))="" ग्द्२म्द्-ह्त्म्ल्="" अलेर्त्-="" errorस्-="" ०;="" warningस्-="" १;="" alerts:="" ०।<="" p="">
- Sएए तोप् चोम्मेन्त् ब्लोच्क् फ़ोर् देतैल्स् ओन् ERRORस् अन्द् WARNINGस्।
- Iन् थे चोन्वेर्तेद् Mअर्क्दोwन् ओर् HTML, सेअर्छ् फ़ोर् इन्लिने अलेर्त्स् थत् स्तर्त् wइथ् ))> ग्द्२म्द्-ह्त्म्ल् अलेर्त्- फ़ोर् स्पेचिफ़िच् इन्स्तन्चेस् थत् नेएद् चोर्रेच्तिओन्।
Lइन्क्स् तो अलेर्त् मेस्सगेस्-
))="" please="" छेच्क्="" अन्द्="" चोर्रेच्त्="" अलेर्त्="" इस्सुएस्="" देलेते="" थिस्="" मेस्सगे="" थे="" इन्लिने="" अलेर्त्स्।
श्री-रूप-गोस्वामि-प्रणीतः
श्री-श्री-भक्ति-रसामृत-सिन्धुः
श्री-श्री-भक्ति-रसामृत-सिन्धुः
मुख्य-भक्ति-रस-निरूपकः पश्चिम-विभागः
श्री-श्री-गौर-गदाधरौ विजयेताम्
(३.१)
शान्ति-भक्ति-रसाख्या प्रथम-लहरी
॥ ३.१.१ ॥
धृत-मुग्ध-रूप-भारो भागवतार्पित-पृथु-प्रेमा ।
स मयि सनातन-मूर्तिस् तनोतु पुरुषोत्तमस् तुष्टिम् ॥
श्री-जीवः : धृत- इति धृतेति पूर्ववत् श्लिष्टं, मुग्धादि-शब्दानां द्व्य्-अर्थत्वात् । भावोऽत्र सौन्द्नर्य-पक्षे आधिक्यम् । स्व-नाम-पक्षे निजोत्सङ्ग-क्लेश-कृद् वोढव्य इवेत्य् अर्थः ॥१॥
मुकुन्दः :
विचारित-रसामृतार्णव उदीर्ण-बाधा
विधुन्वनादि-रस-चातुरी-प्रविलयिन्य् अमोघ-प्रथे ।
स्वरूप-सह-रूप-पादाब्जान्तर्-अन्तर्विधौ
मुकुन्द-चरणे रतिर् भवतु दास-बिन्दोर् मम ॥
श्री-रूप-चरणं शरणम् । धृतेति धृत- इति । मुग्ध-रूप-भारो मनोहर-सौन्दर्याधिक्यम् । भागवता वैष्णवाः । गुरु-जन-पक्षे मुग्ध-रूपः अज्ञोऽयम् । भार ऐहिक-पारलौकिक-हित-चिन्तनेन भारो वहन-लक्षणः । भारोऽतिशय-भारयोर् इति विश्वः । भागवतं तन्-नाम-पुराणम् ॥१॥
**विश्वनाथः : **सनातनी नित्या तनूर् मूर्तिर् यस्य स श्री-कृष्णः । पक्षे, सनातन-नाम्नी मूर्तिर् यस्य स श्री-सनातन-गोस्वामी । कथम्-भूतः ? धृतो मुग्धस्याज्ञस्य मुग्धस्य अज्ञस्य रूपस्य मम राधा-कृष्ण-प्राप्ति-भारः येन सः । सरस्वती-पक्षेऽर्थे—मुग्धस्य सुन्दरस्य ॥१॥
—ओ)०(ओ—
॥ ३.१.२-३ ॥
रसामृताब्धेर् भागेऽत्र तृतीये पश्चिमाभिधे ।
मुख्यो भक्ति-रसः पञ्च-विधः शान्तादीर् ईर्यते ॥
अतोऽत्र पाञ्चविध्येन लहर्यः पञ्च कीर्तिताः ।
अथामी पञ्च लक्ष्यन्ते रसाः शान्तादयः क्रमात् ॥
श्री-जीवः : अथामी इति । रस-रसवतोर् अभेदोपचाराद् रसाश् च शान्तादय उच्यन्ते ॥३॥अथामीति । रस-रसवतोर् अभेदोपचाराद् रसाश् च शान्तादय उच्यन्ते ॥३॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **रस-रसवतोर् अभेदोपचाराद् रसाश् च शान्तादय उच्यन्ते ॥३॥
—ओ)०(ओ—
॥ ३.१.४ ॥
तत्र शान्त-भक्ति-रसः—
**वक्ष्यमाणैर् विभावाद्यैः शमिनां स्वाद्यतां गतः ।
स्थायी शान्ति-रतिर् धीरैः शान्त-भक्ति-रसः स्मृतः ॥
श्री-जीवः : **स्थायी इति स्थायि-भाव-पर्यायः । भीमो भीमसेन इतिवत् । ततः स्व-लिङ्गं न त्यजति । ततश् च शान्ति-रति-रूपः स्थायि-भावो वक्ष्यमाणैर् विभावाद्यैः सह मिलित्वा शमिनां शमिभिः कर्तृभिर् यत् स्वाद्यं तद्-रूपतां गतश् चेच् छान्त-भक्ति-रसः कविभिः स्मृत इत्य् अर्थः । यद्यपि शुद्धायाः सामान्या स्वच्छा शान्तिर् इति भेद-त्रयम् उक्तं [भ।र।सि। २.५.८], तथापि शान्तेर् एव रसत्व-प्रतिपादनं, सामान्यायाः अस्फुटत्वात्, स्वच्छायाश् चञ्चलत्वाद् रस-सामग्री-परिपोषो न स्याद् इत्य् अभिप्रायेण ॥४॥
मुकुन्दः : शमिनां—विहाय विषयौन्मुख्यम् [भ।र।सि। २.५.१७] इत्य् उक्त-शम-प्रधानानां, आत्मारामास् तापसा इति द्विविधानाम् । शान्ति-रतिर् ममता-गन्ध-वर्जिता, परमात्म-निष्ठा स्थायी रतिः स्थायीति पर्यायो भावः । ततः स्व-लिङ्गं न त्यजति । वक्ष्यमाणैर् विभावाद्यैः करणैः स्वाद्यतां विभावादिजं माधुर्य-विशेषं गता गत्अश् चेत्, शान्त-भक्ति-रसः कविभिः स्मृत इत्य् अर्थः । यद्यपि शुद्धायाः सामान्या स्वच्छा शान्तिर् इति भेद-त्रयम् उक्तम् [भ।र।सि। २.५.८], तथापि शान्तेर् एव सामग्री-परिपोषेण रसत्वम् । सामान्याया अस्फुटत्वात् स्वच्छायाश् चञ्चलत्वात् न सामग्री सामग्री-परिपोषः स्याद् इत्य् अभिप्रायः ॥४॥
**विश्वनाथः : **स्थायी इति स्थायि-भाव-पर्यायः । भीमसेनो भीम इतिवत् । अतः स्व-लिङ्गं न त्यजति । ततश् च शान्ति-रति-रूपः स्थायि-भावो वक्ष्यमाणैर् विभावाद्यैः सह मिलित्वा शमिनां शमिभिः कर्तृभिर् स्वाद्यतां तद्-रूपतां गतश् चेति शान्त-भक्ति-रसो बुधैः कविभिः स्मृत इत्य् अर्थः ॥४॥
—ओ)०(ओ—
॥ ३.१.५ ॥
प्रायः स्व-सुख-जातीयं सुखं स्याद् अत्र योगिनाम् ।
किन्त्व् आत्म-सौख्यम् अघनं घनं त्व् ईश-म् अयं सुखम् ॥
श्री-जीवः : स्व-सुख-जातीयं सर्व-मूल-स्वरूप-निर्विशेष-ब्रह्मानन्द-प्रकारम् । प्राय इति गुणानाम् अपि स्फूर्तेः । सा च आत्मारामाश् च मुनय [१.७.११] इत्य् इत्य्-आदेः । ईश-मयं सच्चिदानन्द-विग्रह-भगवत्-स्फूर्ति-प्रचुरम् ॥५॥
**मुकुन्दः : **स्व-सुख-जातीयं ब्रह्म-सुख-प्रकारम् । ईश-मयम् ईशानुभव-स्वरूपम्॥५॥
**विश्वनाथः : **यद्यपि शुद्धायाः सामान्या स्वच्छा शान्तिर् इति भेद-त्रयम् उक्तं [भ।र।सि। २.५.८], तथापि शान्तेर् एव रसत्व-प्रतिपादनं, सामान्याया अस्फुटत्वात्, स्वच्छायाश् चञ्चलत्वाद् रस-सामग्री-परिपोषो न स्याद् इत्य् अभिप्रायेणाह—योगिनां शान्त-भक्तानां पूर्वं ज्ञानिता-दाशयां समाधौ यद् ब्रह्म-सुखम् अनुभूतम् आसीत्, प्रायस् तत्-सुख-जातीयम् एवेदानीं तेषां रत्य्-अनुभव-काले, ईश-मयं सच्-चिद्-आनन्द-विग्रह-भगवत्-स्फूर्ति-प्रचुरं सुखं भवेत्, न तु दासादि-भक्तानां यद् अनन्त-सुखं तत् सजातीय-सुखं भवेत्, तत्रापि ब्रह्म-सुखापेक्षया ईश्वर-सुखस्याधिक्यम् आह—किन्त्व् इति । आत्म-सुखम् अघनं अनिविडम् ईशमय-सुखापेक्षया न्यूनम् इति यावत् ॥५॥
—ओ)०(ओ—
॥ ३.१.६ ॥
तत्रापीश-स्वरूपानु-भवस्यैवोरु-हेतुता ।
दासादि-वन् -मनो-ज्ञत्व-लीलादेर् न तथा मता ॥
श्री-जीवः : ईश्वरत्वं विशदयति । तत्र तेषु स्व-सुख-जातीयादिष्व् अपि दासादीनाम् इव तेषाम् ईश-स्वरूपानुभवस्य श्री-विग्रह-रूप-तत्-साक्षात्कारस्यैव रसोत्पत्त्य्-अर्थम् ऊरु-हेतुता स्यात् । यद्यप्य् एवं, तथापि मनोज्ञत्व-लीलादेर् गुणस्य, तथा दासाद्य्-अनुभव-प्रकारेण, नोरु-हेतुता मता, किन्तु यथा-कथञ्चिद् एवेत्य् अर्थः । तथोक्तं तृतीये—
एवं तदैव भगवान् अरविन्द-नाभः स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः । तस्मिन् ययौ परमहंस-महा-मुनीनाम् अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् । [भा।पु। ३.१५.३७-३८] इत्य् इत्य्-आदि ।
अत्र स्व-समाधि-भाग्यम् इत्य् अनेन स्व-पुम्भिर् इत्य् अत्र स्व-शब्देनोपहृत-च्छत्र-चामराद्य्-औपयिकत्वेन सह-श्रीर् इत्य् अनेन च तान् अतिक्रम्य दासादीनां मनोज्ञत्व-लीलाद्य्-अनुभवाधिक्यं दर्शितम् ॥६॥
मुकुन्दः : तत्रापि गुण-स्वरूपानुभवात्मके ईश-सुखे सत्य् अपि ईश-स्वरूपस्यैव योगिषु रसोदये, । अर्थान् मनोज्ञत्व-लीलादितः, उरु-हेतुता मता । मनोज्ञत्व-लीलादेस् तु दासादिवत् दासादिषु स्वरूपानन्दाद् यथोरु-हेतुता मता तथा न, किन्तु यथा-कथञ्चिद् एव । मनोज्ञत्वं सौन्दर्य-कौमल्यादि । लीला गोवर्धनोद्धरणादिका । आदि-शब्दाच् चातुर्य-भक्त-वश्यत्वादि-गुणाः ॥६॥
**विश्वनाथः : **तत्रापि रत्य्-अनुभव-दशायाम् ईशमय-सुखेऽपि चतुर्भुज-स्वरूपानुभवस्यैवोरु-हेतुता, न तु दास्यादीनाम् इव मनोज्ञत्व-लीलाद्य्-अनुभवस्य उरु-हेतुता सम्मता । अतो ब्रह्म-सुखापेक्षया अधिकम् अपि दासादीनां सुखापेक्षया न्यूनम् एव शान्त-भक्तस्य सुखम् इति ज्ञेयम्, यथोक्तं तृतीय-स्कन्धे—
एवं तदैव भगवान् अरविन्द-नाभः स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः । तस्मिन् ययौ परमहंस-महा-मुनीनाम् अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् । [भा।पु। ३.१५.३७-३८] इत्य् आदि ।
स्व-समाधि-भाग्यम् इत्य् अनेन पूर्वानुभूत-ब्रह्म-सुखापेक्षया ईश्वर-सुखस्याधिक्यं दर्शितम् । एवं स्व-पुम्भिर् इत्य् अत्र स्व-पदेनोपहृत-च्छत्र-चामराद्य्-औपयिकत्वेन सह-श्रीर् इत्य् अनेन च तान् शान्त-भक्तान् सनकादीन् अतिक्रम्य दासादीनां मनोज्ञत्व-लीलाद्य्-अनुभवाधिक्यं दर्शितम् ॥६॥
—ओ)०(ओ—
॥ ३.१.७-८ ॥
तत्र आलम्बनाः—
चतुर्भुजश् च शान्ताश् च अस्मिन्न् आलम्बना मताः ॥
तत्र चतुर्भुजः—
श्यामाकृतिः स्फुरति चारु-चतुर्भुजोऽयम्
आनन्द-राशिर् अखिलात्म-सिन्धु-तरङ्गः ।
यस्मिन् गते नयनयोः पथि निर्जिहीते
प्रत्यक्-पदात् परमहंस-मुनेर् मनोऽपि ॥
श्री-जीवः : श्यामाकृतिर् इति तापस-शान्तानां वचनम् । उदाहरणं तु ज्ञानि-शान्तस्येति ज्ञेयम् । उत्तरार्धे तस्यैव प्रतिपाद्यत्वात् । अत्र यद्यपि, यन् मर्त्य-लीलौपायिकं [भा।पु। ३.२.१२] इत्य् इत्य्-आदि बलाद् द्विभुजस्यैव तद्-आकर्षण-सामर्थ्याधिक्यम् इति तस्यैवालम्बनत्वे मुख्यत्वं युज्यते उदाहरिष्यते च—प्रधास्यति महत् तपः [भ।र।सि। ३.१.३२९] इत्य् इत्य्-आदिना, तथापि यूयं नृ-लोके बत भूरि-भागाः [भा।पु। ७.१०.४८] इत्य्-आद्य्-उक्त-दिशा गूढतरा न ते सर्वदा तद् अनुभवन्तीति चतुर्भुजत्वस्यैव प्राचुर्येणानुभवात् प्राधान्यं दर्शितं । तथैवोदाहरति—श्यामाकृतिर् इति । अत्र वर्णस्य प्रथमतो निर्देशाच् चार्व् इति सौन्दर्यस्य च कथनात् तत्र तच् चमत्कारातिशयो दर्शितः । अत आलम्बनत्व-निर्देशे, सच्चिदानन्द-सान्द्राङ्ग [भ।र।सि। ३.१.९] इति यद् वक्ष्यते तद् अप्य् एतत्-प्राधान्येनैव ज्ञेयम् । अखिला ये आत्मानो जीवास् तेषां तरङ्ग-रूपाणां सिद्ध-रूप इत्य् आत्म-परमात्मनोर् अंशांशिता-मात्र-तात्पर्यकम् । “अखिलात्म-मयूख-सूर्यः” इति वा पठनीयम् । प्रत्यक्-पदात् निर्विशेष-ब्रह्मानुसन्धानात् निर्जिहीते निर्गतं सत् तद्-गुणेष्व् एवाविष्टं भवतीत्य् अर्थः ॥७-८॥
**मुकुन्दः : **अखिलात्म-सिन्धु-तरङ्ग-सिन्धुः परमात्मात्वात्, अस्मिन् घनीभूत-ब्रह्म-विग्रहे प्रत्यक्-पदात् निर्जिहीते सन् निविड-सुखोदयाद् अत्रैव रमत इत्य् अर्थः । श्यामाकृतिर् इति जात-प्रेम्णस् तापसस्य वचनम् । परमहंस-मुनेः आत्मारामस्य । अयम् अर्थः—आत्माराम-गणाकर्षी इत्य् अयं गुणः शान्ते नोदेति, अतो नयनयोः पथि गते इत्य् अत्र कृपयेति नोक्तम् । किन्तु आत्मारामस्य स्वभावतयैव साक्षात्कार इति तस्य भाणम् । अतो जीवन्मुक्तेर् बहुमानता चेति ॥७-८॥
**विश्वनाथः : **चतुर्भुजो भगवान् विषयालम्बनः । शान्त-भक्ता आश्रयालम्बना ज्ञेयाः ॥७॥
श्यामाकृतिर् इति । अत्र यद्यपि,
तथा परमहंसानां मुनीनाम् अमलात्मनाम् । भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ [भा।पु। १.८.२०]
इति प्रथमे कुन्ती-वाक्यात्, यन् मर्त्य-लीलौपायिकं [भा।पु। ३.२.१२] इत्य् इत्य्-आदि तृतीयाच् च द्विभुजस्यैव तद्-आकर्षण-सामर्थ्याधिक्यम् इति तस्यैवालम्बनत्वे मुख्यत्वं युज्यते, उदाहरिष्यते च—प्रधास्यति महत् तपः [भ।र।सि। ३.१.२९] इत्य् आदिना, तथापि
यूयं नृ-लोके बत भूरि-भागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ [भा।पु। ७.१०.४८]
इत्य्-आद्य्-उक्त-दिशा द्विभुजस्य गूढत्वेनावस्थानोक्तेर् नीते सर्वदा तद् अनुभवतीति चतुर्भुजत्वस्यैव तद्-आकर्षण-प्राचुर्येणानुभवात् प्राधान्यं दर्शितं । तथैवोदाहरति—श्यामाकृतिर् इति । अत्र वर्णस्य प्रथमतो निर्देशाच् चार्व् इति सौन्दर्यस्य च कथनात्, तत्र तत्र चमत्कारातिशयो दर्शितः । अखिला ये आत्मानो जीवास् तेषां तरङ्ग-रूपाणां सिद्ध-रूप इत्य् जीवात्म-परमात्मनोर् अंशांशि-भावे दर्शितः । प्रत्यक्-पदात् निर्विशेष-ब्रह्मानुसन्धानात् निर्जिहीते निर्गतं सत् तद्-गुणेष्वेवाविष्टं भवतीत्य् अर्थः ॥८॥
—ओ)०(ओ—
॥ ३.१.९-१३ ॥
सच्चिदानन्द-सान्द्राङ्ग आत्माराम-शिरोमणिः ।
परमात्मा परं ब्रह्म शमो दान्तः शुचिर् वशी ॥९॥
सदा स्वरूप-सम्प्राप्तो हतारि-गति-दायकः ।
विभुर् इत्य् इत्य्-आदि आदि-गुणवान् अस्मिन्न् आलम्बनो हरिः ॥१०॥
अथ शान्ताः—
शान्ताः स्युः कृष्ण-तत्-प्रेष्ठ-कारुण्येन रतिं गताः ।
आत्मारामास् तदीयाध्व-बद्ध-श्रद्धाश् च तापसाः ॥११॥
अथ आत्मारामाः—
आत्मारामास् तु सनक-सनन्द-मुखा मताः ।
प्राधान्यात् सनकादीनां रूपं भक्तिश् च कथ्यते ॥१२॥
तत्र रूपम्—
ते पञ्च-षाब्द-बालाभाश् चत्वारस् तेजसोज्ज्वलाः ।
गौराङ्गा वात-वसनाः प्रायेण सहचारिणः ॥१३॥
न केनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.१.१४ ॥
तत्र च भक्तिः—
समस्त-गुण-वर्जिते करणतः प्रतीचीनतां
गते किम् अपि वस्तुनि स्वयम् अदीपि तावत् सुखम् ।
न यावद् इयम् अद्भुता नव-तमाल-नील-द्युतेर्
मुकुन्द सुख-चिद्-घना तव बभूव साक्षात्-कृतिः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : समस्तेति समस्त- इति । करणत इन्द्रिय-वर्गात् प्रतीचीनताम् अगोचरताम् ॥१४॥
विश्वनाथः : समस्त-गुण-वर्जिते गुण-कृत-मालिन्य-रहिते शुद्ध इति यावत्, तथा करणत इन्द्रियेभ्यः प्रतीचीनतां गते इन्द्रियैः सह सङ्ग-रहिते इत्य् अर्थः । एवं-भूते अन्तःकरण-रूपे वस्तुनि किम् अपि ब्रह्माख्यं सुखं तावत् स्वयम् अदीपि स्वयम् अस्फुरत् न यावत् तव साक्षात् कृतिर् बभूव इत्य् अर्थः ॥१४॥
—ओ)०(ओ—
॥ ३.१.१५-१६ ॥
अथ तापसाः—
भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त-युक्त-विरक्तताः ।
अनुज्झित-मुमुक्षा ये भजन्ते ते तु तापसाः ॥
यथा—
कदा शैल-द्रोण्यां पृथुल-विटपि-क्रोड-वसतिर्
वसानः कौपीनं रचित-फल-कन्दाशन-रुचिः ।
हृदि ध्यायं ध्यायं मुहुर् इह मुकुन्दाभिधम् अहं
चिदानन्दं ज्योतिः क्षणम् इव विनेष्यामि रजनीः ॥
श्री-जीवः : मुकुन्दाभिधम् इति । स्वभावत एव संसार-हरणान् मुकुन्दाभिधं मुक्ति-दातारं । रजनीर् इत्य् उपलक्षणम् अहोरात्रान् इत्य् अर्थः । “त्रि-रात्रम् अपि ये तत्र वसन्ति” इतिवत् ॥१६॥
मुकुन्दः : हेतुइर् मुक्त्यैव निविघ्नेति हेतोर् एवानुज्झित-मुमुक्षाश् च भजनत इत्य् इत्य्-आदि लक्षणाद् एवं बोध्यं तापसानां भावः साधनेन कृपया तत्-कला-मात्रं, आत्मारामाणां कृपयैव प्रथीयान् सः । शान्ता नित्य-सिद्धा नैवेति । अत एषां साधकाः सिद्धा नित्य-सिद्धा इति भेदो दासवन् न करिष्यते ॥१५-१६॥
विश्वनाथः : मुक्त्या जीवन्मुक्ततया भक्तिर् निर्विघ्ना, अन्यथा काम-क्रोधादि-विघ्न-सत्त्वे सर्वदा प्रवाह-रूपेण भक्तिर् न भवतीति । आत्ता गृहीता युक्त-विरक्तता युक्तं वैराग्यं यैः, तथा अनुज्झिता अत्यक्ता मोक्षेच्छा च यैः, अतस् तेषां मोक्षेच्छा-रूपान्याभिलाष-सत्त्वेऽपि न शुद्ध-भक्तित्व-हानिः । यतो भक्तेर् विघन-स्वरूपस्य कामादेर् निवृत्त्य्-अर्थम् एव संसार-मोचनेच्छा, न तु सायुज्यार्थं । तथा च प्रथम-दशायां तेषां मोक्षेच्छयैव भजनम् इति ज्ञेयम् ॥१५॥
मुकुन्दाभिधम् इति । स्वभावत एव संसार-हरण-लक्षण-मुक्ति-दातारं, । रजनीर् इत्य् उपलक्षणं, अहोरात्रम् इत्य् अर्थः । “त्रि-रात्रम् अपि क्षेत्रे वसति” इतिवत् ॥१६॥
—ओ)०(ओ—
॥ ३.१.१७-१९ ॥
भक्तात्माराम-करुणा प्रपञ्चेनैव तापसाः ।
शान्ताख्य-भाव-चन्द्रस्य हृद्-आकाशे कलां श्रिताः ॥
अथ उद्दीपनाः—
श्रुतिर् महोपनिषदां विविक्त-स्थान-सेवनम् ।
अन्तर्-वृत्ति-विशेषोऽस्य स्फूर्तिस् तत्त्व-विवेचनम् ॥
विद्या-शक्ति-प्रधानत्वं विश्व-रूप-प्रदर्शनम् ।
ज्ञानि-भक्तेन संसर्गो ब्रह्म-सत्रादयस् तथा ।
एष्व् असाधारणाः प्रोक्ता बुधैर् उद्दीपना अमी ॥
श्री-जीवः : तत्त्व-विवेचनादि-त्रयं तापसानां ज्ञेयम् । अन्ये तूभयेषाम् एव । तत्र विद्या-शक्ति-प्रधानत्वादि-द्वयम् ईश्वर-गतं ज्ञेयम् । ब्रह्म-सत्रम् अन्योन्यं सम-विद्यानाम् उपनिषद्-विचारः ॥१८-१९॥
मुकुन्दः : विद्या-शक्तीत्य्-आदि-द्वयम् ईश्वर-गतं ज्ञेयम् । ब्रह्म-सत्रं समान-भावानाम् अन्योन्यम् उपनिषद्-विचारः ॥१८-१९॥
विश्वनाथः : बहिर्-इन्द्रियाणां वृत्ति-निषेधे सत्य् अथेति अन्तः-करण-वृत्ति-विशेषस्य स्फूर्तिर् एवोद्दीपनम् । अविद्या-शक्तेर् बन्धकत्वेन हेयत्वं, विद्या-शक्तेर् मोचकत्वेन प्रधानत्वम् । ब्रह्म-सत्रम् अन्योन्यं सम-विद्यानाम् उपनिषद्-विचारः ॥१९॥
—ओ)०(ओ—
॥ ३.१.२० ॥
अत्र महोपनिषच्-छ्रुतिः, यथा—
अक्लेशाः कमल-भुवः प्रविश्य गोष्ठीं
कुर्वन्तः श्रुति-शिरसां श्रुतिं श्रुत-ज्ञाः ।
उत्तुङ्गं यद्-उपुर-सङ्गमाय रङ्गं
योगीन्द्राः पुलक-भृतो नवाप्य् अवापुः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : नव अपि योगीन्द्रा नव योगेश्वराः कवि-प्रभृतयः उपनिषच्-छिरो-भाग-गोपाल-तापिनी-श्रवणेन श्री-कृष्णस्य सर्वोत्कर्षं ज्ञात्वा तं द्रष्टुं यदु-पुङ्गवपुर्अ-सङ्गमाय द्वारका-गमनार्थं उत्तुङ्गं रङ्गम् अवापुः ॥२०॥
—ओ)०(ओ—
**॥ ३.१.२१-२२ ॥
पादाब्ज-तुलसी-गन्धः शङ्ख-नादो मुर-द्विषः ।
पुण्य-शैलः शुभारण्यं सिद्ध-क्षेत्रं स्वरापगा ॥
विषयादि-क्षयिष्णुत्वं कालस्याखिल-हारिता ।
इत्य् इत्य्-आद्य् उद्दीपना साधारणास् तेषां किलाश्रितैः ॥
श्री-जीवः : **पादाब्ज-तुलसी-गन्ध-शङ्ख-नाद-स्वरापगा उभयेषां, अन्ये तापसानां, आश्रितैर् दास-विशेषैः सह साधारणाः तेषां अपि भवन्तीत्य् अर्थः । तत्र स्वर् इति स्वरस्यापगा गङ्गा इत्य् अर्थः ॥२२॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : स्वरापगा गङ्गा आश्रितैः दास-विशेषैः सह साधारणाः दासानां अपि भवतीत्य् अर्थः ॥२२॥
—ओ)०(ओ—
॥ ३.१.२३ ॥
अथ पादाब्ज-तुलसी-गन्धो, यथा तृतीये (३.१५.४३)—
तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : किं च, तानि भगवद्-अङ्ग-माधुर्याणि तान् ब्रह्मानन्दतोऽपि परम-चमत्कारं प्रापयित्वा स्वेषु मज्जयामासुर् इति किं वक्तव्यम्, तद्-एकाङ्ग-सम्बन्धि-वस्तु-सम्बन्धी मारुतोऽपि तान् स्व-निष्ठां च्यवयित्वा क्षोभयन् विजिग्ये इत्य् आह—तस्येति तस्य इति । पदारविन्दयोर् ये किञ्जल्काः श्वेतारुण-कान्तिमन्-नखरास् नखराः, तैर् मिश्रा या तुलसी**,** तस्या मकरन्द-सम्बन्धी वयुस् वयुः, तेषाम् अन्तर् अन्तः-करण-गतः, तत्र स्वाधिकारं कर्तुम् इव प्रविष्टः ।
नन्व् आज्ञां विना परकीयान्तः-पुर-प्रवेशः सनकादीनाम् इव सहसानुचित इति चेत्, तत्र सन्यायम् आह—स्व-विवरेण नासा-च्छिद्रेण, नासा-च्छिद्रं खलु वायोर् एव विवरं भवति, तत्र प्रवेष्टुं कस्याज्ञां गृह्णीयाद् इति भावः ।
तत्र गत्वा किम् अकरोत् ? तत्राह—चित्त-तन्वोः सङ्क्षोभं चकार । आदौ बलात् चित्तं सानन्द-विवर्ते निपात्य क्षोभयामास, ततस् तनुम् अपि कम्पाश्रु-रोमाञ्च-स्वेदादिभिः । लोके ह्य् अन्योऽपि परकीय-देशे स्वाधिकारं चिकीर्षुः प्रथमं तद्-देशाध्यक्षं निबध्य विलुण्ठ्य क्षोभयति, ततस् तद्-देशम् अपि स्व-सैन्य-सम्मर्दितं करोतीति ।
ननु ब्रह्मानन्द-जुषां तेषां चित्तं ब्रह्मानन्दमयम् एव, कथं भगवद्-आनन्दस् तत् स्वमयं करोतु ? तत्राह—अक्षर-जुषाम् अपीति । एवम् एवास्य माधुर्याधिक्येन बलवत्त्वम् इति भावः ॥२३॥
—ओ)०(ओ—
॥ ३.१.२४-२६ ॥
अथ अनुभावाः—
नासाग्र-न्यस्त-नेत्रत्वम् अवधूत-विचेष्टितम् ।
युग-मात्रेक्षित-गतिर् ज्ञान-मुद्रा-प्रदर्शनम् ॥
हरेर् द्विष्य् अपि न द्वेषो नातिभक्तिः प्रियेष्व् अपि ।
सिद्धतायास् तथा जीवन्-मुक्तेश् च बहु-मानिता ॥
नैरपेक्ष्यं निर्ममता निरहङ्कारिता कथा ।
मौनम् इत्य् आदयः शीताः स्युर् असाधारणाः क्रियाः ॥
श्री-जीवः : युगं हलाद्य्-अङ्गं तच् च चतुर्हस्त-प्रमाणं लक्ष्यते । युग-मात्रे यद्- ईक्षितम् ईक्षणं, तेनैव गतिः । ज्ञान-मुद्रा तर्जन्य्-अङ्गुष्ठयोर् युतिः । सिद्धता अत्यन्त-संसार-ध्वंसः । जीवन्-मुक्तिः शरीर-द्वयानावेशेन स्थितिः । एतद् द्वयं बहु-मानिता तद्-भक्त्य्-आभासवतां तापसानां ज्ञेया ॥२४-२६॥
**मुकुन्दः : **युगं हस्त-चतुः-प्रमाणं लक्ष्यते । तन्-मात्रे ईक्षितम् ईक्षणं यस्या सा । च गतिश् च यन्-मात्रेक्षित-गतिः । युगं हस्त-चतुष्केऽपि रथ-सीराङ्गयोर् युगः इति विश्वः । ज्ञान-मुद्रा तर्जन्य्-अङ्गुष्ठयोर् युतिः । न भक्तिर् अतिभक्तिः, न किन्तु भक्ति-मात्रं । सिद्धता भगवान् लोके पारिषदतयावस्थानम् । जीवन्-मुक्तिः शरीर-द्वयानावेशेन स्थितिः । शीताः सुखमया एव, नैषां क्षेपणा इति भावः ॥२४-२६॥
विश्वनाथः : युगं हलाद्य्-अङ्गं, तच् च चतुर्हस्त-प्रमाणं लक्ष्यते । युग-मात्रस्य ईक्षितम् ईक्षणं तेनैव गतिः । ज्ञान-मुद्रा तर्जन्य्-अङ्गुष्ठयोर् युतिः । सिद्धता अत्यन्त-संसार-ध्वंसः । जीवन्-मुक्तिः शरीर-द्वयानवेशेन स्थितिः ॥२४॥
—ओ)०(ओ—
॥ ३.१.२७ ॥
तत्र नासाग्र-नयनत्वं, यथा—
**नासिकाग्र-दृग् अयं पुरो मुनिः
स्पन्द-बन्धुर-शिरा विराजते ।
चित्त-कन्दर-तटीम् अनाकुलाम्
अस्य नूनम् अवगाहते हरिः ॥
श्री-जीवः, विश्वनाथः : **नासिकाग्र-दृग् इति मुनिर् इति चात्र तस्यात्मारामत्वं द्योत्यते । अत्र तु स्पन्द-बन्धुर-शिरा इति विशेषानुभवः । स च श्री-हरि-गुणात्मक एव सम्भवति । आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य् इत्य्-आदेर् इति भावः ॥२७॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.१.२८-२९ ॥
जृम्भाङ्ग-मोटनं भक्तेर् उपदेशो हरेर् नतिः ।
स्तवादयश् च दासाद्यैः शीताः साधारणाः क्रियाः ॥
तत्र जृम्भा, यथा—
हृदयाम्बरे ध्रुवं ते
भावाम्बर-मणिर् उदेति योगीन्द्र ।
यद् इदं वदनाम्भोजं
जृम्भाम् अवलम्बते भवतः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **जृम्भेति जृम्भा इति । दासाद्यैर् इत्य् आद्य-पदं जृम्भाङ्ग-मोटनयोः । सख्यादाव् अपि सद्-भावाद् गृहीतम् ॥२९॥
—ओ)०(ओ—
॥ ३.१.३०-३१ ॥
अथ सात्त्विकाः—
रोमाञ्च-स्वेद-कम्पाद्याः सात्त्विकाः प्रलयं विना ॥
अथ रोमाञ्चो, यथा—
**पाञ्चजन्य-जनितो ध्वनिर् अन्तः
क्षोभयन् सपदि बिद्धविद्ध-समाधिः ।
योगिनां गिरि-गुहा-निलयानां
पुद्गले पुलक-पालिम् अनैषीत् ॥
श्री-जीवः : **एषां श्री-भगवत्-समाधौ चेष्टाया ज्ञानान्तरस्य च निराकृतौ प्रलय-लक्षणत्वे प्राप्तेऽपि भुवि पतनाद्य्-अभावात् प्रलयं विनेत्य् उक्तम् ॥३०॥ पुद्गले देहे । कायो देहः स्त्रियां मूर्तिः पुद्गलश् च पुमांस् तनुर् इत्य् अमर-दत्तः ॥३१॥
**मुकुन्दः : **पुद्गले वपुषि ॥३१॥
विश्वनाथः : तेषां श्री-भगवत्-समाधौ चेष्टाया ज्ञानान्तरस्य च निराकृतत्वात् प्रणय-लक्षणत्वे प्राप्तेऽपि भूमि-पतनाद्य्-अभावात् प्रलयं विनेत्य् उक्तम् ॥३०॥ पुद्गले देहे ॥३१॥
—ओ)०(ओ—
॥ ३.१.३२ ॥
एषां निरभिमानानां शरीरादिषु योगिनाम् ।
सात्त्विकास् तु ज्वलन्त्य् एव न तु दीप्ता भवन्त्य् अमी ॥
श्री-जीवः, विश्वनाथः : एषां इति । तावद् अपि श्री-भगवत्-सम्बन्ध-प्रब्रह्म्भावाद् एव भवतीति भावः ॥३२॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.१.३३-३४ ॥
अथ सञ्चारिणः—
सञ्चारिनोऽत्र निर्वेदो धृतिर् हर्षो मतिः स्मृतिः ।
विषादोत्सुकतावेग-वितर्काद्याः प्रकीर्तिताः ॥
तत्र निर्वेदो, यथा—
अस्मिन् सुख-घन-मूर्तौ
परमात्मनि वृष्णि-पत्तने स्फुरति ।
आत्मारामतया मे
वृथा गतो बत चिरं कालः ॥
न कतमेनापि व्याख्यातं ।
—ओ)०(ओ—
॥ ३.१.३५ ॥
अथ **स्थायी—
अत्र शान्ति-रतिः स्थायी समा सान्द्रा च सा द्विधा ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **अत्र शान्ति-रतिर् इति मनसि श्री-कृष्णस्यानुभवमयी समा । बहिः साक्षाद्-दर्शन-मयी सान्द्रा इति तयोर् लक्षणे अप्य् उदाहरणाभ्यां ज्ञेये ॥३५॥
—ओ)०(ओ—
॥ ३.१.३६ ॥
तत्र **आद्या, यथा—
समाधौ योगिनस् तस्मिन्न् असम्प्रज्ञात-नामनि ।
लीलया मयि लब्धेऽस्य बभूवोत्कम्पिनी तनुः ॥
श्री-जीवः, विश्वनाथः : **समाधाव् इति श्री-भगवद्-वचनम् ।
मनसो वृत्ति-शून्यस्य ब्रह्माकारतया स्थितिः । या सम्प्रज्ञात-नामासौ समाधिर् अभिधीयते ॥ इति ॥३६॥
**मुकुन्दः : **समाधाव् इति ।
मनसो वृत्ति-शून्यस्य ब्रह्माकारतया स्थितिः । या सम्प्रज्ञात-नामासौ समाधिर् अभिधीयते ॥ इति ॥३६॥
लीलयेति लीलया इति कृपा-द्योतकम् ॥३६॥
—ओ)०(ओ—
॥ ३.१.३७ ॥
सान्द्रा, यथा—
सर्वाविद्या-ध्वंसतो यः समस्ताद्
आविर्भूतो निर्विकल्पे समाधौ ।
जाते साक्षाद् यादवेन्द्रे स विन्दन्
मय्य् आनन्दः सान्द्रतां कोटिधासीत् ॥
श्री-जीवः- सर्वेति सर्व- इति । ज्ञानित्वात् परम-गभीरस्याप्य् अस्य कण्ठोक्ती-कृत-निजानन्दतया चापलाभिर्व्यक्तेः पूर्वस्माद् आधिक्यम् एव व्यक्तम् । जात इति स एव आनन्दः साक्षाज् जाते यादवेन्द्रेऽधिकरणे तदीय-रूप-गुण-लीलानुभवान् मयि कोटिधा सान्द्रतां विन्दन् सान्द्रतया प्रकाशमान आसीद् इत्य् अर्थः ॥३७॥
श्री-मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : सर्व- इति सर्वेति शान्त-भक्त-वचनम् । ज्ञानित्वात् परम-गभीरस्याप्य् अस्य कण्ठोक्ती-कृत-निजानन्दतया चापल्य-व्यक्तेः पूर्वस्माद् आधिक्यम् एव व्यक्तम् । जात इति स एवानन्दः साक्षाज् जाते यादवेन्द्रेऽधिकरणे तदीय-रूप-गुण-लीलानुभवान् मयि कोटिधा सान्द्रतां विन्दन् सान्द्रतया प्रकाशमान आसीद् इत्य् अर्थः ॥३७॥
—ओ)०(ओ—
॥ ३.१.३८-३९ ॥
शान्तो द्विधैष पारोक्ष्य-साक्षात्कार-विभेदतः ॥
अथ परोक्ष्यं, यथा—
प्रयास्यति महत्-तपः सफलतां किम् अष्टाङ्गिका
मुनीश्वर पुरातनी परम-योगचर्याप्य् असौ ।
नराकृति-नवाम्बुद-द्युति-धरं परं ब्रह्म मे
विलोचन-चमत्कृतिं कथय किं नु निर्मास्यति ॥
श्री-जीवः- न व्याख्यातम् ।न व्याख्यातम्।
**श्री-मुकुन्दः- **शान्त इति रसः ॥३८॥ प्रयास्यतीति प्रयास्यति इति प्रथम-दर्शनार्थम् उत्कण्ठेयम् । परं ब्रह्मेति प्रकटिश्वरप्रकटेश्वर-रूप-बोधनेन चतुर्भुज-निष्ठा-परम् । नराकृतित्वाद् द्विभुजत्वं तु स्व-गोपनार्थम् इति भावः ॥३९॥
विश्वनाथः : शान्त-रसोऽपि द्विविधो भवति । असौ योग-चर्यापि किं सफलतां प्रयास्यति ? ॥३९॥
—ओ)०(ओ—
॥ ३.१.४० ॥
यथा वा—
क्षेत्रे कुरोः किम् अपि चण्डकरोपरागे
सान्द्रं महः पथि विलोचनयोर् यदासीत् ।
तन् नीरद-द्युति-जयि स्मरद् उत्सुकं मे
न प्रत्यग्-आत्मनि मनो रमते पुरेव ॥
श्री-जीवः- ”सान्द्रं महः पथीति यद् आसीद् इति द्युति-जयी” इत्य् अत एव पाठास् त्व् इष्टाः ॥४०॥
**श्री-मुकुन्दः- **सान्द्रं यद् अध्वनि विलोचनयोर् अयासीत् । ”तन्-नीरद-द्युति-महः” इति पाठः ॥४०॥
विश्वनाथः : तत्र श्री-कृष्णाख्यं सान्द्रं महः मम मनः स्मरत् सत्, प्रत्यग् आत्मनि ब्रह्मणि पूर्ववन् न रमते, कृष्णस्य परोक्षे जातत्वात् परोक्ष्यम् ॥४०॥
—ओ)०(ओ—
॥ ३.१.४१ ॥
साक्षात्कारो, यथा—
परमात्मतयातिमेदुराद्
बत साक्षात्-करण-प्रमोदतः ।
भगवन्न् अधिकं प्रयोजनं
कतरद् ब्रह्म-विदोऽपि विद्यते ॥
श्री-जीवः- हे भगवन् ! सर्वातीतानन्त-गुण-सम्पन्न ! तव साक्षात्-करणानन्दाद् अधिकं ब्रह्मणः परम-निर्विशेषानन्द-स्वरूपस्य योऽनुभवी, तस्यापि कतरद् विद्यते । ननु, ब्रह्म तावत् सर्वेषां स्वरूपं, स्वरूपस्यैव सर्वतः प्रेष्ठत्वेन तत्-साक्षात्कारस्यैव सर्वतः प्रीत्य्-आस्पदत्वात्, कृतं गुणमय-साक्षात्-करणेन ? तत्राह—परेति पर- इति । आत्मा सर्वेषां सर्वं यद् ब्रह्म ततोऽपि परमात्मतयातिमेदुरात्, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्री-भगवद्-गीतोपनिषद्भ्यः, कृष्णम् एनम् अवेहि त्वम् आत्मानं अखिलात्मनाम् [भा।पु। १०.१४.५५] इति श्री-शुक-वाक्याच् च ॥४१॥
**श्री-मुकुन्दः- **परमात्मतयेति परमात्मतया इति । जात-प्रेम्णस् तापसस्य वचनम् । ब्रह्म-विद आत्मारामस्य ॥४१॥
विश्वनाथः : हे भगवन् ! सर्वातीतानन्त-गुण-सम्पन्न ! तव साक्षात्-करणानन्दाद् अधिकं ब्रह्मानुभविनाम् अपि कतरत् प्रयोजनं विद्यते ? अपि तु न विद्यते इत्य् अर्थः । यथा च ब्रह्मानन्दाद् अपि तव साक्षात्कारानन्दोऽधिक इति भावः । ननु, ब्रह्म तावत् सर्वेषां स्वरूपं, स्वरूपस्यैव सर्वतः प्रीत्य्-आस्पदत्वात् कृतं गुणमय-साक्षात्-कारेण ? तत्राह—परेति । सर्वेषां स्वरूपं यद् ब्रह्म तद् एवात्मा ततोऽपि तव परमातया परमतया अतिमेदुरात्, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्री-भगवद्-गीतोपनिषद्भ्यः, कृष्णम् एनम् अवेहि त्वम् आत्मानं अखिलात्मनाम् [भा।पु। १०.१४.५५] इति श्री-शुक-वाक्याच् च ॥४१॥
—ओ)०(ओ—
॥ ३.१.४२ ॥
यथा वा—
हृष्टः कम्बु-पति-स्वनैर् भुवि लुठच्-चीराञ्चलः सञ्चलन्
मूर्ध्ना रुद्ध-दृग् -अश्रुभिः पुलकितो द्राग् एष लीन-व्रतः ।
अक्ष्णोर् अङ्गनम् अञ्जन-त्विषि पर-ब्रह्मण्य् अवाप्ते मुदा
मुद्राभिः प्रकटीकरोत्य् अवमतिं योगी स्वरूप-स्थितौ ॥
श्री-जीवः- अश्रुभिः रुद्ध-दृग् इति योज्यम् । लीन्फ़ं नष्ट्फ़ं व्रत्फ़ं तत्-तन्-नियमो य्w यस्य ॥४२॥
श्री-मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अश्रुभिः रुद्ध-दृग् इति योज्यम् । लीनं नष्टं व्रतं तत्-तन्-नियमो यस्य । BRब्रह्म-SVअस्वरूप-Tऔ स्थितौ अवज्ञां प्रकट्Y प्रकटयति ॥४२॥
—ओ)०(ओ—
॥ ३.१.४३ ॥
भवेत् कदाचित् कुत्रापि नन्द-सूनोः कृपा-भरः ।
प्रथमं ज्ञान-निष्ठोऽपि सोऽत्रैव रतिम् उद्वहेत् ॥४३॥
श्री-जीवः- तत्र श्रीमन्-नन्द-सूनु-रूपस्य तस्य कृपातिशये तु परमोत्कर्षम् आह—भवेद् इति । अत्र श्री-नन्द-सूनाव् एव रतिम् उच्चैर् वहेत् । तद्-योग्यां शान्तिम् अपि रतिम् अतिक्रम्य रति-विशेसर्वं विशेषं वहतीत्य् अर्थः ॥४३॥
मुकुन्दः- अत्रैव नन्द-सूनाव् एव रतिम् उद्वहेत्, शान्ति-रतिम् अतिक्रम्य दास-विशेसर्वोचितां विशेषोचितां तां वहेद् इत्य् अर्थः ॥४३॥
विश्वनाथः- अत्र श्री-नन्द-नन्दन-स्वरूपस्य तत्-कृपातिशये परमोत्कर्षम् आह—भवेद् इति । अत्रैव नन्द-सूनाव् एव उद्वहेत्, तद्-योग्यां शान्ति-रतिम् अतिक्रम्य शृङ्गुण्गार-रति-विशेसर्वं विशेषं वहतीत्य् अर्थः ॥४३॥
—ओ)०(ओ—
॥ ३.१.४४ ॥
यथा बिल्वमङ्गलोक्तिः—
अद्वैत-वीथी-पथिकैर् उपास्याः
स्वानन्द-सिंहासन-लब्ध-दीक्षाः ।
शठेन केनापि वयं हठेन
दासी-कृता गोप-वधू-विटेन ॥
श्री-जीवः- अद्वैतेति अद्वैत- इति शाब्दं ज्ञानम् उक्तम् । स्वानन्देति स्वानन्द- इति त्व् अनुभव-पर्यन्तम् । स्वानन्द एव सिंहासनं**,** तत्र लब्धा दीक्षा पूजा यैर् इत्य् अर्थः । दीक्ष-मौण्ड्येत्य् मौण्ड्येत्य्-आदि-धातु-गनआनांआत् । व्याज-स्तुतिर् इयम् ॥४४॥
मुकुन्दः- स्वानन्द एव सिंहासनं**,** तत्र लब्धा दीक्षा पूजा यैर् इत्य् अर्थः । दीक्ष-मौण्ड्येत्य् आदि-धातु-गननात् गआनांआत् । हठेनेति हठेन इति कृपा-भर-द्योतक-व्याज-स्तुतिर् इयम् ॥४४॥
विश्वनाथः- अद्वैत- इति अद्वैतेति शास्त्रोत्थ-ज्ञानम् उक्तम् । स्वानन्द- इएति साक्षाद्-अनुभव-पर्यन्तम् । स्वानन्द एव सिंहासनं**,** तत्र लब्धा दीक्षा पूजा यैर् इत्य् अर्थः । गोप-वधू-विटेन गोप-वधू-कामुकेन व्याज-स्तुतिर् इयम् ॥४४॥
—ओ)०(ओ—
॥ ३.१.४५ ॥
तत्-कारुण्य-श्लथीभूत-ज्ञान-संस्कार-सन्ततिः ।
एष भक्ति-रसानन्द-निपुणः स्याद् यथा शुकः ॥
श्री-जीवः- अत्रार्षम् अपि प्रमाणम् आह—तद् इति । श्री-शुकेन हि सर्वोत्तम-प्रेमतया ब्रह्म-वासि-मात्रं निरूप्य तत्रापि कुत्रचित् परमोत्कर्षो दर्शितः ॥४५॥
**श्री-मुकुन्दः- **सर्व-भक्ति-रस-तत्त्व-ज्ञानं चास्य स्याद् इत्य् आह—तत्-कारुण्येति कारुण्य- इति ॥४५॥
विश्वनाथः : अत्र श्री-शुक एव प्रमाणम् इत्य् आह—तद् इति । श्री-शुकेन हि सर्वोत्तम-प्रेमतया ब्रह्म-वासि-मात्रं निरूप्य तत्रापि शृङ्गार-रसे परमोत्कर्षो दर्शितः ॥४५॥
—ओ)०(ओ—
॥ ३.१.४६-४७ ॥
शमस्य निर्विकारत्वान् नाट्यज्ञैर् नैष मन्यते ।
शान्त्य्-आख्याया रतेर् अत्र स्वीकारान् न विरुध्यते ॥
शमो मन्-निष्ठता बुद्धेर्1** इति श्री-भगवद्-वचः ।
तन्-निष्ठा दुर्घटा बुद्धेर् एतां शान्त-रतिं विना ॥
श्री-जीवः-** अत्रेति केवलः शान्त-रसस् तैर् विरुध्यतां नाम, अत्रास्मन्-मते तु शान्त-रसे तैर् विरोद्धुं न शक्यत इत्य् अर्थः । तत्र हेतुम् आह—शान्त्य्-आ- एति इति श्री-भगवद्-रति-मात्रस्य रसत्वं पूर्वम् एव हि स्थापितम् इति भावः । तत्र हि कार्य-द्वारा रति-रूपं कारणं लक्ष्यत इत्य् आह—तन्-निष्ठेति निष्ठा इति । तथापि सामान्यायाम् एव रतौ लब्धायां विशेषेऽत्र प्रवृत्तिः प्रसिद्ध-शम-प्राचुर्यात् पर्यवसीयते ॥४६-४७॥
श्री-मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अत्रेति केवलः शान्त-रसस् तैर् विरुध्यतां नाम, अत्रास्मत्-सम्मते तु शान्त-रसे तैर् विरोद्धुं न शक्यत इत्य् अर्थः । तत्र हेतुम् आह—शान्त्य्-आख्याया इति । श्री-भगवद्-रति-मात्रस्य रसत्वं पूर्वम् एव हि स्थापितम् इति भावः । तत्र हि कार्य-द्वारा रति-रूपं कारणं लक्ष्यत इत्य् आह—** तन्-निष्ठा** इति तन्-निष्ठेति ॥४६-४७॥
—ओ)०(ओ—
॥ ३.१.४८ ॥
केवल-शान्तोऽपि, श्री-विष्णु-धर्मोत्तरे यथा—
**नास्ति यत्र सुखं दुःखं न द्वेषो न च मत्सरः ।
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥
श्री-जीवः, विश्वनाथः : **अथ केवल-शान्ताख्ये रसे विवदमानानां मत-निरासेन कैमुत्याद् आत्म-मतं स्थापयति—केवल-शान्तोऽपि श्री- श्री-विष्णु-धर्मोत्तरे यथेति यथा इति ॥४८॥
**श्री-मुकुन्दः- **केवल-शान्तोऽपि रस-स्थायिनि तु सन्देहस्य गन्धम् अपि निरस्यति ॥४८॥
—ओ)०(ओ—
**॥ ३.१.४९-५१ ॥
सर्वथैवम् अहङ्कार-रहितत्वं व्रजन्ति चेत् ।
अत्रान्तर्भावम् अर्हन्ति धर्म-वीरादयस् तदा ॥
धृति-स्थायिनम् एके तु निर्वेद-स्थायिनं परे ।
शान्तम् एव रसं पूर्वे प्राहुर् एकम् अनेकधा ॥
निर्वेदो विषये स्थायि तत्त्व-ज्ञानोद्भवः स चेत् ।
इष्टानिष्ट-वियोगाप्ति-कृतस् तु व्यभिचार्य् असौ ॥
श्री-जीवः, श्री-मुकुन्दः- **धर्म-वीरादयः धर्म-दया-दान-वीराः ॥४९॥
विश्वनाथः : धर्म-वीरादयः धर्म-दया-दान-वीराः । ज्ञानि-भक्तानाम् इव कर्तृत्व-भोक्तृत्वाहङ्कार-रहिताश् चेत्**,** तदा शान्त-भक्त्य्-अन्तर्भावम् अर्हति ॥४९॥
केचिद् एकम् एव शान्त-रसं स्थायि-भेदेनानेकम् आहुस् तन्-मतम् आह—धृतीति धृति- इति । ननु निर्वेदस्य व्यभिचारि-मध्ये एव सर्व-मते गणनात् कथं तस्य स्थायित्वम् ? इत्य् अत आह—निर्वेद इति । मत-विषये निर्वेदस् तत्त्व-ज्ञानोद्भवश् चेत्**,** तदा स्थायी भवति ।, स एव इष्ट-वियोगानिष्ट-प्राप्तिश् चेत्, तदा व्यभिचारी भवतीति भेदो ज्ञेयः ॥५०-५१॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
शान्त-भक्ति-रस-लहरी प्रथमा ।
(३.२)
प्रीति-भक्ति-रसाख्या द्वितीय-लहरी
॥ ३.२.१ ॥
॥ ३.२.१-५ ॥
श्रीधर-स्वामिभिः स्पष्टम् अयम् एव रसोत्तमः ।2
रङ्ग-प्रसङ्गे स प्रेमकाख्यः प्रकीर्तितः ॥१॥
रति-स्थायितया नाम-कौमुदी-कृद्भिर् अप्य् असौ ।
शान्तत्वेनायम् एवाद्धा सुदेवाद्यैश् च वर्णितः ॥२॥
आत्मोचितैर् विभावाद्यैः प्रीतिर् आस्वादनीयताम् ।
नीता चेतसि भक्तानां प्रीति-भक्ति-रसो मतः ॥३॥
अनुग्राह्यस्य दासत्वाल् लाल्यत्वाद् अप्य् अयं द्विधा ।
भिद्यते सम्भ्रम-प्रीतो गौरव-प्रीत इत्य् अपि ॥४॥
दासाभिमानिनां कृष्णे स्यात् प्रीतिः सम्भ्रमोत्तरा ।
पूर्ववत् पुष्यमाणोऽयं सम्भ्रम-प्रीत उच्यते ॥५॥
श्री-जीवः, मुकुन्द-दासः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **असौ प्रीति-रतिर्-नाम-कौमुदी-कृद्भिः स्थायितया वर्णितः ॥२॥ अनुग्राह्यस्य भक्तस्य दासत्वं लाल्यत्वम् अपि वर्तते अतोऽयं द्विधा भिद्यते । भेदम् आह—सासस्य सम्भ्रम-प्रीतिः । पुत्रादि-रूप-लालस्य गौरव-प्रीतिः ॥४॥ असौ प्रीती रतिर् नाम-कौमुदी-कृद्भिः स्थायितया वर्णितः ॥२॥ अनुग्राह्यस्य भक्तस्य दासत्वं लाल्यत्वम् अपि वर्तेते, अतोऽयं द्विधा भिद्यते । भेदम् आह—दासस्य सम्भ्रम-प्रीतिः । पुत्रादि-रूप-लाल्यस्य गौरव-प्रीतिः ॥४॥
—ओ)०(ओ—
॥ ३.२.६-९ ॥
तत्र आलम्बनाः—
हरिश् च तस्य दासाश् च ज्ञेया आलम्बना इह ॥६॥
तत्र हरिः—
आलम्बनोऽस्मिन् द्विभुजः कृष्णो गोकुल-वासिषु ।
अन्यत्र द्वि-भुजः क्वापि कुत्राप्य् एषु चतुर्-भुजः ॥७॥
तत्र व्रजे—
नवाम्बुधर-बन्धुरः कर-युगेन वक्त्राम्बुजे
निधाय मुरलीं स्फुरत्-पुरट-निन्दि पट्टाम्बरः ।
शिखण्ड-कृत-शेखरः शिखरिणस् तटे पर्यटन-
प्रभुर् दिवि दिवौकसो भुवि धिनोति नः किङ्करान् ॥८॥
अन्यत्र द्वि-भुजो, यथा—
प्रभुर् अयम् अनिशं पिशङ्ग-वासाः
कर-युग-भाग्- अरि-कम्बुर् अम्बुदाभः ।
नव-घन इव चञ्चलापिनद्धो
रवि-शशि-मण्डल-मण्डितश् चकास्ति ॥९॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : बन्धुरः सुन्दरः ॥८॥ तत्राद्भुतोपमानम् आह—विद्युद्-युक्तः कश्चन मेघो यदि रवि-शशि-मण्डलाभ्यां मण्डितो भवति, तदासौ उपमानम् आप्नोति, चक्र-स्थानीयः सूर्यः, शङ्ख-स्थानीयः शशी ज्ञेयः ॥९॥
—ओ)०(ओ—
॥ ३.२.१० ॥
तत्र चतुर्भुजो, यथा ललित-माधवे (५.१५)—
चञ्चत्-कौस्तुभ-कौमुदी-समुदयः कौमोदकी-चक्रयोः
सख्येनोज्ज्वलितैस् तथा जलजयोर् आढ्यश् चतुर्भिर् भुजैः ।
दिव्यालङ्करणेन सङ्कट-तनुः सङ्गी विहङ्गेशितुर्
मां व्यस्मारयद् एष कंस-विजयी वैकुण्ठ-गोष्ठी-श्रियम् ॥
श्री-जीवः : चञ्चद् इति श्री-नारददारुक-वाक्यम् । एष इति । वैकुण्ठ-नाथाद् अपि चमत्कार-करत्वेन मयानुभूयमान इत्य् अर्थः । व्यस्मारयद् इत्य् अनेन च प्रस्तुतानां सामग्रीणां वैकुण्ठ-सामग्रीभ्यो विलक्षणत्वं ध्वनितम् ॥१०॥
मुकुन्दः : चञ्चद् इति । एष इति । वैकुण्ठ-नाथाद् अपि चमत्कार-करत्वेन मयानुभूयमान इत्य् अर्थः । व्यस्मारयद् इत्य् अनेन च प्रस्तुतानां सामग्रीणां वैकुण्ठ-सामग्रीभ्यो विलक्षणत्वं ध्वनितम् । श्री-नारदस्य सख्याधिक्योऽपि क्रथ-कौशिक्याभ्याम् अनुगम्यमानस्य श्री-कृष्णस्य दर्शने प्रीतिर् आस्वादात् प्रीत-रसे उदाहरणम् ॥१०॥
विश्वनाथः : चञ्चद् इति नारद-वाक्यम् । चञ्चलो यः कौस्तुभः, तस्य या कौमुदी ज्योत्स्ना, तस्या सम्यग्-उदयो यत्र, तथा-भूतः कंस-विजयी श्री-कृष्णः गदा-चक्रयोः सख्येन, तात्म तथा जलजयोः पद्म-शङ्खयोः सख्येनोज्ज्वलितैः सख्येन उज्ज्वलितैः चतुर्भुजैः आढ्यः सङ्कट-तनुर् व्याप्त-तनुः विहङ्गेशितुर् गरुडस्य सङ्गी एष इति वैकुण्ठ-नाथाद् अपि चमत्कारत्वेन मया अनुभूयमान इत्य् अर्थः । व्यस्मारयद् इत्य् अनेन च प्रस्तुतानां सामग्रीणां वैकुण्ठ-सामग्रीभ्यो विलक्षणत्वं ध्वनितम् ॥१०॥
—ओ)०(ओ—
॥ ३.२.११ ॥
ब्रह्माण्ड-कोटि-धामैक-रोम-कूपः कृपाम्बुधिः ।
अविचिन्त्य-महा-शक्तिः सर्व-सिद्धि-निषेवितः ॥११॥
श्री-जीवः : ब्रह्माण्ड-कोटि-धामैक-रोम-कूप इति । न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य् इत्य्-आदि आदि-प्रमाणेन मध्यम-परिमाणत्वेऽपि अचिन्त्य-शक्त्या परम-विभु-विग्रह इत्य् अर्थः । तत्-सम्बन्धस् तु तत्र नास्तीति स्वयम् एव गीतम् । —मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना [गीता ९.४] इत्य् इत्य्-आदिना व्यञ्जितम् एव, । स च पुरुषेणैव तत्-सम्बन्धाभ्यासो, न तु स्वयं भगवतेति । यथोक्तं श्री-दशमे—यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः [भा।पु। १०.८५.३१] इति । टीका च—यस्यांशः पुरुषः, तस्यांशो माया इत्य्- आदिका । तद् एवम् एवम्-आदिक-गुणवत्ता तस्य न सर्वत्र सर्वं स्फुरति, किन्तु यथा-विभागम् एव । यथा प्रथमोऽयं गुणः अधिकारि-विशेषाश्रितः तापसेष्व् एवेति ॥११॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **ब्रह्माण्डेति ब्रह्माण्ड- इति । ब्रह्माण्ड-कोटेर् अपि आश्रय एक-रोम-कूपो यस्य ।, न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि-दशमोक्तेर् मध्यम-परिमाणत्वेऽप्य् अचिन्त्य-शक्त्या परम-विभु-विग्रह इत्य् अर्थः । ब्रह्माण्डैः सह भगवत्-सम्बन्धाभावेऽचिन्त्य-शक्त्या तेषां आश्रयः । यद् उक्तं श्री-भगवद्-गीतायां—
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [गीता ९.४-५] इति ॥११॥
—ओ)०(ओ—
॥ ३.२.१२-१५ ॥
अवतारावली-बीजं सदात्माराम-हृद्-गुणः ।
ईश्वरः परमाराध्यः सर्वज्ञः सुदृढ-व्रतः ॥१२॥
समृद्धिमान् क्षमा-शीलः शरणागत-पालकः ।
दक्षिणः सत्य-वचनो दक्षः सर्व-शुभङ्करः ॥१३॥
प्रतापी धार्मिकः शास्त्र-चक्षुर् भक्त-सुहृत्तमः ।
वदान्यस् तेजसा युक्तः कृतज्ञः कीर्ति-संश्रयः ॥१४॥
वरीयान् बलवान् प्रेम-वश्य इत्य् इत्य्-आदिभिर् गुणैः ।
युतश् चतुर्-विधेष्व् एष दासेष्व् आलम्बनो हरिः ॥१५॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१६ ॥
अथ दासाः—
दासास् तु प्रश्रितास् तस्य निदेश-वश-वर्तिणः ।
विश्वस्ताः प्रभुता-ज्ञान-विनम्रित-धियश् च ते ॥१६॥
श्री-जीवः : प्रश्रिता नत-दृष्टित्वादिना स्थिताः । निदेशे स्व-स्व-योग्य-कर्मणि या श्री-कृष्णस्याज्ञा, तन्त्र तस्य्अ यो वश इच्छा, स्वत एव रुचिस् रुचिः, तत्र वर्तितुं शीघ्रं येषां ते, । तथा हि, वशः कान्ताव् इत्य् अमरः । तद् एतल् एतल्-लक्षणानुसाराद् रुचिरूढि-वृत्त्या दासत्वेन आशब्द्यमानाः श्री-कृष्ण-गौरव-विषया विप्रादयोऽपि योग-वृत्त्या गणयिष्यन्ते, दास्यते दीयते कृपया तत्-तद्-वाञ्छितं सम्पाद्यते येभ्य इति निरुक्तेः । दासृ दाने । यथा चात्र प्रमाणीकृतं भाषा-वृत्तौ—गुणिनां ब्राह्मणओ दासः इति । किं त्व् एते नित्य-सिद्धाः साधन-सिद्धाश् चेत्य् उभये लीला-परिकरास् तादृश-भाव-वाञ्छकाश् चेति भेदेन तत्र तत्र ज्ञेयाः ॥१६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : प्रश्रिता नत-दृष्टत्वादिना स्थिताः । निदेशे स्व-स्व-योग्य-कर्मणि श्री-कृष्णस्याज्ञा-मात्रे यो वश इच्छा स्वत एव क्वचित् तत्र वर्तितुं शीलं येषां ते तथा ॥१६॥
—ओ)०(ओ—
॥ ३.२.१७ ॥
यथा—
प्रभुर् अयम् अखिलैर् गुणैर् गरीयान्
इह तुलनाम् अपरः प्रयाति नास्य ।
इति परिणत-निर्णयेन नम्रान्
हित-चरितान् हरि-सेवकान् भजध्वम् ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१८-२० ॥
चतुर्धामी अधिकृताश्रित-पारिषदानुरागाः ॥
तत्र अधिकृताः—
ब्रह्म-शङ्कर-शक्राद्याः प्रोक्ता अधिकृता बुधैः ।
रूपं प्रसिद्धम् एवैषां तेन भक्तिर् उदीर्यते ॥
यथा—
का पर्येत्य् अम्बिकेयं हरिम् अवकलयन् कम्पते कः शिरोऽसौ
तं कः स्तौत्य् एष धाता प्रणमति विलुठन् कः क्षितौ वासवोऽयम् ।
कः स्तब्धो हस्यतेऽद्धा दनुजभिद्-अनुजैः पूर्वजोऽयं ममेत्थं
कालिन्दी जाम्बवत्यां त्रिदश-परिचयं जाल-रन्ध्राद् व्यतानीत् ॥
श्री-जीवः : अधिकृता इति श्री-कृष्णेनाधिकृत्य स्थापिता इत्य् अर्थः । उदाहरणं च च—केतिका इति, । पर्येति प्रदक्षिणीकरोति । स्तब्धः स्तम्भाख्य-सात्त्विकेन युक्त इत्य् अर्थः । पूर्वज इति तदानीं मन्वन्तर-स्थायि-मानुष्य-शरीर-प्रविष्टस्य व्योम्नोऽपि तद्-रूपत्वेनैव व्यवहारात् ॥१८-२०॥
मुकुन्दः : चतुर्धामी इत्य् आदौ व्रजानुगानां पार्षदेभ्य आधिक्यायानुगानां पश्चाद् उक्तिः ॥१८॥
विश्वनाथः : का पर्येति प्रदक्षिणीकरोति । धाता ब्रह्मा । वासव इन्द्रं । स्तब्धः स्तम्भाख्य-सात्त्विकेन युक्तः । स्तब्धतां दृष्ट्वा श्री-कृष्णस्यानुजैः कृष्णस्य अनुजैः कः परिहस्यते ? अयं मम पूर्वजो यमः । यद्यपि तदानीं माण्डव्य-शापात् यमस्य विदुरे प्रवेशः, तथाप्य् अर्यय् एव तद्-रूपत्वेन व्यवहारान् नासङ्गतिः ॥२०॥
—ओ)०(ओ—
॥ ३.२.२१-२२ ॥
अथ आश्रिताः—
ते शरण्या ज्ञानि-चराः सेवा-निष्ठास् त्रिधाश्रिताः ॥
यथा—
केचिद् भीताः शरणम् अभितः संश्रयन्ते भवन्तं
विज्ञातार्थास् त्वद्-अनुभवतः प्रास्य केचिन् मुमुक्षाम् ।
श्रावं श्रावं तव नव-नवां माधुरीं साधु-वृन्दाद्
वृन्दारण्योत्सव किल वयं देव सेवेमहि त्वाम् ॥
श्री-जीवः : केचिद् भीता इत्य् इत्य्-आदौ भूत एव निष्ठा, न तु वर्तमाने । सम्प्रति ह्य् एषां अन्याभिलाषिता-शून्यत्वम् एव वक्तव्यं, शुद्ध-भक्तेषु गणनात् । मुमुक्षाम् इत्य् उपलक्षणत्वेन शान्ति-रति-हेतुएर् ज्ञान-त्यागेऽपि लभ्यते, अत एव ज्ञानि-चरा इति भूत-पूर्वत्वं ज्ञानस्यापि दर्शितम् । अत्र च मध्यमान्तिमाधिकारिणाम् अन्योन्य-भेद ऐश्वर्य-माधुर्यानुभवाभ्यां ज्ञेयः । भीता इति । त्वद्-भक्ति-व्यतिरिक्तात् सर्वस्माद् अपि भय-युक्ता इत्य् अर्थः । त्वद्-अनुभवतो विज्ञातार्था इति । ब्रह्मानुभव-त्वद्-अनुभवयोर् ज्ञात-तारतम्या इत्य् अर्थः । तद् इदं सहज-तद्-दास्य-रतेः साधक-भक्तस्य वचनम् आत्मनः सार्वदिकानन्य-गतित्व-निवेदनाय ॥२२॥
मुकुन्दः : केचिद् इति । माथुर-मालाकारस्य सुदाम्न उक्तिर् इयम् ॥२२॥
विश्वनाथः : केचिद् इति । शरण्याः त्वद्-अनुभवतो विज्ञातार्था इति । ब्रह्मानुभव-त्वद्-अनुभवयोर् ज्ञान-तारतम्याद् इत्य् अनेन ज्ञानि-चराः । सहज-दास्य-रतिमतः साधक-भक्तस्य वचनम् इदम् ॥२२॥
—ओ)०(ओ—
॥ ३.२.२३-२४ ॥
तत्र शरण्याः—
शरण्याः कालिय-जरासन्ध-बद्ध-नृपादयः ॥
यथा—
अपि गहनागसि नागे
प्रभु-वर मय्य् अद्भुताद्य ते करुणा ।
भक्तैर् अपि दुर्लभया
यद् अहं पद-मुद्रयोज्ज्वलितः ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.२५ ॥
यथा वा, अपराध-भञ्जने—
कामादीनां कति न कतिधा पालिता दुर्निदेशास्
तेषां जाता मयि न करुणा न त्रपा नोपशान्तिः ।
उत्सृज्यैतान् अथ यदु-पते साम्प्रतं लब्ध-बुद्धिस्
त्वाम् आयातः शरणम् अभयं मां नियुङ्क्ष्वात्म-दास्ये ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.२६-२७ ॥
अथ ज्ञानि-चराः—
ये मुमुक्षां परित्यज्य हरिम् एव समाश्रिताः ।
शौनक-प्रमुखास् ते तु प्रोक्ता ज्ञानि-चराः बुधैः ॥
यथा वा हरि-भक्ति-सुधोदये (४.१७)—यथा वा हरि-हक्ति-सुधोदये—
अहो महात्मन् बहु-दोष-दुष्टो
ऽप्य्
एकेन भात्य् एष भवो गुणेन ।
सत्-सङ्गमाख्येन सुखावहेन
कृताद्य नो येन कृशा मुमुक्षा ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **सार्वदिकानन्य-गतित्व-निवेदनाय बहु-दोष-दुष्टोऽपि एष भवः मनुष्य-लोके जन्म सत्-सङ्गम् आख्येय्न इकेन एकेन गुणेन भाति येन सत्सङ्गेन मुमुक्षा कृशा कृता ॥२७॥
—ओ)०(ओ—
॥ ३.२.२८ ॥
यथा वा पद्यावल्याम् (७७)—
ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं
तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्मात्र आत्मा ।
अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो
मेघ-श्यामः कनक-परिधिः पङ्कजाक्षोऽयम् आत्मा ॥
श्री-जीवः, विश्वनाथः : ध्यानातीतम् इति । पूर्वार्धे हेयत्व-विवक्षया ज्ञातस्याप्य् अज्ञातवन् निर्देशात् । पङ्कजाक्षोऽयम् आत्मेति आत्मा इति परमेशितृत्वात् परम-प्रियत्वाच् च ॥२८॥
**मुकुन्दः : **ध्यानातीतं किम् अपि परमं यद् ब्रह्म, ये तत्त्वं उपास्यं वस्तु जानन्ति निश्चिन्वन्ति । अयं ब्रह्मणि वितृष्टाकरत्वेनानुभूयमान आत्मा मूर्तिमत् परम् ब्रह्म-तत्त्वं भवति । अनेन मुमुक्षा-त्याग-पूर्वं आश्रयणं बोध्यते ॥२८॥
—ओ)०(ओ—
॥ ३.२.२९-३० ॥
अथ सेवा-निष्ठाः—
मूलतो भजनासक्ताः सेवा-निष्ठा इतीरिताः ।
चन्द्रध्वजो हरिहयो बहुलाश्वस् तथा नृपाः ।
इक्ष्वाकुः श्रुतदेवाश् च पुण्डरीकादयश् च ते ॥
यथा—
आत्मारामान् अपि गमयति त्वद्-गुणो गान-गोष्ठीं
शून्योद्याने नयति विहगान् अप्य् अलं भिक्षु-चर्याम् ।
इत्य् उत्कर्षं कम् अपि स-चमत्कारम् आकर्ण्य चित्रं
सेवायां ते स्फुटम् अघहर श्रद्धया गर्धितोऽस्मि ॥
श्री-जीवः : शून्ये निर्जने उद्याने वर्तमानान् विहग-सदृशांस् तपस्विनोऽपि भिक्षु-चर्यां त्वद्-गुण-गान-श्रवणेच्छया तद्-गान-सभायां भिक्षोर् इव चर्यां नयति । यद् वा, शून्योद्याने इत्य् आवेशात् प्रौढि-वचनम् । [उत्तर-चरिते] जन-स्थाने शून्ये करुण-करुणैर् आर्य-चरितैर् अपि ग्रावा रोदित्य् अपि दलति वज्रस्य हृदयम् इतिवत् ॥३०॥
**मुकुन्दः : **आत्मारामान् अपीति अपि इति । आकर्ण्य निवृत्त-तर्षैर् उपगीयमानात् [भा।पु। १०.१.४] इति, बहव इह विहङ्गा भिक्षा-चर्यां चरन्ति [भा।पु। १०.४७.१८] इत्य् आदितः श्रुत्वा ॥३०॥
**विश्वनाथः : **शून्ये निर्जने उद्याने वर्तमानान् विहग-सदृशांस् तपस्विनोऽपि भिक्षु-चर्यां त्वद्-गुण-गान-श्रवणेच्छया तद्-सभायां भिक्षोर् इव चर्यां नयति । तव सेवायां गर्धितोऽस्मि आकाङ्क्षितोऽस्मि । गृधु अभिकाङ्क्षायां इति धातुः ॥३०॥
—ओ)०(ओ—
॥ ३.२.३१-३२ ॥
अथ पारिषदाः—
उद्धवो दारुको जैत्रः श्रुतदेवश् च शत्रुजित् ।
नन्दोपनन्द-भद्राद्याः पार्षदा यदु-पत्तने ॥
नियुक्ताः सन्त्य् अमी मन्त्र-सारथ्यादिषु कर्मसु ।
तथापि क्वाप्य् अवसरे परिचर्यां च कुर्वते ।
कौरवेषु तथा भीष्म-परीक्षिद्-विदुरादयः ॥
श्री-जीवः : श्रुतदेव-शत्रुजिताव् अपि प्रथम-स्कन्धे [भा।पु। १.१४.३२,२९] प्रोक्ताव् अत्र ज्ञेयौ । परिचर्या अत्र स्व-स्व-योग्यानुगतिः ॥३१-३२॥
**मुकुन्दः : **परिचर्यां श्री-कृष्ण-भोग्य-वस्त्व्-आदेः परिष्क्रियां, चामर-च्छत्राद्यैस् तस्य सेवां च ॥३२॥
विश्वनाथः : यदु-पत्तने द्वारकायां ॥३१॥
—ओ)०(ओ—
॥ ३.२.३३ ॥
तेषां रूपं, यथा—
सरसाः सरसीरुहाक्ष-वेषास्
त्रिदिवेशावलि-जैत्र-कान्ति-लेशाः ।
यदु-वीर-सभासदः सदामी
प्रचुरालङ्करणोज्ज्वला जयन्ति ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : श्री-कृष्णस्येव वेशो येषां ते तथोक्ताः ॥३३॥
—ओ)०(ओ—
॥ ३.२.३४ ॥
भक्तिः, यथा—
शंसन् धुर्जटि-निर्जयादि-विरुदं बाष्पावरुद्धाक्षरं
शङ्का-पङ्क्ञ्च-लवं मदाद् अगणयन् कालाग्नि-रुद्राद् अपि ।
त्वय्य् एवार्पित-बुद्धिर् उद्धव-मुखस् त्वत्-पार्षदानां गणो
द्वारि द्वारवती-पुरस्य पुरतः सेवोत्सुकस् तिष्ठति ॥
श्री-जीवः : शंसन्न् इति इन्द्रप्रस्थ-गतं श्री-कृष्णं प्रति कस्यचिद् वचनं । शंसन् प्रशंसन् । शङ्कैव पङ्क उद्वेग-दायित्वात् तस्य लवम् अप्य् अगणयन् सोऽपि नास्तीति निश्चिन्वन्न् इत्य् अर्थः । यद् वा, शङ्कैव पङ्क-लवो यस्मिन्, स शङ्का-पङ्क-लव ईषच् छङ्कमान इत्य् अर्थः । ततश् च—समस्तस्यासमस्तेन नित्यापेक्षेण सङ्गतिः [ह।ना।व्या। ६.१०४] इति न्यायेन कालाग्नि-रुद्राद् अपि शङ्का-पङ्क-लवो यो भगवद्-भक्त-जनस् जनः, तम् अपि मदाद् भगवद्-आश्रय-माहात्म्य-गर्वाद् अगणयन् भगवद्-आश्रये सति तद्-आभासोऽपि नोचित इत्य् अतो न बहु मन्वान इत्य् अर्थः । तद् एवम् एव पूर्वेभ्यो जगत्य् अधिकृतेभ्य एषां निश्चयो दर्शितः दर्शितः। द्वारवती-पुरस्य पुरतो द्वारि अत्युत्कण्ठया सर्वाग्रिम-द्वारे ॥३४॥
**मुकुन्दः : **शंसन्न् इति । इन्द्रप्रस्थ-गतं श्री-कृष्णं प्रति श्री-नारद-वाक्यं । शंसन् कथयन् । शङ्कैव पङ्क उद्वेग-दायित्वात् तस्य लवम् अप्य् अगणयन् सङ्ख्या-विषयं अप्य् अकुर्वन् परितो विष्वग् यथा स्यात् तथा द्वारि तिष्थति ॥३४॥
विश्वनाथः : शंसन्न् इति इन्द्रप्रस्थ-गतं श्री-कृष्णं प्रति कस्यचिद् वचनं । धुर्जटेः शिवस्य पराजयादेर् यो विरुदः**,** तं शंसन् कथयन् । शङ्केव शङ्का इव पङ्कम् उद्वेग-दायित्वात् तस्य लवम् अप्य् अगणयन्**,** सोऽपि नास्तीति निश्चिन्वन्न् इत्य् अर्थः । द्वारवती-पुरस्य पुरतो द्वारि अग्रिम-द्वारि अत्युत्कण्ठया सेवोत्सुकः सन् तिष्ठति ॥३४॥
—ओ)०(ओ—
॥ ३.२.३५ ॥
एतेषां प्रवरः श्रीमान् उद्धवः प्रेम-विक्लवः ॥
श्री-जीवः : प्रेम-विक्लवः प्रेम-परवशः । “क्लव भये” इति घटाद्य्-आत्मनोपदित्वेन वोपदेवः पठति । विक्लवो विह्वल इति विशेष्य-निघ्न-वर्गः । तत्र विक्लवते कातरो भवतीति क्षीर-स्वामी । भयाद्य्-अभिभूते द्वयम् इति टीकान्तराणि । ततश् च भयेनात्र पारवश्यं लक्ष्यते इति । एवम् एव इति विक्लवितं तासाम् [भा।पु। १०.२९.३९] इत्य् अत्र स्वामिभिः पारवश्य-प्रलपितम् इति व्याख्यातम् ।व्याख्यातम्।।३५॥
**मुकुन्दः : **प्रेम-विक्लवः प्रेम-विह्वलः ॥३५॥
**विश्वनाथः : **प्रेम-विक्लवः प्रेम-परवशः ॥३५॥
—ओ)०(ओ—
॥ ३.२.३६ ॥
तस्य रूपं—
कालिन्दी-मधुर-त्विषं मधुपतेर् माल्येन निर्माल्यतां
लब्धेनाञ्चितम् अम्बरेण च लसद्-गोरोचना-रोचिषा ।
द्वन्द्वेनार्गल-सुन्दरेण भुजयोर् जिष्णुम् अब्जेक्षणं
मुख्यं पारिषदेषु भक्ति-लहरी-रुद्धं भजाम्य् उद्धवम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : कालिन्द्या इव मधुरा त्विट् कान्तिर् यस्य । निर्माल्यतां प्राप्तेन श्री-कृष्णस्य माल्येन अञ्चितं युक्तम् इत्य् अर्थः । गोरोचनाया इव पीता कान्तिर् यस्य । एवम्-भूतेनाम्बरेणाञ्चितं भूतेन अम्बरेण अञ्चितं भुजयोर् द्वन्द्वेन भ्राजिष्णुं भक्ति-लहरीभिः रुद्धं वर्णीकृतं ॥३६॥
—ओ)०(ओ—
॥ ३.२.३७ ॥
भक्तिः, यथा—
मूर्धन्य् आहुक-शासनं प्रणयते ब्रह्मेशयोः शासिता
सिन्धुं प्रार्थयते भुवं तनुतरां ब्रह्माण्ड-कोटीश्वरः ।
मन्त्रं पृच्छति माम् अपेशल-धियं विज्ञान-वारां निधिर्
विक्रीडत्य् असकृद् विचित्र-चरितः सोऽयं प्रभुर् मादृशाम् ॥
श्री-जीवः : विक्रीडतीति विक्रीडति इति व्याजेन तस्य विनयम् एव व्यनक्ति ॥३७॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **मूर्धनीत्य् मूर्धनि इत्य् उद्धव-वचनम् । मादृशां प्रभुः श्री-कृष्णः क्रीडति । क्रीडाम् एवाह—ब्रह्मेशयोः शाशितापि आहुकस्य उग्रसेनस्य शासनं मूर्धनि कुरुते । ब्रह्माण्ड-कोटीश्वरोऽपि तनुतरां स्वल्पां द्वारका-रूप-भुवं समुद्रं प्रार्थयते, विज्ञान-समुद्रोऽपि अपेशल-धियम् अल्प-ज्ञं मां मन्त्रणां पृच्छति ॥३७॥
—ओ)०(ओ—
॥ ३.२.३८-४० ॥
अथ **अनुगाः—
सर्वदा परिचर्यासु प्रभोर् आसक्त-चेतसः ।
पुरस्थाश् च व्रजस्थाश् चेत्य् उच्यते अनुगा द्विधा ॥ \
**तत्र पुरस्थाः—
सुचन्द्रो मण्डनः स्तम्बः सुतम्बाद्याः पुरानुगाः ।
एषां पार्षदवत् प्रायो रूपालङ्कारणादयः ॥
सेवा यथा—
उपरि कनक-दण्डं मण्डनो विस्तृणीते
धुवति किल सुचन्द्रश् चामरं चन्द्र-चारुम् ।
उपहरति सुतम्बः सुष्ठु ताम्बूल-वीटीं
विदधति परिचर्याः साधवो माधवस्य ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : मण्डन-नामा दासः श्री-कृष्णस्योपरि रत्न-दण्डं छत्रं विस्तृणीते, चामरं धुवति कम्पयते, । उपहरति ददातीत्य् अर्थः ॥४०॥
—ओ)०(ओ—
॥ ३.२.४१-४३ ॥
अथ व्रज-स्थाः—
रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः ।
रसाल-सुविलासाश् च प्रेमकन्दो मरन्दकः ॥
आनन्दश् चन्द्रहासश् च पयोदो वकुलस् तथा ।
रसदः शारदाद्याश् च व्रजस्था अनुगा मताः ॥
एषां रूपं, यथा—
मणि-मय-वर-मण्डनोज्ज्वलाङ्गान्
पुरट-जवा-मधुलिट्-पटीर-भासः ।
निज-वपुर्-अनुरूप-दिव्य-वस्त्रान्
व्रज-पति-नन्दन-किङ्करान् नमामि ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : पुरटं सुवर्णं, जवा रक्त-पुष्पम्, मधु-लिट् भ्रमरः, पटिरश् चन्दनम् चन्दनम्। एतेषाम् एव भासः कान्तयो येषाम् ॥४३॥
—ओ)०(ओ—
॥ ३.२.४४ ॥
सेवा, यथा—
द्रुतं कुरु परिष्कृतं बकुल पीत-पट्टांशुकं
वरैर् अगुरुभिर् जलं रचय वासितं वारिद ।
रसाल परिकल्पयोर् अग-लता-दलैर् वीटिकाः
पराग-पटली गवां दिशम् अरुन्ध पौरन्दरीम् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : द्रुतम् इति रक्तक-वाक्यम् । परागो धूलिः । परागः कौसुमे रेणौ स्नानीयादौ रजस्य् अपि इति नानार्थ-वर्गः ॥४४॥
विश्वनाथः : हे बकुल ! पीत-वस्त्रं परिष्कृतं कुरु । श्रेष्ठैः अगुरुभिः जलं वासितं कुरु, सुगन्धं कुरु । उरग**-**लता नागवल्ली तस्या दलैः पर्णैः वीटिकाः परिकल्पय रचनां कुरु । गवां पराग-पटली धूलि-श्रेणी पौरन्दरीं इन्द्र-सम्बन्धिनीम् पूर्व-दिशम् अरुन्ध, तथा च श्री-कृष्णस्य वनात् गोष्ठ-गमन-समयो जातः, तस्मात् सेवोपयोगी सामग्री-समाधानं शीघ्रं कुर्व् इति भावः ॥४४॥
—ओ)०(ओ—
॥ ३.२.४५-४६ ॥
व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः ॥
अस्य रूपं, यथा—
रम्य-पिङ्ग-पटम् अङ्ग-रोचिषा
खर्वितोरु-शत-पर्विका-रुचम् ।
सुष्ठु गोष्ठ-युवराज-सेविनं
रक्त-कण्ठम् अनुयामि रक्तकम् ॥
श्री-जीवः, मुकुन्दः : शतपर्विका दूर्वा । रक्तः राग-विद्या-निपुणः कण्ठो यस्य तम् । अनुयामि अनुगतो भवामि ॥४६॥
विश्वनाथः : रक्तकं कीदृशं ? पीत-पटम् अङ्ग-कान्त्या । खर्विता तिरस्कृता उरुः
शतपर्विकाया दूर्वाया रुक् कान्तिर् येन । तथा च दूर्वा-दल-श्यामम् इत्य् अर्थः । रक्तः वसन्तादि-राग-युक्तः कण्ठो यस्य । अनुयामि अनुगतो भवामीत्य् अर्थः ॥४६॥
—ओ)०(ओ—
॥ ३.२.४७ ॥
भक्तिः, यथा—
गिरिवर-भृति भर्तृ-दारकेऽस्मिन्
व्रज-युवराजतया गते प्रसिद्धिम् ।
शृणु रसद सदा पदाभिसेवा-
पट्टिम-रता रतिर् उत्तमा ममास्तु ॥
श्री-जीवः : निजेशित्रा कदापि सखिवद् व्यवह्रियमाणं स्वं सङ्कुचद्-भावं वीक्ष्य विजने प्र्च्छन्तं रसदं प्रति स्वयम् एवाह एवाह—गिरीति गिरि- इति । रता आविष्टा ॥४७॥
मुकुन्दः : श्री-कृष्णेन कदापि सखिवद् व्यवह्रियमाणं स्व-सङ्कोचं वीक्ष्य दास-गोष्ठ्यां सख्य-सुखोत्कर्षं परीक्षार्थं निजं प्रति कथयन्तं रसदं प्रति स्वयम् एवाह—गिरि- इति । रता आविष्टा ॥४७॥गिरीति रता आविष्टा ॥४७॥
विश्वनाथः : श्री-कृष्णेन कदाचित् सखिवद् व्यवह्रियमाणं स्व-सङ्कोच-भावं वीक्ष्य विजने पृच्छन्तं रसदं प्रति स्वयम् एवाह—गिरीति गिरि इति । भर्तृ-दारके राज-पुत्रे अस्मिन् श्री-कृष्णे पदाभिसेवा-चातुर्ये रता आविष्टा रतिर् ममास्तु ॥४७॥
—ओ)०(ओ—
॥ ३.२.४८-५० ॥
धूर्यो धीरश् च वीरश् च त्रिधा पारिषद्-आदिकः ॥
तत्र धूर्यः—
कृष्णेऽस्य प्रेयसी-वर्गे दासादौ च यथायथम् ।
यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते ॥
यथा—
देवः सेव्यतया यथा स्फुरति मे देव्यस् तथास्य प्रियाः
सर्वः प्राण-समानतां प्रचिनुते तद्-भक्ति-भाजां गणः ।
स्मृत्वा साहसिकं बिभेमि तम् अहं भक्ताभिमानोन्नतं
प्रीतिं तत्-प्रणते खरेऽप्य् अविदधद् यः स्वास्थ्यम् आलम्बते ॥
श्री-जीवः : पारिषदादिक इति पारिषदा अनुगाश् चेत्य् उभयोर् गण इत्य् अर्थः ॥४८॥
मुकुन्दः : धूर्य इत्य् आदेर् यथोत्तर-न्यूनत्वं, पारिषदादिक इति पारिषदा अनुगाश् च इत्य् उभयोर् गण इत्य् अर्थः ॥४८॥ प्रचिनुते प्रकर्षेण सङ्गृह्णाति, सर्व एव प्राण-तुल्यो भवतीत्य् अर्थः ॥५०॥
विश्वनाथः : श्री-कृष्णस्य भक्ति-भाजां गणः सर्वोऽपि मम प्राण-ममतां समतां वितनुते, किन्तु श्री-कृष्णस्य प्रणते भक्ते गर्दभेऽपि यः प्रीतिम् अविदधत् अकुर्वन् सन् स्वास्थ्यम् आलम्बते, तं अत्व्हाभिमानेनाहङ्कृतं भक्ताभिमानेन्अ अहङ्कृतं स्मृत्वा अहं बिभेमि ॥५०॥
—ओ)०(ओ—
॥ ३.२.५१-५२ ॥
अथ धीरः—
आश्रित्य प्रेयसीम् अस्य नातिसेवा-परोऽपि यः ।
तस्य प्रसाद-पात्रं स्यान् मुख्यं धीरः स उच्यते ॥
यथा—
कम् अपि पृथग्- अनुच्चैर् नाचरामि प्रयत्नं
यदुकुल-कमलार्क त्वत्-प्रसाद-श्रियेऽपि ।
समजनि ननु देव्याः पारिजातार्चितायाः
परिजन-निखिलान्तः-पातिनी मे यद्-आख्या ॥
श्री-जीवः : कम् अपीति अपि इति । सत्यभामायाः पित्रा तद्-अनुगततया दत्तस्य तद्-धात्री-पुत्रस्य । अत एव श्री-कृष्णम् अनु स्निग्ध-श्यामायमानस्य नर्म-प्रायया सेवया तं सुखयतः कस्यचिद् वचनम् । अत एव रसावहाम् इदं स्यात् । कम् अपि कञ्चिद् अपि अनुच्चैर् अल्पम् अपि ॥५२॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **सत्यभामायाः पित्रा तद्-अनुगततया दत्तस्य तद्-धात्री-पुत्रस्य । अत एव श्री-कृष्णं प्रति सुस्निग्ध-श्यामायमानस्य नर्म-प्रायया सेवया तं सुखयतः कस्यचिद् वचनम् । अत एव रसावहाम् इदं स्यात् । हे यदु-कुल-कमलार्क श्री-कृष्ण ! त्वत्-प्रसाद-दम्पत्त्यै अनुच्चैः स्वल्पम् अपि प्रयत्नं पृथक् नाचरामि, यत् यस्मात् पारिजातेन त्वया अर्चितायाः पूजितायाः सत्यभामायाः परिजन-लिखनान्तः-पातिनी ममाख्या नामधेयं समजनि ॥५२॥
—ओ)०(ओ—
॥ ३.२.५३-५४ ॥
अथ वीरः—
कृपां तस्य समाश्रित्य प्रौढां नान्यम् अपेक्षते ।
अतुलां यो वहन् कृष्णे प्रीतिं वीरः स उच्यते ॥
यथा—
प्रलम्ब-रिपुर् ईश्वरो भवतु का कृतिस् तेन मे
कुमार-मकर-ध्वजाद् अपि न किञ्चिद् आस्ते फलम् ।
किम् अन्यद् अहम् उद्धतः प्रभु-कृपा-कटाक्ष-श्रिया
प्रिया परिषद्-अग्रिमां न गणयामि भामाम् अपि ॥५४॥
श्री-जीवः : प्रलम्बेति प्रलम्ब- इति । अस्य तत्र तत्रान्तः-सरसत्वेऽपि प्रणय-कौतुक-विशेषेणैव बहिर् गर्वस्य व्यञ्जना ज्ञेया । सर्वथा तद्-भावत्वे वैरस्यापत्तेः । एवम् उत्तरत्र जगज्-जनन्याम् [भ।र।सि। ३.२.५५] इत्य् इत्य्-आदाव् अपि ज्ञेयम् । वक्ष्यते च—ईर्ष्या-लवेन [भ।र।सि। ३.२.६१] इत्य् इत्य्-आदि । तद् एतच् च सत्यभामायाः कञ्चिद् अन्तरङ्गं प्रति रहसि वीर-भक्तस्य वचनम् । स्पष्ट-वचनत्वे प्रलम्ब-रिपुम् अप्य् अतिक्रम्य सत्यभामाधिक्य-व्यञ्जनायां श्री-कृष्णस्य लज्जा स्याद् इति ॥५४॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : प्रलम्ब-रिपुर् बलदेवः । तेन का कृतिः ? किं कार्यं ? मकरध्वजात् प्रद्युम्नात् ॥५४॥
—ओ)०(ओ—
॥ ३.२.५५ ॥
चतुर्थे च (४.२०.२८)—
जगज्-जनन्यां जगद्-ईश वैशसं
स्याद् एव यत्-कर्मणि नः समीहितम् ।
करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
प्रीति-सन्दर्भः** १७५- अत्र दास-भावाख्य-भक्ति-मयस्य प्रकृतत्वेन योग्यस्य तद्-अयोग्योज्ज्वल-सङ्गत्याभासितत्वम् । तत्र दास-भावस् तत्-प्रकरण-सिद्ध एव । उज्ज्वल-सङ्गतिश् च पद्म-करा इव **लालस इत्य्-आदिनावगम्यते ।
अत्र समाधानं च—न खल्व् अस्य तद्वत् कान्त-भाव-वासना जाता, किन्तु भक्ति-वासनैव । दृष्टान्तस् तत्र तस्या भक्त्य्-अंश एव । तया स्पर्धा तु तत्-परम-कृपोन्नद्धत्वेन वीराख्य-दासतां प्राप्तस्य नायोग्येति । अन्ये त्व् एवं मन्यन्ते । तत् खलु तदीय-दीन-विषयक-कृपा-सूचक-स्व-प्रेम-वचन-विनोद-मात्रं, न तु लक्ष्मी-स्पर्धावहम् । करोषि** फल्ग्व् अप्य् उरु **दीन-वत्सलः इति स्वस्मिंस् तुच्छत्व-मननात् ॥५५॥
मुकुन्दः : स्व एव धिष्ण्ये तव चरणारविन्द-रूपाश्रयेऽभिरतस्य मम तया जगज्-जनन्या किम् ? ॥५५॥
विश्वनाथः : जगज्-जनन्याम् इति पृथु-वचनम् । हे जगदीश ! जगज्-जनन्यां लक्ष्म्यां मम वैशसम् अपराधः स्याद् एव । तत्र हेतुः—यस्याः लक्ष्म्याः चरण-सेवा-रूप-कर्मणि नोऽस्माकं समीहितं, अत एव द्रव्याभिलाषित्वात् विरोधो भविष्यत्य् एव । ननु सा भगवत्-प्रेयसी परम-श्रेष्ठा । त्वम् अर्वाचीन-दासः परम-न्यूनः । कथं त्वया सह विरोध-सम्भावनापीत्य् सम्भावनापि ? इत्य् अतः आह—करोषीति करोषि इति । फल्गु अतितुच्छम् अपि उरु सर्वतोऽधिकं करोषि । अतः स्वं त्वं दीन-वत्सलः । स्वे स्वरूपे धिष्ण्ये स्थाने अभिरतस्य तव तया । तया लक्ष्म्या॥५५॥
—ओ)०(ओ—
॥ ३.२.५६ ॥
एतेषु तस्य दासेषु त्रिविधेष्व् आश्रितादिषु ।
नित्य-सिद्धाश् च सिद्धाश् च साधकाः परिकीर्तितः ॥
श्री-जीवः : एतेष्व् इति तद्वद् अधिकृतेष्व् अपि भेदा इमे ज्ञेयाः । तथा शान्तादिष्व् अपि ॥५६॥
**मुकुन्दः : **आश्रितादिष्व् इति । अधिकृतास् त्व् आवरणस्था नित्य-सिद्धा एव । अतस् तेषां त्रैविध्यं न कृतं । यथा पाद्मे—
…इन्द्रान्यैः सप्तमं तथा ।
साध्या मरुद्गणाश् चैव विश्वेदेवास् तथैव च ।
नित्याः सर्वेऽपरे धाम्नि ये चान्येऽत्र दिवौकसः ।
ते वै प्राकृत-नाकेऽस्मिन् अनित्यास् त्रिदिवेश्वरा ॥ इति ।
प्राकृतास् तु तदाभास-रूपत्वात् तद्-अभेदेन कुत्रापि व्यवह्रियन्ते । रूपं प्रसिद्धम् एवैषाम् इत्य् अत्र यथा ॥५६॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.५७ ॥
अथ उद्दीपनाः—
अनुग्रहस्य सम्प्राप्तिस् तस्याङ्घ्रि-रजसां तथा ।
भुक्तावशिष्टं -भक्तादेर् भक्तादेर् अपि तद्-भक्त-सङ्गतिः ।
इत्य् इत्य्-आदयो विभावाः स्युर् एष्व् असाधारणा मताः ॥
श्री-जीवः : अनुग्रह-सम्प्राप्त्य्-आदीनां उद्दीपनत्वं वत्सलेषु न सम्भवत्य् एव, समय-भेदेन कुत्रचिद् अन्यथापीत्य् असाधारणत्वं ज्ञेयम् । तद्-भक्त-सङ्गतिस् तु विशेष-विवक्षयैव गणिता ॥५७॥
**मुकुन्दः : **विब्रह्म्भावा उद्दीपनाः ॥५७॥
विश्वनाथः : अनुग्रहस्य सम्राप्त्य्-आदीनां उद्दीपनत्वं वत्सलादिषु न सम्भवत्य् एव, भक्तस्यान्नादेर् भुकुतावशिष्टं महा-प्रसाद इत्य् अर्थः । तद्-भक्त-सङ्गतिर् इत्य् अत्रापि भक्ति-विशेषेण दास्य-भेदेन सह सङ्गतिः ॥५७॥
—ओ)०(ओ—
॥ ३.२.५८ ॥
तत्र अनुग्रह-सम्प्राप्तिः, यथा—
कृष्णस्य पश्यत कृपां कृपाद्याः कृपणे मयि ।
ध्येयोऽसौ निधने हन्त दृशोर् अध्वानम् अभ्यगात् ॥
श्री-जीवः : कृष्णस्येति कृष्णस्य इति भीष्म-वचनम् ॥५८॥
मुकुन्दः : कृष्णस्य इति कृष्णस्येति भीष्मोक्तिः ॥५८॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.५९ ॥
मुरली-शृङ्गयोः स्वानः स्मित-पूर्वावलोकनम् ।
गुणोत्कर्ष-श्रुतिः पद्म-पदाङ्क-नव-नीरदाः ।
तद्-अङ्ग-सौरभाद्यास् तु सर्वैः साधारणा मताः ॥
श्री-जीवः : स्मितेत्य् स्मित- इत्य् अत्र, गुणेत्य् गुण- इत्य् अत्र, पदाङ्केत्य् पदाङ्क- इत्य् अत्र च तदीयत्वं गम्यम् ॥५९॥
मुकुन्दः : सर्वैः शान्त-सङ्ख्या-चतुर्भिः ॥५९॥
विश्वनाथः : स्मित- इत्य् अत्र, गुण- इत्य् अत्र स्मितेत्य् अत्र गुणेत्य् अत्र च तदीयत्वं गम्यं । पद्मं च ध्वज-वज्रादि-पद-चिह्नानि च नवीन-मेघश् च ॥५९॥
—ओ)०(ओ—
॥ ३.२.६० ॥
अत्र मुरली-स्वनो, यथा विदग्ध-माधवे (१.३०)—
सोत्कण्ठं मुरली-कला-परिमलान् आकर्ण्य घूर्णत्-तनोर्
एतस्याक्षि-सहस्रतः सुरपतेर् अश्रूणि सस्रुर् भुवि ।
चित्रं वारि-धरान् विनापि तरसा यैर् अद्य धारा-मयैर्
दूरात् पश्यत देव-मातृकम् अभूद् वृन्दाटवी-मण्डलम् ॥
श्री-जीवः : देव-मातृकं वृष्ट्य्-अम्बु-पालितम् ॥६०॥
मुकुन्दः : मुरल्याः कलानां स्वरादि-कौशलानां परिमलान् परस्पराश्लेष-रूपान् विमर्दान्, परिमलो विमर्दोऽपि स्यान् मनो-हारि-गन्धवत् इति विश्वः । देव-मातृकं वृष्ट्य्-अम्बु-सम्पन्नम् ॥६०॥
विश्वनाथः : श्री-कृष्णस्य लीला-दर्शनार्थम् आगतानां वेद-वादिनां मुरली-श्रवण-जन्यम् इन्द्रस्य विकारं दृष्ट्वा परस्पर-वचनं सोत्कण्ठम् इति । सुरपतेर् इन्द्रस्य नेत्र-सहस्रत्अः भुवि अश्रूणि सस्रुः । वारि-धरान् मेघान् विनापि वृन्दाटवी-मण्डलं यैर् अश्रुभिः करणैः देव-मातृकं वृष्ट्य्-अम्बु-पालितम् अभूत् ॥६०॥
—ओ)०(ओ—
॥ ३.२.६१ ॥
अथ अनुभावाः—
सर्वतः स्व-नियोगानाम् आधिक्येन परिग्रहः ।
ईर्ष्या-लवेन चास्पृष्टा मैत्री तत्-प्रणते जने ।
तन्-निष्ठाद्याः शीताः स्युर् एष्व् असाधारणाः क्रियाः ॥६१॥
श्री-जीवः : तन्-निष्ठता प्रीति-मात्र-निष्ठता ॥६१॥
मुकुन्दः : तन्-निष्ठता कृष्णैक-निष्ठत्वम् ॥६१॥
विश्वनाथः : परिचर्यादौ प्रभोर् नियोगानां सर्वाधिक्येन स्वीकारः । परस्परोत्कर्ष-दर्शनेर्ष्या-लेशेन चास्पृष्टा । तत्-प्रणते दासे । तन्-निष्ठता, दास्य-मात्र-निष्ठता ॥६१॥
—ओ)०(ओ—
॥ ३.२.६२-६३ ॥
तत्र स्व-नियोगस्य सर्वत आधिक्यं, यथा—
अङ्ग-स्तम्भारम्भम् उत्तुङ्गयन्तं
प्रेमानन्दं दारुको नाभ्यनन्दत् ।
कंसारातेर् वीजने येन साक्षाद्
अक्षोदीयान् अन्तरायो व्यधायि ॥
उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्-आदयः ।
विरागाद्याश् च ये शीताः प्रोक्ताः साधारणास् तु ते ॥
श्री-जीवः : अङ्ग-स्तम्भेति स्तम्भ- इति । प्रेमानन्दं स्तम्भारम्भम् उत्तुङ्गयन्तं सत्न्तं नाभ्यनन्दद् इत्य् अन्वयः । अयम् अर्थः—प्रेमा तावद् द्विधा विशेषण-भाक् । —स्तम्भादिना आनुकुल्येच्छया च । तत्र दासादीनां आनुकूल्येच्छयैवाति-हृद्या । सेवा-रूप-स्व-पुरुषार्थ-सम्पादकत्वात् । स्तम्भादिकं त्व् अहृद्यम् एव । तद्-विघातकत्वात् । तस्मात् स्तम्भ-करत्वांशेनैव तं नाभ्यनन्दत् । किन्तु आनुकूल्य-करत्वेनैवाभ्यनन्दद् इति, स-विशेषणे विधि-निषेधौ विशेषणम् उपसङ्क्रामतः सति विशेष्ये बाधे इति न्यायेन । आरम्भ आटोपः । अङ्ग-स्थम्भासङ्गम् इति वा पाठः ॥६२॥
मुकुन्दः : स्तम्भारम्भं स्तम्भोद्यमम् उत्तुङ्गयन्तम् अत्युन्नतं कुर्वन्तम् । अयम् अर्थः—प्रेम्णो द्विधा कार्यम् । —स्तम्भाद्या आज्ञा-प्रतिपालनं च । दासेषूत्तरस्याधिक्यम् । अतः प्रेमानन्दं स्तम्भकरांशेन नाभ्यनन्दत् । आज्ञा-पालनांशेन त्व् अभ्यनन्दद् एव । स-विशेषेण विधि-निषेधौ विशेषणम् उपसङ्क्रामतः सति विशेष्ये बाधे इति न्यायेन ॥६२॥
विश्वनाथः : उत्तुङ्गयन्तं वर्धयन्तं प्रेमानन्दं । येन स्तम्भेन साक्षात् अक्षोदीयान् महान् अन्तरायो विघ्नः व्यधायि ॥६२॥
—ओ)०(ओ—
॥ ३.२.६३ ॥
उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्-आदयः ।
विरागाद्याश् च ये शीताः प्रोक्ताः साधारणास् तु ते ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम्।
विश्वनाथः : नृत्य-विलुठादय एव उद्भस्वराः ॥६३॥
—ओ)०(ओ—
॥ ३.२.६४ ॥
तत्र नृत्यम्, यथा श्री-दशमे (१०.८६.३८)—
श्रुतदेवोऽच्युतं प्राप्तं स्व-गृहान् जनको यथा ।
नत्वा मुनींश् च संहृष्टो धुन्वन् वासो ननर्त ह ॥६४॥
न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.६५ ॥
यथा वा—
त्वं कलासु विमुखोऽपि नर्तनं
प्रेम-नाट्य-गुरुणासि पाठितः ।
यद् विचित्र-गति-चर्ययाञ्चितश्
चित्रयस्य् अहह चारणान् अपि ॥
श्री-जीवः : तं कलासु विमुखोऽपि यद् विचित्र-गति-चर्ययाङ्कितः सन्न् अहह चारणान् अपि चित्रयसि, तत् तत्-प्रेम-नाट्य-गुरुणैव नर्तनं पाठित इत्य् अर्थः । चारणाश् च नर्तक-सदृशा इति तद्-अभेदेनोक्तिः ॥६५॥
**मुकुन्दः : **तं कलासु विमुखोऽपि प्रेम-नाट्य-गुरुणा नर्तनं पाठितोऽसि । यद् यस्माद् धेतोः विच्त्रेत्य् विचित्र- इत्य्-आदि । नृत्यादिषु विमुखस्यापि तवापूर्व-नृत्य-दर्शनाद् गुरोर् अप्य् अपूर्वस्यैवान्मानम् इत्य् अर्थः ॥६५॥
**विश्वनाथः : **तं कलासु विमुखोऽपि नृत्य-वैदघी-रहितोऽपि यद् यस्माद् चित्र-गति-चर्यया युक्तः सन्न् अहह चारणान् अपि चित्रयसि, तत् तस्मात् प्रेम-नाट्य-गुरुणैव नर्तनं पाठित इत्य् अर्थः । चारणाश् च नर्तक-विशेषाः ॥६५॥
—ओ)०(ओ—
॥ ३.२.६६-६७ ॥
अथ सात्त्विकाः—
स्तम्भाद्याः सात्त्विकाः सर्वे प्रीतादि-त्रितये मताः ॥
यथा,
गोकुलेन्द्र-गुण-गान-रसेन
स्तम्भम् अद्भुतम् असौ भजमानः ।
पश्य भक्ति-रस-मण्डप-मूल-
स्तम्भतां वहति वैष्णव-वर्यः ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.६८ ॥
श्री-दशमे (१०.८५.३८)—
स इन्द्रसेनो भगवत्-पदानुजं
बिभ्रन् मुहुः प्रेम-विभिन्नया धिया ।
उवाच हानन्द-जलाकुलेक्षणः
प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥
सर्वे : इन्द्रसेनो बलिः ॥६८॥
—ओ)०(ओ—
॥ ३.२.६९-७१ ॥
अथ व्यभिचारिणः—
हर्षो धृतिश् चात्र निर्वेदोऽथ विषण्णता ।
दैन्यं चिन्ता स्मृतिः शङ्का मतिर् औत्सुक्य-चापले ॥
वितर्कावेग-ह्री-जाड्य-मोहोन्मादावहित्थिकाः ।
बोधः स्वप्नः क्लमो व्याधिर् मृतिश् च व्यभिचारिणः ॥
इतरेषां मदादीनां नातिपोषकता भवेत् ।
योगे त्रयः स्युर् धृत्य्-अन्ता अयोगे तु क्लमादयः ।
उभयत्र परे शेषा निर्वेदाद्याः सतां मताः ॥
श्री-जीवः : मदादीनां मद-श्रम-त्रासापस्मारालस्यौग्र्यामर्षासूया-निद्राणां । तत्र मदस्य पोषकता नास्त्य् एव । मधु-पानानङ्ग-विकारजतया द्विविधत्वेनाप्य् अयोग्यत्वात् । श्रमस्य तु कथञ्चिज् जातस्य सेवोत्कण्ठा-पोषकत्वात्, कदाचिद् भवत्य् अपि न पुनर् आलस्य-जन्मापि स्यात् । अत्र त्रासादयस् तद्-वैरि-योगाज् जाताश् चेत् तर्हि पोषकाश् च भवन्तीति मनसि कृत्वाह नातीति । एवं प्रेय-आदिष्व् अपि विवेचनीयम् ॥७१॥
**मुकुन्दः : **मदादीनां मद-श्रम-त्रासापस्मारालस्यौग्र्यामर्षासूया-निद्राणां कस्यचित् कुत्रापि पोषकत्वाद् अति-शब्दो दत्तः । क्लमादयः क्लम-व्याधि-मृतय इति त्रयः ॥७१॥
**विश्वनाथः : **मदादीनां मद-श्रम-त्रासापस्मारालस्यौग्र्यामर्षासूया-निद्राणां । तत्र मदस्य पोषकता नास्त्य् एव । मधुपानानङ्ग-विकारजत्वेन द्विविधोऽपि मदोऽत्र न, अयोग्यत्वात् । श्रमस्य कथञ्चिज् जातस्य सेवोत्कण्ठा-पोषकत्वात् । अत्र त्रासादयस् तद्-वैरि-योगाज् जाताश् चेत् तर्हि पोषकाश् च भवन्तीति मनसि कृत्वाह नातीति । एवं प्रेय-आदिष्व् अपि विवेचनीयम् ॥७१॥
—ओ)०(ओ—
॥ ३.२.७२-७४ ॥
तत्र हर्षो, यथा प्रथमे (१.११.५)—
प्रीत्य्-उत्फुल्ल-मुखाः प्रोचुर् हर्ष-गद्गदया गिरा ।
पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः ॥
यथा वा—
हरिम् अवलोक्य पुरो भुवि
पतितो दण्ड-प्रणाम-शत-कामः ।
प्रमद-विमुग्धो नृपतिः
पुनर् उत्थानं विसस्मार ॥
क्लमो, यथा स्कान्दे—
अशोषयन् मनस् तस्य म्लापयन् मुख-पङ्कजम् ।
आधिस् तद्-विरहे देव ग्रीष्मे सर इवांशुमान् ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.७५ ॥
निर्वेदो, यथा—
धन्याः स्फुरति तव सूर्य कराः सहस्रं
ये सर्वदा यदुपतेः पदयोः पतन्ति ।
बन्ध्यो दृशां दर्श-शती ध्रियते ममासौ
दूरे मुहूर्तम् अपि या न विलोकते तम् ॥
श्री-जीवः : ध्रियते अवतिष्ठते । दूरेऽपि इत्य् उभयत्रान्वयः ॥७५॥
**मुकुन्दः : **ध्रियते अवतिष्ठते । दूरेऽपि मुहूर्तेऽपीत्य् उभयत्रान्वयः ॥७५॥
**विश्वनाथः : **धन्या इति इन्द्रस्य उक्तिः । हे सूर्य ! तव सहस्रं कराः किरणाः धन्याः । ममासौ दृशां दश-शती नेत्र-सहस्रं वन्ध्या बन्ध्या व्यर्था सती ध्रियते अवतिष्ठते । दूरे मुहूर्तेऽपीत्य् उभयत्रान्वयः ॥७५॥
—ओ)०(ओ—
॥ ३.२.७६-७८ ॥
अथ स्थायी—
सम्भ्रमः प्रभुता-ज्ञानात् कम्पश् चेतसि सादरः ।
अनेनैक्यं गता प्रीतिः सम्भ्रम-प्रीतिर् उच्यते ।
एषा रसेऽत्र कथिता स्थायि-भावतया बुधैः ॥
आश्रितादेः पुरैवोक्तः प्रकारो रति-जन्मनि ।
तत्र पारिषदादेस् तु हेतुः संस्कार एव हि ।
संस्कारोद्बोधकास् तस्य दर्शन-श्रवणादयः ॥
एषा तु सम्भ्रम-प्रीतिः प्राप्नुवत्य् उत्तरोत्तरम् ।
वृद्धिं प्रेमा ततः स्नेहस् ततो राग इति त्रिधा ॥
श्री-जीवः : कम्पोऽत्र “केन कथं कुर्याम् ?” इत्य् अस्थैर्यम् ॥७६॥ पुरैवेति पुरैव इति भाव-सामान्य-प्रकरणे प्रकरणे—साधनाभिनिवेशेन [भ।र।सि। १.३.६] इत्य् इत्य्-आदिना ॥७७॥
मुकुन्दः : पुरैव इति भाव-सामान्य-प्रकरणे—साधनाभिनिवेशेन [भ।र।सि। १.३.६] इत्य्-आदिना पुरैवेति भाव-सामान्य-प्रकरणे साधनाभिनिवेशेन [भ।र।सि। १.३.६] इत्य् आदिना । तत्र रति-जन्मनि ॥७७॥
विश्वनाथः : पुरैव इति भाव-सामान्य-प्रकरणे—साधनाभिनिवेशेन [भ।र।सि। १.३.६] इत्य्-आदिना पुरैवेति भाव-सामान्य-प्रकरणे साधनाभिनिवेशेन [भ।र।सि। १.३.६] इत्य् आदिना पार्षदानां रति-जन्मनि तु अनादि-सिद्ध-संस्कार एव हेतुः । श्री-कृष्ण-दर्शन-श्रवणादय एव तेषां प्राचीन-संस्कारोद्बोधकाः ॥७७॥
—ओ)०(ओ—
॥ ३.२.७९-८० ॥
तत्र सम्भ्रम-प्रीतिः, यथा श्री-दशमे (१०.३८.६)—
ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः ।
यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् ॥
यथा वा—
कलिन्द-नन्दिनी-कुल-कदम्ब-वन-वल्लभम् ।
कदा नमस्करिष्यामि गोप-रूपं तम् ईश्वरम् ॥८०॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.८१-८२ ॥
अथ प्रेमा—
ह्रास-शङ्का-च्युता बद्ध-मूला प्रेमेयम् उच्यते ।
अस्यानुभावाः कथितास् तत्र व्यसनितादयः ॥
यथा—
अणिमादि-सौख्य-वीचीम् अवीचि-दुःख-प्रवाहं वा ।
नय मां विकृतिर् न हि मे त्वत्-पद-कमलावलम्बस्य ॥
श्री-जीवः : ह्रासेति ह्रास- इति । इयं सम्भ्रम-प्रीतिः बद्ध-मूला । अत एव ह्रास-शङ्का-च्युता ॥८१॥ अणिमादीति अणिमादि- इति दण्ड-प्रसादयोर् अनन्तरं श्री-बलि-वचनं । अवीचिर् नरक-विशेषः ॥८२॥
मुकुन्दः : ह्रास-शङ्केति शङ्का- इति । इयं सम्भ्रम-प्रीतिः बद्ध-मूला । अत एव ह्रास-शङ्का-च्युता सती ॥८१॥ अणिमादीति अणिमादि**-** इति दण्डानन्तरं स्वं सुतलं प्रस्थापयन्तं भगवन्तं प्रति श्री-बलि-वचनं । अवीचिर् नरक-विशेषः ॥८२॥
विश्वनाथः : ह्रास- इति । इयं सम्भ्रम-प्रीतिः बद्ध-मूला । ह्रासेति । इयं सम्भ्रम-प्रीतिः बद्ध-मूला । अत एव ह्रास-शङ्का-रहिता सा प्रेम उच्यते ॥८१॥ दण्ड-प्रसादयोर् अनन्तरं श्री-बलि-वचनं । अणिमादि-सुख-समुद्रस्य तरङ्गम्, । अवीचिर् नरक-विशेषः, तज्-जन्य-दुःख-प्रवाहं वा मां नय ॥८२॥
—ओ)०(ओ—
॥ ३.२.८३ ॥
यथा वा—
रुषाज्वलित-बुद्धिना भृगु-सुतेन शप्तोऽप्य् अलं
मया हृत-जगत्-त्रयोऽप्य् अतनु-कैतवं तन्वता ।
विनिन्द्य कृत-बन्धनोऽप्य् उरग-राज-पाशैर् बलाद्
अरज्यत स मय्य् अहो द्विगुणम् एव वैरोचनिः ॥
श्री-जीवः : रुषेति रुषा इति । बलि-सदनाद् आगमनानन्तरम् उद्धवं प्रति श्री-कृष्ण-वचनम् ॥८३॥
मुकुन्दः : रुषा इति । रुषेति । बलि-सदनाद् आगमनानन्तरम् उद्धवं प्रति श्री-कृष्ण-वचनम् । भृगु-सुतः शुक्रः । शुक्रो भृगुर् भृगु-सुतः सित आस्फूर्जितश् चेति च इति वराह-संहितादौ ।८३॥
विश्वनाथः : रुषा इति । रुषेति । बलि-सदनाद् आगमनानन्तरम् उद्धवं प्रति श्री-कृष्णस्य वचनम् । भृगु-सुतेन शुक्राचार्येण वैरोचनिर् बलिः ॥८३॥
—ओ)०(ओ—
॥ ३.२.८४-८५ ॥
अथ स्नेहः—
सान्द्रश् चित्त-द्रवं कुर्वन् प्रेमा स्नेह इतीर्यते ।
क्षणिकस्यापि नेह स्याद् विस्लेषस्य सहिष्णुता ॥
यथा—
दम्भेन बाष्पाम्बु-झरस्य केशवं
वीक्ष्य द्रवच्-चित्तम् असुस्रुवत् तव ।
इत्य् उच्चकैर् धारयतो विचित्ततां
चित्रा न ते दारुक दारु-कल्पता ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : इह स्नेहे जाते सति क्षणिकस्यापि वियोगस्य न हि सहिष्णुता स्यात् ॥८४॥ केशवं वीक्ष्य बास्पाम्बु-झरस्य नेत्र-जल-प्रवाहस्य दम्भेन मिषेण तव द्रवीभूतं चित्तम् असुस्रवत् इति चित्तस्य सामस्त्येनैव स्रवणाद् धेतोः उच्चैर् यथा स्यात्, तथा विचित्ततां चित्त-शून्यतां धारयतस् तव, हे दारुक ! दारु-कल्पता न चित्रा, अचेतनस्य दारु-सदृशता युक्तैवेत्य् अर्थः । अस्य श्री-कृष्णस्य दर्शनाज् जातस्य स्तम्भ-भावस्यान्य-कारण-जन्यत्व-कथनाद् उत्प्रेक्षा गम्या इति भावः ॥८५॥
—ओ)०(ओ—
॥ ३.२.८६ ॥
यथा वा—
पत्नीं रत्न-निधेः पराम् उपहरन् पूरेण बाष्पाम्भसां
रज्यन्-मञ्जुल-कण्ठ-गर्भ-लुठित-स्तोत्राक्षरोपक्रमः ।
चुम्बन् फुल्ल-कदम्ब-डम्बर-तुलाङ्गैः समीक्ष्याच्युतं
स्तब्धोऽप्य् अभ्यधिकां श्रियं प्रणमतां वृन्दाद् दधारोद्धवः ॥
श्री-जीवः : रज्यन् स्नेह-जनित-स्वर-विशेष-माधुर्यं बिभ्रत्, तथा स्वभावत एव मञ्जुलस् तत्-तद्-गीर्-माधुरी मनोहरस् तादृशो यः कण्ठः, तस्य यो गर्भो मध्य-भागस् तत्रैव लुठित इतस् ततः स्खलन्न् एव भ्रमन् स्तोत्राक्षराणां उपक्रमो यत्र सः ॥८६॥
**मुकुन्दः : **रज्यन् स्नेह-जनित-स्वर-विशेष-माधुर्यं बिभ्रत्, तथा स्वभावत एव मञ्जुलस् तत्-गीत-माधुरी मनोहरस् तथा कण्ठ-गर्भ-लुठितः, कण्ठ-मध्ये इतस् ततः स्खलन्न् एव भ्रमन् स्तोत्राक्षराणां उपक्रमो यत्र सः ॥८६॥
विश्वनाथः : बाष्पाम्भसां प्रवाहेण करणेन रत्ननिधेः समुद्रस्य परां श्रेष्ठां पत्नीं नदीं उपहरन् अर्थात् उत्पादयन् स्तव-पाठार्थं स्नेह-जनित-स्वर-विशेष-माधुर्यं बिभ्रत्, तथा स्वभावत एव मञ्जुलो यः कण्ठः, तस्य यो गर्भो मध्य-भागस् तत्रैव लुठित इतस् ततः स्खलन्न् एव स्तोत्राक्षराणां उपक्रमो यत्र । अनेन स्वर-भङ्ग उक्तः, फुल्ल-कदम्बस्य डम्बर-तुलां अतिशय-तुलनां अङ्गैः करणैः चुम्बन् अर्था स्वीकुर्वन् इत्य् अनेन रोमञ्च उक्तः । प्रणतानां समूहात् अधिकां श्रियं दधार ॥८६॥
—ओ)०(ओ—
॥ ३.२.८७ ॥
अथ रागः—
स्नेहः स रागो येन स्यात् सुखं दुःखम् अपि स्फुटम् ।
तत्-सम्बन्ध-लवेऽप्य् अत्र प्रीतिः प्राण-व्ययैर् अपि ॥
श्री-जीवः : स स्नेह एव रागः स्यात् । कीदृशः सन् ? तस्य श्री-कृष्णस्य साक्षात्-कारेण वा, तत्-तुल्य-स्फुरणेन वा, कृपा-लाभेन वा, यः सम्बन्ध-विशेषस् तद्-अन्तरङ्गता-लाभस् तस्य लेशेऽपि जाते, येन स्नेहेन दुःखं अपि सुखं स्फुटं स्यात्, सुखतया प्रतिभातीत्य् अर्थः । तत्र च सति येन प्राण-व्ययैः नाश-पर्यन्तैर् अपि प्राणस्य क्षयैः प्रीतिस् तद्-आनुकूल्यं क्रियते इत्य् अर्थः । तत्-सम्बन्धाभावे तु सुख अपि दुःखं स्याद् इति शेषः । तद् एव तादृशः सन् इत्य् अर्थः ॥८७॥
मुकुन्दः : येन स्नेहेन स्मरणादिज-मनो-द्रवेण दुःखं अपि स्फुटम् सुखं स्यात् । स रागः स्यात् । अत्र रागे सति तत्-सम्बन्ध-लवेऽपि प्राण-व्ययैह् विनाश-पर्यन्तैर् अपि प्राणस्यापक्षयैः प्रीतिः सुखं भवति । तत्-सम्बन्ध-रहिते परम-सुखेऽपि दुःखं इत्य् अर्थाद् बोध्यम् ॥८७॥
विश्वनाथः : येन स्नेहेन हेतुना दुःख-जनकम् अपि वस्तु श्री-कृष्ण-सम्बन्ध-लेश-वशात् सुख-जनकं स्यात्, स्नेहः रागः कीर्त्यते । तत्-सम्बन्धाभावे तु सुखम् अपि दृश्सं स्यात् इत्य् अपि ज्ञेयम् । एवं येन हेतुना प्राणानां व्ययैह् नाश-पर्यन्तैर् अपि प्रीतिस् तद्-आनुकूल्यं क्रियते इत्य् अर्थः । तथा च स्नेहस्य यदा एतादृशोत्कर्षस् तदैव स रागो भवतीति भावः ॥८७॥
—ओ)०(ओ—
॥ ३.२.८८ ॥
यथा—
गुरुर् अपि भुजगाद् भीस् तक्षकात् प्राज्य-राज्य-
च्युतिर् अतिशयिनी च प्राय-चर्या च गुर्वी ।
अतनुत मुदम् उच्चैः कृष्ण-लीला-सुधान्तर्-
विहरण-सचिवत्वाद् औत्तरेयस्य राज्ञः ॥
श्री-जीवः : अत्र तादृश-स्फुरणेनोदाहरन् साक्षात्-कारेण कैमुत्यं व्यञ्जयति—गुरुर् इति । प्राज्यं प्रचुरं । प्राय-चर्या प्राणास् तम् अनशन-व्रतम् । औत्तरेयस्य श्री-परीक्षितः ॥८८॥
मुकुन्दः : गुरुर् अपि मृत्यु-दायिकापीत्य् अर्थः । अतिशयिनी पुनः प्राप्ति-सम्भावना-रहितापि । परिचर्या स्त्री-पुत्रादि-सङ्ग-त्यग-सङ्ग-वद् अनशन-व्रतम् । गुर्वी जीवन-पर्यन्ता । प्राज्य-राज्य-च्युति-प्राय-चर्ययोर् मुद-विस्तारित्वाद् रागः । भियो मुद्-विस्तारिकात्वाद् अनुभाव-लक्षणं, भियः पूर्वम् अपि राज्ञि पारिषदत्वात्, कृष्ण-लीलान्तर्-बहिर्-विहरणस्य सम्भवात् तस्यास् तत्-पोषित्वात् सम्बन्धवत्त्वम् ॥८८॥
**विश्वनाथः : **तक्षकात् गुरुर् भीतः तथातिशयिनी प्रचुर-राज्य-च्युतिः, एवं प्राय-चर्या प्राणान्तम् अनशन-व्रतं, एतत् सर्वं परम-दुःख-जनकम् अपि श्री-कृष्ण-लीला-सुधा-मध्ये विहरणस्य सचिवत्वात् सहायत्वात् औत्तरेयस्य राज्ञः श्री-परीक्षितः मुदम् अतनुत, भयादीनां कृष्ण-कथायां गाढासक्ति-जनकत्वात् सचिवत्वं ज्ञेयम् इति भावः ॥८८॥
—ओ)०(ओ—
॥ ३.२.८९ ॥
यथा वा—
केशवस्य करुणा-लवेऽपि चेद्
बाडवोऽपि किल षाडवो मम ।
अस्य यद्य् अदयता- कुश-स्थली
पूर्ण-सिद्धिर् अपि मे कुशस्थली ॥
श्री-जीवः : अत्र तत्-सम्बन्धाभावे तुद्-आहरणं ज्ञेयम् । अथ कृपा-लाभालाभाभ्यां उदाहरन्ति—केशवस्येति । षाडवः पानक-विशेषः । कुशस्थली द्वारका ॥८९॥
मुकुन्दः : बाडवो बडवाग्निः षाडवः पानक-विशेषः । बाडवे पीतेऽस्य **करुणालवोऽपि चेत् **तदा षाडवः स पेय इत्य् अर्थः । बाडवः षाडव इति रागत्वं, करुणा-लवार्थं बाडव-पानेन प्राण-व्यये तत्र बाडवत्व-मननाद् अनुभावता च । कुशस्थली द्वारका । कुश-स्थली कुशैर् वृता स्थली, तत्र वासे यद्य् अदयता तदा कुश-स्थलीव सा त्याज्येत्य् अर्थः ॥८९॥
विश्वनाथः : षाडवः पानक-विशेषः । तत्-सम्बन्धाभावे उदाहरणम् आह—अस्येति । कुशस्थली द्वारका ॥८९॥
—ओ)०(ओ—
॥ ३.२.९०-९१ ॥
प्राय आद्य-द्वये प्रेमा स्नेहः पारिषदेष्व् असौ ।
परीक्षिति भवेद्- रागो दारुके च तथोद्धवे ॥
व्रजानुगेष्व् अनेकेषु रक्तक-प्रमुखेषु च ।
अस्मिन्न् अभ्युदिते भावः प्रायः स्यात् सख्य-लेश-भाक् ॥
श्री-जीवः : तत्राधिकृताश्रित-पार्षदानुगेषु व्यवस्थाम् आह—प्राय आद्य-द्वय इति । प्रायो-ग्रहणं—यर्ह्य् अम्बुजाक्षापससार भो भवान् [भा।पु। १.११.९] इत्य् इत्य्-आदि आदि-द्वारका-वासि-वचने रागस्यापि स्पर्श-दर्शनात् । परीक्षितीति—नैषातिदुःसहा क्षुण् मां [भा।पु। १०.१.१३] इत्य् इत्य्-आदि आदि-तद्-वाक्यात् । दारुके च यथा, अपश्यतस् ते चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा [भा।पु। ११.३०.४३] इत्य् इत्य्-आदि आदि-तद्-वाक्यात् । उद्धवे च, यथा—सुदुस्त्यज-स्नेह-वियोग-कातरः [भा।पु। ११.२९.४६] इत्य् इत्य्-आदेः । साधारणेष्व् अप्य् अनुगेषु प्राय ईदृश एवेत्य् अभिप्रेत्य तद्-विशेषेषु विशेषम् आह—व्रजानुगेष्व् इति । **अस्मिन्न् अभ्युदिते **रागे भावः प्रीत्य्-आख्योऽपि प्रायः स्याद् इति प्रणयांश-मयत्वे सतीत्य् अर्थः ॥९०-९१॥
मुकुन्दः : आद्य-द्वये अधिकृताश्रययोः । प्राय इति सोत्कण्ठं मुरली-कला-परिमलान् इत्य् आदौ स्नेहस्यापि दर्शनात् व्रजानुगास्व् अनेकेष्व् इत्य् अनेन पुरानुगेष्व् एकस्मिन् स-द्वितीये वा रागोऽन्येषु सर्वेषु व्रजानुगेषु केषुचिद् एव स्नेह इति गम्यते ॥९०॥ अस्मिन् रागे । भावः सम्भ्रम-प्रीत्य्-आख्यः स्थायी । सख्यं विश्रम्भ-रूपं । प्राय इति कस्यचिद् इत्य् उदितेऽपि रागे भावः सख्य-लेश-भाग् न स्याद् इति ॥९१॥
विश्वनाथः : अत्राधिकृताश्रित-पार्षदानुगेषु व्यवस्थाम् आह—प्राय आद्य इति । आद्य-द्वये अधिकृताश्रित-द्वये प्रायो-ग्रहणं—यर्ह्य् अम्बुजाक्षापससार भो भवान् [भा।पु। १.११.९] इत्य्-आद्य्-आश्रित-द्वारका-वासि-वचनेन रागस्यापि स्पर्शनात् । परीक्षितीति—नैषातिदुःसहा क्षुण् मां [भा।पु। १०.१.१३] इति वाक्यात् । दारुके च यथा, अपश्यतस् ते चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा [भा।पु। ११.३०.४३] इति तद्-वाक्यात् । उद्धवे, यथा—सुदुस्त्यज-स्नेह-वियोग-कातरः [भा।पु। ११.२९.४६] इत्य् आदेः ॥ अस्मिन् रागे भावः प्रीत्याख्यः स्यात् ॥९०-९१॥
—ओ)०(ओ—
॥ ३.२.९२ ॥
यथा—
शुद्धान्तान् मिलितं बाष्प-रुद्ध-वाग् उद्धवो हरिम् ।
किञ्चित्-कुञ्चित-नेत्रान्तः स्वान्तेन परिषस्वजे ॥
श्री-जीवः : अत्र केषुचिद् व्रजानुगेषु सम्भवत्य् अपि प्रणयांशमयत्वे, त्वं भृत्यः सुहृत् सखा [भा।पु। ११.११.४९] इति प्रसिद्धिम् उपलक्ष्य श्रीमद्-उद्धवम् उदाहरति—शुद्धान्ताद् इति । शुद्धान्ताद् अन्तःपुरात् ॥९२॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : परिषस्वजे इत्य् अत्रालिङ्गनं सख्य-चिह्नम् ॥९२॥
—ओ)०(ओ—
॥ ३.२.९३-९५ ॥
अयोग-योगाव् एतस्य प्रभेदौ कथिताव् उभौ ॥
अथ अयोगः—
सङ्गाभावो हरेर् धीरैर् अयोग इति कथ्यते ।
अयोगे तन्-मनस्कत्वं तद्-गुणाद्य्-अनुसन्धयः ॥
तत्-प्राप्त्य्-अपायौपाय-चिन्ताद्याः सर्वेषां कथिताः क्रियाः ।
उत्कण्ठितं वियोगश् चेत्य् अयोगेऽपि द्विधोच्यते ॥
सर्वे : एतस्य प्रीति-भक्ति-रसस्य ॥९३॥
—ओ)०(ओ—
॥ ३.२.९६-९७ ॥
तत्र उत्कण्ठितम्—
अदृष्ट-पूर्वस्य हरेर् दिदृक्षोत्कण्ठितं मतम् ॥
यथा नारसिंहे—
चकार मेघे तद्-वर्णे बहु-मान-रतिं नृपः ।
पक्ष-पातेन तन्-नाम्नि मृगे पद्मे च तद्-दृशि ॥
श्री-जीवः : नृप इक्ष्वाकुः । पक्षपातेनात्यासक्त्यापक्षपातेन अत्यासक्त्या, तन्-नाम्नि तस्य नाम यत्र तादृशे कृष्ण-साराख्ये । तद्-दृशि तस्य दृक्-तुल्य इत्य् अर्थः ॥९७॥
मुकुन्दः : नृप इक्ष्वाकुः । पक्षपातेन स्वयम् अन्य-द्वारा च दुष्ट-जन्त्व्-आदिभ्यो रक्षया पोषणेन च । तन्-नाम्नि तस्य नाम यत्र तादृशे कृष्ण-साराख्ये । तद्-दृशि तस्य कृष्णस्य दृक् दर्शन-रूपं यस्य तस्मिन् ॥९७॥
विश्वनाथः : नृप इक्ष्वाकुः । पक्षपातेनात्यासक्त्या पक्षपातेन अत्यासक्त्या तन्-नाम्नि तस्य नाम यत्र तादृशे कृष्ण-साराख्ये मृगे । तस्य दृशि तस्य दृक्-तुल्य इत्य् अर्थः ॥९७॥
—ओ)०(ओ—
॥ ३.२.९८ ॥
यथा व, श्री-दशमे (१०.३८.१०)—
अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषोर्
भारावताराय भुवो निजेच्छया ।
लावण्य-धाम्नो भवितोपलम्भनं
मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥
श्री-जीवः : मनुजत्वं मनुज-जातित्वम् ईयुषुयअः प्राप्तवतस् तत्र प्रकाशमानस्येत्य् अर्थः ॥९८॥
प्रीति-सन्दर्भः २१२- तद् एतद्-विभावादि-स्थाय्य्-अन्त-संवलन-चमत्कारात्मको रसो ज्ञेयः । स च पूर्ववत् प्रथमाप्राप्त्य्-आत्मको यथा—अप्य् अद्येति ॥ स्पष्टम् । श्री-अक्रूरः ॥
मुकुन्दः : विष्णोः सर्व-व्यापकस्य परिपूर्णस्य स्वां स्वयं भगवत इत्य् अर्थः । उपलम्भनं निकट-प्राप्तिर् अद्य भवितेत्य् भविता इत्य् अन्वयः । तादृशस्यापि निजेच्छया मनुजत्वम् ईयुषः लीला-माधुर्याय प्रसिद्ध-मनुज-साधारण्यं नित्यं एव प्राप्तवतः । अयम् आत्मापहत-पाप्मा इतिवत् । न केवलं लीला-माधुर्याणां एवाश्रयत्वं । सौन्दर्याणां अपीत्य् आह—लावण्य-धाम्न इति । मह्यं मम । अपीति प्राकाश्ये ॥९८॥
विश्वनाथः : मनुजत्वं मनुष्य-जातिम् । ईयुषः प्राप्तवतस् तत्र प्रकाशमानस्येत्य् अर्थः । मह्यं मम दृशः फलं न न स्यात्, । अपि तु स्याद् एव ॥९८॥
—ओ)०(ओ—
॥ ३.२.९९ ॥
अत्रायोग-प्रसक्तानां सर्वेषाम् अपि सम्भवे ।
औत्सुक्य-दैन्य-निर्वेद-चिन्तानां चापलस्य च ।
जडतोन्माद-मोहानाम् अपि स्याद् अतिरिक्तता ॥
श्री-जीवः : सर्वेषां व्यभिचारिणां सम्भवे सत्य् अपि, अतिरिक्तता उद्रेकः ॥९९॥
मुकुन्दः : सर्वेषां निर्वेदोऽथ विषण्णतेत्य् विषण्णतेत्य्-आद्य् एकविंशतेः सम्भवे सत्य् अपि, अतिरिक्तता अतिशयता ॥९९॥
विश्वनाथः : सर्वेषां व्यभिचारिणां सम्भवे सत्य् अपि, औत्सुक्यादीनाम् अतिरिक्तता उद्रेकः ॥९९॥
—ओ)०(ओ—
॥ ३.२.१०० ॥
तत्र औत्सुक्यं, यथा श्री-कृष्ण-कर्णामृते (४१)—
अमून्य् अधन्यानि दिनान्तराणि
हरे त्वद्-आलोकनम् अन्तरेण ।
अनाथ-बन्धो करुणैक-सिन्धो
हा हन्त हा हन्त कथं नयामि ॥
श्री-जीवः : न विद्यते नाथो नाथान्तरं यस्य, तस्य बन्धो प्रतिपालक ॥१००॥
मुकुन्दः : दिनस्य आहोरात्रस्यान्तराणि अहोरात्रस्य अन्तराणि मध्य-गतानि क्षण-जातानीति शेषः ॥१००॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१०१ ॥
यथा वा,
विलोचन-सुधाम्बुधेस् तव पदारविन्द-द्वयी
विलोचन-रस-च्छटाम् अनुपलभ्य विक्षुभ्यतः ।
मनो मम मनाग् अपि क्वचिद् अनाप्नुवन् निर्वृतिं
क्षणार्धम् अपि मन्यते व्रज-महेन्द्र वर्ष-व्रजम् ॥
श्री-जीवः : विलोचनेति विलोचन- इति । मथुरातः श्री-उद्धवस्य गुप्त-पत्रिका ॥१०१॥
मुकुन्दः : विलोचन- इति । विलोचनेति । मथुरातः उद्धवस्य गुप्त-पत्रिका ॥१०१॥
विश्वनाथः : विलोचन- इति । विलोचनेति । मथुरातः श्रीमद्-उद्धवस्य गुप्त-पत्रिका । क्षणार्धम् अपि वर्ष-समूहं मन्यते ॥१०१॥
—ओ)०(ओ—
॥ ३.२.१०२ ॥
दैन्यं, यथा तत्रैव3—
निबद्ध-मूर्धाञ्जलिर् एष याचे
नीरन्ध्र-दैन्योन्नति-मुक्त-कण्ठम् ।
दयाम्बुधे देव भवत्-कटाक्ष-
दाक्षिण्य-लेशेन सकृन् निषिञ्च ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : निबद्धो मूर्धाङ्जलिर् येन तादृशः । नीरन्ध्रं निश्छिद्रं यद् दैन्यं**,** तस्य या उन्नतिस् उन्नतिः, तया मुक्त-कण्ठं यथा स्यात्, तथा ॥१०२॥
**विश्वनाथः : **एष मल्-लक्षणो जनो नीरन्ध्र-दैन्यस्य उन्नतिर् यत्र, तद् यथा स्यात्, तथा याचे ॥१०२॥
—ओ)०(ओ—
॥ ३.२.१०३ ॥
यथा वा—
असि शशि-मुकुटाद्यैर् अप्य् अलभ्येक्षणस् त्वं
लघुर् अघहर कीटाद् अप्य् अहं कूट-कर्मा ।
इति विसदृशतापि प्रार्थने प्रार्थयामि
स्नपय कृपण-बन्धो माम् अपाङ्ग-च्छटाभिः ॥
श्री-जीवः : कूउट-कर्माहं कीटाद् अपि लघुर् इति प्रार्थने विसदृशतापि प्रार्थयाम्य् अपीत्य् अपि इत्य् अन्वयः । प्रार्थयेऽपीति वा पाठः । यद्यप्य् अयोग्यता, तथापि प्रार्थय इत्य् अर्थः ॥१०३॥
मुकुन्दः : इति हेतोः प्रार्थने विसदृशतापि, तथापि प्रार्थयामीत्य् प्रार्थयामि इत्य् अर्थः । तत्र हेतु-गर्भ-सम्बोधनं—कृपण-बन्धो इति ॥१०३॥
विश्वनाथः : महादेवाद्यैर् अपि अलभ्येक्षणस् त्वम् असि, कुटकूट-कर्माहं कीटाद् अपि लघुर् इति प्रार्थने विसदृशतापि प्रार्थयामीत्य् प्रार्थयाम्इ इत्य् अन्वयः । यद्यप्य् अयोग्यता, तथापि प्रार्थय इत्य् अर्थः ॥१०३॥
—ओ)०(ओ—
॥ ३.२.१०४ ॥
निर्वेदो, यथा—
स्फुटं श्रितवतोर् अपि श्रुति-निषेवया श्लाघ्यतां
ममाभव-नि-रेअतयोर् भवतु नेत्रयोर् मन्दयोः ।
भवेन् न हि ययोः पदं मधुरिम-श्रियाम् आस्पदं
पदाम्बुज-नखाङ्कुराद् अपि विसारि रोचिस् तव ॥
श्री-जीवः : स्फुटम् इति च पूर्ववद् एवोद्धवस्य सन्देशः । पदाम्बुजस्य नख-रूपः अङ्कुरोऽग्र-भागः श्रुति-निषेवयेति निषेवया इति दीर्घयोर् अपीत्य् अर्थः । बहुतर-श्रौत-ग्रन्थ-दर्शिनोर् इति वा । अभवनिः नाशः ॥१०४॥
मुकुन्दः : स्फुटम् इति च विलोचन [भ।र।सि। ३.२.१०१] इतिवद् उद्धव-सन्देशः । श्रुति-निषेवयेति निषेवया इति दीर्घयोर् अपीत्य् अर्थः । पदाम्बुजस्य नख-रूपः अङ्कुरोऽग्र-भागः ॥१०४॥
**विश्वनाथः : **स्फुटम् इति च पूर्ववद् एवोद्धव-सन्देशः । श्रुति-निषेवया, पक्षे श्रुतिः शास्त्रं, तस्य निषेवया श्लाघ्यतां श्रितवतोर् नेत्रयोः अभवनिर् नाशः भवतु, तव पदाम्बुजस्य नख-रूपः योऽङ्कुरोऽग्र-भागः, । तस्माद् विसारी प्रसरण-शीलं रोचिषयोर् नेत्रयोर् आस्पदं न भवेत्, तअयोर् इति पूर्वेणान्वयः ॥१०४॥
—ओ)०(ओ—
॥ ३.२.१०५ ॥
चिन्ताम्, यथा—
हरि-पद-कमलावलोक-तृष्णा
तरल-मतेर् अपि योग्यताम् अवीक्ष्य ।
अवनत-वदनस्य चिन्तया मे
हरि हरि निःश्वसतो निशाः प्रयान्ति ॥
श्री-जीवः : हरि-पदेति पद- इति कस्यचिद् भक्तस्य निर्जन-विलापः । हरि हरि खेदे । मे मम योग्यताम् अवीक्ष्य सोऽयम् अयोग्यो दुःखितो भवतु नामेतीव विभाव्य निशाः प्रयान्तीत्य् प्रयान्ति इत्य् अर्थः । कीदृशस्यापि मम ? हरि-पदेत्य् पद- इत्य्-आदि-लक्षणस्य । अत एव चिन्तया अवनत-वदनस्येति वदनस्य इति । षष्ठी चेयम् अनादरे ॥१०५॥
**मुकुन्दः : **चिन्तया निःश्वसतः सतो मे निशाह् प्रयान्ति । कीदृशस्य मम ? हरि-पदेत्य्-आदि-लक्षणस्य तद्-दर्शन-योग्यतां सम्पत्तिम् अवीक्ष्याविज्ञायावनतअवीक्ष्य अविज्ञाय अवनत-वदनस्य ॥१०५॥
विश्वनाथः : कस्यचिद् भक्तस्य निर्जन-विलापः । हरि हरि खेदे । मम योग्यताम् अवीक्ष्य स्वयम् अयोग्यो दुःखितो भवतु नामेतीव निशाः प्रयान्ति । कीदृशस्य मम ? हरि-पदेत्य्पद- इत्य्-आद्यादि-विशेषण-विशिष्टस्य । अत एव चिन्तया अवनत-वदनस्येत्य् वदनस्य इत्य् अनादरे षष्ठी । एवं-भूतं माम् अनादृत्य निशाः प्रयान्ति इति फलितार्थः ॥१०५॥
—ओ)०(ओ—
॥ ३.२.१०६ ॥
चापलं, यथा श्री-कृष्ण-कर्णामृते (३२)—
त्वच्-छैशवं त्रि-भुवनाद्भुतम् इत्य् अवेहि
मच्-चापलं च तव वा मम वाधिगम्यम् ।
तत् किं करोमि विरलं मुरली-विलासि
मुग्धं मुखाम्बुजम् उदीक्षितुम् ईक्षणाभ्याम् ॥
श्री-जीवः : विरलं क्वचित् क्वचिद् भाग्यवद्भिर् एव उपलभ्यम् ॥१०६॥
मुकुन्दः : त्वच्-छैशवं तव कैशोरं, तस्मात् त्वन्-मुखाम्बुजम् ईक्षणाभ्याम् उच्चैर् ईक्षितुं किं करोमि, यस्मिन् कृते तद्-दृष्टं स्यात् तत्त्वम् एवोपदिश । ननु न दृष्टं, तत् तेन किम् ? तत्राह—मुग्धं मनोहरं तद्-अदर्शनान् नेत्र-वैफल्यापत्तेर् इत्य् अर्थः । ननु तत्-समं किम् अपि पश्य ? तत्राह—विरलं साम्य-रहितम् । तत्र हेतुः—मुरली-विलासः विलास्इ ॥१०६॥
विश्वनाथः : तत् तस्मात् विरलं क्वचित् क्वचिद् एव भाग्यवद्भिर् एवोपलभ्यं तव मुखाम्बुजम् ईक्षितुम् अहं किं साधनं करोमि ? ॥१०६॥
—ओ)०(ओ—
॥ ३.२.१०७ ॥
यथा वा—
ह्रियम् अघहर मुक्त्वा हृत्दृक्-पतङ्गी ममासौ
भयम् अपि दमयित्वा भक्त-वृन्दात् तृषार्ता ।
निरवधिम् अविचार्य स्वस्य च क्षोदिमानं
तव चरण-सरोजं लेढुम् अनिविच्छतीश ॥
श्री-जीवः : हृत्-पतङ्गी इति लुप्तोपमा । क्यङ्-अर्थे क्विब्-अन्तात् । पुनः कर्तरि कृद् विहितः क्विब् इत्य् उपमा-वाचकस्य पूर्वस्य क्विपो लोपात् । रूपकं तु नात्रेष्यते । तत्-पुरुषस्योत्तर-पद-प्रधानत्वात् । प्रधान-भूताया पतङ्ग्या ह्रीर् न सम्भवति । गुणी-भूतायां दृशि योजयितुं न शक्यत इत्य् अभवन् अभवन्-मत-योगाख्य-दोषः स्यात् । ततश् च दृक् कर्त्री ह्रियं मुक्त्वा भयम् अपि दमयित्वा स्वस्य च क्षोदिमानम् अविचार्य पतङ्गीवाचरन्ती सती तव चरण-सरोजं लेढुम् अन्विच्छतीति अन्विच्छति इति योज्यम् । “दृक् दृक्-तपस्विन्य् असौ मे” इति वा पात्ःअः । अन्विच्छतीति, इषु गमियमां छ इति विधानात् ॥१०७॥
**मुकुन्दः : **दृग् एव पतङ्गी दृक्-पतङ्गी अन्विच्छति मृगयति, इष् गतौ दैवादिको धातुः । आरोप्यमाणायाः पतङ्ग्या विषयात्मतया एव त्रपादीनां त्यागाद्य्-उपयोगित्वात् परिणामालङ्कारः । दृग्-अब्जेन प्रसन्नेन वीक्षते मदिरेक्षणा इतिवत्, विषयात्मतयारोप्ये प्रकृतऋथोपयोगिनि परिणामः इति तल्-लक्षणम् ॥१०७॥
विश्वनाथः : पतङ्गी इति लुप्तोपमा । रूपकं तु नात्रेष्यते, तत्-पुरुषस्योत्तर-पद-प्रधानत्वात् । प्रधान-भूताया पतङ्ग्या ह्रीर् न सम्भवति । गुणी-भूतायाम् ईक्षितुं योजयितुं न शक्यत इत्य् अभवन्-मताख्यो दोषः स्यात् । ततश् च दृक् कर्त्री ह्रियं त्यक्त्वा भयम् अपि दमयित्वा स्वस्य च क्षुद्रताम् अविचार्य पतङ्गी इवाचरन्ती तव चरण-सरोजं लेढुम् अन्विच्छतीति अन्विच्छत्इ इति योज्यम् ॥१०७॥
—ओ)०(ओ—
॥ ३.२.१०८ ॥
जडता, यथा सप्तमे (७.४.३७)—
न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया ।
कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् ॥
श्री-जीवः, विश्वनाथः : न्यस्तेति न्यस्त- इति । तन्-मनस्तया कृष्ण-मनस्तया न्यस्त-क्रीडनकः । तद्-अनन्तरं तयैव जडवत् तत्-तुल्यः । तत्-पश्चात् कृष्ण-ग्रह-गृहीतात्मा ग्रहेणेव कृष्णेनाविष्टः सन् जगद् ईदृशं न वेद न ददर्श । यथा लोकाः पश्यन्ति, तथा न, किन्तु तत्-स्फुर्ति-करत्वेनैव ददर्शेत्य् अर्थः ।_।_३७॥
। तन्-मनस्तया कृष्ण-मनस्तया न्यस्त-क्रीडनकः । तद्-अनन्तरं तयैव जडवत् तत्-तुल्यः । तत्-पश्चात् कृष्ण-ग्रह-गृहीतात्मा ग्रहेणेव कृष्णेनाविष्टः सन् जगद् ईदृशं न वेद न ददर्श, यथा लोकाः पश्यन्ति तथा न, किन्तु तत्-स्फुर्ति-करत्वेनैव ददर्शेत्य् अर्थः ।_।_३७॥
मुकुन्दः : कृष्ण एव ग्रहस् ग्रहः, तेन गृहीतात्मा आविष्ट-स्वरूपः, अतस् तन्-मनस्तया जडवत् तत्-तुल्यः । ईदृशं नाना-वैचित्रीमद् अपि जगत् न ददर्श ॥३७॥
**विश्वनाथः : **न्यस्तेति । तन्-मनस्कया कृष्ण-मनस्कया न्यस्त-क्रीडनकः, तद्-अनन्तरं तयैव जडवत् तत्-तुल्यः । तत्-पश्चात् कृष्ण-ग्रह-गृहीतात्मा ग्रहेणैव कृष्णेनाविष्टः सन् जगद् ईदृशं न वेद न ददर्श, यथा लोकाः पश्यन्ति, तथा न, किन्तु तत्-स्फुर्ति-करत्वेनैव ददर्शेत्य् अर्थः ।_।_३७॥
—ओ)०(ओ—
॥ ३.२.१०९ ॥
यथा वा—
निमेषोन्मुक्ताक्षः कथम् इह परिस्पन्द-विधुरां
तनुं बिभ्रद् भव्यः प्रतिकृतिर् इवास्ते द्विज-पतिः ।
अये ज्ञातं वंशी-रसिक-नव-राग-व्यसनिना
पुरः श्यामाम्भोदे बत विनिहिता दृष्टिर् अमुना ॥
श्री-जीवः- भव्यः सर्वत्र योग्यः । भव्यं सत्ये शुभे चाथ भेद्यवद् योग्य-भाविनोः इति विश्व-प्रकाशात् ॥१०९॥
**मुकुन्ददासः : **यो नव-रागः प्रीति-विशेषस् तेन व्यसनिना तत्-सदृश-दर्शने आसक्तिमता । बत हर्षे ॥१०९॥ यो नव-रागः प्रीति-विशेषः, तेन व्यसनिना तत्-सदृश-दर्शने आसक्तिमता । बत हर्षे ॥१०९॥
**विश्वनाथः- **भव्यः सर्वत्र योग्यः । भव्यं सत्ये शुभे चाथ भेद्यवद् योग्य-भाविनोः इति विश्व-प्रकाशात् । प्रतिकृतिः प्रतिमा ॥१०९॥
—ओ)०(ओ—
॥ ३.२.११० ॥
उन्मादो, यथा सप्तमे (७.४.४०)—
नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित् तद्-भावना-युक्तस् तन्मयोऽनुचकार ह ॥
श्री-जीवः, मुकुन्दः : न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
**विश्वनाथस्य सारार्थ-दर्शिनी : **नदतीति । स्फूर्ति-प्राप्तं हरिम् अतिदूरे दृष्ट्वा उत्कण्ठः उच्चीकृत-कण्ठः, भो प्रह्लाद वत्स त्वाम् अनाल्क्याहं नैव निर्वृणोमि यतस् त्वम् एव ममातिप्रिय इत्य् उक्तः सन्, आनन्दातिशयेन विक्षिप्त एव विलज्जो नृत्यति । तदैव स्फूर्ति-भङ्गे सति तद्-विरह-खेदाधिक्येन तद्-भावनातिशय-युक्त उन्माद-सञ्चारि-प्राबल्येन अहम् एव हरिर् इति तन्-मयः सन् तल्-लीलां राम-कृष्णाद्य्-अवतार-गताम् अपि अनुचकार अनुकृतवान् ॥ **नदति **इति । स्फूर्ति-प्राप्तं हरिम् अतिदूरे दृष्ट्वा उत्कण्ठ उच्चीकृत-कण्ठः । “भो प्रह्राद ! वत्स ! त्वाम् अनालोक्याहं नैव निर्वृणोमि, यतस् त्वम् एव ममातिप्रियः” इत्य् उक्तः सन्, आनन्दातिशयेन विक्षिप्त एव विलज्जो नृत्यति । तदैव स्फूर्ति-भङ्गे सति तद्-विरह-खेदाधिक्येन तद्-भावनातिशय-युक्त उन्माद-सञ्चारि-प्राबल्येन “अहम् एव हरिः” इति तन्-मयः सन्, तल्-लीलां राम-कृष्णाद्य्-अवतार-गताम् अपि अनुचकार अनुकृतवान् ॥४०॥
—ओ)०(ओ—
॥ ३.२.१११ ॥
यथा वा—
क्वचिन् नटति निष्पटं क्वचिद् असम्भवं स्तम्भते
क्वचिद् विहसति स्फुटं क्वचिद् अमन्दम् आक्रन्दति ।
लसत्य् अनलसं क्वचित् क्वचिद् अपार्थम् आर्तायते
हरेर् अभिनवोद्धुर-प्रणय-सीधुम् अत्तो मुनिः ॥
श्री-जीवः : लसति क्रीडति । अपार्थं दृष्टार्ति-सामग्रीं विनेत्य् अर्थः । मुनिर् नारदः ॥१११॥
मुकुन्दः : लसति क्रीडति । अपार्थम् ऐहिकार्ति-सामग्रीं विनेत्य् अर्थः ॥१११॥
विश्वनाथः : लसति क्रीडति । अनलसं यथा स्यात् तथा अपार्थं व्यर्थं दृष्टार्ति-सामग्रीं विनेत्य् अर्थः ॥१११॥
—ओ)०(ओ—
॥ ३.२.११२ ॥
मोहो, यथा हरि-भक्ति-सुधोदये (१४.७)—मोहो, यथा हरि-भक्ति-सुधोदये—
अयोग्यम् आत्मानम् इतीश-दर्शने
स मन्यमानस् तद्-अनाप्ति-कातरः ।
उद्बेलौद्वेल-दुःखार्णव-मग्न-मानसः
श्रुताश्रुस्रुताश्रु-धारो द्विज मूर्च्छितापतत् मूर्च्छितोऽपतत् ॥
श्री-जीवः, मुकुन्दः : स श्री-प्रह्लादः ॥११२॥
विश्वनाथः : स प्रह्लादः । ईश-दर्शने आत्मानम् अयोग्यं मन्यमान इति हेतोः मूर्च्छितोऽपतत् । उद्वेल उद्गत-मर्यादो यो दुःख-समुद्रस् समुद्रः, तस्मिन् मग्न-मानसः ॥११२॥
—ओ)०(ओ—
॥ ३.२.११३ ॥
यथा वा—
हरि-चरण-विलोकालब्धि-तापावलीभिर्
बत विधूत-चिद्-अम्भस्य् अत्र नस् तीर्थ-वर्ये ।
श्रुति-पुट-परिवाहेनेश-नामामृतानि
क्षिपत ननु स-तीर्थाश् चेष्टतां प्राण-हंसः ॥
श्री-जीवः : चित् चैतन्यम् । तीर्थम् अत्र गुरुः । पक्षे ऋषि-जुष्ट-जलम् ॥११३॥
मुकुन्दः : चित् चैतन्यम् । तीर्थम् अत्र गुरुः । हंस-पक्षे ऋषि-जुष्तं जलम् । हरि-चरण-विओलोकेन सूर्य-किरण-प्रकाशेन आलब्धिः सम्यक् प्राप्तिर् यासां ताभिस् तापावलीभिः ॥११३॥
विश्वनाथः : ननु सतीर्थाः ! हे भ्रातरः ! तादृश-तापावलीभिर् विधूतं चित्त-ं चैतन्य-रूपम् अम्भो जलं चात्र तथा-भूते तीर्थ-वर्ये नोऽस्माकं गुरु-श्रेष्ठे । पक्षे, तीर्थ-शब्दः ऋषि-जुष्ट-जल-वाचकः । तस्मिन् कर्ण-पुट-स्वरूपेण परिवाहेण प्रणालिकया ईश-नाम-रूप-जलानि यूयं क्षिपत । लब्ध-सङ्गेन श्री-कृष्णेन सह विच्छेदः ॥११३॥
—ओ)०(ओ—
॥ ३.२.११४-११५ ॥
अथ वियोगः—
वियोगो लब्ध-सङ्गेन विच्छेदो दनुज-द्विषा ॥
यथा—
बलि-सुत-भुज-षण्ड-खण्डनाय
क्षतज-पुरं पुरुषोत्तमे प्रयाते ।
विधूत-विधुर-बुद्धिर् उद्धवोऽयं
विरह-निरुद्ध-मना निरुद्धवोऽभूत् ॥
श्री-जीवः : क्षतज-पुरं शोणित-पुरम् । विधुता कम्पिता यतो विधुरा दुःखिता च तादृशी बुद्धिर् यस्य सः, “विधुर-विधुतेति विधुत” इति वा पाठः । विधुरं तु प्रविश्लेषः इत्य् अमरः ॥११५॥
**मुकुन्दः : **क्षतज-पुरं शोणित-पुरं प्रयाते सति विधुता क्षोभं प्राप्ता, अतो विधुरा दुःखिता च बुद्धिर् यस्य सः । निरुद्धवो निरुत्सवः ॥११५॥
**विश्वनाथः : **बाणासुरस्य भुज-समूह-खण्डनाय क्षतज-पुरं शोणित-पुरं श्री-कृष्णे प्रयाते सति विधुता कम्पिता विधुरा दुःखिता च तादृशी बुद्धिर् यस्य निरुद्धवो निरुत्स्लाहोऽभूत् ॥११५॥
—ओ)०(ओ—
॥ ३.२.११६-११७ ॥
अङ्गेषु तापः कृशता जागर्यालम्ब-शून्यता ।
अधृतिर् जडता व्याधिर् उन्मादो मूर्च्छितं बुधैः मृतिः ।
वियोगे सम्भ्रम-प्रीतेर् दशावस्थाः प्रकीर्तिताः ॥
अनवस्थितिर् आख्याता चित्तस्यालम्ब-शून्यता ।
अरागिता तु सर्वस्मिन्न् अधृतिः कथिता बुधैः ।
अन्येऽष्टौ प्रकटार्थत्वात् तापाद्या न हि लक्षिताः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : न लक्षितो न लक्षण-विषयी-कृताः ॥११७॥
विश्वनाथः : आलम्बन-शून्यतेत्य् शून्यता इत्य् अस्य व्याख्या चित्तस्यानवस्थितिः चित्तस्य अनवस्थितिः । अधृतिर् इत्य् अस्य व्याख्या सर्वत्र [अरागिता] राग-शून्यता । अन्ये तापाद्या न हि लक्षिताः, प्रकटार्थत्वात् ॥११६-११७॥
—ओ)०(ओ—
॥ ३.२.११८ ॥
तत्र तापो, यथा—
अस्मान् दुनोति कमलं तपनस्य मित्रं
रत्नाकरश् च बडवानल-गूढ-मूर्तिः ।
इन्दीवरं विधु-सुहृत् क्कथम् ईश्वरं वा
तं स्मारयन् मुनि-पते दहतीह सभ्यान् ॥
श्री-जीवः : अस्मान् इत्य् आदिकं नारदं प्रत्य् उद्धव-वाक्यम् । वार्तवानलेन बाडवानलेन गूढाच्छातिता गूढा आच्छादिता मूर्तिस् तन्-मध्ये भागो यस्य सः । अत्र तापार्थं तपन-मित्रत्वादि-द्वयस्य हेतोर् आभासत्वं व्यज्य विधु-सुहृत् तस्य तु विरुद्धत्वं व्यज्य वियोगस्यैव दुरन्ततेयं यत् कमलादिकम् अपि तारकत्वेन सम्पादयतीति व्यञ्जितम् । “तं स्मारयद् दहति पारिषदान् मुनीन्द्र” इति पाठे स्मारयद् इत्य् अत्र लिङ्ग-विपरिणामः कर्तव्यः । “तं स्मारयन् मुनि-पते दहतीति सभ्यान्” इति पाठे तु सन्धि-विश्लेषात् सर्वत्राप्य् अन्वयः सुगमः ॥११८॥
मुकुन्दः : अस्मान् इति नारदं प्रति उद्धव-वचनम् । बडवानलेन गूढाच्छादिता मूर्तिस् तन्-मध्य-भागो यस्य सः । स्मारयद् इत्य् अस्य सर्वत्र योजनायै लिङ्ग-परिणामः कार्यः ॥११८॥
विश्वनाथः : अस्मान् इत्य् आदिकं नारदं प्रत्य् उद्धव-वाक्यम् । कमलं श्री-कृष्णस्य मुखाद्य्-अङ्ग-स्मारकत्वेन नोऽस्मान् दुनोतु, यतस् तपनस्य सूर्यस्य मित्रं, रत्नाकरः समुद्रोऽपि श्याम-रूप-स्मारकत्वेन दुनोतु, यतो बडवानलेन गूढा आच्छादिता मूर्तिस् तन्-मध्य-भागो यस्य, किन्तु इन्दीवरं नील-कमलं कथं तम् ईश्वरं स्मारयत् दहति, यतो विधोः परम-शीलतस्य शीतलस्य चन्द्रस्य सुहृत्, तथा च वियोगस्य तावत् दुरन्तता यत् परम-शीतल-कमलादिकम् अपि तापकत्वेन सम्पादयतीति भावः ॥११८॥
—ओ)०(ओ—
॥ ३.२.११९ ॥
कृशता, यथा—
दधति तव तथाद्य सेवकानां
भुज-परिघाः कृशतां च पाण्डुतां च ।
पतति बत यथा मृणाल-बुद्ध्या
स्फुटम् इह पाण्डव-मित्र पाण्डु-पक्षः ॥
श्री-जीवः : सेवकानां केषाञ्चिद् आवश्यक-कार्यार्थं द्वारका-तापिन् इत्य् अर्थः । स्फुटम् इत्य् उत्प्रेक्षायाम् । सा चात्रोदात्त-नामालङ्कारं व्यञ्जयन्ती विरहातिशयं व्यञ्जयति । पाण्डु-पक्षो हंसः ॥११९॥
**मुकुन्दः : **बत खेदे । इह भुज-परिघेषु । पाण्डु-पक्षो हंसः ॥११९॥
**विश्वनाथः : **हे पाण्डव-मित्र श्री-कृष्ण ! पाण्डु-पक्षो हंसः ॥११९॥
—ओ)०(ओ—
॥ ३.२.१२० ॥
जागर्या, यथा—
विरहान् मुर-द्विषश् चिरं
विधुराङ्गे परिखिन्न-चेतसि ।
क्षणदाः क्षण-दायितोज्झिता
बहुलाश्वे बहुलास् तदाभवन् ॥
श्री-जीवः, मुकुन्दः : क्षणदा रात्र्यस् तद्-उपलक्षितत्वाद् दिनान्य् अपि । उत्सव-दात्र्योऽपीति श्लेष-मूलो विरोधाभासः ॥१२०॥
**विश्वनाथः : **श्री-कृष्णस्य विरहात् विधुराङ्गे दुःखिताङ्गे परिक्षिण्ण-चेतसि बहुलाश्वे रजनि राजनि क्षणडावत्यो क्षणदावत्यो रात्रयः तद्-उपलक्षितत्वाद्4 ॥१२०॥
—ओ)०(ओ—
॥ ३.२.१२१ ॥
आलम्बन-शून्यता, यथा—
विजय-रथ-कुटुम्बिना विनान्यन्
न किल कुटुम्बम् इहास्ति नस् त्रिलोक्याम् ।
भ्रमद् इदम् अनवेक्ष्य यत्-पदाब्जं
क्वचिद् अपि न व्यवतिष्ठतेऽद्य चेतः ॥
श्री-जीवः : विजय-रथेति रथ इति । समय-विशेषे श्री-युधिष्ठिर-वाक्यम् । विजयोऽर्जुनः । रथ-कुटुम्बी सारथिः ॥१२१॥
मुकुन्दः : विजय-रथ इति । विजय-रथेति द्वारका-स्थानाम् उद्धवादीनां वाक्यम् । विजयोऽर्जुनः । रथ-कुटुम्बी सारथिः । भ्रमत् घूर्णत् ॥१२१॥
विश्वनाथः : विजय-रथ इति । विजय-रथेति समय-विशेषे श्री-युधिष्ठिर-वाक्यम् । विजयोऽर्जुनः । तस्य कुटुम्बी सारथिना कृष्णेन इदं जगत् भ्रमत् चेतः यत् यत्**-**पदाब्जम् अनवेक्ष्य ॥१२१॥
—ओ)०(ओ—
॥ ३.२.१२२ ॥
अधृतिः, यथा—
प्रेक्ष्य पिञ्छ-कुलम् अक्षि पिधत्ते
नैचिकी-निचयम् उज्झति दूरे ।
वष्टि यष्टिम् अपि नाद्य मुरारे
रक्तकस् तव पदाम्बुज-रक्तः ॥१२२॥
श्री-जीवः : प्रेक्ष्येत्य् प्रेक्ष्य इत्य् अनुसारेण पूर्वम् अरागिता [भ।र।सि। ३.२.११७] इति लक्षणेन नञ् विरोध एव ज्ञेयः । राग-प्रातिकूल्यम् इत्य् अर्थः ॥१२२॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : हे मुरारे ! तव रक्तक-नामा दासः त्वद्-विरहे मयूर-पिच्छं दृष्ट्वा नेत्रं पिधत्ते । गो-समूहं दूरे त्यजति, यष्टिं लगुडम् अपि न वष्टि, नेच्छति ॥१२२॥
—ओ)०(ओ—
॥ ३.२.१२३ ॥
जडता, यथा—
यौधिष्ठिरं पुरम् उपेयुषि पद्मनाभे
खेदानल-व्यतिकरैर् अतिविक्लवस्य ।
स्वेदाश्रुभिर् न हि परं जलताम् अवापुर्
अङ्गानि निष्क्रियतया च किलोद्धवस्य ॥
श्री-जीवः, मुकुन्दः : जलतां द्रवत्वम् । पक्षे जाड्यम् ॥१२३॥
विश्वनाथः : यौधिष्ठिरं पुरं हस्तिनापुरं, खेदानल-व्यातिकरेइर् व्यातिकरैर् इति खेदानलस्य प्रतिबन्धकत्वेन स्वेदाश्रुभिः करणैः परं केवलम् अङ्गानि जलतां द्रवतां नावापुः नावापुः। पक्षे, निष्क्रियतया जलतां जाड्यम् अवापुः ॥१२३॥
—ओ)०(ओ—
॥ ३.२.१२४ ॥
व्याधिर्, यथा—
चिरयति मणिम् अन्वेष्टुं
चलिते मुरभिदि कुशस्थली-पुरतः ।
समजनि धृत-नव-व्याधिः
पवन-व्याधिर् यथार्थाख्यः ॥
श्री-जीवः : पवन-व्याधिर् उद्धवः । बाल्याद् एव भगवत्-प्रेमोन्मत्तेन तस्य तथा लोक-भावनात् तथा ख्यातेः ॥१२४॥
**मुकुन्दः : **पवन-व्याधिर् उद्धवः ॥१२४॥
विश्वनाथः : द्वारका-पुरतः चलिते श्री-कृष्णे चिरयति चिर-कालं व्याप्य स्थिते सतीत्य् अर्थः । पवनव्याधिर् उद्धवः, बाल्याद् एव भगवत्-प्रेमोन्मत्तत्वेन तस्य तथा लोके भावनात् तथा ख्यातः ॥१२४॥
—ओ)०(ओ—
॥ ३.२.१२५ ॥
उन्मादो, यथा—
प्रोषिते बत निजाधिदैवते
रैवते नवम् अवेक्ष्य नीरदम् ।
भ्रान्त-धीर् अयम् अधीरम् उद्धवः
पश्य रौति रमते नमस्यति ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **रैवत-पर्वते मेघं वीक्ष्य उन्माद-वशात् कदाचित् नौति स्तौति कदाचित्द् रमते क्रीडति ॥१२५॥
—ओ)०(ओ—
॥ ३.२.१२६ ॥
मूर्च्छितं, यथा—
समजनि दशा विश्लेषात् ते पदाम्बुज-सेविनां
व्रज-भुवि तथा नासीन् निद्रा-लवोऽपि यथा पुरा ।
यदु-वर दर-श्वासेनामी वितर्कित-जीविताः
सततम् अधुना निश्चेष्टाङ्गास् तटान्य् अधिशेरते ॥
श्री-जीवः, विश्वनाथः : तथा दशा समजनि यथा पुरा प्रथमं निद्रा-लवोऽपि नासीत् । अधुना तु सततं निश्चेष्टाङ्गाः सन्तस् तटान्य् अधिशेरते इति योज्यम् ॥१२६॥
**मुकुन्दः : **तथा दशा समजनि यथा पुरा निद्रा-लवोऽपि नासीत् । अधुना तु सततं निश्चेष्टाङ्गाः सन्तस् तटान्य् अधिशेरते इति योज्यम् ॥१२६॥
—ओ)०(ओ—
॥ ३.२.१२७ ॥
मृतिः, यथा—
दनुज-दमन याते जीवने त्वय्य् अकस्मात्
प्रचुर-विरह-तापैर् ध्वन्त-हृत्-पङ्कजायाम् ।
व्रजम् अभि परितस् ते दास-कासार-पङ्क्तौ
न किल वसतिम् आर्ताः कर्तुम् इच्छन्ति हंसाः ॥।
श्री-जीवः : कासारः सरः । पक्षे, हंसाः प्राणाः ॥१२७॥
**मुकुन्दः : **जीवने जले, पक्षे जीवन-हेतौ । कासारः सरः । पक्षे, हंसाः प्राणाः ॥१२७॥
विश्वनाथः : हे श्री-कृष्ण ! जीव-रूपे पक्षे जल-रूपे त्वयि दूर-देशं याते सति व्रजं लक्षीकृत्य परितो वर्तमाना या दास-रूपा कासार-पङ्क्तिः तस्यां प्राण-रूपा हंसाः आर्ताः सन्तः वसतिं कर्तुं नेच्छन्ति ॥१२७॥
—ओ)०(ओ—
॥ ३.२.१२८ ॥
अशिवत्वान् न घटते भक्ते कुत्राप्य् असौ मृतिः ।
क्षोभकत्वाद् वियोगस्य जात-प्रायेति कथ्यते ॥
श्री-जीवः : न कुत्रापीति कुत्रापि इति कुत्रचिद् एव भक्ते सिद्ध-लक्षण एवेत्य् अर्थः । तत्र मृतिर् न घटत इत्य् अत्र हेतुः—अशिवत्वाद् इति । तत्रामङ्गल-मात्रं हि न सम्भवतीत्य् अर्थः । साधक-भक्ते मृतिर् अपि वर्णिता । प्राणान् जहति मथुरायां सुकृतिनः इति । ततश् च सिद्ध-भक्ते वियोगस्य क्षोभकतम् उद्दिश्यैव जात-प्राया मृतिर् इति कथ्यते इत्य् अर्थः ॥१२८॥
**मुकुन्दः : **भक्ते वियोगो लब्ध-सङ्गेन विच्छेदो दनुज-द्विषेत्य् उक्तेः सिद्धे कुत्रापि पञ्च-विधेष्व् एकतमेऽपि ॥१२८॥
**विश्वनाथः : **कुत्रापीति कुत्रचिद् एव भक्ते सिद्ध एवेत्य् अर्थः । तत्र मृतिर् घटते । इत्य् अत्र हेतुः—अशिवत्वाद् इति । तत्रामङ्गल-मात्रं हि न सम्भवतीत्य् अर्थः । साधक-भक्ते मृतिर् अपि वर्णिता । प्राणान् जहति मथुरायां सुकृतिनः इति । तथा च सिद्ध-भक्ते वियोगस्य क्षोभकत्वात् क्षोभकत्वम् उद्दिश्यैव जात-प्राया मृतिः । मृति-शब्देन वर्ण्यते, तथा च मरण-पूर्व-दशैव जाता, न तु मरणम् इति भावः ॥१२८॥
—ओ)०(ओ—
॥ ३.२.१२९ ॥
अथ योगः—
कृष्णेन सङ्गमो यस् तु स योग इति कीर्त्यते ।
योगेऽपि कथितः सिद्धिस् तुष्टिः स्थितिर् इति त्रिधा ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१३०-१३१ ॥
तत्र सिद्धिः—
उत्कण्ठिते हरेः प्राप्तिः सिद्धिर् इत्य् अभिधीयते ॥
यथा श्री-कृष्ण-कर्णामृते (५७)—
मौलिश् चन्द्रक-भूषणो मरकत-स्तम्भाभिरामं वपुर्
वक्त्रं चित्र-विमुग्ध-हास-मधुरं बाले विलोले दृशौ ।
वाचः शैशव-शीतया मद-गज-श्लाघ्या विलास-स्थितिर्
मन्दं मन्दम् अये क एष मथुरा-वीथीं मिथो गाहते ॥
श्री-जीवः : यस्य मौल्य्-आदय ईदृशाः स एष इत्य् अध्याहारेणान्वयः । बाले कोमले । शैशवेन शीतलास् ताप-हरा इत्य् अर्थः । मथुराया वीथीं निकट-भूमिं वृन्दावनम् इति यावत् । मिथोऽन्योन्यं रहस्य् अपि इत्य् अमरः ॥१३१॥
मुकुन्दः : अये इत्य् आकाशे सम्बोधनम् । यस्य मौल्य्-आदय ईदृशाः स एष इत्य् अध्याहारेणान्वयः । मौलिश् चूडा चन्द्रकी भूषणं यस्य स तथा । बाल्ये कोमले शैशवेन कैशोरेण विलास-स्थितिः विस्मयान्विता स्थितिः । मथुराया वीथीं निकट-भूमिं वृन्दावनम् इति यावत् । मिथो रहसि, मिथोऽन्योन्यं रहस्य् अपि इत्य् अमरः ॥१३१॥
**विश्वनाथः : **यस्य मौल्य्-आदय ईदृशाः स एष इत्य् अध्याहारेणान्वयः । बाले कोमले । शैशवेन तद्-अंशेन शीतलास् ताप-हरा इत्य् अर्थः । मद-गजाद् अपि श्लाघ्या । अत एव विलासा विस्मयान्विता स्थितिः । मथुराया वीथीं निकट-भूमिं वृन्दावनम् इति यावत् । मिथोऽन्योन्यं रहस्य् अपि इत्य् अमरः ॥१३१॥
—ओ)०(ओ—
॥ ३.२.१३२ ॥
यथा वा श्री-दशमे (१०.३८.३४)—
रथात् तूर्णम् अवप्लुत्य सोऽक्रूरः प्रेम-विह्वलः ।
पपात चरणोपान्ते दण्डवद् राम-कृष्णयोः ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१३३-१३४ ॥
तुष्टिः—
जाते वियोगे कंसारेः सम्प्राप्तिस् तुष्टिर् उच्यते ॥
यथा प्रथमे (१.११.१०)—
कथं वयं नाथ चिरोषिते त्वयि
प्रसन्न-दृष्ट्याखिल-ताप-शोषणम् ।
जीवेम ते सुन्दर-हास-शोभितम्
अपश्यमाना वदनं मनोहरम् ॥
श्री-जीवः : कथं वयम् इति श्री-प्रथमस्य यर्ह्य् अम्बुजाक्ष [भा।पु। १.११.९] इत्य्-आद्य्-अनन्तरं पद्यं क्वाचित्कम् एव ॥१३४॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : कथं वयम् इति श्री-प्रथम-स्कन्धस्य यर्ह्य् अम्बुजाक्ष [भा।पु। १.११.९] इत्य्-आद्य्-अनन्तरं पद्यं क्वाचित्कम् एव, न तु सर्व-पुस्तके ॥१३४॥
—ओ)०(ओ—
॥ ३.२.१३५ ॥
यथा वा—
समक्षम् अक्षमः प्रेक्ष्य हरिम् अञ्जलि-बन्धने ।
दारुको द्वारका-द्वारि तत्र चित्र-दशां ययौ ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : समक्षम् अग्रे श्री-कृष्णं प्रेक्ष्य अञ्जलि-बन्धनेऽसमर्थो दारुकः ॥१३५॥
—ओ)०(ओ—
॥ ३.२.१३६-१३७ ॥
स्थितिः—
सह-वासो मुकुन्देन स्थितिर् निगदिता बुधैः ॥
यथा हंसदूते (५०)5
पुरस्ताद् आभीरी-गण-भयद-नामा स कठिनो
मणि-स्तम्भालम्बी कुरु-कुल-कथां सङ्कलयिता ।
स जानुभ्याम् अष्टापद-भुवनम् अवष्टभ्य भविता
गुरोः शिष्यो नूनं पद-कमल-संवाहन-रतः ॥
श्री-जीवः : तत्रोपलक्षणत्वेन काञ्चित् स्थितिम् आह—पुरस्ताद् इति । गुरोर् बृहस्पतेः शिष्यः श्रीमद्-उद्धवः । अत्र श्रीमद्-व्रज-सेवकानाम् अपि तन्-महा-विरहानन्तरं नित्या स्थितिर् वक्ष्यमाणस्य प्रेयसो वत्सलस्य चान्तिम-टीकानुसारेण [३.३.१२८, ३.४.७६] ज्ञेया । तेषां दिग्-दर्शनं तु गणोद्देश-दीपिका-दृष्ट्या क्रियते ।
अङ्गाभ्यङ्ग-करं सुबन्धम् उपरि स्नान-प्रदं वारिदं वस्त्र-प्रापण-शर्म-धाम बकुलं गन्धार्पणं पुष्पकम् । मिष्ट-द्रव्य-समर्पकं मधुकरं ताम्बूलदं जम्बूलं नित्यं गोष्ठ-सुधांशु-कान्ति-सुधया पुष्टं दिदृक्षामहे ॥१३७॥
**मुकुन्ददासः : **गुरोर् बृहस्पतेः शिष्य उद्धवः ॥१३७॥
**विश्वनाथः : **मथुरायां गतेन मया श्री-कृष्णः कथं ज्ञातव्य इति सन्देहे श्री-कृष्णस्य ज्ञापकं चिह्नं हंसं प्रत्युपदिशति—आभीरी-गण-भयद-नामा अक्रूरः पुरस्तात् श्री-कृष्णस्याग्रे मणि-मय-स्तम्भावलम्बी सन् कुरु-कुल-कथां सङ्कथयिता सङ्कलयिता तथा गुरोर् बृहस्पतेः शिष्यः श्रीमद्-उद्धवः अष्टापद-भुवनम् अवष्टभ्य भविता । गुरोर् शिष्यः स्वर्ण-स्थलीं जानुभ्याम् अवष्टाभ्य यस्य पद-कमल-संवाहन-रतः स कृष्णस् तया सुखेन ज्ञातव्य इति भावः ॥१३७॥
—ओ)०(ओ—
॥ ३.२.१३८ ॥
निजावसर-शुश्रूषा-विधाने सावधानता ।
पुरस् तस्य निवेशाद्या योगेऽमीषां क्रिया मताः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तस्य श्री-कृष्णस्य पुरोऽग्रे आसने उपवेशनाद्या ब्रह्माः भावाः अमीषां दासानां क्रिया मताः ॥१३५१३८॥
—ओ)०(ओ—
**॥ ३.२.१३९-१४० ॥
केचिद् अस्या रतेः कृष्ण-भक्त्य्-आस्वाद-बहिर्मुखाः ।
भवत्वम् भावत्वम् एव निश्चित्य न रसावस्थतां जगुः ॥
इति तावद् असाधीयो यत् पुराणेषु केषुचित् ।
श्रीमद्-भागवते चैष प्रकटो दृश्यते रसः ॥
श्री-जीवः : **ननु भवन्तु ते तद्-बहिर्मुखाः, तेषां पूर्व-निर्दिष्टं तन्-मतं तु सुदृढम् एव, रस-शास्त्र-कृन्-मुनि-सम्मतत्वात्, तत्राह—इतीति । तावत् तावत्-पदं वाक्योपन्यासेऽव्ययम् । इति एतन्-मतम् असाधीयः श्री-भागवतं रसं व्याप्तुम् असमर्थत्वान् नातिदृढम् इत्य् अर्थः । कुतः ? तत्राह—यद् इति । मतेऽपीति-शब्दः इति क्षीर-स्वामी । तत्र तत्र तद्-दर्शितम् इत्य् आपिशलिर् इति तत्रापि आपिशलिर् इदं मतं स्वीकृतवान् इत्य् अर्थः ॥१३९-१४०॥
मुकुन्दः : केचिद् इति ये भक्त्य्-आस्वाद-बहिर्मुखाः, त एव, न तु सर्वे । सुदेवाद्यैर् उपवर्णितत्वात् ॥१३९॥ तावत्-पदं वाक्योपन्यासेऽव्ययम् । इति पूर्वोक्तं मतम् । असाधीयः अत्यदृढं, तत्र हेतुः—यद् इति ॥१४०॥
**विश्वनाथः : **इतीति इति इति । तावत्-पदं वाक्योपन्यासे । इति एतन्-मतम् असाधीयः, मतेऽपीति-शब्दः इति क्षीर-स्वामी ॥१४०॥
—ओ)०(ओ—
॥ ३.२.१४१-१४२ ॥
तथा हि एकादशे (११.३.३२)—
क्वचित् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥
सप्तमे च (७.७.३४)—
निशम्य कर्माणि गुणान् अतुल्यान्
वीर्याणि लीला-तनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रु-गद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥
श्री-जीवः : क्वचिद् रुदन्तीत्य् रुदन्ति इत्य्-आदिकं सामान्य-भक्ति-रस-परम् अपि विशेषे पर्यवस्येद् इति भावः । तत्र क्वचिद् रुदन्तीत्य् रुदन्ति इत्य्-आदिकम् एकादश-स्कन्ध-स्थ-पद्यम् । निशम्य [भा।पु। ७.७.३४] इति तु सप्तम-स्कन्ध-स्थं ज्ञेयम् ॥१४१-१४२॥
मुकुन्दः : क्वचिद् रुदन्ति इत्य्-आदिकम् क्वचिद् रुदन्तीत्य् आदिकं सख्य-रसादेर् एव वर्णनं, प्रीति-रस-परम् एवेति भावः । तत्र क्वचिद् रुदन्ति इत्य्-आदिकम् क्वचिद् रुदन्तित्य् आदिकम् एकादश-स्कन्ध-पद्यम् ॥१४१-१४२॥
विश्वनाथः : क्वचिद् रुदन्ति इत्य्-आदिकम् क्वचिद् रुदन्तीत्य् आदिकम् एकादश-स्कन्ध-पद्यम् । निशम्य [भा।पु। ७.७.३४] इति तु सप्तम-स्कन्ध-स्थं ज्ञेयम् ॥१४१-१४२॥
—ओ)०(ओ—
॥ ३.२.१४३ ॥
एषात्र भक्त-भावानां प्रायिकी प्रक्रियोदिता ।
किन्तु कालादि-वैशिष्ट्यात् क्वचित् स्यात् सीम-लङ्घनम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : भिद्यते सम्भ्रम-प्रीतिर् गौरव-प्रीतिर् इत्य् अपीति अपि [भ।र।सि। ३.२.४] इति पूर्वम् उक्तत्वात् एषा श्री-भागवते उदिता भक्त-भावानां रुदन्तीत्य् रुदन्ति [भ।र।सि। ३.२.१४१] इत्य्-आदि प्रक्रिया प्रायिकी, किन्तु देश-कालादि-वैशिष्ट्यात् इतोऽप्य् अधिकं सीमोल्लङ्घनं स्यात् ॥१४३॥
—ओ)०(ओ—
॥ ३.२.१४४ ॥
अथ** गौरव-प्रीतिः—
लाल्याभिमानिनां कृष्णे स्यात् प्रीतिर् गौरवोत्तरा ।
सा विभावादिभिः पुष्टा गौरव-प्रीतिर् उच्यते ॥
श्री-जीवः :** गौरवं श्री-कृष्ण-रूप-गुरु-निष्ठत्वं गुरुत्वम् एवोत्तरं प्रौढत्वे पर्यवसितं यस्याम् ॥१४४॥
मुकुन्दः : गौरवम् उत्तरं श्रेष्ठं प्रौढं यस्याः सा ॥१४४॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१४५-१४६ ॥
तत्र** आलम्बनाः—
हरिश् च तस्य लाल्याश् च भवन्त्य् आलम्बना इह ॥**
तत्र हरिः, यथा**—
अयम् उपहित-कर्णः प्रस्तुते वृष्णि-वृद्धैर्
यदुपतिर् इतिहासे मन्द-हासोज्ज्वलास्यः ।
उपदिशति सुधर्मा-मध्यम् अध्यास्य दीव्यन्
हितम् इह निजयाग्रे चेष्टयैवात्मजान् नः ॥
श्री-जीवः :** अयम् इति । चेष्टया उपहित-कर्ण इत्य् इत्य्-आदि-लक्षणया, हितम् एवम् एव पूर्वेषां महतां वृत्तम् अनुसरणीयम् इत्य् अर्थः ॥१४६॥
मुकुन्दः : दीव्यन्न् इति हासानुसारि-धर्मादि-कर्मणा क्रीडन-चेष्टया तेन कर्मणा । एव-कारो विर्धारणे निर्धारणे । हितं गुरु-जनैः प्रस्तुतं महतां वृत्तं, तेषां साक्षाद्-उपदेशं विनैव मयैवानुसरणीयम् इत्य् अर्थः ॥१४६॥
विश्वनाथः : वृष्णि-वृन्दैः वृद्द्ह्ऐः इतिहासे प्रस्तुते सति इतिहास-श्रवणार्थम् उपहित-कर्णोऽयं यदुपतिः सुधर्मा-सभा-मध्यम् अध्यास्य उपविश्य, उपहित-कर्ण इत्य् इत्य्-आदि आदि-लक्षणया हितम् । एवम् एव पूर्वेषां महतां वृत्तम् अनुसरणीयम् इत्य् अर्थः । नोऽस्मान् आत्मजान् उपदिशति ॥१४६॥
—ओ)०(ओ—
॥ ३.२.१४७-१४९ ॥
महा-गुरुर् महा-कीर्तिर् महा-बुद्धिर् महा-बलः ।
रक्षी लालक इत्य् इत्य्-आद्यैर् गुणैर् आलम्बनो हरिः ॥
अथ लाल्याः—
लाल्याः किल कनिष्ठत्व-पुत्रत्वाद्य्-अभिमानिनः ।
कनिष्ठाः सारण-गद-सुभद्र-प्रमुखाः स्मृताः ।
प्रद्युम्न-चारुदेष्णाद्याः साम्बाद्याश् च कुमारकाः ॥
एषां रूपं, यथा—
अपि मुरान्तक-पार्षद-मण्डलाद्
अधिक-मण्डन-वेश-गुण-श्रियः ।
आसतअसित-पीत-सित-द्युतिभिर् युता
यदु-कुमार-गणाः पुरि रेमिरे ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.२.१५० ॥
एषां भक्तिः, यथा—
सग्धिं भजन्ति हरिणा मुखम् उन्नमय्य
ताम्बूल-चर्वितम् अदन्ति च दीयमानम् ।
घ्राताश् च मूर्ध्नि परिरभ्य भवन्त्य् अदस्राःउदस्राः
साम्बादयः कति पुरा विदधुस् तपांसि ॥
श्री-जीवः : सग्धिं सह-भोजनम् ॥१५०॥
**मुकुन्दः : **सग्धिं सह-भोजनम् । वाक्यम् इदं प्रद्युम्नस्य ॥१५०॥
विश्वनाथः : सग्धिं सह-भोजनं भजन्ति । हरिणा दीयमानं ताम्बूल-चर्वितम् अदन्ति ॥१५०॥
—ओ)०(ओ—
॥ ३.२.१५१-१५३ ॥
रुक्मिणी-नन्दनस् तेषु लाल्येषु प्रवरो मतः ॥
तस्य रूपम्—
स जयति शम्बर-दमनः
सुकुमारो यदु-कुमार-कुल-मौलिः ।
जनयति जनेषु जनक-
भ्रान्तिं यः सुष्ठु रूपेण ॥
अस्य भक्तिः—
प्रभावति समीक्ष्यतां दिवि कृपाम्बुधिर् मादृशां
स एष परमो गुरुर् गरुड-गो यदूनां पतिः ।
यतः किम् अपि लालनं वयम् अवाप्य दरोद्धुराः
पुरारिम् अपि सङ्गरे गुरु-रुषं तिरस्कुर्महे ॥
श्री-जीवः : प्रभावतीति प्रभावति इति श्री-हरिवंशोक्त-प्रभावती-हरणे [ह।वं। २.९५.३९]6 तत्-समीपस्थस्य श्री-प्रद्युम्नस्य वाक्यम् ॥१५३॥
मुकुन्दः : प्रभावति इति प्रभावतीति तस्यैव । पुरारिं रुद्रम् ॥१५३॥
विश्वनाथः : प्रभावति इति प्रभावतीति श्री-हरिवंशोक्त-[२.९५.३९]६-प्रभावती-हरण-समये तत्-समीपस्थस्य श्री-प्रद्युम्नस्य वाक्यम् ॥१५३॥
—ओ)०(ओ—
**॥ ३.२.१५४-१५५ ॥
उभयेषां सदाराध्य-धियैव भजताम् अपि ।
सेवकानाम् इहैश्वर्य-ज्ञानस्यैव प्रधानता ॥
लाल्यानां तु स्व-सम्बन्ध-स्फूर्तेर् एव समन्ततः ॥
व्रज-स्थानां परैश्वर्य-ज्ञान-शून्य-धियाम् अपि ।
अस्त्य् एव वल्लवाधीश-पुत्रत्वैश्वर्य-वेदनम् ॥
श्री-जीवः : **वल्लवाधीश वल्लवाधीश-पुत्रत्वेनैव हेतुना यद् ऐश्वर्यं स्वतन्त्रत्वे दुर्लङ्घ्याज्ञत्वे तस्य वेदनं ज्ञानम् ॥१५४-१५५॥
मुकुन्दः : उभयेषाम् इति । इह श्री-कृष्णे ॥ वल्लवाधीश वल्लवाधीश-पुत्रत्वेन हेतुना यद् ऐश्वर्यं स्वतन्त्रत्वे दुर्लङ्घ्याज्ञत्वे तस्य वेदनं ज्ञानम् ॥१५४-१५५॥
विश्वनाथः : उभयेषां सेवकानां लाल्यानाम् । वल्लवाधीश-पुत्रेणैव यद् ऐश्वर्यम् इन्द्र-जयादि-प्रभावस् तस्य वेदनम् अनुभवः ॥१५४-१५५॥
—ओ)०(ओ—
॥ ३.२.१५६-१५७ ॥
अथ उद्दीपनाः—
उद्दीपनास् तु वात्सल्य-स्मित-प्रेक्षादयो हरेः ॥
यथा—
अग्रे सानुग्रहं पश्यन्न् अग्रजं व्यग्र-मानसः ।
गदः पदारविन्देऽस्य विदधे दण्डवन्-नतिम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अग्रजं श्री-कृष्णं पश्यन् गदः ॥१५७॥
—ओ)०(ओ—
॥ ३.२.१५८-१५९ ॥
अथ अनुभावाः—
अनुभावास् तु तस्याग्रे नीचासन-निवेशनम् ।
गुरोर् वर्त्मानुसारित्वं धुरस् तस्य परिग्रहः ।
स्वैराचार-विमोक्षाद्याः शीता लाल्येषु कीर्तिताः ॥
तत्र** नीचासन-निवेशनम्**, यथा**—
यदु-सदसि सुरेन्द्रैर् द्राग् उपव्रज्यमानाः
सुखद-करक-वार्भिर् ब्रह्मणाभ्युक्षिताङ्गः ।
मधुरिपुम् अभिवन्द्य स्वर्ण-पीठानि मुञ्चन्
भुवम् अभि मकराङ्को राङ्कवं स्वीचकार ॥
श्री-जीवः :** उपव्रज्यमानः पुरो गत्वा समानीयमानः । [उपस्थीयमाना इति] पाठान्तरं तु त्यक्तं, राङ्कुर् मृग-विशेषः ॥१५९॥
मुकुन्दः : सुरेन्द्रैः सुर-श्रेष्ठैर् इन्द्र-वरुणाद्यैः उपस्थीयमानो दिव्य-माल्य-नति-स्तुत्य्-आदिभिर् अर्च्यमानः ॥१५९॥
**विश्वनाथः : **तस्य श्री-कृष्णस्य धुरो भारस्य परिग्रहः । तथा च श्री-कृष्ण-दत्तस्य कार्य-भारस्य स्वीकार इत्य् अर्थः ॥१५८॥
सुरेन्द्रैर् उपव्रज्यमानः अग्रे गत्वा समानीयमानः । उपवेशार्थं पूर्वम् एव कॢप्तानि स्वर्ण-पीथानि त्यक्त्वा भुवम् अनु भुवि प्रद्युम्नः राङ्कवम् आसनं स्वीचकार । राङ्कवं मृग-रोमजम् इत्य् अमरः ॥१५९॥
—ओ)०(ओ—
॥ ३.२.१६०-१६२ ॥
दासैः साधाराणाश् चान्ये प्रोच्यन्तेऽमीषु केचन ।
प्रणामो मौन-बाहुल्यं सङ्कोचं प्रश्रयाढ्यता ।
निज-प्राण-व्ययेनापि तद्-आज्ञा-परिपालनम् ॥
अधो-वदनता स्थैर्यं कास-हासादि-वर्जनम् ।
तदीयातिरहः-केलि-वार्ताद्य्-उपरमादयः ॥
अथ सात्त्विकाः—
कन्दर्प विन्दति मुकुन्द-पदारविन्द-
द्वन्द्वे दृशोः पदम् असौ किल निष्प्रकम्पा ।
प्रालेय-बिन्दु-निचितं धृत-कण्टका ते
स्विन्नाद्य कण्टकि-फलं तनुर् अन्वकार्षीत् ॥
श्री-जीवः : दासैर् इत्य् आदौ तदीयातिरहः-केलीति । यद्यपि तेष्व् अत्यन्टसम्भवान् अत्यन्तासम्भवान् निषेधोऽपि स प्रसज्जेत, तथाप्य् आधुनिक-तद्-भावानां बोधनार्थम् एव निषिद्धम् इति ज्ञेयम् ॥१६१॥
**मुकुन्दः : **विन्दति सति निष्प्रकम्पा स्तब्धा ॥१६२॥
**विश्वनाथः : **रहः-केलि-वार्ता शृङ्गार-कथा, यद्यपि तेषू अत्यन्तासम्भवान् निषेधोऽपि न7 प्रसज्जते, तथापि आधुनिक-तद्-भाव-भावित-साधकानां बोधनार्थम् एव निषिद्धम् अपि ज्ञेयम् ॥१६१॥
हे कन्दर्प ! मुकुन्द-पादारविन्द-द्वन्द्वे तव दृशोः पदं विन्दति सति, ते धृत-कण्टका स्विन्ना तनुः कण्टकि-फलम् अन्वकार्षीत् अनुचकार । कीदृशं ? प्रालेय-बिन्दु-निचितं हिम-बिन्दु-व्याप्तम् ॥१६२॥
—ओ)०(ओ—
॥ ३.२.१६३-१६४ ॥
अथ व्यभिचारिणः—
अनन्तरोक्ताः सर्वेऽत्र भवन्ति व्यभिचारिणः ॥
तत्र हर्षो, यथा—
दूरे दरेन्द्रस्य नभस्य् उदीर्णे
ध्वनौ स्थितानां यदु-राजधन्याम् ।
तनूरुहैस् तत्र कुमारकाणां
नटैश् च हृष्यद्भिर् अकारि नृत्यम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अनन्तरोक्ता एतद् अव्यवहितम् उक्ताः ॥१६३॥ दरेन्द्रस्य पाञ्चजन्यस्य । यदु-कुमारकाणां तनूरुहैः नटैः सह नृत्यम् अकारि ॥१६४॥
—ओ)०(ओ—
॥ ३.२.१६५ ॥
निर्वेदो, यथा—
धन्यः साम्ब भवान् स-रिङ्गणम् अयन् पार्श्वे रजः-कर्बूरो
यस् तातेन विकृष्य वत्सलतया स्वोत्सङ्गम् आरोपितः ।
धिङ् मां दुर्भगम् अत्र शम्ब्ङ्कर-मयैर् दुर्दैव-विस्फूर्जितैः
प्राप्ता न क्षणिकापि लालन-रतिः सा येन बाल्ये पितुः ॥
श्री-जीवः : शम्बर-मयैर् इत्य् एवम् एवार्थे मयट् ॥१६५॥
**मुकुन्दः : **शम्बर-मयैः शम्बर-स्वरूपैः ॥१६५॥
विश्वनाथः : रिङ्गणं प्राप्नुवन् अतो रजसा कर्बुरो धूसराङ्गस् तं कृष्णेन स्वोतसङ्गाम् आरोपितः ॥१६५॥
—ओ)०(ओ—
॥ ३.२.१६६ ॥
अथ स्थायी—
देह-सम्बन्धिता-मानाद् गुरु-धीर् अत्र गौरवम् ।
तन्मयी लालके प्रीतिर् गौरव-प्रीतिर् उच्यते ॥
श्री-जीवः : देह-सम्बन्धितेति सम्बन्धिता इति । अत्र गुरु-धीर् इति “गुरुर् अयम्” इति बुद्धिर् इत्य् अर्थः । सा गौरवम् इति सम्बन्धि-लक्षणया गम्यम् । अत्र नाना-स्थान-पतितानां सामान्य-प्रीति-निरूपिकाणां कारिकाणां समन्वयः क्रियते ।
स्वस्माद् भवन्ति ये न्यूनास् तेऽनुग्राह्या हरेर् मताः । आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता ॥ [भ।र।सि। २.५.२७]
ये “न्यूना वयम्” इति स्वाभिमानमय-रतिमन्तस् तेऽनुग्राह्यतया हरेर् मताः । तेषां त्व् “आराध्योऽयम्” इति ज्ञानात्मिका रतिः प्रीत्य्-अभिधया प्रोक्तेत्य् अर्थः । अथ तस्या रस-भेद-द्वारा भेद-द्वयम् आह—
अनुग्राह्यस्य दासत्वाल् लाल्यत्वाद् अप्य् अयं द्विधा । भिद्यते सम्भ्रम-प्रीतो गौरव-प्रीत इत्य् अपि ॥ [भ।र।सि। ३.२.४]
दासत्वं स्व-कर्तृक-तत्-सेवायाम् इच्छुत्वं—, तस्मात् सम्भ्रमो भवति, सम्भ्रमात्मत्वाच् च सम्भ्रम-प्रीत उच्यते । एवं लाल्यत्वं तत्-कर्तृक-स्व-लालनायाम् इच्छुत्वम् । तस्माद् गौरवं भवति, गौरवात्मत्वाच् च गौरव-प्रीत उच्यते इति ।
अथ सम्भ्रम-प्रीतिं वदन् सम्भ्रमस्य लक्षणम् आह—
सम्भ्रमः प्रभुता-ज्ञानात् कम्पश् चेतसि सादरः । अनेनैक्यं गता प्रीतिः सम्भ्रम-प्रीतिर् उच्यते ॥ [भ।र।सि। ३.२.७६] इति ।
अत्र लक्षितस्य गौरव-प्रीत-रसस्य स्थायिनं गौरव-प्रीतिं वदन् गौरवस्य लक्षणम् आह—देह-सम्बन्धितेति सम्बन्धिता इति । देह-सम्बन्धितया स्वाभाविक्या यो मानः स्वभावत एवातिबाल्येऽपि तदीयताभिमानः । तस्माद् या गुरु-धीर् “ममायं गुरुर् लालकः” इति बुद्धिः, सा गौरवम् उच्यते । तन्-मयी या तस्मिन् लालके प्रीतिः सा गौरव-प्रीतिर् उच्यते इति ।
तत्र यद्यपि लालक-धीर् अतिबाल्य एव केवला, गुरु-धी-मिश्रा तु तु प्रौढ-दशायां दृश्यते, तथापि कारण-कार्यात्मकयोस् तयोर् अभेद एवेष्टः । एवम् एव तत्र तत्र क्वचिद् इत्य् उक्तम् । किन्तु यथा-योग्यं भेद एवावगन्तव्य इति ॥१६६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **देह-सम्बन्धितेति सम्बन्धिता इति । अत्र नाना-स्थान-पतितानां सामान्य-विशेष-प्रीति-निरूपिकाणां कारिकाणां समन्वयः क्रियते । गुरु-धीर् गुरुर् अयम् इति बुद्धिर् इत्य् अर्थः ।
स्वस्माद् भवन्ति ये न्यूनास् तेऽनुग्राह्या हरेर् मताः । आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता ॥ [भ।र।सि। २.५.२७]
ये न्यूना “वयं न्यूना” इति स्वाभिमान-मय-रतिमन्तस् तेऽनुग्राह्यतया हरेर् मताः । तेषां त्व् तु “आराध्योऽयम्” इति ज्ञानात्मिका रतिः प्रीत्य्-अभिधया प्रोक्तेत्य् अर्थः । अथ तस्या रस-भेद-द्वारा भेद-द्वयम् आह—
अनुग्राह्यस्य दासत्वाल् लाल्यत्वाद् अप्य् अयं द्विधा । भिद्यते सम्भ्रम-प्रीतो गौरव-प्रीत इत्य् अपि ॥ [भ।र।सि। ३.२.४]
दासत्वं स्व-कर्तृक-तत्-सेवायाम् इच्छुत्वं—तस्मात् सम्भ्रमो भवति, सम्भ्रमात्मत्वाच् च गौरव-प्रीतिर् (सिच्) उच्यत इति । एवं लाल्यत्वं तत्-कर्तृक-स्व-लालनायाम् इच्छुत्वम् । तस्माद् गौरवं भवति, गौरवात्मत्वाच् च गौरव-प्रीतिर् उच्यते इति । अथ सम्भ्रम-प्रीतिं वदन् सम्भ्रमस्य लक्षणम् आह—
सम्भ्रमः प्रभुता-ज्ञानात् कम्पश् चेतसि सादरः । अनेनैक्यं गता प्रीतिः सम्भ्रम-प्रीतिर् उच्यते ॥ [भ।र।सि। ३.२.७६] इति ।
अत्र लक्षितस्य गौरव-प्रीत-रसस्य स्थायिनं गौरव-प्रीतिं वदन् गौरवस्य लक्षणम् आह—देह-सम्बन्धितेति । देह-सम्बन्धितया स्वाभाविक्या यो मानः स्वभावत एवातिबाल्येऽपि तदीयताभिमानः तस्माद् या गुरु-धीर् ममायं गुरुर् लालक इति बुद्धिः, सा गौरवम् उच्यते । तन्-मया या तस्मिन् लालके श्री-कृष्णे प्रीतिः सा गौरव-प्रीतिर् उच्यते इति ॥१६६॥
—ओ)०(ओ—
॥ ३.२.१६७-१६८ ॥
स्थायि-भावोऽत्र सा चैषाम् आमूलात् स्वयम् उच्छ्रिता ।
कञ्चिद् विशेषम् आपन्ना प्रेमेति स्नेह इत्य् अपि ।
राग इत्य् उच्यते चात्र गौरव-प्रीतिर् एव सा ॥
तत्र गौरव-प्रीतिः, यथा—
मुद्रां भिनत्ति न रद-च्छदयोर् अमन्दां
वक्त्रं च नोन्नमयति स्रवद्-अस्र-कीर्णम् ।
धीरः परं किम् अपि सङ्कुचतीं झषाङ्को
दृष्टिं क्षिपत्य् अघभिदश् चरणारविन्दे ॥
श्री-जीवः : तद् एव स्थापयति—स्थायीस्थाय्इ इति ॥१६७॥
मुकुन्दः : आमूलाद् आद्यम् आरभ्यैवेत्य् अर्थः ॥१६७॥
विश्वनाथः : एषां भक्तानाम् आमूलात् हृदयम् अभिव्याप्य स्वयम् एव प्रादुर्भूता सा गौरव-प्रीतिर् अत्र स्थायि-भावः । सा एव गौरव-प्रीतिः कञ्चिद् विशेषं प्राप्ता चेत् प्रेमेत्य् उच्यते । प्रेमैव कञ्चिद् विशेषं प्राप्तश् चेत् स्नेह उच्यते । एवं रीत्या रागो ज्ञेयः ॥१६७॥
ओष्ठाधरयोः श्रेष्ठां मुद्रां न भिनत्ति, किम् अपि न वदतीत्य् अर्थः । अस्रुअस्र-जल-कीर्णं वक्त्रं परं केवलं चरणारविन्दे दृष्टिं क्षिपति ॥१६८॥
—ओ)०(ओ—
॥ ३.२.१६९ ॥
प्रेमा, यथा—
द्विषद्भिः क्षोदिष्ठैर् जगद्-अविहितेच्छस्य अविहतेच्छस्य भवतः
कराद् आकृष्यैव प्रसभम् अभिमन्याव् अपि हते ।
सुभद्रायाः प्रीतिर् दनुज-दमन त्वद्-विषयिका
प्रपेदे कल्याणी न हि मलिनिमानं लवम् अपि ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : द्विषद्भिर् इति श्री-नारद-वाक्यम् ॥१६९॥
विश्वनाथः : क्षोदिष्ठैः क्षुद्रैः शत्रुबिः अभिमन्यो अभिमन्यौ पुत्रे हते सति, तत्रापि जगति अविहतेच्छस्य भवतः करात् प्रसभं हठात् आकृष्यैव, “तस्मात् त्वद्-इच्छयैव पुत्र पुत्रो मृतः” इति निश्चयेऽपि सुभद्रायास् त्वद्-विषयिका कल्याणी प्रीतिः लवम् अपि मलिनिमानां मलिनिमानं न प्रपेदे । ध्वंस-कारणे सत्य् अपि ध्वंसाभाव एव प्रेम-लक्षणम् इति पूर्वोक्तम् ॥१६९॥
—ओ)०(ओ—
॥ ३.२.१७० ॥
स्नेहो, यथा—
विमुञ्च पृथु-वेपथुं विसृज कण्ठाकुण्ठायितं
विमृज्य मयि निक्षिप प्रसरद्-अश्रु-धारे दृशौ ।
करं च मकर-ध्वज प्रकट-कण्टकालङ्कृतं
निधेहि सविधे पितुः कथय वत्स कः सम्भ्रमः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : वरं च मयि निधेहि पितुः सविधे निकटे कः सम्भ्रमः ? नायम् उचित इत्य् अर्थः ॥१७०॥
**विश्वनाथः : **दृशौ विमृज्य मयि निक्षिप करं च मयि निधेहि । पितुर् निकटे हे वत्स कः सम्भ्रमः ॥१७०॥
—ओ)०(ओ—
॥ ३.२.१७१ ॥
रागो, यथा—
विषम् अपि सहसा8** सुधाम् इवायं
निपिबति चेत् पितुर् इङ्गितं झषाङ्कः ।
विसृजति तद्-असम्मतिर् यदि स्याद्
विषम् इव तां तु सुधां स एव सद्यः ॥
श्री-जीवः :** विषम् अपि सहसेत्य् सहसा इत्य्-आदिकम् एव पठनीयं, न तु “विषम् अपि मुदितः” इत्य्- आदिकम् ॥१७१॥
मुकुन्दः : “मुदितः**”** सन् विषण्णः किम्-अर्थः मया पातुम् आरब्धेयम् इति पश्चात्-तापः सन् ॥१७१॥
विश्वनाथः : श्री-कृष्णस्य इङ्गितं चेत् विषम् अपि सुधाम् इवायं नितराम् अतिशयेन पिबति ॥१७१॥
—ओ)०(ओ—
॥ ३.२.१७२ ॥
त्रिष्व् एवायोग-योगाद्या भेदाः पूर्ववद् ईरिताः ॥
श्री-जीवः : त्रिष्व् एव । प्रीत-प्रेयो-वत्सलेष्व् एवायोग-योगाद्या भेदा मुख्यावान्तर-भेदेन तत्-तत्-सञ्ज्ञाः । पूर्ववद् अत्रैव प्रीति-सामान्यैक-देश-सम्भ्रम-प्रीत इवेरिताः इव ईरिताः कथिताः । भेदा इत्य् अत्र “सञ्ज्ञा” इत्य् एव वा पाठः । अन्यत्र तु शान्तस्य पारोक्ष्य-साक्षात्काराव् इत्य् एव सञ्ज्ञे, मधुरस्य सम्भोग-विप्रलम्भौ इति मुख्ये सञ्ज्ञे । पूर्व-रागाद्यास् त्व् अवान्तर-सञ्ज्ञा ईरिता इत्य् अर्थः ॥१७२॥
**मुकुन्दः : **त्रिष्व् एव । गौरव-प्रीति-प्रेयो-वत्सलेष्व् एव । अयोग-योगाद्या इत्य् अत्र आद्य-शब्दाद् अनयोर् उत्कण्ठिताद्या ग्राह्याः । भेदा मुख्यावान्तर-सञ्ज्ञया तत्-तद्-अविशेषाः । पूर्ववत् सम्भ्रम-प्रीतेर् यथा, तथेरिताः तथा ईरिताः कथिताः ॥१७२॥
**विश्वनाथः : **त्रिष्व् एव । प्रीत-प्रेयो-वत्सलेष्व् एवायोग-योगाद्या भेद्याः । अन्यत्र तु शान्तस्य पारोक्ष्य-साक्षात्काराव् इत्य् एव सञ्ज्ञे, मधुरस्य तु सम्भोग-विप्रलम्भौ इति मुख्ये सञ्ज्ञे, पूर्व-रागाद्यास् त्व् अवान्तर-सञ्ज्ञा ईरिता इत्य् अर्थः ॥१७२॥
—ओ)०(ओ—
॥ ३.२.१७३ ॥
तत्र उत्कण्ठितम्, यथा—
शम्बरः सुमुखि लब्ध-दुर्विपड्-
डम्बरः स रिपुर् अम्बरायितः ।
अम्बु-राज-महसं कदा गुरुः
कम्बु-राज-करम् ईक्षितास्महे ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **अम्बरायितो मृत इत्य् अर्थः ॥१७३॥
विश्वनाथः : शम्बरासुर-वधानन्तरं रतिं प्रति प्रद्युम्नः प्राह—लब्धो दुर्विपत्तेः डम्बरः मृत्यु-रूपातिशयो येन, स शम्बरो रिपुः अम्बरं शून्यम् अयितः प्राप्तः । नील-कमलस्येव महः कान्तिर् यस्य, तं गुरुं पाञ्चजन्य-करं श्री-कृष्णम् ॥१७३॥
—ओ)०(ओ—
॥ ३.२.१७४ ॥
अथ वियोगः—
मनो ममेष्टाम् अपि गेण्डु-लीलां
न वष्टि योग्यां च तथास्त्र-योग्याम् ।
गुरौ पुरं कौरवम् अभ्युपेते
काराम् इव द्वारवतीम् अवैति ॥
श्री-जीवः : अस्त्र-योग्याम् अस्त्राभ्यासम् । अभ्यासः खुरली योग्या इति त्रिकाण्ड-शेषः ॥१७४॥
**मुकुन्दः : **अस्त्र-योग्याम् अस्त्राभ्यासम् । अभ्यासः खुरली योग्या इति हारावल्याम् ॥१७४॥
विश्वनाथः : न वष्टि नेच्छति, अस्त्र-योग्याम् अस्त्राभ्यासम् । अभ्यासः खुरली योग्या इति त्रिकाण्ड-शेषः । कौरव-पुरं श्री-कृष्णे गते सति ॥१७४॥
—ओ)०(ओ—
॥ ३.२.१७५ ॥
सिद्धिः—
मिलितः शम्बर-पुरतो मदनः पुरतो विलोकयन् पितरम् ।
कोऽहम् इति स्वं प्रमदान् न धीर् अधीर् अप्य् असौ वेद ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अवजानासि मां यस्माद् अतस् ते न भविष्यति । मत्-प्रसूतिम् अनाराध्य प्रजेति त्वां शशाप सेत्य् आदिवत् ॥१७५॥
**विश्वनाथः : **मदनः प्रद्युम्नः ॥१७५॥
—ओ)०(ओ—
॥ ३.२.१७६ ॥
तुष्टिः—
मिलितम् अधिष्ठित-गरुडं
प्रेक्ष्य युधिष्ठिर-पुरान् मुरारातिम् ।
अजनि मुदा यदु-नगरे
सम्भ्रम-भूमा कुमाराणाम् ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : प्रेक्ष्येति वर्तमानानाम् इति शेषेण योज्य-सम्भ्रम-भूमा आवेगस्यातिशयः ॥१७६॥
—ओ)०(ओ—
॥ ३.२.१७७ ॥
स्थितिः—
कुञ्चयन्न् अक्षिणी किञ्चिद् बाष्प-निष्पन्दि-पक्षिणी ।
वन्दते पादयोर् द्वन्द्वं पितुः प्रति-दिनं स्मरः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अश्रु-जल-क्षरण-युक्ते पक्सिणी ययोः तथा-भूते अक्षिणी किञ्चित् कुञ्चयन् ॥१७७॥
—ओ)०(ओ—
॥ ३.२.१७८ ॥
उत्कण्ठित-वियोगाद्ये यद् यद् विस्तारितं न हि ।
सम्भ्रम-प्रीतिवज् ज्ञेयं तत् तद् एवाखिलं बुधैः ॥
न केनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
प्रीति-भक्ति-रस-लहरी द्वितीया ।
(३.३)
प्रेयो-भक्ति-रसाख्या तृतीय-लहरी
॥ ३.३.१ ॥
स्थायि-भावो विभावाद्यैः सख्यम् आत्मोचितैर् इह ।
नीतश् चित्ते सतां पुष्टिं रसः प्रेयान् उदीर्यते ॥
विश्वनाथः : सख्य-रूप-स्थायि-भावः विभावाद्यैः सतां चित्ते पुष्टिं नीतः सन् प्रेयान् रस उदीर्यते ॥१॥
—ओ)०(ओ—
॥ ३.३.२-४ ॥
तत्र आलम्बनाः—
हरिश् च तद्-वयस्याश् च तस्मिन्न् आलम्बना मताः ॥
अत्र हरिः—
द्विभुजत्वादि-भाग् अत्र प्राग्वद् आलम्बनो हरिः ॥
तत्र व्रजे, यथा—
महेन्द्र-मणि-मञ्जुल-द्युतिर् अमन्द-कुन्द-स्मितः
स्फुरत्-पुरट-केतकी-कुसुम-रम्य-पट्टाम्बरः ।
स्रग्-उल्लसद्-उरः-स्थलः क्वणित-वेणुर् अत्राव्रजन्
व्रजाद् अघहरो हरत्य् अहह नः सखीनां मनः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : किञ्चिद् अनुरोधेन पश्चाद् आगच्छति श्री-कृष्णे तद्-अपेक्षया वन-सीम्नि तापिन् सखीनां वाक्यं—महेन्द्रेति ॥४॥
विश्वनाथः : अघहरो व्रजाद् गोष्ठाद् अत्र वने आव्रजन् सन् नोऽस्माकं सखीनां मनो हरति ॥४॥
—ओ)०(ओ—
॥ ३.३.५ ॥
अन्यत्र, यथा—
**चञ्चत्-कौस्तुभ-कौमुदी-समुदयं कौमोदकी-चक्रयोः
सख्येनोज्ज्वलितैस् तथा जलजयोर् आढ्यं चतुर्भिर् भुजैः ।
दृष्ट्वा हारि-हरिन्-मणि-द्युति-हरं शौरिं हिरण्याम्बरं
जग्मुः पाण्डु-सुताः प्रमोद-सुधया नैवात्म-सम्भावनाम् ॥
श्री-जीवः : **दारुक-वाक्यं—चञ्चन् इतस् ततः प्रसरन् कौस्तुभ-कौमुदी-समुदयो यस्य तम् । आत्म-सम्भावनां अयम् अहम् अस्मीति ज्ञानं । शिरसि नृपतिर् द्राग् अघ्रासीद् अघारिम् [भ।र।सि। ३.३.१२] इति वक्ष्यमाणात् युधिष्ठिरादीनां वात्सल्यादि-वलितत्वेऽप्य् अत्र पाण्डु-सुत-सामान्योक्तिः सौहृद्य-रूपे सख्ये तत्-तद्-अंशस्य सम्भवात् । वक्ष्यते च—वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः [भ।र।सि। ३.३.२२।, कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना [भ।र।सि। ३.३.३०।, एषां चतुर्भुजत्वाविर्भावेऽपि सख्यं, मुहुस् तद्-अनुभवेन नातिवैलक्षण्य-मननात् । यथोक्तं श्रीमद्-अर्जुनेन—तेनैव रूपेण चतुर्भुजेन [गीता ११.४६] इति, सदा तु तत्रापि श्रीमन्-नराकारतयैव स्थितिः । येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१०.४८] इत्य् आदेः । अतस् तद्-वयस्या रूप-वेष-गुणाद्यैस् तु समाः [भ।र।सि। ३.३.८] तेषां च चतुर्भुजत्वम् आपद्यते ॥५॥
मुकुन्दः : चञ्चन् इतस् ततः प्रसरन् कौस्तुभ-कौमुदी-समुदयो यस्य तम् । आत्म-सम्भावनां अयम् अहम् अस्मीति ज्ञानं पाण्डु-सुता इति युधिष्ठिरस्य गौणत्वेन, नकुल-सहदेवयोर् मुख्यत्वेन, सख्यस्यापि सत्त्वात् । वत्सल-रसान्ते तद् व्यक्ष्यते, यथा—युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम् [भ।र।सि। ३.४.८१], माद्रेय-नारदादीनां सख्यं प्रीत्या करम्बितम् [भ।र।सि। ३.४.८३] इति ॥५॥
विश्वनाथः : अन्यत्र, यथा—चञ्चन् इतस् ततः प्रसरन् कौस्तुभ-कौमुदी-समुदयो यस्य स तं गदा-चक्रयोः सख्येन मिलनेन तथा जलजयोः पद्म-शङ्खयोर् मिलनेन च उज्ज्वलितैः चतुर्भुजैः युक्तं श्री-कृष्णं दृष्ट्वा आत्म-सम्भावनां अयम् अहम् अस्मीति ज्ञानं नैव जग्मुः प्रापुः । दर्शनानन्देन जडा बभूवुर् इति भावः । पाण्डु-सुता इत्य् अत्र युधिष्ठिरादीनां वात्सल्य-रति-विशिष्टत्वेऽपि सख्य-रस-सम्भवात् । वक्ष्यते हि—वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः [भ।र।सि। ३.३.२२], कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना [भ।र।सि। ३.३.३०] ॥५॥
—ओ)०(ओ—
॥ ३.३.६-७ ॥
सुवेषः सर्व-सल्-लक्ष्म-लक्षितो बलिनां वरः ।
विविधाद्भुत-भाषा-विद् वावदूकः सुपण्डितः ॥
विपुल-प्रतिभो दक्षः करुणो वीर-शेखरः ।
विदग्धो बुद्धिमान् क्षन्ता रक्त-लोकः समृद्धिमान् ।
सुखी वरीयान् इत्य् आद्या गुणास् तस्येह कीर्तिता ॥
विश्वनाथः : ध्वज-वज्राङ्कुशादि-सच्-चिह्नैर् लक्षितः ॥६॥
—ओ)०(ओ—
॥ ३.३.८ ॥
अथ तद्-वयस्याः—
रूप-वेष-गुणाद्यैस् तु समाः सम्यग्-अयन्त्रिताः ।
विश्रम्भ-सम्भृतात्मानो वयस्यास् तस्य कीर्तिताः ॥८॥
श्री-जीवः, विश्वनाथः : सम्यग्-अयन्त्रिता दासवद्-यन्त्रणा-शून्याः । यतो विश्रम्भेति विश्रम्भस् तु वक्ष्यते—विश्रम्भो गाढ-विश्वास-विशेषो यन्त्रणोज्झितः [भ।र।सि। ३.३.१०६] इति ॥८॥
मुकुन्द-दासः : रूप-वेशेति रूपं सौन्दर्यम् ॥८॥
—ओ)०(ओ—
॥ ३.३.९-१० ॥
यथा—
साम्येन भीति-विधुरेण विधीयमान-
भक्ति-प्रपञ्चम् अनुदञ्चद्-अनुग्रहेण ।
विश्रम्भ-सार-निकुरम्ब-करम्बितेन
वन्देतराम् अघहरस्य वयस्य-वृन्दम् ॥
ते पुर-व्रज-सम्बन्धाद् द्वि-विधाः प्राय ईरिताः ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.११-१३ ॥
तत्र पुर-सम्बन्धिनः—
अर्जुनो भीमसेनश् च दुहिता द्रुपदस्य च ।
श्रीदाम-भूसुराद्याश् च सखायः पुर-संश्रयाः ॥
एषां सख्यम्, यथा—
**शिरसि नृपतिर् द्रग् अघ्रासीद् अघारिम् अधीर-धीर्
भुज-परिघयोः श्लिष्टौ भीमार्जुनौ पुलकोज्ज्वलौ ।
पद-कमलयोः सास्रौ दस्रात्मजौ च निपेततुस्
तम् अवशाधियः प्रौढानन्दाद् अरुन्धत पाण्डवाः ॥
श्रेष्ठः पुर-वयस्येषु भगवान् वानरध्वजः ॥
श्री-जीवः : **शिरसीत्य् अत्र भीमार्जुनाव् एवोदाहरणे ज्ञेयौ । श्रीदाम-द्रौपद्यौ च ताभ्यां उपलक्ष्येते । भुज-परिघयोः पद-कमलयोश् च विषययोः प्रकरणाद् अघारेर् एवैतानि ज्ञेयानि । श्लिष्टौ श्लिष्टवन्तौ । गत्य्-अर्थाकर्मक-श्लिषेत्य् आदिना कर्तरि क्तः ॥१२॥
**मुकुन्दः : **शिरसीत्य् अत्र भीमार्जुनाव् उदाहृतौ । अन्ये मिलन-समयानुरोधाद् वर्णिताः । श्लिष्टौ आश्लिष्टवन्तौ गत्य्-अर्थेत्य् आदिना कर्तरि क्तः । दस्रात्मजौ नकुल-सहदेवौ । अनयोः सख्यादिकेऽपि पद-पतनं तादृश-सभायां लघुत्वाद् दास्यस्यैवोदयौचित्यात् पद-कमलयोः सास्रौ दस्रात्मजौ ॥१२॥
**विश्वनाथः : **द्रुपदस्य दुहिता द्रौपदी । श्रीदाम-ब्राह्मणआद्याश् च ॥११॥ नृपतिर् युधिष्ठिरः श्री-कृष्णं शिरसि अघ्रासीत्, तथा भुज-परिघयोर् मध्ये श्री-कृष्णं भीमार्जुनौ श्लिष्टौ । गत्य्-अर्थाकर्म-श्लिषेत्य् आदिना कर्तरि क्तः । दस्रात्मजौ नकुल-सहदेवौ । अरुन्धत रुरुधुः ॥१२॥ वानर-ध्वजोऽर्जुनः ॥१३॥
—ओ)०(ओ—
॥ ३.३.१४ ॥
अस्य रूपं, यथा—
गाण्डीव-पाणिः करि-राज-शुण्डा-
रम्योरुर् इन्दीवर-सुन्दराभः ।
रथाङ्गिना रत्न-रथाधिरोही
स रोहिताक्षः सुतराम् अराजीत् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : स्व-सख्य-भावेन प्रसिद्धो गाण्डीव-पाणिः । रोहिताक्षः रोहिते ताम्रे अक्षिणी यस्य ॥१४॥
विश्वनाथः : करिराज-शुण्डेव रम्यम् उरु-स्थलं यस्य रथाङ्गिना श्री-कृष्णेन सह रत्न-निर्मित-रथारूढः ॥१४॥
—ओ)०(ओ—
॥ ३.३.१५ ॥
सख्यं, यथा—
पर्यङ्के महति सुरारि-हन्तुर् अङ्के
निःशङ्क-प्रणय-निसृष्ट-पूर्व-कायः ।
उन्मीलन्-नव-नर्म-कर्मठोऽयं
गाण्डीवी स्मित-वदनाम्बुजो व्यराजीत् ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.१६ ॥
अथ** व्रज-सम्बन्धिनः—
क्षणादर्शनतो दीनाः सदा सह-विहारिणः ।
तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः ।
अतः सर्व-वयस्येषु प्रधानत्वं भजन्त्य् अमी ॥
श्री-जीवः : **क्षणादर्शनत इति । ऊचुश् च सुहृदः कृष्णम् [भा।पु। १०.१४.४५] इत्य् अत्र तद्-एक-जीविविता ॥१६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **क्षणादर्शनत इति यथोक्तं श्री-दशमे—
ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् ॥ [भा।पु। १०.१४.४५] इति ।
तद्-एक-जीविविता, तत्रैव—
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ [भा।पु। १०.११.४९] इति ॥१६॥
—ओ)०(ओ—
॥ ३.३.१७ ॥
एषां रूपं, यथा—
**बलानुज-सदृग्-वयो-गुण-विलास-वेष-श्रियः
प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः ।
महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः
सदा प्रणय-शालिनः सहचरा हरेः पान्तु वः ॥
श्री-जीवः : **प्रियङ्करणेति । अप्रियं प्रियं क्रियते यैस् तैः सर्व-शुभङ्करैर् वल्लकी-दल-विषाण-वेणुभिर् अङ्किता लक्षिताः । पाठान्तरं तु त्यक्तम् ॥१७॥
मुकुन्दः : प्रियङ्करणेति । अप्रियं प्रियं क्रियते यैस् तैर् वल्लकी-मुरली-शृङ्ग-वाद्यैर् अङ्किताः । मुरलि-शब्दो ह्रस्व-इ-कारान्त-प्रकृतिः । कृद् इ-काराद् अक्तिन् इति सूत्रे वैकल्पिक-ङीषत्वात् अत्र ह्रस्वान्त एषः ॥१७॥
**विश्वनाथः **: बलानुजः श्री-कृष्णः प्रियङ्करणैः शुभङ्करैः वल्लकी-दल-विषाण-वंशीभिः अङ्किताः महेन्द्र-मणि-प्रभृतीनां इव त्विट् कान्तिर् येषां ते तथोक्ताः ॥१७॥
—ओ)०(ओ—
॥ ३.३.१८ ॥
सख्यं, यथा—
**उन्निद्रस्य ययुस् तवात्र विरतिं सप्त क्षपास् तिष्ठतो
हन्त श्रान्त इवासि निक्षिप सखे श्रीदाम-पाणौ गिरिम् ।
आधिर् विध्यति नस् त्वम् अर्पय करे किं वा क्षणं दक्षिणे
दोष्णस् ते करवाम कामम् अधुना सव्यस्य संवाहनम् ॥
श्री-जीवः : **उन्निद्रस्येति सखीनां वचनम् । तदानीं श्री-हरौ शक्तेर् आविर्भाव-दर्शनेन तद्-आवेशाज् ज्ञेयम् । तद् एतं पद्यं समत्व-भावना-मय-स्नेह-व्यञ्जकं, उत्तरं तु सह-विहार-मय-तद्-व्यञ्जकम् इति भेदः ॥१८॥
मुकुन्दः : विरतिं समाप्तिम् । श्रान्त इवेति बलिष्ठत्वेन सम्यक्-श्रान्तेर् अमननात् । अस्माकं त्वया न्यून-बलत्वेन मननात् मत्-पाणिषु न निक्षिप, श्रीदम-पाणौ तु निक्षिपेति भावः ॥१८॥
विश्वनाथः : उन्निद्रेति सखीनां वचनम् । तिष्ठन्तस् तव सप्त-रात्रयो विरामं ययुः । आधिर् मनः-पीडा नोऽस्मान् विध्यति, अतो दक्षिणे हस्ते गिरिम् अर्पय । सव्यस्य वामस्य दोष्णः संवाहनं करवाम ॥१८॥
—ओ)०(ओ—
॥ ३.३.१९ ॥
यथा वा श्री-दशमे (१०.१२.११)—
इत्थं सतां ब्रह्म-सुखानुभूत्या
दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण
सार्द्ध्कं विजह्रुः कृत-पुण्य-पुञ्जाः ॥
श्री-जीवः- सतां परम-स्वरूप-सत्ताविर्भाववताम् । यद् वा, ब्रह्म-पद-सान्निध्यात् सद्-विशेषाणाम् । उभयथा ज्ञानिनाम् इत्य् एव, अनुभूतिः जड-प्रतियोगि स्व-प्रकाश-वस्तु । सैव सुखम् आत्मत्वेन पर्यवस्तितत्या निरुपाधि-प्रेमास्पदत्वात् । सैव बृहत्तम-पर्याय-ब्रह्माख्या, सर्वेषां परम-स्वरूपत्वात् । तेषां केवल-तद्-रूपेण स्फुरता । दास्यं गतानां दास्य-भक्तिमताम् ऐश्वर्यादि-पूर्णतया ततोऽपि परेण दैवतेन सर्वाराध्येन रूपेण स्फुरता, महिम-दर्शनार्थं तत्-स्फूर्ति-द्वयस्य विरलताम् आह । मायाधिकार-पतितानां तु मनुष्य-दृष्ट्या दुष्प्रज्ञाः मर्त्यात्मनो न मेनिरे [भा।पु। १०.२३.११] इत्य् आदि-रीत्या यत् किञ्चिन् नर-दारक-रुपेण ज्ञान-भक्त्योर् अभावान् न तु तत्-तद्-रूपेणापि । तेन सार्धं विजह्रुः । सहार्थ-तृतीयया स्व-प्रेम्णा वशीकृत्यात्म-सङ्गिताम् आपादितेन तेन नर-दारकाकारत्वेऽपि तत्-तत्-सर्वातिक्रमि-मधुरतया स्फुरता तेन विहारम् अपि कृतवन्त इत्य् अर्थः । अतस् तेभ्यः सर्वेभ्यः कृत-पुण्य-पुञ्जा इति लोकोक्तिः । वस्तुतस् तु कृतानां चरितानां भगवतः परम-प्रसाद-हेतुत्वेन पुण्याश् चारवः पुञ्जा येषां त इत्य् अर्थः । पुण्यं तु चार्व् अपि इत्य् अमरः । विशेष-जिज्ञासा चेद् वैष्णव-तोषणी दृश्या ॥१९॥
मुकुन्दः : सतां परम-स्वरूप-सत्ताविर्भाववताम् । यद् वा, ब्रह्म-पद-सान्निध्यात् सद्-विशेषाणाम् । उभयथा ज्ञानिनाम् इत्य् एवानुभूतिः । जड-प्रतियोगे स्व-प्रकाश-वस्तु । सैव सुखम् आत्मत्वेन पर्यवस्तितत्या निरुपाधि-प्रेमास्पदत्वात् । सैव बृहत्तम-पर्याय-ब्रह्माख्या । सर्वेषां परम-स्वरूपत्वात् । तेषां केवल-तद्-रूपेण स्फुरता । दास्यं गतानां दास्य-भक्तिमताम् ऐश्वर्यादि-पूर्णतया ततोऽपि परेण दैवतेन सर्वाराध्येन रूपेण स्फुरता, महिम-दर्शनार्थं तत्-स्फूर्ति-द्वयस्य विरलताम् आह । मायाधिकार-पतितानां यत् किञ्चिन् नर-दारक-रुपेण । ज्ञान-भक्त्योर् अभावान् न तु तत्-तद्-रूपेणापि । तेन सार्धं विजह्रुः । सहार्थे तृतीयया स्व-प्रेम्णा वशीकृत्यात्म-सङ्गिताम् आपादितेन तेन नर-दारकाकारत्वेऽपि तत्-तत्-सर्वातिक्रमि-मधुरतया स्फुरता तेन विहारम् अपि कृतवन्त इत्य् अर्थः । अतस् तेभ्यः सर्वेभ्यः कृत-पुण्य-पुञ्जा इति लोकोक्तिः । वस्तुतस् तु कृतानां चरितानां भगवतः परम-प्रसाद-हेतुत्वेन पुण्याश् चारवः पुञ्जा येषां त इत्य् अर्थः । पुण्यं तु चार्व् अपि इत्य् अमरः ।
अत्र श्री-मुनीन्द्र-चरणानाम् इदं विवक्षितम् । भगवांस् तावद् असाधारण-स्वरूपैश्वर्य-माधुर्यस् तत्त्व-विशेषः । स च स्वरूप-परमानन्द ऐश्वर्यम् असमोर्ध्वानन्त-स्वाभाविक-प्रभुता । माधुर्यम् असमानोर्ध्वतया सर्व-मनोहरं स्वाभाविक-स्वरूप-गुण-लीलादि-सौष्ठवम् । तत्-तद्-अनुभव-साधनं च क्रमेण ज्ञानं, भक्त्याख्या-गौरव-मिश्र-प्रीतिः शुद्ध-प्रीतिश् च । एतत्-त्रिविध-साध्य-साधन-भावे मायाश्रितानां स्फूर्त्य्-आभास एव । केनाप्य् अंशेन वस्त्व्-अस्पर्शात् । नाहं प्रकाशः सर्वस्य योगमाया-समावृतः [गीता ७.२] इति न्यायेन,
तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् । मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ [भा।पु। १०.२३.११] इत्य् आदिवत् ।
तत्र भक्तैर् ईश्वरतया स्फूर्तिस् तु तत्-पूर्वतः पूर्णा । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इति, भक्त्या माम् अभिजानाति [ङीता १८.५५] इत्य् अन्तर्भूत-ज्ञान-वृत्तित्वात् । ततश् च निर्विशेष-ज्ञानेन स्वरूपानुभवः, गौरव-मय-ज्ञानेनैश्वर्यानुभवः । प्रीतिमय-ज्ञानेन माधुर्यानुभव इति । शुद्ध-परम-मधुरता-स्फूर्तिस् तु ज्ञानेषु न विद्यत एव । दासेष्व् अपि गौरवेण सङ्कुचित-चित्ततया येथष्ट-ग्रहणासक्तेर् नातीवोत्पद्यते । वस्तु-विचारे तु सैव सर्वतः स्वामी । अत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य् आदि, परिणिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य् आदिभ्यः । तथा ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भा।पु। १०.६८.३७] इत्य् आद्य्-ऐश्वर्य-ज्ञान-वारिधेर् अपि श्री-सङ्कर्षणस्य भ्रातृ-स्नेह-परिप्लुत इत्य् आदि । वृषायमाणौ नर्दन्तौ युयुधान्ते परस्परम् [भा।पु। १०.११.४०] इत्य् आदि भावेभ्यः । तद् एवं स्थिते सखि-चेतसो गौरवासङ्कुचिततया तत्-प्रीतेश् च तद्-असङ्कीर्णत्वेन पूर्णतया स्वभाव-विशेषेण च प्रतिक्षणम् अपि विकाशितया तेन तच्-चेतस्य् अपि । पुनस् तादृशतया श्री-कृष्ण-चेत आदोर् अपि तत् तद् एव तथा-विधतया सखीनाम् एक-रूप-गुण-समुद्भूत-लीला-माधुर्याणाम् आसाधारणी स्फूर्तिर् इत्य् एव । किं वक्तव्यम् वारिधाव् इव । तत्र निर्मथ्य माधुर्यामृत-समुद्भव-कर्तृत्वं च स्व-प्रीति-माधुर्य-कृत-तद्-वशीभावत्वं च दृश्यते । तत् तच् च न तत्र दृश्यत इति सर्वेभ्यः कृत-पुण्य-पुञ्जत्वम् अस्याश् चमत्कारयतीति ॥१९॥
विश्वनाथः : इत्थम् इति । अत्र जगति प्रायस् त्रिविधा एव जना गण्यते । ज्ञानिनो भक्ताः कर्मिणश् च । तत्र सत्यं भक्तिमत्त्वेन सच्-छब्देनोच्यमानानां ज्ञानिनां ब्रह्म च तत् सुखं चानुभूतिश् च तया सहेति कृष्ण-शरीरस्यैव ब्रह्म-सुखानुभूतित्वम्, तेनैव सह बालकानां विहारात्, तस्मात् तद्-आकारस्य प्राकृतत्वं आचक्षाणा ज्ञानि-मानिनोऽन्ये सच्-छब्देन नैवोच्यन्त इति ज्ञेयम् । दास्यं गतानां केवल-भक्तिमतां सतां पर-दैवतेन इष्ट-देवेनेति । मायां वैषयिकं सुखम् आश्रितानां कर्मिणां नर-दारकेण प्राकृत-बालकतया प्रतीयमानेन श्री-कृष्णेन सह एते बालका विजह्रुर् इति ज्ञानिनां तद्-अनुभव एषः, न तु तेन सह विहारः** **सम्भवेत् । भक्तानां गौरवेण तद्-भजनम् एव, न तु विहार-योग्यता । कर्मिणां तु न तद्-अनुभवः प्रीत्य्-अभावान् न तद्-भजनम् इति कुतस् तेन सह विहार इत्य् अर्थः । ते तु विजह्रुः विहारैस् तं स्वानन्द-पूर्णं अपि प्रेम-विलास-समयानन्द-विशेषं प्रापय्यैव स्वयम् अपि सर्वतो विलक्षणम् आनन्दं प्रापुर् इत्य् अर्थः । अतः सर्वेभ्यः सकाशाद् एते कृत-पुण्य-पुञ्जा इति किं व्यक्तव्यम् । कृत-पुण्य-पुञ्जा एवेति लोक-प्रतीत्यैवोक्तिर्, न तु नित्य-सिद्धानां तेषां निखिलेभ्यो ज्ञानिभ्यो भक्तेभ्यश् चोत्कृष्टतमानां तत्र प्राचीन-पुण्यवत्त्वं वस्तुतो हेतुर् इति ज्ञेयम् । पुण्य-शब्देन भगवत्-प्रियाचारणं वा लक्षणीयं तद्-वशीकारातिशय-रूप-प्रयोजन-लाभाय ॥१९॥
—ओ)०(ओ—
॥ ३.३.२० ॥
एषु कृष्णस्य सख्यं, यथा—
सहचर-निकुरम्बं भ्रातर् आर्य प्रविष्टं
द्रुतम् अघ-जठरान्तः-कोटरे प्रेक्षमाणः ।
स्खलद्-अशिशिर-बाष्प-क्षालित-क्षाम-गण्डः
क्षणम् अहम् अवसीदन् शून्य-चित्तस् तदासम् ॥
—ओ)०(ओ—
॥ ३.३.२१-२४ ॥
सुहृदश् च सखायश् च तथा प्रिय-सखाः परे ।
प्रिय-नर्म-वयस्याश् चेत्य् उक्ता गोष्ठे चतुर्-विधाः ॥
तत्र सुहृदः—
वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः ।
सायुधास् तस्य दुष्टेभ्यः सदा रक्षा-परायणाः ॥
सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः ।
यक्षेन्द्रभट-भद्राङ्ग-वीरभद्रा महा-गुणाः ।
विजयो बलभद्राद्याः सुहृदस् तस्य कीर्तिताः ॥
एषां सख्यं, यथा—
धुन्वन् धावसि मण्डलाग्रम् अमलं त्वं मण्डलीभद्र किं
गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः ।
शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते
गर्जन्न् एष घनो बली न तु बलीवर्दाकृतिर् दानवः ॥
**श्री-जीवः : **धुन्वन्न् इति । अरिष्ट-वधात् पूर्वं वृत्तम् ॥२४॥
मुकुन्दः : मण्डलाग्रं खड्गम् । इत्थम् आगमनानुभवेन तस्य मारितत्वं बोध्यते । एवम् उक्तिस् तु प्रेम्णा तद्-अननुसन्धानात् ॥२४॥
विश्वनाथः : हे मण्डलीभद्र ! भू-मण्डलस्याग्रं व्रज-भूमिं धुन्वन् कम्पयन् अरिष्टासुर-वधार्थं कथं धावसि ? हे आर्य ! तद्-वधार्थं गुर्वीम् गदां न गृहाण । एवं तद्-वधार्थं वृथा क्षोभं मा कृथाः । किन्तु घटनावली मेघ-श्रेणी गोवर्धने गच्छति, न तु बलीवर्दाकृतिर् अरिष्टासुरः ॥२४॥
—ओ)०(ओ—
॥ ३.३.२५-२६ ॥
सुहृत्सु मण्डलीभद्र-बलभद्रौ किलोत्तमौ ॥
अत्र मण्डलीभद्रस्य रूपम्, यथा—
**पाटल-पटल-सद्-अङ्गो लकुट-करः शेखरी शिखण्डेन ।
द्युति-मण्डली-मलि-निभां भाति दधन् मण्डलीभद्रः ॥
श्री-जीवः : **श्वेत-रक्तस् तु पाटलः इत्य् अमरः ॥२६॥
मुकुन्दः : पाटलेन श्वेत-रक्तेन पटेन लसद्-अङ्गः ॥२६॥
विश्वनाथः : श्वेत-रक्तस् तु पाटलः इत्य् अमरः । तादृशेन पटेन लसद्-अङ्गः शिखण्डेन शेखरी कृत-शिरो-भूषणः, अलि-निभां द्युति-मण्डलीं दधत् इत्य् अनेन श्याम-वर्णो ध्वनितह् ॥२६॥
—ओ)०(ओ—
॥ ३.३.२७ ॥
अस्य सख्यं, यथा—
वन-भ्रमण-केलिभिर् गुरुभिर् अह्नि खिन्नीकृतः
सुखं स्वपितु नः सुहृद् व्रज-निशान्त-मध्ये निशि ।
अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां
त्वम् अस्य विसृजन्न् अलं सुबल सक्थिनी लालय ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : व्रज-निशान्त-मध्ये व्रजस्थ-मन्दिर-मध्ये, तस्मात् हे सुबल ! त्वं कर्णे कथां विसृजन् सक्थिनी चरणयोर् उपरि-भाग-द्वयं लालय मर्दय ॥२७॥
—ओ)०(ओ—
॥ ३.३.२८ ॥
बलदेवस्य रूपं, यथा—
**गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलि-च्छन्नावतंसोत्पलं
कस्तूरी-कृत-चित्रकं पृथु-हृदि भ्राजिष्णु गुञ्जा-स्रजम् ।
तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-कालाम्बरं
गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-द्विषम् ॥
श्री-जीवः : **गण्डान्तर् इत्य् आदौ । कस्तूरीकृत-चित्रकं पृथु हृदि भ्राजिष्णु गुञ्जास्रजम् इत्य् एव द्वितीय-चरण-पाठः । चित्रकं तिलकम् ॥२८॥
**मुकुन्दः : **गण्डान्तर् इत्य् आदौ । कस्तूरी-विलसत्-तूरीयम् उरसि भ्राजिष्णु गुञ्जास्रजम् इति द्वितीय-चरण-पाठः ॥२८॥
**विश्वनाथः : **एकस्मिन्न् एव कर्णे कुण्डलम् इति मत्तता-व्यञ्जकम् । अलिना आच्छन्नं द्वितीय-कर्ण-स्थावतंस-रूपम् उत्पलं यस्य । चित्रकं तिलकम् । शरद् उदेति श्वेत-वर्णत्वं आयातम् । कालाम्बरं नील-वस्त्रम् ॥२८॥
—ओ)०(ओ—
॥ ३.३.२९ ॥
अस्य सख्यं, यथा—
**जनि-तिथिर् इति पुत्र-प्रेम-संवीतयाहं
स्नपयितुम् इह सद्मन्य् अम्बया स्तम्भितोऽस्मि ।
इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं
फणि-पति-ह्रद-कच्छे नाद्य गच्छेः कदापि ॥
श्री-जीवः : **जनि-तिथिर् इति मासिकीयं जन्मर्क्षुर् युक्ता तिथिः, न तु वार्षिकी । महा-महोत्सवायां तस्यां तस्यां स्वत एव श्री-कृष्णस्य गमनासम्भवात् । सोऽयं च सन्देशः सुबलेन विलम्बमानतया गतेन झटिति समासादयितुं न शेक इति गम्यते, अन्यथा पूर्व-पूर्ववत् तदापि तद्-आज्ञा तु तेन नालङ्घयिष्यत इति ॥२९॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : श्री-कृष्णस्य शिक्षार्थं सुबलं प्रति बलदेव आह—हे पुत्र ! अद्य तव जन्म-तिथिः इति प्रेम-युक्तया मम मात्रा स्नपयितुं गृह एव स्तम्भितोऽस्मि । अतो मम वन-गमनं निवृत्तम् । इति हेतोः मद्-गिरा श्री-कृष्णं सन्दिश, हे कृष्ण ! कालिय-ह्रदस्य कच्छे निकटे त्वं कदापि अद्य न गच्छ, न याहि । मासिकीयं जन्मर्क्ष-युक्ता तिथिः, न तु वार्षिकीयं महा-महोत्सवायां तस्यां स्वत एव श्री-कृष्णस्यापि गमनासम्भवात् ॥२९॥
—ओ)०(ओ—
॥ ३.३.३०-३१ ॥
अत्र **सखायः—
कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना ।
विशाल-वृषभौर्जस्वि-देवप्रस्थ-वरूथपाः ॥
मरन्द-कुसुमापीड-मणिबन्ध-करन्धमाः ।
इत्य्-आदयः सखायोऽस्य सेवा-सौख्यैक-रागिणः ॥
श्री-जीवः : **विशाल-वृषभौजस्वीति श्री-भागवते गौडादि-सम्मतः पाठः । वृषाल-वृषतेजस्वीति तु काश्यादि-सम्मतः ॥३०-३१॥9
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.३२ ॥
एषां सख्यं, यथा—
विशाल विसिनी-दलैः कलय ब्वीजन-प्रक्रियां
वरूथप विलम्बितालक-वरूथम् उत्सारय ।
मृषा वृषभ जल्पितं त्यज भजाङ्ग-संवाहनं
यद्-उग्र-भुज-सङ्गरे गुरुम् अगात् क्लमं नः सखा ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : विसिनी-दलैः कमल-पत्रैः । कलय वीजन-प्रक्रियां । वरूथप ! विलम्बितालक-वरूथं लम्बायमानो योऽलकानां वरूथः समूहस् तम् उत्सारय ललाटोपरि नय ॥३२॥
—ओ)०(ओ—
॥ ३.३.३३-३४ ॥
सर्वेषु सखिषु श्रेष्ठो देवप्रस्थोऽयम् ईरितः ॥
तस्य रूपं, यथा—
**बिभ्रद् गेण्डुं पाण्डुरोद्भास-वासाः
पाशा-बद्धोत्तुङ्ग-मौलिर् बलीयान् ।
बन्धूकाभः सिन्धुर् अस्पर्धि-लीलो
देवप्रस्थः कृष्ण-पार्श्वं प्रतस्थे ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **देवप्रस्थोऽयम् ईरितः इति अत्रायम् इति । विशाल विसिनीत्य् आदि यस्य वक्यं स इत्य् अर्थः ॥३३-३४॥
विश्वनाथः : क्रीडा-साधनं वोढुं बिभ्रत् श्वेत-वासाः पाशैर् दोहन-समये गवां पाद-बन्धनार्थम् पट्ट-डोरैः आबद्धः उत्तुङ्गः मौलिः उच्च-शिरो-भूषणं येन सः । बन्धूकस्यैवाभा यस्य इति रक्त-वर्णत्वम् आयातं, मत्त-हस्ति-स्पर्धिनी लीला यस्य सः ॥३४॥
—ओ)०(ओ—
॥ ३.३.३५ ॥
अस्य सख्यं, यथा—
**श्रीदाम्नः पृथुलां भुजाम् अभि शिरो विन्यस्य विश्रामिणं
दाम्नः सव्य-करेण रुद्ध-हृदयं शय्या-विराजत्-तनुम् ।
मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं
देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम् ॥
श्री-जीवः : **स्नेह-वशाद् दाम्नः सव्य-करेण रुद्धं हृदयं निज-वक्षो येन तम् । समस्तासमस्तेन नित्यापेषेण सङ्गतिः [ह।ना।व्या। ६.१०४] इति न्ययेन रुध-हृदययोः समासे कृते सव्य-करेणेत्य् अस्य सम्बन्धः ॥३५॥
मुकुन्दः : दाम्नः सव्य-करेण रुद्धं हृदयं यस्य तम् । समस्तासमस्तेन नित्यापेषेण सङ्गतिः [ह।ना।व्या। ६.१०४] इति न्यायेन रुद्ध-हृदययोः समसे कृते सव्य-करेणेत्य् अस्य सम्बन्धः । उत्तान-सुप्तस्यास्य दक्षिण-वामयोः श्रीदाम-दाम्नोः स्थितिर् बोध्या ॥३५॥
विश्वनाथः : श्रीदाम्नः अधि शिरः शिरसि पुष्टां भुजां विन्यस्य मल्ल-युद्धानन्तरं विश्रामिणं स्नेह-वशाद् दाम्नः सव्य-करेण रुद्धं हृदयं वक्षो येन, गोवर्धन-कन्दर-मध्ये पाद-संवाहनेन प्रियं प्रीति-कर्तारं श्री-कृष्णं ततः पाद-संवहन-रूप-कारणाद् एव प्रेम्णा देवप्रस्थं सुखयति ॥३५॥
—ओ)०(ओ—
॥ ३.३.३६-३८ ॥
अथ **प्रिय-सखाः—
वयस्-तुल्याः प्रिय-सखा सख्यं केवलम् आश्रिताः ।
श्रीदामा च सुदामा च दामा च वसुदामकः ॥
किङ्किणि-स्तोककृष्णांशु-भद्रसेन-विलासिनः ।
पुण्डरीक-विटङ्काक्ष-कलविङ्कादयोऽप्य् अमी ॥
रमयन्ति प्रिय-सखाः केलिभिर् विविधैः सदा ।
नियुद्ध-दण्ड-युद्धादि-कौतुकैर् अपि केशवम् ॥
श्री-जीवः : **श्रीदामेत्य् अत्र दाम-सुदाम-वसुदाम-किङ्किण्यः पठिता अपि प्रिय-नर्म-सखगणेऽपि ज्ञेयाः । ते हि श्री-कृष्णान्तः-करण-रूपत्वात् सर्वत्रैव प्रविशन्ति । यथाह प्रथमावरण-पूजायां गौतमीये—
दाम-वसुदाम-सुदाम-किङ्किणीन् गन्ध-पुष्पकैः । अन्तः-करण-रूपास् ते कृष्णस्य परिकीर्तिताः । आत्माभेदेन ते पूज्या यथा कृष्णस् तथैव ते ॥ इति ॥३६-३८॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.३९ ॥
एषां सख्यं, यथा—
**सगद्गद-पदैर् हरिं हसति कोऽपि वक्रोदितैः
प्रसार्य भुजयोर् युगं पुलकि कश्चिद् आश्लिष्यति ।
करेण चलता दृशौ निभृतम् एत्य रुन्धे परः
कृशाङ्गि सुखयन्त्य् अमी प्रिय-सखाः सखायं तव ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- **पुलकि पुलक-युक्तं निभृतम् आगत्य चञ्चलेन हस्तेन श्री-कृष्णस्य दृशौ रुधे आवृणोति ॥३९॥
—ओ)०(ओ—
॥ ३.३.४०-४२ ॥
एषु प्रिय-वयस्येषु श्रीदामा प्रवरो मतः ॥
तस्य रूपम्, यथा—
वासः पिङ्गं बिभ्रतं शृङ्ग-पाणिं
बद्ध-स्पर्धं सौहृदान् माधवेन ।
ताम्रोष्णीषं श्याम-धामाभिरामं
श्रीदामानं दाम-भाजं भजामि ॥
सख्यं, यथा—
**त्वं नः प्रोज्झ्य कठोर यामुन-तटे कस्माद् अकस्माद् गतो
दिष्ट्या दृष्टिम् इतोऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय ।
ब्रूमः सत्यम् अदर्शने तव मनाक् का धेनवः के वयं
किं गोष्ठं किम् अभीष्टम् इत्य् अचिरतः सर्वं विपर्यस्यति ॥
श्री-जीवः : **तत्रोत्साहादि-वर्णने, कालिन्दी-तट-भुवि [भ।र।सि। २.५.५९] इत्य्-आदिभिर् बद्ध-स्पऋर्धितं वर्णितम् एव । सौहृदं तु तत्र गुप्तं स्याद् इति पृथग् एव तद् वर्णयति—त्वं न इति । का धेनव इत्य् आदौ धेन्वादयोऽप्य् अधेन्वादयो भवन्तीत्य् अर्थः । यत इत्य् अनेन प्रकारेण सर्वम् अन्यद् अपि विपर्यस्यति ॥४२॥
मुकुन्दः : का धेनव इत्य् आदौ धेन्वादीनि प्रियाण्य् अपि विस्मृतानि भवन्तीत्य् अर्थः ।इत्य् अचिरतः मोहानन्तर-क्षण एव सर्वं तानि । अन्यद् अपि विपर्यस्यति मनः प्रतिकूलं भवति ॥४२॥
विश्वनाथः : माधवेन सह सौहृदात् बद्धा स्पर्धा येन तत् । रमणीयताया धाम आश्रयम् अभिरामं मनोहरं, दाम-भाजं मालाधारिणम् ॥४१॥
तत्रोत्साहादि-वर्णने, कालिन्दी-तट-भुवि [भ।र।सि। २.५.५९] इत्य्-आदिभिर् बद्ध-स्पर्धत्वं वर्णितम् एव । सौहृदं तु तत्र गुप्तं स्याद् इति पृथग् एव तद् वर्णयति—त्वं न इति । का धेनव इत्य् आदौ त्वां प्राप्य धेन्व्-आदयो भवन्तीति भावः । अनेन प्रकारेण सर्वम् अन्यद् अपि विपर्यस्यति ॥४२॥
—ओ)०(ओ—
॥ ३.३.४३ ॥
अथ **प्रिय-नर्म-वयस्याः—
प्रिय-नर्म-वयस्यास् तु पूर्वतोऽप्य् अभितो वराः ।
आत्यन्तिक-रहस्येषु युक्ता भाव-विशेषिणः ।
सुबलार्जुन-गन्धर्वास् ते वसन्तोज्ज्वलादयः ॥४३ ॥
मुकुन्दः- ** भाव-विशेषः सखी-भावः । अत आत्यन्तिक-रहस्येषु युक्ताः ॥
अन्याभ्यां न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.४४ ॥
एषां सख्यं, यथा—
**राधा-सन्देश-वृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे
श्यामा-कन्दर्प-लेखं निभृतम् उपहरत्य् उज्ज्वलः पाणि-पद्मे ।
पाली-ताम्बूलम् आस्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते
तारा-दामेति नर्म-प्रणयि-सहचरास् तन्वि तन्वन्ति सेवाम् ॥
श्री-जीवः : **स च भाव-विशेषस् तत्-प्रेयसी-साहाय्य-मय-तत्-सुख-दित्सैवेति दर्शयति—राधेति । तद् इदं श्री-कृष्णस्य दूत्योर् मिथः संवादः ॥४४॥
**मुकुन्दः : **राधा-सन्देशेति । पृच्छतीं नवानुरागिनीं प्रति श्री-कृष्ण-द्ञ्त्या वचनम् ॥४४॥
विश्वनाथः- काचित् श्री-कृष्णस्य दूती अन्यां दूतीं प्रत्याह—राधेति । श्यामाया यूथेश्वर्याः कन्दर्प-पत्रीं । पाल्या यूथेश्वर्या निर्मितां ताम्बूल-वीटीं चतुरः सख्युर् मुखे वितरति। तारा-निर्मितं माल्यं श्री-कृष्णस्य मूर्ध्नि धत्ते ॥४४॥
—ओ)०(ओ—
॥ ३.३.४५-४६ ॥
प्रिय-नर्म-वयस्येषु प्रबलौ सुबलोज्ज्वलौआर्जुनौ ॥
तत्र सुबलस्य रूपं, यथा—
तनु-रुचि-विजित-हिरण्यं
हरि-दयितं हारिणं हरिद्-वसनम् ।
सुबलं कुवलय-नयनं
नय-नन्दित-बान्धवं वन्दे ॥
विश्वनाथः- हारिणं हार-विशिष्टम् । नयेन नीत्या आनन्दितः श्री-कृष्णो येन ॥४६॥
अन्याभ्यां न व्याख्यातम् ।न व्याख्यातम्।
— ओ)०(ओ—
॥ ३.३.४७ ॥
अस्य सख्यं, यथा—
**वयस्य-गोष्ठ्याम् अखिलेङ्गितेषु
विशारदायाम् अपि माधवस्य ।
अन्यैर् दुरूहा सुबलेन सार्धं
सञ्ज्ञा-मयी कापि बभूव वार्ता ॥
श्री-जीवः : **सञ्ज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थ-सूचना इत्य् अमरः ॥४७ ॥
**मुकुन्दः : **सञ्ज्ञा हस्ताद्यैर् अर्थ-सूचना ॥४७ ॥
विश्वनाथः- अखिलेङ्गितेषु विशारदायां वयस्य-गोष्ठ्यां मध्ये अन्यैर् दुरूहा श्री-कृष्णस्य सुबलेन सह कापि सञ्ज्ञा-मयी वार्ता बभूव । सञ्ज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थ-सूचना इत्य् अमरः ॥४७ ॥
—ओ)०(ओ—
॥ ३.३.४८ ॥
उज्ज्वलस्य रूपं, यथा—
**अरुणाम्बरम् उच्चलेक्षणं
मधु-पुष्प-बलिभिः प्रसाधितम् ।
हरि-नील-रुचिं हरि-प्रियं
मणि-हारोज्ज्वलम् उज्ज्वलं भजे ॥
विश्वनाथः- **मधु-पुष्पेति वसन्त-कालीन-पुष्पावलीभिः । प्रसाधितं कृत-भूषणम्॥४८॥
—ओ)०(ओ—
॥ ३.३.४९ ॥
अस्य सख्यं, यथा—
**शक्तास्मि मानम् अवितुं कथम् उज्ज्वलोऽयं
दूतः समेति सखि यत्र मिलत्य् अदूरे ।
सापत्रपापि कुलजापि पतिव्रतापि
का वा वृषस्यति न गोप-वृषं किशोरी ॥
श्री-जीवः : **शक्तास्मीत्य् अत्र कथम् इत्य् अन्तम् एकं वाक्यं समेतीत्य् अन्तम् अन्यत् । शेषम् अपरम् । सापत्रपेत्य् आदौ यद्यपि लज्जा-कुल-धर्म-भयानाम् एकतरेऽपि सति मर्यादा-लङ्घनं न स्यात्, तथापि सर्वेष्व् अपि तेषु सत्सु का गोप-वृषं गोप-श्रेष्ठं श्री-कृष्णं न वृषस्यति न कामयते, किन्तु सर्वैव कामयत इत्य् अर्थः ॥४९ ॥
**मुकुन्दः- **शक्तास्मीति । तत्र हेतुः— उज्ज्वलोऽयं दूतः समेति इति न तु लज्जा-कुलजत्व-पातिव्रत्यानां गुणानाम् एकतमेन युक्तानां तेन रमणेच्छा न सम्भवेत् । त्वं तु सर्वैर् युक्ता कथं तां करोषि ? तत्राह सातपत्रेत्य् आदि सखीति । गोप-वृषं गोप-श्रेष्ठं श्री-कृष्णं न वृषस्यति न कामयते ॥४९ ॥
विश्वनाथः- काचित् व्रज-सुन्दरी स्व-सखीं प्रत्य् आह— हे सखि ! मानम् अवितुं रक्षितुं कथम् शक्तास्मि ? यत उज्ज्वलो दूतः समेति । यत्र दूते निकटे मिलति सति सापत्रपेत्य् आदि यद्यपि लज्जा-कुल-भय- धर्मानाम् एकतरेऽपि सति मर्यादा-लङ्घनं न स्यात् । तथापि सर्वेष्व् अपि तेषु सत्सु का किशोरी गोप-वृषं गोप-श्रेष्ठं श्री-कृष्णं न वृषस्यति न कामयते, किन्तु सर्वैव कामयते ॥४९ ॥
—ओ)०(ओ—
॥ ३.३.५०-५१ ॥
उज्ज्वलोऽयं विशेषेण सदा नर्मोक्ति-लालसः ॥
यथा—
**स्फुरद्-अतनु-तरङ्गावर्धितानल्प-वेलः
सुमधुर-रस-रूपो दुर्गमावार-पारः ।
जगति युवति-जातिर् निम्नगा त्वं समुद्रस्
तद् इयम् अघहर त्वाम् एति सर्वाध्वनैव ॥
श्री-जीवः : **कृष्ण-पक्षे—वर्धिता छिन्ना अनल्पा वेला मर्यादा येन । समुद्र-पक्षे वर्धिता एधिता वेला जलं येन । वेला स्यात् तीर-नीरयोर् इत्य् अमरः ॥५१॥
**मुकुन्दः- **अम्बिका-वनं गच्छन्तं प्रत्य् उक्तिः— स्फुरद् इति । वर्धिता छिन्ना अनल्पा वेला मर्यादा येन । समुद्र-पक्षे वर्धिता एधिता वेला जलं येन ॥५१॥
**विश्वनाथः- **
हरिर् इति पारिहास्यं शुश्रुवान् उज्ज्वलस्य । स्मित-शवल-भ्रमद्-भ्रू-विभ्रमो वः पुनातु ॥
निम्नगा नदी । तत् तस्माद् इयं युवति-जातिस् त्वां सर्वात्मना एति प्राप्नोति । युवती-पक्षे— स्फुरन् कन्दर्प-तरङ्गो यस्यां सा, मधुर-रसः । कृष्ण-पक्षे—वर्धिता छिन्ना अनल्पा वेला मर्यादा येन । नदी-पक्षे—वर्धिता एधिता वेला जलं येन । वेला स्यात् तीर-नीरयोर् इत्य् अमरः ॥५१॥
—ओ)०(ओ—
**॥ ३.३.५२-५३ ॥
एतेषु केऽपि शास्त्रेषु केऽपि लोकेषु विश्रुताः ॥
नित्य-प्रियाः सुर-चराः साधकाश् चेति ते त्रिधा ।
केचिद् एषु स्थिरा जात्या मन्त्रिवत् तम् उपासते ॥
श्री-जीवः : **साधकाः साधन-सिद्धाः । यद्यपि सुरचरा अपि साधका एव, तथापि विशेषं दर्शयितुं पृथग् उच्यन्ते ॥५३॥
**मुकुन्दः : **सुरचराः श्रीदामादीनां येऽंशाः पूर्वं दिवि-जातास् तु इत्य् अर्थः । साधकाः साधन-सिद्धाः ॥५३॥
विश्वनाथः : नित्य-प्रिया नित्य-सिद्धाः सुर-चरा इति भूत-पूर्वे चरट्, आदौ देवता आसन् । पश्चात् साधन-सिद्धा बभूवुः । यद्यपि सुरचरा अपि साधका एव, तथापि विशेषं दर्शयितुं पृथग् उच्यन्ते ॥५३॥
—ओ)०(ओ—
**॥ ३.३.५४-५६ ॥
तं हासयन्ति चापलाः केचिद् वैहासिकोपमाः ।
केचिद् आर्जव-सारेण सरलाः शीलयन्ति तम् ॥
वामा वक्रिम-चक्रेण केचिद् विस्माययन्त्य् अमुम् ।
केचित् प्रगल्भाः कुर्वन्ति वितण्डाम् अमुना ।
सौम्याः सूनृतया वाचा धन्या धिन्वन्ति तं परे ॥
एवं विविधया सर्वे प्रकृत्या मधुरा अमी ।
पवित्र-मैत्री-वैचित्री-चारुताम् उपचिन्वते ॥
श्री-जीवः : **विस्माययन्त्य् अन्तःस्थ-य-कार-द्वय-मध्य एव पाठः । हेतु-णिज्-अन्तत्वेऽपि हेतु-भयत्वाब्रह्म्भावान् न विस्मापयन्ति इति स्यात्, विस्मेरयन्तीति मूल-पाठे तु कृतेऽपि, तत् करोति तद् आचष्टे इति कृद्-अन्तान् निचि कुर्वन्तम् आचष्टे कारयतीतिवत् । वादितवन्तं प्रयोजितवान् अवीवदद् इतिवच् च । प्रकृति-प्रत्यावृत्तिः स्यात् । उढिमाख्यातव्ण् औजिढद् इत्य् अत्र । [हठम् आख्यातवान् औजिष्थद् इत्य् अत्र] सा न दृश्यतेऽपीति चेत्, न दृश्यतां नाम । किं तावता कष्टेन ? ॥५५॥
**मुकुन्दः : **जात्येति धन्या इति च सर्वत्र योज्यम् । ये विस्माययन्ति विस्मय-शीलं कुर्वन्ति । धातोर्णौ प्रकृतिवत्ता तद्-आख्यानार्थ एव । तत्रापि युषुट्-घ-घञ्-अक्त-क्तव-तुतृ-टृण इति सप्तानां एव लोपात् सा जुमरादौ10 निर्णीता ॥५५॥
**विश्वनाथः : **जात्या स्वभावेन स्थिराः विदूषकोपमाश् चपलाः सरला शीलयन्ति भजन्ति ॥ वामा बङ्किम-चक्रेणेति । वामा नायिका यथावगुण्ठन-द्वारा वक्रिमावलोक्यते, तथा एतेऽपि स्त्री-वेशं धृत्वा कुर्वन्तीत्य् अर्थः । तथैव लीलया अमुं श्री-कृष्णं विस्मापयन्ति, मैत्र्या सख्यस्य या वैचित्री तस्या वा चारुतातिशयस् तां कुर्वन्ति राजादीनां चेष्टानुकरणादयः ॥५४-५६॥
—ओ)०(ओ—
॥ ३.३.५७-५८ ॥
अथ उद्दीपनाः—
उद्दीपना वयो-रूप-शृङ्ग-वेणु-दरा हरेः ।
विनोद-नर्म-विक्रान्ति-गुणाः प्रेष्ठ-जनास् तथा ।
राज-देवावतारादि-चेष्टानुकरणादयः ॥
अथ वयः—
वयः कौमार-पौगण्ड-कैशोरं चेह सम्मतम् ।
गोष्ठे कौमार-पौगण्डे कैशोरं पुर-गोष्ठयोः ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.५९-६० ॥
तत्र कौमारं, यथा—
कौमारं वत्सले वाच्यं ततः सङ्क्षिप्य लिख्यते ॥
यथा श्री-दशमे (१०.१३.११)—
**बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे
वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु ।
तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥
श्री-जीवः : **बिभ्रद् इति । अस्यायम् अर्थः—जठर-पटयोर् मध्ये वेणुं बिभ्रत् । वामे कक्षे शृङ्ग-वेत्रे बिभ्रत् । मसृण-कवलं दध्य्-आदि-संस्कृत-भक्त-पिण्डं पत्र-पात्र-संस्थिते वामे पाणौ बिभ्रत् । तत्-फलानि तद्-अन्तर्-अर्थनीयान् आस्वाद्य-भागांश् च क्रमेण दक्षिण-पाण्य्-अङ्गुलीषु बिभ्रत् । भोजनेऽपि यथा मुख-स्पर्शो न स्यात्, तथा सविनोदं गृह्णन्न् इत्य् अर्थः । स्वं परितो वर्तमानान् सुहृदश् च स्वैर-साधारणैर् नर्मभिर् हासयन् । स्वर्गे स्वर्ग-स्थे लोके मिषति किम् इदम् अपूर्वं इति पश्यति सति, अपूर्वत्वे कारणं आह—यज्ञ-भुग् बाल-केलिर् इति । योऽयं यज्ञे दृष्टि-मात्रेण भोक्ता, सोऽयम् एव बाल-केलिः सन् बुभुजे इति ॥६०॥
मुकुन्दः : तत्-फलानि मसृण-कवलोचितोपकरणानि निम्ब-सन्धित-लवली-करीर-फल-प्रभृतीनि स्वैर-साधारणैः । स्वर्गेलोके सर्वेषु स्वर्ग-वासिष्व् इत्य् अर्थः । यज्ञभुक् उद्देश-मात्रेण समर्पितस्य हविषः कथञ्चित् स्वीकार-मात्रेण तद्-भक्तेनोपचर्यमाणोऽपि लौकिक-बालकवत्केलिर् यस्येति परमाश्चर्येण मिषति पश्यति सति ॥६०॥
विश्वनाथः : बिभ्रद् इति । जठर-पटयोर् उदर-वस्त्रयोर् मध्ये वेणुं बिभ्रद् दधद् दक्षिण-कुक्षाव् इति शोभौचित्याद् इति ज्ञेयम् । वामे कक्षे शृङ्ग-वेत्रे बिभ्रत्, वामे पाणौ मसृणं स्निग्धं बृहद् दध्य्-ओदन-कवलं बिभ्रत् । तत्-फलानि तत्-प्रयोजनी-भृतान् क्षुद्र-ग्रासान् । ततः पृथक् कृत्वा ग्रहीतुम् एव वामे पाणौ बृहत्-कवल-ग्रहणं ज्ञेयम् । कर्णिकेति—सर्वाभिमुख्य-मध्ये तिष्ठन् स्वैर् नर्मभिः सुहृदः सखीन् हासयन् स्वर्गे लोके स्वर्-वासि-जन-वृन्दे मिषति आश्चर्येण पश्यति सति यज्ञ-भुक् यज्ञेषूद्देश-मात्रेण समर्पितम् अनुपहअं मन्त्र-पूतम् एव हरिः स्वीकार-मात्रेणैव भुञ्जानोऽपि बालैः सह केलिर् मिथो भुक्तान्न-दान-प्रदान-भोजन-श्लाघन-निन्दनादि-मयी यस्य सः ॥६०॥
—ओ)०(ओ—
॥ ३.३.६१-६३ ॥
अथ पौगण्डम्—
आद्यं मध्यं तथा शेषं पौगण्डं च त्रिधा भवेत् ॥
तत्र आद्यं पौगण्डं—
अधरादेः सुलौहित्यं जठरस्य च तानवम् ।
कम्बु-ग्रीवोद्गमाद्यं च पौगण्डे प्रथमे सति ॥
यथा—
**तुन्दं विन्दति ते मुकुन्द शनकैर् अश्वत्थ-पत्र-श्रियं
कण्ठं कम्बुवद् अम्बुजाक्ष भजते रेखा-त्रयीम् उज्ज्वलाम् ।
आरुन्धे कुरुविन्द-कन्दल-रुचिं भू-चन्द्र दन्त-च्छदो
लक्ष्मीर् आधुनिकी धिनोति सुहृदाम् अक्षीणि सा काप्य् असौ ॥
श्री-जीवः : **तुन्दम् इत्य् आगत-चराणां अधुना पुनर् आगतानां वैदेशिक-वन्दिनां वचनम् । आरुन्धे वशीकरोति । कम्बुवद् इति तेन तुल्यं क्रिया चेद् वतिः [पा। ५.१.११५] एवं-लक्षणेऽपि कम्बुवद्-ग्रीवाया उद्गम इत्य् अर्थः । सा कापीति वर्णयितुम् अशक्येत्य् अर्थः ॥६३॥
मुकुन्दः : कम्बुवद् इति, तेन तुल्यं क्रिया चेद् वतिः [पा। ५.१.११५] एवं-लक्षणेऽपि कम्बु-ग्रीववद्-ग्रीवाया उद्गम इत्य् अर्थः । आरुन्धे वशीकरोति कुरुविन्दं पद्मरागः, सुहृदाम् अक्षीणि नः काप्य् असाव् इति पाठः ॥६३॥
विश्वनाथः : तुन्दम् इति । पूर्वम् अत्रागतानां पुनर् अपि कियद्-दिनानन्तरम् अधुनागतानां वैदेशिक-वन्दिनीनां वचनम् । हे मुकुन्द ! तुन्दम् उदरम् । हे अम्बुजाक्ष ! तव कण्ठं शङ्खस्येव उज्ज्वलां रेखा-त्रयीं भजते । हे भूचन्द्र ! कुरुविन्द-कन्दलस्य प्रवालाङ्कुरस्य रुचिं रक्त-कान्तिं तव ओष्ठाधरः आरुन्धे वशीकरोति, सा काप्य् अनिर्वचनीया लक्ष्मीः शोभा धिनोति सुखयति ॥६३॥
—ओ)०(ओ—
॥ ३.३.६४-६६ ॥
पुष्प-मण्डन-वैचित्री चित्राणि गिरि-धातुभिः ।
पीत-पट्ट-दुकूलाद्यम् इह प्रोक्तं प्रसाधनम् ॥
सर्वाटवी-प्रचारेण नैचिकी-चय-चारणम् ।
नियुद्ध-केलि-नृत्यादि-शिक्षारम्भोऽत्र चेष्टितम् ॥
यथा—
वृन्दारण्ये समस्तात् सुरभिणि सुरभी-वृन्द-रक्षा-विहारी
गुञ्जाहारी शिखण्ड-प्रकटित-मुकुटः पीत-पट्टाम्बर-श्रीः ।
कर्णाभ्यां कर्णिकारे दधद् अलम् उरसा फुल्ल-मल्लीक-माल्यं
नृत्यन् दोर्-युद्ध-रङ्गे नटवद् इह सखीन् नन्दयत्य् एष कृष्णः ॥
श्री-जीवः : फुल्ला मल्ल्यो यस्मिंस् तादृशं माल्यं दधत् । अत्र यद्यपि ऊणादाव् उज्ज्वल-दत्तेन मल्लिका शब्द एव साधितः, मल्ली-शब्दस् तु प्रामादिक एव मतः । अमरेण च “तृण-शून्यं तु मल्लिका” इति पठितं । तथापि दर-विदलित-मल्ली [गी।गो। १.३६] इति, स्फुरन्-मल्ली-हल्लीशका इति, मिलन्-मन्दाकिनी मल्ली-दाम इति कविभिः स्वीकृतत्वाद् अत्रापि प्रयुज्यते । ह्रस्वान्तस् तु तच्-छब्दः कुत्रापि न दृश्यते इति पाठान्तरं तु त्यक्तम् ॥६६॥
**मुकुन्दः : **मल्लि-माल्यं च फुल्लम् इति पाठः । सिद्धान्त-कौमुद्यां उणादि-चतुर्थ-पादियस्य, सर्व-धातुभ्य इन् [५५७] इत्य् अस्य उदाहरणे मल्लि मल्लीति द्वयम् एव मल्लीनां मल्लि-पुष्पाणां माल्यं माला मल्लि-मालां—
ज्वलतु जलधि-क्रोड-क्रीडत्-कृपीट-भर-प्रभावति भट-पटु-ज्वाला-माला-कुले जठरानलः । तृणम् अपि वयं सम्फुल्लं मल्ल-मतल्लिका- परिमल-मुचा वाचा याचामहे न महेश्वरम् ॥
इति वेदान्ताचार्याणां पद्येऽपि ॥६६॥
विश्वनाथः : फुल्ला मल्ल्यः यस्मिन् तादृशं माल्यं बिभ्रत् ॥६६॥
—ओ)०(ओ—
॥ ३.३.६७-६८ ॥
अथ मध्य-पौगण्डम्—
नासा सुशिखरा तुङ्गा कपोलौ मण्डलाकृती ।
पार्श्वाद्य्-अङ्गं सुवलितं पौगण्डे सति मध्यमे ॥
यथा—
**तिल-कुसुम-विहासि-नासिका-श्रीर्
नव-मणि-दर्पण-दर्प-नाशि-गण्डः ।
हरिर् इह परिमृष्ट-पार्श्व-सीमा
सुखयति सुष्ठु सखीन् स्व-शोभयैव ॥
श्री-जीवः- **तिल-कुसुमेति परिमृष्ट-पार्श्व-सीमेति परिमृष्ट-तुल्य-पार्श्वानां सीमा मर्यादा तेषां ऊर्ध्वं विराजमान इत्य् अर्थः ॥६८॥
मुकुन्दः : परिमृष्टा सुवलिता पार्श्वयोः सीमा स्थितिर् यस्य सः ॥६८॥
विश्वनाथः : सुशिखरा शोभनाग्र-भागा । तुङ्गा उच्चा च नासिका ॥६७॥ मणि-मय-दर्पणस्य दर्प-नाशकं गण्ड-स्थलं यस्य सः ॥६८॥
—ओ)०(ओ—
॥ ३.३.६९ ॥
उष्णीषं पट्ट-सूत्रोत्थ-पाशेनात्र तडित्-त्विषा ।
यष्टिः श्यामा त्रि-हस्तोच्चा स्वर्णाग्रेत्य् आदि-मण्डनम् ।
भाण्डीरे क्रीडनं शैलोद्धारणाद्यं च चेष्टितम् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : पट्ट-सूत्रोत्थ-पाशेन ॥६९॥
**विश्वनाथः : **पट्ट-सूत्रोत्थ-पीत-वर्ण-पाशेन विशिष्टः उष्णीषः । तथा च शोभार्थं पट्ट-सूत्रेण यत् किञ्चित् वेष्टित इत्य् अर्थः । श्याम-वर्णा यष्टिः त्रिहस्त-परिमिता च स्वर्ण-विद्धाग्र-भागा च । शैलो गोवर्धनः । मध्यम-पौगण्ड एव गोवर्धनोद्धरण-प्रसिद्धेः ॥६९॥
—ओ)०(ओ—
॥ ३.३.७० ॥
यथा—
**यष्टिं हस्त-त्रय-परिमितां प्रान्तयोः स्वर्ण-बद्धां
बिभ्रल्-लीलां चटुल-चमरी-चारु-चूडोज्ज्वल-श्रीः ।
बद्धोष्णीषः पुरट-रुचिना पट्टि-पाशेन पार्श्वे
पश्य क्रीडन् सुखयति सखे मित्र-वृन्दं मुकुन्दः ॥
श्री-जीवः : **चमरीभिर् मञ्जरीभिश् चारुर् या चूडा मस्तक-मध्य-बद्ध-केश-ततिस् तया नात्युन्नतया सूक्ष्म-स्वच्छोष्णीषाञ्चल-वृतया उज्ज्वला श्रीर् यस्य । पट्ट-पाशेन बद्धः स-शोभं किञ्चिद् वेष्टित उष्णीषो यस्य सः ॥७०॥
मुकुन्दः : चूडा शिखा सा च उष्णीषाग्र-वाचिका । पार्श्वे उष्णीष-दक्षिण-वाम-भागे पट्ट-पाशेन बद्धो वेष्टित उष्णीषो येन सः ॥७०॥
विश्वनाथः : एवम्-भूतां नील-वर्णां यष्टिं बिभ्रत् । चमरीभिः मञ्जरीभिः चारुर् या चूडा ऊर्ध्व-बद्ध-कचतया उज्ज्वला श्रीः यस्य सः । पट्ट-पाशेन बद्धः स-शोभं किञ्चिद् वेष्टित उष्णीषो यस्य सः ॥७०॥
—ओ)०(ओ—
॥ ३.३.७१ ॥
पौगण्ड-मध्य एवायं हरिर् दीव्यन् विराजते ।
माधुर्याद्भुत-रूपत्वात् कैशोराग्रांश-भाग् इव ॥
श्री-जीवः, विश्वनाथः : माधुर्येण वर्ण-पुष्टतादीनां मनोरमत्वेनाद्भुतं लोक-विस्मय-कारकं रूपम् आकारो यस्य सः । तद्-रूपत्वात् कैशोराग्रांश-भाग् इव विभाति । यथान्यः सर्व-लक्षण-सम्पन्नो राज-कुमारस् तद्-अग्रांश-भाक् सन् विराजते, तथा तस्य कैशोराग्रांश-भागस् तु सर्वतो विलक्षण इत्य् अर्थः ॥७१॥
**मुकुन्दः : **पौगण्ड-मध्ये मध्य-पौगण्डारम्भे कैशोराग्रांशः प्रथम-कैशोरारम्भस् तद्-भाग् यः स इव दीव्यन् विराजते, विशेषेण प्रकाशते । तत्र हेतुः—माधुर्येण परम-रोचमानतया अद्भुतं परम-व्योम-नाथादेर् अपि विस्मय-करः रूपं भूषण-भूषण-सौभगं समृद्धिर् यस्य तद्-रूपत्वात्, अनेनास्य सार्ध-वर्ष-प्रकाशेनास्य वर्ष-प्रकाश-परिमितः ॥७१॥
—ओ)०(ओ—
॥ ३.३.७२-७३ ॥
अथ शेष-पौगण्डम्—
वेणी नितम्ब-लम्बाग्रा लीलालक-लता-द्युति ।
अंसयोस् तुङ्गतेत्य् आदि पौगण्डे चरमे सति ॥
यथा—
अग्रे लीलालक-लतिकयालङ्कृतं बिभ्रद् आस्यं
चञ्चद्-वेणी-शिखर-शिखया चुम्बित-श्रेणि-बिम्बः ।
उत्तुङ्गांस-च्छविर् अघहरो रङ्गम् अङ्ग-श्रियैव
न्यस्यन्न् एव प्रिय-सवयसां गोकुलान् निर्जिहीते ॥
श्री-जीवः : शीलया विन्यस्ताया अलक-लताया द्युतिः शोभा ॥७२॥
मुकुन्दः : लीलया विन्यस्ता या अलक-लताया द्युतिः शोभा लीलायै या अलक-लता तस्या इति वा ॥७२॥ अग्रे लीलेति सखि-भाग्याभिनन्दनं व्रज-सुन्दरी-वाक्यम् ॥७३॥
विश्वनाथः : अग्रे मुखस्य प्रान्त-भागे पूर्वापेक्षया अतिशय-नील-वर्णया अलका-लतिकया अलङ्कृतं मुखं बिभ्रत्, चञ्चल-वेण्य्-अग्र-भागस्य शिखरा चरम-भागेन युक्तं नितम्ब-बिम्बं यस्य सः । उत्तुङ्गस्य स्कन्धस्य छविर् यत्र स श्री-कृष्णः । अङ्ग-श्रिया सखीनां रङ्गं विस्तारयन् ॥७३॥
—ओ)०(ओ—
॥ ३.३.७४-७५ ॥
उष्णीषे वक्रिमा लीला-सरसी-रुह-पाणिता ।
काश्मीरेणोर्ध्व-पुण्ड्राद्यम् इह मण्डनम् ईरितम् ॥
यथा—
उष्णीषे दर-वक्रिमा कर-तले व्याजृम्भि-लीलाम्बुजं
गौर-श्रीर् अलिके किलोर्ध्व-तिलकः कस्तूरिका-बिन्दुमान् ।
वेषः केशव पेशलः सुबलम् अप्य् आघूर्णयत्य् अद्य ते
विक्रान्तं किम् उत स्वभाव-मृदुलां गोष्ठाबलानां ततिम् ॥
श्री-जीवः : उष्णीषे दरेति । गौरेत्य् आदौ भाले कुङ्कुम-दिव्यद्-ऊर्ध्व-तिलक इति वा पाठः । विक्रान्तम् अपि सुबलम् इत्य् अन्वयः ॥७४-७५॥
मुकुन्दः : उष्णीषे दरेति उज्ज्वलस्य वचनम् । सुबलम् अपि पुरुषम् अपि तत्रापि विक्रान्तम् ॥७५॥
विश्वनाथः : लीला-कमल-विशिष्ट-पाणित्वं काश्मीरेण केशरेण ॥७४॥ कर-तले विकसित-लीला-कमलं । गौरी कान्तिर् यस्य एवम्-भूत-मूर्ध्नि तिलकं यस्य सः । हे केशव ! ते तव पेशलः व्रज-सुन्दरीणां मनो-हरणे चतुरो वेशः विक्रान्तं विक्रम-युक्तं सुब्लअम् अप्य् आघूर्णयति, किम् उत स्वभाव इत्य् आदि ॥७५॥
—ओ)०(ओ—
॥ ३.३.७६-७७ ॥
अत्र भङ्गी गिरां नर्म-सखैः कर्ण-कथा-रसः ।
एषु गोकुल-बालानां श्री-श्लाघेत्य्-आदि-चेष्टितम् ॥
यथा—
धूर्तस् त्वं यद् अवैषि हृद्-गतम् अतः कर्णे तव व्याहरे
केयं मोहनता-समृद्धिर् अधुना गोधुक्-कुमारी-गणे ।
अत्रापि द्युति-रत्न-रोहण-भुवो बालाः सखे पञ्च-षाः
पञ्चेषुर् जगतां जये निज-धुरां यत्रार्पयन् माद्यति ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : सुबलं प्रति श्री-कृष्ण आह—धूर्त इति । अत्रापि कान्ति-रूप-रत्नस्य खनीति प्रसिद्धा उत्पत्ति-भुवः राधाद्याः पञ्चषा बाला वर्तन्ते । यत्र यासु बालासु पञ्चेषुः कन्दर्पः जगतां विजये निज-धुरां स्वस्य भावं अर्पयन् माद्यति हृष्टौ भवतीत्य् अर्थः ॥७७॥
—ओ)०(ओ—
॥ ३.३.७८-७९ ॥
अथ कैशोरम्—
कैशोरं पूर्वम् एवोक्तं सङ्क्षेपेणोच्यते ततः ॥
यथा—
पश्योत्सिक्त-वली-त्रयी-वर-लते वासस् तडिन्-मञ्जुले
प्रोन्मीलद्-वन-मालिका-परिमल-स्तोमे तमाल-त्विषि ।
उक्षत्य् अम्बक-चातकान् स्मित-रसैर् दामोदराम्भोधरे
श्रीदामा रमणीय-रोम-कलिकाकीर्णाङ्ग-शाखी बभौ ॥
श्री-जीवः : उत्सिक्तेति प्रोन्मीलद् इति च श्री-दामोदर-पक्षे सप्तम्य्-अन्य-पदार्थः । अम्भोधर-पक्षे, तृतीयान्य-पदार्थः । यद् वा, श्रीदाम-दामोदरयोर् वनाम्भोदरयोर् इवात्यन्तावेशेन परस्परम् आलिङ्गितयोर् वर्णनम् इदम् । तस्माल् लता-वन-माला-शाखिनां तत्र तत्र स्वाच्छन्द्येन वर्णनं रसावहम् एव ज्ञेयम् । तथा हि—अम्बकानि सर्वेषां अक्षीण्य् एव चातकाः तान् उक्षति सिञ्चति, दामोदराम्भोधरे श्रीदामा बभौ तत्-संलग्नतया विरेज इत्य् अर्थः । तद् एवं तद् अभेदम् इव प्राप्तं दामोदराम्भोधरं विशिनष्टि—उत्सिक्तेत्य् आदिना । वन-स्थानीयत्वेन श्रीदामान्ं विशिनष्टि—रमणीयेत्य् अनेन । रमणीय-रोम-कलिकाभिर् आकीर्णा व्याप्ता अङ्ग-रूपा बाह्वादि-लक्षणाः शाखिनो यत्र सः ॥७९॥
मुकुन्दः : पश्योत्सिकेति श्री-राधां प्रति विशाखा-वचनं । अम्बकानि सखीनां नेत्राण्य् एव चातकान् उक्षति सिञ्चति सति उत्सिक्ता उत्सलिता प्रोन्मीलद् इत्य् अत्र दामोदर-पक्षे सप्तम्य्-अन्य-पदार्थः ॥७९॥
**विश्वनाथः : **अथ कैशोरं—आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् [भ।र।सि। २.१.३१२] इति ॥७८॥
अम्बकानि सर्वेषां अक्षीण्य् एव चातकास् तान् उक्षति श्री-कृष्ण-रूपाम्भोधरे सिञ्चति सति श्रीदाम्नः रोम-कलिका युक्ताङ्ग-रूपः शाखी वृक्षः बभौ । तथा च जल-मात्रैक-जीवनत्वेन चातक-स्वधर्मा वृक्षः, आकाशे चातकानां जल-सेचनारम्भं दृष्ट्वा तत्-प्राप्त्य्-आशया हृष्टः सन् बभाव् इत्य् एवं-रीत्या सति सप्तम्या अर्थः सङ्गच्छते इति भावः । मेघ-साधर्म्यम् आह—उत्सिक्ता उद्रिक्ता त्रिवलि-रूपा श्रेष्ठ-लता यत्र, मेघ-पक्षे येनेति तृतीया अन्य-पदार्थे ज्ञेया । प्रोन्मीलन् वन-मालिकायाः परिमल-समूहो येन, पक्षे वन-श्रेण्याः परिमल-समूहो येनेत्य् अर्थः ॥७९॥
—ओ)०(ओ—
॥ ३.३.८० ॥
प्रायः किशोर एवायं सर्व-भक्तेषु भासते ।
तेन यौवन-शोभास्य नेह काचित् प्रपञ्चिता ॥
श्री-जीवः : अयं श्री-कृष्णः किशोरः शैशव-मिश्र-यौवन एव सन् सर्व-भक्तेषु प्रायः प्राचुर्येण भासते, तेभ्यो रोचते, कौमार-पौगण्ड-रूपं तु न्यूनतर-न्यूनत्वेनेत्य् अर्थः । तेन तत ऊर्ध्व-वयसः एष्व् आसाभासमानत्वेन केवला यौवन-शोभा तु इह श्री-कृष्णे नोदयत इति काचित् स्वल्पापि न प्रपञ्चितेत्य् अर्थः ॥८०॥
मुकुन्दः : प्राय इत्य् उक्तिः शुद्ध-वत्सलानां व्यावर्तिका, तेषु नव-यौवनेऽपि पौगण्ड-भाक्त्वेन भासमानस्य वक्ष्यमाणत्वात् ॥८०॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.८१ ॥
अथ रूपं, यथा—
अलङ्कारम् अलङ्कृत्वा तवाङ्गं पङ्कजेक्षण ।
सखीन् केवलम् एवेदं धाम्ना धीमन् धिनोति नः ॥
श्री-जीवः : अलङ्कारम् अलं कृत्वेति तत्-करणेनालम् इत्य् अर्थः ॥८१॥
मुकुन्दः : इदम् अङ्गं धाम्ना दीप्ति-राशिना अलङ्कारं भूषणं अलं कृत्वा भूषित्वा ॥८१॥
विश्वनाथः : हे धीमन् ! तद् एवम् अङ्गं केवलं धाम्ना स्व-कान्त्यैवालङ्कारं कृत्वा भूषितं कृत्वा नोऽस्मान् सखीन् धिनोति सुखयति । तथा च तृतीय-स्कन्धे भूषण-भूषणाङ्गम् [भा।पु। ३.२.१२] इति । विभूषणं विभूष्यं स्याद् येन तद् रूपम् उच्यते [भ।र।सि। २.१.३३८] इति पूर्वोक्तत्वात् । अत्र तल्-लक्षणं नोक्तम् इति ज्ञेयम् ॥८१॥
—ओ)०(ओ—
॥ ३.३.८२ ॥
अथ शृङ्गं, यथा—
व्रज-निज-वडभी-वितर्दिकायाम्
उषसि विषाण-वरे रुवत्य् उदग्रम् ।
अहह सवयसां तदीय-रोम्णाम्
अपि निवहाः समम् एव जाग्रति स्म ॥
श्री-जीवः : व्रजे वा निजा स्व-शयनावास-रूपा वडभी चन्द्रशालिका । यस्याम् असेवन्त नमद्-वलीका समं वधूभिर् बडभीर् युवान् [शि।व। ३.५३] इति माघ-काव्यात् । तस्या वितर्दिका द्वाराग्र-वेदिका तस्याम् ॥८२॥
**मुकुन्दः : **व्रज-पतेर् गोष्ठ-राजस्य वडभी प्रासाद-शिखरे शाला तस्या वितर्दिका चतुरस्रा द्वाराग्र-विश्राम-वेदिका तस्या ॥८२॥
विश्वनाथः : व्रजे या निजा स्व-शयनावास-रूपा वडभी चन्द्र-शालिका तस्या वितर्दिका द्वाराग्र-वेदिका तस्यां शृङ्ग-श्रेष्ठे रुवति सती सखीनां तदीय-रोम्णाम् अपि समूहाः समम् एक-कालम् एव जाग्रति स्म ॥८२॥
—ओ)०(ओ—
॥ ३.३.८३ ॥
वेणुर्, यथा—
सुहृदो न हि यात कातरा
हरिम् अन्वेष्टुम् इतः सुतां रवेः ।
कथयन्न् अमुम् अत्र वैणव-
ध्वनि-दूतः शिखरे धिनोति नः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **हे सुहृदः ! यूयं कातराः सन्तः इतः स्थानात् हरिम् अन्वेष्टुं रवेः सुतां यमुनां न हि यात । अत्र गिरि-शिखरे पर्वताग्रे अमुं श्री-कृष्णं कथयन् ॥८३॥
—ओ)०(ओ—
॥ ३.३.८४ ॥
शङ्खो, यथा—
**पाञ्चाली-पतयः श्रुत्वा पाञ्चजन्यस्य निस्वनम् ।
पञ्चास्य पश्य मुदिताः पञ्चास्य-प्रतिमां ययुः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः **: अस्य श्री-कृष्णस्य । पञ्चास्य-प्रतिमाः सिंह-तुल्य-शीघ्र-गमनाः सन्त इत्य् अर्थः ॥८४॥
विश्वनाथः : पाञ्चाल्या द्रौपद्याः पतयः पञ्च युधिष्ठिराद्या अस्य श्री-कृष्णस्य पाञ्चजन्यस्य ध्वनिं श्रुत्वा पञ्चास्यस्य महादेवस्य प्रतिमां सादृश्यं ययुः प्रापुः । सर्वे श्वेत-वर्णा बभूवुर् इत्य् अर्थः । अनेन वैवर्ण्य-रूपाः सात्त्विका इति ॥८४॥
—ओ)०(ओ—
॥ ३.३.८५ ॥
विनोदो, यथा—
स्फुरद्-अरुण-दुकूलं जागुडैर् गौर-गात्रं
कृत-वर-कवरीकं रत्न-ताटङ्क-कर्णम् ।
मधुरिपुम् इह राधा-वेषम् उद्वीक्ष्य साक्षात्
प्रिय-सखि सुबलोऽभूद् विस्मितः स-स्मितश् च ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **स्फुरद् इत्य् अत्र राधा-वेश-करणं कारणं चोक्तं श्री-दास-गोस्वामिना, यथा—
मानेनालं कवलित-धिया श्यामया राधिकार्द्रा द्राग् आहूता व्यसन-कथनायेति संविद्य कीरात् । तस्या वेशैर् गतम् अघ-हरं तस्य दोषं लपन्तं तुष्ट्यालिङ्ग्य त्वरितम् अथ सा ज्ञात-तत्त्वा जडासीत् ॥ [प्रार्थनामृत ६] इति ॥८५॥
विश्वनाथः : श्री-राधाया एव वेशो यत्र तथाभूतं श्री-कृष्णं वीक्ष्य । वेशम् एवाह—जागुडैः केशरैः करणैः राधा इव गौरं गात्रं तस्य तं, रत्नमय-कुण्डल-युक्तौ कर्णौ यस्य तम् ॥८५॥
—ओ)०(ओ—
॥ ३.३.८६-८८ ॥
अथानुभावाः—
नियुद्ध-कन्दुक-द्यूत-वाह्य-वाहादि-केलिभिः ।
लगुडालगुडि-क्रीडा-सङ्गरैश् चास्य तोषणम् ॥
पल्यङ्कासन-दोलासु सह-स्वापोपवेशनम् ।
चारु-चित्र-परीहासो विहारः सलिलाशये ॥
युग्मत्वे लास्य-गानाद्याः सर्व-साधारणाः क्रियाः ॥
श्री-जीवः : युग्मत्वं युग्म-धर्मो मिलनम् इत्य् अर्थः । युग्मत्वे लास्येति तेन सहेत्य् अर्थः । सर्वेषां सखि-मात्राणां साधारणाः प्रक्रियाः ॥८८॥
मुकुन्दः : युग्मत्वं युग्म-धर्मो मिलनम् इत्य् अर्थः ॥८८॥
**विश्वनाथः : **नियुद्धादिभिः करणैः अस्य श्री-कृष्णस्य तोषणं, खट्ट्वासन-हिन्दोलासु श्री-कृष्णेन सह स्वापः शयनं उपवेशनं च अस्य श्री-कृष्णस्य युग्मत्वेन युग्म-धर्मेण मिलनेनेति यावत्, सर्वेषां सखी-मात्राणां साधारणाः क्रियाः ॥८६-८८॥
—ओ)०(ओ—
॥ ३.३.८९ ॥
तत्र नियुद्धेन तोषणं, यथा—
अघहर जितकाशी युद्ध-कण्डूल-बाहुस्
त्वम् अटसि सखि-गोष्ठ्याम् आत्म-वीर्यं स्तुवानः ।
कथय किम् उ ममोच्चैश् चण्ड-दोर्-दण्ड-चेष्टा-
विरमित-रण-रङ्गो निःसहाङ्गः स्थितोऽसि ॥
श्री-जीवः : जितकाशी जयावह इति क्षीर-स्वामी, स्व-जयाभिमानीत्य् अर्थः ॥८९॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : हे अघहर ! युद्ध-रूप-कण्डूयया युक्तो बाहुर् यस्य तथा-भूतत्वं जितकाशी मयैव जितम् इति जयाभिमानी, आत्म-पराक्रमः स्तुवानः सन् सखि-गोष्ठ्याम् अटसि । भोः ! तवैव जयश् चेत्, मम चण्ड-दोर्-दण्ड-चेष्टाभिर् विरमित-रण-रङ्गत्वं दुर्बलाङ्गः सन् स्थितोऽसि ॥८९॥
—ओ)०(ओ—
**॥ ३.३.९०-९२ ॥
युक्तायुक्तादि-कथनं हित-कृत्ये प्रवर्तनम् ।
प्रायः पुरःसरत्वाद्याः सुहृदाम् ईरिताः क्रियाः ॥
ताम्बुलाद्य्-अर्पणं वक्त्रे तिलक-स्थासक-क्रिया ।
पत्राङ्कुर-विलेखादि सखीनां कर्म कीर्तितम् ॥
निर्जिती-करणं युद्धे वस्त्रे धृत्वास्य कर्षणम् ।
पुष्पाद्य्-आच्छेदनं हस्तात् कृष्णेन स्व-प्रसाधनम् ।
हस्ताहस्ति-प्रसङ्गाद्याः प्रोक्ताः प्रिय-सख-क्रियाः ॥
श्री-जीवः : **युक्तेति । युक्तम् अयुक्तं चादिर् यस्य तादृशं कथनम् इति युक्तम् इदं कर्तव्यम् अयुक्तम् इदं न कर्तव्यम् इत्य् उपदेश इत्य् अर्थः ॥९०॥ स्थासकश् चन्दनादिभिश् चर्चा ॥९१॥ हस्ताहस्तीति । परस्परम् आकर्षणादिना हस्तेन हस्तेन युद्धम् इत्य् उत्प्रेक्ष्यते ॥९२॥
**मुकुन्दः : **हस्ते हस्ते परस्परं धृत्वाकर्षणादि-रूपः प्रकृष्टः सङ्गोहस्ताहस्ति-प्रसङ्गः । आग्रह-बोधकोऽत्र इच् ॥९२॥
**विश्वनाथः : **युक्तेति । अत्र युक्तम् अयुक्तं चादिर् यस्य तादृशं कथनम् इति, युक्तम् इदं कर्तव्यम् इत्य् उपदेश इत्य् अर्थः ॥९०॥ ताम्बूलेति । स्थासकश् चन्दनादिभिश् चर्चा ॥९१॥ हस्ताहस्तीति । परस्परम् आकर्षणादिना हस्तेन हस्तेन युद्धम् इत्य् उत्प्रेक्ष्यते ॥९२॥
—ओ)०(ओ—
॥ ३.३.९३-९६ ॥
दूत्यं व्रज-किशोरीषु तासां प्रणय-गामिता ।
ताभिः केलि-कलौ साक्षात् सख्युः पक्ष-परिग्रहः ॥
असाक्षात् स्व-स्व-यूथेशा-पक्ष-स्थापन-चातुरी ।
कर्णाकर्णि-कथाद्याश् च प्रिय-नर्म-सख-क्रियाः ॥
वन्य-रत्नालङ्कारैर् माधवस्य प्रसाधनम् ।
पुरस् तौर्यत्रिकं तस्य गवां सम्भालन-क्रियाः ॥
अङ्ग-संवाहनं माल्य-गुम्फनं ब्वीजनादयः ।
एताः साधारणा दासैर् वयस्यानां क्रिया मताः ।
पूर्वोक्तेष्व् अपराश् चात्र ज्ञेया धीरैर् यथोचितम् ॥
श्री-जीवः : प्रणय-गामिता प्रणस्यानुमोदनम् इत्य् अर्थः । ताभिः सह सख्युः श्री-कृष्णस्य केलि-कलौ क्रीडा-कलहे तासां केवलानां साक्षात् तस्यैव पक्ष-परिग्रहः । तासां असाक्षात् तस्य तु साक्षात् तासां मध्ये या स्व-स्वाश्रय-यूथेशा तस्या यः पक्षस् तस्यैव स्थापन-चातुरीत्य् अर्थः । तासां तस्य च युगपत् साक्षाच् चेत् तथापि तस्या एव पक्ष-स्थापना-चातुरीति ज्ञेयम् । कर्णाकर्णीति पूर्वं [भ।र।सि। २.१.३३३] व्याख्यातम् एव ॥९३-९६॥
मुकुन्दः : चातुरीति-पदेन अन्यासां तु यूथेशानां पक्षास्थापनम् ॥९४॥
विश्वनाथः : प्रणय-गामिता प्रणस्यानुमोदनम् इत्य् अर्थः । ताभिः सह सख्युः श्री-कृष्णस्य केलि-कलौ क्रीडा-कलहे तासां बालानां साक्षात् श्री-कृष्णस्यैव पक्ष-परिग्रहः ॥९३॥ तासां असाक्षात् तासां मध्ये या स्वस्याश्रय-यूथेशा तस्या यः पक्षस् तस्यैव स्थापन-चातुरीत्य् अर्थः । तासां तस्य च युगपत् साक्षाच् चेत् तथापि तस्या एव पक्ष-स्थापना-चातुरीति ज्ञेयम् । यथा सुबलस्याश्रय-भूता यूथेश्वरी श्री-राधिका, तथैवान्यत्रापि ज्ञेयम् ॥९४॥ तौर्यारिकं नृत्य-गीतादिकम् ॥९५॥ पूर्वोक्तेष्व् अनुभावेषु अपरा अगणिताः केचनानुब्रह्म्भावा अत्र ज्ञेयाः ॥९६॥
—ओ)०(ओ—
॥ ३.३.९७ ॥
अथ **सात्त्विकाः, **तत्र स्तम्भो, यथा—
निष्क्रामन्तं नागम् उन्मथ्य कृष्णं
श्रीदामायं द्राक् परिष्वक्तु-कामः ।
लब्ध-स्तम्भौ सम्भ्रमारम्भ-शाली
बाहु-स्तम्भौ पश्य नोत्क्षेप्तुम् ईष्टे ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **लब्धवन्तौ बाहु-रूप-स्तम्भौ आलिङ्गनार्तह्म् उत्क्षेप्तुं न समर्थो भवति ॥९७॥
—ओ)०(ओ—
॥ ३.३.९८ ॥
स्वेदो, यथा—
क्रीडोत्सवानन्द-रसं मुकुन्दे
स्वात्य्-अम्बुदे वर्षति रम्य-घोषे ।
श्रीदाम-मूर्तिर् वर-शुक्तिर् एषा
स्वेदाम्बु-मुक्ता-पटलीं प्रसूते ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : स्वाती-नक्षत्र-कालीनाम्बुद-रूपे रम्य-घोषे शृङ्गे आनन्द-रसं वर्षति सति श्रीदाम्नः देह एव «सीप» इति प्रसिद्धः वर्षोक्तिं स्वेदाम्बु-रूप-मुक्ता-मालां प्रसूते, शुक्तौ यदि स्वाति-बिन्दुः पतति तदा मुक्ता भवतीति प्रसिद्धेः ॥९८॥
—ओ)०(ओ—
॥ ३.३.९९ ॥
रोमाञ्चो, यथा दान-केलि-कौमुद्याम् (३७)—
अपि गुरु-पुरस् त्वाम् उत्सङ्गे निधाय विसङ्कटे
विपुल-पुलकोल्लासं स्वरा परिष्वजते हरिः ।
प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं
क्व सुबल पुरा सिद्ध-क्षेत्रे चकर्थ कियत्-तपः ॥
श्री-जीवः : अपि गुरु-पुर इति श्री-राधाया मानसम् एवानुताप-वचनं, गुरवोऽत्र श्री-रामादय एव ॥९९॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : श्री-राधाया मानसम् एवानुताप-वचनं—गुरवोऽत्र श्री-नन्द-श्री-रामादयः निरर्गलं प्रतिबन्धक-रहितं यथा स्यात् तथा परिष्वस्वजे । असौ श्री-कृष्णः तव स्कन्धे च भुजं करोति, तस्मात् हे सुबल ! क्व सिद्ध-क्षेत्रे कियत् तपः चकर्थ ॥९९॥
**दान-केलि-टीका- **विसङ्कटे पृथुनि क्व कियत् तप इति । तत् सिद्ध-क्षेत्रं तपः परिमाणं च सर्वैर् दुर्ज्ञेयम् एव यतस् तद्-विधो भाग्यवान् अन्यः कोऽपि मा भूत् । मद्-विधास् तु बह्व्य एव कृताल्प-सुकृता अत्र वर्तन्ते इति भावः ॥९९॥
—ओ)०(ओ—
॥ ३.३.१०० ॥
स्वर-भेदादि चतुष्कं, यथा—
प्रविष्टवति माधवे भुजग-राज-भाजं ह्रदं
तदीय-सुहृदस् तदा पृथुल-वेपथु-व्याकुलाः ।
विवर्ण-वपुषः क्षणाद् विकट-घर्घर-ध्मायिनो
निपत्य निकट-स्थली-भुवि सुषुप्तिम् आरेभिरे ॥
श्री-जीवः : स्वर-भेदादि-चतुष्कम् इति । अश्रु त्यक्त्वा पूर्वोद्दिष्ट-क्रमो, न तु श्लोक-क्रमः, क्षणाद् इति क्षणम् अतिक्रम्य विकाटेत्य् आदि लक्षणाः, एवम् एवं-भूता निपत्येति निपतनाद् अनन्तरम् इत्य् अर्थः । सुषुप्तिम् इति ताम् इव निश्चेष्टावस्थाम् इत्य् अर्थः ॥१००॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : विकट-घर्घर-शब्दम् कुर्वन्तः । एवम्-भूतास् ते निपत्येति निपतनाद् अनन्तरम् इत्य् अर्थः । सुषुप्तिम् इति ताम् इव न्श्चेष्टावस्थाम् इत्य् अर्थः ॥१००॥
—ओ)०(ओ—
॥ ३.३.१०१ ॥
अश्रु, यथा—
दावं समीक्ष्य विचरन्तम् इषीक-तूउलैस्
तस्य क्षयार्थम् इव बाष्प-झरं किरन्ती ।
स्वाम् अप्य् उपेक्ष्य तनुम् अम्बुज-माल-भारिण्य्
आभीर-वीथिर् अभितो हरिम् आवरिष्ट ॥
श्री-जीवः : इषीकाः शर-पुष्प-दण्डास् तासां तूउलैः । इष्टकेषिका-मालानां चित-तूउल-भारिषु [पा। ६.३.६५] इति ह्रस्वत्वम् । प्रकरण-बलाद् अत्राभीरादि-शब्दाः सखिष्व् एव पर्यवस्यन्ति । भयेऽप्य् अस्रु-झरम् इदम् अनिष्टस्य निशयाच् छोकम् अनुभूयेति ज्ञेयम् ॥१०१॥
**मुकुन्दः : **तासां तुलैः इष्टकेषिका-मालानां चित-तुल-भारिषु [पा। ६.३.६५] इति ह्रस्वत्वम् । भयेऽप्य् अस्रु, यथा काव्य-प्रकाशे—अश्रु-पातादयोऽनुभावाः शृङ्गारस्येव करुण-भयानकयोः [का।प्र। ४.२७] इति ॥१०१॥
विश्वनाथः : इषीकाः शर-पुष्प-दण्डास् तासां तुलैः करणैः दवं वनाग्निं विचरन्तं समीक्ष्य कमल-माला-धारिणी आभीर-श्रेणी स्वां तनुम् अप्य् उपेक्ष्य चतुर्-दिक्षु श्री-कृष्णम् आवरिष्ट । प्रकरण-बलाद् अत्राभीरादि-शब्दाः सखिष्व् एव पर्यवस्यन्ति । इष्टकेषिका-मालानां चित-तूउल-भारिषु [पा। ६.३.६५] पश्चाद् वर्तमानेषु सत्सु एषां ह्रस्वत्वं ज्ञेयम् ॥१०१॥
—ओ)०(ओ—
॥ ३.३.१०२-१०३ ॥
अथ व्यभिचारिणः—
औग्र्यं त्रासं तथालस्यं वर्जयित्वाखिलाः परे ।
रसे प्रेयसि भाव-ज्ञैः कथिता व्यभिचारिणः ॥
तत्रायोगे मदं हर्षं गर्वं निद्रां धृतिं विना ।
योगे मृतिं क्लमं व्याधिं विनापस्मृति-दीनते ॥
श्री-जीवः : औग्र्यम् अत्र केवल-कृष्ण-विषयं । त्रासं केवल-तद्-धेतुकम् आलस्यं तदानुकूल्य-विषयं वर्जयित्वेति तत्-तद्-उपाधि-सद्-भावे तु तत्र तत्रावर्णयद् एवेति ॥१०२॥
**मुकुन्दः : **औग्र्यम् इति । एतानि त्रीणि सख्य-रतेर् न पोषकाणीत्य् अर्थः ॥१०२॥
**विश्वनाथः : **औग्र्यम् अत्र केवल-श्री-कृष्ण-विषयं एव । त्रासं अपि केवलं श्री-कृष्ण-विषयकम् एव । आलस्यं अपि तद्-विषयकं एव वर्जयित्वा तत्-तद्-उपाधि-सद्-भावेऽपि तत्र तत्रावर्णयद् एवेति ॥१०२॥ गीर्षु स्खलत्-पदत्वं पदावसानस्याशक्य-निर्णयत्वं, विवशाङ्गत्वं अक्षरावसानस्येति ॥१०३॥
—ओ)०(ओ—
॥ ३.३.१०४ ॥
तत्र हर्षो, यथा—
निष्क्रमय्य किल कालियोरगं
वल्लवेश्वर-सुते समीयुषि ।
सम्मदेन सुहृदः स्खलत्-पदास्
तद्-गिरश् च विवशाङ्गतां दधुः ॥
श्री-जीव : गीर्षु स्खलत्-पदत्वं पदावसानस्याशक्य-निर्णयत्वं, विवशाङ्गत्वं अक्षरावसानस्येति ॥१०४॥
**मुकुन्दः : **गिरो वाक्य-रूपाः तासां स्खल्त-पदत्वं पदावसानस्याशक्य-निर्णयत्वं विवशाङ्गत्वम् अक्षरावसानस्य ॥१०४॥
विश्वनाथः : कालिय-सर्पं ह्रदान् निष्क्रमय्य श्री-कृष्णे समीयुषि निकटं प्राप्ते सति सर्वे सुहृदः आनन्देन विवशाङ्गतां दधुः । तथा स्खलत्-पदास् तेषां गिरश् च विवशाङ्गतां दधुः । गीर्षु स्खलत्-पदत्वं पदावसानस्याशक्य-निर्णयत्वम् इति बोध्यम् ॥१०४॥
—ओ)०(ओ—
॥ ३.३.१०५-१०६ ॥
अथ स्थायी—
विमुक्त-सम्भ्रमा या स्याद् विश्रम्भात्मा रतिर् द्वयोः ।
प्रायः समानयोर् अत्र सा सख्य-स्थायि-शब्द-भाक् ॥
विश्रम्भो गाढ-विश्वास-विशेषः यन्त्रणोज्झितः ।
एषा सख्य-रतिर् वृद्धिं गच्छन्ती प्रणयः क्रमात् ।
प्रेमा स्नेहस् तथा राग इति पञ्च-भिदोदिता ॥
श्री-जीव : विश्रम्भात्मा या रतिः, सा विमुक्त-सम्भ्रमा सती सख्यं स्यात् । तच् च स्थायि-शब्द-भाग् इत्य् अन्वयः । सम्भ्रमोऽत्र गौरव-कृत-वैयाग्र्यम् ॥१०५॥ गाढ-विश्वास-विशेषोऽत्र परस्परं सर्वथा स्वाभेद-प्रतीतिः । अत एव यन्त्रणोज्झितश् च ॥१०६॥
मुकुन्दः : विश्रम्भात्मा या रतिः, सा विमुक्त-सम्भ्रमा सती स्थायि-शब्द-भाक् स्थायि-सञ्ज्ञं सख्यं स्यात् । प्राय इति भावादीनां साम्येऽपि कुत्रापि कुत्रापि सम्पद्-आदिना तारतम्यम् आह ॥१०५॥ गाढ-विश्वास-विशेषो निःसङ्कोचता-हेतु-प्रीति-विशेषः । अत एव यन्त्रणोज्झितश् च ॥१०६॥
विश्वनाथः : प्रायः समानयोर् द्वयोर् विश्रम्भात्मा या रतिः सा विमुक्त-सम्भ्रमा सती सख्यं स्यात् । तच् च स्थायि-शब्द-भाग् इत्य् अन्वयः ॥१०५॥ सम्भ्रमोऽत्र गौरव-कृत-वैयग्र्यम् । गाढ-विश्वासोऽत्र परस्परं सर्वथा स्वाभेद-प्रतीतिः । अत एव यन्त्रणोज्झितश् च ॥१०६॥
—ओ)०(ओ—
॥ ३.३.१०७ ॥
तत्र सख्य-रतिः, यथा—
मुकुन्दो गान्दिनी-पुत्र त्वया सन्दिश्यताम् इति ।
गरुडाङ्क गुडाकेशस् त्वां कदा परिरप्स्यते ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **गुडाका निद्रा । गरुडः अङ्को ध्वजश् चिह्नं यस्य ॥१०७॥
विश्वनाथः : हे अक्रूर ! त्वया मुकुन्दः सन्दिश्यताम् । सन्देशम् एवाह—हे गरुडाङ्क ! गुडाकेशोऽर्जुनः ॥१०७॥
—ओ)०(ओ—
॥ ३.३.१०८-१०९ ॥
प्रणयः—
प्राप्तायां सम्भ्रमादीनां योग्यतायाम् अपि स्फुटम् ।
तद्-गन्धेनाप्य् असंस्पृष्टा रतिः प्रणय उच्यते ॥
यथा—
सुरैस् त्रिपुर-जिन् मुखैर् अपि विधीयमान-स्तुतेर्
अपि प्रथयतः पराम् अधिक-पारमेष्ठ्य-श्रियम् ।
दधत्-पुलकिनं हरेर् अधि-शिरोधि सव्यं भुजं
समस्कुरुत पांशुमान् शिरसि चन्द्रकान् अर्जुनः ॥
श्री-जीवः : प्रेमादीनां लक्षणं पूर्ववत्, प्रणयस्य तु वक्ष्यते ॥१०८॥ सुरैस् त्रिपुरजिन्-मुख्यैर् इति असुराणां वधास् तेष्व् ईदृशी लीला ज्ञेया ॥१०९॥
मुकुन्दः : सुरैस् त्रिपुरेत्य् अत्र वनाद् गोष्ठं गच्छतः स्तुतिर् ज्ञेया । अर्जुनः प्रिय-नर्म-सखेषु दर्शितः । अधि-शिरोधि ग्रीवायां । पांशवो विद्यन्ते येषु तान् पांशुलान् सिस्मादित्वाल् लच् ॥१०९॥
विश्वनाथः : महादेव-प्रमुखैः सुरैः अभिधीयमाना स्तुतिर् यस्य तथा-विधस्य हरेर् अधिशिवोऽधिस्कन्धे पुलकयुक्तं वामं भुजं दधत् सन् धूलि-युक्तान् शिरसि मयूर-चन्द्रैकां समस्कुरुत ॥१०९॥
—ओ)०(ओ—
**॥ ३.३.११० ॥
प्रेम, **यथा—
भवत्य् उदयतीश्वरे सुहृदि हन्त राज्य-च्युतिर्
मुकुन्द वसतिर् वने पर-गृहे च दास्य-क्रिया ।
इयं स्फुटम् अमङ्गला भवतु पाण्डवानां गतिः
परन्तु ववृधे त्वयि द्वि-गुणम् एव सख्यामृतम् ॥
श्री-जीवः : भवत्य् उदयतीति पाण्डवानाम् अज्ञात-वास-समये श्री-नारद-वचनं । तत्रेअ इय-म् अमङ्गला गतिर् भवत्व् इति, अतिसर्ग-नाम्नी या काम-चाराभ्यनुज्ञा, तस्यां लोट् । यतः सा गतिस् तेषां न सख्यस्य हानि-करी, प्रत्युत तस्यां तस्य वृद्धिर् एव दृश्यत इत्य् आह – परन्त्व् इति, तेषां भवति प्रेमा भवता कृतैर् उपकारैर् न जनितः । किन्त्व् असमोर्द्ध्व-भवद् गुण-गणानाम् अनुभवेनैव । ते च भवद्-उदासीनतामयं तेषां दुःखानुभवं निर्धूय स्फुरन्तस्ं तं प्रेमाणम् एधयन्त एव विरआजन्त इति भावः । ववृध इति सिद्धवन् निर्द्देशाद् दार्ढ्यं बोधयति । परोक्ष-निर्द्देशात् तेषाम् एवानुभव-गम्यं । तद् अस्माकन्ं ततल्- लक्षण-दृष्टानुमान-गम्यम् एवेति सूचयति ॥११०॥
, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : प्रेमादीनां लक्षणं पूर्ववत् ज्ञेयम् । भवत्य् उदयतीति पाण्डवानां अज्ञात-वास-समये श्री-नारदस्य वचनम् । भवति त्वयि सुहृदीश्वरे उदयति सती सति राज्य-च्युतिः । तथा वने वसतिः । एवं पर-गृहे च दास्य-क्रिया- सम-कालम् एव पूर्वोक्तेयं पूर्वोक्ता इयं पाण्डवानां अमङ्गला गतिर् भवतु । यतः सा तेषां न सख्य-हानि-करी, प्रत्युत तस्यां सत्यां सख्यस्य वृद्धिर् एव दृश्यत इत्य् आह—परन्त्व् इति । ववृध इति निर्देशात् दार्ढ्यम् एव बोधयति । परोक्ष-निर्देशात् तेषां एवानुभव-गम्यं, तद् अस्माकं तु लक्षण-दृष्ट्यानुमाय दृष्ट्यानुमान-गम्यम् एवेति सूचयति ॥११०॥
—ओ)०(ओ—
॥ ३.३.१११ ॥
स्नेहो, यथा श्री-दशमे (१०.१५.१८)—
अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः ।
गायन्ति स्म महाराज स्नेह-क्लिन्न-धियः शनैः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तद्-अनुरूपाणि यशांसीति शेषः ॥१११॥
—ओ)०(ओ—
॥ ३.३.११२ ॥
यथा वा—
आर्द्राङ्ग-स्खलद्-अच्छ-धातुषु सुहृद्-गोत्रेषु लीला-रसं
वर्षत्य् उच्छ्वसितेषु कृष्ण-मुदिरे व्यक्तं बभूवाद्भुतम् ।
या प्राग् आस्त सरस्वती द्रुतम् असौ लीनोपकण्ठ-स्थले
या नासीद् उदगाद् दृशोः पथि सदा नीरोरुधावात्र सा ॥
श्री-जीवः : कृष्ण-मुदिरे लीला-रसं वर्षति सति आर्द्राद् अङ्गात् स्खलन्तः, अच्छाः स्वच्छा धातवो गैरिकाद्य्-अङ्ग-रागा येषां तादृशेषु सुहृद्-रूपेषु गोत्रेषु पर्वतेषु उच्छ्वसितेषु उच्चैः श्वस-युक्तेषु । पक्षे, वृक्षादि-वृद्ध्या उच्छूनेषु । आस्ते आसीत् । सरस्वती वाणी पक्षे नदी। उपकण्ठ-स्थले कण्ठस्य समीपे पक्षे निकटे या नीरोरुधारा दृशोः पथि नासीत् सा सदा उदगात् । पक्षे सदा-नीरा करतोयाख्या नदी ॥११२॥
**मुकुन्दः : **प्रत्यङ्ग-स्खलद्-अष्ट-धातुषु इति धातवः । रसासृङ्-मांस-मेदास्थि-मज्ज-शुक्राणीति सप्त, त्वक् च । प्रत्यङ्गे स्खलनं इतस् ततश् चलनम् । अनेन चित्त-क्षोभाद् देहस्यातिक्षोभो दर्शितः । अत उच्छ्वसितेषु वपुर्-उत्फुल्लतां लब्धेषु । पक्षे, प्रत्यङ्गात् स्खलनम् अधो-गमनम् । यत उच्छ्वसितेषु विकाश-विशेषं लब्धेषु । धातवश् च—सुवर्णं रजतं ताम्रं रीतिः कांस्यं तथा त्रपुः । सीसां च चीनजम् चेत्य् अष्टौ तैजसाः । या सरस्वती वाणी प्रागान्त प्रथमं आसीत्, पक्षे नदीउपकण्ठ-स्थले कण्ठस्य समीप-स्थले या नीरोरु-धारा दृशोः पथि नासीत्, सा उदगात् । पक्षे सदा-नीरा करतोयाख्या नदी ॥११२॥
**विश्वनाथः : **श्री-कृष्ण-मुदिरे लीला-रसं वर्षति सति आर्द्राङ्गात् स्खलन्तः, अच्छा धातवो गैरिकाद्य्-अङ्ग-रागा येषां तादृशेषु सुहृद्-रूपेषु गोत्रेषु पर्वतेषु उच्छ्वसितेषु उच्चैः श्वस-युक्तेषु । पर्वत-पक्षे, वृक्षादि-वृद्ध्या उच्छूनेषु या सरस्वती वाणी । उपकण्ठ-स्थले कण्ठ-समीप-स्थले पूर्वं लीना आस्त आसीत् । असौ सरस्वती द्रुतं शीघ्रं व्यक्तं बभूव । तथा च स्नेह-क्लिन्न-धियः सखायः उच्चैर् गानं चक्रुर् इत्य् अर्थः । पक्षे सरस्वती नदी उपकण्ठ-स्थले निकटे जलाभावेन पूर्वं लीना आसीत्, सा मेघे वर्षति सति व्यक्तं बभूव । या नीराणां उरु-धारा दृशोः पथि नासीत्, सा सदा उदगात् । पक्षे, सदा-नीरा करतोयाख्या नदी ॥११२॥
—ओ)०(ओ—
॥ ३.३.११३ ॥
रागो, यथा—
अस्त्रेण दुष्परिहरा हरये व्यकारि
या पत्रि-पङ्क्तिर् अकृपेण कृपी-सुतेन ।
उत्प्लुत्य गाण्डिव-भृता हृदि गृह्यमाणा
जातास्य सा कुसुम-वृष्टिर् इवोत्सवाय ॥
श्री-जीवः : व्यकारि क्षिप्ता ॥११३॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अस्त्रेण दुष्परिहरा दुश्छेद्या या पत्रि-पङ्क्तिर् बाण-श्रेणी कृपी-सुतेन अश्वत्थाम्ना हरये व्यकारि विक्षिप्ताः, सा बाण-श्रेणी अर्जुनेन उत्प्लुत्य हृदि गृह्यमाणा सती अर्जुनस्योत्सवाय अर्जुनस्य उत्सवाय जाता ॥११३॥
—ओ)०(ओ—
॥ ३.३.११४ ॥
यथा वा—
कुसुमान्य् अवचिन्वतः समन्ताद्
वन-माला-रचनोचितान्य् अरण्ये ।
वृषभस्य वृषार्कजा मरीचिर्
दिवसार्धेऽपि बभूव कौमुदीव ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : वृषभ-नाम्नः सख्युः वृषार्कजा-मरीचिः ज्यैष्ठ-मासीयः सूर्य-किरणः मध्याह्नेऽपि ज्योत्स्ना इव बभूव ॥११४॥
—ओ)०(ओ—
॥ ३.३.११५-११७ ॥
अथ अयोगे उत्कण्ठितं, यथा—
धनुर्-वेदम् अधीयानो मध्यमस् त्वयि पाण्डवः ।
बाष्प-सङ्कीर्णया कृष्णः गिराश्लेषं व्यजिज्ञपत् ॥
अथ वियोगे, यथा—
अघस्य जठरानलात् फणि-ह्रदस्य च क्ष्वेडतो
दवस्य कवलाद् अपि त्वम् अवितात्र येषाम् अभूः ।
इतस् त्रितयतोऽप्य् अतिप्रकट-घोर-धाटी-धरात्
कथं न विरह-ज्वराद् अवसितान् सखीन् अद्य नः ॥
अत्रापि पूर्ववत् प्रोक्तास् तापाद्यास् ता दशा दश ॥
श्री-जीवः : धाटी बलाद् आक्रमणम् इति क्षीर-स्वामी ॥११६॥
**मुकुन्दः : **फणि-ह्रदस्य कालिय-ह्रदस्य क्ष्वेडतो विषात् । धाटी बलाद् आक्रमणम् इति क्षीर-स्वामी ॥११६॥
विश्वनाथः : मध्यमः पाण्डवोऽर्जुनः बाष्प-सङ्कीर्णया गिरा हे कृष्ण आलिङ्गनं व्यजिज्ञपत् विज्ञापयामास ॥११५॥
कालिय-ह्रदस्य क्ष्वेडतो विषात् तथा दावाग्नेः कवलाद् ग्रासात्, येषां त्वं रक्षितभूः, इतोऽप्य् अत्र प्रकट-घोर-बलाक्रमण-धरात् विरह-ज्वरात् कथं न अवसि न रक्षसि ? बलाद् आक्रमणं धाटी इति क्षीर-स्वामी ॥११६॥
—ओ)०(ओ—
॥ ३.३.११८-११९ ॥
तत्र तापः—
प्रपन्नाः भाण्डीरेऽप्य् अधिक-शिशिरे चण्डिम् अभरं
तुषारेऽपि प्रौढिं दिनकर-सुता-स्रोतसि गतः ।
अपूर्वः कंसारे सुबल-मुख-मित्रावलिम् असौ
बलीयान् उत्तापस् तव विरह-जन्मा ज्वलयति ॥
कृशता—
त्वयि प्राप्ते कंस-क्षितिपति-विमोक्षाय नगरीं
गभीराद् आभीरावलि-तनुषु खेदाद् अनुदिनम् ।
चतूर्णां भूतानाम् अजनि तनिमा दानव-रिपो
समीरस्य घ्रानाध्वनि पृथुलता केवलम् अभूत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **अग्न्य्-आदीनां यस् तापः स शीतल-स्थल-गतं जनं न जलयति, तव विरह-जन्मा तापस् तु कोऽप्य् अपूर्व-स्वभावः, यत् शीतल-स्थलेऽधिक-पराक्रमं करोतीत्य् आह—शीतलेपि भाण्डीरे ज्वलनार्थं चण्डिमत्वातिशयं प्राप्तः, यथा तुषारे शीतलेऽपि यमुना-स्रोतसि ज्वलनार्थं प्रौढिं गतः । अत एवापूर्वस् अव विरह-जन्मा तापः, भाण्डीरादीनां श्री-कृष्णेन सह विहार-स्मारकत्वेन तत्रागतानां सुबलादीनां ज्वालातिशयः जायत इति भावः ॥११८॥
—ओ)०(ओ—
॥ ३.३.११९ ॥
कृशता—
त्वयि प्राप्ते कंस-क्षितिपति-विमोक्षाय नगरीं
गभीराद् आभीरावलि-तनुषु खेदाद् अनुदिनम् ।
चतूर्णां भूतानाम् अजनि तनिमा दानव-रिपो
समीरस्य घ्रानाध्वनि पृथुलता केवलम् अभूत् ॥
श्री-जीवः, मुकुन्दः : चतुर्णाम् इत्य् आकाशस्यापि तनिमा देह-कार्श्येन विवराणां सूक्ष्मत्व-प्राप्तेः ॥११९॥
**विश्वनाथः : **पृथिव्य्-अदीनां चतुर्णाम् अपि भूतानां तनिमा कृशता अजनि, नासिका-कर्ण-च्छिद्रादीनां सूक्ष्मत्व-प्राप्तेर् आकाशस्यापि कृशत्वं ज्ञेयम् ॥११९॥
—ओ)०(ओ—
॥ ३.३.१२०-१२१ ॥
जागर्या, यथा—
नेत्राम्बुज-द्वन्द्वम् अवेक्ष्य पूर्णं
बाष्पाम्बु-पूरेण वरूथपस्य ।
तत्रानुवृत्तिं किल यादवेन्द्र
निर्विद्य निद्रा-मधुपी मुमोच ॥
आलम्बन-शून्यता—
गते वृन्दारण्यात् प्रिय-सुहृदि गोष्ठेश्वर-सुते
लघु-भृतं सद्यः पतद्-अतितराम् उत्पतद् अपि ।
न हि भ्रामं भ्रामं भजति चटुलं तुलम् इव मे
निरालम्बं चेतः क्वचिद् अपि विलम्बं लवम् अपि ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : वरूथपस्य सख्युः नेत्राम्बुज-द्वयं जल-पूर्णं अवेक्ष्य तत्र नेत्र-कमल-द्वये अनुवृत्तिं निद्रा-रूप-भमरी मुमोच ॥१२०॥ वृन्दावनात् श्री-कृष्णे गते सति मम चेतो लघू-भूतम्, अत उत्पतत् लघु-वस्तुनः ऊर्ध्व-गामित्व-नियमात्, तद् अपि पतत् सत् भ्रामं भ्रामं लव अपि कालं व्याप्य क्वचिद् अपि अवलम्बं न हि भजति ॥१२१॥
—ओ)०(ओ—
॥ ३.३.१२२ ॥
अधृतिः—
रचयति निज-वृत्तौ पाशुपाल्ये निवृत्तिं
कलयति च कलानां विस्मृतौ यत्न-कोटिम् ।
किम् अपरम् इह वाच्यं जीवितेऽप्य् अद्य धत्ते
यदुवर विरहात् ते नार्थितां बन्धु-वर्गः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : पशुपाल्येन पशुपालन-रूप-निज-वृत्तौ निवृत्तिं रचयति, कलानां वदग्धीनां तव बन्धु-वर्गो जीवितेऽपि अर्थित्वम्, अद्य न हि धत्ते ॥१२२॥
—ओ)०(ओ—
॥ ३.३.१२३ ॥
जडता—
अनाश्रित-परिच्छदाः कृश-विशीर्ण-रुक्षाङ्गकाः
सदा विफल-वृत्तयो विरहिताः किल च्छायया ।
विराव-परिवर्जितास् तव मुकुन्द गोष्ठान्तरे
स्फुरति सुहृदां गणाः शिखर-जात-वृक्षा इव ॥
श्री-जीवः : परिच्छदा वेशादयः, पक्षे परितः छदाः पत्राणि । छाया कान्तिः । पक्षे अनातपः । विरावो विशेषेण रावः । पक्षे वीनां पक्षिणां रावः । शिखर-जात-वृक्षा इवेत्य् एव पाठः । विशिष्टस्यैवात्रोपमानत्वात् ॥१२३॥
**मुकुन्दः : **शिखर-जा इव स्थावरा इति पाठः । परिच्छदा वेशादयः । पक्षे, परितः छदा पत्राणि । छाया कन्तिः । पक्षे, अनातपः । विकारो विशेषेण रावः, पक्षे वीनां पक्षिणां रावः ॥१२३॥
**विश्वनाथः : **परिच्छदा वेशादयः, पक्षे परितश् छदाः पत्राणि । छाया कान्तिः । पक्षे आतपाभावः । विरावो विशेषेण रावः । पक्षे वीनां पक्षिणां रावः ॥१२३॥
—ओ)०(ओ—
॥ ३.३.१२४ ॥
व्याधिः—
विरह-ज्वर-सञ्ज्वरेण ते
ज्वलिता विश्लथ-गात्र-बन्धना ।
यदुवीर तटे विचेष्टते
चिरम् आभीर-कुमार-मण्डली ॥
श्री-जीवः, विश्वनाथः : विरह एव ज्वरः, तस्य सञ्ज्वरेण सन्तापेन ॥१२४॥
—ओ)०(ओ—
**॥ ३.३.१२५ ॥
उन्मादः—
विना भवद्-अनुस्मृतिं विरह-विभ्रमेणाधुना
जगद्-व्यवहृति-क्रमं निखिलम् एव विस्मारिताः ।
लुण्ठन्ति भुवि शेरते बत हसन्ति धावन्त्य् अमी
रुदन्ति मथुरा-पते किम् अपि वल्लवानां गणाः ॥
श्री-जीवः :
मुकुन्दः : **विना भवद् इति कस्याश्चिद् वृद्धायाः सन्देशः ॥१२५॥
**विश्वनाथः : **हे मथुरा-पते ! भवद्-अनुग्रहं विना विरह-विभ्रम्Ā जगद्-व्यवहार-क्रमं समं Sफ़ं एव विस्मारिताः वल्लव्N गणाः । किम् अपि अनिर्वचनीयं लुठन्तीत्य् आदयः ॥१२५॥
—ओ)०(ओ—
॥ ३.३.१२६ ॥
मूर्च्छितम्—
दीव्यतीह मधुरे मथुरायां
प्राप्य राज्यम् अधुना मधु-नाथे ।
विश्वम् एव मुदितं रुदितान्धे
गोकुले तु मुहुर् आकुलताभूत् ॥
श्री-जीवः : दीव्यतीति श्री-कृष्णं प्रति सखि-विशेष-सन्देशः । अत्र रुदितान्ध इत्य् आदिना मुहुर् मूर्च्छा ध्वन्यते । रुदितान्धत्वं खलु रोदनानन्तरं मुहुर् मूर्च्छितत्वम् । तच् च गोकुलं लक्षीकृत्य स्वयम् एव व्यज्यत इति । आकुलता चात्र रोदन-मूर्च्छा-पौनःपुन्येन व्याकुलता ॥१२६॥
**मुकुन्दः : **दीव्यतीति मथुरे उद्धवं प्रति Pण्या वचनं । रुदितान्धत्वं रोदनानन्तरं मूर्च्छितत्वम् । आकुलता तज्जा व्यथा । गोकुल-पदेन Sए जनास् तत्रस्था व्यज्यन्ते । उदाहरणं तु सख्Ī ज्ञेयम् ॥१२६॥
**विश्वनाथः : **मधु-नाथे मधुरे त्वयि मथुरे दीव्यति सति रुदितान्धे इत्य् अनेन मूर्च्छा ध्वन्यते । रुदितान्ध्Wफ़ं खलु रोदनानन्तरं मूर्च्छितत्वम् । आकुलता चात्र रोदन-मूर्च्छा-पौनःपुन्येन व्याकुलता ॥१२६॥
—ओ)०(ओ—
॥ ३.३.१२७ ॥
मृतिः—
कंसारेर् विरह-ज्वरोर्मि-जनित-ज्वालावली-जर्जरा
गोपाः शैल-तटे तथा शिथिलित-श्वासाङ्कुराः शेरते ।
वारं वारम् अखर्व-लोचन-जलैर् आप्लाव्य तान् निश्चलान्
शोचन्त्य् अद्य यथा चिरं परिचय-स्निग्धाः कुरङ्गा अपि ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : कंसारेर् विरहेति श्री-नन्दं प्रति कस्यचिच् छोकोक्तिः ॥१२७॥
विश्वनाथः : तथा गोपाः शेरते, यथा वने गो-चारण-समयेन स्निग्धा हरिणा अपि स्वस्यानल्प-लोचन-जलैः वारं वारं तान् निश्चलान् आप्लाव्य निमज्ज्य शोचन्ति ॥१२७॥
—ओ)०(ओ—
॥ ३.३.१२८-१२९ ॥
प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥
तथा च स्कान्दे मथुरा-खण्डे—
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥
श्री-जीवः : प्रोक्तेयं इति स्पष्ट-लीलानुसारेणेत्य् अनेन उत्तरार्धे त्व् अस्पष्ट-लीलानुसारेणेति गम्यते । स्पष्ट-लीला प्रकट-लीला । लीला हि द्विविधा—प्रकटा अप्रकटा चेति । तर प्रकटा प्रापञ्चिक-लोक-गोचरीभूता । सा च कादाचित्की । अप्रकटा तु तद्-अगोचरी-भूता । सा तु नित्यैव, श्री-वृन्दावनादौ वर्तते । यैव खलु स्कान्दादौ आगमादौ तापनी-श्रुत्य्-आदौ, जयति जननिवासः [भा।पु। १०.९०.४८] इत्य् आदौ च प्रगीयते । तस्यां तु देशान्तर-गमनादिकं नास्ति नित्यत्वाद् एव, किन्तु प्रकटायां एव कदाचित् तद् अस्ति, प्रापञ्चिक-लोक-गोचरी-बश् च सपरिकरस्य भगवतस् तत्-तल्-लीलानुसारेण कदाचिद् भवति । तत्र षोडश-सहस्र-कन्या-विवाहवल् लीला-शक्त्या प्रादुर्भाव-भेदाद् अभिमान-भेदः, परस्परम् अननुसन्धानं च तत्-तल्-लीला-रस-रक्षणाय स्यात्, तद् अन्यथा तु वियोग एव न स्यात्, तस्मात् प्रकट-लीलायां तद्-अब्रह्म्भावान् न जात्व् इत्य् उक्तम् । किन्तु प्रकट-लीलाम् एवोद्दिश्य सर्वेषां रचनेति, तस्या पर्यवसान-रम्यत्वं अवश्यं स्थापनीयम् । तच् च व्रजे पुनः सङ्गत्य द्वयोर् लीलयोः श्री-भगवता कृते पुनर् एकी-भावे प्रकट-लीला-गत-विरहश् च शाम्यतीति विवरण-मये वत्सल-रस-प्रान्ते ज्ञेयम् ॥१२८-१२९॥
**मुकुन्दः : **प्रोक्तेयं इति । स्पष्ट-लीलानुसारतः । अस्पष्ट-लीलानुसारतस् तु जातु कदाचिद् अपि विप्रयोगो न स्यात् । स्पष्ट-लीला प्रकट-लीला । लीला हि द्विविधा—प्रकटा अप्रकटा चेति । यथा श्री-भागवतामृते—
सदानन्तैः प्रकाशैः स्वैर् लीलाभिश् च स दीव्यति । तत्रैकेन प्रकाशेन कदाचित् जगद्-अन्तरे । सहैव स्व-परीवारैर् जन्मादि कुरुते हरिः ॥ [ल।भा। १.५.४३६] प्रपञ्च-गोचरत्वेन सा लीला प्रकटा स्मृता । अन्यास् त्व् अप्रकटा भान्ति तादृश्यस् तद्-अगोचराः ॥ [ल।भा। १.५.४३८] यास् तत्र तत्राप्रकटास् तत्र तत्रैव सन्ति ताः । [ल।भा। १.५.४४०] इति ।
अन्योऽप्य् अतिरहस्योऽभिप्रायस् तत्रैव—
केचिद् भागवताः प्राहुर् एवम् अत्र पुरातनाः । व्यूहः प्रादुर्भवेद् आद्यो गृहेष्व् आनकदुन्दुभेः । गोष्ठे तु मायया सार्धं श्री-लीला-पुरुषोत्तमः ॥ गत्वा यदुवरो गोष्ठं तत्र सूती-गृहं विशन् । कन्याम् एव परं वीक्ष्य ताम् आदायाव्रजत् पुरम् । प्राविशद् वासुदेवस् तु श्री-लीला-पुरुषोत्तमम् ॥ एतच् चातिरहस्यत्वात् नोक्तं तत्र कथा-क्रमे । किन्तु क्वचित् प्रसङ्गेन सूच्यते श्री-शुकादिभिः ॥ [ल।भा। १.५.४५४-६]
यथा श्री-दशमे—
नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः ॥ [भा।पु। १०.५.१]
यथा तत्रैव—
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ॥ [भा।पु। १०.६.४३]
तथा च—
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ॥ [भा।पु। १०.९.२१]
तथा च तत्र श्री-ब्रह्म-स्तवे—
वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥ [भा।पु। १०.१४.१]
तथा श्री-यामल-वचनं समुदाहरति—
कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परम् । वृन्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥ द्विभुजं सर्वदा सोऽत्र न कदाचित् चतुर्भुजः । गोप्यैकया युतस् तत्र परिक्रीडति नित्यदा ॥ इति ।
तस्यानुवर्ती त्व् अयम् अर्थः—यः प्रविष्टस् तेन वसुदेव-नन्दन-रूपेण मथुरा-गमनं स्पष्ट-लीला, नन्दनन्दन-रूपेण लीलायां अपि तत्रैव तैर् विहरणात् वियोगो नास्त्य् एव । किन्तु श्री-कृष्णोऽक्रूरेण मथुरां निन्ये इति स्फूर्तिस् तेषां मध्ये मध्ये अस्तितराम् ।
न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते । काषायिते हि वस्त्रादौ भूयान् रागो विवर्धते ॥
इत्य् आदिना रस-पुष्टि-कृतम् आलम्ब्य विरह-वर्णनं, यच्-छ्रवणे साधकानां अपि भावः पुष्टः स्याद् इत्य् आद्य्-अर्थं च । अहो अलं श्लाघ्यतमं [भा।पु। १.१०.२६], जयति जननिवास [भा।पु। १०.९०.४८] इत्य् आदि । वत्सैर् वत्सतरीभिश् च इत्य् आदि च पद्यानि सुष्ठु सङ्गच्छन्ति च । किन्तु वसुदेव-नन्दनस्य मथुरादौ रूपान्तरेण गतेषु नन्दादिषु नन्दनन्दनवत् पुत्राभिमानः स्व-पुत्राद् एव तस्मिन् स इति ॥१२८-१२९॥
**विश्वनाथः : **ननु पूर्वरागादयः किञ्चि दूर-प्रवास-गोचारणादयश् च विप्रलम्भाः साधक-भक्तैः सिद्ध-भक्तैर् लीला-परिकरैः कृष्ण-प्रेयसीभिः कृष्णेन च सुखेनैवास्वाद्यन्ते, आश्रयालम्बन-विषयालम्बनयोस् तत्र तत्र विराजमानत्वात् । अयं सुदूर-प्रवासाख्यो माथुर-विरहस् तु दुःसह एव, कृष्णस्य व्रज-त्यागाद् इत्य् अत आह—प्रोक्तेयम् इति ।
इयं पूर्वोक्त-माथुर-विरहावस्था प्रकट-लीलानुसारत एव, अप्रकट-लीलायां तु श्री-कृष्णेन सह माथुर-विरह-रूपः विप्रयोगः जातु कदाचिद् अपि व्रज-वासिनां न स्यात् । यदा प्रकट-लीलायां माथुर-विरहः, तदैव वृन्दावनस्याप्रकट-प्रकाशे श्री-कृष्णोऽनन्त-प्रकाशैर् जन्मादि-लीलाम् आरभ्य रासान्तां सर्वाम् एव लीलां करोतीति । तत्र प्रमाणं स्कन्द-पुराण-वचनम्—वत्सैर् वत्सतरीभिश् च इत्य् आदि । तथैव भागवतामृत-धृतं यामल-वचनं, यथा—
कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परम् । वृन्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥ [ल।भा। १.५.४६२] इति ।
सा लीला हि द्विविधाः । प्रकटाप्रकटा चेति । तत्र प्रकटा प्रापञ्चिक-लोक-गोचरीभूता । सा च कादाचित्की अनित्या । अप्रकटा तु तद्-अगोचरी-भूता । सा तु नित्यैव, श्री-वृन्दावनादौ वर्तते इति वक्तुं न शक्यम् । श्रीमद्-भागवत-पुराण-विष्णु-पुराण-हरिवंश-पद्म-पुराणादिषु श्री-शुक-पराशर-व्यासादिभिश् च वर्णितायाः प्रपञ्च-गोचरी-भूत-प्रकट-लीलाया अनित्यत्व-प्रसक्त्या तेभ्योऽर्वाचीनैर् वर्णिताया अप्रकट-लीलाया अनित्यत्वे युक्त्य्-असम्भवात् । प्रकट-लीलाया अनित्यत्वे तुल्य-युक्त्या अप्रकट-लीलाया पय् अनित्यत्वेन लीला-सामान्यस्यैवानित्यत्व-प्रसक्त्या बहिर्मुख-मत-प्रवेशापत्तेश् च । वस्तुतस् तु ता एव जन्मादि-लीलाः प्रपञ्च-जनेषु कृपया दर्शिताश् चेत्, प्रकटास् ता एव तच्-चक्षुर्भ्यस् तिरोधापिताश् चेद् अप्रकटा उच्यन्ते, न तु प्रकटाप्रकटयोः स्वरूपतः किञ्चन वैलक्षण्यम् अस्तीति । एतद् एवोक्तं लघु-भागवतामृते—
अनादिम् एव जन्मादि-लीलाम् एव तथाद्भुतम् । हेतुना केनचित् कृष्णः प्रादुष्कुर्यात् कदाचन ॥ [ल।भा। १.५.३८७] इति ।
तस्या एव प्रकट-लीलाया नित्यत्वं भागवतामृतं दृष्ट्वा साम्प्रतं विव्रियते । तथा हि—व्रज-भूमेः एकस्या अपि भगवत इव प्रकाशानन्त्याद् एकस्मिन् प्रकाशे वर्तमाना जन्मादि-लीलाः प्रापञ्चिक-लोकैर् दृश्यन्ते, अन्येषु प्रकाशेषु न दृश्यन्ते । तत्-प्रकाशस्थस्यापि कृष्णस्य जन्म-बाल्य-पौगण्ड-कैशोर-मथुरा-प्रस्थानादि-लीला अनन्त-कोटि-ब्रह्माण्डेषु केषुचित् कदाचित् क्रेमणाविर्भवन्त्यो दृश्यन्ते, ता एव केषुचित् कदाचित् न दृश्यन्ते च । यथा ज्योतिश् चक्रस्थस्य सूर्यस्योदय-पूर्वाह्न-मध्याह्नापराह्ना भारतादि-वर्षेषु केषुचिद् दृश्यन्ते, केषुचिन् न दृश्यन्ते च, किन्तु सूर्यस्य ज्योतिश्-चक्रे उदयाद्या न सत्या, न नित्या । कृष्णस्य व्रज-भूमौ जन्मादि-लीलाः श्रुति-स्मृति-प्रमाणेभ्यः सत्या नित्या एवेति विशेषः । यथा सूर्यस्य वर्ष-देश-विशेष-वशात् सदैवोदयः । सदैव मध्याह्न इत्य् आदि । तथैव कृष्णस्यापि ब्रह्माण्ड-भेद-वशात् सदैव जन्म, सदैव बाल्यं, सदैव बकासुराद्य्-असुर-मारणं, सदैव मथुरा-प्रस्थानम् इत्य् एवं सर्वा एव प्रकट-लीला नित्या एव । यथा सूर्यस्य यष्टि-घटिका-पर्यन्तम् एवोदयाद्य्-अवस्थानां सर्वेषु वर्षेषु क्रमेणोपालम्भः, तथैव श्री-कृष्णस्य ब्राह्म-कल्प-पर्यन्तं जन्मादि-लीलानां ब्रह्माण्डेषु, महा-प्रलये च प्राकृत-ब्रह्माण्डाभावेऽपि योग-माया-कल्पित-ब्रह्माण्डेषु प्राकृतत्वेन प्रत्यायितेष्व् इति प्रकटा प्रपञ्च-गोचरा लीलापि काल-देश-वशाद् आपेक्षिक-प्राकट्याप्राकट्यवती, कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह [भा।पु। ३.२.७] इत्य् उद्धव-वाक्यात् द्योतिता ज्ञेया ।
एवं मथुरा-द्वारकयोर् अपि प्रकट-लीलेति । व्रज-भूमेर् येषु प्रकाशेषु जन्मादि-लीलाः प्रापञ्चिक-लोकैः सर्वथैव न दृश्यन्ते, ते च प्रकाशाः सङ्ख्यातीताः । परस्परासम्पृक्ताः । शैल-गोष्ठ-वनादीनां सन्ति रूपाण्य् अनेकशः [ल।भा। १.५.५१३] इति भागवतामृतोक्त्या ज्ञेयाः । तेषु व्रज-राजादि-लीला-परिकर-पूर्व्करण् अपि पृथक् पृथग् अभिमान-विशेषवतं परस्परासम्पृक्तानां आनन्त्यात् कृष्णस्य पृथक् पृथग् एव जन्म-बाल्य-पौगण्ड-कैशोर-लीलाः, क्वाप्य् अग्र-पश्चाद्-भावेन क्वापि बाल-साम्येन च क्रमेणोदयमाना अपि निश्चला एव तिष्ठन्ति । किन्त्व् अप्रकट-समये मथुरा-प्रस्थान-लीला नास्ति, मथुराया अप्रकट-प्रकाशेषु सपरिकरस्य कृष्णस्य तद्-उचित-लीला-विशिष्टस्य सदैव विद्यमानत्वात् । यद् उक्तं भागवतामृते—तत्र प्रकट-लीलायाम् एव स्यातां गमागमौ [ल।भा। १.५.४३९] इति ।
गमः—व्रज-भूमेः सकाशात् मथुरा-पुरीं प्रति गमनं, आगमो दारकातो दन्तवक्र-वधानन्तरं आगमनं प्रकट-लीलायां एव स्यातां, न त्व् अप्रकट-लीलायां । गोष्ठाद् वन-गमनं महा-वनाद् वृन्दावनाअमश् चास्त्य् एव, तयोर् व्रज-भूमित्वात् । न च प्रकट-प्रकाशे माथुर-विरहो वर्तते, न त्व् अप्रकट-प्रकाशे, अतो लीलायाः प्राकट्यापेक्षयाप्राकात्यस्यैवोत्कर्ष इति वाच्यम् ।
माथुर-विरह एव महा-भाव-परिणाम-भूतानां अत एवानन्द-परमावधि-रूपाणां विलापोन्माद-भ्रमर-गीतानां प्राकट्यात् । अत एव श्रीमद्-उद्धवोऽपि व्रज-सुन्दरीणां तादृश-प्रेम्णः परमोत्कर्षं दृष्ट्वा लक्ष्म्यादिभ्योऽपि परमोत्कर्षं स-चमत्कारम् आह, यथा श्री-दशमे—आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् [भा।पु। १०.४७.६१], नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इति च । न च विप्रलम्भ-रसस्य सम्भोगापेक्षया न्यूनत्वम् अङ्गीकार्यं, यतो रति-प्रेम-स्नेहादि-स्थायि-भाववतोर् नायकयोर् मिथः-स्मरण-स्फूर्त्या विभावैर् मानस-चाक्षुष-कायिकालिङ्गन-चुम्बन-सम्प्रयोगादीनां प्रत्युत निरवधि-चमत्कारस्य समर्पकत्वेन सम्भोग-पुञ्ज-मय एव । यद् उक्तं पद्यावल्यां अनुभविष्णुभिः—
सङ्गम-विरह-विकल्पे वरम् इह विरहो न तु सङ्गमस् तस्य । एकः स एव सङ्गे त्रिभुवनम् अपि तन्मयं विरहे ॥ [पद्या। २३९] इति ।
न च स्फूर्त्याविर्भावयोर् भङ्गे विरह-पीडाया दुःसहत्वाद् अरत्वम् इति वाच्यम् । ह्लादिनी-संविद्-वृत्ति-विशेषत्वेनाप्राकृतत्वाद् इयं पीडाप्य् आनन्द-रूपैवेति । अस्य स-युक्ति-ज्ञान-रूपं तु ग्रन्थाकार-चूडामणिर् एवोज्ज्वल-नीलमणौ वक्ष्यते । एवम् एव दास्य-सख्य-वात्सल्य-भाववतां विरह-मिलनयोस् तारतम्यं ज्ञेयम् ॥१२८-१२९॥
—ओ)०(ओ—
॥ ३.३.१३० ॥
अथ योगे सिद्धिर्, यथा—
**पाण्डवः पुण्डरीकाक्षं प्रेक्ष्य चक्रि-निकेतने ।
चित्राकारं भजन्न् एव मित्राकारम् अदर्शयत् ॥
श्री-जीवः : **पाण्डवोऽर्जुनः सख्ये मुख्यत्वात् चक्री द्रुपद-नगर-कुलालः । तथैव भारत-व्याख्यानात् । चित्रस्याकारम् आकृतिं तत्-तुल्यतां मित्र-योग्यम् आकारम् इङ्गितं ॥१३०॥
**मुकुन्दः : **पाण्डवोऽर्जुनः सख्ये मुख्यत्वात् चक्री द्रुपद-नगर-कुलालः । तथैव भारत-व्याख्यानात् । चित्रस्याकारम् आकृतिं जाड्यं, मित्रस्याकारम् अभिप्राय-बोधकं ॥१३०॥
विश्वनाथः : पाण्डवोऽर्जुनः, तस्य सख्य-मुख्यत्वात् । चक्री द्रुपद-नगरस्य कुम्भकारः तथैव भागवताख्यानात् । चित्रस्याकारम् आकृति-तुल्यतां मित्र-योग्यम् आकारम् इङ्गितं, यो विच्छेदानन्तरं सखायं दृष्ट्वा चित्र-पटवत् यतो भवति, स एव मित्र-पद-वाच्य इति जगति दर्शयामासेत्य् उत्प्रेक्षा गम्या इति भावः ॥१३०॥
—ओ)०(ओ—
॥ ३.३.१३१ ॥
तुष्टिर्, यथ श्री-दशमे (१०.७१.२७)—
तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेम-जवाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रव्बृद्ध-बाष्पः परिरेभिरेऽच्युतम् ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.३.१३२ ॥
यथा वा—
कुरुजाङ्गले हरिम् अवेक्ष्य पुरः
प्रिय-सङ्गमं व्रज-सुहृन्-निकराः ।
भुज-मण्डलेन मणि-कुण्डलिनः
पुलकाञ्चितेन परिषष्वजिरे ॥
श्री-जीवः : प्रकट-लीलायां अपि श्री-व्रज-सुहृन्-निकराणां तुष्टिम् आह—कुरुजाङ्गल इति, कुरुक्षेत्र इत्य् अर्थः । प्रियोऽभिलषितः सङ्गमो यस्य तम् ॥१३२॥
मुकुन्दः : कुरुजाङ्गल इति, कुरुक्षेत्र इत्य् अर्थः । प्रियः सुखकृत् सङ्गमो यस्य ॥१३२॥
विश्वनाथः : कुरुजाङ्गल इति कुरुक्षेत्र इत्य् अर्थः । प्रियोऽभिलषितः सङ्गमो यस्य तम् ॥१३२॥
—ओ)०(ओ—
॥ ३.३.१३३ ॥
स्थितिर्, यथा श्री-दशमे (१०.१२.१२)—
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो
धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।
स एव यद्-दृग्-विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥
श्री-जीवः : बहु-जन्मभिः कृच्छ्रं दुःखात्मकम् अष्टाङ्ग-योग-साधनं, तेन धृतः स्थिरीकृतः आत्मा मनो यैस् तैर् अपि यैस् तैर् अपि योगिभिर् यत्-पाद-पांशुर् अलभ्यस् तादृशेनात्मनापि लब्धुम् अशक्यः । स एव श्री-कृष्णो, न तु तद्-अंशः, स्वयम् आत्मनैव हेतुना, न तु हेत्व्-अन्तरेण, किन्तु स्वभावेनैव येषां अहो आश्चर्यं दृग्-विषय-स्थितस् तेषां व्रजौको-मात्राणां दिष्टं प्राक्तन-पुण्यं किं वर्ण्यते ? न हि न हि, किन्तु स्वाभाविकी तादृशतया महती स्थितिर् एव वर्णनीया इत्य् अर्थः । तद् एवं सह-विहार-कृतां पूर्वोक्त-सखीनां किम् उतेति भावः । स्थित इति शीलितादित्वाद् वर्तमाने क्तः ।
यच् च किञ्चिज् जगत्य् अस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ इतिवत् ॥१३३॥
मुकुन्दः : यत् पादेति स्वयं स्वरूपेण स्वभावेन वा स्थितः स्थिरतरा नित्यं अस्ति मति-बुद्धीत्य् अत्र च-शब्देनानुक्तस्यापि ग्रहणात् वर्तमाने क्तः । व्रजौकसां व्रज-वासि-मात्राणां किम् उत सखीनां इत्य् अर्थः ॥१३३॥।
**विश्वनाथः : **बहु-जन्मभिर् यत् कृच्छ्रं दुःखात्मकम् अष्टाङ्ग-योग-साधनं, तेन धृतः स्थिरीकृतः आत्मा मनो यैस् तैर् अपि यैस् तैर् अपि योगिभिर् यस्य पाद-पांशुर् अलभ्यः, तादृशेनात्मनापि लब्धुम् अशक्यः, स एव श्री-कृष्णो, न तु तद्-अंशः, स्वयम् आत्मनैव हेतुना, न तु देहान्तरापेक्षेण, किन्तु स्वभावेनैव येषां अहो आश्चर्यं दृग्-विषये स्थितस् तेषां व्रजौको-मात्राणां दिष्टं प्राक्तन-पुण्यं किं वर्ण्यते ? न हि न हि, किन्तु स्वाभाविकी तादृशतया महती स्थितिर् एव वर्णनीया इत्य् अर्थः । तद् एव सह-विहार-कृतां पूर्वोक्त-सखीनां किम् उतेति भावः । स्थित इति शीलितादित्वाद् वर्तमाने क्तः ।
यच् च किञ्चिज् जगत्य् अस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ इतिवत् ॥१३३॥
—ओ)०(ओ—
॥ ३.३.१३४-१३६ ॥
द्वयोर् अप्य् एक-जातीय-भाव-माधुर्य-भाग् असौ ।
प्रेयान् काम् अपि पुष्णाति रसश् चित्त-चमत्कृतिम् ॥
प्रीते च वत्सले चापि कृष्ण-तद्-भक्तयोः पुनः ।
द्वयोर् अन्योन्य-भावस्य भिन्न-जातीयता भवेत् ॥
प्रेयान् एव भवेत् प्रेयान् अतः सर्व-रसेष्व् अयम् ।
सख्य-सम्पृक्त-हृदयैः सद्भिर् एवानुबुध्यते ॥
श्री-जीवः : अतः पूर्व-पद-द्वयोक्ताद् धेतोः प्रेयान् एवेत्य् आदि योज्यम् ॥१३६॥
**मुकुन्दः : **अतः पूर्व-पद-द्वयोक्ताद् धेतोः प्रेयान् एवेत्य् आदि योज्यम् । एतद्-अंशे वत्सआद् अप्य् अयं श्रेष्ठ इत्य् अर्थः । यथोत्तरम् असौ स्वादु- [भ।र।सि। २.५.३८] इत्य् आदिनास्माद्वत्सलस्य श्रैष्ठ्यम् उक्तम् एव ।१३६॥
**विश्वनाथः : **असौ प्रेयान् भक्ति-सख्य-रसः द्वयोः कृष्ण-सख्य-भाव-विशिष्ट-भक्तयोर् एक-जातीय-माधुर्य-भाक् कृष्णे सखि-भक्तानां सजातीय-सख्य-भावः । एतादृशैक-जातीय-भाव-माधुर्य-भाक् सन् रसाक्रान्त-चित्ते काम् अप्य् आनन्द-चमत्कृतिं पुष्णात् ॥१३४॥
दास्ये वत्सले च भिन्न-जातीयता, न तु सख्य-भाववद् एक-जातीयता भवेद् इत्य् अर्थः । अतः पूर्वोक्त-पद्य-द्वयाद् धेतोः प्रेयान् इत्य् आदि योज्यम् ॥१३६॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
प्रेयो-भक्ति-रस-लहरी तृतीया ।
(३.४)
वत्सल-भक्ति-रसाख्या चतुर्थ-लहरी
॥ ३.४.१ ॥
विभावाद्यैस् तु वात्सल्यं स्थायी पुष्टिम् उपागतः ।
एष वत्सल-नामात्र प्रोक्तो भक्ति-रसो बुधैः ॥१॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : वात्सल्यम् अनुग्रहमयी रतिः ॥१॥
—ओ)०(ओ—
॥ ३.४.२-३ ॥
तत्र आलम्बनाः—
कृष्णं तस्य गुरूंश् चात्र प्राहुर् आलम्बनान् बुधाः ॥
तत्र कृष्णो, यथा—
**नव-कुवलय-दाम-श्यामलं कोमलाङ्गं
विचलद्-अलक-भृङ्ग-क्रान्त-नेत्राम्बुजान्तम् ।
व्रज-भुवि विहरन्तं पुत्रम् आलोकयन्ती
व्रज-पति-दयितासीत् प्रस्नवोत्पीड-दिग्धा ॥
श्री-जीवः : **उत्पीडः स्वयं बलाद् उद्घमः । दिग्धे लिप्ते इति सङ्कीर्ण-वर्गः ॥३॥
**मुकुन्दः : **नव-नील-कमल-श्रेणिम् इव श्यामलम् । प्रस्नवस्य स्वयं स्नुत-स्तनस्योत्पीडेन बलाद् उद्गमेन दिग्धा लिप्ता ॥३॥
विश्वनाथः : नवीन-कुवलय-दामवत् श्यामलम् । प्रस्नवोऽपीडेन स्वयं बलात् क्षरित-दुग्धेन दिग्धा लिप्ता ॥३॥
—ओ)०(ओ—
**॥ ३.४.४-५ ॥
श्यामाङ्गो रुचिरः सर्व-सल्-लक्षण-युतो मृदुः ।
प्रिय-वाक् सरलो ह्रीमान् विनयी मान्य-मान-कृत् ।
दातेत्य्-आदि-गुणो कृष्णो विभाव इति कथ्यते ॥
एवं गुणस्य चास्यानुग्राह्यत्वाद् एव कीर्तिता ।
प्रभावानास्पदतया वेद्यस्यात्र विभावता ॥
श्री-जीवः : **श्यामाङ्ग इत् । आस्तां तावत् तद्-गुणापेक्षा, श्यामाङ्गता-मात्रेण जनन्य्-आदीनां आलम्बनम् इत्य् अर्थः । रम्याङ्ग इति वा पाठः ।
आलम्बनत्वम् एव तस्य विशदयति—एवम् इति । अस्य पुत्रत्वेनाभिव्यक्तस्य श्री-कृष्णस्य । अत एव प्रभावानास्पदतया वेद्यस्य अनभिव्यञ्जित-प्रभावस्य क्वचिद् अभिव्यञ्जित-प्रभावत्वेऽप्य् अन्यथा-भावितस्य यद् अनुग्राह्यत्वं, «पुत्रोऽयं ममान्तर् बहिर् अप्य् अतिकोमलः» इति भावनया मात्रादीनां हितेच्छा-विषयत्वं तस्माद् एव, नेतरस्मात् प्रकाराद् अत्र रसे विभावता मात्रादिषु वात्सल्याभिध-रत्य्-आस्वाद-जनकता, कीर्तितेति पुत्रतयाविर्भाव-मात्रेण सा सिद्धैव पूर्व-रीत्यानुग्रहोदयेन तु सर्वतः प्रसरत्-कीर्तिर् बभूवेत्य् अर्थः । गुणानां तूद्दीपनता-मात्रेण जनकत्वम् इत्य् आह एवं गुणस्य चेति—पूर्व-दर्शित-गुणस्यापीत्य् अर्थः । वात्सल्यानुग्रहयोस् तु कारण-कार्यता-भेदेन भेदो ज्ञेयः, मम पुत्रोऽयं भ्रतुष्पुत्रोऽयम् इति स्निग्धता वात्सल्यं, तत्र हितेच्छा त्व् अनुग्रह इति ॥४-५॥
मुकुन्दः : इत्य् आदय एव गुणा यस्य सः । इत्य् आदि गुण एव विभावो वात्सल्याख्य-रतेर् आस्वाद-हेतवः, न तु ईश्वर् इत्य्-आदि-गुण इत्य् अर्थः ॥४॥
एतत् प्रमातुं त्रय्या चेति पद्यं व्याख्या-पूर्वकं दर्शयति—एवं-गुणस्योत्य्-उत्तर-पदार्थः, एवं-भूता गुणा अनुग्राह्यत्वेन । कारणं, तच् च प्रब्रह्म्भावान् आस्पद-ज्ञान इति । प्रब्रह्म्भावानास्पदतया वेद्यस्य दृष्टेऽपि प्रभावे तत्-सम्भावनाविषयस्य, अत एव वत्सले रसे विभावता कीर्तिता श्री-शुकेन ॥५॥
विश्वनाथः : श्यामाङ्ग इति । आस्तां तावद् गुणापेक्षा । श्यामाङ्गता-मात्रेण जनन्यादीनां आलम्बनत्वम् इत्य् अर्थः ॥४॥
आलम्बनत्वम् एव तस्य विशदयति । अस्य पुत्रत्वेनाभिव्यक्तस्य श्री-कृष्णस्य । तत एव प्रभावानास्पदतया वेद्यस्य अनभिव्यञ्जित-प्रभावस्य तस्य यद् अनुग्राह्यत्वं, «मम पुत्रोऽयं अन्तर् बहिर् अप्य् अतिकोमलः» इति भावनया मात्रादीनां हितेच्छा-विषयत्वं तस्माद् एवात्र रसे विभावता मात्रादिषु । वात्सल्याभिध-रत्य्-आस्वाद-जनकता, कीर्तितेति गुणानां तूद्दीपन-मात्रेण जनकत्वम् इत्य् आह । एवं-गुणस्य चेति—पूर्व-दर्शित-गुणस्यापीत्य् अर्थः । “मम पुत्रोऽयं, भ्रतुष्पुत्रोऽयम्” इति स्निग्धता वात्सल्यं । तत्र हितेच्छा त्व् अनुग्रह इति ॥४-५॥
—ओ)०(ओ—
॥ ३.४.६-७ ॥
तथा श्री-दशमे (१०.८.४५)—
त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।
उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥
यथा वा—
**विष्णुर् नित्यम् उपास्यते सखि मया तेनात्र नीताः क्षयं
शङ्के पूतनिकादयः क्षिति-रुहौ तौ वात्ययोन्मूलितौ ।
प्रत्यक्षं गिरिर् एष गोष्ट-पतिना रामेण सार्धं धृतस्
तत्-तत्-कर्म दुरन्वयं मम शिशोः केनास्य सम्भाव्यते ॥
श्री-जीवः : **तद् एवं श्री-भागवत-मतेन—नेमं विरिञ्चिः [भा।पु। १०.९.२०] इत्य् आद्य्-अनुसारात् त्रय्येत्य् आदि व्याञ्जित-तद्-वात्सल्य-महिमानं दर्शयित्वा शुद्धं तद् एव दर्शयति विष्णुर् इति स्पष्टम् एव । अनेन व्रजेश्वर्याः परमार्जवं सूचितम् । यद् वा, विष्णुर् इति नर्म-गोष्ठीयं, तत्रायम् अर्थः—मया सार्धं गोष्ठ-पतिना यद् विष्णुर् उपास्यते । ततस् तेनैव पूतनादयः क्षयं नीताः । क्षितिरुहौ तु वात्ययैवोन्मूलितौ, न तत्र तस्यापि सम्बन्ध इति भावेन मच्-छिशोर् अस्य रक्षा तु तेनैव कृतेति ध्वनित्म् । गिरिस् तु तादृश-तद्-उपासन-बलेन तेन गोष्ठ-पतिनैव धृतः । रामेण सार्धं इति, यदि मम शिशोस् तत् सम्भाव्यते, तर्हि कथं रामेऽपि न सम्भाव्यत इत्य् अर्थः । तद् एतं क्वचित् तत्-पुरातन-तादृश-गोवर्धन-धर-प्रतिमा-दृष्ट्या श्री-कवि-चरणैः स्पष्टी-कृतं । तेन सहेति तुल्य-योग इति समास-सूत्रे महार्थस्य द्विविध्येऽपि दृष्टैः । अत्र मया सार्धं रामेण सार्धम् इति न पुनः सहार्थो विद्यमानता-मात्रेण विवक्ष्यते, न तु तुल्य-योगेनेति । श्री-व्रज-पति-कृत-नित्य-विष्णु-सभाजनम् एव कारणत्वेन व्यज्य तस्मिन् पाल्यत्वं एव पर्यवसायितम् ॥६-७॥
मुकुन्दः : उप हीने । यत् गीयमान-माहात्म्यं, न तु सम्यक् । तं हरिम् आत्मजं अमन्यत, साक्षात् प्र्भाव-दर्शनेऽपि पुत्र-भावेनैव साक्षात् तथा लालितवती । काक्वा अहो भाग्यं श्री-यशोदाया इति चमत्कारातिशयो व्यञ्जितः ॥६॥ उपास्यते पुत्र-रक्षार्थं परिचार्यते । शङ्के अन्य-कारणस्याब्रह्म्भावाद् इति विचारयामि ॥७॥
विश्वनाथः : ऐश्वर्य-श्रवणाद् अपि यशोदाया वात्सल्य-प्रेम्णः सङ्कोचाभावम् आह—त्रय्येति। त्रय्या यज्ञ-पुरुषत्वेन, उपनिषद्भिः ब्रह्मत्वेन, साङ्ख्यैः पुरुषत्वेन, योगैः परमात्मत्वेन, सात्वतैः पाञ्चरात्रैः भगवत्त्वेनेत्य् एवं कर्मि-प्रभृतिभिर् उपगीयमान-माहात्म्यं तस्याः समक्षम् असमक्षं च उप आधिक्येन गीयमानैश्वर्यं हरिं सा आत्मजम् अमन्यतेत्य् अस्मद्-अभीष्ट-दैवतेनावयोर् व्रत-नियम-सन्तत-पूजनादिभिः सन्तुष्टेन श्री-नारायणेन कृपया दत्तो लोकोत्तरः पुत्रोऽयं यत् कर्मि-प्रभृतिभिः त्रय्यादि-प्रतिपाद्यत्वेन स्तूयते । अत्र खलु नारायण-समो गुणैः इति सर्वत्र गर्गेण नारायण-साम्य-प्रथया अन्य-दुष्कर-पूतनादि-वधानां एतत्-कर्तृकत्व-प्रथया चायम् एव नारायण इति तेषां विश्वास एव हेतुः । वस्तुतस् तु अयं मत्-पुत्र एव । मां मातरं क्षणम् अप्य् अदृष्ट्वा विकलीभवत्य् अहं चैनं स्व-निमेष-व्यवहितं ज्ञात्वा विह्वलीभवामि । इत्य् अवयोर् जन्य-जनन्योर् अनुभव एवात्र प्रमाणम् इति मनसि सा समाधत्ते ।
किं च, कर्मि-प्रभृतयस् त्रय्यादिभिर् यथा हरिं यज्ञ-पुरुषादिकं मन्यन्ते, तथैवेयं वात्सल्य-प्रेम्णा हरिम् आत्मजं मन्यते । एभ्यस् तत्-तद्-अनुरूपं फलं ददानस् तेषां अनुग्राहको वशयिता सन्न् ईष्टे, अस्यै तु वात्सल्य-प्रेमानुरूपं फलं दातुम् असमर्थो ऋणीभवन्न् अस्या अनुग्राह्यो वश्यो ईशितव्यत्वेन तिष्ठन् स्वानन्द-तुष्टोऽप्य् अस्याः स्तन्यामृतार्थं रोदितीति विशेषो ज्ञेयः ॥६॥
मया सार्धं गोष्ठ-पतिना यद् विष्णुर् उपास्यते, ततस् तेनैव पूतनादयः क्षयं नीताः । क्षितिरुहौ यमलार्जुनौ पवनेनिवोन्मूलितौ, गिरिस् तु तादृश-तद्-उपासन-बलेन तेन गोष्ठ-पतिनैव धृतः, रामेण सार्धम् इति यदि मम शिशौ तत् सम्भाव्यते, तर्हि रामेईपि कथं न सम्भाव्यते इत्य् अर्थः ॥७॥
—ओ)०(ओ—
॥ ३.४.८-९ ॥
अथ गुरवः—
अधिकं-मन्य-भावेन शिक्षा-कारितयापि च ।
लालकत्वादिनाप्य् अत्र विभावा गुरवो मताः ॥
यथा—
**भूर्य्-अनुग्रह-चितेन चेतसा
लालनोत्कम् अभितः कृपाकुलम् ।
गौरवेण गुरुणा जगद्-गुरोर्
गौरवं गणम् अगण्यम् आश्रये ॥
श्री-जीवः : **अधिकं-मन्य-भावेनेत्य् आदिषूपलक्षणे तृतीया ॥८॥ स्व-न्यून-पालनेच्छानुग्रहः । पर-दुःख-हानेच्छा कृपा ॥९॥
**मुकुन्दः : **अधिकं-मन्य-भावेनेत्य् आदिषूपलक्षणे तृतीया ॥८॥ लालनेच्छानुग्रहः । रक्षेच्छा कृपा ॥९॥
**विश्वनाथः : **स्व-न्यून-पालनेच्छानुग्रहः । पर-दुःख-हानेच्छा कृपा । गुरुणा गौरवेण जगद्-गुरोः श्री-कृष्णस्य गौरवं गणं गुरु-वर्गम् ॥९॥
—ओ)०(ओ—
**॥ ३.४.१०-१२ ॥
ते तु तस्यात्र कथिता व्रज-राज्ञी व्रजेश्वरः ।
रोहिणी ताश् च वल्लव्यो याः पद्मज-हृतात्मजाः ॥
देवकी तत्-सपत्न्यश् च कुन्ती चानकदुन्दुभिः ।
सान्दीपनि-मुखाश् चान्ये यथा-पूर्वम् अमी वराः ।
व्रजेश्वरी-व्रजाधीशौ श्रेष्ठौ गुरुजनेष्व् इमौ ॥
श्री-जीवः : **रोहिनीत्यनेनान्याः पितृब्यपत्न्याद्यश्चापलक्ष्यन्ते । देवकी सपत्न्यादिभ्योप्यानकदुन्दुभोर्न्यूनत्वं, ज्ञानांशाधिक्येन पुरुषत्वेन च स्नेहांशस्यावरणात् । व्रजेश्वर्याः श्रेष्टत्वं स्नेहमात्रपात्रत्वात् । तदुक्तं [भ।पु। १०.८.४७] पितरौ नानुविन्देतामित्यादिना ॥१०-११॥
**मुकुन्दः : **पितृब्यप्त्न्यादयो वल्लवीष्वन्तर्भावात् पृखञ् नोक्ताः, किन्तु ताभ्यः पूर्वं ज्ञेयः, तद् भर्तॄणामनुक्तिरेव न्यूनत्वेन ताभ्य उत्तरं तान् बोदयति ॥१०॥
**विश्वनाथः : **रोहिनीत्यनेनान्याः पितृब्य-पत्न्यादयश्चोपलक्ष्यन्ते । ब्रह्मणा हृताः पुत्र यासां ता गोप्यः । देवकी-सपत्न्यादिभ्यो ऽपि वसुदेवस्य न्यूनत्वं ज्ञानांशाधिक्येन पुरुषत्वेन च स्नेहांशस्यावरणात् । व्रजेश्वर्यादेः श्रेष्टत्वं स्नेहमात्रपात्रत्वात् । तदुक्तं ‘पितरौ नान्वविन्देताऽं [भ।पु। १०.८.४७] इत्यादिना ॥१०-११॥
—ओ)०(ओ—
तत्र व्रजेश्वर्या रूपं, यथा श्री-दशमे (१०.९.३)—
**क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ।
रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥
श्री-जीवः : **क्षौमं परम-सूक्ष्मातसी-तन्तु-सम्भवम् । अतसी स्याद् उमा क्षमा इत्य् अमरः ॥१२॥
**मुकुन्दः : **क्षौमं कृमि-कोषोत्थं, क्षौमः पट्ट-दुकूले स्यात् इति विश्वः । तच् च स-चित्रं पीतं ज्ञेयम् । तस्यास् तन्त्रोक्त-श्याम-वर्णत्वेन शोभातरापेक्षया ॥१२॥
**विश्वनाथः : **क्षौमं परम-सूक्ष्मातसी-तन्तु-सम्भवं पीत-वस्त्रं बिभ्रती । अनेन यशोदायाः श्याम-वर्णत्वम् आयातम् । वासः कथं-भूतं? सूत्रेण नीवी-बन्ध-डोरेण नद्धं बद्धं, मन्थन-समये जात-कम्पं स्तन-द्वयं बिभ्रती, रज्ज्वोर् आकर्षणात् श्रम-युक्ते भुज-द्वये चलन्तौ कङ्कणौ बिभ्रती, कवराद् विगलन्ती मालती यस्याः सा ॥१२॥
—ओ)०(ओ—
॥ ३.४.१३ ॥
यथा वा—
**डोरी-जुटित-वक्र-केश-पटला सिन्दूर-बिन्दूल्लसत्-
सीमान्त-द्युतिर् अङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता ।
गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर-
श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः ॥
श्री-जीवः : **नवेन्दीवरेति । क्रम-दीपिकायां यथा-सङ्ख्य-प्राप्तत्वाल् लभ्यते । तथा हि—
ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् । नन्द-गोपं यशोदां च, इत्य् उक्त्वा प्राह— ज्ञान-मुद्राभय-करौ पितरौ पीत-पाण्डुरौ । दिव्यमाल्याम्बरालेप-भूषणौ मातरौ पुनः ॥ धारयन्त्यौ च वरदं पायसापूर्ण-पात्रकम् । अरुण-श्यामले हारमणि-कुण्डल-मण्डिते ॥ इति ।
यत् खलु गौतमीय-तन्त्रे—
तद् बहिर् वसुदेवं च यशोदां देवकीं पुनः । वसुदेवो हेम-गौरो वराभय-कर-स्थितः ॥ देवकी श्याम-सुभगा सर्वाभरण-शोभना । यशोदा हेम-सङ्काशा शित-वस्त्र-युगान्विता ॥ सर्वाभरण-सन्दीप्ता कुण्डलोद्भासितानना । रोहिणीं च यजेत् तत्र नन्दं गौरं समर्चयेत् ॥ वरदाभय-संयुक्तं समस्त-पुरुषार्थदम् ॥ इति ।
तद् एतद् तु विचार्यम् । इन्दीवर-श्याम-श्याम-रुचिर् इति । इन्दीवरम् इव श्यामा, न केवलं तादृशी, अपि तु श्यामा रुचिर् दीप्तिश् च यस्यास् तादृशी च, विशेषणयोः कर्म-धारयः ॥१३॥
**मुकुन्दः : **इन्दीवरस्य श्यामाद् वर्णाच् छ्यामा रुचिर् वर्णः शोभा यस्याः सा इन्दीवर-श्याम-रुचिः ॥१३॥
विश्वनाथः : डोरी-सूत्रेण जुटितः रचना-विशेषेण बद्धः, वक्र-केश-समूहो यस्याः, नातिप्रभूतं नातिप्रचूरं अङ्ग-भूषण-विधिं श्रिता अङ्ग-भूषण-विशिष्टेत्य् अर्थः । नवेन्दीवर-श्यामाद् अपि श्यामा रुचिर् यस्याः सा । विचित्रं नाना-वर्ण-युक्तं वस्त्रं यस्याः सा ॥१३॥
—ओ)०(ओ—
॥ ३.४.१४ ॥
वात्सल्यम्, यथा—
**तनौ मन्त्र-न्यासं प्रणयति हरेर् गद्गदमयी
स-बाष्पाक्षी रक्षा-तिलकम् अलिके कल्पयति च ।
स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणम् असौ
यशोदा मूर्तेव स्फुरति सुत-वात्सल्य-पटली ॥१४॥
श्री-जीवः : **कार्मणं मूल-कर्म रक्षौषधम् इति यावत् ॥१४॥
मुकुन्दः : स्नुवानास्वयं स्नुतवत्या कार्मणं मूल-कर्म रक्साउषधम् इति यावत् ॥१४॥
विश्वनाथः : गद्गद-मयी गद्गद-वाक्य-प्रचुरा यशोदा श्री-कृष्णस्य तनौ मन्त्र-न्यासं करोति । स्नुवाना स्तनात् दुग्ध-क्षरवती हस्ते कार्मणं मूल-कर्म रक्साउषधम् इति यावत् दिशति ददातीत्य् अर्थः ॥१४॥
—ओ)०(ओ—
**॥ ३.४.१५ ॥
व्रजाधीशस्य रूपं, **यथा—
**तिल-तण्डुलितैः कचैः स्फुरन्तं
नव-भाण्डीर-पलाश-चारु-चेलम् ।
अति-तुन्दिलम् इन्दु-कान्ति-भाजं
व्रज-राजं वर-कूर्चम् अर्चयामि ॥
श्री-जीवः : **तिल-मिश्रित-तण्डुलवद् आचरद्भिः श्याम-मिश्र-श्वेतैर् इत्य् अर्थः । अतितुन्दिलम् इति प्रशंसा-विषयतया स्थूलम् इत्य् अर्थः । अति-शब्दः प्रशंसायां इति विश्वः । कूर्चौ विकत्थने मध्ये भ्रुवोः श्मश्रुणि कैतवे इति विश्वः ॥१५॥
**मुकुन्दः : **तिल-तण्डुलितैः तिल-मिश्रित-तण्डुलवद् आचरद्भिः । अतितुन्दिलं प्रशस्त-स्थूल-तुन्दवस्थं इत्य् अर्थः । अति-शब्दः प्रशंसायां इति विश्वः । कूर्चः श्मश्रुः ॥१५॥
**विश्वनाथः : **तिल-मिश्रित-तण्डुलवद् आचरद्भिः श्याम-मिश्र-श्वेतैर् इत्य् अर्थः । भाण्डीरस्य नवीन-पत्रवद् रक्त-वस्त्रम् । अतितुन्दिलम् इति प्रशंसा-विषयतया स्थूलम् इत्य् अर्थः । अति-शब्दः प्रशंसायां इति विश्वः । वरं श्रेष्ठम् अर्थात् लम्बायमानं श्मश्रु यस्य । कूर्चौ विकत्थने मध्ये भ्रुवोः श्मश्रुणि कैतवे इति विश्वः ॥१५॥
—ओ)०(ओ—
॥ ३.४.१६ ॥
वात्सल्यम्, यथा—
अवलम्ब्य कराङ्गुलिं निजां
स्खलद्-अङ्घ्रि प्रसरन्तम् अङ्गने ।
उरसि स्रवद्-अश्रु-निर्झरो
मुमुदे प्रेक्ष्य सुतं व्रजाधिपः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : स्खलद्-अङ्घ्रि यथा स्यात् तथा प्रसरन्तम् ॥१६॥
विश्वनाथः : व्रजाधिपः स्वीय-कराङ्गुलीम् अवलम्ब्य स्खलद्-अङ्घ्रि यथा स्यात् तथा अङ्गने गच्छन्तं सुतं प्रेक्ष्य ॥१६॥
—ओ)०(ओ—
॥ ३.४.२ ॥
अथ उद्दीपनाः—
कौमारादि-वयो-रूप-वेशाः शैशव-चापलम् ।
जल्पित-स्मित-लीलाद्याः बुधैर् उद्दीपनाः स्मृताः ॥१७॥
तत्र कौमारम्—
आद्यं मध्यं तथा शेषं कौमारं त्रि-विधं मतम् ॥१८॥
तत्र **आद्यम्—
स्थूल-मध्योरुतापाङ्ग-श्वेतिमा स्वल्प-दन्तता ।
प्रव्यक्त-मार्दवत्वं च कौमारे प्रथमे सति ॥१९॥
सर्वे : **स्थूलं मध्यम् ऊरु च यस्य तस्य भावस् तत्ता ॥१९॥
—ओ)०(ओ—
॥ ३.४.२० ॥
यथा—
**त्रि-चतुर-दशन-स्फुरन्-मुखेन्दुं
पृथुतर-मध्य-कटि-रकोरु-सीमा ।
नव-कुवलय-कोमलः कुमारो
मुदम् अधिकां व्रज-नाथयोर् व्यतानीत् ॥
श्री-जीवः : **त्रयो वा चत्वारो वा त्रिचतुरा इति सन्दिग्धतायां एवायं बहु-व्रीहिः, सन्दिग्धत्वं चातिसूक्ष्मत्व-व्यञ्जनार्थम् इति, चत्वार एव दशना वस्तुतो बोध्यन्ते । सीम-शब्देनात्रास्पदं वाच्यम् । तेषां आश्रय इत्य् अर्थः ॥२०॥
मुकुन्दः : त्रयो वा चत्वारो वा त्रिचतुराः । पृथुतरं मध्यं च कटीरकात् कटेर् उर्वोः सीमानौ यावत् स्थिती च यस्य स पृथुतर-मध्य-कटीरकोरु-सीमा ॥२०॥
**विश्वनाथः : **त्रयो वा चत्वारो वा त्रिचतुरा इति सन्दिग्धतायां एवायं बहु-व्रीहिः, सन्दिग्धत्वं चातिसूक्ष्मत्व-व्यञ्जनार्थम् इति चत्वार एव दशना वस्तुतो बोध्यन्ते । सीम-शब्देनात्रास्पदं वाच्यम् । तथा च पृथुतर-मध्य-कट्य्-ऊरु-स्थलानां आश्रय इत्य् अर्थः ॥२०॥
—ओ)०(ओ—
॥ ३.४.२१-२२ ॥
अस्मिन् मुहुः पद-क्षेप-क्षणिके रुदित-स्मिते ।
स्वाङ्गुष्ठ-पानम् उत्तान-शयनाद्यं च चेष्टितम् ॥
यथा—
मुख-पुट-कृत-पादाम्भोरुहाङ्गुष्ठ-मूर्ध-
प्रचल-चरण-युग्मं पुत्रम् उत्तान-सुप्तम् ।
क्षणम् इह विरुदन्तं स्मेर-वक्त्रं क्षणं सा
तिलम् अपि विरतासीन् नेक्षितुं गोष्ठ-राज्ञी ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : एवं-भूतं सुतम् ईक्षितुं तिलम् अपि विरता नासीत् ॥२१-२२॥
—ओ)०(ओ—
॥ ३.४.२३-२४ ॥
अत्र व्याघ्र-नखं कण्ठे रक्षा-तिलक-मङ्गलम् ।
पट्ट-डोरी कटौ हस्ते सूत्रम् इत्य् आदि मण्डनम् ॥
यथा—
**तरक्षु-नख-मण्डलं नव-तमाल-पत्र-द्युतिं
शिशुं रुचिर-रोचना-कृत-तमाल-पत्र-श्रियम् ।
धृत-प्रतिसरं कटि-स्फुरित-पट्ट-सूत्र-स्रजं
व्रजेश-गृहिणी सुतं न किल वीक्ष्य तृप्तिं ययौ ॥
श्री-जीवः : **तरक्षोर् व्याघ्र-प्रायतया तच्-छब्देनात्र व्याघ्र एव वाचनीयः । द्वितीयं तमाल-पत्रं तिलकम् ॥२४॥
**मुकुन्दः : **तरक्षुः क्षुद्र-व्याघ्रः । द्वितीयं तमाल-पत्रं तिलकम् । प्रतिसरो हस्त-सूत्रम् ॥२४॥
**विश्वनाथः : **तरक्षोर् व्याघ्र-प्रायतया तच्-छब्देनात्र व्याघ्र एव वाचनीयः । रुचिर-गोरोचनया कृतस्य तमाल-पत्रस्य तिलकस्य श्रीः शोभा यत्र तं प्रतिसरः «पौहुञ्ची» इति प्रसिद्धः हस्ते धृतः ॥२४॥
—ओ)०(ओ—
॥ ३.४.२५ ॥
अथ **मध्यमम्—
दृक्-तटी-भाग्-अलकतानग्नता च्छिद्रि-कर्णता ।
कलोक्ति-रिङ्गनाद्यं च कौमारे सति मध्यमे ॥
श्री-जीवः : **आ-नग्नता ईषन्-नग्नता । सा चासम्यग् आच्छाद्यता काचित्क-नग्नता चेति द्विधा । छिद्राति नित्य-योगेऽपि तत्राभिव्यक्तत्वाद् उक्तम् । रिङ्गणम् एवाद्यं यत्र तद् रिङ्गणाद्यं किञ्चिच् चरण-विहारान्तं चरितम् इत्य् अर्थः ॥२५॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : आ-नग्नता ईषन्-नग्नता । सा च मध्य-देशस्यासम्यग् आच्छाद्यता कदाचित् नग्नता चेति द्विविधा । रिङ्गणम् इवाद्यं यत्र तद् रिङ्गणाद्यं किञ्चिच् चरण-विहारान्तं चरितम् इत्य् अर्थः ॥२५॥
—ओ)०(ओ—
॥ ३.४.२६ ॥
यथा—
**विचलद्-अलक-रुद्ध-भ्रू-कुटी चञ्चलाक्षं
कल-वचनम् उदञ्चन् नूतन-श्रोत्र-रन्ध्रम् ।
अलघु-रचित-रिङ्गं गोकुले दिग्-दुकूलं
तनयम् अमृत-सिन्धौ प्रेक्ष्य माता न्यमाङ्क्षीत् ॥
श्री-जीवः : **विचलद्भिर् अलकै रुन्धे ये भ्रू-तट्यौ तत्-तल-भागौ तत्र चञ्चले अक्षिणी यस्य तम्, उदञ्चती नूतनयोः श्रोत्रयो रन्ध्रे यस्य तम् । रिङ्गणाद्यम् इति यद् उक्तं, तत्रत्यं रिङ्गणं चरण-विहारं च तन्त्रेणोदाहरति—अलघु-रचित-रिङ्गम् इति । तत्र प्रथमे अनल्प-रचित-रिङ्गम् इत्य् अर्थः । अनेन प्रथम-कौमारास् तेऽपि स्वल्पं रिङ्गणं बोध्यते । अथ द्वितीयेन लघ्व् अपि रचितो रिङ्गो येन तम्, किञ्चिच् चरण-चर्यया विरहन्तम् इत्य् अर्थः । दिग्-दुकूलम् इति पूर्ववद् ईषन् नग्नता कादाचित्क-नग्नता चेति ज्ञेयम् । «तनयम् अनुभवन्ती सा सुधाब्धौ विजह्रे» इति वा पाठः ॥२६॥
मुकुन्दः : विचरद्भिर् अलकै रुद्धे ये भ्रू-तट्यौ तत्-तल-भागौ तयोश् चञ्चले अक्षिणी यस्य तम् ॥२६॥
विश्वनाथः : विचलद्भिर् अलकै रुद्धे भ्रू-तट्यौ तत्-तल-भागौ यत्र चञ्चले अक्षिणी यस्य तम्, नूतनयोः श्रोत्रयो रन्ध्रे यस्य तम् । अनल्प-विरचित-रिङ्गणम् इत्य् अर्थः । अनेन प्रथम-कौमारान्तेऽपि स्वल्पं रिङ्गणं बोध्यते । दिग्-दुकूलम् इति पूर्ववद् ईषन् नग्नता कादाचित्क-नग्नता चेति ज्ञेयम् ॥२६॥
—ओ)०(ओ—
॥ ३.४.२७-२८ ॥
घ्राणस्य शिखरे मुक्ता नव-नीतं कराम्बुजे ।
किङ्किण्य्-आदि च कट्यादौ प्रसाधनम् इहोदितम् ॥
यथा—
**क्वणित-कनक-किङ्किणी-कलापं
स्मित-मुखम् उज्ज्वल-नासिकाग्रम् उक्तम् ।
कर-धृत-नवनीत-पिण्डम् अग्रे
तनयम् अवेक्ष्य ननन्द नन्द-पत्नी ॥
सर्वे : **नवनीतं कादाचित्कम् एव । तच् च शोभाकरत्वात् प्रसाधन-निर्विशेषः ॥२७॥
—ओ)०(ओ—
॥ ३.४.२९-३० ॥
अथ शेषम्—
अत्र किञ्चित् कृशं मध्यम् ईषत्-प्रथिम-भाग् उरः ।
शिरश् च काक-पक्षाढ्यं कौमारे चरमे सति ॥
यथा—
**स मनाग् अपचीयमान-मध्यः
प्रथिमोपक्रम-शिक्षणार्थि-वक्षाः ।
दधद्-आकुल-काक-पक्ष-लक्ष्मीं
जननीं स्तम्भयति स्म दिव्य-डिम्भः ॥
श्री-जीवः : **अपचीयमानेति कर्म-कर्तरि प्रयोगः । स्वयं क्षिणीभवन्-मध्य इत्य् अर्थः । काक-पक्षोऽत्र सव्यापसव्य-मध्य-स्थ-वेणी-त्रयस्य पृष्ठे युतिः ॥३०॥
मुकुन्दः : अपचीयमान-मध्यः स्वयं क्षीणी-भवन् मध्य इत्य् अर्थः । कारु-पक्षः चूडा-करणात् प्राक्तनाः केशाः केश-गुम्फित-वेणी-त्रयम् इत्य् एके ॥३०॥
**विश्वनाथः : **अपचीयमानेति कर्म-कर्तृ-प्रयोगः । स्वयं क्षिणीभवन्-मध्य इत्य् अर्थः । विस्तारस्य उपक्रम-शिक्षणार्थि-वक्षः-स्थलं यस्य सः । चञ्चक-काक-पक्ष-शोभां दधत्, काक-पक्षोऽत्र सव्यापसव्य-मध्य-स्थ-वेणी-त्रयस्य पृष्ठ-देशे युतिः । कर्ण-लग्न-लम्बायमान-केशा इति केचित् । दिव्य-बालकः जननीं स्तम्भ-भाव-युक्तां करोति स्म ॥३०॥
—ओ)०(ओ—
**॥ ३.४.३१-३२ ॥
धटी फण-पडी चात्र किञ्चिद्-वन्य-विभूषणम् ।
लघु-वेत्रक-रत्व्नादि मण्डनं परिकीर्तितम् ॥
वत्स-रक्षा व्रजाभ्यर्णे वयस्यैः सह खेलनम् ।
पाव-शृङ्ग-दलादीनां वादनाद्य् अत्र चेष्टितम् ॥
श्री-जीवः : **धटी स्वल्प-विस्तर-बह्वायमानः पट-विशेषः । यः खलु विचित्र-परिवृत्ति-बाहुलेय्नाधराङ्गे विच्छित्तिं लभते । फण-पटी पुरतः फणाकारः कच्छी-करणाय पश्चाद् अल्प-धटी-सन्निभः स्यूत-पटः ॥ पावः सूक्ष्म-वेणुः ॥३१-३२॥
मुकुन्दः : धटी अधराङ्गे पट-विशेषः । फण-पटी पुरतः फणाकारः कच्छी-करणाय पश्चाद् अल्प-धटी-सन्निभ्ः स्यूत-पटः ॥ पावो द्वादशाङ्गुल-दीर्घो वेणुः ॥३१-३२॥
विश्वनाथः : धटी स्वल्प-विस्तार-बहु-लम्बायमानः पट-विशेषः । यः खलु विचित्र-वेष्टन-बाहुल्येन मध्य-देशे शोभां लभते । फण-पटि अग्रे फणाकारः «काछनी» इति प्रसिद्धिः कच्छी-करणाय पश्चाद् अल्प-धटी-सन्निभः स्यूत-पटः ॥३१॥ पावः सूक्ष्म-वेणुः ॥३२॥
—ओ)०(ओ—
॥ ३.४.३३ ॥
यथा—
**शिखण्ड-कृत-शेखरः फण-पटीं कटीरे दधत्
करे च लगुडीं लघुं सवयसां कुलैर् आवृतः ।
अवन्न् इह शकृत्-करीन् परिसरे व्रजस्य प्रिये
सुतस् तव कृतार्थयत्य् अहह पश्य नेत्राणि नः ॥
श्री-जीवः : **शिखण्डेति । सुतस्य गृहागमने विलम्बमानतां वीक्ष्य चन्द्रशालिका-शिखरम् आरूढस्य श्री-व्रजेशस्य स्वर्-भार्याम् अतिवर्यातिव्यग्रां प्रति वचनम् । शकृत्करीन् वत्सान् ॥३३॥
मुकुन्दः : शकृत्-करीन् वत्सान् ॥३३॥
**विश्वनाथः : **शिखण्डेति । सुतस्य गृहागमने विलम्बतां वीक्ष्य चन्द्रशालिका-शिखरम् आरूढस्य श्री-व्रजेशस्य स्व-भार्याम् भर-व्यग्रां प्रति वचनम् । शकृत्-करीन् वत्सान् ॥३३॥
—ओ)०(ओ—
॥ ३.४.३४-३५ ॥
अथ पौगण्डम्—
पौगण्डादि पुरैवोक्तं तेन सङ्क्षिप्य लिख्यते ॥३४॥
यथा—
पथि पथि सुरभीणान् अंशुकोत्तंसि-मूर्धा
धवलिम् अयुग्-अपाङ्गो मण्डितः कञ्चुकेन ।
लघु लघु परिगुञ्जन्-मञ्जु-मञ्जीर-युग्मं
व्रज-भुवि मम वत्सः कच्च-देशाद् उपैति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अंशुकम् उष्णीष-रूपम् उत्तंसः । तौ स्वर्ण-रत्नादि-निर्मितं शिरो-भूषणं तौ विद्येते अस्य तादृक् मूर्धा यस्य स तथा ॥३५॥
**विश्वनाथः : **अंशुकेन वस्त्रेण निर्मित उत्तंसः उष्णीष-रूप-शिरो-भूषणं यत्र तथा-भूतो मस्तके । यस्य सः, बागो इति प्रसिद्धेन कुञ्चुकेन मण्डितः, व्रज-भ्हुवि निकट-देशात् सुरभीणां पथि पथि मम बालक उपैति ॥३५॥
—ओ)०(ओ—
॥ ३.४.३६ ॥
अथ कैशोरम्—
अरुणिम-युग्-अपाङ्गस् तुङ्ग-वक्षः-कपाटी-
विलुठद्-अमल-हारो रम्य-रोमावलि-श्रीः ।
पुरुष-मणिर् अयं मे देवकि श्यामलाङ्गस्
त्वद्-उदर-खनि-जन्मा नेत्रम् उच्चैर् धिनोति ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
**॥ ३.४.३७-३८ ॥
नव्येन यौवनेनापि दीव्यन् गोष्ठेन्द्र-नन्दनः ।
भाति केवल-वात्सल्य-भाजां पौगण्ड-भाग् इव ॥
सुकुमारेण पौगण्ड-वयसा सङ्गतोऽप्य् असौ ।
किशोराभः सदा दास-विशेषाणां प्रभासते ॥
श्री-जीवः : न व्याख्यातम् **दास-विशेषाणामिति तत्-प्रौढतारूपस्फूर्त्तिमयलोकपालादीनामित्यर्थाः ॥३८॥।
मुकुन्दः : नव्येन यौवनेन चरम-किशोरेण ॥३७॥ सुकुमारेण प्रथमेनेत्य् अर्थः । दास-विशेषाणां अधिकृताश्रितानां प्रभावेण किशोरातः ॥३८॥
विश्वनाथः : दास-विशेषणाम् इति तत्-प्रौढता-स्फूर्ति-मय-लोक-पालादीनां इत्य् अर्थः ॥३८॥
—ओ)०(ओ—
॥ ३.४.३९ ॥
अथ **शैशव-चापलम्—
पारीर् भिनत्ति विकिरत्य् अजिरे दधीनि
सन्तानिकां हरति कृन्तति मन्थ-दण्डम् ।
वह्नौ क्षिपत्य् अविरतं नव-नीतम् इत्थं
मातुः प्रमोद-भरम् एव हरिस् तनोति ॥
श्री-जीवः : **पारी पान-पात्रम् इति क्षीर-स्वामी । दुग्धादेर् ज्ञेयम्, मृण्मयाच्छादन-भाण्डम् इति माथुराः । सन्तानिका दुग्धोपरि जात-तत्-सार-भाग-मय-जालिका । अविरतम् इत्य् अत्र त्वपियाग मुहुर् इति पाठान्तरं दृश्यम् ॥३९॥
मुकुन्दः : पारी दुग्धादेः पात्रम् । पारी पात्री-परागयोः इति विश्वः ॥३९॥
विश्वनाथः : पारी पान-पात्रम् इति क्षीर-स्वामी । तच् च दुग्धादेर् ज्ञेयम्, मृण्मयाच्छडन-भाण्डम् इति माथुराः । सन्तानिका दुग्धोपरि-जात-तत्-सार-भाग-मय-जालिका ताम् ॥३९॥
—ओ)०(ओ—
॥ ३.४.४० ॥
यथा वा—
**प्रेक्ष्य प्रेक्ष्य दिशः स-शङ्कम् असकृन् मन्दं पदं निक्षिपन्
नायात्य् एष लतान्तरे स्फुटम् इतो गव्यं हरिष्यन् हरिः ।
तिष्ठ स्वैरम् अजानतीव मुखरे चौर्य-भ्रमद्-भ्रू-लतं
त्रस्यल्-लोचनम् अस्य शुष्यद्-अधरं रम्यं दिदृक्षे मुखम् ॥
श्री-जीवः : **स्वैरं मन्दम् अचञ्चलं तिष्ठ । मन्द-स्वच्छन्दयोः स्वैरम् इति नानार्थात् । चौर्याय भ्रमन्त्याव् एवम् एवम् अपरिहरिष्यामीति भावनया नाना-गतिं दधत्यौ भ्रू-लते यस्य तम् ॥४०॥
**मुकुन्दः : **मन्दम् अल्पम् अल्पं पदं निक्षिपन् । स्वैरं मन्दम् अचञ्चलं तिष्ठ । मन्द-स्वच्छन्दयोः स्वैरम् इति कोष-काराः । चौर्याय भ्रमन्त्यौ गृह-वृद्धादि-दर्शनार्थं परितो गच्छन्त्यौ भ्रू-लते यस्य तम् । आवयोर् दर्शनार्थं त्रस्यल्-लोचनं शुष्यद् अधरं, अतो रम्यम् । भ्रमद् इत्य् आदि वर्तमान-सामीप्ये ॥४०॥
**विश्वनाथः : **हे मधुरे ! मन्दं स्वैरम् अचञ्चलं इति यावत् तद् यथा स्यात् तथा अजानतीव तिष्ठामि । मन्द-स्वच्छन्दयोः स्वैरम् इति नानार्थात् । चौर्याय भ्रमन्त्यौ एवम् अपरिहरिष्यामीति भावनया नाना-गतिं दधत्यौ भ्रू-लते यस्य तम् ॥४०॥
—ओ)०(ओ—
॥ ३.४.४१ ॥
अथ **अनुभावाः—
अनुभावाः शिरो-घ्राणं करेणाङ्गाभिमार्जनम् ।
आशीर्वादो निदेशश् च लालनं प्रतिपालनम् ।
हितोपदेश-दानाद्या वत्सले परिकीर्तिताः ॥
श्री-जीवः : **लालनं स्नपनादि । प्रतिपालनं रक्षा ॥४१॥
मुकुन्दः : लालनं स्नपनादि । प्रतिपालनं रक्षणम् ॥४१॥
विश्वनाथः : निदेशः आज्ञा-पालनं । लालनं स्नपनादि । प्रतिपालनं रक्षणादि ॥४१॥
—ओ)०(ओ—
॥ ३.४.४२ ॥
अत्र शिरो-घ्राणम्, यथा श्री-दशमे (१०.१३.३३)—
तद्-ईक्षणोत्प्रेम-रसाप्लुताशया
जातानुरागा गत-मन्यवोऽर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैर् अवापुः परमां मुदं ते ॥
न कतमेनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.४.४३ ॥
यथा वा—
दुग्धेन दिग्धा कुच-विच्युतेन
समग्रम् आघ्राय शिरः सपिच्छम् ।
करेण गोष्ठेशितुर् अङ्गनेयम्
अङ्गानि पुत्रस्य मुहुर् ममार्ज ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : दुग्धेन दिग्धा सिक्ता गोष्ठेशितुर् इयम् अङ्गना यशोदा ॥४३॥
—ओ)०(ओ—
॥ ३.४.४४-४५ ॥
चुम्बाश्लेषौ तथाह्वानं नाम-ग्रहण-पूर्वकम् ।
उपालम्भादयश् चात्र मित्रैः साधारणाः क्रियाः ॥
अथ सात्त्विकाः—
नवात्र सात्त्विकाः स्तन्य-स्रावः स्तम्भादयश् च ते ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.४.४६ ॥
तत्र स्तन्य-स्रावो, यथा श्री-दशमे (१०.१३.२२)—
तन्-मातरो वेणु-रव-त्वरोत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेह-स्नुत-स्तन्य-पयः-सुधासवं
मत्वा परं ब्रह्म सुतान् अपाययन् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : स्नेह-स्नुतम्, अत एव सुधासवं स्तन्य-दुग्धं परं ब्रह्म श्री-कृष्णं स्व-स्व-सुतान् मत्वापाययन् ॥४६॥
—ओ)०(ओ—
॥ ३.४.४७ ॥
यथा वा ललित-माधवे (१.४६)—
**निचुलित-गिरि-धातु-स्फीत-पत्रावलीकान्
अखिल-सुरभि-रेणून् क्षालयद्भिर् यशोदा ।
कुच-कलस-विमुक्तैः स्नेह-माध्वीक-मध्यैस्
तव नवम् अभिषेकं दुग्ध-पूरैः करोति ॥
श्री-जीवः : **निचुलितत्वम् आच्छादितत्वं, स्नेह एव माध्वीकं येषु ते च, मेध्याश् च परम-पवित्रास् त इति विशेषणयोः समासः । तथापि परमास्वाद्यैवेति भावः । नवं प्रथमम् इत्य् अभिषेकान्तरं जलैर् भविष्यद् अप्य् अनेन दुग्धाभिषेकेण पिष्ट-पेषीकयिष्यत इति भावः ॥४७॥
मुकुन्दः : निचुलितत्वं आच्छादितत्वम् । स्नेह एव माध्वीकं तेन मेध्यैः परम-पवित्रैः । नवम् अपूर्वं ॥४७॥
**विश्वनाथः : **श्री-कृष्णं प्रति पौर्णमास्या वचनम् । निचुलिता आच्छादिता । गैरिक-निर्मित-चित्र-लता-रूप-पत्रावली यैः एवम्-भूतान् सुरभि-रेणून् क्षालयद्भिः दुग्ध-पूरैर् अभिषेकं करोति । कथम्-भूतैः ? स्नेह एव माध्वीकं मधु येषु ते च, मेध्याः परम-पवित्राश् चेतीति विशेषणयोः समासः ॥४७॥
—ओ)०(ओ—
॥ ३.४.४८ ॥
स्तम्भादयो, यथा—
**कथम् अपि परिरब्धुं न क्षमा स्तब्ध-गात्री
कलयितुम् अपि नालं बाष्प-पुर-प्लुताक्षी ।
न च सुतम् उपदेष्टुं रुद्ध-कण्ठी समर्था
दधतम् अचलम् आसीद् व्याकुला गोकुलेशा ॥
श्री-जीवः : **गोकुलेशेत्य् अत्र गोप-राज्ञीति पाठान्तरम् ॥४८॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अचलं गोवर्धनं दधतं सुतम् ॥४८॥
—ओ)०(ओ—
॥ ३.४.४९-५० ॥
अथ व्यभिचारिणः—
तत्रापस्मार-सहिताः प्रीतोक्ताः व्यभिचारिणः ॥
तत्र हर्षो, यथा श्री-दशमे (१०.१७.१९)—
यशोदापि महाभागा नष्ट-लब्ध-प्रजा सती ।
परिष्वजाङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः ॥
_न व्याख्यातम् _
।
—ओ)०(ओ—
॥ ३.४.५१ ॥
यथा वा विदग्ध-माधवे (१.२०)—
जित-चन्द्र-पराग-चन्द्रिका
नलदेन्दीवर-चन्दन-श्रियम् ।
परितो मयि शैत्य-माधुरीं
वहति स्पर्श-महोत्सवस् तव ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : चन्द्र-परागादीनां श्रीः सम्पत्तिः । सात्र शैत्य-माधुर्यम् । चन्द्र-परागः कर्पूर-रजः नलदम् उशीरं ॥५१॥
विश्वनाथः : जिता चन्द्र-परागादीनां श्रीः शैत्य-सम्पत्तिः यया तां शैत्य-माधुरीं तव स्पर्श-महोत्सवः मयि वहति प्रापयति । चन्द्रः कर्पूरः । नलदम् उशीरम्, तृण-विशेष-मूलं इति यावत् ॥५१॥
—ओ)०(ओ—
॥ ३.४.५२-५३ ॥
अथ **स्थायी—
सम्भ्रमादि-च्युता या स्याद् अनुकम्पेऽनुकम्पितुः ।
रतिः सैवात्र वात्सल्यं स्थायी भावो निगद्यते ॥
यशोदादेस् तु वात्सल्य-रतिः प्रौढा निसर्गतः ।
प्रेमवत् स्नेहवद् भाति कदाचित् किल रागवत् ॥
श्री-जीवः : **यशोदादेर् इत्य् उपलक्षणं । अन्येषां अपि प्रौढ-रतीनां । प्रौढा राग-पराकाष्ठात्मिका । प्रेमादिवद् इति यथान्येषां प्रेमादयस् तथा भाति प्रतीयते, अन्तस् तु सदा प्रौढैवेत्य् अर्थः ॥५२-५३॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अनुकम्पितुः पित्रादेः सम्भ्रमादि-रहिता या श्री-कृष्णेऽनुकम्पा-रतिः । सैव वात्सल्यं स्थायी । निसर्गतः स्वरूपतः प्रेमादिवद् इति यथान्येषां प्रेमादयः, तथा भाति प्रतीयते ॥५२-५३॥
—ओ)०(ओ—
॥ ३.४.५४ ॥
तत्र वात्सल्य-रतिर्, यथा श्री-दशमे (१०.६.४३)—
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥
न व्याख्यातम्। ।
—ओ)०(ओ—
॥ ३.४.५५ ॥
यथा वा—
**विन्यस्त-श्रुति-पालिर् अद्य मुरली-निस्वान-शुश्रूषा
भूयः प्रस्रव-वर्षिणी द्विगुणितोत्कण्ठा प्रदोषोदये ।
गेहाद् अङ्गनम् अङ्गनात् पुनर् असौ गेहं विशन्त्य् आकुला
गोविन्दस्य मुहुर् व्रजेन्द्र-गृहिणी पन्थानम् आलोकते ॥
श्री-जीवः : **पालिः कर्ण-लताग्रे स्यात् इति विश्वः । तद्-विन्यासेन तु समग्र-कर्ण-विन्यास एव लक्ष्यते ॥५५॥
मुकुन्दः : श्रुतेः पालिर् अग्रम् । पालिः कर्ण-लताग्रे स्यात् इति विश्वः ॥५५॥
विश्वनाथः : मुरली-ध्वनि-शुश्रूषया भूयः पुनः पुनः विन्यस्ता कर्ण-पालिः कर्णाग्र-भागो यया । पालिः कर्ण-लताग्रे स्यात् इति विश्वः । तथा चान्य-वार्तायां कर्णस्यावधानेऽपि श्रेष्ठ-वृत्ति-रूपाग्र-भागस् तु मुरली-शब्द एवेति भावः । प्रस्रव-वर्षिणी दुग्ध-धारा-वर्षिणी ॥५५॥
—ओ)०(ओ—
॥ ३.४.५६ ॥
प्रेमवद्, यथा—
प्रेक्ष्य तत्र मुनि-राज-मण्डलैः
स्तूयमानम् असि अपि मुक्त-सम्भ्रमा ।
कृष्णम् अङ्कम् अभि गोकुलेश्वरी
प्रस्नुता कुरु-भुवि न्यवीविशत् ॥
श्री-जीवः : प्रेक्ष्य परम्परया बुद्ध्वेत्य् अर्थः । अन्तर्-वास एव तस्यां मिलनौचित्यं स्यात्, प्रेक्षा च बुद्धिर् उच्यते । “कुरु-भुवि न्यवीविशद्” इत्य् एव पाठः ॥५६॥
मुकुन्दः : कुरु-भुवि कुरुक्षेत्रे ॥५६॥
विश्वनाथः : तत्र विनशने कुरुक्षेत्रे स्तूयमानम् अपि प्रेक्ष्य “ईश्वरोऽयम्” इति सम्भ्रम-रहिता सती अङ्कम् अभि अङ्के कृष्णं न्यवीविशात् निवेशयामास ॥५६॥
—ओ)०(ओ—
॥ ३.४.५७ ॥
यथा वा—
**देवक्या विवृत-प्रसू-चरितयाप्य् उन्मृज्यमानानने
भूयोभिर् वसुदेव-नन्दनतयाप्य् उद्घूष्यमाणे जनैः ।
गोविन्दे मिहिर-ग्रहोत्सुकतया क्षेत्रं कुरोर् आगते
प्रेमा वल्लव-नाथयोर् अतितराम् उल्लासम् एवाययौ ॥
श्री-जीवः : **उन्मृज्यमानानन इति वल्लव-नाथयोर् मिलन-सुखेन तद्-आननस्याश्रु-लिप्ततां व्यञ्जयति । मिहिर- एतिइति—मिहिर-ग्रहं निमित्ती-कृत्य या उत्सुकता वल्लव-नाथाव् अप्य् अत्रागमिष्यत इति तयोर् दर्शनोत्कण्ठा, तयेत्य् अर्थः । प्रेम्णस् तु उल्लासे हेतुः । स्वाभाविक-भाव-प्रेरितायास् तत् तत्-तद् तद्-विरोधिन्या युक्तेः स्फुरणम् एव ज्ञेयम् । कंस-वधात् पूर्वम् अश्रुत-भेद-वार्तानां श्री-व्रजेन्द्रादीनां तद्-वधाद् उत्तरं—अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां [भा।पु। १०.१.३४] इत्य् आकाश-वाणी-प्रामाण्य-मात्रेण श्री-कृष्णे सान्त्वयतां वदत्सु स्व-पुत्र-परिवृत्ति-वार्तया व्यक्तया तु पुनस् तद्-उपादनम् उपादानम् अन्याय्यं स्याद् इति तां गोपयत्सु तत्-परिवृत्ति-सूचक-हरिवंश-रीत्या गुप्ततया नारदेन कंसं प्रति कृतं भेदम् अपि गोपयत्सु यादवेषु, सा युक्तिर् ईदृशी । अस्यास् त्वाम् अष्टम इत्य् इत्य्-आदिकं खलु—किं मया हतया मन्द जातः खलु तवान्त-कृत् । यत्र क्व वा पूर्व-शत्रुः [भा।पु। १०.४.१२] इति देवी-वाण्या व्यभिचारितं कंसेनापि तथा सूचितम् । दैवम् अप्य् अनृतं वक्ति न मर्त्या एव [भा।पु। १०.४.१७] इति । यदि च किम् अप्य् अत्र सन्दर्भान्तरं स्यात्, तदा सर्वत्रावञ्चक-शीलेन निरुपाधि-बन्धु-भाव-भावितेन वसुदेवेन–—-
दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ [भा।पु। १०.५.२३]
इत्य् इत्य्-आदिकं न प्रोच्यते । तस्माद् यथा—प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इति गर्गेणात्र प्रोक्तम्, तथा तत्रापि नूनं प्रोक्तम् इति, सम्प्रति स्व-कार्य-साधनार्थम् एव प्राचीनम् अर्वाचीनं वेत्य् अ विविच्य स्वान्वयत्व-मात्रं ते प्रचारयामासुः । भवतु नाम तत् तद् अपि वतः स्व-पुत्रे योग्या जना यदि पुत्रवद् आचरन्ति, तदा पित्रोः सुखम् एव स्यात्, किम् उत प्रेम्णा याभ्यां अभिन्नौ वसुदेव-देवक्यौ । तद् एतद् अनुसन्धाय स्वयं श्री-कृष्णेनाप्य् एतद् उक्तम्—ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति । तस्मात् सुहृत्सु वसुदेवादिष्व् अस्माभिर् यावत् तत्-सुख-विधानं कार्यं, भवद्भिस् तावत् गाम्भीर्यं कार्यं इति सूचितम् । श्रीमद्-उद्धवं प्रति च रहस् तथैव निज-हार्दम् उक्तम्–गच्छोद्धव व्रजं सौम्य [भा।पु। १०.४६.३] इत्य् आदौ, पित्रोर् नौ प्रीतिम् आवह [भा।पु। १०.४६.३] इति । यत् तु कुरुक्षेत्र-यात्रायां श्री-देवक्या श्री-यशोदाम् प्रति, एताव् अदृष्ट-पितरौ [भा।पु। १०.८२.३८] इत्य् उक्तं, तत्राप्य् अनया तत्-क्षण-मिलित-चिर-वियुक्त-पुत्रतया नावधानं कृतिर् इति गम्यते । यत एवानन्तरं न किञ्चिद् अप्य् उक्तम् इति दिक् ॥५७॥
**मुकुन्दः : **उन्मृज्यमानानन इति वल्लव-नाथयोर् मिलन-सुखेन तद्-आननस्याश्रु-लिप्ततां व्यञ्जयति । मिहिरेति—मिहिर-ग्रहं निमित्ती-कृत्य या उत्सुकता व्रज-जना अप्य् अत्रागमिष्यन्तीति तेषां दर्शनाद्य्-उत्कण्ठा तयेत्य् अर्थः । उल्लास आलम्बन-कृतोत्कर्षम् एव, न तु त्रासम् ॥५७॥
**विश्वनाथः : **विवृतं व्यक्तीकृतं मत्-कुक्षित एवायं जात इति प्रसू-चरितं यया तया देवक्या उन्मृज्यमानानने इति नन्द-यशोदयोर् मिलन-सुखेन श्री-कृष्णस्याननस्याश्रु-लिप्ततां व्यञ्जयति । मिहिर-ग्रहं सूर्य-ग्रहणं निमित्तीकृत्य या उत्सुकता वल्लव-नाथाव् अप्य् अत्रागमिष्यत इति तयोर् दर्शनोत्कण्ठा तयेत्य् अर्थः ॥५७॥
—ओ)०(ओ—
॥ ३.४.५८ ॥
स्नेहवत्, यथा—
**पीयूष-द्युतिभिः स्तनाद्रि-पतितैः क्षीरोत्करैर् जाह्नवी
कालिन्दी च विलोचनाब्ज-जनितैर् जाताञ्जन-श्यामलैः ।
आरान्- मध्यम-वेदिम् आपतितयोः क्लिन्ना तयोः सङ्गमे
वृत्तासि व्रज-राज्ञि तत्-सुत-मुख-प्रेक्षां स्फुटं वाञ्छसि ॥
श्री-जीवः : **पीयूषेति सूर्योपराग-यात्रा-व्याजेन स्व-पुत्र-दर्शनोत्कण्ठया व्रजन्त्यां व्रजेश्वर्यां कस्याश्चित् परिचित-चर-तापस्या वचनम् । क्षीरं दुग्धं जलं च । मध्यमो मध्य-भागः स एव वेदिस् तां, पक्षे मध्यम-वेदिं प्रयागम् ॥५८॥
**मुकुन्दः : **पीयूष-द्युतीति । श्री-कृष्णस्य वचनात् व्रजागमन-सान्निध्य-समये श्री-पौर्णमास्या वचनम् । क्षीरं दुग्धं जलं च । मध्यमो मध्य-भागो वेदिर् इव अङ्गुलि-मुद्रावती अतिक्षीण-मध्यम् इत्य् अर्थः । वेदिर् अङ्गुलि-मुद्रायां बुधेऽलङ्कृत-भू-तले इति विश्वः । पक्षे, मध्यम-वेदिं प्रयागम् ॥५८॥
**विश्वनाथः : **सूर्योपराग-यात्रा-व्याजेन स्व-पुत्र-दर्शनोत्कण्ठया व्रजन्त्यां व्रजेश्वर्यां कस्याश्चित् परिचिततर-तापस्या वचनम् । तनु-रूप-पर्वतात् पतितैः क्षीरोत्करैः रस-समूहैः जाता जाह्नवी, क्षीरं दुग्धं जलं च । नेत्र-कमल-जनितैः अञ्जनेन श्यामलैः जल-समूहैः जाता यमुना च । मध्यमो मध्य-देशः स एव वेदिस् तां, पक्षे मध्यम-वेदिं प्रयागम्। आपतितयोस् तयोर् गङ्गा-यमुनयोः सङ्गमे हे व्रज-राज्ञि! त्वं क्लिन्ना स्नाता वृत्तासि, तत् तस्मात् श्री-कृष्ण-मुख-दर्शनं वाञ्छसि, भगवद्-दर्शन-वाञ्छयैव लोकाः प्रयागे स्नानं कुर्वन्तीति प्रसिद्धेः ॥५८॥
—ओ)०(ओ—
॥ ३.४.५९ ॥
रागवत्, यथा—
**तुषार्वति तुषानलोऽप्य् उपरि तस्य बद्ध-स्थितिर्
भवन्तम् अवलोकते यदि मुकुन्द गोष्ठेश्वरी ।
सुधाम्बुधिर् अपि स्फुटं विकट-काल-कूटत्य् अलं
स्थिता यदि न तत्र ते वदन-पद्मम् उद्वीक्ष्यते ॥
श्री-जीवः, मुकुन्दः : **हे मुकुन्द ! गोष्ठेश्वरी यदि भवन्तम् अवलोकते, तदा तुषानलोऽपि तुषारति, तुषारवद् आचरति । कीदृशी सत्य् अवलोकते ? तत्राह—तस्य तुषानलस्योपरि बद्ध-स्थितिर् इत्य् अन्वयः । एवम् उत्तरत्रापि ॥५९॥
**मुकुन्दः : **हे मुकुन्द ! गोष्ठेश्वरी यदि भवन्तम् अवलोकते, तदा तुषानलोऽपि तुषारति, तुषारवद् आचरति । कीदृशी सत्य् अवलोकते ? तत्राह—तस्योपरि बद्ध-स्थितिर् इत्य् अन्वयः । एवम् उत्तरत्रापि ॥५९॥
**विश्वनाथः : **हे मुकुन्द ! गोष्ठेश्वरी यदि भवन्तम् अवलोकते, तदा तुषानलोऽपि तुषारति, तुषारवत् परम-शीतलवद् आचरति । कीदृशी सत्य् अवलोकते ? तत्राह—तस्योपरि तस्य उपरि बद्ध-स्थितिर् इत्य् अन्वयः । एवम् उत्तरत्रापि ॥५९॥
—ओ)०(ओ—
॥ ३.४.६० ॥
अथ अयोगे उत्कण्ठितम्, यथा—
वत्सस्य हन्त शरद्-इन्दु-विनिन्दि-वक्त्रं
सम्पादयिष्यति कदा नयनोत्सवं नः ।
इत्य् अच्युते विहरति व्रज-बाटिकायाम्
ऊर्वी त्वरा जयति देवक-नन्दिनीनाम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अच्युते व्रज-भूमौ विहरति सति देवकी प्रभृतीनां कदा श्री-कृष्ण-मुखं अस्माकं नयनोत्सवं करिष्यतीति या गुर्वी महती त्वरा स जयति ॥६०॥
—ओ)०(ओ—
॥ ३.४.६१ ॥
यथा वा—
**भ्रातस् तनयं भ्रातुर्
मम सन्दिश गान्दिनी-पुत्र ।
भ्रातृव्येषु वसन्ती
दिदृक्षते त्वां हरे कुन्ती ॥
श्री-जीवः, मुकुन्दः : **भ्रातृव्येषु शत्रुषु ॥
विश्वनाथः : हे भ्रातः! हे गान्दिनी-पुत्र! अक्रूर ! भ्रातुस् तनयं श्री-कृष्णं सन्दिश । सन्देशम् एवाह—भ्रातृव्येषु शत्रुषु, हे हरे! ॥६१॥
—ओ)०(ओ—
॥ ३.४.६२ ॥
वियोगो, यथा श्री-दशमे (१०.४६.२८)—
यशोदा वर्ण्यमानानि पुत्रस्य चरिताणि च ।
शृण्वत्य् अश्रूण्य् अस्राक्षीत् स्नेह-स्नुत-पयोधरा ॥
_न कतमेनापि व्याख्यातम् _।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.४.६३ ॥
यथा वा—
याते राज-पुरं हरौ मुख-तटी व्याकीर्ण-धूम्रालका
पश्य स्रस्त-तनुः कठोर-लुठनैर् देहे व्रणं कुर्वती ।
क्षीणा गोष्ठ-मही-महेन्द्र-महिषी हा पुत्र पुत्रेत्य् असौ
क्रोशन्ती करयोर् युगेन कुरुते कष्टाद् उरस्-ताडनम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : गोष्ठ-मही-महेन्द्रस्य नन्दस्य महिषी कष्टात् क्लेशात् ॥६३॥
—ओ)०(ओ—
॥ ३.४.६४-६५ ॥
बहूनाम् अपि सद्-भावे वियोगेऽत्र तु केचन ।
चिन्ता विषाद-निर्वेद-जाड्य-दैन्यानि चापलम् ।
उन्माद-मोहाव् इत्य् आद्या अत्युद्रेकं व्रजन्त्य् अमी ॥
अत्र **चिन्ता—
मन्द-स्पन्दम् अभूत् क्लमैर् अलघुभिः सन्दानितं मानसं
द्वन्द्वं लोचनयोश् चिराद् अविचल-व्याभुग्न-तारं स्थितम् ।
निश्वासैः स्रवद् एव पाकम् अयते स्तन्यं च तप्तैर् इदं
नूनं वल्लव-राज्ञि पुत्र-विरहोद्घूर्णाभिर् आक्रम्यसे ॥
श्री-जीवः : **मन्द-स्पन्दम् इति श्री-कृष्णस्य वन-गमने कस्याश्चिद् वचनम् । सन्दानितं बद्धं निश्वासैः स्रवद् एवेत्य् आदि पाठ एव पुत्र-विरह-सूचकः ॥६५॥
मुकुन्दः : मन्द-स्पन्दम् इति श्री-कृष्णस्य वन-गमने कस्याश्चिद् उक्तिर् इयम् । «निश्वासैर् अधरश् च ते विधुरतां नीतः कदुष्णैर् अयम्» इति पाठः ॥६५॥
**विश्वनाथः : **मन्द-स्पन्दम् इति श्री-कृष्णस्य वन-गमने कस्याश्चिद् वचनम् । सन्दानितं बद्धं । अविचलन्ती स्थिरा व्याभुग्ना कुटिला तारा यत्र तथा-भूतं लोचन-द्वन्द्वं स्थितं, स्रवत् स्तनं दुग्धं तप्तैः निश्वासैः पाकं प्राप्नोति ॥६५॥
—ओ)०(ओ—
**॥ ३.४.६६ ॥
विषादः—
वदन-कमलं पुत्रस्याहं निमीलति शैशवे
नव-तरुणिमारम्भोन्मृष्टं न रम्यम् अलोकयम् ।
अभिनव-वधू-युक्तं चामुं न हर्म्यम् अवेशयं
शिरसि कुलिशं हन्त क्षिप्तं श्वफल्क-सुतेन मे ॥
श्री-जीवः : **वदनेति श्री-कृष्णस्य द्वारकायां गार्हस्थ्य-निष्ठाः श्रुत्वा श्री-व्रजेश्वरी-वचनम् ॥६६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : शैशवे निमीलति गते सति तारुण्य-युक्तं वदन-कमलं अहं नालोकयम्, नव-वधू-युक्तं श्री-कृष्णं गृहं नाहं प्रावेशयम् ॥६६॥
—ओ)०(ओ—
**॥ ३.४.६७ ॥
निर्वेदः—
धिग् अस्तु हत-जीवितं निरवधि-श्रियोऽप्य् अद्य मे
यया न हि हरेः शिरः स्नुत-कुचाग्रम् आघ्रायते ।
सदा नव-सुधा-दुहाम् अपि गवां परार्धं च धिक्
स लुञ्चति न चञ्चलः सुरभि-गन्धि यासां दधि ॥
श्री-जीवः : **धिग् अस्त्व् इति विरह-चिन्तया चित्तानवस्थानात् तद्-वात्सल्य-स्फूर्तिमयं वचनम् । अत एव स लुञ्चतीत्य् उक्तम् । सदा नव-सुधा-दुहाम् इत्य् एव पाठो धिक्कार-पोषकः ॥६७॥
मुकुन्दः : धिग् अस्त्व् इत्य् अत्र उत्तरार्धस्यारम्भे सुधेति पाठः ॥६७॥
विश्वनाथः : निरवधि-सम्पत्तेर् मम धिग् अस्तु हन्त् जीवितं यया मया स्नुत-कुचाग्रं यथा स्यात् तथा श्री-कृष्णस्य शिरो नाघ्रायते । यासां गवां सुगन्धि यदि न लुञ्चति न चोरयति ॥६७॥
—ओ)०(ओ—
॥ ३.४.६८ ॥
जाड्यम्—
यः पुण्डरीकेक्षण तिष्ठतस् ते
गोष्ठे कराम्भोरुह-मण्डनोऽभूत् ।
तं प्रेक्ष्य दण्ड-स्तिमितेन्द्रियाद् यद्
दण्डाकृतिस् ते जननी बभूव ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **गोष्ठे तिष्ठतस् तव यो दण्डः कर-कमलस्य मण्डनोऽभूत्, तं दण्डम् ॥६८॥
—ओ)०(ओ—
॥ ३.४.६९ ॥
दैन्यम्—
याचते बत विधातर् उदस्रा
त्वां रदैस् तृणम् उदस्य यशोदा ।
गोचरे सकृद् अपि क्षणम् अद्य
मत्सरं त्यज ममानय वत्सम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : हे मत्सर विधातः! दण्डैस् तृणं धृत्वा यशोदा याचते ॥६९॥
—ओ)०(ओ—
**॥ ३.४.७० ॥
चापलम्—
किम् इव कुरुते हर्म्ये तिष्ठन्न् अयं निरपत्रपो
व्रजपतिर् इति ब्रूते मुग्धोऽयम् अत्र मुदा जनः ।
अहह तनयं प्राणेभ्योऽपि प्रियं परिहृत्य तं
कठिन-हृदयो गोष्ठे स्वैरी प्रविश्य सुखीयति ॥
श्री-जीवः : **किम् इवेत्य् अतिदुःख-मयं श्री-व्रजेश्वरी-वाक्यम् । मुदेति हास्य-पूर्वकम् इत्य् अर्थः । अत्र जगति मुग्धो जनो देशान्तर-स्थ-विपक्ष-रूपः । तद् इदम् अपि दुःखेन वितर्क-मयम् एव । तस्य विपक्षस्य तादृश-वचनं युक्तम् एवेत्य् आह—अहहेति ॥७०॥
**मुकुन्दः : **किम् इवेति श्री-व्रजेश्वरी-वाक्यम् । अत्र व्रजे मुग्धो जनो बालादि-रूपोऽपि मुदा श्री-कृष्ण-विषय-प्रीति-विशेषेण । तस्य तादृशं वचनं युक्तम् एवेत्य् आह—अहहेति । स्वैरी लोकाद् अपि भय-रहितः । कठिनेत्य् अत्र कुलिशेति च पाठः। सुखीयति सुखम् इच्छति ॥७०॥
**विश्वनाथः : **किम् इवेत्य् अतिदुःख-मयं यशोदा-वाक्यम् । अयं निर्लज्जो नन्दः किं कुरुते? मुग्धो विपक्ष-रूपो जनः व्रजपतिर् इति ब्रूते, यतः, अहहेत्य् आदि स्वैरी स्वच्छन्दः सन् ॥७०॥
—ओ)०(ओ—
**॥ ३.४.७१ ॥
उन्मादः—
क्व मे पुत्रो नीपाः कथयत कुरङ्गाः किम् इह वः
स बभ्रामाभ्यर्णे भणत तम् उदन्तं मधुकराः ।
इति भ्रामं भ्रामं भ्रम-भर-विदूना यदुपते
भवन्तं पृच्छन्ती दिशि दिशि यशोदा विचरति ॥
श्री-जीवः : **क्व मे पुत्र इत्य् अकस्मान् मथुरातस् तत्-पलायनं श्रुत्वा तस्या वचनम् । उदन्तं वार्ताम् ॥७१॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : हे नीपाःकदम्बाः! वो युष्माकम् अभ्यर्णे निकटे स श्री-कृष्णः, तस्य श्री-कृष्णस्य वार्ता हे भ्रमराः भणत ॥७१॥
—ओ)०(ओ—
॥ ३.४.७२ ॥
मोहः—
कुटुम्बिनि मनस् तटे विधुरतां विधत्से कथं
प्रसारय दृशं मनाक् तव सुतः पुरो वर्तते ।
इदं गृहिणि गृहं न कुरु शून्यम् इत्य् आकुलं
स शोचति तव प्रसूं यदु-कुलेन्द्र नन्दः पिता ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तव पिता नन्द प्रसूं यशोदाम् इति शोचति ॥७२॥
—ओ)०(ओ—
॥ ३.४.७३ ॥
अथ योगे सिद्धिः—
विलोक्य रङ्ग-स्थल-लब्ध-सङ्गमं
विलोचनाभीष्ट-विलोकनं हरिम् ।
स्तन्यैर् असिञ्चन् नव-कञ्चुकाञ्चलं
देव्यः क्षणाद् आनकदुन्दुभि-प्रियाः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : लोचनयोर् अभीष्टं दर्शनं यत्र तं हरिं, कंस-वधानन्तरं रङ्ग-स्थले लब्ध-सङ्गं वसुदेवस्य प्रिया देवक्याद्याः देव्याः ॥७३॥
—ओ)०(ओ—
॥ ३.४.७४ ॥
तुष्टिर्, यथा प्रथमे (१.११.३०)—
ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत-पयोधराः ।
हर्ष-विह्वलितात्मानः सिषिचुर् नेत्रजैर् जलैः ॥
न केनचित् व्यख्यातम्।
—ओ)०(ओ—
॥ ३.४.७५ ॥
यथा वा ललित-माधवे (१०.१४)—
**नयनयोः स्तनयोर् अपि युग्मतः
परिपतद्भिर् असौ पयसां झरैः ।
अहह वल्लव-राज-गृहेश्वरी
स्व-तनयं प्रणयाद् अभिषिञ्चति ॥
श्री-जीवः : **वल्लव-राज विलासिनीत्यत्र वल्लव-राज-गृहेश्वरीति पाठान्तरम् ॥७५॥
, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : नयन-युग्मतः स्तन-युग्मतश् च पतद्भिः पयसां झरैः जल-प्रवाहैश् च ॥७५॥
—ओ)०(ओ—
॥ ३.४.७६ ॥
स्थितिर्, यथा विदग्ध-माधवे (१.१९)—
**अहह कमल-गन्धेर् अत्र सौन्दर्य-वृन्दे
विनिहित-नयनेयं त्वन्-मुखेन्दोर् मुकुन्द ।
कुच-कलस-मुखाभ्याम् अम्बर-क्नोपम् अम्बा
तव मुहुर् अतिहर्षाद् वर्षति क्षीर-धाराम् ॥
श्री-जीवः- **अम्बर-क्नोपम् अम्बरम् आर्द्रयित्वेत्य् अर्थः । अनया स्थित्या नित्य-स्थितिर् अपि प्रत्यागमनानन्तरं प्रेयो-रसास् ते सूचित-सिद्धान्तवद् उन्नेया । किञ्चित् तु विशिष्यते । तत्र सत्य-सङ्कल्पतया वेदादि-गीतस्य तस्य—ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति प्रत्यागमन-सङ्कल्पः श्री-दशमे स्पष्ट एव । द्रष्टुम् इति दर्शनस्य पुरुषार्थत्वेन निर्देशो नित्यावस्थायित्वं बोधयति । यद् वा, द्रष्टुम् इति दर्शन-विषयीभवितुम् इत्य् अर्थः । तथापि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तरात्मभिः [भा।पु। १०.१४.६] इत्य् अत्र विबोद्धुं बोध-विषयी-भवितुम् इतिवत् । तद् एतद् एव विवृतं श्रीमद्-उद्धवेन—
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [भा।पु। १०.४६.३५] आगमिष्यत्य् अतिदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ [भा।पु। १०.४६.३४] इति ।
अत्र पित्रोः प्रिय-विधानं खलु सदा तत्-संयोग एवेति । तद् एतद् आगमन-समयश् च—दन्तवक्र-वधानन्तरम् एव । तथा च सूचितं स्वयम् एव—
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१] इति ।
तद् इदं शत्रु-वधान्ते दन्तवक्रेऽपि शान्ते निजागमनं भावीति कुरुक्षेत्र-यात्रायां श्री-भगवद्-वचनम् । यात्रा चेयं दन्तवक्र-वधात् पूर्वम् एव । अत्र वन-पर्व-रीत्या शाल्व-वध-सहितस्यास्य दन्तवक्र-वधस्य सम-कालम् एव हि पाण्डवानां वन-गमनम् । तेषाम् आगमनानन्तरम् एव च भीष्मादि-वध-मय-भारत-युद्धम् । सा यात्रा च भीष्माद्यागमन-मयीति । तथा श्री-बलदेव-तीर्थ-यात्रा कुरुक्षेत्र-यात्रातः पूर्वं पठिता, तत्-तीर्थ-यात्रा च दुर्योधन-वध-दिने पूर्णेति । दन्तवक्र-वधानन्तरं प्रत्यागमनं च तस्य पाद्मोत्तर-खण्डे स्फुटं दृश्यते—
कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा सोत्कण्ठौप्राक्तनौ पितराव् अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य बहु-वस्त्र्रत्नाभरणादिभिस् तत्रस्थान् सन्तर्पयामास । [प।पु। ६.२५२.२५] इति गद्येन ।
अत्र श्री-भागवते च भारत-युद्धानन्तरं श्री-कृष्णस्य द्वारका-प्रवेशे प्रथम-स्कन्ध-स्थ-द्वारका-प्रजा-वचनम्—
यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया । तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ [भा।पु। १.११.९] इति ।
तत्र मधून् मथुरां वेति स्वामि-टीका च । सुहृदश् च तदा तत्र व्रजस्था एव । तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः [भा।पु। १०.५०.५७१] इति सर्व-शब्दात् ।
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भा।पु। १०.६५.१]
इति तत्रैव सुहृच्-छब्द-प्रयोगात् । तद् एवम् अभीष्टाय श्री-कृष्णाय व्रज-प्रत्यागमनाय श्री-भागवत-पाद्मयोः संवादे दर्शिते तद्-आनुषङ्गिकं तु दन्तवक्र-वध-स्थानं कल्प-भेद-रीत्या वैष्णव-तोषणी-रीत्या वा विवादं परिहृत्य सङ्गमनीयम् । तद् एवम् अपि पुनः श्री-कृष्णस्य द्वारकागमनं च द्वारकोचित-निज-प्रादुर्भावान्तरेणैव । यथोक्तं पाद्मोत्तर-खण्डे तद्-अनन्तरम् एव—
अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [प।पु। ६.२५२.२८-२९] इति च ।
तत्र नन्दादयः पुत्र-दार-सहिताः इति । श्रीमन्-नन्दस्य तद्-वर्ग-मुख्यस्य पुत्रः श्री-कृष्ण एव । दारा च श्री-यशोदैव । इति प्रसिद्धम् अपि पुत्रादि-शब्दोक्त्या तत्-तद्-रूपैर् एव तैः सह तत्र प्रवेश इत् गम्यते । अतो व्रजं प्रति प्रत्यागमन-रूपेण वासुदेव-प्रसादेन दिव्य-रूप-धरा इति उल्लासेन परम-विराजमान-रूपत्वम् एव विवक्षितम् । विमानेन तेषां परम-वैकुण्ठ-प्रस्थापनं च प्रापञ्चिक-जनस्य वञ्चनार्थं प्रपञ्चितम् ।वस्तुतस् तु तद्-अदृश्ये वृन्दावनस्यैव प्रकाश-विशेषे प्रवेशनं । प्रवेश्य च तत्र स्थितानाम् अप्रकट-प्रकाशानाम् एषु प्रकट-चर-प्रकाशेष्व् अन्तर्-भावनं कृतम् । यथा प्रकट-लीला-गत-षोडश-सहस्र-महिषी-विवाहे श्री-नारद-दृष्ट-योग-माया-वैभवे सर्वान्तः-पुरेभ्यः सुधर्मा-प्रवेशे च तादृशत्वम् इति । पूर्वम् अपि श्री-वृन्दावन एवास्मिंस् तेषां तेन तथा तत्र प्रवेशनं श्री-शुकेन दर्शितम् । तथा हि श्री-दशमे—
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् । अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥ इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् । सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥ जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् । यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः [भा।पु। १०.२८.१०-१७] इति ।
अत्र खलु यन् निज-पदं तेषाम् एवास्पदतया पुरा तेषाम् एव दृष्टि-पथम् अकार्षीत् तद् एव पश्चाद् व्यतारीद् इति गम्यते । ते तु ब्रह्म-ह्रदं नीता इत्य् अत्र यत्राक्रूरः श्री-शुक-परीक्षित्-संवादम् अपेक्ष्य पुरा स्तुतवांस् तं ब्रह्म-ह्रदम् अक्रूर-तीर्थं तन्-महिमानं लक्ष्यं विधातुं कृष्णेन नीता मग्नाश् च पुनः श्री-कृष्णेनैवोद्धृताः । उद्धृत्य वृन्दावन-प्रदेशम् आनीतास् तस्मिन्न् एव नराकृति-पर-ब्रह्मणस् तस्य लोकं ददृशुर् इति च लभ्यते । कोऽसौ ब्रह्म-ह्रदः ? तत्राह यत्रेति । पुरेत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः। पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति विश्व-प्रकाशात् ।
यद्यपि ब्रह्म-लोक-शब्देन भगवल्-लोक-मात्रं, द्वितीये ब्रह्म-लोकः सनातनः इत्य् अनेन लब्धं । सूक्ष्माम् इति न वेद स्वां गतिम् इति च गोपानां स्वं लोकम् इति कृष्णं च तत्रेति च श्री-गोपाल-लोक एव विशेषाल् लभ्यते । तत्र च्छन्दोभिः स्तूयमानम् इति तज्-जन्मादि-लीला-वर्णिनीनां श्रुति-वर-वर्णिनीनां साक्षिता तु तेषु गोपेषु तस्य कृष्णस्य प्रत्यभिज्ञापनार्थम् एव । अत एवात्मन एव च तत्-परिकरतया तैर् अनुभूता इति नान्ये वर्णिताः । तद् एवम् एव तद्-एक-रुचीनां तेषां विस्मृतिः परमानन्द-निर्वृतिश् च घटते । तस्य स्वलोकतायाम् अप्य् अवतारावसरे तेषाम् अज्ञाने कारणं जनो वा इति सालोक्य-सार्ष्तीत्य्-आदि-पद्यस्थ-जन-शब्दवद् अत्रापि जनस् तदीय-स्वजन-एवोच्यते । तत्राप्य् अत्र परम-स्वजनत्वं गम्यते ।
**तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । ** गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८]
इति श्री-कृष्णस्य मनसि भावनाद् एव । ततश् च परम-स्वजनोऽयं मम व्रज-वासि-लक्षणः प्रापञ्चिके लोके याः स्वाविद्यादिभिर् देव-तिर्यग्-आदि-रूपा गतयस् तासु भ्रमंस् तन्-निर्विशेषतयात्मानं मन्वानो दर्शयिष्यमाणां स्वां गतिं न जानातीत्य् अर्थः । मदीय-लोकवल्-लीलावेशाद् एवेति भावः ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] इत्य् आदेः । यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ [भा।पु। १०.१४.३५] इत्य् आदेः ।
कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधस [भा।पु। १०.६५.६] इत्य् आदेश् च । तद्-अज्ञानाद् एव नन्दस् त्व् अतीन्द्रियम् इत्य् आदिकं घटत इति । स एष एव श्री-वृन्दावनस्य प्रकाश-विशेषः श्री-वाराहेऽप्य् उपलक्षितः । तद् यथा—
तत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः । कालीय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः । शत-शाखं विशालाक्षि पुण्यं सुरभि-गन्धि च । स च द्वादश-मासात्नि -मनोज्ञः -शुभ-शीतलः । पुष्पायति विशालाक्षि प्रभासन्तेओ दिशो दश ॥ इति ।
तथा—
तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे । लभन्ते मनुजाः सिद्धिं मम कर्म-परायणाः ॥ तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः श्सित-प्रभः । वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ॥ स पुष्पति च मध्याह्न्ङ्ग्ए मम भक्त-सुखावहः । न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥ इत्य् इत्य्**-**आदि ।
अत्र तत्रापि महद् आश्चर्यम् इत्य् आदिभिस् त्वया पृथिव्यापि न ज्ञायत इति बोध्यते । तस्य ब्रह्म-कुण्डस्येत्य् अर्थः । तथा हि स्कान्दे—
वृन्दावनं द्वादशमं वृन्दया परिरक्षितं । हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति ।
आदि-वाराहे—
कृष्ण-क्रीडा-सेतु-बन्धं महा-पातक-नाशनम् । ब्व्अलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥ गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने । तत्रैवे रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।
वत्सैर् वत्सतरीभिश् च [भ।र।सि। ३.३.१२९] इत्य् आदि किन्तु दर्शितम् एव । तस्माद् अक्वे चेन् मधु विन्देत किम्-अर्थं पर्वतं व्रजेत् इति न्यायेन समीपे लब्धे दूर-गमन-प्रक्रिया-सङ्गोपनार्थम् एव सम्भवति । तस्माद् वृन्दावनस्य प्रपञ्चागोचर-प्रकाश-विशेष एव तेषां प्रवेशः । तथा चोक्तं बृहद्-गौतमीये स्वयं भगवता—
इदं वृन्दावनं रम्यं मम धामैव केवलम् । तत्र ये पशवः पक्षि-वृक्षा मृगाः कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ तत्र या गोप-कन्याश् च निवसन्ति ममालये । योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥ पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् । कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।
श्री-गोपाल-तापन्यां श्रीमतीर् गोपीः प्रति दुर्वाससो वचनम्—
जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति**,** योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, । योऽसौ गोपेषु तिष्ठति, । योऽसौ सर्वेषु वेदेषु तिष्ठति, । योऽसौ सर्व-वेदैर् गीयते, । योऽसौ सर्वेषु भूतेष्व् आविश्य भूतानि विदधाति, स वो हि स्वामी भवति [गो।ता।उ। २.२२] इत्य् इत्य्-आदि ।
सौर्ये इति सौरी यमुना तद्-दूर-भवे देशे वृन्दावन इत्य् अर्थः । तस्मात् कंसादिकं दन्तवक्रान्तं असुर-चक्रं संहत्य व्रजम् आगत्य च वृन्दावन एव रहस्य-प्रकाश-विशेषे सर्व-व्रज-वासिभिः सह श्रीमन्-नन्दनन्दनेन नित्यावस्थितिः कृतेत्य् अवगतम् । अत एव वृन्दावन-लीलायां तस्य निहत-कंसता च निर्दिष्टा पाताल-खण्डे—
अहो अभाग्यं लोकस्य न पीतं यमुना-जलम् । गो-गोप-गोपिका-सङ्गे यत्र क्रीडाति कंस-हा ॥ इति ।
बौधायन-कर्म-विपाके च गो-गोपावृत-गोविन्दाराधने—गोविन्द-गोपी-जन-वल्लभेश ! कंसासुरघ्न ! त्रिदशेन्द्र-वन्द्य ! इति मन्त्र-विशेषश् च । यद् अत्रैव वीर-रसे—
प्रोत्साहयस्यतितरां किम् इवाग्रहेण मां केशिसूदन विदन्न् अपि भद्रसेनम् । योद्धुं बलेन समम् अत्र सुदुर्बलेन दिव्यार्गला प्रतिभटस् त्रपते भुजो मे ॥ [भ।र।सि। ४.३.१५] इति ।
तच् चेत्थम् अभिप्रायाद् एव केशि-वधाद् अधस्तात् तादृश-लीला स्वाच्छन्द्यायानन्तर-कालासम्भवात् ।
किं चात्र ग्रन्थे लीला-वर्णनास् त्रिविधाः, व्रज-लीला-मय्यो, व्रज-त्याग-मय्यः, पुर-लीला-मय्यश् चेति । श्रोतारश् च त्रिविधाः—व्रज-जनानुगा पुर-जनानुगास् तटस्थाश् च । सर्वेषां सुख-पोषार्थम् एव च ता निर्दिष्टाः । तत्र तटस्थानां सर्वा एव सुख-पोषिका भवन्ति, श्री-कृष्ण-मात्र-तात्पर्यकत्वात् । पुर-जनानुगानां व्रज-लीलाश् च सुख-पोषिका भवन्ति, अस्मदीयः श्रीमद्-अनकदुन्दुभि-नन्दनस् तत्र व्रजे स्थित्वा विचित्र-लीला विधाय पुरम् आगत्य तासाम् उपधारणया श्रीमद्-आनकदुन्दुभीनां सुख-पोषिका जात इति भावनया । तस्माद् आसातां तावद् अन्ये द्वे लीले । व्रज-जनानुगानां—पुर-सम्बन्धिन्यः सुख-पोषिका न भवन्त्य् एव, प्रत्युत दुःख-पोषिकाः, पुनस् तस्य व्रजागमनानुट्टङ्कनात् । ततश् च व्रज-लीला-मय्यश् च दुःखदत्वेनैव पर्यवसिताः, किम् उत व्रज-त्याग-मय्यः । सर्वेषाम् एव च सुखं पोष्टुम् इच्छद्भिर् ग्रन्थ-कृद्भिः सर्वा लीला वर्णिताः । विशेषतश् च,
अलौकिकी त्व् इयं कृष्ण-रतिः सर्वाद्भुताद्भुता । तत्रापि वल्लवाधीश-नन्दनालम्बना रतिः । सान्द्रानन्द-चमत्कार-परमावधिर् इष्यते ॥ [भ।र।सि। २.५.१०८-१०]
इति स्पष्टोक्तेर् व्रज-जनानुगानाम् एव सर्वाधिकं सुखं पोष्टव्यम् । तस्माद् उक्त-रीत्या स्वयम् एव सङ्क्षेप-भागवतामृते लिखितं श्री-कृष्णस्य पुनर् व्रजागमन-पूर्वकं पुर-गत-तत्-तद्-विजय-श्रवणाद् अपि पुष्ट-सुखानां व्रज-जनानां मध्ये नित्यावस्थानम् एव ग्रन्थ-कृतां हृद्-गतम् । तेन तच्-छ्रवणेन व्रज-जनानुगा अपि पुष्ट-सुखाः स्युः, परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [भा।पु। ११.२१.३५] इतिवत् । प्रकटं तु तन् न पठितम् इति ज्ञेयम् ।
नित्यावस्थां चात्र कैमुत्येन गत्य्-अन्तरास्वीकारेण च श्रीमद्-भागवते दर्शितम्,
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति । सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ [भा।पु। १०.१४.३५] इति इति। तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणं । न पुनः कल्पते राजन् संसारोऽज्ञान-सम्भवः ॥ [भा।पु। १०.६.४०] इति च
पूर्वत्र तस्य तेषु ऋणित्व-प्राप्तेस् तत्-प्राप्तेश् चानादि-कल्प-परम्परा-प्राप्तत्वान् नित्यावस्थानम् अवगम्यते । सद्-वेषाद् इव सतां धात्री-जनानाम् वेषाद् इत्य् अर्थः । उत्तरत्र च तत एवं व्याख्यातं, संसारः संसारित्वं न पुनर् न तु कल्पेत न घटते । तत्र हेतुः, अविरतम् आद्य्-अन्त-मध्य-विच्छेद-हीनं यथा स्यात् तथा कृष्णे सुतेक्षणम् सुत इति प्रत्यक्षतां कुर्वतीनां तत्-कृतितया सदा वर्तमानानाम् इति । अस्या नित्यावस्थितेः परिपाटी-विशेषस् तु उत्तर-गोपाल-चम्पू-दृष्ट्या निष्टन्क्यो, दिग्-दर्शनं चेदम्—
मातुर् लालनम् एत्य सम्मतिम् इतस् तातस्य च भ्रातृभिः सार्धं धेनु-गणाऽह्वनाय विपिनं गत्वा चरन् क्रीडितम् । आगम्याथ गृहं समस्त-सुहृदाम् ईदृक् प्रतीतं भजत्य् एसा श्री-व्रज-राज-नन्दन-वरः श्वासो न एषाम् इति ॥ [गो।च। २.३७.८३]
श्री-मथुरा-द्वारकयोर् नित्यावस्थितिश् च—मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भा।पु। १०.१.२८] इति, नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भा।पु। ११.३१.२४] इति दशमैकादशयोर् द्रष्टव्या । विशेष-जिज्ञासा चेत् वैष्ण-तोषणी-कृष्ण-सन्दर्भ-गोपाल-चम्पू-द्वय-लोचन-रोचनी-नामोज्ज्वल-नीलमणि-टीकाः द्रष्टव्याः ॥७६॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.४.७७-७८ ॥
स्वीकुर्वते रसम् इमं नाट्य-ज्ञा अपि केचन ॥
तथाहुः [सा।द। ३.२०१]—
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : वत्सल-रसे स्थायी वात्सल्य-रतिः । आलम्बनं पुत्रादिः ॥७८॥
—ओ)०(ओ—
**॥ ३.४.७९-८० ॥
किं च—
अप्रतीतौ हरि-रतेः प्रीतस्य स्याद् अपुष्टता ।
प्रेयसस् तु तिरोभावो वत्सलयस्यास्य न क्षतिः ॥
एषा रस-त्रयी प्रोक्ता प्रीतादिः परमाद्भुता ।
तत्र केषुचिद् अप्य् अस्याः सङ्कुलत्वम् उदीर्यते ॥
श्री-जीवः : **अप्रतीतौ अनिर्णये हरि-रतेः हरि-कर्तृक-रतेः ॥७९॥
मुकुन्दः : हरि-रतेः हरि-कर्तृक-रतेः । अप्रतीतौ अज्ञाने ॥७९॥
विश्वनाथः : हरि-रतेः श्री-कृष्ण-कर्तृक-रतेः अप्रतीतौ स्वस्मिन् अनिर्णये एव दास्य-रतेः अपुष्टता स्यात्, अनिर्णये त्व् अपुष्टतैव स्याद् इति सखीनां तु स्वस्मिन् श्री-कृष्ण-रतेर् अनिर्णये सख्य-रतेस् तु मूलत एव तिरोधानं स्यात् । मात्रादीनां स्वस्मिन् पुत्रस्य प्रीतेर् अप्रतीतेऽपि वात्सल्यस्य न कापि क्षतिः ॥७९॥ केषुचिद् भक्तेषु अस्याः रतेः सङ्कुलत्वं रत्य्-अन्तरेण सह वर्तमानत्वम् ॥८०॥
—ओ)०(ओ—
**॥ ३.४.८१-८४ ॥
सङ्कर्षणस्य सख्यस् तु प्रीति-वात्सल्य-सङ्गतम् ।
युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम् ॥
आहुक-प्रभृतीनां तु प्रीतिर् वात्सल्य-मिश्रिता ।
जरद्-आभीरिकादीनां वात्सल्यं सख्य-मिश्रितम् ॥
माद्रेय-नारदादीनां सख्यं प्रीत्या करम्बितम् ।
रुद्र-तार्क्ष्योद्धवादीनां प्रीतिः सख्येन मिश्रिता ॥
अनिरुद्धापि-नप्तॄणाम् एवं केचिद् बभाषिरे ।
एवं केषुचिद् अन्येषु विज्ञेयं भाव-मिश्रणम् ॥
श्री-जीवः : **सङ्कर्षणस्येति । अत्र सङ्कर्षणस्य सख्यं—
नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ [भा।पु। १०.१५.१५६]
वात्सल्यं, यथा—
क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥ [भा।पु। १०.१५.१४५]
प्रीतिर्, यथा—प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] इति तद्-वाक्यम् । तद् एवं पुराणिक-दृष्ट्यान्यत्रान्यद् अपि ज्ञेयम् । जरद्-आभीरिकादीनां सख्यम् अत्र परिहास-रूपांशेनैव ज्ञेयम् । रुद्रस्य तु श्री-विष्ण्व्-अजितादि-रूपेण ज्ञेयम् । केचिद् इति गौड-देश्यानां पौत्रादिभिः किञ्चिद् विनोद-दर्शनाद् इति भावः ॥८१-८४॥
मुकुन्दः : अल्पे इत्य् अर्थः । एवम् अग्रेऽपि । यस्याधिक्यं भवेद् यत्र स तेन व्यपदिश्यत इत्य् उक्तत्वात् ॥८१॥ माद्रेयौ नकुल-सहदेवौ ॥८२॥
विश्वनाथः : बलदेवस्य सख्यं मुख्यम् ॥८१॥ आहुक उग्रसेनः । जरद्-अभीरिकाणां मुखरा-प्रभृतीनां ॥८२॥ नकुल-सहदेव-नारदादीनां सख्यं दास्येन करम्बितं युक्तम् । तार्क्ष्यो गरुडः । अनिरुद्ध-प्रभृति-पौत्राणां दास्यं सख्य-मिश्रितम् ॥८३-८४॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
वत्सल-भक्ति-रस-लहरी चतुर्थी ।
(३.५)
मधुर-भक्ति-रसाख्या पञ्चम-लहरी
॥ ३.५.१ ॥
आत्मोचितैर् विभावाद्यैः पुष्टिं नीता सतां हृदि ।
मधुराख्यो भवेद् भक्ति-रसोऽसौ मधुरा रतिः ॥१॥
श्री-जीवः : सतां श्री-कृष्ण-विषयक-तत्-कान्त-रति-स्पृष्ट-चित्तानां सद्-विशेषाणाम् ॥१॥
**मुकुन्दः- **सतां श्री-कृष्ण-विषयक-तत्-कान्ता-भावानुवर्ति-रतीनां सद्-विशेषाणाम् ॥१॥
**विश्वनाथः : **सतां भक्त-विशेषाणाम् व्रज-सुन्दरीणाम् इत्य् अर्थः ॥१॥
—ओ)०(ओ—
**॥ ३.५.२ ॥
निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः ।
रहस्यत्वाच् च सङ्क्षिप्य वितताण्गो विलिख्यते ॥
श्री-जीवः : **निवृत्तेषु प्राकृत-शृङ्गार-रस-सम-दृष्ट्या भागवताद् अप्य् अस्माद् रसाद् विरक्तेष्व् अनुपयोगित्वाद् अयोग्यत्वात् ॥२॥
मुकुन्दः- निवृत्तेषु तापसादिषु अनुपयोगित्वाद् अप्रयोजकत्वात् । ननु तद्-अन्येषु उपयोगिता स्यात् ? तत्राह—दुरूहत्वात् । ननु विशद-वर्णने न स्यात् ? तत्राह—रहस्यत्वात् । अत्र विस्तरेण वक्तुम् अनर्हत्वाद् इत्य् अर्थः ॥२॥
विश्वनाथः : विस्तृताङ्गोऽप्य् अयं शृङ्गार-रसः सङ्क्षिप्य लिख्यते । तत्र हेतु-त्रयम् आह निवृत्तेत्य्-आदि । निवृत्तेषु प्राकृत-रस-साम्य-दृष्ट्या श्री-भागवताद् अप्य् अस्माद् विरक्तेषु अनुपयोगित्वाद् अयोग्यत्वाद् इत्य् अर्थः ॥२॥
**विष्णुदासः **(उज्ज्वल-नीलमणौ १.२) : ननु सर्व-भक्ति-रसानां मध्ये—यथोत्तरम् असौ स्वाद-विशेषोल्लासमय्य् अपि [भ।र।सि। २.५.३८] इत्य्-आदि-निर्णयाद् अयम् एव प्रधान-रसः किम् इति सङ्क्षिप्यते ? प्रत्युत सर्वतो विस्तार्य वक्तुं युक्तः स्यात् । तत्र क्रमेण हेतु-त्रयम् उपन्यस्य तन् निराकरोति । निवृत्तानुपयोगित्वात् निवृत्ता एतद्-रसाश्रय-भक्तेतर-शान्त-भक्तादयस् तेषाम् अनुपयोगित्वातनर्हत्वात् । तर्हि—
उदासतां नाम रसानभिज्ञाः कृतौ तवामी रसिकाः स्फुरन्ति । क्रमेलकैः कामम् उपेक्षितेऽपि पिकाः सुखं यान्ति परं रसाले ॥ [वि।मा। १.९]
इत्य्-आदिना मधुर-रस-भक्ताश् च सुबहुतराः विराजन्त एव, तत्राह—तेष्व् अपि संस्काराभावाद् रसास्वादापटवो ये तेषां दुरूहत्वाद् दुस्तर्क्यत्वात् । भवतु, तत्रापि रस-चर्वण-चतुराश् च बहवो दृश्यन्ते, तत्राह—रहस्यत्वात् । वक्ष्यमाण-राग-मार्गैक-प्राधान्यानुसारेणावान्तरानन्त-स्वभावत्वान् नाना-विध-वासना-वासित-चित्तेषु तेष्व् अप्य् अपरिचित-राग-वर्त्म-सन्दर्भत्वेन वैधी-मार्ग एव गाढ-बद्धाशयेषु प्रकाशनायोग्य-त्वेनातिगुह्यत्वात् । ये पुना राग-मार्गैक-जीवना मधुर-रस-भक्तास् ते तु विरला एव ।
भद्रम्, तर्ह्य् अधुना किम् इति विस्तरेण वक्तुम् आरभ्यते ? तत्राह पृथग् एव । अयं भावः । तत्र रसामृत-सिन्धौ नाना-जातीय-भक्तानाम् अनुशीलनीयत्वात् तन्-मध्येऽतिसङ्क्षेपतस् तद् उक्तम् । अत्र तु राग-मार्गैक-बद्ध-व्रता रस-चर्वणैक-जीवनाश् च ये मधुर-रस-भक्तास् तेषाम् एवास्वादनीयत्वाद् विस्तरेण पृथग् एवोच्यते ॥२॥
—ओ)०(ओ—
॥ ३.५.३-५ ॥
तत्र आलम्बनाः—
अस्मिन् आलम्बनः कृष्णः प्रियास् तस्य तु सुभ्रुवः ॥३॥
तत्र कृष्णः—
तत्र कृष्णः असमानोर्ध्व-सौन्दर्य-लीला-वैदिग्धी-सम्पदाम् ।
आश्रयत्वेन मधुरे हरिर् आलम्बनो मतः ॥४॥
यथा श्री-गीत-गोविन्दे (१.११)—
विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर-
श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् ।
स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः
शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः क्रीडति ॥
श्री-जीवः : _न किम् अपि लिखितम् _॥३-५॥
मुकुन्दः- विश्वेषां बहु-भेद-व्रज-सुन्दरी-जनानाम् । विश्वेषाम् इत्य् आदिना स्वच्छन्दम् इत्य् आदिना च क्रमेण असमानोर्ध्वानां वैदग्ध्य-सौन्दर्य-लीलानां सम्पदो दर्शिताः ॥५॥
विश्वनाथः : अनुरञ्जनेन स्वाचरित लीला-प्रकटनेन विश्वेषाम् आनन्दं जनयन् स्वयं तु व्रज-सुन्दरीभिः प्रत्यङ्गम् आलिङ्गितः सन् क्रीडति । तत्-क्रीडया स्वयम् आनन्दितो भवतीत्य् अर्थः । इन्दीवर-श्रेणीभ्योऽपि श्यामलानि कोमलानि यान्य् अङ्गानि तैस् तासाम् अनङ्गोत्सवम् उपनयन् तासां प्रेम्णा मुग्धम् ऐश्वर्य-ज्ञान-शून्यः ॥५॥
—ओ)०(ओ—
॥ ३.५.६ ॥
अथ तस्य प्रेयस्यः—
नव-नव-वर-माधुरी-धुरीणाः
प्रणय-तरङ्ग-करम्बितास्न्तरङ्गाः ।
निज-रमणतया हरिं भजन्तिः
प्रणमत ताः परमाद्भुताः किशोरीः ॥
श्री-जीवः : अन्तर् इत्य् अन्तः-करणम् । प्रणय-तरङ्गैः करम्बितानि मिश्रितानि अन्तःकरणस्याङ्गानि वृत्तयो यासां ताः ॥६॥
**मुकुन्दः- **प्रणय-तरङ्गैः करम्बितानि मिश्रितानि अन्तरङ्गानि मनांसि यासां ताः ॥६॥
**विश्वनाथः : **माधुरीणां धुरीणा भार-वाहकाः । अन्तर् अन्तः-करणम् प्रणय-तरङ्गैः करम्बितानि मिश्रितानि अन्तःकरणस्याङ्गानि वृत्तयो यासां ताः ॥६॥
—ओ)०(ओ—
**॥ ३.५.७-८ ॥
प्रेयसीषु हरेर् आसु प्रवरा वार्षभानवी ॥
अस्या रूपं—
मद-चकित-चकोरी-चारुता-चोर-दृष्टिर्
वदन-दमित-राकारोहिणी-कान्त-कीर्तिः ।
अविकल-कल-धौतोद्धूति-धौरेयक-श्रीर्
मधुरिम-मधु-पात्री राजते पश्य राधा ॥
श्री-जीवः : **मदेन चकुरा चपला या चकोरी । चकितेति पाठे लक्षणया स एवार्थः ॥८॥
**मुकुन्द-दासः- **मदेन काम-कृतोल्लासेन चकिता चपला या चकोरी ॥८॥
**विश्वनाथः : **मदेन चकुरा चञ्चला या चकोरी तस्याश् चारुतायाश् चौरी दृष्टिर् यस्याः । वदनेन दमिता राका-रोहिणी-कान्तस्य पूर्णिमा-चन्द्रस्य कीर्तिर् यया । अविकल-कल-धौतस्य अत्युत्तम-सुवर्णस्य या उद्धूतीः सर्वेभ्योऽनुत्तमा ख्यातिस् तस्या धौरेयका भार-वाहिका शोभा-सम्पत्तिर् यस्याः, माधुर्यम् एव मधु तस्य पान-पात्री ॥८॥
—ओ)०(ओ—
॥ ३.५.९ ॥
अस्या रतिः—
नर्मोक्तौ मम निर्मितोरु-परमानन्दोत्सवायाम् अपि
श्रोत्रस्यान्त-तटीम् अपि स्फुटम् अनाधाय स्थितोद्यन्-मुखी ।
राधा लाघवम् अप्य् अनादर-गिरां भङ्गीभिर् आतन्वती
मैत्री-गौरवतोऽप्य् असौ शत-गुणां मत्-प्रीतिम् एवादधे ॥
श्री-जीवः : स्फुटम् इत्य् अनेनालक्षिततया त्व् आधाय स्थितेति व्यञ्जितम् । उद्यन्-मुखी ऊर्ध्व-दृष्टिः स-प्रणय-गर्वाद् इति भावः । नर्मोक्ताव् इत्य् अस्य लाघवम् इत्य् अनेनाप्य् अन्वयः । भङ्गीभिर् इति व्यञ्जना-वृत्त्या तु गौरवम् एव व्यञ्जयन्तीति व्यञ्जितम् ॥९॥
**मुकुन्द-दासः- **स्फुटम् इत्य् त्व् अनाधाय स्थिता ऊर्ध्व-मुखी विकसन्-मुखी निर्मितेत्य् लक्षणायाम् अपि नर्मोक्तौ भङ्गीभिस् तु लाघवम् अपि । सौभाग्य-गर्वजोऽयं बिब्बोकः । यथा—इष्टेऽपि मान-गर्वाभ्यां बिब्बोकः स्याद् अनादरः इति ॥९॥
**विश्वनाथः : **निर्मित ऊरुर् महान् राधायाः परमानन्दो यया एवम्भूतायाम् अपि मम नर्मोक्तौ श्रोत्रस्यान्त-तटीम् अपि स्फुटम् अनाधाय स्थिता राधा—स्फुटम् इत्य् अनेनालक्षिततया आधाय स्थितेति व्यञ्जितम् । उद्यन्-मुखी ऊर्ध्व-दृष्टिः स-प्रणय-गर्वाद् इति भावः । अनादर-गिरां भङ्गीभिः तादृश-नर्मोक्तौ लाघवम् अपि आतन्वती । तथाप्य् अन्य-भक्त-कृत-मैत्री-गौरवाभ्यां सकाशान् मत्-प्रीतिं शत-गुणाम् असौ राधा आदधे ॥९॥
—ओ)०(ओ—
॥ ३.५.१० ॥
तत्र कृष्ण-रतिर्, यथा श्री-गीत-गोविन्दे (३.१)—
कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् ।
राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥
श्री-जीवः : वस्तुतस् तु सम्यक् सारः संसार इति भावः ॥१०॥
मुकुन्द-दासः- संसार-वासनयाभिलाषेण बन्धाय शृङ्खला निगड-रूपा या ताम् । एतेन श्री-राधायाः सौन्दर्य-वैदग्ध्यादेर् अतिशयित्वं सूचितम् ॥१०॥
**विश्वनाथः : **कंसारिः कंसस्य अरिः । अरि-भावेन संसार-नाशकोऽपि स्वयं संसार-वासनया बद्ध इति विरोधाभासः । वस्तुतस् तु स्वस्य सम्यक् सार-मय-वासनया बद्धा प्रेम-मय-शृङ्खला यस्यास् तां राधां हृदये आधाय ॥१०॥
—ओ)०(ओ—
॥ ३.५.११-१२ ॥
अथ उद्दीपनाः—
उद्दीपना इह प्रोक्ता मुरली-निस्वनादयः ॥
यथा पद्यावल्याम् (१७२)11
गुरु-जन-गञ्जनम् अयशो
गृह-पति-चरितं च दारुणं किम् अपि ।
विस्मारयति समस्तं
शिव शिव मुरली मुरारातेः ॥
न केनापि व्याख्यातम् ।व्याख्यातम्।।
—ओ)०(ओ—
॥ ३.५.१३-१४ ॥
अथ अनुभावाः—
अनुभावास् तु कथिता दृग्-नतेक्षा-स्मितादयः ॥
यथा ललित-माधवे (१.१४)—
कृष्णापङ्ग-तरङ्गित-द्युमणिजा-सम्भेद-वेणी-कृते
राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् ।
अन्तस् तोष-तुषार-सम्प्लव-लव-व्यालीढतापोद्गमाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे ॥
श्री-जीवः : कृष्णापाङ्गेत्य् अत्रापाङ्ग-शब्दोऽपाङ्ग-समीप-देश-वाचकः, शितापाङ्ग-शब्दवत् अपाङ्गौ नेत्रयोर् अस्तौ इत्य् अत्र तत्-समीप-देशेऽपि वाचयितुं शक्यते । नेत्र-बहिर्-भागस्यापि नेत्रान्तः-पातात् । यथोक्तं श्री-गोपाल-स्तवे—नीलेन्दीवर-लोचनम् इति । तत्-तत्-समीप-देश-तद्-एक-देशयोर् अकियात्म्यात् तत्-तरङ्गितस्य द्युमणिजात्वेन रूपकं युक्तम् एव ज्ञेयम् । तरङ्गितेति तु क्यङ्-अर्थ-क्विब्-अन्त-धातोर् भावे निष्ठा ॥१४॥
मुकुन्द-दासः- कृष्ण-दर्शने राधाश्रये दृग्-अन्ते स्मित-चन्द्रैकां दर्शयति—कृष्णं च तत् अपाङ्गयोस् तरङ्गितं भ्रमणं च कृष्णापाङ्ग-तरङ्गितं, तद् एव द्युमणिजा-सम्भेदो यमुना-सङ्गमस् तेन वेणीकृते । तरङ्गितम् इति क्विब्-अन्त-धातोर् भावे निष्ठा ॥१४॥
**विश्वनाथः : ** राधायाः स्मित-चन्द्रैका-रूपा सुरधुनी गङ्गा तस्या पूरे प्रवाहे । कथं-भूते ? श्री-कृष्णस्य अपाङ्ग एव तरङ्गित-द्युमणिजा तरङ्ग-विशिष्ट-यमुना तस्या सम्भेदेन मिलनेन त्रिवेणीकृते तस्मिन् अमृतं जलं निपीय सप्त जगन्ति क्रान्त्वा सप्त-जगद्-अतिक्रमणं कृत्वा सर्वोर्ध्वं वैकुण्ठं अध्यास्महे । वयं कथं-भूताः ? अपाङ्ग-स्वरूप-यमुना-स्मित-रूप-गङ्गयोर् मिलन-माधुर्यं दृष्ट्वा अन्तःकरणे यस् तोष-तुषारः आनन्द-रूप-शीतल-जलं तस्मिन् सम्प्लव-लवेन स्नान-लेशेन व्यालीडा नष्टा नाना-विधाः तापोद्गमा यासां तथा-भूताः ॥१४॥
—ओ)०(ओ—
॥ ३.५.१५ ॥
अथ सात्त्विकाः, यथा पद्यावल्याम् (१८१)—
कामं वपुः पुलकितं नयने धृतास्रे
वाचः स-गद्गद-पदाः सखि कम्पि वक्षः ।
ज्ञातं मुकुन्द-मुरली-रव-माधुरी ते
चेतः सुधांशु-वदने तरलीकरोति ॥
श्री-जीवः : श्रूयमाणं मुरली-रवं लक्षीकृत्य काचिद् आह—कामम् इति ॥१५॥
**मुकुन्द-दासः- **तरलीकरोतीति वर्तमान-सामीप्ये वर्तमानाद् वा ॥१५॥
**विश्वनाथः : **हे चन्द्र-वदने ! तव चेतः मुरली-माधुरी तरलीकरोतीति मया ज्ञातम् । तत्र हेतुः—वपुः पुलकितम् इत्य् आदि ॥१५॥
—ओ)०(ओ—
॥ ३.५.१६-१७ ॥
अथ व्यभिचारिणः—
आलस्यौग्र्ये विना सर्वे विज्ञेया व्यभिचारिणः ॥
तत्र निर्वेदो, यथा पद्यावल्याम् (२२१)—
मा मुञ्च पञ्चशर पञ्च-शरीं शरीरे
मा सिञ्च सान्द्र-मकरन्द-रसेन वायो ।
अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि
नालम्बितुं कथम् अपि क्षमतेऽद्य जीवः ॥
श्री-जीवः : आलस्यौग्र्ये विना इति यथा-क्रमं सम्भोगान्त-प्रिय-सङ्ग-भङ्ग-कराभ्यां अन्यत्र ज्ञेयम् ॥१६॥
मुकुन्द-दासः- आलस्यौग्र्ये विनेति सम्भोगान्ते ग्लानिर् एव, नालस्यं सामर्थ्याब्रह्म्भावात् ॥१६॥
**विश्वनाथः : **सम्भोगान्ते यत् आलस्यं, प्रिय-सङ्ग-भङ्गे या उग्रता, तद्-अतिरिक्ते आलस्यौग्र्ये ॥१६॥ मान-भङ्गानन्तरं कलहान्तरिता काचिद् आह—हे पञ्च-शर कन्दर्प ! हे वायो ! त्वया आनीतेन पुष्प-वाटिका-स्थ-मकरन्द-रस-सम्बन्धि-शैत्य-सौगन्ध्येन मा सिञ्च । अयं मल्-लक्षणो जीवः अङ्गानि आलम्बितुं धर्तुं कथम् अपि न क्षमते । यतस् तस्य प्रणय-भङ्गेत्य् आदि ॥१७॥
—ओ)०(ओ—
॥ ३.५.१८ ॥
हर्षो, यथा दान-केलि-कौमुद्याम् (३४)—
**कुवलय-युवतीनां लेहयन्न् अक्षि-भृङ्गैः
कुवलय-दल-लक्ष्मी-लङ्गिमाः स्वाङ्ग-भासः ।
मद-कल-कलभेन्द्रोल्लङ्घि-लीला-तरङ्गः
कवलयति धृतिं मे क्ष्माधरारण्य-धूर्तः ॥
श्री-जीवः : **कुवलयेति । प्रथमं कुवलयं भू-मण्डलं, द्वितीयं नीलोत्पलम् । अत्र स्वाङ्ग-भासां मधुत्वेन यद् रूपकं न कृतं, अत एव लेहयन्न् इत्य् अस्य पानार्थकास्वादार्थो न विवक्षितः, किन्त्व् आसक्ति-मात्रार्थः । अतः प्रत्यवसान-पर्याय-पान-भोजनार्थत्वाब्रह्म्भावाद् अप्य् अण्य्-अन्त-कर्तॄणाम् अक्षि-भृङ्गाणां ण्य्-अन्त-कर्मकत्वं न कृतं, क्ष्माधरस् तत्र प्रकरण-प्राप्तः श्री-गोवर्धनः, अत एव नायस्यास्य श्री-कृष्णत्वं व्यक्तं । धूर्त-पदम् अत्र नर्मणा प्रयुक्तम् इति रसावहम् । यथा, कितव योषितः कस् त्यजेन् निशि [भा।पु। १०.३१.१६] इत्य् अत्र कितव-पदं प्रणय-कोपोक्तम् इति ॥१८॥
**मुकुन्द-दासः- **प्रथमं कुवलयं भू-मण्डलं, द्वितीयं नीलोत्पलम् । लेहयन्न् इत्य् आस्वादार्थ-लिहेः कण्ठाधः-करण-लक्षण-भोजनार्थाभावात्, गति-बुद्धि-प्रत्यवसानार्थ [पा। १.४.५२] इत्य् आदिना प्रयोज्य-कर्तॄणाम् अक्षि-भृङ्गाणां न कर्मत्वं ॥१८॥
**विश्वनाथः : **क्ष्माधरो गोवर्धनस् तस्यारण्य-स्थः धूर्तः श्री-कृष्णः मम धृतिं कवलयति ग्रसति । कथम्-भूतः ? कुवलयं भू-मण्डलं तत्रस्थानां युवतीनाम् अक्षि-रूप-भृङ्गान् स्वाङ्ग-भासः स्वीयाङ्ग-कान्तीः लेहयन् आस्वादयन् आस्वादनार्थ-लिहेर् भोजनात्मक-प्रत्यवसानार्थत्वं । तेन च गति-बुद्धि-प्रत्यवसानार्थ [पा। १.४.५२] इत्य् आदिना प्रयोज्य-कर्तॄणाम् अक्षि-भृङ्गाणां कर्मत्वं इति । कथं-भूताः ? कुवलय-दलस्य नीलोत्पल-दलस्य या लक्ष्मीः शोभा तत्-तुल्या लङ्गिमा मनोहरता यासां तथा-भूताः । भृङ्ग-रूपकेण स्वाङ्ग-भासाः मधु-रूपकत्वं ध्वन्यते । ततश् च यस्मान् मध्व् एवेदं तस्माद् आस्वादयतेति प्रोत्साह-मयी प्रयोजना गम्यते ॥१८॥
—ओ)०(ओ—
॥ ३.५.१९-२० ॥
अथ स्थायी—
स्थायी भावो भवत्य् अत्र पूर्वोक्ता मधुरा रतिः ॥
यथा पद्यावल्याम् (१५८)—
**भ्रू-वल्लि-ताण्डव-कला-मधुरानन-श्रीः
कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः ।
कोऽयं नवीन-निकषोपल-तुल्य-वेषो
वंशी-रवेण सखि माम् अवशीकरोति ॥
श्री-जीवः : **वल्ली-शब्दस्य ह्रस्वान्तत्वं, नव-नाग-वल्लि-दल-पूग-रसः [शि।व। ९.६५] इति माघ-काव्य-दृष्ट्या, मल्ली-वल्लि-चञ्चत्-परागः [गी।गो। १.३६] इति श्री-गीत-गोविन्दादि-दृष्टि-परम्परया च, भ्रू-युग्मेति वा पठनीयं । नवीन-निकषेति पीताम्बरत्वेन निकषोपल-तुल्य-वेश इत्य् अत्र मध्यपद-लोपित्वाद् वेश-शब्दोऽत्र स्वर्ण-रेखा-स्थानीय-परिधानार्थः । अवशीकरोतीति न विद्यते किञ्चिद् अपि वशं यस्यास् तादृशी-करोति । यद् वा, अवशा स्वतन्त्रा तादृशीकरोति लङ्घित-मर्यादीकरोतीत्य् अर्थः । अभूत-तद्-भावे च्वि-प्रत्ययः । कङ्केल्लिर् अशोकः ॥२०॥
**मुकुन्द-दासः- **वल्ली-शब्दो मल्ली-शब्दवद् बोध्यः । कङ्केल्लिर् अशोकः । नवीन-निकषोपल-तुल्यो वेशः पीताम्बरेणाङ्ग-शोभा यस्य स तादृशः । अवशीकरोति वशा स्वाधीना अवशा पराधीना स्वाधीनीकरोतीत्य् अर्थः । अभूत-तद्-भावे च्वि-प्रत्ययः ॥२०॥
**विश्वनाथः : **वल्ली-शब्दस्य ह्रस्वान्तत्वं, नव-नाग-वल्लि-दल-पूग-रसः [शि।व। ९.६५] इति माघ-काव्य-दृष्ट्या ज्ञेयम् । नवीन-निकषेति पीताम्बरत्वेन निकषोपल-तुल्य-वेश इत्य् अर्थः, मध्य-पद-लोपित्वात् । अवशा अस्वतन्त्रा तादृशीकरोति लङ्घित-मर्यादादि-व्यञ्जितैर् भावैस् तद्-विरोधि-चेष्टा-मयैः । कङ्केल्लिर् अशोकः ॥२०॥
—ओ)०(ओ—
**॥ ३.५.२१ ॥
राधा-माधवयोर् एव क्वापि भावैः कदाप्य् असौ ।
सजातीय-विजातीयैर् नैव विच्छिद्यते रतिः ॥
श्री-जीवः : **राधा-माधवयोर् एव, न तु प्रेयस्य्-अन्तर-माधवयोः । रतिः स-व्याज-व्यतिदर्शनादि-मयी नैव विच्छिद्यते, नावृता स्यात् । कैः सजातीयैस् तत्-प्रेयस्य्-अन्तर-व्यञ्जितैर् विजातीयैस् तद्-वत्सलतादि-व्यञ्जितैर् भावैस् तद्-विरोधि-समीहा-मयैः ॥२१॥
**मुकुन्द-दासः- **राधा-माधवयोर् एव, न तु प्रेयस्य्-अन्तर-माधवयो रतिः स-व्याज-व्यतिदर्शनादि-कार्या नैव विच्छिद्यते, स्व-कार्याद् विश्लेषं न प्रप्नोति । कैः ? सजातीयैर् मधुर-रति-तत्-सुहृदैः, विजातीयैस् तद्-रतेर् विपक्ष-तटस्थैः, क्वापि बीभत्सादाव् अपि देशे कदाचिद् भयानकादाव् अपि काले तद्-भावे ॥२१॥
**विश्वनाथः : **राधा-माधवयोर् एव, न तु प्रेयस्य्-अन्तर-माधवयोः । रतिः स-व्याज-परस्पर-दर्शनादि-मयी नैव विच्छिद्यते, नावृता स्यात् । कैः ? सजातीयैस् तत्-प्रेयस्य्-अन्तर-व्यञ्जितैः, विजातीयैस् तद्-वत्सलतादि-व्यञ्जितैर् भावैस् तद्-विरोधि-समीहा-मयैः ॥२१॥
—ओ)०(ओ—
॥ ३.५.२२ ॥
यथा—
इतो दूरे राज्ञी स्फुरति परितो मित्र-पटली
दृशोर् अग्रे चन्द्रावलिर् उपरि शैलस्य दनुजः ।
असव्ये राधायाः कुसुमित-लता संवृत-तनौ दृग्-
अन्त-श्रीर् लोला तडिद् इव मुकुन्दस्य वलते ॥
श्री-जीवः : राज्ञी व्रज-राज्ञी । दनुजोऽरिष्टः । शैलस्य शिला-समूहस्य । व्रज-द्वार्यास्थानी-रूपतया चितस्य ॥२२॥
**मुकुन्द-दासः- **राज्ञी व्रज-राज्ञी । दनुजोऽरिष्टः । स्फुरतीति सर्वत्र योजनया स्व-स्वानुभावै राज्ञ्य्-आदयो विराजन्ते इत्य् अर्थः । शैलः श्री-राधा-कुण्ड-प्रान्त-स्थोपान्त-लहर्यां वक्ष्यमाणाद् विरुद्ध-प्रीत-रौद्र-युक्ता नेयं वैरस्य-जनिकेति बोध्यम् ॥२२॥
**विश्वनाथः : **राज्ञी व्रज-राज्ञी अदूरे निकटे । दनुजोऽरिष्टासुरः । शैलस्य शिला-समूहस्य । व्रज-द्वार्य् आस्थानीयतया चितस्य । असव्ये वामे राधायां दृग्-अन्त-श्रीर् वलते ॥२२॥
—ओ)०(ओ—
॥ ३.५.२३ ॥
घोरा खण्डित-शङ्खचूडम् अजिरं रुन्धे शिवा तामसी
ब्रह्मिष्ठ-श्वसनः शम-स्तुति-कथा प्रालेयम् आसिञ्चति ।
अग्रे रामः सुधा-रुचिर् विजयते कृष्ण-प्रमोदोचितं
राधायास् तद् अपि प्रफुल्लम् अभजन् म्लानिं न भावाम्बुजम् ॥
श्री-जीवः : भाव-पक्षे खण्डितः शङ्खचूडस् तद्-आख्यो यक्षो यत्र तादृशम् अजिरं क्रीडाङ्गनं । तामसी तमो-गुण-मयी शिवा शृगाल-जातिः । रुन्धे आवृणोति । अम्बुज-पक्षे तत्-प्रति अशिवा अमङ्गला तामसी रात्रिः । एवम् उभयत्र ब्रह्मिष्ठो ब्रह्म-निष्ठो वर्गः स एव श्वसनः इत्य् आदि योज्यम् । क्रमेण तद्-भाव-विरोधिनो भयानक-शान्त-वत्सला दर्शिताः । अम्बुज-विरोधिनश् च रात्रि-प्रालेय-सुधा-रुचयः । तस्माद् यथान्यद् अम्बुजं तत्-तत्-सम्बन्धेन म्लानिं प्राप्नोति तथा तु तद्-ब्रह्म्भावाम्बुजं न प्राप्नोतीति विशेषोक्ति-नामालङ्कारः ॥२३॥
**मुकुन्द-दासः- **खण्डितः शङ्खचूडस् तद्-आख्यो यक्षो यत्र तादृशम् अजिरं कुञ्जाङ्गनं । तामसी तमो-गुण-मयी । शिवा शृगाल-जातिः । रुन्धे आवृणोति । अम्बुज-पक्षे तत्-प्रति अशिवा अमङ्गला तामसी रात्रिः । ब्रह्मिष्ठो ब्रह्म-निष्ठो वर्गः स एव श्वसनः । क्रमेण तद्-भाव-विरोधिनो भयानक-बीभत्स-शान्त-वत्सला दर्शिताः । अम्बुज-विरोधिनश् च रात्रि-हिम-चन्द्रआः । दुर्गन्धि-स्थल अत्र शिवादेर् भयाद्य्-अमननात् तत्-सुखानुभाविकाधिरूढाख्येयं विरुद्ध-शान्तादि-युक्ता न तथा ॥२३॥
**विश्वनाथः : **खण्डितः शङ्खचूडस् तद्-आख्यो यक्षो यत्र तादृशम् अजिरं क्रीडाङ्गनं । तामसी तमो-गुण-मयी । घोरा भयङ्करा शिवा शृगाल-जातिः । रुन्धे आवृणोति । अम्बुज-पक्षे, अशिवा अमङ्गला तामसी रात्रिः । ब्रह्मिष्ठो ब्रह्म-निष्ठो ब्राह्मणआदिः स एव श्वसनः पवनः । शमः शान्तिस् तद्-बोधक-स्तुति-कथा एव प्रालेयं हिम-समूहम् । अग्रे राम एव सुधा-रुचिश् चन्द्रः । तथापि कृष्णस्याभिप्रेत-भाव-कमलं म्लानिं नाभजत् । क्रमेण तद्-भाव-विरोधिनो भयानक-शान्त-वत्सला दर्शिताः । अम्बुज-विरोधिनश् च रात्रि-प्रालेय-सुधा-रुचयः । तस्माद् यथान्यद् अम्बुजं तत्-तत्-सम्बन्धेन म्लानिं प्राप्नोति, तथा तद्-ब्रह्म्भावाम्बुजं नेति विशेषोक्ति-नामालङ्कारः ॥२३॥
—ओ)०(ओ—
॥ ३.५.२४-२७ ॥
स विप्रलम्भ-सम्भोग-भेदेन द्वि-विधो मतः ॥
तत्र विप्रलम्भः—
स पूर्व-रागो मानश् च प्रवासादि-मयस् तथा ।
विप्रलम्भो बहु-विधो विद्वद्भिर् इह कथ्यते ॥
तत्र पूर्व-रागः—
प्राग्-असङ्गतयोर् भावः पूर्व-रागो भवेद् द्वयोः ॥
यथा पद्यावल्याम् (१८१)—
**अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं
व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः ।
स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं
मनो मे व्यालोलं क्वचन गृह-कृत्यो न लगते ॥
श्री-जीवः : **स प्रथमम् उक्तो मधुराख्यो भक्ति-रसः ॥२४॥ प्राग् इत्य् अत्र द्वयोर् इति कान्तायाः पूर्व-रागो भक्ति-रसत्वेनओच्यते—कान्तस्य तु तद्-उद्दीपनत्वेन गम्यते । एवम् उत्तरत्रापि ॥२६॥
**मुकुन्द-दासः- **स प्रथमम् उक्तो मधुराख्यो भक्ति-रसः ॥२४॥ स वलते वल् गतौ ॥२७॥
**विश्वनाथः : **स प्रथमम् उक्तो मधुराख्यो भक्ति-रसः ॥२४॥ यमुना-सम्बन्धि-तटं व्रजन्य्ता मया अकस्माद् एकस्मिन् पथि चलन् स नव-जलधर-श्यामल-तनुर् दृष्टः ॥२७॥
—ओ)०(ओ—
॥ ३.५.२८ ॥
यथा वा, श्री-दशमे (१०.५३.२)—
यथा विनिद्रा यच् चित्ता रुक्मिणी कमलेक्षणा ।
तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि ।
वेदाहं रुक्मिण्या द्वेषान् ममोद्वाहो निवारितः ॥
श्री-जीवः- व्रज-देवीषु श्री-कृष्णस्य पूर्व-रागस् तु जयते तेऽधिकं जन्मना [भा।पु। १०.३१] इत्य् अध्याये तासां मुखेनैव श्रीमन्-मुनिना बहुशोऽपि शरद्-उदाशये इत्य् आदिभिर् वर्णित एव इत्य् अभिप्रेत्य सकृद् उक्तं—श्री-रुक्मिण्याम् एव तं दर्शयति—यथा वेति ॥२८॥
**मुकुन्ददासः- **उज्ज्वल-नीलमणौ व्रज-देवीनां पूर्व-रागं, यथा—एवं क्रमेण विज्ञेयः पूर्व-रागो हरेर् अपि इति अतिदेशेन तासु तस्यापि तथा बोधनीयः । अतोऽत्र नोक्तोऽपि—
नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः ।
कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन ॥ [भा।पु। १०.१५.७] इति ।
धन्येयं इत्य् अत्र गोप्योऽन्तरेण भुजयोर् अपि यत् स्पृहा श्रीः [भा।पु। १०.१५.८] इत्य् आदिषु च ज्ञेयः । रुक्मिण्यां च तं तस्य दर्शयति—यथा वेति ॥२८॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ ३.५.२९-३० ॥
अथ मानः ।
मानः प्रसिद्ध एवात्र ॥
यथा श्री-गीत-गोविन्दे (२.१)—
विहरति वने राधा साधारण-प्रणये हरौ
विगलित-निजोत्कर्षाद् ईऋस्या-वशेन गतान्यतः ।
क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली-
मुखर-निखरे लीना दीनाप्य् उवाच रहः सखीम् ॥
श्री-जीवः : विहरतीत्य् अर्धम् एव मानोदाहरणं द्रष्टव्यम् ॥३०॥
**मुकुन्द-दासः- **विहरतीत्य् अर्धम् एव मानोदाहरणं ज्ञेयम् ॥३०॥
**विश्वनाथः : **श्री-राधान्य-गोपीभिः सह साधारण-प्रणये हरौ वृन्दावने रास-लीलायां विहरति सति साधारण-प्रणयत्वेन विगलितो यो निजोत्कर्षः तस्मात् जाता या ईर्ष्या तद्-वशेन अन्यत्र क्वचिल् लता-कुञ्जे गता, पुनस् तत्रैव लीना सती एकान्ते सखीम् उवाच । लता-कुञ्जे कीदृशे? गुञ्जन्-मधुव्रत-मण्डलीभिर् मुखरः शब्दायमानः शिखरोऽग्र-भागो यस्य तथा-भूते ॥३०॥
—ओ)०(ओ—
॥ ३.५.३१-३२ ॥
अथ प्रवासः—
प्रवासः सङ्ग-विच्युतिः ॥
यथा पद्यावल्याम् (३५०)—
हस्तोदरे विनिहितैक-कपोल-पालेर्
अश्रान्त-लोचन-जल-स्नपिताननायाः ।
प्रस्थान-मङ्गल-दिनावधि माधवस्य
निद्रा-लवोऽपि कुत एव सरोरुहाक्ष्याः ॥
श्री-जीवः, मुकुन्द-दासः- न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **सन्तत-लोचन-जलेन स्नपितम् आननं यस्याः ॥३२॥
—ओ)०(ओ—
॥ ३.५.३३ ॥
यथा प्रह्लाद-संहितायाम् उद्धव-वाक्यम्—
भगवान् अपि गोविन्दः कन्दर्प-शर-पीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्-निशम् ॥
न केनापि व्याख्यातम् ।व्याख्यातम्।
—ओ)०(ओ—
॥ ३.५.३४-३५ ॥
अथ सम्भोगः—
द्वयोर् मिलितयोर् भोगः सम्भोग इति कीर्त्यते ॥
यथा पद्यावल्याम् (१९९)—
परमानुराग-परयाथ राधया
परिरम्भ-कौशल-विकाशि-भावया ।
स तया सह स्मर-सभाजनोत्सवं
निरवाहयच् छिखि-शिखण्ड-शेखरः ॥
श्री-जीवः : परमानुराग इत्य् अस्यान्ते नित्य-स्थितिस् तु व्रज-देवीनां पुर-देवीनां च युगपद् दर्शिता । जयति जननिवासः [भा।पु। १०.९०.४७] इत्य् आदिना ॥३४-३५॥
मुकुन्द-दासः- परमेत्य् अन्ते नित्या स्थितिस् तूज्ज्वल-नीलमणौ द्रष्टव्या ॥३४-३५॥
**विश्वनाथः : **तया राधया सह कन्दर्पस्य सभाजनं सत्कारः सम्माननीयत्वेन स्वीकार इति यावत् तज्-जन्मोत्सवं निरवाहयत् ॥३४-३५॥
—ओ)०(ओ—
**॥ ३.५.३६-३७ ॥
श्रीमद्-भागवताद्य्-अर्ह-शास्त्र-दर्शितया दृशा ।
इयम् आविष्कृता मुख्य-पञ्च-भक्ति-रसा मया ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा पश्चिम-भागे रसाम्बु-निधेः ॥
श्री-जीवः : **श्रीमद् इति । श्रीमद्-भागवतादि-लक्षण-योग्य-शास्त्र-प्रकाशितेन ज्ञानेनेत्य् अर्थः ॥३६॥
**मुकुन्द-दासः- **श्रीमद् इति । श्रीमद्-भागवतादीनि यानि अर्हानि भक्ति-प्रतिपादनात् पूज्यानि शास्त्राणि तैर् दर्शितया दृशा ज्ञानेन ॥३६॥
**विश्वनाथः : **सनातनो नित्य आत्मा श्री-विग्रहो यस्य स श्री-कृष्णः । पक्षे, सनातन-नामा आत्मा आत्मीयो देहो यस्य सः ॥३७॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मधुराख्य-भक्ति-रस-लहरी चतुर्थी ।
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
मुख्य-भक्ति-रस-निरूपकः पश्चिम-विभागः समाप्तः ।
-
११.१९.३६ ↩︎
-
भावार्थ-दीपिका १०.४३.१७ ↩︎
-
Kअर्णामृत? Nओत् फ़ोउन्द् इन् अन्य् ओफ़् थे थ्रेए चेन्तुरिएस्। ↩︎
-
Mइस्तकेन्ल्य् चुत् ओफ़्फ़् हेरे। Pरोबब्ल्य् जुस्त् फ़ोल्लोwस् Jइव। ↩︎
-
Tहिस् अच्तुअल्ल्य् अप्पेअर्स् तो बे अ मिx ओफ़् वेर्सेस् ५०-५१। Cहेच्क् म्य् चोम्मेन्त् इन् Mय्स्तिच् Pओएत्र्य्।। ↩︎
- ↩︎
-
Pरोबब्ल्य् “स” इन् Jइव इस् चोर्रेच्त्। ↩︎
- ↩︎
-
विशाल र्षभ तेजस्विन् देवप्रस्थ वरूथप [भा।पु। १०.२२.३१] ↩︎
-
जुमर-नन्दी-नामा राजा विख्यात-वैयाकरणिकः । सङ्क्षिप्त-सारस्य रसवती-वृत्त्याः रचयिता वा संशोधकः । धातुमालापि अस्यैव कृतिः ॥ ↩︎
-
च्रेदितेद् तो Sअर्व-विद्या-विनोद। ↩︎