परिचयः
- सेडियापु-कृष्णभट्टप्रणीतम्।
- शशिकिरणेनानूदितम्।
सारांशः
- लक्षणशो भेदः
- वृत्त-मात्राजाति-कर्षणजाति-भेदेन त्रेधा विभज्यते। कर्षणजातिः कन्नडादौ।
- गुरुलघुस्थिरत्वं सर्वदेशस्थिरत्वं वा वृत्तस्य लक्षणम्।
- जातिर् एकदेशस्थिरा।
- मात्राजातिः - आर्यादयः।
- अक्षरजातिः - अनुष्टुप्। उपजातिर् अपि यथानाम +एतत्समीपवर्ति।
गतिर् यतिश्च
- नियता गतिः पद्यलक्षणम्। अनियता गतिर् गद्यलक्षणम्।
- खण्ड-गति-भेदाः
- गुरुबाहुला विलम्बिता।
- लघुबहुला द्रुता।
- लघुगुरुसंयोगेन मध्यमा।
- स्थूलगति भेदा लयभागय् उक्ताः।
- यतिः
- प्रबलयतिः
- विभिन्नगति-संयोगे।
- यत्र च विभिन्नगतिसंयोगो विद्यते, तत्र यतिस् स्यादेवेत्यपि।
- दुर्बलयतिः
- समान-गति-संयोगे।
- प्रबलयतिः
लयः
- ताल-शब्द-मीमांसा कृता। ताल-लय-सम्बन्ध आविष्कृतः।
- “गानावसरे सशब्द-क्रियाभिः, निःशब्द-क्रियाभिर् वा कालो मीयते। प्रति-क्रियं काल-खण्डाः सञ्जायन्ते। तादृश-काल-खण्डानां मिथः समत्वं लय इत्युच्यते। छन्दःशास्त्रे तु पद्य-पादावयवानां मात्रासमत्वं तेषां समतालबद्धता वा लयशब्देन बोध्यते।”
- छन्दो-विभागः सम-ताल-बद्धतानुरोधेन मात्रासमत्वेन वा
- सतानम् (यथा भुजङ्गप्रयातमुखानि वृत्तानि, आर्याद्या मात्राजातयश् च)
- परस्पर-सदृशानां मात्रा-गणानां पौनः-पुन्येनावर्तगतयः। लयान्वितानि।
- त्रिमात्राणां गणानां परस्परं पुनरावर्तनेन त्र्यश्रगतिः, चतुर्मात्राणां चतुरश्रगतिः, पञ्चमात्राणां खण्डगतिः, सप्तमात्राणां च मिश्रगतिः स्वरूपम् आपद्यते। त्र्यश्र-चतुरश्र-गत्योः क्रमेण सङ्कलित-द्रुतावर्तगतिः (२+४ / ४+२) सङ्कलित-मध्यावर्तगतिश् च (३+५ / ५+३) समुद्भवतः॥
- वितानम् (यथा शार्दूलविक्रीडितादीनि वृत्तानि, अनुष्टुप्श्लोकाद्या अक्षरजातयश्)।
- सतानम् (यथा भुजङ्गप्रयातमुखानि वृत्तानि, आर्याद्या मात्राजातयश् च)
- “सर्वस्या अपि वाण्याः प्राक्कालिकानि छन्दांसि प्रायो लयान्वितानि भवन्ति। लयान्वितत्वं गेयाधिक्यम् उपजनयति। गेयाधिक्येन चार्थावगमो ह्रासमुपयाति। गेयाधिक्यं दूरीकृत्यार्थगाम्भीर्यं प्रति पाठकानां मनांस्याकर्ष्टुं प्रायेण लयरहितानि छन्दांसि प्राचीनैराविष्कृतानि। गेयाधिक्यं दूरीकृत्यार्थगाम्भीर्यं प्रति पाठकानां मनांस्याकर्ष्टुं प्रायेण लयरहितानि छन्दांसि प्राचीनैराविष्कृतानि।”
- भाषासहजगतिः
- संस्कृतस्य मध्याक्षरगतिः। अनुष्टुप्श्लोकः, वसन्ततिलका, शार्दूलविक्रीडितं च तेन प्रयुक्ततमाः।
- क्वचित् (विशिष्य लघूनां) कर्षणेन गेयस्पर्शेन पठ्यन्ते च्छन्दांसि। ते जातिशब्देन व्यवह्रियन्ते।
- जयकीर्तिना छन्दोऽनुशासने विवृतानि।