+कवित्वम्

उत्पत्तिहेतुः

शक्तिर् निपुणता लोक-शास्त्र-काव्याद्य्-अवेक्षणात्।
काव्यज्ञ-शिक्षयाऽऽभ्यास इति हेतुस्तदुद्भवे॥

प्रतिभा

  • इयं भावयित्री +++(←रसिकस्था)+++ कारयित्री +++(कविस्था)+++ च।
  • “शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात्।”

अङ्गानि

  • भावोत्तेजनम्। “Wordsworth’s ‘emotion recollected in tranquility’”
  • अभिव्यञ्जनसामर्थ्यम्। “cherished poetic abilities: observation, succinct description, and articulating impressions that we’ve all felt but have probably not thought consciously.”
  • औचित्यघटनम्। साधारण-घटनास् स्वीकृत्य औचित्यं कल्पयति कविर् इति विश्वनाथ-सत्यनारायणः।
  • विपुलीकरणम्।

लोकावेक्षणम् \ व्युत्पत्तिः

लोकस्य स्थावर-जङ्गमात्मकस्य लोक-वृत्तस्य, शास्त्राणां छन्दो-व्याकरणाभिधान-कोश-कलाचतुर्वर्ग-गज-तुरग-खङ्गादि-लक्षण-ग्रन्थानाम्, काव्यानां च महाकवि-सम्बन्धिनाम्, आदिग्रहणाद् इतिहासादीनां च विमर्शनाद् व्युत्पत्तिः।