[[वृत्तरत्नाकरव्याख्या Source: EB]]
[
** वृत्तरत्नाकरम्
अथ प्रथमोऽध्यायः
**
सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माच्चुतार्चितम्।
गौरीविनाशयकोपेतं शङ्करं लोकशङ्करम्॥ 1॥
वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद् द्विजोत्तमः।
तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः॥ 2॥
तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम्।
वृत्तरत्नाकरं ननाम बालानां सुखबुद्धये॥ 3॥
नारायणी :-
नत्वा गणेशं वाग्देवीं पिङ्गलं मातरं गुरुम्।
अन्यानपि च भाष्यादिकर्तुंश्छन्दोविशारदान्॥ 1॥
श्रीभट्टराममेश्वरसूरिसूनुर्नारायणः स्वामनुरुध्य बुद्धिम्।
सङ्क्षेपवृत्त्या विवृतिं सुवृत्तरत्नाकरे व्यक्ततया तनोति॥ 2॥
विशिष्टशिष्टाचारमूलभूता `स्वस्ति न इन्द्रो वृद्धश्रवाः’ इत्यादिवैदिकलिङ्गकल्पितश्रुतिप्रमाणकविशिष्टदेवतानमस्कारजनितनिर्विघ्नतादिस्वनामकीर्त्तनपूर्वकं स्वग्रन्थस्य ग्रन्थान्तरैरगतार्थानां च सूचयन् सप्रयोजनकर्तव्यं सामान्यज्ञानपूर्वकविशेषजिज्ञासुप्रवृत्तिसिद्ध्यर्थं सामान्यतः प्रतिजानीतेसुखेत्यादिश्लोकत्रयेण।
सुखेति – ब्रह्माऽच्युताभ्यां = विधातृविष्णुभ्याम्, अर्चितं = पूजितम्, गौर्या = पार्वत्या, विनायकेन = गणाधिपेन चोपेतम्। लोकानां = चतुर्दशभुवनानाम्, भूरादीनां सप्तानां वा। शङ्करं = सुखकर्तारम्। एवंविधं शङ्करं महादेवम्। सुखसन्तानसिद्ध्यर्थं = प्रणामजनिताऽविघ्नतादिसम्भूताऽव्याकुलीभावबुद्धिवैभवादिजनितसुखपरम्पराप्राप्त्यर्थम्। नत्वा, तेन = केदारेणेदं छन्दः क्रियते इति तृतीयश्लोकेनाऽन्वयः। वेदानामृगादीनाम्। अर्थम्, शैवशास्त्राणि च रुद्रयामलादीनि जानातीत्येवंविधः पव्येकसंज्ञो द्विजोत्तमो ब्राह्मणोत्तमोऽभूत्। तस्य पुत्रः केदारनामा शिवचरणारविन्दपूजनतत्परोऽस्ति। लक्ष्येणोदाहरणेन मात्रावर्णाऽन्यतरनियतात्मकेन छन्दसा, लक्षणेन च तन्नियमकथनात्मकेन छन्दसा तदभिन्नेन संयुतं युक्तम्। लक्ष्यमेव लक्षणमिति विग्रहः। वृत्तरत्नानामाकरः खनिर्यत्र तत्। यद्वा तेषामाकरः समूहो यत्र।
`आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते’
इति विश्वप्रकाशोक्तेः। एतयैवाऽन्वर्थसंज्ञया नाम प्रसिद्धम्। छन्दः = तत्प्रतिपादकत्वाल्लक्षितं तच्छास्त्रम्। बालानां = छन्दःशास्त्राऽज्ञानम्, सुखेनाऽल्पोपायेन सिद्धये छन्दोज्ञानार्थं क्रियते इत्यर्थः। सुखपदस्य प्रथमप्रयोगादेतच्छ्रावयितृणां श्रोतृणां च सुखाऽतिशयः सूचितः। यद्वा बालप्रतिपत्तेः प्रयोजनत्वेऽपि स्वप्रयोजनत्वाऽभावादेतद्ग्रन्थजनितबालव्युत्पत्तिजनितोपकाराऽदृष्टेन जनिष्यमाणस्वर्गादिसुखपरम्परैव स्वेष्टा स्वग्रन्थप्रयोजनत्वेनाऽनेन निर्दिश्यते। ब्रह्मविष्णुगौरीविनायककीर्तनेन च मङ्गलाऽनन्तरं तदनु स्मृतिरूपं सूचितम्। शङ्करमित्यत्र शंशब्दस्याऽव्ययत्वाद्विभक्त्यन्तत्वाऽभावात्। `सुपो धातुप्रातिपदिकयोः’ (पा0 सू0 2-4-71) इति न भवति। द्विजोत्तमग्रहणेन च ब्राह्मणकर्तृत्वादस्य ग्रन्थस्य श्रवणे दोषाऽभावः सूचितः। लक्ष्येत्यादिना लक्ष्येभ्यः काव्यादिभ्यः केवललक्षणेभ्यश्च सूत्रादिभ्यो भिन्नलक्ष्यलक्षणेभ्यश्च वृत्त्यादिभ्योऽतिशयः सूचितः॥ 1-3॥
पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा।
मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते॥ 4॥
नारायणी - एवं सामान्यतो ग्रन्थकारणं प्रतिज्ञाय पूर्वाऽऽचार्योक्तिमूलकतयास्वकल्पितशङ्काजनितश्रोत्रनादरं निराकर्तुं प्रतिपाद्यमर्थं विशेषतः प्रतिजानीते -
पिङ्गलेति। पिङ्गलेन = सूत्रकर्ता, आदिपदाद्भाष्यकारादिभिश्च। आचार्यैरवधेयवचनैः। यल्लौकिकं छन्दो मात्रावर्णविभेदेन = इदं मात्राच्छन्दः आर्यादि, इदं वर्णच्छन्दः सामान्यादि, इति भेदेन। द्विधा = द्विप्रकारमुक्तं तच्छन्दः। इह = ग्रन्थे, कथ्यते इत्यर्थः। लौकिकशब्देन वेदवेदाङ्गाऽनधिकारिणाम् त्रैवर्णिकेतराणामप्यस्मिन् ग्रन्थेऽधिकार इति दर्शयति। वर्णग्रहणेन च `मात्राच्छन्दो गणच्छन्दः’ इति कैश्चिदुक्तो द्वेधा विभागः पराकृतः। तादृशविभागे ह्येकाक्षराणां श्रयादीनामसङ्ग्रहाऽऽपत्तेः। वर्णच्छन्दस्त्वेन विभागे च गणच्छन्दसामपि सङ्ग्रहादिति भावः। अन्ये तु गणमात्राक्षरच्छन्दस्त्वेन त्रैविध्यमाहुः। यदुक्तम् –
आदौ तावद् गणच्छन्दो मात्राच्छन्दस्ततः परम्।
तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम्॥ इति॥
गणच्छन्द आर्यादि, मात्राच्छन्दो वैतालीयादि, अक्षरच्छन्दः सामान्यादीति। तदप्यनेन पराकृतम्, गणच्छन्दसामपि मात्राच्छन्दःसु सङ्ग्रहात्॥ 4॥
षडध्यायनिबद्धस्य छन्दसोऽस्य परिस्फुटम्।
प्रमाणमपि विज्ञेय षट्त्रिंशदधिकं शतम्॥ 5॥
नारायणी - अन्यकर्तृकसम्भावितच्छन्दोऽन्तरप्रक्षेपनिक्षेपनिराकरणाय ग्रन्थं परिमाणतः परिच्छिनत्ति – षडध्यायेति। परि समन्तात्साकल्येन स्फुटं प्रकटं यथा स्यात्तथा षड्भिरध्यायैर्निबद्धस्य घटितस्याऽस्य च्छन्दसश्च्छन्दोग्रन्थस्य वृत्तरत्नाकराख्यस्य षट्त्रिंशदधिकं षट्त्रिंशत्सङ्ख्याधिकं द्वात्रिंशदक्षराणामनुष्टुप्छन्दसां श्लोकानां शतं 136 परिमाणं ज्ञेयम्। अनुष्टुप्श्लोकपरिमाणमेवात्रगृह्यते। ग्रन्थगणनायां लोके तस्यैव प्रसिद्धत्वात्। एतेनाल्पतरग्रन्थपाठे प्रयासाभावाद्विस्तीर्णभाष्यवृत्त्यादिग्रन्थप्रयासनैरपेक्ष्येणैव प्रसिद्धसकलच्छन्दोज्ञानसिद्धेर्व्युत्पित्सुभिरयमेव ग्रन्थोऽभ्यसनीय इति सूचितम्॥ 5॥
म्यरस्तजभ्नगैर्लान्तै- रेभिदर्शभिरभरैः।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना॥ 6॥
नारायणी – इदानीं सकलवाग्व्यापित्वेन मादीन्गणान्स्तुवंल्लक्षणकथनार्थमुद्दिशति – म्यरस्तेति। मगण-यगण-रगण-सगण-तगण-जगण-भगण-नगण-गुरुभिर्लान्तैर्लघुयुक्तैरेभिर्दशभिर्गणाष्टकगुरुलघुरूपैरक्षरैः समस्तवाङ्मयं वाग्जालं व्याप्तम्। अस्तीति शेषः। अत्रोपमा विष्णुना त्रैलोक्यं यथा व्याप्तं तद्वत्। अत्र स्वरोच्चारणं सौकर्यार्थम्। एवमुत्तरत्रापि।
वक्ष्यमाणत्र्यक्षरप्रस्तारक्रमोपपन्नक्रमनिर्देशकसूत्रानुरोधेनाऽयं गण उक्तः। सूत्राणि तु `धी श्री स्त्रीम्’ (पिं.सू. 2/1), `वरा सा य्’ (पिं.सू.2/2), `का गुहा र्’ (पिं.सू. 2/3), `वसुधा स्’ (पिं.सू.2/4), `सा ते क्व त्’ (पिं.सू.2/5), `कदा स ज्’ (पिं.सू.2/6), `किं वद भ्’ (पिं.सू. 2/7), ` न हस न्’ (पिं.सू. 2/8), `गृ ल्’ (पिं.सू. 2/9), `गन्ते’ (पि.सू.2/10) इति॥ 6॥
तर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ।
ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः॥ 7॥
नारायणी – क्रमेण गणाल्ँलक्षयति - अत्र छन्दःशास्त्रेऽष्टौ त्रिकारास्त्र्यक्षरा गणा भवन्ति। चतुरक्षरा गणा मा भूवन्निति त्रिका इत्युक्तम्। परिमाणे कन्। तानाह – सर्वेति। सर्वे गवो गुरवो यस्मिन्नसौ सर्वगुः। `नामैकदेशे नामग्रहणम्’ इति न्यायेन गुशब्दो गुरुवाची। एवं लशब्दो लघुवाची। एवं सर्वत्र। मो=मगणः। मुखे आदावन्तर्मध्ये लो लघुर्ययोस्तौ य-रौ=यगण-रगणौ। अन्ते गलौ गुरुलघू ययोस्तौ क्रमेण स-तौ-सगण-तगणै। गु = गुरुर्मध्य आद्यश्च ययोस्तौ ज्-भौ = जगण-भगणौ। त्रिलस्त्रिलघुर्नो नगणः। एतेषां प्रस्तारो यथा –
म0 य0 र0 स0 त0 ज0 भ0 न0
ऽऽऽ ।ऽऽ ऽ।ऽ ॥ऽ ऽऽ। ।ऽ। ऽ॥ …
एतेषां क्रमनियमश्च प्रस्तारे प्रकटीभविष्यति। अन्यत्रापि मादीनां स्वरूपमुक्तम् –
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः।
जोगुरुमध्यगतोरलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः॥ इति॥
मो भूमिस्त्रिगुरुः श्रियं दिशति यो वृद्धिं जले चादिलो,
रोऽग्निर्मध्यलघुर्विनाशमनिलो देशाटनं सोऽन्त्यगः।
तो व्योमान्तलघुर्धनापहरणं, जोऽर्को रुजं मध्यगो,
भश्चन्द्रो यश उज्ज्वल मुखगुरुर्नो नाक आयुस्त्रिलः॥
इदं च फलं काव्यनायकस्य तत्कर्तुः पठितुर्वा यथायोग्यं व्यस्तं समुच्चितं वा ज्ञेयम्। यत्र नायकादिभिः प्राचीना देवतादिः स्वकल्पिता वा तत्र कर्तुः श्रोतृणां चेत्यादि। क्वचित्तु देवतामात्रमवादि –
पृथ्वीजलशिखिवाता गगनं सूर्यश्च चन्द्रमा नाकः।
प्रस्तारक्रमवशतो देवा ज्ञेया यथासङ्ख्यम्॥ इति॥
गणदेवतादिकोष्ठकम्।
अथ यदि दैवाद्दुष्टफलो गणः काव्यादौ कृतः, तदा तद्रक्षणार्थं द्वितीयो गणः शोध्यः। तत्र मगण-नगणौ मित्रसंज्ञौ, भगण-यगणौ भृत्यौ, ज-तावुदासीनौ, र-सावरी नीचौ च। तदुक्तम् –
म - नौ मित्रे भ-यौ भृत्यावुदासीनौ ज-तौ स्मृतौ।
र-सावरी नीचसंज्ञौ द्वौ द्वावेतौ मनीषिभिः॥ इति॥
तथा च यदि मित्रमगणान्मित्रगणस्तदा समृद्ध्यादि फलम्, मित्रगणाद् भृत्यगणे जयादिशुभम्, मित्रादुदासीने शून्यकम्, मित्राच्छत्रौ बन्धुपीडा, भृत्यान्मित्रे तु सर्वकार्यसिद्धिः, भृत्याद् भृत्ये सर्वो लाभः, भृत्यादुदासीने धननाशः, भृत्याद्वैरिणि शोकः, उदासीनान्मित्रे किञ्चिदेव कार्यसिद्धिः, उदासीनाद् भृत्ये सर्वे वशाः, उदासीनादुदासीने न शुभम् न चाशुभम्, उदासीनाच्छात्रौ स्वजनवैरम्, शत्रोर्मित्रे शून्यम्, शत्रोर्भृत्ये गृहिणीनाशः शत्रौरुदासीने स्वकुलक्षयः, शत्रोः शत्रौ काव्यनायकनाशो भवति। इति गणयुगफलम्। तदुक्तम् –
मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडां।
भृत्यान्मित्रादयश्चेद् धृतिमधिकगुणं हानिशोकौ च कुर्युः॥
औदास्यार्थाच्च मित्रादय इह कुसुखं धैर्यमीर्ष्या स्ववैरं।
शत्रोर्मित्रादयश्चेद् भ्रममथ गृहिणीनाशमाधिं विनाशम्॥ इति॥
तथा - मित्रान्मित्रं विधत्ते प्रचुरधनमथो मित्रतो भृत्यसंज्ञः,
स्थैर्यं मित्रादुदासो न किमपि च फलं मित्रतः शत्रुसंज्ञः।
बन्धोः पीडामथो स्माद्यादि खलु नियतं भृत्यतो मित्रसंज्ञः,
सर्वं कार्यं च भृत्याद् भृतगण इह चेदायतिः सर्वलोके॥
भृत्याच्चेत्स्यादुदासो धनविगममथो भृत्यतः शत्रुसंज्ञः
शोकं कुर्यादुदासाद्यदि भवति तदा मित्रसंज्ञोऽल्पकार्यम्।
तस्माद् भृत्यः प्रभुत्वं तत इह सततं स्यादुदासो विनाशं
तस्माच्छत्रुः स्ववैरं विविधगुणहरं सर्वसत्कार्यनाशम्॥
शत्रोर्मित्रं च शून्यं यदि भवति ततो भृत्यसंज्ञो गृहिण्या,
नाशं तस्मादुदासो धनहरमधिकं दुःखदारिद्र्यशोकम्॥
शत्रोः शत्रुर्भवेच्चेद् द्विगणसुसहितो नायकस्यैव नाशं
देशोद्वासं विधत्ते कथयति च फलं पिङ्गलो नागराजः॥ इति॥
अत एव किरात-माघ-नैषधीयेषु दुष्टफलादप्युदासीनाज्जगणादुदासीनस्य तगणस्य सत्त्वान्न शुभं न चाशुभमिति दोषाभावः।
अथ गणशुद्धिप्रसङ्गादक्षरशुद्धिरुच्यते। तच्छुद्धौ हि नायकादीनां सुखं भवति। तदुक्तम् –
`अक्षरे परिशुद्धे तु नायको भूतिमृच्छति’॥ इति॥
अत्र ऋ-ङ-झ-ञ-ट-ड-ढ-ण-प-फ-ब-भ-म-र-ल-ध-ष-ह-लान्संयुक्ताक्षराणि च विहाय शेषाक्षराणि शुभफलानीति संक्षेपः। तदुक्तं भामहेन –
अवर्णात्सम्पत्तिर्भवति मदिवर्णाद्धनशता-
न्युवर्णादख्यातिः सरभसमृवर्णाद्धरहितात्।
तथा ह्येचः सौख्यं ङ-ञ-ण रहितादक्षरगणात्
पदादौ विन्यासाद् भ-र-ब-ह-ल-हाहाविरहितात्॥
तथा – कः खो गोघश्च लक्ष्मीं वितरति, वियशो ङस्तथाचः सुखं छः
प्रीतिं, जो मित्रलाभं, मयमरणकरौ झ्-व्पौ, ट-ठौ खेददुःखे।
डः शोभां, ढो विशोभां, भ्रमणमथच णस्तः सुखं थश्च युद्धम्
दो धः सौख्यं, मुदं नः, सुखभयमरणक्लेशदुःखं पवर्गः॥
यो लक्ष्मीं, रश्च दाहं, व्यसनमथ ल-वौ, शः सुखं, षश्च खेदं,
सः सौख्यं हश्च खेदं, विलयमपि च लः, क्षः समृद्धिं करोति।
संयुक्तं चेह न स्यात्सुखमरणपटुर्वर्णाविन्यासयोगः
पद्यादौ गद्यवक्त्रैः वचसि च सकले प्राकृतादौ समोऽयम्॥ इति॥
तथा दुःखदारिद्र्यवाचका दुष्टाः शब्दाः काव्यादौ न प्रयोज्याः। अयं च प्रयोगनिष्धः काव्यादौ मुक्तकश्लोके चादौ ज्ञेयः। देवतादिवाचके शब्दे तु गणविचारेऽक्षरविचारे वा दोषाऽभावः। तदुक्तं भामहेनैव –
देवतावाचकाः शब्दा ये च भद्रादिवाचकाः।
ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा॥ इति॥
तथा च माघ-किरातयोर्जगणसंयोगयोः प्रयोगेऽपि श्रीशब्दप्रयोगाद्दोषाभाव इत्यलं भूयसा प्रसक्तेन। प्रकृतमनुसरामः॥ 7॥
ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः॥ 8॥
नारायणी – इदानीं मात्राच्छन्दःसूपयोगिनो गणानाह। अत्र शास्त्रे आर्यादिषुच्छन्दःसुस्थिताश्चतुष्कलाश्चतुर्मात्राः पञ्चगणा ज्ञेयाः। प्राकट्याय स्वरूपतस्तानाह – सर्वेति। सर्वत्रान्ते मध्ये आदौ च गुरुर्येषां ते तथा। कथम्भूताः चतुर्लघुना गणेनोपेता युक्ताः। तत्र चतुर्मात्रिकत्वात्सर्वगुरुर्लभते। यथा –
सर्वगुरुः अन्त्यगुरुः मध्यगुरुः आदिगुरुः चतुर्लघुः
ऽऽ ॥ऽ ।ऽ। ऽ॥ …
1 2 3 4 5
अयं गणक्रम आर्यानष्टोद्दिष्टयोरुपयोगीति तत्रैव वक्ष्यते पञ्चकलादयस्तु प्राकृतप्रक्रमे वक्ष्यन्ते संस्कृतेऽनुपयोगात्॥ 8॥
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः।
वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मात्रको लृजुः॥ 9॥
नारायणी – असौ वर्णो ग्=गुरुर्ज्ञेयः कोऽसावित्यपेक्षायामाह – सानुस्वार इति। अनुस्वारेण युक्तः अं-कं-इत्यादिः, विसर्गान्तः अः-कः-इत्यादिः, दीर्घः आ.का. इत्यादिः। इदं प्लुतस्याप्युपलक्षणम्। युक्तपतो युक्तः संयुक्तः परो यस्य सः। संयोगे परभूते यः पूर्वः सोऽपि गुरुरित्यर्थः। यथा विष्णुरित्यादौ विशब्दादिः। पादान्ते श्लोकचरणान्ते वर्तमानो लघुर्गुरुर्वा भवति। लघुत्वेऽपेक्षिते लघुकार्यं, गुरवपेक्षिते गुरुकार्यं करोतीत्यर्थः। अयं च व्यवस्थितविकल्पः। तेन `अथ वासवस्य वचनेन’ (कि.22/1) इत्यादावुद्गतादिपदान्तस्य लघुस्तैव। `तस्याखुरन्यासपवित्रपांसुम्’ (रघु.2/2) इत्यादौ च गुरुतैव। युक्तपरश्चेति व्यञ्जनोपध्मानीयजिह्वामूलीयपराणामुपलक्षणम्। तथा च “तनुवाग्विवभवोऽपि सन्” (रघु0 1/9), “मन्दः कवियशःप्रार्थी” (रघु0. 1/3) इत्येवमादिषु सकारस्य, जिह्वामूलीयोपध्मानीयपक्षे च दकार-शकारयोर्गुरुत्वं सिद्धं भवति। इतरथा नकारस्य पदान्तत्वात् सकारस्य न प्राप्नोति, जिह्वामूलीयोपध्मानीययोश्च योगपरत्वाभावाद्दकारशकार्योर्न प्राप्नोति। तदुक्तम् –
दीर्घं संयोगपरं तथा प्लुतं व्यञ्जनान्तमूष्मान्तम्।
सानुस्वारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम्॥ (पिं0सू0 1-4)
इति व्यञ्जनपरस्य गुरुत्वाल्लघ्वन्तपादेषु सामान्यादिषु व्यञ्जनान्तः पादो न कार्यः। ननु `संयोगे गुरु’ (पा.सू.1-4-11) “दीर्घं च” (पा.सू.1-4-12) इति वदता पाणिन्याचार्येण पादान्तस्थादीनां गुरुसंज्ञाया अनुक्तत्वात्ताद्विरोध इति चेत, मैवम्। `कुण्डा’ `हुण्डा’ इत्यादिषु `गुरोश्च हलः’ (पा.सू. 3-3-103) इत्यकारप्रत्ययस्य, `ईहाञ्चक्रे’ `ऊहाञ्चक्रे’ इत्यादिषु च `इजादेश्च गुरुमतोऽनृच्छः’ (पा.सू.3-1-36) इत्याम्प्रत्ययस्य सिद्ध्यर्थं स्वशास्त्रे संयोगपरदीर्घयोर्गुरुत्वं पाणिनिः प्रत्यज्ञासीत्। अन्यैस्तु स्वशास्त्रे प्रयोजनाभावान्नाम्नाकां नत्वभावादिति न किञ्चिदेतत्। वृत्तिकारस्तु `गन्ते’ (पिं.सू.2-10) इति सूत्रे वाशब्दाऽश्रवणात्सर्वत्र पादान्तस्थो लो गुर्भवतीति व्याचख्यौ, तदयुक्तम्। अथ तत्र लघुसमाप्तिविधायकशास्त्रेण विशेषसूत्रेण सामान्यस्याऽस्य बाध इति मतम्, तदपि न, सिद्धेन हि लघुना समाप्तिर्विधीयते न तु समाप्तिस्थस्य लघुत्वं; येन बाधः स्यात्। `गन्ते’(पिं.सू.2/90) इति सूत्रं त्वन्ते पदान्ते स्थितौ लघुः क्वचिद् गुरुरिति क्वाचित्कत्वाभिप्रायं व्याख्येयम्। तेन न तद्विरोध इत्यलं प्रपञ्चेन। प्रकृतमनुसरामः।
स च प्रस्तारे वक्रःनागराक्षरेऽकारश्लेष (ऽ) चिह्नवज्झ्येयो लेख्यः। पूर्वोक्तेभ्यः सानुस्वारादिभ्योऽन्तः ल् लघुः कोऽसावन्यः मात्रिको मात्रारुपः। एतेन गुरोर्द्विमात्रत्वमुक्तं भवति। स प्रस्तारे कर्तव्ये ऋजुरेखाकारः (।) कार्यः॥ 9॥
पादादाविह वर्णस्य संयोगः क्रमसञ्ज्ञकः।
पुरःस्थितेन तेन स्याल्लघुतापि क्वचिद्गुरोः॥ 10॥
नारायणी – संयोगापरस्य गुरुत्वे क्वचिदपवादमाह – पादादाविति। इहच्छन्दःशास्त्रे पादादौ चरणादौ वर्णस्य वर्णान्तरेण संयोगः क्रमसंज्ञकः पूर्वाचार्यैरुक्त इति शेषः। तेन पादादिसंयोगेन पुरःस्थितेन क्वचिदपेक्षितविषये संयोगपरत्वाद् गुरोरपि लघुता स्यात्। `वा पादान्ते’ (वृ.र.1/9) इत्यत्र पादान्ते लघोर्गुरुत्वं विकल्पितम्। इह तु गुरोर्लघुत्वमिति न पौनरुक्त्यमिति भावो वक्ष्यते॥ 10॥
तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि।
अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति॥ 11॥
नारायणी – गुरोर्लघुतायामुदाहरणं सप्रतिज्ञमाह इदमस्योदाहरणम् – तरुणमिति। अस्य पूर्वश्लोकार्थस्य। अत्र ग्राम्यनागरिकवरागमे ग्राम्यवरे साभिलाषां चतुरवधूंनिन्दगर्भस्तुत्या निवारयन्ती सख्याह – हे सुन्दरि! ग्राम्यजनो ग्रामीणो जनोऽल्पव्येन मिष्टं रसवदशनमश्नाति भुङ्क्ते किं तत् तरुणं कोमलं सर्षपाणां शाकम्, नवानां तण्डुलानामोदनं वाऽपर्युषितौदलं वा, पिच्छिलानि वृद्धानि दधीनीति अल्पद्रव्यौ मिष्टान्नभोजी ग्राम्यजनोऽचतुरोऽयम्। त्वं च सुन्दरी अतोऽमुं परित्यज्य नागरिके साभिलाषा भवेत्यत्र ध्वन्यम्। अत्र सुन्दरीत्यत्र संयोगपरत्वाद् गुरुत्वे सति तृतीये पादे त्रयोदशमात्रता मा भूदिति लघुत्वं प्रतिज्ञायते। तथा च द्वादशमात्रतैवेति भावः। क्वचिदिति व्यवस्थितविकल्पार्थम्। तेन सुन्दरीत्यत्र लघुतैव।
गुणिनामपि निजरूपप्रतिपत्तिः परत एव सम्भवति।
स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात्॥ (वास)
दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य।
इत्यादौ गुरुतैव। आर्यामुदाहरन्त आर्यासु पादव्यवस्थाभावं वदन्तो वृत्तिकृतः पराकृताः। अत एव –
त्रिंभिस्त्रिभिर्गणैः पादावार्यादेर्विषमौ स्मृतौ॥ इति॥
“यस्याः पादे प्रथमे” (श्रु.4) इत्यादि चाभियुक्तैरुक्तं पथ्याभिप्रायं वा, तत्र पादव्यवस्थाया वक्ष्यमाणत्वात्।
ननु `वा पादान्ते’ (वृ.र.1-9) इत्यत्र वर्णमात्रस्य वा पादान्तस्थस्य, गुरुता विकल्प्यते, गुरोरेव वा नित्यप्राप्ता सा विकल्प्यते, लघोरेव वा, नाद्यः, पादान्तवर्णमात्रस्य तेनैव गुरुताविकल्पे पक्षे लघुत्वस्यापि सिद्धत्वात्पादादावित्यस्य वैयर्थ्यप्रसङ्गात्, लघ्वंशेऽप्राप्तविकल्पः, तेनैव पाक्षिकलघुतायाः सिद्धौ पुनर्विधैनवैयर्थ्यात्, `तरुणम्’ (वृ.र.1-11) इत्युदाहरण एव द्वितीयचतुर्थपादान्तयोर्लघ्वोर्गुरुत्वाभावे च्छन्दोभङ्गप्रसङ्गाच्च। न तृतीयः, लघोस्तत्राप्रस्तुतत्वात्, असंयोगपरस्यापादान्तगुरोरक्रमपरत्वात्पाक्षिकलघुत्वाभावप्रसङ्गच्चेति चेत्, अत्र पादान्तवर्णात्रमुद्दिश्य विकल्पितं गुरुत्वं तेन विधीयते इति। विधेयोद्देश्ययोरेकैकावच्छेदादर्थद्वयस्यार्थसिद्धत्वाद्वाक्यभेदाभावः पौरुषेयत्वाद्वा स न दोषः। पादादाविति च तस्यैव विषयं प्रदर्शयद्विवरणम्। तरुणमित्यादिषु गुरोर्लघुतायां तृतीयपाद उदाहरणम् लघोर्गुरुतायां च द्वितीयचतुर्थपादयोरुदाहरणमित्यापातत उत्तरं भवत्। वस्तुतस्त्वप्रस्तुतस्याप्यर्थतो बुद्धिस्थस्य लघोरेव गुरुता तेन विकल्प्यते। पादान्तगुरोस्तु लघुता संयोगपरस्यैवेत्यनेनैवोच्यते। अक्रमपरस्य तु पादान्तगुरोर्लघुता नेष्टैव। अत एव `गन्ते’(पि.सू.2-10) इति सूत्रे `गृ ल्’ (पि.सू.2-9) इति पूर्वसूत्राद् गृग्रहणमनुवर्त्य गृशब्दोपलक्षितस्य ह्रस्वाक्षरस्य पादान्ते वर्तमानस्य गुरुसंज्ञाऽतिदिश्यते इति वृत्तिकारेणोक्तम्। इदं च गुरोर्लघुत्वं संयोगनिमित्तकगरोरेव, न दीर्घादेः। अत्र सोदाहरणो मामकः संग्रहश्लोकः –
युक्तपरत्वनिमित्तकप्रान्तगुरोरेव वेष्यते लघुता।
पादान्तस्थलघोरिह गुरुता वेष्टस्य जानीहि॥ इत्यलं प्रपञ्चेन।
इदं चोपलक्षणं प्रशब्दे ह्रशब्दे च परतोऽपादान्तस्थस्यापि लघुतायाः कवियोगे दर्शनात्। तथा च कुमारसम्भवे – `गृहीतप्रत्युद्गमनीयवस्त्रा’ (कु.7-11) इति प्रशब्दे परतस्तस्य लघुता दृष्टा। माघे च – `प्राप्य नाभिह्रदमज्जनमाशु’ (शि.व.10-60) इति। अन्यत्रापि – `तव ह्रियापह्रियो मम ह्रीरभूत्’ ह्रशब्दे परतो लघुता दृष्टा। अन्ये तु संयोगमात्रे परभूते लघुत्वमतीवतीव्रप्रयत्नतयेत्याहुः। अत एव सरस्वतीकण्ठाभरण उक्तम् –
यदा तीव्रप्रयत्नेन संयोगादेरगौरवम्।
न च्छन्दोभङ्गः इत्याहुस्तदा दोषाय सूरयः॥ (सर. 1-123)
तथा च कविप्रयोगाः रामायणे –
कृतार्थांश्च कृतार्थानां मित्राणां न भवन्ति ये।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते॥ इति।
एवं तदार्या नृपवीरसिह! सीता वचः प्राह विषादयुक्तम्।
एतच्च श्रुत्वा गदितो मया त्वं सीतोपलम्भे प्रकुरुष्व बुद्धिम्॥ (इति च।)
तबह्रियाऽपह्रियौ मम ह्रीरभूच्छशिगृहेऽपि हृतं न धृता ततः।
बहुलभ्रामरमेचकतासमं मम प्रिये! क्व समेध्यति नो पुनः॥ (इति च।)
अन्यत्र च - `धनं प्रदानेन श्रुतेन कर्णौ’ इत्यादि च। प्राकृतेऽपि
जह णहाउ ओइण्णे अब्भन्त (?) मुल्लापिअमंसुअद्धन्तम्।
तह अण्हाआसि तुमं सच्छे गोलाणर्इतु हे।
(यथा स्नातुमवतीर्णे आर्दीभूतमुल्लसितमंशुकार्धान्तम्।
तथा च स्नातासि त्वं स्वच्छे गोदानदीतीर्थे॥ इति।)
अत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद् गुरुत्वेऽपि ण्हल्हादिसंयोगस्यातीवतीव्रप्रयत्नोच्चारणेन पूर्वस्य लघुतायां न च्छन्दोभङ्गो भवति। इदं च महाकविप्रयोगदर्शने भवति, न तु स्वेच्छया। अत एवाहुः –
क्वचिदपि संयुक्तपरो वर्णो लघुरत्र दर्शनेन यथा।
परिह्रसति चित्तधैर्यं दारकटाक्षेषु निर्वृत्तम्॥ इति।
तीव्रप्रयत्ने तु गुरुतैव। `अथ प्रजानामधिपः प्रभाते’ (रघु.2-2) इत्यादौ। तथा इ-हिं-उं-हुं-काराणामेकारौकारयोश्च केवलयोः सव्यञ्जनयोर्वा प्राकृतादिभाषासु विभाषया गुरुता भवति। तदुक्तम् –
इ-हि-कारौ विन्दुयुतौ ए-ओ-शुद्धौ च वर्ण-मिलितौ च।
रहयोर्व्यञ्जनयोगे सविभाषं सर्वमेव लघु॥ इति।
अत्र इ-हिं-कारावित्युपलक्षणम्। इं-हिं-ए-ओ एतेषूदाहरणम् –
माणिण माणाह काइं फलमेओ जे चरणमिलु कान्त।
सहजे भुअङ्गमु जह णमइ तह किं करिअ मणिमन्त॥
(मानिन! मानैः किम फलमेष यच्चरणमिलितः कान्तः।
सहजेन भुजङ्गमो यदि नमति तत्र किं क्रियते मणिमन्त्रैः॥)
अत इं-हिं-ए-ओ इत्येतेषां गुरुतायां दोहाच्छन्दसोऽधिकमात्रताऽपद्येत। रहव्यञ्जनसंयोगे तूदाहृतम्। तथा प्राकृतादिषु दीर्घस्यापि त्वरितपाठे लघुता। तथा द्वयोस्त्रयाणां वा वर्णानां त्वरितपाठे एकवर्णता भवति। तदुक्तम् –
दीर्घाक्षरमपि जिह्वा ह्रस्वं चेत्पठति भवति लघु।
द्वौ वा त्रीनथ वर्णानेकं जानीहि शीघ्रपठनाच्च॥ इति।
अत्रोदाहरणमूह्यम्। अयं प्राकृतविचारः पञ्चमाध्यायान्तवक्ष्यमाणाप्राकृतच्छन्दःसूपयोगात्कृत इत्यलं बहुना॥ 11॥
अब्धिभूतरसादीनां ज्ञेया संज्ञाऽत्र लोकतः।
ज्ञेयः पादश्चतुर्थोऽशो यतिर्विच्छेदसंज्ञिकाः॥ 12॥
नारायणी – परिभाषान्तराण्याह – अब्धिभूतेति। लोकतो लोकव्यवहारादब्ध्यादीनां संज्ञाः संक्षेपेण ज्ञायन्ते इति संज्ञाः संज्ञीभूताः। चतुरादिसङ्ख्या इति यावत्। ज्ञेया यतिनियमेषु। तद्यथा – अब्धयश्चत्वारः, भूतानि पञ्च, रसाः षट्। आदिपदादश्वा मुनयश्च सप्त, वसवो नागाश्चाष्टौ, ग्रहा नव, दिशो दश, रुद्रा एकादश, आदित्या द्वादश, इत्येवमादि ज्ञेयम्। अब्ध्यादिशब्दाः स्वपर्यायाणां स्वार्थसंख्यासमानसंख्यार्थानां चाप्युपलक्षकाः। तेन समुद्रवेदादयोऽपि लोके ज्ञेयाः। तथा छन्दःशास्त्रत्वाच्छन्दसश्चतुर्थो भागः पादो ज्ञेयः पदादिव्यवहारेषु। अंशः समचतुर्थांशोऽत्र न ग्राह्यः। किं तु यावान्यत्रोक्तः। तथा च समानां विषमाणां चोद्गतादीनां पादाः सङ्गृहीता भवन्ति। पादशब्दः स्वपर्यायाणामङ्घ्रिचरणादिशब्दानामुपलक्षकः। तथा यतिर्यतिशब्दो विच्छेदे विरामे संज्ञितः परिभाषितः संज्ञाकृतो ज्ञेयः। `संज्ञिता’ इति पाठे यतिशब्दसामानाधिकरण्यात्स्त्रीलिङ्गता ज्ञेयेति च विपरिणतानुषङ्गः। इयं च यतिस्तृतीयान्तेष्वब्ध्यादिनिर्देशेषूपतिष्ठते। साकाङ्क्षत्वात्। अब्ध्यादिसङ्ख्येष्वक्षरेषु यतिः स्यादित्यर्थः। इयं च यतिः श्रुतिसैकर्यार्थं नियतस्थानेषु कार्या। यतिनियमस्थानानि च वृद्धैः सङ्गृहीतानि –
यति सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिते॥
क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत्।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ॥
पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिववत्।
एष्टव्यो गतिचिन्तायां यणादेशः परादिवत्॥
नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत्।
परेण नित्यसम्बद्धाः प्रादयश्च परादिवत्॥ इति॥
एषामर्थ उहाहपणेन स्पष्टीक्रियते। `यतिः सर्वत्र पादान्ते’ इत्यस्योदाहरणम्–
अत्र मे सखि! शिखण्डमण्डने पुण्डरीककमनीयलोचने।
श्यामतामरसदामकोमले रामनामनि मनो मनोरमे॥
(प्र.रा. 2-23) इत्यादि।
प्रत्युदाहरणं तु – `नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे’ इत्यादि।
“श्लोकार्धे तु विशेषतः” इत्यस्योदाहरणं पूर्वोदाहरणे “दधीनि। अल्पव्ययेन” (वृ.र.1-11) इत्यत्र। सन्धिर्न भवति स्पष्टविभक्तिकता च भवतीति विशेषः। सन्धौ प्रत्युदाहरणम् –
श्यामा कामाकुला रामा वामा भोगाय आप्यतेऽ - ।
नेकजन्मसु पुण्यानां निचयो न चितो यदि॥
अत्र पूर्वरूपकरणम्। स्पष्टविभक्तिकतायां प्रत्युदाहरणम् –
सुरासुरशिरोरत्न – स्फुरत्किरणमज्जरी-।
पिञ्जरीकृतपादाब्जद्वन्द्वे वन्दामहे शिवम्॥
अत्र समासकरणम्। “समुद्रादि” इत्यत्रोदाहरणम् – “तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी” (मे.1-2)इति। अत्र मन्दाक्रान्तायां चतुर्षु स्पष्टविभक्तिकता। अतः षट्स्वव्यक्तविभक्तिकता। `पादान्ते’ इत्यस्यापि विशेषणं “व्यक्तविभक्तिके” इति। तत्रोभयोदारहणम् –
स्यन्दने गरुडकेतुलाञ्छने कुण्डिनेशतनयाधिरोपिता।
केनचिन्नवतमालकोमल-श्यामलेन पुरुषेण नीयते॥
क्वचिदिति। समुद्रादौ या यतिः सा पदमध्येऽपि क्वचिद्भवति। यदि पदस्य यत्यपेक्षया पूर्वपरभागावेकवर्णौ न घटत इत्यर्थः। अत्रोदाहरणम् – “पादान्तयतिः पदमध्ये न भवति।” प्रत्युदाहरणम् –
“प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम्।”
पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दोषाय। सा च धातुनामप्रत्ययाऽव्ययभागभेदेन चतुर्धा। तत्र क्रमेणोदाहरणानि – `एतासां राजति सुमनसां दाम कण्ठावलम्बि’ `स्वीकुर्वन्ति हि सुधियः प्रकुर्वते च’, `दुःसोढो दाशरथिमहिमा राक्षसानां बभूव’, `सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः’, `स्खलति सुरवधूकल्पासु रामासु को न’, `भुवि सुरगुरुदेशीयाः कियन्तो न सन्ति’, `कलिवशविवशः सम्प्रत्ययं जीवलोकः’, `रामेशं वा प्रतिदिनमुताहो रमेशं भजामः’। एवमन्यान्यपि सङ्कीर्णान्युदाहरणानि ज्ञेयानि। `पूर्वान्तरवत्स्वरः सन्धौ’ इत्यस्यार्थः योऽयं पूर्वपरयोरेकादेशः स्वरः सन्धौ सवर्णदीर्घादिः, स प्रायः पूर्वान्तवत्क्वचिदेव परादिवच्च द्रष्टव्य इति। अत एव `अन्तादिवच्च’ (पा.सू.6-1-9) इति पाणिनिः सस्मार। पूर्वान्तवद्भावे यथा – `कस्ते दारिद्र्यदावानल! वदतु यशो वावदूकोऽपि दाने’ `स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा’ (मे.1-51)।
परादिवद्भावे यथा – `अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना’ (वेणी. 3-6)। अत्र स्वरस्य परादिवद्भावे व्यञ्जनमपि परादिवद् भवति। तद्भक्तत्वात्।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ॥ इति॥
पूर्वान्तवत्स्वरः सन्धावित्यादेरपि शेषः। तेन – `अस्या वक्ताब्जमवर्जितपूर्णेन्दुशोभं विभाति’ इत्यादौ यतिर्दुष्यति। तत्रापि पूर्वभागस्यैवैकवर्णताया दोषः न तूत्तरस्य। तदर्थमेव स्वरसन्धावनेनापवादकरणात्। यणादेशः परादिवदित्यत्रोदाहरणम् – `सप्ताकूपारपारप्रथितपृथुयशस्यर्थिसार्थे कृतार्थे।’ व्यञ्जनस्यापि परादिवद्भाव इष्यते। यथा – `इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे’ (मे.1-5) इति। `नित्यं प्राक्पदसम्बद्धा’ इति। तेभ्यः पूर्वा यतिर्न कार्येत्यर्थः। यथा – `बाले! भूपतिमौलिलालितपदद्वन्द्वत्ववृद्धेऽपि च’। आदिपदात् `रक्षोभिः सुरमनुजैर्दितैः सुतैर्वा’। प्रत्युदाहरणं तु –
नमः शिवाय कृष्णाय च दानवविनाशिने।
`नित्यं प्राक्पदसम्बद्धा’ इति किम्? `तथाऽऽद्रियन्ते न बुधाः सुधामपि’(नै. 1-1)। चादय इति किम्?
सम्पत्तिः सैव रमणीसखैर्या भुज्यते भुवि।
अत्र समासान्तटच्प्रत्ययान्तसखिशब्दस्य नित्यं प्राक्पदसम्बद्धत्वेऽपि यतिर्नदुष्यति। `परेण नित्यसम्बद्धा’ इति। परादिति किम्? तेभ्यः परा यतिर्नभवतीत्यर्थः। `प्रस्मृतः किमथवा पठितो नु’ (नै. 5-121) आदिपदात् `निजगृहे जयिनं तिसृणां पुराम्’। परेण नित्यसम्बद्धा इति किम्? कर्मप्रवचनीयेभ्यः पराऽपि यतिर्भवत्विति। यथा –
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि।
प्रादय इति किम्?
राक्षसाधिपबलं प्रणाशयाञ्चक्रतू रघुवरौ वरौ रणे।
अयं त्वनेकाक्षराणां चादीनां प्रादीनां चादिवद्भावः पादान्तयतावेवेष्यते। एकाक्षराणां तु पादान्तयतौ पादमध्ये समुद्रादियतौ च। तदुक्तं कविकल्पलतायाम् –
एक स्वरोपसर्गेण विच्छेदः श्रुतिसौख्यकृत्। इति।
पादान्ते यतौ प्रत्युदाहरणं तत्रैवोक्तम्, यथा –
पिनाकपाणि प्रणमामि स्मरशासनम्। इति।
पादमध्ययतौ प्रत्युदाहरणम् – `विष्णुं रुद्रं च खलु भजतां, नैव संसारबन्धः’ अनेकाक्षराणां तु पादमध्ये चामीकरादिष्विव पूर्वापरभागयोरेकवर्णत्वाद्यतिरिष्टैव। तत्र चादीनां यथा – `प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्’ (मे.2-32) इत्यादि। प्रादीनां यथा – `दूरारूढप्रमोदं हसितमिव परिस्पृष्टमासासखीभिः’। अत्र `नित्यं प्राक्पदसम्बद्धा’ इत्यत्र च `स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात्’ इति। `नित्यं प्राक्पदसम्बद्धा’ इति किम्? `मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः’ (मे.1-38) इति। `परेण नित्यसम्बद्धा’ इत्यत्र च `दुःखं मे प्रक्षिपति हृदये दुःसहस्तिद्वियोगः’ इत्यादि वृत्तिकारैः समुद्रादियतिरुद्राहृता। अन्ते च अयं तु पादान्तयतावन्तादिवद्भाव इष्यते, न तु पादमध्ययतौ इत्यादि स्वयमेवोक्तं तद्विचारणीयम्। तथा –
अनुक्तयतिकेऽप्येवं कार्या श्रुतिसखाः यतिः।
तदुक्तं कविकल्पलतायाम् –
एवं यथा यथोद्वेगः सुधियां नोपराजते।
तथा तथा मधुरतानिमित्तं यतिरिष्यते॥
शुक्लाम्बरादयस्तु पादान्त एव यतिमाहुः। भरतादयस्तु यतिमेव नेच्छन्ति। अत एव कविप्रयोगाः। अत्र भर्तृहरेः –
लभेत सिकतासु तैलमपि यत्नतः पीडयन्।
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः॥
कदाचिदपि पर्यटञ्शशविषाणमासादये-
न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥ (नी.श. 5) इति।
जयदेवस्यापि – `भावं शृङ्गारसावस्वतमिह जयदेवस्य विष्वग्वचांसि’ (गी.गो.12-12) इति। तदुभयं बहुविरोधाच्चिन्त्यम्। इयं च यतिर्वृत्तस्वरूपाद्भिन्नाऽपि गुणालङ्काराद्यपेक्षयान्तरङ्गाङ्गत्वात्सूत्रकारादिभिर्लक्षणमध्ये निबद्धा, न तु वृत्तस्वरूपतया। मात्रागुरुलघुनियमनं हि वृत्तलक्षणं, विरामात्मकत्वं च यतेः। अत एव वामनेन काव्यालङ्कारसूत्रेषु `न वृत्तदोषात् पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वात्’ (वा.सू.2-2-5) इत्याशङ्क्य `न लक्ष्मणः पृथक्त्वात्’ (वा.सू.2-2-6) इति परिहृतमित्यलम्।
युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते।
सममर्द्धसमं वृत्तं विषमं च ततः परम्॥ 13॥
नारायणी – परिभाषान्तरमाह – युक्सममिति। समं द्वितीयचतुर्थादिस्थानं युगिति सद्भिर्निगद्यते कथ्यते। विषमं चैक आदि स्थानं सद्भिरयुक् निगद्यते। चकारात्समस्य युग्मानोजसंज्ञे विषमस्यायुग्मौजसंज्ञे इत्यादि ज्ञेयम्।
पदैः पादाख्यैर्घटितं पद्यम्। तद् द्विविधम् – जातिर्वृत्तं चेति। जातिर्नियतमात्रिका। वृत्तं नियतगुरुलघुविन्यासम्। तत्र जातिरार्यादि। वृत्तमुक्तादि समार्धसमविषमात्मकम्। तदुक्तम् –
पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा।
वृत्तमक्षमरसङ्ख्यातं जातिर्मात्राकृता भवेत्॥ इति॥
इत्येतत्सर्वं मनसि निधाय वृत्तप्रभेदानाह – समाख्यमिति।
समाख्यमर्धसमाख्यं विषमाख्यं चेति त्रिधा वृत्तमित्यर्थः॥ 13॥
अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।
तच्छन्दः शास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते॥ 14॥
नारायणी – त्रिविधस्यापि वृत्तस्याऽन्वर्थसंज्ञामाश्रित्य क्रमेण स्वरूपमाह श्लोकत्रयेण - यस्याङघ्रयः पादाश्चत्वारोऽपि तुल्येन लक्षणेन लक्षिता युक्ताः, तच्छन्दःशास्त्रविशारदाश्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं वदन्ति॥ 14॥
प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत्।
द्वितीयस्तुर्यवद् वृत्तं तदर्धसममुच्यते॥ 15॥
नारायणी – द्वितीयश्चरणस्तुर्यवच्चतुर्थवत्। तथा चार्धं समं यस्य तदर्धसममित्यन्वर्थसंज्ञा॥ 15॥
यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम्।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः॥ 16॥
नारायणी – यस्य पादचतुष्टयेऽपि परस्परं लक्ष्म लक्षणं भिद्यते तद्विषममाहुः, विगतं समं यस्मादिति व्युत्पत्तेः। तत्र समं पथ्यादि, अर्धसमं द्रुतमध्यादि, विषमं पदचतुरूर्ध्वादि॥ 16॥
आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्धितैः।
पृथक्छन्दो भवेत्पादैर्यावत् षड्विंशतिं गतम्॥ 17॥
नारायणी – तत्र समवृत्तभेदानाह – एकाक्षरं पादमारभ्यैकेनाक्षरेण कविना वर्धितैः पादैः कृत्वा पृथग्भिन्नं भिन्नं छन्द उक्तादि भवेत्। वृद्ध्यवधिमाह – यावदिति। यावत्षड्विंशतिं 26 षड्विंशतिसङ्ख्याकं पादं प्रति गतं गमनं भवति। षड्विंशत्यक्षरपादपर्यन्तं वृद्धिर्भवतीत्यर्थः॥ 17॥
तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः।
शेषं गातास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः॥ 18॥
नारायणी –अधिकाक्षरपादस्य छन्दसः संज्ञामाह – षड्विंशत्यक्षरपादाच्छन्दस ऊर्ध्वं सप्तविंशत्यक्षरपादं छन्दश्चण्डवृष्ट्यादिदण्डकसंज्ञं भवति। सप्तविंशत्यक्षरादेकैकेन रगणादिना वृद्धिः, न त्वेकैकाक्षरेण। आदिपदादर्णवादि।
इह शास्त्रे विशेषलक्षणेनाऽलक्षितस्य छन्दसः कविभिश्च ग्रथ्यमानस्य सामान्यसंज्ञामाह –
शेषं विशेषनिरूपितादन्यत्। तदेवाह – त्रिभिरिति। क्वचित्त्रिभिः, क्वचित्षड्भिः, चकाराद् दशभिर्विलक्षणगुरुलघुक्रमवद्भिर्न्यूनाधिकाक्षरैश्च चरणैर्युक्ता यास्ता गाथा ज्ञेया इत्यर्थः॥ 18॥
उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च॥ 19॥
त्रिष्टुप् च जगती चैव तथाऽतिजगती मता।
शक्वरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते॥ 20॥
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः।
विकृतिः सङ्कृतिश्चापि तथातिकृतिरुत्कृतिः॥ 21॥
इत्युक्ताश्छन्दसां संज्ञाः क्रमशो वच्मि साम्प्रतम्।
लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम्॥ 22॥
इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमोऽध्यायः॥
नारायणी – पूर्वोक्तानामेकाक्षरपादमारभ्य षड्विंशत्यक्षरपादावधिकानां छन्दसां सामान्यतो जातिसंज्ञामाह – एकाक्षरपादा `उक्ता’नाम। इयं च जातिसंज्ञा। अवान्तरसंज्ञास्तु वक्ष्यन्ते। एवमितरत्रापि द्व्यक्षरपादा `अत्युक्ता’। एवं शेषा अपि ज्ञेयाः। अन्या सुपूर्विका, अनन्तरोक्ता प्रतिष्ठैव सुपूर्वा सती सुप्रतिष्ठा नामाऽन्याजातिरित्यर्थः। साऽतिपूर्वेति। सा शक्वर्यतिपूर्वा, अतिशक्वरीत्यर्थः। ननु सूत्रकारेण समच्छन्दसां गायत्र्यादीनामेवोक्तत्वादुक्ताद्युत्तेरुत्सूत्रत्वमिति चेन्न। `द्विकौ ग्लौ’ (पि.सू.) इत्यादिसूत्रोक्तैकाक्षरादिप्रस्तारस्य तत्संज्ञायां ज्ञापकत्वात्। कविभिः प्रायेणाप्रयुक्तत्वात्तेषां लक्षमावसरेऽनुक्तिरिति भावः। ताः – 1.उक्ता, 2.अत्युक्ता, 3.मध्या, 4.प्रतिष्ठा, 5.सुप्रतिष्ठा, 6.गायत्री, 7.उष्णिक्, 8.अनुष्टुप्, 9.बृहती, 10.पङ्क्तिः, 11.त्रिष्टुप्, 12.जगती, 13.अतिजगती, 14.शक्वरी, 15.अतिशक्वरी, 16.अष्टिः, 17.अत्यष्टिः, 18.धृतिः, 19.अतिधृतिः, 20.कृतिः. 21.प्रकृतिः, 22.आकृतिः, 23.विकृतिः, 24.सङ्कृतिः, 25. अतिकृतिः, 26.उत्कृतिः। अत्र प्रतिपादकमेकैकाक्षरवृद्धौ सकले छन्दसि चतुरक्षरा वृद्धिर्भवति। तत्रोक्ता चतुरक्षरा। अत्युक्ताऽष्टाक्षरा। एवमुत्तरत्रापि। उत्कृतिश्चतुरधिकशताक्षरा॥
उक्तानुवादपूर्वकं वक्तव्यमाह – छन्दसामित्यमुना प्रकारेण जातिसंज्ञा उक्ताः। साम्प्रतमिदानीं मात्रावृत्ताऽनुपूर्वकं मात्रावृत्तमादितः कृत्वा सर्वेषां वृत्तादीनामुक्तानां क्रमशः लक्षणं वच्मि वदामीति योजना। प्रथमं मात्रावृत्तमुच्यते। तत उद्देशक्रमेण वर्णवृत्तमुच्यत इत्यर्थः ॥ 19-22॥
इति श्रीमद्विद्वन्मुकुटमाणिक्यश्रीमद्भट्टरामेश्वरसूनुनारायणभट्विरचितायां वृत्तरत्नाकरव्याख्यायां परिभाषाऽध्यायः प्रथमः॥ 1॥
** ———– ********** ————–**
** अथ द्वितीयोऽध्यायः**
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः।
षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः॥ 1॥
षष्ठे द्वितीयलात्परके ल्ने मुखलाच्च सयतिपदनियमः।
चरमेऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः॥ 2॥
नारायणी – अथ मात्रावृत्तानि विवक्षुः प्रथममार्यां लक्षयति – लक्ष्मैतदिति द्वयेन। आर्यायाः प्रथमेऽर्धे एतन्नियतं सार्वत्रिकं लक्ष्म लक्षमं ज्ञेयम्। किं तत्। सप्तसङ्ख्याका गोपेता गुरुणा युक्ता गणाश्चतुर्मात्राः पूर्वोक्ताः। गुरुपेतत्वोक्त्या यद्यपि `स्वरा अर्धं चार्यार्धम्’ (पि.सू) इति सूत्रे अर्धं चेति ग्रहणात्सार्धाः सप्तगणा भवन्तीति सामान्यत उक्तम्, तथाप्यर्धगणस्थाने एको गुरुरेवान्ते कार्यः, न तु लद्वयमिति सुचेतनीयम्। इहार्यार्धे। विषमे प्रथमतृतीयादौ। स्थाने जो जगणो मध्यगुरुर्गणो न कार्यः। षष्ठस्त्वयं जगणः कार्यः। नलघू वा कार्यौ। नश्च लघुश्चेति नलघू। चतुर्लघुर्वा गणः कार्य इत्यर्थः। अन्ये तु स्वेच्छया ज्ञेयाः। षष्ठे इति। द्वितीयलादित्यतः परं पूर्वमिति शेषः। षष्ठे न्ले षष्ठस्थाने चतुर्लघौ गणे कृते सति द्वितीयलात्तस्यैव षष्ठस्य चतुर्लघोर्गणस्य द्वितीयलघोः पूर्वं प्रथमलघ्वनन्तरं सयतिपदनियमो यतिसहितं पदं नियमेन समाप्यत इत्यर्थः। `न्ले’ इति प्रथमाद्विवचनं वा। ततश्च षष्ठे स्थाने यदि न्ले नलघूस्याताम्, तदा द्वितीयलात् पूर्वं यतिरित्यर्थः। परके न्ले, न-ले षष्ठापेक्षया परस्मिन्सप्तमे चतुर्लघौ कृते सति, मुखलात्सप्तमस्य प्रथमलघोः पूर्वं षष्ठगणान्ते सयति पदं नियम्यते। चरमे द्वितीये पुनरर्धे पञ्चमके न्ले चतुर्लघौ तस्मान्मुखलघोः पूर्वम्, अर्थाच्चतुर्थान्ते पदं समाप्यत इत्यनुषङ्गेण पूर्वपदाध्याहारेण च योज्यम्। इहार्याचरमार्धे षष्ठो गणो लो लघुरेव भवति। न चतुर्मात्रिक इति पूर्वार्धाद्विशेषः। उत्तरार्धे एतावन्मात्रविशेषं वदताऽन्यत्पूर्वार्धलक्षणमेव भवतीति द्योतितम्। यतिनियमं छन्दोमाणिक्यकारोयऽप्याह –
पूर्वार्धे षष्ठो जः खो वा खे चास्य लघुनि भवति यतिः।
षष्ठः खपरोऽत्र यतिस्तुर्योऽप्यथ भवति चरमदले॥ इति।
अस्यार्थः – ख इति चतुर्लघोर्गणस्य संज्ञा। पूर्वार्धे षष्ठो गणो जगणः खो वा कार्यः। खे तु षष्ठे गणे, अस्य लघूनि तदीयप्रथमलघ्वन्ते यतिर्भवति। यदि षष्ठः खपरः –खश्चतुर्लघुः परो यस्य स तथा सप्तमश्चतुर्लघुः स्यादित्यर्थः। तदात्र षष्ठान्ते वा यतिः। चरमदले – द्वितीयार्धे यदि तुर्यश्चतुर्थः खपरस्तत्रापि चतुर्थान्ते यतिरिति। यद्वा मूले पञ्चम्यौ ल्यब्लोपे। तेन द्वितीयलमादाय सयतिपदनियमः, सयतिकपदप्रारम्भनियम इत्यादिरर्थः। उभयथापि लक्ष्येऽविसंवाद एव। किं त्वेतस्मिन्व्याख्याने `न्लौ चेत्पदं द्वितीयादि’ (पिं.सू.4-18) `सप्तमः प्रथमादि’ (पिं.सू.19) इति सूत्रानुग्रहो भवति। पूर्वपदाध्याहारश्च कर्तव्यो न भवति। अत एव क्षेत्रराज आह –
षष्ठो द्वितीयमादाय लमेवारभ्यते पदम्।
सप्तमे न्ले पुनर्मुख्यं पूर्वार्धेऽसौ यतिः स्मृता॥
पदमारभ्यते नित्यं गृहीत्वा प्रथमं लघु।
पञ्चमे न्ले बुधैरेवं चरमार्धे स्मृता यतिः॥ इति।
छन्दोमाणिक्यं त्वार्थसूत्रार्थकथनेनापि सङ्गच्छते। अत्र यतिमात्रे नियते सति चामीकरादिवत्पूर्वापरभागयोरनेकाक्षरत्वे पदमध्ये यतिर्मा भूदिति पदस्याऽपि नियम उक्तः। तत्र स्पष्टास्पष्टविभक्तिकत्वयोर्न विशेषः। अत्र प्रथमाऽर्या षष्ठजगणपक्षे सामान्यलक्षणोदाहरणम्। षष्ठस्य चतुर्लघुत्वे पूर्वार्धद्विविधयतौ च द्वितीयाऽऽर्या पूर्वार्धमुदाहरणम्। उत्तरार्धयतेस्तल्लक्षणस्य तदुत्तरार्धमिति विवेकः। अत्र विषमे जगणनिषेधात्प्रत्येकं चत्वारो विकल्पाः। यथा –
ऽऽ (1), ॥ऽ (2), ऽ॥ (3), ॥ ॥ (4) इति। समस्थाने तु जगणस्याऽनिषेधात्प्रत्येकं पञ्च। यथा – ऽऽ(1), ॥ऽ(2), ।ऽ।(3), ऽ॥(4), ॥ ॥(5) इति। ततश्च पूर्वार्धे प्रथमे भेदाः 4, द्वितीये 5, तृतीय 4, चतुर्थे 5, षष्ठे 2 जन्लयोरेव विकल्पनात्। सप्तमे 4, अष्टमे गुरुरेकः। एतेषामन्योन्यगुणने द्वादश सहस्राणि, अष्टौ शतानि पूर्वार्धभेदाः। उत्तरार्धे तु षष्ठे लघुनियमनात्तदतिरिक्तं सर्वं पूर्ववदेव। तथा चान्योन्यगुणने षट्सहस्राणि चत्वारि शतानि भेदा उत्तरार्धे। उभयविकल्पानां परस्परगुणनेऽष्टौ कोटय एकोनविंशतिर्लक्षाणि विंशतिः सहस्राणि। इयमार्याणां भेदसङ्ख्या। अङ्कतोऽपि 81920000। तदुक्तम् —
जगणविहीनाविषमे चत्वारः, पञ्चयुजि, चतुर्मात्राः।
षष्ठे द्वाविति च गणास्तथाङ्कतः प्रथमदलसङ्ख्या॥
एवमपरार्धसङ्ख्या षष्ठे स्याल्लघुनि चैकस्मिन्।
आर्यासङ्ख्योभयदलसङ्ख्याघाताद्विनिर्दिष्टा॥ इति॥
अत्रैव प्रसङ्गादार्यासु नष्टोद्दिष्टे उच्येते –
लोके प्रसिद्धनामा सीमा विद्याविनोदविभवानाम्।
जयतीह शुद्धचरितो रामेशाख्यो गुरुः काश्याम्॥
यदा कश्चिज्जिज्ञासेतेयमार्या कतिधेति, तदास्या गणान्स्थापयेत्। गणार्धश्चतुः पञ्चादिकं सङ्ख्याविकल्पं यथासङ्ख्यं स्थापयेत्। तत उपान्त्यमन्त्येन हत्वेष्टाद्विकल्पादधस्तनाञ्शेषान्विकल्पसङ्ख्यापूर्वकान्विकल्पानपनीय शेषया सङ्ख्यया तदाद्यं गणविकल्पाङ्कं हत्वा इष्टविकल्पाधस्तनविकल्पान् राशेरपनीय शेषाङ्कं पूर्वपूर्वेण गुमयित्वेष्टविकल्पाधस्तनविकल्पाङ्कं पातयेत्। एवं यावदाद्यगणं कुर्यात्। शेषसङ्ख्ययाऽऽर्यासङ्ख्यां जानीयात्। अत्र सर्वगुर्वन्तगुरुमध्यगुर्वादिगुरुसर्वलघुक्रमेणैवावस्थानेऽधस्तनत्वं ज्ञेयम्। अत्र न्यासः –
1 2 3 4 5 6 7 8गु.
लेके प्रसिद्ध नामा सीमा विद्या विनोद- विभवा-
नाम्॥
ऽ ऽ, । ऽ ।, ऽ ऽ, ऽ ऽ, ऽ ऽ, । ऽ ।, । । ऽ, ऽ,
4 5 4 5 4 2 4 1
1 2 3 4 5 6 7 8गु-
जयती हशुद्ध- चरितो रामे- शाख्ये- गु- रुः का-
श्याम्॥
॥ऽ, ।ऽ।, ॥ऽ, ऽऽ, ऽऽ, ।, ऽऽ, ऽ,
4 5 4 5 4 1 4 1
अत्रान्ते न्यस्तस्याऽर्धगणस्य विकल्पाभावदधस्तनाङ्कस्य द्वितीयाऽर्धे सप्तमाधस्तनैश्चतुर्भिर्गुणने जाताश्चत्वारः। सप्तमस्येष्टस्य सर्वगुरुत्वात्तस्याधस्तनान् ज(।ऽ।) गणव्यतिरिक्तानन्तगुर्वादिगुरुसर्वलघूं स्त्रींश्चतुर्षु पातयेत्। शेष एकः। षष्ठस्य लघुमात्ररूपत्वाद्विकल्पाऽभावः। पञ्चमाधस्थचतुर्भिरेकगुणने तत्राऽपि पूर्ववत्त्रयाणां त्यागे शेषस्यैकस्य चतुर्थाधस्थपञ्चभिर्हतौ चतुर्षु पातितेषु शैषस्यैकस्य तृतीयाधस्थैश्चतुर्भिर्हतौ शेषयोर्द्वयोस्त्यागे शेषद्वयस्य द्वितीयस्थैः पञ्चभिर्हतौ द्वये त्यक्ते शेषा अष्टौ। तेषां प्रथमस्थैश्चतुर्भिर्हतौ जगणातिरिक्ते द्वये त्यक्ते त्रिंशत्। एवमुत्तरार्धम्। पूर्वार्धान्त्यगणार्धं त्वविकल्पम्। सप्तमस्थैश्चतुर्भिस्त्रिंशतो द्वये पातिते शतमष्टादशाधिकम्। तस्य षष्ठस्थाभ्यां द्वाभ्यां हतौ एकस्य त्यागे पञ्चत्रिंशदधिकं शतद्वयं शिष्टम्। तस्य पञ्चमस्थैश्चतुर्भिर्हतौ त्रिषु पातितेषु शिष्टा सप्तत्रिंसदधिका नवशती। तस्यां चतुर्थस्थैः पञ्चभिर्हतायां चतुर्णां त्यागे एकाशीत्यधिकानि षट्चत्वारिंशच्छतानि। तेषु तृतीयस्थैश्चतुर्भिर्हतेषु त्रिषु पातितेषु अष्टादशसहस्राणि एकविंशत्यधिकानि सप्तशतानि च। तेषां द्वितीयस्थैः पञ्चभिर्हतौ द्वयोरपाये सहस्राणां त्रिनवतिस्त्र्यधिकाषट्शती च। तस्यां प्रथमस्थैश्चतुर्भिर्हतायां त्रयाणां त्यागे सिद्धोऽङ्को लक्षत्रयं चतुःसप्ततिः सहस्राणां नवाधिकानि चत्वारि शतानि च। अङ्कतोऽपि 374409। एतावत्सङ्ख्येयं पूर्वोक्ताऽऽर्या भवति। तदुक्तम् –
गणानुद्दिष्टगाथायाः संस्थाप्य तदधो लिखेत्।
चतुःपञ्चादिकां सङ्ख्यां स्थानस्थानोचितां ततः॥
हत्वा हत्वाद्यमन्त्येन चोपरिस्थगणादधः।
पृथग्घातगणेभ्योऽथ गणसङ्ख्यां विकल्पयेत्॥
हताद्धार्योचिता तावद्यावदाद्यङ्कसम्भवः।
तत्सङ्ख्यामुद्दिशेद् गाथामुद्दिष्टप्रत्यये बुधः॥ इति॥
इत्यार्योद्दिष्टविधिः॥
अथ तन्नष्टम्। यथा लक्षत्रयं चतुःसप्ततिसहस्राणि चत्वारि शतानि नव
त्रिष्वंशकेषु पपादो दलयोराद्येषु दृश्यते यस्याः।
पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम्॥ 3॥
सँलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः।
यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति॥ 4॥
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः।
चपलेति नाम तस्याः प्रकीर्तितं नागराजेन॥ 5॥
आद्यं दलं समस्तं भजेत लक्ष्मचपलागतं यस्याः।
शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना॥ 6॥
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे तु चपलायाः।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला॥ 7॥
इत्यार्याप्रकरणम्॥
गीतिप्रकरणम्
आर्याप्रथमदलोक्तं यदि कथमपिलक्षणं भवेदुभयोः।
दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः॥ 8॥
आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात्।
यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते॥ 9॥
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याम्।
सोद्गीतिः किल कथिता तद्वद्यत्यंशभेदसंयुक्ता॥ 10॥
आर्यापूर्वार्द्धं यदि गुरुणैकेनाधिकेन निधने युक्तम्।
इतरत्तद्वन्निखिलं दलं यदीयमुदितेयमार्यागीतिः॥ 11॥
॥इति गीतिकप्रकरणम्॥
वेतालीयप्रकरणम्
षड्विषमेऽष्टौसमेकलास्ताश्च समे स्युर्नो निरन्तराः।
न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः॥ 12॥
पर्यन्ते र्यौ तथैव शेषं त्वौपच्छन्दसिकं सुधीभिरुक्तम्॥ 13॥
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत्॥ 14॥
तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः॥ 15॥
उदीच्यवृत्तिर्द्वितीयलः सक्तोग्रेण भवेदयुग्मयोः॥ 16॥
पूर्वेणयुतोऽथपञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः॥ 17॥
यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम्॥ 18॥
अस्य युग्मरचिताऽपरान्तिका॥ 19॥
अयुग्मा चारुहासिनी॥ 20॥
॥ इति वैतालीयप्रकरणम्॥
अथ वक्त्रप्रकरणम्
वक्त्रं नाद्यान्नसौस्यातामब्धेर्योऽनष्टुभिख्यातम्॥ 21॥
युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम्॥ 22॥
अयुजोर्जेन वारिधेस्तदेव विपरीतादि॥ 23॥
चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः॥ 24॥
यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता॥ 25॥
सै तवस्याखिलेष्वपि॥ 26॥
भेनाब्धितो भाद्विपुला॥ 27॥
इत्थमन्या रश्चतुर्थान्॥ 28॥
नोम्बुधेश्चेन्नविपुला॥ 29॥
तोऽब्धेस्तत्पूर्वाऽन्या भवेत्॥ 30॥
॥ इति वक्त्रप्रकरणम्॥
अथ मात्रासमप्रकरणम्.
द्विकगुणितवसुलघुरचल धृतिरिति॥ 31॥
मात्रासमकं नवमो ल्गोऽन्त्यः॥ 32॥
जोल्नावथाम्बुधेर्विश्लोकः॥ 33॥
तद्युगलाद्वानवासिका स्यात्॥ 34॥
बाणाष्टनवसु यदि लश्चित्रा॥ 35॥
उपचित्रा नवमे परयुक्ते॥ 36॥
अष्टाभ्यो भाद् गावुपचित्रा॥ 37॥
यदतीत-कृत-विविध-लक्ष्मयुतैर्मात्रासमादिपादैः कलितम्।
अनियतवृतपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम्॥ 38॥
वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा।
गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम्॥ 39॥
॥ इति मात्रासमकप्रकरणम्॥
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम्।
सगुरुशकलयुगलकमपिसुपरिघटितललितपदनिचिति भवति शिखा॥ 40॥
विनमयविहितशकलयुगललघुललितपदविततिरचितगुणनिचया।
श्रुतिसुखकृदियमपिजगतिञिजशिरउपगतवतिसतिभवतिखजा॥ 41॥
अष्टावर्धे गा द्व्यभ्यस्ता यस्याः सानङ्गक्रीडोक्ता।
दलमपरमपिवसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति॥ 42॥
त्रिगुणनवलघुरवसितिगुरुरिति दलयुगकृततनुरिह रुचिरा॥ 43॥
॥ दण्डक॥
यदिह नयुगलंततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः॥ 113॥
प्रतिचरणविवृद्धिरेफाः स्युरर्णार्णव-
व्यालजीमूतलीलाकरोद्दामशङ्खादयः॥ 114॥
प्रचितकसमभिधो धीरधीभिः स्मृतोदण्डको नद्वयादुत्तरैः सप्तभिर्यैः॥ 115॥
** ——————————————————-**
तृतीयोऽध्यायः
न उपलब्धम् ।
** अथ चतुर्थोऽध्यायः**
अर्धसमवृत्तप्रकरणम्
विषमे यदि सौ सलगा दले, भौ युजि भाद् गुरुकावपुचित्रम्॥ 1॥
भत्रयमोजगतं गुरुणी चेत्, युजि च नजौ ज्ययुतौ द्रुतमध्या॥ 2॥
सयुगात् सगुरू विषमे चेत्, भाविह वेगवती युजि भाद् गौ॥ 3॥
ओजे तपरौ जरौ गुरुश्चेत् म्सौ ज्गौ भद्रविराड् भवेदनोजे॥ 4॥
असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्गः॥ 5॥
आख्यानकी तौ जगुरुग ओजे जतावनोजे जगुरू गुरुश्चेत्॥ 6॥
जतौ जगौ गो विषमे समे चेत् तौ ज्गौ ग एषा विपरीतपूर्वा॥ 7॥
सयुगात् सलघू विषमे, गुरुर्युजि नभौ भरकौ हरिणप्लुता॥ 8॥
अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ॥ 9॥
अयुजिनयुगरेफतोयकारो युजिचनजौजरगाश्च पुष्पिताग्रा॥ 10॥
वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः।
पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा॥ 11॥
स्यादयुग्मके रजौ रजौ समेतुजरौजरौगुरुर्यवात्पारामतीयम्॥ 12॥
** इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां
वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः॥**
** ———————————————————————————————————**
** अथ पञ्चमोऽध्यायः**
विषमवृत्तप्रकरणम्
पदचतुरूर्ध्वम्
मुखपादोऽष्टभिर्वणैः, (8)
परेस्मान्मकरालयैः क्रमाद् वृद्धाः। (12)
सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं, (16)
तदभिहितममलधीभिः पदचतुरूर्ध्वाभिधं वृत्तम्॥ 1॥ (20)
प्रथममुदितेवृत्ते, (8)
विरचितविषमचरणभाजि। (12)
गुरुकयुगलनिधन इह सहिन आङा(16)
लघुविरचितपदविततियतिरिह भवति पीडः॥ 2॥ (20)
प्रथममितर चरणसमुत्थं,(12)
श्रयति जगति लक्ष्म। (8)
इतरदितरगदितमपि यदि चतुर्यं (16)
चरणयुगलकमधिकृतमपरमिति कलिका सा॥ 3॥ (20)
द्विगुरुयुतसकलचरणान्ता, (12)
मुखचरणरचितभवति तृतीयः। (16)
चरण इह हि लक्ष्म, (8)
प्रकृतमपरमखिलमपि यदि भजति लवली सा॥ 4॥ (20)
प्रथममधिवसति यदि तुर्यं, (12)
चरणचरणपदमवसितगुरुयुग्मा। (16)
निखिलमपरमुपरितनसममिह ललतिपादा, (20)
त्रितयममृतधारा॥ 5॥ (8)
सजमादिमे सलघुकौ च (10)
नसजगुरुकेष्वथोद्गता। (10)
त्र्यङ्घ्रिगतभनजलागयुताः (11)
सजसाजगौचरणमेकतः पठेत्॥ 6॥ (13)
चरणत्रयं भजति लक्ष्म (10)
यदि सकलमुद्गतागतम्। (10)
र्नौ भगौ भवति सौरभकं (10)
चरणे यदीह भवतस्तृतीयके(13) ॥ 7॥
नयुगं सकारयुगलं च (10)
भजति चरणं तृतीयकम्। (10)
तदुदितमरुमतिभिर्ललतिं (12)
यदि शेषमस्य खलु पूर्वतुल्यकम्॥ 8॥ (13)
रिम्सौ भ्जौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत् (14)
त्रितयं सनजरगास्तथा ननौ सः। (13)
त्रिनपरिकलितजयौ (8)
प्रचुपितमिदमुदितमुपस्थितपूर्वम्॥ 9॥ (15)
नौ पादेऽथ तृतीयके सनौ नसयुक्तौ (14)
प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम्। (13)
त्रितयमपरमपि पूर्वसदृशमिह भवति (18)
प्रततमतिभिरिति गदितं लघुवृत्तम्॥ 10॥ (15)
अस्मिन्नेव तृतीयपादके तजराः स्युः
प्रथमे च विरतिरार्षभं वदन्ति।
तत् शुद्धविराट् पुरः स्थितं
त्रितयमपरमपि यदि पूर्वसमं स्यात्॥ 11॥
विषमाक्षरपदं वा पादैरसमं दशधर्मवत्।
यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम्॥ 12॥
इति सिंहावलोकः॥
इति श्रीमद्भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचितायां
वृत्तरत्नाकरव्याख्यायां पञ्चमोऽध्यायः॥
** ————————————————————-**
** अथ षष्ठोऽध्यायः**
प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगक्रिया।
सङ्ख्या चैवाध्वयोगश्च षडेते स्मृताः॥ 1॥
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम्॥ 2॥
ऊने दद्याद् गुरुनेव यावत् सर्वलघुर्भवेत्।
प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः॥ 3॥
नष्टस्य यो भवेदङ्कस्तस्याऽर्द्धेऽर्द्धे समे च लः।
विषमे चैकमाधाय तस्याऽर्द्धेऽर्द्धे गुरुर्भवेत्॥ 4॥
उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान् समालिखेत्।
लघुस्था ये तु तत्रङ्कास्तैः सैकैर्मिश्रितैर्भवेत्॥ 5॥
वर्णान् वृत्तभवान् सैकानौत्तराधर्य्यतः स्थितान्।
एकादिक्रमतश्चैनामुपर्युपरि निक्षिपेत्॥ 6॥
उपान्त्यतो निवर्तेत त्यजेदेकैकमूर्ध्वतः।
उपर्य्याद्याद् गुरोरेवमेकद्व्यादिलगक्रिया॥ 7॥
लगक्रियाङ्कसन्दोहे भवेत्संख्याविमिश्रिते।
उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम्॥ 8॥
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः।
वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम्॥ 9॥
वंशेऽभूत्कश्यपस्यप्रकटगुणगणः शैवसिद्धान्तवेत्ता
विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वावबोधे।
केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तः
छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्याम्॥ 10॥
** इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे षष्ठोऽध्यायः॥
——– ****** ——–**
]