4

  • Sएए तोप् चोम्मेन्त् ब्लोच्क् फ़ोर् देतैल्स् ओन् ERRORस् अन्द् WARNINGस्।
  • Iन् थे चोन्वेर्तेद् Mअर्क्दोwन् ओर् HTML, सेअर्छ् फ़ोर् इन्लिने अलेर्त्स् थत् स्तर्त् wइथ् )+++)+++> ग्द्२म्द्-ह्त्म्ल् अलेर्त्- फ़ोर् स्पेचिफ़िच् इन्स्तन्चेस् थत् नेएद् चोर्रेच्तिओन्।

Lइन्क्स् तो अलेर्त् मेस्सगेस्-

अलेर्त्१ अलेर्त्२ अलेर्त्३ अलेर्त्४ अलेर्त्५ अलेर्त्६ अलेर्त्७ अलेर्त्८ अलेर्त्९

श्री-श्री-भक्ति-रसामृत-सिन्धुः

उत्तर-विभागः

गौण-भक्ति-रस-विचारः

Cओन्तेन्त्स्।


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.१ ३० हास्य-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.२ १३ अद्भुत-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.३ ५९ वीर-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.४ १६ करुण-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.५ ३२ रौद्र-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.६ १६ भयानक-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.७ऽ १४ बीभत्सा-भक्ति-रसः


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.८ ८४ रसानां मित्र-वैरि-स्थितिह्


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

४.९ ४४ रसाभासः

३०८ वेर्सेस् इन् निने छप्तेर्स्।

श्री-श्री-भक्ति-रसामृत-सिन्धुः

उत्तर-विभागः

(४.१)

हास्य-भक्ति-रसाख्या

प्रथम-लहरी

**॥ ४.१.१ ॥
भक्ति-भरेण प्रीतिं कलयन्न् उररीकृत-व्रजासङ्गः ।
तनुतां सनातनात्मा भगवान् मयि सर्वदा तुष्टिम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम्।
विश्वनाथः : **सनातनो नित्य आत्मा श्री-विग्रहो यस्य सः श्री-कृष्णः भक्त-निष्ठ-भक्त्य्-अतिशयेन प्रीतिं कुर्वन् । पक्षे, सनातन-नामा आत्मा आत्मीयो देहो यस्य सः भक्ति-भरेण प्रीतिं कुर्वन् ॥१॥

—ओ)०(ओ—

**॥ ४.१.२-५ ॥
रसामृताब्धेर् भागेऽत्र तुरीये तूत्ताराभिधे ।
रसः सप्त-विधो गौणो मैत्री-वैर-स्थितिर् मिथः ॥२॥
रसाभासाश् च तेनात्र लहर्यो नव कीर्तिताः ।
प्राग् अत्रानियताधाराः कदाचित् क्वाप्य् उदित्वराः ॥३॥
गौणा भक्ति-रसाः सप्त लेख्या हास्यादयः क्रमात् ॥४॥
भक्तानां पञ्चधोक्तानाम् एषां मध्यत एव हि ।
क्वाप्य् एकः क्वाप्य् अनेकश् च गौणेष्व् आलम्बनो मतः ॥५॥
श्री-जीवः : **ननु, शान्तादिवद् धास्याद्भुतादयोऽपि पृथक् स्युर् विदूषक-सेनान्य्-आदिषु हास्य-वीरादीनां स्थिरता-दर्शनात् तत्राह—भक्तानाम् इति । भक्तानां पञ्चधा रति-पञ्चकाश्रयत्वेनोक्तस्य तत्-तद्-भक्तस्य च सर्वत्रोत्सर्ग-सिद्धतयास्त्य् एवालम्बनत्वम् । किन्तु तत्-तद्-रति-सम्बन्धाद् रतित्वेनोपचर्यमाण-हासादीनां प्राक्र्ट-रस-शास्त्रानुसारेणैव स्थायित्वम् उपचर्यते । तद्-अनुसारेणैव च भयानक-रसादौ दारुणादीनाम् आलम्बनत्वम् अभ्युपगंस्यते । स्व-मते तु—

विभाव्यते हि रत्यादिर् यत्र येन विभाव्यते । विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥

इत्य् आर्ष-प्रमाणानुसारेण सप्तम्य्-अर्थ एव सर्वत्रालम्बनः । स चानुगताया रतेः सम्बन्धेन विषयाश्रय-रूप एवेति ॥५॥

**मुकुन्दः : श्री-रूप-चरणेभ्यो नमः । भक्तानाम् इति—आलम्बनो विषयाश्रय-रूपः । एव-कारात् न तु एभ्योऽन्यस् तटस्थो विपक्षो वेत्य् अर्थः **॥५॥

विश्वनाथः : प्राक् पूर्वम् अनियताधाराः यथा दास्यादयो मुख्य-रसाः पूर्वं दास्यादिषु नित्याधारा एव तेषु उदयं प्राप्नुवन्ति, तथा हासादयो न, किन्तु कदाचित् क्वापि भक्ते उदित्वरा उदय-शीलाः । सप्त अत्र लहर्यां क्रमाल् लेख्याः ॥३-४॥

ननु, यथायं शान्त-भक्तोऽयं दास्य-भक्त इति पृथक् व्यवहारस् तथायं हास्य-भक्त इति पृथक् सञ्ज्ञा कथं न स्याद् इत्य् अत आह—भक्तानाम् इति । शान्तादि-पञ्च-विधानां भक्तानां मध्ये एव सप्तसु गौण-रसेषु मध्ये क्वापि हास्याद्-रसे एको दास आलम्बनं क्वापि करुणादि-गौण-रसे शान्त-दासाद्य् अनेक आलम्बनम् । अतः न तु शान्त-दास्यादि-पञ्च-विध-भक्त-भिन्ने हास्यादयो गौण-रसा भवन्ति । अतो दास्यादिवद्धास्यादि-गौण-रस-विशेष्टानां स्वतन्त्र-सञ्ज्ञा नोचितेति भावः ॥५॥

—ओ)०(ओ—

॥ ४.१.६-७॥

तत्र हास्य-भक्ति-रसः

**वक्ष्यमाणैर् विभावाद्यैः पुष्टिं हास-रतिर् गता ।
हास्य-भक्ति-रसो नाम बुधैर् एष निगद्यते ॥
अस्मिन्न् आलम्बनः कृष्णस् तथान्योऽपि तद्-अन्वयी ।
वृद्धाः शिशु-मुखाः प्रायः प्रोक्ता धीरैस् तद्-आश्रयाः ।
विभावनादि-वैशिष्ठ्यात् प्रवराश् च क्वचिन् मताः ॥
श्री-जीवः : **परार्थाया रतेर् विसायत्वेन तद्-व्यक्तीक्र्ट-हासस्य हेतुत्वेन च कृष्णोऽस्मिन्न् आलम्बनः । तद्-अन्वयात् तस्य कृष्णस्यानुगत-चेष्टश् च तद्-रतेर् आश्रयत्वेन तादृश-हास-हेतुत्वेन चालम्बनः । तस्य हासस्याश्रयास् तद्-आश्रयाः । हासस्य चेतो-विकाश-मात्र-रूपत्वाद् विषयस् तु न विद्यते, न हि कमलादि-विकाशः कञ्चिद् विषयं करोति, यम् उद्दिश्य प्रवर्तत स एव हि विषयः । परिहासोपहास-वाची तु यदा स्यात्, तदा कञ्चिद् विषयम् अपि कुर्यान् नाम, स तु नात्रोपादीयत इति भावः ॥७॥

**मुकुन्दः : **हास-रतिर् हासोत्तरा रतिः । हास-रतेर् आश्रयास् तद्-आश्रयः ॥६-७॥

**विश्वनाथः : **तद्-अन्वयी तस्य श्री-कृष्णस्यानुगत-चेष्टादिश् च तद्-रतेर् आश्रयत्वेन तादृश-हासे हेतुत्वेन चालम्बनः । तद्-आश्रयास् तस्या रतेर् आश्रया आलम्बनाः ॥७॥

—ओ)०(ओ—

॥ ४.१.८ ॥

तत्र कृष्णो, यथा—

**यास्याम्य् अस्य न भीषणस्य सविधं जीर्णस्य शीर्णाकृतेर्
मातर् नेष्यति मां पिधाय कपटाद् आधारिकायाम् असौ ।
इत्य् उक्त्वा चकिताक्षम् अद्भुत-शिशाव् उद्वीक्ष्यमाणे हरौ
हास्यं तस्य निरुद्धतोऽप्य् अतितरां व्यक्तं तदासीन् मुनेः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम्।
विश्वनाथः : **जटिल-सन्न्यासिनां वस्त्र-निर्मित-भिक्षा-पात्रम् आधारिका, तस्यां मां निह्नुत्य स्व-स्थानं नेष्यति, मुनेर् नारदस्य ॥८॥

—ओ)०(ओ—

॥ ४.१.९ ॥

अथ तद्-अन्वयी—-
यच्-चेष्टा कृष्ण-विषया प्रोक्तः सोऽत्र तद्-अन्वयी ॥
श्री-जीवः : यच्-चेष्टा
इति यद् यस्य ॥९॥

मुकुन्दः, विश्वनाथः : न व्याख्यातम्।

_ —ओ)०(ओ—_

॥ ४.१.१० ॥

यथा—

ददामि दधि-फाणितं विवृणु वक्त्रम् इत्य् अग्रतो
निशम्य जरती-गिरं विवृत-कोमलौष्ठे स्थिते ।
तया कुसुमम् अर्पितं नवम् अवेत्य भुग्नानने
हरौ जहसुर् उद्धुरं किम् अपि सुष्ठु गोष्ठार्भकाः ॥१०॥
श्री-जीवः : फाणितं
खण्ड-विकृतिः । दधि-मिश्रितं फाणितं दधि-फाणितंकोमल- इति बाल्यं व्यञ्जितम् ॥१०॥

**मुकुन्ददासः : **फाणितं खण्ड-विकृतिः । दधि-मिश्रितं फाणितम्कोमल- इति बाल्यं व्यञ्जितम् । अत्र वृद्धा विषयालम्बनं, हरेर् भुग्नाननत्वम् उद्दीपनम् ॥१०॥

**विश्वनाथः : **फाणितं खण्ड-विकृतिः । दधि-मिश्रितं फाणितम्कोमल- इति बाल्यं व्यञ्जितम्। भुग्नानने तिक्त-रसास्वादनेन कुटिलीकृतानने ॥१०॥

—ओ)०(ओ—

॥ ४.१.११ ॥

यथा वा—

**अस्य प्रेक्ष्य करं शिशोर् मुनि-पते श्यामस्य मे कथ्यतां
तथ्यं हन्त चिरायुर् एष भविता किं धेनु-कोटीश्वरः ।
इत्य् उक्ते भगवन् मयाद्य परितश् चीरेण किं चारुणा
द्राग् आविर्भवद्-उद्धुर-स्मितम् इदं वक्त्रं त्वया रुध्यते ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **मुनिं प्रति यशोदाह—हे मुनि-पते ! भगवन् ! मया इत्य् उक्ते सति चारुणा मनोहरेण चीरेण वस्त्रेण आविर्भवद्-उद्धुर-स्मित-विशिष्टं वक्त्रं त्वया किं रुध्यते ? ॥११॥

—ओ)०(ओ—

**॥ ४.१.१२-१५ ॥
उद्दीपना हरेस् तादृग्-वाग्-वेष-चरितादयः ।
अनुभावास् तु नासौष्ठ-गण्ड-निष्पन्दनादयः ॥
हर्षालस्यावहित्थाद्या विज्ञेया व्यभिचारिणः ।
सा हास-रतिर् एवात्र स्थायि-भावतयोदिता ॥
षोढा हास-रतिः स्यात् स्मित-हसिते विहसितावहसिते च ।
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ॥
विभावनादि-वैचित्र्याद् उत्तमस्यापि कुत्रचित् ।
भवेद् विहसिताद्यं च भावज्ञैर् इति भण्यते ॥
श्री-जीवः : **उद्दीपना इत्य् अत्र हरेर् इत्य् उपलक्षणं, तद्-अन्वयिनोऽपि ज्ञेयाः ॥१२॥

**मुकुन्ददासः : **उद्दीपना इत्य् अत्र यथा मुख्य-रसेषु भक्तानां ते नोक्ता ग्रन्थ-विस्तार-भयात्, तथात्रापि तद्-अन्वयिनो नोक्ताः । किन्तु सर्वत्र यथोचितं ज्ञेयाः । उज्ज्वल-नीलमणौ गुणा उक्ता एव ॥१२॥

ज्येष्ठादिनां ज्येष्ठ-मध्य-कनिष्ठानां । तत्र ज्येष्ठा मुनि-सख्याद्याः, मध्या वृद्धा-दूत्य्-आद्याः । कनिष्ठा बालाः ॥१४॥

अनुभावास् तु नासौष्ठ-गण्ड-विस्पन्दनादयः, विभावनादीत्य् अयम् अर्थः—हास-रतेः बाल्य-वृद्धा प्रायः आश्रयाः, विभावनादेर् वैचित्र्यद् इति वैशिष्ट्यात् तु उत्तरस्यपि प्रवर-ज्येष्ठापर-पर्यायस्य विहासिताद्यं रति-चतुष्टयं च भवेद् इति ॥१५॥

विश्वनाथः : ज्येष्ठस्य उत्तमस्य स्मित-हसिते द्वे, मध्यमस्य विहसितावहसिते द्वे, कनिष्ठस्य अपहसितातिहसिते द्वे ॥१४॥

—ओ)०(ओ—

॥ ४.१.१६-१७ ॥

तत्र स्मितम्—
स्मितं त्व् अलक्ष्य-दशनं नेत्र-गण्ड-विकाश-कृत् ॥

यथा—

क्व यामि जरती खला दधि-हरं दिधीर्षन्त्य् असौ
प्रधावति जवेन मां सुबल मङ्क्षु रक्षां कुरु ।
इति स्खलद्-उदीरिते द्रवति कान्दिशीके हरौ
विकस्वर-मुखाम्बुजं कुलम् अभून् मुनीनां दिवि ॥
श्री-जीवः : सुबल
! हे सुष्ठु-बल ! इति किञ्चिद् बलिष्ठं ज्येष्ठं भ्रातरं प्रति सम्बोधनं, न तु सुबल-सञ्ज्ञम् तत्-सम-वयस्त्वं प्रति । कान्दिशीके भय-द्रुते । द्रवति इति द्रवस्यातिशय-बोधनाय ॥१७॥

मुकुन्ददासः : सुबल इति । साहयार्थं सखायं प्रति सम्बोधनम् । कान्दिशीके भय-द्रुते । पुनर् द्रवतीति द्रवस्यातिशय-बोधनाय ॥१७॥

**विश्वनाथः : **हे सुबल ! क्व यामि ? खला जरती वृद्धा मां दधि-हरं ज्ञात्वा धर्तुम् इच्छन्ती सती वेगेन धावति । अतो मां मङ्क्षु शीघ्रं रक्षां कुरुकान्दिशीके भय-द्रुते हरौ द्रवति सति । द्रवतीति द्रवस्यातिशय-बोधनाय मुनीनां विकसित-मुखाम्बुजम् अभूत् ॥१७॥

—ओ)०(ओ—

॥ ४.१.१८-१९ ॥
हसितम्—
तद् एव दर-संलक्ष्य-दन्ताग्रं हसितं भवेत् ॥

यथा—

**मद्-वेशेन पुरः-स्थितो हरिर् असौ पुत्रोऽहम् एवास्मि ते
पश्येत्य् अच्युत-जल्प-विश्वसितया संरम्भ-रज्यद्-दृशा ।
माम् एति स्खलद्-अक्षरे जटिलया व्याक्रुश्य निष्कासिते
पुत्रे प्राङ्गतः सखी-कुलम् अभूद् दन्तांशु-धौताधरम् ॥
श्री-जीवः : **मद्-वेशेनेति दूरम् आयान्तम् अदृष्ट-स्व-वेशि-श्री-कृष्णं श्री-राधिकायाः पतिम्मन्यं जटिलायाः पुत्रम् अभिमन्युं दृष्ट्वा तद्-वेशेन तद्-गृहम् गतस्य श्री-कृष्णस्य तां प्रति वचनम् । निष्कासिते दूरत एव विद्राविते । तस्या वातुलताम् आशङ्क्य स्व-बन्धूनाम् आनयनार्थं तस्य विद्रुतत्वात् ॥१९॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **तद् एव स्म्तम् ईषत्-संलक्स्य-दन्ताग्रं चेत्, तदा हसितं भवेत् ॥१८॥ श्री-राधायाः पतिम्मन्यं जटिलायाः पुत्रम् अभिमन्युं दृष्ट्वा तद्-वेशेन तद्-गृहं प्रविष्टः श्री-कृष्णो जटिलां प्रत्याह । “हे मातः ! त्वत्-पुत्रोऽहम् । अत एव ताडनं मां मा कुरु ।” इति समनाक्षराणां दुःखेनोच्चारणासामर्थ्यात् केवलं मा मा इति स्खलन्न् अक्षरो यस्य तथा-भूते पुत्रे अभिमन्यौ मात्रा जटिलया स्वस्याङ्गनतो निष्कासिते सति सखी-कुलं दन्त-किरणैः धौताधरम् अभूत् । कथम्-भूतया ? संरम्भेण क्रोधावेशेन रज्यन्ती दृक् यस्यास् तया ॥१९॥

—ओ)०(ओ—

॥ ४.१.२०-२१ ॥
विहसितम्—
स-स्वनं दृष्ट-दशनं भवेद् विहसितं तु तत् ॥

यथा—

**मुषाण दधि मेदुरं विफलम् अन्तरा शङ्कसे
स-निःश्वसित-डम्बरं जटिलयात्र निद्रायते ।
इति ब्रुवति केशवे प्रकट-शीर्ण-दन्त-स्थलं
कृतं हसितम् उत्स्वनं कपट-सुप्तया वृद्धया ॥
श्री-जीवः : **कपट-सुप्तयेत्य् अनेन तयेति पूर्वोक्त-स्वारस्याल् लभ्यते । सुप्तयाप्य् एतयेति वा पाठः ॥२१॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **तद् धसितं स-स्वनं स-शब्दं दृष्ट-दशनं चेत् तदा विहसितं भवेत् ॥२०॥ श्री-कृष्णः सुबलम् आह—हे सखे ! मेदुरं स्निग्धं दधि मुषाण चोरय । निश्वासस्य डम्बरम् औत्कट्यं तत्-सहितं यथा स्यात् तथा जटिलयातिनिद्रायते । अतस् त्वम् अन्तरा मध्ये विफलम् आशङ्कसे । प्रकट-शीर्ण-दन्त-स्थलं यथा स्यात् तथा । एवम् उच्छ्वसनम् उच्च-शब्द-युक्तं यथा स्यात् तथा वृद्धया हसितं कृतम् ॥२१॥

—ओ)०(ओ—

॥ ४.१.२२-२३ ॥

अवहसितम्—
तच् चावहसितं फुल्ल-नासं कुञ्चित-लोचनम् ॥

यथा—

**लग्नस् ते नितरां दृशोर् अपि युगे किं धातु-रागो घनः
प्रातः पुत्र बलस्य वा किम् असितं वासस् त्वयाङ्गे धृतम् ।
इत्य् आकर्ण्य पुरो व्रजेश-गृहिणी-वाचं स्फुरन्-नासिका
दूती सङ्कुचद्-ईक्षणावहसितं जाता न रोद्धुं क्षमा ॥
श्री-जीवः : **लग्नस् ते इत्य् आदौ । पुत्रेत्य् अत्र मित्रेति व्रजेश-गृहिणी-वाचम् इत्य् अत्र च धृतार्जव-सुहृद्-वाचम् इति वा पाठान्तरं ज्ञेयम् ॥२३॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **रात्रौ राधया सह विहार-वशात् श्री-कृष्णस्य नेत्रयो लग्नं तस्यास् ताम्बूल-रागं दृष्ट्वा एवं श्री-कृष्णेन भ्रमाद् अङ्गे धृतं श्री-राधिकायाः श्यामोत्तरीयं च दृष्ट्वा यशोद श्री-कृष्णम् आह—हे पुत्र ! तव नेत्रयोः घनं निविडः धातु-रागः गैरिकः किं लग्नः ? बलदेवस्य असितं श्यामं वस्त्रं त्वरा किम् अङ्गे धृतम् ? रोद्धुं न क्षमा न समर्था बभूव ॥२३॥

—ओ)०(ओ—

॥ ४.१.२४-२५ ॥
अपहसितम्—
तच् चापहसितं साश्रु-लोचनं कम्पितांसकम् ॥

यथा—

उदस्रं देवर्षिर् दिवि दर-तरङ्गद्-भुज-शिरा
यद् अभ्राण्य् उद्दण्डो दशन-रुचिभिः पाण्डरयति ।
स्फुटं ब्रह्मादीनां नटयितरि दिव्ये व्रज-शिशौ
जरत्याः प्रस्तोभान् नटति तद् अनैषीद् दृशम् असौ ॥
श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : प्रस्तोभात्
नृत्यानुकूल-कर-वादनादेः ॥२५॥

विश्वनाथः : कम्पितोऽंसकः स्कन्ध-देशो यत्र तत् ॥२४॥ उद्गताश्रु-जलं यथा स्यात्, तथा **दर-तरङ्गद् **ईषच्-चलद् भुज-शिरः स्कन्ध-देशो यस्य तथा-भूतो देवर्षिर् नारदः दन्तानां श्वेत-कान्तिभिः यद् यस्माद् अभ्राणि पाण्डवयति, तत् तस्मात् असौ नारदः—“हे श्री-कृष्ण ! त्वं नृत्यं कुरु, तुभ्यं खण्ड-लड्डुकानि दास्यामि” इति वृद्धायाः प्रलोभनात् नटति अप्राकृते व्रज-शिशौ श्री-कृष्णे दृष्टिम् अनैषीत् । तथा च श्री-कृष्णस्य नृत्यं दृष्ट्वा नारद उच्चैः जहास इत्य् अर्थः ॥२५॥

—ओ)०(ओ—

॥ ४.१.२६-२७ ॥
अतिहसितम्—
सहस्र-तालं क्षिप्ताङ्गं तच् चातिहसितं विदुः ॥

यथा—

**वृद्धे त्वं वलिताननासि वलिभिः प्रेक्ष्य सुयोग्याम् अतस्
त्वाम् उद्वोढुम् असौ बली-मुख-वरो मां साधयत्य् उत्सुकः ।
आभिर् विप्लुत-धीर् वृणे न हि परं त्वत्तो बलि-ध्वंसनाद्
इत्य् उच्चैर् मुखरा-गिरा विजहसुः सोत्तालिका बालिकाः ॥
श्री-जीवः : **बलिः कुञ्चित-चर्म । बलीमुखो वानरः । साधयति साधनाय प्रेरयति इति द्विर् णच्-प्रत्ययात् । बलिनस् तृणावर-पूतनादयस् तेषां ध्वंस-कर्तुः, आभिर् बलिभिर् विप्लुता उपप्लुता धीर् यस्याः ॥२७॥

**मुकुन्ददासः : **बलिभिः कुञ्चित-चर्मभिर् वलितानना व्याप्त-मुखी । बलीमुखो वानरः । साधयति तस्मिन् निस्पादनाय मां प्रेरयतीति द्वि-निच्-प्रत्ययात् । आभिर् बलिभिर् विप्लुता उपद्रुता धीर् यस्याः सा, बलिनस् तृणावर्त-पूतनिकादयस् तेषां ध्वंसनान् नाश-कर्तुः ॥२७॥

**विश्वनाथः : **बलिः कुञ्चित-चर्म ताभिर् युक्ताननासि, अतस् त्वां स्व-योग्यां प्रेक्ष्य असौ वानरः उद्वोढु-कामः सन् मां कृष्णं साधयति साधनाय प्रेरयति । आभिर् बलिभिर् विप्लुता उपद्रुता धीर् यस्याःस् तथा-भूताहं त्वत्तः कृष्णात् परं जनं न वृणे । त्वत्तः किं-भूतात्? यतो बलि-ध्वंसनात्, वास्तवार्थस् तु बलिनः तृणावर्त-पूतनादयः तेषां ध्वंसन-कर्तुः ॥२७॥

—ओ)०(ओ—

॥ ४.१.२८-२९ ॥
यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते ।
तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते ॥

यथा—

शिम्बी-लम्बि-कुचासि दर्दुर-वधू-विस्पर्धि नासाकृतिस्
त्वं जीर्यद्-दुलि
1**-दृष्टिर् ओष्ठ-तुलिताङ्गारा मृदङ्गोदरी ।
का त्वत्तः कुटिले परास्ति जटिला-पुत्रि क्षितौ सुन्दरी
पुण्येन व्रज-सुभ्रुवां तव धृतिं हर्तुं न वंशी क्षमा ॥
श्री-जीवः : **दुडिः कमठी ॥२९॥

**मुकुन्ददासः : **दुडिः कच्छपी ॥२९॥

**विश्वनाथः : **दर्दुर-वधूः भेकी । दुलिः कच्छपी ॥२९॥

—ओ)०(ओ—

**॥ ४.१.३० ॥
एष हास्य-रसस् तत्र कैशिकी-वृत्ति-विस्तृतौ ।
शृङ्गारादि-रसोद्भेदो बहुधैव प्रपञ्चितः ॥३०॥
श्री-जीवः : **तत्र भरतादि-निबन्धे स्व-कृत-नाटक-लक्षणे ॥३०॥

**मुकुन्ददासः : **तत्र भरतादि-निबन्धे ॥३०॥

विश्वनाथः : न व्याख्यातम्।

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

हास्य-भक्ति-रस-लहरी प्रथमा

॥ ४.१ ॥

—ओ)०(ओ—

(४.२)

अद्भुत-भक्ति-रसाख्या

द्वितीय-लहरी

॥ ४.२.१-२ ॥
आत्मोचितैर् विभावाद्यैः स्वाद्यत्वं भक्त-चेतसि ।
सा विस्मय-रतिर् नीताद्भुतो-भक्ति-रसो भवेत् ॥
भक्तः सर्व-विधोऽप्य् अत्र घटते विस्मयाश्रयः ।
लोकोत्तर-क्रिया-हेतुर् विषयस् तत्र केशवः ॥
श्री-जीवः : भक्त
इति सार्ध-त्रयेणाद्भुतस्य परिकरान् आह । विस्मयाश्रयो विस्मय-रतेर् आश्रय इत्य् अर्थः । विषयस् तस्या एव विषय इत्य् अर्थः । विस्मयश् च “इदं कथं जातम् ?” इति हेत्व्-असम्भावना-मयी बुद्धिः । एताभ्यां द्वयोर् अप्य् अलम्बन-विभावत्वं दर्शितम् । “विषय इत्य् अत्र विभावः” इति पाठो लिखन-भ्रमात् ॥२॥

मुकुन्ददासः : भक्त इति विभावा भक्त आश्रया विस्मय-रतेर् आस्वाद-हेतुः । लोकोत्तरार्थ-वीक्षादेर् विस्मयश् चित्त-विस्तृतिर् इति सामान्य-रसे अर्थ-शब्दाद् रूप-गुण-कर्माणि यद्यपि लब्धानि, तथापि परकीय-मततया सङ्क्षेपार्हं सा लोकोत्तर-कर्मतः इत्य् उक्तम् । स्व-मते त्व् एतान्य् उद्दीपनत्वेनोक्तान्य् एव । यथा-योग्यं भक्तानाम् अपि सखि-प्रकर-मार्गणान् इत्य् अत्र, अमंस्त रचित-स्तुतिर् [भ।र।सि। ४.३.८] इत्य्-आदेर् वक्ष्यमाणात्, गुम्फन्तु गोपाः [भ।र।सि। २.४.४५] इत्य् अत्र हृदि विस्मितः स्रजम् [भ।र।सि। २.४.४५] इत्य्-आदेर् उक्ताच् च तानि ज्ञेयानि । किन्तु तर्कागोचर-सर्व-लोकोत्तरोत्तरोक्तिर् या साश्रयत्वेन एव दर्शिता ॥२॥

**विश्वनाथः : **अद्भुत-रसस्य परिकरान् आह—भक्त इति सार्ध-त्रयेण । विस्मयाश्रयः विस्मय-रतेर् आश्रय इत्य् अर्थः । विषयः तस्या एव रतेर् विषय इत्य् अर्थः । विस्मयश् च “इदं कथं जातम् ?” इति हेत्व्-असम्भावना-मयी बुद्धिः ॥२॥

—ओ)०(ओ—

॥ ४.२.३-४ ॥
तस्य चेष्टा-विशेषाद्यास् तस्मिन्न् उद्दीपना मताः ।
क्रियास् तु नेत्र-विस्तार-स्तम्भाश्रु-पुलकादयः ॥
आवेग-हर्ष-जाड्याद्यास् तत्र स्युर् व्यभिचारिणः ।
स्थायी स्याद् विस्मय-रतिः सा लोकोत्तर-कर्मतः ।
साक्षाद् अनुमितं चेति तच् च द्विविधम् उच्यते ॥
श्री-जीवः : लोकोत्तर-कर्मत
इत्य् उपलक्षणं, तादृश-रूप-गुणाभ्यां च । किन्तु लोकोत्तर-तत्-प्रेम-हेतुर् भक्तश् चेत् तदा सोऽपि तद्वज् ज्ञेयः । तथा नेमं विरिञ्चो न भवः [भा।पु। १०.९.२०] इत्य्-आदौ, इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदौ, नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य्-आदौ च ॥४॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **क्रिया रत्य्-अनुभावाः ॥३॥ लोकोत्तर-कर्मत इत्य् उपलक्षणं, लोकोत्तर-प्रेम-हेतुर् भक्तश् चेत् तदा सोऽपि तद्वज् ज्ञेयः । तथा नेमं विरिञ्चो न भवः [भा।पु। १०.९.२०] इत्य् आदौ, इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य् आदौ, नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य् आदौ च ॥४॥

—ओ)०(ओ—

॥ ४.२.५-७ ॥

तत्र साक्षात्, यथा—

साक्षाद् ऐन्द्रियकं दृष्ट-श्रुत-सङ्कीर्तितादिकम् ॥

तत्र दृष्टं, यथा—

एकम् एव विविधोद्यम-भाजं
मन्दिरेषु युगपन् निखिलेषु ।
द्वारकाम् अभि समीक्स्य मुकुन्दं
स्पन्दनोज्झित-तनुर् मुनिर् आसीत् ॥

यथोक्तं श्री-दशमे (१०.६९.२)—

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥
श्री-जीवः : एकम्
इति । एक-वपुषम् एव सन्तम् इत्य् अर्थः । तस्मान् मुनिर् अत्र श्री-नारदः । अत एव काय-व्यूह-समर्थानाम् अपि तद्-विधानां विस्मयः ॥६॥ \

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : ऐन्द्रियकम्
इन्द्रिय-जन्यं ज्ञानं साक्षाद् उच्यते । तच् च त्रिविधं दृष्टम् इत्य्-आदि ॥५॥ एकम् इति एक-वपुषम् इत्य् अर्थः । तस्मान् मुनिर् अत्र श्री-नारदः ॥६॥ चित्रम् इति—अत एव काय-व्यूह-समर्थानाम् अपि तद्-विदां विस्मयः ॥७॥

—ओ)०(ओ—

॥ ४.२.८ ॥

यथा वा—

क्व स्तन्य-गन्धि-वदनेन्दुर् असौ शिशुस् ते
गोवर्धनः शिखर-रुद्ध-घनः क्व चायम् ।
भोः पश्य सव्य-कर-कन्दूकिताचलेन्द्रः
खेलन्न् इव स्फुरति हन्त किम् इन्द्र-जालम् ॥
श्री-जीवः : स्तन्य-गन्धि
इति । अत्र अल्पाख्यायां समासान्त इत्-प्रत्ययः । अचलेन्द्रः पूर्वोक्त एव गोवर्धनः प्रकृतत्वात् कन्दुकितं तम् अद्रिं कुर्वन् मुदं वहतीति वा पाठः ॥८॥

**मुकुन्ददासः : **श्री-नन्दं प्रति श्री-यशोदोक्तिः—क्व इति । स्तन्य-गन्धि इत्य् अत्राल्पाख्यायां समासन्त इत्-प्रत्ययः ॥८॥

विश्वनाथः : स्तन्य-गन्धि इति । अत्राल्पाख्यायां समासान्त इत्-प्रत्ययः । अचलेन्द्रः पूर्वोक्त एव गोवर्धनः ॥८॥

—ओ)०(ओ—

॥ ४.२.९ ॥
श्रुतं
, यथा—

यान्य् अक्षिपन् प्रहरणानि भटाः स देवः
प्रत्येकम् अच्छिनद् अमूनि शर-त्रयेण ।
इत्य् आकलय्य युधि कंसरिपोः प्रभावं
स्फारेक्षणः क्षितिपतिः पुलकी तदासीत् ॥
श्री-जीवः : भटा
नरकस्यैकादशाक्षौहिणी-सङ्ख्याः, क्षिति-पतिः श्री-परीक्षित् ॥९॥

मुकुन्ददासः : भटा नरकस्यैकादशाक्षौहिणी-सङ्ख्याः, क्षिति-पतिर् युधिष्ठिरः ॥९॥

विश्वनाथः : भटा नरकासुर-सेवकाः एकादशाक्षौहिणी-सङ्ख्याः प्रहरणानि यानि । **क्षिति-पतिः **श्री-परीक्षित् ॥९॥

—ओ)०(ओ—

॥ ४.२.१० ॥
सङ्कीर्तितं,
यथा—

डिम्बाः स्वर्ण-निभाम्बरा घन-रुचो जाताश् चतुर्बाहवो
वत्साश् चेति वदन् कृतोऽस्मि विवशः स्तम्भ-श्रिया पश्यत ।
आश्चर्यं कथयामि वः शृणुत भोः प्रत्येकम् एकैकशः
स्तूयन्ते जगद्-अण्डवद्भिर् अभितस् ते हन्त पद्मासनैः ॥
श्री-जीवः : डिम्भा
इति । सत्य-लोक-सभायां श्री-ब्रह्म-वाक्यम् । स्तम्भ-श्रिया पश्यत इत्य् एव पाठस् त्व् एषाम् इष्टः । स्तूयन्त इति वर्तमान-सामीप्ये वर्तमानवद् वेति न्यायेन अविलम्ब-दृष्टत्वं सूचयति ॥१०॥

मुकुन्ददासः : डिम्भा इति । सत्य-लोक-सभायां श्री-ब्रह्म-वाक्यम् । “स्तम्भेन सम्पश्यत” इति पाठः । प्रत्येकम् एक एक एकैकशः एकेनैकेन । अत्र स्वार्थे कः, शस् प्रत्ययो ज्ञेयः । ऋषि-सहस्रम् एकां कपिलाम् एकैकशः सहस्र-कृत्वा दत्तेति भाष्य-प्रयोगात् । स्तूयन्ते इति वर्तमान-सामीप्ये वर्तमानवद् वेति अविलम्ब-दृष्टत्वं सूचयति ॥१०॥

**विश्वनाथः : **सत्य-लोक-सभायां श्री-ब्रह्मणो वाक्यम् । डिम्भा बालकाः । वत्साश्चतुर्-बाहवो जाता इति वदन्न् अहं **स्तम्भ-**भावेन विवशः कृतोऽस्मि । स्तूयन्त इति वर्तमान-सामीप्ये वर्तमानवद् वेति न्यायेनाविलम्ब-दृष्टत्वं सूचयति ॥१०॥

—ओ)०(ओ—

॥ ४.२.११ ॥
अनुमितं
, यथा—

**उन्मील्य व्रज-शिशवो दृशं पुरस्ताद्
भाण्डीरं पुनर् अतुल्य विलोकयन्तः ।
सात्मानं पशु-पटलीं च तत्र दावाद्
उन्मुक्तां मनसि चमत्क्रियाम् अवापुः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **दावानलाद् उन्मुक्ताम् आत्मना सहितां पशुपालींविलोकयन्तः ॥११॥

—ओ)०(ओ—

**॥ ४.२.१२-१३ ॥
अप्रियादेः क्रिया कुर्यान् नालौकिक्य् अपि विस्मयम् ।
असाधारण्य् अपि मनाक् करोत्य् एव प्रियस्य सा ॥
प्रियात् प्रियस्य किम् उत सर्व-लोकोत्तरोत्तरा ।
इत्य् अत्र विस्मये प्रोक्ता रत्य्-अनुग्रह-माधुरी ॥
श्री-जीवः : **श्री-कृष्णे एवाद्भुतो रसः समुद्भूतः स्याद् इति कथयन् सर्वम् अपि रसं विस्मयवताव् एव प्रतिष्ठापयति–अप्रियादेर् इति द्वयेन । तद् उक्तं—

रसे सारश् चमत्कारः सर्वत्राप्य् अनुभूयते । तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥2 इति ।

मनाग् अप्य् असाधारणीति योज्यम् ॥१२-१३॥

**मुकुन्ददासः : **ननु परमेश-बुद्धीनां कोटि-ब्रह्माण्ड-कर्तरि विस्मय एव तावन् न जायते । यदि वा जायते, तर्हि मुख्यां रतिम् एव पुष्णीत, रतिः कथम् एनं तथा चारुतां नयति यथा कथञ्चित् काल-मयं स्थायितां यातीत्य् अत्राह–अप्रियादेर् इति द्वाभ्याम् । सर्व-लोकोत्तरोत्तरा इत्य् अत्रायं विवेकः—यथा प्रिय-जनस्याल्पाप्य् असाधारणी क्रिया विस्मयं करोति, तथा येषां शुद्ध-प्रेम, तेषां स्वल्पापि सा तत्-कर्त्री । येषां परमैश्य-ज्ञानात्मकं प्रेम, तेषां तर्कागोचर-सर्व-लोकोत्तरोत्तरा सा तथा । येषां परमैश्य-ज्ञान-मिश्रं तत् तेषां तर्कागोचर-प्रभाव-मात्र-प्रकाशिता सा तथेति ॥१२-१३॥

**विश्वनाथः : **यस्मिन् प्रीतिर् नास्ति, प्रत्युत द्वेषो वर्तते, तस्यालौकिक्य् अपि क्रिया विस्मयं न कुर्यात्, प्रीत्य्-अभाव-द्वेषयोः प्रतिबन्धकत्वात्, लोकोत्तरापि क्रिया विस्मयं करोत्य् एव । इति सात्र रीतिः । एवं सति प्रियाद् अपि प्रियस्य श्री-कृष्णस्य सर्व-लोकोत्तरोत्तरा क्रिया विस्मयं कुर्याद् इति किं वक्तव्यम् ? तथा च श्री-कृष्णस्य सा क्रिया विस्मयं करोत्य् एवेत्य् अर्थः ॥१२-१३॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

अद्भुत-भक्ति-रस-लहरी द्वितीया

॥ ४.२ ॥

—ओ)०(ओ—

(४.३)

वीर-भक्ति-रसाख्या

तृतीय-लहरी

॥ ४.३.१-३ ॥
सैवोत्साह-रतिः स्थायी विभावाद्यैर् निजोचितैः ।
आनीयमाना स्वाद्यत्वं वीर-भक्ति-रसो भवेत् ॥१॥
युद्ध-दान-दया-धर्मैश् चतुर्धा वीर उच्यते ।
आलम्बन इह प्रोक्त एष एव चतुर्विधः ॥२॥
उत्साहस् त्व् एष भक्तानां सर्वेषाम् एव सम्भवेत् ॥३॥
श्री-जीवः : उत्साह
उत्साह-रतिः । सर्वेषाम् इति कस्यचित् उत्साह-भेदः स्याद् इत्य् अभिप्रायेण ॥३॥

मुकुन्ददासः : एष एव वीर-भक्त एव, न त्व् अभक्तः ॥२॥ उत्साह उत्साहोत्तरा रतिः । सर्वेषाम् इति कस्यचित् कश्चिद् उत्साह-भेदः स्याद् इत्य् अभिप्रायेण ॥३॥

विश्वनाथः : युद्ध- इति । युद्ध-वीर-दान-वीर-दया-वीर-धर्म-वीरा इति चतुर्धा वीर उच्यते ॥२॥ सर्वेषाम् इति । कस्यचिद् भक्तस्य युद्धोत्साहः । कस्यचिद् दानोत्साहः । एवं-रीत्या सर्वेषां ज्ञेय इति भावः ॥३॥

—ओ)०(ओ—

॥ ४.३.४-५ ॥

तत्र युद्ध-वीरः—
परितोषाय कृष्णस्य दधद् उत्साहम् आहवे ।
सखा बन्धु-विशेषो वा युद्ध-वीर इहोच्यते ॥
प्रतियोद्धा मुकुन्दो वा तस्मिन् वा प्रेक्षके स्थिते ।
तदीयेच्छा-वशेनात्र भवेद् अन्यः सुहृद्-वरः ॥
विश्वनाथः : तस्मिन्
श्री-कृष्णे वा द्रष्टरि सति तदीयेच्छा-वशाद् अन्य एव सखा प्रतियोद्धा भवेत् ॥४-५॥

—ओ)०(ओ—

॥ ४.३.६ ॥

तत्र कृष्णो, यथा—

अपराजित-मानिनं हठाच्
चटुलं त्वाम् अभिभूय माधव ।
धिनुयाम् अधुना सुहृद्-गणं
यदि न त्वं समरात् पराञ्चसि ॥६॥
श्री-जीवः : यदि न त्वम्
इति । **यदि **समरं त्यक्तुं छलेन समरात् पराङ्मुखो न भवसीत्य् अर्थः । “स यदि त्वं समरं समञ्चसि” इति वा पाठः ॥६॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **“यदि समरं त्यक्तुं छलेन समरात् समञ्चसि” इति वा पाठः ॥६॥

—ओ)०(ओ—

॥ ४.३.७ ॥

यथा वा—

संरम्भ-प्रकटीकृत-प्रतिभटारम्भ-श्रियोः साद्भुतं
कालिन्दी-पुलिने वयस्य-निकरैर् आलोक्यमानस् तदा ।
अव्युत्थापित-सख्ययोर् अपि वराहङ्कार-विस्फूर्जितः
श्रीदाम्नश् च बकी-द्विषश् च समराटोपः पटीयान् अभूत् ॥
श्री-जीवः : संरम्भेण
कोपेनैव प्रकटीकृता प्रतिभटस्य प्रतियोद्धुर् आरम्भ-श्रीर् याभ्याम् । वस्तुतस् तु अव्युत्थापित-सख्ययोर् अविरोधित-मैत्रयोर् अपि । श्रीदाम्नश् च बकी-द्विषश् इति श्रीदाम-बकीद्विषोर् द्वयोर् इत्य् अर्थः । एतद्-अर्थ-वशाद् एव विशेषणानां द्वित्वम् ।

एतद् उक्तं भवति—चार्थः खलु चतुर्विधः—समुच्चयान्वाचयेतरेतर-योग-समाहार-भेदेन । तत्र समुच्चयार्थश् च शब्दस् तत्-तद्-अर्थानां पृथक्-पृथक्ता-व्यञ्जकः । यथा श्रीदाम च बकीद्विट् चागत इत्य् अत्र आगतस्य पृथक् पृथक् सम्बन्धः । अन्वाचयार्थश् च तथा—यथा बकीद्विषम् आनय यदि पश्यसि श्रीदामानं च किन्तूत्तर-निर्दिष्टेनात्याग्रहं व्यञ्जयति । यथा श्री-कृष्णश् च लोकश् च दृश्यताम् इति । तस्मात् समर्थ-शब्दोक्त-परस्पर-सम्बन्धार्थत्वाभावाद् अनयोर् न द्वन्द्व-समासः क्रियते, किन्तु तद्-भावाद् उत्तरयोर् एव। तत्र समाहारे समर्थत्वे सत्य् अपि मिलन-मात्र-वाचित्वेन तद्वताम् अवाचित्वात् प्रतिविशेषणान्वयित्वं स्याद् एव । यथा पदक-क्रमकम् अव्यवहितम् इत्य्-आदि । तद्वति वृत्तिस् तत्रोपचाराद् एव । अथेतरेतर-योगार्थश् च-शब्दस् तत्-तत्-प्रत्येक-सङ्ख्या-समुदयेन यावती तेषां सङ्ख्या स्यात्, तावत् सङ्ख्यान्वितता-व्यञ्जकः । तत्र च द्वन्द्वे श्रीदाम-बकीद्विषाव् आगताव् इत्य् अत्र श्रीदामा च बकीद्विट् चेति द्वाव् अगताव् इत्य् अर्थः । समुच्चयाद् अस्यायम् एव भेदः। यदि च समासे तथार्थः स्यात्, तदा तद्-विग्रहेऽपि स्याद् यम् आवलम्ब्यैव समासानाम् अर्थः प्रवर्तते । द्वन्द्व-समासस्य च वैकल्पिकत्वात् केवल-विग्रहोऽपि प्रयुज्यते । ततश् च श्रीदामा च बकीद्विट् चागताव् इत्य् अपि स्यात् । यथा स च त्वं चाहं च पचाम इत्य् अत्र विप्रतिषेधे परं कार्यम् [पा। १.४.२] इति पाणिनेर् युगपद्-वचने परः पुरुषाणाम् इति सर्व-वर्मणश् च न्यायेनोत्तम-पुरुषेऽपि प्राप्ते बहु-वचनं पूर्ववद् एव स्याद् इति साधु व्याख्यातं—श्रीदाम-बकीद्विषोर् द्वयोर् इत्य्-आदि ॥७॥

मुकुन्ददासः : संरम्भेण युद्ध-वीर-रस-स्वभावजेन कोपेन प्रकटीकृता प्रतिभटस्य प्रतियोद्धुर् आरम्भ-श्रीर् उद्यम-सम्पत् याभ्याम् । अव्युत्थापितम् अविरोधितं सख्यं मैत्रं याभ्यां, तथा-भूतयोर् अपि । अत एव वयस्य-निकरैः साद्भुतं यथा स्यात्, तथा आलोक्यमानः । यथा रामः कृष्णश् चावगताव् इति तथा श्रीदाम्नश् च बकी-द्विषश् च संरम्भेत्य्-आदि विशेष-विक्रमोऽतिशक्तिता ॥७॥

विश्वनाथः : संरम्भेण कोपेन प्रकटी-कृता प्रतिभटस्य प्रतियोद्धुर् **आरम्भ-श्रीर् **याभ्यां तयोः । वस्तुतस् तु अव्युत्थापित-सख्ययोर् अविरोधित-मैत्रयोर् अपि समराटोपः अभवत् । श्रीदाम्नश् च बकी-द्विषश् इति श्रीदाम-बकीद्विषोर् द्वयोर् इत्य् अर्थः । समुच्चय-बोधक-चकारेणैव द्वित्व-प्रतीतिर् ज्ञेया ॥७॥

—ओ)०(ओ—

॥ ४.३.८ ॥
सुहृद्-वरो
, यथा—

सखि-प्रकर-मार्गणान् अगणितान् क्षिपन् सर्वतस्
तथाद्य लगुडं क्रमाद् भ्रमयति स्म दामा कृती ।
अमंस्त रचित-स्तुतिर् व्रजपतेस् तनूजोऽप्य् अमुं
समृद्ध-पुलको यथा लगुड-पञ्जरान्तः-स्थितम् ॥
श्री-जीवः : मार्गणा
अत्र तृण-पूर्णश् चर्म-फलक-बाणाः ॥८॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : सखि-समूहैर्
एकदैव प्रेरितान् अगणितान् मार्गणान् बाणान् लगुड-भ्रमणैर् एव क्षिपन् दूरीकुर्वन् श्रीदामा लगुडं तथाद्य भ्रमयति स्म यथा श्री-कृष्णोऽपि अमुं श्रीदामानं लगुड-पञ्जर-मध्य-स्थितम् अमंस्त । कथं-भूतः ? “धन्योऽसि श्रीमन्” इति रचिता स्तुतिर् येन स दामा । कृती इति भ्रम-क्रिया-विशेषणं । मार्गणा अत्र तृण-पूर्ण-चर्म-फलक-बाणाः, अतस् तेषां क्षेपणेऽपि न सख्य-हानिर् इति ॥८॥

—ओ)०(ओ—

॥ ४.३.९-१० ॥
प्रायः प्रकृत-शूराणां स्व-पक्षैर् अपि कर्हिचित् ।
युद्ध-केलि-समुत्साहो जायते परमाद्भुतः ॥

तथा च हरि-वंशे—

**तथा गाण्डीव-धन्वानं विक्रीडन् मधुसूदनः ।
जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ **इति ।

न कतमेनापि व्याख्यातम् ।

—ओ)०(ओ—

॥ ४.३.११-१२ ॥
कत्थितास्फोट-विस्पर्धा-विक्रमास्त्र-ग्रहादयः ।
प्रतियोध-स्थिताः सन्तो भवन्त्य् उद्दीपना इह ॥

तत्र कत्थितम्—
पिण्डीशूरस् त्वम् इह सुबलं कैतवेनाबलाङ्गं
जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि ।
माद्यन्न् एष त्वद्-अलघु-भुजा-सर्प-दर्पापहारी
मन्द्र-ध्वानो नटति निकटे स्तोककृष्णः कलापी ॥
श्री-जीवः : पिण्डीशूरो
भोजन-मात्र-पटुः । अबलाङ्गम् अपि कैतवेन जित्वा इत्य् अर्थः । कलापी तूणवान् सभूषणो वा, पक्षे मयूरः ॥१२॥

मुकुन्ददासः : पिण्डीशूरो भोजन-मात्र-पटुः । अबलाङ्गं दुर्बलाङ्गम् अपि कैतवेन कपटेनैव । कलापी तूणवान् स-भूषणो वा, पक्षे मयूरः । असमासे रूपकम् इदम् ॥१२॥

विश्वनाथः : प्रतियोध-स्थिताः प्रतियोद्धुर् वाक्यादिना बोध-विषयाः सन्तः अमी कत्थितादयः इह रसे उद्दीपना भवन्ति ॥११॥

—ओ)०(ओ—

**॥ ४.३.१३-१४ ॥
कत्थिताद्याः स्व-संस्थाश् चेद् अनुभावाः प्रकीर्तिताः ।
तथैवाहोपुरुषिका क्ष्वेडिताक्रोश-वल्गनम् ॥१३॥
असहायेऽपि युद्धेच्छा समराद् अपलायनम् ।
भीताभय-प्रदानाद्या विज्ञेयाश् चापरे बुधैः ॥१४॥
श्री-जीवः : **आहो-पुरुषिका दर्पाद् वा स्यात् सम्भावनात्मनि । क्ष्वेडितं सिंह-नादः । आक्रोशः साटोप-वचनम् । वल्गनं युद्धार्थो गति-विशेषः । युद्धेच्छा युद्धोद्यमः ॥१३-१४॥

**मुकुन्ददासः : **आहो-पुरुषिका दर्पाद् वा स्यात् सम्भावनात्मनि । क्ष्वेडितं सिंह-नादः । आक्रोश आक्रोशनं पराभिमुख्येन वाक्य-योजनम्, आक्रोशनम् अभीष्वङ्गः इत्य् अमरः । वल्गनं युद्धायेप्सित-गति-भेदः ॥१३-१४॥

**विश्वनाथः : **स्व-संस्थाः प्रतियोद्धुर् वाक्यादिकं विनैव स्व-ज्ञान-विषयाश् चेत् तदा त एव कत्थितादयः अनुभावाः स्युः । आहो-पुरुषिका दर्पाद् वा स्यात् सम्भावनात्मनि । क्ष्वेडितं सिंहनादः । आक्रोशः साटोप-वचनम् । वल्गनं युद्धार्थ-गति-विशेषः । युद्धेच्छा युद्धोद्यमः इत्य् आद्य् अपरेऽनुभावा ज्ञेयाः ॥१३-१४॥

—ओ)०(ओ—

॥ ४.३.१५ ॥

तत्र **कत्थितम्, **यथा—

**प्रोत्साहयस्य् अतितरां किम् इवाग्रहेण
मां केशिसूदन विदन्न् अपि भद्रसेनम् ।
योद्धुं बलेन समम् अत्र सुदुर्बलेन
दिव्यार्गला प्रतिभटस् त्रपते भुजो मे ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **भद्रसेनं विदन्न् अपि, अर्गला-सदृशो मे भुजः त्रपते ॥१५॥

—ओ)०(ओ—

॥ ४.३.१६ ॥
आहोपुरुषिका
, यथा—

**धृताटोपे गोपेश्वर-जलधि-चन्द्रे परिकरं
निबध्नत्य् उल्लासाद् भुज-समर-चर्या-समुचितम् ।
स-रोमाञ्चं क्ष्वेडा-निविड-मुख-बिम्बस्य नटतः
सुदाम्नः सोत्कण्ठं जयति मुहुर् आहोपुरुषिका ॥
श्री-जीवः : **स-रोमाञ्चं सोत्कण्ठं च यथा स्यात् तथा नटत इति योज्यम् ॥१६॥

**मुकुन्ददासः : **घृताटोपेति । स-रोमाञ्चं सोत्कण्ठं यथा स्यात् तथा नटतः ॥१६॥

**विश्वनाथः : **“अहम् एव सर्वोत्कृष्ट-योद्धा, यूयं के वराकाः ?” इति धृताटोपे गोपेश्वर-जलधि-चन्द्रे गोपेश्वरी तथा नन्द एव जलधिस् तद्-उत्पन्ने चन्द्रे श्री-कृष्णे अद्भुत-समय-चर्या-समुचितं परिकरं निबध्नति सति सिंह-नादेन व्याप्त-मुख-बिम्बस्य तथा स-रोमाञ्चं यथा स्यात् तथा नटतः सुदाम्नः “अहम् एव सर्वोत्तम-योद्धा । मत्-समः कोऽपि नास्ति ।” इत्य् आहोपुरुषिका जयति ॥१६॥

—ओ)०(ओ—

**॥ ४.३.१७-१८ ॥
चतुष्टयेऽपि वीराणां निखिला एव सात्त्विकाः ।
गर्वावेग-धृति-व्रीडा-मति-हर्षावहित्थिकाः ।
अमर्षोत्सुकतासूया-स्मृत्य्-आद्या व्यभिचारिणः ॥
युद्धोत्साह-रतिस् तस्मिन् स्थायि-भावतयोदिता ।
या स्व-शक्ति-सहायाद्यैर् आहार्या सहजापि वा ।
जिगीषा स्थेयसी युद्धे सा युद्धोत्साह ईर्यते ॥
श्री-जीवः : **यद् अत्र जिगीयेत्य् आदिभिर् युद्धोत्साहादयो लक्ष्यन्ते, तच् च—सत्वरा मानसा-शक्तिर् उत्साहः [भ।र।सि। २.५.५७] इति पूर्वोक्त-सामान्य-लक्षणान्तर्गतम् एव । तत्रापि गाढेच्छा-मात्रस्य विवक्षितत्वात् ॥१८॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **स्व-शक्त्या आहार्या स्व-शक्त्या सहजा । सहायेन आहार्या सहायेन सहजा युद्ध-विषये अतिस्थिरा या जेतुम् इच्छा-रतिः स युद्धोत्साह इत्य् अन्वयः ॥१८॥

—ओ)०(ओ—

॥ ४.३.१९ ॥

तत्र स्व-शक्त्या आहार्योत्साह-रतिर्, यथा—

**स्व-तात-शिष्ट्या स्फुटम् अप्य् अनिच्छन्न्
आहूयमानः पुरुषोत्तमेन ।
स स्तोक-कृष्णो धृत-युद्ध-तृष्णः
प्रोद्यम्य दण्डं भ्रमयाञ्चकार ॥
श्री-जीवः : **स्वस्य तातस्य शिष्ट्या “हन्त सर्व-जीवनेन युद्ध्यसे, धिक् त्वाम् ।” इति शासनेन स्फुटम् अनिच्छन्न् इत्य् अर्थः । पाठान्तरं त्यक्तम् ॥१९॥

**मुकुन्ददासः : “**अनिच्छुर् अप्य् अद्य पितुर् निदेशात्” इति [प्रथम-चरणे] पाठः । अद्य अस्मिन्न् एवाहनि पितुर् निदेशात्, “हे अज्ञ ! सर्व-प्राण-बन्धुना युध्यसे ? धिक् त्वाम् । पुनर् एवं न कुर्याः ।” इति शासनाद् धेतोः । निदेशः शासनोपान्त-भाषणेषु प्रयुज्यते इति विश्वः ॥१९॥

**विश्वनाथः : “**हे पुत्र ! तवाद्य जन्म-तिथि-पूजनम् । अतो बालकैः सह युद्धादिकं न कर्तव्यम् । शीघ्रम् एव गृहे आगन्तव्यम् ।” इति पितुर् निदेशेऽनिच्छुर् अपि कृष्णेनाहूयमानः सन् ॥१९॥

—ओ)०(ओ—

॥ ४.३.२० ॥
स्व-शक्त्या सहजोत्साह-रतिर्
, यथा—

**शुकाकारं प्रेक्ष्य मे बाहु-दण्डं
मा त्वं भैषीः क्षुद्र रे भद्रसेन ।
हेलारम्भेणाद्य निर्जित्य रामं
श्रीदामाहं कृष्णम् एवाह्वयेय ॥
श्री-जीवः, विश्वनाथः : **आह्वयेयेति स्पर्धायाम् आत्मनेपदम् ॥२०॥

**मुकुन्ददासः : **आह्वयामि क्रीडायै आकारयामि ॥२०॥

—ओ)०(ओ—

॥ ४.३.२१ ॥

यथा व—

**बलस्य बलिनो बलात् सुहृद्-अनीकम् आलोडयन्
पयोधिम् इव मन्दरः कृत-मुकुन्द-पक्ष-ग्रहः ।
जनं विकट-गर्जितैर् वधिरयन् स धीर-स्वरो
हरेः प्रमदम् एककः समिति भद्रसेनो व्यधात् ॥
श्री-जीवः : **एकक एकाकी । एकादाकिनिच् चासहाये इति पाणिनि-सूत्रात् कन् । एकाकी त्व् एक एकक इत्य् अमरः। एकल इति लेखक-प्रमादात् ॥२१॥

**मुकुन्ददासः : **एकल एक एव,

जायते चैकलः प्राणी प्रलीयते तथैकलः । एकलः सुकृतं भूङ्क्तेऽश्नीयाद् दुष्कृतम् एकलः ॥

तत्र मूल्यम् अपि लौल्यम् एकलम् इत्य्-आदि प्रयोजाद् एकल-शब्दोऽपि ॥२१॥

**विश्वनाथः : **बलिनो बलदेवस्य सुहृद्-रूपम् अनीकं सेनां बलाद् आलोडयन् मन्दत्व-पर्वतो यथा समुद्रम् आलोडयति तद्वत् । समिति युद्धे एकक एकाकी, एकाकी त्व् एक एकक इत्य् अमरः ॥२१॥

—ओ)०(ओ—

॥ ४.३.२२ ॥
सहायेनाहार्योत्साह-रतिर्
, यथा—

**मयि वल्गति भीम-विक्रमे
भज भङ्गं न हि सङ्गरादितः ।
इति मित्र-गिरा वरूथपः
स-विरूपं विरुवन् हरिं ययौ ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **बलेन भीम-विक्रमे मयि सति युध-भङ्गं न भजेति गिरा स वरूथपः यथा विरूपं घोरं यथा स्यात् तथा विरुवन् शब्दं कुर्वन् युद्धार्थं हरिं ययौ तत्-पक्ष-गतः बभूवेत्य् अर्थः ॥२२॥

—ओ)०(ओ—

॥ ४.३.२३ ॥
सहायेन सहजोत्साह-रतिर्
, यथा—

**सङ्ग्राम-कामुक-भुजः स्वयम् एव कामं
दामोदरस्य विजयाय कृती सुदामा ।
साहाय्यम् अत्र सुबलः कुरुते बली चेज्
जातो मणिः सुजटितो वर-हाटकेन ॥
श्री-जीवः : **सुजटित इति जट झट सङ्हात इत्य् अस्य क्तान्त-प्रत्यय-रूपम् । जटिलित इति पाठस् तु नेष्टः । जईतिलो हि पिच्छादित्वादिलश् च जटावान् एवाभिधीयते ॥२३॥

**मुकुन्ददासः : **जटिलितत्वं जटावत्त्वं तच् च लक्षणया परितः परम-सौष्ठवेन वेष्टितत्वं बोधयति, रूपं चेदं तत् करोत्य् अर्थ-णिज्-अन्त-निष्ठान्तस्य ॥२३॥

**विश्वनाथः : **श्री-कृष्णस्य विजयाय श्री-कृष्णं जेतुं सुदामा स्वयम् एव कृती पण्डितः । तत्रापि बली सुबलः साहाय्यं चेत् कुरुते तदा भद्रम् एव । यथा मणिः स्वयम् एवोत्कृष्टः, तत्रापि वर-हाटकेन श्रेष्ठ-सुवर्णेन जडितो जातश् चेत् किं पुनर् वक्तव्यम् ॥२३॥

—ओ)०(ओ—

**॥ ४.३.२४ ॥
सुहृद् एव प्रतिभटो वीरे कृष्णस्य न त्व् अरिः ।
स भक्त-क्षोभ-कारित्वाद् रौद्रे त्व् आलम्बनो रसे ।
रागाभावो दृग्-आदीनां रौद्राद् अस्य विभेदकः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **स अरिः रौद्रे रसे आलम्बनः । रौद्र-रसात् वीर-रसस्य भेदकः । नेत्रादीनां रकित्माभावः रौद्र-रसे क्रोध-वशान् नेत्रे रक्तिमा जायते । सखिभिः सह वीर-रसे तु तन् नास्तीति भेदो ज्ञेयः ॥२४॥

—ओ)०(ओ—

॥ ४.३.२५-२६ ॥

अथ दान-वीरः—
द्वि-विधो दान-वीरः स्याद् एकस् तत्र बहु-प्रदः ।
उपस्थित-दुरापार्थ-त्यागी चापर उच्यते ॥

तत्र बहु-प्रदः—
सहसा दीयते येन स्वयं सर्वस्वम् अप्य् उत ।
दामोदरस्य सौख्याय प्रोच्यते स बहु-प्रदः ॥

न केनापि व्याख्यातम् ।

—ओ)०(ओ—

॥ ४.३.२७-३० ॥
सम्प्रदानस्य वीक्षाद्या अस्मिन्न् उद्दीपना मताः ।
वाञ्छिताधिक-दातृत्वं स्मित-पूर्वाभिभाषणम् ॥२७॥
स्थैर्य-दाक्षिण्य-धैर्याद्या अनुभावा इहोदिताः ।
वितर्कौत्सुक्य-हर्षाद्या विज्ञेया व्यभिचारिणः ॥२८॥
दानोत्साह-रतिस् त्व् अत्र स्थायि-भावतयोदिता ।
प्रगाढा स्थेयसी दित्सा दानोत्साह इतीर्यते ॥२९॥
द्विधा बहु-प्रदोऽप्य् एष विद्वद्भिर् इह कथ्यते ।
स्याद् आभ्युदयिकस् त्व् एकः परस् तत्-सम्प्रदानकः ॥३०॥
विश्वनाथः : सम्प्रदानस्य
सत्-पात्रस्य ॥२७-३०॥

—ओ)०(ओ—

॥ ४.३.३१-३२ ॥

तत्र आभ्युदायिकः—
कृष्णस्याभ्युदयार्थं तु येन सर्वस्वम् अर्प्यते ।
अर्थिभ्यो ब्राह्मणादिभ्यः स आभ्युदायिको भवेत् ॥

यथा—

व्रजपतिर् इह सूनोर् जातकार्थं तथासौ
व्यतरद् अमल-चेताः सञ्चयं नैचिकीनाम् ।
पृथुर् अपि नृग-कीर्तिः साम्प्रतं संवृतासीद्
इति निजगदुर् उच्चैर् भूसुरा येन तृप्ताः ॥
श्री-जीवः, मुकुन्ददासः : नृग-कीर्तेः
संवृतत्वे हेतुः—अमल-चेताः पुत्र-स्वरूप-श्री-कृष्णस्योदय-मात्र-तत्परतया, न तद्वल् लोक-द्वय-गत-लाभ-प्रतिष्ठा-कामना-दोष-युक्त इत्य् अर्थः ॥३२॥

विश्वनाथः : नैचिकीनां धेनूनां सञ्चयं समूहं नन्दः ब्राह्मणेभ्योऽदात् । नृग-कीर्तेः संवृतत्वे हेतुः—अमल-चेताः पुत्र-स्वरूप-श्री-कृष्णस्योदय-मात्र-तत्परतया, न तद्वल् लोक-द्वय-गत-लाभ-प्रतिष्ठा-कामना-दोष-युक्त इत्य् अर्थः ॥३२॥

—ओ)०(ओ—

॥ ४.३.३३-३४ ॥

अथ तत्-सम्प्रदानकः—
ज्ञातये हरये स्वीयम् अहन्ता-ममतास्पदम् ।
सर्वस्वं दीयते येन स स्यात् तत्-सम्प्रदानकः ॥
तद्-दानं प्रीति-पूजाभ्यां भवेद् इत्य् उदितं द्विधा ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : उदितं
पूर्वोक्तं तद्-दानं द्विधा भवेद् इत्य् अन्वयः ॥३४॥

—ओ)०(ओ—

॥ ४.३.३५-३६ ॥

तत्र प्रीति-दानम्—
प्रीति-दानं तु तस्मै यद् दद्याद् बन्ध्व्-आदि-रूपिणे ॥

यथा—

**चार्चिक्यं वैजयन्तीं पटम् उरु-पुरटोद्भासुरं भूषणानां
श्रेणिं माणिक्य-भाजं गज-रथ-तुरगान् कर्बुरान् कर्बुरेण ।
दत्त्वा राज्यं कुटुम्बं स्वम् अपि भगवते दित्सुर् अप्य् अन्यद् उच्चैर्
देयं कुत्राप्य् अदृष्ट्वा मख-सदसि तदा व्याकुलः पाण्डवोऽभूत् ॥
श्री-जीवः : **कर्बुरेण सुवर्णेन, कर्बुरान् मिश्रान् मख-सदसि तदेति अग्र्य-पूजावसर इति न व्याख्येयम् । किन्तु सर्व-विध्-पूर्त्य्-अनन्तर इत्य् एव । पूर्वस्य पूरान्तर्गतत्वात् । उत्तरत्र विप्र-रूपायेत्य् उपलक्षणं विप्र-देव-भगवद्-रूपायेत्य् अस्य विवक्षितत्वात् ॥३६॥

**मुकुन्द-दासः : **चार्चिक्यं चन्दन-पङ्कादि, माणिक्यं भजतीति तद्-भाक् ताम् । कर्बुरेण स्वर्णेन कर्बुरान् मिश्रान् मख-सदसि तदा पूजावसरे ॥३६॥

**विश्वनाथः : **बन्ध्व्-आदि-रूपिणे तस्मै श्री-कृष्णाय । कर्बुरेण सुवर्णेन, कर्बुरान् मिश्रान् । मखस्य राजसूयस्य सर्व-विध्-पूर्त्य्-अनन्तरं सभायां पाण्डवो युधिष्ठिरः ॥३६॥

—ओ)०(ओ—

॥ ४.३.३७-३८ ॥
पुजा-दानं—
पुजा-दानं तु तस्मै यद् विप्र-रूपाय दीयते ॥

यथा अष्टमे (८.२०.११) —

**यजन्ति यज्ञं क्रतुभिर् यम् आदृता
भवन्त आम्नाय-विधान-कोविदाः ।
स एव विष्णुर् वरदोऽस्तु वा परो
दास्याम्य् अमुष्मै क्षितिम् ईप्सितां मुने ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **शुक्राचार्यं प्रति बलिर् आह—वेदोक्त-विधाने पण्डिता भवन्तः यं यजन्ति । अपरः शत्रुर् वा अस्तु ॥३८॥

—ओ)०(ओ—

॥ ४.३.३९ ॥

यथा वा दश-रूपके (४.७४फ़्)3

**लक्ष्मी-पयोधरोत्सङ्ग-कुङ्कुमारुणितो हरेः ।
बलिनैव स येनास्य भिक्षा-पात्रीकृतः करः ॥
श्री-जीवः : **येन बलिनेत्य् अस्य पूरकस् तच्-छब्दस् तु तत्-प्रकरण एव लभ्यः ॥३९॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **लक्ष्मी-स्तन-सम्बन्धि-कुङ्कुमेनारुणितो यो हरेः करः, येन बलिना भिक्षा-पात्रीकृतः ॥३९॥

—ओ)०(ओ—

॥ ४.३.४० ॥

अथ **उपस्थित-दुरापार्थ-त्यागी—
उपस्थित-दुरापार्थ-त्यग्य् असौ येन नेष्यते ।
हरिणा दीयमानोऽपि सार्ष्ट्य्-आदिस् तुष्यता वरः ॥४०॥
श्री-जीवः : **उपस्थितेति । यद्यपि सिद्ध-साधक-भेदेन द्विविधोऽयं सम्भवति, तथापि यत् किञ्चिज् जात-रुचिर् दृढाग्रहः साधक एवात्र लक्ष्यते । न तु सम्यग्-भगवन्-माधुर्यानुभव-सिद्धः । न ह्य् अमृतास्वादे लब्धे गुडादि-त्यागी तथा प्रशस्यते, तस्य तस्यापि भक्त्य्-एकाग्रह-दृष्ट्या तुष्टः श्री-हरिः तद्-आग्रह-व्यक्त्य्-अर्थं कदाचित् तं दातुम् इव प्रोत्साहयतीति । वर इत्य् अन्यैर् व्रियमाणोऽपीत्य् अर्थः ॥४०॥

**मुकुन्ददासः : **पूजार्थत्वेऽपि विप्र-रूपाभावात् प्रीति-दानम् एव । उपस्थिते तुल्यता-स्वाश्रयणात् प्रीतिं कुर्वता सार्ष्ट्य्-आदिश् चतुर्धा मुक्तिस् तद्-रूपो वरः पूर्वम् अभीष्टः, येन मुक्ति-भुक्ति-बहुविध-संसार-दुःख-निवृत्त्य्-अर्थं परम-सुकृतेन भगवद्-आश्रयणात् भगवद्-भक्त-कृपया जात-रतितया तत्-तद्-इच्छा-शून्येन ज्ञानि-चर-शरण्य-भक्ति-भक्त-वर्गेणेत्य् अर्थः ॥४०॥

विश्वनाथः : तुष्यता हरिणा दीयमानोऽपि सार्ष्ट्य्-आदि-वरः येन नेष्यते, स उपस्थित-दुरापार्थ-त्यागी ॥४०॥

—ओ)०(ओ—

॥ ४.३.४१-४२ ॥
पूर्वतोऽत्र विपर्यस्त-कारकत्वं द्वयोर् भवेत् ।
अस्मिन्न् उद्दीपनाः कृष्ण-कृपालाप-स्मितादयः ॥
अनुभावास् तद्-उत्कर्ष-वर्णन-द्रढिमादयः ।
अत्र सञ्चारिता भूम्ना धृतेर् एव समीक्ष्यते ॥
श्री-जीवः : विपर्यस्त-कारकत्वम्
–हरेर् अपादानत्वं भक्तस्य तु सम्प्रदानत्वम् इत्य् एव । भूम्ना अतिशयेन समीक्ष्यते ॥४१-४२॥

मुकुन्ददासः : विपर्यस्त-कारकत्वं हरेर् अपादानत्वं भक्तस्य सम्प्रदानत्वम् ॥४१॥

**विश्वनाथः : **द्वयोर् भक्त-भगवतोर् विपर्यस्त-कारकत्वं भगवतोऽपादानत्वं, भक्तस्य तु सम्प्रदानत्वम् इति पूर्वस्मात् विपर्ययो ज्ञेयः ॥४१॥ धृतेर् धैर्य-सञ्चारिण एव भूम्नातिशयेन सञ्चारिणो ईक्ष्यते ॥४१-४२॥

—ओ)०(ओ—

**॥ ४.३.४३ ॥
त्यागोत्साह-रतिर् धीरैः स्थायी भाव इहोदितः ।
त्यागेच्छा तादृशी प्रौढा त्यागोत्साह इतीर्यते ॥
सर्वे : **तादृशी सार्ष्ट्य्-आद्य्-अनिच्छा-मयी ॥४३॥

—ओ)०(ओ—

॥ ४.३.४४ ॥

यथा हरि-भक्ति-सुधोदये (७.२८)—

स्थानाभिलाषी तपसि स्थितोऽहं
त्वां प्राप्तवान् देव-मुनीन्द्र-गुह्यम् ।
काचं विचिन्वन्न् अपि दिव्य-रत्नं
स्वामिन् कृतार्थोऽस्मि वरं न याचे ॥
श्री-जीवः : स्थान-
इति श्री-ध्रुव-वाक्यम् । तद् इदम् अपि न सम्यङ्-माधुर्यानुभव-मयम् । श्री-भागवते हि पाञ्चजन्यस्य स्पर्शाद् एव तेन तत् तद् उक्तं, किन्तु क्रमाद् एवानुभूतम् इति व्यक्तम् ॥४४॥

मुकुन्ददासः : स्थान- इति ध्रुव-वाक्यम् । ध्रुव-स्थानस्य भगवल्-लोकत्वात् तत्र चतुर्धा मुक्तिम् इत्य् अर्थः ॥४४॥

विश्वनाथः : स्थान- इति श्री-ध्रुव-वाक्यम् । स्थानं राज-सिंहासनं तत्-कामोऽहं यथा काचं विचिन्वन् जनो दिव्य-रत्नं प्राप्य कृतार्थो भवति, पुनः काचं न याचते, तद्वद् वरं न याचे ॥४४॥

—ओ)०(ओ—

॥ ४.३.४५ ॥

यथा वा तृतीये, (३.१५.४८)—

नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं
किं वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते ।
येऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः
कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥
श्री-जीवः : नात्यन्तिकम्
इत्य्-आदिनापि तादृश-साधका एव विवक्षिताः । कुशला इत्य् अनेनोक्तानां भक्ति-रस-शास्त्रानुसारेण विवेकिनाम् एवात्रोदाह्रियमाणत्वं, न तु कैमुत्येनोत्तरत्रोक्तानां रसज्ञानाम् इति । ते तव, भ्रुव उन्नयैर् विक्षेप-रूपैः कालैः ॥४५॥

मुकुन्ददासः : त्वद्-अङ्घ्रि-शरणं रक्षिता येषां ते तथा जात-रतयः शरण्या इत्य् अर्थः । अत एव भवतः कथाया रसज्ञाः ॥४५॥

विश्वनाथः : आत्यन्तिकं मोक्षं ते प्रसादं न गणयन्ति, तव भ्रुव उन्नयैर् विक्षेपक-रूपैः कालैः अर्पिततरम् अन्यत् स्वर्गादिकं किं गणयन्ति ? एवं-भूताः के ? तत्राह—ये इति । **कीर्तनार्हं तीर्थ-**रूपं यस्य तस्य भगवतः कथाया ये रसज्ञास् त एव नान्ये ॥४५॥

—ओ)०(ओ—

॥ ४.३.४६ ॥
अयम् एव भवन्न् उच्चैः प्रौढ-भाव-विशेष-भाक् ।
धुर्यादीनां तृतीयस्य वीरस्य पदवीं व्रजेत् ॥
श्री-जीवः : प्रौढ-भाव-विशेष-भाक्
कश्चिद् एवेत्य् अर्थः । विशेष-शब्दो ह्य् अत्र तादृश-दास्य-पर्यवसानार्थः । अन्याभिलाषिता-शून्यम् [भ।र।सि। १.१.१०] इत्य्-आदिभिर् असकृद् एव सर्वस्यापि भक्तस्य तादृशतया प्राप्तत्वात् ॥४६॥

मुकुन्ददासः : प्रौढ-भाव-विशेषः श्री-कृष्ण-निष्ठः । भवन्न् इति साधकत्वं बोधितम् ॥४६॥

**विश्वनाथः : **अयम् उपस्थित-दुरापार्थ-त्यागी प्रौढ-दास्य-रूप-भाव-विशेष-भाग् भवन् ॥४६॥

—ओ)०(ओ—

॥ ४.३.४७-५० ॥

अथ **दया-वीरः—
कृपार्द्र-हृदयत्वेन खण्डशो देहम् अर्पयन् ।
कृष्णायाच्छन्न-कृपाय दया-वीर इहोच्यते ॥
उद्दीपना इह प्रोक्तास् तद्-आर्ति-व्यञ्जनादयः ।
निज-प्राण-व्ययेनापि विपन्न-त्राण-शीलता ॥
आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः ।
औत्सुक्यम् अतिहर्षाद्या ज्ञेयाः सञ्चारिणो बुधैः ॥
दयोत्साह-रतिस् त्व् अत्र स्थायि-भाव उदीर्यते ।
दयोद्रेक-भृद् उत्साहो दयोत्साह इहोदितः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **यस्मिन् +++

—ओ)०(ओ—

॥ ४.३.५१ ॥

यथा—

वन्दे कुड्मलिताञ्जलिर् मुहुर् अहं वीरं मयूर-ध्वजं
येनार्धं कपट-द्विजाय वपुषः कंस-द्विषे दित्सता ।
कष्टं गद्गदिकाकुलोऽस्मि कथनारम्भाद् अहो धीमता
सोल्लासं क्रकचेन दारितम् अभूत् पत्नी-सुताभ्यां शिवः ॥
श्री-जीवः : वन्द
इत्य्-आदौ कष्टम् इत्य्-आदि-गर्भित-दोषोऽपि चमत्कार-पोषकत्वाद् गुणः । यथा साहित्य-दर्पणादौ—

दिङ्-मातङ्ग-घटा-विभक्त-चतुरा घाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किम् अपरं रामाय तस्मै नमो यस्माद् आविरभूत् कथाद्भुतम् इदं यत्रैव चान्तं गतम् ॥ [सा।द। ७.३७]4

इत्य्-आदि-पद्यानि दर्शितानि । गर्भितत्वं च यद् वाक्यान्तर-मध्यं वाक्यान्तरं प्रविशतीति । एवम् अन्यत्रापि समाधेयम् ॥५१॥

मुकुन्ददासः : वन्द इत्य्-आदौ कष्टम् इत्य्-आदि गर्भित-दोषोऽपि चमत्कार-पोषकत्वाद् गुणः । यथा साहित्य-दर्पणादौ—दिङ्-मातङ्ग-घटा [सा।द। ७.३७] इत्य्-आदि-पद्यानि दर्शितानि । गर्भितत्वं च यद् वाक्यान्तर-मध्यं वाक्यान्तरं प्रविशतीति । एवम् अन्यत्रापि ज्ञेयम् ॥५१॥

विश्वनाथः : कपट-द्विजाय कृष्णाय वपुषोऽर्धं दित्सता येन धीमता “करात” इति प्रसिद्धेन क्रकचेन करणेन पत्नी-पुत्राभ्यां द्वारा स्व-शिरः सोल्लासं यथा स्यात् तथा दारितं, तं मयूर-ध्वजम् अहं वन्दे, यस्य चेष्टायाः कथनारम्भत एव अहं गद्गदाकुलोऽस्मि । इदम् एव महत् कष्टम् इति भावः ॥५१॥

—ओ)०(ओ—

॥ ४.३.५२-५४ ॥
हरेश् चेत् तत्त्व-विज्ञानं नैवास्य घटते दया ।
तद्-अभावे त्व् असौ दान-वीरेऽन्तर् भवति स्फुटम् ॥
वैष्णवत्वाद् रतिः कृष्णे क्रियतेऽनेन सर्वदा ।
कृतात्र द्विज-रूपे च भक्तिस् तेनास्य भक्तता ॥
अन्तर्-भावं वदन्तोऽस्य दान-वीरे दयात्मनः ।
वोपदेवादयो धीरा वीरम् आचक्षते त्रिधा ॥
श्री-जीवः : हरेर्
इति । ततश् च तद्-अभावे तस्या दयाया अभाव इत्य् अर्थः ॥५२॥ वैष्णवत्वाद् इति । विष्णुर् भक्तिर् भजनीयोऽस्येति वैष्णवः । सा च भक्तिः [पा। ४.३.९५] इत्य् अनेन सूत्रेण शैषिकाद् अण्-विधानात् । ततश् च वैष्णवत्वाद् विष्णु-भक्ति-युक्तत्वाद् इत्य् अर्थः ॥५३॥

मुकुन्ददासः : वैष्णवत्वाद् इति । भज्यते इति भक्तिः । विष्णुर् भक्तिर् अस्येति वैष्णवः । सा च भक्तिः [पा। ४.३.९५] इति सूत्रेण शैषिकाद् अण्-विधानात् । ततश् च वैष्णवत्वं विष्णौ भक्तिमत्त्वाद् इत्य् अर्थः ॥५३॥

विश्वनाथः : हरेर् इति । नायं ब्राह्मणः, किन्तु हरिर् एवेति तत्त्व-विज्ञाने दया नोत्पद्यते, ततश् च तद्-अभावे तस्या दयाया अभावे ॥५२॥ वैष्णवत्वाद् विष्णु-भक्ति-युक्तत्वात् द्विज-रूपे कृष्णे भक्तिः कृता, तेन हेतुना अस्य भक्तता ज्ञेया ॥५३॥

वोपदेवादयः पण्डिताः अस्य दया-वीरस्य दान-वीरे एवान्तर्-भावं वदन्तस् त्रिधा त्रिविधा एव वीरम् आचक्षते, न तु चतुर्धा ॥५४॥

—ओ)०(ओ—

॥ ४.३.५५-५७ ॥

अथ धर्म-वीरः—
कृष्णैक-तोषणे धर्मे यः सदा परिनिष्ठितः ।
प्रायेण धीर-शान्तस् तु धर्म-वीरः स उच्यते ॥५५॥
उद्दीपना इह प्रोक्ताः सच्-छास्त्र-श्रवणादयः ।
अनुभावा नयास्तिक्य-सहिष्णुत्व-यमादयः ।
मति-स्मृति-प्रभृतयो विज्ञेया व्यभिचारिणह् ॥५६॥
धर्मोत्साह-रतिर् धीरैः स्थायी भाव इहोच्यते ।
धर्मैकाभिनिवेशस् तु धर्मोत्साहो मतः सताम् ॥५७॥

न कतमेनापि व्याख्यातम् ।

—ओ)०(ओ—

॥ ४.३.५८ ॥

यथा—

**भवद् अभि रति-हेतून् कुर्वता सप्त-तन्तून्
पुरम् अभि पुरु-हूते नित्यम् एवोपहूते ।
दनुज-दमन तस्याः पाण्डु-पुत्रेण गण्डः
सुचिरम् अरचि शच्याः सव्य-हस्ताङ्क-शायी ॥
श्री-जीवः : **सप्त-तन्तून् यज्ञान् ॥५८॥

**मुकुन्ददासः : **सप्त-तन्तुर् यज्ञः । पुरुहूते इन्द्रे ॥५८॥

**विश्वनाथः : **हे दनुज-दमन ! भवतः प्रीति-हेतून् सप्त-तन्तून् यज्ञान् कुर्वता पाण्डु-पुत्रेण युधिष्ठिरेण पुरम् अभि स्व-पुरे पुरुहूते इन्द्रे यज्ञ-भाग-ग्रहणार्थं नित्यम् एव उपहूते सति तस्या शच्याः गण्डः वाम-हस्ताङ्क-शायी चिर-कालं व्याप्य अरचि । तथा च नित्यं यज्ञ-भाग-ग्रहणार्थम् आगतस्य इन्द्रस्य विरहेण शची वाम-हस्त-तले गण्डं दत्त्वा शोचति स्मेत्य् अर्थः ॥५८॥

—ओ)०(ओ—

॥ ४.३.५९-६१ ॥
यज्ञः पूजा-विशेषोऽस्य भुजाद्य्-अङ्गानि वैष्णवः ।
ध्यात्वेन्द्राद्य्-आश्रयत्वेन यद् एष्व् आहुतिर् अर्प्यते ॥
अयं तु साक्षात् तस्यैव निदेशात् कुरुते मखान् ।
युधिष्ठिरोऽम्बुधिः प्रेम्णां महा-भागवतोत्तमः ॥
दानादि-त्रिविधं वीरं वर्णयन्तः परिस्फुटम् ।
धर्म-वीरं न मन्यन्ते कतिचिद् धनिकादयः
5** ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **अथात्र वैष्णवैर् यद् इन्द्राय स्वाहेत्य् आहुतिर् अर्प्यते, तत् खलु इन्द्रादि-लोकपालाश्रयत्वेन भगवद्-भुजाद्य्-अङ्गानां पूजनम् एव ज्ञेयम् । तथा चेन्द्रादयो भगवद्-भुजाङ्गानां विभूतय इति बुद्ध्यैव वैष्णवैर् आहुतिर् अर्प्यते । न तु इन्द्रः स्वतन्त्र-देवता, तस्याराधनम् अस्माभिः । क्रियते इति बुद्ध्येत्य् आशयेनाह—यज्ञ इति । अस्य भगवतः भुजाद्य्-अङ्गानि वैष्णवैर् इन्द्राद्य्-आश्रयत्वेन ध्यात्वा एषु यज्ञ-पूजा-विशेष-रूपा आहुतिर् अर्प्यते यत्, अतो वैष्णवानाम् अनन्याश् चिन्तयन्तो माम् [गीता ९.२२] इति गीतोक्तानन्यत्वस्याहानिर् इति ज्ञेयम् ॥५९॥

—ओ)०(ओ—

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

वीर-भक्ति-रस-लहरी तृतीया

॥ ४.३ ॥

(४.४)

करुण-भक्ति-रसाख्या

चतुर्थ-लहरी

॥ ४.४.१-३ ॥
आत्मोचितैर् विभावाद्यैर् नीता पुष्टिं सतां हृदि ।
भवेच् छोक-रतिर् भक्ति-रसो हि करुणाभिधः ॥
अव्युच्छिन्न-महानन्दोऽप्य् एष प्रेम-विशेषतः ।
अनिष्टाप्तेः पदतया वेद्यः कृष्णोऽस्य च प्रियः ॥
तथानवाप्त-तद्-भक्ति-सौख्यश् च स्व-प्रियो जनः ।
इत्य् अस्य विषयत्वेन ज्ञेया आलम्बनास् त्रिधा ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : अव्युच्छिन्न-महानन्दोऽपि
एष श्री-कृष्णः यद्यप्य् अस्मिन्न् आनन्द-स्वरूपेऽनिष्ट-सम्भावना नास्ति, तथापि प्रेम-विशेषाद् धेतोः अनिष्ट-प्राप्तेर् आस्पदतया वे
द्यः
करुण-रस-विषयः । एवम् अस्य श्री-कृष्णस्यापि प्रिय-जनः करुण-रस-विषयः ॥२॥

तथा अनवाप्त-तद्-भक्ति-सौख्यः वैष्णवत्वाद्य्-अभावेन भगवद्-भक्ति-सुख-रहितः, स्व-प्रिय-जनः स्वेषां भक्तानां पितृ-पुत्रादि-बन्धु-वर्गः करुण-रस-विषयः । एवं सति अस्य रसस्य त्रिविध-जन एव विषयालम्बनो ज्ञेयः ॥३॥

—ओ)०(ओ—

॥ ४.४.४-५ ॥
तत्-तद्-वेदी च तद्-भक्त आश्रयत्वेन च त्रिधा ।
सोऽप्य् औचित्येन विज्ञेयः प्रायः शान्तादि-वर्जितः ।
तत्-कर्म-गुण-रूपाद्या भवत्य् उद्दीपना इह ॥
अनुभावा मुखे शोषो विलापः स्रस्त-गात्रता ।
श्वास-क्रोशन-भूपात-घातोरस् ताडनादयः ॥
श्री-जीवः : तत्-तद्-वेदी
तादृश-कृष्णादि-त्रयानुभविता ॥४॥ अनुभावा इति । भुवि पातः भुवि घातश् च हस्तेन भू-ताडनम् इति द्वयं ज्ञेयम् ॥५॥

मुकुन्ददासः : तत्-तद्-वेदी तादृश-कृष्णादि-त्रयस्यानुभविता । शान्तादीत्य् अत्रादि-शब्दोऽधिकृत-शरण्यानां ग्राहकः ॥४॥ अनुभावा इति । भुवि पात-घातौ तत्र घातो हस्तेन भू-ताडनम् ॥५॥

विश्वनाथः : तत्-तद्-वेदी तादृश-कृष्णादि-त्रयानुभव-कर्ता त्रिविधो भक्त-जनः । अस्य रसस्य आश्रयालम्बनो ज्ञेयः । शान्त-भक्तेषु प्रायः करुण-रसो नोदेतीति भावः ॥४॥ अनुभावा इति । भुवि पातः भुवि घातश् च हस्तेन भू-ताडनम् इति द्वयं ज्ञेयम् ॥५॥

—ओ)०(ओ—

॥ ४.४.६-७ ॥
अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः ।
चिन्ता-विषाद-औत्सुक्य-चापलोन्माद-मृत्यवः ।
आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः ॥
हृदि शोकतयांशेन गता परिणतिं रतिः ।
उक्ता शोक-रतिः सैव स्थायी भाव इहोच्यते ॥
श्री-जीवः : अंशेन
अनिष्टाप्ति-प्रतीति-रूपेण निज-विशेषणेन ॥७॥

मुकुन्ददासः : अंशेन अनिष्टाप्ति-ज्ञान-रूपेण निज-विशेषणेन । पूर्वं हासादीनां सर्वेषां शुद्ध-सत्त्वतो भिन्नतयोक्तिस् तु प्राचुर्याद् इति ज्ञेयम् ॥७॥

विश्वनाथः : अंशेन अनिष्टाप्ति-प्रतीति-रूपेण स्वीय-विशेषणेन ॥७॥

—ओ)०(ओ—

॥ ४.४.८ ॥

तत्र कृष्णो, यथा श्री-दशमे (१०.१६.१०)—

तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्
आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः ।
कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा
दुःखानुशोक-भयम् ऊढ-धियो निपेतुः ॥
श्री-जीवः : तत्-प्रिय-सखाश्
पशुपाश् चान्ये गोपाः ॥८॥

मुकुन्ददासः : सुहृत्-शब्देन गृहीतस्यापि कलत्रस्य पृथङ्-निर्देशो विशेष-विवक्षया ॥८॥

विश्वनाथः : तत्-प्रिय-सखाश्पशुपाश् चान्ये ॥८॥

—ओ)०(ओ—

॥ ४.४.९ ॥

यथा वा—

फणि-ह्रदम् अवगाढे दारुणं पिञ्छ-चूडे
स्खलद्-अशिशिर-बाष्प-स्तोम-धौतोत्तरीया ।
निखिल-करण-वृत्ति-स्तम्भिनीम् आललम्बे
विषम् अगतिम् अवस्थां गोष्ठ-राजस्य राज्ञी ॥
श्री-जीवः : फणि-ह्रदम्
इति । “गोष्ठ-राजस्य पत्नी” इति पाठान्तरम् ॥९॥

मुकुन्ददासः : गोष्ठ-राजस्य राज्ञी स्त्री ॥९॥

विश्वनाथः : दारुणं कालिय-ह्रदं श्री-कृष्णेऽवगाढे सति बाष्प-समूहेन धौतम् उत्तरीय-वस्त्रं यस्या एवं-भूता यशोदा निखिलान्तः-करण-वृत्ति-स्तम्भिनीम् अवस्थाम् आललम्बे ॥९॥

—ओ)०(ओ—

॥ ४.४.१० ॥
तस्य प्रिय-जनो
, यथा—

कृष्ण-प्रियाणाम् आकर्षे शङ्खचूडेन निर्मिते ।
नीलाम्बरस्य वक्त्रेन्दुर् नीलिमानं मुहुर् दधे ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : श्री-कृष्णस्य
श्री-राधादि-प्रियाणाम् आकर्षे कृते सति नीलाम्बरस्य बलदेवस्य मुखं नीलिमानं दधे । शोकेन वैवर्ण्य-सात्त्विकोदय-जात इति भावः ॥१०॥

—ओ)०(ओ—

॥ ४.४.११ ॥
स्व-प्रियो
, यथा हंसदूते (५४)—

विराजन्ते यस्य व्रज-शिशु-कुल-स्तेय-विकल-
स्वयम्भू-चूडाग्रैर् लुलित-शिखराः पाद-नखराः ।
क्षणं यान् आलोक्य प्रकट-परमानन्द-विवशः
स देवर्षिर् मुक्तान् अपि तनु-भृतः शोचति भृशम् ॥
श्री-जीवः : विराजन्त
इति । लुलित इति लुलित्वं विमर्दितत्वं “लुल् विमर्दन” इत्य् अस्य निष्ठायां प्रयोगात् । अत्र त्व् अत्यन्त-संस्पर्शतापर्यकत्वेन अर्थान्तर-सङ्क्रमितत्वम् एव ज्ञेयम् । तनु-भृत इत्य् अत्र “मुनि-गणान्” इति पाठः । स्व-प्रिय-विषयत्वेन युक्तः ॥११॥

**मुकुन्ददासः : **“लुल् विमर्दन” इति विमर्दो वाच्योऽर्थः । संस्पर्शो लक्ष्यः । स प्रीति-गौरव-स्पर्शो व्यङ्ग्यः । तनुभृत इत्य् अत्र “मुनि-गणान्” इत्य् अपि पाठः ॥११॥

विश्वनाथः : यस्य श्री-कृष्णस्य पाद-नखरा विराजन्ते । कथम्भूताः ? शिशु-गण-चौर्येण ब्रह्मणा मुकुटाग्रैः करणेन लुलिताः मर्दिताः शिखरा अग्र-भागा येषां, तथा-भूताः । “लुल् मर्दने” इत्य् अस्य निष्ठायां प्रयोगात् । यान् पाद-नखरान् आलोक्य परमानन्द-विवशो देवर्षिर् नारदः स्व-जातीयत्वेन प्रियान् मुनि-गणान् मुक्तान् प्राप्त-साधु-जनान् शोचति । सांसारिकाणां नारदादि-महद्-अनुग्रह-वशात् कदाचित् चरणारविन्द-माधुर्यानुभवे सम्भावना वर्तते, तस्मान् न शोचति । प्राप्त-सायुज्यानां तु पुनर्-उत्थानाभावात् सम्भावनापि नास्तीति तान् शोचतीति ज्ञेयम् ॥११॥

—ओ)०(ओ—

॥ ४.४.१२ ॥

यथा वा—

मातर् माद्रि गता कुतस् त्वम् अधुना हा क्वासि पाण्डो पितः
सान्द्रानन्द-सुधाब्धिर् एष युवयोर् नाभूद् दृशां गोचरः ।
इत्य् उच्चैर् नकुलानुजो विलपति प्रेक्ष्य प्रमोदाकुलो
गोविन्दस्य पदारविन्द-युगल-प्रोद्दाम-कान्ति-च्छटाम् ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : नकुलानुजः
सहदेवः गोविन्दस्य पदारविन्दयोः कान्ति-च्छटा प्रेक्ष्य विलपति ॥१२॥

—ओ)०(ओ—

**॥ ४.४.१३-१४ ॥
रतिं विनापि घटते हास्यादेर् उद्गमः क्वचित् ।
कदाचिद् अपि शोकस्य नास्य सम्भावना भवेत् ॥
रतेर् भूम्ना क्रशिम्ना च शोको भूयान् कृशश् च सः ।
रत्या सहाविना-भावात् काप्य् एतस्य विशिष्टता ॥
श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : **कापि विशिष्टता हासादिभ्योऽनिर्वचनीयं स्वाद-वैशिष्ट्यम् ॥१४॥

**विश्वनाथः : **रतेर् भूम्ना आधिक्येन शोकोऽपि भूयान्, भूयात्, रतेः क्रशिम्ना अल्पत्वेन शोकोऽपि कृशः अल्पो भवेत् । एतस्य शोकस्य रत्या सहाविनाभावात् शोकोत्पत्तिर् न जायते, हासाद्य्-अपेक्षया विशिष्टता आधिक्यं ज्ञेया इत्य् अर्थः ॥१४॥

—ओ)०(ओ—

॥ ४.४.१५-१६ ॥

अपि च—

कृष्णैश्वर्याद्य्-अविज्ञानं कृतं नैषाम् अविद्यया ।
किन्तु प्रेमोत्तर-रस-विशेषेणैव तत् कृतम् ॥१५॥
अतः प्रादुर्भवन् शोको लब्ध्वाप्य् उद्भटतां मुहुः ।
दुरूहाम् एव तनुते गतिं सौख्यस्य काम् अपि ॥१६॥

श्री-जीवः : कृष्णैश्वर्य इति । एतद् उक्तं भवति—भगवान् नाम स्वरूप-भूत-भगवत्ता-विशिष्टः परमानन्द-स्वरूपः । तद् उक्तं चतुर्थे—

त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ [भा।पु। ४.११.३०] इति । ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इति ।

भगवत्ता तु षड्-विधत्वेऽपि सामान्यतो द्विविधा । परमैश्वर्य-रूपा परम-माधुर्य-रूपा चेति । तत्रैश्वर्यं नाम प्रभावेन वशीकर्तृत्वं, यद्-अनुभवेन तस्माद् भय-सम्भ्रमादि स्यात् । माधुर्यं तु रूप-गुण-लीलानां रोचकत्वं, यद्-अनुभवेन तस्मिन् प्रेम स्यात् । केवलं स्वरूपं तु स्वानन्द-मात्र-समर्पकम् । तत्र माधुर्यानुभवस् तु तद्-द्वयस्याप्य् अनुभवम् आवृणोति । यथा—तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य् अत्र सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इति श्री-सनकादिभिस् तद्-दर्शने । यथा च—

जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन । समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [भा।पु। १०.३.२९]

इत्य् अत्र देवकी-वाक्ये । स च माधुर्यानुभवो माधुर्य-भावनात्मक-साधनोत्पन्न-प्रेम-विशेष-लब्ध-रस-पर्यायास्वाद-विशेषः । तस्मात् तेन यद्-ऐश्वर्याद्य्-अनुभवावरणं तत्-सर्वोत्तम-विद्यामयम् एवेति ब्रह्म-ज्ञानाद् अर्वाचीना त्व् अविद्या कथं तत्रावकाशं लभताम् ? यथा श्री-बलदेवस्यापि तन्-मङ्गलार्थं प्रयत्नः श्रूयते—

श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥ [भा।पु। १०.५३.२०-२१] इति ।

श्री-युधिष्ठिरस्यापि, यथा—

अजात-शत्रुः पृतनां गोपीथाय मधु-द्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुर्-अङ्गिणीम् ॥ [भा।पु। १.१०.३२] इति ।

यस्माद् एवम् अतस् तदानीम् अपि प्रेमानन्द-मय-कृष्णानन्द-स्फुरणात्, तद्-उपलक्षितात् तादृश-प्रेम-स्वभावेन कथञ्चित् सम्भावनेन वा प्रत्याशानुगमात् पर्यवसानेऽपि तत्-सुखस्यैवाभ्युदयाद् असौ सौख्यस्य गतिम् एव तनुते । किन्तु दुरूहाम् आगन्तुक-दुःखानुभवेनावृताम् । अत एव काम् अपि अनिर्वचनीयाम् इत्य् अर्थः । तस्माद् अस्त्य् एव करुणेऽपि सुखमयत्वम् इति भावः ॥१५-१६॥

मुकुन्दः : कृष्णैश्वर्य- इति । अतः प्रेमोत्तर-रस-विशेष-कृतात् कृष्णैश्वर्याद्य्-अविज्ञानात् प्रादुर्भवन्, दुरूहां शोक-कृतत्वात् तर्कागोचराम् । अतः काम् अपि शोकातीताम् [गतिं] । एव-कारात् न तु गोचराम् ॥१५-१६॥

**विश्वनाथः : **अथ ऐश्वर्य-ज्ञान-सत्त्वे श्री-कृष्णे अनिष्टानुसन्धानं नोत्पद्यते, अनिष्टानुसन्धानं विना शोकोत्पत्तिर् न जायते, ऐश्वर्यस्याज्ञानं प्रेम-विशेषेणैव कृतं, न तु अविद्यया, मायोत्तीर्णेषु तादृश-सिद्ध-भक्तेषु अविद्याया अधिकाराभावाद् इत्य् आशयेनाह—कृष्णैश्वर्य- इति । उद्भटतां लब्धोऽपि शोकः काम् अप्य् अनिर्वचनीयां सौख्यस्य गतिं तनुते । किन्तु दुरूहाम् आगन्तुक-दुःखानुभवेनावृतां, तादृश-दुःख-सुख-रूपत्वं युक्त्या प्राक् प्रतिपादितम् । तस्माद् अस्त्य् एव करुण-रसेऽपि सुखमयत्वम् इति भावः ॥१५-१६॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

करुण-भक्ति-रस-लहरी चतुर्थी

॥ ४.४ ॥

—ओ)०(ओ—

(४.५)

रौद्र-भक्ति-रसाख्या

पञ्चम-लहरी

**॥ ४.५.१-२ ॥
नीता क्रोध-रतिः पुष्टिं विभावाद्यैर् निजोचितैः ।
हृदि भक्त-जनस्यासौ रौद्र-भक्ति-रसो भवेत् ॥
कृष्णो हितोऽहितश् चेति क्रोधस्य विषयस् त्रिधा ।
कृष्णे सखी-जरत्य्-आद्याः क्रोधस्याश्रयतां गताः ।
भक्ताः सर्व-विधा एव हिते चैवाहिते तथा ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम्।
विश्वनाथः : **भक्त-जनस्य हृदि विभावाद्यैः पुष्टिं प्राप्ता क्रोध-रतिर् एव रौद्र-भक्ति-रसो भवेद् इत्य् अन्वयः ॥१॥ कृष्णे कृष्ण-विषये क्रोधस्य सखी-जरत्य्-आद्याः सर्व-विधा भक्ता एवाश्रयालम्बाः । एवं हिते विषये अहिते विषये च क्रोधस्य सखी-जरत्य्-आद्या आश्रयालम्बना भवन्तीत्य् अन्वयः ॥१-२॥

—ओ)०(ओ—

॥ ४.५.३ ॥

तत्र कृष्णे सख्याः क्रोधः—
सखी-क्रोधे भवेत् सख्याः कृष्णाद् अत्याहिते सति ॥३॥
श्री-जीवः : अत्याहितं
महा-भीतिः । कृष्णाद् इत्य् अपादानं भय-हेतुर् इति स्मरणात् ॥३॥

मुकुन्दः : अत्याहितं महा-भीतिः ॥३॥

विश्वनाथः : सख्याः स्व-यूथेश्वर्याः श्री-कृष्णात् अत्याहिते अतिभये सति श्री-कृष्णे सखीनां क्रोधो भवेत् ॥३॥

—ओ)०(ओ—

॥ ४.५.४ ॥

यथा, विदग्ध-माधवे (२.३७)—

अन्तः-क्लेश-कलङ्किताः किल वयं यामोऽद्य याम्यां पुरीं
नायं वञ्चन-सञ्चय-प्रणयिनं हासं तथाप्य् उज्झति ।
अस्मिन् सम्पुटिते गभीर-कपटैर् आभीर-पल्ली-विटे
हा मेधाविनि राधिके तव कथं प्रेमा गरीयान् अभूत् ॥
श्री-जीवः : अन्तः-क्लेश-कलङ्किता
इत्य् अस्य प्रकरणे परीक्षार्थं कृतौदासीन्य-प्रायात् श्री-कृष्णात् श्री-राधाया अत्याहितं जातम् इति ज्ञेयम् ॥४॥

मुकुन्दः : अन्तः-क्लेश इत्य् अस्य प्रकरणे परीक्षार्थं कृतौदासीन्यात् श्री-कृष्णात् श्री-राधाया अत्याहितं जातम् इति ज्ञेयम् ॥४॥

विश्वनाथः : अन्तः-क्लेशेन कलङ्किता इत्य् अस्य प्रकरणे प्रेम-परीक्षार्थं कृतौदासीन्य-प्रायात् श्री-कृष्णात् श्री-राधाया अत्याहितं दृष्ट्वा सख्यः स-क्रोधम् आहुः । वयं यम-पुरं यामः, तथाप्य् अयं श्री-कृष्णः वञ्चना-समूह-करण-शीलं हासं न त्यजतिगभिर-कपटैः सम्पुटिते आच्छन्ने तथा आभिर-पल्लीनां गोप-जाति-स्त्रीणां विटे कामुकेऽस्मिन् श्री-कृष्णे हे राधे ! तव प्रेमा गरीयान् कथम् अभूत् ? ॥४॥

[विदग्ध-माधव-टीका]: अन्तः-क्लेशेन कलङ्किताश् चिह्निताः सत्यः । मृत्योर् अनन्तरम् अप्य् अयं क्लेशः स्थ्यास्यत्य् एवेति भावः । वाञ्चन-समूहस्य प्रणयिनं करण-शीलं हासम्तथापि इति अकारुण्यं व्यज्यते । अन्यासां प्रेमा भवतु, कामान्धी-कृत-धियां मेधाविन्यास् तव न युज्यते इति भावः । गभिर-कपटैः सम्पुटिते व्याप्ते आभिर-पल्लीनां व्रज-नागरीणां विटे कामुके ॥४॥

—ओ)०(ओ—

॥ ४.५.५-६ ॥

तत्र जरत्याः क्रोधः—
क्रोधो जरत्या वध्व्-आदि-सम्बन्धे प्रेक्षिते हरौ ॥

यथा—

**अरे युवति-तस्कर प्रकटम् एव वध्वाः पटस्
तवोरसि निरीक्ष्यते बत न नेति किं जल्पसि ।
अहो व्रज-निवासिनः शृणुत किं न विक्रोशनं
व्रजेश्वर-सुतेन मे सुत-गृहेऽग्निर् उत्थापितः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **जरती-प्रभृति-सर्वेषाम् एव व्रज-वासिनां श्री-कृष्णे साहजिक-प्रेमा जागरूक एवेति विद्यते, तथापि वध्व्-आदि-सह श्री-कृष्णस्य सम्बन्धे दृष्टे सति इह लोके अप्रतिष्ठा, पर-लोके अधर्मोऽनयोर् निराकरणोद्यमे बहिर् हितैषिणां तेषां श्री-कृष्णे क्रोध इत्य् आशयेनाह—हे व्रज-वासिनः मम विक्रोशनं किं न शृणुत ? ॥५-६॥

—ओ)०(ओ—

**॥ ४.५.७ ॥
गोवर्धनं महा-मल्लं विनान्येषां व्रजौकसाम् ।
सर्वेषाम् एव गोविन्दे रतिः प्रौढा विराजते ॥
श्री-जीवः : **ननु जरत्याः क्रोधः कृष्णे कथं स्यात् ? अहो भाग्यम् अहो भाग्यं [भा।पु। १०.१४.३२] इत्य्-आदि श्री-भागवत-निर्णय-शत-रीत्या व्रज-वासि-जीव-मात्राणां सर्वातिक्रमेण सर्व-समर्पणेन च तद्-एक-हितानां नासौ स्वार्थः सम्भवतीति ? तत्राह—गोवर्धनम् इति । सोऽयं चन्द्रावल्याः पतिम्मन्यः कंसस्य कश्चिद् गोपः आगन्तुकतया कृत-व्रज-वास इति क्वचित् प्रसिद्धिः । तस्मात् तं विनान्येष्याम् इत्य्-आदि योज्यम् । तद् एवम् अपि तस्मिंस् तस्या क्रोधस् तन्-मङ्गलेच्छयैव मुख्यम् उद्यमम् आवहति, न तु रत्य्-अभावेन इति पूर्वं दर्शितम् अस्ति, तथा जनेष्व् अशृण्वत्स्व् एव तथा क्रोशनं, न तु शृण्वत्स्व् अपीति भावः ॥७॥

**मुकुन्ददासः : **ननु जरत्या रतेर् अभावात् क्रोध एव, न क्रोध-रतिः ? तत्राह—गोवर्धनम् इति। तोशलापर-पर्यायं श्री-चन्द्रावल्याः पतिम्मन्यं विना सर्वेषाम् एव, अहो भाग्यम् अहो भाग्यं [भा।पु। १०.१४.३२] इत्य्-आदि-प्रमाणात् ॥७॥

विश्वनाथः : गोवर्धनम् इति । सोऽयं चन्द्रावल्याः पतिं-मन्यः कंसस्य कश्चिद् गोपः आगन्तुकतया कृत-व्रज-वास इति क्वचित् प्रसिद्धिः । तस्मात् तं विना ॥७॥

—ओ)०(ओ—

॥ ४.५.८-९ ॥

अथ हितः—
हितस् त्रिधानवहितः साहसी चेर्ष्युर् इत्य् अपि ॥

तत्र (१) **अनवहितः—
कृष्ण-पालन-कर्तापि तत्-कर्माभिनिवेशतः ।
क्वचित् तत्र प्रमत्तो यः प्रोक्तोऽनवहितोऽत्र सः ॥
श्री-जीवः : **तत्र कृष्ण-पालने, क्वचित् तत्-सम्बन्धि-भावान्तरेण वैचित्त्ये सति प्रमत्तः, तत्-तत्-परम-हानि-करीम् अपि तद्-अवस्थाम् अवधातुम् असमर्थो यः सोऽनवहितः प्रोक्तः ॥९॥

मुकुन्ददासः : क्वचिन् निर्भय-स्थानादौ तत्र कृष्ण-पालने प्रमत्तः असावधानः ॥९॥

**विश्वनाथः : **तस्य श्री-कृष्णस्य भोजनादि-सामग्री-सम्पादन-कर्मणि अभिनिवेश-वशात् कदाचित् कृष्णस्य रक्षायां यः प्रमत्तः असावधानः भवेत्, स अनवहितः प्रोक्तः ॥९॥

—ओ)०(ओ—

॥ ४.५.१० ॥

यथा—

उत्तिष्ठ मूढे कुरु मा विलम्बं
वृथैव धिक् पण्डित-मानिनी त्वम् ।
त्रुट्यत्-पलाशि-द्वयम् अन्तरा ते
बद्धः सुतोऽसौ सखि बम्भ्रमीति ॥
श्री-जीवः : पण्डित-मानिनी
पुत्र-शिक्षा-विज्ञ-मानिनी । त्रुट्यद् इति भूतेऽपि वर्तमान-सामीप्ये वर्तमानवद् वा । तद् इदं प्रायस् तस्मिन् दिने तूपनन्दाद्य्-एकतर-गृहे निमन्त्रणया स-पुत्रं गतायास् त्रुट्यद्-वृक्ष-गर्जिताद् आगतायाः श्री-दामोदर-निकटे श्री-व्रजेश्वराद्य्-आगमनं वीक्ष्य गृह एव प्रविष्टायाः श्री-रोहिण्यास् तच्-छब्द-कृत-भय-मूर्च्छात उत्थित-प्रायां श्री-व्रजेश्वरीं प्रति वाक्यम् ॥१०॥

मुकुन्ददासः : त्रुट्यद्-वृक्ष-प्रचण्ड-शब्देन नन्दादीनां तत्-क्षणम् एव शीघ्रागमनात् तत्र निर्णीत-कृत-स्थित्याः श्री-रोहिण्यास् तत्-कर्माभिनिविष्टां श्री-यशोदां प्रति उत्थिष्ठ मूढे इति वाक्यम् । पण्डित-मानिनी पुत्र-शिक्षा-विज्ञ-मानिनी ॥१०॥

**विश्वनाथः : **अथात्र दधि-भाण्ड-स्फोटनापराधेन श्री-कृष्णं बद्ध्वा तस्य भोजनार्थं पुनर् दधि-दुग्ध-नवनीतादि-सम्पादनाय व्यग्र-चित्ताम् अत एव श्री-कृष्ण-रक्षायाम् असावधानां श्री-यशोदां प्रति उपनन्दादीनां स्त्रिय आहुः—उत्तिष्ठ इति । धिक् यत् त्वं वृथैव पण्डित-मानिनी पुत्र-शिक्षा-विज्ञ-मानिनी । त्रुट्यद् इति । वर्तमान-सामीप्ये वर्तमाणः । तथा त्रुटितयोः यमलार्जुनयोर् मध्ये तव सुतो बद्धः सन् बम्भ्रमीति ॥१०॥

—ओ)०(ओ—

॥ ४.५.११-१२ ॥

अथ (२) साहसी—
यः प्रेरको भय-स्थाने साहसी स निगद्यते ॥

यथा—

गोविन्दः प्रिय-सुहृदां गिरैव यातस्
तालानां विपिनम् इति स्फुटं निशम्य ।
भ्रू-भेद-स्थपुटित-दृष्टिर् आस्यम् एषां
डिम्भानां व्रज-पति-गेहिनी ददर्श ॥
श्री-जीवः : स्थपुटितं
विषमीकृतम् । स्थपुटं विषमम् इति त्रिकाण्डा-शेषः । विषमं तु नतोन्नतम् इति ज्ञेयम् ॥१२॥

मुकुन्ददासः : स्थपुटितं नतोन्नतम् ॥१२॥

विश्वनाथः : इति निशम्य श्रुत्वा क्रोधेन भ्रू-भेद-स्थपुटिता दृष्टिर् यस्याः सा यशोदा बालकानाम् आस्यं मुखं ददर्शस्थपुटितं विषमीकृतं, स्थपुटं विषमम् इति त्रिकाण्डा-शेषः । विषमं तु नतोन्नतम् इति ॥१२॥

—ओ)०(ओ—

॥ ४.५.१३-१४ ॥

अथ (३) ईर्ष्युः—
ईर्ष्युर् मान-धना प्रोक्ता प्रौढेर्ष्याक्रान्त-मानसा ॥

यथा—

**दुर्मान-मन्थ-मथिते कथयामि किं ते
दूरं प्रयाहि सविधे तव जाज्वलीमि ।
हा धिक् प्रियेण चिकुराञ्चित-पिञ्छ-कोट्या
निर्मञ्छिताग्र-चरणाप्य् अरुणाननासि ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **श्री-कृष्ण-कर्तृक-बहुतर-प्रणत्य्-आदिभिस् तथा मान-त्यजनार्थं सखीनाम् अनन्त-प्रार्थनाभिर् अपि मानस्याभङ्गं दृष्ट्वा श्री-कृष्णे गते सति पश्चात्-तापेन विगत-मानास्मीति, अत एव श्री-कृष्णस्यानयानार्थं ललितां प्रार्थयमानां श्री-राधां क्रोधेन सा ललिता आह—दुर्मान- इति । हे दुर्मान-मन्थ-मथिते ! दुर्मान एव मन्थः मन्थान-दण्डः, तेन मथिते विलोडिते ! तव सविधे निकटे अहं जाज्वलीमि । अतस् त्वं दूरे प्रयाहि । चूडाकारेण कुञ्चित-पिच्छस्य कोट्या अग्र-भागेन प्रणाम-समये निर्मञ्छिताग्र-चरणानि त्वं तदानीं क्रोधेन उद्धुरा आसीः । सम्प्रति कथम् अस्माभिः स आनेतव्यः ? त्वम् एव गत्वा आनयेति भावः ॥१४॥

—ओ)०(ओ—

॥ ४.५.१५-१७ ॥

अथ अहितः—
अहितः स्याद् द्विधा स्वस्य हरेश् चेति प्रभेदतः ॥

तत्र (१) स्वस्याहितः—
अहितः स्वस्य स स्याद् यः कृष्ण-सम्बन्ध-बाधकः ॥

यथा उद्धव-सन्देशे (७४)—

**कृष्णं मुष्णन् अकरुण-बलाद् गोप-नारी-वधार्थी
मा मर्यादाम् यदु-कुल-भुवाम् भिन्धि रे गान्दिनेय ।
इत्य् उत्तुङ्गा मम मधु-पुरे यात्रया तत्र तासां
वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **हे गाण्डिनेय अक्रूर ! त्वयि यात्रां विधित्सौ सति स्त्रीणाम् अस्माकं प्राणैर् अपि यात्रा व्यधायि, अस्माकं प्राणा यास्यन्तीत्य् अर्थः । तथा च श्री-कृष्णं गृहीत्वा तव गमनेच्छायां सत्याम् अनन्त-स्त्री-वध-जन्य-पापेन यदु-कुलस्य अप्रतिष्ठा भविष्यत्य् अतो यदु-कुल-भुवां मर्यादां त्वं मा भिन्धि रे ॥१७॥

—ओ)०(ओ—

॥ ४.५.१८-१९ ॥

अथ (२) हरेर् अहितः—
अहितस् तु हरेस् तस्य वैरि-पक्षो निगद्यते ॥

यथा—

हरौ श्रुति-शिरः-शिखा-मणि-मरीचि-नीराजित-
स्फुरच्-चरण-पङ्कजेऽप्य् अवमतिं व्यनक्त्य् अत्र यः ।
अयं क्षिपति पाण्डवः शमन-दण्ड-घोरं हठात्
त्रिर् अस्य मुकुटोपरि स्फुटम् उदीर्य सव्यं पदम् ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : श्रुति-शिरसाम्
उपनिषदां शिखा-स्थ-मणि-दीधितिभिर् नीराजितं **चरण-पङ्कजं **यस्य, तस्मिन् श्री-कृष्णे यः शिशुपालाभिधः अवज्ञां व्यनक्ति, अस्य मुकुटोपरि भीम-नामायं मल्-लक्षणो यम-दण्डाद् अपि भयङ्करं मदीयं वाम-पादम् उदीर्य क्षिपति ॥१९॥

—ओ)०(ओ—

॥ ४.५.२०-२६ ॥
सोल्लुण्ठ-हास-वक्रोक्ति-कटाक्षानादरादयः ।
कृष्णाहित-हितस्थाः स्युर् अमी उद्दीपना इह ॥
हस्त-निस्पेषणं दन्त-घट्टनं रक्त-नेत्रता ।
दष्टौष्ठतातिभ्रू-कुटी भुजास्फालन-ताडनाः ॥
तुष्णीकता नतास्यत्वं निश्वासो भुग्न-दृष्टिता ।
भर्त्सनं मूर्ध-विधूतिर् दृग्-अन्ते पाटल-च्छविः ॥
भ्रू-भेदाधर-कम्पाद्या अनुभावा इहोदिताः ।
अत्र स्तम्भादयः सर्वे प्राकट्यं यान्ति सात्त्विकाः ॥
आवेगो जडता गर्वो निर्वेदो मोह-चापले ।
असूयौग्र्यं तथामर्ष-श्रमाद्या व्यभिचारिणः ॥
अत्र क्रोध-रतिः स्थायी स तु क्रोधस् त्रिधा मतः ।
कोपो मन्युस् तथा रोषस् तत्र कोपस् तु शत्रु-गः ॥
मन्युर् बन्धुषु ते पूज्य-सम-न्यूनास् त्रिधोदिताः ।
रोषस् तु दयिते स्त्रीणाम् अतो व्यभिचरत्य् असौ ॥
श्री-जीवः : व्यभिचरति
आद्ये रसे व्यभिचारितां प्राप्नोति । जरती-सख्यादीनां कोप-मन्युवन् नामूषां रोषः स्थायिताम् आयातीत्य् अर्थः । तद् एवं पूर्वम् उक्ता आवेगादयश् च व्यभिचारिणः औग्र्य-प्रधानाः शत्रु-विषयाः, अमर्ष-प्रधाना बन्धु-विषयाः । असूया-प्रधाना दयित-विषया ज्ञेयाः ॥२६॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **ते बन्धवः पूज्यादि-त्रिधा भवन्ति । व्यभिचरति शृङ्गार-रसे व्यभिचारितां प्राप्नोति । जरती-सख्यादीनां कोपो मन्युवन् नामूषां रोषः स्थायिताम् आयातीत्य् अर्थः । तद् एवं पूर्वम् उक्ता आवेगादयश् च व्यभिचारिणः, औग्र्य-प्रधानाः मन्यु-विषयाः, अमर्ष-प्रधाना बन्धु-विषयाः । असूया-प्रधाना दयित-विषया ज्ञेयाः ॥२६॥

—ओ)०(ओ—

॥ ४.५.२७-२८ ॥
हस्त-पेषादयः कोपे मन्यौ तुष्णीकतादयः ।
दृग्-अन्त-पाटलत्वाद्या रोषे तु कथिताः क्रियाः ॥

तत्र वैरिणि, यथा—

निरुध्य पुरम् उन्मदे हरिम् अगाध-सत्त्व-श्रियं
मृधे मगध-भूपतौ किम् अपि वक्त्रम् आक्रोशति ।
दृशं कवलित-द्विषद्-विसर-जाङ्गले लाङ्गले
नुनोद दहद्-इङ्गल-प्रवल-पिङ्गलां लाङ्गली ॥
6

श्री-जीवः, मुकुन्ददासः : द्विषद्-विसर-जाङ्गलं शत्रु-समूह-मांसम् । इङ्गलोऽङ्गारः ॥२८॥

**विश्वनाथः : **मधु-पुरीं निरुध्य अगाधा सत्त्व-श्रीः सम्पत्तिः यस्य तथा-भूतं हरिं मगध-भूपतौ जरासन्धे वक्त्रम् आक्रोशति सति, लाङ्गली बलदेवः क्रोधेन दृशं लाङ्गले हले नुनोद प्रेरयामास । तथा च, युद्धे लाङ्गलं ददर्श इत्य् अर्थः । लाङ्गले कथं-भूते ? कवलितं द्विषद्-विसरस्य शत्रु-समूहस्य जाङ्गलं मांसं येन तथा-भूते । दृशं कथं-भूतां ? ज्वलद्-इङ्गलस्य ज्वलद्-अङ्गारस्येव पिङ्गल-वर्णाम् ॥२८॥

—ओ)०(ओ—

॥ ४.५.२९ ॥
पूज्यो
, यथा विदग्ध-माधवे (२.२१)—

क्रोशन्त्यां कर-पल्लवेन बलवान् सद्यः पिधत्ते मुखं
धावन्त्यां भय-भाजि विस्तृत-भुजो रुन्धे पुरः पद्धतिम् ।
पादान्ते विलुठत्य् असौ मयि मुहुर् दष्टाधरायां रुषा
मातश् चण्डि मया शिखण्ड-मुकुटाद् आत्माभिरक्ष्यः कथम् ॥
श्री-जीवः
,** मुकुन्ददासः : क्रोशन्त्याम्** इति भावं परीक्षमाणायां पौर्णमास्यां कृष्ण-स्फूर्ति-मयं चरितं साक्षाद् रूपम् इव श्री-राधया कथितम् ॥२९॥

**विश्वनाथः : **प्रेम-परीक्षार्थं श्री-राधिकायै पातिव्रत्य-धर्मम् उपदिशन्तीं पौर्णमासीं प्रति सा राधाह—मयि क्रोशन्त्याम् सत्यां मुखं पिधत्तेपद्धतिं पन्थानं । रुषा दन्तेन दष्टाधरायां सत्यां पादान्ते विलुठति । हे चण्डि ! कोपने ! श्री-कृष्णात् आत्मा देहः कथं रक्ष्यः ? ॥२९॥ [तथापि अविचारेण मां प्रत्य् एव कुप्यसि किं वक्तव्यम् ? इति ।]

—ओ)०(ओ—

**॥ ४.५.३० ॥
समे, **यथा—

ज्वलति दुर्मुखि मर्मणि मुर्मुरस्
तव गिरा जटिले निटिले च मे ।
गिरिधरः स्पृशति स्म कदा मदाद्
दुहितरं दुहितुर् मम पामरि ॥
श्री-जीवः : ज्वलति
इति जटिला-मुखरयोर् निभृत-कलहः । मुर्मुरस् तुषाग्निः । निटिले शिरसि ॥३०॥

मुकुन्दः : मुर्मुरस् तुषाग्निः । निटिले शिरसि ॥३०॥

**विश्वनाथः : **जटिला-मुखरयोर् निभृत-कलहम् आह—हे दुर्मुखि जटिले ! तव गिरा कटु-वचनेन मम मर्मणि निटिले शिरसि च मुर्मुरस् तुषाग्निर् ज्वलति । हे पामरि ! मम दुहितुः कीर्तिदायाः दुहितरं राधिकां गिरिधरः कदा स्पृशति स्म ? ॥३०॥

—ओ)०(ओ—

॥ ४.५.३१ ॥
न्यूने
, यथा—

**हन्त स्वकीय-कुच-मूर्ध्नि मनोहरोऽयं
हारश् चकास्ति हरि-कण्ठ-तटी-चरिष्णुः ।
भोः पश्यत स्वकुल-कज्जल-मञ्जरीयं
कुटेन मां तद् अपि वञ्चयते वधूटी ॥
श्री-जीवः : **कदाचिन् निजाङ्गाज् झटिति श्री-राधिकयावतारितं हरि-हारं वीक्ष्य तस्याः सखीः प्रति जटिला वचनम्—हन्त इति ॥३१॥

**मुकुन्दः : **राधा-वक्षसि हरि-हार-वीक्षणेन जात-मन्योर् जटिलायास् तत्-सखीर् अनादृत्य शून्ये वचनम्—हन्त इति ॥३१॥

**विश्वनाथः : **कदाचिन् निजाङ्गाज् झटिति श्री-राधयावतारितं हरि-हारं वीक्ष्य तस्याः सखीं प्रति जटिलाह—हन्त इति ॥३१॥

—ओ)०(ओ—

॥ ४.५.३२-३३ ॥
अस्मिन् न तादृशो मन्यौ वर्तते रत्य्-अनुग्रहः ।
उदाहरण-मात्राय तथाप्य् एष निदर्शितः ॥
क्रोधाश्रयाणां शत्रूणां चैद्यादीनां स्वभावतः ।
क्रोधो रति-विनाभावान् न भक्ति-रसतां व्रजेत् ॥
श्री-जीवः : न तादृश
इति न स्पष्ट इत्य् अर्थः । गोवर्धनं विना मल्लम् [४.५.७] इत्य्-आद्य्-उक्तत्वात् ॥३२॥

मुकुन्दः : तादृशो रस-योग्यः । मन्युर् अयम् अमर्षाख्यो व्यभिचारि-भाव एव स्थायीति भावः ॥३२॥

**विश्वनाथः : **न तादृश इति न स्पष्ट इत्य् अर्थः । गोवर्धनं विना मल्लम् इत्य् आद्य् उक्तत्वात् ॥३२॥

—ओ)०(ओ—

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

रौद्र-भक्ति-रस-लहरी पञ्चमी

॥ ४.५ ॥

—ओ)०(ओ—

(४.६)

भयानक-भक्ति-रसाख्या

षष्ठ-लहरी

**॥ ४.६.१-३ ॥
वक्ष्यमाणैर् विभावाद्यैः पुष्टिं भय-रतिर् गता ।
भयानकाभिधो भक्ति-रसो धीरैर् उदीर्यते ॥
कृष्णश् च दारुणाश् चेति तस्मिन्न् आलम्बना द्विधा ।
अनुकम्प्येषु सागःसु कृष्णस् तस्य च बन्धुषु ॥२॥
दारुणाः स्नेहतः शश्वत् तद्-अनिष्टाप्ति-दर्शिषु ।
दर्शनाच् छ्रवणाच् चेति स्मरणाच् च प्रकीर्तिताः ॥३॥
श्री-जीवः : **तद्-भक्ताश् चेति वक्तव्ये दारुणाश् चेत्य् उक्तिः प्रकृत-रसविन्-मतानुसारेण । स्व-मतानुसारेण तु पञ्चम्य्-अर्थानां तेषाम् आलम्बनत्वं न सम्भवति । सामान्ये विशेषेषु च सप्तम्य्-अर्थस्यैवालम्बनत्वेन स्वीकृतत्वात् । प्राकृत-रसविन्-मतानुवाद-मयम् एतत् प्रकरणम् इति स्वयं लिखिष्यते—

हास्यादीनां रसत्वं यद् गौणत्वेनापि कीर्तितम् । प्राचां मतानुसारेण तद् विज्ञेयं मनीषिभिः ॥ [भ।र।सि। ४.७.१३] इति ।

स्व-मते तु प्रथम-पक्षेऽनुकम्प्या एव भयस्य विषयत्वेनाश्रयत्वेन चालम्बनाःकृष्णस् तु हेतु-मात्रम् । तद्-द्वितीया-पक्षे कृष्णो विषयत्वेन, बन्धव आश्रयत्वेनालम्बनाः, दारुणास् तु हेतु-मात्रम् इति ज्ञेयम् । रतिस् तु यथायथम् अस्त्य् एव ॥२॥

मुकुन्ददासः : दारुणाश् चेत्य् उक्तिर् भरतादीनां मतानुसारेण । श्री-भागवताद्य्-अनुसारि-स्व-मते हास्यादीनां प्रायो व्यभिचारित्वम् । पञ्चम्य्-अन्त आलम्बनो भावोत्पादनांशे उभय-सम्मत एव । सप्तम्य्-अन्तो भावोत्कर्ष-शंसक एव तस्य स्वोत्पादित-भावोत्कर्षक-स्वरूपत्वात् । अतो वक्ष्यते—भीषणेभ्यो भयम् [भ।र।सि। ४.६.१२] विभाव्यते हि रत्य्-आदिर् यत्रेत्य् अत्र सिद्धवन् निर्देशा, यतो ज्ञान इति च बोध्यम् ॥२॥

**विश्वनाथः : **अस्मिन् रसे श्री-कृष्णः तथा दारुणाः असुरादयश् च द्विधा विषयालम्बना ज्ञेयाः । सागःसु सापराधेषु अनुकम्प्येषु आश्रयालम्बनेषु श्री-कृष्णो विषयालम्बनः, तस्य श्री-कृष्णस्य बन्धुषु स्नेहात् सर्वदा श्री-कृष्णस्य अनिष्टाप्ति-दर्शिषु तेषु आश्रयालम्बनेषु **दारुणा दर्शनादि-**हेतोः विषयालम्बनाः कीर्तिताः ॥२-३॥

—ओ)०(ओ—

॥ ४.६.४ ॥

तत्र अनुकम्प्येषु कृष्णो, यथा—

किं शुष्यद्-वदनोऽपि मुञ्च खचितं चित्ते पृथुं वेपथुं
विश्वस्य प्रकृतिं भजस्व न मनाग् अप्य् अस्ति मन्तुं तव ।
उष्म-म्रक्षितम् ऋक्ष-राज रभसाद् विस्तीर्य वीर्यं त्वया
पृथ्वी प्रत्युत युद्ध-कौतुक-मयी सेवैव मे निर्मिता ॥
श्री-जीवः : उष्मा
क्रोध-सन्तापः । पृथ्वी पृथुतरा ॥४॥

मुकुन्ददासः : उष्मा क्रोध-सन्तापः ॥४॥

**विश्वनाथः : **जाम्बवन्तं प्रति श्री-कृष्ण आह—हे ऋक्ष-राज ! खचितं व्याप्तं, वेपथुं मुञ्च । तव मनाग् अप्य् अपराधो नास्तिउष्मा क्रोध-सन्तापः, तेन म्रक्षितं युक्तं वीर्यं विस्तार्य पृथ्वी महती मम युद्ध-कौतुक-मयी सेवैव त्वया निर्मिता ॥४॥

—ओ)०(ओ—

॥ ४.६.५ ॥

यथा वा—

**मुर-मथन पुरस् ते को भुजङ्गस् तपस्वी
लघु-हरम् इति कार्षीर् मा स्म दीनाय मन्युम् ।
गुरुर् अयम् अपराधस् तथ्यम् अज्ञानतोऽभूद्
अशरणम् अतिमूढं रक्ष रक्ष प्रसीद ॥
श्री-जीवः : **कालियस्य वाक्यम् । तपस्वी वराकः । मन्युः क्रोधः ॥५॥

मुकुन्ददासः : तपस्वी वराकः ॥५॥

**विश्वनाथः : **भगवत्-तत्त्व-ज्ञानानन्तरं शरणापन्नः कालियः श्री-कृष्णम् आह—तव पुरोऽग्रे मद्-विधो भुजङ्गः तपस्वी वराकः कः ? मन्युं मा स्म कार्षीः ॥५॥

—ओ)०(ओ—

॥ ४.६.६ ॥
बन्धुषु दारुण-दर्शनाद्
, यथा—

हा किं करोमि तरलं भवनान्तराले
गोपेन्द्र गोपय बलाद् उपरुध्य बालम् ।
क्ष्मा-मण्डलेन सह चञ्चलयन् मनो मे
शृङ्गाणि लङ्घयति पश्य तुरङ्ग-दैत्यः ॥६॥
श्री-जीवः : शृङ्गाणि
वृक्षादीनाम् अग्र-भागान् ॥६॥

मुकुन्ददासः : शृङ्गाणि पर्वतोच्चाग्र-भागान् ॥६॥

**विश्वनाथः : **नन्दं प्रति श्री-यशोदाह—हा किम् इति । हे गोपेन्द्र ! तरलं चञ्चलं बालं भवन-मध्ये बलात् उपरुध्यगोपय रक्ष । तुरङ्ग-दैत्यः केशी लङ्घयति ॥६॥

—ओ)०(ओ—

॥ ४.६.७ ॥
श्रवणाद्
, यथा—

शृण्वन्ती तुरङ्ग-दानवं रुषा
गोकुलं किल विशन्तम् उद्धुरम् ।
द्राग् अभूत् तनय-रक्षणाकुला
शुष्यद्-आस्य-जलजा व्रजेश्वरी ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : तुरङ्ग-दानवं
केशिनं गोकुलं विशन्तं शृण्वती यशोदा शुष्यन्-मुख-पञ्कजा सती पुत्र-रक्षणार्थं व्याकुला अभूत् ॥७॥

—ओ)०(ओ—

॥ ४.६.८ ॥
स्मरणाद्,
यथा—

विरम विरम मातः पूतनायाः प्रसङ्गात्
तनुम् इयम् अधुनापि स्मर्यमाणा धुनोति ।
कवलयितुम् इवान्धीकृत्य बालं घुरन्ती
वपुर् अतिपरुषं या घोरम् आविश्चकार ॥८॥
श्री-जीवः : विरम
इति काञ्चिद् दूराद् आगताम् अज्ञात-वृत्तां प्रति श्री-व्रजेश्वरी-वाक्यम् । ततः कवलयितुम् इत्य्-आद्य् अनुवाद-दोषोऽपि न स्यात् । घुरन्ती भीम-शब्दं कुर्वन्ती । घुर भीमार्त-शब्दयोर् इत्य् अस्य रूपम् ॥८॥

मुकुन्ददासः : विरम इति काञ्चिद् दूरागतां किञ्चिन्-मात्र-श्रुत-वृत्तां प्रति श्री-व्रजेश्वरी-वाक्यम् । घुरन्ती भीम-शब्दं कुर्वन्ती ॥८॥

**विश्वनाथः : **काञ्चिद् दूराद् आगताम् अज्ञात-वृत्तान्तां प्रति श्री-व्रजेश्वरी आह—अतः कवलयितुम् इत्य्-आद्य्-अनुवाद-दोषो न स्यात् । धुनोति कम्पयते । घुरन्ती भीम-शब्दं कुर्वन्ती । घुर भीमार्त-शब्दयोः ॥८॥

—ओ)०(ओ—

॥ ४.६.९-१० ॥
विभावस्य भ्रुकुट्य्-आद्यास् तस्मिन्न् उद्दीपना मताः ।
मुख-शोषणम् उच्छ्वासः परावृत्य विलोकनम् ॥
स्व-सङ्गोपनम् उद्घूर्णा शरणान्वेषणं तथा ।
क्रोशनाद्याः क्रियाश् चात्र सात्त्विकाश् चाश्रु-वर्जिताः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : विभावस्य
विषयालम्बनस्य भ्रुकुट्य्-आद्याः ॥९॥ क्रिया अनुभावाः ॥१०॥

—ओ)०(ओ—

॥ ४.६.११-१३ ॥
इह सन्त्रास-मरण-चापलावेग-दीनताः ।
विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः ॥
अस्मिन् भय-रतिः स्थायी भावः स्याद् अपराधतः ।
भीषणेभ्यश् च तत्र स्याद् बहुधैवापराधिता ॥
तज्-जा भीर् नापरत्र स्याद् अनुग्राह्य-जनान् विना ।
आकृत्या ये प्रकृत्या ये ये प्रभावेण भीषणाः ॥
श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : तज्जा
अपराधजाः ॥१३॥

विश्वनाथः : भीषणेभ्यो भयानकासुरेभ्यः अपराधिता अपराधो बहुविधो भवति ॥१२॥ तस्मात् अपराधात् जाता भीः अनुग्राह्य-भक्तान् विना अन्यत्र न स्यात् ॥१३॥

—ओ)०(ओ—

॥ ४.६.१४-१६ ॥
एतद्-आलम्बना भीतिः केवल-प्रेम-शालिषु ।
नारी-बालादिषु तथा प्रायेणात्रोपजायते ॥
आकृत्या पूतनाद्याः स्युः प्रकृत्या दुष्ट-भू-भुजः ।
भीषणास् तु प्रभावेण सुरेन्द्र-गिरिशादयः ॥
सदा भगवतो भीतिं गता आत्यन्तिकीम् अपि ।
कंसाद्या रति-शून्यत्वाद् अत्र नालम्बना मताः ॥
श्री-जीवः : दुष्ट-भूभुजः
शिशुपालादयः ॥१५॥

मुकुन्ददासः : प्राकृत्या स्वभावेन केशि-मुख्यो येषु अरिष्टादिषु ते केशि-मुख्यकाः ॥१५॥

विश्वनाथः : एतद्-आलम्बना एतद्-विषयालम्बना भीतिः प्रेमवत्सु स्त्री-बालकादिषूपजायते ॥१४॥ दुष्ट-भूभुजः शिशुपालादयः । भगवत्-सकाशात् कंसाद्या आत्यन्तिकीं भीतिं प्राप्ता अपि रति-शून्यत्वात् विषयालम्बनत्वेऽपि नाश्रयालम्बनाः । भक्तान् विनान्येषाम् आश्रयालम्बनत्वं पूर्वम् एव दूरीकृतम् इति ज्ञेयम् ॥१५-१६॥

—ओ)०(ओ—

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

भयानक-भक्ति-रस-लहरी षष्ठी

॥ ४.६॥

(४.७)

बीभत्स-भक्ति-रसाख्या

सप्तम-लहरी

**॥ ४.७.१-२ ॥
पुष्टिं निज-विभावाद्यैर् जुगुप्सा-रतिर् आगता ।
असौ भक्ति-रसो धीरैर् बीभत्साख्य इतीर्यते ॥
अस्मिन्न् आश्रित-शान्ताद्या धीरैर् आलम्बना मताः ॥
श्री-जीवः : **तत्र बीभत्सितस्य एव आलम्बनत्वेऽप्य् आश्रित-शान्तादीनाम् आलम्बनत्वं रत्य्-अंशेन। शान्तोऽत्र तपस्वि-रूप एव । आद्य-ग्रहणात् अप्राप्त-भगवत्-सान्निध्याः सर्व एव ॥२॥

मुकुन्ददासः : अस्मिन्न् इति । आलम्बना विषयालम्बन-रूपाः । आद्य-शब्दात् प्रायिकीई जुगुप्साश्रया अन्येऽपि भक्ता आश्रयत्वेन देहादिकं विषयत्वेन गृहीतानि ॥२॥

**विश्वनाथः : **आत्मोचितैर् विभावाद्यैः पुष्टिं प्राप्तासौ जुगुप्सा रतिः बीभत्साख्यः भक्ति-रसो भवेत् ॥१॥ अस्मिन् रसे आश्रित-शान्तादयः आलम्बना मताः ॥२॥

—ओ)०(ओ—

॥ ४.७.३ ॥

यथा—

पाण्डित्यं रत-हिण्डकाध्वनि गतो यः काम-दीक्षा-व्रती
कुर्वन् पूर्वम् अशेष-षिड्ग-नगरी साम्राज्य-चर्याम् अभूत् ।
चित्रं सोऽयम् उदीरयन् हरि-गुणानुद्बाष्प-दृष्टिर् जनो
दृष्टे स्त्री-वदने विकूणित-मुखो विष्टभ्य निष्ठीवति ॥
श्री-जीवः : रतहिण्डको
रत-चौरः । विकूणित-मुखो वक्रित-वदनः । विष्टभ्य विशेषेण स्तब्धो भूत्वा ॥३॥

मुकुन्ददासः : विकूनित-मुखो विशेषेण सङ्कोचित-मुखः । विष्टभ्य विशेषेण स्तब्धी-भूय ॥३॥

विश्वनाथः : रत-हिण्डको रति-चौरः । तस्य अध्वनि यः पाण्डित्यं प्रापुः, तथा अशेष-षिड्गाणां स्त्री-लम्पटानां या नगरी तस्या साम्राज्य-चर्यां यथेष्टाचरणं कुर्वन् सन् पूर्वं काम-दीक्षा-व्रती अभूत्, स एवायं हरि-गुणान् उदीरयन् सङ्कीर्तयन् उद्गत-बाष्प-धारा-युक्ता दृष्टिर् यस्य तथा-भूतः सन् स्त्री-वदने दृष्टे सति विकूणित-मुखो वक्रित-वदनः । विष्टभ्य विशेषेण स्तब्धो भूत्वा निष्ठीवति ॥३॥

—ओ)०(ओ—

॥ ४.७.४-६ ॥
अत्र निष्ठीवनं वक्त्र-कूणनं घ्राण-संवृतिः ।
धावनं कम्प-पुलक-प्रस्वेदाद्याश् च विक्रियाः ॥
इह ग्लानि-श्रमोन्माद-मोह-निर्वेद-दीनताः ।
विषाद-चापलावेग-जाड्याद्यो व्यभिचारिणः ॥
जुगुप्सा-रतिर् अत्र स्यात् स्थायी सा च विवेकजा ।
प्रायिकी चेति कथिता जुगुप्सा द्वि-विधा बुधैः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : विक्रिया
अनुभावाः ॥४॥ \

—ओ)०(ओ—

॥ ४.७.७-८ ॥

तत्र विवेकजा—
जात-कृष्ण-रतेर् भक्त-विशेषस्य तु कस्यचित् ।
विवेकोत्था तु देहादौ जुगुप्सा स्याद् विवेकजा ॥

यथा—

घन-रुधिर-मये त्वचा पिनद्धे
पिशित-विमिश्रित-विस्र-गन्ध-भाजि ।
कथम् इह रमतां बुधः शरीरे
भगवति हन्त रतेर् लवेऽप्य् उदीर्णे ॥
श्री-जीवः : पिशितं
मांसम् । विस्रं स्याद् आम-गन्धि यत् । तस्माद् विस्रस्य यो गन्धस् तद्-भाजी इत्य् अर्थः । उदीर्ण इति क्र्य्-आदिकस्य, ऋ गताव् इत्य् अस्य दीर्घस्य निष्ठाया रूपम् । उदित इत्य् अर्थः ॥८॥

मुकुन्ददासः : कस्यचिद् भक्त-विशेषस्य सेवा-निष्ठां विना आश्रित-सारूप्यस्य ॥७॥ पिशितं मांसम् । विस्रं स्याद् आम-गन्धि यत् । आमः अपक्व-मलः । पिशित-मिश्रितस्य विस्रस्य यो गन्धस् तद्-भाजीउदीर्ण इति क्रियादिकस्य ऋ गताव् इत्य् अस्य दीर्घस्य निष्ठान्तं रूपम् । उदित इत्य् अर्थः ॥८॥

**विश्वनाथः : **शरीरे किं-भूते ? त्वचा पिनद्धे चर्मणाच्छादिते पिशितं मांसं विस्रस्य यो गन्धः, तद्-भाजी इत्य् अर्थः । विस्रं स्याद् आम-गन्धि यत् इत्य् अमरः । रतेर् लवेऽप्य् उदीर्णे उदिते सतीत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ४.७.९-१० ॥

अथ प्रायिकी—
अमेध्य-पूत्य्-अनुभवात् सर्वेषाम् एव सर्वतः ।
या प्रायो जायते सेयं जुगुप्सा प्रायिकी मता ॥

यथा—

असृङ्-मूत्राकीर्णे घन-शमल-पङ्क-व्यतिकरे
वसन्न् एष क्लिन्नो जड-तनुर् अहं मातुर् उदरे ।
लभे चेतः-क्षोभं तव भजन-कर्माक्षमतया
तद् अस्मिन् कंसारे कुरु मयि कृपा-सागर कृपाम् ॥
श्री-जीवः : भजन-कर्माक्षमतया
उपलक्षिते मयि, न तु तया हेतुना । “भजन-कर्माक्षमतमे” इति सप्तम्य्-अन्तो वा पाठः ॥१०॥

मुकुन्ददासः : सर्वेषां पञ्च-विध-भक्तानाम् ॥९॥ भजन-कर्माक्षमतया हेतुनेति जात-रतित्वं जीवस्य दर्शितम् ॥१०॥

**विश्वनाथः : **गर्भस्थ-भक्त-जीवो भगवन्तं स्तौति । घन-शमल-पङ्कानां निविड-पाप-रूप-पङ्कानां व्यतिकरः पौनःपुन्यं यत्र तथा-भूते मातुर् उदरे वसन्न् एष जड-तनुर् अहम् चेतः-क्षोभं लभेभजन-कर्माक्षमतया उपलक्षिते मयि ॥१०॥

—ओ)०(ओ—

॥ ४.७.११ ॥

यथा वा—

घ्राणोद्घूर्णक-पूत-गन्धि-विकटे कीटाकुले देहली-
स्रस्त-व्याधित-यूथ-गूथ-घटना-निर्धूत-नेत्रायुषि ।
कारा-नामनि हन्त मागध-यमेनामी वयं नारके
क्षिप्तास् ते स्मृतिम् आकलय्य नरक-ध्वंसिन्न् इह प्राणिमः ॥
श्री-जीवः, मुकुन्ददासः : नारके
नरक-समूहे ॥११॥

विश्वनाथः : घ्राणस्य उद्घूर्णा-जनको यो दुर्गन्धः, तेन विकटे एवं देहल्यां स्रस्ता ये व्याधि-युक्ता मनुष्य-यूथाः, तेषां गूथानां विष्ठानां घटनया निर्धूतानि नेत्राणाम् आयूंषि दर्शन-सामार्थ्यानि यस्य, तथा-भूते कारागार-नामनि नारके नरक-समूहे जरासन्ध-स्वरूपेण यमेन क्षिप्ता वयं तव चरणारविन्दस्य स्मृतिम् आकलय्य प्राप्य, हे नरक-ध्वम्षिन् ! प्राणिमः जीवामः ॥११॥

—ओ)०(ओ—

**॥ ४.७.१२-१४ ॥
लब्ध-कृष्ण-रतेर् एव सुष्ठु पूतं मनः सदा ।
क्षुभ्यत्य् अहृद्य-लेशेऽपि ततोऽस्यां रत्य्-अनुग्रहः ॥
हास्यादीनां रसत्वं यद् गौणत्वेनापि कीर्तितम् ।
प्राचां मतानुसारेण तद् विज्ञेयं मनीषिभिः ॥
अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ \

**श्री-जीवः : रत्य्-अनुग्रहः रत्या कर्त्र्या पोषणम् ॥१२॥

मुकुन्ददासः : प्राचां श्री-भरतानुसारि-मतानाम् ॥१३॥

विश्वनाथः : लब्ध-कृष्ण-रतेर् हेतोः सुष्ठु पूतं निर्मलं मनः क्षुभ्यति । अत अस्यां जुगुप्सा-रतौ रत्य्-अनुग्रहः मुख्य-रत्या कर्त्र्या पोषणम् इत्य् अर्थः । स्व-मते तु अमी शान्ताद्याः पञ्चैव भक्ति-रसा मताः ॥१२-१४॥

—ओ)०(ओ—

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

गौण-भक्ति-रस-निरूपणे

बीभत्स-भक्ति-रस-लहरी सप्तमी

॥ ४.७ ॥

(४.८)

रसानां मैत्री-वैर-स्थिति-नाम्नी

अष्टम-लहरी

**॥ ४.८.१-२ ॥
अथामीषां क्रमेणैव शान्तादीनां परस्परम् ।
मित्रत्वं शात्रवत्वं च रसानाम् अभिधीयते ॥
शान्तस्य प्रीत-बीभत्स-धर्म-वीराः सुहृद्-वराः ।
अद्भुतश् चैष विज्ञेयः प्रीतादिषु चतुःष्व् अपि ॥
श्री-जीवः : **अत्र स्वयम् अङ्गि-रसानुभवी, श्री-कृष्ण-भक्तः, श्री-कृष्णः, तद्-भक्तान्तरं, तद्-उदासीनः, तद्-विरोधी चेति पञ्च-विध-गतत्वेन भावा लक्ष्यन्ते । तत्राङ्गिनो रसस्य केनचिद् अनुचितेनाङ्गेन मिलने सति रस-विघातः स्यात्, उचित-मिलने तु तत्-पोष इति वक्तव्ये शान्तस्य तौ दर्शयितुं तावद् आह—शान्तस्य इति ।

बीभत्स-धर्म-वीराव् अत्र तपस्वि-शान्तस्य सुहृदौ ज्ञेयौ, तद्-उदासीन-तद्-विरोधिनोर् बीभत्सितता-भावनया श्री-कृष्ण-तद्-भक्तयोर् धार्मिकता-पर्यालोचनया च तदीय-रसोदयात् । आत्माराम-शान्तस्य च तत्-तद्-अनवधानेऽपि सुहृद्-वरो ज्ञेयः। किन्तु शान्तस्य शान्त-प्राय-तपस्विनोऽपि द्विधा श्री-भगवति चमत्कारो जायते—भावानुभवानन्दाद् अपि तन्-माधुर्यानुभवानन्देन, क्वचिच् शत्रु-पक्ष-निग्रहादि-लीलाया अप्य् आश्चर्यत्वेन । यथा तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य्-आदि । यथा च, न तस्य चित्रं पर-पक्ष-निग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते [भा।पु। १०.५०.३०] इत्य्-आदि । मर्त्यान् अनुविधत्तेऽनुकरोति मर्त्य-लीलोचिताम् एव शक्तिं व्यञ्जयति नाधिकां, तथापि तन्-निग्रहादिकं करोत्य् एव यत् तस्येत्य् अर्थः ॥२॥

मुकुन्ददासः : एष च शान्तस्य सुहृद्-वरःएषोऽद्भुतः प्रीतादिष्व् अपि सुहृद्-वरो ज्ञेयः ॥१-२॥

**विश्वनाथः : **अत्राङ्गिनो रसस्य केनचिद् अनुचितेनाङ्गेन मिलने रस-विघातः स्यात्, तद्-उचित-मिलने तु तत्-पोष इति वक्तव्ये शान्तस्य तौ दर्शयितुं तावद् आह—शान्तस्य इति । बीभत्स-धर्म-वीराव् अत्र तपस्वि-शान्तस्य सुहृदौ ज्ञेयौ । तद्-उदासीन-तद्-विरोधिनोर् बीभत्सता-भावनया श्री-कृष्ण-तद्-भक्तयोर् धार्मिकता-पर्यालोचनया च तदीय-रसोदयात् । आत्माराम-शान्तस्य च तत्-तद्-अनवधानेऽपि कविना तद्-अङ्गत्वेन वर्णनायां दोष एव स्यात् । **अद्भुतश् च शान्तस्य **सुहृद्-वरः । एष अद्भुतः दास्य-सख्य-वात्सल्य-शृङ्गारेष्व् अपि सुहृद्-वरो ज्ञेयः । किन्तु शान्तस्य शान्त-प्राय-तपस्विनश् च द्विधा श्री-भगवतश् चमत्कारो जायते । भावानुभवानन्दाद् अपि तन्-माधुर्यानुभवानन्देन क्वचिच् शत्रु-पक्ष-निग्रहादि-लीलाया अप्य् आश्चर्यत्वेन । यथा तृतीये, तस्यारविन्द-नयनस्य पदारविन्द- [भा।पु। ३.१५.४३] इत्य्-आदि । यथा श्री-दशमे, न तस्य चित्रं पर-पक्ष-निग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते [भा।पु। १०.५२.२९] इत्य्-आदि । मर्त्यान् अनुविधत्तेऽनुकरोति मर्त्य-लीलोचिताम् एव शक्तिं व्यञ्जयति, नाधिकां, तथापि यस् तु निग्रहादिकं करोति तस्येत्य् अर्थः ॥२॥

—ओ)०(ओ—

॥ ४.८.३ ॥
द्विषन्न् अस्य शुचिर् युद्ध-वीरो रौद्रो भयानकः ॥
श्री-जीवः : अस्य
शान्तस्य द्विविधस्यापि । शुचिर् अत्र सम्प्रति टीकोक्त-पञ्च-विधां गतोऽपि द्विषन्, तथा युद्ध-वीरश् च । रौद्र-भयानकौ तु आत्मारामस्यैव शत्रू । तपस्वि-शान्तस्य तु यमादीनाम् औग्र्य-दर्शनान् निज-संसार-भयोत्पत्तौ शान्ति-पुष्टेः, तस्य तु रौद्रः स्वगतो द्वेष्यः ॥३॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : अस्य
शान्तस्य द्विविधस्यापि । शुचिः शृङ्गारः द्विषन् शत्रुर् इत्य् अर्थः । तथा युद्ध-वीरश् च । रौद्र-भयानकौ तु आत्माराम-शान्तस्यैव शत्रू । तपस्वि-शान्तस्य तु यमादीनाम् औग्र्य-दर्शनान् निज-संसार-भयोत्पत्तौ शान्ति-रसस्य पुष्टेः । अस्य तु रौद्रः स्वगतो द्वेष्यः ॥३॥

—ओ)०(ओ—

॥ ४.८.४ ॥
सुहृत्-प्रीतस्य बीभत्सः शान्तो वीर-द्वयं तथा ।
वैरी शुचिर् युद्ध-वीरो रौद्रश् चैक-विभावकः ॥
श्री-जीवः : सुहृत्-प्रीतस्य बीभत्सः
इत्य् उदासीनादि-द्वये बीभत्सतया तस्यैव पुष्यमाणत्वात्, एवं तत उपरत्या शान्तोऽपि तथा । प्रथम-त्रितय-गतं वीर-द्वयं धर्म-दान-वीराख्यं युद्ध-वीरो रौद्रश् च, एक-विभावकः, कृष्ण-विभावकः साक्षात् कृष्ण-सम्बन्धाद् उत्पन्नः। स च स चात्र कृष्णेन सह स्व-कर्तृक-युद्ध-मयः, कृष्णं प्रति स्व-कोप-मय इत्य् अर्थः । तद् एतद् उपलक्षणत्वेनान्यत्रानुक्तम् अपि यथायथं तत्-तद्-गतत्वेन व्याख्यास्यते ॥४॥

मुकुन्ददासः : वीर-द्वयं धर्म-दान-वीराख्यम् । एक-विभावकः कृष्ण-भक्त-कर्तृकः क्रोध इत्य् अर्थः ॥४॥

विश्वनाथः : सुहृत्-प्रीतस्य बीभत्सः इत्य् उदासीनादि-वैर-द्वये बीभत्सतया ज्ञाते दास्यस्यैव पुष्यमाणत्वात् । एवं ताभ्याम् उपरत्या शान्तोऽपि सुहृत् । तथा वीर-द्वयं धर्म-वीर-दान-वीराख्यं । युद्ध-वीरो रौद्रश्एक-विभावकः श्री-कृष्ण-विभावकः साक्षात् श्री-कृष्ण-सम्बन्धाद् उत्पन्नो युद्ध-वीरःश्री-कृष्णेन सह स्व-कर्तृक-युद्ध-मयः । साक्षात् श्री-कृष्ण-सम्बन्धाद् उत्पन्नो रौद्रश् च श्री-कृष्णं प्रति कोप-मयः । उभयम् अपि दास्ये विरुद्धम् । अन्यत्राप्य् अनुक्रमम् अप्य् एवं-रीत्या ज्ञेयम् ॥४॥

—ओ)०(ओ—

॥ ४.८.५ ॥
प्रेयसस् तु शुचिर् हास्यो युद्ध-वीरः सुहृद्-वराः ।
द्विषो वत्सल-बीभत्स-रौद्रा भीष्मश् च पूर्ववत् ॥
श्री-जीवः : प्रेयसस्
त्व् इति । शुचिर् अत्र कृष्ण-गतः । हास्यस् तद्-भक्त-द्वय-गतश् च । युद्ध-वीरस् तूदासीनाद् अन्यत्र गतः । पूर्ववत् कृष्ण-विभावकः, स चात्र कृष्ण-विषयाश्रयता-मय इत्य् अर्थः ॥५॥

मुकुन्ददासः : भीष्मः पूर्ववत् कृष्ण-विभावकः ॥५॥

विश्वनाथः : प्रेयसः सख्यस्य द्विषः शत्रवः । भीष्मः भयानकः । पूर्ववत् श्री-कृष्ण-विभावकः ॥५॥

—ओ)०(ओ—

॥ ४.८.६ ॥
वत्सलस्य सुहृद् धास्यः करुणो भीष्म-भित् तथा ।
शत्रुः शुचिर् युद्ध-वीरः प्रीतो रौद्रश् च पूर्ववत् ॥
श्री-जीवः : वत्सलस्य
इति । हास्य-करुणाव् अत्र प्रथम-त्रय-गतौ । भीष्म-भिद् विरोधि-हेतुक-भयानक-भेदः । शुचिः सर्व-गतः । युद्ध-वीर-रौद्रौ कृष्णेन सह पारस्परिकौ । प्रीतो वत्सलस्य कृष्ण-विषयकः । अतः पूर्ववद् इत्य् उपलक्षणम् ॥६॥

मुकुन्ददासः : भीष्म-भिद् दारुणालम्बनः रौद्रश् च पूर्ववत् कृष्ण-विभावकः ॥६॥

विश्वनाथः : भीष्मभिद् असुर-विषयक-भयानक-भेदः । प्रीतो दास्यं पूर्ववत् श्री-कृष्ण-विषयः ॥६॥

—ओ)०(ओ—

॥ ४.८.७ ॥
शुचेर् हास्यस् तथा प्रेयान् सुहृद् अस्य प्रकीर्तितः ।
द्विषो वत्सल-बीभत्स-शान्त-रौद्र-भयानकाः ।
प्राहुर् एकेऽस्य सुहृदं वीर-युग्मं परे रिपुम् ॥
श्री-जीवः : शुचेर्
इति । **हास्य-प्रेयः-**शान्ताः प्रथम-द्वय-गताः । हास्य-प्रेयांसौ तु क्वचित् सखी-लक्षण-भक्तान्तर-गतौ च । वत्सलः प्रथम-त्रय-गतः । बीभत्सः सर्व-गतः । रौद्र-भयानकौ प्रायः सर्व-गतौ । वीर-युग्मं युद्ध-धर्म-वीर-रूपं, तच् च प्रथम-त्रय-गतम् । पर इति तद् इदं न स्व-मतम् इत्य् अभिप्रेतम् ॥७॥

मुकुन्ददासः : वीर-युग्मं युद्ध-धर्म-वीर-रूपं, तद् एव परे रिपुं प्राहुः—स्व-मते सर्वे तटस्थाः ॥७॥

विश्वनाथः : एकेऽस्य रसस्य वीर-युग्मं युद्ध-धर्म-वीर-रूपं सुहृदं प्राहुः । परे इति तद् इदं न स्व-मतम् इत्य् अभिप्रेतम् ॥७॥

—ओ)०(ओ—

॥ ४.८.८ ॥
मित्रं हास्यस्य बीभत्सः शुचिः प्रेयान् सवत्सलः ।
प्रतिपक्षस् तु करुणस् तथा प्रोक्तो भयानकः ॥
श्री-जीवः : मित्रम्
इति । बीभत्सोऽत्र कृत-बीभत्सित-वेश-विदूषकादि-लक्षण-भक्तान्तर-दर्शनात् प्रथम-गतत्वेन ज्ञेयः । न त्व् अत्यन्त-बीभत्सित-दौर्गन्धादि-दर्शनात् । तद् एवं पर-परत्र तत्-तद्-धेतुत्वं तत्-तद्-गतत्वं च स्वयम् उन्नेयम् ॥८॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : मित्रम्
इति । बीभत्सोऽत्र कृत-बीभत्सित-वेश-विदूषकादि-लक्षण-भक्तान्तर-दर्शनात्, न त्व् अत्यन्त-बीभत्सित-दर्शनात् ॥८॥

—ओ)०(ओ—

॥ ४.८.९ ॥
अद्भुतस्य सुहृद् वीरः पञ्च शान्तादयस् तथा ।
प्रतिपक्षो भवेद् अस्य रौद्रो बीभत्स एव च ॥
श्री-जीवः
,** विश्वनाथः- अद्भुतस्य** इति । अलौकिक-वस्त्व्-अन्तरानुभव-जात-चमत्कारस्य भीषण-बीभत्सयोर् अनुभवेन विघातः स्याद् इत्य् एव विवक्षितम् । अतस् तयोः स्वतश् चमत्कार-करत्वं तु न निषिध्यते । रसे सारश् चमत्कारः इत्य् अस्य विरोधात् ॥९॥

मुकुन्ददासः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ४.८.१० ॥
वीरस्य त्व् अद्भुतो हास्यः प्रेयान् प्रीतिस् तथा सुहृत् ।
भयानको विपक्षोऽस्य कस्यचिच् छान्त एव च ॥
श्री-जीवः : वीरस्य
इति । श्री-बलदेवादाव् इव युद्ध-वीरादेः श्री-व्रजेश्वरादाव् इव दान-वीरादेर् वत्सलश् च क्वचित् सुहृद् दृश्यते । भयानकः शान्तश् च कस्यचिद् युद्ध-वीरस्य विपक्षः । दान-वीरादेर् भयानकश् च ज्ञेयः ॥१०॥

**मुकुन्ददासः : ** वीरस्य इति । कस्यचिद् युद्ध-वीरस्य ॥१३॥

विश्वनाथः : वीरस्य इति । श्री-बलदेवादाव् इव युद्ध-वीरादेः श्री-व्रजेश्वरादाव् इव दान-वीरादेर् वत्सलश् च क्वचित् सुहृद् दृश्यते । कस्यचिद् युद्ध-वीरस्य भयानकः शान्तश् च विपक्षः ॥१०॥

—ओ)०(ओ—

॥ ४.८.११ ॥
करुणस्य सुहृद् रौद्रो वत्सलश् च विलोक्यते ।
वैरी हास्योऽस्य सम्भोग-शृङ्गारश् चाद्भुतस् तथा ॥
श्री-जीवः : करुणस्य
इति । रौद्रो जात-चर-स्व-प्रिय-पीडनतया अनुस्मृतयात्र गृह्यते । वर्तमान-तादृशस्य भय-मात्र-जनकत्वात् ॥११॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : करुणस्य
इति । रौद्र-पदेन पूर्वोत्पन्नस्य स्व-प्रिय-जन-पीडनस्य ज्ञानेन पूर्वम् एव जातो यो रौद्रः तस्य स्मरणम् अत्र गृह्यते । वर्तमान-रौद्रस्य तु भय-मात्र-जनकत्वात् । अनेक-विध-शृङ्गाराणां मध्ये सम्भोगात्मक-शृङ्गार एव वैरी ॥११॥

—ओ)०(ओ—

॥ ४.८.१२ ॥
रौद्रस्य करुणः प्रोक्तो वीरश् चापि सुहृद्-वरः ।
प्रतिपक्षस् तु हास्येऽस्य शृङ्गारो भीषणोऽपि च ॥
श्री-जीवः : रौद्रस्य
इति । **भीषणो **भयानकः, सुगतः ॥१२॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : रौद्रस्य
इति । भीषणो भयानकः ॥१२॥

—ओ)०(ओ—

॥ ४.८.१३ ॥
भयानकस्य बीभत्सः करुणश् च सुहृद्-वरः ।
द्विषन्तु वीर-शृङ्गार-हास्य-रौद्राः प्रकीर्तिताः ॥१३॥
श्री-जीवः : भयानकस्य
इति । अत्र करुणस्य तु सुहृत्त्वं भावि-स्व-प्रिय-वियोग-स्मरणात् । वीरादयः स्व-गताः ॥१३॥

**मुकुन्ददासः : **वीरस्येति । कस्यचिद् युद्ध-वीरस्य ॥१३॥

विश्वनाथः : भयानकस्य इति । अत्र करुणस्य तु सुहृत्त्वं भावि-स्व-प्रिय-वियोग-स्मरणात्॥१३॥

—ओ)०(ओ—

॥ ४.८.१४ ॥
बीभत्सस्य भवेच् छान्तो हास्यः प्रीतिस् तथा सुहृत् ।
शत्रुः शुचिस् तथा प्रेयान् ज्ञेया युक्त्या परे च ते ॥
श्री-जीवः : बीभत्सस्य
इति । शान्तोऽत्र तापसालम्बनकः, प्रीत आरद्ध-रति-भक्ताद्य्-अवलम्बनः । हास्यस्य सुहृत्त्वं विदूषकादि-कृत-कुवेशादौ ज्ञेयं, न तु सर्वत्र ॥१४॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : बीभत्सस्य
इति । हासस्य सुहृत्त्वं विदूषकादि-कृत-कुवेषादौ ज्ञेयं, न तु सर्वत्र ॥१४॥

—ओ)०(ओ—

॥ ४.८.१५-१७ ॥

तत्र सुहृत्-कृत्यम्—
कथितेभ्यः परे ये स्युस् ते तटस्थाः सतां मताः ॥
सुहृदा मिश्रणां सम्यग् आस्वादं
7** कुरुते रसम् ॥
द्वयोस् तु मिश्रणे साम्यं दुःशकं स्यात् तुला-धृतम् ।
तस्माद् अङ्गाङ्गि-भावेन मेलनं विदुषां मतम् ॥
श्री-जीवः : कथितेभ्य** इति साक्षाद्-उक्तेभ्यो युक्त्या ज्ञातेभ्यश् चेत्य् अर्थः ॥१५॥ द्वयोस् त्व् इत्य् अर्धस्य परेणान्वयः । तुलया युतम् अत्यन्तं यथा स्यात् तथा दुःशकं भावयितुम् अशक्यम् इत्य् अर्थः । मेलनम् एकदा भावनम् ॥१५-१७॥

मुकुन्ददासः : कथितेभ्य इति साक्षाद्-उक्तेभ्यो युक्त्या ज्ञातेभ्यश् चेत्य् अर्थः ॥१५॥ **तूला-धृतम् **अत्यन्त-साम्यम् । मेलनम् एकत्र सङ्गतिः ॥१७॥

विश्वनाथः : कथितेभ्य इति । साक्षाद् उक्तेभ्यः युक्त्या ज्ञातेभ्यश् चेत्य् अर्थः । सुहृदा सह मिलनम् एव रसं सम्यग् आस्वाद्यं कुरुते । तत्र रस-द्वय-मिलने तुलया धृतम् आत्यन्तिकं साम्यं दुःशकं भावयितुम् अशक्यम् इत्य् अर्थः । मेलनम् एकदोत्पन्नत्वम् ॥१५-१७॥

—ओ)०(ओ—

॥ ४.८.१८-१९ ॥
भवेन् मुख्योऽथवा गौणो रसोऽङ्गी किल यत्र यः ।
कर्तव्यं तत्र तस्याङ्गं सुहृद् एव रसो बुधैः ॥
अथाङ्गित्वं प्रथमतो मुख्यानाम् इह लिख्यते ।
अङ्गतां यत्र सुहृदो मुख्या गौणाश् च बिभ्रति ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : यत्र यो मुख्य-रसः गौण-रसो वा अङ्गी भवेत्
, तत्र तस्य रसस्य सुहृद् एव रसोऽङ्गीकर्तव्यः, न तु वैरी । न वा उदासीन इत्य् अर्थः ॥१८॥ अथाङ्गित्वम् इति । प्रथमतो मुख्यानां शान्तादीनाम् अङ्गित्वं लिख्यतेयत्र मुख्य-रस-रूपे अङ्गिनि सुहृदो मुख्य-रसाः सुहृदो गौण-रसाश् च अङ्गतां बिभ्रति इत्य् अन्वयः ॥१९॥

—ओ)०(ओ—

॥ ४.८.२० ॥

तत्र शान्तेऽङ्गिनि प्रीतस्याङ्गता, यथा—

जीव-स्फुलिङ्ग-वह्नेर् महसो घन-चित्-स्वरूपस्य ।
तस्य पदाम्बुज-युगलं किं वा संवाहयिष्यामि ॥

अत्र मुख्येऽङ्गिनि मुख्यस्याङ्गता ।

श्री-जीवः : जीव-स्फुलिङ्ग-वह्नेर् इति श्रौतानुवादः । स च जीवेशयोर् अंशांशिता-प्रामाण्याय । घनः श्री-विग्रहस् तद्-आकारा वा चित् सच्-चिद्-आनन्द-लक्षणं परं ब्रह्म, सैव स्वरूपं यस्य, तादृशत्वेन ममालम्बनस्येति तत्र स्व-निष्ठा दर्शिता । तस्माच् छान्तस्याङ्गित्वं, अङ्गत्वेऽपि तादृग्-उत्तम-सुहृद्-आलिङ्गितत्वेन प्रशस्तत्वम् अपि ध्वनितम् । किन्त्व् अत्राप्य् अङ्गत्वेऽपि प्रीतस्य [शान्तस्य] प्राबल्यं, दध्नि सिताया इवास्वादाधिक्याद् इति ज्ञेयम् । पाद-संवाहनेच्छा च परमानन्द-विग्रहस्य तस्य स्पर्शानन्द-प्राप्तीच्छयैव, न तु साहाय्येनानन्द-दानेच्छया, पूर्णानन्दकत्वेन तस्य स्फुरणात् । एवम् उत्तरत्रापि ॥२०॥

मुकुन्ददासः : घना निविडा चित् सच्-चिद्-आनन्द-लक्षणं परं ब्रह्म, सैव रूपम् आकारो यस्य । तस्य ईदृशत्वेन सदानुभूयमानस्येति तत्र स्व-निष्ठा दर्शिता । अस्य प्रीतेऽभिलाषः कृपा विशेष-लाभात् । स्थायिनः शान्तस्य प्रीत-सञ्चारितां प्राप्य पोषक इति ज्ञेयम् । अग्रे गृहीतत्वेत्य् अत्रापि । अत्र श्लोके ॥२०॥

विश्वनाथः : जीव-रूप-स्फुलिङ्गानां वह्नेर् अग्नि-पुञ्जस्य । एतेन जीवेशयोर् अंशांशिता प्रतिपादिता । महसस् तेजसः स्वरूपस्येत्य् अनेन स्व-प्रकाशत्वम् उक्तम् । घन-चित्-स्वरूपस्य निविड-ज्ञानानन्द-स्वरूपस्य तादृशत्वेन ममालम्बनस्येति । तत्र स्व-निष्ठा दर्शिता । तस्माच् छान्तस्याङ्गित्वम् ॥२०॥

—ओ)०(ओ—

॥ ४.८.२१ ॥

तत्रैव बीभत्सस्य, यथा—

अहम् इह कफ-शुक्र-शोणितानां
पृथु-कुतुपे कुतुकी रतः शरीरे ।
शिव शिव परमात्मनो दुरात्मा
सुख-वपुषः स्मरणेऽपि मन्थरोऽस्मि ॥

अत्र मुख्य एव गौणस्य ।

श्री-जीवः : कुतुपे स्वल्प-चर्म-पुटके । कुतुकी विचित्र-विषयास्वादाय सोत्साहः । तत्रैव शान्ते ॥२१॥

मुकुन्ददासः : कुतुपे स्वल्प-चर्म-पुटके । कुतुकी विचित्र-विषयास्वादे सोत्साहः ॥२१॥

विश्वनाथः : पृथु-कुतुपे विस्तृत-चर्म-पुटके शरीरे रतोऽहं दुरात्मा । कथं-भूतः ? कुतुकी विचित्र-विषयास्वादाय सोत्साहः । तत्रैव शान्ते अङ्गिनि प्रीतादेर् अङ्गित्वम् ॥२१॥

—ओ)०(ओ—

॥ ४.८.२२ ॥

तत्रैव प्रीतस्याद्भुत-बीभत्सयोश् च, यथा—

हित्वास्मिन् पिशितोपनद्ध-रुधिर-क्लिन्ने मुदं विग्रहे
प्रीत्य्-उत्सिक्त-मनाः कदाहम् असकृद्-दुस्तर्क-चर्यास्पदम् ।
आसीनं पुरटासनोपरि परं ब्रह्माम्बुद-श्यामलं
सेविष्ये चल-चारु-चामर-मरुत्-सञ्चार-चातुर्यतः ॥

अत्र मुख्य एव मुख्यस्य गौणयोश् च ।

श्री-जीवः : दुस्तर्क-चर्यास्पदम् इत्य् अनेनाद्भुत-रसः । संवाहनेच्छावत् सेविष्य इत्य्-आदीच्छा च तत्-सौरभ्याद्य्-अतिशयानुभवार्था ज्ञेया । यथा तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य्-आदिकं श्री-सनकादीनां श्रूयते, तद्वत् ॥२२॥

मुकुन्ददासः : हित्वास्मिन् नित्यात्माराम-शान्त-वचनम् । मुदं स्वभावजां प्रीतिम् ॥२२॥

विश्वनाथः : अस्मिन् विग्रहे देहे मुदं हित्वा प्रीत्या उत्सिक-मना अहं स्वर्ण-सिंहासनोपरि आसीनं कृतोपवेशम् अम्बुद-श्यामलं ब्रह्म भगवन्तं कदा सेविष्ये ? कथं-भूतं ? दुस्तर्कस्य चर्या आचरणं यत्र, तथा-भूतस्य आस्पदम् धाम यस्य, तथा-भूतम् । दुस्तर्केत्य् अनेनाद्भुत-रसः । पिशित- इत्य्-आदिना बीभत्स-रसः । अङ्गिनि मुख्ये शान्त-रसे मुख्यस्य दास्यस्य गौणयोर् अद्भुत-बीभत्सयोर् अङ्गत्वं ज्ञेयम् ॥२२॥

—ओ)०(ओ—

॥ ४.८.२३ ॥

अथ प्रीते शान्तस्य, यथा—

निरविद्यतया सपद्य् अहं
निरवद्यः प्रतिपद्य-माधुरीम् ।
अरविन्द-विलोचनं कदा
प्रभुम् इन्दीवर-सुन्दरं भजे ॥

अत्र मुख्ये मुख्यस्य ।

श्री-जीवः : निरविद्यतया अविद्या-रहिततयेति शान्ति-वासना ॥२३॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : निरविद्यतया
अविद्या-राहित्येन निरवद्यः निर्दूषणः सन् कदाहं प्रभुं भजे ? कथं-भूतं ? प्रतिपद्या प्रपद्या माधुरी यस्य तम् । निरविद्यतयेति शान्ति-वासना ॥२३॥

—ओ)०(ओ—

॥ ४.८.२४ ॥

तत्रैव बीभत्सस्य, यथा—

स्मरन् प्रभु-पादाम्भोजं नटन्न् अटति वैष्णवः ।
यस् तु दृष्ट्या पद्मिनीनाम् अपि सुष्ठु हृणीयते ॥

अत्र मुख्ये गौणस्य ।

श्री-जीवः : स्मरन्न् इति । अटति भ्रमति । हृणीयते घृनां करोति । पाठान्तरं त्यक्तम् ॥२४॥

मुकुन्ददासः : हृणीयमानो ह्रीणः । “स्मरणे हरिणी-दृशां प्रभो देव जयेत्य् उच्चैर् नटन्न् अटति वैष्णवः” इति पाठः । स्मरणे यथा कथञ्चिन् मनसा सम्बन्धे ह्रीणो लज्जितः सन् हृणीयमानो घृणां कुर्वन् प्रभो देव जयेति वाक्यम् उच्चैर् दूर-व्यापि यथा स्यात् तथा नटन् नृत्यं कुर्वन् अटति मन्दं मन्दं गच्छति ॥२४॥

विश्वनाथः : अटति भ्रमति पद्मिनीनां सुन्दरीणाम् अपि दर्शनेन हृणीयते घृणां करोति ॥२४॥

—ओ)०(ओ—

॥ ४.८.२५ ॥

तत्रैव बीभत्स-शान्त-वीराणां, यथा—

तनोति मुख-विक्रियां युवति-सङ्ग-रङ्गोदये
न तृप्यति न सर्वतः सुख-मये समाधाव् अपि ।
न सिद्धिषु च लालसां वहति दीयमानास्व्
8** अपि
प्रभो तव पदार्चने परम् उपैति तृष्णां मनः ॥**

अत्र मुख्ये मुख्यस्य गौणयोश् च ।

**श्री-जीवः : **ब्रह्म-समाधाव् अपि निमित्ते यत् सर्वं श्रवण-मननादिकं तत्र न तृप्यति, अपि तु तृप्यत्य् एव अलं-बुद्धिं करोत्य् एवेत्य् अर्थः । दीयमानस्व् इत्य् अत्र त्वयेति गम्यम्, सादरतयैव तद्-अनुक्तिः । “लभ्यमानास्व् अपि” इति पाठान्तरं स्पष्टम् ॥२५॥

मुकुन्ददासः : युवती-सङ्ग-रङ्गोदये युवतिभिः सङ्गे यः पूर्वं रङ्गः, तस्य उदये मनस्य् उद्गमे सुख-मये ब्रह्म-सुख-स्वरूपे न तृप्यति, न, अपि तु तृप्यत्य् एव, अलं-बुद्धिं करोत्य् एवेत्य् अर्थः । दीयमानास्व् अपीत्य् अत्रार्था त्वयेति गम्यम् ॥२५॥

विश्वनाथः : युवती-सङ्गे कस्यचित् कौतुकोदये सति मुख-विक्रियाम् इत्य् अनेन बीभत्सः । ब्रह्म-समाधाव् अपि निमित्ते यत् श्रवण-मननादिकं तत्र न न तृप्यति, तृप्यत्य् एव, अलं-बुद्धिं करोत्य् एवेत्य् अर्थः । अनेन शान्तः । त्वया दीयमानासु सिद्धिषु लालसां न वहति इत्य् अनेन प्राप्तानां परित्यागाद् दान-वीरः । परं केवलम् ॥२५॥

—ओ)०(ओ—

॥ ४.८.२६ ॥

अथ **प्रेयसि शुचेर्, **यथा—

धन्यानां किल मूर्धन्याः सुबलामूर् व्रजाबलाः ।
अधरं पिञ्छ-चूडस्य चलाश् चुलूकयन्ति याः ॥

> अत्र मुख्ये मुख्यस्य ।

श्री-जीवः : धन्यानाम् इत्य् अनुमोदनात्मिकैवेयं शुचि-भावना, न तु सम्भोगेच्छा-मयात्मिका, तेषां स्व-स्वरूप एव नित्य-स्थितेः ॥२६॥

मुकुन्ददासः : पिञ्छ-चूडस्य इति प्रेयान् ॥२६॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ४.८.२७ ॥

तत्रैव हासस्य, यथा—

दृशोस् तरलितैर् अलं व्रज निवृत्य मुग्धे व्रजं
वितर्कयसि मां यथा न हि तथास्मि किं भूरिणा ।
इतीरयति माधवे नव-विलासिनीं छद्मना
ददर्श सुबलो वलद्-विकच-दृष्टिर् अस्याननम् ॥

अत्र मुख्ये गौणस्य ।

श्री-जीवः : दृशोर् इत्य् अत्र सत्य् अपि शुच्य्-अंशे हास्यांश् च नैवोदाहरणं दर्श्यते ॥२७॥

मुकुन्ददासः : दृशोर् इति । आननं ददर्श इति प्रेयान् । वलद्-विकच- इत्य् अनेन हास्यो दर्शितः ॥२७॥

**विश्वनाथः : **काञ्चिद् व्रज-सुन्दरीं प्रति श्री-कृष्णः स-परिहासम् आह—हे मुग्धे ! निवृत्य व्रजं गच्छ, किं भूरिणा प्रयासेन । नव-विलासिनीं प्रति छद्मना माधवे इतीरयति सति वलद्-विकच-हास्येनातिशय-प्रफुल्ला तथा-भूतः सुबलोऽस्य श्री-कृष्णस्य मुखं ददर्श ॥२७॥

—ओ)०(ओ—

॥ ४.८.२८ ॥

तत्रैव शुचि-हास्ययोः, यथा—

मिहिर-दुहितुर् उद्यद्-वञ्जुलं मञ्जु-तीरं
प्रविशति सुबलोऽयं राधिका-वेष-गूढः ।
स-रभसम् अभिपश्यन् कृष्णम् अभ्युत्थितं यः
स्मित-विकशित-गण्डं स्वीयम् आस्यं वृणोति ॥

अत्र मुख्ये मुख्य-गौणयोः ।

श्री-जीवः : वृणोति आवृणोति । प्राचीयं प्रान्ततो वृतिः इत्य् अमर-दर्शनात् ॥२८॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : मिहिर-दुहितुर्
यमुनाया मञ्जु-तीरं राधिका-वेशेन गुप्तः सुबलः प्रविशति । कीदृशं ? उद्यन् वञ्जुलो यत्र तथा-भूतम् । सरभसं सहर्षं यथा स्यात् तथा भ्रमेण श्री-राधिका-स्पर्शार्थम् अभ्युत्थितं श्री-कृष्णं पश्यन्, यः सुबलः स्मितेन विकशितं गण्डं यस्मिन्, तत् स्वीय-मुखं वस्त्रेण आवृणोति ॥२८॥

—ओ)०(ओ—

॥ ४.८.२९ ॥

अथ वत्सले करुणस्य—
निरातपत्रः कान्तारे सन्ततं मुक्त-पादुकः ।
वत्सान् अवति वत्सो मे हन्त सन्तप्यते मनः ॥२९॥

अत्र मुख्ये गौणस्य ।

श्री-जीवः : निरातपत्र इति । अत्र अनिष्टाशङ्कीनीव बन्धु-हृदयाणि इति शङ्का-चिन्तातिशयेन शोकं सम्भाव्य श्री-व्रजेश्वरी-वचनात् करुणावकाशः ॥२९।

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : कान्तारे
दुर्ग-वर्त्मनि निरातपत्रः आतप-निवर्तक-च्छत्रादि-रहितः पाद-त्राण-रहितश् च मे बालको वत्सान् अवति । अत्र “अनिष्ट-शङ्कीनि बन्धु-हृदयाणि” इति चित्तस्य शङ्कातिशयेन शोकं सम्भाव्य श्री-व्रजेश्वरी-वचनात् करुणावकाशः ॥२९॥

—ओ)०(ओ—

॥ ४.८.३० ॥

तत्रैव हास्यस्य, यथा—

पुत्रस् ते नवनीत-पिण्डम् अतनुं मुष्णन् ममान्तर्-गृहाद्
विन्यस्यापससार तस्य कणिकां निद्राण-डिम्भानने ।
इत्य् उक्ता कुल-वृद्धया सुत-मुखे दृष्टिं विभुग्न-भ्रुणि
स्मेरां निक्षिपती सदा भवतु वः क्षेमाय गोष्ठेश्वरी ॥

अत्रापि मुख्ये गौणस्य ।

श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : तव पुत्रः अतनुं
स्थूलं नवनीत-पिण्डं मुष्णन् मम गृह-मध्ये निद्राणस्य बालकस्यानने तस्य पिण्डस्य कणिकां विन्यस्य अपससार कुल-वृद्धया इत्य् उक्ता गोष्ठेश्वरी सुत-मुखे स्मेरां हास्य-युक्तां दृष्टिं निक्षिपन्ती सती वः क्षेमाय भवतु । सुत-मुखे कथं-भूते ? वृद्धां प्रत्य् असूयया विभुग्ना भ्रूर् यस्य तथा-भूते ॥३०॥

—ओ)०(ओ—

॥ ४.८.३१ ॥

तत्रैव भयानकाद्भुत-हास्य-करुणानां, यथा—

कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे स्फारेक्षणा तुङ्गिते
सव्ये दोष्णि विकाशि-गण्ड-फलका लीलास्य-भङ्गी-शते ।
बिभ्राणस्य हरेर् गिरीन्द्रम् उदयद्-बाष्पा चिरोर्ध्व-स्थितौ
पातु प्रस्नव-सिच्यमान-सिचया विश्वं व्रजाधीश्वरी ॥

> अत्रापि मुख्ये चतूर्णां गौणानाम् ।

श्री-जीवः : सव्ये दोष्णि गिरीन्द्रं बिभ्राणस्य हरेश् चूर्ण-कुन्तल-तटे स्वेदिनि सति कम्प्रा इत्य्-आदिकं योज्यम् ॥३१॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : गोवर्धनं बिभ्राणस्य हरेश् चूर्ण-कुन्तल-तटे प्रस्वेदिनि
सति कम्प्रा, गोवर्धनस्य पतनाशङ्कया व्रजेश्वरी विश्वं पातु । तस्य हरेः सव्ये दोष्णि वामे हस्ते तुङ्गिते गोवर्धन-धारणार्थम् उच्ची-कृते सति स्फारेक्षणा, सप्त-वर्ष-बालकस्य साहस-दर्शनाद् विस्मयेन विस्तृतेक्षणा । हरेर् लीलया सहचर-बालकैः सह हास्योपहास्येन मुखस्य भङ्गी-शते सति हास्येन विकाशि-गण्ड-फलका, सप्ताह-रूप-चिर-कालं व्याप्य हरेर् वाम-भुजे ऊर्ध्व-स्थितौ उदयद्-बाष्प-धारा-युक्ता यशोदा वात्सल्यात् प्रस्नवेन सिच्यमानं सिचयं वस्त्रं यस्यास् तथा-भूता ॥३१॥

—ओ)०(ओ—

॥ ४.८.३२ ॥
केवले वत्सले नास्ति मुख्यस्य खलु सौहृदम् ।
अतोऽत्र वत्सले तस्य नतरां लिखिताङ्गता ॥
श्री-जीवः : केवले
शुद्धे वत्सले तत्र नास्तीत्य् उपलक्षणं कुत्रचिद् अन्यत्राप्य् उन्नेयम् । तस्य मुख्यस्य ॥३२॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : केवले
शुद्धे वात्सल्ये मुख्यस्य रसस्य अङ्गता नास्ति, किन्तु गौणस्यैवेत्य् अर्थः। तस्य मुख्यस्य ॥३२॥

—ओ)०(ओ—

॥ ४.८.३३ ॥

अथ** उज्ज्वले प्रेयसो**, यथा—

मद्-वेष-शीलित-तनोः सुबलस्य पश्य
विन्यस्य मञ्जु-भुज-मूर्ध्नि भुजं मुकुन्दः ।
रोमाञ्च-कञ्चुक-जुषः स्फुटम् अस्य कर्णे
सन्देशम् अर्पयति तन्वि मद्-अर्थम् एव ॥

अत्र मुख्ये मुख्यस्य ।

श्री-जीवः : मद्-वेश- इति । सुबलेन तद्-वेश-करणम् इदं नर्मणेति ज्ञेयम् ॥३३॥

मुकुन्ददासः : मद्-वेश- इति । अत्र सुबल-विषयकौ कृष्ण-रसौ ॥३३॥

**विश्वनाथः : **सुबलेन तद्-वेश-करणम् इदं नर्मणेति ज्ञेयम् ॥३३॥

—ओ)०(ओ—

॥ ४.८.३४ ॥

तत्रैव हास्यस्य, यथा—

स्वसास्मि तव निर्दये परिचिनोषि न त्वं कुतः
कुरु प्रणय-निर्भरं मम कृशाङ्गि कण्ठ-ग्रहम् ।
इति ब्रुवति पेशलं युवति-वेष-गूढे हरौ
कृतं स्मितम् अभिज्ञया गुरु-पुरस् तदा राधया ॥

अत्र मुख्ये गौणस्य ।

श्री-जीवः : स्वसास्मि तव निर्दये इत्य् अर्धे । “तवास्मि सवयश्-चरी स्मरसि मां कठोरे न किं ? कुरु प्रनाय-निर्भरं मम सुकण्ठि कण्ठ-ग्रहम्” इति पाठान्तरम् ॥३४॥

मुकुन्ददासः : अभिज्ञया इति शुचिः ॥३४॥

विश्वनाथः : अभिज्ञया श्री-कृष्ण एव **युवति-वेशं **गृहीत्वा मत्-कण्ठ-ग्रहणार्थम् आगत इति विशेष-ज्ञानवत्या राधया गुरूणाम् अग्रे स्मितं कृतम् ॥३४॥

—ओ)०(ओ—

॥ ४.८.३५ ॥

तत्रैव **प्रेयो-वीरयोर् **यथा—

मुकुन्दोऽयं चन्द्रावलि-वदन-चन्द्रे चटुलभे
स्मर-स्मेराम् आराद् दृशम् असकलाम् अर्पयति च ।
भुजाम् अंसे सख्युः पुलकिनि दधानः फनि-निभाम्
इभारि-क्ष्वेडाभिर् वृष-दनुजम् उद्योजयति च ॥

अत्र मुख्ये मुख्य-गौणयोः ।

श्री-जीवः : मुकुन्दोऽयम् इति । श्री-चन्द्रावली-सख्या भावना । सा च तयोर् मधुरां रतिम् आलम्ब्यैव प्रवृत्ता । प्रेयो-वीरौ तु तद्-अनुसङ्गिनौ विधायेति युक्तम् उक्तं **तत्रैव प्रेयो-वीरयोर् यथा **इति । एवम् अन्यत्रापि ज्ञेयम् । इभानाम् अरयो विद्राविका या क्ष्वेडाः सिंह-नादास् ताभिः ॥३५॥

मुकुन्ददासः : क्ष्वेडा स्यात् सिंहवन् नाद इति क्ष्वेडा-शब्दाल् लब्धस्यापि इभारेः पुनर् ग्रहणं श्री-चन्द्रावल्य्-आदौ तासां मधुर-भर-प्रकाशेन अचिन्त्य-प्रभावतार्थं पुष्प-मालेतिवत् । अत्र वीरस्य चित्रत्वं पर-मतम् अपि स्वीकृतम् ॥३५॥

विश्वनाथः : मुकुन्द इति चन्द्रावली-सख्या वचनम् । स्मरेण कन्दर्पेण स्मेराम् असकलाम् असम्पूर्णां दुःख-सङ्कटाभ्याम् इति यावत् । फणि-निभां सर्प-तुल्यां भुजां पुलक-विशिष्टे सख्युः स्कन्ध-देशे दधानः, इभारि-क्ष्वेडाभिः सिंह-नादैः अरिष्टं युद्धार्थम् उद्वेजयति ॥३५॥

—ओ)०(ओ—

॥ ४.८.३६-३७ ॥

अथ गौणानाम् अङ्गिता—
हास्यादीनां तु गौणानां यद् उदाहरणं कृतम् ।
तेनैषाम् अङ्गिता व्यक्ता मुख्यानां च तथाङ्गता ।
तथाप्य् अल्प-विशेषाय किञ्चिद् एव विलिख्यते ॥

अथ हास्येऽङ्गिनि शुचेर् अङ्गता, यथा—

मदनान्धतया त्रि-वक्रया
प्रसभं पीत-पटाञ्चले धृते ।
अदधाद् विनतं जनाग्रतो
हरिर् उत्फुल्ल-कपोलम् आननम् ॥

अत्र गौणेऽङ्गिनि मुख्यस्याङ्गता ।

श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : जनाग्रतो विनतम्
इति शुचिः ॥३७॥

विश्वनाथः : त्रिवक्रया कुब्जया ॥३७॥

—ओ)०(ओ—

॥ ४.८.३८ ॥
वीरे प्रेयसो
, यथा—

सेनान्यं विजितम् अवेक्ष्य भद्रसेनं
मां योद्धुं मिलसि पुरः कथं विशाल ।
रामाणां शतम् अपि नोद्भटोरु-धामा
श्रीदामा गणयति रे त्वम् अत्र कोऽसि ॥

अत्रापि गौणेऽङ्गिनि मुख्यस्य ।

**श्री-जीवः : **अत्रापित्य् अत्र मुख्यस्येति श्रीदाम्नो राम-प्रतियोद्धुह् कृष्ण-पक्ष-प्रवेशेन तत्-सख्ये स्पष्टतापत्तेः ॥३८॥

मुकुन्ददासः : सेनान्यम् इत्य् अत्र श्रीदाम्नः श्री-कृष्ण-प्रीतये युद्धादि-करणात् प्रेयान् ॥३८॥

**विश्वनाथः : **हे विशाल ! भद्रसेनं मम सेनान्यं पराजितम् अवेक्ष्य कथं योद्धुं मां मिलसि ? उद्भट-तेजा अहं श्रीदामा रामाणां शतम् अपि न गणयति ॥३८॥

—ओ)०(ओ—

॥ ४.८.३९ ॥
रौद्रे प्रेयो-वीरयोर्
, यथा—

यदुनन्दन निन्दनोद्धतं
शिशुपालं समरे जिघांसुभिः ।
अतिलोहित-लोचनोत्पलैर्
जगृहे पाण्डु-सुतैर् वरायुधम् ॥

अत्र गौणे मुख्य-गौणयोः ।

श्री-जीवः, विश्वनाथः : न व्याख्यातम्।
मुकुन्ददासः : वरायुधं जगृहे
इति वीरः ॥३९॥

—ओ)०(ओ—

॥ ४.८.४० ॥
अद्भुते प्रेयो-वीर-हास्यानां
, यथा—

मित्राणीक-वृतं गदा-युधि गुरुं-मन्यं प्रलम्ब-द्विषं
यष्ट्या दुर्बलया विजित्य पुरतः सोल्लुण्ठम् उद्गायतः ।
श्रीदाम्नः किल वीक्ष्य केलि-समराटोपोत्सवे पाटवं
कृष्णः फुल्ल-कपोलकः पुलकवान् विस्फार-दृष्टिर् बभौ ॥

अत्र गौणे मुख्यस्य गौणयोश् च

श्री-जीवः : मित्राणीक-वृतम् इति कस्यचिद् अन्यस्य सख्युर् वाक्यम् । अस्यैव चैते रसा उदाहार्याः, न तु श्री-कृष्णस्य, भक्ति-रसस्यैव प्रकृतत्वात् । दुर्बलया यष्ट्या विजित्य इति शिक्षा-विशेषाधिक्यम् अभिप्रेतम् । सखित्वेनाङ्गीकृतेषु सम्भवति च तत् तद् इति । “समराटोप-क्रमे” इत्य् एव पाठः ॥४०॥

**मुकुन्ददासः : **“समराटोपोत्सवे” इति पाठः । श्रीदाम्न इति विषयालम्बनोक्त्या प्रेयान् । कृष्णः फुल्ल-कपोलक इत्य्-आदि विशिष्टो बभाव् इत्य् अस्यायम् अर्थः—विभावादीनां श्रवणादिना पुष्टा साधकानां रतिः रसः स्यात् । विभावैर् आलम्बनैर् इत्य्-आदिना दर्शितम् एव । विभावाश् च वैरूप्य-रहिता एव श्रवणादिनानुभूता रतिं पुष्टां कुर्वन्ति । तेषां वैरूप्ये रतेः सङ्कोच एव, कुतः पुष्टता ? रतेर् अस्याः प्रभावोऽपि वैरूप्ये अति कुञ्चतीति, वैरूप्यं तु विभावादेर् अनौचित्यम् उदीर्यत इति च । एकत्र रति-वर्णने स्थायि-वैरूप्यं स्यात् । परस्पर-रत्य्-आदेः कृष्ण-भक्तौ विषयाश्रयौ दर्शिताव् एव । अत एव सहचर-निकुरम्बं भ्रातर् आर्य प्रविष्टम् [भ।र।सि। ३.३.२०] इत्य् आदौ । कंसासुरम् अपि [?] इत्य् आदौ । मुकुन्दोऽयम् [भ।र।सि। ४.८.३५] इत्य् आदौ । मित्रानिक- इत्य् अत्रान्यत्र च बहुत्र श्री-कृष्णस्यापि भक्त-विषयो रत्य्-आदिर् दर्शित इति ॥४०॥

विश्वनाथः : मित्राणीक-वृतम् इति कस्यचिद् अन्यस्य सख्युर् वचनम् । तस्यैव चैते रसा उदाहार्याः, न तु श्री-कृष्णस्य, भक्ति-रसस्यैव प्रकृतत्वात् । दुर्बलया यष्ट्या विजित्य इति शिक्षा-विशेषाधिक्यम् अभिप्रेतम् । हास्येन फुल्ल-कपोलकः, विस्मयेन विस्फार-दृष्टिः ॥४०॥

—ओ)०(ओ—

॥ ४.८.४१-४३ ॥
एवम् अन्यस्य गौणस्य ज्ञेया कविभिर् अङ्गिता ।
तथा च मुख्य-गौणानां रसानाम् अङ्गतापि च ॥
सोऽङ्गी सर्वातिगो यः स्यान् मुख्यो गौणोऽथवा रसः ।
स एवाङ्गं भवेद् अङ्गि-पोषी सञ्चारितां व्रजन् ॥

तथा च नाट्याचार्याः पठन्ति—

**एक एव भवेत् स्थायी रसो मुख्यतमो हि यः ।
रसास् तद्-अनुयायित्वाद् अन्ये स्युर् व्यभिचारिणः ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **अथाङ्गाङ्गिनोः सामान्यतो लक्षणम् आह—सोऽङ्गी इति । बहूनां रसानां मिलने मुख्यो वा गौणो वा रसो भवतु, किन्तु यः सर्वातिगः सर्वापेक्षया आस्वाद्यत्वेनाधिकः, सोऽङ्गी, यः स्वयं सञ्चारितां व्रजन् सन् अङ्गि-पोषकः स एवाङ्गम् । अन्ये रसा मुख्यस्यानुयायित्वाद् व्यभिचारिणः स्युः ॥४२॥

—ओ)०(ओ—

॥ ४.८.४४-४५ ॥

श्री-विष्णु-धर्मोत्तरे च—

रसानां समवेतानां यस्य रूपं भवेद् बहु ।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥
9

स्तोकाद् विभावनाज् जातः सम्प्राप्य व्यभिचारिताम् ।
पुष्णन् निज-प्रभुं मुख्यं गौणस् तत्रैव लीयते ॥
श्री-जीवः : रूपं
स्वरूपं, बहु अधिकम् शेषाः सञ्चारिणो मताः इति तन्-मतेऽपि स्व-स्वाधाराद् अव्यभिचारिणौ शृङ्गार-शान्तौ सञ्चारिणाव् इव, स्व-स्वाधाराद् व्यभिचारिणो हास्यादयस् तु सञ्चारिण एवेति भेदांशे लब्धेऽपि यथा पोषकतांशेन सहयोगितांश-भेद-विवक्षा, तथात्रापि—स एवाङ्गम् [भ।र।सि। ४.८.४२] इत्य्-आदिनोक्तम् इति दर्शितम् ॥४४॥

**मुकुन्ददासः : रसानाम् **इति । रूपं स्वरूपं बहु सर्वातिगम् ॥४४॥ स्तोकाद् इति । तत्रैव निज-प्रभाव् एव ॥४५॥

विश्वनाथः : रूपं स्वरूपं बहु अधिकं भवेत्, शेषा रसाः सञ्चारिणो मताः ॥४४॥ अनेक-रसानां मिलनेन यः स्तोकात् स्वल्पात् विभावनाज् जातः, स एव गौणः सन् व्यभिचारितां सम्प्राप्य मुख्यं पुष्णन्, तत्रैवमुख्ये रसे लीयते, प्रपाणक-रसे मरीचादिवल् लीनः सन् आस्वाद्यो भवतीत्य् अर्थः ॥४४-४५॥

—ओ)०(ओ—

॥ ४.८.४६-४८ ॥
प्रोद्यन् विभावनोत्कर्षात् पुष्टिं मुख्येन लम्भितः ।
कुञ्चता निज-नाथेन गौणोऽप्य् अङ्गित्वम् अश्नुते ॥
मुख्यस् त्व् अङ्गत्वम् आसाद्य पुष्णन्न् इन्द्रम् उपेन्द्रवत् ।
गौणम् एवाङ्गिनं कृत्वा निगूढ-निज-वैभवः ॥
अनादि-वासनोद्भास-वासिते भक्त-चेतसि ।
भात्य् एव न तु लीनः स्याद् एष सञ्चारि-गौणवत् ॥
श्री-जीवः : अनादि-
इत्य् उपलक्षणं पूर्व-सिद्धत्वे तात्पर्यम् । सञ्चारि गौणवद् इति व्यतिरेके दृष्टान्तः, यथा सञ्चारि-गौणो लीनो भवति, तथा न मुख्यो लीनो भवतीत्य् अर्थः, सञ्चारिवद् गौणवच् च नेत्य् अर्थः ।४८॥

मुकुन्ददासः : अनादि- इति । नित्य-सिद्ध-भक्त-प्रकरणत्वात् । अन्य-भक्त-प्रसङ्गे तु पूर्व-सिद्धस्योपलक्षणं तत् । सञ्चारी चासौ गौणश् च सञ्चारि-गौणस् तद्वत् ।४८॥

विश्वनाथः : गौणोऽपि रसः विभावनोत्कर्षाद् धेतोः प्रकर्षेण उद्यन् सन् सङ्कुचता निज-नाथेन मुख्येन रसेन पुष्टिं लम्भितः प्रापितः अङ्गित्वम् अश्नुते प्राप्नोति ॥४६॥

अनादि- इत्य् उपलक्षणं पूर्व-सिद्धत्वे तात्पर्यम् । एष अङ्गि-रसः स्फुटं भात्य् एव, न तु सञ्चारिवल् लीनो भवति । सञ्चारि गौणवद् इति व्यतिरेके दृष्टान्तः, सञ्चारि-गौणवच् च नेत्य् अर्थः ।४८॥

—ओ)०(ओ—

॥ ४.८.४९ ॥
अङ्गी मुख्यः स्वम् अत्राङ्गैर् भावैस् तैर् अभिवर्धयन् ।
सजातीयैर् विजातीयैः स्वतन्त्रः सन् विराजते ॥
श्री-जीवः : स्वम् अत्राङ्गैर्
इत्य् एव पाठः । विजातीयैः शत्रु-वर्जितैः कैश्चित् पूर्व-दर्शितैर् अन्यैर् अपि ॥४९॥

**मुकुन्ददासः : भावैर् **निर्वेदादि-हासादिभिः स्व-जातीयैर् आत्मानं वर्धयन् विजातीयैर् विरुद्धैः स्वतन्त्रस् तद्-वश्यता-रहितः ॥४९॥

विश्वनाथः : सजातीयैः समान-जातीयैः, विजातीयैः शत्रु-वर्जितैः कैश्चित् पूर्व-दर्शितैर् अपि ॥४९॥

—ओ)०(ओ—

॥ ४.८.५० ॥
यस्य मुख्यस्य यो भक्तो भवेन् नित्य-निजाश्रयः ।
अङ्गी स एव तत्र स्यान् मुख्योऽप्य् अन्योऽङ्गतां व्रजेत् ॥
श्री-जीवः : मुख्यस्य
इति । लीला-भेदेन प्रकटित-निज-मुख्यता-विशेषस्येत्य् अर्थः ॥५०॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : यस्य मुख्य-रसस्य यो भक्तः नित्यम्
एव निजाश्रयो भवति, **स एव मुख्यो **रसः अङ्गीअन्य आगन्तुको रसस् तस्य अङ्गतां व्रजेत् ॥५०॥

—ओ)०(ओ—

॥ ४.८.५१-५२ ॥
किं च—
आस्वादोद्रेक-हेतुत्वम् अङ्गस्याङ्गत्वम् अङ्गिनि ।
तद् विना तस्य सम्पातो वैफल्यायैव कल्पते ॥
यथा मृष्ट-रसालायां यवसादेः कथञ्चन ।
तच्-चर्वणे भवेद् एव सतृणाभ्यवहारिता ॥
श्री-जीवः : अङ्गिनि
यद् अङ्गस्याङ्गत्वं, तत् खल्व् आस्वादोद्रेक-हेतुत्वम् एव, नान्यद् इत्य् अर्थः । तद् एव दर्शयति—तद् विना इति ॥५१॥

**मुकुन्ददासः : **तटस्थस्याङ्गिनि सङ्गतिः कार्या न वा ? तत्राह—किं च इत्य्-आदि । तद् विना अङ्गं विना तस्य अन्यस्य तटस्थस्य सम्पातो मेलनम् ॥५१॥

विश्वनाथः : अङ्गिनि रसे य आस्वादोद्रेकः, तस्य हेतुत्व-रूपम् एवाङ्गस्याङ्गत्वं, नान्यत् । तद् एव दर्शयति—तद् विना इति । तद् विना आस्वादोद्रेक-हेतुत्वं विना तस्य अङ्ग-रसस्य रस-वर्णनायां सम्पातो वैफल्याय ॥५१॥ यथा पानक-प्रभेद-मार्जित-रसालायां कथञ्चन दैवात् पतितस्य यवसादेः घासादेः चर्वणे सति स-तृणाभ्यवहारिता10 तृण-सहितोत्तम-भोजन-कर्तृकता भवेत् ॥५२॥

—ओ)०(ओ—

॥ ४.८.५३-५४ ॥

अथ वैरि-कृत्यम्—
जनयत्य् एव वैरस्यं रसानां वैरिणा युतिः ।
सुमृष्ट-पानकादीनां क्षार-तिक्तादिना यथा ॥

यथा हि—

ब्रह्मिष्ठाया निष्फलो मे व्यतीतः
कालो भूयान् हा समाधि-व्रतेन ।
सान्द्रानन्दं तन् मया ब्रह्म मूर्तं
कोणेनाक्ष्णः साचि सव्यस्य नैक्षि ॥

तत्र शान्तस्योज्ज्वलेन वैरस्यम् ।

श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : वैरिणा
रसेन सह युतिर् मिलनं वैरस्यम् ॥५३॥ ब्रह्म-ज्ञानवत्या मम समाधि-व्रतेन भूयान् कालो निष्फलं व्यतीतः, सान्द्रानन्दं मूर्तं तद् ब्रह्म सव्यस्य वामस्य अक्ष्णः कोणेन साचि वक्रं यथा स्यात्, तथा नैक्षि न दृष्टम् इत्य् अर्थः ॥५४॥

—ओ)०(ओ—

॥ ४.८.५५ ॥
क्षणम् अपि पितृ-कोटि-वत्सलं तं
सुर-मुनि-वन्दित-पादम् इन्दिरेशम् ।
अभिलषति वराङ्गना-नखाङ्कैः
प्रभुम् ईक्षितुं मनो मे ॥

तत्र प्रीतस्योज्ज्वलेनैव ।

श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : क्षणम् अपि
इत्य् अत्राश्रय-भेदेऽपि वैरिणो मुख्याद् वैरस्यम् एव तत् ॥५५॥

विश्वनाथः : वराङ्गना-नख- इत्य् अनेन शृङ्गार-रसः ॥५५॥

—ओ)०(ओ—

॥ ४.८.५६ ॥
दोर्भ्याम् अर्गल-दीर्घाभ्यां सखे परिरभस्व माम् ।
शिरः कृष्ण तवाघ्राय विहरिष्ये ततस् त्वया ॥

अत्र प्रेयसो वत्सलेन ।

न केनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ४.८.५७ ॥
यं समस्त-निगमाः परमेशं
सात्वतास् तु भगवन्तम् उशन्ति ।
तत् सुतेति बत साहसिकीं त्वां
व्याजिहीर्षतु कथं मम जिह्वा ॥

> अत्र वत्सलस्य प्रीतेन ।

श्री-जीवः : समस्त-निगमा इति । तत् तु समन्वयात् [वे।सू। १.१.४] इति न्यायेन समस्तं निगमयन्ति निगमार्थं समस्तं समन्वितं कुर्वन्ति ये ते वेदान्तिन इत्य् अर्थः । परमेशं पर-ब्रह्म-पर्यायं सात्वताः पाञ्चरात्रिकाः । भगवन्तं वासुदेव-पर्यायम् ॥५७॥

मुकुन्ददासः : यं समस्त- इति श्री-वसुदेव-वाक्यम् । निगमा वेदाः । परमेशं परं ब्रह्माख्यं तत्त्वम् ॥५७॥

विश्वनाथः : समस्त-निगमा इति । समस्तं निगमयन्ति निगमार्थं समस्तं समन्वितं कुर्वन्ति ये, ते वेदान्तिन इत्य् अर्थः । परमेशं परम्-ब्रह्म-पर्यायं सात्वताः पाञ्चरात्रिकाः भगवन्तम् उशन्ति मन्यन्ते, साहसिकी मम जिह्वा त्वं सुत इति कथं व्याजिहीर्षतु ? ॥५७॥

—ओ)०(ओ—

॥ ४.८.५८ ॥
तडिद्-विलास-तरला नव-यौवन-सम्पदः ।
अद्यैव दूति तेन त्वं मया रमय माधवम् ॥

> अत्रोज्ज्वलस्य शान्तेन

श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : तडिद्
इत्य् अत्र—विषय-भेदेऽपि वैरस्यम् ॥५८॥

विश्वनाथः : तडितः अचिर-स्थायी विलास इव तरलाश् चञ्चला नव-यौवन-सम्पत्तयो भवन्ति, तेन हेतुना हे दूति ! अद्यैव मया सह माधवं रमय ॥५८॥

—ओ)०(ओ—

॥ ४.८.५९ ॥
चिरं जीवेति संयुज्य काचिद् आशीर्भिर् अच्युतम् ।
कैलास-स्था विलासेन कामुकी परिषष्वजे ॥

अत्र शुचेर् वत्सलेन ।

श्री-जीवः : चिरं जीव इत्य्-आद्य् उदाहरणाय कल्पना-मात्रम् । एवम् अन्यत्रापि ज्ञेयम् ॥५९॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : काचित्
कैलास-वासिनी कामुकी मनो-विलासेन मनोरथेन श्री-कृष्णं परिषस्वजे ॥५९॥

—ओ)०(ओ—

॥ ४.८.६०-६१ ॥
शुचेः सम्बन्ध-गन्धोऽपि कथञ्चिद् यदि वत्सले ।
क्वचिद् भवेत् ततः सुष्ठु वैरस्यायैव कल्पते ॥
पिशितासृङ्-मयी नाहं सत्यम् अस्मि तवोचिता ।
स्वापाङ्ग-विद्धां श्यामाङ्ग कृपयाङ्गी-कुरुष्व माम् ॥

अत्र शुचेर् बीभत्सेन ।

श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : क्वचिद्
आश्रये विषये वा । वैरस्यं विषय-निष्ठ-प्रीतेर् अपि वैर-कृत्यम् एव न ताटस्थ्यम् । यथा विमोचयार्गला-बन्धम् [भ।र।सि। ४.८.७५] इत्य्-आदौ दर्शयिष्यते ॥६१॥

**विश्वनाथः : **मांस-रुधिर-मयी अहम्, अतस् तव योग्या नास्मि, तथापि तवापाङ्गेन पीडितां माम् ॥६१॥

—ओ)०(ओ—

॥ ४.८.६२ ॥
एवम् अन्यापि विज्ञेया प्राज्ञै रस-विरोधिता ।
प्रायेणेयं रसाभास-कक्षायां पर्यवस्यति ॥
श्री-जीवः : प्रायेण
इति केचिद्** रसाभासाद्** अप्य् अधम-**कक्षायां पर्यवस्यन्ति **इत्य् अर्थः ॥६२॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : प्रायेण
इति केचिद् भावा रसाभासाद् अप्य् अधम-कक्षायां पर्यवस्यन्ति इत्य् अर्थः ॥६२॥

—ओ)०(ओ—

॥ ४.८.६३-६४ ॥
किं च—
द्वयोर् एकतरस्येह बाध्यत्वेनोपवर्णने ।
स्मर्यमाणतयाप्य् उक्तौ साम्येन वचनेऽपि च ॥
रसान्तरेण व्यवधौ तटस्थेन प्रियेण वा ।
विषयाश्रय-भेदे च गौणेन द्विषता सह ।
इत्य्-आदिषु न वैरस्यं वैरिणो जनयेद् युतिः ॥
श्री-जीवः : बाध्यत्वं
बाध-योग्यत्वं, अयम् अत्र बाधा-योग्या भवतीत्य् उपवर्णने, युक्ति-संवलिततया निरूपण इत्य् अर्थः । अतो बाधाया अयोग्यस्य तथा वर्णने तु वैरस्यम् एवेति भावः। द्वितीयोऽप्य् अपि-शब्दः पूर्ववत् । अतो वर्णनीयानां शृङ्गारादीनां बीभत्सादिभिः साम्य-वचनम् अनुचितम् । अपि-शब्दस्य द्विरुक्त्या रसान्तरेण इत्य्-आदौ च व्यभिचारो द्रष्टव्यः । वत्सलादीनां वैरि-योगे व्यवधान-शतेनापि वैरस्याभावानुपपत्तेः । विषयाश्रय-भेदे च तत्र भक्ति-रसिकाभीष्टस्य रस-विशेषस्यान्यत्र समतां दर्शयद्भिर् अन्यैः प्रतीतोत्तमत्वेऽपि भक्ति-रसिकैर् बीभत्सितत्वम् उद्भाव्यते, तत्रैव न तूभयैर् एव बीभत्सिततया ज्ञातेऽपीत्य्-आदि ज्ञेयम् ॥६४॥

मुकुन्ददासः : बाध्यत्वं बाधा-योग्यत्वं, अयम् अत्र बाधा-योग्यो भवतीत्य् उपवर्णने युक्ति-संवलिततया निरूपणे इत्य् अर्थः । अतो बाधाया अयोग्यस्य तथा वर्णने तु वैरस्यम् एवेति भावः । अपि-शब्दस्य सम्भव-वचनत्वाद् धास्यादौ करुण-स्मरणं वैरस्यायैव बोध्यम् । द्वितीयोऽप्य् अपि-शब्दः पूर्ववत् । अतो वर्णनीयानां शृङ्गारादीनां बीभत्सादिभिः साम्य-वचनम् अनुचितम् ॥६४॥

विश्वनाथः : द्वयो रसयोर् मध्ये एकतरस्य बाध्यत्वेन वर्णने सति परस्पर-वैरिणो रसयोर् युक्तिर् मिलनं न वैरस्यं जनयेत्, तथा विरोधि-रसस्य स्मर्यमाणत्वेन वर्णने न दोषः । एवं-विध-द्वयस्य साम्येन वर्णने न दोषः वैरस्यम् । तटस्थेन प्रियेण वा रसान्तरेण व्यवधाने सति न वैरस्यम् । वैरिणो रसयोर् एक-विषयत्वे तथा एकाश्रयत्वे च न वैरस्यम् अस्ति । विषयाश्रय-भेदे च गौणेन द्विषता वैरिणा सह वर्णने न वैरस्यं न वर्तते एवेत्य् अग्रे व्यक्तीभविष्यति ॥६३-६४॥

—ओ)०(ओ—

॥ ४.८.६५ ॥

तत्र एकतरस्य बाध्यत्वेन वर्णने, यथा विदग्ध-माधवे (२.१८)—

प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन् मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्ति-लवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान् निष्क्रान्तिम् आकाङ्क्षति ॥
श्री-जीवः : प्रत्याहृत्य
इति । अत्र पूर्वार्धे मुनेर् बालायाश् च प्रथमा निष्ठा । उत्तरार्धे योगिनस् तस्याश् च, स्फुटम् उत्तरा ॥६५॥

मुकुन्ददासः : प्रत्याहरन्ती निर्भर-गभीर-प्रेमोर्मि-निर्मित-मनः-क्षोभत्वेनाकर्षन्ती । यस्य इत्य् अर्धे मुनि-बालयोर् उत्तर-निष्ठा, अत्राश्रय-भेदोऽपि वैरिणो मुखाद् वैरस्योऽपि ॥६५॥

**विश्वनाथः : **श्री-राधायाः प्रेमोत्कर्ष-कथनाय पौर्णमासी आह—प्रत्याहृत्य इति । विषयेभ्यः मनः प्रत्याहृत्य यस्मिन् श्री-कृष्णे धित्सति धर्तुम् इच्छति, इत्य् अनेन मुनीनाम् इच्छा-मात्रं, न तु धारण-सामर्थ्यम् इति ज्ञेयम् । ततः श्री-कृष्णात्मनः प्रत्याहरन्ती लोक-धर्म-भयाद् आकर्षन्ती असौ बाला श्री-राधा **विषयेषु धर्तुम् इच्छति **इत्य् अत्रापि तस्या विषये धारणेच्छा-मात्रं, न तु धारण-सामर्थ्यम् ॥६५॥

—ओ)०(ओ—

॥ ४.८.६६ ॥
बाध्यत्वम् अत्र शान्तस्य शुचेर् उत्कर्ष-वर्णनात् ॥
श्री-जीवः : बाध्यत्वम्
इति । पूर्व-पद्ये श्री-राधा-माधव-रहस्य-सहायतया पौर्णमास्य्-आख्य-तपस्विन्या रस-द्वयं भावितम् । मुन्य्-आद्य्-अनुसारेण शान्तः । श्री-राधाद्य्-अनुसारेण सूचिः । अत्र मुनि-योगिनोर् योग-बलेन प्रवर्तमानस्यापि मनसस् तत्राप्रवृत्तेः श्री-राधाया धर्म-भयेन रुद्ध्यमानस्यापि तस्य तस्मिन् प्रवृत्तेः पूर्वस्य निकर्षः, परस्य तु प्रकर्षः स्पष्ट एवेति । किं त्व् ईदृग् वर्णनं वक्तृ-भेदेनैवादोषाय ज्ञेयं, न तु सर्वत्र ॥६६॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **तेन शृङ्गार-रसस्य सर्वोत्कर्ष-कथनात् शान्तस्य अपकर्ष-रूप-बाध्यत्वम् उक्तम् ॥६६॥

—ओ)०(ओ—

॥ ४.८.६७ ॥
स्मर्यमाणत्वे
, यथा—

स एष वैहासिकता-विनोदैर्
व्रजस्य हासोद्गम-संविधाता ।
फणीश्वरेणाद्य विकृष्यमाणः
करोति हा नः परिदेवनानि ॥
श्री-जीवः : स एष
इति पद्य-द्वयं केषाञ्चित् क्षोदिष्ठ-दिविष्ठानाम् एव वचनम् । यद् इदम् अतिस्निग्ध-स्वभावानां नेति लक्ष्यते, व्रज-स्थानां तु सुतराम् । तदा वैहासिकादि-शब्दानां प्रयोगानौचित्यात् । न चेदं ब्रह्म-शिवादीनां, तेषां स्वयं भगवत्त्व-ज्ञानात् ॥६७॥

मुकुन्ददासः : स एष इति वृद्धानां वचनम् । परिदेवनानि विलापान् ॥६७॥

**विश्वनाथः : **कालियेन वेष्टितं श्री-कृष्णं दृष्ट्वा गोपो दुःखेनाह— इति । यः श्री-कृष्णः अद्य कालियेन आकृष्यमाणः आकर्षण-वशात् क्लिश्यमान इत्य् अर्थः । परिदेवनानि विलाप-वचनानि, विलापः परिदेवनम् इत्य् अमरः । यद्यपि श्री-कृष्णस्यासुर-कर्तृक-पराभवाभावेन विलापो सम्भवति, तथाप्य् ऐश्वर्य-ज्ञान-शून्यस्य गोपस्य कृष्ण-निष्ठ-बन्धन-जनित-स्नेहेन विलापानुमानं ज्ञेयम् । स एष वैहासिकता-विनोदैर् व्रजस्य हासोद्गम-संविधाता पूर्वम् आसीद् इति करुण-रसेन सह हासस्य विरोधेऽपि तस्य स्मर्यमाणत्वेन न वैरस्यम् इति ज्ञेयम् ॥६७॥

—ओ)०(ओ—

॥ ४.८.६८ ॥
साम्येन वचने
, यथा—

विश्रान्त-षोडश-कला निर्विकल्पा निरावृतिः ।
सुखात्मा भवती राधे ब्रह्म-विद्येव राजते ॥
श्री-जीवः : विश्रान्ताः
प्राप्त-विश्रमाः, षोडश-कला रचनाः शृङ्गारा यस्यां, पक्षे विश्रान्तं निरुद्यमं षोडश-कलं लिङ्ग-शरीरं यस्यां, निर्विकल्पा सुष्ठु प्रत्यक्षतया निर्णीता, पक्षे भेद-रहिता । तत्र हेतुर् निरावृतिर् लतादि-व्यवधान-रहिता, पक्षे गुणावरण-शून्या । ब्रह्म-विद्या ब्रह्मानुभवः, तद् एतद्-विधम् अपि वर्णनं नर्म-मयम् एव रसाय सम्पद्यते, इति तथोदाहृतः । “मुक्ति-श्रीर् इव” पाठस् त्यक्तः ॥६८॥

मुकुन्ददासः : विश्रान्त- इति । श्री-कृष्णस्य सुरतान्ते वचनम् । विश्रान्ताः प्राप्त-विश्रमाः षोडश-कला रचनाः शृङ्गारा यस्याम् । पक्षे विश्रान्तं निरुद्यमं षोडश-कलं लिङ्ग-शरीरं यस्याम् । निर्विकल्पा सर्वाङ्ग-दर्शने निर्णीता, पक्षे भेद-रहिता । अत्र हेतुर् निरावृतिर् वस्त्रादि-व्यवधान-रहिता । पक्षे गुणावरण-शून्या ॥६८॥

**विश्वनाथः : **हे राधे ! विश्रान्ताः प्राप्त-विश्रमाः षोडश-कलात्मक-शृङ्गारा यस्यां तथा-भूता भवती राजतेब्रह्म-विद्या-पक्षे विश्रान्तं निरुद्यमं षोडश-कलं लिङ्ग-शरीरं यस्याम् । तथा निर्विकल्पा इयं राधा न वेति विकल्प-रहिता सुष्ठु प्रत्यक्षतया निर्णीतेत्य् अर्थः । पक्षे, भेद-रहिता । प्रत्यक्षतया निर्णीतेति हेतुः—निरावृतिः, लतादि-व्यवधान-रहिता । पक्षे, गुणावरण-शून्या । ब्रह्म-विद्या ब्रह्मानुभवः । तद् एतद्-विधम् अपि वर्णनं नर्म-मयम् एव रसाय सम्पद्यत इति ॥६८॥

—ओ)०(ओ—

॥ ४.८.६९ ॥

यथा वा—

राधा शान्तिर् इवोन्निद्रं निर्निमेषेक्षणं च माम् ।
कुर्वती ध्यान-लग्नं च वासयत्य् अद्रि-कन्दरे ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : राधा शान्तिर् इव माम् उन्निद्रं निमिष-रहितेक्षणं ध्यान-लग्नं च कुर्वती अद्रि-कन्दरायां वासयति
॥६९॥

—ओ)०(ओ—

॥ ४.८.७० ॥
रसान्तरेण व्यवधौ
, यथा—

त्वं कासि शान्ता किम् इहान्तरीक्षे
द्रष्टुं परं ब्रह्म कुतस् तताक्षी ।
अस्यातिरूपात् किम् इवाकुलात्मा
रम्भे समाविश्य भिदा स्मरेण ॥७०॥

> अत्राद्भुतेन व्यवधिः ।

श्री-जीवः : त्वं कासि ? इति । अत्र रूपस्य अद्भुततया तस्या शान्ति-रतिम् आच्छाद्य मधुर-रतिर् उद्भाविता । व्यवधि-शब्दस्याप्य् एतावान् अवधिः, साक्षात् स्मरोक्त्या तु यद् वैरस्यं, तत् खलु न निषिध्यते । किन्तु शान्त-सङ्गेन यत्, तद् एवेति भावः । एवम् अन्यत्रापि ॥७०॥

मुकुन्ददासः : त्वं कासि ? इति । अत्र रूपस्य अद्भुततया शान्ति-रतिर् मधुर-रतितयोभाविता । व्यवधि-शब्दस्याप्य् एतावान् अवधिः ॥७०॥

**विश्वनाथः : **रम्भा-नाम्नी अप्सराः पृच्छति—त्वं कासि ? शान्तास्मि शान्ति-रति-मत्य् अहम् । इहान्तरीक्षे किं ? पुनः तत्रोत्तरं—परं ब्रह्म श्री-कृष्णं द्रष्टुम् । विस्मयेन कुतस् त्वं विस्तृताक्षी ? पुनस् तत्रोत्तरम् आह—हे रम्भे ! कृष्णस्यातिशय-रूपात् किम् इव अनिर्वचनीया आकुलात्माहं भेदाभेद-कर्त्रा स्मरेण समारम्भि । अद्यावधि मम कन्दर्पारम्भः जात इति पर्यवसितार्थः । अत्र रूपस्य अत्यन्ताद्भुततया तस्या शान्ति-रतिम् आच्छाद्य मधुर-रतिर् उद्भावितेति ज्ञेयम् ॥७०॥

—ओ)०(ओ—

॥ ४.८.७१ ॥
विषय-भिन्नत्वे
, यथा श्री-दशमे (१०.६०.४५)—

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्तम् अतिविमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : तव
चरण-कमलस्य मकरन्दास्वाद-रहिता या स्त्री, सैव जीवन्-मृते रूपे कान्त-मतिः । अत एव त्वां न भजति । अत्र रुक्मिण्यां श्री-कृष्ण-विषयक-शृङ्गार-रसः प्राकृत-पुरुष-विषयक-बीभत्स-रसश् च । अतो विषय-भेदेन न वैरस्यम् इति ज्ञेयम् ॥७१॥

—ओ)०(ओ—

॥ ४.८.७२ ॥

यथा वा, विदग्ध-माधवे (२.३१)—

तस्याः कान्त-द्युतिनि वदने मञ्जुले चाक्षि-युग्मे
तत्रास्माकं यद्-अवधि सखे दृष्टिर् एषा निविष्टा ।
सत्यं ब्रूमस् तद्-अवधि भवेद् इन्दुम् इन्दीवरं च
स्मारं स्मारं मुख-कुटिलता-कारिणीयं हृणीया ॥७२॥

**उभयत्र शुचि-बीभत्सयोः **।

श्री-जीवः : स्मारं स्मारम् इति हृणीय इति द्वयम् अप्य् अस्माकम् इत्य् अस्यैक-कर्तुः क्रिया-द्वये चास्मिन् स्मृति-क्रियायाः पूर्वत्वान् णमुल् युज्यत एव ॥७२॥

मुकुन्ददासः : स्मारं स्मारं तापिन् इति शेषः ॥७२॥

विश्वनाथः : तस्या राधायाः कमनीय-द्युति-विशिष्टे वदने एवं मनोज्ञे अक्षि-युग्मे च दृष्टिर् निविष्टा इन्दुम् इन्दीवरं नील-कमलं च स्मृत्वा मम मुख-कुटिलता-कारिणी घृणा भवेत् । मुख-दर्शनात् चन्द्रे नेत्र-दर्शनान् नील-कमले घृणा भवेद् इति ज्ञेयम् ॥७२॥

तस्याः कमनीया द्युतिर् यस्य तथा-भूते वदने कान्तेति वदन-सादृश्यार्थं इन्दुं स्मृत्वा हृणीया लज्जा घृणा वा मुख-कुटिलता-कारिणी भवेत् ॥ (विदग्ध-माधव-टीका)

—ओ)०(ओ—

॥ ४.८.७३ ॥
आश्रय-भिन्नत्वे
, यथा—

विजयिनम् अजितः विलोक्य रङ्ग-
स्थल-भुवि सम्भृत-सांयुगीन-लीलम् ।
पशुप-सवयसां वपूंषि भेजुः
पुलक-कुलं द्विषतां तु कालिमानम् ॥

अत्र वीर-भयानकयोः ।

श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : सम्भृता
सम्यक् धृता सांयुगीन-लीला येन, तं विजयिनं श्री-कृष्णं विलोक्य बालकानां वपूंषि पुलकं भेजुः । सांयुगीनो रणे साधुः इत्य् अमरः । द्विषतां कंसादीनां वपूंषि भयेन कालिमानं भेजुः ॥७३॥

—ओ)०(ओ—

॥ ४.८.७४-७५ ॥
विषयाश्रय-भेदेऽपि मुख्येन द्विषता सह ।
सङ्गतिः किल मुख्यस्य वैरस्यायैव जायते ॥

तत्र विषय-भेदे, यथा—

विमोचयार्गल-बन्धं विलम्बं तात नाचर ।
यामि काश्य-गृहं यूना मनः श्यामेन मे हृतम् ॥

अत्र शुचेः प्रीतेन ।

श्री-जीवः : काश्यः सान्दीपनिः । प्रीतेन तस्याः पितृ-विषयेण । भावना-विशेषं त्व् अत्रापि न दोषः । यथा,

अहं त्रयीमयाज् जाता सात्वतानां पतिः स तु । तस्माद् अन्यो वरः को वा ममालम्बाय कल्पताम् ॥

त्रयीमयात् सूर्यात् ॥७५॥

मुकुन्ददासः : काश्यः सान्दीपनिः । प्रीतेन तस्याः पितृ-विषयेण ॥७५॥

**विश्वनाथः : **वैरिणा मुख्येन सह मुख्यस्य सह मिलनं विषयाश्रय-भेदेऽपि वैरस्य-जनकं भवति । गौणेन सह मिलनं तु स वैरस्य-जनकम् इति पूर्वम् अप्य् उक्तम् ॥७४॥

हे तात ! मम गमन-प्रतिबन्धक अर्गल-बन्धं विमोचय, विलम्बं नाचर, यूना श्यामेन मम मनः हृतम् । अतः तस्य दर्शनार्थं सान्दीपनेर् गृहं यामि । अत्र कन्यायाः पितृ-विषयक-दास्य-रतिः, श्री-कृष्ण-विषयक-शृङ्गार-रतिश् च द्वयोर् मुख्यत्वेन भिन्न-विषयत्वेऽपि वैरस्यं ज्ञेयम् ॥७५॥

—ओ)०(ओ—

॥ ४.८.७६ ॥
आश्रय-भेदे
, यथा—

रुक्मिणी-कुच-काश्मीर-पङ्किलोरः-स्थलं कदा ।
सदानन्दं परं ब्रह्म दृष्ट्या सेविष्यते मया ॥७६॥

अत्र शान्तस्य शुचिना ।

श्री-जीवः : रुक्मिणी इति । एषा अत्र शुचेर् आश्रयः । वक्ता तु शान्तस्य । रुक्मिणीत्य्-आदि भावनायां तु शुचेर् आश्रयः स्याद् इति । पक्षे तु सुतराम् एव दोष इति भावः ॥७६॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : रुक्मिणी
इति । एषा अत्र शुचेर् आश्रयः । वक्ता शान्तस्य ॥७६॥

—ओ)०(ओ—

॥ ४.८.७७ ॥
अनुरक्त-धियो भक्ताः केचन ज्ञान-वर्त्मनि ।
शान्तस्याश्रय-भिन्नत्वे वैरस्यं नानुमन्वते ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : ज्ञान-वर्त्मनि अनुरक्त-धियो भक्ताः
॥७७॥

—ओ)०(ओ—

॥ ४.८.७८-७९ ॥
किं च—
भृत्ययोर् नायकस्येव निसर्ग-द्वेषिणोर् अपि ।
अङ्गयोर् अङ्गिनः पुष्ट्यै भवेद् एकत्र सङ्गतिः ॥

यथा—

**कुमारस् ते मल्ली-कुसुम-सुकुमारः प्रियतमे
गरिष्ठोऽयं केशी गिरिवद् इति मे वेल्लति मनः ।
शिवं भूयात् पश्योन्नमित-भुज-मेधिर् मुहुर् अमुं **

खलं क्षुन्दन् कुर्यां व्रजम् अतितरां शालिनम् अहम् ॥

अत्र विद्विषौ वीर-भयानकौ वत्सलं पुष्णीतः ।

श्री-जीवः : कुमार इत्य् आदौ विषय-भेदोऽप्य् अपेक्ष्यते । शालिनं श्लाघिनम्, शाल् श्लाघायां धातुः । मेधिर् धान्य-पलाल-पार्थक्याय भ्राम्यमाण-बलीवर्द-बन्धन-स्तम्भः ॥७९॥

मुकुन्ददासः : वेल्लति अतिचञ्चलं भवति । क्षुन्दन् सञ्चूर्णयन् । शालिनं श्लाघिनम् । शाडृ श्लाघायाम् । मेधिर् धान्य-पलाल-पार्थक्याय भ्राम्यमाण-बलीवर्द-बद्ध-स्तम्भः ॥७९॥

विश्वनाथः : किं च इति । स्वभावत एव द्वेषिणोर् अपि भृत्ययो राज-सेवकयोर् नायकस्य स्व-प्रभोः सेवार्थं यथा एकत्र सङ्गतिः, तथा परस्पर-वैरिणोर् अपि अङ्गयोः अङ्गिनः पुष्टौ निमित्ते एकत्र सङ्गतिर् न दोषाय कल्पते ॥७८॥

श्री-नन्दः प्राह—कुमार इत्य् आदौ विषय-भेदेऽप्य् अपेक्ष्यः । हे प्रियतमे यशोदे ! मम मनः वेल्लति कम्पते । अत्र भयानकः । **उन्नमितः भुज **एव मेधिर् यस्य तथा-भूतोऽहम् अमुं केशिनं क्षुन्दन् सन् व्रजम् अतिशालिनं श्लाघिनं कुर्याम् । शाल् श्लाघायाम् । मेधिर् धान्य-पलालयोः पार्थक्याय भ्राम्यमाण-बलीवर्द-स्तम्भः । तत्र वीर-रसः ॥७९॥

—ओ)०(ओ—

॥ ४.८.८० ॥

यथा (भ।र।सि। ४.८.३१)—

कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे इत्य्-आदि ॥

तत्र हास्य-करुणौ वत्सलम् एव पुष्णीतः ।

श्री-जीवः : कम्प्रा इत्य्-आदौ किञ्चित् काल-भेदोऽपि दृश्यते ॥८०॥

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : कम्प्रा
इत्य्-आदि श्लोकस् तु पूर्वम् एवोक्तः ॥८०॥

—ओ)०(ओ—

**॥ ४.८.८१ ॥
अपि च—
मिथो वैराव् अपि द्वौ यौ भावौ धर्म-सुतादिषु ।
कालादि-भेदात् प्राकट्यं तौ विन्दन्तौ न दुष्यतः ॥
श्री-जीवः : **मिथ इति । तत्-तद्-भाव-योग्येषु तेषु भाव-भेदस्य यथा-कालम् उदयात् । धर्म-सुते हि प्रीत-वात्सल्यं सख्यं च दृश्यते । योग्यता च—तद्-ईश्वरता-ज्ञानित्वात्, ज्येष्ठ-भ्रातृत्वात् नातिज्येष्ठ-भ्रातृत्वाच् च, यथा श्री-बलदेवस्य । दोषत्वं खलु अयोग्य एव विधीयते, तस्मान् न तेषु दोषः, किं त्व् अन्यत्रैवेत्य् अर्थः, ये वा केचित् प्रयोगाः श्री-भागवते विरुद्धा इव दृश्यन्ते, तत्-समाधानं तु श्री-भागवत-सन्दर्भस्य प्रीति-सन्दर्भे कृतम् अस्ति ॥८१॥

**मुकुन्ददासः : **मित इति कालादि-भेदाद् इति । यं समस्तेत्य् अत्र प्रीति-वत्सलयोर् एकदोदया वैरस्यम् इति भावः ॥८१॥

**विश्वनाथः : **मिथो वैराव् अपीति । तत्-तद्-भाव-योग्येषु भाव-भेदस्य यथा-कालम् उदयात् धर्म-सुतादिषु युधिष्ठिरादिषु । युधिष्ठिरे हि दास्यं वात्सल्यं सख्यं च दृश्यते । योग्यता च—तद्-ईश्वरता-ज्ञानित्वात्, ज्येष्ठ-भ्रातृत्वात्, नातिज्येष्ठ-भ्रातृत्वाच् च ॥८१॥

—ओ)०(ओ—

॥ ४.८.८२ ॥
अधिरूढे महा-भावे विरुद्धैर् विरसाः युतिः ।
न स्याद् इत्य् उज्ज्वले राधा-कृष्णयोर् दर्शितं पुरा ॥
श्री-जीवः, मुकुन्ददासः : दर्शितं पुरा
इति घोरा खण्डित-शङ्खचूडम् [भ।र।सि। ३.२.२३] इत्य् आदौ ॥८२॥

**विश्वनाथः : **महा-भावे विरुद्धैः सह युतिर् मिलनं विरसो न भवेत् ॥८२॥

—ओ)०(ओ—

**॥ ४.८.८३ ॥
क्वाप्य् अचिन्त्य-महा-शक्तौ महा-पुरुष-शेखरे ।
रसावलि-समावेशः स्वादायैवोपजायते ॥
श्री-जीवः : **क्वापीति । विषयत्वेन प्रायः स्वादो न विहन्यते, आश्रयत्वेऽपि स्वादायैव स्याद् इत्य् अर्थः ॥८३॥

**मुकुन्ददासः : **क्वापीति । देश-काल-पात्र-विशेष एव न सर्वत्र । अतो ब्रह्मज्ञाया इत्य्-आदिषु भक्त-विषयकाः कृष्णाश्रयाः परोक्षापरोक्ष-रसाभिप्रायेण । विभावादेर् वैरूप्याद् रसाभास-पर्यवसायिन एवेति ॥८३॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ४.८.८४ ॥

तत्र रसानां विषयत्वे, यथा ललित-माधवे (३.४)—

**दैत्याचार्यास् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयम् ऋषि-गणा ध्यानम् उष्णास्रम् अम्बाः ।
रोमाञ्चं सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेशा
लास्यं दासाः कटाक्षं ययुर् असित-दृशः प्रेक्ष्य रङ्गे मुकुन्दम् ॥
श्री-जीवः : **दैत्याचार्याः कंस-पुरोहिताः । तदा तदानीम्, आस्ये मुखे विकृतिं कूणनादिकं ययुः गज-रक्त-मदादि-लिप्तत्वं दृष्ट्वेति भावः । अनेन बीभत्सः । सखाय इत्य् अनेन हास्यः प्रेयांश् चेति रस-द्वयम् । प्रलयं भयेन नष्ट-चेष्टताम् । ध्यानं ध्यानावस्थाम् एव साक्षात् ययुः, अनेन शान्तः । अम्बा देवक्य्-आदयः, एतेन वत्सलः करुणश् च ॥८४॥

**मुकुन्ददासः : **दैत्याचार्याः कंस-पुरोहिताः । तदा तदानीम्, आस्ये मुखे विकृतिं कूणनादिकं ययुः । गज-रक्त-मदादि-लिप्तत्वं दृष्ट्वेति भावः । अरुणताम् इति रौद्रः । सखायो गण्डौन्नत्यम् इति हास्यः प्रेयांश् चेति रस-द्वयम् । प्रलयं भयेन नष्ट-चेष्टताम् । ध्यानं ययुः पर-ब्रह्मत्वेन तम् आस्वादितवन्त इत्य् अर्थः । अम्बा देवक्य्-आद्याः, उष्णास्रम् इति वत्सल-करुणौ । संयुगीना रणे साधवो रोमाञ्चम् इति युद्ध-वीराः ॥८४॥

**विश्वनाथः : **दैत्याचार्याः कंस-पुरोहिताः । तदानीम् आस्ये मुखे विकृतिं ययुः । गज-रक्त-मदादि-लिप्तत्वं दृष्ट्वेति भावः । अनेन बीभत्सः । मल्ल-श्रेष्ठा अरुणतां ययुर् इति रौद्रः । सखायो हास्येन गण्डोन्नतिं ययुर्, अत्र हासाः प्रेयांश् चेति रस-द्वयम् । खलेशाः कंसादयः प्रलयं भयेन नष्ट-चेष्टताम् । ऋषि-गणा ध्यानं ध्यानावस्थाम् एव साक्षात् ययुः, अनेन शान्तः । अम्बा देवक्य्-आदयः अस्रं रोदनम् इत्य् अनेन वत्सलः करुणश् च । रोमाञ्चम् अत्र वीर-रसः । सुरेशा इन्द्राद्या अन्तश्-चमत्कारम् इति अद्भुत-रसः । असित-दृशः युवतयः ॥८४॥

—ओ)०(ओ—

**॥ ४.८.८५ ॥
आश्रयत्वे, यथा—
स्वस्मिन् धूर्येऽप्य् अमानी शिशुषु गिरि-धृताव् उद्यतेषु स्मितास्यस्
थूत्कारी दध्नि विस्रे प्रणयिषु विवृत-प्रौढिर् इन्द्रेऽरुणाक्षः ।
गोष्ठे साश्रुर् विदूने गुरुषु हरि-मखं प्रास्य कम्पः स पायाद्
आसारे स्फार-दृष्टिर् युवतिषु पुलकी बिभ्रद् अद्रिं विभुर् वः ॥
श्री-जीवः : **अमानीति निरहङ्कारतया शान्तः उक्तः । कम्प इत्य् अनेन भयानकः । एवम् अन्येऽपि ज्ञेयाः । प्रास्य खण्डयित्वा ॥८५॥

**मुकुन्ददासः : **अमानीति निरहङ्कारतया शान्तः उक्तः । शिशुषु स्मितास्य इति वत्सल-हासौ । विवृत-प्रौढिर् इति प्रेयान् । अरुणाक्ष इति रौद्रः । गुरुषु हरि-मखं प्रास्य खण्डयित्वेति प्रीत-भयानकौ । बिभ्रद् अद्रिम् इति युद्ध-वीरः ॥८५॥

**विश्वनाथः : **एकस्य कृष्णस्य सर्व-रसानां विषयत्वे उदाहरणम् उक्त्वा तस्य सर्व-रसाश्रयत्वेऽपि उदाहरणम् आह—स्वस्मिन्न् इति । न विभुः श्री-कृष्णः गोवर्धनं बिभ्रत् सन् वः युष्मान् पायात् । धूर्ये गोवर्धन-भार-वाहकेऽपि स्वस्मिन् अमानीति निरहङ्कारतया शान्त-भक्तः । विस्रे आम-गन्धे दध्नि थूत्कारीति बीभत्सः । प्रणयिषु सखिषु विवृत-प्रौढिः, गोवर्धन-धारण-जन्य-बलिष्ठताविष्कारो येन स इति वीर-रसः । अरुणाक्ष इति रौद्रः । वर्षापवनाभ्यां गोष्ठे विदूने दुःखिते सति साश्रुर् इति करुणः । इन्द्र-मखं प्रास्य खण्डयित्वा गुरु-वर्गेषु कम्प इत्य् अनेन भयानकः । आसारे धारा-सम्पाते स्फारा दृष्टिर् यस्य सः ॥८५॥

—ओ)०(ओ—

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

रसानां मैत्री-वैर-स्थिति-नाम्नी

लहरी अष्टमी

॥ ४.८ ॥

(४.९)

रसाभासाख्या

नवम-लहरी

॥ ४.९.१-२ ॥
पूर्वम् एवानुशिष्टेन विकला रस-लक्षणा ।
रसा एव रसाभासा रस-ज्ञैर् अनुकीर्तिताः ॥
स्युस् त्रिधोपरसाश् चानुरसाश् चापरसाश् च ते ।
उत्तमा मध्यमाः प्रोक्ताः कनिष्ठाश् चेत्य् अमी क्रमात् ॥
श्री-जीवः : रसा
इति रसत्वेन आपाततः प्रतीयमाना अपीत्य् अर्थः । रसस्य लक्षणा लक्षणेन, विकला विभावादिषु लक्षण-हीनतया हीनाः ॥१॥

मुकुन्ददासः : रसा एव पूर्वम् एव अनुशिष्टेन कथितेन रस-लक्षण-विकलाः स्थाय्य्-आदीनां लक्षणेन हीनाः शान्तादयो रसाभासाः ॥१॥

विश्वनाथः : रसा इति रसत्वेनापाततः प्रतीयमाना अपीत्य् अर्थः । रसस्य लक्षणा लक्षणेन विकला विभावादिषु लक्षण-हीनतया हीनाः । स्थायि-प्रभृतीनां वैरूप्येण । उपरसस्योदाहरणं त्व् अग्रे शृङ्गार-रसे एव वक्ष्यति ॥१॥

—ओ)०(ओ—

॥ ४.९.३-४ ॥

अत्र उपरसाः

प्राप्तैः स्थायि-विभावानुभावाद्यैस् तु विरूपताम् ।
शान्तादयो रसा एव द्वादशोपरसा मताः ॥

तत्र **शान्तोपरसाः—
ब्रह्म-भावात् पर-ब्रह्मण्य् अद्वैताधिक्य-योगतः ।
तथा बीभत्स-भूमादेः शान्तो ह्य् उपरसो भवेत् ॥
श्री-जीवः : **पर-ब्रह्मणि ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य्-आदि प्रतिपादिते श्री-भगवति ब्रह्म-भावान् निर्विशेषता-दृष्टेः । तथा अद्वैताधिक्य-योगतः सर्व-कारणेन तेन सह सर्वस्यात्यन्ताभेद इति मननात् । तथा बीभत्स-भूमादेः निरन्तरं देहादौ जुगुप्सा-भावना भावना। आदि-ग्रहणाच् चिद्-अचिद्-विवेकाच् च इति ज्ञेयम् । इतः परम् उदाहरणान्य् एक-देश-दर्शनाद् एव ज्ञापनीयानि ॥४॥

**मुकुन्ददासः : **पर-ब्रह्मणि भगवति ब्रह्म-भावाद् ब्रह्म-मात्र-दृष्टेः । तथा अद्वैताधिक्य-योगतः सर्व-कारण-कारणेन तेन सह सर्वस्यात्यन्ताभेद-मननात् । अनुभावे वैरूप्यम् इदम् । अग्रिमम् अपि तथा बीभत्स-भूमादेर् निरन्तरं देहादौ जुगुप्सा-भावनात् ॥४॥

**विश्वनाथः : **पर-ब्रह्मणि ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य्-आदि प्रतिपादिते श्री-भगवति ब्रह्म-भावान् निर्विशेषता-दृष्टेः । तथा अद्वैताधिक्य-योगतः सर्व-कारणेन तेन सह सर्वस्यात्यन्ताभेद इति मननात् । तथा बीभत्स-भूमादेः निरन्तरं देहादौ जुगुप्सा-भावात् । आदि-ग्रहणाच् चिद्-अचिद्-विवेकातिरेकाच् चेति ज्ञेयम् । अतः परम् उदाहरणान्य् एक-देश-दर्शनाद् विज्ञापनीयानि ॥४॥

—ओ)०(ओ—

॥ ४.९.५-६ ॥

तत्र आद्यं, यथा—

विज्ञान-सुषमा-धौते समाधौ यद् उदञ्चति ।
सुखं दृष्टे तद् एवाद्य पुराण-पुरुषे त्वयि ॥
द्वितीयं
, यथा—

**यत्र यत्र विषये मम दृष्टिस्
तं तम् एव कलयामि भवन्तम् ।
यन् निरञ्जन परावर-बीजं
त्वां विना किम् अपि नापरम् अस्ति ॥
श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : **तं तम् एव विषयम् । यद् यस्मात् । तृतीयम् ऊह्यम् । एवम् उत्तरापि ॥६॥

**विश्वनाथः : **द्वितीयं भगवता सह सर्व-वस्तुनः अत्यन्त-आभेद-दर्शनं दर्शनं यथेति । तृतीयस्य बीभत्स-भूमादेर् उदाहरणम् अत्र नोक्तम्, किन्तु तत् स्वयम् एवोह्यम् ॥६॥

—ओ)०(ओ—

॥ ४.९.७-८ ॥

अथ प्रीतोपरसः—
कृष्णस्याग्रेऽतिधार्ष्ट्येन तद्-भक्तेष्व् अवहेलया ।
स्वाभीष्ट-देवतान्यत्र परमोत्कर्ष-वीक्षया ।
मर्यादातिक्रमाद्यैश् च प्रीतोपरसता मता ॥

तत्र आद्यं, यथा—

प्रणयन्प्रथयन्11** वपुर् वपुर्-विवशतां सतां कुलैर्
अवधीर्यमाण-नटनोऽप्य् अनर्गलः ।
विकिर प्रभो दृशम् इहेत्य् अकुण्ठ-वाक्
चटुलो बटु-र् व्यवृणुतात्मनो रतिम् ॥
श्री-जीवः : **विवशतां प्रथयन् पृथुं कुर्वन्न् इति । स्वल्पाम् अपि तां पृथुतया दर्शयन्न् इत्य् अर्थः । प्रभो इति श्री-कृष्ण-प्रतिमां प्रति सम्बोधनम् ॥८॥

**मुकुन्ददासः : वपुर् वपुर्-**विवशतां हन्ताद्य्-अनुसन्धान-राहित्यं प्रथयन् स्वल्पाम् अपि पृथुतया दर्शयन्न् इत्य् अर्थः । प्रभो इति श्री-कृष्ण-प्रतिमां प्रति सम्बोधनम् ॥८॥

**विश्वनाथः : **विवशतां प्रथयन्न् इति । पृथुं कुर्वन् स्वल्पाम् अपि विवशतां पृथुतया दर्शयन्न् इत्य् अर्थः । सतां कुलैः समूहैः तिरस्कृतं नटनं यस्य तथा-भूतोऽपि अनर्गलः निर्लज्जः । हे प्रभो इति श्री-कृष्ण-प्रतिमां प्रति सम्बोधनम् । चटुलश् चञ्चलो बटुर् ब्राह्मणअः ॥८॥

—ओ)०(ओ—

॥ ४.९.९-१० ॥

अथ प्रेय-उपरसः—
एकस्मिन्न् एव सख्येन हरि-मित्राद्य्-अवज्ञया ।
युद्ध-भूमादिना चापि प्रेयान् उपरसो भवेत् ॥

तत्र आद्यं, यथा—

सुहृद् इत्य् उदितो भिया चकम्पे
छलितो नर्म-गिरा स्तुतिं चकार ।
स नृपः परिरिप्सता
12** भुजाभ्यां
हरिणा दण्डवद् अग्रतः पपात ॥
श्री-जीवः : **एकस्मिन्न् एव, न तु मिथः ॥९॥ स नृप इति श्री-हरेः पुत्र्याः पुत्रस्य वा श्वशुरः कश्चिद् इत्य् अर्थः ॥१०॥

**मुकुन्ददासः : **छलितो वञ्चित उपहसित इत्य् अर्थः । स नृप इति श्री-हरेः पुत्र्याः पुत्रस्य वा श्वशुरः कश्चिद् इत्य् अर्थः ॥१०॥

**विश्वनाथः : **एकस्मिन्न् एव सख्यं, न तु द्वयोः परस्परं सख्यम् ॥९॥ स नृप इति श्री-कृष्णस्य कन्यायाः पुत्रस्य वा श्वशुरः कश्चिद् इत्य् अर्थः । श्री-कृष्णेन सुहृद् इत्य् उदितः सन् “नाहं तव सुहृद्-योग्यः” इति भयाच् चकम्पे । नृपस्य सखि-भावाभावाद् उपरसो ज्ञेयः ॥१०॥

—ओ)०(ओ—

॥ ४.९.११-१२ ॥

अथ वत्सलोपरसः—
सामर्थ्याधिक्याभिज्ञानाल् लालनाद्य्-अप्रयत्नतः ।
करुणस्यातिरेकादेस् तुर्यश् चोपरसो भवेत् ॥

तत्र आद्यं, यथा—

**मल्लानां यद्-अवधि पर्वतोद्भटानाम्
उन्माथं सपदि तवात्मजाद् अपश्यम् ।
नोद्वेगं तद्-अवधि यामि जामि तस्मिन्
द्राघिष्ठाम् अपि समितिं प्रपद्यमाने ॥
श्री-जीवः : **जामि ! हे भगिनि ! ॥१२॥

**मुकुन्ददासः : **जामि ! हे भगिनि ! समितिं सङ्ग्रामम् ॥१२॥

**विश्वनाथः : **तूर्यो वात्सल्य-रसः ॥११॥ देवकीं प्रति तस्या भगिनी काचिद् वसुदेवस्यापरा स्त्री आह—तव पुत्रात् मल्लानाम् उन्माथं पराभवम् अहम् अपश्यम्, हे जामि भगिनि ! द्राघिष्ठां दीर्घतराम् अपि समितिं युद्धं प्रपद्यमानेऽपि तस्मिन् श्री-कृष्णे उद्वेगं न यामि ॥१२॥

—ओ)०(ओ—

॥ ४.९.१३ ॥

अथ शृङ्गारोपरसः । तत्र **स्थायि-वैरूप्यम्—
द्वयोर् एकतरस्यैव रतिर् या खलु दृश्यते ।
यान् एकत्र तथैकस्य स्थायिनः सा विरूपता ।
विभावस्यैव वैरूप्यं स्थायिन्य् अत्रोपचर्यते ॥
श्री-जीवः : **विभावस्य आलम्बन-रूपस्यैवेति, क्वचित् तद्-देहस्य, क्वचित् तद्-अन्तःकरणस्येत्य् अर्थः । स्वरूपतः स्थायिनो वैरूप्यायोगात् । तत्रैकतर-रत्य्-उदाहरणे यज्ञ-पत्नीषु देहस्यैव वैरूप्यं ज्ञेयम्, ब्राह्मण-देहत्वात् । तच् च तादृशीं रतिं विरूपयति, अनुचितेयम् इति श्री-कृष्ण-रतिम् अपि नोद्गमयति । ततोऽन्य-दोषस्यान्यत्र सङ्क्रमणाद् उपचर्यते इत्य् उक्तम् । एकस्यानेकत्र रतिस् त्व् अन्तःकरणस्यैव वैरूप्यम्, एकत्रानिष्ठितत्वात् । तद् एतच् च नायिका-गतम् एव ज्ञेयम् । उत्तमानुत्तमयोस् तारतम्याभावे नायक-गतं च ॥१३॥

**मुकुन्ददासः : **विभावस्य रत्य्-आश्रयणालम्बनस्य वैरूप्यं मनोऽनौचित्यं मनो-धर्मः रताव् उपचर्यते, तस्यास् तद्-आश्रयत्वात् ॥१३॥

**विश्वनाथः : **द्वयोर् नायिका-नायकयोर् मध्ये एकस्यैव रतिः, न तु परस्परम् । तथैकस्यानेकत्र रतिः विभावस्यालम्बन-रूपस्यैवेति क्वचित् तद्-देहस्य क्वचित् तद्-अन्तःकरणस्येत्य् अर्थः । स्वरूपतः स्थायिनो वैरूप्यायोगात् तत्रैकतर-रत्य्-उदाहरणे यज्ञ-पत्नीषु देहस्यैव वैरूप्यं ज्ञेयम्, ब्राह्मण-देहत्वात् । तच् च तादृशीं रतिं विरूपयति, तथानुचितत्वात् श्री-कृष्णस्यापि रतिं नोद्गमयति । अतो ब्राह्मणी-निष्ठितत्वात्—तद् एतच् च नायिका-गतम् एव ज्ञेयम् । उत्तमानुत्तमयोर् नायिकयोस् तारतम्याभावे तच् च वैरूप्यं नायक-गतम् अपि ज्ञेयम् ॥१३॥

—ओ)०(ओ—

॥ ४.९.१४ ॥


तत्र **एकत्र रतिर्, **यथा ललित-माधवे (९.३७)—

**मन्द-स्मितं प्रकृति-सिद्धम् अपि व्युदन्तं
सङ्गोपितश् च सहजोऽपि दृशोस् तरङ्गः ।
धूमायिते द्विज-वधू-मदनार्ति-वह्नाव्
अह्नाय कापि गतिर् अङ्कुरिता अयासीत् ॥
श्री-जीवः : न व्याख्यातम्।
मुकुन्ददासः : **अह्नाय शीघ्रं कापि शुच्य्-उदासीना ब्राह्मणीनां मया रिरंसां लोक-विगीतां कुर्वतीनां शुचित्व-भावनायोग्यत्वात् ॥१४॥

**विश्वनाथः : **द्विज-वधूनां याज्ञिक-ब्राह्मणीनां कन्दर्पार्ति-रूप-वह्नौ प्रज्वलनार्थं धूमायिते स्वभाव-सिद्धम् अपि स्मितं श्री-कृष्णेन व्युदस्तं दूरीकृतं, अतोऽह्नाय श्री-कृष्णस्य मनसः कापि अनिर्वचनीया शान्त्य्-अवलम्बिनी गतिर् अङ्कुरिता आसीत् ॥१४॥

—ओ)०(ओ—

**॥ ४.९.१५ ॥
अत्यन्ताभाव एवात्र रतेः खलु विवक्षितः ।
एतस्याः प्राग्-अभावे तु शुचिर् नोपरसो भवेत् ॥
श्री-जीवः : **अत्यन्ताभावस् त्रैकालिक्य् असत्ता । अत्रेति अत्र इति तासां ब्राह्मणी-देहम् अधिकृत्य इत्य् अर्थः ॥१५॥

**मुकुन्ददासः : **अत्यन्ताभावस् त्रैकालिक्य् असत्ता । अत्र वैरूप्ये ॥१५॥

**विश्वनाथः : **अत्यन्ताभावस् त्रैकालिक्य् असत्ता । अत्र ब्राह्मणी-देहे यत्र रतिमन्-नायिका-विषयकं ज्ञानं नायकस्य नास्ति, किन्तु दूती-द्वारा ज्ञाने जाते नायकस्यापि रतिः प्रादुर्भविष्यत्य् प्रादुर्भविष्यति, अतो न रतेः काल-त्रयाविद्यमानत्व-रूपात्यन्ताभावः, तस्मात् तत्र नोपरस इत्य् आह—एतस्या इति रतेर् इत्य् अर्थः ॥१५॥

—ओ)०(ओ—

॥ ४.९.१६ ॥
अनेकत्र रतिर्
, यथा—

**गान्धर्वि कुर्वाणम् अवेक्ष्य लीलाम्
अग्रे धरण्यां सखि काम-पालम् ।
आकर्णयन्ती च मुकुन्द-वेणुं
भिन्नाद्य साध्वि स्मरतो द्विधासि ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **हे गान्धर्वि ! धरण्यां लीलां कुर्वाणं काम-पालं बलदेवम् अवेक्ष्य हे साध्वि स्मरणे भिन्ना सती द्विधासि ॥१६॥

—ओ)०(ओ—

**॥ ४.९.१७ ॥
केचित् तु नायकस्यापि सर्वथा तुल्य-रागतः ।
नायिकास्व् अप्य् अनेकासु वदन्त्य् उपरसं शुचिम् ॥
श्री-जीवः : **केचिद् रस-तत्त्व-विदः । अनेकासु प्रेम-तारतम्येन बहु-विधासु ॥१७॥

**मुकुन्ददासः : **केचिद् इति । दक्षिण-नायके तद्-दर्शनान्तं स्व-मतम् इत्य् अभिप्रायः । यद् वा, तत्र सर्वथा त्व् अस्या भावात् तेषां मतम् अपि स्वाभिप्रेतम् ॥१७॥

**विश्वनाथः : **अनेकासु प्रेम-तारतम्येन उत्तम-मध्यम-कनिष्ठासु बहु-विधासु नायकस्य विवेकाभावेन तुल्य-रागात् केचित् रस-तत्त्व-विदः उपरसं वदन्ति ॥१७॥

—ओ)०(ओ—

**॥ ४.९.१८ ॥
विभाव-वैरूप्यम्—
वैदग्ध्यौज्ज्वल्य-विरहो विभावस्य विरूपता ।
लता-पशु-पुलिन्दीषु वृद्धास्व् अपि स वर्तते ॥
श्री-जीवः : **वैदग्ध्यादि-विरह इत्य् उपलक्षणं गुरुत्वादीनाम् । यथा यज्ञ-पत्नीषु वैरूप्यं मतम् । लता-पशुष्व् अत्र तत्-सान्निध्यादि-स्वभावेनानन्द-मात्रम् एव मधुर-रतितयोत्प्रेक्ष्यते । वृद्धासु हास-मात्रार्थं तादृशत्वं च वर्ण्यते । तस्माद् वास्तव-तद्-रत्य्-अभावाद् रसाभासत्वम् । पुलिन्दीषु तु वास्तव-रतित्वेऽपि जाति-वैरूप्याद् यज्ञपत्नीवत् तद्-आभासत्वं ज्ञेयम् । तत्र लता-पशुषु वैदग्ध्यं नास्त्य् एव । वृद्धासु वैदग्ध्य-प्रातिकूल्यं दृश्यते । पुलिन्दीषु च वैदग्ध्यं नातिसम्भाव्यते । तस्मात् तद्-विरह उद्दिष्टः । तथा औज्ज्वल्यं नाम आकृत्या जात्य्-आदिना च योग्यत्वं, तत्-तद्-योग्यता-विरहश् च यथा-योग्यं द्रष्टव्यम् । स वर्तत इति स वैदग्ध्यादि-विरहो वर्तते ॥१८॥

**मुकुन्ददासः : **वैदग्ध्येत्य् वैदग्ध्य- इत्य् अत्र शुचित्व-सुवेशत्वे अपि वक्ष्यमाणे ज्ञेय ज्ञेये ॥१८॥

**विश्वनाथः : **वैदग्ध्यादि-विरह इत्य् उपलक्षणं, गुरुत्वादयोऽपि ग्राह्याः । तेन यज्ञ-पत्न्य्-आदिषु वैरूप्यं सिद्धम् । लता-पशुष्व् अत्र तत्-सान्निध्यादि-स्वभावेनानन्द-मात्रम् एव मधुर-रतितयोत्प्रेक्ष्यते । वृद्धासु वास्तव-रतिमत्त्वेऽपि जाति-वैरूप्यात् हास-मात्रार्थं तादृशत्वं च वर्ण्यते । तस्माद् वास्तव-तद्-रत्य्-अभावाद् रसाभासत्वम् । पुलिन्दीषु तु वास्तव-रतिमत्त्वेऽपि जाति-वैरूप्याद् यज्ञपत्नीवत् तद्-आभासत्वं ज्ञेयम् । तत्र लता-पशुषु वैदग्ध्यं नास्त्य् एव । वृद्धासु वैदग्ध्य-प्रातिकूल्यं दृश्यते । पुलिन्दीषु च वैदग्ध्यं नातिसम्भाव्यते । तस्मात् तद्-विरह उद्दिष्टः । स वैदग्ध्यादि-विरहो वर्तते ॥१८॥

—ओ)०(ओ—

॥ ४.९.१९ ॥
तत्र लता
, यथा—

**सखि मधु किरती निशम्य वंशीं
मधु-मथनेन कटाक्षिताथ मृद्वी ।
मुकुल-पुलकिता लतावलीयं
रतिम् इह पल्लवितां हृदि व्यनक्ति ॥
श्री-जीवः : **सखि मध्व् इत्य् अत्र—

“स-मुकुल-पुलका निशम्य वंशीं नख-लिखिता च हरिं प्रसज्य जाता । तद् इह नव-वयाः प्रतानिनीयं लसति यथा भवती तथा वाराङ्गि ॥” इति वा पाठः ॥१९॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **हे सखि ! श्री-कृष्ण-कटाक्षीता लतावली वंशीं निशम्य मधु किरती सती स्वस्य हृदि पल्लवितां रतिं व्यनक्ति । कथं-भूता ? मुकुलेन पुलकिता ॥१९॥

—ओ)०(ओ—

॥ ४.९.२० ॥
पशुर्
, यथा—

**पश्याद्भुतास् तुङ्ग-मदः कुरङ्गीः
पतङ्ग-कन्या-पुलिनेऽद्य धन्याः ।
याः केशवाङ्गे तद्-अपाङ्ग-पूताः
सानङ्ग-रङ्गां दृशम् अर्पयन्ति ॥
श्री-जीवः : **पश्याद्भुता इत्य् अस्योत्तरार्धे, “याः केशवाङ्गं सखि सङ्गमय्य, स्वैराद् अपाङ्गं भवतीर् जयन्ति” इति वा पाठः ॥२०॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **हे सखि ! यमुना-पुलिने अद्भुताः कुरङ्गीर् हरिणीः पश्य । याः कुरङ्ग्यः श्री-कृष्णापाङ्गेन पूताः सत्यः श्री-कृष्णाङ्गे दृशम् अर्पयन्ति ॥२०॥

—ओ)०(ओ—

॥ ४.९.२१ ॥
पुलिन्दी
, यथा—

**कालिन्दी-पुलिने पश्य पुलिन्दी पुलकाचिता ।
हरेर् दृक्-चापलं वीक्ष्य सहजं या विघूर्णते ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **श्री-कृष्णस्य साहजिक-नेत्र-चापल्यं प्रेक्ष्य विघूर्णते ॥२१॥

—ओ)०(ओ—

॥ ४.९.२२ ॥
वृद्धा
, यथा—

**कज्जलेन कृत-केश-कालिमा
बिल्व-युग्म-रचितोन्नत-स्तनी ।
पश्य गौरि किरती दृग्-अञ्चलं
स्मेरयत्य् अघहरं जरत्य् असौ ॥
श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **हे गौरि ! दृग्-अञ्चलं किरती वृद्धा श्री-कृष्णं स्मेरयति हासयति । एकत्र वृद्धादिष्व् एव रागो न कृष्ण इति ॥२२॥

—ओ)०(ओ—

**॥ ४.९.२३-२४ ॥
स्थायिनोऽत्र विरूपत्वम् एक-रागतयापि चेत् ।
घटेतासौ विभावस्य विरूपत्वेऽप्य् उदाहृतिः ॥
शुचित्वौज्ज्वल्य-वैदिग्ध्यात् सुवेशत्वाच् च कथ्यते ।
शृङ्गारस्य विभावत्वम् अन्यत्राभासता ततः ॥
श्री-जीवः : **वैदग्धेत्य् वैदग्धेत्य्-आदिना दर्शितम् एव विवृण्वन्न् उपसंहरति—शुचित्वेति शुचित्व- इति । शुचित्वादिकम् आलम्बनस्य ज्ञेयम् । विभावत्वं विशिष्टो भावः सत्त्वा स्थायी वा यत्र तद्-रूपत्वम् । “पावित्र्यौज्ज्वल्य-वैदग्ध्य-सुवेषत्वैर् विभावगैः । शृङ्गारः पुष्टिम् आगच्छेद् आभासत्वम् अतोऽन्यथा” इति पाठान्तरम् ॥२४॥

**मुकुन्ददासः : **उक्तं विभाव-वैरूप्यं विवृण्वन्न् उपसंहरति—शुचित्वेति शुचित्व- इति । विभावत्वम् आश्रयत्वं, ततोऽन्यत्र शुचित्वादि-रहिते विभावे शृङ्गारस्याभासतैव ॥२४॥

**विश्वनाथः : **स्थायिनो वैरूप्यम् उदाहृतम् । असौ उदाहृतिः विभावस्य विरूपत्वेऽपि घटेत सम्भवतीत्य् अर्थः । अत एव विभाव-गत-वैरूप्यम् एव स्थायिन्य् उपचरितम् इति प्राक् प्रतिपादितम् ॥२३॥ शुचित्वं शुद्धत्वम् । एतेभ्यः शृङ्गार-रसस्य विभावत्वं कथ्यते, ततः शुचित्वादिभ्योऽन्यत्र शृङ्गार-रसाभासता कथ्यते ॥२४॥13

—ओ)०(ओ—

॥ ४.९.२५-२६ ॥

अथ अनुभाव-वैरूप्यम्—
समयानां व्यतिक्रान्तिर् ग्राम्यत्वं धृष्टतापि च ।
वैरूप्यम् अनुभावादेर् मनीषिभिर् उदीरितम् ॥

तत्र **समय-व्यतिक्रान्तिः—
समयाः खण्डितादीनां प्रिये रोषोदितादयः ।
पुंसः स्मितादयश् चात्र प्रियया ताडनादिषु ।
एतेषाम् अन्यथा-भावः समयानां व्यतिक्रमः ॥
श्री-जीवः : **समयाः आचाराः ॥२५॥

**मुकुन्ददासः : **समयानाम् आचाराणाम् । अनुभावादेर् इत्य् अत्र आदि-शब्दाद् व्यभिचारिणाम् अपि वैरूप्यम् ऊह्यम् ॥२५-२६॥

**विश्वनाथः : **समयानाम् आचाराणां व्यतिक्रमः—खण्डितादि-नायिकानां कान्ते रोष-व्यञ्जक-वचनादय एव रस-शास्त्रोक्ताचाराः, तथापि प्रियया कर्त्र्या पुष्पादिभिस् ताडनादिषु सत्सु पुंसः प्रियस्य स्मितादय एव आचाराः, न तु रोषोदितादयः । एतेषां रोषोदितानाम् अन्यथा-भावः ॥२६॥

—ओ)०(ओ—

॥ ४.९.२७ ॥

तत्र आद्यं, यथा —

**कान्ता-नखाङ्कितोऽप्य् अद्य परिहृत्य हरे ह्रियम् ।
कैलास-वासिनीं दासीं कृपा-दृष्ट्या भजस्व माम् ॥ \

****श्री-जीवः, मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **स्तुत्य्-आदयः—हे हरे ! त्वम् अन्य-कान्ता-नखाङ्कितोऽपि लज्जां परिहृत्य मां स्वीकुरु । अत्रान्य-कान्ता-सम्भोग-चिह्ने दृष्टे नायिकाया रोषोक्तिर् अपेक्षिता । तां विहाय अनया स्तुतिः कृतेति अनुभावस्य वैरूप्यं ज्ञेयम् ॥२७॥

—ओ)०(ओ—

॥ ४.९.२८-२९ ॥

अथ ग्राम्यत्वम् —
बाल-शब्दाद्य्-उपन्यासो विरसोक्ति-प्रपञ्चनम् ।
कटी-कण्डूतिर् इत्य् आद्यं ग्राम्यत्वं कथितं बुधैः ॥

तत्र आद्यं, यथा —

**किं नः फणि-किशोरीणां त्वं पुष्कर-सदां सदा ।
मुरली-ध्वनिना नीवीं गोप-बाल विलुम्पसि ॥
श्री-जीवः : **कैलास-वासिनीनाम् इव पुराणान्तर-कथित-रीत्या फणि-किशोरीणाम् अप्य् उदाहृतिम् उपरस एवावज्ञया वर्णयति—किं न इति । पुष्कर-सदां कालिय-ह्रदस्य जल-वासिनीनाम् । अत्र श्री-कृष्णस्य तदा बाल्येऽपि मुरली-ध्वनिर् विशेषेण कृत-कैशोर-भावस्य बालेति बाल इति सम्बोधनं तासाम् अवैदग्ध्यम् एव ज्ञेयम् ॥२९॥

**मुकुन्ददासः : **पुष्कर-सदां कालिय-ह्रदस्य जल-वासिनीनाम् । अत्र श्री-कृष्णस्य प्रथम-पौगण्डेऽपि आश्रितेषु किशोराभत्वात् बालेति बाल इति सम्बोधनं तासां ग्राम्यत्वेन एव ।

सुकुमारेण पौगण्ड-वयसा सङ्गतोऽप्य् असौ । किशोराभः सदा दास-विशेषाणां प्रभासते ॥ [भ।र।सि। ३.४.३८]

इत्य् उक्तत्वात् आसां सम्भ्रमात्मा रतिः । श्री-कृष्ण-रूपादि-प्रभावान् मधुर-रतितयोदितेति बोध्यम् ॥२९॥

**विश्वनाथः : **कैलास-वासिनीनाम् इव पुराणान्तर-कथित-रीत्या फणि-किशोरीणाम् अप्य् उदाहृतिर् उपरस एव । तम् अवज्ञया वर्णयति—किं न इति । पुष्कर-सदां कालिय-ह्रदस्य जल-वासिनीनां सर्प-कन्यानां नोऽस्माकं नीवीं किं विलुम्पसि ? ॥२९॥

—ओ)०(ओ—

॥ ४.९.३०-३१ ॥

अथ धृष्टता—
प्रकट-प्रार्थनादिः स्यात् सम्भोगादेस् तु धृष्टता ॥

यथा—

कान्त कैलास-कुञ्जोऽयं रम्याहं नव-यौवना ।
त्वं विदग्धोऽसि गोविन्द किं वा वाच्यम् अतः परम् ॥

न कतमेनापि व्याख्यातम् ।

—ओ)०(ओ—

॥ ४.९.३२-३४ ॥
एवम् एव तु गौणानां हासादीनाम् अपि स्वयम् ।
विज्ञेयोपरसत्वस्य मनीषिभिर् उदाहृतिः ॥

अथ अनुरसाः—
भक्तादिभिर् विभावाद्यैः कृष्ण-सम्बन्ध-वर्जितैः ।
रसा हास्यादयः सप्त शान्तश् चानुरसा मताः ॥
तत्र हास्यानुरसः—
ताण्डवं व्यधित हन्त कक्खटी
मर्कटी भ्रुकुटिभिस् तथोद्धुरम् ।
येन वल्लव-कदम्बकं बभौ
हास-डम्बर-करम्बिताननम् ॥
श्री-जीवः : भक्तादिभिर्
इति । भक्ता अत्र पञ्च-विधाः शान्तस् तु रस-शास्त्रान्तर-प्रसिद्धो रुक्षः ॥३३॥ कक्खटी-नाम्नी ॥३४॥

मुकुन्ददासः : भक्तादिभिर् इति । विभावाद्यैर् इत्य् अत्र आद्य-ग्रहणाद् अनुभावादयः शान्तश् चेति भावालम्बनो भक्त्य्-आश्रयः शान्तोऽपि अनुरस एवेति ॥३३॥ कक्खटी-नाम्नी ॥३४॥

विश्वनाथः : भक्तादि-रूपा ये आलम्बन-विभावनादयस् ते यदि **कृष्ण-सम्बन्ध-वर्जिता **भवन्ति, तदा तैर् विभावादिभिर् उत्पन्ना रसा अनुरसा ज्ञेयाः । भक्ता अत्र पञ्च-विधाः, शान्तस् तु रस-शास्त्रान्तर-प्रसिद्धो रुक्ष एव ॥३३॥

कक्खटी-नाम्नी वानरी उद्धुरम् उत्कटं ताण्डवं तथा व्यधित, येन ताण्डवेन हास्यस्य डम्बर औत्कट्यं, तेन करम्बितं युक्तम् आननं यस्य, तथा-भूतं वल्लव-कदम्बकं गोप-समूहं बभौ ॥३४॥

—ओ)०(ओ—

॥ ४.९.३५ ॥

अथ **अद्भुतानुरसः—
भाण्डीर-कक्षे बहुधा वितण्डां
वेदान्त-तन्त्रे शुक-मण्डलस्य ।
आकर्णयन् निर्निमिषाक्षि-पक्ष्मा
रोमाञ्चिताङ्गश् च सुरर्षिर् आसीत् ॥
श्री-जीवः : **भाण्डीर-कक्षे तद्-ऊर्ध्वग-लतासु सौरभे च तृणे कक्षः शुष्क-कानन-वीरुधोः इति विश्वः । भाण्डीर-वृक्ष इति पाठस् तु सुगमः ॥३५॥

**मुकुन्ददासः : **भाण्डीर-कक्षे तद्-ऊर्ध्वग-लतासु । सौरभे च तृणे कक्षः शुष्क-कानन-वीरुधोः इति विश्वः ॥३५॥

विश्वनाथः : भाण्डीर-कक्षे तद्-ऊर्ध्वग-लतासु सौरभे च तृणे कक्षः शुष्क-कानन-वीरुधोः इति विश्वः । तत्र शुक-पक्षि-मण्डलस्य वेदान्त-शास्त्रे वितण्डां वाद-विचारम् आकर्षयन् आकर्ण्अयन् देवर्षिर् नारदः ॥३५॥

—ओ)०(ओ—

**॥ ४.९.३६-३७ ॥
एवम् एवात्र विज्ञेया वीरादेर् अप्य् उदाहृतिः ॥
अष्टाव् अमी तटस्थेषु प्राकट्यं यदि बिभ्रति ।
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ॥
श्री-जीवः : **अष्टाव् इति शान्त एको हास्यादयश् च सप्तेत्य् अष्टौ ॥३७॥

**मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : **अष्टाव् इति शान्त एको हास्यादयश् च सप्तेत्य् अष्टौ रसा यदि कृष्णादिभिर् विभावाद्यैस् तटस्थेषु भक्त्य्-आलम्बनेषु प्राकात्यं प्राकट्यं बिभ्रति, तदाप्य् अनुरसा ज्ञेयाः ॥३७॥

—ओ)०(ओ—

॥ ४.९.३८-३९ ॥

अथ अपरसाः—
कृष्ण-तत्-प्रतिपक्षश् चेद् विषयाश्रयतां गताः ।
हासादीनां तदा तेऽत्र प्राज्ञैर् अपरसा मताः ॥

तत्र **हास्यापरसः—
पलायमानम् उद्वीक्ष्य चपलायत-लोचनम् ।
कृष्णम् आराज् जरासन्धः सोल्लुण्ठम् अहसीन् मुहुः ॥
श्री-जीवः : **पलायेति पलाय- इति । अत्र जरासन्धस्य हासस् तावद् अपरस एव, कस्यचित् तद्वद् आसुर-भावस्यापि तद्-अनुगतो हासश् चेत्, तदा सोऽप्य् अपरसः । कस्यचिद् भक्तस्य तद्-उपहासमय-हासश् चेत्, तदा शुद्ध एव हास्य-रसः ॥३९॥।

मुकुन्ददासः : न व्याख्यातम्।
विश्वनाथः : दशम-स्कन्धे वर्णितं श्री-कृष्णस्य पलायनं वीक्ष्य सोल्लुण्ठं यथा स्यात् तथा अहसत् अहस्
त् जहास । अत्र जरासन्धस्य हासस् तावद् अपरस एव । कस्यचित् तदासुर-स्वभावस्याप्पि तद्-अनुगतो हासश् चेत् तदा सोऽप्य् अपरसः । कस्यचिद् भक्तस्य तद्-उपहास-समये हासश् चेत् तदा शुद्ध एव हास्य-रसः ॥३९॥

—ओ)०(ओ—

॥ ४.९.४०-४१ ॥
एवम् अन्येऽपि विज्ञेयास् तेऽद्भुतापरसादयः ।
उत्तमास् तु रसाभासाः कैश्चिद् रसतयोदिताः ॥

तथा हि—

**भावाः सर्वे तद्-आभासा रसाभासाश् च केचन ।
अमी प्रोक्ता रसाभिज्ञैः सर्वेऽपि रसनाद् रसाः ॥
श्री-जीवः : **एवम् इति । अत्र सर्व-प्रकरणार्थः समस्य विन्यस्यते । विभावाद्या मिथो योग्याः सम्पद्यन्ते रसाय ते । वैरस्यायान्यथा, सा तु योग्यता लोक-विश्रुता ॥४१॥

मुकुन्ददासः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ४.९.४२ ॥
भारताद्याश् चतस्रस् तु रसावस्थान-सूचिकाः ।
वृत्तयो नाट्य-मातृत्वाद् उक्ता नाटक-लक्षणे ॥
श्री-जीवः : **नाट्य-मातृत्वान् नाट्य एव उपयुक्तत्वाद् इत्य् अर्थः । नाटक-लक्षणे नाटक-चन्द्रिकाख्ये स्व-कृते इति ज्ञेयम् ॥४२॥

**मुकुन्ददासः : **नाट्य-मातृत्वान् नाट्योऽवश्यम् एव सापेक्षत्वाद् इत्य् अर्थः । नाटक-लक्षणे नाटक-चन्द्राख्ये स्व-कृते इति ज्ञेयम् ॥४२॥ इत्य् अर्थः ।- रत्न-दीपिका-नाम्न्यां श्री-हरि-भक्ति-रसामृत-सिन्धु-टीकायां चतुर्थो विभागः ॥

**विश्वनाथः : **भारताद्याश् चतस्रो वृत्तयः । नाट्य-मातृत्वान् नाट्य एव उपयुक्ततां, मत्-कृत-नाटक-चन्द्रिकायां नाटक-लक्षणे उक्ताः ॥४२॥

—ओ)०(ओ—

॥ ४.९.४३-४४ ॥
ग्रन्थस्य गौरव-भयाद् अस्या भक्ति-रस-श्रियः ।
समाहृतिः समासेन मया सेयं विनिर्मिता ॥
गोपाल-रूप-शोभां
दधद् अपि रघुनाथ-भाव-विसारी ।
तुष्यतु सनातनोऽस्मिन्न्
उत्तर-भागे रसामृताम्भोधेः ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे

रसाभास-लहरी नवमी

॥ ४.९ ॥

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ

गौण-भक्ति-रस-निरूपणो नाम

चतुर्थो विभागः समाप्तः ।

॥ ४ ॥

**रामाङ्ग-शत्रु-गणिते शाके गोकुलम् अधिष्ठितेनायम् ।
भक्ति-रसामृत-सिन्धुर् विटङ्कितः क्षुद्र-रूपेण ॥
श्री-जीवः : **रामाङ्गेति । शालिवाहनस्य संवत्सर-गणनया विक्रमादित्यस्यापि सा ज्ञेया । अङ्कस्य वामा गतिर् इति प्रसिद्ध्या त्रि-षष्ट्य्-अधिक-चतुर्दश-शती-गणित इत्य् अर्थः । विक्रमादित्यस्य त्व् अष्ट-नवत्य्-अधिक-पञ्चदश-शती-गणिता इति ज्ञेयम् । विटङ्कित उट्टङ्कितः । सुष्ठु रूपेण इत्य् एव पाठितव्यम् । तेषां दीनं-मन्यतामय-पाठेऽपि तद्-असहिष्णुः सरस्वती क्षुद्रं सूक्ष्मं दुर्ज्ञेयं रूपं स्वरूपं यस्येति गतान्तरास्पदं स्फोरयन्ती समाहितवती ।

श्री-कृष्णः सर्व-पूर्णः स चरति विपुले गोकुले व्यक्त-तत्-तन्-

माधुर्यैश्वर्य-वर्यः स च पशुप-सुतानन्त-लक्ष्मीभिर् इष्टः ।

श्री-राधा-वर्ग-मध्ये स च मधुर-गुणः श्री-धुरा-धाम-धारीत्य्

अस्मिन् ग्रन्थे रसाब्धाव् अभिमत-महिमा-धार-सार-प्रचारः ॥

यद् अपि च नातिविशुद्धा,

तद् अपि च सद्भिः कदाप्य् उरीकार्या ।

दुर्गम-सङ्गमनीयं

नौक-वासस्यामृताम्भोधेः ॥

॥ समाप्तेयं टीका, तेषाम् एव प्रीतये भवतु ॥

**मुकुन्ददासः : **रामाङ्गेति । अङ्कस्य वामा गतिर् इति प्रसिद्ध्या त्रिषष्ठ्य्-अधिक-चतुर्दश-शती-गणित इत्य् अर्थः । विटङ्कित उट्टङ्कितः ।

येषां कृपा-लवं प्राप्य रसाब्धिर् दुर्गमो मया ।

स्पृष्टः क्षुद्र-मतेर् मेऽपि ते श्री-रूप-गणा गतिः ॥

अदायि मयका शप्तिर् इयं टीका विलोक्यताम् ।

श्रीमद्-रूप-पदाम्भोज-सर्वस्वैर् एव नापरैः ॥

येषां सदा महा-प्रीतिस् तत्-कर्तरि विशेषतः ।

सम्पश्यन्तस् त एवैतां मुदं यास्यन्ति नेतरे ॥

समाप्ता चेयं टीका तद्-आश्रितानां प्रीतये भवतु ।

श्री-रूप-चरणं नित्यं शरणं मे परं तपः ॥

विचारित-रसामृतार्णव उदीर्ण-बाधा विधुन्वन्

आदि-रस-चातुरी-प्रविलयिन्य् अमोघ-प्रथे ।

स्वरूप-सह-रूप-कृष्ण-कविराज-पादाशये

मुकुन्द-चरणे रतिर् भवतु दास-बिन्दोर् मम ॥

**विश्वनाथः : **रामाङ्गेति । अङ्कस्य वामा गतिर् इति प्रसिद्ध्या त्रिषष्ट्य्-अधिक-चतुर्दश-शती-गणित इत्य् अर्थः । विटङ्कित उट्टङ्कितः । क्षुद्र-रूपेणेति दैन्योक्तिः । तद्-असहिष्णुः सरस्वती क्षुद्रं सूक्ष्मं दुर्ज्ञेयं रूपं स्वरूपं यस्येत्य् अर्थान्तर-बोधक-पदं स्फोरयन्ती समाहितवती । इति भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे रसाभास-लहरी नवमी ।

टीका चेयं समाप्ता हि वैष्णवानां प्रसादतः ।

श्री-विश्वनाथ-रचिता भक्ति-सार-प्रदर्शिनी ॥

—ओ)०(ओ—
॥ समाप्तोऽयं श्री-श्री-भक्ति-रसामृत-सिन्धुः ॥

Nओतेस्

सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ इति ।


  1. दुडिः। ↩︎

  2. Aत्त्रिबुतेद् ब्य् Vइश्वनाथ Kअविराज तो Dहर्मदत्त, _Sआहित्य-दर्पण _३.३। Rएअद्स् _तच्-चमत्कार-सारत्वे सर्वत्राप्य् अद्भुतो रसः _बेत्wएएन् थे त्wओ लिनेस्। ↩︎

  3. धनिकस्य। ↩︎

  4. Sअदुक्तिकर्णामृत २२१ (Kएशटस्य) ↩︎

  5. Cओम्मेन्ततोर् ओन् Dअशरूपक। ↩︎

  6. Tह्रेए स्य्ल्लब्लेस् मिस्सिन्ग् इन् थे लस्त् लिने। Cओप्यिस्त् एर्रोर् ओर् त्य्पो? ↩︎

  7. आस्वाद्यं ↩︎

  8. लभ्यमानासु इति श्री-जीव-धृत-पाठान्तरम्। ↩︎

  9. Sएए Nआट्य-शास्त्र ७.११९फ़्फ़् (अच्चोर्दिन्ग् तो एदितोर्, इन्तेर्पोलतेद्); बुत् क़ुओतेद् इन् Rअसार्णव-सुधाकर अफ़्तेर् २.२५७ अन्द् अत्त्रिबुतेद् तो Bहरत इन् थे फ़ोल्लोwइन्ग् फ़ोर्म्- ↩︎

  10. अभ्यवहार = आहार ↩︎

  11.  ↩︎
  12. परिरिप्सतः इति मुद्रित-पुस्तके। ↩︎

  13. अस्य श्लोकस्य टीका क-ख-पुस्तकयोर् एव प्राप्यते इति हरिदास-दासः । ↩︎