Kedarabhatta: Vrttaratnakara, with Sulhana’s Sukavihrdayanandini
प्रवेशः
नमः सरस्वत्यै ।
सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया
नानावक्त्रविराजितं शशिकलापीडोच्छ्रया ऽलङ्कृतम् ।
आर्योपेतमुपस्थिताखिलगणस्रक्पूजितं सर्वदा
छन्दःशास्त्रमिवेश्वरस्य जयति त्रैलोक्यवन्द्यं वपुः ॥ १
कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीर्यो
वेलादित्याभिधानः सुकविरभवद्भास्वरस्तस्य सूनुः ।
तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य-
छन्दोवृत्तिं स चक्रे सुकविहृदयानन्दनीनामधेयाम् ॥ २
शास्त्रारम्भे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसम्बन्धप्रयोजनं श्लोकत्रयेणाह ।
सुखसन्तान-सिद्ध्यर्थं
नत्वा ब्रह्माच्युतार्चितम् ।
गौरीविनायकोपेतं
शङ्करं लोकशङ्करम् ॥ क्व्र्क्_१।१ ॥
वेदार्थ-शैव-शास्त्रज्ञः
पव्येको ऽभूद्-द्विजोत्तमः ।
तस्य पुत्रो ऽस्ति
केदारः शिवपादार्चने रतः ॥ क्व्र्क्_१।२ ॥
तेनेदं क्रियते छन्दो-
लक्ष्य-लक्षण-संयुतम् ।
वृत्तरत्नाकरं नाम
बालानां सुखबुद्धये ॥ क्व्र्क्_१।३ ॥
वेदानामर्था वेदार्थाः । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थाश्च शैवशास्त्राणि च तानि जानातीति स तथोक्तः य पव्येको नाम द्विजोत्तमो ऽभूत्तस्य पव्येकस्य केदारनामा शिवचरणाराधनपरः पुत्रो ऽस्ति । तेन केदारेणेदं वक्ष्यमाणलक्षणं छन्दः क्रियते । लक्ष्यमुदाहरणं लक्षणं नियताक्षरमात्रागणरचना ताभ्यां संयुतं लक्ष्यलक्षणसंयुतम् । किं नाम । वृत्तरत्नाकरं नाम । वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर उत्पत्तिस्थानम् । किमर्थं । सुखसिद्धये । सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम् । बालानां मन्दबुद्धीनाम् । किङ्कृत्वा । नत्वा । कम् । शङ्करं महादेवम् । कथम्भूतम् । लोकशङ्करं लोकानां शं सुखं करोतीति लोकशङ्करस्तम् । पुनः कथम्भूतम् । ब्रह्माच्युतार्चितं विरञ्चिनारायणपूजितम् । पुनः कथम्भूतं । गौरीविनायकोपेतं गौरी च विनायकश्च गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । सुखसन्तानसिद्ध्यर्थम् । सुखं परं ब्रह्मानन्दात्मकं सन्तानः पुत्रपौत्रादि तयोः सिद्धिः प्राप्तिस्तदर्थं सुखसन्तानसिद्ध्यर्थम् । नत्वा प्रणम्येति सम्बन्धः । त्रिभिर्विशेषकम् ॥ १-३ ॥
छन्दःशब्देन किमुच्यते इत्याह ।
पिङ्गलादिभिर् आचार्यैर्
यदुक्तं लौकिकं द्विधा ।
मात्रा-वर्ण-विभेदेन
छन्दस् तदिह कथ्यते ॥ क्व्र्क्_१।४ ॥
तदिदं शास्त्रे छन्दः कथ्यते । यत्पिङ्गलादिभिराचार्यैः छन्दःशास्त्रप्रयोक्तृभिरुक्तमभिहितम् । लौकिकं लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । द्विधा द्विप्रकारम् । कथमित्याशङ्कायां मात्रावर्णविभेदेनेत्याह । मात्राभेदेन आर्यादि वर्णभेदेन श्रीप्रभृति वृत्तभेदेनेति ॥ ४ ॥
अथ ग्रन्थसङ्ख्यामाह ।
षडध्याय-निबद्धस्य
छन्दसो ऽस्य परिस्फुटम् ।
प्रमाणम् अपि विज्ञेयं
षट्-त्रिंशद्-अधिकं शतम् ॥ क्व्र्क्_१।५ ॥
अधीयन्त इत्यध्यायास्ते च वक्ष्यमाणलक्षणाः सञ्ज्ञाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः षडेव षड्भिर्निबद्धस्य छन्दःशास्त्रस्य प्रमाणं सङ्ख्या षट्त्रिंशदधिकं शतं विज्ञेयम् ॥ ५ ॥
अथ गणनामाह ।
म्यरस्तजभ्नगैर्लान्तैर्
एभिर् दशभिर् अक्षरैः ।
समस्तं वाङ्मयं व्याप्तं
त्रैलोक्यमिव विष्णुना ॥ क्व्र्क्_१।६ ॥
‘‘गल’ इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्ग्रहणमिऽत्याम्नायः । एभिर्मयरसतजभनलगैर्दशभिरक्षरैः । समस्तमपि शब्दब्रह्म व्याप्तम् । किमिव । त्रैलोक्यमिव । केन । भवगता नारायणेन ॥ ६ ॥
एतेषां प्रत्येकं लक्षणमाह ।
सर्वगुर् मो मुखान्तर् लौ
यरावन्तगलौ सतौ ।
ग्मध्याद्यौ ज्भौ त्रिलो नो ऽष्टौ
भवन्त्यत्र गणास्त्रिकाः ॥ क्व्र्क्_१।७ ॥
अस्मिन् छन्दःशास्त्रे सर्वे गुरवो यस्यासौ सर्वगुर्मो मगणो यथा ( _ _ _ ) । मुखान्तर्लौ यरौ मुखमादि अन्तर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्तर्लौ यगणरगणौ ( ^ _ _, _ ^ _) । अन्तगलौ सतौ । अन्ते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा ( ^ ^ _, _ _ ^) । ग्मध्याद्यौ ज्भौ । गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा ( ^ _ ^, _ ^ ^) । त्रिलो नः । त्रिलघुर्नगणो यथा ( ^ ^ ^ ) । एते मयरसतजभना ऽष्टौ गणा भवन्ति वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसञ्ज्ञा मा भूदित्याशङ्क्य नियमन्नाह । त्रिका इति त्रयः परिमाणं येषां ते त्रिका इति ॥ ७ ॥
अथ मात्रागणानाह ।
ज्ञेयाः सर्वान्त-मध्यादि-
गुरवो ऽत्र चतुःकलाः ।
गणाश् चतुर्लघूपेताः
पञ्चार्यादिषु संस्थिताः ॥ क्व्र्क्_१।८ ॥
आर्याप्रभृतिषु मात्रावृत्तेषु चतुःकला पञ्च गणा ज्ञातव्याः । कथम् । सर्वादिमध्यान्तगुरवः सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यान्तास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । चतुर्भिर्लघुभिरुपेताः सहिता वेदितव्याः ॥ ८ ॥
गुरुलघुपरिज्ञानार्थमाह ।
सानुस्वारो विसर्गान्तो
दीर्घो युक्तपरश्च यः ।
वा पादान्तस् त्वसौ ग्वक्रो
ज्ञेयो ऽन्यो मातृको लृजुः ॥ क्व्र्क्_१।९ ॥ इति ।
सहानुस्वारेण वर्तत इति सानुस्वारः । विसर्गान्तः सविसर्गः । दीर्घो द्विमात्रः । युक्तपरः संयोगपरो यो भवति । चकाराद्व्यञ्जनान्तो ऽपि गृह्यते । परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः पादस्तस्यान्ते वर्तमानो लघुरपि विभाषया गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा ।
प्रायः समासन्न-पराभवानां
धियो विपर्यस्ततमा भवन्ति ।
असम्भवे हेममयस्य जन्तोस्
तथा ऽपि रामो लुलुभे मृगाय ॥ इति ।
तथा च ।
‘श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि’ इत्यादि दृष्टव्यम् ।
स च प्रस्तारे वक्रः स्थाप्य लघुलक्षणमाह । ज्ञेयो ऽन्यो मातृको लृजुः । अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः ॥ ९ ॥
युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह ।
पदादाव् इह वर्णस्य
संयोगः क्रमसञ्ज्ञिकः ।
पुरःस्थितेन तेन स्याल्
लघुता ऽपि क्वचिद्गुरोः ॥ क्व्र्क्_१।१० ॥
विभक्त्यन्तं पदं तस्य पदस्यादौ वर्तमानो यो वर्णस्तस्य संयोगः । स इह शास्त्रे क्रमसञ्ज्ञो ज्ञेयः । तेन क्रमेण पुरोवर्तिना प्राक्पदान्ते वर्तमानस्य प्राप्तगुरुभावस्यापि लघुता स्यात् । क्वचिल्लक्षानुरोधेन । ननु क एषः क्रमो नाम संयोग उच्यते । पूर्वाचार्याणां पिङ्गलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः परिगृहीतः । संयोगः क्रमसंयोगः ॥ १० ॥
तत्र ग्रसंयोगेन यथा । इदमस्योदाहरणम् ।
तरुणं सर्षप-शाकं नवौदनं पिच्छलानि च दधीनि ।
अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति ॥ क्व्र्क्_१।११ ॥
ह्रसंयोगेन यथा ।
तव ह्रियापह्रिया मम ह्रीरभूत् शशिगृहे ऽपि हृतं न धृता ततः ।
वहलभ्रामरमेषकतामसम् मम प्रिये क्व स येष्यति तत्पुनः ॥
इति
निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः
निस्तेजः परिभूयते परिभवान्निर्वेदमागच्छति ।
निर्विण्णः शुचमेति शोकविवशो बुद्ध्याः परिभ्रश्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥
ममैव ते हृते । यथा ।
स्नेहाद्गेहाद्भुजगतनयालोककौतूहलेन स्थूलोत्तुङ्गस्तनभरलसन्मध्यभङ्गानपेक्षाः ।
पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रुतमपह्रियः स्रंसमानोत्तरीयाः ॥ इति ।
बोधप्रदीपे ऽपि यथा ।
यज्ञैर्येषां प्रतिपदमियं मण्डिता भूतधात्री
निर्जित्यैतद्भुवनवलयं यैः प्रदत्तं द्विजेभ्यः ।
ते ऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्भलीलं
धृत्वा धृत्वा सपदि विलयं भूभुजः सम्प्रयाताः ॥
शिशुपालवधे यथा ।
प्राप्तनाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । इति ।
भ्रसंयोगेन यथा ।
शशिमुखि भ्रमरो ऽयं पद्मबुद्ध्या ऽऽननं ते ।
समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥
तथा च ।
भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि ।
वरतरुकुसुमेषु व्योमगङ्गाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुन्तलेषु ।
स्थितशयितविबुद्धप्रीतिकस्ते भ्रमो ऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥
पदादाविति किम् । अन्यत्र मा भूत् ।
ग्रसंयोगेन यथा ।
असमग्रविलोकनेन किं ते दयितं पश्य वरोरु निर्विशङ्का ।
न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ इति
ह्रसंयोगेन यथा ।
‘आजह्रतुस्तच्चरणौ पृथिव्यामिऽति ।
तथा च ।
प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे ।
भ्रसंयोगेन यथा ।
कुन्दावदातैर्भवतो यशोभिः शुभ्रीकृतं किं परमारवीर ।
अद्यापि यद्बिभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि ।
क्वचिदिति किम् । सर्वत्र मा भूत् ।
ग्रसंयोगेन यथा ।
‘मही पादघाताद्व्रजति सहसा संशयपदम् ।
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहणमिऽति ॥
भ्रसंयोगेन यथा ।
‘तत्र भ्रमत्येव मुधा षडन्ध्रिरिऽति ।
केचित्पादादाविति मन्यन्ते । तदसङ्गतम् । सूत्रोदाहरणयोर्घटनाभावात् ।
तथापि ।
तरुणं सर्षपशाकं नवोदनं पिच्छलानि दधीनि ।
अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम् । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात् पूर्वार्धोत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं ज्ञापयति । तावदार्यायां पादव्यवस्था नास्ति पैङ्गलीयसूत्रपाठाच्च । स्वरा ऽर्धञ्चार्यार्धमिति । तस्मात्पदादाविति पाठः । श्रेयानित्यलमिति प्रसङ्गेन ॥ ११ ॥
अथ सञ्ज्ञामाह ।
अब्धिभूतरसादीनां ज्ञेयाः सञ्ज्ञास्तु लोकतः ।
ज्ञेयः पादः चतुर्थांशो यतिर्विच्छेदसञ्ज्ञिता ॥ क्व्र्क्_१।१२ ॥
तद्यथा । चत्वारो ऽब्धिवेदाः । पञ्च शरेन्द्रियाणि । षट्चर्तवः । सप्त स्वरर्षयः । अष्टौ वसवः । नव नन्दरन्ध्राणि । दश दिशाः । एकादश रुद्राः । द्वादशादित्याः । त्रयोदश विश्वेदेवाः । चतुर्दश भुवनानि । पञ्चदश तिथय इत्यादि ।
पादलक्षणमाह ।
ज्ञेयो पादः चतुर्थांशो । वक्ष्यमाणलक्षणस्य वृत्तस्य चतुर्थांशो भागः पादसञ्ज्ञो भवेत् ।
अथ यतिमाह ।
यतिर्विच्छेदसञ्ज्ञिता । यतिर्विरामादिराचार्यपारम्पर्यागता सञ्ज्ञेयमध्यात्पदच्छिन्नाक्षरेषु कर्तव्या । अब्ध्यादि शब्दाद्धि साङ्काः कृत्वा यतिरित्यनेन सह सम्बध्यन्ते । इत्ययमर्थः शिष्यन्ति ।
तत्राहुराचार्याः ।
“यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः ।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥
क्वचित्तु पदमध्ये ऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥
पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् ।
दृष्टव्यो यतिचिन्तायां यद्यादेशः परादिवत् ॥
[नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् ।
परेण नित्यसम्बद्धाः प्रादयश्च परादिवत्”] ॥
यतिः सर्वत्र पादान्ते ।
यथा ।
श्रियः श्रेयकपोलौ तु सम्पूर्णेन्दुसमप्रभौ
प्रतिबिम्बं हरेर्यत्र कस्तूरी मण्डनायते । इत्यादिनेत्वेवं यथा ।
नमस्तस्मै महादेवाय शशिखण्डधारिणे । इति ।
श्लोकार्धे तु विशेषतः ।
यथा ।
राजसेवां विना ऽस्माकं गुणो निष्फलतामगात् ।
अन्तःपुरपुरन्ध्रीणां अनर्घ्यामिव मण्डनम् ॥ इति ॥
अगादित्यन्त्यव्यञ्जनस्यान्तःपुरेणेत्यकारेण सह सन्धिर्न भवति ।
समासे ऽपि न त्वेवं यथा ।
सुरासुरशिरोरत्नस्फुरच्चरणमञ्जरी-
पिञ्जरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवमिति ।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ।
व्यक्तविभक्तिके प्रकटविभक्तिके । अव्यक्तविभक्तिके समासान्तविभक्तिके । तयोरुदाहरणं यथा ।
‘यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु’ इति ।
व्यक्ताव्यक्तविभक्तिक इति यतिः सर्वत्र पादान्त इत्यनेन सह सम्बध्यते । वस्त्रीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषं शशिलेखाशिखामणिम् ॥
अपि च ।
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरीरम्भमूलस्तम्भाय शम्भवे ॥
क्वचित्तु पदमध्ये ऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥
यथा ।
‘पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतराशाऽविति ।
समुद्रादाविति किम् । पदमध्ययतिर्पदान्ते मा भूत् । यथा ।
‘प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानं दहेतुऽरिति ॥
पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा ।
‘एतस्यां गण्डतलममलं गाहवे चन्द्रकक्षामिति ।
‘एतासां राजति सुमनसां दामकण्ठावलम्बीऽति ।
‘सन्तापं मे जनयति नितम्बो ऽयमिन्दीवराक्ष्या’ इति ।
पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् ।
अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसन्धौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत् ।
पूर्वान्तवद्यथा ।
स्यादस्थाने ऽपगतयमुनासङ्गमे वा ऽभिरामा । तथा ।
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् इति ।
परादिवद्भावो यथा । ममैव व्यायोगे ।
ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे
वामाङ्गं कलकिङ्कणीफलकवन्निस्तृंशवद्दक्षिणम् ।
एकं घातनिपातदत्तमितरद्घातप्रतीकारकृद्-
धन्यः पश्यति युध्यमानमिति सस्वाङ्गं विमानस्थितः ॥ इत्यादि ।
यद्यादेशः परादिवद् ।
यथा ।
‘सप्तर्षिहस्तावचितावशेषण्ये ऽधो
विवस्वानिऽति ।
आदिशब्दात् ‘विततघनतुषारः क्षोदशुभ्रांशुवर्त्म स्वविरलेऽत्यादि ।
नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् ।
तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा ।
‘स्वादुःस्वच्छन्दसलिलमिदं प्रीतये कस्य न स्यादिऽति ।
परेण नित्यसम्बद्धाः प्रादयश्च परादिवत् ।
तेभ्यः परा यतिर्न कर्तव्येत्यर्थः । यथा ।
‘दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः’ इत्यादि सर्वमूह्यम् ॥ १२ ॥
युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते ॥ क्व्र्क्_१।१३(१) ॥
प्रथमतृतीयादिकं स्थानं अयुक् विषमं द्वितीयचतुर्थादिकं स्थानं युक्सममिति ।
अथ वृत्तभेदानाह ।
सममर्धसमं वृत्तं विषमं च तथा परम् ॥ क्व्र्क्_१।१३(२) ॥
छन्दसि वर्तत इति । वृत्तं वक्ष्यमाणलक्षणं त्रिधा भवति । सममर्धसमं विषमं चेति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरूर्धादि ।
एतेषां प्रत्येकं लक्षणमाह ।
अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।
तच्छन्दशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्ष्यते ॥ क्व्र्क्_१।१४ ॥
यस्य वृत्तस्य चत्वारो ऽपि पादाः समलक्षणभाजो भवन्ति । तद्वृत्तं समं छन्दोविद्भिराचक्ष्यते ।
अथार्धसममाह ।
प्रथमाङ्ध्रिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ क्व्र्क्_१।१५ ॥
यस्य वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । तद्वृत्तं अर्धसममुच्यते ।
विषमलक्षणमाह ।
यस्य पादचतुष्के ऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ क्व्र्क्_१।१६ ॥
यस्य वृत्तस्य चतुर्ष्वपि पादेषु भिन्नमन्यादृशं परस्परं लक्षणं भवति तद्विषममित्याहुराचार्याः ।
अथ वृत्तानां पादं नियमन्नाह ।
आरभ्यैकाक्षरात् पादाद् एकैकाक्षरवर्धितैः ।
पृथक् छन्दो भवेत् पादैर् यावत् षड्विंशतिं गतम् ॥ क्व्र्क्_१।१७ ॥
एकाक्षरात्पादादेकैकाक्षरवृद्ध्या पादैः छन्दः स्यात् । किं यावद्गतं षट्विंशत्यक्षरमुत्कृतिं यावत् ।
तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः ॥ क्व्र्क्_१।१८(१) ॥
षड्विंशत्याक्षरोत्कृतिजातेरूर्ध्वं चण्डवृष्टिप्रभृतयो दण्डकाः भवन्ति । शेषमिति प्रकरणम् । तच्च शास्त्रान्तरेभ्यो ऽवगन्तव्यम् । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम् ।
शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ क्व्र्क्_१।१८(२) ॥
शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो गाथाः स्युः ।
अथ छन्दसां जातीराह ।
उक्तात्युक्ता तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ क्व्र्क्_१।१९ ॥
त्रिष्टुप् च जगती चैव तथा ऽतिजगती मता ।
शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः ॥ क्व्र्क्_१।२० ॥
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः सङ्कृतिश्चैव तथाभिकृतिरुत्कृतिः ॥ क्व्र्क्_१।२१ ॥
इत्युक्ता छन्दसां सञ्ज्ञाः क्रमशो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ क्व्र्क्_१।२२ ॥
एकाक्षरा उक्ता । द्व्यक्षरा अत्युक्ता । त्र्यक्षरा मध्या । चतुरक्षरा प्रतिष्ठा । पञ्चाक्षरा सुप्रतिष्ठा । षडक्षरा गायत्री । सप्ताक्षरा उष्णिक् । अष्टाक्षरा अनुष्टुप् । नवाक्षरा बृहती । दशाक्षरा पङ्क्तिः । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती । त्रयोदशाक्षरा ऽतिजगती । चतुर्दशाक्षरा शर्करी । पञ्चदशाक्षरा अतिशर्करी । षोडशाक्षरा अष्टिः । सप्तदशाक्षरा अत्यष्टिः । अष्टादशाक्षरा धृतिः । एकोनविंशत्यक्षरा अतिधृतिः । विंशत्यक्षरा कृतिः । एकविंशत्यक्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा सङ्कृतिः । पञ्चविंशत्यक्षरा अभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः । इति छन्दसां सञ्ज्ञा उक्ताः ।
अधुना सर्वेषां वृत्तानां लक्षणमभिधास्यामि । लक्ष्यते ज्ञायते अनेनेति लक्षणम् । परं मात्रावृत्तानुपूर्वकम् । मात्रावृत्तान्यार्याप्रभृतीनि प्रथममुक्त्वेत्यर्थः ॥ १९-२२ ॥
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यां वृत्तरत्नाकरछन्दोवृत्तौ प्रथमो ऽध्यायः ॥
मात्रावृत्ताध्यायः
आर्या-प्रकरणम्
[आर्या-प्रकरणम् (२।१-७)]
मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते ।
मात्रावृत्तानुपूर्वकमित्युक्तत्वात् ।
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठो ऽयं च नलघु वा प्रथमे ऽर्धे नियतमार्यायाः ॥ क्व्र्क्_२।१ ॥
षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमे ऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ क्व्र्क्_२।२ ॥
[२।१] आर्याया एतल्लक्ष्म लक्षणम् । सप्त चतुष्कला गणा गुरुणा उपेता युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । भवति नेह विषमे जः इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणो न भवति । षष्ठश्चायं जगणो भवति । नलघु वा । नगणयुक्तो लघु वा भवति । नियतं निश्चितमार्यायाः । प्रथमे ऽर्धे आद्ये दले इति । चरमे ऽर्धे द्वितीये ऽर्धे षष्ठो लघुरेवेति नियमः ।
[२।२] एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । षष्ठे द्वितीयलादिति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पदं भवति । सप्तमश्चेत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं चरमे ऽर्धे पञ्चमके द्वितीये ऽर्धे पञ्चमे सर्वलघौ गणे तस्मात्पूर्वोक्तात् । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अत्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपञ्चितमस्ति ।
क्रमेणोदाहरणं यथा ।
वन्दारुदेववृन्दैरहमहमिकया सदैव या वन्द्या ।
स्वर्गापवर्गदात्रीं तामार्यां सन्ततं नौमि ॥
इत्युदाहरणं यथा ।
यस्याङ्गनामुवेद्या कोकिलनादश्च मलयगिरिपवनः ।
एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ १-२ ॥
त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम् ॥ क्व्र्क्_२।३ ॥
यस्या आर्याया आद्येषु त्रिषु गणेषु पादो विरामो भवति । सा पथ्या नाम । यथा ।
उज्झितनेपथ्यालकमुज्झिततिलकाञ्जनं यदेणाक्ष्याः ।
तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम् ॥ ३ ॥
संलङ्घ्य गणत्रयमादिमं सकलयोर्द्वयोर्भवति पादः ।
यस्यास्तं पिङ्गलनागो विपुलामिति समाख्याति ॥ क्व्र्क्_२।४ ॥
यस्या आर्याया आद्यगणत्रयमभिलङ्घ्य द्वयोरप्यर्धयोः पादो विरामो यतिर्भवति । सा विपुला नाम यथा ।
मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृप्तिम् ।
त्रस्तमृगशिशुदृशस्तन्वङ्ग्या जघनस्थलीं विपुलाम् ॥
सामान्येन विधानमेतदाद्यन्तोभयभेदपूर्वकत्वात्त्रिधा भवति ।
तत्रादिविपुला यथा ।
प्रमदानां जयति कटाक्षो ऽयं निशि स्फुरत्स्मरशराभः ।
हृदयस्थितानुरागप्रकटनपटुतां दधात्स्वैरं ॥
अन्त्यविपुला यथा ।
प्रीतिं कस्य न जनयति प्रकुर्वती केशबन्धनं नारी ।
दर्शितभुजमूलालङ्कारसुभूतार्द्रनखपङ्क्तिः ॥
उभयविपुलोदाहरणं पूर्वमेवोदाहृतमिति ॥ ४ ॥
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तिता नागराजेन ॥ क्व्र्क्_२।५ ॥
यस्या आर्याया उभयोरर्धयोर्द्वितीयतुर्यौ द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि प्रथमो गणो ऽन्तगुरुरेव तृतीयो गणो द्विगुरुरेव पञ्चमश्चादिगुरुरेवेति निश्चयः । शेषं यथा प्रोक्तम् । सा आर्या चपला नाम यथा ।
चपलाक्षि मौनमुद्रां त्यजेति सम्भाषिता मया सुतनुः ।
सञ्जातरोमहर्षा बभूवात्युत्सुका तन्वी ॥ ५ ॥
आद्यं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ क्व्र्क्_२।६ ॥
यस्या आर्याया आद्यं दलमर्धं समस्तमपि चपलाया लक्षणं भजेत् । शेषे उत्तरार्धे पूर्वोक्तलक्षणा सा मुखचपला नाम । यथा ।
यस्यात्सिराचिताङ्गी (?) लघुस्तनी पिङ्गलाक्षियुगला च ।
मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ ६ ॥
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे तु चपलायाः ।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ क्व्र्क्_२।७ ॥
या आर्या प्रथमे ऽर्धे प्राक्प्रतिपादितं पूर्वमुक्तं लक्षणमाश्रयेत् प्रथमेतरे तु उत्तरार्धे तु चपलाया लक्षणं सा जघनचपला उक्ता विशुद्धधीभिर्निर्मलबुद्धिभिः । यथा ।
कुञ्चितलोचनयुगलं समदनमदमोदसुन्दरालम् ।
सुरतं स्मरामि तस्या मृगीदृशोः जघनचपलायाः ॥ ७ ॥
॥ आर्याप्रकरणम् ॥
गीति-प्रकरणम्
[गीति-प्रकरणम् (२।८-११)]
आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतिवान्भुजङ्गेशः ॥ क्व्र्क्_२।८ ॥
आर्यायाः प्रथमे ऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां गीतिमिति गीतवान् उक्तवान् भुजङ्गेशः पिङ्गलनागः । यथा ।
रोमाञ्चं जनयन्ती सुखयन्ती नेत्रयोर्युगं यूनाम् ।
सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम् ॥ ८ ॥
आर्याद्वितीयके ऽंशे यद्गदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते ॥ क्व्र्क्_२।९ ॥
आर्याद्वितीये ऽर्धे यल्लक्षणमुक्तं तद्यदि द्वयोरप्यर्धयोर्भवति तामुपगीतिमिति पिङ्गलनागो मुनिर्ब्रूते । यथा ।
शारदचन्द्रोद्योते पायम्पायं मधु स्वैरम् ।
पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ ९ ॥
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ क्व्र्क्_२।१० ॥
यस्या आर्याया उत्तरार्धलक्षणं पूर्वार्धे भवति पूर्वार्धलक्षणमुत्तरार्धे सा उद्गीतिः ।
यथा ।
मण्डपनगरवधूनामुद्गीतिं वत्समल्लारम् ।
आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणो ऽपि ॥ १० ॥
आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं यद्दीयमुदितैवमार्यागीतिः ॥ क्व्र्क्_२।११ ॥
यद्यार्यायाः पूर्वार्धमुत्तरार्धं च निधने ऽवसाने एकेन गुरुणाधिकेन युक्तं भवति तदा ऽऽर्यागीतिर्यथा ।
स्त्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः ।
अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥
स्कन्धकमित्यिके ॥ ११ ॥
॥ गीतिप्रकरणम् ॥
वैतालीय-प्रकरणम्
[वैतालीय-प्रकरणम् (२।१२-२०)]
षड् विषमे ऽष्टौ समे कलास्
ताश् च समे स्युर् नो निरन्तराः ।
न समा ऽत्र पराश्रिता कला
वैतालीये ऽन्ते रलौ गुरुः ॥ क्व्र्क्_२।१२ ॥
सिंहावलोकितन्यायेन ‘तृतीय-युग्-दक्षिणान्तिके’त्यादिसूत्रपठितः पादशब्दो ऽत्र दृष्टव्यः । पैङ्गलीय-सूत्र-पाद-शब्दोपादानात् । यथा ‘वैतालीयं द्विःस्वरा ऽयुक्पादेषु सर्वो ऽन्तला’ इति । यत्र विषमे पादे प्रथमे तृतीये षट्कला मात्रा भवन्ति समे पादे द्वितीये चतुर्थे अष्टौ कला भवन्ति । अन्ते ऽवसाने रगणलघू गुरुः च भवतस्तद्वृत्तं वैतालीयं नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावे ऽपवादमाह । न समा ऽत्र पराश्रिता कलेति । समा द्वितीयचतुर्थादिका पराश्रिता तृतीयपञ्चमाद्याश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतमन्तरं व्यवधानं यासां ता निरन्तरा अन्तररहिता लघवो न भवेयुरित्यर्थः । यथा ।
प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका ।
विरहे तव सा वराङ्गना वैतालीयमुवाह विभ्रमम् ॥ १२ ॥
पर्यन्ते र्यौ तथैव शेषं औपच्छन्दसिकं सुधीभिरुक्तम् ॥ क्व्र्क्_२।१३ ॥
षण्णाम् अष्टानां च कलानां पर्यन्ते ऽवसाने र्यौ रगण-यगणौ भवतः । शेषं पूर्ववत्तदा वैतालीयमेव औपच्छन्दसिकं नाम । यथा ।
बहुविप्रियकारकं परोक्षे प्रत्यक्षे प्रियचाटुकारदक्षम् ।
शठवृत्तमिमं द्रुतं वयस्ये औपच्छन्दसिकं विमुञ्च कान्तम् ॥ १३ ॥
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ क्व्र्क्_२।१४ ॥
‘यदा षड्विषमे ऽष्टौ समे कला’ इत्यादि सर्वं पूर्ववद्भवति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमेवापातलिका नाम । यथा ।
नरनाथ भवन्तमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात् ।
रिपवो जहति स्म भयार्ता आपातलिकां सङ्गरभूमिम् ॥
आपातलिकां अस्थिरामित्यर्थः ।
उक्तं च पिङ्गलवृत्तौ भट्टश्रीहलायुधेन । यथा ।
पिङ्गलकेशा कपिलाक्षी वाचाटा विकटोन्नतदन्ती ।
आपातलिका पुनरेषा नृपतिकुले ऽपि न भाग्यमुपैति ॥ १४ ॥
तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ क्व्र्क्_२।१५ ॥
वैतालीयमेव सर्वेष्वपि पादेषु द्वितीयो लघु तृतीयेन सह युक्तो भवति ‘न समा ऽत्र पराश्रिता कलेऽति बाधित्वा तदा दक्षिणान्तिका नाम । यथा ।
ववौ मरुद्दक्षिणान्तिको वियोगिनीनां प्राणहारकः ।
प्रकम्पिताशोकचम्पके वसन्त एषो ऽनङ्गबोधकः ॥ १५ ॥
उदीच्यवृत्तिर्द्वितीयलः सक्तो ऽग्र्येण भवेदयुग्मयोः ॥ क्व्र्क्_२।१६ ॥
अयुग्मयोः प्रथमतृतीययोः पादयोः द्वितीयो लघुरग्रिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमेवोदीच्यवृत्तिर्नाम यथा ।
गिरं मनोज्ञां पिकाङ्गना मुदिताश्चिक्यत्स्वयमुद्गिरत्यसौ ।
उदीच्यवृत्तौ दिवाकरे सहकारो ऽपि तनोति मञ्जरी ॥ १६ ॥
पूर्वेण युतो ऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ क्व्र्क्_२।१७ ॥
लघुरित्यनुवर्तते । समपादयोर्द्वितीयचतुर्थयोः पञ्चमो लघुः पूर्वेण चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा प्राच्यवृत्तिर्नाम वैतालीयं भवति । यथा ।
स्वगुणैरनुरञ्जितप्रजः प्राच्यवृत्तपरिपालने रतः ।
रणभूमिषु भीमविक्रमो विन्ध्यवर्मनृपतिर्जयत्यसौ ॥ १७ ॥
यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ क्व्र्क्_२।१८ ॥
पूर्वोक्तयोरुदीच्यप्राच्यवृत्त्योः समौ सदृशौ औजयुग्मकौ विषमसमौ पादौ यदा भवतः तदा वैतालीयमेव प्रवृत्तकं स्यात् । यथा ।
प्रवृत्तकान्ते दुःरश्मिभिर्व्याप्तमम्बरमिदं विलोक्यताम् ।
गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने ॥ १८ ॥
अस्य युग्मरचिता ऽपरान्तिका ॥ क्व्र्क्_२।१९ ॥
अस्य प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्चतुर्भिः पादै रचिता अपरान्तिका नाम । यथा ।
तुङ्गपीवरघनस्तनालसा चारुकुण्डलवती मृगेक्षणा ।
पूर्वचन्द्रवदना ऽपरान्तिका चित्तमुन्मदयतीयमङ्गना ॥ १९ ॥
अयुग्भवा चारुहासिनी ॥ क्व्र्क्_२।२० ॥
प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्चतुर्भिः पादैः रचिता चारुहासिनी नाम यथा ।
न कस्य चेतः समन्मथं करोति सा सुन्दराकृतिः ।
विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ २० ॥
॥ वैतालीयप्रकरणम् ॥
वक्त्र-प्रकरणम्
[वक्त्र-प्रकरणम् (२।२१-३०)]
वक्त्रं नाद्यान् न-सौ स्याताम्
अब्धेर्+++(=चतुर्थात्)+++ यो +++(गणः)+++ अनुष्टुभि ख्यातम् ॥ क्व्र्क्_२।२१ ॥
‘पाद’ इत्य् अनुवर्तते । अनुष्टुभ्य् अष्टाक्षरायां जातौ पादस्य चतुर्थाद् अक्षराद्यो यगणो यदा भवति तदा वक्त्रं नाम वृत्तं ख्यातं कथितम् । अब्धेरिति निर्विशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा ।
अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु ।
विरहे चारुसर्वाङ्ग्यास्तस्याः स्मराम्यहं वक्त्रम् ॥ २१ ॥
युजोर् जेन+++(=जगणपरेण)+++ सरिद्भर्तुः+++(=चतुर्थात्)+++
पथ्यावक्त्रं प्रकीर्तितम् ॥ क्व्र्क्_२।२२ ॥
युजोः सम-पादयोर् चतुर्थाद् अक्षराज् जेन जगणेन परेण वक्त्रमेव पथ्येति कीर्तितम् । यथा ।
त्वद्दन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः ।
कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ २२ ॥
औजयोर् जेन वारिधेस्
तदेव विपरीतादि+++(पथ्यावक्त्रम् इति)+++ ॥ क्व्र्क्_२।२३ ॥
विपरितपथ्येत्यर्थः । युक्पादे यगण एव कर्तव्यः । यथा ।
विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते ।
अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम् ॥ २३ ॥
चपलावक्त्रम् अयुजोर्
नकारश् चेत् पयोराशेः ॥ क्व्र्क्_२।२४ ॥
यद्य् अयुजोर् विषमयोः पादयोश् चतुर्थाद् अक्षरान् नगणो भवेत्
तदा वक्त्रमेव चपला भवति ।
युक्-पादयोर् यगण एव । यथा ।
चपलापाङ्गनयने
पक्व-बिम्बोष्ठि चन्द्रास्ये ।
स्वाधीनत्वं भज दयितं
तारुण्यम् अस्थिरं यस्मात् ॥ २४ ॥
यस्यां लः+++(=लघुः)+++ सप्तमो युग्मे
सा युग्मविपुला मता ॥ क्व्र्क्_२।२५ ॥
युक्पादे द्वितीयचतुर्थे लघुः सप्तमो यस्याः सा युग्मविपुला नाम । ननु पथ्यालक्षणसाम्यात् पुनरुक्तमेतत् । नैवम् । विपुलाधिकारस्येदानीम् आरभ्यमानत्वात् विना ऽनुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम् । अत्र तु न नियमः । यथा ।
अहो कस्यापि धन्यस्य
महाकुलप्रसूतया ।
प्रीतिः स्वकान्तया सार्धं
विपुला जायते गृहे ॥ २५ ॥
सैतवस्याखिलेष्वपि ॥ क्व्र्क्_२।२६ ॥
सैतवस्याचार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा ।
अहो धन्यस्य कस्यचित्सुकवेर्जायते मतिः ।
नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम् ॥ २६ ॥
भेनाब्धितो भाद्विपुला ॥ क्व्र्क्_२।२७ ॥
सैतवस्येति निवृत्तम् । ‘चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेऽरित्यनुवर्तते । ‘यस्यां लः सप्तमो युग्मे सा युग्मविपुला मतेऽति सर्वमनुवर्तनीयम् । अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चेद्भवति तदा भेनोपलक्षिता विपुला स्यात् भविपुलेत्यर्थः । यथा ।
विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी ।
मध्यक्षामा हंसगतिः कस्य न स्याद्गतिप्रदा ॥
अयुजोरिति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहुर्महाकवयः ।
‘वटे वटे वैश्रवणश्चत्वरे चत्वरे शिव’ इति ।
‘यस्य प्रभाद्भुवनं शाश्वते पथि तिष्ठतीऽति ।
‘उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता’ इति महाकविप्रयोगाः ॥ २७ ॥
इत्थमन्या रश्चतुर्थात् ॥ क्व्र्क्_२।२८ ॥
इत्थं पूर्वोक्तप्रकारेणायुक्पादयोश्चतुर्थादक्षरात्परतो रगणो भवति तदा रविपुला स्यात् । यथा ।
तथा जितः शत्रुवर्गो राजन् बाहुबलेन ते ।
सहान्तःपुरो यथा ऽसौ ततार विपुला नदी ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
[महाकविकालिदासवस्वाग्देवतागुरुम् ।
यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत् ।]
तृतीयपादे यथा ।
कामिनीभिः सह प्रीतिः कस्य नाम न रोचते ।
यदि न स्याद्वारिवीचिचञ्चलं हत जीवितम् ॥ इति ॥ २८ ॥
नो ऽम्बुधेश्चेन्नविपुला ॥ क्व्र्क्_२।२९ ॥
अयुक्पादयोश्चतुर्थादक्षराच्चेन्नगणो भवतीति तदा नविपुला स्यात् ।
लीलया येन विपुला दंष्ट्राग्रेणोद्धृता मही ।
बिभ्रता सौकरमपि वपुर्वन्दामि तं हरिम् ॥
अत्रैव भारविकविर्यथा ।
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
तव मन्त्रकृतो मन्त्रैर्दूरात्संशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ इत्यादि ॥ २९ ॥
तो ऽम्बुधेस्तत्पूर्वा भवेत् ॥ क्व्र्क्_२।३० ॥
अयुक्पादयोः चतुर्थादक्षराच्चेत्तगणो भवति तदा तत्पूर्वं तविपुलेत्यर्थः । यथा ।
तृष्णेयं रे तात श्रियं सञ्चितां विपुलां हरे -
द्विहाय तस्मात्तां भव सुखी वैराग्यसम्पदा ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
लोकवत्प्रतिपत्तव्यो लौकिको ऽर्थः परीक्षकैः ।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥
अन्येति ग्रहणात् मगणसगणविपुला ऽपि बोद्धव्या । यथा ममैव छन्दसि ।
‘अम्बुधौ नतभरमसा औजे तद्युतविपुला भवेत्’ । यथा ।
सर्वातिरिक्तं सौभाग्यं बिभ्रती चारुलोचना ।
स्त्रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?)
व्यक्तिपक्षे प्रथमपादे यथा ।
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
अथ प्रदोषे दोषज्ञः संवेशाय विशाम्पतिम् ॥ इति ।
तृतीयपादे यथा ।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥
सविपुला यथा ।
क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । इति ।
सर्वेषां विपुलाभेदानां चतुर्थो वर्णः प्रायेण गुरुर्भवति । इत्याम्नायः ॥ ॥ ३०
॥ इति वक्त्रप्रकरणम् ॥
मात्रासमक-प्रकरणम्
[मात्रासमक-प्रकरणम् (२।३१-३८)]
द्विकगुणितवसुलघुरचलधृतिरिति ॥ क्व्र्क्_२।३१ ॥
द्वाभ्यां गुणिता वसवो अष्टौ लघव इत्यर्थः । षोडशभिर्लघुभिरचलधृतिर्नाम । यथा ।
इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि ।
स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥
गीत्यार्येति पिङ्गलः ॥ ३१ ॥
मात्रासमकं नवमो ल्गन्तं ॥ क्व्र्क्_२।३२ ॥
‘द्विकगुणितवसुलघुऽरित्यनुवर्तते । यदा अचलधृतिरेव गुर्वन्तो भवति नवमोश्च लघुरेव तदा मात्रासमकं नाम ।
प्राक्सूत्राल्लघुरित्यनुवर्तमाने ऽपि ‘नवमो लिऽति वदता सूत्रकारेणान्येषां लघु वो ऽनुज्ञातस्तस्माऽन्न समा ऽत्र पराश्रिता कलेऽत्यप्यनुवर्तनीयम् । अत्रैव सूत्रे लक्ष्यलक्षणत्वात् । यथा ।
धूलीधूसंस्कृततनशोभः प्रकटितनूतनवदनद्वन्द्वः ।
प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ ३२ ॥
जो न्लावथाम्बुधेर्विश्लोकः ॥ क्व्र्क्_२।३३ ॥
अम्बुधेर्लघुचतुष्टयात्परयोर्जगणो न्लौ नगणलघू यदा भवतस्तदा मात्रासमकमेव विश्लोको नाम । यथा ।
मुञ्चति तृणमिव गतविकल्पः पुत्रं प्रियमविश्लोकं यतः ।
सङ्ग्रामभुवि विजितारिसमूहः क्षोणीमिमां स साक्षदव्यात् (?) ॥ ३३ ॥
तद्युगलाद्वानवासिका स्यात् ॥ क्व्र्क्_२।३४ ॥
तद्युगलादम्बुधियुगलाल्लघ्वष्टकात्परयो जगणो नगणलघू यदा भवतस्तदा वानवासिका भवेत् । यथा ।
कुङ्कुमपङ्कानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा ।
अस्माकं वानवासिका स्त्री चेतःप्रीतिं सपदि विधत्ते ॥ ३४ ॥
बाणाष्टनवसु यदि लश्चित्रा ॥ क्व्र्क्_२।३५ ॥
पञ्चमो ऽष्टमो नवमो यदि चेल्लघुर्भवति तदा चित्रा नाम यथा ।
दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम् ।
यान्ति द्रुततरमिभयूथातित्रासम् नरवरजनता बुद्ध्या ॥ ३५ ॥
अष्टाभ्यो ऽथ गलावुपचित्रा ॥ क्व्र्क्_२।३६ ॥
लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा उपचित्रा नाम । यथा ।
मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या ।
तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत् ॥ ३६ ॥
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमकादिपादैः कलितम् ।
अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ क्व्र्क्_२।३७ ॥
अतीतं प्रागुक्तं कृतं लक्ष्म लक्षणं येन तेन युतैः सहितैः मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणां पादैश्चरणैः कलितं युक्तं अनियतवृत्तपरिमाणसहितं अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम् । को ऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः पादाकुलकमिति कथितम् ।
अत्र मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणामुदाहरणम् । यथा ।
दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके ।
मुग्धे मन्मथसुहृदवसन्ते पादाकुलकं याति पतिस्ते ॥
तथा विश्लोकोपचित्रादिपादैर्यथा ।
वाताहतदलपङ्कजनेत्रे असितदुकूलाच्छादितगात्रे ।
कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम् ॥
एवमन्ये ऽपि महाकविप्रयोगा यथा ।
चत्वरमण्डपतरुमूलानि सञ्चितसलिलान्यवकूलानि ।
क्वचिदपि न भवति भिक्षाहानिः तत्किं क्रियते मानम्लानिः ॥
अन्ते यमक इत्याम्नायः ॥ ३७ ॥
अधुना गुरुलघुप्रमाणमाह ।
वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ क्व्र्क्_२।३८ ॥
यस्य कस्यचिद्वृत्तस्य लः कला मात्रा वर्णैरक्षरैर्विना गुरवो भवन्ति । वर्णा गुरुभिस्तथा ताः कला गुरुभिर्विना वर्णा न भवन्ति । गुरवो र्लैर्दलै नित्यं ता एव कला लैर्लघुभिर्विना दले ऽर्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपञ्चाशत्कलावर्णैः द्वात्रिंशद्भिर्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्वात्रिंशद्भवन्ति । पुनस्ता कला एकपञ्चाशत्त्रयोदशभिर्लघुभिर्विना अष्टत्रिंशद्भवन्ति । ततो दले ऽर्धे कृते सति एकोनविंशतिर्गुरवो भवन्तीति प्रमाणं नियतं वृत्तस्येति ॥ ३८ ॥
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरुशकलयुगलकमपि सुपरिघटितललितपदनिचिति भवति शिखा ॥ क्व्र्क्_२।३९ ॥
शिखिभिस्त्रिभिर्गुणितैर्दशभिर्लघुभी रचितं कृतं तच्च तदपगतलघुयुगलं च तथोक्तं अष्टाविंशल्लघुकमित्यर्थः । अपरं द्वितीयमिदमर्धमखिलं सम्पूर्णं त्रिंशल्लघुकमित्यर्थः । शकलयुगलकमपि अर्धद्वयममपि सगुरु सह गुरुणा वर्ततेति सगुरु यदा भवति तदा शिखा नाम भवति । सुपरिघटितानि ललितपदानि तेषां निचिती रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम् । यथा ।
मलयपवनचलितसुविकचविचिकलमलिरधिवसति मुदितमनाः ।
शुभितसमयमुदितपिकयुवतिरपि परिमलबहुलबकुलतरुशिखा ॥
चूलिकेति वक्तव्ये । छन्दोभङ्गभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः ॥ ॥ ३९
विनिमयविहितशकलयुगललघुललितपदविततिरचितगणनिचया ।
श्रुतिसुखकृदियमपि जगति जशिर उपगतवति ञि सति भवति खजा ॥ क्व्र्क्_२।४० ॥
सैव शिखा विनिमयेन व्यत्यासेन विहितं शकलयुगलमर्धद्वयं ललितपदवितत्या रचितगणनिचया यदा भवति तदा खजा नाम । क्व सति । ञि सति । ञि चवर्गीयपञ्चमस्य चवर्गीयतृतीयस्य शिर उर्ध्वविभागस्तस्मिन्नुपगतवति । को ऽर्थः । खञ्जेत्यर्थः । यथा ।
ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे ।
सुपरिहृतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥
एकगुरूणि छन्दसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम् ॥ ४० ॥
अष्टावर्धे गा द्व्यभ्यस्ता यस्याः सा ऽनङ्गक्रीडोक्ता ।
दलमपपरमपि वसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति ॥ क्व्र्क्_२।४१ ॥
द्वाभ्यां गुणिता ऽष्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमे ऽर्धे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्सङ्ख्या लैः रचितपदविततिः अनङ्गक्रीडा नाम ।
त्यक्तानङ्गक्रीडां मुक्तव्रीडां शत्रुक्षौणीपालाः ।
सुविषमवनभुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहा ऽसौ ॥
सौम्येत्येके ॥ ४१ ॥
त्रिगुणनवलघुरवसितिगुरुरिति दलयुगलकृततनुरतिरुचिरा ॥ क्व्र्क्_२।४२ ॥
त्रिभिर्गुणितार्नव लघवो यस्यां सा तथोक्ता सप्ताविंशल्लघुरित्यर्थः । अवसितिरवसानं तस्मिन् गुरुर्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवो ऽन्ते गुरुः एवं दलयुगलकृततनुः विरचितशरीरा अतिरुचिरा नाम । यथा ।
समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला ।
अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ ४२ ॥
॥ इति मात्रासमकप्रकरणम् ॥
इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्नाकरच्छन्दोवृत्तौ मात्रावृत्ताध्यायो द्वितीयः समाप्तः ॥
समवृत्ताध्यायः
उक्तायाम्
ग् श्रीः ॥ क्व्र्क्_३।१ ॥
एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तद्वृत्तं श्रीर्नाम । यथा ।
श्रीस्तत्तैलम् ॥ १ ॥
अत्युक्तायाम्
गौ स्त्री ॥ क्व्र्क्_३।२ ॥
गुरुद्वयं यत्र तद्वृत्तं स्त्री नाम । यथा ।
आद्या सा स्त्री गौरी पायात् ॥ २ ॥
मध्यायाम्
मो नारी ॥ क्व्र्क्_३।३ ॥
यत्र मगणस्तद्वृत्तं नारी नाम ।
श्रीनारीगोविन्दौ भूयास्तवोद्बुद्ध्यै ॥ ३ ॥
रो मृगी ॥ क्व्र्क्_३।४ ॥
यत्र रगणस्तद्वृत्तं मृगी नाम । यथा ।
कथ्यतां यात्यसौ
गीतगा हा मृगी ॥ ४ ॥
प्रतिष्ठायाम्
ङ्गौ चेत्कन्या ॥ क्व्र्क्_३।५ ॥
चेद्यदि पादे मगणगुरू भवतः तद्वृत्तं कन्या नाम । यथा ।
कामक्रीडारूढायासा ।
एताः कन्या कीदृश्यास्ताः ॥
तथा च ।
सर्वेषां यः सामान्यर्द्धिः ।
तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ ५ ॥
सुप्रतिष्ठायाम्
भ्गौ गिति पङ्क्तिः ॥ क्व्र्क्_३।६ ॥
यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं पङ्क्तिर्नाम भवति । यथा ।
व्योमनि नीलां नीरदपङ्क्तिम् ।
वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ ६ ॥
गायत्र्याम्
त्यौ स्तस्तनुमध्या ॥ क्व्र्क्_३।७ ॥
यत्र तगणयगणौ भवतः तद्वृत्तं तनुमध्या नाम । यथा ।
कस्यापि महद्भिः पुण्यैरनुकूला ।
श्यामा तनुमध्या गेहे भवति स्त्री ॥ ७ ॥
शशिवदना न्यौ ॥ क्व्र्क्_३।८ ॥
यत्र नगणयगणौ भवतस्तद्वृत्तं शशिवदना नाम । यथा ।
मलयजलेपः कुवलयशय्या ।
दहति वियोगे शशिवदनायाः ॥ ८ ॥
त्सौ चेद्वसुमती ॥ क्व्र्क्_३।९ ॥
चेत्तगणसगणौ पादे भवतः तद्वृत्तं वसुमती नाम । यथा ।
पृथ्वी धृतवती राज्ञा नयवता ।
मुद्यज्जनपदा श्लाघ्या वसुमती ॥ ९ ॥
उष्णिहि
मधुमतिननगाः ॥ क्व्र्क्_३।१० ॥
नगणनगणगुरवो यत्र तद्वृत्तं मधुमती नाम । यथा ॥ १० ॥
म्सौ गः स्यान्मदलेखा ॥ क्व्र्क्_३।११ ॥
मगणसगणौ गुरुश्च यत्र तद्वृत्तं मदनलेखा नाम । यथा ।
लावण्याम्भसि मग्ने तस्याः काममहेभे ।
भ्रष्टेयं स्तनकुम्भाद्रोमलीमदलेखा ॥ ११ ॥
कुमारललिता ज्सौ ग् ॥ क्व्र्क्_३।१२ ॥
जगणसगणौ गुरुश्च यत्र तद्वृत्तं कुमारललिता नाम । यथा ।
कुमारललितानि प्रमोदजननानि ।
नयाभिमुदमग्र्यां विलोक्य नमनीका ॥ (?) १२ ॥
सरगा हंसमाला ॥ क्व्र्क्_३।१३ ॥
यत्र सगणरगणगुरवस्तद्वृत्तं हंसमाला नाम । यथा ।
शरदि प्रेक्ष्य यान्तीं मुदितां हंसमालाम् ।
त्यजति प्रेयसीं कः सुखलिप्सुः स्वतन्त्रः ॥ १३ ॥
अनुष्टुभि
मो मो गो गो विद्युन्माला ॥ क्व्र्क्_३।१४ ॥
द्वौ मगणौ द्वौ गुरू च यत्र तद्वृत्तं विद्युन्माला नाम । यथा ।
चतुर्भिर्यतिः । यथा ममैव छन्दसि ।
मौ गौ वेदैर्विद्युन्माला ।
व्योम्नि व्याप्ते तप्तरेखानाकुर्वन्ती वङ्ग्याम्मानम्रां त्वां भर्तुः स्त्रीणां जागर्यका विद्युन्माला ॥ (??) १४ ॥
भौ गिति चित्रपदा गः ॥ क्व्र्क्_३।१५ ॥
भगणद्वयं गुरू च यत्र तद्वृत्तं चित्रपदा नाम । यथा ।
नूपुरशब्दमनोज्ञं ताललयान्वितगीतम् ।
पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम् ॥ १५ ॥
माणवकं भात्तलगाः ॥ क्व्र्क्_३।१६ ॥
भगणतगणलघुगुरवो यत्र तद्वृत्तं माणवकं नाम । यथा ।
वाञ्छसि शं चेद्विपुलं तर्हि सखे मुञ्च शठ -
मेधा किं ज्ञास्य रुचिं मित्रमपि त्वचपलम् ॥ (?)
चतुर्भिर्यतिरित्याम्नायः । माणवकाक्रीडितमिति पिङ्गलः ॥ १६ ॥
म्नौ गौ हंसरुतमेतत् ॥ क्व्र्क्_३।१७ ॥
यत्र मगणनगणौ द्वौ गुरू तद्वृत्तं हंसरुतं नाम । यथा ।
दृष्ट्वा कासकुसुमानि श्रुत्वा हंसरुतमेतत् ।
कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ १७ ॥
र्जौ समानिका गलौ च ॥ क्व्र्क्_३।१८ ॥
रगणजगणौ गुरुलघू च यत्र तद्वृत्तं समानिका नाम । यथा ।
ते समानिका च यान्ति शत्रवो भयेन धीर ।
राजसम्पदं विहाय यद्यजेयबाहवो ऽपि ॥ १८ ॥
प्रमाणिका जरौ लगौ ॥ क्व्र्क्_३।१९ ॥
जगणरगणौ लघुगुरू यत्र तद्वृत्तं प्रमाणिका नाम । यथा ।
प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिंशुकः ।
वसन्त एष साम्प्रतं प्रमाणिका ऽत्र कोकिला ॥ १९ ॥
[चम्पकमाला चेद्भमसा गः ॥ क्व्र्क्_३।२० ॥
भगणमगणसगणाः गुरुश्च यत्र तद्वृत्तं चम्पकमाला नाम] ॥ २० ॥
[नाराचकं तरौ लगौ ॥ क्व्र्क्_३।२१ ॥
तगणरगणौ लघुगुरू च यत्र तद्वृत्तं नाराचकं नाम । यथा] ॥ २१ ॥
वितानमाभ्यां यदन्यत् ॥ क्व्र्क्_३।२२ ॥
आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यदष्टाक्षरं छन्दस्तद्वितानं नाम । आभ्यां यदन्यदिति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात् । यथा ।
ज्योत्स्नावितानमैन्दवं पश्य प्रिये मनोरमम् ।
कोपं त्यज प्रियं भज स्त्रीणां प्रियं हि यौवनम् ॥
अन्यच्च ।
तस्याः स्मरामि सुन्दरं चन्द्रोपमानमाननम् ।
कन्दर्पचापभङ्गुरं श्रुतिभ्रमोपशोभितमिति ॥
अपि च ।
कङ्कालमालधारणं कन्दर्पदर्पहारिणम् ।
संसारबन्धमोचनं वन्दामहे त्रिलोचनम् ॥
‘अन्यदतो हि वितानमिऽति श्वेतपटजयदेवेन यदुक्तम् ।
इत्यनेन गतार्थत्वात् ॥ २२ ॥
बृहत्याम्
रान्नसाविह हलमुखी ॥ क्व्र्क्_३।२३ ॥
यत्र रगणनगणसगणास्तद्वृत्तं हलमुखी नाम । यथा ।
निन्दितां वपुषि पुरुषद्वेषिणीं विरदशनाम् ।
तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम् ॥ २३ ॥
भुजगशिशुभृता नौ मः ॥ क्व्र्क्_३।२४ ॥
द्वौ नगणौ मगणश्च यत्र तद्वृत्तं भुजगशिशुभृता नाम । सप्तभिर्यतिरित्याम्नायः । यथा ।
वरतरुलवलीवल्लीकिसलयगहनछिन्नाः ।
भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ २४ ॥
पङ्क्तौ
म्सौ ज्गौ शुद्धविराडिदं मतम् ॥ क्व्र्क्_३।२५ ॥
मगणसगणजगणा गुरुश्च यत्र तद्वृत्तं शुद्धविराट् नाम । यथा ।
कुर्वन् राज्यमपीह सन्ततं कामक्रोधविवर्जितः सदा ।
मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ २५ ॥
म्नौ य्गौ चेति पणव नामेदम् ॥ क्व्र्क्_३।२६ ॥
यत्र मगणनगणयगणा गुरुश्च यत्र तद्वृत्तं पणव नाम । पञ्चभिर्यतिः । यथा ।
यासां वक्ष्यसि घनवक्षोजे हारः सम्प्रति शुशुभे तारः ।
पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ २६ ॥
र्जौ रगौ मयूरसारिणी स्यात् ॥ क्व्र्क्_३।२७ ॥
रगणजगणरगणा गुरुश्च यत्र तद्वृत्तं मयूरसारिणी नाम । यथा ।
विस्तारेण बर्हिभाररम्या बर्हिणी मयूरसारणीयम् ।
गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ २७ ॥
भ्मौ सगयुक्तौ रुक्मवतीयम् ॥ क्व्र्क्_३।२८ ॥
भगणमगणसगणा गुरुश्च यत्र तद्वृत्तं रुक्मवती नाम । यथा ।
चेतसि यस्या जीवितनाथस्तत्प्रियकार्यासक्तमनस्का ।
देवगुरुश्वश्रूद्विजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ २८ ॥
ज्ञेया मत्ता मभसगयुक्ता ॥ क्व्र्क्_३।२९ ॥
मगणभगणसगणगुरवो यत्र तद्वृत्तं मत्ता नाम । चतुर्भिर्यतिरित्याम्नायः । यथा ।
यच्चूताग्रे स्मरशरबन्धौ बद्धावासा पिकसहवयः ।
गायन्त्येताः कलमिति मत्तास्तन्मध्ये ऽहं सखि मधुरेषः ॥ २९ ॥
नरजगैर्भवेन्मनोरमा ॥ क्व्र्क्_३।३० ॥
यत्र नगणरगणजगणगुरवो तद्वृत्तं मनोरमा नाम । यथा ।
युवतिरिन्दुसुन्दरानना पृथुघनस्तनी कृशोदरी ।
गुरुनितम्बभारमन्थरा हरति मे मनो मनोरमा ॥ ३० ॥
त्जौ जो गुरुणेयमुपस्थिता ॥ क्व्र्क्_३।३१ ॥
तगणजगणौ जगणो गुरुश्च तद्वृत्तं उपस्थिता नाम । अत्र द्वाभ्यामष्टभिश्च यतिरित्येके । यथा ।
त्यक्त्वा निजशस्त्रमुपस्थिता ये प्राञ्जलयस्तव शत्रवः ।
तेषामवनीश्वर जीवितं दत्तं भवता समराजिरे ॥ ३१ ॥
त्रिष्टुभि
स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ क्व्र्क्_३।३२ ॥
यत्र तगणौ द्वौ जगणो गुरू च तद्वृत्तं इन्द्रवज्रा नाम । यथा ।
स्यादिन्द्रवज्रादि कर्कशं मे
चेतो यदीये विरहागमे ऽस्मिन् ।
नूनं तदानीं यदि तद्वियोग-
सन्तापसंयत्सहनक्षमः स्याम् ॥ ३२ ॥
उपेन्द्रवज्रा जतजास्ततो गौ ॥ क्व्र्क्_३।३३ ॥
यत्र जगणतगणजगणा द्वौ गुरू च तद्वृत्तं उपेन्द्रवज्रा नाम । यथा ।
उपेन्द्रवज्रादि महाभिघाता
प्रयान्ति नाशं स्मरतो नरस्य ।
अहर्निशं त्वां विजितामरेश
श्रीकृष्ण विष्णोर्गुरु मे प्रसादम् ॥ ३३ ॥
अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।
इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ॥ क्व्र्क्_३।३४ ॥
न विद्यन्ते ऽन्तरं व्यवधानं यस्य तदनन्तरं उदीरितमुक्तं लक्ष्म लक्षणम् । भजत इति यस्याः पादौ तावनन्तरोदीरितभाजौ इन्द्रवज्रोपेन्द्रवज्रयोरित्यर्थः ।
इत्थममुना प्रकारेणान्यास्वपि उक्ताप्रभृतिषु जातिषु मिश्रितास्विदमेवोपजातिं नाम स्मरन्ति वदन्ति छन्दोविदः । यथा ।
विहाय पङ्केरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य ।
मेघागमे ऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणन्तः ॥
एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु दृष्टव्यानि ।
समवृत्ताध्याये ऽपि प्रसङ्गादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च लेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव प्रस्तार्यन्तो । यथा ।
^^ __^ ^^ __^ ^^ __^ ^^ __^ ^^ __^ ^^ __^ ^^ __^
__^ ^^ ^^ __^ __^ ^^ ^^ __^ __^ ^^ ^^ __^ __^ ^^
__^ __^ __^ __^ ^^ ^^ ^^ __^ __^ __^ ^^ ^^ ^^ ^^
__^ __^ __^ __^ __^ __^ __^ ^^ ^^ ^^ ^^ ^^ ^^ ^^
॥ ३४ ॥
सान्द्रपदं भ्तौ नगगुरुभिश्च ॥ क्व्र्क्_३।३५ ॥
भगणतगणनगणा द्वौ गुरू तत्र तद्वृत्तं सान्द्रपदं नाम । यथा ॥ ३५ ॥
नजजलगैर्गदिता सुमुखी ॥ क्व्र्क्_३।३६ ॥
नगणजगणजगणा लघुगुरू च यत्र तद्वृत्तं सुमुखी नाम । पञ्चभिर्यतिरित्याम्नायः । यथा ।
सुतजननी सुकुलप्रभवा
मृदुवचना सुरते चतुरा ।
भवति गृहे विपुलैः सुकृतैः
मृगनयना युवतिः सुमुखी ॥ ३६ ॥
दोधकवृत्तमिदं भभभाद्गौ ॥ क्व्र्क्_३।३७ ॥
यत्र भगणत्रयं द्वौ गुरू च तद्वृत्तं दोधकं नाम । यथा ।
यस्य नरस्य भवेदिह साक्षाद्वृत्तमदोधकयोरपि तुल्यम् ।
तेन समं कथमर्थवतापि प्रेमकथां कथयामि वयस्ये ॥ ३७ ॥
शालिन्युक्ता न्तौ तगौ गो ऽब्धिलोकैः ॥ क्व्र्क्_३।३८ ॥
यत्र मगणतगणतगणा द्वौ गुरू च तद्वृत्तं शालिनी नाम । चतुर्भिः सप्तभिर्यतिरित्याम्नायः । यथा ।
नो जानीते शालिनी वारायार्यप्रायेणेह स्तादभेदं मनुष्यः ।
सो ऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम् ॥ ३८ ॥
वातोर्मीयं गदिता म्भौ तगौ गः ॥ क्व्र्क्_३।३९ ॥
मगणभगणतगणा गुरुद्वयं यत्र तद्वृत्तं वातोर्मी नाम । अत्र वक्ष्यामणसूत्रे च विशेषानभिधानात्प्रागुक्तैव यतिर्यथा ।
बलाद्वातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः ।
आब्रह्मादीनपि संहृत्य लोकान् येषामन्तः सुखशायी मुरारिः ॥ ३९ ॥
म्भौ न्लौ गः स्याद्भ्रमरविलसितम् ॥ क्व्र्क्_३।४० ॥
मगणभगणनगणा लघुगुरू च यत्र तद्वृत्तं भ्रमरविलसितं नाम ।
प्राच्येव यतिर्यथा ।
त्यक्त्वा मानं चरणविपतितस्तन्मन्ये ऽहं प्रिय सखि नियतम् ।
त्वद्वक्त्राब्जभ्रमरविलसितं कर्तुं वाञ्छत्ययमिह दयितः ॥ ४० ॥
पञ्चरसैर्श्रीर्भतनगगैः स्यात् ॥ क्व्र्क्_३।४१ ॥
भगणतगणनगणा द्वौ गुरू च यत्र तद्वृत्तं श्रीः नाम । पञ्चभिः षड्भिर्यतिर्यथा ।
द्रव्यविमोहाज्जलनिधियानं सङ्गरभूमौ त्यजति च देहम् ।
कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ॥ ४१ ॥
कुड्मलदन्तीत्येके ।
रो नराविह रथोद्धता लगौ ॥ क्व्र्क्_३।४२ ॥
यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं रथोद्धता नाम । यथा ।
लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु ।
सत्रवाभिरिति या प्रबोधिता तां स्मरामि निजजीवितौषधिम् ॥ ४२ ॥
स्वागतेति रनभाद्गुरुयुग्मम् ॥ क्व्र्क्_३।४३ ॥
यस्य पादे रगणनगणभगणा गुरू च तद्वृत्तं स्वागता नाम । यथा ।
सर्वलोकसुखदास्वपि वर्षास्वागतासु न सुखी रिपुवर्गः ।
विन्ध्यवर्मनृपते तव खड्गभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ ४३ ॥
ननसगगुरुरचिता वृन्ता ॥ क्व्र्क्_३।४४ ॥
द्वौ नगणौ सगणो गुरुद्वयं यस्य पादे तद्वृत्तं वृन्ता नाम । अत्र मण्डूकप्लुतन्यायेन शालिन्युक्तेति सूत्रादब्धिलोकैरिति पदमनुवर्तते । तेन हि चतुर्भिर्यतिः । यथा ।
मधुकरचरणभराक्रान्तं पथ तदिह कुसुममिदं वृन्तात् ।
कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम् ॥ ४४ ॥
ननरलगुरुभिश्च भद्रिका ॥ क्व्र्क्_३।४५ ॥
द्वौ नगणौ रगणो लघुगुरू च यत्र तद्वृत्तं भद्रिका नाम । यथा ।
विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा ।
कपिलचिकुरसञ्चया कृशा न भवति वनिता प्रभद्रिका ॥ ४५ ॥
श्येनिका रजौ रलौ गुरुर्यदा ॥ क्व्र्क्_३।४६ ॥
रगनजगणरगणा लघुगुरू च यत्र तद्वृत्तं श्येनिका नाम । यथा ।
श्येनिकाशृगालसङ्कुले रणे विन्ध्यवर्मदेव ये त्वया हताः ।
शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ ४६ ॥
उपस्थितमिदं ज्सौ ताद्गकारौ ॥ क्व्र्क्_३।४७ ॥
जगणसगणतगणा द्वौ गुरू च यत्र तद्वृत्तं उपस्थितं नाम । यथा ।
उपस्थितमनेकाश्चेतकी चुलुक्यनृपतेः सैन्यं विशालम् ।
अवन्तिप्रिय निहित्वा न को ऽपि ध्रुवं क्षितितले जेतुं समर्थः ॥ ४७ ॥
शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत् ॥ क्व्र्क्_३।४८ ॥
जगणसगणौ तगणगुरू गुरुश्चेत्तद्वृत्तं शिखण्डितं नाम । यथा । ४८
मौक्तिकमाला भवेद्भभ्तलगाः ॥ क्व्र्क्_३।४९ ॥
भगणभगणतगणलघुगुरवो यत्र भवेत्तद्वृत्तं मौक्तिकमाला नाम । यथा ॥ ४९ ॥
जगत्याम् ।
चन्द्रवर्त्म गदितं तु रनभसैः ॥ क्व्र्क्_३।५० ॥
यत्र रगणनगणभगणसगणा भवन्ति तद्वृत्तं चन्द्रवर्त्म गदितम् । यथा ।
चक्षुषी परिविमृश्य करयुगात् क्रान्तहर्यपरिशोभितवदना ।
चन्द्रवर्त्म कथयेत्यतिविवशा कान्तमेवमवदन्निशि वनिता ॥ ५० ॥
जतौ तु वंशस्थमुदीरितं जरौ ॥ क्व्र्क्_३।५१ ॥
यत्र जगणतगणजगणरगणास्तद्वृत्तं वंशस्थं नाम । यथा ।
स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेङ्गितैः ।
जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ ५१ ॥
स्यादिन्द्रवंशा ततजैः रसंयुतैः ॥ क्व्र्क्_३।५२ ॥
यत्र द्वौ तगणौ जगणरगणौ तद्वृत्तं इन्द्रवंशा नाम यथा ।
आदीन्द्रवंशाद्दिवमस्तभूरुहप्रच्छादितानेकगुहा गृहो ऽपि सन् ।
धाराधिनाथस्य भयेन विद्रुतान् भूगोप्तुरिष्टान्न भवामि नेश्वरः ॥ ५२ ॥
इह तोटकमम्बुधिसैः प्रथितम् ॥ क्व्र्क्_३।५३ ॥
यत्र चत्वारि सगणास्तद्वृत्तं तोटकं नाम । यथा ।
त्यज मानममानमनन्तगुणं कुरु वाक्यमिदं परिणामहितम् ।
त्वयि तोटकजायतनेत्रयुगे त्वरितं दयितान्तिकमिन्दुमुखि ॥ ५३ ॥
द्रुतविलम्बितमाह नभौ भरौ ॥ क्व्र्क्_३।५४ ॥
नगणभगणौ भगणरगणौ यत्र तद्वृत्तं द्रुतविलम्बितं नाम । यथा ।
द्रुतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्दता ।
गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूर्नृप निन्द्यते ॥ ५४ ॥
वसुयुगविरतिर्नौ म्यौ पुटो ऽयम् ॥ क्व्र्क्_३।५५ ॥
द्वौ नगणौ मगणयगणौ यत्र तद्वृत्तं पुटो नाम । वसुभिरष्टभिर्युगैश्चतुर्भिर्यतिः ।
अपि चरणनतो ऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमुद्राम् ।
वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ ५५ ॥
प्रमुदितवदना भवेन्नौ ररौ ॥ क्व्र्क्_३।५६ ॥
द्वौ नगणौ द्वौ रगणौ यत्र तद्वृत्तं प्रमुदितवदना नाम । यथा ।
गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोज्ञां सदा ।
विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम् ॥ ५६ ॥
चतुर्जगणं वद मौक्तिकदाम ॥ क्व्र्क्_३।५७ ॥
नयसहितौ न्यौ कुसुमविचित्रा ॥ क्व्र्क्_३।५८ ॥
नगणयगणौ पुनर्नगणयगणौ यत्र तद्वृत्तं कुसुमविचित्रा नाम । षड्भिर्यतिरित्युपदेशः ।
यथा ।
परिहृतरोषा कृतबहुवेषा सह निजभर्ता तरुणि वसन्ते ।
प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम् ॥ ५८ ॥
रसैर्जसजसा जलोद्धतगतिः ॥ क्व्र्क्_३।५९ ॥
यत्र जगणसगणजगणा सगणश्च तद्वृत्तं जलोद्धतगतिर्नाम । यथा ।
अतीत्य सरितो जलोद्धतगतीरनेकगहना कुलानपि गिरीन् ।
समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात् ॥ ५९ ॥
भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ क्व्र्क्_३।६० ॥
चत्वारो यगणा यत्र तद्वृत्तं भुजङ्गप्रयातं नाम । यथा ।
विदग्धाङ्गनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः ।
मया नैव लब्धो हत ग्राममार्गे भुजङ्गप्रयातानुकारिण्यमुष्णिग् (?) ॥ ६० ॥
रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥ क्व्र्क्_३।६१ ॥
चत्वारो रगणा यस्य पादे तद्वृत्तं स्रग्विणी नाम । यथा ।
पद्मपत्रायताक्षी शशाङ्कानना कुङ्कुमोद्वर्तिताङ्गी घनोच्चस्तनी ।
अङ्गहारैरनेकप्रकारैर्युता नृत्यति स्त्री सखे स्रग्विणी सुन्दरा ॥ ६१ ॥
भुवि भवेन्नभजरैः प्रियंवदा ॥ क्व्र्क्_३।६२ ॥
नगणभगणजगणरगणा यत्र तद्वृत्तं प्रियंवदा नाम । यथा ।
गुरुपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि ।
भवति पार्वणशशाङ्कसुन्दराननवती प्रियतमा प्रियंवदा ॥ ६२ ॥
त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ॥ क्व्र्क्_३।६३ ॥
तगणयगणतगणयगणा यत्र तद्वृत्तं मणिमाला नाम । षड्भिर्यतिः । यथा ।
मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः ।
चञ्चन्मणिमालालङ्कारमणीनां त्यक्त्वा वनितानां सङ्गं विषतुल्यम् ॥ ६३ ॥
धीरैरभाणि ललिता तभौ जरौ ॥ क्व्र्क्_३।६४ ॥
यत्र तगणभगणजगणरगणास्तद्वृत्तं ललिता नाम । यथा ।
पीनोन्नतस्तनभरोपरिस्फुरद्धारावलीसुभगमायतेक्षणा ।
नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ ६४ ॥
प्रमिताक्षरा सजससैरुदिता ॥ क्व्र्क्_३।६५ ॥
सगणजगणौ सगणौ यत्र तद्वृत्तं प्रमिताक्षरा नाम । यथा ।
चरणानतिं गतवति प्रसभं दयिते नितान्तसुभगे सुभगे ।
परुषाणि सन्त्यज वचांसि सखि प्रमिताक्षरा भव शशाङ्कमुखि ॥ ६५ ॥
ननभरसहिता ऽभिहितोज्ज्वला ॥ क्व्र्क्_३।६६ ॥
द्वौ नगणौ भगणरगणौ च यत्र तद्वृत्तं उज्ज्वला नाम । यथा ।
इह शरदि भवन्त्युकाशया (?) विमलतरशशाङ्ककरोज्ज्वला ।
विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम् ॥ ६६ ॥
पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ॥ क्व्र्क्_३।६७ ॥
द्वौ मगणौ द्वौ यगणौ च यत्र तद्वृत्तं वैश्वदेवी नाम । पञ्चभिः सप्तभिर्यतिः । यथा ।
वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः ।
श्रद्धासम्पन्नो वैश्वदेवी च लोके स स्वर्गस्त्रीणां वल्लभः स्यात्सदैव ॥ ६७ ॥
अब्ध्यङ्गैः स्याज्जलधरमाला म्भौ स्मौ ॥ क्व्र्क्_३।६८ ॥
मगणभगणसगणमगणा यत्र तद्वृत्तं जलधरमाला नाम । चतुर्भिरष्टभिश्च यतिः । यथा ।
सत्याकाशे जलधरमालाव्याप्ते नीपामोदे प्रसरति झञ्झावाते ।
वर्षाकाले मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम् ॥ ६८ ॥
इह नवमालिनी नजपरौ भ्यौ ॥ क्व्र्क्_३।६९ ॥
नगणजगणभगणयगणा यत्र तद्वृत्तं नवमालिनी नाम । इहेत्यवग्रहणादब्ध्यङ्गैरिति पदविरीततया विपरिणमति तेनाष्टभिः चतुर्भिर्यथा ।
तव निशितासिघातदलिता रिद्धिपदकुम्भमौक्तिकसमूहैः ।
कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ ६९ ॥
स्वरशरविरतिर्नौ रौ प्रभा नाम ॥ क्व्र्क्_३।७० ॥
भवति नजावथ मालती जरौ ॥ क्व्र्क्_३।७१ ॥
नगणजगणौ जगणरगणौ यत्र तद्वृत्तं मालती नाम । यथा ।
भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम् ।
युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ ७१ ॥
वरतनुरित्येके ।
जरौ जरौ वदन्ति पञ्चचामरम् ॥ क्व्र्क्_३।७२ ॥
इति वद तामरसं नजजाद्यः ॥ क्व्र्क्_३।७३ ॥
नगणजगणौ जगणयगणौ यत्र तद्वृत्तं तामरसमिति वद शिक्षमिति शेषः । यथा ।
मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्रजलौघाः ।
विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ ७३ ॥
अतिजगत्याम् ।
तुरगरसयतिर्नौ ततौ गः क्षमा ॥ क्व्र्क्_३।७४ ॥
यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तद्वृत्तं क्षमा नाम । यथा ।
सप्तभिः षड्भिश्च यतिः । यथा ।
चकितमृगदृशा नेक्षितो लीलया त्रिवलितवदनश्रीचयाहं मुहुः ।
न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ ७४ ॥
म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् ॥ क्व्र्क्_३।७५ ॥
मगणनगणजगणरगणगुरवो यत्र तद्वृत्तं प्रहर्षिणी नाम । त्रिभिर्दशभिर्यतिः । यथा ।
लोलाक्षी विपुलनितम्बबद्धकाञ्ची पीनोच्चस्तनयुगला सुरोमराजिः ।
नृत्यन्ती सुललितमङ्गहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम् ॥ ७५ ॥
[पाठान्तरम्:
चतुर्ग्रहैरिह रुचिरा जभौ स्यौ गः ॥ क्व्र्क्_३।७६* ॥]
चतुर्ग्रहैरिह रुचिरा जभौ स्जगाः ॥ क्व्र्क्_३।७६ ॥
जगणभगणसगणजगणा गुरुश्च यत्र तद्वृत्तं रुचिरा नाम । यथा ।
समीहते य इह परापदापदं वियच्छरित्तटरुचिरोटजालयः ।
मृगीदृशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत् ॥ ७६ ॥
वेदै रन्ध्रैर्न्तौ यसगा मत्तमयूरम् ॥ क्व्र्क्_३।७७ ॥
यत्र मगणतगणयगणसगणगुरवस्तद्वृत्तं मत्तमयूरम् । चतुर्भिर्नवभिर्यतिः । यथा ।
चञ्चं चूतं पुष्पितकं केल्लितरूभिः क्रीडत्क्रोडं सञ्चरदुन्मत्तमृगोधम् ।
स्निग्धच्छायं वारिततापं तरुखण्डैः माद्यद्भृङ्गं मत्तमयूरं वनमेतत् ॥ ७७ ॥
[पाठान्तरम्:
नजसजगैर्भवति मञ्जुभाषिणी ॥ क्व्र्क्_३।७८* ॥]
सजसा जगौ भवति मञ्जुभाषिणी ॥ क्व्र्क्_३।७८ ॥
यस्य पादे सगणजगणसगणजगणा गुरुश्च तद्वृत्तं मञ्जुभाषिणी नाम । यथा ।
स्मर सुन्दराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम् ।
परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति मञ्जुभाषिणी ॥ ७८ ॥
इह नन्दिनी सजससैर्गुरुयुक्तैः ॥ क्व्र्क्_३।७९ ॥
सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी ॥ ७९ ॥
ननतरगुरुभिश्चन्द्रिका चतुर्भिः ॥ क्व्र्क्_३।८० ॥
द्वौ नगणौ तगणरगणौ गुरुश्च यत्र तद्वृत्तं चन्द्रिका नाम । चतुर्भिर्यतिर्यथा ।
वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां भिनत्ति मानम् ।
ततमपि भुवनं चन्द्रिका भुवस्थाधवलितमिव चक्रे शरन्निशासु ॥
अष्टभिर्यतिरित्येके ॥ ८० ॥
शक्वर्याम्
न्तौ न्सौ गावक्षग्रहविरतिरसम्बाधा ॥ क्व्र्क्_३।८१ ॥
मगणतगणनगणसगणा द्वौ गुरू च यत्र तद्वृत्तं असम्बाधा नाम । अक्षैरिन्द्रियैः पञ्चभिर्ग्रहैर्नवभिश्च यतिः । यथा ।
यावद्गच्छेयन्दयितविहितसङ्केतस्थानस्याभ्यां सङ्कृतनिवृततुलाकोटिः ।
तावच्चक्रे ऽग्रे द्रुतमुदयमयं वैरी भित्वा सम्बन्धान्यपि सखि तिमिराणीन्दुः ॥ ८१ ॥
ननरसलघुगैः स्वरैरपराजिता ॥ क्व्र्क्_३।८२ ॥
द्वौ नगणौ रगणसगणलघुगुरवो यत्र तद्वृत्तं अपराजिता नाम ।
सप्तभिर्यतिः । यथा ।
तुरगरजवतीं तुलार्कमहीपतेरितरनृपशतैश्चमूमपराजिताम् ।
जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्भवः ॥ ८२ ॥
ननभनलगिति प्रहरणकलिका ॥ क्व्र्क्_३।८३ ॥
नगणौ भगणनगणलघुगुरवश्च यत्र तद्वृत्तं प्रहरणकलिका नाम । इति शब्दस्याव्ययस्य ग्रहणात्सैव यतिः । यथा ।
रणभुवि भवता प्रहरणकलिता परहृतवनितास्तव नृप रिपवः ।
विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ ८३ ॥
उक्ता वसन्ततिलका तभजा जगौ गः ॥ क्व्र्क्_३।८४(१) ॥
तगणभगणौ द्वौ जगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं वसन्ततिलका नाम । यथा ।
भ्रातर्वसन्ततिलकानतिमुक्तकं च सन्दश्यते ऽत्र किमु मत्परमस्त्वमेतत् ।
ना ऽहं स यो ऽभवदनेकविधोत्सवश्रीः सम्प्रत्यसत्यविरहैकगृहं प्रियायाः ॥
सिंहोद्धतेयमुदिता मुनिकाश्यपेन ॥ क्व्र्क्_३।८४(२) ॥
इयमेव वसन्ततिलका कश्यपस्याचार्यस्य मतेन सिंहोद्धता नाम । यथा ।
उन्निद्रपद्मवदनः सुभगो ऽङ्गनानामारक्तपादतलपाणीरदीनसत्त्वः ।
सिंहोद्धता समगलः सुविशालवक्षाः स्यादीदृशो नरपतिः पुरुषः पृथिव्याः ॥
उद्धर्षिणी निगदिता मुनिसैतवेन ॥ क्व्र्क्_३।८४(३) ॥
सैव वसन्ततिलका सैतवमुनिना उद्धर्षिणी निगदिता उक्ता । यथा ।
संवत्सरे रसपयोनिधिसूर्यसङ्ख्यैः श्रीविक्रमान्नरपते रचिता ममेयम् ।
उक्ता सनामभिरुदाहरण्यैरुदारैरुद्धर्षिणी भवतु चेतसि सत्कवीनाम् ॥
गोमेन सैवमुदिता मधुमाधवीति ॥ क्व्र्क्_३।८४(४) ॥
वसन्ततिलकामित्येके ॥ ८४ ॥
इन्दुवदना भजसनैः सगुरुयुग्मैः ॥ क्व्र्क्_३।८५ ॥
भगणजगणसगणनगणा द्वौ गुरू च यस्य पादे तद्वृत्तमिन्दुवदना नाम । यथा ।
मारुतवशप्रचलितोत्पलदलाक्षं शोभनललाटतटमध्यकृतपुण्ड्रम् ।
रे पथिक सम्प्रति मधौ मदनबन्धौ संस्मरसि तद्वदनमिन्दुवदनायाः ॥ ८५ ॥
द्विः सप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ क्व्र्क्_३।८६ ॥
यस्य चरणे पादे मगणसगणमगणभगणा द्वौ गुरू तद्वृत्तं अलोला नाम । सप्तभिर्यतिः । यथा ।
यो देव द्विजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्ता त्यक्तविकल्पः ।
मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभुवने स्याल्लोला नूनमलोला ॥ ८६ ॥
अतिशक्वर्याम् ।
द्विहतहयलघुरथ गिति शशिकला ॥ क्व्र्क्_३।८७ ॥
द्विहतहयलघुरित्यर्थः गुरुश्च भवति यस्य चरणे तद्वृत्तं शशिकला नाम । सप्तभिरष्टभिर्यतिः । पारिशेष्याद्यथा ।
कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा ।
तव भवतु सुखकृदयमिह सततं प्रविपदि सुनभसि वसति शशिकला ॥ ८७ ॥
स्रगिति भवति रसनवकयतिरियम् ॥ क्व्र्क्_३।८८ ॥
षड्भिर्नवभिश्च यदा यतिर्भवति तदा स्रगिति नाम । मालेति वक्तव्ये छन्दोभङ्गभयात् स्रगित्युक्तम् । एकार्थत्वान्न दोषः । यथा ।
घनपरिमलमिलितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे ।
कटकयुगलमपि कलरवसुभगं श्रियमिदमिह जनयति सुचरणया ॥ ८८ ॥
वसुहययतिरिति मणिगुणनिकरः ॥ क्व्र्क्_३।८९ ॥
इयमेव शशिकला वस्वष्टभिर्हयैः सप्तभिर्यदा मणिगुणनिकरः नाम । यथा ।
परजनहितकरवरधनकलितः सुवचनकृतवरजनसुखनिवहः ।
भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ॥ ८९
ननमयययुतेयं मालिनी भोगिलोकैः ॥ क्व्र्क्_३।९० ॥
द्वौ नगणौ मगणो द्वौ यगणौ यस्य तद्वृत्तं मालिनी नाम । यथा । अष्टभिः सप्तभिर्यतिः ।
नवजलधरमालामालिनीं तां विलोक्य
निजदयितवियोगप्रान्तभावं निबोधम् ।
न न खलु जलधराणां नादमाकर्ण्य कश्चि-
द्भवति शिथिलबुद्धिर्वेश्म गन्तुं प्रवासी ॥ ९० ॥
भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ क्व्र्क्_३।९१ ॥
यस्य पादे नगणजगणभगणजगणरगणास्तद्वृत्तं प्रभद्रकं नाम । यथा ।
अलभत दुश्चरेण तपसा हिमाद्रिजा
यमिह पतिं पतिं त्रिजगतां महेश्वरम् ।
पवनसमुद्धुतामलिशिखाहुतस्मरो
दिशतु सतां सदैव सवि?? सुप्रभद्रकम् ॥ ९१ ॥
सजना नयौ शरदशकविरतिरेला ॥ क्व्र्क्_३।९२ ॥
सगणजगणनगणनगणयगणा यत्र तद्वृत्तमेला नाम । पञ्चभिर्दशभिर्यतिः । यथा ।
वरचन्दनद्रुमकिशलयमरिचैला-
लवलीलताप्रभृतिवनमिह धुन्वन् ।
मलयानिलः सपदि विदलितप्रयुक्त-
प्रमदाजनः प्रसरितपतिबन्धुः ॥ ९२ ॥
म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥ क्व्र्क्_३।९३ ॥
यस्य पादे मगणरगणमगणा द्वौ यगणौ तद्वृत्तं चन्द्रलेखा नाम । सप्तभिरष्टभिर्यतिः । यथा ।
विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां
यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे ।
कण्ठे यस्यास्थिमाला भस्माङ्गरागः शरीरे
कल्पान्तां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ ९३ ॥
अष्टौ
भ्रत्रिनगैः रसात् खमृषभजगविलसितम् ॥ क्व्र्क्_३।९४ ॥
भगणरगणौ त्रयो नगणा गुरुश्च यत्र तद्वृत्तं ऋषभगजविलसितं नाम । षट्दशभिर्यतिः ।
यत्र चतुष्पथेषु विविधयुवतिजनता
साममनोरमेषु तव रिपुवरनगरे ।
त्वद्भुजविक्रमेण नृपतिवर विजयति
सम्प्रति तत्र वन्यमृषभगजविलसितम् ॥ ९४ ॥
नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ क्व्र्क्_३।९५ ॥
नगणजगणभगणजगणरगणा गुरवो यत्र तद्वृत्तं वाणिनी नाम । यथा ।
चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची
गुणकलकिङ्किणीरवविबोधासमेषुः ।
जनयति वाणिनी चतुरवाक्यपण्डितेयं
मुदमधिकां सखे मनसि करोति दृष्टा ॥ ९५ ॥
अत्यष्टौ
रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ क्व्र्क्_३।९६ ॥
यगणमगणनगणसगणभगणा लघुगुरू च यत्र तद्वृत्तं शिखरिणी नाम । षड्भिरेकादशभिर्यतिः ।
शशाङ्कास्या चञ्चत्कुवलयदलस्पर्धिनयना
सलीलं गच्छन्ती गुरुजघनभारालसगतिः ।
इयं पीनोत्तुङ्गस्तनशिखरिणी वारवनिता
कटाक्षैर्विक्षोभं जनयति मुनीनामपि हृदि ॥ ९६ ॥
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ क्व्र्क्_३।९७ ॥
जगणसगणजगणसगणयगणलघुगुरवो यत्र तद्वृत्तं पृथ्वी नाम । यथा ।
किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः
किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः ।
तदेहि कुरु मण्डनं त्यज रुषं वसन्तोत्सवे
यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ ९७ ॥
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ क्व्र्क्_३।९८ ॥
भगणरगणनगणभगणनगणलघुगुरवो यत्र तद्वृत्तं वंशपत्रपतितं नाम । दशभिः सप्तभिर्यतिः । यथा ।
नैव विदुस्तृषातुरधियस्तव रिपुनगरे
मन्दिरदीर्घिकासु सलिलं सविधमपि मृगाः ।
अम्बुजवंशपत्रपतितद्रुमदलनिकरैः
छादितमातपे तु महति क्षितिपति तलका (?) ॥ ९८ ॥
रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा ॥ क्व्र्क्_३।९९ ॥
नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तद्वृत्तं हरिणी नाम । षड्भिः चतुर्भिर्यतिः । यथा ।
वदनममलं धत्ते शोभां शशाङ्कसमाश्रितां
श्रवणयुगलं दोलालीलां तनोति मनोभुवः ।
स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः
किमिह न चेत्तस्याहारि ध्रुवं हरिणीदृशः ॥
ऋषभचरितमित्येके ॥ ९९ ॥
मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ ताद्गुरू चेत् ॥ क्व्र्क्_३।१०० ॥
मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं मन्दाक्रान्ता नाम । चतुर्भिः षड्भिश्चेद्यतिर्भवति । यथा ।
मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना
गाढाश्लेषप्रणयिशिथिला वेपमानाङ्गयष्टिः ।
स्विद्यद्वक्त्रा पुलकिततनुः किञ्चिदामीलिताक्षी
चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ १०० ॥
यदि भवतो नजौ भजजला गुरुर्नर्कुटकम् ॥ क्व्र्क्_३।१०१ ॥
नगनजगणभगणा द्वौ जगणौ लघुगुरू अह तद्वृत्तं नर्कुटकं नाम । अवितथमिति अन्ये । यथा ।
सुरभिसमागमे विरहिणीजनशोककरे
कृतबहुमण्डना त्वमतिभामनि मद्वचनैः ।
निजदयितान्तिकं यदि न यासि गतं तदहो
अवितथवाक्यकौशलमिदं मम निष्फलताम् ॥ १०१ ॥
मुनिगुहकार्णवैः कृतयतिं वद कोकिलकम् ॥ क्व्र्क्_३।१०२ ॥
नर्कुटकमेव सप्तभिः गुहकैः कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयतिं तद्वृत्तं वद कोकिलकं हे शिष्येति विशेषः । यथा ।
मदनमहोत्सवे मुदितकोकिलकान्तरवे
न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि ।
ध्रुवमिह साबला स्वयमहर्निशमेव भृशं
सखि परितप्यते गुरुमनोभवतापवती ॥ १०२ ॥
धृतौ
स्याद्बाणर्त्वश्वैः कुसुमितलतावेल्लिता न्तौ नयौ यौ ॥ क्व्र्क्_३।१०३ ॥
मगणतगणौ नगणस्त्रयो यगणा यत्र तद्वृत्तं कुसुमितलतावेल्लिता नाम । पञ्चभिः षड्भिः सप्तभिर्यतिः । यथा ।
उद्यानाब्जानां प्रकरधुननावाससौरभ्यसम्पत्
कङ्कोलैलानां कुसुमितलतावेल्लितान्यः पुनानः ।
आगस्त्यो वायुर्दिवि सुरतायासयाताङ्गनानां
स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्सङ्गमेच्छाम् ॥ १०३ ॥
अतिधृत्याम्
रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुता मेघविस्फूर्जितं स्यात् ॥ क्व्र्क्_३।१०४ ॥
यगणमगणनगणसगणा द्वौ रगणौ गुरुश्च यस्य पादे तद्वृत्तं मेघविस्फूर्जितं नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा ।
समायातः स्वैरं कुटजकुसुमामोदवाही समीरः
श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्फूर्जितं च ।
वियोगे सद्भर्तुः निजलवणिमा ऽधःकृतस्वन्तिजस्य
प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ १०४ ॥
सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ क्व्र्क्_३।१०५ ॥
मगणसगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तद्वृत्तं शार्दूलविक्रीडितं नाम । द्वादशभिः सप्तभिर्यतिः । यथा ।
श्रीखण्डाचलकन्दरात्सरभसं निर्गत्य सान्द्रं द्रुमां-
श्चञ्चच्चम्पकचारुकेसरभरं धन्वन्मुहुर्लीलया ।
इत्थं विभ्रदयं वसन्तपवनः शार्दूलविक्रीडितम्
स्त्रीणां मानगजं हनिष्यति हठात् मानोत्कटानामपि ॥ १०५ ॥
[कृतौ]
ज्ञेया सप्ताश्वषड्भिर्मरभनययुतो भ्लौ गः सुवदना ॥ क्व्र्क्_३।१०६ ॥
यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तद्वृत्तं सुवदना नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः ।
रम्भास्तम्भोपमोरुः सुगुरुघनकुचा सारङ्गनयना
मध्यक्षामा सुरोमावलिरमलमदन्ता चन्द्रवदना ।
हृत्स्थं भावं कटाक्षैर्निजमिव कथयत्येषा सुवदना
यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ १०६ ॥
त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥ क्व्र्क्_३।१०७ ॥
त्रीन्वारान्रगणजगणौ गुरुलघू यस्य पादे तद्वृत्तं वृत्तनाम वृत्ताभिधानमित्यर्थः ।
सम्पदाप्तिसम्भवो मदः कदाचिदेव मानसे नगस्य
न प्रमाणविद्यया परप्रमेयजालभङ्गदक्षया ऽपि ।
नाप्यरूपरूपया पराङ्गनाभिमर्शनो रसः कदापि
तस्य वृत्तमीदृशं शिरोभिरुह्यते नरैरतो विचार्यः ॥ १०७ ॥
प्रकृतौ
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ क्व्र्क्_३।१०८ ॥
मगणरगणभगणनगणा यगणत्रयं यस्य पादे तद्वृत्तं स्रग्धरा नाम । वारत्रयं सप्तभिर्यतिः ।
यासामुन्निद्रपद्मद्युतिमुखममलं स्फारविस्फारिताक्षम्
चञ्चत्काञ्चीगुणेन स्फुरदुरुमणिना ’ ऽवर्तलक्ष्मीं वितन्वत् ।
चेतःप्रीतिं नराणां विदधति विलसन्नाभिमध्यप्रदेशा
गच्छन्त्यो
राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ १०८ ॥
आकृतौ
भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि मद्रकमिदम् ॥ क्व्र्क्_३।१०९ ॥
भगणरगणनगणा रगणनगणरगणनगणगुरवो यस्य पादे तद्वृत्तं मद्रकं नाम । दशभिर्द्वादशभिर्यतिः । यथा ।
त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम्
यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि ।
मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम्
पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम् ॥ १०९ ॥
विकृतौ
यदिह नजौ भजौ भ्जभलगास्तदाश्वललितं हरार्कयतिमत् ॥ क्व्र्क्_३।११० ॥
यस्य पादे नगणजगणौ भगणजगणभगणजगणभगणलघुगुरवो भवन्ति तद्वृत्तं अश्वललितं नाम । एकादशभिर्द्वादशभिर्यतिः । यथा ।
समरविनिर्जितारिनिवहक्षितीश्वरविचित्रमश्वललितम्
हृदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः ।
ध्रुवमुररीचकार नृपतेर्दिवस्पतिरिमं तुरङ्गमवरं
बहुतरमन्यथा न वियति क्रथैरिह विवेलते ऽतिबहुलैः (?) ॥ ११० ॥
मत्ताक्रीडं मौ त्नौ नौ न्लौ गिति भवति वसुशरदशयतियुतम् ॥ क्व्र्क्_३।१११ ॥
यस्य पादे द्वौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तद्वृत्तं मत्ताक्रीडं नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा ।
दृष्ट्वा चान्द्रं बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम्
गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये ।
पौरा बद्धास्तस्मिन् सम्प्रत्यवनिपतितिलक तव नगरे
मत्ताक्रीडातिस्वच्छन्दं विगतभयभवभमितमृगनिवहाः ॥ १११ ॥
सङ्कृतौ
भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥ क्व्र्क्_३।११२ ॥
भगणतगणनगणसगणा द्वौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं तन्वी नाम । पञ्चभिः सप्तभिरादित्यैश्च यतिः । यथा ।
या मुखपद्मं शशधरसदृशं सुन्दरलोलनयनमतिरम्यम्
सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः ।
पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा
सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ ११२ ॥
अतिकृतौ
क्रौञ्चपदा भ्मौ स्भौ ननना न्गी इषुशरवसुमुनिविरतिरिह भवेत् ॥ क्व्र्क्_३।११३ ॥
भगणमगणसगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तद्वृत्तं क्रौञ्चपदा नाम । पञ्चभिरष्टभिः सप्तभिश्च यतिः । यथा ।
क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः
पिङ्गलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा ।
या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी
मुञ्च सखे तामिष्टतमं चेच्चिरतरमिह तव चर विषयसुखम् ॥ ११३ ॥
उत्कृतौ
वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम् ॥ क्व्र्क्_३।११४ ॥
द्वौ मगणौ तगणस्त्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तद्वृत्तं भुजङ्गविजृम्भितं नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा ।
प्रालेयांशुज्योत्स्नाकान्तद्युतिशुभमविमलसद्वितानमनोहरे
क्रीडागारे चञ्चच्चिरत्र कुसुमपरिमलमिलदलिव्रजेशुधयोज्ज्वले ।
प्रेमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे
प्रेयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजङ्गविजृम्भितम् ॥ ११४ ॥
मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ क्व्र्क्_३।११५ ॥
यस्य पादे मगणो नगणा षट् सगणो द्वौ गुरू च यत्र तद्वृत्तमपवाहं नाम । नवभिः षड्भिः षड्भिः पञ्चभिः यतिः । यथा ।
आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो
यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थिभ्यः ।
सम्पत्या समुपहसितधनदविभवनिवहदौरभ्यात्
लोकः पश्यति विगलितबहुविधिमतिमतिकृशतनुमपवाहं तम् ॥ ११५ ॥
उक्तादिजातिप्रकरणम्
॥ उक्तादिजातिप्रकरणम् ॥
अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि समवृत्तानि पदर्श(?) । ‘यत्किञ्चिद्दृश्यते छन्दः षड्विंशत्यधिकाक्षरम् । शेषजात्यादिकं मुक्त्वा तत्सर्वं दण्डका विदुऽरित्यादिलक्षणान् दण्डकानाह ।
यदिह नयुक्तगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रयातो भवेद्दण्डकः ॥ क्व्र्क्_३।११६ ॥
इह शास्त्रे चण्डवृष्टिप्रयातो नाम दण्डको भवेत् । यदा नगणौ द्वौ सप्तरगणाश्च भवन्ति । शतमाण्डवाभ्यामृषिभ्यामनेका ऽस्य सञ्ज्ञा कृता । यथा ।
कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागसंसक्तहृत्
प्रथमविरहपीडिता सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम् ।
नभसि कुटजपुष्पसम्भारगन्धासवोन्मत्तभृङ्गाङ्गना गीयमानागमे
हत पथिक वृथा किमायास॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। ।
चण्डवृष्टिरित्येके ॥ ११६ ॥
प्रतिचरणविवृद्धरेफाः स्युरर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ क्व्र्क्_३।११७ ॥
चरणं चरणं प्रति प्रतिचरणं रगणानां वृद्ध्या इहार्णादयो दण्डकास्स्युः ।
अष्टभी रगणैरर्णो यथा ।
श्रमसलिलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान्
जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालङ्कृतां कामिनीविभ्रमादेशकम् ।
अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिज्ञभ्युसी (?)
भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न लीलां तनोति राजात्मजः ॥
नवभी रगणैरर्णवो यथा ।
त्रिनयननगतुङ्गशृङ्गश्रियं बिभ्रदुद्दण्डडिण्डीरपिण्डावदातैस्तरङ्गोत्तरैरुल्लसन्
मकरतिमितिमिङ्गिलो विस्तृताधिष्ठितक्रोडसम्प्राप्तशोभैर्नभःप्राङ्गणज्ञापकैः ।
भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसो ऽयमग्रीः प्रिये
तव नयनपथं प्रयातस्तनोतुं प्रमोदं विनोदास्पदं तीरसम्भूतपुन्नागपूगद्रुमैः ॥
दशभी रगणैः व्यालो यथा ।
प्रसयति मलयानिले विप्रयुक्ताङ्गनादीर्घनिःश्वाससम्पर्कसंववर्धितप्रौहितावेमतोनन्दनि
स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकन्दकङ्किल्लिसच्चम्पकामोदवाहिन्यमुष्मिन् वसन्तागमे ।
भज चरणयुगानतं सन्नताङ्गिप्रियं प्रीतिसन्दोहकामिनी नाम नगातुराणां मृगीचक्षुषाम्
तरुणीमनि (?) सखि स्फुरज्ज्वालजिह्वाग्रलोले ऽङ्गनानां सदा सौख्यं विध्वंसिना ऽनेन किं दग्धमानेन ते ॥
तैरेकादशभिर्जीमूतैर्यथा ।
प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोद्धूतकादम्बपुष्पासवामूर्च्छिताशेषभृङ्गध्वजो ।
नभसि नभमिवाङ्क्षसौदामिनीमालयालङ्कृतं नीलजीमूतपङ्क्तिं बलाकावलीसेवितां लोचनानन्ददाम् ।
विरचितमधुरस्वरं चातकानां च रम्यं समूहं तु सास्कान्तमप्युन्मदं(?) भाविनीं तृप्तिमाकाङ्क्षमाणम् ।
मुहुकृतविततसुबर्हिभारः
शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन् नृत्यति स्वाङ्ध्रिविन्याससौन्दर्यवत् ॥
द्वादशभिर्लीलाकरो यथा ।
अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टाङ्गनासुन्दरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने ।
कुसुमितबहुपाटला कर्णिकाराम्रसत्सिन्दुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखालसत्पल्लवे वने ।
विलपति वनिता घनस्याभिमानग्रहं लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानिलो ।
जगति विजयिनीं स्मराज्ञामिवाविष्करोत्यङ्गनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रान्तकम्पं विधित्सुर्मुहुः ॥
त्रयोदशभी रगणैरुद्दामो यथा ।
शशधरसदृशं मुखाम्भोरुहं बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूक्ष्मरोमावलीप्राप्तनाभिहृदा ।
श्रवणयुगनिवेशितस्वर्णताण्डङ्कसंलग्नरत्नप्रभासितापाङ्गरङ्गाङ्गणोत्सङ्गसन्नृत्यमानेक्षणक्षोभितक्ष्मातला ।
कलरववरकिङ्किणीपक्वणन्मेखलालङ्कृतश्रोणिबिम्बानुवृत्तानुपूर्वोरुयुग्मा सरोजारुणाङ्ध्रिद्वयन्यस्तसन्नूपुरा ।
हृदयमशरणं मुनीनामपीयं सलीलं व्रजन्ती करोति स्फुरच्चीवरप्राञ्जलोद्बोधितानङ्गलक्ष्मीकृताशेषलोकं भृशाम् ॥
चतुर्दशभी रैः शङ्खो यथा ।
क्वचिदुपरि तरच्चन्दवल्लीवितानैः क्वचिद्द्रुमाणां लतासञ्चयैः सञ्चरन्नक्रचक्रैः क्वचिन्नीरसम्भूतपूगद्रुमैः शोभितम् ।
क्वचिदपि घनसाम्म्रहिन्तालतालावलीचारुताम्बूलवल्लीसमूहैः (?) क्वचिद्व्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकम्पम् ।
क्वचिदभिनवचम्पकोन्निद्रचञ्चत्प्रस्तनासवामोदसम्पर्कः सम्प्राप्तसौरभ्यसम्पत्समीरागमातीततोयकणैः सेकितं नीरहृतं विद्रुतम् ।
सलिलनिधिमनेकरत्नाकरप्रीतिसन्दोहदं सेतुसीमन्तमन्तं विलोक्य द्रुतं विलोचनानां निपातं च यस्याशु साफल्यमापादयः ॥
आदिशब्दात्पञ्चदशभिः रैः समुद्रः षोडशैर्भुजङ्ग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति ॥ ११७ ॥
प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ क्व्र्क्_३।११८ ॥
नगणद्वयानन्तरं सप्तभिर्यैः प्रचितको नाम दण्डकः स्मृतः । पूर्ववदत्रापि प्रतिचरणविवृद्धरेफक्रमेण यगणादिसमस्तगणवृद्ध्या दण्डका भवन्ति । यथा ।
पूर्वमेकैकाक्षरवृद्ध्या छन्दसां वृद्धिरुक्तास्तथा रेफोपलक्षिता त्रयेण वृद्धिः सा चाचार्यपारम्पर्योपदेशात् तावद्ग्राह्या यावदेकोनमक्षरसाहस्रं भवन्ति । यद्यपि कैश्चिदुक्तं सहस्राक्षरपर्यन्ता दण्डका इति तथापि तृकाणां वृद्ध्या एकोनमेव सहस्रं भवन्तीति ॥ ११८ ॥
॥ इति दण्डकप्रकरणम् ॥
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरछन्दोवृत्तौ समवृत्ताध्यायस्तृतीयः ॥
अर्धसमवृताध्यायः
अथार्धसमवृत्ताध्यायमाह ।
विषमे यदि सौ सलगा दले । भौ युजि भाद्गुरुकावुपचित्रम् ॥ क्व्र्क्_४।१ ॥
अत्र पादे इति वक्तव्ये अर्धसमवृत्ताध्याये त्वर्धापेक्षया अर्ध इत्युक्तं सूत्रकारेणेति न दोषः । विषमे प्रथमे तृतीये पादे त्रयः सगणा लघुर्गुरुर्यदि युजि समे द्वितीये चतुर्थे भगणत्रयं द्वौ गुरू तदा उपचित्रा नामार्धसमवृत्तं भवति । यथा ।
त्वदरातिपुरे क्षिति योद्धसे मुक्तमहोरगकञ्चुकेवन्ति (?) ।
उपचित्रमुदीक्ष्य दिवा भयान्नो विविशुर्भवनानि हरिण्यः ॥ १ ॥
भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुतौ द्रुतमध्या ॥ क्व्र्क्_४।२ ॥
यस्यार्धसमवृत्तस्य औजे विषमे प्रथमे तृतीये पादे भगणत्रयं द्वौ गुरू यदि युजि समे द्वितीये चतुर्थे नगणजगणौ जगणयगणौ च तद्वृत्तं द्रुतमध्या नाम । यथा ।
दृष्टिविलासविशेषमशेषं विविधगतीरवचोरचनां च ।
यौवनमेव वधू द्रुतमध्यापयति मनोभवदत्तविवेका ॥ २ ॥
सयुगात्सगुरू विषमे चेत् । भाविह वेगवती युजि भाद्गौ ॥ क्व्र्क्_४।३ ॥
विषमे पादे त्रयः सगणा गुरुश्च युजि समे भवणत्रयं द्वौ गुरू च तदा वेगवती नाम । यथा ।
सुकृतैकनिधेः स्मरबन्धोः कस्यचिदालयमालि सलीलम् ।
इयमुन्नतपीननितम्बा गच्छति वेगवती मदनार्ता ॥ ३ ॥
औजे तपरौ जरौ गुरुश्चेत् । म्सौ ज्गौ भद्रविराड्भवेदनोजे ॥ क्व्र्क्_४।४ ॥
औजे विषमे पादे प्रथमे तृतीये तगणात्परौ जगणरगणौ गुरुश्चेद्यदि भवति अनोजे समे द्वितीये चतुर्थे पादे मगणसगणजगणा गुरू च भवन्ति तद्वृत्तं भद्रविराट् नाम । यथा ।
कुन्देन्दुसमुज्ज्वलेन बद्धं ब्रह्माण्डोदरवर्तिनां नरेन्द्र ।
नीता हरशैलसन्ध्यमेते शुद्धभद्रविराड् पयसे यशस्ते ॥ ४ ॥
असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥ क्व्र्क्_४।५ ॥
असमे विषमे पादे सगणजगणसगणा गुरुश्च समे द्वितीये चतुर्थे भगणरगणनगणा द्वौ गुरू च तद्वृत्तं केतुमती नाम । यथा ।
भवता रणाङ्गणगतेन प्रस्फुरितासिमात्रसचिवेन ।
विजितामराश्वगजयुक्ता केतुमती नरेन्द्र रिपुसेना ॥ ५ ॥
आख्यानिकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत् ॥ क्व्र्क्_४।६ ॥
औजे प्रथमे तृतीये पादे तगणौ द्वौ जगणो गुरू च अनोजे द्वितीये चतुर्थे जगणतगणौ जगणो द्वौ गुरू च तद्वृत्तं आख्यानिकी नाम । यथा ।
ये ये त्वया सञ्जति शत्रुभूपा हता हताशेषविपक्षवर्ग ।
आख्यानिकी कीर्तिरवन्तिनाथ बभूव ते सञ्चरितान्तरिक्षे ॥ ६ ॥
जतौ जगौ गो विषमे समे स्यात्तौ ज्गौ गमेषा विपरीतपूर्वा ॥ क्व्र्क्_४।७ ॥
यस्य प्रथमे तृतीये पादे जगणतगणजगणा द्वौ गुरू च समे पादे द्वौ तगणौ जगणो द्वौ गुरू च तद्वृत्तं विपरीताख्यानिकी नाम । यथा ।
ध्रुवं समागच्छति जीवितेश श्रुत्वादिकारुण्यपरं वचो मे ।
भवेन्न चेद्दैववशादिहान्या आख्यानिकी मे विपरीतपूर्वा ॥
आख्यानिकी वार्ताहारिकोच्यते । एतयोश्च पूर्वोक्तोपजात्यन्तर्गतत्वे विशेषसञ्ज्ञार्धसमवृत्ताध्याये पाठः ॥ ७ ॥
सयुगात्सलघू विषमे गुरुर्युजि नभौ च भरौ हरिणप्लुता ॥ क्व्र्क्_४।८ ॥
यस्या विषमे पादे सगणत्रयं लघुगुरू च समे पादे नगणभगणौ भगणरगणौ च तद्वृत्तं हरिणप्लुता नाम । यथा ।
यदि शीघ्रगतिर्हरिणप्लुतान्सुविषमांस्तनुते पथिकः पथि ।
जलदागमने प्रियया तदा भवति सङ्गतिरर्धशरीरया ॥ ८ ॥
अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ ॥ क्व्र्क्_४।९ ॥
विषमे पादे नगणौ रगणो लघुश्च गुरुश्च भवन्ति समे पादे नगणजगणौ जगणरगणौ तद्वृत्तं अपरवक्त्रं नाम । यथा ।
जलदगलपिशङ्गलोचनं मदनरिपोः शशिखण्डमण्डितम् ।
अपहरतु भयानि दक्षिणं तदपरवक्त्रभयङ्करं सताम् ॥
अस्य वैतालीयान्तर्गतत्वे ऽपि विशेषसञ्ज्ञार्थ इहोपन्यासः ॥ ९ ॥
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥ क्व्र्क्_४।१० ॥
यस्य विषमे पादे नगणद्वयं रगणात्परो यगणः समे नगणजगणौ जगणरगणौ गुरुश्च तद्वृत्तं पुष्पिताग्रा नाम ।
चलकिशलयवत्यशोकशाखा तव चरणाहतिमात्रपुष्पिताग्रा ।
शशिमुखि सखि मुञ्च मानमस्या मदनमहोत्सव एष याति शून्या ॥
इयमप्यौपच्छन्दसिकं विशेषसञ्ज्ञाज्ञापकार्थमत्रोच्यते ॥ १० ॥
वदन्त्यपरवक्त्राख्यं
वैतालीयं विपश्चितम् ।
पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ क्व्र्क्_४।११ ॥
स्यादयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ क्व्र्क्_४।१२ ॥
यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तद्वृत्तं यवात्परामतीयं भवतीत्यर्थः । यथा ।
मालवक्षितीश मासमुद्गशालि यवानतारिभूयमेदिनी समग्रा ।
आत्मसात्कृता त्वया रिपून् विजित्य समग्रसैन्यसंयुतानपि प्रसह्य ॥ १२ ॥
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छन्दोवृत्तौ अर्धसमवृत्ताध्यायः चतुर्थः ।
विषमवृत्ताध्यायः
विषमवृत्ताध्याय आरभ्यते ।
मुखपादो ऽष्टभिर्वर्णैः ।
पदचतुरूर्ध्व-प्रकरणम्
[पदचतुरूर्ध्व-प्रकरणम् (५।१-५)]
परे ऽस्मात् मकरालयैः क्रमाद्वृद्धाः ।
सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यम् ।
तदभिहितममलधीभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ क्व्र्क्_५।१ ॥
प्रथमपादो ऽष्टाक्षरः । परे च द्वितीयतृतीयचतुर्थाः । अस्मात्प्रथमपादात्मकरालयैश्चतुर्भिश्चतुर्भिरक्षरैः क्रमाद्वृद्धा वर्धिताः । क्रमादिति को ऽर्थः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमाद्वृद्धिं प्राप्ताः । सततमनवरतं इति विविधैश्चतुर्विंशतिप्रकारप्रस्तारेण विचित्रैः पादैः प्राप्तसौन्दर्यं तद्वृत्तं आचार्यैः पदचतुरूर्ध्वं नामोक्तम् । यथा ।
आक्रम्यमाकृष्य धनु-
र्ये त्वया निहिता रणाङ्गणे शरैः ।
रिपवः सहसा गतासवः क्षितिपते श्रुतम् ।
पदचतुरूर्ध्वं न चलन्ति तत्रैव निपतन्ति सशल्याः ॥
अत्र गणपादाभावात् गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । षोडशद्वादशअष्टौ षोडशविंशतिद्वादश अष्टौ इत्यादि ॥ १ ॥
प्रथममुदितवृत्ते ।
विरचितविषमचरणभाजि ।
गुरुकयुगलनिधन इह कलित आङा ।
विधृतरुचिरपदविततियतिरिह भवति पीडः ॥ क्व्र्क्_५।२ ॥
प्रथममुदितवृत्ते पदचतुरूर्ध्वे विरचितान् विषमान् अष्टौद्वादशषोडशविंशत्यक्षरान् पदान् भजतीति तस्मिन् विषमचरणभाजि इह छन्दसि आङा कलितो युक्तः पीडो भवति । आपीड इत्यर्थः । क्व सति इत्याह । गुरुकयुगलनिधने गुरुद्वयं निधने ऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । विधृतरुचिराणां पादानां वितत्या यतिर्विरामो यस्य स तथोक्तः । अन्ते गुरुद्वयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा ।
ध्रुवमिह वनितानां
हृदि विनिहितदयितगुणानाम् ।
प्रसरति मलयमरुति विरहवतीनां
स्मरसुहृदि विजयिनि भवति नियतमसुविनाशः ॥
द्विगुरूणि छन्दसि आपीडेति त्रयाणां गुरूणां अप्रवेशाच्छर्गण्ड इति नाम नोक्तम् ।
इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतुर्विंशतिभ्यस्त्रीनवकृष्य समान्यभिधातुमाह ॥ २ ॥
प्रथममितरचरणसमुत्थं
श्रयति जगति लक्ष्म ।
इतरदितरचरणजनितमपि च तुर्यं
चरणयुगकमविकृतमपरमिह कलिका सा ॥ क्व्र्क्_५।३ ॥
आपीडस्य प्रथमं तुर्यं चतुर्थं इतरचरणसमुत्थं द्वितीयपादं द्वादशाक्षरोपलक्षितं लक्ष्म श्रयति भजति । को ऽर्थः । प्रथमपदे द्वादशाक्षरः । द्वितीयो ऽष्टाक्षरः । अपरमपि चरणयुगलमविकृतमप्रत्ययाभावमित्येवंलक्षणा कलिका नाम । मञ्जरीति वक्तव्ये छन्दोभङ्गभयात् कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा ।
अधमजनसुहृदि कलिकाले
सुजनकृतविरोधे ।
सकलुषमुषि सपदि विधुवनायाः
तदनु विमनमनसि मुदमिह जनयति निवासा ॥ ३ ॥
द्विगुरुयुतसकलचरणान्ता
मुखचरणरचितमनुभवति तृतीयः ।
चरण इह हि लक्ष्म
प्रकृतमपरमखिलमपि यदि भवति लवली सा ॥ क्व्र्क्_५।४ ॥
यस्यास्तृतीयः पादः प्रथमचरणरचितं लक्षणमनुभवति द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता लवली नाम । अपरं लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा ।
गगनतलममलमलिमेतत्
सपदि शशभृदयं अनलवितिकरौघैः ।
जनयति च लवल्याः
चलमिति सरसं भुविद्भविपरिणति(?) परिपीडः ॥ ४ ॥
प्रथममधिवसति यदि तुर्यं
चरमचरणपदमवसितिगुरुयुग्मा ।
निखिलपरमुपरितनसममिह ललितपादा
तदियममृतधारा ॥ क्व्र्क्_५।५ ॥
प्रथमं पादमष्टाक्षरं चरमचरणपदं पश्चिमपादस्थानं यद्यधिवसति । अपरमप्यन्यत्सर्वं उपरितनं पूर्ववत् । अन्ते गुरुद्वययुक्ता सुललितपदपङ्क्तिरमृतधारा नाम । यथा ।
शशधरमुखि सखि परिरम्भं
तव मम वपुषि मलयजरसनिषेकः ।
श्रवणपुटयुगलसुखकृदतिचतुरमभिहृद्या
वचनममृतधारा ॥
पिङ्गलनागस्तु पदचतुरूर्ध्वादिषु प्रथमपादविपर्यासे सति मञ्जर्यादि नामानि वीक्ष्यति ॥ ५ ॥
॥ पदचतुरूर्ध्वप्रकरणम् ॥
उद्गता-प्रकरणम्
[उद्गता-प्रकरणम् (५।६-८)]
सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता ।
त्र्यङ्ध्रिगतभनजला गयुता सजसा जगौ चरणमेकत पठेत् ॥ क्व्र्क्_५।६ ॥
प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो भवन्ति त्रिसङ्ख्योपलक्षितो ऽङ्ध्रिस्त्रङ्ध्रिस्तृतीयः पादस्तस्मिन् गता भगणनगणजगणलघुगुरवस्तैर्युता । चतुर्थे चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा उद्गता नाम । एकत इति । प्रथमं द्वितीयेन सहाविलम्बितं पठेदित्यर्थः । यथा ।
जितमत्सरा सुकृतिनो ऽपि परिहृतकलङ्कबान्धवाः ।
वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्गतास्तनुः ॥ ६ ॥
चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतम् ।
र्नौ भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ क्व्र्क्_५।७ ॥
यद्युद्गतायास्तृतीये पादे रगणनगणभगणगुरवो भवन्ति तदा सौरभकं नाम वृत्तं भवेत् । यथा ।
मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः ।
मन्दमन्दमयमेतितरां घनसारसौरभकमुद्वमन्निव ॥ ७ ॥
नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ क्व्र्क्_५।८ ॥
यद्युद्गतायास्तृतीये चरणे द्वौ नगणौ द्वौ सगणौ च भवतः तदा ललितं नाम । शेषमुद्गतावत् । यथा ।
ललिताङ्गहाररमणीयमभिनवललितं समांसलम् ।
इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम् ॥ ८ ॥
॥ उद्गताप्रकरणम् ॥
उपस्थितप्रचुपित-प्रकरणम्
[उपस्थितप्रचुपित-प्रकरणम् (५।९-११)]
म्सौ ज्भौ गौ प्रथमाङ्ध्रिरेकतः पृथगन्यत्
त्रितयं सनजरगास्तथा ननौ सः ।
त्रिनपरिकलितजयौ
प्रचुपितमितमुदितमुपस्थितपूर्वम् ॥ क्व्र्क्_५।९ ॥
यस्य प्रथमे पादे मगणसगणजगणभगणा द्वौ गुरू एकतः । पृथक् अन्यत्त्रितयं पादत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे द्वौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्वृत्तं उपस्थितपूर्वं उपस्थितप्रचुपितमित्यर्थः । यथा ।
आरुह्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमञ्जरिं सगर्वा ।
निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमालि ॥ ९ ॥
नौ पादे ऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्ध्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं खलु वृत्तम् ॥ क्व्र्क्_५।१० ॥
तदेव पदचतुरूर्ध्वं तृतीये पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरूर्ध्वस्याङ्धिः प्रथमाङ्ध्रिवत् कृता यतिर्यस्य क्रियाविशेषणस्य तत्प्रथमाङ्ध्रिकृतयतिर्यथा भवति । एवमपरपादत्रयं पूर्वसदृशमिह तन्त्रे तद्वृत्तं आचार्यैर्वर्धमानं नामोक्तम् । यथा ।
पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः ।
विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ १० ॥
अस्मिन्नेव तृतीयके पादे तजरा स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ।
तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ क्व्र्क्_५।११ ॥
अस्मिन्नेव पदचतुरूर्ध्ववृत्ते तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादत्रयमपि पूर्वसमं भवति तदा शुद्धविराट्पुरःस्थितं आर्षभं वदन्ति शुद्धविराडार्षभमित्यर्थः । यथा ।
बिभ्राणा वदनं शशाङ्कबिम्बसमानं कमलायतनयना कृशाङ्गशोभिता ।
पीनोच्चपयोधरद्वया जनयति मुदमधिकतरां वनितेयम् ॥ ११ ॥
॥ उपस्थितप्रचुपितप्रकरणम् ॥
शिष्टम्
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ।
यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ क्व्र्क्_५।१२ ॥
विषमाक्षराणि येषु ते पादा यस्मिन् विषमाक्षरपादं यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपादं षट्पादं वा दशधर्मवत् । यथा ।
दश धर्मं न जानन्ति धृतिराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तश्श्रान्तः क्रुद्धो बुभुक्षितः ।
त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ इति षट्पदी गाथा ।
इत्येवमादि अस्मिन् च्छन्दस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्गाथेति विद्वद्भिरुक्तम् । मङ्गलगीतिकावेष्टकविपद्विध्रुवकचच्चरीपाद्धतिकाद्विपथकप्रभृति तत्सर्वं गाथासञ्ज्ञमवगन्तव्यम् । छन्दसामानन्त्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसङ्ग्रहणीयं एका सञ्ज्ञा कृतेति ॥ १२ ॥
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छन्दोवृत्तौ विषमवृत्ताध्यायः पञ्चमः ॥
षट्-प्रत्ययाध्यायः
[प्रस्तारः]
प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगुक्रिया ।
सङ्ख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ क्व्र्क्_६।१ ॥
इदानीं उक्तानां वृत्तानां षट्प्रत्ययानाह ।
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ क्व्र्क्_६।२ ॥
ऊने दद्याद्गुरूण्येवं यावत्सर्वलघुर्भवेत् ।
प्रस्तारो ऽयं समाख्यातः छन्दोविचितिवेदिभिः ॥ क्व्र्क्_६।३ ॥
पादे सर्वगुरौ यावतां वर्णानां वृत्तस्य पादस्तावन्त एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छन्दसि आद्याद्गुरोरधः अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनन्तरं न्यस्तलघोः सकाशात् शेषेभ्यो वर्णेभ्यो अधः किं स्थाप्यत इत्याह । यथोपरि तथा शेषं । यद्युपरि गुरुस्तदा अधस्तादपि गुरुर्यद्युपरि लघुस्तदा अधस्तादपि लघुः शेषम् । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनन्तरं त्रीणि गुरूणी स्थाप्यन्ते । भूयः पुनरपि कुर्यादमुं विधिमिति । लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात् । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावाद्यः पूर्वदेशादूने दद्याद्गुरूणि इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । एवमनेन प्रकारेण तावन्न्यासः कर्तव्यो यावत्सर्वलघुः पदो भवति । प्रस्तार्यते इति प्रस्तारः वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छन्दांसि विलीयन्ते अस्यामिति छन्दोविचितिश्छन्दःशास्त्रम् । प्रस्तारो व्याख्यातः ॥ २-३ ॥
[नष्टम्]
इदानीं नष्टं व्याख्यातुमाह ।
नष्टस्य यो भवेदङ्कः तस्यार्धे ऽर्धे समे च लः ।
विषमे चैकमाधाय तदर्धे ऽर्धे गुरुर्भवेत् ॥ क्व्र्क्_६।४ ॥
प्रस्तारदर्शितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुप्तं भवति तस्य नष्टस्य यो भवेदङ्क एकादिसङ्ख्या तस्य अर्धे ऽर्धे समे च अङ्के सति लो लघुर्भवति । विषमे एकं आधाय प्रक्षिप्य तस्यार्धे ऽर्धे गुरुर्भवेत् । यथैतस्मिंश्चतुरक्षरे छन्दसि पञ्चमं वृतं नष्टम् । तस्य अङ्कः पञ्च स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्धं क्रियन्ते । अर्धितास्त्रयो भवन्ति । तदर्धे गुरुः प्राप्यते पुनस्त्रयो ऽर्धं न प्रयच्छन्ति । सैकाश्चत्वारः । ते ऽपि अर्धस्तदर्धे पुनर्लब्धो गुरुद्वयोः समत्वात् । तदर्धे लघुः प्राप्यते पुनरेको ऽर्धं न प्रयच्छति । सैकोर्द्व्यः तदर्धे पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम् । तथा च । आद्यौ द्वौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । एतच्चतुरक्षरे छन्दसि पञ्चमं वृत्तं भवति ॥ ४ ॥
उद्दिष्टम्
[उद्दिष्टम्]
उद्दिष्टं व्याख्यातुमाह ।
उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।
लघुस्था ये तु तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ क्व्र्क्_६।५ ॥
केनचित्तद्वृत्तं प्रस्तार्यकतमत् इति सङ्ख्यापरिज्ञाना उक्तं तदुद्दिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः सङ्ख्यया नष्टमुद्ध्रियते । अत्र पुनर्वृत्तं ज्ञायते सङ्ख्या न ज्ञायते अतः सङ्ख्यापरिज्ञानार्थं उद्दिष्टमिदमुच्यते । तस्य उद्दिष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि द्विगुणानङ्कान् समालिखेत् । यथा । अस्मिन्नेव चतुराक्षरे छन्दसि एकं वृत्तं उद्दिष्टं तस्य द्वौ वर्णौ गुरू ततो लघुस्ततो ऽपि गुरुः । तत्र उद्दिष्टे वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरङ्काश्चत्वारः तैश्चतुर्भिः सैकैः एकेन सहितैः पञ्चभिरुद्दिष्टं भवेत् । उद्दिष्टसङ्ख्या भवेत् । चतुरक्षरायां जातौ तत्पञ्चमं वृत्तं भवतीत्यर्थः ॥ ५ ॥
[एकद्वयादिलगक्रिया]
एकद्व्यादिलगुक्रियार्थमाह ।
वर्णान् वृत्तभवान् सैकान् औत्तराधर्यतः स्थितान् ।
एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत् ॥ क्व्र्क्_६।६ ॥
उपान्त्यतो निवर्तेत त्यजन्नैकैकमूर्ध्वतः ।
उपर्याद्याद्गुरोरेवमेकद्व्यादिलगुक्रिया ॥ क्व्र्क्_६।७ ॥
यावन्त एव वृत्तभवा वर्णा तावत एव सैकान् एकसहितान्यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान् सैकान् पञ्च । औत्तराधर्यतःस्थितान् उपर्युपरिभावेन स्थितान् एकादिक्रमेणैव एतानुपरि उपरि निक्षिपेत् निदध्यात् । उपान्त्यतो अन्त्यसमीपान्निवर्तेत व्याद्युद्येत । त्यजन् परिहरन् एकैकं ऊर्ध्वभागात् । एवमनेन प्रकारेण कस्मादियं एकद्व्यादिलगुक्रियां प्रवर्तत इत्याह । उपर्याद्याद्गुरोरिति उपरिस्थितान् आद्याद्गुरोः । को ऽर्थः । सर्वगुरुवर्णवृत्तसकाशात् इत्यर्थः । आद्यं किल सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा ।
‘पादे सर्वगुरावाद्याल्लघुं न्यस्येऽति तेन तस्मात् अध इयं एकद्व्यादिलगुक्रिया प्रवर्तते । तत्र पञ्चसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति त्यजन्नेकैकमूर्ध्वत इति वीप्सवशादेकदैव स्थितिमन्तरेण निक्षिप्तत्वात् पुनर्निक्षेपभावादेकैकत्यागश्च न सम्भवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने द्वौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । ‘उपान्त्यतो निवर्तते त्यजन्नेकैकमूर्ध्वतःऽ उपरितनमेकं त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात् पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्भवन्ति उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्माद्देकद्व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि द्विलघूनि षट्त्रिलघूनि चत्वारि चतुर्लघूनि एकं सर्वलघुः एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पञ्चाक्षरादिवृत्तेष्वपि ॥ ६-७ ॥
[उदाहरणम् -
१
४१
६३१
४३२१
१११११]
[सङ्ख्यानम्]
सङ्ख्यार्थमाह ।
[लगुक्रियाङ्कसन्दोहः भवेत्सङ्ख्याविमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् ॥ क्व्र्क्_६।८ ॥ ]
लगुक्रियायां ये अङ्कास्तेषां सन्दोहस्तस्मिन्विमिश्रिते पीडीकृते सङ्ख्या भवेत् । इयं तावद्धारणं स्यात् । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः पूर्वमेव व्याख्यातः ।
पक्षान्तरमाह ।
उद्दिष्टस्य वृत्तस्य उपरि ये अङ्का द्विगुणास्तेषां समाहारः एकीभावः सैको वा अथवा जनयेदुत्पादयेदिमां सङ्ख्याम् । यथा । चतुरक्षरजातौ द्विगुणा ये अङ्का उपर्यारोपितास्तेषां समाहारः पञ्चदश सैकः षोडशेति ॥ ८ ॥
[अध्वयोगः]
अध्वार्थमाह ।
सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।
वृत्तस्याङ्गुलिकीं व्याप्तिमधः कुर्यात्तथाङ्गुलम् ॥ क्व्र्क्_६।९ ॥
चतुरक्षरजातौ या षोडशसङ्ख्या स्याद्द्विगुणा द्वात्रिंशतिः एकोना एकरहिता एकत्रिंशतिः सद्भिः पण्डितैरध्वा मार्गः प्रकीर्तितः । कथम् । वृत्तस्य आङ्गुलिकीं अङ्गुलप्रमाणां व्याप्तिं कुर्यात् ॥ ९ ॥
अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्द्दिशति ।
वंशे ऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता ।
विप्रः पव्येकनामा विमलतरमतिः शैवतत्वावबोधे ॥ क्व्र्क्_६।१० ॥
केदारस्तस्य सूनः शिवचरणयुगाराधनैकाग्रचित्तः ।
छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्याम् ॥ क्व्र्क्_६।११ ॥
वंशे ऽन्वये ऽभूज्जातः कश्यपस्य कश्यं सोमं पिबतीति कश्यपः कश्यपशब्देन यद्यपि सुरा एवाभिधीयते कथ्यते । तथाप्यत्र सोममुच्यते सुरापानस्य ब्राह्मणे दिजे निषिद्धत्वात् अन्वयार्थेन वंशार्थेन क्रनुयायित्वमुक्तं स्यात् (?) । शिवस्य एते शैवा ये सिद्धान्तास्तेषां वेत्ता । ‘विद-विचारणे’ इत्येतस्य रूपं न पुनः ‘विद-ज्ञाने’ । तस्याशक्यत्वात् । यो हि विचारयति चिन्तयति सो अवश्यं वेत्ति नह्यविदितं विचारयितुं शक्नोति विशेषेण प्रतिपूरयति स्वर्गापवर्गादिकानि स विप्रः विमलतरमतिः विमला विस्तीर्णा तरला मनोहरा मतिर्यस्य अतिशयेन विमलमतिः । क्व । शैवशास्त्रावबोधे । केदारनामा तस्य पुत्रः शिवः शान्तो देवताविशेषः तस्याराधनं तत्र एकाग्रं तन्निष्ठं चित्तं यस्य सः । तथा तेन केदारेणाभिरामं रमणीयं मनोहरं छन्दः प्रकर्षेण विरचितं वृत्तरत्नाकराख्याम् ॥ १०-११ ॥
इति पण्डितश्रीसुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां छन्दोवृत्तौ षट्प्रत्ययाध्यायः षष्ठः समाप्तः ॥
श्रीः ।
शुभं भूयाल्लेखकस्य ।
वसुयुग्मे ॥॥॥। शुक्लश्च पञ्चम्यां हंसराजेन मुनिना ऽलिखट्टीका मनोरमा ॥
Intro
Kedarabhatta: Vrttaratnakara, with Sulhana’s Sukavihrdayanandini
Kedarabhatta: Vrttaratnakara, with Sulhana’s Sukavihrdayanandini (comm.)
Based on a manuscript from Patan.
Input by Dhaval Patel
BOLD for mula text and catch-words in comm.
METRICS:
^ = short
_ = long