर-भुवः(६)प्री-तिमुत्पा-दयन्ति (७) ॥
7.22
मूलम्
शार्दूलविक्रीडितं म्सौ ज्सौ तौ गादित्यऋषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणसगणौ (ऽऽऽ.।।ऽ) जगणसगणौ (।ऽ।.।।ऽ) तगणौ गकारश्च (ऽऽ।.ऽऽ।.ऽ), तद्वृत्तं ‘शार्दूलविक्रीडितं’ नाम । द्वादशभिः सप्तभिश्च यतिः। तत्रोदाहरणम् –
कम्बुग्री-वमुद-ग्रबाहु-शिखरं( १ २)रक्तान्त-दीर्घेक्ष-णं(७)
शालप्रां-शुशरी-रमाय-तभुजं( १ २)विस्तीर्ण-वक्षःस्थ-लम् (७) ।
कीलस्क-न्धमनु-द्धतं प-रिजने(१२)गम्भीर-सत्यस्व-रं (७)
राज्यश्रीः समुपै-ति वीर-पुरुषं(१२)शार्दूल-विक्रीडि-तम् (७) ।
इदानीं कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिश्चेति सप्त कृतयः क्रमेणैकाक्षरवृध्द्योदाह्रियन्ते-
7.23
मूलम्
सुवदना म्रौ भ्नौ य्भौ ल्गावृषिस्वरर्तवः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणरगणभगणनगणयगणभगणलकारगकारा (ऽऽऽ.ऽ।ऽ.ऽ।।.।।।.।ऽऽ.ऽ।।.।.ऽ) भवन्ति, तद्वृत्तं ‘सुवदनार’ नाम । सप्तसु सप्तसु षट्सु च यतिः । तत्रोदाहरणम्-
या पीनो-द्गाढतु-ङ्ग(७)स्तन-जघन-घना(७)भो-गालस-ग-ति(६)-
र्यस्याः क-र्णावतं-सो(७)त्पल-रुचिज-यिनी(७)दी-र्घे च न-य-ने(६) ।
श्यामा सी-मन्तिनी-नां(७)तिल-कमिव मुखे(७)या च त्रिभु-व-ने (६)
सम्प्राप्ता साम्प्रतं मे(७)नय-नपथ-मसौ(७)दै-वात्सुव-द-ना (६) ॥
7.24
मूलम्
ग्लिति वृत्तम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे गकारलकाराः (ऽ.।) क्रमेण भवन्ति, तद् ‘वृत्तं’ नाम वृत्तम् । कृतिप्रकरणेन यावद्भिरेव विंशत्यक्षराणि पूर्यन्ते, तावतां ग्लां ग्रहणम् । तत्रोदाहरणम् –
ज-न्तु-मा-त्र-दुः-ख-का-रि कर्म-नि-र्मि-तं भ-व-त्य-न-र्थ-हे-तु
ते-न स-र्व-मा-त्म-तु-ल्य-मी-क्ष-मा-ण उ-त्त-मं सु-खं ल-भ-स्व ।
वि-द्धि बु-द्धि-पूर्व-कं म-मो प-दे-श-वा-क्य-मे-त-दा-द-रे-ण
वृ-त्त-मे-त-दु-त्त-मं म-हा-कु-ल-प्र-सू-त-ज-न्म-नां हि-ता-य ।
अत्र पादान्ते यतिः ।
7.25
मूलम्
मद्रकं भ्रौ न्रौ न्रौ न्गौ दिगादित्याः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणरगणभगणनगणास्रयश्च यगणाः (ऽऽऽ.ऽ।ऽ.ऽ।।.।।।.।ऽऽ.।ऽऽ.।ऽऽ) तत् ‘स्रग्धरा’ नाम वृत्तम् | सप्तसु सप्तसु च यतिः । तत्रोदाहरणम् –
रेखा-भ्रूः शुभ्रद-न्त(७)द्युति-हसित-शर(७)च्च-न्द्रिकाचा-रुमूर्ति
र्माद्यन्मा-तङ्गली-ला(७)गति-रतिवि-पुला(७)भो-गतुङ्ग-स्तनी या(७) ।
रम्भास्त-म्भोपमो-रू(७)रलि-मलिन-घन(७)स्नि-ग्धधम्मि-ल्लहस्ता (४)
बिम्बोष्ठी रक्तक-ण्ठी(७)दिश-तु रति-सुखं(७)स्र-ग्धरा सु-न्दरीयम् (७) ॥
7.26
मूलम्
मत्ताक्रीडा मौ त्नौ नौ न्लौ ग् वसुपञ्जचदशकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणरगणौ, (ऽ।।.ऽ।ऽ) नगणरगण, (।।।.ऽ।ऽ) पुनर्नगणरगणौ (।।।.ऽ।ऽ) नगणो गकारश्च (।।।.ऽ) भवतस्तद्वृत्तं ‘मद्रकम्’ नाम । दशभिर्द्वादशभिश्च यतिः । तत्रोदाहरणम्-
मद्रक-गीतिभिः सकृद-पि(१०)स्तुव-न्ति भव! ये भव-न्तमभ-वं (१२)
भक्तिभ-रावन-म्रशिर-सः(१०)प्रण-म्य तव पादयोः सुकृति-नः (१२) ।
ते पर-मेश्वर-स्य पद-वी(१०)मवा-प्य सुख-माप्नुव-न्ति विपु-लं
मर्त्यभु-वं स्पृश-न्ति न पु-न(१०)र्मनो-हरसु-राङ्गना-परिवृ-ताः (१२) ॥
7.27
मूलम्
अश्वललितं न्जौ भ्जौ भ्जौ भ्लौ ग्रुद्राऽऽदित्याः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणजगणौ (।।।.।ऽ।) भगणजगणौ (ऽ।।.।ऽ।) पुनर्भगणजगणौ (ऽ।।.।ऽ।) भगणो (ऽ।।) लकारगकारौ (।.ऽ) च भवतः, तद्वृत्तम् ‘अश्वललितम्’ नाम । एकादशभिर्द्वादशभिश्च यतिः । तत्रोदाहरणम् -
पवन-विधूत-वीचि च-पलं(११)वि-लोकय-ति जीवि-तं तनु-भृ-तां(१२)
वपुर-पि हीय-मान म-निशं(११)ज-रावनि-तया व-शीकृत-मि-दम् (१२)
सपदि निपीड-न व्यति-करं(११)य-मादिव नराधि-पान्नर-प-शुः(१२)
परव-निताम-वेक्ष्य कु-रुते( १ १)त-थापि ह-तबुद्धि-रश्वल-लि-तम् (१२) ॥
7.28
मूलम्
मत्ताक्रीडा मौ त्नौ नौ न्लौ ग् वसुपञ्जचदशकौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणौ, (ऽऽऽ.ऽऽऽ) तगणो, (।ऽऽ) नगणाश्चत्वारो (।।।.।।।.।।।.।।।) लकारगकारौ (।.ऽ) च तद्वृत्तं ‘मत्ताक्रीडा’ नाम | अष्टभिः पञ्चदशभिश्च यतिः।तत्रोदाहणम्-
हृद्यं म-द्यं पीत्वा नारी(८)स्ख-लितग-तिरति-शयर-सिकहृ-द-या(१५)
मत्ताक्री-डा लोलै-रङ्गै(८)र्मु-दमखि-लविट-जनम-नसि कु-रु-ते (१५) ।
वीतव्री-डाश्लीला-लापैः(८)श्र-वणसु-खसुभ-ग सुल-लितव-च ना (१५)
नृत्यैर्गी-तैर्भ्रूवि-क्षेपैः(८)क-लमणि-त विवि-धविह-गकुल-रु-तैः (१५)
7.29
मूलम्
तन्वी भ्तौ न्सौ भौ न्याविन्द्रियस्वरमासाः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणतगणौ, (ऽ।।.ऽऽ।) नगणसगणौ; (।।।.।।ऽ) भगणौ (ऽ।।.ऽ।।) नगणयगणौ (।।।.।ऽऽ) च, तद्वृत्तं ‘तन्वी’ नाम | पञ्चसु, सप्तसु, द्वादशसु च यतिः । तत्रोदाहरणम् -
चन्द्रमु-खी सु(५)न्द-रघन-जघना(७)कुन्दस-मानशि-खरद-शनाग्रा (१
निष्कल-वीणा(५)श्रु-तिसुख-वचना(७)त्रस्तकु-रङ्गत-रलन-यनान्ता (१२
निर्मुख-पीनो(५)न्न-तकुच-कलशा( ७)मत्तग-जेन्द्रल-लितग-मना च (१२)
निर्भर-लीला(५)नि-धुवन-विधये(७)मुञ्जन-रेन्द्र। भ-वतु त-व तन्वी (१२
7.30
मूलम्
क्रौञ्चपदा भ्मौ स्भौ नौ नौ ग् भूतेन्द्रियवस्वृषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणमगणौ, (ऽ।।.ऽऽऽ) सगणभगणौ, (।।ऽ.ऽ।।) नगणाश्चत्वारो (।।।.।।।.।।।.।।।) गकार(ऽ) श्च तद्वृतं ‘क्रौञ्चपदा’ नाम । पञ्चभिः, पञ्चभिः, अष्टभिः, सप्तभिश्च यतिः । तत्रोदाहरणम्-
या कपि-लाक्षी(५)पि-ङ्गलके-शी(५)कलि-
रुचिर-नुदिन(८ )मनुन-यकठि–ना(७) ।
दीर्घत-राभिः(५)स्थू-लशिरा-भिः( ५ )परि-
वृतव-पुरति(८)शयकु-टिलग–तिः (७) ॥
आयत-जङ्घा(५)नि-म्नकपो-ला(५)लघु-
तरकु-चयुग(८)परिचि-तहृद–या(७)
सा परि-हार्या(५)क्रौ-ञ्चपदा स्त्री(५)ध्रुव-
मिह नि-रवधि(८)सुखम-भिलष-ता (७) ॥
7.31
मूलम्
भुजङगविजृम्भितं मौ त्नौ नौ र्सौ ल्गौ वसुरुद्रऋषयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणौ (ऽऽऽ.ऽऽऽ) तगणनगणौ (ऽऽ।.।।।) नगणौ (।।।.।।।) रगणसगणौ (ऽ।ऽ.।।ऽ) लकारगकारौ (।.ऽ) च तद्वृत्तं ‘भुजङ्गविजृम्भितम्’ नाम । अष्टभिरेकादशभिः सप्तभिश्च यतिः । तत्रोदाहरणम्-
ये संन-द्धानेका-नीकै(८)र्न-रतुर
गकरि-परिवृ-तैः( १ १)समं-तव श-त्र-वो (७)
युद्धश्र-द्धालुब्धा-त्मान(८ )स्त्वं-दभिमु-
खमप-गतभि-यः( ११)पत-न्ति धृता-यु-धाः(७) ।
ते त्वां दृ-ष्ट्वा संग्रा-माग्रे( ८ )नृ-पतिव-
र! कृप-णमन-स(१ १)श्चल-न्ति दिग-न्त-रं (७)
किंवा सो-ढुं शक्यं भेकै(८)र्ब-हुभिर
पि सवि-षविष-मं(११)भुज-ङ्गविजृ-म्भि-तम्? (७) ॥
अत्र कात्यायनेनाप्युक्तम्
ध्यानैका-ग्रालम्बा-दृष्टिः(८)क-मलमु
खि! लुलि-तमल-कं(११)करे स्थितमा-न-न (७)
चिन्तास-क्ता शून्या-बुद्धि(८ )र्द्वि-रदग-
तिपति-तरस-ना(११)तनु-स्तनुतां ग-ता(७)
पाण्डुच्छा-यं क्षामं वक्रं (८)म-दजन-
नि!रह-सि सर-सां(११)करो-षि न सं-क-थां (७)
को नामा-यं रम्यो व्याधि(८)स्त-व कथ
य सुत-नु! किमि-दं( ११)न ख-ल्वसि ना-तु-रा(७) ॥
7.32
मूलम्
अपवाहको म्नौ नौ नौ न्सौ गौ नवर्तुरसेन्द्रियाणि
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणः, (ऽऽऽ) नगणाः षट्, (।।।.।।।.।।।.।।।.।।।.।।।) सगणो, (।।ऽ) गकारौ (ऽ.ऽ) तद्वृत्तं ‘अपवाहको’ नाम । नवसु, षट्सु, षट्सु, पञ्चसु च यतिः । तत्रोदाहरणम्-
श्रीकण्ठं त्रिपुर-दहन(९)ममृत-किरण(६)-
शकल-ललित(६)शिरसं रु-द्रं(५)
भूतेशं हतमु-निमख(९)मखिल-भुवन (६)
नमित-चरण(६)युगमी-शा-नम् (५) ।
सर्वज्ञं वृषभ-गमन(९)महिप-तिकृत(६)-
वलय-रुचिर(६)करमा-रा-ध्यं(५)
तं वन्दे भवभ-यभिद(९)मभिम-तफल(६)-
वितर-णगुरु(६)मुमया यु-क्तम् (५) ॥
7.33
मूलम्
दण्डको नौ रः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यत्र पादे द्वौ नगणौ (।।।.।।।) रगणाश्च सप्त (ऽ।ऽ.ऽ।ऽ.ऽ।ऽ.ऽ।ऽ.ऽ।ऽ.ऽ।ऽ.ऽ।ऽ) भवन्ति, दण्डको नाम सः । उत्कृतेः षड्विंशत्यक्षरायाः समनन्तरं दण्डकस्य पाठात्सप्त विंशत्यक्षरत्वमेव युक्तम्; सर्वेषां छन्दसामेकैकाक्षरवृध्द्या प्रवृत्तेः । इत ऊर्ध्वं पुनरेकैकरेफवृध्द्या प्रस्तारः । दण्डको नौ र इति श्रवणात् । । तत्रोदाहरणम् —
इह हि भवति दण्डका-रण्यदे-शे स्थिति
पुण्यभा–जां मुनी–नां मनो-हारिणी
त्रिदश-विजयि-वीर्य दृ-प्यद्दश-ग्रीवल
क्ष्मीविरा–मेण रा–मेण संसेविते ।
जनक-यजन-भूमिसं–भूतसी-मन्तिनी
सीमसी–तापद–स्पर्शपू–ताश्रमे
भुवन-नमित-पादप-द्माभिधा-नाम्बिका
तीर्थया–त्रा गता–नेकसि–द्धाकुले ॥ अत्र पादान्ते यतिः ।
7.34
मूलम्
प्रथमश्चण्डवृष्टिप्रयातः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यः सप्तविंशत्यक्षरपादः प्रथमो दण्डकः स चण्डवृष्टिप्रयातो नाम । पूर्वमेवोदाहरणम् ।
7.35
मूलम्
अन्यत्र रातमाण्डव्याभ्याम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
रातमाण्डव्याभ्यां ऋषिभ्यामन्यत्रास्याभिधानमेतदेव, ताभ्यां पुनरन्यैव संज्ञा कृतास्य वृत्तस्य ॥ रातमाण्डव्यग्रहणं पूजार्थम् ।
7.36
मूलम्
शेषः प्रचित इति
हलायुधवृत्तिः
इतश्चण्डवृष्टिप्रयातादूर्ध्वं दण्डकप्रस्तारः प्रचित इति संज्ञां लभते । पूर्वमेकैकाक्षरक्रमेण छन्दसां वृद्धिरुक्ता । इदानीं तु रेफोपलक्षिताक्षरत्रयेण वृद्धिः । तत्रोदाहरणम्-
प्रथम-कथित-दण्डक-श्चण्डवृ-ष्टिप्रपा-
ताभिधा-नो मुनेः पिङ्गला-चार्यना-म्नो मतः
प्रचित-इति त-तः परं दण्डका-नामियं
जातिरे-कैकरे-फाभिवृ-ध्द्या यथे-ष्टं भवेत् ।
स्वरुचि–रचित–संज्ञया तद्विशे–षैरशे
षैः पुनः काव्यम-न्येऽपि कु-र्वन्तु वा-गीश्वराः
भवति यदि स-मानसं-ख्याक्षरै-र्यत्र पा
दव्यव-स्था ततो दण्डकः पूज्यते-ऽसो जनैः ।।
अत्र पादान्ते यतिः ।
8
8.1
मूलम्
अत्रानुक्तं गाथा
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अत्र शास्रे नामोद्देशेन यन्नोक्तं छन्दः, प्रयोगे च दृश्यते तद्गाथेति मन्तव्यम् ।
8.2
मूलम्
कुड्मलदन्ती भ्तौ न्गौ गिन्द्रियरसाः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणतगणौ (ऽ।।.ऽऽ।) नगणो (।।।) गकारौ (ऽ.ऽ) च भवतस्तद्वृत्तं ‘कुड्मलदन्ती’ नाम (११।३९७) । पञ्चभिः षड्भिश्च यतिः । तत्रोदाहरणम्-
कुड्मल-दन्ती(५)वि-कटनि-त-म्बा (६)
किन्नर-कण्ठी(५)ल-घुतर-म-ध्या(६)
बिम्बफ-लोष्ठी(५)मृ-गशिशु-ने-त्रा(६)
मित्र! भ-वन्तं(५)सु-खयतु-का-न्ता(६) ॥
8.3
मूलम्
वरतनुर्न्जौ ज्रौ षड्रसाः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणजगणौ (।।।.।ऽ।) जगणरगणौ (।ऽ।.ऽ।ऽ) च तद्वृत्त ‘वरतनु’र्नाम (१२।१३९२)। षड्भिः षड्भिश्च यतिः । तत्रोदाहरणम् —
अयि! वि-जहीहि(६) दृढोप-गूहनं (६)
त्यज न-वसङ्ग(६)-मभीरु!वल्लभम् (६)
अरुण-करोद्ग(६)-म एष वर्तते (६)
वरत-नु! संप्र(६)-वदन्ति कुक्कुटाः (६) ॥
8.4
मूलम्
जलधरमाला म्भौ स्मौ समुद्रवसवः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणभगणौ (ऽऽऽ.ऽ।।) सगणमगणौ (।।ऽ.ऽऽऽ) च भवतस्तद्वृत्तं ‘जलधरमाला’ नाम (१२।२४१) । चतुर्भिरष्टभिश्च यतिः । तत्रोदाहरणम् —
धत्ते शो-भां (४)कुव-लयदा-मश्यामा(८)
शैलोत्स-ङ्गे (४)जल-धरमा-ला लीना(८)
विद्युल्ले-खा(४)कन-ककृता-लङ्कारा(८)
क्रीडासु-प्ता(४)युव-तिरिवा-ङ्के पत्युः (८)
8.5
मूलम्
गौरी नौ रौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) रगणौ (ऽ।ऽ.ऽ।ऽ) च भवतस्तद्वृत्तं ‘गौरी’ नामेति गाथा (१२।१२१६) । पादान्ते यतिः । तत्रोदाहरणम् —
प्रणम-त चर-णारवि-न्दद्वयं त्रिभुव-ननमि-तस्य गौ-रीपतेः ।
सकृद-पि मन-सैव यः सेवितः प्रवित-रति य-थेष्टम-ष्टौ गुणान् ॥
इयमेव गौरी दण्डकात्पूर्वमेकैकरेफवृध्द्या नामान्तराणि लभते ।
8.6
मूलम्
ललना भ्तौ न्साविन्द्रियर्षयः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणतगणौ (ऽ।।.ऽऽ।) नगणसगणौ (।।।.।।ऽ) च भवतस्तद्व्त ‘ललना’ नाम गाथा (१२।१९२३)। पञ्चभिः सप्तभिश्च यतिः । तत्रोदाहरणम्-
या कुच-गुर्वी(५)मृ-गशिशु-नयना(७)
पीननि-तम्बा(५)म-दकरि-गमना( ७)
किन्नर-कण्ठी(५)सु-रुचिर-दशना(७)
सा तव सौख्यं(५)वि-तरतु ललना(७) ॥
8.7
मूलम्
कनकप्रभा स्जौ स्जौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे सगणजगणौ (।।ऽ.।ऽ।) पुनः सगणजगणौ (।।ऽ.।ऽ। ) गकारश्च (ऽ) तद्वृत्तं ‘कनकप्रभा’ नाम गाथा (१३।२७९६) । पादान्ते यतिः । तत्रोदाहरणम् —
कनक-प्रभा पृथुनित-म्बशालि-नी
विपुल-स्तनी ह-रिणशा-वकेक्ष-णा ।
इयम-ङ्गना न-यनयोः पथि स्थि-ता
कुरुते न कस्य मदना-तुरं म-नः? ॥
8.8
मूलम्
कुटिलगतिर्नौ तौ ग् स्वरर्तवः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) तगणौ (ऽऽ।.ऽऽ।) गकारश्च (ऽ) भवति तद्वृत्तं ‘कुटिलगति’नाम गाथा (१३।२३६८)। सप्तभिः षड्भिश्च यतिः । तत्रोदाहरणम् —
अधर-किसल-ये(७)कान्त-दन्तक्ष-ते (६)
हरिण-शिशुदृ-शां(७)नृत्य-ति भ्रूयु गम् (६) ।
ध्रुवमि-दमुचि-तं(७)यद्वि-पत्तौ स-ता (६)
मतिकु-टिलग-तेः(७)स्यान्म-हानुत्स-वः (६) ॥
8.9
मूलम्
वरसुन्दरी भ्जौ स्नौ गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणजगणसगणनगणा (ऽ।।.।ऽ।.।।ऽ.।।।) गकासै (ऽ.ऽ) च भवतस्तद्वृतं ‘वरसुन्दरी’ नाम गाथा (१४।३८ २३) । पादान्ते यतिः । तत्रोदाहरणम् —
स्वादुशि-शिरोज्ज्व-लसुग-न्धिजल-पू-र्णं
वीचिच-यचञ्च-लविचि-त्रशत-प-त्रम् ।
हंसक-लकूजि-त मनो-हरत-टा-न्तं
पश्य व-रसुन्द-रि! सरो-वरमु-दा-रम् ॥
8.10
मूलम्
कुटिला म्भौ न्यौ गौ वेदरससमुद्राः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे मगणभगणनगणयगणा (ऽऽऽ.ऽ।।.।।।.।ऽऽ) गकारौ (ऽ.ऽ) च भवतस्तद्वृत्तं ‘कुटिला’ नाम गाथा (१४।१००९) चतुर्भिः षड्भिश्चतुर्भिश्च यतिः । तत्रोदाहरणम् —
अध्वस्था-नां(४)जन-यति सु-ख(६)मुच्चैः-कू-ज(४)
न्दात्यूहो-ऽयं(४)पथि निचुलि-नि(६ )तोयो-पा-न्ते (४) । कर्णाट-स्त्री(४)रति-कुहरि-त(६)तुल्य-च्छे-दै
र्नादैः क-ण्ठ(४)स्खल-नकुटि-ल(६)मन्दा-व-र्तैः (४) ॥
8.11
मूलम्
शैलशिखा भ्रौ न्नौ भ्गौ भूतरसेन्द्रियाणि
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणरगणौ (ऽ।।.ऽ।ऽ) नगणभगणौ (।।।.ऽ।।) भगणो (ऽ।।) गकार(ऽ)श्च भवति तद्वृत्तं शैलशिखा’ नाम गाथा (१६।२८११९ ) ॥ पञ्चभिः षड्भिः पञ्चभिश्च यतिः । क्वचित् पादान्ते यतिं पठन्ति । तत्रोदाहरणम् —
शैलशि-खानि(५)कु-ञ्जशयि-तस्य(६)ह-रेः श्रव-णे(५
जीर्णतृणं क(५)रे-ण निद-धाति(६)क-पिश्चप-लः(५) ।
क्षुद्रव-धाप(५)वा–दपरि-हार(६ )वि-नीतम-ते( ५)
स्तस्य न ताव(५)तैव लघु-ता द्वि (६)प-यूथभि-दः(५) ॥
8.12
मूलम्
वरयुवती भ्रौ य्नौ न्गौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे भगणरगणौ (ऽ।।.ऽ।ऽ) यगणनगणौ (।ऽऽ.।।।) नगणो (।।।) गकारश्च (श्च) भवति, तद्वृत्तं ‘वरयुवती’ नाम गाथा (१६।३२३४३) । पादान्ते यतिः । तत्रोदाहरणम् —
कुञ्जर-कुम्भपी-ठ-पीनो-न्नतकु-चयुग-ला
पार्वण-शर्वरी-शगर्वा-पहमु-खकम-ला
पीननि-तम्बबि-म्बसंवा-हनशि-थिलग-ति
र्मुञ्ज न-राधिरा-ज! भूया-त्तव व-रयुव-तिः ॥
8.13
मूलम्
अतिशायिनी सौ ज्भौ ज्गौ ग् दिक्स्वराः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे सगणौ (।।ऽ.।।ऽ) जगणभगणौ (।ऽ।.ऽ।।) जगणो (।ऽ।)) गकारौ (ऽ.ऽ) च भवतस्तद्वृत्तं ‘अतिशायिनी” नाम गाथा (१७।२३९००)। दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम्-
इति-धौ-तपुर-न्ध्रिमत्स-रा(१०)न्सर-सि मज्ज-ने-न(७)
श्रियमाप्तवतो-ऽतिशायिनी( १०)मप-मलाङ्ग-भा-सः(७) ।
अवलो-क्य तदै-व याद-वा(१०)नप-रवारि-रा-शेः(७) शिशिरे-तररो-चिषाप्य-पां(१०)तति-षु मङ्क्तु-मी-षे (७) ॥
8.14
मूलम्
अवितथं न्जौ भ्जौ ज्लौ ग्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणजगणौ (।।।.।ऽ।) भगणजगणौ (ऽ।।.।ऽ।) जगणलकारौ (।ऽ।.।) गकारश्च (ऽ) भवति तद्वृत्तम् ‘अवितथम्’ नाम गाथा (१७।६११४०) भवति । यतिः. पादान्ते । तत्रोदाहरणम्-
श्रुतिप–रिपूत–वक्रम–तिसुन्द–रवाग्वि–भ-वं
तमखि–लजैमि—नीयम–तसाग–रपार–ग-तम् ।
अवित- थवृत्त–विप्रज–नपूजि–तपाद–यु-गं
पितर-महं नमामि ब–हुरूप–मुदार–म-तिम् ॥
8.15
मूलम्
वस्विन्द्रियसमुद्राश्चेतकोकिलकम्
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे पूर्वोक्ता गणा भवन्ति, अष्टभिः पञ्चभिश्चतुर्भिश्च यतिर्भवति तद्वृत्तं ‘कोकिलकम्’ इति गाथा (१७।६ ११४०) । तत्रोदाहरणम् —
नवस-हकार-पुष्प(८)म-धुनिष्क-ल(५)कण्ठ-त-या(४)
मधुरतरख-रेण(८ )प-रिकूज-ति(५)कोकि-ल-कः(४) ।
प्रथम-ककार विद्ध( ८ )व-चनैर्ध-न(५)लुब्ध-म-ते(४)
स्तव गमनस्य भङ्ग(८)मिव संप्रति(५)कर्तु-म-नाः(४) ॥
8.16
मूलम्
विबुधप्रिया र्सौ जौ भ्रौ वसुदिशः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे रगणसगणौ (ऽ।ऽ.।।ऽ) जगणौ (।ऽ।.।ऽ।) भगणरगणौ (ऽ।।.ऽ।ऽ) च भवतस्तद्वृत्तं ‘विबुधप्रिया’ नाम गाथा (१८।९३०१९) भवति । अष्टभिर्दशभिश्च यतिः । तत्रोदाहरणम्-
कुन्दकुड्मलकोमल(८)द्युति दन्तपङ्क्तिविराजिता (१०)
हंसग- द्वदवा–दिनी(८)व-निता भवेद्विबु-धप्रिया (१०) ।
पीनतु- ङ्गपयो धर(८)द्वयभार–मन्धर–गामिनी(१०) । नेत्रका-न्तिविनि-र्जित(८)श्र-वणाव–तंसित-कैरवा(१०)
8.17
मूलम्
नाराचकं नौ रौ रौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणौ (।।।.।।।) रगणाश्चत्वारो (ऽ।ऽ.ऽ।ऽ.ऽ।ऽ.ऽ।ऽ) भवन्ति तद्वृतं ‘नाराचक’ नाम गाथा (१८।७४९४४) । दशभिरष्टभिश्च यतिः । तत्रोदाहरणम् —
रघुप-तिरपि जातवे-दो(१०)विशु-द्धां प्रगृ-ह्य प्रियां (८) प्रियसुहृदि वि-भीषणे स(१०)क्रम-य्य श्रियं-वैरिणः(८)
रविसुतसहि-तेन ते-ना(१०)नुया-तः ससो-मित्रिणा(८)
भुजविजितविमानरत्ना(१०)धिरूढः प्रतस्थे पुरीम्(८) ॥
(र०वं० १२।१०४)
8.18
मूलम्
विस्मिता य्मौ न्सौ रौ ग् रसर्तुस्वराः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे यगणमगणौ (।ऽऽ.ऽऽऽ) नगणसगणौ (।।।.।।ऽ) रगणो (ऽ।ऽ.ऽ।ऽ) गकारश्च (ऽ) भवति तद्वृत्तं ‘विस्मिता’ नाम गाथा (१९।७५७१४) ॥ षड्भिः, षड्भिः, सप्तभिश्च यतिः । तत्रोदाहरणम् —
श्रिया जु-ष्टं दिव्यैः(६)सपट-हरवै(६)रन्वितं पुष्पवर्षै(७)
र्वपुष्टश्चैद्यस्य( ६)क्षणमृ-षिगणैः( ६ )स्तूयमानं निरीय (७) ।
प्रकाशेनाकाशे(६)दिनकरकरा(६)न्विक्षिपद्विस्मिताक्षै(७र्नरेन्द्रैरौपेन्द्रं(६)वपुरथ विश(६)द्धाम वीक्षांबभूवे (७) ॥ (शि०व० २०।७१)
8.19
मूलम्
शशिवदना न्जौ भ्जौ ज् ज्रौ रुद्रदिशः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
यस्य पादे नगणजगणौ (।।।.।ऽ।) भगणो (ऽ।।) जगणास्त्रयो (।ऽ।.।ऽ।.।ऽ।) रगणश्च (ऽ।ऽ) भवति, तद्वृत्तं ‘शशिवदना’ नाम गाथा (२१।५४११६००) एकादशभिर्दशभिश्च यतिः । ‘पञ्चकावली’ति केचित् । तत्रोदाहरणम्-
तुरगशताकुलस्य परितः( १ १)परमेकतुरङ्गजन्मनः(१०) प्रमथितभूभृतः प्रतिपथं(११)मथितस्य भृशं महीभृता( १९)
परिचलतो बलानुजबल(११)स्य पुरः सततं धुतश्रिय(१०)
श्चिरविगतश्रियो जलनिधे(११)श्च तदाभवदन्तरं महत् (१०) ॥ (शि०व० ३।८२)
एवमादीनि वृत्तानि कोटिशः प्रस्तारेषु महाकविप्रयोगेषु च दृश्यन्ते । विशेषसंज्ञाभावात्तानि शास्त्रकारेण नामनिर्देशं कृत्वा नोक्तानि तानि गाथाशब्देन कथ्यन्ते ।
इदानीं प्रस्तारादीन् प्रत्ययानुपक्रमते । तत्र गायत्र्यादिप्रस्तारसिध्द्यर्थमेकाक्षरप्रस्तारपूर्वकं बयक्षरप्रस्तारं सूत्रद्वयेनाह —
8.20
मूलम्
द्विकौ ग्लौ
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
उपरिष्टाद् गकारं लिखित्वाधस्ताल्लकारं विन्यसेदित्येकाक्षरप्रस्तारः । तस्य द्विकत्वाद् द्वौ ग्लौ द्विकौ स्थापयेत् । द्वे आवृत्ती प्रमाणमनयोरिति द्विकौ । ‘संख्याया अतिशदन्तायाःकन्’ (पाणि०५।१।२२) इति कन्प्रत्ययः । ततश्च गकारं ततोऽधस्ताल्लकारं लिखित्वा विस्पष्टार्थमधस्तिर्यग्रेखां दद्यात् । अधस्ताच्च पूर्ववद् गकारलकारौ स्थापयेत् ॥
8.21
मूलम्
मिश्रौ च
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
अनेन द्वितीयाक्षरप्रस्तारं दर्शयति । चकारः पूर्वप्रस्तारसमुच्चयार्थः । द्विकौ ग्लौ स्थापयित्वा अनन्तरं द्वितीयस्थानेषु मिश्रौ ग्लौ विन्यसेत् । गकारो गकारेण संश्लिष्टो मिश्र उच्यते, लकारश्च लकारेण । मिश्राविति गकारलकाराभ्यां प्रत्येकमभिसम्बध्यते । ‘द्वन्द्वात्परो यः श्रूयत’ इति न्यायात् । ततश्च प्रथमायामावृत्तौ गकारौ मिश्रौ स्थापयेत् । द्वितीयायां लकाराविति । ततो मध्ये लेखामपनयेत् । एवं चतुःप्रकारो द्यक्षरप्रस्तारो भवति । तद्यथा—गौ ल्गौ ग्लौ लाविति ॥
8.22
मूलम्
पृथग्ला मिश्राः
अधिकारः
वृत्तम्, लौकिकम्, छन्दः, ग्लौ
हलायुधवृत्तिः
द्यक्षरप्रस्तारस्य पूर्वन्यायेन द्विकं लेखाविभक्तं स्थापयित्वा तृतीयाक्षरस्थानेषु प्रथमावृत्तौ गकारा मिश्रा दातव्याः । द्वितीयावृत्तौ लकारा मिश्रास्ततो मध्यात् लेखामपनयेत् । एवं त्रिकः प्रस्तारः सिध्यति । पृथगिति विजातीयासंसर्गमाह । तेन प्रथमायामावृत्तौ न लकारप्रवेशः । द्वितीयायां न गकारस्य । एवं त्रिकप्रस्तारं द्विः स्थापयित्वा पृथग् ग्लौमिश्रा दातव्या इति चतुरक्षरः प्रस्तारः । एवं तत्पूर्वकः पञ्चाक्षरः प्रस्तारः । तथैव तत्पूर्वकः षडक्षरो गायत्रीसमवृत्तप्रस्तारः । एवमुष्णिगादीनामप्येकैकाक्षरवृद्ध्या अयमेव न्यासः । तत्रेदं सूत्रं त्र्यक्षरात् प्रभृति पुनः पुनरावर्तनीयं यावदभिमतः प्रस्तारः ॥
8.23
मूलम्
वसवस्त्रिकाः
हलायुधवृत्तिः
एवं पूर्वोक्ते त्र्यक्षरप्रस्तारे अष्टौ त्रिका जायन्ते । ते च मकारादयः शास्त्रादौ कथिता एव । प्रदर्शनार्थ चैतत्; तेन षोडश चतुष्का द्वात्रिंशत्पञ्चका भवन्ति | एवं चतुःषष्टिर्गायत्रीसमवृत्तानि सर्वगुरुलघ्वाद्यन्तानि भवन्ति । द्विगुणोत्तरमुष्णिगादीनाम्; एकैकाक्षराधिक्यात् । विस्पष्टार्थमिदं सूत्रम; प्रस्तारादेव सङ्ख्यापरिच्छितेः ॥
8.24
मूलम्
लर्द्धे
हलायुधवृत्तिः
यदैवं विजिज्ञासेत गायत्र्यां समवृत्तं षष्ठं कीदृशमिति, तदा तमेव षट्सङ्ख्याविशेषमर्धयेत । तस्मिन्नर्धीकृते लघुरेको लक्ष्यते, स भूमौ विन्यास्यः ॥
8.25
मूलम्
सैके ग्
हलायुधवृत्तिः
अर्ध इत्यनुवर्तते । विषमसङ्ख्यायामेकमधिकं निक्षिप्य ततोऽर्धयेत । तत्रैको गकारो लभ्यते । तं पूर्वलब्धाल्लकारात् परं स्थापयेत् । ततो द्विसंख्यावशिष्यते । पुनस्तामर्धयेत, ततश्चैकलकारं दद्यात् । ततश्चैकसंख्यावशिष्यते । तत्र तावत् सैके गिति लक्षण मावर्तनीयं यावद्वृत्ताक्षराणि षट् पूर्यन्ते । एवं सङ्ख्यान्तरेऽपि योज्यम् ॥
8.26
मूलम्
प्रतिलोमगणं द्विर्लाद्यम्
हलायुधवृत्तिः
यस्य वृत्तस्य सङ्ख्यां जिज्ञासेत तद्भूमौ प्रस्तारयेत । ततस्यस्यान्ते यो लकारः सजातीयापेक्षया, तमादौ कृत्वा प्रातिलोम्येने द्विरावर्तयत । तत्र निराकाराया आवृत्तेरसम्भवात् प्रथमातिक्रमे कारणाभावादेकसङ्ख्या लभ्यते । ततश्चैकसङ्खयाङ्कमन्त्यलकारस्याधस्तात् स्थापयित्वा द्विगुणयेत् । ततस्तस्मादपनीय तत्पूर्वस्य वर्णस्याधस्तान्निधाय पुनर्द्विगुणयेत् । पुनस्तदपि पूर्वस्य । एवं यावन्ति वृत्ताक्षराणि प्रातिलोम्येन समाप्यन्ते । तत्र याः सङ्ख्या निष्पद्यन्ते, तावतिथं तद्वृत्तमिति ॥
8.27
मूलम्
ततोग्यंकं जह्यात्
हलायुधवृत्तिः
पूर्वोक्ते कर्मणि क्रियमाणे यदि सा सङ्ख्या गकारस्थानमापद्यते, तदा तां द्विगुणयित्वा ततः सङ्ख्यासमुदायादेकं त्यजेत् । ततः पूर्वोक्तं कर्म कुर्यात् । ततः परिपूर्णत्वात्तद्वृत्तसङ्ख्या सिद्ध्यति॥
8.28
मूलम्
द्विरर्द्धे
हलायुधवृत्तिः
अपनीत इत्यध्याहारः । यदा जिज्ञासेत-षडक्षरे छन्दसि कति वृत्तानि भवन्ति? तदा तां छन्दोऽक्षरसङ्ख्यां भूमौ स्थापयित्वा ततोऽर्धमपनयेत । तस्मिन्नपनीते द्वौ लभ्येते । ततस्तां द्विसङ्ख्यां भूमौ पृथक् प्रस्तारयेत । ततः शेषास्त्रयोऽक्षरसङ्ख्यायां भवन्ति ॥
8.29
मूलम्
रूपे शून्यम्
हलायुधवृत्तिः
विषमसङ्ख्यातो रूपमपनीय तस्मिन्नपनीते शून्यं लभ्यते । तत्रः पूर्वलब्धाया द्विसङ्ख्याया अधस्तात् स्थापयेत्, ततो द्विसङ्ख्यावशिष्यते । ततोऽर्धेऽपनीते पुनर्द्विसङ्ख्या लभ्यते, तां शून्याधस्तात् स्थापयेत् । ततो रूपे शून्यं लभ्यते । तद् द्विसङ्ख्याया अधस्तात् स्थापयेत् ॥
8.30
मूलम्
द्विः शून्ये
हलायुधवृत्तिः
शून्यस्थाने द्विरावृत्तिं कुर्यात् । तत्र निराकाराया आवृत्तेरसम्भवात्, प्रथमातिक्रमे कारणाभावादेकसङ्ख्या लभ्यते । तां शून्ये स्थापयित्वा द्विगुणयेत् । ततो द्वौ भवतः । तस्योपरिष्टादर्धस्थानं द्विसङ्ख्याकं तदपनीय तस्य स्थाने तं द्विसङ्ख्याकं स्थापयेत् ॥
8.31
मूलम्
तावदर्धे तद्गुणितम्
हलायुधवृत्तिः
यदर्धस्थाने स्थितं सङ्ख्याजातं, तत्तावत् गुणितं कुर्यात् । एतदुक्तं भवति-स्वसङ्ख्ययैव गुणयितव्यमिति । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति । तेषामुपरिष्टाच्छून्यस्थानं तत्र तानारोपयेत् । अनन्तरं द्विःशून्य इति द्विगुणिता अष्टौ भवन्ति । तानप्यर्धस्थाने निधाय तावद्गुणान् कुर्यात् । ततोऽष्टावष्टाभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्रीसमवृत्तानि । अनेनैव न्यायेनाष्टाविंशत्यधिकशतमुष्णिह;, षट्पञ्चाशदधिके द्वे शते अनुष्टुभः, द्वदशोत्तराणि पञ्चशतानि बृहत्याः, चतुर्विंशत्यधिकं सहस्र पङ्क्तेः, अष्टचत्वारिंशदधिके द्वे सहस्रे त्रिष्टुभः, षण्णवत्यधिकानि चत्वारि सहस्राणि जगत्याः । एवमतिच्छन्दसां कृतीनां च द्रष्टव्यम् ॥
8.32
मूलम्
द्विर्द्यूनं तदन्तानाम्
हलायुधवृत्तिः
गायत्र्यादिवृत्तसङ्ख्याजातं द्विगुणीकृत्य द्वाभ्यामूनं कुर्यात् । तत्तदन्तानां
परिमाणं भवति । यस्य छन्दसः सङ्ख्या द्विगुणिता, तत्पर्यन्तानां पूर्वेषामेकाक्षरप्रभृतीनां सङ्ख्या भवतीत्यर्थः ॥
8.33
मूलम्
एकोनेऽध्वा
हलायुधवृत्तिः
इति सूत्रमधिकं पठ्यते वैदिकैः, अनुवादोऽप्यस्याग्निपुराणे दृश्यते (३३५।४) ‘अध्वाङ्गुलमधोऽर्धतः । सङ्ख्यैव द्विगुणैकोना’ इति । एतदभावे च षट्प्रत्ययपूर्तिरपि न भवति, अध्वप्रत्ययाभावात् । न चासावत्रोपेक्षित एवेति साम्प्रतम्, शास्त्रवैकल्यापत्तेः; ‘षण्मात्रमुवाच पिङ्गलः सूत्रम् ।….परत्ययहेतोः स्वशास्रादौ ॥ इति परिभाषासाङ्गत्यापत्तेश्च । अतः सम्प्रदायशुद्धमावश्यकं चैतत्सूत्रम् । हलायुधेनाव्याख्यानं त्वनुपलब्धत्वादेवेति ‘षष्ठप्रत्ययोऽपि’ इत्यादितल्लेखादेव व्यक्तम् ।
8.34
मूलम्
परे पूर्णम्
हलायुधवृत्तिः
तदेतच्छन्दोवृत्तसङ्ख्याजातं द्विगुणितं पूर्णमेव स्थापयितव्यम्, न द्वयूनम् । परे छन्दसि जिज्ञासिते । तत्संख्याजातं द्विगुणितं परस्य छन्दसो वृत्तानां संख्या भवति । तद्यथा— चतुःषष्टिर्गायत्रीसमतृत्तानां संख्या द्विगुणीकृता सती परस्योष्णिहः समवृत्तसंख्या साष्टाविंशं शतं भवति ॥
8.35
मूलम्
परे पूर्णमिति
हलायुधवृत्तिः
उपरिष्टादेकं चतुरस्रकोष्ठं लिखित्वा तस्याधस्तादुभयतोऽर्धनिष्कान्तं कोष्ठकद्वयं लिखेत् । तस्याप्यधस्तात्रयं तस्याप्यधस्ताच्चतुष्टयं यावदभिमतं स्थानमिति मेरुप्रस्तारः । तस्य प्रथमे कोष्ठे एकसंख्यां व्यवस्थाप्य लक्षणमिदं प्रवर्तयेत् । तत्र परे कोष्ठे यद्वृत्तसंख्याजातं तत् पूर्वकोष्ठयोः पूर्ण निवेशयेत् । तत्रोभयोः कोष्ठकयोरेकैकमड्कं दद्यात्, मध्ये कोष्ठे तु परकोष्ठयाङ्कमेकीकृत्य पूर्ण निवेशयेदिति पूर्णशब्दार्थः । चतुर्थ्या पङ्क्तावपि पर्यन्तकोष्ठद्वयोरेकैकमेव स्थापयेत् । मध्यमकोष्ठयोस्तु परकोष्ठद्व्याङ्कमेकीकृत्य पूर्णं त्रिसङ्घयारूपं स्थापयेत् । उत्तरत्राप्ययमेव न्यासः । तत्र द्विकोष्ठायां पङ्क्तौ एकाक्षरस्य विन्यासः । तत्रैकगुर्वेकलघुवृत्तं भवति । तृतीयायां पङ्क्तौ द्वयक्षरस्य प्रस्तारः । तत्रैकं सर्वगुरु, द्वे एकलघुनी, एकं सर्वलघ्विति कोष्ठक्रमेण वृत्तानि भवन्ति ॥ चतुर्थ्यां पङ्क्तौ त्र्यक्षरस्य प्रस्तारः । तत्रैकं सर्वगुरु त्रीण्येकलधूनि त्रीणि द्विलघूनि एकं सर्वलघु ॥ तथा पञ्चमादिपङ्क्तावपि सर्वगुर्वादिसर्वलघ्वन्तमेकद्वयादिलघु द्रष्टव्यमिति ॥
षष्ठप्रत्ययोऽप्यध्वपरिच्छित्तिरित्येके । सोऽत्यल्पत्वात् पुरुषेच्छाविधायित्वेनानियतत्वाच्च नोक्तः । एवं प्रत्ययसमासः समाप्तः ॥ पिङ्गलाचार्यरचिते छन्दःशास्त्रे हलायुधः । मृतसंजीविनीं नाम वृत्ति निर्मितवानिमाम् ।।