प्रक्रिया

  • आदौ विषयग्रहणम्। ततो विशिष्ट-वर्ण्यार्थ-स्फुरणम्।
  • पदानि बहुसावधानतया चिनोत्य् उत्तमः।
    • एवं ब्रूते राजारामजशङ्करः। कुन्तकोऽपि कालिदास्यपद्ये कस्मिंश्चित् - “एषां प्रत्येकं कश्चिदप्यर्थः शब्दान्तराभिधेयतां नोत्सहते ।”
    • अधमा अपर्याप्तप्रतीक्षया पद्यम् उद्गिरन्ति। तेन तेषाम् आत्मवञ्चनम् इवेति राजारामज-शङ्करः - “आशुकवितासु साहित्यावधानप्रसङ्गेषु सविवरणापेक्षैः पद्यैश् च विस्मितानां प्रेक्षकाणाम् अभिनन्दनेन वर्धते तद् आत्मवञ्चनम्, कवितापक्वतापेक्षा च ह्रसति +अनाशुपद्येष्व् अपि।”
  • छन्दसाद्य्-अनुरोधेन कदाचिद् वर्ण्यार्थपरिवर्तनम् अपि।