श्री-श्री-भक्ति-रसामृत-सिन्धुः
—ओ)०(ओ—
सामान्य-भगवद्-भक्ति-रस-निरूपको
दक्षिण-विभागः
—ओ)०(ओ—
विभावाख्या प्रथम-लहरी
श्री-श्री-राधा-गोविन्द-देवौ विजयेते
**॥ २.१.१ ॥॥ १.१ ॥
प्रबलम् अनन्य-श्रयिणा निषेवितः सहज-रूपेण ।
अघ-दमनो मथुरायां सदा सनातन-तनुर् जयति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **पक्षे—सहज-रूपेण भ्रात्रा रूपेण । अघ-मथनः अपराध-नाशकः ॥१॥
**विश्वनाथः : **प्रबलेति । मथुरायां मथुरा-मण्डले । कृष्ण-पक्षे भूषणाद्य्-अपेक्षां विनैव सहज-रूपेण निषेवितः । पक्षे, मल्-लक्षणेन सहोदर-रूपेण निषेवितः । कथम्भूतेन ? न विद्यते अन्य आश्रयो यस्य तन्-मात्र-वृत्ति-रूपेणेत्य् अर्थः ॥१॥
—ओ)०(ओ—
॥ २.१.२-३ ॥
रसामृताब्धेर् भागेऽस्मिन् द्वितीये दक्षिणाभिधे ।
सामान्य-भगवद्-भक्ति-रसस् तावद् उदीर्यते ॥
अस्य पञ्च लहर्यः स्युर् विभावाख्याग्रिमा मता ।
द्वितीया त्व् अनुभावाख्या तृतीया सात्त्विकाभिधा ।
व्यभिचार्य्-अभिधा तुर्या स्थायि-सञ्ज्ञा च पञ्चमी ॥
न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
**॥ २.१.४-५ ॥
अथास्याः केशव-रतेर् लक्षिताया निगद्यते ।
सामग्री-परिपोषेन परमा रस-रूपता ॥
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः ।
एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥
श्री-जीवः : **विभावैर् इति । एषा श्री-कृष्ण-रतिर् एव स्थायी भावः । सैव च भक्ति-रसो भवेत् । कीदृशी सती ? तत्राह—विभावैर् इति । श्रवणादिभिः कर्तृभिर् विभावादिभिः करणैर् भक्तानां हृदि स्वाद्यत्वम् आनीता सम्यक् प्रापिता चमत्कार-विशेषेण पुष्टेत्य् अर्थः । रतिश् चात्रोपलक्षणम् एव—तेन महा-भाव-पर्यन्तः सर्वोऽपि ग्राह्यः । तस्या एवोत्कर्ष-रूपत्वात् ॥५॥
**मुकुन्दः : **सामग्री-परिपोषणेन ताम् आह—विभावैर् इत्य् आदिना । एषा शुद्ध-सत्त्वेत्य् आदिनोक्ता कृष्ण-रतिर् एव स्थायी तन्-नाम्ना भावो भक्ति-रसो भवेत् । कीदृशी सती ? तत्राह—
विभावैर् इति । श्रवणादिभिः कर्तृभिर् विभावादिभिः करणैर् भक्तानां साधकानां हृदि स्वाद्यत्वं माधुर्यं विशेषम् आनीता सम्यक् प्रापिता आस्वाद-विशेषेण पुष्टेत्य् अर्थः । भक्ति-रसः प्रौढानन्द-चमत्कार-पराकाष्ठात्मा ॥५॥
विश्वनाथः : रति-लक्षणेन लक्षिताया अस्याः केशव-विषय-रतेः । विभावादि-सामग्री-परिपोषणेन परमा रस-रूपता निगद्यते ॥४॥
विभावैर् इति । एषा श्री-कृष्ण-रतिर् एव स्थायी भावः । सैव भक्ति-रसो भवेत् । कीदृशी सती ? तत्राह—विभावैर् इति । श्रवणादिभिः कर्तृभिर् विभावादिभिः करणैर् भक्तानां हृदि स्वाद्यत्वम् आनीता सम्यक् प्रापिता चमत्कार-विशेषेण पुष्टेत्य् अर्थः ॥५॥
—ओ)०(ओ—
**॥ २.१.६ ॥
प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना ।
एष भक्ति-रसास्वादस् तस्यैव हृदि जायते ॥
श्री-जीवः : **यद्यपि रतेर् अस्तित्वेनाधुनिकी वासनास्त्य् एव ।, तथापि रसतापत्तौ प्राक्तनी चावश्यं मृग्यत इत्य् आह—प्राक्तनीति । प्राग्-जन्म-जाता प्राक्तनी । आधुनिकी जन्मन्य् अस्मिन्न् उद्भूता चेति मध्ये तिरोधानापेक्षयैव भेदो विवक्षितः । इदम् अपि प्रायिकम् । तात्पर्यं तु रत्य्-अतिशय एव ज्ञेयम् ॥६॥
मुकुन्दः : सद्-भक्तेः कीर्तन-गानाद्य्-अन्तरङ्ग-भक्तेर् वासना करण-हेतुः संस्कारः । तस्यैव, न तु विजातीय-सङ्गादिना कीर्तन-गानादिकान्य् अङ्गान्य् अकुर्वत इत्य् अर्थः । प्राक्तनाधुनिक-कीर्तनादि-संस्काराभ्याम् एव रती- रसतां न केवलेत्य् अर्थः ॥६॥
**विश्वनाथः : **यद्यपि रतेर् अस्तित्वेनाधुनिकी वासनास्त्य् एव, तथापि स्पष्टतार्थम् उक्तम् । प्राक्तनी वासना तु रत्य्-आस्वादेऽवश्यम् अपेक्षिता । अत एव एकस्मिन्न् एव जन्मनि दैवान् निरपराधैर् गुरु-पादाश्रयणादिभिर् भजनैस् तस्मिन्न् एव जन्मनि रतौ जातायाम् अपि तस्याः आस्वादः, किन्तु जन्मान्तर इति बोध्यम् ॥६॥
—ओ)०(ओ—
**॥ २.१.७-१० ॥
भक्ति-निर्धूत-दोषाणां प्रसन्नोज्ज्वल-चेतसाम् ।
श्री-भागवत-रक्तानां रसिकासङ्ग-रङ्गिणाम् ॥७॥
जीवनी-भूत-गोविन्द-पाद-भक्ति-सुख-श्रियाम् ।
प्रेमान्तरङ्ग-भूतानि कृत्यान्य् एवानुतिष्ठताम् ॥८॥
भक्तानां हृदि राजन्ती संस्कार-युगलोज्ज्वला ।
रतिर् आनन्द-रूपैव नीयमाना तु रस्यताम् ॥९॥
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ।
प्रौढानन्द-चमत्कार-काष्ठाम् आपद्यते पराम् ॥१०॥
श्री-जीवः **: पुनस् तस्यां रसोत्पत्तौ साधनं सहायं प्रकारं चाह—भक्तीति चतुर्भिः । तत्र साधनम् अनुतिष्ठताम् (८) इत्य् अन्तम् । सहायं संस्कार-युगलम् (९अ) प्रकारस् तु रतिर् (९ब्) इत्य् आदिको ज्ञेयः । निर्धूत-दोषत्वाद् एव प्रसन्नत्वं शुद्ध-सत्त्व-विशेषाविर्भाव-योग्यत्वं ततश् चोज्ज्वलत्वं तद्-आविर्भावात् सर्व-ज्ञान-सम्पन्नत्वम् । अनुभवाध्वनि गतैर् इति न तु लौकिक-रसवद् अत्र सत्-कवि-निबद्धतापेक्षेति भावः ॥७-१०॥
**मुकुन्दः **: एतद् एव विस्तार्य दर्शयति—भक्तीति चतुर्भिः । भक्तिर् अन्तर्-बाह्याङ्ग-करण-लक्षणा । दोषा विघ्न-कारणानि । अनेन पूर्व-जन्म-सद्-भक्ति-संस्कारो दर्शितः । निर्धूत-दोषत्वाद् एव प्रसन्नत्वं कृष्णाद्य्-आविर्भाव-योग्यत्वम् । ततश् चोज्ज्वलत्वं तद्-आविर्भावाद् इति द्योतमानत्वम् । प्रेमान्तरङ्ग-भूतानि स्मरणोच्च-कीर्तनादीनि । श्री-भागवतेत्य् आदि चतुर्भिर् विशेषणैर् वर्तमान-जन्म-सद्-भक्ति-संस्कारः । रस्यतां रस-योग्योत्कर्षावस्थां नीयमाना ॥७-१०॥
**विश्वनाथः **: किन्तु प्रेम्णोऽन्तरङ्ग-रूपाणि भावोत्थोऽतिप्रसादोत्थः श्री-हरेर् इति सद्-विधेति पूर्वोक्तानि भावोत्थ-कृत्यानि श्रवणादीन्य् अनुतिष्ठतां शुद्धानां भक्तानां हृदि राजन्ती, अथ च संस्कार-द्वयेन प्राक्तन्य्-आधुनिकी-वासना-द्वयेन उज्ज्वला रतिर् अनुभवाध्वनि गतैः कृष्णादिभिर् विभावाद्यैः रस्यतां नीयमाना सती परां प्रौढानन्द-चमत्कार-काष्ठाम् आपद्यते प्राप्नोति । किन्तु प्रेमा अल्पैर् अपि विभावाद्यैर् अणीयसी विभावनाद्य्-अवस्थां तत्-तद्-आस्वाद्यतां व्रजेत् ॥७-१०॥
—ओ)०(ओ—
**॥ २.१.११ ॥
किन्तु प्रेमा विभावाद्यैः स्वल्पैर् नीतोऽप्य् अणीयसीम् ।
विभावनाद्य्-अवस्थां तु सद्य आस्वाद्यतां व्रजेत् ॥
श्री-जीवः : **किन्त्व् इति प्रेम्णो वैशिष्ट्यं विभावनाद्य्-अवस्थां तत्-तद्-आस्वाद-विशेष-योग्यतावस्थाम् । एवं प्रणय-स्नेहादीनाम् अपि ज्ञेयम् । रतेर् एवोत्कर्ष-रूपा एत इति तद्-ग्रहणेनैव विभावैर् इत्य् आदि-लक्षणे प्रवेश इति भावः । अणीयसीम् अपीति योज्यम् ॥११॥
**मुकुन्दः : **प्रेम्णस् तु वैशिष्ट्यं दर्शयति—किन्त्व् इति । स्वल्पैर् ईषच् छ्रवणादि-मात्रेणेषद्-अनुभूतिः । विभावनाद्य्-अवस्थां विभावादि-कृत-रस-योग्य-तत्-तद्-उत्कर्षाधानम् । अणीयसीम् अपि अतिशयेन सूक्ष्माम् अपि, किम् उत पूर्णैः पुष्टाम् इत्य् अर्थः । स्नेह-प्रणयादीनाम् अवश्यम् उत्तरोत्तरम् उत्कर्षो ज्ञेयः । तत्र रस-भावेन ॥११॥
**विश्वनाथः : **किन्त्व् इति प्रेम्णो वैशिष्ट्यं विभावनाद्य्-अवस्थां तत्-तद्-आस्वाद-विशेष-योग्यतावस्थाम् । एवं प्रणय-स्नेहादीनाम् अपि ज्ञेयम् । रतेर् एवोत्कर्ष-रूपा एत इति तद्-ग्रहणेनैव विभावैर् इत्य् आदि-लक्षणे प्रवेश इति भावः । अणीयसीम् अपीति योज्यम् ॥११॥
—ओ)०(ओ—
॥ २.१.१२-१३ ॥
अत्र विभावादि-सामान्य-लक्षणम्—
ये कृष्ण-भक्त-मुरली-नादाद्या हेतवो रतेः ।
कार्य-भूताः स्मिताद्याश् च तथाष्टौ स्तब्धतादयः ॥
निर्वेदाद्याः सहायाश् च ते ज्ञेया रस-भावने ।
विभावा अनुभावाश् च सात्त्विका व्यभिचारिणः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : तत्र विभावा इति । समानत्वेन लक्षितेषु विभावादिषु चतुःषु मध्ये विभावाः पृथक् लक्ष्यन्ते इत्य् अर्थः ॥१२॥
विश्वनाथः : ये कृष्णाद्या रते रत्य्-आस्वादनस्य हेतव एवं तस्य कार्य-भूताः स्मिताद्यास् तथाष्टौ स्तम्भादयः सात्त्विकाः । निर्वेदादयो व्यभिचारिणो ज्ञेयाः ॥१२-१३॥
—ओ)०(ओ—
॥ २.१.१४ ॥
तत्र विभावाः—
तत्र ज्ञेया विभावास् तु रत्य्-आस्वादन-हेतवः ।
ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥
श्री-जीवः : तत्र विभावा लक्ष्यन्ते इति शेषः । केन ? तदाह—तत्र ज्ञेया इति । हेतुत्वम् अत्र विषयाश्रयत्वेनोद्बोधकत्वेन च ज्ञेयम् । तथैवाह—ते द्विधा इति ॥१४॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.१५ ॥
तद् उक्तम् अग्नि-पुराणे (अलङ्कार, ३.३५)—
विभाव्यते हि रत्य्-आदिर् यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : रत्य्-आदिर् अत्र आदि-ग्रहणात् सप्त हासादि-स्थायिनः ॥१५॥
विश्वनाथः : विभाव्यते हीति हि इति । यत्र भक्तादौ रतिर् विभाव्यते आस्वाद्यते, स आलम्बन-विभावः । येन हेतुना रतिर् विभाव्यते, स उद्दीपनात्मको विभावो ज्ञेयः ॥१५॥
—ओ)०(ओ—
॥ २.१.१६ ॥
तत्र आलम्बनाः—
कृष्णश् च कृष्ण-भक्ताश् च बुधैर् आलम्बना मताः ।
रत्य्-आदेर् विषयत्वेन तथाधारतयापि च ॥
श्री-जीवः : कृष्णश् च कृष्ण-भक्ताश् चेत्य् अत्रायं विवेकः । यम् उद्दिश्य रतिः प्रवर्तते, स विषयः । स च श्री-कृष्ण एवात्र । आधारस् तु रतेर् आश्रयः । स चात्र मूलं रतेः पात्रं गृह्यते, तन् तन्-निष्यन्देन निस्यन्देन ह्य् आधुनिका अपि भक्ताः स्निग्धा भवन्ति । स पुनः स्थापयिष्यमाण-महा-रस-मूर्तिस् तल्-लीला-परिकर-गण एव । अन्यत्राश्रयता तु स्व-स्व-मत्य्-अनुसारेण, ।
तद् एवं द्विविधालम्बन-शालिता च तल्-लीला-परिकराद् अन्येषां, तस्मिन् लीला-परिकर-गणेऽपि परम-मुख्य-मुख्याद् इतरेषां, परम-मुख्य-मुख्यस्य तु केवल-श्री-कृष्णालम्बन-शालिता ज्ञेयेति । रत्य्-आदेर् इत्य् आदि-शब्दाद् गौणा वक्ष्यमाणा हासादयो गृहीताः । रतिश् चात्र सजातीयैव ज्ञेया, । न तु विजातीया, अनुभवैस् तुस् तत्-संस्काराभावात् । विजातीया त्व् अविरोधिनी चेद् उद्दीपन एव तद्-आधारो भवति, न त्व् आलम्बनः । कुतस्तरां विरोधी रत्य्-आश्रय इत्य् अग्रिम-ग्रन्थानुसारेण ज्ञेयम् ॥१६॥
मुकुन्दः : रत्य्-आदेर् इति । आदि-शब्दाद् उचितोद्दीपनानुभाव-व्यभिचारिणां ग्रहणम् । रत्य्-आदेर् विषयत्वेन तथाधारतयापि चेति च इति यथा-योग्य-परस्पर-रत्य्-आदि-भावस्य कदाचिद् विषयाधारा अपि ते आलम्बना इत्य् अर्थः । वक्ष्यमाणलम्बनाद्य्-उदाहरणेष्व् एतद् व्यक्तं भावि । तत्र मधुर-सख्य-रत्योः सजातीयत्वेन । शान्त-दास-वत्सल-रतीनां भिन्न-जातीयत्वेन ते अपरस्पर-विषयाश्रयाः । यथा उज्ज्वल-नीलमणौ—
भावः स्याद् उत्तमादीनां यस्या यावान् प्रिये हरौ ।
तस्यापि तस्यां तावान् स्याद् इति सर्वत्र युज्यते ॥ [उ।नी। ५.९७]
सर्वत्र सर्वस्मिन् रसे । मधुर-प्रेयसोः कृष्ण-कर्तृक-रतेर् अभावात् स्थायि-वैरूप्यं स्यात् । शान्तादिष्व् अपुष्टता । उद्दीपनत्वेन वक्ष्यमाणा भक्ता अविरुद्ध-रतेर् आश्रया ज्ञेयाः॥१६॥
विश्वनाथः : कृष्ण इति । रत्य्-आदेर् विषयत्वेन कृष्ण आलम्बनः । आश्रयत्वेन भक्ता आलम्बना बुधैः मताः सम्मताः ॥१६॥
—ओ)०(ओ—
॥ २.१.१७ ॥
तत्र श्री-कृष्णः—
नायकानां शिरो-रत्नं कृष्णस् तु भगवान् स्वयम् ।
यत्र नित्यतया सर्वे विराजन्ते महा-गुणाः ।
सोऽन्यरूप-स्वरूपाभ्याम् अस्मिन्न् आलम्बनो मतः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : नायकाः परम-व्योमेश्वर-नृसिंह-रघुनाथादयः । सर्वे चतुः-षष्ःतिस् तेभ्य इतरे च ॥१७॥
—ओ)०(ओ—
॥ २.१.१८ ॥
तत्र अन्य-रूपेण, यथा—
हन्त मे कथम् उदेति स-वत्से
वत्स-पाल-पटले रतिर् अत्र ।
इत्य् अनिश्चित-मतिर् बलदेवो
विस्मय-स्तिमित-मूर्तिर् इवासीत् ॥
श्री-जीवः : हन्तेति । अत्र श्री-कृष्णे या रतिः सा कथं वत्स-वत्सपाल-पटले उदेतीत्य् अर्थः । स्तिमितं स्तब्धत्वम् । इवेति वाक्यालङ्कारे ॥१८॥
मुकुन्दः : रतिर् या कृष्ण-विषया सा कथम् उदेतीत्य् अर्थः । इवेति वाक्यालङ्कारे । अत्र वत्सादि-रूपः श्री-कृष्णस्य श्री-बलस्य रतेर् विषयः । स श्री-बल आश्रयः । एतत्-पद्य-श्रवणादिभिर् अनुभूतौ कृष्ण-बलदेवौ साधकस्यालम्बनौ । हरति शितिमा कोऽपि इत्य् आद्य्-उद्दीपनोदाहरणे, उद्दीपनस्य विषयः कृष्णः, भक्त आश्रयः, साधकसोभौ तच्-छ्रवणादिभिर् आलम्बनौ । एवम् अनुभावाद्य्-आश्रय-विषयौ यथा-योग्यं तौ साधकस्यालम्बनौ ज्ञेयौ ॥१८॥
विश्वनाथः : हन्तेति । अत्र श्री-कृष्णे या रतिः सा कथं वत्स-सहिते वत्स-पाल-समूहे उदेतीत्य् अर्थः । स्तिमितत्वं स्तब्धत्वम् । इवेति वाक्यालङ्कारे ॥१८॥
—ओ)०(ओ—
॥ २.१.१९-२० ॥
अथ स्वरूपम्—
आवृतं प्रकटं चेति स्वरूपं कथितं द्विधा ॥
तत्र आवृतम्—
अन्य-वेशादिनाच्छन्नं स्वरूपं प्रोक्तम् आवृतम् ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.१.२१ ॥
तेन, यथा—
मां स्नेहयति किम् उच्चैर्, महिलेयं द्वारकावरोधेऽत्र ।
आं विदितं कुतुकार्थी, वनिता-वेशो हरिश् चरति ॥
श्री-जीवः : माम् इति श्रीमद्-उद्धव-वाक्यम् । उच्चैर् इति । सर्वतः परमं श्री-हरि-योग्यं यथा स्यात् तथेत्य् अर्थः । अत्र प्रमाणं योगमाया-वैभव-दर्शने, यथा—
अव्यक्त-लिङ्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु । क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया ॥ [भा। १०.६९.३६] इति ॥२१॥
मुकुन्दः : माम् इति श्रीमद्-उद्धव-वाक्यम् । उच्चैर् इति सर्वतः परमं श्री-हरि-योग्यं यथा स्यात् तथेत्य् अर्थः ॥२१॥
विश्वनाथः : माम् इति श्रीमद्-उद्धव-वाक्यम् । द्वारकाया अवरोधे अन्तःपुरे । इयं महिला सुन्दरी स्त्रीः । उच्चैर् इति स्नेह-क्रिया-विशेषणम् । तद्-अर्थश् च सर्वतः श्रेष्ठं श्री-हरि-योग्यं यथा स्यात् तथा इत्य् अर्थः । अत्र प्रमाणं योगमाया-वैभव-दर्शने, यथा दशमे—
अव्यक्त-लिङ्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु । क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया ॥ [भा। १०.६९.३६] इति ॥२१॥ —ओ)०(ओ—
॥ २.१.२२ ॥
प्रकट-स्वरूपेण, यथा—
अयं कम्बु-ग्रीवः कमल-कमनीयाक्षि-पटिमा
तमाल-श्यामाङ्ग-द्युतिर् अतितरां छत्रित-शिराः ।
दर-श्री-वत्साङ्कः स्फुरद्-अरि-दराद्य्-अङ्कित-करः
करोत्य् उच्चैर् मोदं मम मधुर-मूर्तिर् मधुरिपुः ॥
श्री-जीवः : अयम् इत्य् अपि तद्-वाक्यम् । कमलैर् अपि कमनीयः अक्षि-पटिमा नेत्रयोः सौन्दर्यातिशयो यस्य सः । तमालवत् श्यामा श्यामलतया विराजन्ती अङ्गस्य द्युतिर् यस्य सः । पाठान्तरं त्यक्तम् । दर ईषद् यत्नाद् एव निरीक्ष्य श्रीवत्स-रूपोऽङ्को लक्षणं यत्र । अरिश् चक्रं, दरः शङ्खः । ताव् एतौ कर-स्थव् अङ्कत्वेन ज्ञेयौ । अतितराम् इति सर्वत्रान्वितम् ॥२२॥
मुकुन्दः : अयम् इति श्री-नारद-वाक्यम् । कमलैः कमनीयोऽक्षि-पटिमा नेत्रयोः सौन्दर्यस्यातिशयो यस्य सः । तमालस्येव श्यामा अङ्ग-द्युतिर् यस्य सः । अतितराम् अतिशयेन प्रशस्तं यथा स्यात् तथा । अति-शब्दः प्रशंसायाम् इति विश्वः । छत्रितं छत्रम् इवाचरितं शिरो यस्य सः । आचारार्थं क्विब्-अन्तान् नाम-धातोः छत्रात् कर्तरि निष्ठा । दर ईषद् यत्नाद् एव निरीक्ष्यः श्रीवत्स-रूपोऽङ्को लक्षणं यत्र सः । अरिश् चक्रं, दरः शङ्खः । आदि-शब्दाद् गदा-पद्मे । स्फुरद्-अरि-दरादिभिर् अङ्किता विशिष्टश् चत्वारः करा यस्य । उच्चैः श्री-नारायणाद् अपि अतिशयं यथा स्यात् तथा । अत्र हर्षस्य विषयः कृष्णः, आश्रयो भक्तः ॥२२॥
विश्वनाथः : अयम् इत्य् उद्धव-वाक्यम् । अयं मधुरिपुः मम मोदं करोति । कीदृशः कमलेभ्योऽपि कमनीयोऽक्षि-पटिमा नेत्रयोः सौन्दर्यातिशयो यस्य सः । तमालस्येव या श्यामा अङ्ग-द्युतिस् तया सहितः समुदितः सम्यग्-उदयं प्राप्तः । अत्रोदित-पदेन कृष्णस्य चन्द्रत्वम् आरोपितम् । तत्र श्याम-द्युति-पदेन अद्भुत-चन्द्रत्वम् आयातं, तेन चाह्लादकत्वं व्यङ्ग्यं भवति । अत उदित-पदस्य नापुष्टार्थकता । छत्राकारं शिरो यस्येति सत्-पुरुष-लक्षणम् । उरसि दर ईषत् श्री-वत्स-रूपोऽङ्कश् चिह्नं यस्य । अरिश् चक्रं, दरः शङ्खः । एतौ करस्थाङ्गत्वेन ज्ञेयौ ॥२२॥
—ओ)०(ओ—
॥ २.१.२३-२९ ॥
अथ तद्-गुणाः—
अयं नेता सुरम्याङ्गः सर्व-सल्-लक्षणान्वितः ।
रुचिरस् तेजसा युक्तो बलीयान् वयसान्वितः ॥२३॥
विविधाद्भुत-भाषा-वित् सत्य-वाक्यः प्रियं वदः ।
वावदूकः सुपाण्डित्यो बुद्धिमान् प्रतिभान्वितः ॥२४॥
विदग्धश् चतुरो दक्षः कृतज्ञः सुदृढ-व्रतः ।
देश-काल-सुपात्रज्ञः शास्त्र-चक्षुः शुचिर् वशी ॥२५॥
स्थिरो दान्तः क्षमा-शीलो गम्भीरो धृतिमान् समः ।
वदान्यो धार्मिकः शूरः करुणो मान्य-मानकृत् ॥२६॥
दक्षिणो विनयी ह्रीमान् शरणागत-पालकः ।
सुखी भक्त-सुहृत् प्रेम-वश्यः सर्व-शुभङ्करः ॥२७॥
प्रतापी कीर्तिमान् रक्त-लोकः साधु-समाश्रयः ।
नारी-गण-मनोहारी सर्वाराध्यः समृद्धिमान् ॥२८॥
वरीयान् ईश्वरश् चेति गुणास् तस्यानुकीर्तिताः ।
समुद्रा इव पञ्चाशद् दुर्विगाहा हरेर् अमी ॥२९॥
श्री-जीवः : अथ तद्-गुणा इति । तत्र गुणा द्वेधा निरूप्यन्ते, प्राधान्येनोपसर्जनत्वेन च । क्वचित् सुरम्याङ्गत्वम् इत्य् आदिना तथा क्वचित् सुरम्याङ्गम् इत्य् आदिना चेति । यत्र प्रथमेन निरूप्यन्ते तत्र तेषाम् उद्दीपनत्वम् । यत्र द्वितीयेन तत्रालम्बनत्वम् । तद् एवम् अत्रालम्बन-प्रकरणे द्वितीयेनैवाह—अयम् इति । अयं श्री-कृष्णाख्यो नेता नायकः ॥२३॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
**॥ २.१.३० ॥
जीवेषु एते वसन्तोऽपि बिन्दु-बिन्दुतया क्वचित् ।
परिपूर्णतया भान्ति तत्रैव पुरुषोत्तमे ॥
श्री-जीवः : **क्वचिद् इति । भगवद्-अनुगृहीतेष्व् इत्य् एव मुख्यतयाङीकृतम् । अत एव बिन्दुत्वम् अपि । अन्येषु तु तद्-आभासत्वम् एव ज्ञेयम् ॥३०॥
**मुकुन्दः : **क्वचिद् इति योग्येष्व् एव । एते द्वित्राः पञ्चषा इत्य् आदि-रूपतया पञ्चाशत् ॥३०॥
**विश्वनाथः : जीवेष्व् इति । **भगवद्-अनुगृहीतेष्व् इत्य् अर्थः । अन्यथा प्राकृत-जीवेषु भगवत्-सम्बन्ध्य्-अप्राकृत-गुणानां बिन्दु-सम्बन्धस्याप्य् असम्भवात् । अत एव प्राकृतेषु तद्-आभासत्वम् एव ज्ञेयम् ॥३०॥
—ओ)०(ओ—
॥ २.१.३१-३२ ॥
तथा हि पाद्मे पार्वत्यै शिति-कण्ठेन तद्-गुणाः ।
कन्दर्प-कोटि-लावण्य इत्य् आद्याः परिकीर्तिताः ॥
एत एव गुणाः प्रायो धर्माय वन-मालिनः ।
पृथिव्या प्रथम-स्कन्धे प्रथयाञ्चक्रिरे स्फुटम् ॥
श्री-जीवः : धर्माय धर्म-रूपं देवं बोधयितुम् इत्य् अर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिनः [पा। २.३.१४] इति स्मरणाच् चतुर्थी ॥३२॥
**मुकुन्दः : **पार्वत्यै पार्वतीं तद्-गुणान् बोधयितुम् इत्य् अर्थः ॥३२॥
विश्वनाथः : वनमालिनः श्री-कृष्णस्य गुणाः पृथिव्या धर्माय प्रथयाञ्चक्रिरे धर्माय धर्म-रूपं देवं बोधयितुम् इत्य् अर्थः । तुम्-अर्थे चतुर्थी ॥३२॥
—ओ)०(ओ—
॥ २.१.३३-३६ ॥
यथा प्रथमे (१.१६.२७-३०)—
**सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥
ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानोऽनहङ्कृतिः ॥
इमे चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **सत्यं शौचम् इति । दया कारुण्यम् । क्षान्तिः । त्यागो वदान्यता । सन्तोषो भक्त-सौहार्दम् । आर्जवं दाक्षिण्यम् । शमो वशित्वम् । दमः । तपो धार्मिकता । साम्यम् । तितिक्षा शरणागतस्यापराध-सहनम् । उपरतिः सद्-एक-पक्षपात-लक्षणा आसक्तिः । श्रुतं प्रतापेन ख्यातिः । ज्ञानं बुद्धिः । विरक्तिः सुखेच्छा-राहित्येन प्रेम-वश्यता लक्ष्यते । ऐश्वर्यं समृद्धिः । शौर्यं तेजः । बलम् । स्मृतिः कृतस्य स्मरणं कृतज्ञता । स्वातन्त्र्यम् ऐश्वरत्वम् । कौशलं दाक्ष्यम् । कान्तिः सुरम्याङ्गत्वं रुचिरत्वम् । धैर्यम्। मार्दवम् प्रियंवदता । प्रागल्भ्यं प्रतिभा । प्रश्रयो विनयः । शीलं लज्जा रक्त-लोकता सुदृढ-व्रतता नारी-गण-मनोहारिता सर्व-शुभङ्करता च । सहो विदग्धता-सुपण्डित्य-देश-काल-सुपात्रज्ञता-रूपं मनः-पाटवम् । ओजः विविधाद्भुत-भाषा-विद्-वावदूक-रूपं ज्ञानेन्द्रिय-पाटवम् । बलं युगपद् भूरि-समाधान-कर्तृत्व-रूपं कर्णेन्द्रिय-चातुर्यम् । भगं सुखम् । गाम्भीर्यम् । स्थैर्यम् । आस्तिक्यं शास्त्र-चक्षुस्त्वम् । कीर्तिमान् सर्वाराध्यता वरीयस्त्वं च । अनहङ्कृतिः अहङ्कार-शून्यत्वम् । तेन मान्यमान-कर्तृत्वं लक्ष्यम् । यत्रेति चरम-कैशोरं वयः । प्रायः-पदात् सर्व-सल्-लक्षणाङ्कित इत्य् अस्याभावः ॥३३-३६॥
—ओ)०(ओ—
॥ २.१.३७ ॥
अथ पञ्च-गुणा ये स्युर् अंशेन गिरिशादिषु ॥
श्री-जीवः : अंशेन यथा-सम्भवं स्वांशेन गिरिशादिषु । आदि-ग्रहणात् क्वचित् द्विपरार्धादौ साक्षाद्-भगवद्-अवतारा ब्रह्मादयो गृह्यन्ते ॥३७॥
मुकुन्दः : अथ पञ्चेति—गिरिशः सदाशिवाख्यः । आदि-शब्दात् शेष-नारदाद्या आवेशावतारा गृहीताः । अंशेन सदाल्पांश-प्रकाशत्वेन ॥३७॥
विश्वनाथः : अंशेन यथा-सम्भव-स्वांशेन गिरिशादिषु सदा-शिवादिषु । आदि-ग्रहणात् क्वचित् द्विपरार्धादौ यदा जीवो न ब्रह्मा किन्तु भगवान् स्वयम् एव ब्रह्मा भवति तदैव भगवद्-अवतार-रूप-ब्रह्मा गृह्यते ॥३७॥
—ओ)०(ओ—
॥ २.१.३८ ॥
सदा स्वरूप-सम्प्राप्तः सर्व-ज्ञो नित्य-नूतनः ।
सच्-चिद्-आनन्द-सान्द्राङ्गः सर्व-सिद्धि-निषेवितः ॥
श्री-जीवः : सच्चिदानन्देति । श्री-भगवत्-पक्षे सच्-चिद्-आनन्द-स्वरूपं च तत् सान्द्रं वस्त्व्-अन्तराप्रवेश्यं चाङ्गं यस्य स इति विग्रहः । शिव-पक्षे सच्-चिद्-आनन्देन श्री-भगवता सान्द्रं तादात्म्यं प्राप्तम् अङ्गं यस्य सः ॥३८॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **सच्चिदानन्देति । श्री-भगवत्-पक्षे सच्-चिद्-आनन्द-स्वरूपं च तत् सान्द्रं वस्त्व्-अन्तर-प्रकाश-रहितम् अङ्गं यस्य स इति विग्रहः । सदा-शिव-पक्षे सच्-चिद्-आनन्देन श्री-भगवता सान्द्रं तादात्म्यापन्नम् अङ्गं यस्य सः ॥३८॥
—ओ)०(ओ—
**॥ २.१.३९-४० ॥
अथोच्यन्ते गुणाः पञ्च ये लक्ष्मीशादि-वर्तिनः ।
अविचिन्त्य-महा-शक्तिः कोटि-ब्रह्माण्ड-विग्रहः ॥
अवतारावली-बीजं हतारि-गति-दायकः ।
आत्माराम-गणाकर्षीत्य् अमी कृष्णे किलाद्भुताः ॥
श्री-जीवः, विश्वनाथः : **अथोच्यन्ते इति युगलम्1 । लक्ष्मीशोऽत्र पर-व्योमाधिनाथः श्री-नारायणः । आदि-शब्दान् महा-पुरुषादयोऽपि गृह्यन्ते । तत्र अविचिन्त्य-महा-शक्तित्वं लक्ष्मीशे ज्ञेयम् । महा-पुरुषाद्य्-अवतार-कर्तृत्वात् । कोटि-ब्रह्माण्ड-व्यापी विग्रहो यस्येति मध्य-पद-लोपी समासः । तन्-मात्र-व्यापि-विग्रहत्वं महा-पुरुषे माया-द्रष्टुस् तस्यैव तद्-उपाधित्वात् । यथा ब्रह्म-संहितायां—
यस्यैक-निश्वसित-कालम् अथावलम्ब्य जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथाः । विष्णुर् महान् स इह यस्य कला-विशेषो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.५९] इति ।
अवतारावली-बीजत्वं पूर्वयोर् द्वयोर् यथा-सम्भवम् अन्यत्र च । गतिः स्वर्गादि-रूपोऽर्थः। स तु भगवद्-द्वेषिणाम् अन्येन केनापि कर्मणा न सम्भवतीति । यथोक्तं गीतासु—
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ [गीता १६.१९] इति ।
आत्माराम-गणाकर्षित्वं श्रीमद्-विकुण्ठासुतादाव् अपि तृतीय-स्कन्धादिषु प्रसिद्धम् । कृष्णे किलाद्भुता इति नर-लीला-मयत्वेनैव तत्-तद्-आविर्भावनात् । किं च, अविचिन्त्येति अवतारेति च स्वयं भगवत्त्वात्, स्वयं भगवत्त्वेऽपि जिज्ञासा चेत् कृष्ण-सन्दर्भो दृश्यः । कोटीति—तानि व्याप्यापि वैकुण्ठादि-व्यापित्वात् । हतेति—मोक्ष-भक्ति-पर्यन्त-गति-दातृत्वाद् अद्भुतत्वं ज्ञेयम् । तद् एवं परम-व्योम-नाथादीन् अतिक्रम्य कृष्णस्यैव विस्मय-कारित्वे स्थिते भवतु नाम गिरिशादिष्व् अंशेन तत्-तद्-गुणत्वं, किन्तु सुतराम् एव श्री-कृष्णानुभविषु न तेषां विस्मय-कारित्वम् इति व्यञ्जितं यथोक्तं—यन् मर्त्य-लीलौपयिकम् [भा।पु। ३.२.२२] इति, गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपम् [भा।पु। १०.४४.१४] इति च ।
अन्यत् सर्वम् उदाहरणे व्यक्तीभविष्यति2 ॥३९-४०॥
**मुकुन्दः : **लक्ष्मीशोऽत्र पर-व्योमेश्वरः श्री-नारायणः । आदिर् मुख्यो येषु तद्-एकात्म-रूपेषु तद्-वर्तिनः । प्राकट्यं तु यथोचितत्वेन ज्ञेयम् । तद् यथा भागवतामृते—
अत्रोच्यते परेशत्वात् पूर्णा यद्यपि तेऽखिलाः । तथाप्य् अखिल-शक्तीनां प्राकट्यं तत्र नो भवेद् ॥ [ल।भा। १.५.८८] इति ।
एषु लक्ष्मीश-नृसिंह-राघवेन्द्र-पूर्णाः । नृषिंह-राम-कृष्णेषु साद्गुण्यं परिपूरितम् । परावस्थास् तु ते तस्य दीपाद् उत्पन्न-दीपवद् इति पाद्मात् । वराह-हयानन-हरि-वैकुण्ठाजित-वामनेषु लक्ष्मीशौपम्येन । अन्येष्व् अंशेनेति च तत्रैव ज्ञेयम् । कोटि-ब्रह्माण्ड-व्यापी विग्रहो यस्येति मध्य-पद-लोपी समासः । गतिः स्वर्गादिः । अमी पञ्च-गुणाः कृष्णेऽद्भुताः अग्रे क्रियमाण-लक्षणास् ते ज्ञेयाः । तत्र गति-दातृत्वं मोक्ष-दातृत्वम् ॥३९-४०॥
—ओ)०(ओ—
॥ २.१.४१-४४ ॥
सर्वाद्भुत-चमत्कार- लीला-कल्लोल-वारिधिः ।
अतुल्य-मधुर-प्रेम-मण्डित-प्रिय-मण्डलः ॥४१॥
त्रिजगन्-मानसाकर्षि-मुरली-कल-कूजितः ।
असमानोर्ध्व-रूप-श्री-विस्मापित-चराचरः ॥४२॥
लीला-प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः ।
इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥४३॥
एवं गुणाश् चतुर्-भेदाश् चतुः-षष्टिर् उदाहृताः ।
सोदाहरणम् एतेषां लक्षणं क्रियते क्रमात् ॥४४॥
श्री-जीवः : सर्वाद्भुतेत्य् आदिकस् तूदाहरणेषु विवेचनीयम् । अतुल्येत्य् आदि-पद-द्वये षष्ठ्य्-अर्थान्य् अपदार्थो बहुव्रीहिः ॥४१॥
अनेन चतुरो गुणान् सङ्क्षिप्य दर्शयति—लीलेति । तत्र लीलेति प्रथमः । प्रेम्णा प्रियाणाम् आधिक्यम् इति तादृश-प्रिय-जन-विराजमानत्वम् इत्य् अर्थः । तच् च द्वितीयः । वेणु-माधुर्यम् इति तृतीयः । रूप-माधुर्यम् इति चतुर्थः । तद् एवं निरूप्यानुभव-विशेषात् प्रौढि-वादेनाह—इत्य् असाधारणम् इति । तद् एवम् अपि, सिद्धान्ततस् त्व् अभेदेऽपि [भ।र।सि। १.२.५९] इत्य् आदौइत्य्-आदौ रसेनोत्कृष्यते कृष्ण-रूपम् इति यद् उक्तं, तत् तूपलक्षणम् एव ज्ञेयम् ॥४३॥
चतुर्भेदा इति । तत्र पञ्चाशत्तम-पर्यन्तः प्रथमः । पञ्च-पञ्चाशत्तम-पर्यन्तो द्वितीयः । षष्ठितम-पर्यन्तस् तृतीयः । चतुःषष्ठितम-पर्यन्तश् चतुर्थ इति भेदो वर्गः । सोदाहरणम् इति—भगवत्तया चमत्कार-कराणि, मनुष्य-लीलया चेति । तत्र भगवत्त्वेऽपि मनुष्य-लीलया चमत्कार-करत्वं—तथापि मर्त्यानुविधस्य वर्ण्यते [भा।पु। १०.५०.२९] इति, प्रपञ्चे निष्प्रपञ्चोऽपि [भा।पु। १०.१४.३७] इत्य् आदि इत्य्-आदि न्यायेन । तथैव वर्णितं पृथिव्या—सत्यं शौचम् [भा।पु। १.१६.२७] इत्य् आदिना । यथा चात्रैव [भ।र।सि। २.१.६१] दर्शयिष्यते । पश्य विन्ध्य-गिरितोऽपि गरिष्ठम् इत्य् आदिभिः ॥४४॥
मुकुन्दः : तान् एव चतुरो गुणान् सङ्क्षिप्य दर्शयति—लीलेति । गोविन्दस्य नन्दनन्दनस्य असाधारणं सर्वाद्भुत-चमत्कारीत्य् आदि विशेषण-विशिष्टं, तस्यैव न तु तद्-एकात्म-रूपाणाम् । तत्-तद्-विशेषणाभावत्वेन त्व् एते गुणा आत्माराम-गणाकर्षीति प्रेम-वश्य इति । विदग्ध इति । रुचिर इत्यीत्य् एतेषु यथा-क्रमं ज्ञेयाः ॥४३॥
चतुर्भेदा इति । भेदो वर्गस् तत्र पञ्चाशद्-आत्मक एकः, पञ्चात्मको द्वितीयः, पुनः पञ्चात्मकस् तृतीयः । चतुरात्मकश् चतुर्थः ॥४४॥
**विश्वनाथः : **सर्वेषाम् अद्भुत-चमत्कारो यत्र एवम्-भूत-लीला-रूप-कल्लोलस्य तरङ्गस्य वारिधिः । अतुल्य-माधुर्य-विशिष्ट-महा-भाव-पर्यन्त-प्रेम्णा मण्डितः प्रिय-मण्डलो भक्त-समूहो येन सः ॥४१॥
अनेन चतुरो गुणान् सङ्क्षिप्य दर्शयति—लीलेति । तत्र लीलेति प्रथमः । प्रेम्णा प्रियाधिक्यम् इति तादृश-प्रिय-जन-विराजमानत्वम् इत्य् अर्थः । तच् च द्वितीयो गुणः । वेणु-माधुर्यम् इति तृतीयः । रूप-माधुर्यम् इति चतुर्थः । तद् एवं निरूप्य स्वानुभव-विशेषाद् एव प्रौढि-वादेनाह—इत्य् असाधारणम् इति । तद् एवम् अपि, सिद्धान्ततस् त्व् अभेदेऽपि [भ।र।सि। १.२.५९] इत्य् आदौइत्य्-आदौ, रसेनोत्कृष्यते कृष्ण-रूपम् इति यद् उक्तं, तत् तु तत्रत्यासाधारण-गुणानाम् अप्य् उपलक्षणं ज्ञेयम् ॥४३॥
चतुर्भेदा इति भेदो वर्गः । तथा च, तत्र पञ्चाशत्तम-गुण-पर्यन्तः प्रथमो वर्गः । तद्-उत्तर-पञ्च-गुणा द्वितीयः । तत्-पश्चाद् उक्त-पञ्च-गुणास् तृतीयः । तद्-अव्यवहितोक्तासाधारण-चतुर्-गुणाश् चतुर्थः । सोदाहरणम् इति—अत्रोदाहरणानि चतुर्भिः प्रमाणैर् लब्धानि । प्रमाण-चतुष्टयेषु मध्ये कुत्रचिच् छास्त्रानुसारेण ज्ञेयम् । कुत्रचिच् छास्त्र-तात्पर्येण । कुत्रचित् तात्पर्यानुसारि-महाजन-प्रसिद्ध्या, कुत्रचिन् महाजन-प्रसिद्ध्य्-अनुसारि-वर्णने च ज्ञेयम् ॥४४॥
—ओ)०(ओ—
॥ २.१.४५-४६ ॥
तत्र (१) सुरम्याङ्गः—
श्लाघ्याङ्ग-सन्निवेशो यः सुरम्याङ्गः स कथ्यते ॥
यथा—
मुखं चन्द्राकारं करभ-निभम् उरु-द्वयम् इदं
भुजौ स्तम्भारम्भौ सरसिज-वरेण्यं कर-युगम् ।
कवाटाभं वक्षः-स्थलम् अविरलं श्रोणि-फलकं
परिक्षामो मध्यः स्फुरति मुरहन्तुर् मधुरिमा ॥
श्री-जीवः : मुखम् इति । यद्यपि पूर्वानुसारेण चन्द्रादयस् तस्य दृष्टान्तता-लेशम् अपि नार्हन्ति, तथापि साधारण-लोकानां तद्-द्वारा तन्-महिम-प्रवेशार्थम् एव ते दृष्टान्तिताः । यत्र तु तद्-अन्तरङ्ग-परिकरैर् अपि तादृशं वर्ण्यते, तत्र साक्षात् भगवद्-विभूति-रूप-तल्-लीला-परिकरा एव चन्द्रादयो दृष्टान्तिता इति सर्वत्र ज्ञेयम् । तद् एतद् अभिप्रेत्यैव तद् अप्य् अनादृत्य केवलानुवादेनैवाह—अविरलम् इत्य् आदि इत्य्-आदि । अविरलम् इति अतिस्थूलत्वाद् विभक्तावयवत्वेन विवेक्तुम् अशक्यम् इत्य् अर्थः ॥४५-४६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **मुखम् इति । मुरहन्तुर् मुखं चन्द्राकारम् । अतस् तस्य मधुरिमा स्फुरति । यद् वा, मुरहन्तुश् चन्द्राकार-मुखम् एव मधुरिमा, स एव स्फुरति । धर्म-धर्मिणोर् अभेद-कथनं तु माधुर्यातिशय-द्योतनाय । यद्यपि पूर्वानुसारेण चन्द्रादयस् तस्य दृष्टान्तता-लेशम् अपि न प्राप्नुवन्ति, तथापि साधारण-लोकानां तद्-द्वारा श्री-कृष्णे चित्त-प्रवेशार्थम् एव दृष्टान्तिताः । यत्र तु श्री-कृष्णे स्वतः-सिद्ध-चित्त-प्रवेशवतीभिः श्री-राधा-चन्द्रावल्य्-आदिभिर् अपि चन्द्रादिकं दृष्टान्तीकृत्य श्री-कृष्णो वर्ण्यते । तत्र कृष्ण-लीला-परिकरा अप्राकृताश् चन्द्रादय एव ताभिर् दृष्टानीकृता इति सर्वत्र ज्ञेयम् । अविरलम् इति तिस्थूलत्वाद् विभक्तावयवत्वेन विवेक्तुम् अशक्यम् इत्य् अर्थः ॥४५-४६॥
—ओ)०(ओ—
॥ २.१.४७-४९ ॥
(२) सर्व-सल्-लक्षणान्वितः—
तनौ गुणोत्थम् अङ्कोत्थम् इति सल्-लक्षणं द्विधा ॥
तत्र गुणोत्थम्—
गुणोत्थं स्याद् गुणैर् योगो रक्तता-तुङ्गतादिभिः ॥
यथा—
**रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता
विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु ।
दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता
द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥
श्री-जीवः : **राग इति । श्रीमद्-व्रजेश्वरं प्रति कस्यचित् सवयसो गोपस्य वाक्यम् इदम् । सप्तसु—नेत्रान्त-पाद-कर-तल-ताल्व्-अधरौष्ठ-जिह्वा-नखेषु । षट्सु—वक्षः-स्कन्ध-नख-नासिका-कटि-मुखेषु । त्रिषु—कटि-ललाट-वक्षःसु । केचित् कटि-स्थाने शिरः पठन्ति । पुनस् त्रिषु ग्रीवा-जङ्घानेहनेषु । पुनस् त्रिषु नाभि-स्वर-सत्त्वेषु । पञ्चसु नासा-भुज-नेत्र-हनु-जानुषु । पुनः पञ्चसु त्वक्-केश-लोम-दन्ताङ्गुलि-पर्वसु । तथैव महा-पुरुष-लक्षणे सामुद्रिक-प्रसिद्धेः । द्वा-त्रिंशद्-वराणि तत्-तल्-लक्षणेभ्यो गोपेभ्योऽन्येभ्योऽपि श्रेष्ठानि लक्षणानि यस्य सः । गोपेषु कथम् इति भगवद्-अवतारादिष्व् अप्य् एतादृशत्वाश्रवणाद् इति भावः ॥४९॥
**मुकुन्दः : **राग इति । श्रीमद्-व्रजेश्वरं प्रति सामुद्रिक-प्रवीणस्योपनन्दस्य वाक्यम् । लघोर् अपि तस्य राज्ये नादरणीयत्वात् सख इति सम्बोधनम् । सप्तसु—नेत्रान्त-पाद-कर-तल-ताल्व्-अधरौष्ठ-जिह्वा-नखेषु । षट्सु—वक्षः-स्कन्ध-नख-नासिका-कटि-मुखेषु । त्रिषु—कटि-ललाट-वक्षःसु । केचित् कटि-स्थाने शिरः पठन्ति । पुनस् त्रिषु ग्रीवा-जङ्घानेहनेषु । पुनस् त्रिषु नाभि-स्वर-सत्त्वेषु । पञ्चसु नासा-भुज-नेत्र-हनु-जानुषु । पुनः पञ्चसु त्वक्-केशाङ्गुलि-दन्ताङ्गुलि-पर्वसु । इति द्वा-त्रिंशद् वराणि शास्त्र-श्रुत-भगवत्-स्वरूपेभ्यः श्रेष्ठत्वेनानुभूयमानानि लक्षणानि यस्य सः ॥४९॥
**विश्वनाथः : **गुणोत्थम् इति । रक्तता-तुङ्गतादिभिर् गुणैर् योगो गुणोत्थं स्याद् इत्य् अर्थः । राग इति । श्रीमद्-व्रजेश्वरं प्रति कस्यचित् सवयसो गोपस्य वाक्यम् इदम् । सप्तसु—नेत्रान्त-पाद-कर-तल-ताल्व्-अधरौष्ठ-जिह्वा-नखेषु । षट्सु—वक्षः-स्कन्ध-नख-नासा-कटि-मुखेषु । त्रिषु—कटि-ललाट-वक्षःसु । पुनस् त्रिषु ग्रीवा-जङ्घा-मेहनेषु । पुनस् त्रिषु नाभि-कण्ठ-स्वरान्तः-करणेषु । पञ्चसु नासा-भुज-नेत्र-हनु-जानुषु । पुनः पञ्चसु त्वक्-केश-रोम-दन्ताङ्गुलि-पर्वसु ॥४९॥
—ओ)०(ओ—
॥ २.१.५०-५१ ॥
अङ्कोत्थम्—
रेखामयं रथाङ्गादि स्याद् अङ्कोत्थं करादिषु ॥
यथा—
**करयोः कमलं तथा रथाङ्गं
स्फुट-रेखामयम् आत्मजस्य पश्य ।
पद-पल्लवयोश् च वल्लवेन्द्र
ध्वज-वज्राङ्कुश-मीन-पङ्कजानि ॥
श्री-जीवः : **करयोर् इति । कस्याश्चिद् वृद्ध-गोप्या वचनम् । उपलक्षणान्य् एतानि चिह्नानि । पद्म-पुराणादि-दृष्ट्यान्यान्य् अप्य् असाधारणानि ज्ञेयानि । तानि च यथा पद्म-पुराणे ब्रह्मोवाच—
शृणु नारद वक्ष्यामि पदयोश् चिह्न-लक्षणम् । भगवन् कृष्ण-रूपस्य ह्य् आनन्दैक-सुखस्य च ॥ अवतारा ह्य् असङ्ख्याताः कथिता मे तवाग्रतः । परं सम्यक् प्रवक्ष्यामि कृष्णस् तु भगवान् स्वयम् ॥ देवानां कार्य-सिद्ध्य्-अर्थम् ऋषीणां च तथैव च । आविर्भूतस् तु भगवान् स्वानां पिर्य-चिकीर्षया ॥ यैर् एव ज्ञायते देवो भगवान् भक्त-वत्सलः । तान्य् अहं वेद नान्योऽपि सत्यम् एतन् मयोदितम् ॥ षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे । दक्षिणेनाष्ट-चिह्नानि इतरे सप्त एव च ॥ ध्वजाः पद्मं तथा वज्रम् अङ्कुशो यव एव च । स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणस् तथैव च ॥ सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम । इन्द्र-चापं त्रिकोणं च कलसं चार्ध-चन्द्रकम् ॥ अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् । अङ्कान्य् एतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥ कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः । द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥ दृश्यन्ते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥ षोडशं तु तथा चिह्नं शृणु देवर्षि-सप्तम् । जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥ इत्य् अन्तम् ।
शास्त्रान्तरेषु तापन्य्-आगम-वाराहादिषु शङ्ख-चक्र-च्छत्राणि च ज्ञेयानि ॥५१॥
**मुकुन्दः : **करयोर् इति भाण्डरि नाम्नः पुरोधस उक्तिः । अन्यान्य् अपि स्वयं भगवतः श्री-कृष्णस्य चिह्नानि ज्ञेयानि । यथा पद्म-पुराणे, ब्रह्मोवाच—शृणु नारद [इत्य् आदि इत्य्-आदि श्री-जीवस्य टीका द्रष्टव्या] इत्य् अन्तं तापन्य्-आगम-वाराहादिभ्यस् तु शङ्ख-चक्र-च्छत्राणि च ज्ञेयानि ॥५१॥
**विश्वनाथः : **करयोर् इति कस्याश्चिद् वृद्ध-गोप्या वचनम् । उपलक्षणान्य् एतानि चिह्नानि । पद्म-पुराणं दृष्ट्वान्यान्य् अप्य् असाधारणानि ज्ञेयानि । तानि, यथा पद्म-पुराणे ब्रह्मोवाच—शृणु नारद [इत्य् आदि इत्य्-आदि श्री-जीवस्य टीका द्रष्टव्या] । तापन्य्-आगम-वाराहादिभ्यस् तु शङ्ख-चक्र-च्छत्राणि ज्ञेयानि ॥५१॥
—ओ)०(ओ—
॥ २.१.५२-५३ ॥
(३) रुचिरः—
सौन्दर्येण दृग्-आनन्द-कारी रुचिर उच्यते ॥
यथा तृतीये (भा।पु। ३.२.१३)—
यद् धर्म-सूनोर् बत राजसूये
निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः ।
कार्त्स्न्येन चाद्येह गतं विधातुर्
अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥
श्री-जीवः : सौन्दर्येण कान्त्या ॥५२॥ विधातुर् वाक् सृतौ यत् कौशलं तद् इह श्री-कृष्ण-सौन्दर्ये कार्त्स्न्येन गतं प्रविष्टम् इत्य् अमन्यत अन्वभूत् । तद् एक-देशान्तर्भूतम् एव तत् सर्वम् इत्य् अर्थः । अमंस्तेति पाठस् तु लिखन-भ्रमाद् एव ॥५३॥
**मुकुन्दः : **सौन्दर्येण कान्त्या ॥५२॥ विधातुर् वाक्-ऋतौ यत् कौशलं तद् इह श्री-कृष्ण-सौन्दर्ये कार्त्स्न्येन गतं प्रविष्टम् इत्य् अमंस्त ॥५३॥
विश्वनाथः : सौन्दर्येण कान्त्या ॥५२॥ तृतीय-स्कन्धे यत् पूर्व-श्लोकोक्तं कृष्ण-स्वरूप-बिम्बं तद् दृशां स्वस्त्य्-अयनं धर्म-सूनोर् युधिष्ठिरस्य राजसूये निरीक्ष्य विधातुर् अर्वाक्-सृतौ यत् कौशलं तद् इह कृष्ण-सौन्दर्ये कार्त्स्न्येन गतं प्रविष्टम् इति त्रिलोकः अमन्यत अन्वभूत् । तद् एक-देशान्तर्भूतम् एव तत् सर्वम् इत्य् अर्थः । तन्-मूर्तेर् विधातृ-सृज्यत्वाभावेऽपि सृष्टिर् इयम् उक्ता ॥५३॥
—ओ)०(ओ—
॥ २.१.५४ ॥
यथा वा—
अष्टानां दनुजभिद्-अङ्ग-पङ्कजानाम्
एकस्मिन् कथम् अपि यत्र बल्लवीनाम् ।
लोलाक्षि-भ्रमर-ततिः पपात तस्मान्
नोत्थातुं द्युति-मधु-पङ्किलात् क्षमासीत् ॥
श्री-जीवः : पूर्वत्र सुरम्याङ्गत्व-मिश्रं रुचिरत्वं वर्णितम् इत्य् अपरितोषात् शुद्धोदाहरणं पुनर् आह—यथा वेति । अष्टानां मुख-नेत्र-युग-नाभि-चरण-युग-कर-युग-रूपाणां, उपलक्षणानि चैतानि अन्येषाम् अङ्गानाम् ॥५४॥
**मुकुन्दः : **अष्टानां मुख-नेत्र-युग-नाभि-चरण-युग-रूपाणाम् ॥५४॥
**विश्वनाथः : **पूर्वत्र सुरम्याङ्गत्व-मिश्रं रुचिरत्वं वर्णितम् । इत्य् अपरितोषात् शुद्धोदाहरणं पुनर् आह—यथा वेति । अष्टानां मुख-नेत्र-युग-नाभि-चरण-युग-कर-युग-रूपाणाम् ॥५४॥
—ओ)०(ओ—
॥ २.१.५५-५७ ॥
(४) तेजसा युक्तः
तेजो धाम प्रभावश् चेत्य् उच्यते द्विविधं बुधैः ॥
तत्र धाम—
दीप्ति-राशिर् भवेद् धाम ॥
यथा—
अम्बर-मणि-निकुरम्बं विडम्बयन्न् अपि मरीचि-कुलैः ।
हरि-वक्षसि रुचि-निविडे मणिराड् अयम् उडुर् इव स्फुरति ॥
श्री-जीवः : अम्बरेति । यद् अप्य् एतद् एव तत्त्वं, तथापि लौकिक-लीला-रक्षणार्थं स्वस्य तस्य च तेजो-गोपनम् अपि करोति श्री-भगवान् इति, सूर्यादि-तेजसाम् अपि तत्र भाणं ज्ञेयम् । नाहं प्रकाशः सर्वस्य योगमाया-समावृतः [गीता ७.२५] इत्य् आद्य् उक्तेः । एवम् अन्यत्रापि । कौस्तुभ-मणिर् उडुर् इवेति वा पाठः ॥५७॥
**मुकुन्दः : **अम्बरेति श्री-नारद-वाक्यम् । योग्य-जनान् विना सर्वत्र श्री-कृष्ण-तत्-परिवार-भूषणादीनां तेजः-प्रकाशाभावात् लौकिक-लीला-रक्षा ॥५७॥
विश्वनाथः : अयं मणि-राट् कौस्तुभः । मरीचि-कुलैर् अम्बर-मणिः सूर्यस् तस्य निकुरम्बं समूहं विडम्बयन् अपि कृष्ण-वक्षसि उडुर् इव स्फुरति । यद्यप्य् एतद् एव तत्त्वं, तथापि लौकिक-लीला-रक्षार्थं स्वस्य तस्य च तेजो-गोपनम् अपि करोति श्री-भगवान् इति सूर्यादि-तेजसाम् अपि तत्र भाणं ज्ञेयम् । नाहं प्रकाशः सर्वस्य योगमाया-समावृतः [गीता ७.२५] इत्य् आद्य् उक्तेः ॥५७॥
—ओ)०(ओ—
॥ २.१.५८-५९ ॥
प्रभावः—
प्रभावः सर्वजित्-स्थितिः ॥
यथा—
दूरतस् तम् अवलोक्य माधवं
कोमलाङ्गम् अपि रङ्ग-मण्डले ।
पर्वतोद्भट-भुजान्तरोऽप्य् असौ
कंस-मल्ल-निवहः स विव्यथे ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : विव्यथे भयेन क्षुभितो बभूव । व्यथो लिटीति सम्प्रसारणम् ॥५९॥
—ओ)०(ओ—
॥ २.१.६०-६१ ॥
(५) बलीयान्—
प्राणेन महता पूर्णो बलीयान् इति कथ्यते ॥
यथा—
पश्य विन्ध्य-गिरितोऽपि गरिष्ठं
दैत्य-पुङ्गवम् उदग्रम् अरिष्टम् ।
तुल-खण्डम् इव पिण्डितम् आरात्
पुण्डरीक-नयनो विनुनोद ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तुल-खण्डम् इव पिण्डितम् अरिष्टासुरम् आराद् दूरे विनुनोद चिक्सेप । तामरसाक्षस्य पद्माक्षस्य श्री-कृष्णस्य वामो भुज-दण्डः ॥६१॥
—ओ)०(ओ—
॥ २.१.६२ ॥
यथा वा—
वामस् तामरसाक्षस्य भुज-दण्डः स पातु वः ।
क्रीडा-कन्दुकतां येन नीतो गोवर्धनो गिरिः ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.१.६३-६४ ॥
(६) वयसान्वितः—
वयसो विविधत्वेऽपि सर्व-भक्ति-रसाश्रयः ।
धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥
यथा—
तदात्वाभिव्यक्तीकृत-तरुणिमारम्भ-रभसं
स्मित-श्री-निर्धूत-स्फुरद्-अमल-राका-पति-मदम् ।
दरोदञ्चत्-पञ्चाशुग-नव-कला-मेदुरम् इदं
मुरारेर् माधुर्यं मनसि मदिराक्षीर् मदयति ॥
श्री-जीवः : वयोऽत्र कौमार-पौगण्ड-कैशोराख्य-त्रयात्मकं क्रम-प्राप्तं ज्ञेयम् । तेनान्वितः सदृश्तया लब्ध इति वयस्-तद्वतोर् द्वयोर् अपि प्रआशस्त्यम् उक्तम् । पश्चात् सादृश्ययोर् अनु इत्य् अमरः । वयस इति धर्माःसर्वे गुणाः सन्त्य् अस्मिन्न् इति धर्मी पूर्णाविर्भाव इत्य् अर्थः । यतः सर्व-भक्ति-रसाश्रयः । अत एव सामान्य-भक्ति-रसे वर्ण्यत इति शेषः ॥६३॥
तथापि शृङ्गाराख्यस्य महा-रसस्य तु परमोद्बोधकं तद् इत्य् आशयेनाह—तदात्वेति, तत्-कालं तु तदात्वं स्यात् इत्य् अमरः ॥६४॥
**मुकुन्दः : **वयसो बाल्यादि-रूपेण विविधत्वेऽपि धर्मी बाल्य-पौगण्ड-धर्मवान् यः किशोरः । अत्र सामान्य-रसे, स एवालम्बनत्वेन निश्चितः । धर्मित्वे हेतुः—सर्वेति । सर्व-भक्तानां ये शान्तादयो रसाः तेषाम् आश्रयः आधारः, अत्रापि हेतुर् नित्येति । नवेनेति पद्यानुसारेण केवल-वात्सल्य-भाजां नव-यौवनेऽपि पौगण्ड-प्रतीतेः किशोर एव वत्सलस्याप्य् आश्रयः ॥६३-६४॥
विश्वनाथः : वयसा अन्वितो युक्तः । धर्मीति धर्माः सर्वे गुणाः सन्त्य् अस्मिन् इति धर्मी पूर्णाविर्भाव इत्य् अर्थः ॥६३॥
तथापि शृङ्गाराख्यस्य महा-रसस्य परमोद्बोधकं तद् इत्य् आशयेनाह—तदात्वेति । मुरारेर् माधुर्यं मदिराक्षीर् मदयति । कीदृशं ? तदात्वे तत्-कालेभिव्यक्तीकृत-तरुणिम् आरम्भे रभसो हर्षो यतः । तत्-कालं तु तदात्वं स्याद् इत्य् अमरः । ईषद् उद्गच्छत् कन्दर्पस्य नव-कलया मेदुरं निविडम् । ईषद्-अर्थे दराव्ययम् इत्य् अमरः । मेदुर-शब्दोऽपि नानार्थः ॥६४॥
—ओ)०(ओ—
॥ २.१.६५-६६ ॥
(७) विविधाद्भुत-भाषा-वित्—
विविधाद्भुत-भाषावित् स प्रोक्तो यस् तु कोविदः ।
नाना-देश्यासु भाषासु संस्कृते प्राकृतेषु च ॥
यथा—
व्रज-युवतिषु शौरिः शौरसेनीं सुरेन्द्रे
प्रणत-शिरसि सौरीं भारतीम् आतनोति ।
अहह पशुषु कीरेष्व् अप्य् अपभ्रंस-रूपां
कथम् अजनि विदग्धः सर्व-भाषावलीषु ॥
श्री-जीवः : च-कारः पश्व्-आदि-भाषाम् अपि गृह्णाति ॥६५॥ व्रज-युवतिष्व् इति । व्रज-स्थ-विदग्ध-वृद्धा-वचनम् । अत्र शौरिर् इति प्राग् अयं वसुदेवस्य [भा।पु। १०.८.१४] इत्य् आदि इत्य्-आदि श्री-गर्ग-वाक्यानुसारेण, तत्र च व्रज-युवतयो मुख्यत्वेनोपलक्षणान्य् एव । व्रज-वासिष्व् इति तु विज्ञेयम् । शौरसेनीं तद्-देश्यां प्राकृत-विशेषं च । प्रायस् तयोर् ऐक्यात् । सौरीं दैवीं संस्कृत-रूपाम् । पशुषु गो-महिष्यादिषु च । कीरेषु काश्मीर-देशीय-मनुष्येषु शुकेषु च । अपभ्रंश-रूपां पैशाचिकाख्य-प्राकृत-विशेषं तत्-तद्-भाषां च यथा-सम्भवम् ॥६६॥
मुकुन्दः : व्रज-युवतिष्व् इति । उपनन्द-सूनोः सुभद्रस्य पत्न्याः कुन्दवल्ली-नाम्न्याः श्री-राधां प्रति वचनम् । तत्र शौरिर् इति प्राग् अयं वसुदेवस्य [भा।पु। १०.८.१४] इत्य्-आदि-गर्ग-वाक्यानुसारेण । शौरसेनीं तद्-देश्यां प्राकृत-विशेषं च प्रायस् तयोर् ऐक्यात् । सौरीं दैवीं संस्कृत-रूपाम् । पशुषु गो-महिष्यादिष्व् अपभ्रंश-रूपां तत्-तद्-भाषाम् । अजनि जातः ॥६६॥
**विश्वनाथः : **च-कारः पश्व्-आदि-भाषाम् अपि गृह्णाति ॥६५॥ व्रज-युवतिष्व् इति । व्रज-स्थ-विदग्ध-वृद्धा-वचनम् । शौरिः श्री-कृष्णः कथं सर्व-भाषावलीषु विदग्धोऽजनि । शौरसेनीं व्रज-प्रभृति-शूरसेन-देशोद्भवां वाणीं सा च प्राकृत-लङ्केश्वर-भाषा विदग्ध-माधवादौ प्रसिद्धा । व्रजस्थ-जनानां भाषा च । प्रनत-शिरसि इन्द्रे सौरीं संस्कृत-लक्षणाम् । तत्र शौरिर् इति प्राग् अयं वसुदेवस्य [भा।पु। १०.८.१४] इत्य्-आदि-गर्गानुसारेण ॥६६॥
—ओ)०(ओ—
॥ २.१.६७-६८ ॥
(८) सत्य-वाक्यः—
स्यान् नानृतं वचो यस्य सत्य-वाक्यः स कथ्यते ॥
यथा—
पृथे तनय-पञ्चकं प्रकटम् अर्पयिष्यामि ते
रणोर्वरितम् इत्य् अभूत् तव यथार्थम् एवोदितम् ।
रविर् भवति शीतलः कुमुद-बन्धुर् अप्य् उष्णलस्
तथापि न मुरान्तक व्यभिचरिष्णुर् उक्तिस् तव ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **पृथ इति । उदितं स्वाभाविक-वचन-मात्रम् ॥६८॥
विश्वनाथः : युद्ध-समाप्त्य्-अनन्तरम् आगतं श्री-कृष्णं प्रति कुन्त्य् आह—पृथ इति ॥६८॥
—ओ)०(ओ—
॥ २.१.६९ ॥
यथा वा—
गूढोऽपि वेषेण मही-सुरस्य
हरिर् यथार्थं मगधेन्द्रम् ऊचे ।
संसृष्टम् आभ्यां सह पाण्डवाभ्यां
मां विद्धि कृष्णं भवतः सपत्नम् ॥
श्री-जीवः : वक्ष्यमाण-सत्य-प्रतिज्ञत्वेन पौनरुक्त्यम् आशङ्क्याह—यथा वेति । संसृष्टं मिलितम् ॥६९॥
मुकुन्दः : आभ्यां सह संसृष्टं युक्तं, अकर्मकत्वात् कर्तरि निष्ठा ॥६९॥
विश्वनाथः : वक्ष्यमाण-सत्य-प्रतिज्ञत्वेन पौनरुक्त्यम् आशङ्क्याह—यथा वेति । महीसुरस्य ब्राह्मणस्य वेशेन गूढोऽपि मगधेन्द्रं जरासन्धम् । आभ्यां पाण्डवाभ्यां संसृष्टं मिलितं मां कृष्णं सपत्नं शत्रुं विद्धि ॥६९॥
—ओ)०(ओ—
॥ २.१.७०-७१ ॥
(९) प्रियंवदः—
जने कृतापराधेऽपि सान्त्व-वादी प्रियंवदः ॥
यथा—
कृत-व्यलीकेऽपि न कुण्डलीन्द्र
त्वया विधेया मयि दोष-दृष्टिः ।
प्रवास्यमानोऽसि सुरार्चितानां
परं हितायाद्य गवां कुलस्य ॥
श्री-जीवः : पीडार्थेऽपि व्यलीकं स्याद् इत्य् अमरः ॥७१॥
मुकुन्दः : व्यलीकम् अप्रियम् । तद् एव प्रवास्यमानत्वेन दर्शितम् ॥७१॥
विश्वनाथः : हे कुण्डनीन्द्र कालिय ! कृत-व्यलीकेऽपि मयि त्वया दोष-दृष्टिर् न विधेया । पीडार्थेऽपि व्यलीकं स्याद् इत्य् अमरः । सुरार्चितानां गवां कुलस्य हिताय त्वां प्रवास्यमानोऽपि स्व-वास-स्थानं ह्रदं विहाय प्रवासं प्रस्थाप्यमानोऽसि ॥७१॥
—ओ)०(ओ—
॥ २.१.७२-७३ ॥
(१०) वावदूकः—
श्रुति-प्रेष्ठोक्तिर् अखिल-वाग्-गुणान्वित-वाग् अपि ।
इति द्विधा निगदितो वावदूको मनीषिभिः ॥
तत्र आद्यो, यथा—
अश्लिष्ट-कोमल-पदावलि-मञ्जुलेन
प्रत्य्-अक्षर-क्षरद्-अमन्द-सुधा-रसेन ।
सख्यः समस्त-जन-कर्ण-रसायनेन
नाहारि कस्य हृदयं हरि-भाषितेन ॥
श्री-जीवः : श्रुतीति । शब्द-माधुरी दर्शिता । अखिलेत्य् अर्थ-परिपाटी ॥७२॥ अश्लिष्टेत्य् आदिकं व्रजेन्द्र-गोष्ठीषु महेन्द्र-मख-भङ्गार्थं श्री-हरि-वचन-हृत-मनस्कायाः कस्याश्चिद् वन्दि-जनाङ्गनायाः स्व-सखीः प्रति वचनम् । तत्राश्लिष्टेत्य् उच्चारण-माधुरी, प्रत्यक्षरेति वर्ण-विशेष-विन्यास-माधुरी, समस्तेति स्वर-माधुरी ॥७३॥
**मुकुन्दः : **श्रुतीति श्रवण-सुखत्वेन । अखिलेति स्वल्पाक्षरैर् बह्व्-अर्थतया च ॥७२॥ अश्लिष्टेति । ऐन्द्रीय-मख-भङ्गार्थं हरि-वचन-हृत-मनस्कायाः कस्याश्चिद् गोपाङ्गनायाः स्व–सखीः प्रति पश्चाद्-वचनम् । अत्राश्लिष्टेति-विशेषणाभ्यां समस्त-जन-कर्ण-रसायनत्वम् एव विवृतम् । तत्राश्लिष्टेति उच्चारणस्य, कोमलेति वर्ण-विन्यासस्य, प्रत्यक्षरेति स्वर-माधुरी ॥७३॥
**विश्वनाथः : **श्रुतेः श्रवणस्य प्रियतमोक्तिर् यस्य सः । एवम् अखिल-वाग्-गुणान्वित-वाग्-युक्तोऽपि । प्रथमे शब्द-माधुरी दर्शिता । द्वितीये चार्थ-परिपाटीति ज्ञेयम् ॥७२॥ अश्लिष्टेत्य् आदिकं व्रजेन्द्र-गोष्ठीषु महेन्द्र-मख-भङ्गार्थं श्री-हरि-वचन-हृत-मनस्कायाः कस्याश्चिद् वन्दि-जनाङ्गनायाः स्व-सखीः प्रति वचनम् । [श्लिष्टम् अविस्पष्ट-वाक्यम्, अश्लिष्ट्ं स्पष्ट-वाक्यम्] तत्राश्लिष्टेत्य् उच्चारण-माधुरी, प्रत्यक्षरेति वर्ण-विशेष-विन्यास-माधुरी, समस्तेति स्वर-माधुरी ॥७३॥
—ओ)०(ओ—
॥ २.१.७४ ॥
द्वितीयो, यथा—
प्रतिवादि-चित्त-परिवृत्ति-पटुर्
जगद्-एक-संशय-विमर्द-करी ।
प्रमिताक्षराद्य-विविधार्थमयी
हरि-वाग् इयं मम धिनोति धियः ॥
श्री-जीवः : प्रतिवादीत्य् आदिकं श्रीमद्-उद्धव-वाक्यम् । अत्र प्रतिवादीत्य् उपन्यास-परिपाटी । जगद् इति युक्ति-परिपाटी । प्रकर्षेण मितानि अव्यर्थानि स-प्रमाणानि वा अक्षराणि यस्याम् इति याथार्थ्य-परिपाटी । विविधः नानोहापोह-समाधान-विचित्रोऽर्थो यस्यां सेति प्रतिभा-परिपाटी च दर्शिता ॥७४॥
**मुकुन्दः : **प्रतिवादीति । राजसूयाय पृष्टस्य हरेर् वचनं श्रुत्वा श्री-युधिष्ठिरस्य वचनम् । धिनोति प्रीणयति, धिवी प्रीणने । विविधार्थतां दर्शयति—प्रतिवादीत्य् अर्धेन । एवं-भूतापि प्रमिताक्षरा ॥७४॥
**विश्वनाथः : **प्रतिवादीत्य् आदिकं श्रीमद्-उद्धव-वाक्यम् । तत्र प्रतिवादीत्य् उपन्यास-परिपाटी । जगद् इति युक्ति-परिपाटी । प्रकर्षेण मितानि स-प्रमाणानि अक्षराणि यस्याम् इति याथार्थ्य-परिपाटी । विविधो नानोहापोह-समाधान-विचित्रोऽर्थो यस्यां सेति प्रतिभा-परिपाटी च दर्शिता ॥७४॥
—ओ)०(ओ—
॥ २.१.७५-७६ ॥
(११) सुपण्डित्यः—
विद्वान् नीतिज्ञ इत्य् एष सुपण्डित्यो द्विधा मतः ।
विद्वान् अखिल-विद्या-विन् नीतिज्ञस् तु यथार्ह-कृत् ॥
तत्र आद्यो, यथा—
यं सुष्ठु पूर्वं परिचर्य गौरवात्
पितामहाद्य्-अम्बुधरैः प्रवर्तिताः ।
कृष्णार्णवं काश्य-गुरु-क्षमा-भूतस्
तम् एव विद्या-सरितः प्रपेदिरे ॥
श्री-जीवः : अखिल-विद्या-विद् इति शास्त्रीय-ज्ञान-मात्रम् उक्तम् । यथार्ह-कृद् इति । तत्रापि कर्तव्येषु निश्चय-ज्ञानं दर्शितम् ॥७५॥
यं सुष्ठ्व् इति श्री-नारद-वाक्यं—काश्यः माथुर-वंशवत् काशी-देशीयोद्भवः सन्दीपनिः ॥७६॥
मुकुन्दः : तम् एवेति । पठित्वागतेन श्री-कृष्णेन मिलनानन्तरं श्रीमद्-उद्धवस्य हर्षेणाक्रूरं प्रति वचनम् । समस्त-विद्या-सरितः काश्य-गुरु-क्ष्मा-भूतः सकाशात् कृष्णार्णवं प्रपेदिरे प्राप्ताः । काश्य काश्यां जातः गुरुः सान्दीपनि-नामा । श्री-कृष्णेन गुरोर् विद्या-पाठो विद्यार्थिनां शिक्षार्थ एवेति बोधयितुं तस्माद् एव गुरोर् अपि सर्व-विद्यानां परम्परया प्राप्तिं दर्शयता विशिष्यते—तम् एवेति । प्रक्रान्तार्थत्वात् तच्-छब्दस्य सापेक्षता ॥७५-७६॥
**विश्वनाथः : **अखिल-विद्या-विद् इति शास्त्रीय-ज्ञानम् उक्तम् । यथार्ह-कृद् इति । तत्रापि कर्तव्येषु निश्चय-ज्ञानं दर्शितम् ॥७५॥
यम् इति श्री-नारद-वाक्यं—पितामहाद्य्-अम्बुधरैर् ब्रह्मादि-स्वरूप-मेघैः । य्ं श्री-कृष्णं परिचर्य विद्या-स्वरूपाः सरितो नद्यः प्रवर्तिताः, काश्य-गुरुः सान्दीपनिस् तत्-स्वरूपां क्ष्मा-भूतः पर्वतात् सकाशात् तं श्री-कृष्ण-रूपार्णवं प्रपेदिरे ॥७६॥
—ओ)०(ओ—
॥ २.१.७७ ॥
यथा वा—
आम्नाय-प्रथितान्वया स्मृतिमती बाढं षड्-अङ्गोज्ज्वला
न्यायेनानुगता पुराण-सुहृदा मीमांसया मण्डिता ।
त्वां लब्धावसरा चिराद् गुरुकुले प्रेक्ष्य स्वसङ्गार्थिनं
विद्या नाम वधूश् चतुर्दश-गुणा गोविन्द शुश्रूयते ॥
श्री-जीवः : आम्नायेति सिद्ध-चारणादीनां स्तुतिः । विद्या-पक्षे आम्नायैश् चतुर्भिर् वेदैः प्रथितो विस्तारितोऽन्वयो व्युत्पत्तिर् यस्याः । स्मृतिर् मन्व्-आदिः ।
शिक्षा कल्पो व्याकरणं ज्योतिषं छन्द एव च । निरुक्तं च निरुक्तानि षड्-अङ्गानि मनीषिभिः ॥
न्यायस् तर्क-शास्त्रम् । पुराणं श्री-भागवतादि । तत्-सहाया मीमांसा पूर्वोत्तर-रूपा । तद् एतद्-अनुसारेण चतुर्दश गुणाः ।
अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः । धर्म-शास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥ इति प्रमाण-प्राप्ताः ।
वधू-पक्षे—आम्नायः सत्-कुलता । अन्वयो वंशः । स्मृतिर् मेधा । षड्-अङ्गानि शिरो-मध्य-भागौ हस्तौ पादौ चेति । न्यायो नीतिः । पुराणा वृद्धा तद्-रूपतया सुहृदः सहाया यस्यां तया मीमांसया विचारेण मण्डिता । गुरुर् अत्र पित्रादिः । तत्-कुले वर्तमानम् इत्य् अर्थः । चतुर्दश तावद्-विद्यात्मका गुणा यस्या इति ॥७७॥
**मुकुन्दः : **गुरु-गृहे नारद-वचनम्—आम्नायेति । विद्या-पक्षे आम्नायैश् चतुर्भिर् वेदैः प्रथितो विस्तारितोऽन्वयो व्युत्पत्तिर् यस्याः । स्मृतिर् धर्म-शास्त्रं—
शिक्षा कल्पो व्याकरणं ज्योतिषं छन्द एव च । निरुक्तं च निरुक्तानि षड्-अङ्गानि मनीषिभिः ॥
न्यायस् तर्क-शास्त्रम् । पुराणं श्री-भागवतादि । मीमांसा पूर्वोत्तर-रूपा । एवं चतुर्दश गुणाः । उक्तं च—
अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः । धर्म-शास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥ इति प्रमाण-प्राप्ताः ।
वधू-पक्षे—आम्नायेन सत्-कुलतया प्रथितः ख्यातः । अन्वयः स्व-पित्रोः श्वशुरयोर् भेदेन चतुर्विधो वंशो यस्याः । स्मृतिर् मेधा । शिरो-मध्य-भागौ हस्तौ पादौ च षड्-अङ्गानि । न्यायो नीतिः । पुराणानां पुरातनानां सुहृदां हित-कर्त्री । हल्न्ताद् वेति टाप् [पा।] अयतिविशेष् मीमांसयेत्य् अस्य विशेषणं, मीमांसया विचारेण । गुरुः पित्रादिस् तत्-कुले वर्तमानम् । एवं चतुर्दश-गुणा यस्याः सेति ॥७७॥
**विश्वनाथः : **आम्नायेति सिद्ध-चारणानां स्तुतिः । विद्या-पक्षे चतुर्दश-शास्त्राण्य् एव गुणा भागा यस्याः सा । आम्नायैश् चतुर्भिर् वेदैः प्रथितो विस्तारितोऽन्वयो व्युत्पत्तिर् यस्याः । स्मृतिर् मन्व्-आदिः ।
शिक्षा कल्पं व्याकरणं ज्योतिषं छन्द एव च । निरुक्तं च निरुक्तानि षड्-अङ्गानि मनीषिभिः ॥
न्यायस् तर्क-शास्त्रम् । पुराणं श्री-भागवतादि । मीमांसा पूर्वोत्तर-रूपा । तद् एतद्-अनुसारेण चतुर्दश गुणाः ।
अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः । धर्म-शास्त्रं पुराणम् इत्य् एतावत्-सङ्ख्याः ।
वधू-पक्षे—आम्नायः सत्-कुलता । अन्वयो वंशः । स्मृतिर् मेधा । षड्-अङ्गानि शिरो-मध्य-भागौ हस्तौ पादौ चेति । न्यायो नीतिः । पुराणा वृद्धाः सुहृदः सहाया यस्यां तया मीमांसया विचारेण मण्डिता । गुरुर् अत्र पित्रादिः । तत्-कुले वर्तमानम् इत्य् अर्थः । चतुर्दश तावद्-विद्यात्मका गुणा यस्या इति ॥७७॥
—ओ)०(ओ—
॥ २.१.७८ ॥
द्वितीयो, यथा—
**मृत्युस् तस्कर-मण्डले सुकृतिनां वृन्दे वसन्तानिलः
कन्दर्पो रमणीषु दुर्गत-कुले कल्याण-कल्प-द्रुमः ।
इन्दुर् बन्धु-गणे विपक्ष-पटले कालाग्नि-रुद्राकृतिः
शास्ति स्वस्ति-धुरन्धरो मधुपुरीं नीत्या मधूनां पतिः ॥
श्री-जीवः : **त्रिभुवनं नीत्या मधूनां पतिर् इत्य् एव पाठोऽत्र योग्यः । महाराजौचित्य-वर्णनात् । अत्र मधुपरीम् इति पुर-द्वयस्योपलक्षणत्वेन द्वारकापि मधूनां पुरी भवतीति, योग-वृत्त्या वा द्वारकापि ज्ञेया ॥७८॥
**मुकुन्दः : **मृत्युर् इति सापराध-मिश्रं प्रति शिक्षार्थं श्री-नारद-वचनम् । “व्रज-कुलं नीत्या व्रजेन्द्रानुजः” इति चतुर्थ-चरणे पाठः । मधुपरीं नीत्या मधूनां पतिर् इति पाठे अन्यस्य वचनम् ॥७८॥
विश्वनाथः : श्री-कृष्णः स्वस्ति-धुरन्धरः स्वस्ति-भावं धरतीत्य् अर्थः । यो नीत्या त्रि-भुवनं शास्ति पालयति । नीति-पूर्वक-शासनम् एवाह—मृत्युर् इति ॥७८॥
—ओ)०(ओ—
॥ २.१.७९-८० ॥
(१२) बुद्धिमान्—
मेधावी सूक्ष्मधीश् चेति प्रोच्यते बुद्धिमान् द्विधा ॥
तत्र मेधावी, यथा—
अवन्ति-पुर-वासिनः सदनम् एत्य सान्दीपनेर्
गुरोर् जगति दर्शयन् समयम् अत्र विद्यार्थिनाम् ।
सकृन् निगद-मात्रतः सकलम् एव विद्या-कुलं
दधौ हृदय-मन्दिरे किम् अपि चित्रवन् माधवः ॥
श्री-जीवः, विश्वनाथः : समयम् आचारं दर्शयन् शिक्षयन् । समयाः शपथाचार-काल-सिद्धान्त-संविदः इति अमर-नानार्थ-वर्गात् ॥८०॥
**मुकुन्दः : **समयम् आचारं दर्शयन् शिक्षयन् । चित्रवत् आलेख्यम् इव ॥८०॥
—ओ)०(ओ—
॥ २.१.८१ ॥
सूक्ष्म-धीः, यथा—
यदुभिर् अयम् अवध्यो म्लेच्छ-राजस् तद् एनं
तरल-तमसि तस्मिन् विद्रवन्न् एव नेष्ये ।
सुखमय-निज-निद्रा-भञ्जन-ध्वंसि-दृष्टिर्
झर-मुचि मुचुकुन्दः कन्दरे यत्र शेते ॥
श्री-जीवः : कथम्-भूते कन्दरे तरल-तमसि तरलं भासुरं वस्त्व्-अन्तराच्छादक-प्रकाशं तमो यत्र तादृशे । मत्-प्रवेश-मात्रेण चञ्चली-भूत-तमसीति वार्थः । तरलश् चञ्चले खड्गे हार-मध्य-मणाव् अपि भासुरे च इति विश्वः । झर-मुचीति निद्रा-सौख्य-सामग्रीणाम् उपलक्षणम् । ताश् च तदीय-योग-प्रभावाद् यथावसरम् एव जायन्त इति ज्ञेयम्। किन्त्व् अत्र नेत्रस्य सूक्ष्म-दर्शित्ववद् बुद्धेर् अपि सूक्ष्म-विचारित्वं ज्ञापितम् । तेन च सहसा न्याय-परामृश्ये वस्तुनि प्रवेशि-बुद्धित्वं सूक्ष्म-धीत्वम् उदाहृतम् ॥८१॥
**मुकुन्दः : **अन्धतमस-व्याप्तं कन्दरं कालयवन-प्रवेशाय विशिनष्टि—तरलं विद्रवणाद् एव चञ्चलं विरलं तमो यस्मिन् तस्मिन् ॥८१॥
**विश्वनाथः : **तत् तस्माद् एनं म्लेच्छ-राजं तरल-तमसि स्वल्पान्धकार-युक्ते झर-मुचि कन्दरेऽहं विद्रवन् सन् नेष्ये । सुखमय-निद्रा-भञ्जकं जनं ध्वंसितुं शीलं यस्या एवम्-भूता दृष्टिर् यस्य स मुकुन्दो यत्र शेते ॥८१॥
—ओ)०(ओ—
॥ २.१.८२-८३ ॥
(१३) प्रतिभान्वितः—
सद्यो नव-नवोल्लेखि-ज्ञानं स्यात् प्रतिभान्वितः ॥
यथा पद्यावल्यां (२८३)—
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोप-वधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : राधा-कृष्णयोर् उत्तर-प्रत्युत्तरम् आह—“हे केशव ! भवतो वासो वसति-स्थानं क्व ?” वस्त्रार्थक-वासः-शब्दम् अभिप्रेत्य श्री-कृष्ण आह—“हे मुग्धेक्षण राधे ! इदं पीताम्बरम्” । “हे शठ ! वासं ब्रूहि” । वास-पदस्य सुगन्धार्थकम् अभिप्रेत्य प्रत्युत्तरम् आह—“यथेष्ट-सुभगे ! त्वदीय-गात्र-संसर्गत एव मम सुगन्धः ।” “हे धूर्त ! यामिन्यां कुत्रोषितः ?” यामिन्या इति तृतीयान्त-पदम् अभिप्रेत्याह—“तनु-रहिता यामिनी किं मुष्णाति मां चोरयति ?” ॥८३॥
—ओ)०(ओ—
॥ २.१.८४-८५ ॥
(१४) विदग्धः—
कला-विलास-दिग्धात्मा विदग्ध इति कीर्त्यते ॥
यथा—
गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेली-क्रमं
वेणुं वादयते स्रजं विरचयत्य् आलेख्यम् अभ्यस्यति ।
निर्माति स्वयम् इन्द्रजाल-पटलीं द्यूते जयत्य् उन्मदान्
पश्योद्दाम-कला-विलास-वसतिश् चित्रं हरिः क्रीडति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **गुम्फतीत्य् अत्र समुच्चयः । बहूनां युगपद् भाव-भाजां गुम्फः समुच्चयः इति तल्-लक्षणम् । अत्र कासाञ्चित् क्रियाणां किञ्चित्-काल-भेदे सम्भवेऽपि, शतपत्र-वेध-न्याये यौगपद्यं वैदग्ध्यातिशय-द्योतनाय विवक्षितम् इति लक्षणानुगतिः ॥८५॥
विश्वनाथः : उन्मदानुद्गताहङ्कारान् द्यूते जयति ॥८५॥
—ओ)०(ओ—
॥ २.१.८६-८७ ॥
(१५) चतुरः—
चतुरो युगपद्-भूरि-समाधान-कृद् उच्यते ॥
यथा—
पारावती-विरचनेन गवां कलापं
गोपाङ्गना-गणम् अपाङ्ग-तरङ्गितेन ।
मित्राणि चित्रतर-सङ्गर-विक्रमेण
धिन्वन्न् अरिष्ट-भयदेन हरिर् विरेजे ॥
श्री-जीवः : पारावती गोप-गीतिः । अरिष्ट-भयदेनेति सर्वत्र योज्यम् ॥८७॥
**मुकुन्दः : **पारावती गोप-गीतिः । अरिष्ट-भयदेनेति त्रयाणां विशेषणं, अस्तिम् अस्यैव वा ॥८७॥
**विश्वनाथः : **पारावती गोप-गीतिः । तथा चारिष्ट-भयदेनेति तद्-गीतेन गवां समूहं धिन्वन् सुखयन् चित्रतर-युद्ध-विक्रमेण मित्राणि धिन्वन् । अरिष्ट-भयदेनेति सर्वत्र योज्यम् । साक्षाद् असुरस्य दर्शने यन्-निःशङ्कतया गानादिकं करोति, अत एव तस्याभय-कारणम् इति बोद्यम् ॥८७॥
—ओ)०(ओ—
॥ २.१.८८-८९ ॥
(१६) दक्षः—
दुष्करे क्षिप्र-कारी यस् तं दक्षं परिचक्षते ॥
यथा श्री-दशमे (१०.५९.१७)—
यानि योधैः प्रयुक्तानि
शस्त्रास्त्राणि कुरूद्वह ।
हरिस् तान्य् अच्छिनत् तीक्ष्णैः
शरैर् एकैक-शस्त्रिभिः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : योधैर् यानि शस्त्रास्त्राणि प्रयुक्तानि तानि एकैकशः एकम् एकं हरिः क्रम-प्रयुक्तैस् तीक्ष्णैस् त्रिभिः शरैर् अच्छिनत् ॥८९॥
—ओ)०(ओ—
॥ २.१.९० ॥
यथा वा—
अघहर कुरु युग्मीभूय नृत्यं मयैव
त्वम् इति निखिल-गोपी-प्रार्थना-पूर्ति-कामः ।
अतनुत गति-लीला-लाघवोर्मिं तथासौ
ददृशुर् अधिकम् एतास् तं यथा स्व-स्व-पार्श्वे ॥
श्री-जीवः, मुकुन्दः : अधिकम् अत्यर्थं निःसंशयं यथा स्यात् तथा ददृशुः ॥९०॥
विश्वनाथः : हे अघहर ! मयैव सह युग्मीभूय नृत्यं कुरु । इत्य् आकारिकायाः प्रत्येकं सर्वासां प्रार्थनायाः पूर्तिकामः श्री-कृष्णस् तथा गति-लीलयोर् लाघवोर्मिं ततान । यथा एता व्रज-सुन्दर्यस् तं स्व-स्व-पार्श्व एवाधिकम् अत्यर्थं निःसंशयं यथा स्यात् तथा ददृशुः ॥९०॥
—ओ)०(ओ—
॥ २.१.९१-९२ ॥
(१७) कृतज्ञः—
कृतज्ञः स्याद् अभिज्ञो यः कृत-सेवादि-कर्मणाम् ॥
यथा महाभारते3—
ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति ।
यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम् ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.९३ ॥
यथा वा—
अनुगतिम् अति-पूर्वं चिन्तयन्न् ऋक्ष-मौलेर्
अकुरुत बहुमानं शौरिर् आदाय कन्याम् ।
कथम् अपि कृतम् अल्पं विस्मरेन् नैव साधुः
किम् उत स खलु साधु-श्रेणि-चूडाग्र-रत्नम् ॥
श्री-जीवः : अनुगतिम् इत्य् अत्रातिपूर्वम् इति साम्प्रतं महापराधम् अप्य् अचिन्तयन्न् इति ध्वन्य्-अर्थः ॥९३॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **ऋक्ष-मौलेर् जाम्बवतोऽनुगतिम् अतिपूर्वां, रामावतारे कृताम् । किम् उत साधु-श्रेणीणाम् चूडाग्र-रत्नं स श्री-कृष्णः ॥९३॥
—ओ)०(ओ—
॥ २.१.९४-९५ ॥
(१८) सुदृढ-व्रतः—
प्रतिज्ञा-नियमौ यस्य सत्यौ स सुदृढ-व्रतः ॥
तत्र सत्य-प्रतिज्ञो, यथा हरि-वंशे (२.६८.३८)4—
**न देव-गन्धर्व-गणा न राक्षसा
न चासुरा नैव च यक्ष-पन्नगाः ।
मम प्रतिज्ञाम् अपहन्तुम् उद्यता
मुने समर्थाः खलु सत्यम् अस्तु ते ॥
श्री-जीवः : **मुने ! हे नारद ! सत्यं शपथ-तथ्ययोर् इत्य् अमरः ॥९५॥
**मुकुन्दः : **न देवेति—मुने ! हे श्री-नारद ! ते तव सत्यं शपथः ॥९५॥
**विश्वनाथः : **एते हन्तुम् उद्यता अपि न समर्थाः । हे मुने नारद तवैव सत्यं शपथम्। सत्यं शपथम् तथ्ययोर् इत्य् अमरः ॥९५॥
—ओ)०(ओ—
॥ २.१.९६ ॥
यथा वा—
**स-हेलम् आखण्डल-पाण्डु-पुत्रौ
विधाय कंसारिर् अपारिजातौ ।
निज-प्रतिज्ञां सफलां दधानः
सत्यां च कृष्णां च सुखाम् अकार्षीत् ॥
श्री-जीवः : **इन्द्र-पक्षे अपारिजातत्वं, पारिजात-राहित्यम् । पाण्डव-पक्षे अपगत-शत्रु-समूहत्वम् । सुखाम् इति । अथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च इत्य् अमर-कोषात् । सुखम् अहम् अस्वाप्सम् इत्य् आदौइत्य्-आदौ त्रियामायां तुल्याधिकरणत्वाद् धर्मि-परत्वेनापि सुख-शब्दस्य दृष्टत्वात् । तच् चार्ष आदित्वान् मन्तव्यम् ॥९६॥
**मुकुन्दः : **आखण्डल इन्द्रः । तत्-पक्षे न विद्यते पारिजातो यस्य । युधिष्ठिर-पक्षे अपगतम् अरि-जातं शत्रु-समूहो यस्य स च । तौ अपारिजातौ । सुखां सुखिनीम् । अथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च इत्य् अमरः । सुखादि-शब्दानां धर्मि-परत्वेऽपि दर्शनात्। तच् चार्ष आदि-मननाद् वा ज्ञेयम् ॥९६॥
**विश्वनाथः : **इन्द्र-पक्षे अपारिजातत्वं, पारिजात-राहित्यम् । पाण्डव-पक्षे अपगत-शत्रु-समूहत्वम् । सत्यां सत्यभामां सुखाम् सुख-विशिष्टाम् इत्य् अर्थः । अथवा शोभनं खं सुखं यस्या इति । खम् इन्द्रियं सुखाकाशे इत्य् एकाक्षर-कोषः ॥९६॥
—ओ)०(ओ—
॥ २.१.९७ ॥
सत्य-नियमो, यथा—
**गिरेर् उद्धरणं कृष्ण दुष्करं कर्म कुर्वता ।
मद्-भक्तः स्यान् न दुःखीति स्व-व्रतं विवृतं त्वया ॥
श्री-जीवः : **सत्य-नियम इति सर्वदातनत्वात् कादाचित्क्याः प्रतिज्ञाया भिद्यतेऽसौ । गिरेर् उद्धरणम् इति महेन्द्र-वाक्यम् ॥९७॥
**मुकुन्दः : **प्रतिज्ञा कादाचित्की । नियमः सदातन इति भेदः । गिरेर् उद्धरणम् इति श्री-नारद-वचनम् ॥९७॥
**विश्वनाथः : **सर्वदातन-नियमः । कादाचित्क-नियमः प्रतिज्ञा इति तयोर् भेदः । गिरेर् उद्धरणम् इति महेन्द्र-वाक्यम् ॥९७॥
—ओ)०(ओ—
॥ २.१.९८-९९ ॥
(१९) देश-काल-सुपात्रज्ञः—
देश-काल-सुपात्रज्ञस् तत्-तद्-योग्य-क्रिया-कृतिः ॥
यथा—
**शरज्-ज्योत्स्ना-तुल्यः कथम् अपि परो नास्ति समयस्
त्रिलोक्याम् आकृईडः क्वचिद् अपि न वृन्दावन-समः ।
न काप्य् अम्भोजाक्षी व्रज-युवति-कल्पेति विमृशन्
मनो मे सोत्कण्ठं मुहुर् अजनि रासोत्सव-रसे ॥
श्री-जीवः : **देश-काल-सुपात्रज्ञ इति देश-काल-ग्रहणं पात्रार्थम् एव कृतम् । ततः पात्रस्यैवात्र प्राधान्यं विवक्षितम् । यतस् तादृश-पात्राभावे देश-कालयोर् अप्य् अकिञ्चित्करत्वम् अभिप्रेतम् । अतः सुशब्दोऽप्य् अत्रैव कृतः । अतः समुदायस्यापेक्षितत्वाद् एक एव गुण उदाहृतः । अन्यत्र तु देशज्ञत्वादिकाः पृथग्-गुणा अपि भवेयुर् इति विवेचनीयम्॥९८॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : मथुरायाम् उद्धवं प्रति श्री-भगवतः स्व-चरित-कथनान्तः-पाति वाक्यम् इदं व्रज-युवति-कल्पेति तत्-तुल्येत्य् अर्थः ॥९९॥
—ओ)०(ओ—
॥ २.१.१००-१०१ ॥
(२०) शास्त्र-चक्षुः—
शास्त्रानुसारि-कर्मा यः शास्त्र-चक्षुः स कथ्यते ॥१००॥
यथा—
अभूत् कंस-रिपोर् नेत्रं
शास्त्रम् एवार्थ-दृष्टये ।
नेत्राम्बुजं तु युवती-
वृन्दान् मादाय केवलम् ॥
श्री-जीवः- अभूद् इति कस्यचित् परिहासोक्तिः । अर्थ-दृष्टये अर्थस्य शुभाशुभत्व-ज्ञानाय ॥१०१॥
**मुकुन्दः- **अभूद् इति श्री-नारद-वाक्यम् । अर्थस्य वस्तुनो दृष्टये शुभाशुभत्व-ज्ञानाय ॥१०१॥
**विश्वनाथः- **अभूद् इति कस्यचित् परिहासोक्तिः । अर्थ-दृष्टये अर्थस्य शुभाशुभत्व-ज्ञानाय । कंस-रिपोः शास्त्रम् एव नेत्रम् अभूत् । तस्य नेत्रम्-कमलं तु युवती-वृन्दोन्मादये केवलम् ॥१०१॥
–ओ)०(ओ–
॥ २.१.१०२-३ ॥
(२१) शुचिः—
पावनश् च विशुद्धेश् चेत्य् उच्यते द्विविधः शुचिः ।
पावनः पाप-नाशी स्याद् विशुद्धस् त्यक्त-दूसणः ॥
तत्र पावनो, यथा पाद्मे—
**तं निर्व्याजं भज गुण-निधे पावनं पावनानां
श्रद्धा-रज्यन्-मतिर् अतितराम् उत्तमः-श्लोक-मौलिम् ।
प्रोद्यन्न् अन्तः-करण-कुहरे हन्त यन्-नाम-भानोर्
आभासोऽपि क्षपयति महा-पातक-ध्वान्त-राशिम् ॥
श्री-जीवः- **तं निर्व्याजम् इति प्रायो धृतराष्ट्रं प्रति श्री-विदुरोपदेशः । नाम्नि चाभासत्वं—नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा, शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् इत्य् अनुसारेण ज्ञेयम् ॥१०३॥
**मुकुन्दः- **तं निर्व्याजम् इति काश्या आगतम् अक्रूरं प्रति उद्धवोक्तिः । नाम्न आभासत्वं साङ्केत्यं परिहास्यं च स्तोभं हेलनम्म् एव वा इत्य् आदि इत्य्-आदि रूपं ज्ञेयम् ॥१०३॥
**
विश्वनाथः- **तं निर्व्याजम् इति प्रायो धृतराष्ट्रं प्रति श्री-विदुरोपदेशः । श्रद्धया शुध्यन्-मतिः सन् तं श्री-कृष्णं निर्व्याजं निष्कपटं यथा स्यात् तथा भज । यस्य नामाभासोऽपि अन्तःकरण-मुकुरे उद्यन् सन् । नाम्नि चाभासत्वं—नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा, शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् इत्य् अनुसारेण ज्ञेयम् ॥१०३॥
**सिद्धान्त-सरस्वती- **हे गुण-निधे ! यन्-नाम-भानोः यद् यस्य भगवतो नाम एव भानुः भास्करः, तस्य नाम-रूपिणः सूर्यस्य आभासः अपराध-रूप-तमोऽतीतः ईषत् प्रकाशः अन्तःकरण-कुहरे चित्त-गह्वरे प्रोद्यन् प्रकटयन् महापातक-ध्वान्त-राशिं महा-पातकम् एव ध्वान्तं तस्य राशिम् अन्धकार-ततिं हन्त क्षपयति दूरीकरोति । तं पावनानां पावनं पवित्री-कुर्वतां तीर्थानाम् अपि पावनं पावित्र्य-करम् उत्तमः श्लोकमौलिम् उत् उद्गच्छति तमः यस्मात् तथाभूतः श्लोकः कीर्तिर् येषां तेषां मौलिं शिरो-भूषणम् । तं श्री-कृष्णं श्रद्धा रज्यन्-मतिः श्रद्धया सुदृढ-विश्वासेन रज्यन्ती उल्लसन्ती राग-मयी मतिः बुद्धिः यस्य तथाभूतः सन्, अतितरां शीघ्रं निर्व्याजं निष्कपटं यथा स्यात् तथा भज ॥ (अनुभाष्य ३.३.६२)
—ओ)०(ओ—
॥ २.१.१०४ ॥
विशुद्धो, यथा—
कपटं च हठश् च नाच्युते
बत सत्राजिति नाप्य् अदीनता ।
कथम् अद्य वृथा स्यमन्तक
प्रसभं कौस्तुभ-सख्यम् इच्छसि ॥
श्री-जीवः : कपटम् इति । सत्राजितम् उद्दिश्य श्रीमद्-उद्धवस्य सोत्प्रासोक्तिः । प्रसभं तु बलात्कारो हठः इत्य् अमर-पाठात् हठ इति पुंस्य् एव । प्रसभम् इति तु अर्श आदित्वेन मन्तव्यम् ॥१०४॥
मुकुन्दः : कपटम् इति सत्राजिन्-निन्दार्थम् उद्धवस्य वचनम् । प्रसभम् अविचारं यथा स्यात् तथा ॥१०४।
विश्वनाथः : सत्राजितम् उद्दिश्य श्रीमद्-उद्धवस्य सोत्प्रासोक्तिः—हे स्यमन्तक ! सत्राजितः सकाशात् त्वां ग्रहीतुं श्री-कृष्णस्य कपटं हठश् च नास्ति । एवं सत्राजिति चादीनता नास्ति । अर्थाद् दीनता वर्तते । तत् कथं सख्यम् इच्छसि ? प्रसभं तु बलात्कारो हठः इत्य् अमर-पाठात् हठ इति पुंस्य् एव । प्रसभम् इति तु अर्श आदित्वेन मन्तव्यम् ॥१०४॥
—ओ)०(ओ—
॥ २.१.१०५-१०६ ॥
(२२) वशी—
वशी जितेन्द्रियः प्रोक्तः ॥
यथा प्रथमे (१.११.३७)—
**उद्दाम-भाव-पिशुनामल-वल्गु-हास-
व्रीडावलोक-निहतो मदनोऽपि यासाम् ।
सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता
यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥
श्री-जीवः : **उद्दामेति । मदनः कामोऽपि उद्भट-भाव-सूचकाभ्यां निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां स्मित-सलज्ज-दृष्टिभ्यां निहतस् तन्-महिम-दर्शनेनोक्तार्थीकृत-स्वास्त्रादि-बलोऽभूत् । अत एव सम्मुह्य चापम् अजहात् । तत्र निजास्त्र-प्रयोगं न कुरुत एवेत्य् अर्थः । तद् एवं भ्रू-पल्लवं धनुर् अपाङ्ग-तरङ्गितानि [गीत-गोविन्द ३.१३]5 इत्य् इत्य्-आदि तन्-महिम-दर्शनार्थम् उत्प्रेक्षा-मात्रम् । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट-प्रेमानन्द-विशेषेण परमोत्कृष्टास् ताःः, स्व-वृन्द एव याः स्वतोऽप्य् उत्कृष्ट-प्रेमवत्यस् प्रेमवत्यः, तासां साम्येच्छया कुहकैस् तादृश-प्रेमाभावेन कपटांश-प्रयुक्तैः सद्भिः कटाक्षादिभिर् यस्येन्द्रियं विमथितुं तद्वद् विशेषेण [मथितुं] न शेकुः, किन्तु स्व-प्रेमानुरूपम् एव शेकुर् इति ॥१०६॥
उद्दामेति । मदनः कामोऽपि उद्भट-भाव-सूचकाभ्यां निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां स्मित-सलज्ज-दृष्टिभ्यां निहतस् तन्-महिम-दर्शनेनोक्तार्थीकृत-स्वास्त्रादि-बलोऽभूत् । अत एव सम्मुह्य चापम् अजहात् । तत्र निजास्त्र-प्रयोगं न कुरुत एवेत्य् अर्थः । तद् एवं भ्रू-पल्लवं धनुर् अपाङ्ग-तरङ्गितानि [गीत-गोविन्द ३.१३] इत्य्-आदि तन्-महिम-दर्शनार्थम् उत्प्रेक्षा-मात्रम् । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट-प्रेमानन्द-विशेषेण परमोत्कृष्टास् ताः, स्व-वृन्द एव याः स्वतोऽप्य् उत्कृष्ट-प्रेमवत्यः, तासां साम्येच्छया कुहकैस् तादृश-प्रेमाभावेन कपटांश-प्रयुक्तैः सद्भिः कटाक्षादिभिर् यस्येन्द्रियं विमथितुं तद्वद् विशेषेण मथितुं न शेकुः, किन्तु स्व-प्रेमानुरूपम् एव शेकुर् इति ॥१०६॥
**मुकुन्दः : **उद्दामेति । यासाम् उद्भट-भाव-सूचकाभ्यां निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां स्मित-सलज्ज-दृष्टिभ्यां निहतो व्यर्थीकृतः स्वास्त्रादि-बलो मदनः कामः सम्मुह्य विस्मयेन मोहं प्राप्य चापम् अजहात् व्यर्थम् अमन्यत । एवम्-प्रभावा याः स्त्रिय इत्य् एतावन्-मात्रं विवक्षितम् । ताः प्रमदोत्तमाः कुहकैः कपटैः कटाक्षादि-विलासैर् यस्येन्द्रियं विमथितुं क्षोभयितुं न शेकुः । आसां समञ्जसाया रतेः सान्द्राया अपि क्वचित् सम्भोगेच्छा विभिद्यते, तद्-उत्थितत्वात् कुहकैर् इत्य् उक्तम् । यथा उज्ज्वल-नीलमणौ—उद्दामेति । यासाम् उद्भट-भाव-सूचकाभ्यां निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां स्मित-सलज्ज-दृष्टिभ्यां निहतो व्यर्थीकृतः स्वास्त्रादि-बलो मदनः कामः सम्मुह्य विस्मयेन मोहं प्राप्य चापम् अजहात् व्यर्थम् अमन्यत । एवम्-प्रभावा याः स्त्रिय इत्य् एतावन्-मात्रं विवक्षितम् । ताः प्रमदोत्तमाः कुहकैः कपटैः कटाक्षादि-विलासैर् यस्येन्द्रियं विमथितुं क्षोभयितुं न शेकुः । आसां समञ्जसाया रतेः सान्द्राया अपि क्वचित् सम्भोगेच्छा विभिद्यते, तद्-उत्थितत्वात् कुहकैर् इत्य् उक्तम् । यथा उज्ज्वल-नीलमणौ—
समञ्जसातः सम्भोग-स्पृहाया भिन्नता यदा । तदा तद्-उत्थितैर् भावैर् वश्यता दुष्करा हरिः ॥ [उ।नी। १४.५०] इति ॥१०६॥
**विश्वनाथः : **उद्दामेति । यासाम् उद्भट-भाव-सूचकाभ्यां निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां स्मित-सलज्ज-दृष्टिभ्यां निहतो मदनः सम्मुह्य चापम् अजहात्, ताः प्रमदोत्तमा यस्य श्री-कृष्णस्य इन्द्रियं कुहकैः कपटैर् मथितुं वशीकर्तुं तद्वद् न शेकुः, प्रेम्णा तु शेकुर् इति बोध्यम् । भ्रू-पल्लवं धनुर् अपाङ्ग-तरङ्गितानि बाणा [गीत-गोविन्द ३.१३] इति श्री-गीत-गोविन्दवद् अत्र तासां महिम-दर्शनार्थम् उत्प्रेक्षा-मात्रम् ॥१०६॥
—ओ)०(ओ—
॥ २.१.१०७-१०८ ॥
(२३) स्थिरः—
आफलोदय-कृत् स्थिरः ॥
यथा,
निर्वेदम् आप न वन-भ्रमणे मुरारिर्
नाचिन्तयद् व्यसनम् ऋक्ष-विलप्रवेशे ।
आहृत्य हन्त मणिम् एव पुरं प्रपेदे
स्याद् उद्यमः कृत-धियां हि फलोदयान्तः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : यः फलोदय-पर्यन्तं करोति स स्थिरः । कृत-धियां पूर्ण-धियां जनानां युग-पर्याप्तयोः कृतम् इत्य् अमरः । पर्याप्तिः पूर्णता ॥१०८॥
—ओ)०(ओ—
॥ २.१.१०९-११० ॥
(२४) दान्तः—
स दान्तो दुःसहम् अपि योग्यं क्लेशं सहेत यः ॥
यथा—
गुरुम् अपि गुरु-वास-क्लेशम् अव्याज-भक्त्या
हरिर् अज-गण-दन्तः कोमलाङ्गोऽपि नायम् ।
प्रकृतिर् अति-दुरूहा हन्त लोकोत्तराणां
किम् अपि मनसि चित्रं चिन्त्यमाना तनोति ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : दुःसहम् अपि क्लेशं योग्यम् इष्ट-साधनं चेद् यः सहेत स दान्तः ॥१०९॥ गुरुम् अतिशयम् अपि गुरु-कुल-वास-क्लेशं हरिर् अन्तर् अन्तः-करणे नाजगणत् न गणयामास । तस्माल् लोकोत्तराणां दुरूहा प्रकृतिः । लोकैश् चिन्त्यमाना सती तेषां मनसि किम् अपि चित्रम् आश्चर्यं तनोति ॥११०॥
—ओ)०(ओ—
॥ २.१.१११-११२ ॥
(२५) क्षमा-शीलः—
क्षमा-शीलोऽपराधानां सहनः परिकीर्त्यते ॥
यथा माघ-काव्ये6 (१६.२५)—
प्रतिवाचम् अदत्त केशवः
शपमानाय न चेदि-भूभृते ।
अनहुङ्कुरुते घन-ध्वनिः
न हि गोमायु-रुतानि केशरी ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : चेदि-भू-भृते शिशुपालाय । केशरी सिंहः । मेघ-ध्वनिम् अनुलक्षीकृत्य हुं कुरुते, न तु शृगाल-रुतानि ॥११२॥
—ओ)०(ओ—
॥ २.१.११३ ॥
यथा वा यामुनाचार्य-स्तोत्रे7 (६०)—
**रघुवर यद् अभूस् त्वं तादृशो वायसस्य
प्रणत इति दयालुर् यच् च चैद्यस्य कृष्ण ।
प्रतिभवम् अपराद्धुर् मुग्ध सायुज्यदोऽभूर्
वद किम् अपदम् आगस् तस्य तेऽस्ति क्षमायाः ॥
श्री-जीवः : **रघुवरेति । पुनर् उदाहरणम् इदं पूर्वस्यावज्ञायाम् एव पर्यवसानं स्यात्, न तु क्ष्मावत्त्वे, घन-ध्वनाव् असहनत्वाद् इति विचार्यम् ॥११३॥
**मुकुन्दः : **रघुवरेति । प्रतिभवम् अपराद्धुर् इत्य् आदिना रघुवराद् अप्य् उत्कर्षो दर्शितः ॥११३॥
**विश्वनाथः : **हे रघुवर ! तादृक् सीतायाः कञ्चुक-स्पर्श-रूपापराध-कृत् यो वायसस् तस्य सम्बन्धेऽयं प्रणतो मम शरणागतो जातः इति बुद्ध्या यत् त्वं दयालुर् अभूः, तथा हे कृष्ण ! प्रतिभवं प्रति-जन्म अपराद्धुः चैद्यस्य यच् च त्वं सुन्दर-सायुज्यदोऽभूः, अतः तस्य ते तव क्षमायाः किम् आगः कोऽपराधः अपदम् अनाश्रयोऽस्ति ? पूर्वस्यावज्ञायाम् एव पर्यवसानम्, इतरस्य तु क्षमावत्त्वे घन-ध्वनाव् असहनत्वाद् इति विचार्यम् । अत्र प्रतिभवम् अपराद्धुर् इत्य् आदिना रघुवराद् अप्य् उत्कर्षो दर्शितः ॥११३॥
—ओ)०(ओ—
॥ २.१.११४-११५ ॥
(२६) गम्भीरः—
दुर्विबोधाशयो यस् तु स गम्भीरः इतीर्यते ॥
यथा—
**वृन्दावने वरातिः स्तुतिभिर् नितराम् उपास्यमानोऽपि ।
शक्तो न हरिर् विधिना रुष्टस् तुष्टोऽथवा ज्ञातुम् ॥
श्री-जीवः : **वृन्दावन इति । तत्-स्तुति-विशेषस्य स्पष्टतार्थ-युक्तम् । रुष्टस् तुष्टो वेति ज्ञातुं न शक्तो शक्यो नाभूत् ॥११५॥
मुकुन्दः : न शक्तः स्तुत्या प्रीतोऽपि तर्कादिना शक्यो नाभूत् ॥११५॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.११६ ॥
यथा वा—
उन्मदोऽपि हरिर् नव्य-राधा-प्रणय-सीधुना ।
अभिज्ञेनापि रामेण लक्षितोऽयम् अविक्रियः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : गोवर्धनोद्धरण-समये उन्मत्तोऽप्य् अयं कृष्णोऽविक्रिय इति रामेण लक्षितः ॥११६॥
—ओ)०(ओ—
॥ २.१.११७-११८ ॥
(२७) धृतिमान्—
पूर्ण-स्पृहश् च धृतिमान् शान्तश् च क्षोभ-कारणे ॥
तत्र **आद्यो—
स्वीकुर्वन्न् अपि नितरां यशः-प्रियत्वं
कंसारिर् मगध-पतेर् वध-प्रसिद्धाम् ।
भीमाय स्वयम् अतुलाम् अदत्त कीर्तिं
किं लोकोत्तर-गुण-शालिनाम् अपेक्ष्यम् ॥
श्री-जीवः : **पूर्णेति । धृतिर् मनः-संयमनं तद्वान् तत्र पूर्णा सर्व-स्पृहणीय-लाभात् कृतार्था स्पृहा यस्य स पूर्ण-स्पृहः । पूर्ण-स्पृहताकारणक-धृत्या युक्त इत्य् अर्थः । शान्त इति पूर्ण-स्पृहत्वाभावेऽपि धृत्या क्षोभाव्याप्त इत्य् अर्थः ॥११७॥
स्वीकुर्वन्न् इति । पूर्ण-स्पृहस् त्वम् अत्र लोकोत्तर-गुण-शालित्वेन लभ्यते । तत्र च सति भीमाय यशोदाने निरुपाधितया स्निग्ध-स्वभावत्वम् अपि लभ्यते । यद् विना सर्वेऽप्य् अन्ये गुणा जनाय अरोचमानाः स्वरूपाद् भ्रश्यन्ति । ततश् चोप्यसन्न-मात्रेषु तस्य निरुपाधितया स्निग्धत्वे लब्धे निरुपाधि-भक्तेषु सुतराम् एव तादृशत्वं स्यात्, तत्-सुखार्थम् एव यशः-प्रियत्वम् अप्य् उद्भवति । ते हि तद्-यशसा अधिकम् आनन्दं यान्ति । तद् एवं स्थिते तेषु निज-यशश् च सङ्क्रमयति न इत्य् अतो यशः-श्रियत्वेऽपि पूर्ण-स्पृहत्वम् एव सेषिध्यत इति ॥११८॥
**मुकुन्दः : **धृतिमान् इति । धृतिर् मनोऽचलनं तद्वान् । पूर्णा सर्व-स्पृहणीय-लाभात् कृतार्था स्पृहा यस्य स पूर्ण-स्पृहः ॥११७॥
भक्ता मम यशसि रमन्ते । तद्-अर्थं यशः-प्रियत्वं स्वीकुर्वन्न् अपि, मद्-भक्तानां विनोदाय करोमि विविधाः क्रियाः इत्य्-आदि-वचनात् स्वतः-पूर्ण-स्पृहत्वं व्यकम् एव । भक्तार्थायाः कीर्तेः भक्ताय निरुपाधिकतया दानेन तस्या प्रत्युताधिक्यं स्याद् इति कीर्तिमत्त्वं च ॥११८॥
**विश्वनाथः : **पूर्ण-स्पृहश् च धृतिमान् । एवं क्षोभ-कारणे सत्यश् च शान्तश् च धृतिमान् ॥११७॥ यशसः प्रियत्वं स्वीकुर्वन्न् अपि कंसारिर् जरासन्धस्य वधे प्रसिद्धाम् अतुलां कीर्तिम् ॥११८॥
—ओ)०(ओ—
॥ २.१.११९ ॥
द्वितीयो, यथा—
**निन्दितस्य दम-घोष-सूनुना
सम्भ्रमेण मुनिभिः स्तुतस्य च ।
राजसूय-सदसि क्षितीश्वरैः
कापि नास्य विकृतिर् वितर्किता ॥
श्री-जीवः : **निन्दितस्येति । अत्रेदम् एवोदाहरणम्, न तु स्मभ्रमेणेत्य् आपि । परत्र खलु गाम्भीर्यम् एव लक्ष्यते । मुनयो ह्य् अत्र भक्तास् तत्-कृतस् तवादन्तर्बहिः-सुख-प्राप्तिर् अस्त्य् एव । गाम्भीर्य-धृत्योः खलु आवृतत्वासत्त्वाभ्याम् एव भेद इति ॥११९॥
**मुकुन्दः : **मुनयो ज्ञान-निष्ठाः । आन्तरस्यापि क्षोभ-लेशस्याभावात् कापीति । गाम्भीर्योदाहरणाद् अत्र महान् विशेषः । तत्र ब्रह्मारामाभ्याम् अपि क्षोभेऽप्य् अक्षोभ-मननात् ॥११९॥
विश्वनाथः : अस्य कृष्णस्य विकृतिर् निन्दोत्थ-क्रोधादि-विकारः । एवं स्तुत्य्-उत्थ-सन्तोषादि-विकारश् च क्षितीश्वरैर् न वितर्किता । पूर्वत्र गम्भीर-लक्षणे तस्यान्तःकरणे कन्दर्प-भावो जातः । किन्तु बलदेवेन ज्ञातुम् अशक्यः । अत्र क्रोध-हर्षादय एव न जाता इति भेदो बोध्यः ॥११९॥
—ओ)०(ओ—
॥ २.१.१२०-१२१ ॥
(२८) समः—
राग-द्वेष-विमुक्तो यः समः स कथितो बुधैः ॥
यथा श्री-दशमे (१०.१६.३३)—
**न्याय्यो हि दण्डः कृत-किल्बिषेऽस्मिंस्
तवावतारः खल-निग्रहाय ।
रिपोः सुतानाम् अपि तुल्य-दृष्टेर्
धत्से दमं फलम् एवानुशंसन् ॥
श्री-जीवः : **रिपोः सुतानाम् इति । स्वस्य रिपुर् अयम् इति सुतोऽयम् इति वा न विषम् अदृष्टिस् त्वम्, किन्तु तुल्य-दृष्टिर् एव, यतो न्यायान्याभ्याम् एव विषम् अदृष्टिर् असि । तत्रान्याय-स्वभावस्य रिपोर् यद् दमं धत्से, तच् च फलम् एवानुशंसन्धत्से । आयत्यां तस्यापि मोक्षादि-सुख-प्रापणात् । अत एव रिपु-सुतयोस् तुल्य-दर्शित्वं लब्धम् । लोके पित्रादौ तथा दुष्ट-पुत्र-शासन-दृष्टेर् इत्य् अर्थः । अत्र रिपुर् जरासन्ध-सुतादिः । कालिका-पुराणे वराहावतार-गत-तादृग्-इतिहासात् । सुतो नरकासुरादिः ॥१२१॥
मुकुन्दः : अस्मिन् दण्डो न्याय्य एव । तत्र हेतुः—कृतानि किल्बिषाणि श्री-गरुडे श्री-यमुना-वृन्दावनयोस् तज्-जीव-समूहे श्री-भगवति च अपराधा येन तादृशे । यस् त्वावतारः प्राकट्य-मात्रं खलानां साधु-द्रोहिणां निग्रहाय भवति, एवं साधूनाम् अनुग्रहे सूचितम् । अन्यथा तु न निग्रहो न चानुग्रह इत्य् आह—रिपोर् इति । रिपूणां सुतानां च सम्बन्धे तुल्या दृष्टिर् यस्य । न च खल-निग्रह-नैर्घृण्यम् इत्य् आह—धत्स इति । फलं नाना-नरकादि-दुःख-हेतु-खलत्वेनोपशमन-पूर्वकं नित्य-सुख-दान-लक्षणम् ॥१२१॥
विश्वनाथः : प्रथमं स्तुवत्यो नागपत्न्यः कोपम् उपशमयितुं दण्डम् अनुमोदयति—न्याय्य इति । अनेन साधु-द्रोह-लक्षणस्य स्व-खलत्वस्य फलम् अवश्य-प्राप्यं प्राप्तम् इति भावः । शिष्ट-पालन-दुष्ट-निग्रह-कृतस् तव तु क्वापि वैषम्यं नास्तीत्य् आहुः—रिपु-सुतानां रिपु-सुतेषु । अपि-कारात् स्व-सुतेषु च तुल्य-दृष्टिस् त्वम् । रिपोर् अपि सुतस्य शिष्टस्य प्रह्लादस्य पालन-दर्शनात्, स्वस्यापि सुतस्य नरकासुरस्य वध-दर्शनाच् चेति भावः । न च खल-निग्रहेऽपि नैर्घृण्यम् इत्य् आहुः—धत्स इति । खलत्व-हेतुक-नाना-नरक-दुःखोपशम-पूर्वक-नित्य-सुखमय-मोक्ष-लक्षणं फलम् एव दीयते मयेत्य् अनुशंसन् कथयन्न् एव दमं दण्डं धत्से ॥१२१॥
—ओ)०(ओ—
॥ २.१.१२२ ॥
यथा वा—
**रिपुर् अपि यदि शुद्धो मण्डनीयस् तवासौ
यदुवर यदि दुष्टो दण्डनीयः सुतोऽपि ।
न पुनर् अखिल-भर्तुः पक्षपातोज्झितस्य
क्वचिद् अपि विषमं ते चेष्टितं जाघटीति ॥
श्री-जीवः : **रिपुर् अपीति । शुद्धः कस्मिंश्चिन् न्याय-विशेषे दोष-रहित इत्य् अर्थः । दुष्टस् तद्-विपरीत इत्य् अर्थः । पक्षपातोऽत्र स्वातन्त्र्येण कस्यचित् पक्षस्य ग्रहणम् ॥१२२॥
मुकुन्दः : रिपुर् अपीति । रिपुः शुद्धो नास्त्य् एव । यदि केनापि भाग्योदयेन शुद्धः । सुओत् दुष्टो नास्त्य् एव । यदि त्वदीय-गम्भीर-मनोऽनुसाराद् दुष्टस् तर्हि जगच्-छिक्षार्थं दण्डनीयः ॥१२२॥
**विश्वनाथः : **रिपुर् अपीति । शुद्धः कस्मिंश्चिन् न्याय-विशेषे दोष-रहित इत्य् अर्थः । पक्षपातोऽत्र स्वातन्त्र्येण कस्यचित् पक्षस्य ग्रहणम् ॥१२२॥
—ओ)०(ओ—
॥ २.१.१२३-१२४ ॥
(२९) वदान्यः—
दान-वीरो भवेद् यस् तु स वदान्यो निगद्यते ॥
यथा—
**सर्वार्थिनां बाढम् अभीष्ट-पूर्त्या
व्यर्थीकृताः कंस-निसूदनेन ।
ह्रियेव चिन्तामणि-कामधेनु-
कल्प-द्रुमा द्वारवतीं भजन्ति ॥
श्री-जीवः, विश्वनाथः : **सर्वार्थिनाम् इति वन्दि-जन-स्तुतिः ॥१२४॥
**मुकुन्दः : **सर्वार्थिनाम् इति श्री-युधिष्ठिर-वाक्यम् ॥१२४॥
—ओ)०(ओ—
॥ २.१.१२५ ॥
यथा वा—
**येषां षोडश-पूरिता दश-शती स्वान्तः-पुराणां तथा
चाष्टाश्लिष्ट-शतं विभाति परितस् तत्-सङ्ख्य-पत्नी-युजाम् ।
एकैकं प्रति तेषु तर्णक-भृतां भूषा-जुषाम् अन्वहं
गृष्टीनां युगपच् च बद्धम् अददाद् यस् तस्य वा कः समः ॥
श्री-जीवः : **उक्ताम् एव दान-क्रियाम् एक-देश-दर्शनया पुष्णाति—येषाम् इति । पूरितत्वं गुणितत्वम् । श्लिष्टत्वं युक्तत्वम् । गृष्टीनां प्रथम-प्रसूतानां गवां बद्धं चतुर-शीत्य्-अग्र-सहस्राणि त्रयोदश (१३,०८४) । प्रकारान्तरम् एतत् पद्यं त्यक्तम् ॥१२५॥
**मुकुन्दः : **उक्ताम् एव दान-क्रियाम् एक-देश-दर्शनेन पुष्णाति—येषाम् इति । बाढं षोडश विस्फुरन्ति परितः शाला-सहस्राण्य् अलं, यान्य् अष्टाग्र-शतोत्तराणि सुदृशाम् एतावतीनां पुरः । गृष्टीनां प्रति-सद्म तर्णक-युजां कस् तेषु नित्यं मुदा, बद्धं बद्धम् उदार-मण्डन-भृतां दातुं क्षमोऽन्यः क्षिताव् इति मूलं पद्यम् । प्रतिसद्म सद्मनि सद्मनि, गृष्टीनां प्रथम-प्रसूतानां गवाम् । अन्वहं प्रतिदिनम् । बद्धं चतुर-शीत्य्-अग्र-सहस्राणि त्रयोदश ॥१२५॥
**विश्वनाथः : **पूरितत्वं गुणितत्वम् । श्लिष्टत्वं युक्तत्वम् । गृष्टीनां प्रथम-प्रसूतीनां गवाम् । बद्धं चतुर-शीत्य्-अग्र-त्रयोदश-सहस्राणि (१३,०८४) । पुनर् ग्रन्थान्तरे—बाढं षोडश विस्फुरन्ति परितः शाला-सहस्राण्य् अलं, यान्य् अष्टाग्र-शतोत्तराणि सुदृशाम् एतावतीनां पुरे । गृष्टीनां प्रतिपद्म तर्णक-युजां कस् तेषु नित्यं मुदा बद्धं बद्धम् उदार-मण्डल-भृतां दातुं क्षमोऽन्यः क्षितौ ।
द्वारकायाः परितः षोडश शाला-सहस्राणि एवम् अष्टाग्र-शतानि च स्फुरन्ति । एतावतीनाम् अष्टोत्तर्-शत-पूरक-षोडश-सहस्र-सङ्ख्या-विशिष्टानां सुदृशां महिषीणां पुरेऽन्तः-पुरे प्रति-सद्म एकम् एकम् अन्तः-पुरं प्रति नित्यं प्रतिदिनं तर्णक-भृतां वत्स-सहितानां मण्डन-युक्तानां च गृष्टीनां प्रथम-प्रसूतानां गवां बद्धं चतुरशीत्य्-अधिक-त्रयोदश-सहस्राणि दातुं श्री-कृष्णाद् अन्यः क्षितौ कः क्षमः ।१२५॥
—ओ)०(ओ—
॥ २.१.१२६-१२७ ॥
(३०) धार्मिकः—
कुर्वन् कारयते धर्मं यः स धार्मिक उच्यते ॥
यथा—
**पादैश् चतुर्भिर् भवता वृषस्य
गुप्तस्य गोपेन्द्र तथाभ्यवर्धि ।
स्वैरं चरन्न् एव यथा त्रिलोक्याम्
अधर्म-स्पर्शाणि हठाज् जघास ॥
श्री-जीवः : **पादैश् चतुर्भिर् इत्य् आदि इत्य्-आदि द्वयं श्री-नारदस्य नर्म-वचनम् । कुर्वन् कारयत इत्य् अनयोर् व्यतिक्रमेणोदाहरणे ज्ञेये । यथा वेत्य् अत्र तु चार्थे वा-शब्दः । गोपेन्द्रेति श्लिष्टः । गां पृथिवीं पातीति गोपः । गोपो भूप इत्य् अमर-नानार्थ-वर्गः ॥१२७॥
**मुकुन्दः : **पादैश् चतुर्भिर् इत्य् आदि इत्य्-आदि द्वयं श्री-नारदः श्री-रघुनाथाद् अवतारेष्व् अदृष्टां धर्म-बुद्धिं दृष्ट्वा स-विनोदम् आह—पादैर् अभ्यवर्धि इति भावे चिन् । भवता कर्त्रा प्रयोजक-कर्त्रा च ॥१२७॥
**विश्वनाथः : **पादैश् चतुर्भिर् इत्य् आदि इत्य्-आदि पद्य-द्वयं श्री-नारदस्य नर्म-वचनम् । कुर्वन् कारयत इत्य् अनयोर् व्यतिक्रमेणोदाहरणे ज्ञेये । यथा वेत्य् अत्र तु चार्थे वा-शब्दः । गोपेन्द्रेति श्लिष्टः । गां पृथिवीं पातीति । भवता गुप्तस्य धर्म-रूप-वृषस्य चतुर्भिः पादैस् तथाभ्यवर्धि अर्थात् चतुष्पदानि तथा वर्धितानि । यथा एष वृषस् त्रिलोकीं चरन् सन् अधर्म-रूप-शस्यानि शम्पाणि अधर्म-रूप-तृणानि जघास बुभुजे ॥१२७॥
—ओ)०(ओ—
॥ २.१.१२८ ॥
यथा वा—
वितायमानैर् भवता मखोत्करैर्
आकृष्यमाणेषु पतिष्व् अनारतम् ।
मुकुन्द खिन्नः सुर-सुभ्रुवां गणस्
तवावतारं नवमं नमस्यति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : उक्तम् एवार्थम् एक-देश-दर्शनेन पुष्णाति—यथा वेति । वितायमानिर् भवतेत्य् उक्त एवाभिप्रायः ॥१२८॥
विश्वनाथः : हे मुकुन्द ! भवता वितायमानैर् विस्तार्यमाणैर् मखोत्करैः यज्ञ-समूहैः करणैर् अनारतं निरन्तरं पतिष्व् आकृष्यमाणेषु सत्सु सुर-स्त्रीणां समूहः खिन्नः सन् तव नवमं बुद्धावतारं नमस्यति । तस्य यज्ञ-नाश एव निरन्तर-प्रवृत्तिमत्त्वाद् इति भावः ॥१२८॥
—ओ)०(ओ—
॥ २.१.१२९-१३० ॥
(३१) शूरः—
उत्साही युधि शूरोऽस्त्र-प्रयोगे च विचक्षणः ॥
तत्र आद्यो, यथा—
**पृथु-समर-सरो विगाह्य कुर्वन्
द्विषद्-अरविन्द-वने विहार-चर्याम् ।
स्फुरसि तरल-बाहु-दण्ड-शुण्डस्
त्वम् अघ-विदारण वारणेन्द्र-लीलः ॥
श्री-जीवः : **उत्साहीति । उदाहरण-वैचित्र्यार्थम् एकस्यैव शूरस्य द्विधा निरूपणम् । एवं यथार्हम् उत्तरापि ज्ञेयम् । पृथ्व् इत्य् आद्य् उदाहरण-पद्ये तु द्विषद् इत्य् आदौइत्य्-आदौ “अविरल-शैवल-गाम्” इति पाठान्तरं योग्यम् इति ॥१२९-१३०॥
मुकुन्दः : पृथु-समरेऽति श्री-दारुक-वाक्यम् ॥१३०॥
विश्वनाथः : पृथु-समरो माहा-युद्धः । स एव सरोवरः । तस्मिन् विगाह्य द्विषद्-अरविन्द-वने शत्रु-रूप-कमल-वने विहार-चर्यां कुर्वन् त्वं स्फुरसि । हे अघ-विदारण अतो गजेन्द्र-लीलोऽसि ॥१३०॥
—ओ)०(ओ—
॥ २.१.१३१ ॥
द्वितीयो, यथा—
क्षणाद् अक्षौहिणी-वृन्दे जरासन्धस्य दारुणे ।
दृष्टः कोऽप्य् अत्र नादष्टो हरेः प्रहरणाहिभिः ॥
ऽ
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : क्षणाद् इति श्री-सात्यकेर् वाक्यम् ॥१३१॥
**विश्वनाथः : **अत्राक्षौहिणी-मध्ये हरेः प्रहरणाहिभिः प्रहरण-रूपैर् अहिभिः सर्पैः कोऽप्य् अदष्टो न भक्षितः इति कैर् अपि जनैर् न दृष्टः । अपि तु सर्वे दष्टा एव दृष्टाः ॥१३१॥
—ओ)०(ओ—
॥ २.१.१३२-१३३ ॥
(३२) करुणः—
पर-दुःखासहो यस् तु करुणः स निगद्यते ॥
यथा—
**राज्ञाम् अगाध-गतिभिर् मगधेन्द्र-कारा-
दुःखान्धकार-पटलैः स्वयम् अन्धितानाम् ।
अक्षीणि यः सुखमयानि घृणी व्यतानीद्
वृन्दे तम् अद्य यदुनन्दन-पद्म-बन्धुम् ॥
श्री-जीवः : **राज्ञाम् इति निर्याण-समये श्री-भीष्म-वचनम् । स्वयम् इति कर्म-कर्तृत्व-द्योतकम् । जुगुप्सा-करुणे घृणे इत्य् अमरः ॥१३३॥
**मुकुन्दः : **राज्ञाम् इति श्री-युधिष्ठिर-वाक्यम् । स्वयम् इति कर्म-कर्तृत्व-द्योतकम् । घृणी करुणः ॥१३३॥
विश्वनाथः : निर्याण-समये श्री-भीष्म-वचनम् । अगाधा गतिर् येषाम् एवं-भूतैः जरासन्धस्य कारागार-दुःख-रूपान्धकार-समूहैः करणैः स्वयम् अङ्कितानां स्वयम् इति कर्म-कर्तृत्व-द्योतनम्, राज्ञां सुख-मयान्य् अक्षीणि यो घृणी करुणो व्यतानीत् तं यदु-नन्दन-स्वरूपं पद्म-बन्धुं सूर्यं वन्दे ॥१३३॥
—ओ)०(ओ—
॥ २.१.१३४ ॥
यथा वा—
**स्खलन्-नयन-वारिभिर् विरचिताभिषेक-श्रिये
त्वरा-भर-तरङ्गतः कवलितात्म-विस्फूर्तये ।
निशान्त-शर-शायिना सुर-सरित्-सुतेन स्मृतेः
सपद्य-वश-वर्त्मणो भगवतः कृपायै नमः ॥
श्री-जीवः : **स्खलन्न् इति । सुर-सरित्-सुतेन कर्त्रा या स्मृतिस् तस्या हेतोर् या भगवतः कृपा तस्यै नमः । कीदृश्यै ? त्वरा-भर-तरङ्गतो हेतोः कवलिता आत्मनो भगवतो विस्फूर्तिर् अयम् अहम् अस्मीति ज्ञानं यस्यां तादृश्यै ॥१३४॥
**मुकुन्दः : **सुर-सरित्-सुतेन कर्त्रा या स्मृतिस् तस्या हेतोर् या भगवतः कृपा तस्यै नमः । कीदृश्यै ? त्वरा-भर-तरङ्गतो हेतोः कवलिता आत्मनो भगवतो विस्फूर्तिर् अयम् अहम् अस्मीति ज्ञानं यया ॥१३४॥
विश्वनाथः : तीक्ष्ण-शर-शय्यायां शायिना गङ्गा-सुतेन भीष्मेण कर्त्रा या स्मृतिस् तद्-धेतोर् या भगवतः कृपा तस्यै नमः । कवलिता ग्रस्ता आत्मनो भगवतो विस्फूर्तिर् अयम् अहम् अस्मीति ज्ञानं यया तादृश्यै ॥१३४॥
—ओ)०(ओ—
॥ २.१.१३५-१३६ ॥
(३३) मान्य-मान-कृत्—
गुरु-ब्राह्मण-वृद्धादि-पूजको मान्यमान-कृत् ॥
यथा—
अभिवाद्य गुरोः पदाम्बुजं
पितरं पूर्वजम् अप्य् अथानतः ।
हरिर् अञ्जलिना तथा गिरा
यदु-वृद्धानन-मत्-क्रमादयम् ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अभिवाद्येति । गुरोः सान्दिपनेः ॥१३६॥
—ओ)०(ओ—
॥ २.१.१३७-१३८ ॥
(३४) दक्षिणः—
सौशील्य-सौम्य-चरितो दक्षिणः कीर्त्यते बुधैः ॥
यथा—
**भृत्यस्य पश्यति गुरून् अपि नापराधान्
सेवां मनाग् अपि कृतां बहुधाभ्युपैति ।
आविष्करोति पिशुनेष्व् अपि नाभ्यसूयां
शीलेन निर्मल-मतिः पुरुषोत्तमोऽयम् ॥
श्री-जीवः : **सौशील्येन सुस्वभावेन सौम्यं सुकोमलं चरितं यस्य सः ॥१३७॥ भृत्यस्येति । स्यमन्तकं गृहीत्वा काश्यां गतम् अक्रूरं प्रति श्रीमद्-उद्धवस्य वर्ण-दूतः । पिशुनौ खल-सूचकौ इत्य् अमरः ॥१३८॥
**मुकुन्दः : **सौशील्येन सुप्रकृत्या सौम्यं सुकोमलं चरितं यस्य सः ॥१३७॥ स्यमन्तक-दान-समये सत्राजिद्-आदिषु प्रभोः कोमलं चरितं दृष्टवत उद्धवस्य वचनम् । भृत्यस्येति पिशुनेषु सूचकेष्व् अपि ॥१३८॥
**विश्वनाथः : **सौशील्येन सौम्यं सुकोमलं चरितं यस्य सः ॥१३७॥ भृत्यस्येति । स्यमन्तकं गृहीत्वा काश्यां गतम् अक्रूरं प्रति श्रीमद्-उद्धवस्य पत्रीयम् । पिशुनेषु खलेष्व् अपि असूयां नाविष्करोति । पिशुनौ खल-सूचकौ इत्य् अमरः ॥१३८॥
—ओ)०(ओ—
॥ २.१.१३९-१४० ॥
(३५) विनयी—
औद्धत्य-परिहारी यः कथ्यते विनयीत्य् असौ ॥
यथा माघ-काव्ये (१३.७)—
अवलोक एष नृपतेः सुदूरतो
रभसाद् रथाद् अवतरीतुम् इच्छतः ।
अवतीर्णवान् प्रथमम् आत्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अवलोक इति अर्थाद् धरेः ॥१४०॥
**विश्वनाथः : **रभसाद् वेगाद् रथाद् अवतरीतुम् इच्छतो नृपतेर् युधिष्ठिरस्य दूरत अवलोकित एव हरिः सम्भ्रमेणात्मना देहेन प्रथमं रथाद् अवतीर्णवान् । अतः स हरिर् विनयं विशेषयति अन्यापेक्षया विशेषं करोति ॥१४०॥
—ओ)०(ओ—
॥ २.१.१४१-१४२ ॥
(३६) ह्रीमान्—
ज्ञातेऽस्मर-रहस्येऽन्यैः क्रियमाणे स्तवेऽथवा ।
शालीनत्वेन सङ्कोचं भजन् ह्रीमान् उदीर्यते ॥
यथा ललित-माधवे (९.४०)—
**दरोदञ्चद्-गोपी-स्तन-परिसर-प्रेक्षण-भयात्
करोत्कम्पाद् ईषच् चलति किल गोवर्धन-गिरौ ।
भयार्तैर् आरब्ध-स्तुतिर् अखिल-गोपैः स्मित-मुखं
पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः ॥
श्री-जीवः : **ज्ञात इति । अस्मर-रहस्ये स्मर-रहस्याभावेऽप्य् अन्यैर् ज्ञाते स्वयम् एव ज्ञातेन तेन सङ्कोचं भजन् । अथवा स्तवेऽपि क्रियमाणे सङ्कोचं भजन् ह्रीमान् उदीर्यते । तत्र हेतुः—शालीनत्वेन अधृष्टता-स्वभावत्वेन शालीनत्वेन अन्दधिगम्य-स्वभावेन वेति ॥१४१॥
तथैवोदाहरति दरोदञ्चद् इति । तथा हि तत्-कोमलत्व-दृष्ट्या भयेनार्तैर् व्यग्रैर् अखिल-गोपैः, प्रभाव-दृष्ट्या त्व् आरब्धा स्तुतिः शौर्य-वर्धन-विरुद् यस्य तथा-विधः सन्, तत्र स्व-महिमज्ञतया स्मित-मुखं रामं पुरोऽग्रत एव दृष्ट्वा शालीनत्वेन नमितास्यो मधुरिपुर् जयति, परमोत्कर्षेण भक्त-हृदये स्फुरत्व् इत्य् अर्थः । तत्र कस्मात् क्व किल सति ? स्मित-मुखं रामं दृष्ट्वा नमितास्य इत्य् उत्प्रेक्ष्यताम् इत्य् अपेक्षायाम् उक्तं—दरोदञ्चद् इति । दरेत्य् आदि लक्षणात् कम्पाद् गोवर्धन-गिरौ ईषच् चलति सति । किलेत्य् उत्प्रेक्षितम् एव, वस्तुतस् तु अनेन रामाज्ञात-तादृश-निज-स्मर-रहस्यत्वेऽपि शालीनत्वेनैव सङ्कुचति स्मेति ध्वनितम् । यद्-अग्रज-रामस्य तत्-कृत-तदीय-स्तनान्त-दर्शनानुसन्धानस्यानौचित्यम् । गाम्भीर्य-गुणेन च पूर्वोक्त-तद्-अलक्ष्य-तादृश-तद्-भावत्वम् । पूर्वार्धे च किलेत्य् उक्त्या तद्-अर्थस्योत्प्रेक्षित-मात्रत्वम् इति व्याख्यान्तरं नाङ्गीकृतम् ॥१४२॥
**मुकुन्दः : **दरोदञ्चद् इति । रामस्य सख्योदयात् स्मित-मुखत्वम् । मधिरुपोर् गुरु-जनाग्रे प्रायो ज्येष्ठ-भ्रातृत्वेन गौरवाच् छालीनत्वे नमितास्यत्वम् ॥१४२॥
विश्वनाथः : शालीनत्वेनाधृष्टाता-स्वभावेन ॥१४१॥ स्तन-परिसर-प्रेक्षणोत्पन्नात् करोत्कम्पं गोवर्धन-गिरौ ईसच् चलति सति भयार्तैर् गोपैर् आरब्धा स्तुतिर् यस्य तथा-विधो मधुरिपुः ॥१४२॥
—ओ)०(ओ—
॥ २.१.१४३-१४४ ॥
(३७) शरणागत-पालकः—
पालयन् शरणापन्नान् शरणागत-पालकः ॥
यथा—
ज्वर परिहर वित्रासं त्वम् अत्र समरे कृतापराधेऽपि ।
सद्यः प्रपद्यमाने यद् इन्दवति यादवेन्द्रोऽयम् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अरेति श्रीमद्-उद्धव-वाक्यम् ॥१४४॥
विश्वनाथः : यद् यस्मात् सद्यः प्रपद्यमाने जने अयं यादवेन्द्रः इन्दवति इन्दुर् इवाचरति ॥१४४॥
—ओ)०(ओ—
॥ २.१.१४५-१४६ ॥
(३८) सुखी—
भोक्ता च दुःख-गन्धैर् अप्य् अस्पृष्टश् च सुखी भवेत् ॥
तत्र आद्यो, यथा—
**रत्नालङ्कार-भारस् तव धन-दमनो राज्य-वृत्त्याप्य् अलभ्यः
स्वप्ने दम्भोलि-पाणेर् अपि दुरधिगमं द्वारि तौर्यत्रिकं च ।
पार्श्वे गौरी-गरिष्ठाः प्रचुर-शशि-कलाः कान्त-सर्वाङ्ग-भाजः
सीमन्तिन्यश् च नित्यं यदुवर भुवने कस् त्वद्-अन्योऽस्ति भोगी ॥
श्री-जीवः : **रत्नेति वन्दि-जन-स्तुतिः । स्व-पक्षे शशिकला नखाङ्का नखाग्र-भागा वा । गौर्यां तु एकैव शशिकला चन्द्र-रेखा । स्व-पक्षे कान्त-सम्बन्धीनि मनोहराणि वा सर्वाङ्गानि भजन्ते यास् ताः । गौरी तु स्व-कान्तस्यार्धाङ्ग-भाग् इति श्लेषेण युक्तम् एव गौरी-गरिष्ठत्वम् इति दर्शितम् ॥१४६॥
**मुकुन्दः : **रत्नेति सख्य-स्वभावेन परम-प्रीत्या श्री-नारदस्यार्जुनस्य वा वचनम् । तौर्यत्रिकं नृत्य-गीत-वाद्यम् । शशिकला नखाङ्काः । गौर्यां तु हरार्ध-वपुष्ट्वात् एक-चन्द्र-कला कान्तस्य तव सर्वाण्य् अङ्गानि भजन्ते यास् ताः । गौरी तु हरार्धाङ्ग-भाग् इत्य् उक्तम् एव गौरी-गरिष्ठत्वम् ॥१४६॥
विश्वनाथः : हे यदुवर ! तव पार्श्वे स्थिताः सीमन्तिन्यः गौर्याः सकाशाद् अपि गरिष्ठाः । तत्र हेतुः—प्रचुराः स्व-दत्त-नख-चिह्न-रूप-शशिकला यासां ताः । गौर्यां तु सम्भोग-समये महा-देव-ललाट-स्थैकैव शशिकला चन्द्र-रेखा प्रतिबिम्बिता भाति । पुनश् च कान्तस्य तव सर्वाङ्गानि भजन्ते यास् ताः । गौरी तु स्व-कान्तस्यार्धाङ्ग-भाग् इति श्लेषेण युक्तम् एव, तव प्रिया-गणानां गौरी-गरिष्ठत्वम् ॥१४६॥
—ओ)०(ओ—
॥ २.१.१४७ ॥
द्वितीयो, यथा—
**न हानिं न म्लानिं निज-गृह-कृत्य-व्यसनितां
न घोरं नोद्घूर्णां न किल कदनं वेत्ति किम् अपि ।
वराङ्गीभिः साङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो
हरिर् वृन्दारण्ये परम् अनिशम् उच्चैर् विहरति ॥
श्री-जीवः : **न हानिम् इति यज्ञपत्नीः प्रति कस्याश्चित् श्री-गोपी-कृष्ण-दूत्याः स्नेह-वशात् तास्व् अपि गतागतं कुर्वत्या रहस्योक्तिः । घोरं भय-हेतुम् । ततो भयं तु सर्वथैव नेति व्यञ्जितम्, उद्घूर्णां चिन्तां, साङ्गीकृताः पूर्णिताः सुहृदः सहचर्यो यत्र तादृक् अनङ्गो यासाम् । अत्र तत्-तद्-व्याकारे सत्य् अपि तत्-तद्-अज्ञानोकित्र् न सम्भवति इत्य् अर्थान्तर-सङ्क्रमित-वाच्य-ध्वनिना तत्र तत्रवैयग्र्य-कारि-परम-तेजस्वित्वम् एव विवक्षितम् इति ज्ञेयम् ॥१४७॥
**मुकुन्दः : **न हानिम् इति । कृष्णस्य सुन्दरीभिः लीलाः स्व-सख्यादिभिः सदा शृण्वन्तीनां यज्ञपत्नीनाम् आत्म-सभायां विषादोक्तिर् इयम् । घोरं भय-कारणम् । उद्घूर्णां चिन्ताम् । साङ्गीकृतः मूर्ती-कृतः सुहृदो मित्रस्य हरेर् अनङ्गो याभिः ॥१४७॥
विश्वनाथः : न हानिम् इति । यज्ञपत्नीः प्रति कस्याश्चित् कृष्ण-दूत्याः स्नेह-वशात् तास्व् अपि गतागतं कुर्वत्या रहस्योक्तिः । वृन्दारण्ये हरिर् हानि-प्रभृति-संसार-जन्य-कदनं किम् अपि न वेत्ति । घोरं भय-हेतुम् । उद्घूर्णां चिन्ताम् । किन्तु परं केवलं वराङ्गीभिर् व्रज-सुन्दरीभिः सह निरन्तरं विहरति । कथं-भूताभिः–स्वाङ्गीकृतः श्री-कृष्णस्य हृदय-स्थः अनङ्गो याभिः ॥१४७॥
—ओ)०(ओ—
॥ २.१.१४८-१४९ ॥
(३९) भक्त-सुहृत्—
सुसेव्यो दास-बन्धुश् च द्विधा भक्त-सुहृन् मतः ॥
तत्र आद्यो, यथा विष्णु-धर्मे—
**तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥
श्री-जीवः : **तत्राद्यो यथा विष्णुधर्म इत्य् एव पाठः । विक्रीणीते मुहुर् अपि भृशं वशीकरोतीत्य् अर्थः ॥१४९॥
**मुकुन्दः : **तत्राद्यो यथा पाद्म इति पाठः ॥१४९॥
**विश्वनाथः : **सुसेव्यः सुखेन सेव्यस् तथा दासस्य बन्धुश् च ॥१४८॥ विक्रीणीते मुहुर् अपि वशीकरोतीत्य् अर्थः ॥१४९॥
—ओ)०(ओ—
॥ २.१.१५० ॥
द्वितीयो, यथा प्रथमे (१.९.३७)—
**स्व-निगमम् अपहाय मत्-प्रतिज्ञाम्
ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ।
धृत-रथ-चरणोऽभ्ययाच् चलद्गुर्
हरिर् इव हन्तुम् इभं गतोत्तरीयः ॥
श्री-जीवः : **स्व-निगमम् इत्य् अन्तिम-समये श्री-भीष्म-स्तवः । स्व-निगमं शस्त्र-सन्न्यास-लक्षणां स्व-प्रतिज्ञाम् अपहाय । तम् एतं शस्त्रं ग्राहयिष्यामीति मत्-प्रतिज्ञां सत्यां कर्तुं रथ-स्थोऽपि धृत-चक्रः सन् भुव्य् अवतीर्णः । ततश् चावेशेन स्खलितोत्तरीयः, तेनैव चाविष्कृत-बलतया चलन्ती गौः पृथिवी येन तादृशो भूत्वा मां हन्तुम् आभिमुख्येन य आगात्, न त्व् अवधीत् । स मे मुकुन्दो गतिर् भवत्व् इत्य् उत्तरेणान्वयः । कः कम् इव । हरिः सिंह इभम् इवेति वाक्यार्थः । तदा त्व् एतं प्रति एतस्य परम-मित्रं चार्जुनं प्रति दुर्दैव-वशान् महद्-अपराधवत्य् अपि मयि पुरातनं भक्ति-लेशाभासं भक्तित्वेनानुसन्धाय, य इत्थं बन्धुत्वं स्व-माहात्म्य-हानि-सहनेनापि मन्-माहात्म्य-वर्धन-लक्षणं व्यञ्जितवान् । सोऽयं शुद्ध-दासानां सर्वथैव बन्धुत्वं कुर्याद् इति भावः ॥१५०॥
मुकुन्दः : स्व-निगमम् अशस्त्र एव साहाय्य-मात्रं करिष्यामीत्य् एवं स्व-प्रतिज्ञाम् । मत्-प्रतिज्ञाम् एतं शस्त्रं ग्राहयिष्यामीत्य् एवं-भूताम् । ऋतं सत्यं यथा स्यात् तथाधिकां कर्तुम् ॥१५०॥
**विश्वनाथः : **स्व-निगमम् इति भीष्म-स्तवः । अस्त्र-त्याग-रूपं स्व-निगमं स्व-प्रतिज्ञाम् अपहाय तम् एव श्री-कृष्णम् अहं शस्त्रं ग्राहयिष्यामीति मत्-प्रतिज्ञां सत्यां कर्तुं रथ-स्थोऽपि धृत-चक्रः सन् भुव्य् अवतीर्णः । ततश् चावेशेन स्खलितोत्तरीयः, तेनैव चाविष्कृत-बलतया चलन्ती गौः पृथ्वी येन तादृशो भूत्वा मां हन्तुम् आभिमुख्येन योऽगात्, न त्व् अवधीत् । स मुकुन्दो मम गतिर् भवत्व् इत्य् उत्तरेणान्वयः । कं क इव इभं हरिः सिंह इवेति वाक्यार्थः । य इत्थं बन्धुत्वं स्व-माहात्म्य-हानि-सहनेनापि मन्-माहात्म्य-वर्धन-लक्षणं व्यञ्जितवान् । सोऽयं शुद्ध-दासानां सर्वथैव बन्धुत्वं कुर्याद् इति भावः ॥१५०॥
—ओ)०(ओ—
॥ २.१.१५१-१५२ ॥
(४०) प्रेम-वश्यः—
प्रियत्व-मात्र-वश्यो यः प्रेम-वश्यो भवेद् असौ ॥
यथा श्री-दशमे (१०.८०.१९)—
**सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः ।
प्रीतो व्यमुञ्चद् अध्विन्दून् नेत्राभ्यां पुष्करेक्षणः ॥
श्री-जीवः, विश्वनाथः : **प्रियत्व-मात्रेण वश्यो, न तु सेवाद्य्-अपेक्षयेत्य् अर्थः ॥१५१॥
**मुकुन्दः : **प्रियत्व-मात्रेण वश्यो, न तु सेवादीच्छयैवेत्य् अर्थः ॥१५१॥
—ओ)०(ओ—
॥ २.१.१५३ ॥
यथा वा तत्रैव (१०.९.१८)—
**स्व-मातुः स्विन्न-गात्राया विस्रस्त-कवर-स्रजः ।
दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥
श्री-जीवः, विश्वनाथः : **तत्र प्रेमातिशयेन वश्यताधिक्यम् अपि दर्शयति—यथा वेति ॥१५३॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.१५४-१५५ ॥
(४१) सर्व-शुभङ्करः—
सर्वेषां हित-कारी यः स स्यात् सर्व-शुभङ्करः ॥
यथा—
**कृताः कृतार्था मुनयो विनोदैः
खल-क्षयेणाखिल-धार्मिकाश् च ।
वपुर्-विमर्देन खलाश् च युद्धे
न कस्य पथ्यं हरिणा व्यधायि ॥
श्री-जीवः : **कृता इत्य् उत्तरावस्थायां श्रीमद्-उद्धवोक्तिः । मुनयो आत्मारामा विनोदैस् तद्-द्वारक-गुण-प्रचारैः । आत्मारामाश् च मुनयः [भा।पु। १.७.११] इत्य् आदि इत्य्-आदि ॥१५५॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **मुनयो विनोदैस् तद्-द्वारा स्व-गुण-प्रचारैः कृतार्थाः कृताः ॥१५५॥
—ओ)०(ओ—
॥ २.१.१५६-१५७ ॥
(४२) प्रतापी—
प्रतापी पौरुषोद्भूत-शत्रु-तापि प्रसिद्धि-भाक् ॥
यथा—
**भवतः प्रताप-तपने
भुवनं कृष्ण प्रतापयति ।
घोरासुर-घुकानां
शरणम् अभूत् कन्दरा-तिमिरम् ॥
श्री-जीवः : **प्रतापयति प्रकाशयति सति । उपनिषद्-विशेष-नृसिंह-तापन्य्-आदि-शब्देषु हि तथैव तपेर् अर्थः । प्रकाशयतीत्य् एव वा पाठः । पूर्वं स्थितिर् एव सर्व-जेत्री सती भगवतः प्रभाव इति लक्षितम् । प्रतापस् तु तत्-ख्यातिर् इति ततो भिद्यते ॥१५७॥
मुकुन्दः : प्रतापयति प्रकाशयति सति ॥१५७॥
विश्वनाथः : पौरुषेण उद्भूता या शत्रु-तापिनी प्रसिद्धिस् तां भजते यः स प्रतापी ॥१५६॥ भवतः प्रताप-रूपे तपने सूर्ये भुवनं प्रतापयति सति घोरासुर-रूपाणाम् उलूकानां कन्दरा-तिमिरं गृहम् अभूत् ॥१५७॥
—ओ)०(ओ—
॥ २.१.१५८-१५९ ॥
(४३) कीर्तिमान्—
साद्गुण्यैर् निर्मलैः ख्यातः कीर्तिमान् इति कीर्त्यते ॥
यथा—
**त्वद्-यशः-कुमुद-बन्धु-कौमुदी
शुभ्र-भावम् अभितो नयन्त्य् अपि ।
नन्दनन्दन कथं नु निर्ममे
कृष्ण-भाव-कलिलं जगत्-त्रयम् ॥
श्री-जीवः : **यथानन्तरम् एव साद्गुण्याइर् निर्मलैः ख्यातः कीर्तिमान् इत्य् अत्र साद्गुण्य-ख्यातिर् एव कीर्तिर् इति प्रतिपद्यते, न तु साद्गुण्य-मात्रं तद्वत् ॥१५८॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : त्वद्-यश एव कुमुद-बन्धुश् चन्द्रस् तस्य कौमुदी ज्योत्स्ना अभितः सर्वतः शुभ्र-भावं नयन्त्य् अपि कथं केन प्रकारेण जगत्-त्रयं कृष्ण-भावेन शब्द-च्छल-वशात् कृष्णस्य वर्णेन कलिलं व्याप्तं निर्ममे इति विरोधाभासः । वस्तुतः कृष्ण-विषयक-भाव-भक्त्या कलिलम् ॥१५९॥
—ओ)०(ओ—
॥ २.१.१६० ॥
यथा वा ललित-माधवे (५.१८)—
**भीता रुद्रं त्यजति गिरिजा श्यामम् अप्रेक्ष्य कण्ठं
शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नील-वासाः ।
क्षीरं मत्वा श्रपयति यमी-नीरम् आभीरिकोत्का
गीते दामोदर-यशसि ते वीणया नारदेन ॥
श्री-जीवः : **भीता रुद्रम् इत्य् आदिकं कवि-समयानुसारेण नर्म-मयम् एव, न तु वस्तुतः । वस्तुतस् तेषां तत्-तत्-त्यागादिकं तु तद्-यशः-श्रवणाद् एव । आभीरिकोत्केत्य् अत्र आभीर-रामेति पाठान्तरम् ॥१६०॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **भीता रुद्रम् इत्य् आदिकं कवि-समयानुसारेण नर्म-मयम् एव, न तु वस्तुतः । तेषां तत्-त्यागादिकं तु तद्-यशः-श्रवणाद् एवेति ज्ञेयम् । नीलवासा अनन्तः । यमी-नीरं यमुना-जलं दुग्धं मत्वा आभीरिका दुग्धावर्तने उत्का उत्कण्ठिता सती श्रपयति ॥१६०॥
—ओ)०(ओ—
॥ २.१.१६१-१६२ ॥
(४४) रक्त-लोकः—
पात्रं लोकानुरागाणां रक्त-लोकं विदुर् बुधाः ॥
यथा प्रथमे (१.११.९)—
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥
श्री-जीवः, विश्वनाथः : न केवलं क्षण एव तादृशो भवेत् । किन्तु रविं विना यथाक्ष्णोर् मोहो भवेत् तथैव तव त्वदीयानां नोऽस्माकं भवेद् इत्य् अर्थः ॥१६२॥
**मुकुन्दः : **अनुरागः साधारणी प्रीतिः ॥१६१॥
—ओ)०(ओ—
॥ २.१.१६३ ॥
यथा वा—
**आशीस् तथ्या जय जय जयेत्य् आविरास्ते मुनीनां
देव-श्रेणी-स्तुति-कल-कलो मेदुरः प्रादुरस्ति ।
हर्षाद् घोषः स्फुरति परितो नागरीणां गरीयान्
के वा रङ्ग-स्थल-भुवि हरौ भेजिरे नानुरागम् ॥
श्री-जीवः : **आशीर् इति रङ्ग-स्थल-स्थः कश्चित् वर्तमान-प्रयोगं मुहुर् अभ्यस्य किं बहुनेत्य् आह—के वेति । अत्र च सुख-मोहानन्तरं परोक्ष-भूतत्वेन प्रयुङ्क्ते । भेजिरे इति नानुरागं भजन्तीति पाठस् तु सुगमः ॥१६३॥
**मुकुन्दः : **आशीर् इति श्रीमद्-उद्धवः कञ्चित् प्रति भूतां रङ्ग-क्रीडां निरूपयति । आविरास्ते इत्य् आदि इत्य्-आदि क्रिया-त्रयं वर्तमान-प्राये वर्तमानवद् वेति ॥१६३॥
**विश्वनाथः : **देव-श्रेणीनां स्तुति-कलकलः । मेदुरः निविडः प्रादुर्भूतोऽस्ति । रङ्ग-स्थले वर्तमाने हरौ के वानुरागं न भेजिरे किन्तु सर्वेऽप्य् अनुरागं भेजिरे इत्य् अर्थः ॥१६३॥
—ओ)०(ओ—
॥ २.१.१६४-१६५ ॥
(४५) साधु-समाश्रयः—
सद्-एक-पक्षपाती यः स स्यात् साधु-समाश्रयः ॥
यथा—
पुरुषोत्तम चेद् अवातरिष्यद्
भुवनेऽस्मिन् न भवान् भुवः शिवाय ।
विकटासुर-मण्डलान् न जाने
सुजनानां बत का दशाभविष्यत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : सत्यं साधूनाम् एक-पक्षपाती यः स साधु-समाश्रयः, हे पुरुषोत्तम । भवान् भुवः शिवाय पृथिवा मङ्गलाय भुवने यदि नावतरिष्यत् तदा विकटेत्य् आदि ॥१६५॥
—ओ)०(ओ—
॥ २.१.१६६-१६७ ॥
(४६) नारी-गण-मनो-हारी—
नारी-गण-मनो-हारी सुन्दरी-वृन्द-मोहनः ॥
यथा श्री-दशमे (१०.९०.२६)—
**श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥
श्री-जीवः : **नारी-गण-मनो-हारीति यथा शीलार्थे णिनिस् तथैव सुन्दरीत्य् आदौ ल्युट् प्रयुक्तः । ततः स्वभावेनैव तादृशत्वात् सुरम्याङ्गत्वादिभ्योऽधिक एवायं गुणः । यथोक्तं श्री-व्रज-देवीभिः—कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [भा।पु। १०.२१.१२] इति । गण-वृन्द-शब्दाभ्याम् अत्र तासां समूह-विशेष उच्यते । तेन तद्-भावायोग्यासु नातिव्याप्तिः ॥१६६॥
मुकुन्दः : नारीति । सुन्दरी-वृन्दस्य स्वभावेनैव मोहकत्वात् सुरम्याङ्गत्वादिभ्यो ऽङ्गो ऽन्य एवायं गुणः ॥१६६॥ स्त्रीणां सुन्दरीणाम् उरुभिर्गायैः गीतैः प्रबन्धैर् उरु यथा स्यात् तथा गीतस् तद्-विषयाकृतो वा, कुतः पुनः किं पुनः । तत्रापि साक्षात् प्श्यन्तीनां तासाम् एव किन्तरां वक्तव्यमित्यार्थः ॥१६७॥
**विश्वनाथः : **नारी-गण-मनो-हारीति यथा शीलार्थे णिनिस् तथैव सुन्दरीत्य् आदौ ल्युः प्रयुक्तः । तथा स्वभावेनैव तादृशत्वात् सुरम्याङ्गत्वादिभ्योऽधिक एवायं गुणः । यथोक्तं श्री-व्रज-देवीभिः—कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [भा।पु। १०.२१.१२] इति । गण-वृन्द-शब्दाभ्याम् अत्र तासां समूह-विशेष उच्यते । तेन तद्-भावायोग्यासु नातिव्याप्तिः । स्त्रीणां स्त्री-विशेषाणां श्रुत-मात्रोऽपि यः मनः प्रसह्य आकार्षतीति तत् किन्तरां वक्तारम् इत्य् अर्थः ॥१६६-१६७॥
—ओ)०(ओ—
॥ २.१.१६८ ॥
यथा वा—
**त्वं चुम्बकोऽसि माधव लोह-मयी नूनम् अङ्गना-जातिः ।
धावति ततस् ततोऽसौ यतो यतः क्रीडया भ्रमसि ॥
श्री-जीवः : **तादृश-शीलत्वम् एव दृष्टान्तेन स्पष्टयन्न् आह—यथा वेति । अङ्गनानां जातिस् तद्-विशेषः ॥१६८॥
मुकुन्दः : व्रजान् मथुरा-पुर-वायव्य-दिग्-विभागेऽम्बिका-वनं गच्छन्तं प्रति प्रिय-नर्म-सखस्योज्ज्वलस्य वचनं—त्वम् इति । अङ्गना-जातिः साधारण-सुन्दरी-समूहः ॥१६८॥
विश्वनाथः : चुम्बक-स्वरूपत्वं यत्र यत्र क्रीडायां भ्रमसि, तत्र तत्रादौ लोह-रूपाङ्गनानां जातिः तद्-विशेषे धावति ॥१६८॥
—ओ)०(ओ—
॥ २.१.१६९-१७० ॥
(४७) सर्वाराध्यः—
सर्वेषाम् अग्र-पूज्यो यः स सर्वाराध्य उच्यते ॥
यथा प्रथमे (१.९.४१)—
मुनि-गण-नृप-वर्य-सङ्कुलेऽन्तः-
सदसि युधिष्ठिर-राजसूय एषाम् ।
अर्हणम् उपपेद ईक्षणीयो
मम दृशि-गोचर एष आविर् आत्मा ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.१.१७१-१७२ ॥
(४८) समृद्धिमान्—
महा-सम्पत्ति-युक्तो यो भवेद् एष समृद्धिमान् ॥
यथा—
षट्-पञ्चाशद्-यदु-कुल-भुवां कोटयस् त्वां भजन्ते
वर्षन्त्य् अष्टौ किम् अपि निधयश् चार्थ-जातं तवामी ।
शुद्धान्तश् च स्फुरति नवभिर् लक्षितः सौध-लक्ष्मैर्
लक्ष्मीं पश्यन् मुर-दमन ते नात्र चित्रायते कः ॥
श्री-जीवः : षट्-पञ्चाशद् इत्य् अत्र कोटय इति बहुत्वं तत्-तद्-अवान्तर-भेद-विवक्षया । तद् इदं प्रकट-लीलोदाहरणम् । उक्तोदाहरणं त्व् अप्रकट-लीला-गतम् अपि—तत आरभ्य नन्दस्य [भा।पु। १०.५.१८] इत्य् आदेस् तद्-इच्छया प्रकटम् अपि भवेद् इति ज्ञेयम् ॥१७२॥
**मुकुन्दः : **षट्-पञ्चाशद् इति कोटीनां विशेषणम् ॥१७२॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.१७३ ॥
यथा वा कृष्ण-कर्णामृते8—
चिन्तामणिश् चरण-भूषणम् अङ्गनानां
शृङ्गार-पुष्प-तरवस् तरवः सुराणाम् ।
वृन्दावने व्रज-धनं ननु काम-धेनु-
वृन्दानि चेति सुख-सिन्धुर् अहो विभूतिः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **चिन्तामण्य्-आदीनां सदा सद्-भावेऽपि व्रज-जनानां दुग्धादिषु प्रीतिर् लौकिक-लीला-पोषि-गोप-जाति-स्वभावात् प्रेमैव, माधुर्य-भोक्तृत्वेन तद्-अनुसन्धानाच् च । लौकिक-लीला यन् मर्त्य-लीलौपायिकम् [भा।पु। ३.२.१२] इत्य् आदिना पारमैश्य-लीलातः श्रैष्ठ्यं तावद् बोध्यते ॥१७३॥
**विश्वनाथः :**तवामी अष्टौ निधयोऽर्थ-समूहं वर्षन्ति शुद्धान्तश् चान्तः-पुराणि च नवभिः सौध-लक्षैर् लक्षितम् । ततस् ते तव लक्ष्मीं पश्यन् । वृन्दावने चिन्तामणिर् अङ्गनानां चरण-भूषणम् । एवं सुराणां तरवः कल्प-वृक्षादयः तासां शृङ्गारोपयुक्त-पुष्प-वृक्षा बभूवुः । काम-धेनु-वृन्दानि च व्रजसु गोधनानि इति हेओत्र् वृन्दावने विभूतिः सुख-सिन्धुर् बभूव ॥१७३॥
—ओ)०(ओ—
॥ २.१.१७४-१७५ ॥
(४९) वरीयान्—
सर्वेषाम् अति-मुख्यो यः स वरीयान् इतीर्यते ॥
यथा —
ब्रह्मन्न् अत्र पुरु-द्विषा सह पुरः पीठे निषीद क्षणं
तुष्णीं तिष्ठ सुरेन्द्र चाटुभिर् अलं वारीश दूरीभव ।
एते द्वारि मुहुः कथं सुर-गणाः कुर्वन्ति कोलाहलं
हन्त द्वारवती-पतेर् अवसरो नाद्यापि निष्पद्यते ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : ब्रह्मन्न् इति । हे सुरेन्द्र ! चाटुभिर् अलं तूष्णीं तिष्ठ ॥१७५॥
विश्वनाथः : ब्रह्मादिकं प्रति कृष्णस्य द्वार-पाल आह—हे ब्रह्मन् पुर-द्विषा रुद्रेण सह पुरोऽग्रे क्षणं पीठे निषीद । हे सुरेन्द्र ! तूष्णीं तिष्ठ । चाटुभिर् अलम् । हे वारीश वरुण ! दूरीभव । श्री-कृष्ण-निकटाद् आगत्यान्ये च द्वार-पाला आहुः । एत इति । तच् छ्रुत्वा ब्रह्मादय आहुः—हन्ताधुनापि द्वारवती-पतेर् अवसरो न निष्पद्यते ॥१७५॥
—ओ)०(ओ—
॥ २.१.१७६-१७७ ॥
(५०) ईश्वरः—
द्विधेश्वरः स्वतन्त्रश् च दुर्लङ्घ्याज्ञश् च कीर्त्यते ॥
तत्र स्वतन्त्रो, यथा—
**कृष्णः प्रसादम् अकरोद् अपराध्यतेऽपि
पादाङ्कम् एव किल कालिय-पन्नगाय ।
न ब्रह्मणे दृशम् अपि स्तुवतेऽप्य् अपूर्वं
स्थाने स्वतन्त्र-चरितो निगमैर् नुतोऽयम् ॥
श्री-जीवः : **कृष्ण इति । तस्मात् स्थाने युक्तम् एवायं स्वतन्त्र-चरिततया निगमैर् नुत इत्य् अर्थः ॥१७७॥
**मुकुन्दः : **कृष्ण इति । स्थाने युक्तम् एवैतत् । युक्तत्वे हेतुः—स्वतन्त्रेत्य् आदि ॥१७७॥
**विश्वनाथः : **अपराधतोऽपि कालिय-पन्नगाय कृष्णः पदाङ्क-रूपं प्रसादम् अकरोत् । अपूर्वं यथा स्यात् तथा स्तुवते ब्रह्मणे दृष्टिम् अपि नाकरोत् । तत् तस्मात् स्थाने युक्तम् एवायं स्वतन्त्र-चरिततया निगमैर् वेदैर् नुत इत्य् अर्थः ॥१७७॥
—ओ)०(ओ—
॥ २.१.१७८ ॥
दुर्लङ्घ्याज्ञो, यथा तृतीये (३.२.२१)—
**स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोटीडित-पाद-पीठः ॥
श्री-जीवः : **त्रयाणां ब्रह्मादीनां महत्-स्रष्टॄणां वाधीशः । स्वाराज्यं स्वेनैव राजमानत्वं तेन या लक्ष्मीः, तया ईडितत्वं वन्दितत्वम् ।_।_१७८॥
**मुकुन्दः : **त्रयाणां महत्-स्रष्टॄणाम् अधीशः । स्वयम् आत्म-भूतया शक्ति-वर्यया राजतीति स्वराट् तस्य भावः स्वाराज्यं तद् एव लक्ष्मीः सर्वातिशायिनी सम्पत्, तया आप्ताः समस्ताः कामाः प्रेष्ठार्थ-सिद्धयो यं तथा, बलिं हरद्भिर् आज्ञा-पालनं कुर्वद्भिर् इत्य् अर्थः ।_।_१७८॥
**विश्वनाथः : **त्रयाणां ब्रह्मादीनां महत्-स्रष्टॄणां वाधीशः । स्वाराज्यं स्वेनैव राजमानत्वं तेन या लक्ष्मीः, तया आप्त-समस्त-कामः । चिर-लोक-पालैः किरीटानां मुकुटाग्राणां कोटिभिर् ईडिततः पाद-पीठः ।_।_१७८॥
—ओ)०(ओ—
॥ २.१.१७९ ॥
यथा वा—
**नव्ये ब्रह्माण्ड-वृन्दे सृजति विधि-गणः सृष्टये यः कृताज्ञो
रुद्रौघः काल-जीर्णे क्षयम् अवतनुते यः क्षयायानुशिष्टः ।
रक्षां विष्णु-स्वरूपा विदधति तरुणे रक्षिणो ये त्वद्-अंशाः
कंसारे सन्ति सर्वे दिशि दिशि भवतः शासनेऽजाण्डनाथाः ॥१७९॥
श्री-जीवः : **कृताज्ञ इति अङ्गीकृताज्ञ इत्य् अर्थः । तस्मिन्न् एव ब्रह्माण्ड-वृन्दे काल-जीर्णे सति । तस्मिन्न् एव च तरुणे सति । तारुण्यस्य पश्चान् निर्देशः साम्प्रतं वृत्त-विज्ञापनायाम् अस्यावधानं स्थिरीभवत्व् इत्य् अपेक्षया । सन्तीति सर्गादि-समयेऽपि पालनाद्य्-अंशस्य सद्-भावान्तर-शासने सर्वदा ते सन्त्य् एव, किन्तु नव्य इत्य् आदि इत्य्-आदि विशेषण-त्रयं तु प्राचूर्येणैवोक्तम् इति भावः ॥१७९॥
मुकुन्दः : नव्य इति । ब्रह्माण्डानां सृष्टिः कदाचित् समा कदाचिद् विषमा च भगवता क्रियते, यदा समा तदैकदैव संहारः । यदा विषमा तदाग्र-पश्चात् संहाराद्य्-अपेक्षया नव्ये इत्य् आद्य् उक्तिः । द्विधा सृष्टिः भागवतामृताज् ज्ञेया ॥१७९॥
विश्वनाथः : ब्रह्माण्ड-वृन्दे नव्ये नवीने सति यो विधि-गणः सृष्टये कृताज्ञः अङ्गीकृताज्ञः सन् विविधान् सृजति । तस्मिन्न् एव ब्रह्माण्डे काल-जीर्णे सति रुद्र-समूहः क्षयार्थम् अनुशिष्टः सन् क्षयं तनुते । तस्मिन्न् एव तरुणे सति विष्णु-रूपा ये रक्षिणस् तद्-अंशास् ते रक्षां विदधति । तस्मात् सर्वे ब्रह्माण्ड-नाथा दिशि दिशि तव शासने सन्ति । सर्गादि-समयेऽपि पालनाद्य्-अंशस्य सद्-भावात् तव शासने सर्वदा ते सन्त्य् एव, तथापि नव्य इत्य् आदि इत्य्-आदि विशेषण-त्रयं तु प्राचूर्येणैव उक्तम् इति भावः ॥१७९॥
—ओ)०(ओ—
॥ २.१.१८०-१८१ ॥
अथ (५१) सदा-स्वरूप-सम्प्राप्तः—
सदा-स्वरूप-सम्प्राप्तो माया-कार्याअ-वशीकृतः ॥
यथा प्रथमे (१.११.३९)—
**एतद् ईशनम् ईशस्य प्रकृति-स्थोऽपि तद्-गुणैः ।
न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥
श्री-जीवः : **ईशस्य सर्व-वशीकारिणः श्री-भगवतः एतद् ईशनम् । किं तत् ? तत्राह—माया-तत्-कार्याभ्याम् अवशीकृतत्वम् इत्य् अर्थः । यद् असाव् अन्तर्यामितया अवतीर्णतया वा प्रकृतौ स्थितोऽपि तस्या गुणैः सत्त्वादिभिस् तत्-कार्यैश् च न युज्यते, न लिप्यते । तत्र हेतुः—असन्तो ये आत्मानो जीवास् तेष्व् एव स्थितैर् अधिकारिभिः । तत्र दृष्टान्तो—यथेति । स एवाश्रयो यस्याः सा भक्तानां बुद्धिर् यथा न लिप्यते तद्वत् । तस्मात् सदा-स्वरूप-सम्प्राप्तत्वं—स्वरूप-शक्ति-विलास-लक्षण-रूप-गुणाद्य्-अव्यभिचारित्वं माया-कार्यावशीकृतत्वम् इत्य् एव यावत् । तद् उक्तं श्रुतिभिः—स यद् अजया त्व् अजाम् [भा।पु। १०.८७.३८] इत्य् आदिना ॥१८१॥
मुकुन्दः : प्रकृतौ तत्-कार्ये समष्टि-व्यष्ट्यात्मके स्थितोऽपि आत्म-स्थैः सर्वाश्रयत्वात् तस्य ईश्वर-स्थैस् तद्-गुणैः सदा न लिप्यते इति यत्—एतद् ईशनं स्यात् । श्री-भगवद्-गीतायां—
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.४-५] इत्य् आदि इत्य्-आदि ।
तत्र कैमुत्येन दृष्टान्तः—यथेति । स ईश्वर एवाश्रयो यस्याः सा भक्तानां बुद्धिर् यथा न लिप्यते तद्वत् ॥१८१॥
**विश्वनाथः : **माया-तत्-कार्याभ्याम् अवशीकृतत्वम् इत्य् अर्थः । ईशस्य सर्व-वशीकारिणः श्री-भगवतः एतद् ईशनम् ऐश्वर्यम् । किं तत् ? तत्राह—यद् असाव् अन्तर्यामितया अवतीर्णतया वा प्रकृतौ स्थितोऽपि तस्या गुणैः सत्त्वादिभिस् तत्-कार्यैश् च न युज्यते, न लिप्यते । तत्र दृष्टान्तः—यथेति । स एवाश्रयो यस्याः सा भक्तानां बुद्धिर् यथा न लिप्यते तद्वत् । तस्मात् सदा-स्वरूप-सम्प्राप्तत्वं—स्वरूप-शक्ति-विलास-लक्षण-रूप-गुणाद्य्-अव्यभिचारित्वं माया-कार्यावशीकृतत्वम् इत्य् एव यावत् । तद् उक्तं श्रुतिभिः—स यद् अजया त्व् अजाम् [भा।पु। १०.८७.३८] इत्य् आदिना ॥१८१॥
—ओ)०(ओ—
॥ २.१.१८२-१८३ ॥
(५२) सर्वज्ञः—
पर-चित्त-स्थितं देश-कालाद्य्-अन्तरितं तथा ।
यो जानाति समस्तार्थः स सर्वज्ञो निगद्यते ॥
यथा प्रथमे (१.१५.११)—
यो नो जुगोप वन एत्य दुरन्त-कृच्छ्राद्
दुर्वाससोऽरि-रचिताद् अयुताग्र-भुग् यः ।
शाकान्न-शिष्टम् उपयुज्य यतस् त्रि-लोकीं
तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः ॥
श्री-जीव : यो नो जुगोप इति श्रीमद्-अर्जुन-वाक्यम् । यः श्री-कृष्णोऽस्माकं कृच्छ्रं सर्वज्ञत्वाद् एव ज्ञात्वा वनम् एत्य अस्मान् पाण्डवान् जुगोप । कस्मात् ? दुर्वाससो हेतोर् यद् दुरन्तं कृच्छ्रं शाप-मयं तस्मात् । दुर्वासः कीदृशात् ? अरि-रचिताद् दुर्योधन-प्रेरिताद् इत्य् अर्थः । कीदृशो दुर्वासाः ? यः अयुत-सङ्ख्यानाम् अग्र-भुक् तैः सह युधिष्ठिरेण निमन्त्रितस् तेन च काम-भुक्-स्थालान् नमनापक-भोजनया द्रौपद्या भुक्तं न ज्ञातम् इति ज्ञेयम् । ततः कुत्रासौ दुर्वासा गतस् तत्राह सलिले विनिमग्नः स्व-सहितः सङ्घो यस्य सः । तत्रावश्यक-कृत्यार्थं चिरं स्थितः । तताह् किं कृत्वा जुगोप ? तत्राह—स्थाली-लग्नं शाकान्नं शिष्टम् उपयुज्येति भवतु तस्य तद् उपयोजनं, ततः किम् ? तत्राह—यतस् तद्-उपयोगाद् धेतोः त्रिलोकीम् अपि तृप्ताम् अमंस्त दुर्वासाः, किं पुनः स्वान् इत्य् अर्थः ॥१८३॥
**मुकुन्दः : **यः श्री-कृष्णो नोऽस्माकं कृच्छ्रं ज्ञात्वा वनम् एत्य स्थाली-लग्न्ं शाकान्नम् उपयोज्य नोऽस्मान् पाण्डवान् दुर्वाससो हेतोर् यद् दुरन्तं कृच्छ्रं शाप-मयं तस्माज् जुगोप । दुर्वासः कीदृशात् ? अरि-रचिताद् दुर्योधन-प्रेरिताद् इत्य् अर्थः । योऽयुत-सङ्ख्यानाम् अग्र-भुक् । तैः सह युधिष्ठिरेण निमन्त्रितो दुर्वासाः सलिले निमग्नः स्व-सहितः सङ्घो यस्य सः । यतस् तद्-उपयोगाद् धेतोः त्रिलोकीम् अपि तृप्ताम् अमंस्त, किं पुनः स्वान् इत्य् अर्थः ॥१८३॥
**विश्वनाथः : **यो नो जुगोप इति श्रीमद्-अर्जुन-वाक्यम् । यः श्री-कृष्णो नोऽस्माकं कृच्छ्रं सार्वज्ञ्याद् एव ज्ञात्वा वनम् एत्य अस्मान् पाण्डवान् जुगोप । कस्मात् ? दुर्वाससो हेतोर् यद् दुरन्तं कृच्छ्रं शाप-लक्षणं तस्मात् । दुर्वासः कीदृशात् ? अरि-रचिताद् दुर्योधन-प्रेरिताद् इत्य् अर्थः । कीदृशो दुर्वासाः ? यः अयुत-सङ्ख्यानाम् अग्र-भुक् । तैः सह युधिष्ठिरेण निमन्त्रितस् तेन च द्रौपद्या न भुक्तम् इति बोध्यम् । ततः कुत्रासौ दुर्वासा गतः ? तत्राह—सलिले विनिमग्नः स्व-सहितः सङ्घो यस्य सः । तत्रावश्यक-कृत्यार्थं चिरं स्थितः । तताह् किं कृत्वा जुगोप ? तत्राह—स्थाली-लग्नं शाकान्न-शिष्टम् उपयुज्येति । ततः किम् ? तत्राह—यतः शाकान्नोपयोगाद् धेतोः दुर्वासास् त्रिलोकीं तृप्ताम् अमंस्त, किं पुनः स्वान् इत्य् अर्थः ॥१८३॥
—ओ)०(ओ—
॥ २.१.१८४-१८५ ॥
(५३) नित्य-नूतनः—
सदानुभूयमानोऽपि करोत्य् अननुभूतवत् ।
विस्मयं माधुरीभिर् यः स प्रोक्तो नित्य-नूतनः ॥
यथा प्रथमे (१.११.३४)—
यद्यप्य् असौ पार्श्व-गतो रहो-गतस्
तथापि तस्याङ्घ्रि-युगं नवं नवम् ।
पदे पदे का विरमेत तत्-पदाच्
चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥
श्री-जीव : चलापीति । पूर्ण-स्वरूप-तद्-आभासयोर् अभेदाभिप्रायेणोक्तं, तच् च या खल्व् अन्यत्र स्वाभास-मात्रेणपि स्थिर न भवति । सैव स्व-स्वरूपेण तत्र तन्-माहात्म्य-विशेष-दर्शनाय ॥१८५॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **यो माधुरीभिर् अननुभूत इव विस्मयं करोति ॥१८४॥ चलापीति स्व-विभूति-रूपया (जगद्-वर्ति) यशः-कीर्ति-सम्पत्ति-रूपया लक्ष्म्या सहैक्य-विवक्षया इति ज्ञेयम् ॥१८५॥
—ओ)०(ओ—
॥ २.१.१८६ ॥
यथा वा ललित-माधवे (१.५२)—
**कुल-वर-तनु-धर्म-ग्राव-वृन्दानि भिन्दन्
सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः ।
युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा
मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥
श्री-जीवः : **मुहुः श्री-कृष्णम् अनुभूतवत्याः श्री-वृन्दावनेश्वर्याः कुलेति वाक्यम् इदम् । ततस् तत्रत्य-प्रकरण-बलान् नव-नवत्वं गम्यते, अतोऽत्राप्य् उदाहरणं कृतम् । छटात्र सूक्ष्माग्र-भागः । सटाच् छटाभिन्न-घन [शि।व। १.४७] इति माघ-काव्यात् । कक्षा प्रकोष्ठं, कक्षा प्रकोष्ठम् इत्य् अमर-नानार्थ-वर्गात् । मरकत-मणि-लक्षैर् इति तत्-तुल्य-तद्-अंशूनां तत्तया मननात् । किन्त्व् अत्रापूर्वत्वम् । तत् तद् दुष्कर-कर्मणो युगपन् निर्माणेन तथा तादृग्-ग्राव-वृन्दानि भिनत्ति । मरकत-मणि-लक्षैस् तु गोष्ठ-कक्षां चिनोतीत्य् अप्रयोजन-तद्-भेदनेन ज्ञेयम् ॥१८६॥
मुकुन्दः : कुल-वरेति । छटात्र सूक्ष्माग्र-भागः । सटाच् छटाभिन्न-घन [शि।व। १.४७] इति माघात् । कक्षा प्रकोष्ठम् । मरकत-मणि-लक्षैर् इति प्रथमातिशयोक्तिः । तद्-अन्यांशवो निगीर्णा ज्ञेयाः । किन्त्व् अत्रापूर्वत्वं तत्-तद्-दुष्कर-कर्मणो युगपन्-निर्माणेन ॥१८६॥
**विश्वनाथः : **मुहुः श्री-कृष्णम् अनुभूतवत्याः श्री-वृन्दावनेश्वर्याः वाक्यम् आह—कुल-वरेति । हे सुमुखि ! पुरोऽग्रे कोऽयम् अपूर्वः विश्वकर्मा यस् तीक्ष्ण-दीर्घाप्य् अङ्गस्य छटाभिः सूक्ष्माग्र-भागैः करणैः कुल-वर-तनोः कुलाङ्गनायाः धर्म-रूप-प्रस्तर-वृन्दानि भिन्दन् सन् मरकत-मणि-लक्षैर् करणैर् गोष्ठ-प्रदेशं चिनोति निर्माणं करोतीति । अत्र मरकत-मणि-तुल्याङ्ग-किरणानां मरकत-मणित्वेन मननम् इति ज्ञेयम् । अन्य-विश्वकर्मापेक्षयान्यापूर्वत्वं तु एकस्मिन्न् एव काले दुष्कर-कर्म-द्वय-निर्माण-कर्तृत्वम् । एवं यानि प्रस्तर-वृन्दानि भिनत्ति । तानि विहारान्यैः प्रस्तरैर् गोष्ठ-चयन-कर्तृत्वं च ॥१८६॥
—ओ)०(ओ—
॥ २.१.१८७ ॥
(५४) सच्-चिद्-आनन्द-सान्द्राङ्गः—
सच्-चिद्-आनन्द-सान्द्राङ्गश् चिद्-आनन्द-घनाकृतिः ॥
श्री-जीवः, विश्वनाथः : सद् इति । सर्व-काल-देश-व्यापकत्वात्, योऽयं कालस् तस्य तेऽव्यक्त-बन्धोश् चेष्टाम् आहुः [भा।पु। १०.३.२६] इत्य्-आद्य्-उक्तम् । न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य् आदि इत्य्-आदि च । चिद् इति स्व-प्रकाशत्वेनाजडत्वात् । तद् उक्तं—पश्यतोऽजस्य तत्-क्षणात् व्यदृश्यन्त [भा।पु। १०.१३.४६] इति । अत्र हि अजस्य कर्तृत्वादि-निर्देशाद् व्यदृश्यन्तेति कर्म-कर्तृ-प्रयोगः । न चक्षुषा पश्यति रूपम् अस्य [श्वे।उ। ४.२०, क।उ। २.३.९], यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् [क।उ। १.२.२३] इति श्रुतेः । आनन्देति निरुपाधि-प्रेमास्पद-सर्वांशत्वात् । तद् उक्तं—किम् एतद् अद्भुतम् इव वासुदेवेऽखिलात्मनि [भा।पु। १०.१३.३६] । आनन्दं ब्रह्मणो रूपम् इति श्रुतेः । सान्द्रेति तद्-इतरास्पृष्ट-रूपत्वात् । तद् उक्तं—
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.४-५] इति ।
चिद्-आनन्द-घनाकृतिर् इति च । तत्-समानार्थ-सच्-छब्द-प्रयोगश् चात्र तत्-तद्-रूपत्वेनोपलक्षितत्वान् न कृतः ॥१८७॥
मुकुन्दः : सच्-चिद्-आनन्देन सान्द्रम् अङ्गं यस्य सः । प्रकृत्याभिरूप इतिवत् तृतीया । चिद्-आनन्देत्य् अत्र सच्-छब्दाप्रयोगस् तत्-तद्-रूपत्वेनोपलक्षितत्वान् न कृतः ॥१८७॥
—ओ)०(ओ—
॥ २.१.१८८ ॥
यथा—
**क्लेशे क्रमात् पञ्च-विधे क्षयं गते
यद्-ब्रह्म-सौख्यं स्वयम् अस्फुरत् परम् ।
तद् व्यर्थयन् कः पुरतो नराकृतिः
श्यामोऽयम् आमोद-भरः प्रकाशते ॥
श्री-जीवः, **क्लेश इति । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः [यो।सू। २.३] व्यर्थयन्न् आवृण्वन्न् इत्य् अर्थः ॥१८८॥
मुकुन्दः : क्लेश इति । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः [यो।सू। २.३] । आमोदस्य हर्षस्य भरोऽतिशयो यस्मात् स तथा सच्-चिद्-आनन्द-सान्द्रत्वात् । अत एव तद् ब्रह्म-सौख्यं व्यर्थयन् कौस्तुभ-प्रकाशे दीप-प्रकाशवत् प्रमोद-भरेऽन्तर्भावयन् ॥१८८॥
विश्वनाथः : क्लेश इति । अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः [यो।सू। २.३] एतादृश-पञ्च-विधे क्लेशे क्षयं गते सति यत् परं श्रेष्ठं ब्रह्म-सौख्यं स्वयम् अस्फुरत्, तद् ब्रह्म-सुखं व्यर्थयन् कोऽयं प्रमोद-भर-स्वरूपः श्यामः प्रकाशते ॥१८८॥
–ओ)०(ओ–
॥ २.१.१८९ ॥
यथा व ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (५.४०)—
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
श्री-जीवः : यस्य प्रभेति । पूर्वं [भ।र।सि। १.२.२७८] योजितम् अस्ति । ततश् च प्रभात्वे योजिते विभूतित्वम् अपि योजितं स्यात् । तथा च श्रुतिः । यस्य पृथिवी शरीरं॥। यस्याव्यक्तं शरीरं॥। सर्व-भूतान्तरात्मा दिव्यो देव एको नारायणः इत्य् आद्या । यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तम [गीता १५.१८] इति श्री-भगवद्-उपनिषदश् च । तथा चैकादशे श्री-भगवतो विभूति-प्रसङ्ग एव उक्तं—
पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ [भा।पु। ११.१६.३७] इति ।
टीका च—परं ब्रह्म चेत्य् एषा ॥१८९॥
मुकुन्दः : अशेष-वसुधादि-विभूतिभिर् भिन्नं भेदम् उपागतं निष्कलादि-विशेषण-त्रय-विशिष्टं च यद् ब्रह्म यस्य सदा-प्रभाव-युक्तस्य प्रभा भवेत् तम् ॥१८९॥
विश्वनाथः : यस्य प्रभेति पूर्वम् एव [भ।र।सि। १.२.२७८] व्याख्यातम् ॥१८९॥
—ओ)०(ओ—
॥२.१.१९०॥
अतः श्री-वैष्णवैः सर्व-श्रुति-स्मृति-निदर्शनैः ।
तद् ब्रह्म श्री-भगवतो विभूतिर् इति कीर्त्यते ॥
श्री-जीवः : अत इति । यद्यप्य् एतैर् ब्रह्म-शब्देनापि भगवान् वाच्यते, निर्विशेषं ब्रह्म तु पृथक् नाङ्गीक्रियते, तथापि मतान्तरम् अङ्गीकृत्य तद् इदं प्रोक्तम् इति ज्ञेयम् ॥१९०॥
**मुकुन्दः : न व्याख्यातम्
विश्वनाथः : **श्रीवैष्णवः श्रीरामानुजाचार्यगणैः सर्व-श्रुति-स्मृति-शास्त्राणां नितरां दर्शन-कर्त्तृभिः कीर्त्त्यते ॥१९०॥
—ओ)०(ओ—
॥ २.१.१९१ ॥
तथा हि यामुनाचार्य-स्तोत्रे (१४)—
यद्-अण्डान्तर-गोचरं च यद्
दशोत्तराण्य् आवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः ॥
श्री-जीवः : अत इति । यद्यप्य् एतैर् ब्रह्म-शब्देनापि भगवान् वाच्यते, निर्विशेषं ब्रह्म तु पृथक् नाङ्गीक्रियते, तथापि मतान्तरम् अङ्गीकृत्य तद् इदं प्रोक्तम् इति ज्ञेयम्यद् अण्डमिति । अण्डस्यान्तरं मध्यभागो गोचरो विषयो यस्य तत् सर्वमित्यर्थः । दशोति—दश दश गुणानि उत्तराणि उत्तरोत्तरप्रमाणानि येषां तानि यानि । पुरुषः समष्टिजीवः । परं पदं वैकुण्टं, ब्रह्म तु भगवत एव क्वचिद्धिकारिणि निर्विशेषत्वेनाविर्भाव्विशेषः ॥१९१॥
मुकुन्दः : अण्डस्यान्तरं मध्य-भागो गोचरो विषयो यस्य तत् सर्वम् इत्य् अर्थः । दशेति—दश-दश-गुणानि उत्तराणि उत्तरोत्तर-प्रमाणानि येषां तानि यानि । पुरुषः समष्टि-जीवः । परं पदं वैकुण्ठम् । ब्रह्म तु भगवत एव क्वचिद् अधिकारिणि निर्विशेषत्वेनाविर्भाव-विशेषः ॥१९१॥
विश्वनाथः : यद् अण्डम् एवं यद् अण्डस्यान्तरं मध्य-भागो गोचरो विशेषो यस्य तथा-भूतं समस्त-वस्तु-जातम् । एवं यानि च दशोत्तराणि आवरणानि दश-दश-गुणानि उत्तराणि उत्तरोत्तराधिक-प्रमाणानि येषां तथा पुरुषः समष्टि-जीवः परं पदं वैकुण्ठं, एवं ब्रह्म च ते तव विभूतय एव ॥१९१॥
—ओ)०(ओ—
॥ २.१.१९२-१९३ ॥
(५५) सर्व-सिद्धि-निषेवितः—
स्व-वशाखिल-सिद्धिः स्यात् सर्व-सिद्धि-निषेवितः ॥
यथा—
दशभिः सिद्ध-सखीभिर् वृता महा-सिद्धयः क्रमाद् अष्टौ ।
अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य ॥
श्री-जीवः : दशभिः अणूर्मिमत्त्वादिभिः क्रमात् स्व-स्व-क्रमं प्राप्य सेविता इत्य् अर्थः । सिद्धयश् चैता एकादश-स्कन्धे ज्ञेयाः ॥१९३॥
मुकुन्दः : अवसरं सेवितुं समयम् ॥१९३॥
विश्वनाथः : दशभिः सिद्ध-सखीभिर् वृता अणिमादयोऽष्टौ महा-सिद्धयः । अवसरं न लभन्ते सखीभिर् इत्य् अत्राणूर्मिमत्त्वादिभिर् गौणीभूताभिर् इत्य् अर्थः ॥१९३॥
—ओ)०(ओ—
॥ २.१.१९४ ॥
(५६) अथ अविचिन्त्य-महा-शक्तिः—
दिव्य-सर्गादि-कर्तृत्वं ब्रह्म-रुद्रादि-मोहनम् ।
भक्त-प्रारब्ध-विध्वंस इत्य् आद्य् अचिन्त्य-शक्तिता ॥
श्री-जीवः : दिव्येत्य् उत्तरोत्तर-न्यून-क्रमः । ब्रह्म-रुद्रादीत्य् आदि-शब्द-ग्रहणात् सङ्कर्षणोऽपि ज्ञेयः । उत्तरोत्तर-ज्ञान-प्रकर्ष-क्रमाद् यथा तद्-वाक्यं–प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] इति । दिव्यत्वम् अत्र ब्रह्माण्डान्तर्यामि-पर्यन्तत्वं ज्ञेयम् । विध्वंस इति विध्वंसनम् इत्य् अर्थः ॥१९४॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **दिव्यत्वम् अत्राप्राकृत-समस्त-ब्रह्माण्डान्तर्यामि-पर्यन्तं ज्ञेयम् । ब्रह्मादीनां सर्वेषाम् अप्राकृतत्वे प्रमाणं तु ब्रह्म-स्तवे इतीरेशेऽतर्क्ये [भा।पु। १०.१३.५७] इति श्लोके द्रष्टव्यम् । ब्रह्म-रुद्रादीत्य् आदि-शब्द-ग्रहणात् सङ्कर्षणोऽपि ज्ञेयः । उत्तरोत्तर-ज्ञान-प्रकर्ष-क्रमात् । यथा तद्-वाक्यं–प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] इति । दिव्यत्वम् अत्र ब्रह्माण्डान्तर्यामि-पर्यन्तत्वं ज्ञेयम् । विध्वंस इति विध्वंसनम् इत्य् अर्थः ॥१९४॥
—ओ)०(ओ—
॥ २.१.१९५ ॥
तत्र दिव्य-सर्गादि-कर्तृत्वं, यथा—
आसीच् छाया-द्वितीयः प्रथमम् अथ विभुर् वत्स-डिम्भादि-देहान्
अंशेनांशेन चक्रे तद् अनु बहु-चतुर्-बाहुतां तेषु तेने ।
वृत्तस् तत्त्वादि-वीतैर् अथ कम् अलभवैः स्तूयमानोऽखिलात्मा
तावद् ब्रह्माण्ड-सेव्यः स्फुटम् अजनि ततो यः प्रपद्ये तम् ईशम् ॥
श्री-जीवः : आसीच् छाया-द्वितीय इत्य् अनेन नर-लीलामयत्वात्, स्वयं-भगवत्त्व-व्यञ्जकात् तात्कालिकत्वाच् च, पूर्व-प्रतिज्ञातम् अद्भुतत्वम् उदाहृतम् । एवम् उत्तरत्रापि । वत्स-डिम्भादि-देहान् अंशेनेत्य् एव पाठः । तद् एतच् च—अद्यैव त्वद् ऋतेऽस्य किं मम न ते [भा।पु। १०.१४.१८] इत्य् आद्य्-अनुसारेणाधिगम्यम् । प्रकारान्तरम् एतत् पद्यं त्यक्तम् ॥१९५॥
**मुकुन्दः : **आसीच् छाया-द्वितीयः प्रथमम् अथ विभुर् वत्स-डिम्भायितोऽभूद् एभिः सार्धं स्वरूपैस् तद्-अनु पृथु-चतुर्थाहुताम् आससाद । “वृत्तस् तत्त्वादि-वीतैर् अथ कमल-भरैः स्तूयमानाखिलात्मा तावद् ब्रह्माण्ड-सेव्यः स्फुटम् अजनि ततो यं प्रपद्ये तम् ईशम्” इति पाठः । एभिर् वत्स-डिम्भैः यावन्तो वत्सा बालाश् च तावद्-ब्रह्माण्ड-सेव्यः ॥१९५॥
**विश्वनाथः : **यः श्री-कृष्णः ब्रह्म-मोहन-प्रसङ्गे प्रथमं छाया-मात्र-द्वितीय एकाकी आसीत् । अथानन्तरम् आशु वत्स-बालकान् अशेषान् कृत्वा भूयः पुनः पुनर् अपि अमून् वत्स-डिम्भान् परम-पुरुषता-योग्य-रूपान् चतुर्भुजान् कृत्वा पुनर् अपि कॢप्तैः स्वेनैव कृतैस् तत्त्वैः सह-गणैर् ब्रह्मादि-गणैर् अखण्डैर् अजाण्डैश् च प्रेत्येकं सेव्यमानान् लघुतरं यथा स्यात् तथा अकृत, तम् ईशं श्री-कृष्णम् अहं प्रपद्ये ॥१९५॥
—ओ)०(ओ—
**॥ २.१.१९६ ॥
ब्रह्म-रुद्रादि-मोहनं, **यथा—
मोहितः शिशु-कृतौ पितामहो
हन्त शम्भुर् अपि जृम्भितो रणे ।
येन कंस-रिपुणाद्य तत्-पुरः
के महेन्द्र विबुधा भवद्-विधाः ॥
श्री-जीवः : मोहित इति बाण-युद्धानन्तरं कदाचित् पारिजात-प्रत्यानयनाय कृत-प्रौढि-प्रलापम् इन्द्रं प्रति श्री-नारदस्य हास्य-वचनम् । अद्येति—तस्य पूर्व-पराजयोऽपि सूचितः ॥१९६॥
**मुकुन्दः : **मोहित इति बाण-युद्धानन्तरं कदाचित् पारिजात-प्रत्यानयनाय कृत-प्रौढि-प्रलापम् इन्द्रं प्रति श्री-नारदस्य सावज्ञ-वचनम् ॥१९६॥
**विश्वनाथः : **मोहित इति बाण-युद्धानन्तरं कदाचित् पारिजात-प्रत्यानयनाय कृत-प्रौढि-प्रलापम् इन्द्रं प्रति श्री-नारदस्य हास्य-वचनम् । शिशु-हृतौ वत्स-बालक-हरणे । रणे बाण-युद्धे ॥१९६॥
—ओ)०(ओ—
॥ २.१.१९७ ॥
भक्त-प्रारब्ध-विध्वंसो, यथा श्री-दशमे (१०.४५.४५)—
गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥
श्री-जीवः : निजं तदीयं कर्मैव तन्-निबन्धनं तन्-नयने निमित्तं यस्य तम् । तर्हि कथं तत्-प्रारब्ध-कर्मातिक्रमितं ? तत्राह—मच्-छासनेति । भक्तत्वम् अस्य पितृ-सम्बन्धाज् ज्ञेयम् ॥१९७॥
**मुकुन्दः : **गुर्व् इति निजं कर्म प्रारब्ध-लक्षणं निबन्धनम् अवश्यं भोग्यं यस्य तथा-भूतम् अपि । पितृ-सम्बन्धाद् अस्य भक्तत्वं ज्ञेयम् ॥१९७॥
विश्वनाथः : निजं तदीयं कर्मैव निबन्धनं तन्-नयने निमित्तं यस्य तम् । ननु हे भगवन् ! तेन प्रारब्धं भुज्यते, कथं तद् भोगं विनात्रानयनं सम्भवति ? तत्राह—मच्-छासन-पुरस्कृत इति । तथा च मद्-आज्ञयैव स भक्तो जातः । अतस् तस्यानयने न कोऽपि दोषः । अत एव गुरु-पुत्रस्य साधनादिकं विनापि भगवत्-कृपा-सिद्धत्वेन भक्तत्वम् इति भावः ॥१९७॥
—ओ)०(ओ—
॥ २.१.१९८ ॥
आदि-शब्देन दुर्घट-घटनापि—
अपि जनि-परिहीनः सूनुर् आभीर-भर्तुर्
विभुर् अपि भुज-युग्मोत्सङ्ग-पर्याप्त-मूर्तिः ।
प्रकटित-बहु-रूपोऽप्य् एक-रूपः प्रभुर् मे
धियम् अयम् अविचिन्त्यानन्त-शक्तिर् धिनोति ॥
श्री-जीवः : दुर्घट-घटना नाम स्वीय-दुरूहावस्थितेः प्रकाशनम् । अपीति श्री-शुकदेव-वाक्यम् । अपि जनीति । अजोऽपि जातो जगतः शिवाय9 इति श्रीमद्-उद्धव-वचनादिभ्यः, सूनुर् आभीर-भर्तुः इति प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इत्य् आदि इत्य्-आदि गर्ग-वाक्यात् । स्व-प्रसूर् गर्भ-जन्मेति तु पाठान्तरम् । विभुर् अपि तयैव मूर्त्या सर्वं व्याप्नुवन्न् अपि श्री-जनन्य्-आदीनां भुज-युग्मोत्सङ्गेन पर्याप्ता पूर्णत्वेन प्रकाशमाना मूर्तिर् यस्य सः । न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य् आदेः । प्रकटितेति—
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२] इति श्री-नारद-वाक्यात् ॥१९८॥
**मुकुन्दः : **अपीति श्रीमद्-उद्धवस्य वचनं—पितृ-वर्गांशिनः श्री-व्रज-राजस्य सूनुर् इत्य् अनुवादः । श्री-कृष्ण-कृपया व्रज-रहस्य-ज्ञानात् ॥१९८॥
**विश्वनाथः : **अपीति श्री-शुक-वाक्यम् । जनि-परिहीनः जन्म-रहितोऽपि आभीर-भर्तुर् नन्दस्य सूनुः । अत्र जन्माभावे प्रमाणम् । अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इति श्रीमद्-उद्धव-वचनम् । जन्मवत्त्वे प्रमाणम्—प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इति गर्ग-वाक्यम् । विभुः सर्व-व्यापकोऽपि भुज-युग्मोत्सङ्गेनालिङ्गनेन पर्याप्ति-प्राप्ता मूर्तिर् यस्य तथा-भूतः । तत्र प्रमाणं—न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इति श्री-शुक-वाक्यम् । प्रकटितेति—
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२] इति श्री-नारद-वाक्यात् ।
तस्माद् अविचिन्त्य-शक्तिः स मम धियं धिनोति ।१९८॥
—ओ)०(ओ—
॥ २.१.१९९ ॥
(५७) कोटि-ब्रह्माण्ड-विग्रहः—
अगण्य-जगद्-अण्डाढ्यः कोटि-ब्रह्माण्ड-विग्रहः ।
इति श्री-विग्रहस्यास्य विभुत्वम् अनुकीर्तितम् ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अगण्येति । अनुकीर्तितम् अपि जनीति पद्ये कीर्तितम् एव कीर्तितम् । विभुत्वेति परिच्छिन्नता-दुर्घट-घटता । विभुत्व-मात्रं कोटि-ब्रह्माण्ड-विग्रहता ॥१९९॥
—ओ)०(ओ—
॥ २.१.२०० ॥
यथा तत्रैव (१०.१४.११)—
**क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-
संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः ।
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् ॥
श्री-जीवः : **अगण्यैर् जगद्-अण्ड-कोट्या युक्त इत्य् अत्र—क्वाहं तम इति दर्शयित्वा महा-पुरुषत्वेऽपि सर्वत्र-ब्रह्माण्ड-व्यापि-विग्रहत्वम् उदाहृत्य श्री-कृष्णत्वे कैमुत्यम् आनीतम्। तच् च सर्व-वैकुण्ठ-व्यापित्वाज् ज्ञेयम् । तथापि तेभ्यस् तस्य पृथक्त्वम् अत्यद्भुतम् । यद् उक्तम्—मया ततम् इदं सर्वम् [गीता ९.४] इत्य् आदि इत्य्-आदि ।
क्वाहम् इति तु व्याख्यायते—तमः प्रकृतिः, महान् महत्-तत्त्वम्, अहम् अहङ्कार-तत्त्वम्, खम् आकाशं, चरो वायुः, भूः पृथ्वी । सेयं ब्रह्माण्ड-खर्पर-रूपैवान्यत्र मन्यते । अत्र ततो भिन्नत्वेन निर्देशस् तु शिला-पुत्रस्य शरीरम् इतिवज् ज्ञेयः एताभिः संवेष्टितो यद् अण्ड-घटः । तस्य च समष्टि-जीव-रूपेणाभिमान्य् अहं क्व, चतुर्मुख-शरीराभिमानित्वेन सप्त-वितस्ति-काय-रूपश् च सुतराम् अहं क्व ? विशेषणयोः कर्म-धारयः । ईदृग्-विधेत्य् आदि-रूपस्य ते तव महित्वं क्व । तत्राणवः परमाणवस् तेषां चर्या तु परमाणु-पक्षे बहिर्-अन्तर्गत्य्-आगति-रूपा । ब्रह्माण्ड-पक्षे यथा-कालम् आविर्भाव-लय-रूपा । वाताध्वा गवाक्षः । भगवत्-पक्षे रोम-विवर इव सूक्ष्मतमैक-देशः । यद् उक्तं विष्णु-पुराणे—यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता इति ॥२००॥
मुकुन्दः : क्वाहम् इति । चरो वायुः । भूर् अण्ड-कटाह-भित्ति-रूपा पृथ्वी । ईदृग्-विधानि यान्य् अगणितान्य् अण्डानि त एव पराणवः परमाणवस् तेषां चर्या परिभ्रमणं तद्-अर्थं वाताध्वानो गवाक्षा इव रोम-विवराणि यस्य तस्येति विग्रहः । इति पुरुष-कार्यम् अंशित्वात् श्री-कृष्णे सन्दर्श्य नराकार-पर-ब्रह्मत्वेनाद्भुतत्वं बोधितम् ॥२००॥
**विश्वनाथः : **क्वाहम् इति । तमः प्रकृतिर् महन् महत्-तत्त्वम् अहम् अहङ्कारः, खम् आकाशं, चरो वायुः, जलं भूः पृथ्वी । एतैः संवेष्टितं यद् अण्डं ब्रह्माण्डं तद् एव घटः, तादृश-ब्रह्माण्ड-घट-रूपं सप्त-वितस्ति-प्रमाणं शरीरं यस्य तथा-भूतोऽहं क्व । ईदृग्-विधाविगणित-ब्रह्माण्डान्य् एव परमाणवस् तेषां बहिर्-अन्तर्गत्य्-आगति-रूपा चर्या यत्र तथा-भूता गवाक्ष-रूप-रोम-विवराणि यस्य तथाभूतस्य तव महित्वं क्व ? ॥२००॥
—ओ)०(ओ—
॥ २.१.२०१ ॥
यथा वा—
तत्त्वैर् ब्रह्माण्डम् आढ्यं सुरकुल-भुवनैश् चाङ्कितं योजनानां
पञ्चाशत्-कोट्य्-अखर्व-क्षिति-खचितम् इदं यच् च पाताल-पूर्णम् ।
तादृग्-ब्रह्माण्ड-लक्षायुत-परिचय-भाग् एक-कक्षं विधात्रा
दृष्टं यस्यात्र वृन्दावनम् अपि भवतः कः स्तुतौ तस्य शक्तः ॥
श्री-जीवः : तद् एव वृन्द्डवन-दृष्टान्तेन दर्शयति—यथा वेति ॥२०१॥
**मुकुन्दः : **तद् एव कैमुत्येन दर्शयति—तत्वैर् इति यज्ञ-भङ्गात् पश्चान् निर्मद-शक्रस्य वचनम् । परिचयत्वं शक्ति-सम्बन्धत्वम् ॥२०१॥
विश्वनाथः : तद् एव वृन्दावन-दृष्टान्तेन दर्शयति—यथा वेति । ब्रह्माण्डं कीदृशम् ? तत्त्वैर् महद्-आदिभिर् आढ्यं युक्तं पुनश् च योजमानां पञ्चाशत्-कोट्य्-अखर्व-क्षिति-खचितम् । पञ्चाशत्-कोटि-योजन-प्रमाणक-बृहत्-क्षिति-युक्तम् इत्य् अर्थः । एतादृशायुत-लक्ष-ब्रह्माण्ड-भाक् एक-कक्षा यस्य तथाभूतं यस्य भवतो वृन्दावनं विधात्रा दृष्टम् । तस्य स्तुतौ कः समर्थः ? ॥२०१॥
—ओ)०(ओ—
॥ २.१.२०२-२०३ ॥
(५८) अवतारावली-बीजम्—
अवतारावली-बीजम् अवतारी निगद्यते ॥
यथा श्री-गीत-गोविन्दे (१.१६)—
**वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते
म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः ॥
श्री-जीवः : **अवतारीति । भूमार्थे मत्व्-अर्थीयः । सर्वेभ्योऽवतारिभ्यः पूर्णत्वात्, एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य् उक्तेः ॥२०२॥ अत्रातिप्रसिद्ध-प्रमाणस्य परम-शास्त्रस्य श्री-भागवत-वाक्यस्य तस्यैव महति लोकेऽपि दिग्-दर्शनम् अस्तीत्य् आह—यथा श्री-गीत-गोविन्द इति ॥२०३॥
**मुकुन्दः : **अवतारीति । भूमार्थे मत्व्-अर्थीयः । श्री-कृष्णेऽसङ्कोच-वृत्त्या मुख्यम् अवतारित्वं, नारायणादौ सङ्कोच-वृत्त्या गौणम् एव तद् इत्य् अर्थः ॥२०२॥ वेदान् इति । नृसिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरितम् [ल।भा। १.५.१६] इत्य् आदि इत्य्-आदि वचनेभ्यः पूर्वावस्थयोर् अपि नृसिंह-रामयोर् अवतारित्वं कृष्णे मुख्यम् एव तद् इति दर्शितम् । ब्रह्माण्डे च—
यो वैकुण्ठे चतुर्बाहुर् भगवान् पुरुषोत्तमः । य एव श्वेतद्वीपेशो नर-नारायणश् च यः ॥ स एव वृन्दावन-भू-विहारी नन्द-नन्दनः । एतस्यैव परेऽनन्ता अवतारा मनोरमाः ॥ महाग्निर् इव यद्वत् स्युर् उल्काः शत-सहस्रशः । तत्रैव लीला एकत्वं व्रजेयुस् ते हरौ तथा ॥ इति ॥२०३॥
विश्वनाथः : अवतारीति । भूमार्थे मत्व्-अर्थीयः । सर्वेभ्योऽवतारिभ्यः पूर्णत्वात्, एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य् उक्तेः ॥२०२॥ वेदान् इति मत्स्याय, जगन्तीति कूर्माय, भूगोलम् इति वराहाय, दैत्यम् इति नृसिंहाय, बलिम् इत् वामनाय, क्षत्रेति परशुरामाय, पौलस्त्यं रावणम् इति रामचन्द्राय, हलम् इति बलदेवाय, कारुण्यम् इति बुद्ध्याय, म्लेच्छान् इति कल्किने, दशाकृअवो दशावतारास् तान् करोत्य् आविर्भावयति इति दशाकृति-कृत् । तस्मै पूर्वोक्त-दशावतार-स्वरूपाय कृष्णाय नमः ॥२०३॥
—ओ)०(ओ—
॥ २.१.२०४-२०५ ॥
(५९) हतारि-गति-दायकः—
मुक्ति-दाता हतारीणां हतारि-गति-दायकः ॥
यथा—
**पराभवं फेनिल-वक्त्रतां च
बन्धं च भीतिं च मृतिं च कृत्वा ।
पवर्ग-दातापि शिखण्ड-मौले
त्वं शात्रवाणाम् अपवर्गदोऽसि ॥
श्री-जीवः : **मुक्तीत्य् उपलक्षणम् । पूतनादिषु भक्ति-दातृत्वम् अपि ज्ञेयम् । तद् एवम् अप्य् उक्तम् अमी कृष्णे किलाद्भुता [भ।र।सि। २.१.४०] इति ॥२०४॥
**मुकुन्दः : **श्री-कृष्ण-हस्त-मृत्यु-प्रभावेण स्वयं-भावि-मुक्तेः सम्प्रदानाभावाद् धतारीणाम् इति षष्ठी । पूतनादीनां सारूप्याभास-दानेऽपि पश्चान्-मुक्तिर् एव । केचित् प्राप्यापि सारूप्याभासं मज्जन्ति तत्-सुखे [भ।र।सि। १.२.२७९] इत्य् अत्रोक्तम् एव । श्री-भागवतामृतेऽपि—
इत्य् उक्त्वाप्य् अत्र बक्यापि मोक्षम् अप्य् अर्भ-लीलया । अमोक्षं कालनेम्यादेर् अन्यत्रापीश-चेष्टया ॥ [ल।भा। १.५.६५] इति ।
लक्ष्मीश-राम-नृसिंहादि-भोग-सम्पत्ति-दातृत्वम् एवाद्भुतत्वाभावात् ॥२०४॥ पराभवम् इति श्री-नारद-वाक्यम् ॥२०५॥
**विश्वनाथः : **मुक्त्-दातेत्य्-आदि-लक्षणानि तु श्री-कृष्ण-मात्र-निष्ठ-गुणानाम् एव । तेषां नारायणादि-साधारण्ये तु गति-दायकत्वादि-सामान्य-धर्मम् आश्रित्यैव ज्ञेयम् । हे शिखण्डमौले ! त्वं शात्रवाणां पवर्ग-दातापि अपवर्गदोऽसि पवर्गाद् अभिन्नोऽसीति विरोधाभासः । विरोध-भञ्जनं तु अपवर्गो मोक्षः । पवर्ग-दातृत्वम् एवाह—पराभवम् इत्य् आदि इत्य्-आदि ॥२०४-२०५॥
—ओ)०(ओ—
॥ २.१.२०६ ॥
यथा वा—
**चित्रं मुरारे सुर-वैरि-पक्षस्
त्वया समन्ताद् अनुबद्ध-युद्धः ।
अमित्र-वृन्दान्य् अविभिद्य भेदं
मित्रस्य कुर्वन्न् अमृतं प्रयाति ॥
श्री-जीवः : **अमित्र-वृन्दान्य् अविभिद्य इत्य् एव पाठः । पक्षे मित्रः सूर्यः ॥२०६॥
मुकुन्दः : आरात् समीपे । अमित्रं शत्रुं त्वां मित्रस्य दूरे वर्तमानस्य सूर्यस्य ॥२०६॥
विश्वनाथः : हे मुरारे ! त्वया सह समन्ताद् अनुबद्ध-युद्धः असुर-पक्षः अमित्र-वृन्दानि अविभिद्य भेदम् अकृत्वैव मित्रस्य भेदं कुर्वन् अमृतं प्रयाति । अत्र शब्द-मात्रेणैव विरोधो, न त्व् अर्थेन । एवं सति मित्रस्य सूर्यस्य अमृतं मोक्षः मुक्तः सूर्य-मण्डलं भित्त्वा गच्छतीति मतानुसारेण ज्ञेयम् ॥२०६॥
—ओ)०(ओ—
॥ २.१.२०७-२०८ ॥
(६०) आत्माराम-गणाकर्षी—
आत्माराम-गणाकर्षीत्य् एतद् व्यक्तार्थम् एव हि ॥
यथा—
पूर्ण-परमहंसं मां माधव लीला-महौषधिर् घ्राता ।
कृत्वा बत सारङ्गं व्यधित कथं सारसे तृषितम् ॥
श्री-जीवः : सारङ्गश् चातको भक्तश् च सारं गायतीत्य् उक्त्या, सारङ्गानां पदाम्बुजम् [भा।पु। १.११.२६७] इत्य् उक्तेः । भक्त-पक्षे सेति पृथक् पदम् । पक्षान्तरे सारसं कमलम् । अत्र चातकी-करणं तत्रापि कमले तृषितीकरणम् इति श्लेषेऽपि द्विगुणीभाव्याश्चर्यं गमितम् ॥२०८॥
**मुकुन्दः : **पूर्व-ब्रह्मानन्द-लाभात् स्पृहा-शून्यम् अपि घ्राता सत्य् एव, न तु आस्वादिता इत्य् अद्भुतत्वम् । सारङ्गो भक्तश् चातकः । भक्त-पक्षे सेति पृथक् पदम् । चातक-पक्षे सारसं कमलम् ॥२०८॥
विश्वनाथः : मया घ्राता माध्व-लीला-महौषधिः परमहंसं पक्षि-विशेषं सारङ्गं चातकं कृत्वा सारसे कमले कथं तृषितम् अकरोत् हंसस्य चातकीकरणं तत्रापि कमले तृषितीकरणम् इत्य् आश्चर्यम् इति बोध्यम् । पक्षे, पूर्णं परमहंसं ब्रह्मानुभविनं मां सारङ्गं भक्तं कृत्वा । सेति पृथक् पदम् । सा माधव-लीला-महौषधिर् भक्ति-रसे तृषितं व्यधित ॥२०८॥
—ओ)०(ओ—
॥ २.१.२०९-२१० ॥
अथासाधरण-गुण-चतुष्के— (६१) लीला-माधुर्यं—
यथा बृहद्-वामने—
सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥
यथा वा—
परिस्फुरतु सुन्दरं चरित्रम् अत्र लक्ष्मी-पतेस्
तथा भुवन-नन्दिनस् तद्-अवतार-वृन्दस्य च ।
हरेर् अपि चमत्कृति-प्रकर-वर्धनः किन्तु मे
बिभर्ति हृदि विस्मयं कम् अपि रास-लीला-रसः ॥
श्री-जीवः : सन्तीत्य् उदाहरण-द्वयं परमोत्कर्ष-दर्शनार्थम् एव लीला-विशेषमयतया दर्शितम् । तदीय-लीला-सामान्यम् अपि सर्वोत्कृष्टतया श्री-भागवतादौ प्रसिद्धम् इति तत् तु न दर्शितम् । तथा हि श्री-परीक्षिद्-वाक्यम्—येन येनावतारेण [भा।पु। १०.७.१] इति, यच् छृण्वतोऽपैत्य् अरतिर् वितृष्णा [भा।पु। १०.७.२] इत्य् आदि इत्य्-आदि च । प्राज्याः प्रचुराः ॥२०९-२१०॥
मुकुन्दः : तास् ता जन्मादि-सर्व-लीलाः प्राज्या अन्यत्रालभ्यत्वात् प्रचुरतर-माहात्म्याः । अत एव मनोहराः सर्वेषाम् अद्भुत-चमत्कारितया प्रीति-कर्त्र्यः ॥२०९॥
परीति श्रीमद्-उद्धव-वचनम् । हरेर् द्वारकानाथस्य मत्-प्रभोर् अपि । अत्र हरेर् अपि चमत्कृति-प्रकर-वर्धनार्थं रास-लीलैवोदाहृता ।
चरितं कृष्ण-देवस्य सर्वम् एवाद्भुतं भवेत् । गोप-लीला तत्रापि सर्वतोऽतिमनोहरा ॥ इति पाद्म-वचनम् ।
भागवतामृते सर्वासाम् एवोदाहरणम् ॥२१०॥
**विश्वनाथः : **सन्तीति प्राज्याः प्रचुराः ॥२०९॥
—ओ)०(ओ—
॥ २.१.२११ ॥
(६२) प्रेम्णा प्रियाधिक्यम्, यथा श्री-दशमे (१०.३१.१५)—
**अटति यद् भवान् अह्नि काननं
त्रुटिर् युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥
श्री-जीवः : **अटतीत्य् उदाहरणम् उत्कण्ठा-द्वारा तद्-बोधकम्, अन्यत्राश्रवणात् । विशेषोदाहरणानि चैतानि ज्ञेयानि—अहो भाग्यम् [भा।पु। १०.१४.३२], नेमं विरिञ्च [भा।पु। १०.९.२०] इत्य् आदि, इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.२१.११] इत्य् आदि, नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इत्य् आदि इत्य्-आदि च ॥२११॥
मुकुन्दः : अटतीत्य् आदि श्लोक-द्वये प्रेयस्योऽतुल्य-मधुर-प्रेम-मण्डितत्वेनोदाहृताः । एतद्-अनुसारेण दासादयोऽपि ज्ञेयाः ॥२११॥
विश्वनाथः : अटतीति । ते तव श्री-मुखम् उदीक्षताम् अस्माकं दृशां पक्ष्म-कृद् विधाता जडः ॥२११॥
—ओ)०(ओ—
॥ २.१.२१२ ॥
यथा वा—
**ब्रह्म-रात्रि-ततिर् अप्य् अघ-शत्रो
सा क्षणार्धवद् अगात् तव सङ्गे ।
हा क्षणार्धम् अपि वल्लविकानां
ब्रह्म-रात्रि-ततिवद् विरहेऽभूत् ॥
श्री-जीवः, विश्वनाथः : **ब्रह्म-रात्रीति । केषाञ्चिद् ब्रह्म-रात्र उपावृत्ते [भा।पु। १०.३३.३८] इत्य् अस्य रासान्त-पद्यस्य तथा व्याख्यानात् । तथैव चानुमतं श्री-स्वामि-चरणैः । शशाङ्कश् च सगणो विस्मितोऽभवत् [भा।पु। १०.३३.१८] इत्य् अत्र । किन्तु, तास् ताः क्षपाः प्रेष्ठतमेन [भा।पु। ११.१२.११] इत्य् आदौइत्य्-आदौ श्री-भगवद्-वाक्यं निर्विवादम् एव ॥२१२॥
मुकुन्दः : ब्रह्म-रात्रीति श्री-मन्त्रि-राज-वचनम् ॥२१२॥
—ओ)०(ओ—
॥ २.१.२१३ ॥
(६३) वेणु-माधुर्यम्, यथा तत्रैव (१०.३५.१५)—
सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः
कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥
श्री-जीवः : सवनशस् तद् उपधार्य इत्य् आद्य् अन्ते नद्यस् तद् उपधार्य इत्य् आदीनि च ज्ञेयानि । सवनशः वारं वारं तद्-वेणु-गीतं कश्मलं मोहम् । अनिश्चित-तत्त्वाः किम् इदम् इति निश्चेतुम् अशक्ताः ॥२१३॥
मुकुन्दः : तद् इत्य् अव्ययं ताः स्वर-जातीः सवनशः मन्त्र-मध्य-तार-भेदेन वारं वारम् ॥२१३॥
**विश्वनाथः : **तद्-वेणु-गीतं सवनशस् सवनशो वारं वारम् । कश्मलं मोहम् । अनिश्चित-तत्त्वाः किम् इदम् इति निश्चेतुम् अशक्ताः ॥२१३॥
—ओ)०(ओ—
॥ २.१.२१४ ॥
यथा वा विदग्ध-माधवे (१.२६)—
रुन्धन्न् अम्बु-भृतश् चमत्कृति-परं कुर्वन् मुहुस् तुम्बुरुं
ध्यानाद् अन्तरयन् सनन्दन-मुखान् विस्मेरयन् वेधसम् ।
औत्सुक्यावलिभिर् बलिं चटुलयन् भोगीन्द्रम् आघूर्णयन्
भिन्दन्न् अण्ड-कटाह-भित्तिम् अभितो बभ्राम वंशी-ध्वनिः ॥
श्री-जीवः : रुन्धन्न् इत्य् अत्र कल-रूपत्वेनैव सर्वत्र प्रसरण-मण्ड-कटाह-भेदश् च ज्ञेयः । तत् तु तुम्बुरु-चमत्कारादिना दर्शितम् अलौकिक-स्वभावत्वात्, तच् चोक्तं स्वनश इत्य् आदिना । विस्मेरयन्न् इत्य् अत्र विस्मापयन्न् इति पाठः शिष्टः ॥२१४॥
मुकुन्दः : वंशी-ध्वनेर् मधुरत्वेऽपि सर्वत्र प्रचारः । विस्मेरयन् विस्मय-शीलं कुर्वन् ॥२१४॥
विश्वनाथः : रुन्धन्न् इति । अत्र कल-रूपत्वेनैव सर्वत्र प्रसरण-मण्ड-कटाह-भेदश् च ज्ञेयः । अम्बु-भूतं मेघं भिन्दन् । तुम्बुरुं नारद-शिष्यं वेधसं ब्रह्माणं विस्मापयन् । औत्सुक्यावलिभिर् बलिम् । भोगिनम् अनन्तम् । ब्रह्माण्ड-कटाह-रूप-भित्तिं भिन्दन् सन् वंशी-ध्वनिर् बभ्राम ॥२१४॥
—ओ)०(ओ—
॥ २.१.२१५ ॥
(६४) रूप-माधुर्यं, यथा तृतीये (३.२.१२)—
यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥
श्री-जीवः : यद् रूपम् इति पूर्वेणान्वयः । स्व-योगमाया स्व-स्वरूप-भूताचिन्त्य-शक्तिः । तस्या बलं दर्शयता एतावद् अप्य् अस्तीति तत्-प्रकटयता गृहीतम् आकृष्टं जगत्याम् आनीतं प्रकटितम् इत्य् अर्थः । तद् एवम् एवम्भूतं भगवन्-मर्त्य-लीलौपयिकम् इति तल्-लीलाया अपि माहात्म्यं तथाविधम् एव दर्शितम् । मर्त्येषु लीला मर्त्य-लीला तस्याम् औपयिकं तत्-सदृश-लीला-योग्य-द्विभुजादित्वाद् अतिमनोहरम् इत्य् अर्थः । किं बहुना ? सर्व-काल-देश-गत-तत्-तद्-रूप-वेत्तुर् अपि स्वस्य च विस्मापनं, तादृग्-अनुभवात् । यतः सौभग-र्द्धेः परं पदं परमा प्रतिष्ठा । यत् खलु भूषणस्यापि भूषणम् अङ्गं यत्र तादृशम् ॥२१५॥
**मुकुन्दः : **यद् इत्य् अनेन पूर्व-पद्याद् बिम्बम् आकृष्टम् । बिम्बं श्री-मूर्तिः । ध्वन्यते बिम्ब-शब्देन सकल-स्व-स्वरूपाणं मूलत्वम् । मर्त्य-लीलौपयिकम् इत्य् अनेन विविधाश्चर्य-माधुर्यैश्वर्यादि-सम्भवात् स्व-स्व-देवादि-लीलाभ्यो मर्त्य-लीलानां मनोहरत्वं च । अतस् तद् एव निःशेष-गुण-रूपास्पदत्वात् मर्त्य-लीलानाम् अतियोग्यम् । स्वय्स योगमाया चिच्-छक्तिस् तस्या बलं सामर्थ्यं दर्शयता नन्दनन्दनेन गृहीतं प्रकटीकृतम् । अहो मदीय-चिच्-छक्तेः प्रभावम् अद्भुतं पश्यत, दिव्यातिदिव्य-लोकेषु यद् गन्धोऽपि न सम्भवेत् तद् रूपं ययाविष्कृतम् इति । बलं स्वय्स द्वारकानाथादेर् आतमनः दर्शितम्, आत्मनोऽपि विस्मापनं नवोद्दाम-चमत्कृति-करम् । सौभग-र्द्धिर् महाश्चर्य-सौन्दर्य-परमावधिस् तस्याः परं पदं नित्योत्कर्ष-सम्पद् वरास्पदम् । भूषणानां कौस्तुभ-मणीन्द्र-कुण्डलादीनां भूषणान्य् अङ्गानि यत्र तादृशम् ॥२१५॥
**विश्वनाथः : **यद् रूपम् इति पूर्वेणान्वयः । स्व-योगमाया स्व-स्वरूप-भूताचिन्त्य-शक्तिः । तस्या बलम् एतावद् अप्य् अस्तीति तद् दर्शयता गृहीतम् प्रकटी-कृतम् इत्य् अर्थः । तद् एवं-भूतं भगवन्-मर्त्य-लीलौपयिकम् इति तल्-लीलाया अपि माहात्म्यं तथा-विधम् एव दर्शितम् । मर्त्येषु लीला मर्त्य-लीला तस्याम् औपयिकं तत्-सदृश-लीला-योग्य-द्विभुजादित्वाद्य्- अतिमनोहरम् इत्य् अर्थः । किं बहुना ? सर्व-काल-देश-गत-तत्-तद्-रूप-वेत्तुर् अपि स्वस्य श्री-कृष्णस्य च विस्मापनं, तादृग्-अनुभवात् । यतः सौभग-र्द्धेः परं पदं स्थानं भूषणस्य भूषणम् अङ्गं यत्र तादृशम् ॥२१५॥
—ओ)०(ओ—
॥ २.१.२१६ ॥
श्री-दशमे च (१०.२९.४०)—
का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन
सम्मोहिताऽर्यपदवीं न चलेत् त्रिलोक्याम् ।
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.१.२१७ ॥
यथा वा, ललित-माधवे (८.३४)—
अपरिकलित-पूर्वः कश् चमत्कार-कारी
स्फुरति मम गरीयान् एष माधुर्य-पूरः ।
अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः
सरभसम् उपभोक्तुं कामये राधिकेव ॥
श्री-जीवः : अपरिकलितेति । मणि-भित्तौ स्व-प्रतिबिम्बं लब्धातिशयं स्व-वपुश् चित्रं दृष्ट्वा श्री-भगवन्-मनोरथः । प्रतिक्षणं नव-नवायमान-तन्-माधुर्यत्वात् ॥२१७॥
**मुकुन्दः : **अपरीति । मणि-चत्वरे गोप-लीलोचित-वन्य-वेशस्य स्वस्य प्रतिबिम्बं दृष्ट्वा द्वारका-नाथस्य स्वाभिलाष-वचनम् ॥२१७॥
**विश्वनाथः : **अपरिकलितेति । कदाचिद् गोवर्धनस्य स्वच्छ-शिलायां स्व-प्रतिबिम्बं दृष्ट्वा श्री-कृष्णस्य मनोरथः ॥२१७॥
—ओ)०(ओ—
॥ २.१.२१८-२१९ ॥
समस्त-विविधाश्चर्य-कल्याण-गुण-वारिधेः ।
गुणानाम् इह कृष्णस्य दिङ्-मात्रम् उपदर्शितम् ॥
यथा च श्री-दशमे (१०.१४.७)—
गुणात्मनस् तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर् वा विमिताः सुकल्पैर्
भू-पांशवः खे मिहिका द्युभासः ॥
श्री-जीवः : गुणा आत्मानः स्वभावा यस्य, तस्य प्रकटित-प्राकृतातीत-स्वाभाविकानन्त-गुणस्य तवास्तां तावत्- तत्-तद्-गुणानां समस्तानां तथा प्रत्येकम् अप्य् अवान्तर-वृत्ति-कोटीनां गणन-वार्ता, अस्य जगतो हितावतीर्णस्य जगद्-गतानन्त-जीव-हिताय तत्-तद्-गुणैक-देशम् अप्य् अवतीर्य प्रकटयतस् तव ये ते ते गुणांशास् तत्र तत्र प्रकटितान् तान् अपि गणयितुं क ईशिरे? न केऽपीत्य् अर्थः । तत्र सम्भावना-निरासार्थम् आह—यैर् वेति वा इति ॥२१९॥
मुकुन्दः : गुणात्मनो गुणानां चेतयितुः पूर्वम् अवतारान्तरैर् जगत्य् अप्रकटनेन प्रबोधनात् गुणान् प्रकटयत इत्य् अर्थः । यद् वा—, गुणा आत्मानः स्वरूप-भूता यस्य इति नित्यत्वम् अप्राकृतत्वं चोक्तं, विशेष एतावन्-माहात्म्यम् इयत्-सङ्ख्यावन्त इति मातुं गणयितुं क ईशिरे ईशिरे? अपि तु, न केऽपीत्य् अर्थः ॥२१९॥
विश्वनाथः : गुणा आत्मानः स्वभावा यस्य, तस्य प्रकटिताप्राकृत-स्वाभाविकानन्त-गुणस्य तवास्तां तावद्-गुणानां गणन-वार्ता, अस्य जगतो हितावतीर्णस्य जगद्-गतानन्त-जीव-हिताय तत्-तद्-गुणैक-देशम् अपि प्रकटयस् तव ये ते ते गुणांशास् तत्र च ये प्रकटितान् तान् अपि गणयितुं क ईशिरे ? न कोऽपीत्य् अर्थः । तत्र सम्भावना-निरासार्थम् आह—यैर् वेति वा इति ॥२१९॥
—ओ)०(ओ—
**॥ २.१.२२०-२२३ ॥
नित्य-गुणो वनमाली, यद् अपि शिखामणिर् अशेष-नेतॄणाम् ।
भक्तापेक्षिकम् अस्य, त्रिविधत्वं लिख्यते तद् अपि ॥२२०॥
हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा ।
श्रेष्ठ-मध्यादिभिः शब्दैर् नाट्ये यः परिपठ्यते ॥२२१॥
प्रकाशिताखिल-गुणः स्मृतः पूर्णतमो बुधैः ।
असर्व-व्यञ्जकः पूर्णतरः पूर्णोऽल्प-दर्शकः ॥२२२॥
कृष्णस्य पूर्णतमता व्यक्ताभूद् गोकुलान्तरे ।
पूर्णता पूर्णतरता द्वारका-मथुरादिषु ॥२२३॥
श्री-जीवः : **प्रकाशितेति । अत्राखिलत्वम् अन्य-द्वयापेक्षया ज्ञेयम् । भक्त-भक्त्य्-अनुरूपाधिकाधिकाधिक-प्रकाशात् । असर्वत्वं पूर्वापेक्षया । अल्पत्वं च स्व-पूर्वापेक्षया, तथापि पूर्णतरत्वादिकम् अन्यतरापेक्षया ॥२२२॥
कृष्णस्येति । अत्र पूर्णतमता चैश्वर्य-गता ।
तावत् सर्वे वत्स-पालाः पश्यतोऽञ्जस्य तत्-क्षणात् । व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भा।पु।१०.१३.४६] इत्य् आदिषु ।
माधुर्य-गता— नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् [भा।पु। १०.८.४६] इत्य् आदिषु । कृपालुता च—अहो बकीयं स्तन-काल-कूटम् [भा।पु। ३.२.२३] इत्य् इत्य्-आदिषु । द्वारका-मथुरादिष्व् इति न यथा-सङ्ख्यतया प्रयोगः । सम-सङ्ख्यत्वेनाप्रयोगात् । किन्तु यथा-सम्भवतयैव कुत्रचित् कस्यापि विशेष-दर्शनात् ॥२२३॥
**मुकुन्दः : **प्रकाशितेति । प्रकाशिता अखिलाः स्वरूपतः सङ्ख्यातः पूर्णाश् चतुःषष्ठिर् अन्ये बहवश् च गुणा येन स तथा । असर्व-व्यङ्गकः स्वरूप-सङ्ख्याभ्यां पूर्वतो न्यूनानां व्यञ्जकः । अल्पत्वम् असर्वेभ्योऽपि न्यूनत्वं, तथापि पूर्णता नारायणाद्य्-अपेक्षया ॥२२२॥
द्वारका-मथुरादिष्व् इति द्वन्द्वात् परं श्रूयमाणं प्रत्येकम् अभिसम्बद्ध्यते इति न्यायाद् आदि-शब्दस्य प्रत्येक-प्रयोगः । ततश् च द्वारकादिष्व् इति आदि-शब्दाद् धस्तिनापुरेन्द्रप्रस्थ-कुण्डिन-पुरादीनां ग्रहणम् । मथुरादिष्व् इत्य् अत्र चावन्ती-पुर-कुक्कुरादेर् ग्रहणम् । द्वारकादिषु पूर्णता, मथुरादिषु पूर्णतरता इति यथा-क्रमं योज्यम् । प्रकाशितेत्य् आदोइ श्लोकयोः अमी कृष्णे किलाद्भुता [ब्र्स् २.१.३१] इत्य् अस्य चाभिप्रायोऽयं—भक्तानां प्रेम-कृतेर् न तारतम्येन कृष्णस्यापि तत् । तच् चैवं—अद्भुततमत्वेन सर्व-गुणानां प्रकाशकत्वं पूर्णतमत्वं, चतुःषष्ठेः प्रकाशत्वं दर्शितम् एव । अन्येषां बहूनाम् अपि तत् सर्वेषां विलास-स्वांशानां लीला-करणेन श्री-भागवतामृताज् ज्ञेयम् । अग्रे च धीरोदात्तादीनाम् उदाहरणादिभ्यो ज्ञेयम् । षष्टेर् बहूनां पूर्वतो न्यूनानां चाद्भुतत्वेन प्रकाशकत्वं पूर्णतरत्वम् । नारायणादौ षष्ठेः पूर्वतोऽपि न्यूनानां बहूनां प्रकाशकत्वं गौणम् एव पूर्णत्वम् । अद्भुतानां तेषां प्रकाशाभावात् । स्थलानाम् अपि स्वरूप-सम्पत्त्य्-आदिभिस् तारतम्यं ज्ञेयम् । तत्र स्वरूपेण—
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ [भा।पु। १०.११.३६] इति ।
वृन्दावन-प्रिय-भूम्य्-आदीनाम् अन्यत्राभावात् स्वरूप-वैशिष्ट्यम् । चिन्तामणिश् चरण-भूषणम् अङ्गनानां [ब्र्स् २.१.१७३] इत्य् आदिना सम्पत्त्य्-आदिना सर्वेभ्यो गोकुलस्याधिक्यम् । द्वारकातः श्री-मथुराया यमुना-प्रिय-भूम्य्-आदीनाम् अभावात् स्वरूपेण तत् । वीर्यं यत् प्रथते ततोऽपि गहनं श्री-माथुरे मण्डले दीव्यत् इत्य् अत्र पूर्व-दर्शितात् दान-केलि-कौमुदी-श्लोकात् (७७) सम्पत्त्या माहात्म्याधिक्येन जन्म-सद्-भावेन च वैभवात्मकाद् वैकुण्ठाच् छ्री-द्वारकाया उत्कृष्ट-वैभव-स्वरूपाया अपि भूमि-गतत्वान् मधुरत्वेन प्रकाशात् पट्ट-महिषी-गृहादीनां वैचित्र्याच् च स्वरूपेण, लक्ष्मी-सहस्र-पुत्र-भ्रात्रादीनाम् आवृतत्वादिना च । तन्-नाम्नस् तत्-प्रतिपादक-शास्त्रादीनाम् अपि तज् ज्ञेयम् इति ॥२२३॥
विश्वनाथः : असर्वत्वं पूर्वापेक्षया । अल्पत्वं च स्व-पूर्वापेक्षया ॥२२२॥
—ओ)०(ओ—
॥ २.१.२२४-२२५ ॥
स पुनश् चतुर्विधः स्याद् धीरोदात्तश् च धीर-ललितश् च ।
धीर-प्रशान्त-नामा तथैव धीरोद्धतः कथितः ॥
बहु-विध-गुण-क्रियाणाम् आस्पद-भूतस्य पद्मनाभस्य ।
तत्-तल्-लीला-भेदाद् विरुध्यते न हि चतुर्-विधाः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : ननु यः खलु धीर-शान्तः, स कदापि न धीर-ललितो भवतीत्य् अत्र लोके तथा नियम-सत्त्वे श्री-कृष्णे न तादृश-नियमः । अस्य तु काल-भेदेन चतुर्विधता-सत्त्वाद् इत्य् आह—बहुविधेति ॥२२५॥
—ओ)०(ओ—
॥ २.१.२२६-२२७ ॥
तत्र धीरोदात्तः—
गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः ।
अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥
यथा—
वीरं-मन्य-मद-प्रहारि-हसितं धौरेयम् आर्तोद्धृतौ
निर्व्यूढ-व्रतम् उन्नत-क्षिति-धरोद्धारेण धीराकृतिम् ।
मय्य् उच्चैः कृत-किल्बिषेऽपि मधुरं स्तुत्या मुहुर् यन्त्रितं
प्रेक्ष्य त्वां मम दुर्वितर्क्य-हृदयं धीर् गीश् च न स्पन्दते ॥
श्री-जीवः : वीरम् इति महेन्द्र-वाक्यम् । तत्र वीरं-मन्य- एति इति गूढ-गर्वतम् । धौरेयम् इति करुणत्वम् । निर्व्यूढेति निर्व्यूढ- इति सुदृढ-व्रतत्वम् । उन्नतेति उन्नत- इति सुसत्त्व-भृत्त्वम् । मयीति मयि इति क्षन्तृत्वम्। स्तुत्या इति विनयित्वम् अकत्थनत्वं च । दुर्वितर्क्य-हृदयम् इति गम्भीरत्वं दर्शितम् । मम धीर् इत्य्- आदिर् अन्वयः ॥२२६-२२७॥
मुकुन्दः : वीरम् इति महेन्द्र-वाक्यम् । त्वां प्रेक्ष्यत्य् अनन्तरं स्थितस्येति कवि-मर्यादातो ज्ञेयम् । तत्र वीरं-मन्येति मन्य- इति गूढ-गर्वतम् । धौरेयम् इति करुणत्वम् । निर्व्यूढेति निर्व्यूढ- इति सुदृढ-व्रतत्वम् । उन्नतेति उन्नत- इति सुसत्त्व-भृत्त्वम् । मयीति मयि इति क्षन्तृत्वम्। स्तुत्या इति विनयित्वम् अकत्थनत्वं च । दुर्वितर्क्य-हृदयम् इति गम्भीरत्वं दर्शितम् ॥२२६-२२७॥
**विश्वनाथः : अकत्थनः **आत्म-श्लाघा-रहितः । सुसत्त्व-भृत् अतिशय-बलवान् ॥२२६॥
वीरं-मन्य- इएति महेन्द्र-वाक्यम् । हे कृष्ण ! त्वां प्रेक्ष्य धीर् गीश् च न स्पन्दते । त्वां कथं-भूतम् ? वीरम्मन्यानां मद-प्रहरणे शीलः हसितं यस्येत्य् अनेन गूढ-गर्वतम् । आर्त-जनानाम् उद्धृतौ धौरेयं भार-वाहकम्, आर्त-जनोद्धरण-रूप-भार-वाहकम् इत्य् अर्थः । एतेन करुणत्वम् । निर्व्यूढेति निर्व्यूढ- इति सुदृढ-व्रतत्वम् । उन्नतेति उन्नत- इति सुसत्त्व-भृत्त्वम् । कृत-किल्बिषे कृतापराधेऽपि मयि मधुरम् इत्य् अनेन क्षन्तृत्वम्। अन्य-कृत-स्तुत्या मुहुर् यन्त्रितं सङ्कुचितम् एतेन विनयित्वम् अकत्थनत्वं च । दुर्वितर्क्य-हृदयम् इति गम्भीरत्वं दर्शितम् ॥२२७॥
—ओ)०(ओ—
**॥ २.१.२२८-२२९ ॥
गम्भीरत्वादि-सामान्य-गुणा यद् इह कीर्तिताः ।
तद् एतेषु तद्-आधिक्य-प्रतिपादन-हेतवे ॥
इदं हि धीरोदात्तत्वं पूर्वैः प्रोक्तं रघूद्वहे ।
तत्-तद्-भक्तानुसारेण तथा कृष्णे विलोक्यते ॥
श्री-जीवः : **गम्भीरत्वादीति । एतेषु धीरोदात्तादिषु त्रिषु । तेषां गाम्भीर्यादीनाम् आधिक्य-प्रतिपादन-हेतवे तद् अन्यान् सर्वान् गुणान् उपमर्द्य समुदयेनाविर्भूतानां तेषां स्पष्ट-ज्ञापनार्थम् इत्य् अर्थः ॥२२८-२२९॥
**मुकुन्दः : **इह चतुर्धा-नायकेषु कीर्तिताः पूर्वैर् उक्ता इति यत् तत् कीर्तनम् । एतेषु नायकेषु तद्-आधिक्य-प्रतिपादन-हेतवे तेषां गुणानाम् आधिक्य-प्रतिपादनस्य सिद्ध्य्-अर्थम् । अन्येऽपि सन्ति, एते तु प्रबुद्धतया सन्तीत्य् अर्थः ॥२२८-२२९॥
**विश्वनाथः : **गम्भीरत्वादयः पूर्वं सामान्य-गुण-निरूपणे उक्ता एव, पुनर् अपि ते गुणा यद् इह कीर्तिताः तत्-कीर्तनम् एतेषु धीरोदात्तादिषु गाम्भीर्यादीनाम् आधिक्य-प्रतिपादनार्थम् ॥२२८-२२९॥
—ओ)०(ओ—
॥ २.१.२३०-२३२ ॥
धीर-ललितः—
विदग्धो नव-तारुण्यः परिहास-विशारदः ।
निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥
यथा—
**वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां
व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।
तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः
कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥
गोविन्दे प्रकटं धीर-ललितत्वं प्रदर्श्यते ।
उदाहरन्ति नाट्य-ज्ञाः प्रायोऽत्र मकर-ध्वजम् ॥
श्री-जीवः : **प्रेयसीनां प्रेम-विशेष-युक्तानां तारतम्येन वशीभूतः । यथोक्तं—या मा भजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना [भा।पु। १०.३२.२२] इति । अनयाराधितो नूनम् [भा।पु। १०.३०.२८] इत्य् आदि इत्य्-आदि च ॥२३०॥ वाचेति । यज्ञ-पत्नी-सदृशीः प्रति तत्-तल्-लीलान्तरङ्ग-दूत्या वाक्यम् ॥२३१-२३२॥
**मुकुन्दः : **प्रेयसी-वशः अन्य-क्रिया-त्यागेन प्रेयसी-प्रिय-करणासक्तः ॥२३०॥ वाचेति । नान्दीमुखीं प्रति वृन्दा-वचनम् ॥२३१-२३२॥
**विश्वनाथः : **प्रेयसीनां प्रेम-विशेष-भक्ति-युक्तानां तारतम्येन वशीभूतः । यथोक्तं—या मा भजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना [भा।पु। १०.३२.२२] इत्य् इत्य्-आदि ॥२३०॥
हरिः कुञ्जे विहारं कलयन् कुर्वन् कैशोरं सफलीकरोति । इत्य् अनेन नव-तारुण्यं निश्चिन्तत्वं च सूचितम् । रति-सम्बन्धिनख-चिह्नादि-रूप-कलायाः प्रागल्भ्यं यया एवम्भूतया वाचा सखीनाम् अग्रे विरचयन्न् इति परिहास-विशारदत्वं तस्य राधिकाया वक्षोरुहेत्य् अनेन विदग्धत्वं प्रेयसी-वशत्वं च ॥२३१॥
मकरध्वजं कन्दर्पम् उदाहरन्ति ॥२३२॥
—ओ)०(ओ—
॥ २.१.२३३-२३५ ॥
धीर-शान्तः—
शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः ।
विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥
यथा—
विनय-मधुर-मूर्तिर् मन्थर-स्निग्ध-तारो
वचन-पटिम-भङ्गी-सूचिताशेष-नीतिः ।
अभिदधद् इह धर्मं धर्म-पुत्रोपकण्ठे
द्विज-पतिर् इव साक्षात् प्रेक्ष्यते कंस-वैरी ॥
युधिष्ठिरादिको धीरैर् धीर-शान्तः प्रकीर्तितः ॥
श्री-जीवः : विनय-मधुर-मूर्तिर् इत्य् अत्र विनयेन तत्-क्लेश-सहनत्वम् अपि लक्ष्यते । यहोक्तस् तत्रैव तथा तद् तद्-व्यवहारः—
सारथ्य-पारषद-सेवन-सख्य-दौत्य- वीरासनानुगमन-स्तवन-प्रणामान् । स्निग्धेषु पाण्डुषु जगत्-प्रणतिं च विष्णोर् भक्तिं करोति नृ-पतिश् चरणारविन्दे ॥ [भा।पु। १.१६.१६८] इति ।
अत्र शृण्वन्न् ॥ [भा।पु। १.१६.१५] इति पूर्वेणान्वयः । वीरासनं खड्ग-हस्ततया स्थितस्य रात्रौ जागरणम् । नृपतिः परीक्षित् । उदाहरणे “धर्म-पुत्रोपकण्ठम्” इत्य् एव पाठः ॥२३३-२३५॥
मुकुन्दः : विनयेति । श्री-कृष्णेन सहेन्द्र-प्रस्थम् आगतायाः सत्यभामाया जालरन्ध्रेण सभास्थं तं दृष्ट्वा द्रौपदीं प्रति वचनम् । धर्मराजो यमे युद्धे धर्म-राजो युधिष्ठिरः इति विश्वः । मन्थरेति—स्वाभाविक-नेत्र-चाञ्चल्य-संवरणात् क्लेश-सहनत्वं, वचन-पटिमेति आदि-शब्दाद् वावदूकत्वं, अतीत्वादिना विवेकत्वं, द्विजेति शम-प्रकृतिकत्वम् ॥२३४॥
**विश्वनाथः : **द्विजपतिर् ब्राह्मण-श्रेष्ठ इव साक्षात् प्रेक्षते । विनय-मधुर-मूर्तिर् इति विनय-प्रयुक्त-सारथ्य-पारिषद-सेवनानुगमनादि-रूपं यद् दुःखं तत्-सहनत्वम् इति लक्ष्यते । मन्थरा स्थिरा तारा यस्येति शान्त-प्रकृतिकत्वम् । धर्म-पुत्रस्य युधिष्थिरस्य निकटे धर्मम् इत्य् अनेन विवेचकत्वम् ॥२३३-२३४॥
—ओ)०(ओ—
॥ २.१.२३६-२३८ ॥
धीरोद्धतः—
मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥
यथा—
**आः पापिन् यवनेन्द्र दर्दुर पुनर् व्याघुट्य सद्यस् त्वया
वासः कुत्रचिद् अन्ध-कूप-कुहर-क्रोडेऽद्य निर्मीयताम् ।
हेलोत्तानित-दृष्टि-मात्र-भसित-ब्रह्माण्ड-भाण्डः पुरो
जागर्मि त्वद्-उपग्रहाय भुजगः कृष्णोऽत्र कृष्णाभिधः ॥
धीरोद्धतस् तु विद्वद्भिर् भीमसेनादिर् उच्यते ॥
श्री-जीवः : **आः पापिन् ! इति पत्रिकेयम् । व्याघुट्य विनिवृत्य । हेलेत्य् आदिनात्र मायावित्वं चायातम् । वस्तुतस् तथात्वाभावात् ॥२३७॥
**मुकुन्दः : **आः पापिन् ! इति पलायमानस्य भगवतः तं स्वेन सह दूरं नेतुं क्रोध-वर्धि-वाक्यम् । व्याघुट्य विनिवृत्य । आः पापिन्न् इति रोधनत्वं, दर्दुरेति मात्सर्यं, पुनर् व्याघुत्येत्य् आदिनाहङ्कारित्वम्म् । हेलेति शब्देन विकत्थनत्वं, पुरो जागर्मीत्य् आदिना स्वयं तन्-मरणाभावान् मिथ्या-वचनाटोपेन मायावित्वम् ॥२३७॥
विश्वनाथः : आः पापिन् ! इति यवनं प्रति श्री-कृष्ण-प्रतिज्ञेयम् । हे यवनेन्द्र-रूप-दर्दुर भेक ! त्वद्-उपग्रहाय त्वां ग्रहीतुं कृष्ण-स्वरूपो यः कृष्णाभिधः उरगः काल-सर्पः अहं जागर्मि । अतो भेकेन त्वया व्याघुट्य परावृत्य वास इत्य् आदि इत्य्-आदि । हेलेत्य् आदिनात्र मायावित्वं चायाति । भसितो भस्मीकृतः ॥२३७॥
—ओ)०(ओ—
**॥ २.१.२३९ ॥
मात्सर्याद्याः प्रतीयन्ते दोषत्वेन यद् अप्य् अमी ।
लीला-विशेष-शालित्वान् निर्दोषेऽत्रे गुणाः स्मृताः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **ननु मात्सर्याद्याः कथं सामान्य-गुणाह्, दोषत्वेन प्रतीतेः ? तत्राह—मात्सर्येति । लीला-विशेषो रौद्रादि-रस-पोषक-चेष्टा-रूपस् तत्र शालित्वान् मात्सर्यादीनाम् उपयोगित्वात् दोष-प्रतीतिर् अतत्त्व-ज्ञानाम् एवेति भावः ॥२३९॥
विश्वनाथः : अत्र निर्दोषे कृष्णे मात्सर्याद्याः । लीला-विशेषः भक्त-रक्षणाय दुष्ट-दमन-रूपः । तच्-छालित्वात् तद्-उपयोगित्वाद् इत्य् अर्थः । तद् धेतोर् गुणा एव स्मृताः ॥२३९॥
—ओ)०(ओ—
॥ २.१.२४० ॥
यथा वा—
**अम्भो-भार-भर-प्रणम्र-जलद-भ्रान्तिं वितन्वन्न् असौ
घोराडम्बर-डम्बरः सुविकुटाम् उत्क्षिप्य हस्तार्गलाम् ।
दुर्वारः पर-वारणः स्वयम् अहं लब्धोऽस्मि कृष्णः पुरो
रे श्रीदाम-कुरङ्ग-सङ्गर-भुवो भङ्गं त्वम् अङ्गीकुरु ॥
श्री-जीवः : **लीला-विशेषोऽत्र भक्त-रक्षणाय दुष्ट-दमन-रूपः, तच्-छालित्वाद् उपयोगित्वाद् इत्य् अर्थः । आः पापिन् ! इत्य् अत्र भक्तिर् असत्वाव्यक्तिम् आशक्योदाहरणान्तरं मात्सर्याभास-मय-तद्-रसत्वेन दर्शयति—यथा वेति । अम्भो-भार-भर-प्रणम्र इत्य् एव पाठः । अम्भो-भार-नमन्-नवीन-जलदेति पाठान्तरे शत्र्-अन्तेन सह तत्-पुरुषो न स्यात् । आडम्बरः समारम्भे गज-गर्जित-तुर्ययोर् इति विश्वः । ततश् च घोरो भयानक आडम्बरस्य डम्बर आटोपो यस्य सः ॥२४०॥
मुकुन्दः : वीर-रस-पोषकत्वेन तान् गुणत्वेन दर्शयति—यथा वेति । अम्भो-भार-नमन्-नवीन-जलद-भ्रान्तिम् इति पाठः । वनद-सौरभ-लोभ-परिभ्रमद्-भ्र##रेतीव समासः । घोरो भयानक आडम्बरस्य डम्बर आटोपो यस्य सः । पक्षे आडम्बरः समारम्भः, पर-वारण उत्तमो गजः ॥२४०॥
**विश्वनाथः : **अत्र भक्ति-रसाव्यक्तम् आशङ्क्योदारहणान्तरम् आह—यथा वेति । पर-वारणः श्रेष्ठ-हस्ति-स्वरूपोऽहं स्वयम् एवात्र लब्धोऽस्मि । अतः श्रीदाम-रूप-हरिण त्वं युद्ध-भुवः सकाशात् भङ्गम् अङ्गीकुरु । अस्य हस्ति-साधर्म्यम् आह—अम्भो-भारस्य भरेणातिशयेन विनम्रो यो मेघस् तस्य भ्रान्तिं वितन्वन् । हस्ती यथा मेघाकारस् तथाहम् अपीत्य् अर्थः । घोरो भयानक आडम्बरस्य हस्ति-गर्जनस्य डम्बर आटोपो यत्र । आडम्बरः समारम्भे गज-गर्जित-तुर्ययोर् इति विश्वः ॥२४०॥
—ओ)०(ओ—
**॥ २.१.२४१ ॥
मिथो विरोधिनोऽप्य् अत्र केचिन् निगदिता गुणाः ।
हरौ निरङ्कुशैश्वर्यात् कोऽपि न स्याद् असम्भवः ॥
श्री-जीवः : **पुनर् मात्सर्याद्या इत्य् इत्य्-आदिकं स्थापयन् गुण-वैचित्रीं दर्शयति—मिथ इति । निरङ्कुशैश्वर्यात् सर्व-वशीकारित्वात् सर्वाशरत्वाद् इत्य् अर्थः ॥२४१॥
**मुकुन्दः : **अत्र चतुःषष्ठौ धीरोदात्तादिषु च वशी, प्रेम-वश्यः समः साधु-समाश्रयः सर्वाराध्यो मान्यमान-कृत्—एते चतुःषष्ठे, शम-प्रकृतिको मात्सर्यवान् विवेचको मायावी विनयोपेत अहङ्कारी रोषणश् चलो विकत्थनश् चेत्य् आद्या धीरोदात्तादिषु केचिन् निगदिता इत्य् अत्र अन्येऽपि सामान्य-बहु-गुणेषु ये अनुक्ताः सन्ति तेषु च कोऽपि न स्याद् असम्भवः, उक्तानुक्तो बहवो विरोधिनो गुणाः सम्भवन्तीत्य् अर्थः । निरङ्कुशं स्वतन्त्रं यद् ऐश्वर्यं तस्माद् धेतोः ॥२४१॥
**विश्वनाथः : **पुनर् मात्सर्याद्या [भ।र।सि। २.१.१३९] इत्य् आदिकं स्थापयन् गुण-वैचित्रीर् दर्शयति—मिथ इति । निरङ्कुशैश्वर्यात् सर्व-वशीकारित्वात् सर्वाशरत्वाद् इत्य् अर्थः । ॥२४१॥
—ओ)०(ओ—
॥ २.१.२४२-२४३ ॥
तथा च कौर्मे—
**अस्थूलश् चाणुश् चैव स्थूलोऽणुश् चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः ।
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ॥
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **अनुक्तान् एव मिथो विरोधिनो गुणान् सन्दर्श्य तेषां निरङ्ग्कुशैश्वर्य-हेतुकतां प्रमाणयति—तथा च कौर्मे इत्य् आदि इत्य्-आदि । विरुद्धार्थं विरुद्धो मिथो विरोधी अर्थः अस्थूल-स्थूलादि-रूपो यत्र । दोषो मिथो विरोधित्वाद् अस्थूल-स्थूलादि-रूपाः । अपि तु किन्तु विरुद्धा गुणा अविरुद्ध-गुणतया समाहार्याः ॥२४२-२४३॥
**विश्वनाथः : **ऐश्वर्य-योगाद् विरुद्धोऽर्थो यत्र तथाभूतो भगवान् अभिधीयते । परमे परमेश्वरे दोषादोषत्वे नैवाहार्या व्याख्येया इत्य् अर्थः ॥२४२-२४३॥
—ओ)०(ओ—
॥ २.१.२४४-२४५ ॥
महावाराहे च—
**सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।
हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥
श्री-जीवः : **शाश्वता जगति पुनः पुनर् आविर्भाविनः । सर्व-गुणैर् इत्य् अत्र स्व-स्वापेक्षितैर् इति ज्ञेयम् । एते चांश-कलाः पुंसः [भा।पु। १.३.२८] इत्य् उक्तेः ॥२४४-२४५॥
**मुकुन्दः : **तस्य देहा इति । देहित्वेन प्राप्तं जन्मादिकं तदैव तन्-निषेधेन विरोधं बोधयति—नित्या इत्य् आदि इत्य्-आदि विशेषणानि । नित्या जन्म-रहिताः । हानोपादान-रहिता बाल्यादि-त्याग-पौगण्डादि-ग्रहणयोः सत्त्वेऽपि तत्-तद्-रहिताः । देहाज् जातत्वेऽपि नैव प्रकृतिजाः । शीतादि-सद्-भावेऽपि परमानन्द-सन्दोहाः । ऐश्वर्याद्-विस्मरणेऽपि ज्ञान-मात्राः । अंशादिमत्त्वेऽपि सर्व-गुणैः पूर्णाः । मोहादि-दर्शनेऽपि सर्व-दोष-विवर्जिताः । सर्वत्र हेतुः—परस् तर्कागोचर आत्मा स्वरूपो यस्य तस्य परात्मनः ॥२४४-२४५॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.२४६ ॥
वैष्णव-तन्त्रेऽपि—
अष्टादश-महा-दोषै रहिता भगवत्-तनुः ।
सर्वैश्वर्यमयी सत्य-विज्ञानानन्द-रूपिणी ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : तत्र कियतो विरुद्ध-गुणान् दर्शयति—अष्टादश महा-दोषैर् इति । तेषां रहितत्वे हेतुः—विज्ञानानन्द-रूपिणी । उदये हेतुः—सर्वैश्वर्यमयी निरङ्कुशैश्वर्य-रूपेति ॥२४६॥
—ओ)०(ओ—
॥ २.१.२४७-२४८ ॥
अष्टादश-महा-दोषाः, यथा विष्णु-यामले—
**मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः ।
लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ ॥
असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः ।
विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥
श्री-जीवः, विश्वनाथः : **मोहस् तन्द्रेति । भक्त-प्रेम-सम्बन्धेन त्व् एते च गुणत्वाय कल्पन्ते । यथा—ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् [भा।पु। १०.१३.१६] इत्य् आदौइत्य्-आदौ मोहः ।
क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः । वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ [भा।पु। १०.१५.१७]
इत्य् आदौइत्य्-आदौ **तन्द्रा-खेद-श्रमाः **। ताव् अङ्घ्रि-युग्मम् अनुकृष्य इत्य् आरभ्य, अनुसृत्य लोकं मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः [भा।पु। १०.८.२२] इत्य् आदौइत्य्-आदौ **भ्रमः **।
**रुक्ष-रसता **नाम प्रेम-सम्बन्धं विना रागः, स तु नास्त्य् एव । **उल्बणो **दुःखदः कामो लौकिकः । तस्य प्रेम-रूप-कामत्वात् स च नास्त्य् एव । **लोलता **चाञ्चल्यं, सा च गुणो यथा—वत्सान् मुञ्चन् क्वचिद् असमये [भा।पु। १०.८.२९] इत्य् आदौइत्य्-आदौ । मदोऽपि यथा—मद-विघूर्णित-लोचन ईषत् [भा।पु। १०.३५.२४] इत्य् आदौइत्य्-आदौ । तथा च मात्सर्यं—लोकेश-मानिनां मौढ्याद् धरिष्ये श्री-मदं तमः [भा।पु। १०.२५.१६] इत्य् आदौइत्य्-आदौ । हिंसा स्फुटैव बहुत्र । असत्यम्—नाहं भक्षितवान् अम्ब [भा।पु। १०.८.३५] इत्य् आदौइत्य्-आदौ, जरासन्ध-च्छलनादौ च । क्रोधोऽपि तत्र तत्र प्रसिद्ध एव । **आकाङ्क्षा—**तां स्तन्य-काम आसाद्य [भा।पु। १०.९.४] इत्य् आदौइत्य्-आदौ । आशङ्का—क्वाप्य् अदृष्ट्वान्तर्-विपिने [भा।पु। १०.१३.१७] इत्य् आदौइत्य्-आदौ । **विश्व-विभ्रमो **जगद्-आवेशः, स च ब्रह्मादि-भक्त-सम्बन्धेन जगत्-पालनेच्छा-मयः । वैषम्यं—
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इत्य् आदौइत्य्-आदौ ।
परापेक्षा—अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य् आदाव् इति । तस्मात्—क्व शोक-मोहौ स्नेहो वा भयं वा येऽज्ञ-सम्भवाः [भा।पु। १०.७७.३१] इत्य् अत्र त्व् अज्ञ-सम्भवा ये त एव न सन्ति, न तु विज्ञ-सम्भवाः तेऽपीति मतम् ।# विज्ञ-सम्भवत्वं तु तेषां श्री-शुकदेवादिषु तत्-स्मारितानन्त-हृताखिलेन्द्रियः [भा।पु। १०.१२.४४] इत्य् आद्य्-उक्तेः भगवत्-प्रेम-मोहादौ दृष्टम् इति ॥२४७-२४८॥
मुकुन्दः : तेषाम् उदयो, यथा—ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् [भा।पु। १०.१३.१६] इत्य् आदौइत्य्-आदौ मोहः ।
क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः । वृक्ष-मूलाश्रयः शेते [भा।पु। १०.१५.१७] इत्य् आदौइत्य्-आदौ **तन्द्रा-खेद-श्रमाः **।
ताव् अङ्घ्रि-युग्मम् अनुकृष्य [भा।पु। १०.८.२२] इत्य् आरभ्य, अनुसृत्य लोकं मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः इत्य् आदौइत्य्-आदौ **भ्रमः **।
**रुक्ष-रसता **नाम धर्मादि-परम् अपि रुक्षतरानपेक्ष-भक्तेषु रागः, यथा भूरिश्रवोपकरणेऽर्जुन-प्रेरणात् सात्यकौ रागः । काम **उल्बणः **प्रायोऽन्य-क्रिया-त्यागे तत्-परत्वम् ।
न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः ॥ [भा। १०.३०.३१] इत्य् आदौइत्य्-आदौ ।
प्रायशः प्रेयसीं प्रियः इत्य् आदौइत्य्-आदौ प्रायशः प्रेयसी-वश [भ।र।सि। २.१.२३०] इति धीर-ललिते च दर्शितः ।
**लोलता **चाञ्चल्यं—वत्सान् मुञ्चन् क्वचिद् असमये [भा।पु। १०.८.२९] इत्य् आदौइत्य्-आदौ सा धीरोद्धत्ते च दर्शिता । मदः—मद-विघूर्णित-लोचन ईषत् [भा।पु। १०.३५.२४] इत्य् आदौइत्य्-आदौ । मात्सर्यं—लोकेश-मानिनां मौढ्याद् धनिष्ये श्री-मदं तमः [भा।पु। १०.२५.१६] इत्य् आदौइत्य्-आदौ तद् धीरोद्धत्ते च दर्शितम् । हिंसा स्फुटैव सर्वत्र । असत्यम्—नाहं भक्षितवान् अम्ब [भा।पु। १०.८.३५] इत्य् आदौइत्य्-आदौ । क्रोधोऽपि तत्र तत्र प्रसिद्धः । **रोषण **इत्य् अनेन तत्र च दर्शितः । **आकाङ्क्षा—**तां स्तन्य-काम आसाद्य [भा।पु। १०.९.४] इत्य् आदौइत्य्-आदौ । आशङ्का—क्वाप्य् अदृष्ट्वान्तर्-विपिने [भा।पु। १०.१३.१७] इत्य् आदौइत्य्-आदौ । **विश्व-विभ्रमो **जगद्-आवेशः । स च ब्रह्मादि-भक्त-सम्बन्धेन जगत्-पालनेच्छा-मयः । **वैषम्यं **पक्ष-पातित्व-करणं तद् भक्तेषु व्यक्तम् एव । परापेक्षा—अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य् आदिष्व् इति ॥२४७-२४८॥
—ओ)०(ओ—
॥ २.१.२४९ ॥
इत्थं सर्वावतारेभ्यस् ततोऽप्य् अत्रावतारिणः ।
व्रजेन्द्र-नन्दने सुष्ठु माधुर्य-भर ईरितः ॥
श्री-जीवः : पूर्वोक्त-पूर्णतमत्वं व्यञ्जयन्न् उपसंहरति इत्थम् इति । पूर्व-प्रकारेणोक्त-प्रकारेणेत्य् अर्थः । ततस् तस्मात् प्रसिद्धाद् अवतारिणो नानावतार-कर्तुर् महाविष्णुतोऽपि । अत्र सुष्ठ्व् इति माधुर्यस्य प्राचुर्याद् एवोक्तिर् ऐश्वर्यम् अपि ज्ञेयम् इत्य् अर्थः ॥२४९॥
**मुकुन्दः : **इत्थं निरङ्कुशैश्वर्येषु भगवद्-अवतार-मात्रेषु भक्त-सम्बन्धेन जातानां मोहादीनां रस-पोषकत्वेन प्रकारेण । अवतारिणः प्रकृती-क्षण-कर्तुर् ब्रह्माण्डेष्व् एकैकांशेन प्रवेशिनः प्रथम-पुरुषात् । व्रजेन्द्र-नन्दने स्वयं भगवति, लक्ष्मीशादौ माधुर्य-सद्-भावेऽपि सुष्ठ्व् इति । द्वारका-मथुरा-नाथौ सुष्ठु तद्-भावे भवत इति ॥२४९॥
**विश्वनाथः : **पूर्वोक्तं पूर्णतमत्वं व्यञ्जयन्न् उपसंहरति इत्थम् इति । इत्थम् उक्त-प्रकारेण । ततः तस्मात् प्रसिद्धाद् अवतारिणो नानावतार-कर्तुर् महाविष्णुतोऽपि । अत्र सुष्ठ्व् इति माधुर्यस्य प्राचुर्याद् एवोक्तिर् ऐश्वर्यम् अपि ज्ञेयम् ॥२४९॥
—ओ)०(ओ—
॥ २.१.२५० ॥
तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (५.४८५९)—
**यस्यैक-निःश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
श्री-जीवः : **तद् एवाह—तथा चेति । यस्यैक-निःश्वसित-कालम् इत्य् अत्र च गोविन्द-शब्देन च तत्र श्री-व्रजेन्द्र-नन्दन एवोच्यते । सुरभीर् अभिपालयनतम् [ब्र।सं। ५.२९] इत्य् आदिना वेणुं क्वणन्तम् [ब्र।सं। ५.३०] इत्य् आदिना च पूर्वं तस्यैव वर्णनात् । ततस् तन् महा-माधुर्यम् अपि सूचितम् । न चायं श्री-नन्द-नन्दनाद् अन्य एव मन्तव्यः । गौतमीये दशार्णष्टादशार्णयोर् व्याख्यायाम्—
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥
इति बहुष्व् अर्थेष्व् अप्य् अस्यैवार्थस्य पर्यवसायित्वात् । सकल-लोक-मङ्गलो नन्द-गोप-तनयो देवता इति ऋष्य्-आदि-स्मरणाच् च ॥२५०॥
**मुकुन्दः : **स्वयं भगवत्त्वं दर्शयति—तथा च ब्रह्म-संहितायाम् इति ॥२५०॥
**विश्वनाथः : **तद् एवाह—तथा चेति । गोविन्द-शब्देन च तत्र श्री-व्रजेन्द्र-नन्दन एवोच्यते, सुरभीर् अभिपालयनतम् [ब्र।सं। ५.२९] इत्य् आदिना वेणुं क्वणन्तम् [ब्र।सं। ५.३०] इत्य् आदिना च पूर्वं ब्रह्म-संहितायाम् पूर्वं तस्यैव वर्णनात् । यस्य विष्णोर् एक-निःश्वसित-कालम् अवलम्ब्य स्वस्य रोम-बिलोत्पन्ना ब्रह्माण्ड-नाथा जीवन्ति, एवम्-भूतो महा-विष्णुर् यस्य कला-विशेषस् तं गोविन्दम् ॥२५०॥
—ओ)०(ओ—
**॥ २.१.२५१-२५२ ॥
अथाष्टाव् अनुकीर्त्यन्ते सद्-गुणत्वेन विश्रुताः ।
मङ्गलालङ्क्रिया-रूपाः सत्त्व-भेदास् तु पौरुषाः ॥
शोभा विलासो माधुर्यं माङ्गल्यं स्थैर्य-तेजसी ।
ललितौदार्यम् इत्य् एते सत्त्व-भेदास् तु पौरुषाः ॥
श्री-जीवः : **मङ्गलेति । मङ्गल-स्वरूप-शोभा-भूता इत्य् अर्थः । सत्त्व-भेदाः अन्तःकरण-वृत्ति-विशेषाः ॥२५१॥
मुकुन्दः : सत्त्व-भेदा अन्तः-करण-वृत्ति-विशेषाः । मङ्गलेति—स्वरूपस्य श्रेष्ठ-भूषण-रूपाः ॥२५२॥
**विश्वनाथः : **मङ्गलालङ्क्रिया-रूपा मङ्गल-स्वरूप-शोभा-भूताः ॥२५१॥ सत्त्व-भेदा अन्तः-करण-वृत्ति-विशेषाः । अष्टौ पौरुषा गुणाः श्री-कृष्णे कीर्तयन्ते ॥२५२॥
—ओ)०(ओ—
॥ २.१.२५३-२५४ ॥
तत्र शोभा—
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
सत्यं च व्यक्तिम् आयाति यत्र शोभेति तां विदुः ॥
यथा—
**स्वर्ग-ध्वंसं विधित्सुर् व्रज-भुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या
नीचान् आलोच्य पश्चान् नमुचि-रिपु-मुखानूढ-कारुण्य-वीचिः ।
अप्रेक्ष्य स्वेन तुल्यं कम् अपि निज-रुषाम् अत्र पर्याप्ति-पात्रं
बन्धून् आनन्दयिष्यन्न् उदहरतु हरिः सत्य-सन्धो महाद्रिम् ॥
श्री-जीवः : **अत्राधिक इत्य् अधिकम्मन्य इत्य् अर्थः । यत्र मङ्गलालङ्क्रियायाम् ॥२५३॥ तथापि दुर्जन-मुख्यम् एकं मारयत्व् इत्य् आशङ्क्याह—अप्रेक्ष्येति ॥२५४॥
मुकुन्दः : यत्र सत्त्व-भेदे ॥२५३॥ कदनं दुःखं, कथम्भूतं सुष्ठु निन्दितं स्वस्मै दर्शकाय दुःखदम् इत्य् अर्थः । स्वर्ग-ध्वंसं विधित्सुर् इति मनुष्य-लोकात् स्वर्ग-लोकस्याधिक्यात् अधिक-स्पर्धत्वम् ॥२५४॥
विश्वनाथः : गुणान् एवाह—शोभेति । अधिक इत्य् अधिकम्मन्य इत्य् अर्थः । यत्र मङ्गलालङ्क्रियायाम् । नीचे दयेत्य् आदि व्यक्तिम् आयाति । तां मङ्गलालङ्कृतिं शोभा इति विदुर् इत्य् अर्थः ॥२५३॥
अतिवृष्ट्या व्रज-भुवि कदनं वीक्ष्य स्वर्ग-ध्वंसं विधित्सुः श्री-कृष्णः पश्चान् नमुचि-रिपु-मुखान् इन्द्र-प्रभृतीन् नीचान् आलोक्य प्राप्त-कारुण्य-वीचिः । ननु तथापि दुर्जन-मुख्यम् एकं मारयत्व् इत्य् आशङ्क्याह—स्वेन तुल्यम् अथ च निज-रुषां पर्याप्ति-पात्रं कम् अपि जनम् अप्रेक्ष्य बन्धून् आनन्दयिष्यन् हरिः महाद्रिम् उदहरत ॥२५४॥
—ओ)०(ओ—
॥ २.१.२५५-२५६ ॥
विलासः—
वृषभस्येव गम्भीरा गतिर् धीरं च वीक्षणम् ।
स-स्मितं च वचो यत्र स विलास इतीर्यते ॥
यथा—
**मल्ल-श्रेण्याम् अविनयवतीं मन्थरां न्यस्य दृष्टिं
व्याधुन्वानो द्विप इव भुवं विक्रमाडम्बरेण ।
वाग्-आरम्भे स्मित-परिमलैः क्षालयन् मञ्च-कक्षां
तुङ्गे रङ्ग-स्थल-परिसरे सारसाक्षः ससार ॥
श्री-जीवः : **वृषभस्येति । गतौ वीक्षणे च योज्यम् ॥२५५॥ यतो मन्थरा नम्रता-वैयग्र्यादि-शून्या तत एवाविनयवतीति ज्ञेयम् । द्विप इवेत्य् अत्र वृष इवेति पाठान्तरम् ॥२५६॥
**मुकुन्दः : **वृषभस्येति । सत्त्व-भेदस्यानुभावतया लक्षणम् । एवम् अग्रेऽपि कुत्रापि कुत्रापि । वीक्षणं च वृषभस्येव धीरम् ॥२५५॥ मन्थराम् अचञ्चलाम् । किं भयेन ? तत्राह—अविनयवतीम् अवज्ञया धार्ष्ट्यवतीम् । द्विपस्येव च गतिर् इति सूचनाय द्विप इवेति ॥२५६॥
**विश्वनाथः : **वृषभस्येति । गतौ वीक्षणे च योज्यम् ॥२५५॥ यतो मन्थरां नम्रता-वैयग्र्यादि-शून्याम् अत एवाविनयवतीति ज्ञेयम् । द्विप एवेत्य् अत्र वृष एवेति पाठान्तरम् । सारसाक्सः कमल-लोचनः श्री-कृष्णः ॥२५६॥
—ओ)०(ओ—
॥ २.१.२५७-२५८ ॥
माधुर्यम्—
तन् माधुर्यं भवेद् यत्र चेष्टादेः स्पृहणीयता ॥
यथा—
**वराम् अध्यासीनस् तट-भुवम् अवष्टम्भ-रुचिभिः
कदम्बैः प्रालम्बं प्रवलित-विलम्बं विरचयन् ।
प्रपन्नायाम् अग्रे मिहिर-दुहितुस् तीर्थ-पदवीं
कुरङ्गी-नेत्रायां मधु-रिपुर् अपाङ्गं विकिरति ॥
श्री-जीवः : **अवष्टम्भः सुवर्णम् । प्रालम्बम् ऋजु-लम्बि-माल्यं प्रवलितो विलम्बो यत्र तद् यथा स्यात् तद् व्याजेनैव अत्र स्थितिः स्याद् इत्य् अभिप्रायाद् इति भावः । पाठान्तरं तु नात्युपयुक्तम् ॥२५८॥
**मुकुन्दः : **अवष्टम्भः सुवर्णम् । प्रालम्बम् ऋजु-लम्बि-माल्यम् । प्रवणं श्रेष्ठम् अपि अविलम्बं यथा स्यात् तथेति स्पृहणीयतोक्ता ॥२५८॥
**विश्वनाथः : **अवष्टम्भः सुवर्णं तस्य रुचिभिर् वरां यमुनायास् तट-भुवम् अध्यासीनः कृष्णः कदम्बैः करणैः प्रालम्बम् ऋजु-लम्बि-माल्यं प्रवलितोऽपि विलम्बो यत्र तद् यथा स्यात् तथा विरचयन्, तद् व्याजेनैव अत्र स्थितिः स्याद् इत्य् अभिप्रायाद् इति भावः । यमुनाया घट्ट इति प्रसिद्धस्य तीर्थस्य पदवीं प्रपन्नायां हरिण-नेत्रायाम् अपाङ्गं विकिरति ॥२५८॥
—ओ)०(ओ—
॥ २.१.२५९-२६० ॥
माङ्गल्यम्—
माङ्गल्यं जगताम् एव विश्वासास्पदता मता ॥
यथा—
**अन्याय्यं न हराव् इति व्यपगत-द्वारार्गला दानवा
रक्षी कृष्ण इति प्रमत्तम् अभितः क्रीडासु रक्ताः सुराः ।
साक्षी वेत्ति स भक्तिम् इत्य् अवनत-व्राताश् च चिन्तोज्झिताः
के विश्वम्भर न त्वद्-अङ्घ्रि-युगले विश्रम्भितां भेजिरे ॥
श्री-जीवः : **कृष्ण इत्य् अत्र सोऽयम् इति वा पाठः । प्रमत्तम् अनवहितं यथा स्यात् तथा । रक्ता इति प्रमाद-रूपः कर्तृ-धर्मः क्रियायाम् आरोप्यते, क्रिया-कर्त्रोर् आसत्त्या तादात्म्य-बोधनाय । अन्यान्यम् इत्य् अत्र भक्तिर् यथा कथञ्चिद् आश्रय-मात्रं, “साक्षी वेत्ति ममाप्य् असाव् अगतिताम् इत्य् आश्रितां स्व-स्थिता” इति वा तृतीयश् चरणः ॥२६०॥
मुकुन्दः : प्रमत्तम् अनवहितं यथा स्यात् तथा । रक्ता इति प्रमाद-रूपः कर्तृ-धर्मः क्रियायाम् आरोप्यते, क्रिया-कर्त्रोर् आसत्त्या तादात्म्य-बोधनाय ॥२६०॥
विश्वनाथः : अवनत-व्राता भक्त-समूहा मम भक्तिं साक्षी अन्तर्यामी भगवान् वेत्ति इति हेतोः, चिन्तया उज्झितास् त्यक्ताः ॥२६०॥
—ओ)०(ओ—
॥ २.१.२६१-२६२ ॥
स्थैर्यम्—
व्यवसायाद् अचलनं स्थैर्यं विघ्नाकुलाद् अपि ॥
यथा—
प्रतिकुलेऽपि स-शूले, शिवे शिवायां निरंशुकायां च ।
व्यलुनाद् एव मुकुन्दो विन्ध्यावलि-नन्दनस्य भुजान् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : विघ्नेनाकुलाद् अपि व्यवसायाद् अचलनं स्थैर्यम् । महादेवे प्रतिकूले सति एवं शिवायां निरंशुकायां विवस्त्रायां च सत्याम् । तथापि हरिर् बाणस्य सहस्र-भुजान् व्यलुनत् चिच्छेद ॥२६१-२६२॥
—ओ)०(ओ—
॥ २.१.२६३-२६४ ॥
तेजः—
सर्व-चित्तावगाहित्वं तेजः सद्भिर् उदीर्यते ॥
यथा श्री-दशमे (१०.४३.१७)—
मल्लानाम् अशनिर् नॄणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिर्भुजां शास्ता स्व-पित्रोः शिशुः ।
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गः गतः साग्रजः ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.१.२६५-२६६ ॥
यथा—
तेजो बुधैर् अवज्ञादेर् असहिष्णुत्वम् उच्यते ॥
यथा—
**आक्रुष्टे प्रकटं दिदण्डयिषुणा चण्डेन रङ्ग-स्थले
नन्दे चानकदुन्दुभौ च पुरतः कंसेन विश्व-द्रुहा ।
दृष्टिं तत्र सुरारि-मृत्यु-कुलटा-सम्पर्क-दूतीं क्षिपन्
मञ्चस्योपरि सञ्चुकुर्दिषुर् असौ पश्याच्युतः प्राञ्चति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **आक्रुष्ट इति श्री-नारदोक्तिः । दानव-वर्यस्यासुर-श्रेष्ठस्य कंसस्य मुक्ति-रमणी-सम्पर्काय (मृत्यु-कुलटा-सम्पर्काय) दूतीं दैन्य-निरतां मृत्यु-रूपाम् इत्य् अर्थः । अन्यस्यापि दूती-प्रकरणं रमणी-सम्भोगाय भवति । सम्पर्कः सुरते पृक्ते इति विश्वः ॥२६६॥
विश्वनाथः : रङ्ग-स्थले दिदण्डयिषुणा कंसेन प्रकटं यथा स्यात् तथा नन्दे वसुदेवे च आक्रुष्टे आक्रोश-विषयी-कृते तत्र कंसे दृष्टिं क्षिपन् मञ्चस्योपरि सञ्चुकुर्दिषुः श्री-कृष्णः प्राञ्चति । दृष्टिं कथम्भूतां दानव-वर्यस्य कंसस्य मुक्ति-रूपा या रमणी तया सह सम्पर्काय दूतीम् ॥२६६॥
—ओ)०(ओ—
॥ २.१.२६७-२६८ ॥
ललितम्—
शृङ्गार-प्रचुरा चेष्टा यत्र तं ललितं विदुः ॥
यथा—
विधत्ते राधायाः कुच-मुकुलयोः केलि-मकरीं
करेण व्यग्रात्मा सरभसम् असव्येन रसिकः ।
अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न्
उदञ्चद्-रोमाञ्चं रचयति च कृष्णः परिकरम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अव्यरात्मा व्यग्रात्मा श्री-कृष्णः सरभसं सहर्षं यथा स्यात् तथा दक्षिणेन करेण मकरीं विधत्ते । एवं तदैवारिष्टासुरे कटु रुवति सति वाम-हस्तेन युद्धार्थं परिकरं तुन्द-बन्धनं रचयति ॥२६८॥
—ओ)०(ओ—
॥ २.१.२६९-२७० ॥
औदार्यम्—
आत्माद्य्-अर्पण-कारित्वम् औदार्यम् इति कीर्त्यते ॥
यथा—
वदान्यः को भवेद् अत्र वदान्यः पुरुषोत्तमात् ।
अकिञ्चनाय येनात्मा निर्गुणायापि दीयते ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : वदान्य इति वद कथय ॥२६९-२७०॥
विश्वनाथः : पुरुषोत्तमाद् अन्यः को वदान्यः दाता भवेत् त्वं वद ॥२७०॥
—ओ)०(ओ—
**॥ २.१.२७१ ॥
सामान्या नायक-गुणाः स्थिरताद्या यद् अप्य् अमी ।
तथापि पूर्वतः किञ्चिद् विशेषात् पुनर् ईरिताः ॥
श्री-जीवः : **पूर्वतः आफलोदयकृत् स्थिर [भ।र।सि। २.१.१०७] इत्य् आदितः किञ्चिद् विशेषात् परस्पर-पोषणात् कुत्रापि स्वतः पोषणाच् च, पुनः सत्त्व-भेदेष्व् ईरिताः ॥२७१॥
**मुकुन्दः : **स्थिरताद्याः स्थैर्यं तेज औदार्यम् इति त्रयः पूर्वत आफलोदयकृत् स्थिर [भ।र।सि। २.१.१०७] इत्य् आदि इत्य्-आदि लक्षण-त्रय्याः किञ्चिद् विशेषात् व्यवसायाद् अचलनम् [भ।र।सि। २.१.२६१] इत्य् आदि इत्य्-आदि लक्षण-भेदात् ॥२७१॥
**विश्वनाथः : **पूर्वतः आफलोदयकृत् स्थिर [भ।र।सि। २.१.१०७] इत्य् आदितः किञ्चिद् विशेषात् पुनः सत्त्व-भेदेष्व् ईरिताः ॥२७१॥
—ओ)०(ओ—
॥ २.१.२७२-२७५ ॥
अथास्य सहायाः—
अस्य गर्गादयो धर्मे युयुधानादयो युधि ।
उद्धवाद्यास् तथा मन्त्रे सहायाः परिकीर्तिताः ॥२७२॥
अथ कृष्ण-भक्ताः—
तद्-भाव-भावित-स्वान्ताः कृष्ण-भक्ता इतीरिताः ॥२७३॥
यो सत्य-वाक्य इत्य् आद्या ह्रीमान् इत्य् अन्तिमा गुणाः ।
प्रोक्ताः कृष्णेऽस्य भक्तेषु ते विज्ञेया मनीषिभिः ॥२७४॥
ते साधकाश् च सिद्धाश् च द्वि-विधाः परिकीर्तिताः ॥२७५॥
श्री-जीवः- तद्-भावेति । ते सर्वोत्कृष्टेन निजाभीष्टेन च भावेन रत्य्-आदि-विशेषेण भावितं वासितं स्वान्तं येषां ते तथा, सजातीय-तदीय-महा-भक्त-विशेषा आलम्बना इत्य् अर्थः । अन्ये तूद्दीपना इति भावः । तथैवोद्दीपनेष्व् अपि भक्ता गणयिष्यन्ते ॥२७३॥ विज्ञेया विशेषेण ज्ञेया इत्य् अन्येऽपि यथा-सम्भवं ज्ञेया इत्य् अर्थः ॥२७४॥ तद्-वैशिष्ट्य-ज्ञापनार्थं भक्त-भेदाद् दर्शयति—ते साधका इति ॥२७५॥
**मुकुन्दः- **तद्-भावेति । तस्य श्री-कृष्णस्य भावेन रत्य्-आदि-महा-भावान्तेन भावितं यथोचितं वासितं स्वान्तं येषां ते ॥२७३॥ मनीषिभिर् विज्ञेया इति साधकेषु त एव सिद्धेषु वक्ष्यमाणाः पञ्च-पञ्चाशद् अन्ये च ज्ञेया इति भावः ॥२७४॥ तेषाम् उत्तरोत्तर-श्रेष्ठान् भेदाद् दर्शयति—ते साधका इति ॥२७५॥
**विश्वनाथः- **तद्-भावेति । तेन सर्वोत्कृष्टेन निजाभीष्टेन च भावेन रत्य्-आदि-विशेषेण भावितं वासितं स्वान्तं येषां ते तथा । सजातीय-तदीय-महा-भक्त-विशेषा आलम्बना इत्य् अर्थः । अन्ये तूद्दीपना इति भावः । तथैवोद्दीपनेष्व् अपि भक्ताः पदाङ्क-क्षेत्र-तुलसी-भक्त-तद्-वासरादयः गणयिष्यन्ते ॥२७३॥ भक्त-वैशिष्ट्य-ज्ञापनार्थं भक्त-भेदाद् दर्शयति—ते साधका इति ॥२७५॥
–ओ)०(ओ–
॥ २.१.२७६-२७७ ॥
तत्र साधकाः—
उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः ।
कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥
यथा एकादशे (११.२.४६)—
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥
श्रीजीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : प्रेम करोतीति उत्पन्न-रतित्वम् । मध्यमः सम्यङ्-नैर्विघ्न्याभावात्, तस्मान् न्यूनः प्राकृताद् उत्तमः ॥२७७॥
विश्वनाथः- ईश्वरे प्रेम, ईश्वराधीनेषु भक्तेषु मैत्री । बालिशेष्व् अज्ञेषु कृपा । द्विषत्सूपेक्षा ॥२७७॥
—ओ)०(ओ—
॥ २.१.२७८ ॥
यथा वा—
सिक्ताप्य् अश्रु-जलोत्करेण भगवद्-वार्ता-नदी-जन्मना
तिष्ठत्य् एव भवाग्नि-हेतिर् इति ते धीमन्न् अलं चिन्तया ।
हृद्-व्योमन्य् अमृत-स्पृहा-हर-कृपा-वृष्टेः स्फुटं लक्ष्यते
नेदिष्टः पृथु-रोम-ताण्डव-भरात् कृष्णाम्बुधस्योद्गमः ॥
श्रीजीवः- न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः- हेतिर् ज्वाला तिष्ठत्य् एवेति जात-रतेर् अस्य क्लेश-निवृत्ताव् अपि यावत् प्रेमोत्पत्तिर् नास्ति, तावद् दुःसङ्गादिना विषय-सम्पर्कः सम्भवेत् इति दर्शितम् । पृथु रोमा लोम यस्य ॥२७८॥
**विश्वनाथः- **पूर्वस्य विघ्न-कारणाभावम् आशङ्क्यान्यद् उदाहरणम् आह—यथा वेति । हे धीमन् ! संसार-रूपाग्नेः हेतिर् ज्वाला भगवद्-वार्ता-रूप-नदी-जन्मना अश्रु-जल-समूहेन सिक्तापि सा मम तिष्ठत्य् एवेति चिन्तयालं व्यर्थम् । भवाग्नि-ज्वाला-नाशे कारणान्तरम् अप्य् आह—हृदय-रूपे व्योम्नि आकाशे पृथु-रोम-ताण्डवस्य भराद् बृहद्-रोमाञ्चस्यातिशयाद् धेतोः कृष्ण-रूपाम्बुदस्य नेदिष्टः निकट-वर्ती उद्गमः स्फुटं लक्ष्यते । मेघ-पक्षे—पृथु-रोमाणो मत्स्यास् तेषां ताण्डव-भरात् नृत्यातिशयात् कृष्ण-वर्णस्याम्बुदस्य उद्गमः । कथम्भूतस्यामृत-स्पृहा-हरा दृष्टिर् यस्य, मेघ-पक्षेऽमृतस्य जलस्य ॥२७८॥
—ओ)०(ओ—
॥ २.१.२७९ ॥
बिल्वमङ्गल-तुल्या ये साधकास् ते प्रकीर्तिताः ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.१.२८०-२८१ ॥
अथ सिद्धाः—
अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः ।
सिद्धाः स्युः सन्तत-प्रेम-सौख्यास्वाद-परायणाः ॥
सम्प्राप्त-सिद्धयः सिद्धा नित्य-सिद्धाश् च ते त्रिधा ॥
श्री-जीवः : अथ महा-भक्तान् दर्शयति—अथ सिद्धा इति ॥२८०॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अथ महा-भक्तान् दर्शयति—अथेति ॥२८०॥
—ओ)०(ओ—
॥ २.१.२८२-२८३ ॥
तत्र सम्प्राप्त-सिद्धयः—
साधनैः कृपया चास्य द्विधा सम्प्राप्त-सिद्धयः ॥
तत्र साधन-सिद्धाः, यथा तृतीये (३.१५.२५)—
यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।
भर्तुर् मिथः सु-यशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : नोऽस्माकम् उपरि उच्चैर् यच् च वैकुण्ठं स्पृहणीय-शीला भक्ता अनिमिषां देवानाम् ऋषभस्य नारायणस्यानुवृत्त्या व्रजन्ति । दूरे यमो येषाम् । अथवा दूरे यम-नियमादयो येषां ते ॥२८३॥
—ओ)०(ओ—
॥ २.१.२८४ ॥
यथा वा—
ये भक्ति-प्रभविष्णुता-कवलित-क्लेशोर्मयः कुर्वते
दृक्-पातेऽपि घृणां कृत-प्रणतिषु प्रायेण मोक्षादिषु ।
तान् प्रेम-प्रसरोत्सव-स्तवकित-स्वान्तान् प्रमोदाश्रुभिर्
निर्धौतास्य-तटान् मुहुः पुलकिनो धन्यान् नमस्कुर्महे ॥
श्री-जीवः : प्रायेणेति—कथञ्चिद् यदि वाञ्छति [भा।पु। ११.२०.३३] इतिवत् ॥२८४॥
मुकुन्दः : ये भक्तीति प्रायेणेति—कथञ्चिद् यदि वाञ्छति [भा।पु। ११.२०.३३] इतिवत् ॥२८४॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
–ओ)०(ओ–
॥ २.१.२८५-२८८ ॥
मार्कण्डेयादयः प्रोक्ताः साधनैः प्राप्त-सिद्धयः ॥
अथ कृपा-सिद्धाः, यथा श्री-दशमे (१०.२३.४२-४३)—
नासां द्विजाति-संस्कारो न निवासो गुराव् अपि ।
न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः ॥
अथापि ह्य् उत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।
भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥
यथा वा—
**न काचिद् अभवद् गुरोर् भजन-यन्त्रणेऽभिज्ञता
न साधन-विधौ च ते श्रम-लवस्य गन्धोऽप्य् अभूत् ।
गतोऽसि चरितार्थतां परमहंस-मृग्य-श्रिया
मुकुन्द-पद-पद्मयोः प्रणय-सीधुनो धारया ॥
श्री-जीवः : **तासु यज्ञ-पत्नीषु भगवद्-गुण-कथन-सत्-सङ्ग-कारणत्वम् अनुस्मृत्य संस्कारादीनां प्रेम-साधनत्वं च सन्धिह्याह यथा वेति । न काचिद् इति श्री-शुकदेवम् उद्दिश्य श्री-नारद-वाक्यम् ॥२८८॥
**मुकुन्दः **: न काचिद् इति श्री-शुकदेवं प्रति श्री-नारदोक्तिः ॥२८८॥
विश्वनाथः : तथा च ते केवलया भक्त्यैव वैकुण्ठं प्रापुर् इति भावः । श्री-शुकदेवम् उद्दिश्य श्री-नारद-वाक्यम्—परमहंसैर् मृग्याः श्रीः शोभा यस्याः सा । एवम्भूतया प्रणय-सीधुना धारया मुकुन्द-पाद-पद्मयोः चरितार्थतां गतोऽसि ॥२८८॥
—ओ)०(ओ—
**॥ २.१.२८९ ॥
कृपा-सिद्धा यज्ञ-पत्नी-वैरोचनि-शुकादयः ॥
श्री-जीवः : **कृपा-सिद्धा यज्ञ-पत्नीति यद् उक्तं—तत्त्वापात-प्रतीत्य्-अपेक्षयेति ज्ञेयम् ॥२८९॥
मुकुन्दः, विश्वनाथः : : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.२९० ॥
अथ नित्य-सिद्धाः—
**आत्म-कोटि-गुणं कृष्णे प्रेमाणं परमं गताः ।
नित्यानन्द-गुणाः सर्वे नित्य-सिद्धा मुकुन्दवत् ॥
श्री-जीवः : **मुकुन्दवद् ये नित्यानन्द-गुणास् ते नित्य-सिद्धा इत्य् अन्वयः । नित्याश् च आनन्द-स्वरूपाश् च गुणास् तद्-उपलक्षित-देहाश् च, येषां ते । तेषां मुख्य-लक्षणम् आह—आत्मेति । आत्म-प्रेमतोऽपि कोटि-गुणम् इत्य् अर्थः । मध्य-पद-लोपात् ॥२९०॥
**मुकुन्दः : **आत्म-कोटीति मध्य-पद-लोपी समासः । ये आत्म-प्रेमतः कोटि-गुणास् ते नित्य-सिद्धा इति योजना । मुकुन्दवन् नित्याश् च आनन्द-रूपाश् च गुणा येषां ते । गुणेष्व् एव सच्-चिद्-आनन्द-देहत्वम् आयातम् ॥२९०॥
**विश्वनाथः : **वैरोचनिर् बलिः । आत्मनो देहाद् अपि कोटि-गुणं परमं प्रेमाणं गताः प्राप्ताः । मुकुन्दवद् ये नित्यानन्द-गुणास् ते नित्य-सिद्धा इत्य् अन्वयः । नित्याश् च आनन्द-स्वरूपाश् च ये गुणास् तद्-उपलक्षित-देहाश् च, येषां ते ॥२९०॥
—ओ)०(ओ—
॥ २.१.२९१-२९२ ॥
यथा पाद्मे श्री-भगवत्-सत्यभामा-देवी-संवादे—
**अथ ब्रह्मादि-देवानां तथा प्रार्थनया भुवः ।
आगतोऽहं गणाः सर्वे जातास् तेऽपि मया सह ॥
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥
श्री-जीवः : **मत्-प्रिया इति । अहम् एव प्रियो येषां, न तथाङ्गादय इत्य् अर्थः ॥२९१-२॥
**मुकुन्दः : **अहम् एव प्रियो येषां ते मत्-प्रियाः ॥२९१-२॥
**विश्वनाथः : **मत्-प्रिया इति । अहम् एव प्रियो येषां ते, न तथा आत्मादय इत्य् अर्थः ॥२९१-२॥
—ओ)०(ओ—
॥ २.१.२९३ ॥
तथा च श्री-दशमे (१०.१४.३२)—
**अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥
श्री-जीवः : **अहो भाग्यम् अहो भाग्यम् इति विस्मयाधिक्ये वीप्सा । तेन द्वयोर् एव पदयोर् न पौनरुक्त्यम् । अथवा नन्द-गोप-व्रजौकसां भाग्य-महः-प्रकाशकं यावद् भाग्य-द्योतकम् इत्य् अर्थः । अहो इति विस्मये यद् यस्माद् येषां वा ब्रह्म त्वं मित्रं कीदृशं ? ब्रह्म पूर्णं मूर्त-पूर्णानन्दत्वात् । अमूर्तानन्दस् तु तथा पूर्णो न भवति, तद्-अपेक्षया श्री-विग्रहस्यैव प्रचुरानन्दत्वात् । तथा च—सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः [भा।पु। ३.१५.४३] इति ब्रह्म-ज्ञान-निपुणानाम् अपि चित्त-तनु-सङ्क्षोभ-सूचनात् । पुनः कीदृशस् त्वं ब्रह्म ? परमानन्दं परम आनन्दो यस्मात् । अमूर्तानन्दात् मूर्तानन्दस्य परमत्वं श्रेष्ठत्वम् उक्त-प्रकार-सनकाद्य्-उक्तेः । अतोऽत्र पूर्णत्वं परमानन्दत्वं च द्वयम् एव मूर्तामन्दत्व-बोधकम् । अन्यथा ब्रह्मेत्य् अनेनैव तद् उभयम् उपलभ्येत । किम् अपरं तथानिर्देशेन । एवं ब्रह्मणो विशेषणम् उक्त्वा मित्र-विशेषणम् आह—सनातनम् इति । कीदृशं मित्रम् ? सनातनं नित्यं त्रैकालिकम् इति यावत्, यथा त्वं त्रिकाल-सिद्धस् तथा व्रज-लोकोऽपीति भावः । येन हि तेषां सनातनं मित्रं त्वम् असि । अत एषां भाग्यं किं वक्त्वयम् इति भावः ॥२९३॥
मुकुन्दः : प्रेम-प्राप्तिर् नित्यानन्द-गुणवत्त्वं च लभ्यते । तुल्ययोर् मित्रतान्तर्भावात् ॥२९३॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.२९४ ॥
तत्रैव (१०.२६.१३)—
दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
**॥ २.१.२९५-२९६ ॥
सनातनं मित्रम् इति तस्याप्य् औत्पत्तिकः कथम् ।
स्नेहोऽस्मास्व् इति चैतेषां नित्य-प्रेष्ठत्वम् आगतम् ॥
इत्य् अतः कथिता नित्य-प्रिया यादव-वल्लवाः ।
एषां लौकिकवच्-चेष्टा लीला मुर-रिपोर् इव ॥
श्री-जीवः : **सनातनं मित्रम् इतीत्य् एतादृश-योजनयेत्य् अर्थः । अन्यथा सनातन-पद-वैयार्थ्यं स्यात्, पूर्णत्वेनैव तत्-सिद्धेः । यदि च ब्रह्मणो विशेषणं तत् स्यात् तथापि मित्रता-वैशिष्ट्यार्थम् एव तद् विशिष्यत इति समानम् एव । मनोरमं सुवर्णम् इदं कुण्डलं जातम् इत्य् अत्र यथा कुण्डलस्यैव मनोरमत्वं साध्यम् । तद्वत् तस्यापीति स्वभाव-सम्बन्ध-सूचनान् नित्यत्वम् आक्षिप्यते । तद् एवम् अत्र—तस्मान् मच्-छरणं गोष्ठम् [भा।पु। १०.२५.१८] इत्य् आद्यापि ज्ञेयम् । अत्र विशेष-जिज्ञासा चेत् श्री-कृष्ण-सन्दर्भो (१३८) दृश्यः ॥२९५-२९६॥
मुकुन्दः : अस्मासु तस्यापीति नित्यानन्द-गुणवत्त्वं चाक्षिप्यते । एषाम् इति चेष्टा भोजन-शयनाइ-रूपा । लीला जन्म-कर्माइ-रूपा ॥२९६॥
विश्वनाथः : तस्य कृष्णस्यापि कथम् अस्मास्व् औत्पत्तिकः स्वाभाविकोऽनुरागो दुस्त्यजः ? तेन भगवतः स्वभावस्य नित्यत्वात् स्वभाव-सिद्धस्य प्रेष्ठत्वस्यापि नित्यत्वम् आगतम् इति भावः । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् इत्य् अत्र सनातनं मित्रम् इत्य् एव योजना ज्ञेया । ब्रह्म-विशेषणत्वे सनातनस्य वैयर्थ्यं स्यात् । पूर्णत्वेनैव तत्-सिद्धेः । इत्य् अतः नित्य-प्रिया यादवा बल्लवा गोपाः ॥२९५-६॥
—ओ)०(ओ—
॥ २.१.२९७-२९८ ॥
तथा हि पाद्मोत्तर-खण्डे—
**यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥
पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् ।
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥
श्री-जीवः : **तेनैव भगवता सह जायन्ते यादवादय इति शेषः । यदृच्छया स्वैरतया । यदृच्छा स्वैरिता इत्य् अमरः ॥२९७॥
मुकुन्दः, विश्वनाथः : तेनैव भगवता सह जायन्ते यादवादय इति शेषः ॥२९७॥
—ओ)०(ओ—
**॥ २.१.२९९ ॥
ये प्रोक्ताः पञ्च-पञ्चाशत् क्रमात् कंसरिपोर् गुणाः ।
ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **ते च भगवन्-निष्ठा गुणाः । एवं भगवन्-निष्ठत्वेनानुका अपि अन्येऽपि अणिमादि-सिद्धि-प्रदत्वादयो गुणाश् च भक्तेषु ज्ञेयाः । तेषां रसेऽनुपयोगेऽपि भक्त्य्-उत्कर्षार्थम् उक्तम् । ईश्वरे तु चमत्काराभावान् नोत्कर्ष-व्यञ्जकाः सिद्दिदत्वादयो गुणाः । अतस् तन्-निष्ठत्वे नोत्का इति भावः ॥२९९॥
—ओ)०(ओ—
**॥ २.१.३०० ॥
भक्तास् तु कीर्तिताः शान्तास् तथा दास-सुतादयः ।
सखायो गुरु-वर्गाश् च प्रेयस्यश् चेति पञ्चधा ॥
श्री-जीवः : **अथ भाव-भेदेन तेषाम् एव भेदान्तराण्य् आह—भक्तास् तु इति । अत्र दासादयो द्विधा भाव-मयाः, साक्षात्-प्राप्त-दास्यादयश् च । तत्रोत्तरेषाम् एव सम्यग्-आलम्बनत्वम् अभिप्रेतम् ॥३००॥
**मुकुन्दः : **अथ भाव-भेदेन तेषां चेष्टान्तराण्य् आह—भक्तास् तु इति ॥३००॥
**विश्वनाथः : **भाव-भेदेन तेषाम् एव भेदान्तराण्य् आह—भक्तास् तु इति । दास-सुतादयो दासत्वेनैव सङ्गृहीताः । गुरु-वर्गाश् च वात्सल्येन, प्रसाधनादीनां लक्षणं स्वयम् एव पश्चात् करिष्यति ॥३००॥
–ओ)०(ओ–
॥ २.१.३०१-३०२ ॥
अथ उद्दीपनाः—
उद्दीपनास् तु ते प्रोक्ता भावम् उद्दीपयन्ति ये ।
ते तु श्री-कृष्ण-चन्द्रस्य गुणाश् चेष्टाः प्रसाधनम् ॥
स्मिताङ्ग-सौरभे वंश-शृङ्ग-नूपुर-कम्बवः ।
पदाङ्क-क्षेत्र-तुलसी-भक्त-तद्-वासरादयः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : ते त्व् इति आलम्बन-सम्बन्धिनः प्राप्ताः श्री-कृष्ण-सम्बन्धिनः कथ्यन्ते । भक्त-सम्बन्धिनः सङ्क्षेपार्थम् अनुक्ता अपि यथा-योग्यं ज्ञेया इति द्व्य्-अर्थः ॥३०१॥
—ओ)०(ओ—
॥ २.१.३०३ ॥
तत्र **गुणाः—
गुणास् तु त्रिविधाः प्रोक्ताः काय-वाङ्-मानसाश्रयाः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **पर-सम्बन्धिनां केवलोद्दीपनत्वात् त्रिविधा इत्य् उक्तम् । ते च चेष्टा-शब्देन गृहीताः । वयसान्वित इत्य् अन्ताः षट् कायिकाः । वावदूक इत्य् अन्ताश् चत्वारो वाचिकाः । ह्रीमान् इत्य् अन्ताः षड्-विंशतिर् मानसाः । ईश्वर इत्य् अन्ताश् अतुर्दश पर-सम्बन्धिनः । सदा-स्वरूप-सम्प्राप्त इत्य् आद्याश् चतुर्दश कायिकादिष्व् अन्तर्भाव्याः ॥३०३॥
—ओ)०(ओ—
॥ २.१.३०४-३०७ ॥
तत्र **कायिकाः—
वयः-सौन्दर्य-रूपाणि कायिका मृदुतादयः ॥
गुणाः स्वरूपम् एवास्य कायिकाद्या यद् अप्य् अमी ।
भेदं स्वीकृत्य वर्ण्यन्ते तथाप्य् उद्दीपना इति ॥
अतस् तस्य स्वरूपस्य स्याद् आलम्बनतैव हि ।
उद्दीपनत्वम् एव स्याद् भूषणादेस् तु केवलम् ॥
एषाम् आलम्बनत्वं च तथोद्दीपनतापि च ॥
श्री-जीवः : **वयः-सौन्दर्य-रूपाणि कायिका गुणाः । मृदुतादयश् च कायिका गुणा इत्य् अर्थः ॥३०४॥ गुणाः स्वरूपम् एवेति स्वरूप-धर्मत्वात् स्वरूपान्तः-प्रविष्टा इत्य् अर्थः । भेदं स्वरूपाद् अत्यन्त-पृथक्त्वं स्वीकृत्योपचर्येत्य् अर्थः । यदा श्री-कृष्णः सुरम्याङ्ग इति भाव्यते, तद्-आलम्बन-कोटौ प्रवेशः । यदा तु कृष्णस्य सुरम्याङ्गत्वम् इति भाव्यते, तद् एवोद्दीपन-कोटौ प्रवेश इति भावः ॥३०५॥ अत इति स्वरूपस्य श्री-विग्रह-रूपस्येत्य् अर्थः ॥३०६॥ एषां गुणानां विशिष्टालम्बनत्वाद् विशेषण-रूपेषु गुणेष्व् अप्य् अंशेनालम्बनत्वं प्रवर्तते इति भावः ॥३०७॥
**मुकुन्दः : **वयः-सौन्दर्य-रूपाणीति । पूर्वम् उक्तान्य् अनुक्ताश् च मृदुतादयः कायिका गुणा इत्य् अर्थः । आदि-ग्रणाल् लावण्याभिरूप्ता माधुर्यात् समय-योग्य-शैत्योष्णाद्याः ॥३०४॥ गुणाः स्वरूपं सनातनात्मा स्वरूपान्तः-प्रविष्टा इत्य् अर्थः । भेदम् अपूर्ववत्-प्रतीतिः ॥३०५॥ एषाम् इति । एषां कायिकादीनां त्रिविधानाम् आलम्बनत्वं श्री-कृष्णः किशोरः सुन्दर इत्य्-आदि-भावनया । उद्दीपनता कृष्णस्य कैशोरं सौन्दर्यं जातम् इत्य्-आदि-भावनया ॥३०७॥
**विश्वनाथः : **गुणाः स्वरूपम् एवेति । स्वरूप-धर्मत्वात् स्वरूपान्तः-प्रविष्टा इत्य् अर्थः । भेदं स्वरूपाद् अत्यन्त-पृथक्त्वं स्वीकृत्योपचर्येत्य् अर्थः । यदा कृष्णः सुरम्याङ्ग इति विभाव्यते, तदा आलम्बन-कोटौ प्रवेशः । यदा तु कृष्णस्य सुरम्याङ्गत्वम् इति भाव्यते, तदोद्दीपन-कोटौ प्रवेश इति भावः ॥३०५॥ भूषणादेः केअलम् उद्दीपनत्वम् एव ॥३०६॥ एषां गुणानां त्व् आलम्बनत्वं तथैवोद्दीप्नत्वम् अपि ज्ञेयम् ॥३०७॥
—ओ)०(ओ—
॥ २.१.३०८-३०९ ॥
तत्र **वयः—
वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आ-षोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥
श्री-जीवः, विश्वनाथः : **कौमारम् इत्य् आदिकं दृष्टान्त-मात्रं, श्री-कृष्णे तु विशेषो ज्ञेयः । यथा—
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा [भा। १०.८.२६] इत्य् आदिकम् ॥३०९॥
मुकुन्दः : कौमारम् इत्य् आदि इत्य्-आदि सामान्य-लक्षणं श्री-कृष्णेविशेषस् तूदाहरणेषु बोध्यः ॥३०९॥
—ओ)०(ओ—
**॥ २.१.३१०-३१२ ॥
औचित्यात् तत्र कौमारं वक्तव्यं वत्सले रसे ।
पौगण्डं प्रेयसि तत्-तत्-खेलादि-योगतः ॥
श्रैष्ठ्यम् उज्ज्वल एवास्य कैशोरस्य तथाप्य् अदः ।
प्रायः सर्व-रसौचित्याद् अत्रोदाह्रियते क्रमात् ॥
आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥
श्री-जीवः : **तत्र तत्-तत्-खेलादि-योगतो यदौचितं योग्यतातिशयस् तस्माद् इति त्रिष्व् अपि योजनीयम् ॥३१०॥ प्रायो बाहुल्येन ॥३११॥ शिष्यते नित्यम् एक-रूपतया तिष्ठतीति शेषः । परम-पूर्णावस्थम् इत्य् अर्थः । तद् एवं निरुक्ति-बलाद् वक्ष्यमाणेन चरम-शब्देनापि तादृग्-अवस्थं वाचनीयम् । चरति स्वाविर्भावोत्तरं सर्व-कालं सञ्चरति, न तु कौमारादिवद् व्यभिचरति । मा लक्ष्मीर् यस्मिन्न् इति ॥३१२॥
मुकुन्दः : प्राय इति । आद्य-मध्य-बाल्य-लीलानां करणाभावात् ॥३११॥ शिष्यते नित्यम् एक-रूपतया तिष्ठतीति शेषं परम-पूर्णावस्थम् इत्य् अर्थः ॥३१२॥
विश्वनाथः : पौगण्डं प्रेयसि सख्य-रसे तत्-तत्-खेलादि-योगात् श्रेष्ठम् । तथोज्ज्वल-रस एव कैशोरस्य अदः श्रैष्ठ्यम् । प्रायो बाहुल्येन सर्वेषां रसानाम् औचित्याद् अत्र कैशोअ एव क्रमाद् उदाह्रियते ॥३१०-३११॥
शिष्यते नित्यम् एक-रूपतया तिष्ठतीति शेषं परम-पूर्णावस्थम् इत्य् अर्थः । तद् एवं निरुक्ति-बलाद् वक्ष्यमाण-चरम-शब्देनापि तादृशावस्थत्वं वाचनीयम् । चरति स्वाविर्भाव-कालोत्तरं सर्व-कालं सञ्चरति, न तु कौमारादिवद् व्यभिचरति । मा लक्ष्मीर् यस्मिन्न् इति ॥३१२॥
—ओ)०(ओ—
॥ २.१.३१३-३१४ ॥
तत्र आद्यम्—
वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुण-च्छविः ।
रोमावलि-प्रकटता कैशोरे प्रथमे सति ॥
तथा—
**हरति शितिमा कोऽप्य् अङ्गानां महेन्द्र-मणि-श्रियं
प्रविशति दृशोर् अन्ते कान्तिर् मनाग् इव लोहिनी ।
सखि तनु- रुहां राजिः सूक्ष्मा दरास्य विरोहते
स्फुरति सुषमा नव्येदानीं तनौ वन-मालिनः ॥
श्री-जीवः, विश्वनाथः : **शितिमा श्यामतातिशयः । तालव्यादिर् अयम् । शिती धवल-मेचकौ इत्य् अमरः । लोहिनी रक्त-वर्णा10 । तद् इदं तस्याग्रज-भ्रातृ-जायाया वचनम् ॥३१४॥
**मुकुन्दः : **शितिमा श्यामतातिशयः । लोहिनी रक्त-वर्णा ॥३१४॥
—ओ)०(ओ—
॥ २.१.३१५-३१६ ॥
वैजयन्ती-शिखण्डादि-नट-प्रवर-वेशता ।
वंशी-मधुरिमा वस्त्र-शोभा चात्र परिच्छदः ॥
यथा श्री-दशमे (१०.२१.५)—
बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं
बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्
वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥
श्री-जीवः, विश्वनाथः : _न व्याख्यातम् ।न व्याख्यातम्। _
मुकुन्दः : बर्हापीडम् इति । मध्य-पौगण्डारम्भे अन्यस्य प्रथम-कैशोरारम्भवद् भासमानत्वात् तद् उदाहृतम्—
पौगण्ड-मध्य एवायं हरिर् दीव्यन् विराजते । माध्युर्याद्भुत-रूपत्वात् कैशोराग्रांश-भाग् इव ॥ [भ।र।सि। ३.३.७१]
इति सख्य-रसे वक्ष्यमाणत्वात् । तत्रायं लीला-क्रमः—एवं व्रजौकसां प्रीतिम् [भा।पु। १०.११.३७] इति पद्ये श्री-वैष्णव-तोषण्यां लिखितम् । स्व-कालेनेति चतुर्थ-वर्ष-वयः-प्रवेश इत्य् अर्थः । अत्रैवम् ऊह्यं—बृहद्-वने मास-त्रयाधिक-वर्ष-त्रयं स्थितौ चतुर्थे वृन्दावनम् आगत्य बाल्य-लीलया मासान् कतिचिन् नीत्वा वत्स-पालौ बभूवतुः । पञ्चमे वत्साहरणादीति आद्ये पौगण्डे कृष्णस्य व्रजाजनानां च मिथो नवानुरागः, तस्य मध्यारम्भेताभिः सम्भोगादिः, ततो गोवर्धनोद्धर्णं ततो रासा इति । तथा श्री-दशमे पञ्चदशाध्याये पौगण्डारम्भे—
नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः । कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन ॥ [भा।पु। १०.१५.७]
इत्य् अत्र सख्य-भावान् नर्मणा प्रियम् ईक्षणेनेत्य् उक्तम् । वस्तुतस् तु ममैव कुर्वन्तीत्य् अनेन तासु तस्य प्रथमम् एव पूर्व-रागः । तं गोरजश्-छुरित- [भा।पु। १०.१५.४२] इति, पीत्वा मुकुन्द [भा।पु। १०.१५.४३] इति च द्वाभ्यां तासां तस्मिन् सः । सप्तम-वर्षस्य ग्रीष्म-प्रसङ्गे—
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भा।पु। १०.१९.१६]
इत्य् अनेन विकारस्य भूत-पूर्वत्वम् । नवानुरागे गूढ-भावानुभावस्य कल्पायमान-क्षणस्यासम्भवात् । तद्-अनन्तरम् अष्टमारम्भे वेणु-गीतं, ततो गोवर्धनोद्धरणं, कन्या-प्रसाद-यज्ञ-पत्नी-प्रसादाः । नवमारम्भे रास इति । अतः पूर्णाः पुलिन्द्यः [भा।पु। १०.२१.१७] इति पद्यम् उज्ज्वल-नीलमणौ [उ।नी। १४.२२३] सदा सम्भोगेति तद्-गन्धाधार-मात्र-स्तुताव् उदाहृतम् इति ॥३१६॥
—ओ)०(ओ—
**॥ २.१.३१७-३१८ ॥
खरतात्र नखाग्राणां धनुर् आन्दोलिता भ्रुवोः ।
रदानां रञ्जनं राग-चूर्णैर् इत्य् आदि इत्य्-आदि चेष्टितम् ॥ \
**यथा—
**नवं धनुर् इवातनोर् नटद्-अघ-द्विषोर् भ्रू-युगं
शरालिर् इव शाणिता नखर-राजिर् अग्रे खरा ।
विराजति शरीरिणी रुचिर-दन्त-लेखारुणा
न का सखि समीक्षणाद् युवतिर् अस्य वित्रस्यति ॥
श्री-जीवः : **नखाग्राणां खरता रदानां रञ्जनम् इति तच्-छोभा-विशेष-ज्ञापनाय लोक-रीति-कथन-मात्रम् । तत्र तु स्वभावत एव तादृश-नख-सौष्ठवं शिखर-मणि-लावण्य-तिरस्कारि-दन्त-लावण्यं चाविर्भवतीति ज्ञेयम् । अत एवैते परिच्छद-मध्ये न पठिते । धनुषी इव आन्दोलिन्यौ धनुर्-आन्दोलिन्यौ तयोर् भावः धनुर्-आन्दोलिता ॥३१७-३१८॥
**मुकुन्दः : **खरतेति । खरता-रञ्जनयोः स्वतः-सत्त्वेऽपि पुनस् तत्-करणम् आधिक्यार्थं तल्-लौकिक-लीलायातिरसावहम् । धनुषी इवान्दोलिन्यौ ये तयोर् भावः धनुर् आन्दोलिता ॥३१७॥
विश्वनाथः : राग-चूर्णैः करणैः रदानां दन्तानां रञ्जनम् । धनुषी इवान्दोलिन्यौ तयोर् भावः धनुर् आन्दोलिता ॥३१७॥
हे सखि ! श्री-कृष्णस्य समीक्षणात् का युवती न वित्रस्यति । अस्य अघद्विषः श्री-कृष्णस्य अतनोः कन्दर्पस्य नवं धनुर् इव भ्रू-युगम् । एवं शाणिता शर-श्रेणीव नखर-श्रेणी अग्र-देशे खरा तीक्ष्णा । शरीरिणी मूर्तिमती रुट् क्रोध इवारुणा दन्त-श्रेणी विराजति ॥३१८॥
—ओ)०(ओ—
॥ २.१.३१९ ॥
तन्-मोहनता, यथा—
**कर्तुं मुग्धाः स्वयम् अचटुना न क्षमन्तेऽभियोगं
न व्यादातुं क्वचिद् अपि जने वक्त्रम् अप्य् उत्सहन्ते ।
दृष्ट्वा तास् ते नव-मधुरिम-स्मेरतां माधवार्ताः
स्व-प्राणेभ्यस् त्रयम् उदसृजन्न् अद्य तोयाञ्जलीनाम् ॥
श्री-जीवः : **कर्तुम् इति वृन्दाया वचनम् । तत्र प्रथमं तस्य सन्देहं विरचय्योत्कण्ठां वर्धयन्ती कारणं विनैव कार्यम् आह—पूर्वार्धेन । ततश् च कुत इति तत्-प्रश्नानन्तरं तम् एव कारणत्वेन विन्यस्य सम्यग् आर्द्रयन्त्य् आह तृतीयेन चरणेन । पुनश् च तर्हि किं कुर्वन्तीति स-गद्गदं तत्-प्रश्नानन्तरं तम् अतिव्याकुलयन्त्य् आह चतुर्थेनेति योजनीयम् । अभियोगं भावाभिव्यक्तिम् ॥३१९॥
**मुकुन्दः : **कर्तुम् इति व्रज-कन्या-सखी-वचनम् । अभियोगम् अभिव्यक्तिम् । तत्र हेतुर् अचटुलता । परेण कथनं न कुर्युस् तत्राह—न व्यादातुम् इत्य् आदि इत्य्-आदि । क्वचिद् अपि अन्तरङ्गेऽपि वक्त्रं व्यादातुम् अपि नोत्सहते उत्साहम् अपि न कुर्वन्ति । कुतः कथयित्वा तत्-कारित्वम् इत्य् अर्थः । अत्र कैशोर-भेदाः पञ्चधा वर्ण्यन्ते । लक्षणेन परिच्छदेन माधुर्येण, चेष्टितेन, मोहनता-विशेषेण च । तद् एवम् आद्ये कैशोरे चत्वारि स्पष्टान्य् एव । माधुरी काचन सखि समीक्षणाद् युवतिर् अस्य वित्रस्यतीति तत्-कार्येण वित्रासेन दर्शितास्ति । मध्य-शेषयोस् तु परिच्छदस्य प्रायः सर्वत्र समानत्वात् पृथग्-अनुक्तिः ॥३१९॥
**विश्वनाथः : **वृन्दाया वचनम् । स्वयम् अभियोगं भावाभिव्यक्तिं कर्तुं न क्षमन्ते, वतो मुग्धाः । तत्रापि अचटुलाः । एवं क्वचिद् अपि जने मुखं व्यादातुं नोत्सहन्ते । तस्मात् हे माधव ! ता आर्तास् तव नवमधुरिमा-स्मेरतां दृष्ट्वा स्व-प्राणेभ्यस् तेषाम् आञ्जलीनां त्रयम् उदसृजन् ददुर् इत्य् अर्थः ॥३१९॥
—ओ)०(ओ—
॥ २.१.३२०-३२१ ॥
अथ मध्यमम्—
ऊरु-द्वयस्य बाह्वोश् च कापि श्रीर् उरसस् तथा ।
मूर्तेर् माधुरिमाद्यं च कैशोरे सति मध्यमे ॥
यथा—
स्पृहयति करि-शुण्डा-दण्डनायोरु-युग्मं
गरुड-मणि-कवाटी-सख्यम् इच्छत्य् उरश् च ।
भुज-युगम् अपि धित्सत्य् अर्गलावर्ग-निन्दाम्
अभिनव-तरुणिम्नः प्रक्रमे केशवस्य ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अभिनव-तरुणिम्नः प्रक्रम इत्य् उक्तिर् नव-यौवन-च्छटोदयात् । शेष-कैशोरं तु नव-यौवनम् एव माधुरी-वयो-गुण-रूप-भावानां रोचमानता ॥३२१॥
विश्वनाथः : केशवस्य अभिनव-तरुणिम्नः प्रक्रमे सति ऊरु-द्वयं करि-शुण्डाया दण्डनाय स्पृहयति । शुण्डेत्य् आकाराम्भोऽपि वर्तते । गरुड-मणिर् इन्द्र-नीलमणिः ॥३२१॥
—ओ)०(ओ—
॥ २.१.३२२-३२३ ॥
मुखं स्मित-विलासाढ्यं विभ्रमोत्तरले दृशौ ।
त्रि-जगन्-मोहनं गीतम् इत्य् आदिर् इह माधुरी ॥
यथा—
अनङ्ग-नय-चातुरी-परिचयोत्तरङ्गे दृशौ
मुखाम्बुजम् उदञ्चित-स्मित-विलास-रम्याधरम् ।
अचञ्चल-कुलाङ्गना-व्रत-विडम्बि-सङ्गीतकं
हरेस् तरुणिमाङ्कुरे स्फुरति माधुरी काप्य् अभूत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अनङ्ग-मय-चाटुरी-परिचयेन उत्तरङ्गे उद्गत-कौतुके दृशौ भवततः ॥३२३॥
—ओ)०(ओ—
॥ २.१.३२४-३२५ ॥
वैदग्धी-सार-विस्तारः कुञ्ज-केलि-महोत्सवः ।
आरम्भो रास-लीलादेर् इह चेष्टादि-सौष्ठवम् ॥
यथा—
व्यक्तालक्त-पदैः क्वचित् परिलुठत्-पिञ्छावतंसैः क्वचित्
तल्पैर् विच्युत-काञ्चिभिः क्वचिद् असौ व्याकीर्ण-कुञ्जोत्करा ।
प्रोद्यन्-मण्डल-बन्ध-ताण्डव-घटालक्ष्मोल्लसत्-सैकता
गोविन्दस्य विलास-वृन्दम् अधिकं वृन्दाटवी शंसति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : वैदग्धी-सारेति । आद्ये वैदग्धी-विस्तारः कुञ्ज-केल्य्-उत्सवश् च ॥३२४॥ कथं-भूता वृन्दाटवी ? तल्पैर् व्याकीर्णाः कुञ्जोत्करा यस्यां सा । विपर्याद्या आधिक्य-बोधकाः । आधिक्यम् आद्य-कैशोर-विलासेभ्यः ॥३२५॥
विश्वनाथः : वृन्दाटवी गोविन्दस्य अधिकं विलास-वृन्दं शम्षति कथयति । असौ वृन्दाटवी क्वचित् स्थले गोपीनां व्यक्तालक्त-पदैर् व्याकीर्णो व्याप्तः कुञ्ज-समूहो यत्र तथा-भूता । एवं क्वचित् स्थले विच्युत-काञ्चिभिस् तल्पैर् व्याकीर्ण-कुञ्जोत्सवा ॥३२५॥
—ओ)०(ओ—
॥ २.१.३२६ ॥
तन्-मोहनता, यथा—
**विदूरान् माराग्निं हृदय-रवि-कान्ते प्रकटयन्न्
उदस्यन् धर्मेन्दुं विदधद् अभितो राग-पटलम् ।
कथं हा नस् त्राणं सखि मुकुलयन् बोध-कुमुदं
तरस्वी कृष्णाब्भ्रे मधुरिम-भरार्कोऽभ्युदयते ॥
श्री-जीवः : **विदूराद् इति । अब्भ्रं नभः । रागोऽत्र माराग्नि-कृत-तृष्णातिशयः ॥३२६॥
**मुकुन्दः : **अब्भ्रं नभः । कृष्ण-पक्षे रागो माधुर्य-भरोद्भूतः परमावेशः ॥३२६॥
विश्वनाथः : कृष्णाब्भ्रे श्री-कृष्ण-स्वरूप-मेघे अम्धुरिम-भर-रूपः सूर्यः तरस्वी वेगवान् अभ्युदयते । किं कुर्वन् ? हृदय-रूप-सूर्य-कान्त-शिलायां कन्दर्पाग्निं प्रकटयन् । एवं धर्म-रूप-चन्द्रम् उदस्यन् उत्क्षिपन्, एवम् अभितो राग-पटलं विदधत् । रागोऽत्र माराग्नि-कृत-तृष्णातिशयः । एवम् अस्माकं बोध-रूप-कुमुदं मुकुलयन् मूद्रितं कुर्वन् । तस्माथा नोऽस्माकं किं त्राणं भविता ॥३२६॥
—ओ)०(ओ—
॥ २.१.३२७-३२८ ॥
अथ शेषम्—
पूर्वतोऽप्य् अधिकोत्कर्षं बाढम् अङ्गानि बिभ्रति ।
त्रि-वलि-व्यक्तिर् इत्य् आद्यं कैशोरे चरमे सति ॥
यथा—
**मरकत-गिरेर् गण्ड-ग्राव-प्रभा-हर-व्रक्षसं
शत-मख-मणि-स्तम्भारम्भ-प्रमाथि-भुज-द्वयम् ।
तनु-तरणिजा-वीचि-च्छाया-विडम्बि-बलि-त्रयं
मदन-कदली-साधिष्ठोरुं स्मराम्य् असुरान्तकम् ॥
श्री-जीवः : **साधिष्ठत्वं परमातिशयित्वम् ॥३२८॥
मुकुन्दः : गण्ड-ग्रावः (गिरेः) च्युतः स्थूलोपलः, मदन-कदलीभ्याम् आधिष्ठौ अतिशयेन साधु सुन्दरौ ऊरू यस्य तम् । अत्र बाढादेशः साधु-शब्दो न ॥३२८॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.३२९ ॥
तन्-माधुर्यं, यथा—
दशार्ध-शर-माधुरी-दमन-दक्षयाङ्ग-श्रिया
विधूनित-वधू-धृतिं वरकला-विलासास्पदम् ।
दृग्-अञ्चल-चमत्कृति-क्षपित-खञ्जरीट-द्युतिं
स्फुरत्-तरुणिमोद्गमं तरुणि पश्य पीताम्बरम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अङ्गानि पूर्वतोऽप्यधिकोत्कर्षं बिभ्रति । शतमख-मणिर् इन्द्रनील-मणिः तनुः सूक्ष्मा या तरणिजाया यमुनाया वीचिस् तरङ्गस् तस्याश् छाया कान्तिस् तद्-विडम्बि बलि-त्रयं यस्य । मदन-कदलीतोऽपि साधिष्ठं परमातिशयित-मरु-स्थलं यस्य ॥३२९॥
—ओ)०(ओ—
॥ २.१.३३०-३३२ ॥
इदम् एव हरेः प्राज्ञैर् नव-यौवनम् उच्यते ॥
अत्र गोकुल-देवीनां भाव-सर्वस्व-शालिता ।
अभूत-पूर्व-कन्दर्प-तन्त्र-लीलोत्सवादयः ॥
यथा—
**कान्ताभिः कलहायते क्वचिद् अयं कन्दर्प-लेखान् क्वचित्
कीरैर् अर्पयति क्वचिद् वितनुते क्रीडाभिसारोद्यमम् ।
सख्या भेदयति क्वचित् स्मर-कला-षाड्गुण्यवान् ईहते
सन्धिं क्वाप्य् अनुशास्ति कुञ्ज-नृपतिः शृङ्गार-राज्योत्तमम् ॥
श्री-जीवः : **भावस्य यत् सर्वस्वं सर्वोऽप्य् अर्थस् तेन प्रशंसावत्ता ॥३३१॥
अत कैशोर-भेदाश् चतुर्धा वर्ण्यन्ते—लक्षणेन परिच्छदेन चेष्टितेन मोहमता-वैशिष्ट्येन च । तत्र यद्यपि परिच्छदादीन्य् अपि लक्षणान्य् एव, तथापि विशेषतस् तद् वर्णयितुम् एव पृथङ् निर्देशः । तद् एवम् आद्य-कैशोरे तानि स्पष्टान्य् एव, मध्य-शेषयोस् तु परिच्छदस्य प्रायः सर्वत्र समानत्वात् पृथङ् नोक्तिः माधुरी च मोहनताया एव कारणावस्था पृथङ् दर्शिता । सा चाद्येऽपि व्यञ्जितास्ति । नव-मधुरिम-स्मेरतां [भ।र।सि। २.१.३१९] इत्य् अनेन, नवं धनुर् इवातनोर् नटद्-अघ-द्विषोर् भ्रू-युगं [भ।र।सि। २.१.३१८] इत्य् अनेन, रन्ध्रान् वेणोर् अधर-सुधया पूरयन् [भ।र।सि। २.१.३१६] इत्य् अनेन च । मध्ये चेष्टादि-सौष्ठवम् इति चेष्टाया आदि श्रैष्ठ्यं सौष्ठवम् इत्य् अर्थः । चरमेऽपि चात्र गोकुलेऽतिमोहनता तस्मात् सौष्ठव-माधुर्य-मोहनतानां भेदेऽप्य् अभेद-निर्देशः परस्परम् अव्यैरेकितयावगन्तव्यः । अत्र सौष्ठवं तद्-द्वयोर् योग्याङ्ग-शोभा-विशेषः माधुर्यं तेन रोचकत् । मोहनता तु तयानुभवन्तरम् आच्छिद्याकर्णितेति ज्ञेयम् । तद् एवम् प्रकरणार्थो व्याख्यातः । अभूत-पूर्वेति चेष्टितम् उद्दिष्टम् । अत्र च सति यथा कान्ताभिर् इत्य् आदिना चेष्टितम् उदाहरति—षाड्गुण्य इति । क्वचित् शृङ्गार-राज्योत्तमानुशाअन इत्य् एव लभ्यते । अत्र नीति-शास्त्रानुसारो ज्ञेयः । यथोक्तम्—सन्धिना विग्रहो यानम् आसनं द्वैधम् आश्रयः षड्गुणा इति । अत्र कान्ताभिर् इति विग्रहः । कन्दर्प-लेखान् इति द्वैधम् । क्रीडेति यानम् । सख्येत्य् आश्रयः । सन्धिम् इति सन्धिः । कुञ्ज-नृपतिर् इत्य् आसनम् इति षट्कं व्यञ्जितम् ॥३३२॥
मुकुन्दः : भावस्य यत् सर्वस्वं सर्वार्थः तेन शाल्लिता प्रशंसावत्ता, अभूतेति चेष्टितम् ॥३३१॥
क्वचित् स्थाने सन्धिना विग्रहो यानम् आसनं द्वैधम् आश्रयः इति षड्गुणाः । कान्ताभिर् इति विग्रहः । कन्दर्प-लेखान् इत्य् आश्रयः । क्रीडाभिसारेति यानम् । सख्या भेदयति मानं त्याजयतीति द्वैधम् । सन्धिम् इति सन्धिः । कुञ्ज-नृपतिर् इत्य् आसनम् ॥३३२॥
विश्वनाथः : अत्र शेष-कैशोरे भावस्य यत्र सर्वस्वं सर्वोऽप्य् अर्थस् तेन शालिता तद्वत्ता । अभूत-पूर्वेति—चेष्टितम् उद्दिष्टम् । तत्र च सति यथा कान्ताभिर् इत्य् आदि इत्य्-आदि चेष्टितम् उदाहरति—क्वचित् शृङ्गार-राज्योत्तमानुशासने स्मर-कला-षाड्गुण्यवान् कुञ्ज-नृपतिः कृष्णः शृङ्गार-राज्योत्तमं शान्तिं पालयतीत्य् अर्थः । अत्र नीति-शास्त्रानुसारो ज्ञेयः । यथोक्तं—सन्धिना विग्रहो यानम् आसनं द्वैधम् आश्रयः इति षड्गुणाः । अत्र कान्ताभिर् इति विग्रहः । प्रिय-स्थाने कीरैः कीर-द्वारा कन्दर्प-लेखान् अर्पयतीति द्वैधम् । क्रीडेति यानम् । सख्या सखी-द्वारा भेदयति इत्य् आश्रयः । सन्धिम् इति सन्धिः । कुञ्ज-नृपतिर् इत्य् आसनम् इति षट्कं व्यक्तम् ॥३३०-३३२॥
—ओ)०(ओ—
॥ २.१.३३३ ॥
तन्-मोहनता, यथा—
**कर्णाकर्णि सखी-जनेन विजने दूती-स्तुति-प्रक्रिया
पत्युर् वञ्चन-चातुरी गुणनिका कुण्ड-प्रयाण् निशि ।
वाधिर्यं गुरु-वाचि वेणु-विरुताव् उत्कर्णतेति व्रतान्
कैशोरेण तवाद्य कृष्ण गुरुणा गौरी-गणः पठ्यते ॥
श्री-जीवः : **अथ मोहनताम् उदाहरति—तन्-मोहनता यथेति । तद् एवं त्रिष्व् अपि कैशोरेषु साम्येनैव वर्णनं ज्ञेयम् । कर्णाकर्णीति प्रणयेन विसंवाद-प्रायत्वात् । परस्परं कर्णेन कर्णेन युद्धम् इव प्रवृत्तम् इत्य् अर्थः ॥३३३॥
मुकुन्दः : सखी-जनेन सह कर्णेन कर्णेन लगित्वा युद्धं वृत्तं कर्णाकर्णि । युद्धं विनाप्य् अन्यत्र दर्शनम् आग्रह-मात्र-बोधकम् । गुणनिकाभ्यास इति वट् । बुद्धि-रक्षार्थयोः शब्द-कर्मकानां च निजेच्छयेति वचनाद् गौण-कर्मणि गोपी-गणे प्रत्ययः ॥३३३॥
**विश्वनाथः : **कर्णाकर्णीति कृष्णं प्रति दूती-वाक्यम् । हे कृष्ण ! ते तव कैशोरेण गुरुणा सखी-जनेन सह कर्णाकर्णीत्य् आदि व्रतान् गौरी-गणः पाठते । परस्परं कर्णेन कर्णेन युद्धम् इव प्रवृत्तम् इति कर्णाकर्णि । कुञ्ज-प्रयाणे पत्युः वञ्चन-चातुर्यं गुणनिका अभ्यासः ॥३३३॥
—ओ)०(ओ—
**॥ २.१.३३४ ॥
नेतुः स्वरूपम् एवोक्तं कैशोरम् इह यद्यपि ।
नानाकृति-प्रकटनात् तथाप्य् उद्दीपनं मतम् ॥
श्री-जीवः : **पूर्वं गुणाः स्वरूपं [भ।र।सि। २.१.३०५] इत्य् आदिना यं भेदम् अङ्गीकृत्य गुणानाम् उद्दीपनत्वं दर्शितम् । तम् एव कैशोरम् उपलक्ष्य स्थापयंस् तेषां स्वत उद्दीपनत्वम् एवेति द्रढयति—नेतुर् इति । स्वरूप-धर्मत्वाद् यद्यपि नेतुर् नायकस्य स्वरूपम् एव कैशोरं, तथापि नानाकृतीनां कौमार-पौगण्ड-कैशोराणां यथावसरम् एव प्रकटनात् प्राकट्यात् कृष्णाख्य-धर्मिणस् तु तत्र तत्रानुगतत्वात् कैशोरम् अप्य् उद्दीपनम् एवेत्य् अर्थः । आलम्बनः खलु सर्वदानुगत एव । उद्दीपनास् तु कादाचित्का इति ॥३३४॥
मुकुन्दः : ननु बाल्यादि-रसः स्वरूप-धर्मित्वेऽपि समयं प्राप्योदयित्वाद् औपचारिको भेदः सम्भवेत् ? कैशोरस्य वयसो विविधत्वेऽपि [भ।र।सि। २.१.६३] पद्ये धर्मि-स्वरूपतयोक्तस् तु सर्वत्र सदोदयिनः कथं सोऽपि, येनोद्दीपनत्वं स्याद् इत्य् आशङ्क्याह—नेतुर् इति धर्मिणो नायकस्य, कैशोरं स्वरूपम् एव, न तु धर्मः । नानाकृतीनां सर्व-भक्तानाम् आलम्बन-मूर्तीनां प्रकटनात् एकदा समयान्तरे च तत्-तद्-भक्त-सम्बन्धेन प्रकटनात् । मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य् आदाव् एकदैव, इह सामान्य-रसे उद्दीपनम् । अपूर्व-प्रतीत्या भाव-वर्धकम् ॥३३४॥
**विश्वनाथः : **पूर्वं गुणाः स्वरूपं [भ।र।सि। २.१.३०५] इत्य् आदिना यं भेदम् अङ्गीकृत्य गुणानाम् उद्दीपनत्वं दर्शितम् । तम् एव कैशोरम् उपलक्ष्य स्थापयंस् तेषां स्वत उद्दीपनत्वम् एवेति द्रढयति—नेतुर् इति । स्वरूप-धर्मत्वाद् यद्यपि नेतुर् नायकस्य स्वरूपम् एव कैशोरं, तथापि नानाकृतीनां कौमार-पौगण्ड-कैशोराणां यथावसर-प्रकटनात् कृष्णाख्य-धर्मिणस् तु तत्र तत्रानुगतत्वात् कैशोरम् अप्य् उद्दीपनम् एवेत्य् अर्थः । आलम्बनं तु सर्वदानुगत एव । उद्दीपनास् तु कादाचित्का इति विशेषो ज्ञेयः ॥३३४॥
—ओ)०(ओ—
**॥ २.१.३३५ ॥
बाल्येऽपि नव-तारुण्य-प्राकट्यं श्रूयते क्वचित् ।
तन् नातिरस-वाहित्वान् न रसज्ञैर् उदाहृतम् ॥
श्री-जीवः, विश्वनाथः : **श्रूयत इति ।
बाल्येऽपि भगवान् कृष्णस् तरुणं रूपम् आश्रितः । रेमे विहारैर् विविधैः प्रियया सह राधया ॥
इत्य् आदि इत्य्-आदि व्रत-रत्नाकर-धृत-भविष्य-पुराणादौ । तन् नातिरस-वाहित्वाद् इति । क्रम-योगेनैव रसाः सम्पद्यन्ते । नेतरथेति भावः ॥३३५॥
मुकुन्दः : ननु बर्हापीडम् [भा।पु। १०.२१.५] इत्य् आदिना पौगण्ड-मध्य एव नव-कैशोरम् उदाहृतं भवद्भिः ।
बाल्येऽपि भगवान् कृष्णस् तरुणं रूपम् आश्रितः । रेमे विहारैर् विविधैः प्रियया सह राधया ॥
इति व्रत-रत्नाकर-धृत-भविष्य-पुराण-वचनादौ ।
ब्रूमस् त्वच्-चरितं तवाधिजननि च्छद्मातिबाल्याकृते त्वं यादृग् गिरि-कन्दरेषु नयनानन्दः कुरङ्गी-दृशाम् । इत्य् उक्तः परिलेहन-च्छलतया न्यस्ताङ्गुलिः स्वानने गोपीभिः पुरतः पुनातु जगतीम् उत्तान-सुप्तो हरिः ॥ [पद्या। १३६]
इत्य्-आदि-कवि-वचनेन बाल्येन नव-यौवनस्यापि प्राकट्यं श्रूयते । तत् तत्र कथं नोदाहृतम् । तत्राह—बाल्येऽपीति । क्वचिन् न सर्वत्र । तन् नातिरस-वाहित्वान् न रसज्ञैर् इत्य् अस्यायं भावः—बाल्ये तत्-प्रकाशनं देवलीलत्व-पोषकतया रसावहं भवेद् एव पौगण्ड-मध्ये परम-राज-कुमार-लीलत्वेन नव-किशोर-क्रमेण तत्-प्रकाशनं मनुष्य-लीला-पोषकत्वात् परम-रसावहम् इति ॥३३५॥
—ओ)०(ओ—
॥ २.१.३३६-३३७ ॥
अथ सौन्दर्यम्—
भवेत् सौन्दर्यम् अङ्गानां सन्निवेशो यथोचितम् ॥
यथा—
**मुखं ते दीर्घाक्षं मरकत-तटी-पीवरम् उरो
भुज-द्वन्द्वं स्तम्भ-द्युति-सुवलितं पार्श्व-युगलम् ।
परिक्षीणो मध्यः प्रथिम-लहरी-हारि जघनं
न कस्याः कंसारे हरति हृदयं पङ्कज-दृशः ॥
श्री-जीवः : **तत्र सौन्दर्यं सुरम्याङ्गत्व-पर्यायम् ॥३३६॥ मुखम् इति । लहर्य् अत्र उत्तरोत्तर-माधुर्याविर्भावः । जघन-शब्दः पुंस्कट्य्-अग्र-भागेऽपि प्रयुज्यते । मही-तलं तज् जघनम् [भा।पु। २.१.२७] इति द्वितीय-स्कन्धे विराड्-वर्णनात् । “प्रथिम-ललितं श्रोणि-फलकम्” इति तु पाठान्तरम् ॥३३७॥
**मुकुन्दः : **लहर्य् अविच्छिन्नाविर्भावः । जघनं कटिः । जघनं च स्त्रियां शोर्णि-पुरो-भागे कटीरकः इति विश्वः ॥३३७॥
**विश्वनाथः : **अत्र सौन्दर्यं सुरम्याङ्गत्व-पर्यायम् ॥३३६॥ मरकत-मणि-मय-क्षुद्र-तटवत् पीवरम् उरः-स्थलं, भुज-द्वन्द्वं स्तम्भ-द्युति । लहर्य् अत्रोत्तरोत्तर-माधुर्याविर्भावः । तथा च विस्तृत-लहर्या मनोहारि जघनं पुरुष-कट्य्-अग्र-भागेऽपि जघन-शब्दः । मही-तलं तज् जघनम् [भा।पु। २.१.२७] इति द्वितीय-स्कन्धे विराड्-वर्णनात् ॥३३७॥
—ओ)०(ओ—
॥ २.१.३३८-३३९ ॥
अथ रूपम्—
विभूषणं विभूष्यं स्याद् येन तद् रूपम् उच्यते ॥
यथा—
**कृष्णस्य मण्डन-ततिर् मणि-कुण्डलाद्या
नीताङ्ग-सङ्गतिम् अलङ्कृतये वराङ्गि ।
शक्ता बभूव न मनाग् अपि तद्-विधाने
सा प्रत्युत स्वयम् अनल्पम् अलङ्कृतासीत् ॥
श्री-जीवः : **येनेति । तत्-तत्-पोष-योग्येन तादृश-सौन्दर्य-कान्त्योः समवाय-विशेषेण इत्य् अर्थः ॥३३८॥ कृष्णस्येति पश्चात् त्व् अलङ्कृता सती शक्ता बभूवेति भावः । वक्ष्यते हि—अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम् [भ।र।सि। २.१.३६०] इति ॥३३९॥
मुकुन्दः : येन अङ्ग-प्रत्यङ्गकानां यथोचित-सन्निवेशज-नेत्रानन्दकतया ॥३३८॥
विश्वनाथः : येनेति । तत्-तत्-पोष-योग्येन तादृश-सौन्दर्य-कान्त्योः समवाय-विशेषेणेत्य् अर्थः ॥३३८॥ मणि-कुण्डलाद्या मण्डन-ततिः । अलङ्कृतये शोभार्थं कृष्णस्याङ्ग-नीता सा मण्डन-ततिर् यत् किञ्चिद् अपि शोभा-विधाने शक्ता न बभूव ॥३३९॥
—ओ)०(ओ—
॥ २.१.३४०-३४१ ॥
अथ मृदुता—
मृदुता कोमलस्यापि संस्पर्शासहतोच्यते ॥
यथा—
**अहह नवाम्बुद-कान्तेर् अमुष्य सुकुमारता कुमारस्य ।
अपि नव-पल्लव-सङ्गाद् अङ्गान्य् अपरज्य शीर्यन्ति ॥
श्री-जीवः : **अपरज्य निर्विद्य दुःखितीभूयेति यावत् विवर्णीभूयेति वा ॥३४१॥
मुकुन्दः : अहहेति । अपरज्य विवर्णीभूय ॥३४१॥
विश्वनाथः : अपरज्य विवर्णीभूय शीर्यन्ति ॥३४१॥
—ओ)०(ओ—
॥ २.१.३४२-३४४ ॥
ये नायक-प्रकरणे वाचिका मानसास् तथा ।
गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः ॥
चेष्टा—
चेष्टा रासादि-लीलाः स्युस् तथा दुष्ट-वधादयः ॥
तत्र रासो, यथा—
**नृत्यद्-गोप-नितम्बिनी-कृत-परीरम्भस्य रम्भादिभिर्
गीर्वाणीभिर् अनङ्ग-रङ्ग-विवशं सन्दृश्यमान-श्रियः ।
क्रीडा-ताण्डव-पण्डितस्य परितः श्री-पुण्डरीकाक्ष ते
रासारम्भ-रसार्थिनो मधुरिमा चेतांसि नः कर्षति ॥
श्री-जीवः : **किं बहुनेत्य् आह—ये नायकेति ॥३४२॥ नृत्यद्-गोप-नितम्बिनीति । श्री-व्रज-देवीभिर् मथुरायां प्रेषिता पत्रीयम् ॥३४४॥
मुकुन्दः : वाचिका मानसाश् च पूर्वोक्ता एव बोध्या इत्य् आह ये नायकेति ॥३४२॥ नृत्यद् इति रास-लीला-श्रवणोद्दीत-भावानां यज्ञप्त्नीनां पत्रिकेयम् ॥३४४॥
विश्वनाथः : श्री-व्रज-देवीभिर् मथुरायां प्रेरिता पत्रीयं—हे श्री-पुण्डरीकाक्ष ! रासारम्भ-रसार्थिनस् तव मधुरिमा चेतांसि कर्षति । कथम्-भूतस्य रम्भादिभिर् देव-स्त्रीभिर् अनङ्ग-रङ्ग-विवशं यथा स्यात् तथा सन्दृश्यमाना श्रीर् यस्य ॥३४४॥
—ओ)०(ओ—
॥ २.१.३४५ ॥
दुष्ट-वधो, यथा ललित-माधवे (९.५०)—
**शम्भुर् वृषं नयति मन्दर-कन्दरान्तर्
म्लानः सलीलम् अपि यत्र शिरो धुनाने ।
आः कौतुकं कलय केलि-लवाद् अरिष्टं
तं दुष्ट-पुङ्गवम् असौ हरिर् उन्ममाथ ॥
श्री-जीवः : **शम्भुर् इति । आः इति कोपे । कोपश् चायम् अन्य-चित्तं श्रोतारं प्रत्य् एव । आस् तु स्यात् कोप-पीडयोर् इति कोष-काराः ॥३४५॥
मुकुन्दः : शम्भुर् इति । आः इति कोपे । कोपश् चायम् आलिङ्गन-सुखाविष्टां श्रीआं प्रति नव-वृन्दायाः ॥३४५॥
**विश्वनाथः : **यत्रारिष्टासुरे शिरो धुनाने सति शम्भुर् म्लानः सन् मरन्द-कन्दरा-मध्ये वृषं नयति । आः इति कोपे । कोपश् चायम् अन्य-चित्तं श्रोतारं प्रत्य् एव । आस् तु स्यात् कोप-पीडयोर् इति कोष-काराः ॥३४५॥
—ओ)०(ओ—
॥ २.१.३४६-३४७ ॥
अथ प्रसाधनम्—
कथितं वसनाकल्प-मण्डनाद्यं प्रसाधनम् ॥
तत्र **वसनम्—
नवार्क-रश्मि-काश्मीर-हरितालादि-सन्निभम् ।
युगं चतुष्कं भूयिष्ठं वसनं त्रि-विधं हरेः ॥
श्री-जीवः : **चतुष्कम् इत्य् अत्रोत्तरीयम् अपि कदाचिज् ज्ञेयम् । वसनस्य युगत्वादि-भेदाः समय-विशेषोचितत्वात् ॥३४७॥
मुकुन्दः : वसनस्य युगत्वादि-भेदा यथा-योग्य-कालं ज्ञेयाः ॥३४७॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.३४८-३४९ ॥
तत्र युगम्—
परिधानं स-संव्यानं युग-रूपम् उदीरितम् ॥
यथा स्तवावल्यां मुकुन्दाष्टके (३)—
**कनक-निवह-शोभानन्दि पीतं नितम्बे
तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः ।
प्रियम् इव किल वर्णं राग-युक्तं प्रियायाः
प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः ॥
श्री-जीवः : **इत्थं वस्त्रं दधान इति यद् उक्तं तत् कथम् ? तत्राह—कनकेति । “कनक-निवह-शोभा-निन्दि-वस्त्रं नितम्बे परिदधद्-उपरिष्टान् नव्य-वाह्लीक-वल्गु । तनु-रुचिम् अनुरागेणान्वितां वा प्रियायाः” इति पाठान्तरम् ॥३४९॥
मुकुन्दः : इत्थं तृतीय-चरणोत्प्रेक्षा-प्रकारेण प्रियाया राग-युक्तं वर्णम् इव किल सम्भावितम् । अतः प्रियम् ॥३४९॥
विश्वनाथः : नितम्बे पीतं वस्त्रं दधानः । तत्र पीताम्बरं प्रियाया वर्णत्वेन । एवं तद्-उपरि रक्त-वस्त्रं प्रिया-विषयकानुरागत्वेनोत्प्रेक्ष्यते—प्रियम् इवेति । राग-युक्तं प्रियायाः प्रियं पीत-वर्णम् इव वस्त्रं दधान इत्य् अर्थः ॥३४९॥
—ओ)०(ओ—
॥ २.१.३५०-३५१ ॥
चतुष्कम्—
चतुष्कं कञ्चुकोष्णीष-तुन्द-बन्धान्तरीयकम् ॥
यथा—
**स्मेरास्यः परिहित-पाटलाम्बर-श्रीश्
छन्नाङ्गः पुरट-रुचोरु-कञ्चकेन ।
उष्णीषं दधद् अरुणं धटीं च चित्राः
कंसारिर् वहति महोत्सवे मुदं नः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **परिहितेन अधो-धृतेन पाटलाम्बरेन श्वेत-रक्त-वस्त्रेण श्रीर् यस्य सः ॥३५१॥
**विश्वनाथः : **पाटलाम्बरं श्वेत-रक्त-वस्त्रम् । श्वेत-रक्तस् तु पाटल इत्य् अमरः । एतस्य हरि-तालदीत्य् आदि-पदेन ग्रहणम् ॥३५१॥
—ओ)०(ओ—
॥ २.१.३५२-३५३ ॥
भूयिष्ठम्—
खण्डिताखण्डितं भूरि नट-वेश-क्रियोचितम् ।
अनेक-वर्णं वसनं भूयिष्ठं कथितं बुधैः ॥
यथा—
**अखण्डित-विखण्डितैः सित-पिशङ्ग-नीलारुणैः
पटैः कृत-यथोचित-प्रकट-सन्निवेशोज्ज्वलः ।
अयं करभ-राट्-प्रभः प्रचुर-रङ्ग-शृङ्गारितः
करोति करभोरु मे घन-रुचिर् मुदं माधवः ॥
श्री-जीवः : **सन्निवेशो रचना कलभ-राट्-प्रभ इति कलभ-राज इव प्रभा यस्य सः । अखण्डित-खण्डितैर् इति वस्त्र-मय-तत्-तद्-अलङ्कार-भेदात् । यथा मथुरायां वायकेन दत्तम् आसीद् इति ज्ञेयम् । शृङ्गार-शब्दोऽत्र कलभ-सादृश्येन तत्रापि वेषतया लक्ष्यते ॥३५३॥
मुकुन्दः : कलभ-राड् इवेति पाठः । प्रचुर-रङ्गैर् बहुभिर् लोहितादि-वर्णैः शृङ्गारितः जात-शृङ्गारो वेषोऽस्येति यथोचित-चित्तैर् मण्डितः । घन-रुचिर् मेघ-वर्णः ॥३५३॥
विश्वनाथः : सन्निवेशो रचना तेनोज्ज्वलः । कलभ-राजस्येव प्रभा यस्य । प्रचुर-रङ्गेण प्रचुर-कौतुकेन नाना-विध-शृङ्गार-विशिष्टः । शृङ्गार-शब्दोऽत्र कलभ-सादृश्येनात्रापि वेषतया लक्ष्यते ॥३५३॥
—ओ)०(ओ—
॥ २.१.३५४-३५७ ॥
अथ आकल्पः—
केश-बन्धनम् आलेपो माला-चित्र-विशेषकः ।
ताम्बूल-केलि-पद्मादिर् आकल्पः परिकीर्तितः ॥३५४॥
स्याज् जूटः कवरी चूडा वेणी च कच-बन्धनम् ।
पाण्डुरः कर्बुरः पीत इत्य् आलेपस् त्रिधा मतः ॥३५५॥
माला त्रिधा वैजयन्ती रत्न-माला वन-स्रजः ।
अस्या वैकक्षकापीड-प्रालम्बाद्या भिदा मताः ॥३५६॥
मकरी-पत्र-भङ्गाढ्यं चित्रं पीत-सितारुणम् ।
तथा विशेषकोऽपि स्याद् अन्यद् ऊह्यं स्वयं बुधैः ॥३५७॥
श्री-जीवः : जूटो घाटोपरि धम्मिल्लः । कवरी पुष्पादिना केश-वेशः । चूडा ऊर्ध्व-बद्धाः कचाः । वेणी पृष्ठ-भागे दीर्घतया केश-गुम्फनं, वैजयन्ती पञ्च-वर्ण-मयी जानु-पर्यन्त-लम्बिता च । वनमाला पत्र-पुष्प-मयी पाद-पर्यन्त-लम्बिता च । पूर्ण-माला-भेदेनाह—अस्या इति । वैकक्षकं तु तत् स्याद् यत् तिर्यक् क्षिप्त उरसि मालां चूरावेष्टन-माल्यम् आपीडं, कण्ठाद् ऋजु-लम्बि माल्यं प्रालम्बम् ॥ तथेति पीत-सितारुण इत्य् अर्थः । विशेषकस् तिलकम् ॥३५४-३५७॥**
मुकुन्दः : **जूटो घाटोपरि धम्मिल्लः । कवरी पुष्पादिना केश-वेशः । चूडा ऊर्ध्व-बद्धाः कचाः । वेणी पृष्ठ-भागे दीर्घतया केश-गुम्फनम् ॥३५५॥ वैजयन्ती पञ्च-वर्ण-मयी । अस्यास् त्रिधा मालाया यत् तिर्यक् क्षिप्तम् उरसि माल्यं तद् वैकक्षकम् । चूडावेष्टन-माल्यम् आपीडम् । कण्ठाद् ऋजु-लम्बि माल्यं प्रालम्बम् । तथेति पीतासितारुण इत्य् अर्थः । विशेषकस् तिलकः ॥३५६-३५७॥
**विश्वनाथः : **जूटो घाटोपरि धम्मिल्लः । कवरी पुष्पादिना केश-वेशः । चूडा ऊर्ध्व-बद्धाः कचाः । वेणी पृष्ठ-भागे दीर्घतया केश-बन्धनम् । वैजयन्ती पञ्च-वर्ण-मयी जानु-पर्यन्त-लम्बिता च । वनमाला पत्र-पुष्प-मयी पाद-पर्यन्त-लम्बिता च । पूर्ण-माला-भेदान् आह—अस्या इति । वैकक्षकं तु यत् तिर्यक् क्षिप्तम् उरसि मालाम् । चूडावेष्टन-माल्यम् आपीडम् । कण्ठे ऋजु-लम्बि मालां प्रालम्बम् । तथेति पीत-सितारुण इत्य् अर्थः । विशेषकस् तिलकम् ॥३५४-३५७॥
—ओ)०(ओ—
॥ २.१.३५८ ॥
यथा—
ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धम्मिल्लम् उल्लासयन्
भक्ति-च्छेद-लसत्-सुघृष्ट-घुसृणालेप-श्रिया पेशलः ।
तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष्णु-पत्राङ्गुलिः
श्यामाङ्ग-द्युतिर् अद्य मे सखि दृशोर् दुग्धे मुदं माधवः ॥
श्री-जीवः : अलिकं ललाटं, पत्राङ्गुलिः पत्र-भङ्गः । अद्य ताम्बूल इत्य् आदि इत्य्-आदि वर्णित-रूपः सन् दृशोर् आधार-भूतयोर् मुदं दुग्धे प्रपूरयति ॥३५८॥
**मुकुन्दः : **अलिकं ललाटं, पत्राङ्गुलिः पत्र-भङ्गः । दृशोर् विषययोर् दुग्धे प्रपूरयति ॥३५८॥
**विश्वनाथः : **हे सखि ! माधवो मम दृशोर् मुदं दुग्धे पूरयति । कथं-भूतः ताम्बूलेन स्फुरन् मुख-चन्द्रो यस्य सः । खोर इति प्रसिद्धेन भक्ति-च्छलेन लसन्ती या कुङ्कुमालेप-श्रीस् तया पेशलः सुन्दरः । उच्चे वक्षः-स्थले पीत-वर्णा स्रक् यस्य । [अलिके ललाटे भ्राजिष्णुः पत्राङ्गुलिः पत्र-भङ्गो यस्य ।] ॥३५८॥
—ओ)०(ओ—
॥ २.१.३५९-३६० ॥
अथ मण्डनम्—
किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः ।
केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥
यथा—
**काञ्ची चित्रा मुकुटम् अतुलं कुण्डले हारि-हीरे
हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष्की ।
रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर्
अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम् ॥
श्री-जीवः : **तारः शुद्ध-मुक्ता-मय ऊर्मिर् अङ्गुरीयकं, नूपुरे चेत्य् अघारेर् इति । अत्र नूपुरे चेति शौरेर् इति वा पाठः । वलयम् इत्य् अत्रोर्मिर् इत्य् अत्र च बहुत्वेऽप्य् एक-वचनं जाति-विवक्षया । सम्पन्नो यव इति यस् तथापि बहुत्वं बोधयत्य् एव । जात्या व्यक्तीनां व्यङ्ग्यत्वात् । अत एव जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् [पा। १.२.५८] इति पाणिनि-सूत्रम् ॥३६०॥
मुकुन्दः : तारः शुद्ध-मुक्ता-मयः । ऊर्मिर् अङ्गुलीयकम् । वलयम् इत्य् अत्रोर्मिर् इत्य् अत्र च बहुत्वेऽप्य् एक-वचनं जाति-विवक्षया ॥३६०॥
विश्वनाथः : अघारेः श्री-कृष्णस्याङ्गैर् एव काञ्चीत्य्-आद्य्-आभरण-पटली भूषता सती कृष्णस्य भूषां दोग्धि । हारि मनोहारि हीरं यत्र तथा-भूते कुण्डले, तारो मुक्ता-श्रेणी तद्-विशिष्टो हारः । वलयम् इत्य् अत्र ऊर्मिर् इत्य् अत्र च बहुत्वेऽप्य् एक-वचनं जाति-विवक्षया । सम्पन्नो यव इतिवत् । बहुत्वं बोधयत्य् एव जात्या व्यक्तीनां व्यङ्ग्यत्वात् । अत एव जात्याख्यायाम् एकस्मिन् बहु-वचनम् अन्यतरस्याम् [पा। १.२.५८] इति पाणिनि-सूत्रम् । हारस्य मध्य-देशे चन्द्राकार-रत्नेन चारुश् चतुष्की पदक इति प्रसिद्धा । मधुरिम्णाः पुरं नगरं यत्र तथा-भूते नूपुरे ॥३६०॥
—ओ)०(ओ—
॥ २.१.३६१-३६२ ॥
कुसुमादि-कृतं चेदं वन्य-मण्डनम् ईरितम् ।
धातु-कॢप्तं तिलकं पत्र-भङ्ग-लतादिकम् ॥
अथ स्मितं, यथा कृष्ण-कर्णामृते (९९)—
**अखण्ड-निर्वाण-रस-प्रवाहैर्
विखण्डिताशेष-रसान्तराणि ।
अयन्त्रितोद्वान्त-सुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥
श्री-जीवः : **निर्वाणं परमानन्दः शीतानि सर्व-ताप-हारीणि ॥३६१॥
**मुकुन्दः : **निर्वाणं परमानन्दः शीतानि सर्व-ताप-हारीणि ॥३६१॥
**विश्वनाथः : **धातुर् गैरिकादिस् तेन कॢप्तं कल्पितम् ॥३६१०॥ निर्वाणं परमानन्दः स एव रसः, तस्य प्रवाहैः विखण्डितानि निरस्तानि अशेष-रसान्तराणि यैस् तानि । यन्त्रणं विना यत् सिद्ध्यति तद् अयन्त्रितं तद् यथा स्यात् तथा उद्वान्तः वमनेन उत्पन्नः सुधार्णवो येभ्यः तानि शीतानि ताप-हारीणि स्मितानि जयन्ति ॥३६२॥
—ओ)०(ओ—
॥ २.१.३६३ ॥
अथ अङ्ग-सौरभं, यथा—
**परिमल-सरिद् एषा यद् वहन्ती समन्तात्
पुलकयति वपुर् नः काप्य् अपूर्वा मुनीनाम् ।
मधु-रिपुर् उपरागे तद्-विनोदाय मन्ये
कुरु-भुवम् अनवद्यामोद-सिन्धुर् विवेश ॥
श्री-जीवः : **कुरु-भुवं कुरुक्षेत्रम् । “विनशनम्” इति तु पाठो नेष्टः ॥३६३॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **काप्य् अपूर्वा परिमलस्य सरित् नदी समन्ताद् वहन्ती सती यद् यस्मात् नोऽस्माकं मुनीनां वपुर् उत्पुलकयति । तत् तस्मात् मधुरिपुः सूर्योपरागे कुरु-भुवं कुरुक्षेत्रं विवेश ॥३६३॥
—ओ)०(ओ—
॥ २.१.३६४ ॥
अथ वंशः—
ध्यानं बलात् परमहंस-कुलस्य भिन्दन्
निन्दन् सुधा-मधुरिमाणम् अधीर-धर्मा ।
कन्दर्प-शासन-धुरां मुहुर् एष शंसन्
वंशी-ध्वनिर् जयति कंस-निसूदनस्य ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अधीरो धर्मः यत्र, कन्दर्प-शासनस्य धुराम् अतिशयम् ॥३६४॥
—ओ)०(ओ—
॥ २.१.३६५-३६७ ॥
एष त्रिधा भवेद् वेणु-मुरली-वंशिकेत्य् अपि ॥
तत्र वेणुः—
पाव्रिकाख्यो भवेद् वेणुर् द्वादशाङ्गुलेर् दैर्घ्य-भाक् ॥
मुरली—
हस्त-द्वयम् इतायामा मुख-रन्ध्र-समन्विता ।
चतुः-स्वर-च्छिद्र-युक्ता मुरली चारु-नादिना ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **पाविका आख्या यस्य । स्वरस्य च त्रिच्छिद्र-युक्ता ॥३६६-३६७॥
—ओ)०(ओ—
**॥ २.१.३६८-३६९ ॥
वंशी—
अर्धाङ्गुलान्तरोन्मानं तारादि-विवराष्टकम् ।
ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम् ॥
शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका ।
नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः ॥
श्री-जीवः : **अर्धाङ्गुलम् अन्तरं छिद्रयोर् मध्य-भागस् तथोन्मानं छिद्रस्य विस्तारो यत्र तत् । ततोऽङ्गुल्यन्तर इत्य् अत्र ततः सार्धाङ्गुलाद् इत्य् एव पाठः । अन्यथा सप्तदशाङ्गुलत्वानुपपत्तेः । योग्यत्वाच् च । ततोऽङ्गुलान्तर इति पाठे ग्रथितो बहिर् अर्धाङ्गुलं ज्ञेयम् । तथाङ्गुलम् इत्य् अत्र प्रमाणे तु लुग् इति मात्रचो लुक् । अर्धाङ्गुलादि-शब्दास् तु सङ्ख्याव्ययाभ्याम् अङ्गुलेर् [पा। ५.४.८६] इति समासान्त-विधानात् ॥३६९॥
**मुकुन्दः : **अर्धेति । अन्तराणि छिद्रानां बहिर्-भागाः । उन्मानानि अर्धाङ्गुलानि अर्धाङ्गुल-प्रमाणानि तानि यस्य तत् । तारादि-विवराष्टकम् अत्युच्चैर् ध्वन्य्-आदि-च्छिद्राष्टकम् । ततस् तारादि-विवराष्टकात् अङ्गुलान्तरे अङ्गुलेर् बहिर्-भागे । अर्धाङ्गुल्य्-आदौ प्रमाणे लुग् इति मात्रचो लुक् । पुच्छं त्र्य्-अङ्गुलम् अर्धाङ्गुलेन बहिर्-भागेन सह तु सार्ध-त्र्य्-अङ्गुलं स्यात् । सङ्ख्याव्ययाभ्याम् अङ्गुलेर् [पा। ५.४.८६] इति समासान्त-विधानात् ॥३६९॥
**विश्वनाथः : **अर्धाङ्गुलम् अन्तरं छिद्राणां पूर्व-पर-भागयोर् अवकाशः । तथा उन्मानं छिद्रस्य विस्तारो यत्र तथा-भूतं तारादि-स्वरस्य विवराष्टकम् । तथा अन्तर-शब्दस्यावकाशार्थत्वेन प्रथम-च्छिद्रस्य पूर्व-देश-स्थितार्धआङुल्य्-अवकाशम् आदायाष्टाङ्गुलयो भवन्ति, न तु सार्ध-सप्त्य्-अङ्गुलयः । एवं सति सार्ध-सप्ताङ्गुलाद् इति कल्पित-पाठे प्रयोजनाभावो ज्ञेयः । शिरोऽग्र-भागश् चतुरङ्गुलम् । अर्धाङ्गुलादि-शब्दास् तु सङ्ख्याव्ययाभ्याम् अङ्गुलेर् इति समासान्त-विधानात् । एवं क्रमेण निष्कर्षम् आह—नव-रन्ध्रेत्य् आदि ॥३६९॥
—ओ)०(ओ—
**॥ २.१.३७०-३७२ ॥
दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः ।
महानन्देति व्याख्याता तथा सम्मोहिनीति च ॥
भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता ।
आनन्दिनी तदा वंशी भवेद् इन्द्रान्तरा यदि ॥
गोपानां वल्लभा सेयं वंशुलीति च विश्रुता ।
क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा ॥
श्री-जीवः : **दशाङ्गुलेत्य् आदाव् अङ्गुलीनां वृद्धिर् मुख-रन्ध्र-तद्-अव्याहित-रन्ध्रयोर् अन्तराल एव ज्ञेया ॥३७०॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तारादि-विवराष्टक-मुख-रन्ध्रयोर् मध्ये दशाङ्गुल-व्यवधाना चेत् तर्हि सा वंशी महानन्देति विख्याता, यदि सूर्यान्तरा द्वादशाङ्गुल-व्यवधाना तदा सा वंशी आकर्षिणीति ख्याता । इन्द्रान्तरा चतुर्दशाङ्गुल-व्यवधाना ॥३७०-३७१॥
—ओ)०(ओ—
॥ २.१.३७३-३७४ ॥
अथ शृङ्गम्—
शृङ्गं तु गवलं हेम-निबद्धाग्रिम-पश्चिमम् ।
रत्न-जाल-स्फुरन्-मध्यं मन्द्र-घोषाभिधं स्मृतम् ॥
यथा—
**तारावली वेणु-भुजङ्गमेन
तारावलीला-गरलेन दष्टा ।
विषाणिका-नाद-पयो निपीय
विषाणि कामं द्वि-गुणी-चकार ॥
श्री-जीवः : **गवलम् अत्र वन-महिष-शृङ्गम् । उपलक्षणं चेदं कृष्ण-सारादि-शृङ्गाणाम् । अग्रिमोऽग्र-भागः । एवं पश्चिमः ॥३७३॥ तारावली-नाम्नी तारस्योच्च-ध्वनेर् या अवलीला अल्प-प्रयत्नः सैव गर्लं यस्य तेन विषाणिका-नादस्य पयस् तया रूपकम् । प्रथमं तद्-गरल-शमकतयाभीष्टत्वात् पश्चात् प्रत्युत तेन तस्य साहचर्याद् विषाणीति विष-तुल्य-भावानीत्य् अर्थः ॥३७४॥
मुकुन्दः : गवलं वन-महिष-शृङ्गम् ॥३७३॥ तारावली नाम्नी तारस्य उच्चैर् ध्वनेर् यावलीला सैव गरलं यस्य तेन । विषाणिका शृङ्गम् । विषाणीत्य् अत्र भावा निगीर्णा ज्ञेयाः ॥३७४॥
**विश्वनाथः : **तारावली नाम्नी यूथेश्वरी तारस्य उच्च-ध्वनेर् या वलीला अल्प-प्रयत्नः सैव गरलं यस्य तेन वेणु-रूप-भुजङ्गमेन दष्टा सती अनन्तरं शृङ्गस्य नाद-रूप-पयो निपीय विषाणि द्वि-गुणीचकार, दुग्ध-पानस्य विष-वर्धकत्व-प्रसिद्धेः ॥३७४॥
—ओ)०(ओ—
॥ २.१.३७५ ॥
अथ नूपुरं, यथा—
अघ-मर्दनस्य सखि नूपुर-ध्वनिं
निशमय्य सम्भृत-गभीर-सम्भ्रमा ।
अहम् ईक्षणोत्तरलितापि नाभवं
बहिर् अद्य हन्त गुरवः पुरः स्थिताः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : नूपुर-ध्वनिं श्रुत्वा धृत-गभीर-सम्भ्रमाहं श्री-कृष्णस्य ईक्षणाय उत्तरलितापि अद्य बहिर्न अभवं, यतो गुरवः पुरः स्थिता ॥३७५॥
—ओ)०(ओ—
॥ २.१.३७६-३७७ ॥
अथ कम्बुः—
कम्बुस् तु दक्षिणावर्तः पाञ्चजन्यतयोच्यते ॥
यथा—
**अमर-रिपु-वधूटी-भ्रूण-हत्या-विलासी
त्रिदिव-पुर-पुरन्ध्री-वृन्द-नान्दीकरोऽयम् ।
भ्रमति भुवन-मध्ये माधवाध्मात-धाम्नः
कृत-पुलक-कदम्बः कम्बु-राजस्य नादः ॥
श्री-जीवः : **कम्बुस् तु दक्षिणावर्त इत्य् एव पाठः ॥३७६॥ भ्रूण-हत्येति कौतुकेन निन्दावत् प्रयुक्तम् । नान्दीकआरो मङ्गल-पाठ-करः । माधवेनाम्नातः शब्दायमानो देहो यस्य॥३७७॥
**मुकुन्दः : **कम्बोर् अनुवादे कम्बुराड् इत्य् उक्तिः । कृष्ण-सम्बन्ध-बोधिका । वधूटी प्रथम-यौवन-वधूः । सामान्या वा । नान्दीकारो मङ्गल-पाठ-करः । माधवेनाम्नातं वायुना पूरितं धाम वपुर् यस्य तस्य ॥३७७॥
**विश्वनाथः : **भ्रूण-हत्येति कौतुकेन निन्दावत् प्रयुक्तम् । नान्दीकारो मङ्गल-पाठ-करः । माधवेनाम्नातः शब्दायमानो देहो यस्य॥३७७॥
—ओ)०(ओ—
॥ २.१.३७८ ॥
अथ पदाङ्कः, यथा श्री-दशमे (१०.३८.२६)—
**तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः
प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः ।
रथाद् अवस्कन्द्य स तेष्व् अचेष्टत
प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥
श्री-जीवः, विश्वनाथः : **तद्-दर्शनेति । तच्-छब्देन पदाङ्क एवाकृष्यते ॥३७८॥
मुकुन्दः : तद्-दर्शनेन पदाङ्क-दर्शनेन ॥३७८॥
—ओ)०(ओ—
॥ २.१.३७९ ॥
यथा वा—
कलयत हरिर् अध्वना सखायः
स्फुटम् अमुना यमुना-तटीम् अयासीत् ।
हरति पद-ततिर् यद्-अक्षिणी मे
ध्वज-कुलिशाकुश-पङ्कजाङ्कितेयम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : हे सखायः ! अमुना अध्वना हरिर् अयासीत् । यूयं कलयत ॥३७९॥
—ओ)०(ओ—
॥ २.१.३८० ॥
अथ **क्षेत्रम्, यथा—
हरि-केलि-भुवां विलोकनं
बत दूरेऽस्तु सुदुर्लभ-श्रियाम् ।
मथुरेत्य् अपि कर्ण-पद्धतिं
प्रविशन् नाम मनो धिनोति नः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **मनो धिनोतीति क्षेत्र-नाम्न उद्दीपनत्वम् ॥
विश्वनाथः : मथुरेति नाम कर्ण-पदवीं प्रविशत् सत् नोऽस्माकं मनो धिनोति ॥३८०॥
—ओ)०(ओ—
॥ २.१.३८१ ॥
अथ तुलसी, यथा बिल्वमङ्गले11—
**अयि पङ्कज-नेत्र-मौलि-माले
तुलसी-मञ्जरि किञ्चिद् अर्थयामि ।
अवबोधय पार्थ-सारथेस् त्वं
चरणाब्ज-शरणाभिलाषिणं माम् ॥
श्री-जीवः : **अवबोधयेत्य् अत्र पार्थसारथिम् एवेत्य् अर्थात् । अर्थयामि प्रार्थये । परस्मैपदम् अत्र पारायण-मते चुर्-आदि-मात्रस्योभय-पदित्वात् ॥३८१॥
**मुकुन्दः : **अवबोधयेत्य् अत्र पार्थसारथिम् एवार्थात् । अर्थयामीत्य् अत्रातिवृत्ति-प्रेषणाद् धेतोर् हेतुम् अग्नौ तृतीयारुक्षायां परस्मैपदम् । यथा प्रार्थयन्ति शयनोत्थितं प्रिया इति ॥३८१॥
विश्वनाथः : प्रार्थनाय प्रार्थये । मत-विशेषे चुर्-आदि-मात्रस्योभय-पदित्वात् । अवबोधयेत्य् अत्र पार्थ-सारथिम् एवेत्य् अर्थः ॥३८१॥
—ओ)०(ओ—
॥ २.१.३८२ ॥
अथ भक्तो, यथा चतुर्थे (४.१२.२१)—
**विज्ञाय ताव् उत्तम-गाय-किङ्कराव्
अभ्युत्थितः साध्वस-विस्मृत-क्रमः ।
ननाम नामानि गृणन् मधु-द्विषः
पार्षत्-प्रधानाव् इति संहताञ्जलिः ॥
श्री-जीवः : **उत्तम-गायः श्री-मधुद्विट् तस्य किङ्ककरौ तौ विज्ञाय । तत्रापि मधुद्विषः पार्षद-प्रधानाव् इति विज्ञाय । अभ्युद्यतस् तदाभिमुख्येनोद्यत उत्थितः सन्न् इत्य् आदि इत्य्-आदि योज्यम् । ध्रुव इति प्रकरण-लब्धम् ॥३८२॥
**मुकुन्दः : **उत्तम-गायस्य भगवतः किङ्ककरौ विज्ञायाभ्युद्यतस् तदाभिमुख्येनोत्थितस् तत्रापि पार्षद-प्रधानाव् इति हेतोः संहताञ्जलिस् ततः साध्वस-विस्मृत-क्रमः सन् ननाम । न तु पूजां चकारेत्य् अर्थः । नामानि गृणन् इत्य् उद्दीपनत्वम्॥३८२॥
**विश्वनाथः : **उत्तम-गायो भगवान् तस्य किङ्ककरौ तौ सुनन्द-नन्दनौ विज्ञाय तत्रापि पार्षद-प्रधानाव् इति विज्ञाय अभ्युद्यतस् तदाभिमुख्येनोत्थितः सन्न् इत्य् आदि इत्य्-आदि योज्यम् । ध्रुव इति प्रकरण-लब्धम् ॥३८२॥
—ओ)०(ओ—
॥ २.१.३८३ ॥
यथा वा—
सुबल भुज-भुजङ्गं न्यस्य तुङ्गे तवांसे
स्मित-विलसद्-अपाङ्गः प्राङ्गणे भ्राजमानः ।
नयन-युगम् असिञ्चद् यः सुधा-वीचिभिर् नः
कथय स दयितस् ते क्वायम् आस्ते वयस्यः ॥
न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.१.३८४ ॥
अथ तद्-वासरो, यथा—
अद्भुता बहवः सन्तु भगवत्-पर्व-वासराः ।
आमोदयति मां धन्या कृष्ण-भाद्रपदाष्टमी ॥
न व्याख्यातम् ।न व्याख्यातम्।
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे
विभाव-लहरी प्रथमा
॥ २.१ ॥
–ओ)०(ओ–
(२.२)
अनुभावाख्या द्वितीय-लहरी
॥ २.२.१-२ ॥
अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः ।
ते बहिर् विक्रिया प्रायाः प्रोक्ता उद्भास्वराख्यया ॥
नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् ।
हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता ।
लाला-स्रवोऽट्टहासश् च घूर्णा-हिक्कादयोऽपि च ॥
श्री-जीवः : एतेष्व् अनुभावेषु कार्य-भूताः स्मिताद्याश् च [भ।र।सि। २.१.१२] इत्य् अनेन स्मितम् उक्तम् एव । अत्र त्व् आद्य-ग्रहण-गृहीतान् गणयति नृत्यम् इति ॥१-२॥
**मुकुन्दः : **श्री-रूपं नुमः । नृत्यम् इति हिक्कादय इत्य् अत्रापि-शब्दाच् छान्त्य्-आदि-रसेषु नृत्यादिभ्यो येऽन्ये नासाग्रन्यस्त-नेत्रत्वादयो वक्ष्यमाणास् ते तेष्व् अपि सर्वत्रादि-ग्रहणेन तद् अन्ये ये प्राप्ताः ते च सर्वे गृहीताः । सामान्य-रसे सर्वानुभावानां ग्रहणौचित्यात् ॥१-२॥
**विश्वनाथः : **तेष्व् अनुभावेषु कार्य-भूताः स्मित्य्-आद्याश् च [भ।र।सि। २.१.१२] इत्य् अनेन स्मितम् उक्तम् एव । अत्र त्व् आद्य-ग्रहण-गृहीतान् गणयति नृत्यम् इति ॥१-२॥
—ओ)०(ओ–
॥ २.२.३ ॥
ते शीताः क्षेपणाश् चेति यथार्थाख्या द्विधोदिताः ।
शीताः स्युर् गीत-जृम्भाद्या नृत्याद्याः क्षेपणाभिधाः ॥
श्री-जीवः : गीत-जृम्भाद्या इति गीतं जृम्भाद्याश् चेत्य् अर्थः । आद्य-ग्रहणाच् छ्वास-भूमा लोकानपेक्षितालाला-स्रवा ज्ञेयाः । पूर्वोक्तत्वात् स्मितम् अपि ॥३॥
**मुकुन्दः : **गीत-जृम्भाद्या इति गीतं जृम्भाद्याश् चेत्य् अर्थः । आद्य-ग्रहणाच् छ्वास-भूमा लोकानपेक्षितालाला-स्रवा ज्ञेयाः । नासा-स्रवोऽप्य् अत्र ॥३॥
**विश्वनाथः : **यथार्थाख्येति । न तु तस्य स्वातन्त्र्येण लक्षणं विधेयम् । गीत-जृम्भाद्या इति गीतं जृम्भाद्याश् चेत्य् अर्थः । आद्य-ग्रहणाच् छ्वास-भूमा लोकानपेक्षिताद्यास् तु ज्ञेयाः । पूर्वोक्तत्वात् स्मितम् अपि ॥३॥
—ओ)०(ओ–
॥ २.२.४ ॥
तत्र नृत्यं, यथा—
मुरली-खुरली-सुधा-किरं
हरि-वक्त्रेन्दुम् अवेक्ष्य कम्पितः ।
गणने सगणेश-डिण्डिम-
ध्वनिभिस् ताण्डवम् आश्रितो हरः ॥४॥
श्री-जीवः : मुरली-पदेन तन्-नादो लक्ष्यते । खुरली तस्या अभ्यासः । अभ्यासः खुरली योग्येति त्रिकाण्ड-शेषात् ॥४॥
**मुकुन्दः : **मुरली-पदेन तन्-नादो लक्ष्यते । तस्याः खुरली अभ्यासः । स इति परम-गम्भीरत्वेन ख्यातोऽपीत्य् अर्थः ॥४॥
**विश्वनाथः : **हरो महा-देवः । गणेश-कर्तृको ये डिण्डिम-ध्वनयस् तैस् ताण्डवं नृत्यम् आश्रितः । मुरली-पदेन तन्-नादो लक्ष्यते । खुरली तस्या अभ्यासः । अभ्यासः खुरली योग्येति त्रिकाण्ड-शेषात् ॥४॥
—ओ)०(ओ–
॥ २.२.५ ॥
विलुठितं, यथा तृतीये (३.१.३२)—
कच्चिद् बुधः स्वस्त्य्-अनमीव आस्ते
श्वफल्क-पुत्रो भगवत्-प्रपन्नः ।
यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व्
अचेष्टत प्रेम-विभिन्न-धैर्यः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।।
**मुकुन्दः : **अनमीवो निष्पापः ॥५॥
**विश्वनाथः : **कच्चित् प्रश्ने । अनमीवो निष्पापः । श्वफल्क-पुत्रोऽक्रूरः । स्वस्ति आस्ते ॥५॥
—ओ)०(ओ–
॥ २.२.६ ॥
यथा वा—
नवानुरागेण तवावशाङ्गी
वन-स्रग्-आमोदम् अवाप्य मत्ता ।
व्रजाङ्गने सा कठिने लुठन्ती
गात्रं सुगात्री व्रणयाञ्चकार ॥
श्री-जीवः : व्रणयाञ्चकार व्रणवच् चकार । विन्स्मतोर् लुक् चेति [पाण्। ५.३.६५] लुग्-विधानात् ॥६॥
**मुकुन्दः : **व्रणयाञ्चकार व्रणवच् चकार ॥६॥
**विश्वनाथः : ** व्रणयाञ्चकार व्रणवच् चकार । विन्स्मतोर् लुक् चेति [पाण्। ५.३.६५] लुग्-विधानात् ॥६॥
—ओ)०(ओ–
॥ २.२.७ ॥
गीतं, यथा—
राग-डम्बर-करम्बित-चेताः
कुर्वती तव नवं गुण-गानम् ।
गोकुलेन्द्र कुरुते जलतां सा
राधिकाद्य-दृषदां सुहृदां च ॥
श्री-जीवः : रागोऽनुरागः श्री-रागादिश् च । सुहृदां सहचरीणां जडतां स्तम्भं दृषदां जलतां जलत्वम् । ड-लयोर् विनिमयात् ॥७॥
**मुकुन्दः : **रागः श्री-रागादिः । दृषदां पाषाणानां जलतां जलत्वम् । सहचरीणां जलतां स्तब्धत्वं ड-लयोर् विनिमयात् ॥७॥
**विश्वनाथः : **रागोऽनुरागस् तस्य डम्बरेण औत्कण्ठ्येन करम्बितं युक्तं चेतो यस्याः । सुहृदां सहचरीणां जडतां स्तम्भं दृषदां प्रस्तराणां जलत्वम्, ड-लयोर् विनिमयात्॥७॥
—ओ)०(ओ–
॥ २.२.८ ॥
क्रोशनं, यथा—
**हरि-कीर्तन-जात-विक्रियः
स विचुक्रोश तथाद्य नारदः ।
अचिरान् नर-सिंह-शङ्कया
दनुजा येन धृता विलिल्यिरे ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **नारदोऽद्य तथा विचुक्रोशानेन धूताः कम्पिताः सन्तः विलिल्यिरे लीना बभूवुः ॥८॥
—ओ)०(ओ–
॥ २.२.९ ॥
यथा वा—
उररीकृत-काकुर् आकुला
कररीव व्रज-राज-नन्द ।
मुरली-तरली-कृतान्तरा
मुहुर् आक्रोशद् इहाद्य सुन्दरी ॥
श्री-जीवः : तरली-कृतान्तरेति च्वि-प्रत्ययान्त एव पाठः ॥९॥
**मुकुन्दः : **तरलायितान्तरेति पाठः ॥९॥
**विश्वनाथः : **कुररी इव उरीकृता स्वीकृता काकुर् यया तथाभूता सती सुन्दरी आक्रोशत् ॥९॥
—ओ)०(ओ–
॥ २.२.१० ॥
तनु-मोटनं, यथा—
कृष्ण-नामनि मुदोपवीणिते
प्रीणिते मनसि वैणिको मुनिः ।
उद्भटं किम् अपि मोटयन्
वपुस् त्रोटयत्य् अखिल-यज्ञ-सूत्रकम् ॥
श्री-जीवः : मुदा हर्षेण उपवीणिते वीणया उपगीते सति । अर्थात् स्वयम् एव उद्भटं यथा स्यात् तथा वपुर् मोटयन् किम् अपि अनिर्वचनीयं यथा स्यात्, तथाखिल-यज्ञ-सूत्रं त्रोटयति॥१०॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **वैणिको मुनिर् नारदः । कृष्ण-नामनि मुदा हर्षेण उपवीणिते वीनयोपगीते सति, एवं मनसि प्रीणिते च सति, अर्था स्वयम् एव उद्भटं यथा स्यात् तथा वपुर् मोटयन् किम् अपि अनिर्वचनीयं यथा स्यात् तथा अखिल-यज्ञ-सूत्रं त्रोटयति॥१०॥
—ओ)०(ओ–
॥ २.२.११ ॥
हुङ्कारो, यथा—
वैणव-ध्वनिभिर् उद्भ्रमद्-धियः
शङ्करस्य दिवि हुङ्कृति-स्वनः ।
ध्वंसयन्न् अपि मुहुः स दानवं
साधु-वृन्दम् अकरोत् सदा नवम् ॥
श्री-जीवः : यथार्थत्वे स हुङ्कृति-स्वन इति योज्यम् । मुहुर् अपीति च । सदा प्रतिक्षणम् एव परमानन्द-दानेन नवम् इवाकरोद् इति च—विरोधालङ्काराय तु ध्वंसयन्न् अपि इति दानव-सहितम् इति व्याख्येयम् ॥१०॥
**मुकुन्दः : **अनिर्वचनीय-प्रभावो हुङ्कृति-स्वनः साधु-वृन्दं सदा नवम् अकरोत् विरोधालङ्काराय तु दानवं ध्वंसयन्न् अपि सदानवं दानव-सहितम् इति च व्याख्येयम् ॥१०॥
**विश्वनाथः : **स हुङ्कृति-स्वनः दानवं ध्वंसयन्न् अपि साधु-वृन्दं स-दानवम् अकरोद् विरोधाभासः । वस्तुतस् तु सदा प्रतिक्षणम् एव परमानन्द-दानेन साधु-वृन्दं नवम् इव अकरोद् इत्य् अर्थः ॥१०॥
—ओ)०(ओ–
**॥ २.२.१२ ॥
जृम्भणम्, **यथा—
विस्तृत-कुमुद-वनेऽस्मिन्न्
उदयति पूर्णे कलानिधौ पुरतः ।
तव पद्मिनि मुख-पद्मं
भजते जृम्भाम् अहो चित्रम् ॥
श्री-जीवः : विष्तृतेति । कृष्ण-पक्षे विस्तृतं कोः पृथिव्या मुदावनं पालनं येन तथा तस्मिन् । पक्षे जृम्भाम् आलस्य-व्यञ्जिकां भजत इति चित्रम् एव ॥१२॥
**मुकुन्दः : **विष्तृतेति कुन्दवल्ल्या वचनम् । विस्तृतं कुमुदानां वनं येन स विस्तृत-कुमुद-वनस् तस्मिन् । कृष्ण-पक्षे विस्तृताया कोः पृथिव्या मुदाम् अवने धर्म-विरोधिनीनां असुराणां मारणादिना पालके जृम्भां कामज-चेष्टां, जृम्भा जृम्भे विकाशे च इति विश्वः ॥१२॥
**विश्वनाथः : **श्री-कृष्णं दृष्ट्वा भावोत्थ-जृम्भावतीं राधिकां प्रति काचित् सखी सपरिहासम् आह—विस्तृतेति । पूर्ण-चन्द्रे उदयति सति कथं पद्मं जृम्भां प्रकाशं भजते । कृष्ण-पक्षे कोः पृथिव्याः मुदाम् आनन्दानां अवनं पालनं येन तथा-भूते कृष्ण-चन्द्रे । राधिका-पक्षे—जृम्भाम् आलस्य-व्यञ्जिकां भजते इति चित्रम् एव ॥१२॥
—ओ)०(ओ–
॥ २.२.१३ ॥
श्वास-भूमा, यथा—
उपस्थिते चित्र-पटाम्बुदागमे
विवृद्ध-तृष्णा ललिताख्य-चातकी ।
निःश्वास-झञ्झा-मरुतापवाहितं
कृष्णाम्बुदाकारम् अवेक्ष्य चुक्षुभे ॥
श्री-जीवः : अम्बुदागमः प्रावृट् ।
वातुलो वात-गुल्मः स्यात् चरवायुर् निदाघजः । झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥
इति त्रिकाण्ड-शेष-दृष्ट्या श्वास एव झाञ्झा-मरुत् प्रावृट्-वायुः दृद्-अम्बु-मिश्रत्वात् प्रबलत्वाच् च । तेन अपवाहितं नेत्र-पथाद् दूरे क्षिप्तं पटस्य परिवर्तितत्वात् ॥१३॥
**मुकुन्दः : **अम्बुदागमः प्रावृट् । नितरां श्वासो निःश्वासः स एव जञ्झा-मरुत् प्रावृड् वायुः । यथा त्रिकाण्ड-शेषे—
वातुलो वात-गुल्मः स्यात् चरवायुर् निदाघजः । झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥ इति ।
इति तेनापवाहितं नेत्र-पथाद् दूरे क्षिप्तम् ॥१३॥
**विश्वनाथः : **श्री-कृष्णस्य चित्र-पट-रूपाम्बुदागमे वर्षा-काले उपस्थिते सति विवृद्ध-तृष्णा ललिताख्य-चातकी निःश्वास-रूपेण झञ्झा-मरुता मर्माकालीन-वायुना ।
वातुलो वात-गुल्मः स्यात् चरवायुर् निदाघजः । झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥ इति त्रिकाण्ड-शेषात् ।
अपवाहितं पटस्य परिवर्तितत्वात् नेत्र-पथाद् दूरे क्षिप्तं कृष्णाम्बुदाकार-पटं अवेक्ष्य दृष्ट्वा चुक्षुभे ॥१३॥
—ओ)०(ओ–
॥ २.२.१४ ॥
लोकानपेक्षिता, यथा श्री-दशमे (१०.२३.४२)—
**अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ ।
दुरन्त-भावं योऽविध्यन् मृत्यु-पाशान् गृहाभिधान् ॥
श्री-जीवः, विश्वनाथः : **अहो इति याज्ञिकानाम् उक्तिः ॥१४॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ–
॥ २.२.१५ ॥
यथा वा पद्यावल्याम् (७३)12—
परिवदतु जनो यथा तथा वा
ननु मुखरो न वयं विचारयामः
हरि-रस-मदिरा मदातिमत्ता
भुवि विलुठाम नटाम निर्विशाम ॥
श्री-जीवः : निर्विशाम भोगं करवाम । पर्यटामेति तु पाठः सङ्गतः । त्रिष्व् अपि लोड्-उत्तम-पुरुष-बहु-वचनं तु परम-सङ्गतम् । वयम् इत्य् उक्तत्वान् मत्ता इति च पठनीयम् ॥१५॥
**मुकुन्दः : **परीति निर्विशामि भोगं करोमि, विलुठामि नटामि निर्विशामेत्य् आसु विचारयाम् इतिवद् एकत्वे बहुत्वं न, हरिरसेति विशेषणात्, अस्मदोऽविशेषणस्य द्वित्वे च इति जुमरे ॥१५॥
**विश्वनाथः : **मुखरो जनः यथा तथा परिवदतु, वयं तु विचारयामः । यतः हरिरसेति निर्विशाम भोगं करवाम । निर्विश उपभोगे स्याद् इत्य् अमरः । परिपूर्ववद-धातुः परिवादार्थकः ॥१५॥
—ओ)०(ओ–
॥ २.२.१६ ॥
लाला-स्रवो, यथा—
शङ्के प्रेम-भुजङ्गेन दष्टः कष्टं गतो मुनिः ।
निश्चलस्य यद् एतस्य लाला स्रवति वक्त्रतः ॥
श्री-जीवः : शङ्के प्रेमेति । मुनित्वेन प्रेमानुमानं निश्चलत्व-कारणादिना तत्र भुजङ्ग-रूपकम् ॥१६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अत्र मुनित्वेन प्रेमानुमानम् । निश्चल-करणादिना भुजङ्ग-रूपकम् ॥१६॥** **
—ओ)०(ओ–
॥ २.२.१७-१८ ॥
अट्टहासः—
हासाद् भिन्नोऽट्टहासोऽयं चित्त-विक्षेप-सम्भवः ॥
यथा—
शङ्के चिरं केशव-किङ्करस्य
चेतस् तटे भक्ति-लता प्रफुल्ला ।
येनाधि-तुण्ड-स्थलम् अट्टहास-
प्रसून-पुञ्जाश् चटुलं स्खलन्ति ॥
श्री-जीवः : अट्ट-हासस्य लक्षणं चेदम्—
उत्फुल्ल-नासिका-रन्ध्रम् आलालोडित-मुखेक्षणम् । उद्धतं विकृताकारं नाट्येऽट्टहसितं विदुः ॥ इति ।
विपक्षं प्रत्याक्षेपमयतया यद्यप्य् अट्टहासः सर्वत्राप्य् उग्र एव वर्ण्यते, तथापि स एव स्व-पक्षं प्रति रोअचमानस् तेन केनचित् कोमतयापि वर्णयितुं शक्यते । तत्र सति भक्ति-निन्दआनां अवज्ञा-ज्ञापकं कस्यचिद् भक्तस्याट्ट-हासं कश्चित् तत्-सपक्षो वर्णयति—शङ्के इति ॥१७-१८॥
**मुकुन्दः : **हासात् स्मितादि-षड्विधात् ॥१७॥
**विश्वनाथः : **येन हेतुना अधि तुण्ड-मण्डलं तुण्ड-स्थले अट्ट-हास-रूप-प्रसून-पुञ्जाः स्खलन्ति, अट्ट-हास-लक्षणं चेदम्—
उत्फुल्ल-नासिका-रन्ध्रम् आलालोडित-मुखेक्षणम् । उद्धतं विकृताकारं नाट्येऽट्टहसितं विदुः ॥ इति ।
—ओ)०(ओ–
॥ २.२.१९ ॥
घूर्णा, यथा—
**ध्रुवम् अघरिपुर् आदधाति वात्यां
ननु मुरलि त्वयि फुत्कृति-च्छलेन ।
किम् अयम् इतरथा ध्वनिर् विघूर्णनं
सखि तव घूर्णयति व्रजाम्बुजाक्षीः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **हे सखि मुरलि ! त्वयि श्री-कृष्णं फुत्कृति-च्छलेन घूर्णा इति प्रसिद्धां वात्यां आदधाति, अन्यथा तवायं ध्वनिः किं कथं स्वयम् एव विघूर्णन् सन् व्रजाम्बुजाक्षीः विघूर्णयति ॥१९॥
—ओ)०(ओ–
॥ २.२.२० ॥
हिक्का, यथा—
न पुत्रि रचयौषधं विसृज रोमम् अत्युद्धतं
मुधा प्रिय-सखीं प्रति त्वम् अशिवं किम् आशङ्कसे ।
हरि-प्रणय-विक्रियाकुलतया ब्रुवाणा मुहुर्
वराक्षि हरिर् इत्य् असौ वितनुतेऽद्य हिक्का-भरम् ॥
श्री-जीवः : न पुत्रीति पौर्णमास्या वचनं ललितां प्रति । सा च तादृश-भावेत्य् उज्ज्वल-नीलमणाव् एव व्यज्या । ततश् चाहम् एवोपायं करिष्यामीति ध्वनितम् । अत्र रोदम् अत्युद्धतम् इत्य् एव पाठः सत्यः ॥२०॥
मुकुन्दः : रोदनं चोद्गतम् इति पाठः ।।२०॥**
विश्वनाथः : **न पुत्रीति पौर्णमास्या वचनं । हरिर् इति मुहुर् ब्रुवाणा हिक्का-भरं वितनुते ॥२०॥
—ओ)०(ओ–
॥ २.२.२१ ॥
वपुर्-उत्फुल्लता-रक्तोद्गमाद्याः स्युः परेऽपि ये ।
अतीव-विरलत्वात् ते नैवात्र परिकीर्तिताः ॥
श्री-जीवः : वपुर् इति । वस्तुतस् तु वपुर्-उत्फुल्लता पुलकस्यैवातिशयो ज्ञेयः । रक्तोद्गमश् च स्वेदस्य ॥२१॥
**मुकुन्दः : **आदि-ग्रहणात् कूर्माकृतित्व-दीर्घाङ्गताद्याः । ते तु भगवता श्री-चैतन्य-देवेन दर्शिता ज्ञेयाः ॥२१॥
**विश्वनाथः : **वपुर् इति । वस्तुतस् तु वपुर्-उत्फुल्लता पुलकस्यैवातिशयो ज्ञेयः । रक्तोद्गमश् च स्वेदस्य ॥२१॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणेऽनुभाव-लहरी द्वितीया ।
॥ २.२ ॥
(२.३)
सात्त्विकाख्या तृतीय-लहरी
॥ २.३.१-२ ॥
कृष्ण्न-सम्बन्धिभिः साक्षात् किञ्चिद् वा व्य्वधानतः ।
भावैश् चित्तम् इहाक्रान्तं सत्त्वम् इत्य् उच्यते बुधैः ॥
सत्त्वाद् अस्मात् समुत्पन्ना ये ये भावास् ते तु सात्त्विकाः ।
स्निग्धा दिग्धास् तथा रुक्षा इत्य् अमी त्रिविधा मताः ॥
श्री-जीवः : सत्त्वाद् इति केवलाद् एवेति भावः । ततश् च नृत्यादीनां सत्य् अपि सत्त्वोत्पन्नत्वे, बुद्धि-पूर्विका प्रवृत्तिः । स्तम्भादीनाम् तु स्वत एव प्रवृत्तिर् इत्य् अस्य लक्षणस्य नृत्यादिषु नातिव्याप्तिः ॥२॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : कृष्ण-सम्बन्धिभिः भावैः दास्य-सख्यादि-मुख्य-पञ्च-रतिभिः हास-करुणादि-गौण-सप्त-रतिभिश् च साक्षाद् व्यवधानतश् च आक्रान्तं चित्तं सत्त्वम् उच्यन्ते । अत्र मुख्य-रत्या आक्रान्तत्वं साक्षात्त्वं व्यवधानत्वम् इति ज्ञेयम् । सत्त्वाद् इति केवलाद् एवेति भावः । तस्मान् नृत्यादीनां कृत्रिमत्वेनापि सम्भवाद् अनेन लक्षणेन नातिव्याप्तिः ॥२॥
—ओ)०(ओ—
॥ २.३.३ ॥
तत्र स्निग्धाः—
स्निग्धास् तु सात्त्विका मुख्या गौणाश् चेति द्विधा मताः ॥
श्री-जीवः : तत्र स्निग्धा इति । एषां लक्षणं वक्ष्यमाणानुसारेण मुख्य-गौण-रत्य्-आक्रान्त-चित्त-भवतया ज्ञेयम् । तद् एवं सामान्यतः स्निग्धानां लक्षणम् अप्य् आयातम् । उभयैकतर-रत्य्-आक्रान्त-चित्त-भवतया स्निग्धा इति ॥३॥
मुकुन्दः : मुख्या इति मुख्यया मधुर-रत्या चिन्ताक्रमाद् इति भावः ।।३॥
विश्वनाथः : स्निग्धाः सात्त्विका द्विधा मुख्या गौणाश् च ॥३॥
—ओ)०(ओ—
॥ २.३.४-५ ॥
तत्र मुख्याः—
आक्रमान् मुख्यया रत्या मुख्याः स्युः सात्त्विका अमी ।
विज्ञेयः कृष्ण-सम्बन्धः साक्षाद् एवात्र सूरिभिः ॥
यथा—
**कुन्दैर् मुकुन्दाय मुदा सृजन्ती
स्रजां वरां कुन्द-विडम्बि-दन्ती ।
बभूव गान्धर्व-रसेन वेणोर्
गान्धर्विका स्पन्दन-शून्य-गात्री ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **श्री-कृष्णार्थं कुन्द-मालाः सृजन्ती गान्धर्विका राधा वेणोर् गान-रसेन स्पन्दन-शून्य-गात्री बभूव । इत्थम् अनेन प्रकारेण स्वेदादयोऽपि ज्ञेयाः ॥५॥
—ओ)०(ओ—
॥ २.३.६-८ ॥
मुख्यः स्तम्भोऽयम् इत्थं ते ज्ञेयाः स्वेदादयोऽपि च ॥
अथ गौणाः—
रत्य्-आक्रमणतः प्रोक्ता गौणास् ते गौण-भूतया ।
अत्र कृष्णस्य सम्बन्धः स्यात् किञ्चिद् व्यवधानतः ॥
यथा—
स्व-विलोचन-चातकाम्बुदे
पुरि नीते पुरुषोत्तमे पुरा ।
अतिताम्र-मुखी सगद्गदं
नृपम् आक्रोशति गोकुलेश्वरी ॥
इमौ गौणौ वैवर्ण्य-स्वर-भेदौ ।
श्री-जीवः- न व्याख्यातम् ।न व्याख्यातम्।** **
**मुकुन्दः- **इमाव् इति गौण-भूतया क्रोध-रत्य्-आक्रमणाद् इति भावः ॥८॥
**विश्वनाथः : **गौण-भूतया रत्या आक्रमणतः गौणाः प्रोक्ताः । स्वस्य नेत्र-रूप-चातकस्य अम्बुद-रूपे पुरुषोत्तमे कृष्णे मधु-पुर्यां नीते सति ॥७॥ इमाव् इति गौण-भूतया क्रोध-रत्याक्रमणाद् इति भावः ॥८॥
—ओ)०(ओ—
॥ २.३.९-१० ॥
अथ दिग्धाः—
रति-द्वय-विनाभूतैर् भावैर् मनस आक्रमात् ।
जने जात-रतौ दिग्धास् ते चेद् रत्य्-अनुगामिनः ॥
यथा—
पूतनाम् इह निशाम्य निशायां
सा निशान्त-लुठद्-उद्भट-गात्रीम् ।
कम्पिताङ्ग-लतिका व्रज-राज्ञी
पुत्रम् आकुल-मतिर् विचिनोति ॥
श्री-जीवः : पूतनाम् इति स्वाप्निकं चरितं लक्ष्यते, निशान्ते तस्या लोठनाश्रुतेः । अत एव निद्रा-मोहेन पुत्रस्य प्रथमं तत्रास्तित्वास्फूर्तेः स्व-विषयं एव भयं जातम् ॥१०॥
**मुकुन्दः : **निशान्तं मन्दिरं प्राङ्गणेऽपि, मन्दिर-व्यवहारान् निशान्ते लुठद् इत्य् उक्तम् । पुत्रं विचिनोतीति रत्य्-अनुगामित्वम् ॥१०॥
विश्वनाथः : मुख्य-गौण-रति-द्वय-विनाभूतैर् ब्ःआवैः कम्पादि-सात्त्विक-भावैः ते दिग्धा रतेः पश्चाद्-गामिनः** ॥**९॥ स्वप्ने पूतनां निशाम्य निशान्ते गृह-मध्ये लुठद्-उद्भट-गात्रीति रति-द्वयं विनोत्पन्नः कम्पः पश्चात् पुत्रं विचिनोतीत्य् अनेन रत्य्-अनुगामी बभूव ॥१०॥
—ओ)०(ओ—
॥ २.३.११-१३ ॥
कम्पो रत्य्-अनुगामित्वाद् असौ दिग्ध इतीर्यते ॥
रुक्षाः—
मधुराश्चर्य-तद्-वार्तोत्पन्नैर् मुद्-विस्मयादिभिः ।
जाता भक्तोपमे रुक्षा रति-शून्ये जने क्वचित् ॥
यथा—
भोगैक-साधन-जुषा रति-गन्ध-शून्यं
स्वं चेष्टया हृदयम् अत्र विवृण्वतोऽपि ।
उल्लासिनः सपदि माधव-केलि-गीतैस्
तस्याङ्गम् उत्पुलकितं मधुरैस् तदासीत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **सिद्ध-भक्तोपमे जने विस्मयादिभिर् जाताः सात्त्विका रुक्षाः सात्त्विकास् तु तद्-उद्भूता रुक्षाः स्युः कर्बूराभिधा । भोगैक-साधन-जुषां चेष्टया हेतुना रति-गन्ध-शून्यं स्वं हृदयं विवृण्वतोऽपि उल्लासिनस् तस्य भक्तस्य मधुरैः फेलि-गीतैः अङ्गम् उत्पुलकितं बभूव, यथा —
वाराणसी-निवासी कश्चिद् अयं व्याहरन् हरेश् चरितम्
यति-गोष्ठ्यां उत्पुलकं सिञ्चति गण्ड-द्वयीम् अस्रैः ।
उभाव् एवाश्रु-पुलकौ कर्बुरौ कथितौ बुधैः ॥१३॥13 —ओ)०(ओ—
॥ २.३.१४-१५ ॥
रुक्ष एष रोमाञ्चः—
रुक्षोऽयं रति-शून्यत्वाद् रोमाञ्चं कथितो बुधैः ।
मुमुक्षु-प्रभृतौ पूर्वं यो रताभ्यास ईरितः ॥१४॥
चित्तं सत्त्वीभवत् प्राणे न्यस्यत्य् आत्मानम् उद्भटम् ।
प्राणस् तु विक्रियां गच्छन् देहं विक्षोभयत्य् अलम् ।
तदा स्तम्भादयो भावा भक्त-देहे भवन्त्य् अमी ॥१५॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : चित्तं सत्त्वीभवत् कृष्ण-सम्बन्ध-वृत्तिभिर् आक्रान्तं सद् इत्य् अर्थः ॥१५॥
**विश्वनाथः : **स्वेदाम्बूत्पत्तौ प्रकारम् आह—आदौ आर्द्रीभवच्-चित्तं आत्मानं प्राणे न्यस्यति । पश्चात् प्राणस् तु चित्त-सङ्गाद् विक्रियां गच्छन् सन् देहं विक्षोभयति ॥१५॥
—ओ)०(ओ—
॥ २.३.१६-१९ ॥
ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः ।
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥
चत्वारि क्ष्मादि-भूतानि प्राणो जात्व् अवलम्बते ।
कदाचित् स्व-प्रधानः सन् देहे चरति सर्वतः ॥
स्तम्भं भूमि-स्थितः प्राणस् तनोत्य् अश्रु-जलाश्रयः ।
तेजस्थः स्वेद-वैवर्ण्ये प्रलयं वियद्-आश्रयः ॥
स्वस्थ एव क्रमान् मन्द-मध्य-तीव्रत्व-भेद-भाक् ।
रोमाञ्च-कम्प-वैवर्ण्याण्य् अत्र त्रीणि तनोत्य् असौ ॥
श्री-जीवः : स्तम्भं इति तत्-तद्-भावस्य स्व-भाव-भेद एवात्र कारणं ज्ञेयम् ॥१८॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **सात्त्विकानां मध्ये कदाचित् स्तम्भः कदाचित् स्वेद इत्य् अत्र विशेष-नियमम् आह—चत्वारीति । प्राणो जातु कदाचित् चत्वारि पृथिव्य्-अप्-तेज-आकाश-भूतानि स्व-देहे वर्तमानः सन् अवलम्बते । कदाचित् स्व-स्वरूप-वायु-प्रधानः सन् देहे चरति । एवं सति यदा प्राणः पृथिवीं गच्छति, तदा स स्तम्भं तनोतीत्य् आदि । स्वस्थ इति यदा तु प्राणः स्व-स्वरूप-वायु-निष्ठः सन् मन्दो भवति, तदा रोमाञ्चं मध्यश् चेत् कम्पं तीव्रश् चेत् वैश्वर्यं तनोति ॥१७-१९॥
—ओ)०(ओ—
॥ २.३.२० ॥
बहिर् अन्तश् च विक्षोभ-विधायित्वाद् अतः स्फुटम् ।
प्रोक्तानुभावतामीषां भावता च मनीषिभिः ॥
श्री-जीवः : अतः पूर्वोक्ताद् धेतोर् बहिर् अन्तश् च स्फुटम् उच्चैर् विक्षोभ-विधायित्वाद् इत्य् उद्भास्वरेषु तु न तादृशत्वं इत्य् अभिप्रायः । भावता-पक्षे तु अमीषां व्यभिचारित्वम् एव ज्ञेयम् ॥२०॥
मुकुन्दः : बहिर् इति । अन्तश् चित्तं सत्त्वीभवद् [भ।र।सि। २.३.१५] इत्य् आदिनोक्तात् बहिर् देहस्यान्तः-प्राणस्य च स्फुटं क्षोभ-विधायित्वाद् धेतोः ॥२०॥
विश्वनाथः : ** **अमीषां सात्त्विकानां क्षोभोऽत्र वाग्-आदि-राहित्यं नैश्चल्यादि च । अथान्तः-क्षोभ-कारित्वाद् भावता । बहिः-क्षोभ-कारित्वाद् अनुभावतेत्य् अर्थः ॥२०॥
—ओ)०(ओ—
॥ २.३.२१ ॥
तत्र स्तम्भः—
स्तम्भो हर्ष-भयाश्चर्य-विषादामर्ष-सम्भवः ।
तत्र वाग्-आदि-राहित्यं नैश्चल्यं शून्यतादयः ॥
श्री-जीवः : स्तम्भ इति । स्तम्भो मनसोऽवस्था-विशेषः । वाग्-आदि-राहित्यम् इत्य् इत्य्-आदिकास् तु देहस्य । स च स्तम्भ एव सात्त्विकानां तत्-तद्-एक-नामतयान्तर्- बहिर् व्याप्य स्थितत्वात् । किन्तु पूर्वः सूक्ष्मावस्थः, उत्तरस् तु स्थूलावस्थः पूर्वस्य बोधक इति यथा-क्रमं द्वयोर् भावानुभावत्वं । तद् एवं हर्षादि-सम्भवो भाव-विशेषः स्तम्भ उच्यते । तत्र वाग्-आदि-राहित्यादयो भवन्तीति योज्यम् । एवम् उत्तरत्रापि । अत्र तु वाद्वाग्-आदीनां राहित्यं यत्र तादृशं नैश्चल्यं कर्मेन्द्रियाणां, शून्यत्वं तु ज्ञानेन्द्रिय-व्यापारान्तराणां, मनसस् तु व्यापारोऽस्ति, प्रलये पुनस् तद् तद्-एक-लीनत्वान् मनसोऽपि नास्तीति भेदः ॥२१॥
**मुकुन्दः : **एवं सात्त्विकानां भावानुभावताख्यायां चित्तं सत्त्वीभवद् इत्य् इत्य्-आदिनोत्पत्ति-द्वारा कारणं प्रदर्श्य कृष्ण-सम्बन्धिभिर् इत्य् आदिना सामान्यतो लक्षितेषु स्तम्भादि-भावेषु विशेषतस् तांल् लक्षयति—तत्र स्तम्भ इति, । स्तम्भो देहस्य स्तब्धता वाग्-आदीनां कर्मेन्द्रिय-व्यापाराणां राहित्यं, निअश्चल्यम् नैश्चल्यम् अङ्गानां चेष्टा-राहित्यं । शून्यता ज्ञानेन्द्रिय-व्यापाराणां राहित्यं । मनसस् तु व्यापारोऽस्ति, प्रलये पुनर् आलम्बन-लीनत्वान् मनसोऽपि नास्तीति भेदः ॥२१॥
विश्वनाथः : तत्र स्तम्भ इति । अत्र स्तम्भस्यान्तर्-बहिर्-उभयात्मकत्वान् नैश्चल्यम् । अत्र तद्-बोधक-तद्-बहिर्-भाव उच्यते । एवम् उभयत्रापि । अत्र नैश्चल्यं कर्मेन्द्रियाणां शून्यत्वं ज्ञानेन्द्रिय-व्यापारान्तराणां । मनसस् तु व्यापारोऽस्ति, प्रलये पुनस् तद्-एक-लीनत्वान् मनसोऽपि नास्तीति भावः ॥२१॥
—ओ)०(ओ—
॥ २.३.२२ ॥
तत्र हर्षाद्, यथा तृतीये (३.२.१४)—
यस्यानुराग-प्लुत-हास-रास-
लीलावलोक-प्रतिलब्ध-मानाः ।
व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त-
धियोऽवतस्थुः किल कृत्य-शेषाः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **यस्य श्री-कृष्णस्यानुराग-प्लुत-हासादिभिः करणैः प्रतिलब्धः मान आदरो याभिः तथाभूता व्रज-स्त्रियः दृग्भिः करणैः श्री-कृष्णे अनुप्रवृत्ता धीर् यासां तादृश्यः सत्यः दर्शन-समये कृत्यस्य गृह-कृत्यस्य शेषो यासां तथा-विधास् तस्थुः । तथा च तद्-दर्शन-समये गृह-कृत्य-निर्वाहो न जात इति भावः ॥२२॥
—ओ)०(ओ—
॥ २.३.२३ ॥
भयाद्, यथा—
गिरि-सन्निभ-मल्ल-चक्र-रुद्धं
पुरतः प्राण-परार्धतः परार्ध्यम् ।
तनयं जननी समीक्ष्य शुष्यन्
नयना हन्त बभूव निश्चलाङ्गी ॥
श्री-जीवः : प्राण-परार्धतोऽपि परार्ध्य-मनस्त-मूल्यं परमाधिकम् इत्य् अर्थः ॥२३॥
मुकुन्दः : गिरि-सन्निभेति । प्राण-परार्धतः यत् परार्ध्यं तेन लभ्यम् अनन्त-प्राण-लभ्यं परम-दुर्लभम् इत्य् अर्थः ॥२३॥
विश्वनाथः : प्राण-परार्धतोऽपि परार्ध्यम् अनन्त-मूल्यं परमाधिकं तनयं वीक्ष्य ॥२३॥
—ओ)०(ओ—
॥ २.३.२४ ॥
आश्चर्याद्, यथा श्री-दशमे (१०.१३.५६)—
ततोऽतिकुतुकोद्वृत्यस् तिमितैकादशेन्द्रियः ।
तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका ॥
श्री-जीवः : ततोऽति कुतुकेति अतिकुतुकेन उद्वृत्तम् उत्सन्न-चेष्टं पुनस् तिमितं प्रेम्णार्द्रीभूतं च एकादशेन्द्रियं मनो यस्य सः ॥२४॥
मुकुन्दः : अतिकुतुकेन आश्चर्येण उद्धृत्य दृष्टिभिः पर्यायेण दृष्ट्वा, कुतुक-शब्देन तृतीयायाश् छान्दसो लुक् । उद्धृत्य इति पाठे क्षुभितः । ताद्धाम्ना तेषां प्रभावेन अस्ति तेषां अन्तिके स्तिमितैकादशेन्द्रियियो निश्चेष्टः । अतस् तुष्णीम् अभवत् । अत्र किरीटादि-शोभस्य स्तब्धस्य च तस्योपमा पूर्-देवी नाना-परिच्छदैः पुर-जनाराध्या पुत्तलिका प्रतिमेवेति ॥२४॥
**विश्वनाथः : **ततोऽतिकुतुकेति । अतिकुतुकेन उद्वृतम् उत्पन्न-चेष्टं पुनः स्तिमितं प्रेमार्द्रीभूतं च एकादशेन्द्रियं मनो यस्य सः । पूर्-देवीनां अस्ति निकटे यथा पुत्रिका बालकैः कौतुकर्थं कृता पुत्तलिका तथैव कृष्णस्य निकटे अजो ब्रह्मा अभूत् ॥२४॥
—ओ)०(ओ—
॥ २.३.२५ ॥
यथा वा—
शिशोः श्यामस्य पश्यन्ती शैलम् अभ्रंलिहं करे ।
तत्र चित्रार्पितेवासीद् गोष्ठी गोष्ठ-निवासिनाम् ॥
श्री-जीवः : चित्रार्पितेति । चित्र-जाताव् अर्पिता अचित्तवत्त्वं प्रापितेत्य् अर्थः । चित्रायमाणेति वा पाठः ॥२५॥
मुकुन्दः : गोष्ठी सभा चिरे चित्राधारेऽतिसुन्दरे पटे अर्पिता चिरार्पिता ॥२५॥
**विश्वनाथः : **शिशोः श्यामस्य करे अभ्रं-लिहम् अत्युच्चम् इत्य् अर्थः । शैलं गोवर्धनं पश्यन्ती गोष्ठ-वासिनां गोष्ठी चित्रार्पिता इव आसीद् इति स्तम्भः ॥२५॥
—ओ)०(ओ—
॥ २.३.२६ ॥
विषादाद्, यथा—
बक-सोदर-दानवोदरे
पूरतः प्रेक्ष्य विशन्तम् अच्युतम् ।
दिविषन्-निकरो विषण्ण-धीः
प्रकटं चित्रपटायते दिवि ॥
श्री-जीवः : चित्रपटायते इति चित्र-स्थानीयानां दिविषदां निकरः पट-स्थानीयतया दृश्यते इत्य् अर्थः । चित्रततीयते इति वा पाठः ॥२६॥
मुकुन्दः : चित्रपटायते इति चित्र-युक्तः पटश् चित्रपटः पटायमानायां दिवि चित्र-स्थानीयतया दृश्यत इत्य् अर्थः ॥२६॥
**विश्वनाथः : **दिविषन्-निकरो देवता-समूहः ॥२६॥
—ओ)०(ओ—
॥ २.३.२७ ॥
अमर्षाद्, यथा—
कर्तुम् इच्छति मुर-द्विषे पुरः
पत्रि-मोक्षम् अकृपे कृपी-सुते ।
सत्वरोऽपि रिपु-निष्क्रये रुषा
निष्क्रियः क्षणम् अभूत् कपि-ध्वजः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **अकृपे कृपा-रहिते कृपी-सुते अश्वत्थाम्नि मुरद्विषि श्री-कृष्णे पत्रि-मोक्षं कर्तुम् इच्छति अति कपिधजोऽर्जुनः शत्रु-निष्क्रये सत्वरोऽपि मां विहाय कथं श्री-कृष्णो हन्यते इति रुषा क्रोधेन क्षणं निष्क्रियोऽभूत् ॥२७॥
—ओ)०(ओ—
॥ २.३.२८-२९ ॥
अथ स्वेदः—
स्वेदो हर्ष-भय-क्रोधादि-जः क्लेद-करस् तनोः ॥
तत्र हर्षाद्, यथा—
किम् अत्र सूर्यातपम् आक्षिपन्ती
मुग्धाक्षि चातुर्यम् उरीकरोषि ।
ज्ञातं पुरः प्रेक्ष्य सरोरुहाक्षं
स्विन्नासि भिन्ना कुसुमायुधेन ॥
श्री-जीवः : किं ज्ञातं ? तत्राह—कुसुमायुधेन भिन्नासीति भिन्नासि इति । ज्ञाने हेतुः—पुरः सरोरुहाक्षं प्रेक्ष्य स्विन्नेति **स्विन्ना **इति ॥२९॥
**मुकुन्दः : **किम् अत्रेति । किं ज्ञातम् ? तत्राह—कुसुमायुधेन भिन्नासि इति कुसुमायुहेन भिन्नासीति,। तत्र हेतुः **पुरः सरोरुहाक्षं प्रेक्ष्य स्विन्ना **इति स्विन्नेति ॥२९॥
विश्वनाथः : कुसुमाय्धेन भिन्ना सति स्विन्ना ॥२९॥
—ओ)०(ओ—
॥ २.३.३० ॥
भयाद्, यथा—
कुतुकाद् अभिमन्यु-वेषिणं
हरिम् आक्रुश्य गिरा प्रगल्भया ।
विदिताकृतिर् आकुलः क्षणाद्
अजनि स्विन्न-तनुः स रक्तकः ॥
श्री-जीवः : अभिमन्युः श्री-राधायाः पतिम्मन्यः कश्चिद् गोपः । नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३७] इत्य् आदिना माया-निर्मित-तत्-प्रतिकृतेर् एव पतिर् ह्य् असौ । रक्तकस् तन्-नामा श्री-कृष्णस्य सवयस्को दास-विशेषः ॥३०॥
**मुकुन्दः : **अभिमन्युः श्री-राधायाः पतिम्मन्यः कश्चिद् गोपः । रक्तकस् तन्-नामा श्री-कृष्णस्य सख्यांश-भाग् दास-श्रेष्थः ॥३०॥
**विश्वनाथः : **रक्तक-नामा दासः अभिमन्यु-वेशिनं कृष्णं प्रगल्भया गिरा आकृष्य पश्चाद् विदिताकृतिः । अत एव आकुलः सन् स्विन्न-तनुर् अजनि ॥३०॥
—ओ)०(ओ—
॥ २.३.३१ ॥
क्रोधाद्, यथा—
यज्ञस्य भङ्गाद् अतिवृष्टि-कारिणं
समीक्ष्य शक्रं सरुषो गरुत्मतः ।
घनोपरिष्टाद् अपि तिष्ठतस् तदा
निपेतुर् अङ्गाद् घन-नीर-बिन्दवः ॥
श्री-जीवः : घनोपरिष्टाद् अपि तिष्ठत इत्य् अस्य सहजार्थे दूर-स्थितस्यापि, न तु तल्-लीलां प्रविष्टस्येति । अपिस् तु योज्यः । विरोधालङ्कारे तु योज्य एव ॥३१॥
मुकुन्दः : घनोपरिष्टाद् अपि तिष्ठत इति घन-व्यवधानात् साक्षात्-तल्-लिलानां अपश्यतोऽपीत्य् अपि योज्यः । घना विस्तीर्णाः । विरोधालङ्कारे तु योग्य एव सः ॥३१॥
**विश्वनाथः : **मेघोपरिष्टत् तिष्ठतो गरुडस्य ॥३१॥
—ओ)०(ओ—
॥ २.३.३२-३३ ॥
अथ रोमाञ्चः—
रोमाञ्चोऽयं किलाश्चर्य-हर्षोत्साह-भयादिजः ।
रोम्णाम् अभ्युद्गमस् तत्र गात्र-संस्पर्शनादयः ॥
तत्र आश्चर्याद्, यथा—
डिम्भस्य जृम्भां भजतस् त्रीलोकीं
विलोक्य वैलक्ष्यवती मुखान्तः ।
बभूव गोष्ठेन्द्र-कुटुम्बिनीयं
तनु-रुहैः कुड्मलिताङ्ग-यष्टिः ॥
श्री-जीवः : वैलक्ष्यं तु विस्मयः । विलक्षो विस्मयान्वित इत्य् अमरः ॥३३॥
**मुकुन्दः : **विलक्ष्य विशेषेण दृष्ट्वा वैलक्ष्यवती विस्मयवती ॥३३॥
**विश्वनाथः : **डिम्भस्य बालकस्य मुख-मध्ये त्रिलोकीं वीक्ष्य वैलक्ष्यवती विस्मयवती विलक्षो विस्मयान्वितः इत्य् अमरः ॥३३॥
—ओ)०(ओ—
॥ २.३.३४ ॥
हर्षाद्, यथा श्री-दशमे (१०.३०.१०)—
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि ।
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा
आहो वराह-वपुषः परिरम्भणेन ॥
श्री-जीवः : किं ते कृतम् इति । केशवोऽत्र श्री-कृष्णः । अपीति किम्-अर्थे । उरु-क्रमस्य विक्रमाच् चरण-विन्यासाद् योऽङ्घ्रि-सम्भवः, सोऽपि किम् ईदृशः ? आहो किं वा वराह-वपुषः परिरम्भणेन यः स्पर्शोत्सवः सोऽपि किम् ईदृशः ? नहि नहीत्य् अर्थः ॥३४॥
मुकुन्दः : हे क्षिति हे क्षिते! केशवः श्री-कृष्णः विभासि विशेषेण शोभसे । अङ्घ्रि-सम्भवोऽयम् उत्सवः । अपि किम् उरुक्रमस्य त्रिविक्रमस्य विक्रमात् पादेन सर्वाक्रमाद् बभूव, अपि तु नैव । तदानीम् ईदृशोत्सवशोभा-सम्पत्तेः वराह-मूर्तेर् भगवतः साक्षात्-सम्भोगे न सिद्ध इत्य् आहुर् आहो इति ॥३४॥
**विश्वनाथः : **क्ं ते कृतं इति । केशवोऽत्र श्री-कृष्ण एव । अपीति किम्-अर्थे । उरुक्रमस्य त्रिविक्रमस्य विक्रमाच् चरण-विन्यासाद् योऽङ्घ्रि-सम्भवः सोऽपि किम् ईदृशः आहो किं वा वराह-वपुषः परिरम्भणेन यः स्पर्शोत्सवः सोऽपि किम् ईदृशः नहि नहीत्य् अर्थः ॥३४॥
—ओ)०(ओ—
॥ २.३.३५ ॥
उत्साहाद्, यथा—
शृङ्गं केलिर् अणारम्भे रणयत्य् अघ-मर्दने ।
श्रीदाम्नो योद्धु-कामस्य रेमे रोमाञ्चितं वपुः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **अघमर्दने श्री-कृष्णे शृङ्गं रणयति शब्द-विशिष्टं कुर्वति सति ॥३५॥
—ओ)०(ओ—
॥ २.३.३६ ॥
भयाद्, यथा—
विश्व-रूप-धरम् अद्भुताकृतिं
प्रेक्ष्य तत्र पुरुषोत्तमं पुरः ।
अर्जुनः सपदि शुष्यद्-आननः
शिश्रिये विकट-कण्टकां तनुम् ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : विश्व-रूपेत्य् अत्र गौण-स्निग्ध-रोमाञ्चोऽयं भय-रत्य्-आक्रान्तत्वात् ॥३६॥
—ओ)०(ओ—
॥ २.३.३७-३८ ॥
अथ स्वर-भेदः—
विसाद-विस्मयामर्ष-हर्ष-भीत्य्-आदि-सम्भवम् ।
वैस्वर्यं स्वर-भेदः स्याद् एष गद्गदिकादिकृत् ॥
तत्र विषादाद्, यथा—
व्रज-राज्ञि रथात् पुरो हरिं
स्वयम् इत्य् अर्ध-विशीर्ण-जल्पया ।
ह्रियम् एणदृशा गुराव् अपि
श्लथयन्त्या किल रोदिता सखी ॥
श्री-जीवः : वैस्वर्यम् इति स्वर-भेदस्य पर्यायान्तरम् । एवम् अन्यत्रापि ॥३७॥ द्वयम् इत्य् एतस्य विवर्तयेति वाक्य-शेषः ॥३८॥
मुकुन्दः : वैस्वर्यम् इति स्वर-भेदस्य नामान्तरं च । एवम् अन्यत्रापि ॥३७॥ द्वयम् इति । उत्तार्य गृहं नयेति वाक्य-शेषः ॥३८॥
**विश्वनाथः : **हे व्रज-राज्ञि यशोदे ! रथात् हरिं स्वयं तावन्-मात्रम् अर्ध-विशीर्ण-जल्पः यस्यास् तया किन्तु निवारयेति वक्तुम् असमर्था एणदृशा राधया पुरो यशोदायां अपि लज्जां श्लथयन्त्या सखी ललिता एव रोदिता ॥३८॥
—ओ)०(ओ—
॥ २.३.३९ ॥
विस्मयाद्, यथा श्री-दशमे (१०.१३.६४)—
**शनैर् अथोत्थाय विमृज्य लोचने
मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः
स-वेपथुर् गद्गदयैलतेलया ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : इलया वाण्या । ऐलत ऐट्ट स्तुतवान् इत्य् अर्थः ॥३९॥ **
—ओ)०(ओ—
॥ २.३.४० ॥
अमर्षाद्, यथा तत्रैव (१०.२९.३०)—
प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं
कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरोऽब्रुवतानुरक्ताः ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.३.४१ ॥
हर्षाद्, यथा तत्रैव (१०.३९.५६-५७)—
**हृष्यत्-तनूरुहो भाव-परिक्लिन्नात्म-लोचनः ॥
गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः ॥
श्री-जीवः, विश्वनाथः : **सात्वतोऽक्रूरः ॥४१॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.३.४२ ॥
भीतेर्, यथा—
**त्वय्य् अर्पितं वितर वेणुम् इति प्रमादी
श्रुत्वा मद्-ईरितम् उदीर्ण-विवर्ण-भावः ।
तूर्णं बभूव गुरु-गद्गद-रुद्ध-कण्ठः
पत्री मुकुन्द तद् अनेन स हारितोऽस्ति ॥
श्री-जीवः : **उदीर्णेति । निष्ठायां त्रैयादिक ऋ गताव् इत्य् अस्य दीर्घस्य रूपं । पत्री पूर्ववन् नामा श्री-कृष्ण-सेवक-विशेषः । हारितः स्थानवधानेन नाशितोऽस्तीत्य् अर्थः ॥४२॥
मुकुन्दः : हारितः स्वानवधानेन नाशितोऽस्तीत्य् अर्थः ॥४२॥
**विश्वनाथः : **पत्रि-नामा श्री-कृष्ण-दासस् तं प्रति लक्षीकृत्य श्री-कृष्णं सुबल आह—त्वयि अर्पितं वेणुं वितर देहि इति मम ईरितं श्रुत्वा प्रमादी अवधान-रहित उद्गत-विवर्ण-भावः । पत्री तूर्णं गद्गद-कण्ठो बभूव । तत् तस्मात् स्वर-भङ्गात् । अनेनैव पत्रिणा स वेणुः हारितोऽस्ति स्वस्यानवधानेन हारितोऽस्तीत्य् अर्थः ॥४२॥
—ओ)०(ओ—
॥ २.३.४३-४४ ॥
अथ वेपथुः—
वित्रासामर्ष-हर्षाद्यैर् वेपथुर् गात्र-लौल्य-कृत् ॥
तत्र वित्रासेन, यथा—
शङ्ख-चूडम् अधिरूढ-विक्रमं
प्रेक्ष्य विस्तृत-भुजं जिघृक्षया ।
हा व्रजेन्द्र-तनयेति-वादिनी
कम्प-सम्पदम् अधत्त राधिका ॥
श्री-जीवः : शङ्खचूडम् इत्य् अत्र पद्ये विस्तृत-भुजम् इत्य् एव पाठः ॥४४॥
**मुकुन्दः : **जिघृक्षया ग्रहीतुम् इच्चहया वर्धितौ प्रसारितौ करौ पाणी येन तं प्रवर्धितं सृते छिन्न इति विश्वः । अत्र कराभ्यां सर्व-प्रसारार्थं लक्षणया भुजयोर् अप्य् उपादानम् ॥४४॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.३.४५ ॥
अमर्षेण, यथा—
कृष्णाधिक्षेप-जातेन व्याकुलो नकुलाम्बुजः ।
चकम्पे द्राग् अमर्षेण भू-कम्पे गिरिराड् इव ॥
श्री-जीवः : कृष्णेत्य् अत्र पद्ये भू-कम्पेनेव भूधर इति वा पाठः ॥४५॥
**मुकुन्दः : **भू-कम्पे सति ॥४५॥
**विश्वनाथः : **शिशुपालेन कृतो यः श्री-कृष्णे अधिक्षेपः तज्-जातेन रोषेण आकुलः सहदेवः ॥४५॥
—ओ)०(ओ—
॥ २.३.४६ ॥
हर्षेण, यथा—
विहससि कथं हताशे पश्य भयेनाद्य कम्पमानास्मि ।
चञ्चलम् उपसीदन्तं निवारय व्रज-पतेस् तनयम् ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.३.४७ ॥
अथ वैवर्ण्यम्—
विषाद-रोष-भीत्य्-आदेर् वैवर्ण्यं वर्ण-विक्रिया ।
भाव-ज्ञैर् अत्र मालिन्य-कार्श्याद्याः परिकीर्तिताः ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.३.४८ ॥
तत्र विषादाद्, यथा—
श्वेतीकृताखिल-जनं विरहेण तवाधुना ।
गोकुलं कृष्ण देवर्षेः श्वेतद्वीप-भ्रमं दधे ॥
श्री-जीवः : श्वेतीकृतेति । तथा च मोक्ष-धर्मस्य नारायणीये श्वेतद्वीपस्य जन-वर्णने । श्वेताः पुमांसो गत-सर्व-दुःखाश् चक्षुर्-मुषः पापकृतां नराणां इति । यद् च श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि । धारयञ् छ्वेततां याति [भा।पु। ११.१५.१८] इत्य् एकादश-पद्यस्य टीकायां श्वेततां शुद्ध-रूपताम् इत्य् अनुसारेण श्वेत-शब्दस्य शुद्ध-सत्त्वम् एव व्याख्येयं, तदा तु श्लेष-काव्यम् एवेदं ज्ञेयम् ॥४८॥
**मुकुन्दः : **श्वेतीकृतेति । तथा च मोक्ष-धर्मस्य नारायणीये श्वेतद्वीप-जन-वर्णने । श्वेताः पुमांसो गत-सर्व-दुःखाश् चक्षुर्-मुषः पाप-कृतां नराणां इति ॥४८॥
**विश्वनाथः : **तव विरहेण श्वेतीकृता अखिल-जना यत्र तथा-भूतं गोकुलं देवर्षेर् नारदस्य श्वेतद्वीप-भ्रमम् अधात् ॥४८॥
—ओ)०(ओ—
॥ २.३.४९ ॥
रोषाद्, यथा—
कंस-शत्रुम् अभियुञ्जतः पुरो
वीक्ष्य कंस-सहजान् उदायुधान् ।
श्री-बलस्य सखि तस्य रुष्यतः
प्रोद्यद्-इन्दु-निभम् आननं बभौ ॥
श्री-जीवः : अभियुञ्जतः युद्धार्थम् आभिमुख्येन मिलतः कंस-सहजान् कङ्क-न्यग्रोधादीन् तस्येत्य् अत्र पश्येति पाठस् त्यक्तः ॥४९॥
मुकुन्दः : कंस-शत्रुं श्री-कृष्णं, अभियुञ्जतः युद्धार्थं साम्मुख्येन मिलतः । तस्य मृतस्य कम्सस्य सहजान् लघु-भ्रातॄन् कङ्क-न्यग्रोधादीन् एतान् अपि दुष्टान् श्री-बलदेवो मारयिष्यतीति हर्षज-मोहानन्तरं वर्तमानत्वेऽपि बभाव् इति भूतत्वं, व्यातेन किरणावलीम् इतिवत् ॥४९॥
**विश्वनाथः : **कंस-शत्रुं श्री-कृष्णं अभियुञ्जतः युद्धार्थं आभिमुख्येन मिलतः कम्स-भ्रातॄन् रुष्यतो बलदेवस्य प्रोद्यद्-इन्दु-निभं प्रोद्यच्-चन्द्र-सदृशं अर्थाद् अत्यन्त-शितिम् अयुक्तम् आननं बभौ ॥४९॥
—ओ)०(ओ—
॥ २.३.५० ॥
भीतेर्, यथा—
रक्षिते व्रज-कुले बकारिणा
पर्वतं वर-मुदस्य लीलया ।
कालिमा बल-रिपोर् मुखे भवन्न्
ऊचिवान् मनसि भीतिम् उत्थिताम् ॥
श्री-जीवः : कालिमा कर्ता बल-रिपोर् इन्द्रस्य मुखे भवन्न् उद्भवन् मनसि उत्थितां भीतिम् ऊचिवान् सूचितवान् ॥५०॥
मुकुन्दः : बल-रिपोर् इन्द्रस्य ॥५०॥
**विश्वनाथः : **वरं पर्वतं गोवर्धनम् उदस्य उत्थाप्य व्रज-कुले रक्षिते सति बल-रिपोः इन्द्रस्य मुखे कालिमा कर्ता भवन्न् उद्भवन् सन् तस्य मनसि उत्थितां भीतिं ऊचिवान् सूचितवान् ॥५०॥
—ओ)०(ओ—
॥ २.३.५१-५२ ॥
विषादे श्वेतिमा प्रोक्ता धौसर्यं कालिमा क्वचित् ।
रोषे तु रक्तिमा भीत्यां कालिमा क्वापि शुक्लिमा ॥
रक्तिमा लक्ष्यते व्यक्तो हर्षोद्रेकेऽपि कुत्रचित् ।
अत्रासार्वत्रिकत्वेन नैवास्योदाहृतिः कृता ॥
श्री-जीवः : अस्य रक्तिम्नः ॥५२॥
मुकुन्दः : प्रोक्त उक्त एव अस्य रक्तिम-द्वितीय-कालिमाभ्यां अप्य् अन्वयः ॥५१॥ अस्य धौसर्यं कालिमा शुक्लिमा रक्तिमेति चतुर्विधस्य ॥५२॥
**विश्वनाथः : **श्वेत-रक्तादि-नाना-वर्ण-साहित्यं धौसर्यम् । तस्य रक्तिम्णः तथा च विषादादौ यथा सर्वत्र श्वेतिम-धौसर्याद् अन्यतरस्यावश्यकत्वं, न तथा हर्षे सर्वत्र रक्तिमत्वं इति भावः ॥५१-५२॥
—ओ)०(ओ—
॥ २.३.५३ ॥
अथ अश्रु—
हर्ष-रोष-विषादाद्यैर् अश्रु नेत्रे जलोद्गमः ।
हर्षजेऽश्रुणि शीतत्वम् औष्ण्यं रोषादि-सम्भवे ।
सर्वत्र नयन-क्षोभ-राग-सम्मार्जनादयः ॥
श्री-जीवः : नेत्रे जलोद्गमः इत्य् अत्र, यत्रेति शेषः । सात्त्विकानां अन्तर्-बहिर्-विकार-रूपत्वात् एवम् अन्यत्रापि ज्ञेयम् । नासिका-स्रवोऽप्य् अस्यैवाङ्ग-विशेषो ज्ञेयः ॥५३॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **नेत्रे जलोद्गम एवाश्रु । नयनयोः क्षोभः रागो रक्तिमा संआर्जनं च ॥५३॥
—ओ)०(ओ—
॥ २.३.५४ ॥
अत्र हर्षेण, यथा—
गोविन्द-प्रेक्षणाक्षेपि-बाष्प-पूराभिवर्षिणम् ।
उच्चैर् अनिन्दद् आनन्दम् अरविन्द-विलोचना ॥
श्री-जीवः : आनन्दस्य बाष्प-पुराभिवर्षित्वम् एव निन्द्यत्वेन विवक्षितम्, न तु स्वरूपं । स-विशेषण-विधि-निषेधौ विशेषणम् उपसङ्क्रामत इति न्यायात् ॥५४॥
मुकुन्दः : बाष्प-पुराभिवर्षित्वम् कृतं एव तद्-विघ्न-करणान् निन्द्यत्वेन विवक्षितं, न तु स्वरूपं, तद् यथा- स-विशेषणे विधि-निषेधौ विशेषणम् उपसङ्क्रामतः सति विशेष्ये बाध इति ॥५४॥
विश्वनाथः : गोविन्दस्य दर्शने आक्षेपी प्रतिबन्धको यो बाष्प-पूरस् तस्याभिवर्षणं तस्य्अ अभिवर्ष्इणं आनन्दं अनिन्दत् ॥५४॥
—ओ)०(ओ—
॥ २.३.५५ ॥
रोषेण, यथा हरि-वंशे (२.६६.२४)—
तस्याः सुस्राव नेत्राभ्यां वारि प्रणय-कोपजम् ।
कुशेशय-पलाशाभ्याम् अवश्याय-जलं यथा ॥
श्री-जीवः : तस्या श्री-सत्यभामायाः, तत्र शोभांश एव दृष्टान्तः, न तु शैत्यांशे ॥५५॥
मुकुन्दः : तस्या सत्यभामायाः । अत्र शोभांश एव दृष्टान्तः, न तु शैत्यांशे, कोप-जवारिण औष्ण्यात् ॥५५॥
**विश्वनाथः : **तस्या सत्यभामायाः कुशेशयस्य पद्मस्य पत्राभ्यां यथा नीहारं जलं सुस्राव ॥५५॥
—ओ)०(ओ—
॥ २.३.५६ ॥
यथा वा—
भीमस्य चेदीश-वधं विधित्सो
रेजेऽश्रु-विस्रावि रुषोपरक्तम् ।
उद्यन्-मुखं वारि-कणावकीर्णं
सान्ध्य-त्विषा ग्रस्तम् इवेन्दु-बिम्बम् ॥
श्री-जीवः : भीमस्य मुखं रेजे उद्यद्-इन्दु-बिम्बम् इवेति बिम्ब-शब्देन पूर्णत्वं बोद्यते । पाठान्तराणि नेष्टानि ॥५६॥
मुकुन्दः : उपरक्तं सर्वतो व्याप्तम् अतो बाष्प-च्छटा-चुम्बि सत् व्यराजिष्ट श्री-कृष्ण-पक्षीयाणां सुख-हेतुतया विशेषेण विरोधालङ्कारोऽयम् । तत्-पक्षे उपरक्तं ग्रस्तम् । अत्र दृष्टान्तः—सुधाकीर्णं स्वर्-भानुना ग्रस्तम् इवेन्दु-बिम्बम् इति बिम्बं पूर्ण-मण्डलम् । तद् अपि सज्जनानां धर्म-बुद्ध्या व्यराजिष्टेव ॥५६॥
**विश्वनाथः : **चेदीशस्य शिशुपालस्य सन्ध्या-कालीन-तुषार-ग्रस्तं चन्द्र-बिम्बम् इव ॥५६॥
—ओ)०(ओ—
॥ २.३.५७ ॥
विषादेन, यथा श्री-दशमे (१०.६०.२३)—
पदा सुजातेन नखारुण-श्रिया
भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः ।
आसिञ्चती कुङ्कुम-रूषितौ स्तनौ
तस्थाव् अधो-मुख्य् अतिदुःख-रुद्ध-वाक् ॥
श्री-जीवः : पदा सुजातेनेत्य् अत्र रुक्मिणीति शेषः ॥५७॥
**मुकुन्दः : **पदा सुजातेनेति प्रकरणाद् रुक्मिणी ज्ञेया ॥५७॥
**विश्वनाथः : **अधो-मुखी रुक्मिणी ॥५७॥
—ओ)०(ओ—
॥ २.३.५८ ॥
अथ प्रलयः—
**प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-निराकृतिः ।
अत्रानुभावाः कथिता मही-निपतनादयः ॥
श्री-जीवः, मुकुन्दः : **ज्ञान-निराकृतिर् अत्रालम्बनैक-लीन-मनस्त्वम् ॥५८॥
विश्वनाथः : सुख-दुःखाभ्यां प्रलयो जातः । चेष्टा-ज्ञानादेर् निराकरणं यतः ॥५८॥** **
—ओ)०(ओ—
॥ २.३.५९ ॥
तत्र सुखेन, यथा—
मिलन्तं हरिम् आलोक्य लता-पुञ्जाद् अतर्कितम् ।
ज्ञप्ति-शून्य-मना रेजे निश्चलाङ्गी व्रजाङ्गना ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.३.६० ॥
दुःखेन, यथा श्री-दशमे (१०.३९.१५)—
अन्याश् च तद्-अनुध्यान-निवृत्ताशेष-वृत्तयः ।
नाभ्यजानन् इमं लोकम् आत्म-लोकं गता इव ॥
श्री-जीवः : अन्या श्री-हरेर् मथुरा-प्रस्थाने शोचन्त्यः श्री-गोप्यः, तद्-अनुध्याने इति, नाभ्यजानन्न् इति द्वयेन नाना भावना निषिद्धाः । आत्म-लोकम् आत्म-स्वरूपं स्वस्मिन् समाधिम् इत्य् अर्थः ॥६०॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **अक्रूरे व्रजम् आगते सति अन्या व्रज-सुन्दर्य आत्म-लोकम् आत्म-स्वरूपम् ॥६०॥
—ओ)०(ओ—
॥ २.३.६१-६४ ॥
सर्वे हि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः ।
तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा ॥६१॥
सत्त्वस्य तारतम्यात् प्राण-तनु-क्षोभ-तारतम्यं स्यात् ।
तत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात् ॥६२॥
धूमायितास् ते ज्वलिता दीप्ता उद्दीप्त-सञ्ज्ञिताः ।
वृद्धिं यथोत्तरं यान्तः सात्त्विकाः स्युश् चतुर्-विधाः ॥६३॥
सा भूरि-काल-व्यापित्वं बह्व्-अङ्ग-व्यापिताऽपि च ।
स्वरूपेण तथोत्कर्ष इति वृद्धिस् त्रिधा भवेत् ॥६४॥
श्री-जीवः : सर्वे हीति । भावा अत्रानुभावाः, सत्त्वैकमूलत्वादिति । (२.३.२) “सत्त्वाद् अस्मात्” इत्यत्र व्याख्यातमस्ति अमीषां स्तम्भादीनां सात्त्विकनाम्ना प्रथा सात्त्विक प्रथा ॥६३॥
मुकुन्दः : सर्वे हीति—सर्वे नृत्यादयः स्तम्भादयश् च भावः । अमीषां स्तम्भादीनाम् अष्टानां सत्वैक-मूलत्वात् केवल-सत्त्व-कारणकत्वात् । अयम् अर्थः—एषां प्राण-क्षोभाद् एव जायमानत्वाद् देह-चेष्टा न कारणम् । नृत्यादीनां सत्त्व-मूलत्वेऽपि प्रायस् तज्-जन्यत्वात् सापि कारणम् इति । सात्त्विका इति प्रथा सात्त्विक-प्रथा ॥६१॥
**विश्वनाथः : **सर्वे नित्य-विलुठनादयो भावा यद्यपि सत्त्व-मूलत्वात् कृष्ण-भावाक्रान्त-चित्तत्वात् सात्त्विका भवन्ति, तथापि अमीषां स्तम्भादीनाम् इति । अयम् अर्थः—चित्तस्य कृष्ण-भावनाक्रान्तत्वेऽपि यथा नृत्यादयः श्रवण-कीर्तनादिवद् भजन-विषयीकुर्वन्ति, तथा स्तम्भादय इति विशेषो बोध्यः । सात्त्विक-नाम्ना प्रथा सात्त्विक-प्रथा । सत्त्वस्य तारतम्यात् प्राण-तनु-क्षोभ-तारतम्यं स्यात् । अत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात् । यथोत्तरम् इति धूमायितापेक्षया ज्वलिते वृद्धिं प्राप्ता इत्य् आदि इत्य्-आदि सा वृद्धिः स्वरूपेणेति । अल्प-कालाल्प-देह-व्यापित्वेऽपि स्वत एव स्तम्भो महान् इत्य् अर्थः ॥६१-६४॥
—ओ)०(ओ—
॥ २.३.६५ ॥
तत्र नेत्राम्बु-वैस्वर्य-वर्जानाम् एव युज्यते ।
बह्व्-अङ्ग-व्यापितामीषां तयोः कापि विशिष्टता ॥
श्री-जीवः, मुकुन्दः : तत्रेत्य् अत्रामीषां स्तम्भादीनां । तयोर् नेत्राम्बु-वैस्वर्ययोः ॥६५॥
**विश्वनाथः : **नेत्राम्बु-वैस्वर्याभिन्नानां अमीषां सात्त्विकानां सर्वाङ्ग-व्यापिता युज्यते । तयोर् नेत्राम्बु-वैस्वर्ययोर् अन्या कापि विशिष्टता बोध्या ॥६५॥
—ओ)०(ओ—
**॥ २.३.६६ ॥
तत्राश्रूणां दृग्-औच्छून्य-कारित्वम् अवदातता ।
तथा तारातिवैचित्री-वैलक्षण्य-विधायिता ।
वैस्वर्ण्यस्य तु भिन्नत्वे कौण्ठ्य-व्याकुलतादयः ॥
श्री-जीवः : **अतिवैचित्र्या अपि वैलक्षण्यम् अतिशयः ॥६६॥
मुकुन्दः : तत्र तयोर् मध्ये अवदातता दृक्-शुक्लता ताराणां अतिवैचित्र्या वैलक्षण्य-विधायिता ॥६६॥
**विश्वनाथः : **अवदातता श्वेतता । अतिवैचित्री सा अपि वैलक्षण्यम् अतिशयः ॥६६॥
—ओ)०(ओ—
॥ २.३.६७-६९ ॥
भिन्नत्वं स्थान-विभ्रंशः कौण्ठ्यं स्यात् सन्न-कण्ठता ।
व्याकुलत्वं तु नानोच्च-नीच-गुप्त-विलुप्तता ॥
प्रायो धूमायिता एव रुक्षास् तिष्ठन्ति सात्त्विकाः ।
स्निग्धास् तु प्रायशः सर्वे चतुर्धैव भवन्त्य् अमी ॥
महोत्सवादि-वृत्तेषु सद्-गोष्ठी-ताण्डवादिषु ।
ज्वलन्त्य् उल्लासिनः क्वापि ते रुक्षा अपि कस्यचित् ॥
श्री-जीवः : स्वान-विभ्रंश इति यतो घर्घरादि-शब्दाः स्युर् इति भावः । सन्न-कण्ठेति यतः शब्दो नोदयत इति भावः । नानोच्चेति प्रतिलवं तत्-तन्-नाना-प्रकारतेति भावः ॥६७॥
**मुकुन्दः : **स्वान-विभ्रंश इति यतो घर्घरादि-शब्दाः स्युर् इति भावः । सन्न-कण्ठेति यतः शब्दो नोदेति इति भावः ॥६७॥
विश्वनाथः : स्वान-विभ्रंश इति । यतः स्वान-विभ्रंशाद् घर्घरादि-शब्दाः स्युर् इति भावः । सन्न-कण्ठेति यतः शब्दो नोदयत इति भावः । नानोच्चेति प्रतिक्षणं तत्-तन्-नाना-प्रकारतेति भावः । रुक्षाः सात्त्विकाः प्रायो धूमायिता एव तिष्ठन्ति । महोत्सवादौ उत्पन्नेषु सद्-गोष्ठी-ताण्डवादिषु उल्लासिनः कस्यचिद् भक्तस्य रुक्षा अपि सात्त्विका ज्वलिता भवन्ति ॥६७॥** **
—ओ)०(ओ—
॥ २.३.७० ॥
सर्वानन्द-चमत्कार-हेतुर् भावो वरो रतिः ।
एते हि तद्-विनाभावान् न चमत्कारिताश्रयाः ॥
श्री-जीवः : यस्मात् सर्वानन्द-चमत्कार-हेतुः तस्माद् रतिर् एव वरो भाव इत्य् अर्थः । पद्यान्ते “न चमत्कारिताश्रयाः” इत्य् एव पाठः ॥७०॥
**मुकुन्दः : **ननु रुक्षा अपि ज्वलन्ति चेत् तदा परमोपादेया एवेत्य् अत्राह—सर्वानन्देति । सर्वानन्दैश् चमत्कार-हेतुः सर्वानन्द-चमत्कार-हेतुः । एते रत्याभास-भवा ज्वलत्-सात्त्विकास् तद्-विना-भावात् तस्या अभावात् नाभ्युपादेयताश्रयाः । भुक्ति-मुक्ति-कामि-जन-जातत्वेऽप्य् उत्तरोत्तर-क्षेमस्य सद्-भावात् उपादेयाः सन्त्य् एव । जात-रतिषु जातास् तु परमोपदेया इति भावः । तद् यथा रति-लहर्यां—
किन्तु भाग्यं विना नासौ भाव-च्छायाप्य् उदञ्चति । यद् अभ्युदयतः क्षेमं तत्र स्याद् उत्तरोत्तरम् ॥ [भ।र।सि। १.३.५१] इति ॥७०॥
**विश्वनाथः : **यस्माद् रतिः सर्वानन्द-चमत्कार-हेतुः, तस्मात् स एव वरो भावः । रतिं विनाभावात् एते सात्त्विका न चमत्कारिताश्रयाः ॥७०॥
—ओ)०(ओ—
॥ २.३.७१-७२ ॥
तत्र धूमायिताः—
अद्वितीया अमी भावा अथवा स-द्वितीयकाः ।
ईषद्-व्यक्ता अपह्नोतुं शक्या धूमायिता मताः ॥
यथा—
आकर्णयन्न् अघहराम् अघ-वैरि-कीर्तिं
पक्ष्माग्र-मिश्र-विरलाश्रुर् अभूत् पुरोधाः ।
यष्टा दरोच्छ्वसित-लोम-कपोलम् ईषत्-
प्रस्विन्न-नासिकम् उवाह मुखारविन्दम् ॥
श्री-जीवः : अमी इति । बहु-वचनम् अत्र प्रतिव्यक्ति प्राधान्यस्य विवक्षया । तच् चेतरेतर-योग-द्वन्द्वस्यैक-शेषात् । तेन ह्य् असौ स्तम्भोऽद्वितीयः स-द्वितीयो वासौ रोमाञ्चोऽद्वितीयः स-द्वितीयो वा, कम्पो वासौ चाद्वितीयोऽथवा स-द्वितीय इति गम्यते । अमी आनीयन्ताम् इतिवत् । ततश् चामीषु भावेषु यः कश्चिद् अद्वितीयो स-द्वितीयो वा भवत्व् इत्य् अर्थः । अपह्नोतुम् इत्य् अपकृष्टेन रत्य्-आद्य्-उदासीनेन भावेन निह्नोतुं गोपयितुं शक्या इत्य् अर्थः । रत्य्-अन्तरङ्ग-भावेन तु समुद्भूतवतीनां अपि दृश्यते ।
न्यरुन्धन्न् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते । निर्यात्य् अगारान् नोऽभद्रम् इति स्याद् बान्धव-स्त्रियः ॥ [भा।पु। १.१०.१४] इत्य् अत्र ॥७१-७२॥
मुकुन्दः : अमी इति । बहु-वचनम् अत्र प्रतिव्यक्ति प्राधान्यस्य विवक्षया । तच्-चेतरेतर-योग-द्वन्द्वैक-शेषात् । तेन ह्य् असौ चासौ चासौ चाद्वितीयोऽथवा स-द्वितीय इति गम्यते । अमी आनीयन्ताम् इतिवत् । ततश् च अमीषु भावेषु यः कश्चिद् अद्वितीयो वा स-द्वितीयो वा भवत्व् इत्य् अर्थः ॥७१॥
**विश्वनाथः : **अमी स्तम्भादयो भावा अद्वितीया एक एव स्तम्भ इत्य् अर्थः । पुरोधा पुरोहितः । अघहरां कृष्णस्य कीर्तिम् आकर्णयन् सन् अश्रु-विशिष्टोऽभूत् । यष्टा यज्ञ-कर्ता तादृश-कपोल-विशिष्टां प्रस्विन्न-नासिकं च मुखम् उवाह ॥७१-७२॥
—ओ)०(ओ—
॥ २.३.७३-७४ ॥
अथ ज्वलिताः—
ते द्वौ त्रयो वा युगपद् यान्तः सुप्रकटां दशाम् ।
शक्याः कृच्छ्रेण निह्नोतुं ज्वलिता इति कीर्तिताः ॥
यथा—
**न गुञ्जाम् आदातुं प्रभवति करः कम्प-तरलो
दृशौ सास्रे पिञ्छं न परिचिनुतं सत्वर-कृति ।
क्षमाव् ऊरू स्तब्धौ पदम् अपि न गन्तुं तव सखे
वनाद् वंशी-ध्वाने परिसरम् अवाप्ते श्रवणयोः ॥
श्री-जीवः : **ते सात्त्विका द्वौ वा त्रयो वा भूत्वा ॥७३॥ सत्वर-कृति यथा स्यात् तथा न गुञ्जाम् आदातुं प्रभवतीत्य् आदिना विलम्बेन प्रभवति इति प्राप्ते कम्पादेः कृच्छ्रेण निह्नोतुचक्यत्वम् आयाअं, प्रार्थितम् अपीति पाठ्यस् त्यक्तम् ॥७४॥
मुकुन्दः : प्रार्थितम् अपि वाञ्छितम् अपि भावानां कृच्छ्रं निह्नवानुपादानेऽपि ज्वलितत्वम् एवेति बोधनाय न गुञ्जाम् इत्य् उदाहृतम् ॥७४॥
**विश्वनाथः : **ते सात्त्विका द्वौ वा त्रयो वा भूत्वा ॥७३॥ सत्वर-कृति यथा स्यात् तथा न गुञ्जाम् आदातुं प्रभवतीत्य् आदिना विलम्बेन प्रभवति इति प्राप्ते कम्पादेः कृच्छ्रेण निह्नोतुं शक्यत्वम् आयाअं, प्रार्थितम् अपीति पाठ्यस् त्यक्तम् ॥७४॥
—ओ)०(ओ—
॥ २.३.७५ ॥
यथा वा—
निरुद्धं बाष्पाम्भः कथम् अपि मया गद्गद-गिरो
ह्रिया सद्यो गूढाः सखि विघटितो वेपथुर् अपि ।
गिरि-द्रोण्यां वेणौ ध्वनति निपुणैर् इङ्गित-मये
तथाप्य् ऊहाञ्चक्रे मम मनसि रागः परिजनैः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः : **गिरि-द्रोण्यां गिर्योः सन्धौ ॥७५॥
—ओ)०(ओ—
॥ २.३.७६-७७ ॥
अथ दीप्ताः—
प्रौढां त्रि-चतुरा व्यक्तिं पञ्च वा युगपद्-गताः ।
संवरीतुम् अशक्यास् ते दीप्ता धीरैर् उदाहृताः ॥
यथा—
**न शक्तिम् उपवीणने चिरम् अधत्त कम्पाकुलो
न गद्गद-निरुद्ध-वाक् प्रभुर् अभूद् उपश्लोकने ।
क्षमोऽजनि न वीक्षणे विगलद्-अश्रु-पुरः पुरो
मधु-द्विषि परिस्फुरत्य् अवशम्-मूर्तिर् आसीन् मुनिः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **उपवीणने वीणयोपगानने उपश्लोकेन श्लोकैर् उपस्तवने ॥७७॥
विश्वनाथः : कम्पाकुलः सम् उपवीणने वीणाया गाने शक्तिं न अधत्त ॥७७॥** **
—ओ)०(ओ—
॥ २.३.७८ ॥
यथा वा—
किम् उन्मीलत्य् अस्रे कुसुमज-रजो गञ्जसि मुधा
स-रोमाञ्चे कम्पे हिमम् अनिलम् आक्रोशसि कुतः ।
किम् ऊरु-स्तम्भे वा वन-विहरणं द्वेक्षि सखि ते
निराबाधा राधे वदति मदनाधिं स्वर-भिदा ॥
श्री-जीवः : किम् इति कथम् इत्य् अर्थः । किं विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमि इत्य् आदिषु दर्शनात् । मुधेति सर्वत्र योज्यम् । राधे इति सम्बोध्य तन्-नाम्नैव तस्या कृष्ण-भावत्व-प्रसिद्धि-व्यञ्जनया तद्-धेतुक-मदनाधित्वं स्फूटीकृतं । निराबाधा छलेन नान्यथा कर्तुम् अशक्या ॥७८॥
मुकुन्दः : किम् इति प्रश्ने । आक्रोशसि शपसि । निराबाधा कापट्येनान्यथा कर्तुम् अशक्या । अत्र अस्राद्या मुरली-शब्द-श्रवणाज् जाता बोध्याः ॥७८॥
**विश्वनाथः : **स्वर-भिदा एव मदनाधिं वदति ॥७८॥
—ओ)०(ओ—
॥ २.३.७९-८० ॥
अथ उद्दीप्ताः—
एकदा व्यक्तिम् आपन्नाः पञ्च-षाः सर्व एव वा ।
आरूढा परमोत्कर्षम् उद्दीप्ता इति कीर्तिताः ॥
यथा—
**अद्य स्विद्यति वेपते पुलकिभिर् निस्पन्दताम् अङ्गकैर्
धत्ते काकुभिर् आकुलं विलपति म्लायत्य् अनल्पोष्मभिः ।
स्तिम्यत्य् अम्बुभिर् अम्बक-स्तब्वकितैः पीताम्बरोड्डामरं
सद्यस् तद्-विरहेण मुह्यति मुहुर् गोष्ठाधिवासी जनः ॥
श्री-जीवः : **अम्बक-स्तब्वकितैर् नेत्रेषु स्थिरत्वात् स्तब्वकवद् आचरद्भिः । स्तिम्यति तद्-अंशेन पतता आर्द्रीभवति । उड्डामरः उद्भटं यथा स्यात् तथा ॥८०॥
**मुकुन्दः : **अम्बक-स्तब्वकितैर् नेत्रेषु स्थिरत्वात् स्तब्वकवद् आचरद्भिर् इति अश्रूणां स्थूलता शीघ्र-पातिता च । तिम्यति क्लिन्नी-भवति । उड्डामरम् उद्भटं यथा स्यात् तथा ॥८०॥
**विश्वनाथः : **उड्डामरम् उद्भटं यथा स्यात् तथा । मुहुर् मुह्यति । पुलकिभिर् अङ्गकैर् वेपते । काकुभिर् विलपति । अम्बके नेत्रे स्तब्वकितैर् नेत्रेषु स्थिरत्वात् स्तब्वकवद् आचरद्भिः स्तिम्यति आर्द्रीभवति ॥८०॥
—ओ)०(ओ—
॥ २.३.८१-८३ ॥
उद्दीप्ता एव सूद्दिप्ता महा-भावे भवन्त्य् अमी ।
सर्व एव परां कोटिं सात्त्विका यत्र बिभ्रति ॥
किं च—
अथात्र सात्त्विकाभासा विलिख्यन्ते चतुर्-विधाः ॥
रत्य्-आभास-भवास् ते तु सत्त्वाभास-भवास् तथा ।
निःसत्त्वाश् च प्रतीपाश् च यथा-पूर्वम् अमी वराः ॥
श्री-जीवः : सात्त्विकवद् आभासन्ति प्रतीयन्ते, न तु वस्तुतस् तथा भवन्तीति शब्देनैव लक्षणम् आयातम् इतीत्थं तद्-भेदान् एव गणयति—चतुर्विधा इति । रतेः प्रतिबिम्बत्वे छायात्वे च सति रत्य्-आभास-भवत्वं । मुद्-विस्मयाद्य्-आभास-मात्राक्रान्त-चित्तत्वे सत्त्वाभास-भवत्वम् । मुद्-विस्मयाद्य्-आभासस्याप्य् अन्तरास्पर्शे बहिर् अप्य् अस्पर्शे निःसत्त्वत्वम् । प्रतीपास् तु विरोधि-भाव-भवत्वात् द्वेष्या एवेति भावः॥८२-८३॥
मुकुन्दः : सात्त्विकाभासा इति । सात्त्विकवद् आभासन्ति प्रतीयन्ते, न तु वस्तुतस् तथा भवन्तीति सामान्य-लक्षणम् । स्पष्टम् एव ॥८२॥
**विश्वनाथः : **रतेः प्रतिबिम्बत्वे छायात्वे च सति रत्याभास-भवत्वं । मुद्-विस्मयाद्य्-आभास-मात्राक्रान्त-चित्तत्वे सत्त्वाभास-भवत्वम् । मुद्-विस्मयाद्य्-आभासस्याप्य् अन्तःकरणास्पर्शे बहिर् अप्य् अस्पर्शे निःसत्त्वत्वम् । प्रतीपास् तु विरोधि-भाव-भवत्वात् द्वेष्या एवेति भावः॥८२-८३॥
—ओ)०(ओ—
॥ २.३.८४-८५ ॥
तत्र्आद्याः—
मुमुक्षु-प्रमुखेष्व् आद्या रत्य्-आभासात् पुरोदितात् ॥
यथा—
वाराणसी-निवासी कश्चिद् अयं व्याहरन् हरेश् चरितम् ।
यति-गोष्ठ्याम् उत्पुलकः सिञ्चति गण्ड-द्वयीम् अस्रैः ॥
श्री-जीवः : वाराणसी- इति । तत्र तन्-निवासादिना मुमुक्षुत्वं गम्यते ॥८५॥
मुकुन्दः : पुरोदितात् प्रतिबिम्बस् तथा छाया-रत्य्-आभासौ द्विधा मतः [भ।र।सि। १.३.४५] इति ॥ **वाराणसी-निवासी **इति यति-गोष्ठ्याम् इति च मुमुक्षुता-द्योतकम् ॥८४-८५॥
विश्वनाथः : वाराणसी- इति । वाराणसीति । अत्र तन्-निवासादिना मुमुक्षुत्वं गम्यते । मुमुक्षुषु मोक्षेच्छया भजनं कुर्वत्सु ॥८५॥
—ओ)०(ओ—
॥ २.३.८६-८७ ॥
अथ सत्त्वाभास-भवाः—
मुद्-विस्मयादेर् आभासः प्रोद्यन् जात्या श्लथे हृदि ।
सत्त्वाभास इति प्रोक्तः सत्त्वाभास-भवास् ततः ॥
यथा—
जरन्-मीमांसकस्यापि शृण्वतः कृष्ण-विभ्रमम् ।
हृष्टायमान-मनसो बभूवोत्पुलकं वपुः ॥
श्री-जीवः : भावाक्रान्त-चित्तस्यैव सत्त्वतया सङ्केतितत्वान् मुद्-विस्मयादेर् आभासो यस्मिंस् तच्- चित्तम् इति वक्तव्ये मुद्-आद्य्-आभास एव सत्त्वाभास इत्य् उक्तिस् तत्-कारणतातिशय-विवक्षया ।, आयुर् घृतम् इतिवत् ॥८६॥
**मुकुन्दः : न व्याख्यातम् ।।
विश्वनाथः : **भावाक्रान्त-चित्तस्यैव सत्त्वतया सङ्केतितत्वान् मुद्-विस्मयादेर् आभासो यद्य् अस्मिंस् तच्-चित्तम् इति वक्तव्ये मुद्-आद्य्-आभास एव सत्त्वाभास इत्य् उक्तिस् तत्-कारणतातिशय-विवक्षया । आयुर् घृतम् इतिवत् ॥८६॥ जरन्-मीमांसकस्य भक्ति-रहितस्य ॥८७॥
—ओ)०(ओ—
॥ २.३.८८ ॥
यथा वा—
मुकुन्द-चरितामृत-प्रसर-वर्षिणस् ते मया
कथं कथन-चातुरी-मधुरिमा गुरुर् वर्ण्यताम् ।
मुहूर्तम् अतद्-अर्थिनोऽपि विषयिणोऽपि यस्याननान्
निशम्य विजयं प्रभोर् दधति बाष्प-धाराम् अमी ॥८८॥
श्री-जीवः : मुकुन्द- इएति । अमी इति सद्य एवागतत्वं व्यञ्जयति ॥८८॥
मुकुन्दः : अमी इति विषय-निष्ठत्वेन प्रसिद्धा एवेति ध्वनितम् ॥८८॥
विश्वनाथः : मुकुन्द-चरितामृतस्य समूह-वर्षिणस् तव गुरुः कथन-चातुर्य-मधुरिमा मया कथं वर्ण्यताम् । यस्य तव आननात् प्रभोः श्री-कृष्णस्य विजयं निशम्य श्रुत्वा अमी जना विषयिणः, तत्रापि न तस्मिन् कथा-श्रवणेऽर्थिनोऽपि मुहूर्तं व्याप्य बाष्प-धारां दधति ॥८८॥
—ओ)०(ओ—
॥ २.३.८९ ॥
अथ **निःसत्त्वाः—
निसर्ग-पिच्छिल-स्वान्ते तद्-अभ्यास-परेऽपि च ।
सत्त्वाभासं विनापि स्युः क्वाप्य् अश्रु-पुलकादयः ॥
श्री-जीवः : **उपरि श्लथम् अन्तः कठिनं पिच्छिलं, तद्-रूपत्वान् न कुत्रापि स्थिरम् । श्लथत्वं त्व् अन्तर्-बहिर् अप्य् अकठिनं तद्-रूपत्वाद् रूपत्वात्, यत्र कुत्रापि संसज्जमानम् इति भेदः । तत्र सति, निसर्गेति निसर्ग- इति व्याख्यायते । यः कोऽपि निसर्ग-पिच्छिल-स्वान्तो भवति । सात्त्विकोदयार्थं धारणा-विशेषेण आभ्यासअभ्यास-परोऽपि भवति, तस्मिन् सत्त्वाभासं विनाप्य् अश्रु-पुलकादयो भवन्ति । बहिर्-अन्तः-कठिनेषु तद्-अभ्यासएनापि तु भवतीत्य् एवार्थः । सत्त्वाभासं विनापि इत्य् अस्य निसर्गेत्य् अनेनान्वये धारणा-विशेषस्यापेक्ष्यस्य विशेषणत्वापातान् न पृथक् घटत इति । अत एवास्योदाहरणम् एकम् एव करिष्यते । निःसत्त्वानाम् एषां सात्त्विकाभासे गणना त्व् अज्ञेषु सात्त्विकवद् आभासस् ते इत्य् अपेक्षया ॥८९॥
मुकुन्दः- पिच्छिलम् उपरि- कोमलम् अन्तः कठिनं, तद्-रूपत्वान् न कुत्रापि स्थिरम् । श्लथत्वं त्व् अन्तर्-बहिर् अप्य् अकठिनं, तद्-रूपत्वाद् यत्र कुत्रापि संसज्जमानम् इति भेदः ॥८९॥
विश्वनाथः : निसर्गात् स्वभावत एव पिच्छिलम् अन्तःकरणं यस्य, तस्मिन् रोदन्आभ्यास-परेऽपि । उपरि श्लथम् अन्तः कठिनं नांअ पिच्छिलत्वम् । तद्-रूपत्वान् न क्वापि स्थिरम् । श्लथत्वं त्व् अन्तर्-बहिर् अप्य् अकाठिन्यं तद्-रूपत्वाद् यत्र कुत्रापि संसज्ज्यमानम् इति द्वयोर् भेदः ॥८९॥
—ओ)०(ओ—
॥ २.३.९० ॥
यथा—
**निशमयतो हरि-चरितं न हि सुख-दुःखादयोऽस्य हृदि भावाः ।
अनभिनिवेशाज् जाता कथम् अस्रवद् अस्रम् अश्रान्तम् ॥
श्री-जीवः : ** निशमयत इति । अनभिनिवेशात् पिच्छिलत्वान् नहि भावा जाताः । अनभिनिवेशस् तु मयास्य मुहुर् एवानुभूतोऽस्तीति भावः । तथापि “कथम् अस्रम् अश्रान्तम् अस्रवद् ?” इति यद् उक्तं, तत् खल्व् अभ्यास-परत्वाद् एवेति व्यञ्जितम् ॥९०॥
मुकुन्दः : सुख-दुःखादयो नहीति नहि इति सत्त्वस्याभासस्याभावत्वम् ॥९०॥
विश्वनाथः : अश्रान्तं सततम् । अस्रं नेत्र-जलम् ॥९०॥
–ओ)०(ओ–
॥ २.३.९१ ॥
प्रकृत्या शिथिलं येषां मनः पिच्छिलम् एव वा ।
तेष्व् एव सात्त्विकाभासः प्रायः संसदि जायते ॥
श्री-जीवः : संसद्य् एवेत्य् अन्वयः । प्राय इति शिथिलस्यान्यत्रापि सम्भवात् । शिथिलं श्लथं संसदि महोत्सव-कीर्तन-सभायाम् ॥९१॥
मुकुन्दः : शिथिलं श्लथम् । सात्त्विकाभासस् त्रिधोक्तः । संसदि महोत्सव-कीर्तन-सभायाम् । प्राय इति शिथिल-मनसोऽन्यत्रापि सम्भवात् ॥९१॥
विश्वनाथः : संसदि महोत्सव-कीर्तन-सभायाम् ॥९१॥
–ओ)०(ओ–
॥ २.३.९२ ॥
अथ प्रतीपाः—
हिताद् अन्यस्य कृष्णस्य प्रतीपाः क्रुद्-भयादिभिः ॥
श्री-जीवः : कृष्णस्य हिताद् अन्यत्र वैरि-प्रभृतिषु क्रुद्-भयादिभिर् हेतुभिः सात्त्विकाभासाः प्रतीपाः स्युर् इत्य् अर्थः ॥९२॥
**मुकुन्दः : **कृष्णस्य हिताद् अन्यत्र वैरि-तत्-सुहृत्-पक्षा ये ते प्रतीपाः स्युर् इत्य् अर्थः ॥९२॥
**विश्वनाथः : **कृष्णस्य हितात् अन्यत्र असुरे ॥९२॥
–ओ)०(ओ–
॥ २.३.९३ ॥
तत्र क्रुधा, यथा हरि-वंशे (२.३०.६३)14—
तस्य प्रस्फुरितौष्ठस्य रक्ताधर-तटस्य च ।
वक्त्रं कंसस्य रोषेण रक्त-सूर्यायते तदा ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
–ओ)०(ओ–
॥ २.३.९४ ॥
भयेन, यथा—
म्लानाननः कृष्णम्15** अवेक्ष्य रङ्गे
सिष्वेद मल्लस् त्व् अधि-भाल-शुक्ति ।
मुक्ति-श्रियां सुष्ठु पुरो मिलन्त्याम्
अत्यादरात् पाद्यम् इवाजहार ॥
श्री-जीवः :** म्लानानन इति । मुक्ति-श्रियाम् इत्य् इत्य्-आदिना तस्माद् भीतस् तम् एव शरणम् आश्रितवान् इति ध्वनितम् । “म्लानास्य-ओ गोविन्दम्” इत्य् इत्य्-आदि पाठान्तर-पद्यं त्यक्तम् ॥९४॥
**मुकुन्दः : **म्लानास्येति16 । गोविन्दम् अवेक्ष्य म्लानास्यः । ललाटम् एव शुकितिः मुक्ता-स्फोटः, सैव कर्त्री तत्र मुक्ति-श्रियाम् आदरात् ॥९४॥
विश्वनाथः : रङ्ग-भूमौ कृष्णम् अवेक्ष्य म्लानाननो मल्लः अधि-भाल-शुक्तिः कपाल-रूप-शुक्तौ विभक्त्य्-अर्थेऽव्ययीभावः पाद्य-पाद्रे सिष्वेद । उत्प्रेक्षाम् आह—मुक्ति-श्रियां पुरो मिलन्त्यां सत्यां अत्यादरात् पाद्यम् इव आजहार ॥९४॥
–ओ)०(ओ–
॥ २.३.९५ ॥
यथा वा—
प्रवाच्यमाने पुरतः पुराणे
निशम्य कंसस्य भयातिरेकम् ।
परिप्लवान्तःकरणः समन्तात्
परिम्लान-मुखस् तदासीत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : कथं केन प्रवाच्यमाने पुराणे कंसस्य भयातिरेकं निशम्य कश्चिद् आसुर-स्वभावः परिप्लवान्तःकरणः क्षुब्धान्तःकरणः तदा प्रविम्लान-मुख आसीत्॥९५॥
–ओ)०(ओ–
॥ २.३.९६ ॥
नास्त्य् अर्थः सात्त्विकाभास-कथने कोऽपि यद्यपि ।
सात्त्विकानां विवेकाय दिक् तथापि प्रदर्शिता ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
–ओ)०(ओ–
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे
सात्त्विक-लहरी तृतीया
॥ २.३ ॥
(२.४)
व्यभिचार्याख्या चतुर्थ-लहरी
॥ २.४.१-२ ॥
अथोच्यन्ते त्रयस्-त्रिंशद्-भावा ये व्यभिचारिणः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥
वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ।
सञ्चारयन्ति भावस्य गतिं सञ्चारिणोऽपि ॥
श्री-जीवः : वाचा अङ्गेन भ्रू-नेत्रादिना सत्त्वेन च सत्त्वोत्पन्नेनानुभावेन सत्त्वोत्पन्नेन अनुभावेन सूच्या ज्ञाप्याः ॥१-२॥
मुकुन्दः : वाग्-अङ्ग-सत्त्व-सूच्याः वाचा अङ्गेन कर-भ्रू-नेत्रादिना सत्त्वेन सत्त्वोत्पन्नेनाभावेन सत्त्वोत्पन्नेन अनुभावेन सूच्याः अवबोध्याः ॥१-२॥
विश्वनाथः : व्यभिचारि-पदस्यावयव-व्युत्पत्त्या लक्षणम् आह-—विशेषेण एति इति । विशेषेणाभिमुख्येन विशेष-साहाय्येन ये भावाः स्थायिनं प्रति चरन्ति । अथ च वचसा अङ्गेन वा सत्त्वेनान्तःसत्त्वेन अन्तः-करण-धर्मेण वा सूच्याः सूचितास् ते व्यभिचारिणो ज्ञेयाः । एवं ते भावाः सञ्चारि-पदेनाप्य् उच्यन्ते । अतस् तत्-पदस्यापि अवयव-व्युत्पत्त्या लक्षणम् आह—सञ्चारयन्तीति सञ्चारयन्ति इति ॥१-२॥
—ओ)०(ओ—
॥ २.४.३ ॥
**उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अमृत-वारिधौ ।
ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥
श्री-जीवः : **कुत्र किंवत् ? अमृत-वारिधाव् ऊर्मिवद् इति पश्चाद् एव योजनीयम् ॥३॥
**मुकुन्दः : **स्थायिनि अम्बु-निधाव् इव स्थिते ऊर्मिवत् स्थिता भावाः । उपमितस्याकर्षणात् उन्मज्जनाद् वर्धयन्ति, निम्मजनात् तद्-रूपतां च यान्ति । अनेकेवेयम् उपमा ॥३॥
**विश्वनाथः : **उन्मज्जन्तीति—ऊर्मिर् यथा समुद्राद् उत्पद्य समुद्रम् एव वर्धयति, पश्चात् तत्रैव लीनो भवति, तद्वत् व्यभिचारि-भावा अपि स्थायिनः सकाशाद् उत्पद्य एनं वर्धयन्ति, पश्चात् तत्रैव लीना भवन्तीत्य् अर्थः ॥३॥
—ओ)०(ओ—
॥ २.४.४-६ ॥
निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥
औग्र्यामर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.७ ॥
तत्र (१) निर्वेदः—
महार्ति-विप्रयोगेर्ष्या-सद्-विवेकादि-कल्पितम् ।
स्वावमाननम् एवात्र निर्वेद इति कथ्यते ।
अत्र चिन्ताश्रु-वैवर्ण्य-दैन्य-निःश्वसितादयः ॥७॥
श्री-जीवः : सद्-विवेकोऽत्राकर्तव्यस्य कृतत्वे कर्तव्यस्य चाकृतत्वे शोचन-मयो ज्ञेयः ॥७॥
मुकुन्दः : महार्तिर् ह्य् अत्र शोकजा ॥७॥
विश्वनाथः : महार्त्य्-आदिभिः कल्पितं स्वस्यावमाननम् स्वस्य अवमाननम् एव निर्वेदः । अत्र चिन्तादयो निर्वेद-जन्याः । सद्-विवेकोऽत्राकर्तव्यस्य कृतत्वे कर्तव्यस्य चाकृतत्वे शोचन-मयो ज्ञेयः॥७॥
—ओ)०(ओ—
॥ २.४.८ ॥
तत्र महार्त्या, यथा—
हन्त देह-हतकैः किम् अमीभिः
पालितैर् विफल-पुण्य-फलैर् नः ।
एहि कालिय-ह्रदे विष-वह्नौ
स्वं कुटुम्बिनि हठाज् जुहवाम ॥
श्री-जीवः : न इति द्वित्वेऽपि बहु-वचनं, अस्मदो द्वयोश् च [पा। १.२.५९] इति पाणिनि-स्मरणात् । देह-हतकैर् इत्य् अत्र तु बहु-वचनं बहु-जन्मतापेक्षया ॥८॥
मुकुन्दः : न इति द्वित्वेऽपि बहु-वचनं, अस्मदो द्वयोश् च [पा। १.२.५९] इति सूत्रात् । हठाद् वारकान् पराभूयेत्य् अर्थः ॥८॥
**विश्वनाथः : **कुत्सितो हतो हतकः । एवम्-भूतैर् देहैः किं प्रयोजनम् ? हे कुटुम्बिनि यशोदे ! एहि स्वं देहं वह्नौ जुहवाम । न इति बहु-वचनं, अस्मदो द्वयोश् च [पा। १.२.५९] इति पाणिनि-स्मरणात् । देह-हतकैर् इत्य् अत्र बहु-जन्मतापेक्षया ॥८॥
—ओ)०(ओ—
॥ २.४.९ ॥
विप्रयोगेण, यथा—
असङ्गमान् माधव-माधुरीणाम्
अपुष्पिते नीरसतां प्रयाते ।
वृन्दावने शीर्यति हा कुतोऽसौ
प्राणित्य् अपुण्यः सुबलो द्विरेफः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : वृन्दावने माधवस्य श्री-कृष्णस्य माधुरीणाम् असङ्गमात् शीर्यति विदीर्णत्वं प्राप्नुवति सति असौ मल्-लक्षणः द्विरेफो मूर्खः । भ्रमर-पक्षे माधवो वसन्तः॥९॥
विश्वनाथः : सुबल-रूपो द्विरेफो बर्बरः माधवस्य श्री-कृष्णस्य माधुरीणाम् असङ्गमात् अपुष्पिते वृन्दावने कथं प्राणिति जीवति ? पक्षे, द्विरेफो भ्रमरः, माधवो वसन्तः ॥९॥
—ओ)०(ओ—
॥ २.४.१० ॥
यथा वा, दान-केलि-कौमुद्याम् (२०)—
**भवतु माधव-जल्पम् अशृण्वतोः
श्रवणयोर् अलम् अश्रवणिर् मम ।
तम् अविलोकयतोर् अविलोचनिः
सखि विलोचनयोश् च किलानयोः ॥
श्री-जीवः : **अश्रवणिर् इत्य् इत्य्-आदि-रूपम्, आक्रोशे नञ्य् अनिः [पा। ३.३.११२] ॥१०॥
**मुकुन्दः : **अश्रवणिर् इत्य् इत्य्-आदि-रूपम्, आक्रोशे नञ्य् अनिः [पा। ३.३.११२] इत्य् अनि-प्रत्ययात् वधिरत्वम् अविलोक-निरान्ध्यम् ॥१०॥
विश्वनाथः : माधव-जल्पम् अशृण्वतोर् मम कर्णयोर् अश्रवणिर् वाधिर्यं भवतु । एवं लोचनयोर् अविलोक-निर् आन्ध्यं भवतु ॥१०॥
—ओ)०(ओ—
॥ २.४.११ ॥
ईर्ष्यया, यथा हरि-वंशे (२.६७.११)17 सत्यादेवी-वाक्यम्—
**स्तोतव्या यदि तावत् सा नारदेन तवाग्रतः ।
दुर्भगोऽयं जनस् तत्र किम् अर्थम् अनुशब्दितः ॥
श्री-जीवः : सा **रुक्मिणी । अयं मल्-लक्षणः ॥११॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **हे कृष्ण ! तवाग्रतः सा रुक्मिणी किम्-अर्थं तेन मुनिना शब्दितः ? सत्यभामाया एतादृश-सौभाग्यं नास्तीति शब्द-प्रयोगः कथं कृतः ? ॥११॥
—ओ)०(ओ—
॥ २.४.१२ ॥
सद्-विवेकेन, यथा श्री-दशमे (१०.५१.४७४८)—
ममैष कालोऽजित निष्फलो गतो
राज्य-श्रियोन्नद्ध-मदस्य भूपतेः ।
मर्त्यात्म-बुद्धेः सुत-दार-कोष-भूष्व्
आसज्जमानस्य दुरन्त-चिन्तया ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : ममैष इति मुचुकुन्द-वाक्यम् ॥१२॥
—ओ)०(ओ—
॥ २.४.१३ ॥
अमङ्गलम् अपि प्रोच्य निर्वेदं प्रथमं मुनिः ।
मेनेऽमुं स्थायिनं शान्त इति जल्पन्ति केचन ॥
श्री-जीवः : केचनेति केचन इति । स्व-मते तु **शान्त-**रसे शान्त्याख्याया रतेर् एव स्थायि-भावत्वात् । अत्र तु निर्वेदस्य प्रथमोक्तिर् मुनि-वचनानुवाद-रूपत्वाद् इति भावः ॥१३॥
मुकुन्दः : केचन इति । केचनेति । स्व-मते तु शान्त-रसे शान्त्याख्याया रतेर् एव स्थायि-भावत्वात् । अत्र तु निर्वेदस्य प्रथमोक्तिः स्थायि-वृद्धि-करेत्य् अमङ्गल-शङ्काप्य् अनुचितेति मुन्य्-अभिप्राय-विधानार्थः ॥१३॥
**विश्वनाथः : **ननु व्यभिचारि-गमनायाम् अमङ्गलस्य निर्वेदस्य प्रथमतः कथं गणना कृता ? तत्राह—अमङ्गलम् इति । मुनिस् तं प्रथमं प्रोच्य शान्त-रसे अमुं निर्वेदं स्थायिनं मेने । तथा च तस्या अमङ्गलत्वेऽपि स्थायि-भावत्वेन प्राधान्यात् । प्रथमत उक्तिः सङ्गतेति भावः । अत्र तु निर्वेदस्य प्रथमोक्तिस् तु मुनि-वचनानुवाद-रूपत्वाद् इति भावः ॥१३॥
—ओ)०(ओ—
॥ २.४.१४-१५ ॥
अथ (२) विषादः—
इष्टानवाप्ति-प्रारब्ध-कार्यासिद्धि-विपत्तितः ।
अपराधादितोऽपि स्याद् अनुतापो विषण्णता ॥
अत्रोपाय-सहायानुसन्धिश् चिन्ता च रोदनम् ।
विलाप-श्वास-वैवर्ण्य-मुख-शोषादयोऽपि च ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१६ ॥
तत्र इष्टानवाप्तितो, यथा—
जरां याता मूर्तिर् मम विवशतां वाग् अपि गता
मनो-वृत्तिश् चेयं स्मृति-विधुरता-पद्धतिम् अगात् ।
अघ-ध्वंसिन् दूरे वसतु भवद्-आलोकन-शशी
मया हन्त प्राप्तो न भजन-रुचेर् अप्य् अवसरः ॥
श्री-जीवः : विधुरता रहितत्वम् ॥१६॥
मुकुन्दः : विधुरता रहितत्वम् । अघअ-ध्वंसिन् ! दुःख-नाशक ! अघं दुरित-दुःखयोर् इति विश्वः ॥१६॥
विश्वनाथः : मूर्तिर् जरां प्राप्ता, तेन वृन्दावनादौ गमन-सामर्थ्यं गतम् । मनो-वृत्तिश् च भवत्-स्मृतेर् विधुरता-पदवीम् पद्धतिम् अभाव-पदवीम् अगात् । हे अघ-ध्वंसिन् ! भवद्-आलोकन-रूप-चन्द्रो दूरे वसतु, किन्तु भजनेत्य् भजन इत्य्-आदि ॥१६॥
—ओ)०(ओ—
॥ २.४.१७ ॥
प्रारब्ध-कार्यासिद्धेः, यथा—
स्वप्ने मयाद्य कुसुमानि किलाहृतानि
यत्नेन तैर् विरचिता वन-मालिका च ।
यावन् मुकुन्द-हृदि हन्त निधीयते सा
हा तावद् एव तरसा विरराम निद्रा ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : हन्त हर्षे, हा विषादे ॥१७॥
—ओ)०(ओ—
॥ २.४.१८ ॥
विपत्तेः, यथा—
**कथम् अनायि पुरे मयका सुतः
कथम् असौ न निगृह्य गृहे धृतः ।
अमुम् अहो बत दन्ति-विधुन्तुदो
विधुरितं विधुम् अत्र विधित्सति ॥
श्री-जीवः : **कथम् अनायीति श्री-व्रजेन्द्र-वचनं, तच् च मञ्चानाम् अत्युच्चत्वेन दूरेऽपि दर्शन-सम्भवात् । विधुरितं दुःखितं विधितसति कर्तुम् इच्छति । हरिर् इत्य् आदि इत्य्-आदि पाठान्तरं त्यक्तम् ॥१८॥
**मुकुन्दः : **हरिर् अनायीत्य् उच्च-मञ्चस्थस्य श्री-नन्दस्य वचनम् । किं जुगुप्सायाम् । अत्र नीतोऽयं यत् तन् निन्दितं कृतम् इत्य् अर्थः । किं विकल्पे । विधु-शब्दस्य चन्द्र-परोऽर्थो वाच्य-सिद्धाङ्ग-व्यङ्ग्यः । मरणं च जलद-भुज-गजं प्रसह्य कुरुते विषं वियोगिनीनाम् इतिवत् । विधुरितं दुःखितं विधित्सति कर्तुम् इच्छति ॥१८॥
**विश्वनाथः : **कथम् अनायीति श्री-व्रजेन्द्र-वचनम् । अमुं श्री-कृष्ण-रूप-विधुं तुदति विधुन्तुदः कुवलयापीड-हस्ति-रूप-राहुः विधुरितं दुःखितं विधितसति कर्तुम् इच्छति ॥१८॥
—ओ)०(ओ—
॥ २.४.१९ ॥
अपराधात्, यथा श्री-दशमे (१०.१४.९)—
**पश्येश मेऽनार्यम् अनन्त आद्ये
परात्मनि त्वय्य् अपि मायि-मायिनि ।
मायां वितत्येक्षितुम् आत्म-वैभवं
ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥
श्री-जीवः : **आर्यः सुजनस् सुजनः, तस्य भाव आर्यं, अतस् तद्-विपरीतं दौर्जन्यम् अनार्यम् । किं तत्? आत्मनस् तव वैभवं माहात्म्यम् ईक्षितुम् ऐच्छं यत्, द्रष्टुं मञ्जु महित्वम् [भा।पु। १०.१३.१५] इत्य् इत्य्-उक्तेः । नन्व् एवं चेत्, तर्हि को दोषस् दोषः ? तत्राह—त्वन्-माहात्म्यं द्रष्टुं तत्रापि मायां वितत्य द्रष्टुं कियान् को वराकोऽहम् इत्य् अर्थः । कियत्त्वे दृष्टान्तः—अग्नौ अर्चिर् इवेति इव इति ॥१९॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : पश्येशेति पश्येश इति ब्रह्म-वाक्यम् ॥१९॥
—ओ)०(ओ—
॥ २.४.२० ॥
यथा वा—
स्यमन्तकम् अहं हृत्वा गतो घोरास्यम् अन्तकम् ।
करवै तरणीं कां वा क्षिप्तो वैतरणीयम् अनु ॥
श्री-जीवः : स्यमन्तकम् अहम् इति अक्रूर-चिन्ता । कां वेत्य् वा ? इत्य् अत्र तु “किं वेति वा” इति पाठः सभ्यः॥२०॥
मुकुन्दः : स्यमन्तकम् अहम् इति अक्रूरस्य वचनम् । तत्रार्धे विवादः, उत्तरार्धे सहर्षानुसन्धिः । वैतरणीं लक्ष्यीकृत्य काम् इति विधेय-लिङ्ग-ग्रहणात् स्त्रीत्वम् ॥२०॥
विश्वनाथः : घोरम् आस्यं मुखं यस्य तम् अन्तकं गतः । अत एव वैतरण्यां क्षिप्तोऽहं । किं कां (किं) वा तरणीं करवै ? ॥२०॥
—ओ)०(ओ—
॥ २.४.२१-२२ ॥
अथ (३) दैन्यम्—
दुःख-त्रासापराधाद्यैर् अनौर्जित्यं तु दीनता ।
चाटु-कृन्हृन्18-मान्द्य-मालिन्य-चिन्ताङ्ग-जडिमादि-कृत् ॥
तत्र दुःखेन, यथा श्री-दशमे (१०.५१.५७)—
चिरम् इह वृजिनार्तस् तप्यमानोऽनुतापैर्
अवितृष-षड-मित्रो लब्ध-शान्तिः कथञ्ङ्चित् ।
शरणद समुपेतस् त्वत्-पदाब्जं परात्मन्न्
अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥
श्री-जीवः : अनौर्जित्यम् आत्मन्य् अतिनिकृष्ट-मननम् । चाटुस् तन्मयी याच्ञा । हृदयस्य मान्द्यम् अपाटवं । मालिन्यम् अस्वाच्छ्यं । चिन्ता नाना-भावना ॥२१॥
मुकुन्दः : अनौर्जित्यम् आत्मन्य् अतिनिचताअतिनीचता-मननम् । चाटुर् दैन्य-बोधकं वचनम् । हृदो मान्द्यम् अपाटवम् ॥२१॥
विश्वनाथः : अनौर्जित्यम् आत्मन्य् अतिनिकृष्ट-मननम् ॥२१॥ चिरम् इति मुचुकुन्द-वाक्यम् ॥२२॥
—ओ)०(ओ—
॥ २.४.२३ ॥
त्रासेन, यथा प्रथमे (१.८.१०)—
**अभिद्रवति माम् ईश शरस् तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥
श्री-जीवः : **श्री-परीक्षिन्-माता तं गर्भ-स्थितं श्री-कृष्ण-सेवायाम् अर्हिष्यन्तं मत्वा स्वं तु तत्रायोग्यं मत्वा तद्-रक्षार्थं निवेदयति—अभिद्रवतीति अभिद्रवति इति । तप्तम् अग्निम् उद्गिरत् आयसं लौह-शल्यं यस्य सः ॥२३॥
मुकुन्दः : अभीति अभि- इति । तप्तम् अग्निम् उद्गिरत् आयसं लौह-शल्यं यत्र सः । वक्ष्यमाण-रत्य्-अनुस्पर्शनम् इदं दैन्यम् ॥२३॥
विश्वनाथः : अभिद्रवतीत्य् अभिद्रवति इत्य् उत्तरा-वाक्यम् । तप्तम् अग्निम् उद्गिरत् आयसं लौह-शल्यं यस्य स शरः ॥२३॥
—ओ)०(ओ—
॥ २.४.२४ ॥
अपराधेन, यथा श्री-दशमे (१०.१४.१०)—
अतः क्षमस्वाच्युत मे रजो-भुवो
ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः
अजावलेपान्ध-तमोऽन्ध-चक्षुष
एषोऽनुकम्प्यो मयि नाथवान् इति ॥
श्री-जीवः : अजो जगत्-कर्ताहम् इति मदेन गाढ-तमो-रूपेण अन्धीभूत-नेत्रस्य, अतस् तत् पृथग् ईश-मानिनः । अन्यत्र प्रभुं-मन्यत्वेन वर्तमानोऽपि । त्रयोऽहम् अनुकम्प्यः । कथं ? नाथवान् दास इत्य् एवम् । ननु, परमेष्ठिनस् तव दास्यं किम्-अर्थं ? तत्राह—मयि भगवति निमित्तं मद्-एक-प्राप्त्य्-अर्थम् इत्य् अर्थः ॥अजो जगत्-कर्ताहम् इति मदेन गाढ-तमो-रूपेण अन्धीभूत-नेत्रस्य अतस् तत् पृथग् ईश-मानिनः । अन्यत्र प्रभुम्मन्यत्वेन वर्तमानोऽपि । त्रयोऽहम् अनुकम्प्यः कथम् ? नाथवान् दास इत्य् एवम् । ननु परमेष्ठिनस् तव दास्यं किम्-अर्थम् ? तत्राह—मयि भगवति निमित्तं मद्-एक-प्राप्त्य्-अर्थम् इत्य् अर्थः ॥२४॥
मुकुन्दः : एषोऽनुकम्प्यः कथं ? नाथवान् इति दास इत्य् एव । तन् न, तव दास्यं किम्-अर्थम् ? तत्राह—मयि भगवति निमित्ते मद्-एक-प्राप्त्य्-अर्थम् इति ॥२४॥
विश्वनाथः : अतः क्षमस्वेति क्षमस्व इति ब्रह्म-वाक्यम् । रजो-गुणेन भूर्- उत्पत्तिर् यस्य तथा-भूतस्य मम अपराधं क्षमस्व । अहम् एव सृष्टि-कर्ता ईश्वर इति त्वत्तः सकाशात् पृथग्-ईश-मानिनः । तत्र हेतुः—ब्रह्माहम् अजः अजन्मा स एवावलेपः एव अवलेपः अहङ्कारः, तद्-रूपेणान्धः रूपेण अन्धः तमसा अन्धकारेण अन्धे चक्षुषी यस्य । तथाप्य् एष मल्-लक्षणो जनोऽनुकम्प्यः । तत्र प्रकारं स्वयम् एवाह—अन्यत्रेत्य् आदौ प्रभुत्वाहङ्कारवत्त्वेऽपि मयि विषये तु नाथवान् दास इति भावनया अनुकम्पा कर्तव्या ॥२४॥
—ओ)०(ओ—
॥ २.४.२५ ॥
आद्य-शब्देन लज्जयापि, यथा तत्रैव (१०.२२.१४)—
माऽनयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् ।
जानीमोऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : मानयम् इति चीर-हरण-प्रसङ्गे व्रज-सुन्दरीणां वाक्यम् ॥२५॥
—ओ)०(ओ—
॥ २.४.२६ ॥
अथ (४) ग्लानिः—
**ओजः सोमात्मकं देहे बल-पुष्टि-कृद् अस्य तु ।
क्षयाच्छम् आधि-रत्य्-आद्यैर् ग्लानिर् निष्प्राणता मता ।
कम्पाङ्ग-जाड्य-वैवर्ण्य-कार्श्य-दृग्-भ्रमणादि-कृत् ॥
श्री-जीवः : **ओजः शुक्राद् अप्य् उत्कृष्टो धातु-विशेषः ॥२६॥
**मुकुन्दः : **ओजः शुक्राद् अप्य् उत्कृष्टो धातु-विशेषः । निष्प्राणता निर्बलता ॥२६॥
**विश्वनाथः : **ओजः शुक्राद् अप्य् उत्कृष्टो धातु-विशेषः । तच् च सोमात्मकं चन्द्र-देवताकम् इत्य् अर्थः । श्रम-मनः-पीडा-रमणाद्यैश् चरमौजसः क्षयात् जाता या निष्प्राणता सा ग्लानिर् इत्य् अर्थः ॥२६॥
—ओ)०(ओ—
॥ २.४.२७ ॥
तत्र श्रमेण, यथा—
**आघूर्णन्-मणि-वलयोज्ज्वल-प्रकोष्ठा
गोष्ठान्तर्-मधुरिपु-कीर्ति-नर्तितौष्ठी ।
लोलाक्षी दधि-कलसं विलोडयन्ती
कृष्णाय क्लम-भर-निःस्पृहा बभूव ॥
श्री-जीवः : **लोलाक्षीति मधुरिपु-कीर्ति-गाने श्वश्रू-प्रभृतित आशङ्कया निःसहा विवशाङ्गी ॥२७॥
**मुकुन्दः : **आघूर्ण्-मणीति पद्ये श्री-नन्द-गृहाध्यक्षा धनिष्ठा ज्ञेया । निःसहा निर्बला॥२७॥
**विश्वनाथः : **आघूर्णतः स्तरि इति ख्याता मणि-वलया यत्र तथाभूतं प्रकोष्ठं यस्याः सा । श्री-कृष्णार्थं दधि-कलसं विलोडयन्ती निःसहा विवशाङ्गी बभूव । मधुरिपु-कीर्ति-गाने श्वश्रू-प्रभृतितः आशङ्कया लोलाक्षी ॥२७॥
—ओ)०(ओ—
॥ २.४.२८ ॥
यथा वा—
गुम्फितुं निरुपमां वन-स्रजं
चारु पुष्प-पटलं विचिन्वती ।
दुर्गमे क्लम-भरातिदुर्बला
कानने क्षणम् अभून् मृगेक्षणा ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.२९ ॥
आधिना, यथा—
**सा रस-व्यतिकरेण विहीना
क्षीण-जीवनतयोच्चल-हंसा ।
माधवाद्य विरहेण तवाम्बा
शुष्यति स्म सरसी शुचिनेव ॥
श्री-जीवः : **सा तवाम्बेत्य् अन्वयः । रसः सुख-व्यतिकरः सम्पर्क आसङ्गः । पक्षे सारसानि पक्षि-विशेषाः । पद्मानि चेत्य् एक-शेषात् । शुचिस् त्व् अयम् आषाढ इत्य् अमरः ॥२९॥
**मुकुन्दः : **सा तवाम्बेति योजना । रसानां व्यतिकरः सम्पर्कस् तेन । जीवनं प्राणः हंस आत्मा । पक्षे—सारसानि पद्मानि ॥२९॥
**विश्वनाथः : **हे माधव । तव विरहेण सा यशोदा शुष्यति । शुचिना ग्रीष्मेण सरसीव । रसव्यतिकरेणानन्द-समूहेन विहीना । सरोवर-पक्षे—सारसा जलचर-पक्षि-विशेषास् तेषां व्यतिकरेण समूहेन विहीना । तत्र जलाभावात् क्षीण-जीवत्वेन उच्चलन् हंसाख्यः जीवात्मा यस्याः पक्षे क्षीणत्वेन उच्चलन् हंसः पक्षी यतः ॥२९॥
—ओ)०(ओ—
॥ २.४.३० ॥
रत्या, यथा रस-सुधाकरे (२.३२)—
**अतिप्रयत्नेन रतान्त-तान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्ना-कृतानन्दम् अलिन्दम् आप ॥
श्री-जीवः, मुकुन्दः : **अलिन्दं गृहाग्र-कुट्टिमम् ॥३०॥
**विश्वनाथः : **श्री-कृष्णेनातिप्रयत्नात् तल्पाद् अवरोपिता सा किल गृहाग्र-कुट्टिमम् आप । कीदृशी ? रमणस्य अन्ते तान्ता ग्लानि-युक्ता ॥३०॥
—ओ)०(ओ—
॥ २.४.३१-३२ ॥
अथ (५) श्रमः—
अध्व-नृत्य-रताद्य्-उत्थः खेदः श्रम इतीर्यते ।
निद्रा-स्वेदाङ्ग-सम्मर्द-जृम्भा-श्वासादि-भाग् असौ ॥
अथ अध्वनो, यथा—
**कृतागसं पुत्रम् अनुव्रजन्ती
व्रजाजिरान्तर् व्रज-राज-राज्ञी ।
परिस्खलत्-कुन्तल-बन्धनेयं
बभूव घर्माम्बु-करम्बिताङ्गी ॥
श्री-जीवः : **व्रज-राज-राज्ञीति—व्रजे राजते या राज्ञी सेत्य् सा इत्य् अर्थः । एवम् अन्यत्रापि व्रज-राज-पत्नीति वा पाठः ॥३२॥
मुकुन्दः : व्रज-राज-राज्ञी श्री-नन्दस्य स्त्री ॥३२॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.३३ ॥
नृत्यादेः, यथा—
विस्तीर्योत्तरलित-हारम् अङ्ग-हारं
सङ्गीतोन्मुख-मुखरैर् वृतः सुहृद्भिः ।
अस्विद्यद् विरचित-नन्द-सूनुर् वा
कुर्वाणस् तट-भुवि ताण्डवानि रामः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : विरचितं नन्द-सूनोः श्री-कृष्णस्य पर्व उत्सवो येन तथाभूतो रामः **ताण्डवानि कुर्वन् स अस्विद्यत् **। । उत्तरलितो हारो यत्र एवम्भूतम् अङ्ग-हारम् अङ्ग-विक्षेपं विस्तीर्य ॥३३॥
—ओ)०(ओ—
॥ २.४.३४ ॥
रताद्, यथा श्री-दशमे (१०.३३.२०)—
तासाम् अतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : प्रामृजत् इत्य् उपलक्षणम् । रमण-समये व्यतस्तानां केश-भूषा-वस्त्रादीनाम् अपि संस्कारः प्रेम्णा कृत इति ज्ञेयम् ॥३४॥
—ओ)०(ओ—
॥ २.४.३५-३६ ॥
अथ (६) मदः—
विवेक-हर उल्लासो मदः स द्वि-विधो मतः ।
मधु-पान-भवोऽनङ्ग-विक्रिया-भर-जोऽपि च ।
गत्य्-अङ्ग-वाणी-स्खलन-दृग्-घूर्णा-रक्तिमादि-कृत् ॥
तत्र मधु-पान-भवो, यथा ललित-माधवे (५.४१)—-
**बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः पीडिताः
पिनस्मि जगद्-अण्डकं ननु हरिः क्रुधं धास्यति ।
शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न्
उदेति मद-डम्बर-स्खलित-चूडम् अग्रे हली ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- **बिले इति । रुक्मिणी-हरण-प्रसङ्गे जरासन्धादिभिः सह युद्ध-समये मधु-पानेन मत्तस्य बलदेवस्य वाक्यम् । हे नृप-पिपीलिकाः पीडिताः सन्तः कुत्र विलिल्यिरेलीना बभूवुः ? भवतु तथापि यत्र कुत्रचित् पलायनं कृत्वा ब्रह्माण्डे एव स्थास्यन्ति । तस्माद् अहं ब्रह्माण्डम् एव पिनष्मि चूर्णीकरोमि । स्वस्य मद-विह्वलत्वं दृष्ट्वा इन्द्रादयो हसन्तीति मत्वा इत्य् आह—इत्य् उच्चैर् नर्दन् हली बलदेवः मदस्य डम्बरेण औत्कट्येन स्खलिता चूडा यस्य तद् यथा स्यात् तथा उदेति ॥३६॥
—ओ)०(ओ—
॥ २.४.३७ ॥
यथा वा प्राचाम्19—
**भ-भ-भ्रमति मेदिनी ल-ल-लन्दते चन्द्रमाः
कृ-कृष्ण ववद द्रुतं ह-ह-हसन्ति किं वृष्णयः ।
सिसीधु मु-मु-मुञ्च मे प-प-प-पान-पात्रे स्थितः
मद-स्खलितम् आलपन् हल-धरः श्रियः वः क्रियात् ॥
श्री-जीवः : **भ-भ-भ्रमतीति पद्यं तस्य गृह एव स्थितस्य तत्-तत्-कल्पनया वचनं ज्ञेयम् । वास्तवत्वे श्री-कृष्णादीनां सङ्कोचापत्तेः । मद-स्खलितम् इत्य् अतः प्राग् इतीत्य् अध्याहार्यम् । प्रकरणं चेदं नात्यादृतं करिष्यते । मदोऽपि त्रिविध [भ।र।सि। २.४.३९] इत्य् आदिना ॥३७॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **चन्द्रमाः पृथिव्यां लम्बते । हे कृष्ण ! इदं द्रुतम् वद, मम पान-पात्र-स्थितं सीधु मुञ्च ॥३७॥
—ओ)०(ओ—
॥ २.४.३८-४० ॥
उत्तमस् तु मदाच् छेते मध्यो हसति पायति ।
कनिष्ठः क्रोशति स्वैरं पुरुषं वक्ति रोदिति ॥
मदोऽपि त्रि-विधः प्रोक्तस् तरुणादि-प्रभेदतः ।
अत्र नात्युपयोगित्वाद् विस्तार्य न हि वर्णितः ॥
अनङ्ग-विक्रिया-भरजो, यथा—
**व्रजपति-सुतम् अग्रे विक्ष्य भुग्नीभवद्-भ्रूर्
भ्रमति हसति रोदित्य् आस्यम् अन्तर्दधाति ।
प्रलपति मुहुर् आलीं वन्दते पश्य वृन्दे
नव-मदन-मदान्धा हन्त गान्धर्विकेयम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **कन्दर्प-मदेन अन्धा राधा मुखम् अन्तर्दधाति ॥४०॥
—ओ)०(ओ—
॥ २.४.४१-४२ ॥
अथ (७) गर्वः—
सौभाग्य-रूप-तारुण्य-गुण-सर्वोत्तमाश्रयैः ।
इष्ट-लाभादिना चान्य-हेलनं गर्व ईर्यते ॥
अत्र सोल्लुण्ठ-वचनं लीलानुत्तर-दायिता ।
स्वाङ्गेक्षा निह्नवोऽन्यस्य वचनाश्रवणादयः ॥
श्री-जीवः : निह्नवः स्वाभिप्रायादेर् गोपनम् ॥४२॥
मुकुन्दः : सोल्लुण्ठ-वचनं स्वाभिप्रायादेर् गोपनम् ॥४२॥
विश्वनाथः : लीलया अनुत्तर-दायिता । निह्नवः स्वाभिप्रायादेर् गोपनम् ॥४२॥
—ओ)०(ओ—
॥ २.४.४३ ॥
तत्र सौभाग्येन, यथा श्री-कृष्ण-कर्णामृते (३.९३)—
हस्तम् उत्क्षिप्य यातोऽसि बलात् कृष्ण किम् अद्भुतम् ।
हृदयाद् यदि निर्यासि पौरुषं गणयामि ते ॥
श्री-जीवः : हस्तम् उत्क्षिप्येति उत्क्षिप्य इति न स्वार्थ-प्रधानम् । तादृक् प्रेम्णस् तस्यात्र दुःखस्यैव योग्यत्वात्, गर्वस्यानुपपत्तेः । सुतरां तु तन्मयेदृश-परिहासस्येति । किन्तु व्यङ्ग्य-प्रधानम् एव । अर्थान्तर-सङ्क्रमितत्वात् । तच् च व्यङ्ग्यं यदि मय्य् उदासीनतां गतोऽसि, तथापि त्वां न त्यजामीति ॥४३॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.४४ ॥
रूप-तारुण्येन, यथा—
**यस्याः स्वभाव-मधुरां परिषेव्य मूर्तिं
धन्या बभूव नितराम् अपि यौवन-श्रीः ।
सेयं त्वयि व्रज-वधू-शत-भुक्त-मुक्ते
दृक्-पातम् आचरतु कृष्ण कथं सखी मे ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **यस्या इत्य् अत्र श्री-राधाया गर्वः—दृक्-पातं प्रार्थयमाने कृष्णे तद्-अभावानुत्तर-दयिताभ्याम् ॥४४॥
**विश्वनाथः : **यस्या राधायाः स्वभाव-मधुरां मूर्तिं परिषेव्य यौवन-श्रीः धन्या बभूव, सेयं मम सखी । व्रज-वधूभिः भुक्तः भोगानन्तरं त्यक्तस् त्वम् । एवम्-भूते त्वयि कथं दृक्-पातम् आचरतु ? ॥४४॥
—ओ)०(ओ—
॥ २.४.४५ ॥
गुणेन, यथा—
**गुम्फन्तु गोपाः कुसुमैः सुगन्धिभिर्
दामानि कामं धृत-रामणीयकैः ।
निधास्यते किन्तु स-तृष्णम् अग्रतः
कृष्णो मदीयां हृदि विस्मितः स्रजम् ॥ \
****श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **धृतं रामणीयकं रमणीयत्वं यैस् तैः कुसुमैः दामानि गोपाः गुम्फन्तु, किन्तु मदीयाम् एव स्रजं कृष्णो हृदि निधास्यते ॥४५॥
—ओ)०(ओ—
॥ २.४.४६ ॥
सर्वोत्तमाश्रयेण, यथा श्री-दशमे (१०.२.३३)—
**तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो ॥
श्री-जीवः : **तथेति पूर्वार्थ-विरोधे यथा त्वं मूर्खस् तथाहं नेतिवत्—यद् वा । किं चेत्य् अर्थः मार्गाद् अपि । किं पुनर् मृग्यात् । त्वद्-आश्रयेण विघ्नान् न गणयन्तीति तात्पर्यार्थः॥४६॥
**मुकुन्दः : **तथा न ते इति । त्वद्-आश्रयेण विघ्नान् न गणयन्तीत्य् अर्थः॥४६॥
**विश्वनाथः : **हे माधव ! यथा अभक्ता भ्रश्यन्ति, तथा तावकास् त्वद्-भक्ता भजन- मार्गान् न भ्रश्यन्ति । त्वयाभिगुप्ताः सर्वतो रक्षिताः सन्तः विनायानीकपस्य विघ्न-रूप-सेना-पालकस्य मूर्धसु विचरन्ति त्वद्-आश्रयेण विघ्नान् न गणयन्तीति तात्पर्यार्थः॥४६॥
—ओ)०(ओ—
॥ २.४.४७ ॥
इष्ट-लाभेन, यथा—
**वृन्दावनेन्द्र भवतः परमं प्रसादम्
आसाद्य नन्दित-मतिर् मुहुर् उद्धतोऽस्मि ।
आशंसते मुनि-मनोरथ-वृत्ति-मृग्यां
वैकुण्ठ-नाथ-करुणाम् अपि नाद्य चेतः ॥४७॥ \
****श्री-जीवः : **वृन्दावनेन्द्रेति मथुरा-वायकस्यैवोक्तिः ॥४७॥
**मुकुन्दः : **वृन्दावनेन्द्रेति मथुरा-मालाकरस्य सुदाम्न उक्तिः । भवतः परमं प्रसादं स-सखस्य मद्-गृहम् आगतस्य दर्शन-दान-मालाङ्गीकारादि-लक्षणम् । वैकुण्ठ-नाथ-करुणाम् अपि नेच्छे, सोऽपि वव्रेऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि [भा।पु। १०.४१.५१] तद्-वाक्ये एव-कारार्थः ॥४७॥
**विश्वनाथः : **वृन्दावनेन्द्रेति मथुरा-वायकस्यैवोक्तिः । मुनीनां मनोरथैर् अपि मृग्यां नारायणस्य करुणां मम चेतः नाशंसते नाकाङ्क्षतीत्य् अर्थः ॥४७॥
—ओ)०(ओ—
॥ २.४.४८ ॥
अथ (८) शङ्का—
स्वीय-चौर्यापराधादेः पर-क्रौर्यादितस् तथा ।
स्वानिष्टोत्प्रेक्षणं यत् तु सा शङ्केत्य् अभिधीयते ।
अत्रास्य-शोष-वैवर्ण्य-दिक्-प्रेक्षा-लीनतादयः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : उत्प्रेक्षणं वितर्कणम् ॥४८॥
—ओ)०(ओ—
॥ २.४.४९ ॥
तत्र चौर्याद्, यथा—
**स-तर्णकं डिम्भ-कदम्बकं हरन्
स-दम्भम् अम्भोरुह-सम्भवस् तदा ।
तिरोभविष्यन् हरितश् चलेक्षणैर्
अष्टाभिर् अष्टौ हरितः समीक्षते ॥
श्री-जीवः, मुकुन्दः : **हरितः हरेः सकाशात्, पुनर् हरितो दिशः ॥४९॥
**विश्वनाथः : **अम्भोरुह-सम्भवः ब्रह्मा तर्णकेन वत्सेन सहितं डिम्भ-कदम्बकं बालक-समूहं स-दम्भं यथा स्यात् तथा हरन् सन् हरितः हरेः सकाशात्, तिरोभवितुम् अष्टाभिश् चञ्चलेक्षणैः अष्टौ हरितः दिशः समीक्षते ॥४९॥
—ओ)०(ओ—
॥ २.४.५० ॥
यथा वा—
स्यमन्तकं हन्त वमन्तम् अर्थं
निह्नुत्य दूरे यद् अहं प्रयातः ।
अवद्यम् अद्यापि तद् एव कर्म
शर्माणि चित्ते मम निर्भिनत्ति ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : स्यमन्तकम् इत्य् अक्रूर-वाक्यम् । तद् एव अवद्यं निन्द्यं कर्म कर्तृ मम चित्ते शर्माणि सुखानि भिनत्ति ॥५०॥
—ओ)०(ओ—
॥२.४.५१ ॥
अपराधाद्, यथा—
**तद्-अवधि मलिनोऽसि नन्द-गोष्ठे
यद्-अवधि वृष्टिम् अचीकरः शचीश ।
शृणु हितम् अभितः प्रपद्य कृष्णं
श्रियम् अविशङ्कम् अलङ्कुरु त्वम् ऐन्द्रीम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **श्री-कृष्णं प्रपद्य अविशङ्कं यथा स्यात् तथा ऐन्द्रीम् इन्द्र-सम्बन्धिनीं श्रियं त्वम् अलङ्कुरु स्वीकुरु ॥५१॥
—ओ)०(ओ—
॥२.४.५२ ॥
पर-क्रौर्येण, यथा पद्यावल्याम् (३३१)20—
**प्रथयति न तथा ममार्तिम् उच्चैः
सहचरि वल्लव-चन्द्र-विप्रयोगः ।
कटुभिर् असुर-मण्डलैः परीते
दनुजपतेर् नगरे यथास्य वासः ॥
श्री-जीवः : **कटुभिर् इति तदानीम् असम्भवम् अपि स्नेह-मात्रेणाशङ्कते । अनिष्टाशङ्कीनि बन्धु-हृदयानि इति न्यायेन ॥५२॥
**मुकुन्दः : **जरासन्धादीनाम् आगमन-निश्चयेन परीत इत्य् उक्तम् । आर्तिम् आगतैस् तैः श्री-कृष्ण-निष्ठ-वितर्कजाः मनः-क्षोभ-लक्षणां व्यर्था शङ्का तु स्वानिष्त-वितर्क-मात्रम्॥५२॥
**विश्वनाथः : **माथुर-विरहे व्याकुला श्री-राधाह—दनुज-पतेः कंसस्य नगरे मथुरायां श्री-कृष्णस्य असुरैः सह वासो यथा आर्तिं प्रथयति, न तथेत्य् आदि । तदानीं मथुरा-स्थानां सर्वेषाम् असुराणां नाशेऽपि स्नेह-मात्रेणाशङ्कते, अनिष्टाशङ्कीनि बन्धु-हृदयानि इति न्यायेन ॥५२॥
—ओ)०(ओ—
॥ २.४.५३ ॥
शङ्का तु प्रवर-स्त्रीणां भीरुत्वाद् भय-कृद् भवेत् ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
****—ओ)०(ओ—
॥ २.४.५४-५५ ॥
अथ (९) त्रासः—
त्रासः क्षोभो हृदि तडिद्-घोर-सत्त्वोग्र-निस्वनैः ।
पार्श्वस्थालम्ब-रोमाञ्च-कम्प-स्तम्भ-भ्रमादि-कृत् ॥
तत्र तडिता, यथा—
बाढं निविडया सद्यस् तडिता ताडितेक्षणः ।
रक्ष कृष्णेति चुक्रोश कोऽपि गोपी-स्तनन्धयः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तडिद्-आदिभिः हृदि क्षोभ एव त्रासः । तस्य कार्यम् आह—पार्श्वस्थ- एत्य् इत्य्-आदि । गोपी-स्तनन्धयः श्री-कृष्णस्य सखा गोपाल-बालकः ॥५५॥
—ओ)०(ओ—
॥ २.४.५६ ॥
घोर-सत्त्वेन, यथा—
अदूरम् आसेदुषि वल्लवाङ्गना
स्वं पुङ्गवीकृत्य सुरारि-पुङ्गवे ।
कृष्ण-भ्रमेणाशु तरङ्गद्-अङ्गिका
तमालम् आलिङ्ग्य बभूव निश्चला ॥५६॥ \
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : सुरारि-पुङ्गवे अरिष्टासुरे स्वं पुङ्गवीकृत्य आत्मानं वृष-रूपी-कृत्य अदूरम् असेदुषि निकटं प्राप्तवति सति गोपाङ्गना भयेन कम्पायमान्आङ्गिका सती कृष्ण-भ्रमेणेत्य् भ्रमेण आदि इत्य्-आदि ॥५६॥
—ओ)०(ओ—
॥ २.४.५७ ॥
उग्र-निस्वनेन, यथा—
आकर्ण्य कर्ण-पदवी-विपदं यशोदा
विस्फूर्जितं दिशि दिशि प्रकटं वृकाणाम् ।
यामान् निकाम-चतुरा चतुरः स्व-पुत्रं
सा नेत्र-चत्वर-चरं चिरम् आचचार ॥
श्री-जीवः : आकर्ण्येति आकर्ण्य इति श्री-हरिवंशानुसारि वचनम् ॥५७॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : महावने विहृत्य श्री-कृष्णस्य वृन्दावने विजिहीर्षा जाता । तदा भगवद्-इच्छयैव बालकानां भयानका अनन्ता वृकास् तत्रोत्पन्ना इति कथा हरिवंशे वर्तते । तदा तद्-अनुसारेणाह— आकर्ण्य इति आकर्ण्येति । वृकाणां क्षुद्र-व्याघ्राणां प्रकटं विस्फूर्जितं घोर-शब्दं कर्ण-पदव्या विपत्ति-रूपम् आकऋण्य यशोदा अतिशय-चतुरा स्व-पुत्रं नेत्र-चत्वर-चयं चरं नेत्राग्र-वर्तिनम् आचचार चकारेत्य् अर्थः ॥५७॥
—ओ)०(ओ—
**॥ २.४.५८ ॥
गात्रोत्कम्पी मनः-कम्पः सहसा त्रास उच्यते ।
पूर्वापर-विचारोत्थं भयं त्रासात् पृथग् भवेत् ॥
श्री-जीवः : **पूर्वोक्तं त्रासं भयात् पृथक् कर्तुम् आह—गात्रेति । मनः-कम्पोऽत्र पूर्वोक्तो हृत्-क्षोभ एवोच्यते । सहसेति च पूर्वापर-विचार-विनाभूतम् उच्यते । अतर्किते तु सहसा इत्य् अमरः । ततश् च स खलु मनः-कम्पः सहसा गात्रोत्कम्पी चेत् त्रास उच्यते । भयं तु पूर्वापर-विचारोत्थं भवति । विचारोत्थ इति वा पाठः । मनः-कम्प एव विचारोत्थश् चेद् भयम् उच्यते । अत एव त्रासात् पृथग् भवेद् इत्य् अर्थः ॥५८॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **पूर्वोक्तं त्रासं भयात् पृथक् कर्तुम् आह—गात्रेति । सहसेति पूर्वापर-विचारं विनैव भवति । मनः-कम्पो विचारोत्थश् चेद् भयं त्रासात् पृथग् भवेत् ॥५८॥
—ओ)०(ओ—
॥ २.४.५९-६३ ॥
अथ (१०) आवेगः—
चित्तस्य सम्भ्रमो यः स्याद् आवेगोऽयं स चाष्टधा ।
प्रियाप्रियानल-मरुद्-वर्षोत्पात-गजारितः ॥५९॥
प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः ।
अप्रियोत्थे तु भू-पात-विक्रोश-भ्रमणादयः ॥६०॥
व्यत्यस्त-गति-कम्पाक्षि-मीलनास्रादयोऽग्निजे ।
वातजेऽजावृति-क्षिप्र-गति-दृङ्-मार्जनादयः ॥६१॥
वृष्टिजो धावन-च्छत्र-गात्र-सङ्कोचनादि-कृत् ।
औत्पाते मुख-वैवर्ण्य-विस्मयोऽकण्ठितादयः ॥६२॥
गाजे पलायनोत्कम्प-त्रास-पृष्ठेक्षणादयः ।
अरिजो वर्म-शस्त्रादि-ग्रहापसरणादि-कृत् ॥६३॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।।५९-६३॥
**मुकुन्दः : **सम्भ्रमः संवेगः ॥५९॥ सान्त्वं प्रियोक्तिः ॥६०॥
**विश्वनाथः : **सान्त्वं प्रिय-भाषणम् । अभ्युद्गमोऽभ्युत्तनम् ॥६०॥ अग्नि-जन्ये आवेगे अक्षि-मीलन-रोदनादयो ज्ञेयाः ॥६१॥ वर्म कवचं शस्त्रादि-ग्रहणम् । अपसरणं पलायनम् ॥६३॥
—ओ)०(ओ—
॥ २.४.६४ ॥
अत्र प्रिय-दर्शनजो, यथा—
**प्रेक्ष्य वृन्दावनात् पुत्रम् आयान्तं प्रस्नुत-स्तनी ।
सङ्कुला पुलकैर् आसीद् आकुला गोकुलेश्वरी ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **पुलकैः सङ्कुला व्याप्ता आसीत् ॥६४॥
—ओ)०(ओ—
॥ २.४.६५ ॥
प्रिय-श्रवणजो, यथा श्री-दशमे (१०.२३.१८)—
**श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः ।
तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः ॥
श्री-जीवः : **श्रुत्वेति यज्ञ-पत्नीनां वर्णनम् । जात-सम्भ्रमा इति यज्ञ-पत्न्यः ॥६५॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **श्री-कृष्णः क्षुधार्त इति तस्य कृष्णस्य कथया आक्षिप्त-मनसो यज्ञपत्न्यः जात-सम्भ्रमा बभूवुः ॥६५॥
—ओ)०(ओ—
॥ २.४.६६ ॥
अप्रिय-दर्शनजो, यथा—
**किम् इदं किम् इदं किम् एतद् उच्चैर्
इति घोर-ध्वनि-घूर्णिता लपन्ती ।
निशि वक्षति वीक्ष्य पूतनायास्
तनयं भ्राम्यति सम्भ्रमाद् यशोदा ॥
श्री-जीवः : **किम् इदम् इत्य् आदाव् इति लपन्तीत्य् अन्वयः ॥६६॥
**मुकुन्दः : **किम् इदम् इति घोर-ध्वनि-घूर्णिता उच्चैर् यथा स्यात् तथेति लपन्ती । इतीति किम् इदम् इत्य् आदि **इत्य्-आदि **॥६६॥
**विश्वनाथः : **निशि स्वप्ने पूतनाया वक्षसि स्व-तनयं वीक्ष्य यशोदा किम् इदं किम् इदं किम् एतद् इत्य् उच्चैः घोर-ध्वनिर् यथा स्यात् तथा लपन्ती सती सम्भ्रमात् भ्राम्यति ॥६६॥
—ओ)०(ओ—
॥ २.४.६७ ॥
अप्रिय-श्रवणजो, यथा—
**निशम्य पुत्रं क्रटतोस् तटान्ते
महीजयोर् मध्यगम् ऊर्ध्व-नेत्रा ।
आभीर-राज्ञी हृदि सम्भ्रमेण
बिद्धा विधेयं न विदाञ्चकार ॥
श्री-जीवः : **निशम्य इत्य् अस्य घटना रौद्र-रसे उत्तिष्ठ मूढ [भ।र।सि। ४.५.१०] इत्य् अत्र कार्या ॥६७॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **यमुनायास् तटान्ते क्रटतोर् भग्नयोर् महीजयोर् यमलार्जुन-वृक्षयोर् मध्ये गतं पुत्रं निशम्य सम्भ्रमेण हृदि विद्धा यशोदा विधेयं न विदाञ्चकार न ज्ञातवती ॥६७॥
—ओ)०(ओ—
॥ २.४.६८ ॥
अग्निजो, यथा—
**धीर् व्यग्राजनि नः समस्त-सुहृदां तां प्राण-रक्षा-मणिं
गव्या गौरवतः समीक्ष्य निविडे तिष्ठन्तम् अन्तर्वणे ।
वह्निः पश्य शिखण्ड-शेखर खरं मुञ्चन्न् अखण्ड-ध्वनिं
दीर्घाभिः सुर-दीर्घिकाम्बु-लहरीम् अर्चिभिर् आचामति ॥
श्री-जीवः, मुकुन्दः : **गव्या गो-समूहः ॥६८॥
**विश्वनाथः : **गव्या गौरवतः गो-समूहानाम् अनुरोधेन निविडे सान्द्रे अन्तर्वणे वन-मध्ये तिष्ठन्तं प्राण-रक्षा-मणिं त्वां निरीक्ष्य योऽस्माकं सखीनां धीः व्यग्रा अजनि । तत्र हेतुः—वह्निः खरं तीक्ष्णम् अखण्ड-ध्वनिं मुञ्चन् सन् स्वर्-गङ्गा लहरीः दीर्घाभिः अर्चिभिः आचामति भक्षयति । हे शिखण्ड-शेखर श्री-कृष्ण ! इति त्वं पश्य । तथा च दृष्ट्वा वन्ङ्नि-त्राणोपायं कुर्व् इति भावः । गव्या गो-समूहः ॥६८॥
—ओ)०(ओ—
॥ २.४.६९ ॥
वातजो, यथा—
**पांशु-प्रारब्ध-केतौ बृहद्-अटवि-कुटोन्माथि-शौटीर्य-पुञ्जे
भाण्डीरोद्दण्ड-शाखा-भुज-ततिषु गते ताण्डवाचार्य-चर्याम् ।
वात-व्राते करीषङ्-कषतर-शिखरे शार्करे झात्करिष्णौ
क्षौण्याम् अप्रेक्ष्य पुत्रं व्रजपति-गृहिणी पश्य सम्बम्भ्रमीति ॥
श्री-जीवः : **पांश्व् इत्य् आदि इत्य्-आदि खेचराणाम् उक्तिः । शार्कर इति सिकता-शर्कराभ्यां चेति मत्व्-अर्थीयाण्-प्रत्ययात् शर्करावतीत्य् अर्थः ॥६९॥
**मुकुन्दः : **कुटा वृक्षाः । करीषं कषतीति करीषङ्कषस् तरो वेगो यस्य । शार्करे शर्करावति भू-भागे । शर्करा पाषाण-प्राया मृत् ॥६९॥
**विश्वनाथः : **पांश्व् इति । तृणावर्तासुरेण श्री-कृष्णे ऊर्ध्वं नीते सति खेचराणाम् उक्तिः । पांशुभिः प्रारब्धः केतुर् येन तस्मिन् एवं-भूते वात-व्राते पवन-समूहे सति यशोदा पृथिव्यां पुत्रम् अवेक्ष्य बम्भ्रमीति । कथं-भूते वात-व्राते ? बृहद्-अटव्या वृक्ष-मूलोत्खात-करण-शीलः पराक्रम-समूहो यस्य तथा-भूते । पुनश् च भाण्डीर-वटस्य उद्दण्ड-शाखा एव भुज-ततयस् तासु नृत्याचार्यस्य चर्याम् आचारं गते तथा च पवनाघातेन भाण्डीर-शाखा नृत्यन्तीति भावः । पुनश् च करीषाकर्षकः शिखरः अग्र-भागो यस्य । करीषः शुष्क-गोमय-चूर्णः । शार्करे शर्करा-युक्ते झात्करिष्णौ झात्कार-शब्द-करण-शीले ॥६९॥
—ओ)०(ओ—
॥ २.४.७० ॥
वर्षजो, यथा श्री-दशमे (१०.२५.११)—
**अत्यासाराति-वातेन पशवो जात-वेपनाः ।
गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **जात-वेपना इति शीतार्ता इति च पश्व्-आदीनां सर्वेषां विशेषणम् । आर्तत्वं चित्त-सम्भ्रम-लक्षणं दुःखम् ॥७०॥
—ओ)०(ओ—
॥ २.४.७१ ॥
यथा वा—
**समम् उरु-करकाभिर् दन्ति-शुण्डा-सपिण्डाः
प्रतिदिशम् इह गोष्ठे वृष्टि-धाराः पतन्ति ।
अजनिषत युवानोऽप्य् आकुलास् त्वं तु बालः
स्फुटम् असि तद्-अगारान् मा स्म भूर् निर्यियासुः ॥
श्री-जीवः : **अगाराद् इति । तत्रैव वृष्टि-प्राप्तौ गोवर्धन-पर्यन्त-गमनं तु पुनर् भाण्डीरम् आपिता इतिवत् ॥७१॥
**मुकुन्दः : **अगाराद् इति । तत्रैव वृष्टि-प्राप्तौ गोवर्धन-पर्यन्त-गमनादिकं तु तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधय [भा।पु। १०.२५.१६] इत्य् अचिन्त्य-शक्त्यादुःखेन ज्ञेयम् ॥७१॥
**विश्वनाथः : **उरु-करकाभिः समं हस्ति-शुण्डा-सदृशा जलधाराः पतन्ति, तस्मात् हे कृष्ण गृहात् जिगमिषुस् त्वं मा भूः ॥७१॥
—ओ)०(ओ—
॥ २.४.७२ ॥
उत्पातजो, यथा—
**क्षितिर् अतिविपुला टलत्य् अकस्माद्
उपरि घुरन्ति च हन्त घोरम् उल्काः ।
मम शिशुर् अहि-दूषितार्क-पुत्री-
तटम् अटतीत्य् अधुना किम् अत्र कुर्याम् ॥
श्री-जीवः : **अटति अधुनैवाटितवान् इत्य् अर्थः । टल ट्वल वैक्लव्ये इति धातु-गणः । उल्का इत्य् अनेनाकालेऽपि सूर्य-ग्रहणं ध्वनितं येनान्धकारे दिनेऽपि ता दृश्यन्ते । घुर भीमार्त-शब्दयोर् इति धातु-गणः ॥७२॥
**मुकुन्दः : **टलति कम्प-रूपं वैक्लव्यं प्राप्णोति । घोरं भयङ्करं यथा स्यात् तथा घुरन्ति आर्त-शब्दं कुर्वन्ति । अहि-दूषितार्क-पुत्री-तटम् अभिव्याप्य अटति गोचारणाय मृदु मृदु गच्छति । इति शब्दोऽवधारणार्थोऽत्र ॥७२॥
**विश्वनाथः : **अतिविपुला क्षितिः टलति । अनेन भूकम्पो जातः । कालीय-दूषित-यमुना-तटे मम पुत्रो अटति गच्छति । अहो अस्यां विपत्तौ अहं किं कुर्याम् ॥७२॥
—ओ)०(ओ—
॥ २.४.७३-७४ ॥
गाजो, यथा—
**अपसरापसर त्वरया गुरुर्
मुदिर-सुन्दर हे पुरतः करी ।
म्रदिम-वीक्षणतस् तव नश् चलं
हृदयम् आविजते पुर-योषिताम् ॥
गजेन दुष्ट-सत्त्वोऽन्यः पश्व्-आदिर् उपलक्ष्यते ॥
श्री-जीवः- **“सत्त्व मस्त्री तु जन्तुषु” इत्यमर-नानार्थात् दुष्टसत्त्व इत्युक्तम् ॥७४॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **हे मुदिर-सुन्दर मेघ-सुन्दर ! पुरतोऽग्रे गुरुं महा-हस्ती कुवलयापीडः तव मार्दव-वीक्षणात् नोऽस्माकं चलं हृदयम् उद्विजते भयेन कम्पते इत्य् अर्थः ॥७३॥
—ओ)०(ओ—
॥ २.४.७५ ॥
यथा वा—
**चण्डांशोस् तुरगान् सटाग्र-नटनैर् आहत्य विद्रावयन्
द्राग् अन्धङ्करणः सुरेन्द्र-सुदृशां गोष्ठोद्धूतैः पांशुभिः ।
प्रत्यासीदतु मत्-पुरः सुर-रिपुर् गर्वान्धम् अर्वाकृतिर्
द्रगिष्ठे मुहुर् अत्र जाग्रति भुजे व्यग्रासि मातः कथम् ॥
श्री-जीवः : **चण्डांशोर् इत्य् अर्धं मातृ-वचनानुवादः । गर्वान्धम् इति क्रियाया विशेषणं, कर्तृ-धर्मस्यापि तस्य तस्याम् उपचारात् । स च तत्-प्रत्यासदनस्य मदेनातिवैक्लव्य-विवक्षया । द्राघिष्ठे ततोऽपि दीर्घतमे मुहुर् जाग्रति तद्-विधासुर-दमनाय सावधाने सतीत्य् अर्थः । सर्वारिष्ट-हरेऽत्रेति वा पाठः ॥७५॥
**मुकुन्दः : **चण्डांशोर् इत्य् आद्य् अर्थो मातृ-वचनानुवादः । गर्वान्धम् इति क्रिया-विशेषणम् । द्राघिष्ठे तद्-आदि-भुजेभ्यो दीर्घतमे इत्य् अनेन ततो बलाधिक्यं बोध्यते । मुहुर् जाग्रति तद्-विधान-सुरान् निगृहीतवत्य् अस्य च निग्रहे सावधाने सतीत्य् अर्थः । त्वं व्यग्रा मा भूर् एवम् अधुनैव मारयामीति भावः ॥७५॥
**विश्वनाथः : **स्व-खुरेण गोष्ठोद्धूतैः पांशुभिः सुरेन्द्र-स्त्रीणाम् अन्धीकरणः अर्वाकृतिः अश्वाकृतिः केशी । सटानां स्कन्ध-स्थ-बालानाम् अग्र-नटनैः करणैः सूर्य-तुरगान् आहत्य विद्रावयन् सन् मत्-पुरः आगच्छतु । गर्वान्धम् इति कार्या-विशेषणम् । कर्तृ-धर्मस्यापि तस्य तस्यां कार्यायाम् उपचारात् । द्राघिष्ठे दीर्घतमे मम भुजे जाग्रति सति तद्-विधासुर-गमनाय सावधाने भवतीत्य् अर्थः ॥७५॥
—ओ)०(ओ—
॥ २.४.७६ ॥
अरिजो, यथा ललित-माधवे (२.२९)—
**स्थूलस् ताल-भुजान् नतिर् गिरि-तटी-वक्षाः क्व यक्षाधमः
क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः ।
नास्त्य् अन्यः सह-कारिता-पटुर् इह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति ॥७६॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **शङ्खचूडं दृष्ट्वा भीता सती मुखरा आह—ताल-वृक्षस्यैव भुजाया उन्नतिर् यस्य तथा-भूतः सन् यक्षाधमः शङ्खचूडः क्व अत्यन्त-कोमलः श्री-कृष्णः । क्व ? यक्षेण सह युद्धे बालकस्य सहकारितायां पटुर् अन्यः कोऽपि प्राणी नास्ति ॥७६॥
—ओ)०(ओ—
॥ २.४.७७ ॥
यथा वा, तत्रैव (५.३०)—
**सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी ।
का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन ॥
श्री-जीवः : **रथ इह रथ इति । धनुर् उत धनुर् इति च न द्विरुक्तिः, किन्त्व् अन्यस्यान्यस्य वचनम् ॥७७॥
**मुकुन्दः : **सप्तिस् तुरङ्गः । रथ इह रथ इत्य् अत्र च पुनर्-उक्तिर् एव । सा चावेग-पोषत्वाद् गुणः । कृपाणी काटारीति प्रसिद्धा ॥७७॥
**विश्वनाथः : **श्री-कृष्ण-कर्तृकं रुक्मिणी-हरणं दृष्ट्वा जरासन्धादयः स्व-सेवकं प्रति स-सम्भ्रमम् आहुः—सप्तिः सप्तिः अश्वः आनीयताम् इति वाक्य-शेषः । सम्भ्रम-वशान् नोक्तम् । कृपाणी काटारीति प्रसिद्धा अस्त्र-विशेषः । वल्लवेन गोपेन । कामिना कृष्णेन ॥७७॥
—ओ)०(ओ—
**॥ २.४.७८ ॥
आवेगाभास एवायं पराश्रयतापि चेत् ।
नायकोत्कर्ष-बोधाय तथाप्य् अत्र निदर्शितः ॥७८॥
श्री-जीवः : **आवेगेत्य् उत्तरत्र वाक्यं नायकोत्कर्षं बोधयति । तथा-विधाः कृत्वा नायक-पक्षीयैर् जिता इति श्रवणात् । भक्तानां हर्षेण रतिर् उद्दीप्ता स्याद् इत्य् एतद् अर्थम् इत्य् अर्थः ॥७८॥
**मुकुन्दः : **नायकोत्कर्षं बोधयति । बहूनां शूराणां मध्यतः कन्या-हरणेन तेषां तुच्छता-मननात्मकोत्कर्ष-श्रवणेन भक्त-रतिः उद्दीप्ता स्याद् इत्य् अर्थः ॥७८॥
**विश्वनाथः : **पराः शत्रवः तेषां भक्त्य्-अभावात् अयम् आवेगाभास एव ज्ञेयः ॥७८॥
—ओ)०(ओ—
॥ २.४.७९-८० ॥
अथ (११) उन्मादः—
उन्मादो हृद्-भ्रमः प्रौढानन्दापद्-विरहादिजः ॥
अत्राट्ट-हासो नटनं सङ्गीतं व्यर्थ-चेष्टितम् ।
प्रलाप-धावन-क्रोश-विपरीत-क्रियादयः ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.८१ ॥
तत्र प्रौढानन्दाद्, यथा कर्णामृते (२.२५)—
**राधा पुनातु जगद् अच्युत-दत्त-चित्ता
मन्थानकं विदधती दधि-रिक्त-पात्रे ।
यस्याः स्तन-स्तवक-चञ्चल-लोचनालिर्
देवोऽपि रुद्ध-हृदयो धवलं दुदोह ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **अच्युत-दत्त-चित्ता अत एव उन्माद-वशात् दधि-शून्य-पात्रे मन्थानकं विदधती राधा जगत् पुनातु । तस्या राधायाः स्तन-रूप-स्तवके चञ्चलः लोचन-रूपो भ्रमरो यस्य तथा-भूतो देवः कृष्णोऽपि वशीकृत-हृदयः सन् उन्मादात् धवलं वृषभं दुदोह ॥८१॥
—ओ)०(ओ—
॥ २.४.८२ ॥
आपदो, यथा—
**पशून् अपि कृताञ्जलिर् नमति मान्त्रिका इत्य् अलं
तरून् अपि चिकित्सका इति विषौषधं पृच्छति ।
ह्रदं भुजग-भैरवं हरि हरि प्रविष्टे हरौ
व्रजेन्द्र-गृहिणी मुहुर् भ्रम-मयीम् अवस्थां गता ॥
श्री-जीवः : **पशून् अपीति । कृताञ्जलिर् इत्य् अत्र पूर्वेषु प्रश्नस् तद्-बल-पराभवाय । उत्तरेषु प्रश्नस् तद्-विष-नाशनायेति ज्ञेयम् ॥८२॥
**मुकुन्दः : **मान्त्रिकैः मन्त्रैः विष-निवर्तकाः । चिकित्सका औषधैर् विष-नाशकाः ॥८२॥
**विश्वनाथः : **व्रजेन्द्र-गृहिणी यशोदा पशवः मान्त्रिका इति कृताञ्जलिः सती पशून् नमति । तरवोऽपि चिकित्सका इति मत्वा तान् विषस्य औषधं पृच्छति । भुजगेन कालियेन ॥८२॥
—ओ)०(ओ—
॥ २.४.८३ ॥
विरहाद्, यथा श्री-दशमे (१०.३०.४)—
**गायन्त्य उच्चैर् अमुम् एव संहता
विचिक्युर् उन्मत्तकवद् वनाद् वनम् ।
पप्रच्छुर् आकाशवद् अन्तरं बहिर्
भूतेषु सन्तं पुरुषं वनस्पतीन् ॥
श्री-जीवः : **गायन्त्य उच्चैर् इत्य् अत्र तु एवम् एवोन्मादो योजनीयः । पुरुषं स्व-नायकं पप्रच्छुः । तं च भूतेषु स्थावर-जङ्गमेषु आकाशवद् अन्तरं बहिश् च सन्तं साक्षाद् इव सत् तया स्फुरन्तं पप्रच्छुः, तादृश-स्फूर्तिश् च तासां प्रेम-विलास-विशेषाद् एव । वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य [भा।पु। १०.३५.९] इतिवत् । तत्र बहिः-स्फुरणं दूरतः, अन्तस् तु निकटात् । तत्र सत्य् उन्माद-वृत्त्यानिन्द्रियेष्व् अपि प्रश्ने योग्य इति ॥८३॥
**मुकुन्दः : **अमुम् एवेति यद्यपि त्यागेन दुखदोऽसौ, अथापि तम् एवेति गणयति गुण-ग्रामं भ्रामं भ्रमाद् अपि नेहते [गी।गो। २.९] इत्य् आदिवत् । उन्मत्तकवद् इति स्वार्थे कन् । तेन केशाद्य्-असंवरणं व्यज्यते । अहो बत तासाम् इदं सर्व अरण्य-रुदितम् एव जातं, नेत्य् आह—आकाशेति । वक्ष्यते च स्वयं—मया परोक्षं भजता [भा।पु। १०.३२.१९] इति ॥८३॥
**विश्वनाथः : **संहता मिलिता गोप्यः अमुं श्री-कृष्णं गायन्त्यः सत्यः उन्मत्तवत् वनाद् वनं विचिक्युः । पुरुषं श्री-कृष्णं वनस्पतीन् वृक्षाय पप्रच्छुः । पुरुषं कीदृशं ? आकाशवत् सर्व-भूतेषु अन्तर् बहिः सन्तं वर्तमानम् ॥८३॥
—ओ)०(ओ—
**॥ २.४.८४-८५ ॥
उन्मादः पृथग् उक्तोऽयं व्याधिष्व् अन्तर्भवन्न् अपि ।
यत् तत्र विप्रलम्भादौ वैचित्रीं कुरुते पराम् ॥
अधिरूढे महा-भावे मोहनत्वम् उपागते ।
अवस्थान्तरम् आप्तोऽसौ दिव्योन्माद इतीर्यते ॥
श्री-जीवः : **तत्र तेषु व्याधिषु, तेषां मध्य इत्य् अर्थः ॥८४॥
**मुकुन्दः : **तत्र शृङ्गार-रसे । दिव्योन्मादो मोहनस्यानुभावः ॥८४-८५॥
**विश्वनाथः : **अनुभावाः सात्त्विकाः यत् यस्मात् तत्र व्याधिषु मध्ये अयम् उन्मादः विच्छेद-जन्य-विप्रलम्भ-रसे मोहनत्वं प्राप्ते अधिरूढ-सञ्ज्ञके महा-भावे परां सर्वोकृष्टां वैचित्रीं वैलक्षण्यं कुरुते, अतः असौ उन्मादः व्यापिभ्यः सकाशात् अवस्थान्तरं प्राप्त इति हेतोः दिव्योन्माद उच्यते ॥८४-८५॥
—ओ)०(ओ—
॥ २.४.८६ ॥
अथ (१२) अपस्मारः—
दुःखोत्थ-धातु-वैषम्याद्य्-उद्भूतश् चित्त-विप्लवः ।
अपस्मारोऽत्र पतनं धावनास्फोटन-भ्रमाः ।
कम्पः फेन-स्रुतिर् बाहु-क्षेपण-विक्रोशनादयः ॥
श्री-जीवः : आस्फोटनं सम्यग्-अङ्ग-व्यथा ॥८६॥
मुकुन्दः : आस्फोटनं सम्यग्-अङ्ग-विदीर्णता ॥८६॥
विश्वनाथः : अपस्मारस्य कार्यम् आह—पतनम् इत्य् इत्य्-आदि । सम्यग् अङ्ग-व्यथा ॥८६॥
—ओ)०(ओ—
॥ २.४.८७ ॥
यथा—
**फेनायते प्रतिपदं क्षिपते भुजोर्मिम्
आघूर्णते लुठति कूजति लीयते च ।
अम्बा तवाद्य विरहे चिरम् अम्बुराज-
वेलेव वृष्णि-तिलक व्रज-राज-राज्ञी ॥
श्री-जीवः : **फेनायत इति श्री-राधायाः सन्देशः । वेला स्यात् तीर-नीरयोर् इत्य् अमरः । व्रजे राजते या राज्ञी सेत्य् अर्थः ॥८७॥
**मुकुन्दः : **फेनायत इति मथुरायां श्री-पौर्णमास्या वचनम् । फेनायते फेनम् उद्वमति। आघूर्णते सम्यग् बम्भ्रमीति । लीयते भूमौ पतिता निश्चेष्टं तिष्ठतीत्य् अर्थः । बेलेव नीरम् इव ॥८७॥
**विश्वनाथः : **फेनायत इति । श्री-राधायाः श्री-कृष्णं प्रति वाक्यम् । अम्बुराज-वेलेव समुद्रस्य जलम् इव तव माता फेनायते । वेला स्यात् तीर-नीरयोर् इत्य् अमरः ॥८७॥
—ओ)०(ओ—
॥ २.४.८८ ॥
यथा वा—
**श्रुत्वा हन्त हतं त्वया यदु-कुलोत्तंसात्र कंसासुरं
दैत्यस् तस्य सुहृत्तमः परिणतिं घोरां गतः काम् अपि ।
लाला-फेन-कदम्ब-चुम्बित-मुख-प्रान्तस् तरङ्गद्-भुजो
घूर्णन्न् अर्णव-सीम्नि मण्डलतया भ्राम्यन् न विश्राम्यति ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **मण्डलतया घूर्णन् अतिशयेन भ्रमन् भ्राम्यन् विपर्ययं प्राप्नुवन् ॥८८॥
**विश्वनाथः : **हे यदु-कुलोत्तंस शिरो-भूषण, त्वया हतं कंसासुरं श्रुत्वा कंस-सुहृत्तमः दैत्यः काम् अपि घोरां क्रोध-वशात् परिणतिं दुरवस्थां गतः । समुद्र-सीम्नि भ्रमन् सन् अद्यापि न विश्राम्यति । कीदृशः ? लीला-फेन-समूहेन चुम्बितो युक्तो मुख-प्रान्त-भागो यस्य । पुनश् च तरङ्गायमाना भुजा यस्य ॥८८॥
—ओ)०(ओ—
**॥ २.४.८९ ॥
उन्मादवद् इह व्याधि-विशेषोऽप्य् एष वर्णितः ।
परां भयानकाभासे यत् करोति चमत्कृतिम् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **चमत्कृतिम् इति सा श्रुत्वेतीत्य् अत्र पूर्व-पद्ये दर्शिता ॥८९॥
**विश्वनाथः : **यद् उन्माद, यथा महाभावे चमत्करोति, अतो व्याधिभ्यः सकाशात् तस्य पृथग्-उक्तिः । अथैवापस्मारोऽपि शत्रु-वृत्ति-भयानक-रसाभासे चमत्कारं करोति । अतः तस्यापि व्याधेः सकाशात् पृथग् उक्तिर् ज्ञेया ॥८९॥
—ओ)०(ओ—
॥ २.४.९० ॥
अथ (१३) व्याधिः—
**दोषोद्रेक-वियोगाद्यैर् व्याधयो ये ज्वरादयः ।
इह तत्-प्रभवो भावो व्याधिर् इत्य् अभिधीयते ।
अत्र स्तम्भः श्लथाङ्गत्व-श्वासोत्ताप-क्लमादयः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **श्री-कृष्णस्यासुर-कर्तृक-पराभव-श्रवणेन यो दोषोद्रेकः, दुःखातिशयः एवं वियोगादिश् च तैः ॥९०॥
—ओ)०(ओ—
॥ २.४.९१ ॥
यथा—
**तव चिर-विरहेण प्राप्य पीडाम् इदानीं
दधद्-उरु-जडिमानि ध्मापितान्य् अङ्गकानि ।
श्वसित-पवन-धाटी-घट्टित-घ्राण-वाटं
लुठति धरणि-पृष्ठे गोष्ठ-वाटी-कुटुम्बम् ॥
श्री-जीवः : **बलाद् आक्रमणं धाटी इति क्षीर-स्वामी । अत्र तु लक्षणया क्रमणम् एवोच्यते । वाटः पन्था । अत्र तु घ्राण-वाटेन नासिकोच्यते । गोष्ठ-वाटीति वाटो वास्तु-भूमिः । वाटीति स्वल्पत्व-विवक्षया ॥९१॥
**मुकुन्दः : **धाती लुण्ठाक-सङ्घः । घ्राण-वाटो गन्ध-वाटो गन्ध-पक्षे नासा । गोष्ठ-रूपा वाटी गोष्ठ-वाटी । वेष्टित-स्थल-विभागो वाटी ॥९१॥
**विश्वनाथः : **गोष्ठ-वाटी गोष्ठस्य वास्तु-भूमिः तस्याः कुटुम्बं पितृ-मात्र्-आदि-बन्धु-वर्गः पीड्;अं प्राप्य ध्मापितानि ज्वालितानि अङ्गकानि बिभ्रत् सत् धरणी-पृष्ठे लुठति । कीदृशं ? धाटी आक्रमणं तेन घट्टितश् चालितः प्राणस्य श्वास-रूप-पवनस्य नाटः पन्थाः नासिका यस्य तथा-भूतं, तथा जीवन-व्यञ्जक-श्वास-मात्रम् एवावशिष्टम् इति भावः ॥९१॥
—ओ)०(ओ—
॥ २.४.९२ ॥
अथ (१४) मोहः—
**मोहो हृन्-मूढता हर्षाद् विश्लेषाद् भयतस् तथा ।
विषादादेश् च तत्र स्याद् देहस्य पतनं भुवि ।
शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टता-मयः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **मोह इति हृदो मूढता बाह्य-विषयाग्रहणत्वं, मोहे क्रिया-सद्-भवात् प्रलयाद् भेदः ॥९२॥
—ओ)०(ओ—
॥ २.४.९३ ॥
तत्र हर्षाद्, यथा श्री-दशमे (१०.१२.४४)—
**इत्थं स्म पृष्टः स तु बादरायणिस्
तत्-स्मारितानन्त-हृताखिलेन्द्रियः ।
कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः
प्रत्याह तं भागवतोत्तमोत्तमम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **इत्य् अनेन प्रकारेण राज्ञा पृष्टः बादरायणिः शुकः तेन प्रश्नेन स्मारितो योऽनन्तो भगवान् तेन हृतानि अखिलेन्द्रियाणि यस्य सः । व्यास-नारदादि-कृतोच्च-नाम-सङ्कीर्तनेन पुनर् बहिर् लब्ध-ज्ञानः सन् तं राजानम् आह ॥९३॥
—ओ)०(ओ—
॥ २.४.९४ ॥
यथा वा—
**निरुच्छ्वसित-रीतयो विघटिताक्षिप-क्ष्म-क्रिया
निरीह-निखिलेन्द्रियाः प्रतिनिवृत्त-चिद्-वृत्तयः ।
अवेक्ष्य कुरु-मण्डले रहसि पुण्डरीकेक्षणं
व्रजाम्बुज-दृशोऽभजन् कनक-शालभञ्जी-श्रियम् ॥
श्री-जीवः : **निरुच्छ्वसितेति निर्गता उच्छ्वसितानां रीतयः प्रचारा याभ्यः । शालभञ्जी प्रतिमा॥९४॥
**मुकुन्दः : **निरुच्छ्वसितेति निर्गता उच्छ्वसितानां रीतयः प्रचारा याभ्यः ताः । शालभञ्जी प्रतिमा ॥९४॥
**विश्वनाथः : **कुरुक्षेत्रे श्री-कृष्णम् अवेक्ष्य निर्गता उच्छ्वसितानां श्वास-प्रश्वासानां रीतयः प्रचारा याभ्यः एवम्भूता व्रज-सुन्दर्यः । कनकस्य शालभञ्जी प्रतिमा तस्याः श्रियम् अर्था जाड्यम् अभजन् ॥९४॥
—ओ)०(ओ—
॥ २.४.९५ ॥
विश्लेषाद्, यथा हंसदूते (३)—
**कदाचित् खेदाग्निं विघटयितुम् अन्तर्-गतम् असौ
सहालीभिर् लेभे तरलित-मना यामुन-तटीम् ।
चिराद् अस्याश् चित्तं परिचित-कुटीर-कलनाद्
अवस्था तस्तार स्फुटम् अथ सुषुप्तेः प्रिय-सखी ॥
श्री-जीवः : **अत्र कुटीरो लता-गृहं तद्-अवकलनात्, सुषुप्तेस् तुल्यत्वात् प्रिय-सखीव या अवस्था मोह-रूपा सा चित्तं तस्तार अच्छादितवती ॥९५॥
**मुकुन्दः : **कुटीरो लता-गृहम् । अवस्था चित्तं तस्तार अच्छादितवती । कथम्भूता ? सुषुप्तेः प्रिय-सखी मोह-रूपा ॥९५॥
**विश्वनाथः : **असौ राधा कदाचित् समये माथुर-विरहाग्निं विघटयितुं दूरीकर्तुं यामुन-तटीं लेभे । चिर-कालं व्याप्य श्री-कृष्णेन सह विहारात् परिचिता या यामुन-तटी तस्या दर्शनात् सुषुप्तेः प्रिय-सखी तत्-समानेत्य् अर्थः अवस्था मूर्च्छा तस्याश् चित्तं तस्तार अच्छादितवती । तथा च विरह-शान्त्य्-अर्थम् आगतायास् तस्या विरहः शत-गुणी-बभूवेति भावः ॥९५॥
—ओ)०(ओ—
॥ २.४.९६ ॥
भयाद्, यथा—
**मुकुन्दम् आविष्कृत-विश्व-रूपं
निरूपयन् वानर-वर्य-केतुः ।
करारविन्दात् पुरतः स्खलन्तं
न गाण्डीवं खण्डित-धीर् विवेद ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **वानर-वर्यो हनुमान् स एव केतुश् चिह्नं यस्य स अर्जुनः ॥९६॥
—ओ)०(ओ—
॥ २.४.९७ ॥
विषादाद्, यथा श्री-दशमे (१०.११.४९)—
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
**॥ २.४.९८ ॥
अस्यान्यत्रात्म-पर्यन्ते स्यात् सर्वत्रैव मूढता ।
कृष्ण-स्फूर्ति-विशेषस् तु न कदाप्य् अत्र लीयते ॥
श्री-जीवः : **अस्य प्राप्त-मोहस्य भगवद्-भक्तस्य कृष्ण-स्फूर्ति-विशेषस् त्व् इति । स्वाश्रयं तं विना भावानाम् अनवस्थितेः । तथा चोक्तं—तत्-स्मारितानन्त-हृताखिलेन्द्रियः [भा।पु। १०.१२.४४, भ।र।सि। २.४.९३] इति । किन्तु बहिर्-वृत्ति-लोप-प्राधान्येन प्रलयः, मोहस् त्व् अन्तर्-वृत्ति-लोप-प्राधान्येन ज्ञेयः । अत एव मोहो हृन्-मूढतेत्य् अत्र हृच्-छब्दो दत्तः । मुह् वैचित्त्ये इति धातु-बलाद् एव तद्-अर्थता-सिद्धेः ॥९८॥
**मुकुन्दः : **अन्यत्रात्मादि-पर्यन्त इति पाठः ॥९८॥
**विश्वनाथः : **अस्य प्राप्त-मोहस्य, भगवत्-सम्बन्धिनः भक्तस्य कृष्ण-स्फूर्ति-विशेषस् त्व् इति । स्वाश्रयं तं विना भावानाम् अनवस्थितेः । तच् चोक्तं—तत्-स्मारितानन्त-हृताखिलेन्द्रियः [भा।पु। १०.१२.४४, भ।र।सि। २.४.९३] इति । किन्तु बहिर्-वृत्ति-लोप-प्राधान्येन प्रलयः, मोहस् त्व् अन्तर्-वृत्ति-लोप-प्राधान्येन ज्ञेयः । अत एव मोहो हृन्-मूढतेत्य् अत्र हृच्-छब्दो दत्तः । मुह् वैचित्त्ये इति धातु-बलाद् एव तद्-अर्थता-सिद्धेः ॥९८॥
—ओ)०(ओ—
॥ २.४.९९ ॥
अथ (१५) मृतिः—
विषाद-व्याधि-सन्त्रास-सम्प्रहार-क्लमादिभिः ।
प्राण-त्यागो मृतिस् तस्याम् अव्यक्ताक्षर-भाषणम् ।
विवर्ण-गात्रता-श्वास-मान्द्य-हिक्कादयः क्रियाः ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१०० ॥
यथा—
अनुल्लास-श्वासा मुहुर् असरलोत्तानित-दृशो
विवृण्वन्तः काये किम् अपि नव-वैवर्ण्यम् अभितः ।
हरेर् नामाव्यक्तीकृतम् अलघु-हिक्का-लहरीभिः
प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः ॥
श्रीजीवः, **मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **मरण-समये उल्लास-रहिताः श्वासा येषां, असरलाः कुटिला एवम् उत्तानिता ऊर्ध्वे क्षिप्ता दृशो येषां, तथा-भूताः सुकृतिनः उच्च-हिक्का-लहरीभिः अव्यक्तीकृतः हरेर् नाम प्रजल्पन्तः प्राणान् जहति ॥१००॥
—ओ)०(ओ—
॥ २.४.१०१ ॥
यथा वा—
**विरमद्-अलघु-कण्ठोद्घोष-घुत्कार-चक्रा
क्षण-विघटित-ताम्यद्-दृष्टि-खद्योत-दीप्तिः ।
हरि-मिहिर-निपीत-प्राण-गाढान्धकारा
क्षयम् अगमद् अकस्मात् पूतना काल-रात्रिः ॥
श्रीजीवः, मुकुन्दः : **घूत्कारो घूक-शब्दः ॥१०१॥
**विश्वनाथः : **हरिर् एव मिहिरः सूर्यः तेन निपीतः प्राण-रूपो गाढाहङ्कारो यस्याः एवम्भूता पूतना-रूप-काल-रात्रिः । अस्कस्मात् क्सायम् अगमत् प्राप । रातिर्-साधर्म्यम् आह—विरमन् उच्च-कण्ठ-घूत्कार-चक्रो घूत्क-पक्षि-शब्द-समूहो यत्र । घूका अपि दिवसे सूर्य-प्रकाशेन भीताः । अत एव रात्रौ सुखं तिष्ठन्ति । पुनः सूर्योदय-सम्भावनया विरामं प्राप्नुवन्ति । क्षण-मात्रेण विघटिता एव ताम्यन्ती ग्लानि-युक्ता दृष्टि-रूप-खद्योत-दीपितिर् यया । खद्योता अपि रात्रौ प्रकाशन्ते सूर्योदये तु म्लाना भवन्ति॥१०१॥
—ओ)०(ओ—
**॥ २.४.१०२ ॥
प्रायोऽत्र मरणात् पूर्वा चित्त-वृत्तिर् मृतिर् मता ।
मृतिर् अत्रानुभावः स्याद् इति केनचिद् उच्यते ।
किन्तु नायक-वीर्य् आर्थं शत्रौ मरणम् उच्यते ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **मृतेर् भावत्वं दर्शयति—प्राय इति । मरणात् पूर्वा चित्त-वृत्तिर् अनुल्लासेत्य् अत्र दर्शितायाः शत्रौ मरणम् एव । अत्र भाव-प्रसङ्गे मृतर् अनुभाव एव, भावतया सम्भाव्येति केनचिद् उच्यते च चास्याः पूर्व-वृत्तिर् एव ॥१०२॥
—ओ)०(ओ—
॥ २.४.१०३-१०४ ॥
अथ (१६) आलस्यम्—
सामर्थ्यस्यापि सद्-भावे क्रियानुन्मुखता हि या ।
तृप्ति-श्रमादि-सम्भूता तद्- आलस्यम् उदीर्यते ॥
अत्राङ्ग-भजो जृम्भा च क्रिया द्वेषोऽक्षि-मर्दनम् ।
शय्यासनैक-प्रियता तन्द्रा-निद्रादयोऽपि च ॥
श्री-जीवः : सद्-भावे आग्रहेण समुद्भावयितुं शक्यत्वे ॥१०३॥
मुकुन्दः : सामर्थ्यस्य सद्-भावे किञ्चित् सत्त्वे ॥१०३॥
विश्वनाथः : तृप्त्य्-आदिभिर् जाता या क्रियानुन्मुखता, तद् आलस्यम् ॥१०३॥
—ओ)०(ओ—
॥ २.४.१०५ ॥
तत्र तृप्तेर्, यथा—
विप्राणां नस् तथा तृप्तिर् आसीद् गोवर्धनोत्सवे ।
नाशीर्वादेऽपि गोपेन्द्र यथा स्यात् प्रभविष्णुता ॥१०५॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१०६ ॥
श्रमाद्, यथा—
सुष्ठु निःसह-तनुः सुबलोऽभूत्
प्रीतये मम विधाय नियुद्धम् ।
मोटयन्तम् अभितो निजम् अङ्गं
नाहवाय सहसाह्वयताम् अमुम् ॥
श्री-जीवः : सुष्ठ्व् इत्य् आदौइत्य्-आदौ निःसहत्वं किञ्चिद् अपि कर्तुम् अक्षमत्वम् । “सहसाहूयताम्” इत्य् एव पाठः । नियुद्धं बाहु-युद्धम् ॥१०६॥
**मुकुन्दः : **कृत-युद्धं सुबलम् अजानतः सखीन् प्रति श्री-कृष्णोक्तिः—सुष्ठ्व् इति । **निःसह-तनुः **क्रियासमर्थ-मूर्तिः । आहवाय युद्धार्थं मुहुर् आह्वयत ॥१०६॥
विश्वनाथः : मम प्रीत्य्-अर्थं नियुद्धं बाहु-युद्धं कृत्वा निःसहा किञ्चित् कर्तुम् अक्षमा तनुर् यस्य, स एवम्भूतः सुबलोऽभूत् । अतोऽमुम् आहवाय युद्धाय यूयं नाहूयत ॥१०६॥
—ओ)०(ओ—
॥ २.४.१०७ ॥
अथ (१७) जाड्यम्—
जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठ-श्रुतीक्षणैः ।
विरहाद्यैश् च तन्- मोहात् पूर्वावस्था-परापि च ।
अत्रानिमिषता तूष्णीम्भाव-विस्मरणादयः ॥
श्री-जीवः : अप्रतिपत्तिर् विचार-शून्यता, तत् जाड्यं मोहवत् पूर्वावस्था पराप्य् अवस्था, यथा, तादृशीत्य् अर्थः । तस्य स्वतन्त्रत्वात् ॥१०७॥
मुकुन्दः : अप्रतिपत्तिर् विचार-शून्यता, तत् जाड्यं मोहवत् पूर्वावस्था पराप्य् अवस्था,
यथा तादृशीत्य् अर्थः । तस्य स्वतन्त्रत्वात् ॥१०७॥
विश्वनाथः : अप्रतिपत्तिर् विचार-शून्यता, तत् जाड्यं मोहवत् पूर्वावस्था पराप्य् अवस्था, यथा तादृशीत्य् अर्थः, । तस्य स्वतन्त्रत्वात् ॥१०७॥
—ओ)०(ओ—
॥ २.४.१०८ ॥
तत्र इष्ट-श्रुत्या, यथा श्री-दशमे (१०.२१.१३)—
गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत-
पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः ।
शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर्
गोविन्दम् आत्मनि दृशाश्रु-कुलाः स्पृशन्त्यः ॥
श्रीजीवः, **मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **स्मरण-शङ्कयैव उत्तभितैः कर्ण-पुटैः पिबन्त्य एव तस्थुः । शावा वत्साः। स्तन-पाने प्रवृत्ताः समनन्तरम् एव गीतं श्रुत्वा तद् एवम् उत्तभित-कर्ण-पुटैः पिबन्तः स्तन-पानासमर्थ्यात् स्तनेभ्यः स्नुतानां पयसां कवलो ग्रास एव मुखेन तु निर्गिलनं येषां ते तस्थुः जाड्योदयेन स्तब्धा बभूवुर् इत्य् अर्थः । ततश् च तन्-मातरः गोविन्दं दृशा दृष्ट्यैवाकृष्यानीय नेत्र-द्वारेणान्तः प्रविश्य आत्मनि स्व-मनसि स्पृशन्त्यः स्व-मनसः क्रोड एव वात्सल्यात् स्थापयन्त्यः तस्थुः ॥१०८॥
—ओ)०(ओ—
॥ २.४.१०९ ॥
अनिष्ट-श्रुत्या, यथा—
आकलय्य परिवर्तित-गोत्रां
केशवस्य गिरम् अर्पित-शल्याम् ।
बिद्धविद्ध-धीर् अधिक-निर्निमिषाक्षी-
लक्ष्मणा क्षणम् अवर्तत तूष्णीम् ॥
श्री-जीवः : गोत्रं नाम इति ॥१०९॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **लक्ष्मणा-नाम्नी एका यूथेश्वरी परिवर्तितं गोत्रं नाम यत्र गोत्रं कुले धने नाम्नि गोत्रस् तु धरणी-धरः इत्य् अजयः । तथा-भूतं केशवस्य गिरं निशम्य श्रुत्वा । गिरं कीदृशीं ? अर्पितं शल्यं यया तथाभूतां, । तथा च श्री-कृष्णेनैव तस्या मानोत्पत्त्य्-अर्थं लक्ष्मणा इति वक्तव्ये तत्-प्रतिपक्ष-यूथेश्वर्या नाम गृहीतम् । तच् छ्रुत्वा सा कुपिता बभूव इत्य् अर्थः ॥१०९॥
—ओ)०(ओ—
॥ २.४.११० ॥
इष्टेक्षणेन, यथा श्री-दशमे (१०.७१.४०)—
गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः ।
पूजायां नाविदत् कृत्यं प्रमादोपहतो नृपः ॥
न कतमेन व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१११ ॥
अनिष्टेक्षणेन, यथा तत्रैव (१०.३९.३६)—
**यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **आलक्ष्यते किञ्चिल्-लक्षणेनेषद् दृश्यते इत्य् अर्थः । तावत् तं रथं रेणुं चानु पश्चात् प्रस्थापिता आत्मानश् चित्तानि याभिस् ताः । लेख्यानीव चित्राणीव निश्चला उपलक्षिता लोकैः समीपेऽपि दृष्टाः ॥३६॥
**विश्वनाथः : **यावत् कृष्ण-रथस्य पताका रेणुश् च दृश्यते तावत् जाड्योदयेन लेख्यानि चित्राणीव उपलक्षिता बभूवुः । कथम्-भूतास् ताः ? अनु श्री-क्रृष्णस्य पश्चात् प्रस्थापिता आत्मानो मनांसि याभिस् ताः । केवलं देहेनैव व्रजे तस्थुर् इति भावः ॥३६॥
—ओ)०(ओ—
॥ २.४.११२ ॥
विरहेण, यथा—
**मुकुन्द विरहेण ते विधुरिताः सखायश् चिराद्
अलङ्कृतिभिर् उज्झिता भुवि निविश्य तत्र स्थिताः ।
स्खलन्-मलिन-वाससः शवल-रुक्ष-गात्र-श्रियः
स्फुरन्ति खल-देवल-द्विज-गृहे सुरार्चा इव ॥
श्री-जीवः : **शवलं मल-दूषितं देवाजीवी तु देवलः ॥११२॥
**मुकुन्दः : **तत्र नन्द-व्रजे देवलः देवाजीवी । सुरार्चाः सूर्यादि-देवानां प्रतिमाः ॥११२॥
**विश्वनाथः : **ते तव विरहेण विधुरिताः दुःखिताः सुबलाद्याः सखायः अलङ्कारैर् उज्झितास् त्यक्ताः सन्तः, तत्र व्रज-भुवि निविश्य स्थिता भूमौ लुठन्तीत्य् अर्थः । तत्र दृष्टान्तः—पाषण्ड इति । प्रसिद्धस्य खल-देवल-ब्राह्मणस्य गृहे सुरार्चा देवता प्रतिमा अमार्जितास् तिष्ठन्ति तथेत्य् अर्थः ॥११२॥
—ओ)०(ओ—
॥ २.४.११३ ॥
अथ (१८) व्रीडा—
नवीन-सङ्गमाकार्य-स्तवावज्ञादिना कृता ।
अधृष्टता भवेद् व्रीडा तत्र मौनं विचिन्तनम् ।
अवगुण्ठन-भू-लेखौ तथाधो-मुखतादयः ॥
**श्री-जीवः : **अधृष्टतात्र धृष्टता-विरोधी भावः ॥११३॥
**मुकुन्दः : **अधृष्टता शालीनता ॥११३॥
**विश्वनाथः : **नवीन-सङ्गमादिना अधृष्टतात्र धृष्टता-विरोधी भावो व्रीडा भवेत् ॥११३॥
—ओ)०(ओ—
॥ २.४.११४ ॥
तत्र नवीन-सङ्गमेन, यथा पद्यावल्याम् (१९८)—
गोविन्दे स्वयम् अकरोः सरोज-नेत्रे
प्रेमान्धा वर-वपुर् अर्पणं सखि ।
कार्पण्यं न कुरु दरावलोक-दाने
विक्रीते करिणि किम् अङ्कुशे विवादः ॥
श्री-जीवः : विक्रीत इति । यथा तस्मिन् विक्रीतेऽप्य् अङ्कुश-दाने विवादः क्रियते, तथात्र किं क्रियते ? नैवेत्य् अर्थः ॥११४॥
मुकुन्दः : करिणि विक्रीते अङ्कुशे विवादः किं क्रियते ? अपि तु न ॥११४॥
**विश्वनाथः : **हे सरोज-नेत्रे ! प्रेमान्धा त्वं गोविन्दे वर-वपुर् अर्पणम् अकरोः । अधुना ;ईष्सद् अवलोकन-दानेन कार्पण्यं न कुरु । विक्रीत इति यथा करिणि विक्रीतेऽप्य् अङ्कुश-दाने विवादः क्रियते ॥११४॥
—ओ)०(ओ—
॥ २.४.११५ ॥
अकार्येण, यथा—
**त्वम् अवाग् इह मा शिरः कृथा
वदनं च त्रपया शची-पते ।
नय कल्प-तरुं न चेच् छचीं
कथम् अग्रे मुखम् ईक्षयिष्यसि ॥
श्री-जीवः : **त्वम् अवाग् इति श्री-कृष्णस्य वाक्यम् । शिरोऽवाक् नम्रीभूतं वदनं चावाक् वचन-रहितम् ॥११५॥
**मुकुन्दः : **त्वम् अवाग् इति श्री-सत्या-वाक्यं,म् । अलं शक्रं प्रयातेन व्रीडा गन्तुं त्वम् अर्हसि [वि।पु। ५.३०.७३] ईत्य् इत्य्-आदि श्री-विष्णु-पुराणीय-तद्-वाक्यात् । शिरोऽवाक् अधो-भूतं, वदनं चावाक् वचन-रहितम् ॥११५॥
**विश्वनाथः : **त्वम् अवाग् इति श्री-कृष्ण-वाक्यम् । शिरोऽवाक् नम्रीभूतं वदनं चावाक् वचन-रहितं मा कृथाः ॥११५॥
—ओ)०(ओ—
॥ २.४.११६ ॥
स्तवेन, यथा—
**भूरि-साद्गुण्य-भारेण स्तूयमानस्य शौरिणा ।
उद्धवस्य व्यरोचिष्ट नम्री-भूतं तदा शिरः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **भूरि-साद्गुण्य-भरेण हेतुना स्तूयमानस्य उद्धवस्य ॥११६॥
—ओ)०(ओ—
॥ २.४.११७ ॥
अवज्ञया, यथा हरि-वंशे (२.६७.१९)21 सत्या-देवी-वाक्यम्—
**वसन्त-कुसुमैश् चित्रं सदा रैवतकं गिरिम् ।
प्रिया भूत्वाऽप्रिया भूता कथं द्रक्ष्यामि तं पुनः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **आदौ श्री-कृष्णस्य अहं प्रिया आसम् । अधुना तु अप्रियाभूता । अतः पुनः कथं तं गिरिं द्रक्ष्यामि ? कथं वा तत्र विहारार्थं गमिष्यामीत्य् अर्थः ॥११७॥
—ओ)०(ओ—
॥ २.४.११८-१२० ॥
अथ (१९) अवहित्था—
अवहित्थाकार-गुप्तिर् भवेद् भावेन केनचित् ॥
अत्राङ्गादेः पराभ्यूह-स्थानस्य परिगूहनम् ।
अन्यत्रेक्षा वृथा-चेष्टा वाग्-भङ्गीत्य्-आदयः क्रियाः ॥
तथा चोक्तम्—
अनुभाव-पिधानार्थोऽवहित्थं भाव उच्यते ॥
श्री-जीवः : केनचिद् भावेन भाव-पारवश्येन हेतुना आकारस्य गोप्य-भावानुभावस्य गुप्तिः कृत्रिम-भावान्तर-व्यञ्जनया करण-रूपया संवरणं यस्मिन्, स तद्-गुप्तीच्छा-रूपो भावोऽवहित्था इत्य् अर्थः ॥११८॥ अनुभावेति अनुभाव इति । अनुभाव-पिधानार्थो भावोऽवहित्तम् उच्यत इत्य् अन्वयः ॥१२०॥
मुकुन्दः : केनचिद् भावेन करणेन आकारस्य अभिप्राय-बोधक-भावस्य गुप्तिः संवृतिः । तद्-गुप्ति-रूपो भावोऽवहित्थेत्य् भावोऽ**वहित्था **इत्य् अर्थः ॥११८॥
विश्वनाथः : केनचिद् भावेन भाव-पारवश्येन हेतुना आकारस्य गोपनम् अवहित्था भवेत्। स्थायि-भाव-जन्माश्रु-पुलकादेः कृत्रिम-भावान्तर-व्यञ्जनया करण-रूपया संवरणम् एवावहित्थेत्य् एव अवहित्था इत्य् अर्थः ॥११८॥ अनुभावस्य स्थायि-भाव-जन्माश्रु-पुलकादेर् आच्छादनम् एवार्थः एव अर्थः प्रयोजनं यस्य, स कृत्रिम-भाव एव अवहित्था उच्यतेएवावहित्थोच्यते इत्य् अन्वयः ॥१२०॥
—ओ)०(ओ—
॥ २.४.१२१ ॥
तत्र जैह्म्येन, यथा श्री-दशमे (१०.३२.१५)—
सभाजयित्वा तम् अनङ्ग-दीपनं
सहास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः
संस्तुत्य ईषत् कुपिता बभाषिरे ॥
श्री-जीवः : जैह्म्येन मति-कौटिल्येन हेतुना ॥१२१॥
मुकुन्दः : जैह्म्यं कौटिल्यं, तत् तद् असतः ख्यापन-रूपो दम्भ अवहित्था-भेद एव, तेन करणेन सभाजयित्वेत्य् सभाजयित्वा इत्य्-आदि-रूपं जैह्म्यम् ॥१२१॥
विश्वनाथः : ततश् च रिरंसवे कृष्णाय रतम् आदित्सूनां तासां चेष्टितम् आह—सभाजयित्वेतिसभाजयित्वा इति। सहास-लीलेक्षणेन विभ्रमो विलासो यस्यां, तया भ्रुवा अनङ्ग-दीपनः, तासां कामोद्दीपनं तं सभाजयित्वा तद्-उचितैर् भावैः सम्मान्य “पूर्वं नः सन्त्यज्य गतः, सम्प्रति एवं चेष्टते ।” इति प्रणय-कोप-गोपनार्थम् अङ्क-कृतयोः तेनैव तासाम् अङ्के न्यस्तयोः ताभिर् एव वा स्वाङ्के धृतयोः अङ्घ्रि-हस्तयोः संस्पर्शनेन संस्तुत्य संस्तुत्य—“अहो ते कर-चरणानां शैत्यम् अपूर्वं, यत् संस्पर्शनेनास्माकं संस्पर्शनेन अस्माकं तापो निर्वाणः । तस्मात् त्वं सत्यं सन्ताप-दुःखानभिज्ञः सदा सुखी विधुर् एवासीति एवासि” इति व्याज-स्तुत्या ईषत् कुपिताः सत्यः बभाषिरे ॥१२१॥
—ओ)०(ओ—
॥ २.४.१२२ ॥
दाक्षिण्येन, यथा—
सात्राजिती-सदन-सीमनि पारिजाते
नीते प्रणीत-महसा मधुसूदनेन ।
द्राघीय-सीम् अनि अपि विदर्भ-भुवस् तदेर्ष्यां
सौशील्यतः किल न कोऽपि विदाम्बभूव ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : दाक्षिण्यं मान-भेदोदात्त-नामा स्थायी । द्राघीयसीम् अतिशयेन दीर्घाम् ईर्ष्याम् असूयानुभावाम् । सौशील्यतो दाक्षिण्यतः ॥१२२॥
विश्वनाथः : प्रणितः कृतः महान् उत्सवो येन, तेन कृष्णेन सत्यभामायाः सदन-सीमनि पारिजाते नीते रुक्मिण्याः तदा द्राघीयसिम् द्राघीयसीम् अतिदीर्घतमाम् अपि ईर्ष्ञां ईर्ष्यां न विदाम्बभूव न ज्ञातवान् इत्य् अर्थः ॥१२२॥
—ओ)०(ओ—
॥ २.४.१२३ ॥
ह्रिया, यथा प्रथमे (१.११.३२३)—
**तम् आत्मजैर् दृष्टिभिर् अन्तर् आत्मना
दुरन्त-भावाः परिरेभिरे पतिम् ।
निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर्
विलज्जतीनां भृगु-वर्य वैक्लवात् ॥
श्री-जीवः, मुकुन्दः : **: न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **लज्जया कृत-विघ्नानाम् अपि तासां तत्-परिरम्भे प्रकारम् आह—तम् इति । आत्मजैर् मनोभवैस् तद्-दर्शनो दीपितैः कामैर् हेतुभिर् इत्य् अर्थः । मकरध्वज आत्म-भूर् इत्य् अमरः । दृष्टिभिः परिरेभिरे इति प्रथमं चक्षुषः सम्भोग उक्तः । ततो दृष्टिभिर् एव नेत्र-रन्ध्रैर् एवान्तः एव अन्तः प्रवेश्य आत्मना अन्तर्-देहेनापि यतो दुरन्त-भावा दुर्ज्ञेयाभिप्रायाः । तद् अपि सूक्ष्म-धिया प्रेयसा स्वाभिप्राय-ज्ञातम् आलक्ष्य विलज्जमानानां तासां नेत्रयोर् अम्बु निरुद्धम् अपि वैक्लवात् वैवश्यात् आ ईषत् आस्रवत् अस्रवत् सुस्राव। हे भृगु-वर्य ! ॥१२३॥
—ओ)०(ओ—
॥ २.४.१२४ ॥
जैह्म्य-ह्रीभ्यां, यथा—
का वृषस्यति तं गोष्ठ-भुजङ्गं कुल-पालिका ।
दूति यत्र स्मृते मूर्तिर् भीत्या रोमाञ्चिता मम ॥
श्री-जीवः : वृषस्यति कामयते । लक्षणं सा वृषस्यन्तीतिवत् । कुल-स्त्री कुल-पालिका ॥१२४॥
मुकुन्दः : वृषस्यति रन्तुम् इच्छति । लक्षणं सा वृषस्यन्तीति भट्ट्यां च । कुल-पालिका कुल-स्त्री । रोमाञ्चितेत्य् रोमाञ्चिता इत्य् अत्र श्री-कृष्ण-प्रार्थनात्मक-दूती-वचन-श्रवणेन हर्षजो रोमाञ्चः ॥१२४॥
**विश्वनाथः **: हे दूति ! का कुल-पालिका कुल-स्त्री । कुल-स्त्री कुल-पालिका इत्य् अमरः । गोष्ठस्य भुगङ्गं कामुकं श्री-कृष्णं वृषस्यति कामयते । यत्र कृष्णे स्मृते सति भीत्या मम मूर्तिः रोमाञ्चिता अभूत् । अत्र स्थायि-भाव-जन्य-रोमाञ्चस्य कृत्रिम-भय-रूप-भावान्तर-जन्यत्वेन आच्छादनं ज्ञेयम् ॥१२४॥
—ओ)०(ओ—
॥ २.४.१२५ ॥
सौजन्येन, यथा—
गूढा गाम्भीर्य-सम्पद्भिर् मनो-गह्वर-गर्भगा ।
प्रौढाप्य् अस्या रतिः कृष्णे दुर्वितर्का परैर् अभूत् ॥
श्री-जीवः : सौजन्येनेति सौजन्येन इति । दाक्षिण्यं मतेः कारणं सारल्यं, सौजन्यं तु धैर्य-लज्जादि-युक्तत्वम् इत्य् अनयोर् भेदः । मनो-गह्वरं गर्भगा अत्यन्त-गुप्ता या रतिः सा प्रौढापि गाम्भीर्य-सम्पद्भिर् गूढा सती दिर्वितर्काभूत् दुर्वितर्काभूत् ॥१२५॥
मुकुन्दः : सौजन्यं गाम्भीर्यादि-युक्तो विनयः । दुर्वितर्केत्य् दुर्वितर्क्या इत्य् अत्र हेतुः—गूढेत्य् गूढा इत्य्-आदि पद्यार्धम् । परैः समाज-स्थैर् अन्यैः वैष्णवैः । रतिर् अत्र हर्षजा । वितर्केति वक्ष्यमाणे पद्य पद्ये रतेस् तज्-जत्वं दर्शयिष्यते ॥१२५॥
विश्वनाथः : सौजन्येन इति । दाक्षिण्यं मतेः कारणं सारल्यं, सौजन्यं तु धैर्य-लज्जादि-युक्तत्वम् इत्य् अनयोर् भेदः । मनो-गह्वर-गर्भगा अत्यन्त-गुप्ता या रतिः, सा प्रौढापि गाम्भीर्य-सम्पद्भिर् गुप्ता सती दिर्वितर्काभूत् दुर्वितर्काभूत् ॥१२५॥
—ओ)०(ओ—
॥ २.४.१२६ ॥
गौरवेण, यथा—
गोविन्दे सुबल-मुखैः समं सुहृद्भिः
स्मेरास्यैः स्फुटम् इह नर्म निर्मिमाणे ।
आनम्रीकृत-वदनः प्रमोद-मुग्धो
यत्नेन स्मितम् अथ संववार पत्री ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : गोविन्दं दास्ये स्थायि-भावः ॥१२६॥
विश्वनाथः : सुबल-मुखैः सखिभिः सह श्री-कृष्णे हास्यं निर्मिमाणे सति पत्रि-नामा दासः यत्नेन स्मितं संववार आच्छादयामास ॥१२६॥
—ओ)०(ओ—
॥ २.४.१२७-१२८ ॥
हेतुः कश्चिद् भवेत् कश्चिद् गोप्यः कश्चन गोपनः ।
इति भाव-त्रयस्यात्र विनियोगः समीक्ष्यते ॥
हेतुत्वं गोपनत्वं च गोप्यत्वं चात्र सम्भवेत् ।
प्रायेण सर्व-भावानाम् एकशोऽनेकशोऽपि च ॥
श्री-जीवः : हेतुर् इति । यथा सभाजयित्वा [भ।र।सि। २.४.१२१] इत्य् आदौइत्य्-आदौ हेतुर् असूया-मय-जैह्म्यं, तच् च स्व-गिरैवाभिव्यक्तं दोषः स्याद् इति मति-कौटिल्यम् । तच् च तादृश-भ्रू-विलासेनैवात्र व्यक्तम् । गोप्योऽसूयामयामर्षः । स च ईषत् कुपिता इत्य् अनेन व्यक्तः । गोपयन्त्य् अनेनेति गोपनः । स चात्र संस्तव-संस्पर्शाभ्यां प्रत्यायितं हर्ष-वैकल्यम् । सहासादित्वं च जैह्म्य-मयम् अपि तद् इव प्रत्यायति, सर्वत्र गोपनानुभावः कृत्रिम एव । गोपन-भावस् तु मृगतृष्णा-जलवत् प्रतीति-मात्र-शरीरः, तस्माद् अस्य गोपनत्वम् आप प्रातीतिकम् एव, किं त्व् अनुभावस्यैव वास्तवत्वम् इति ज्ञेयम् ।
सात्राजिती [भ।र।सि। २.४.१२२] इत्य् इत्य्-आदौ मतिमयं दाक्षिण्यं हेतुः । तद् अत्र तस्या प्रसिद्धम् इति नोक्तम् । ईर्ष्या गोप्या । इयं च शब्द-लब्धा । सौशील्यं तु कृत्रिम-सुष्ठु-व्यवहारः । तत् प्रत्यायितो हर्षाभासो गोपनः ।
तम् आत्मजैर् [भ।र।सि। २.४.१२३] इत्य् आदौइत्य्-आदौ विलज्जा हेतुः । दुरन्त-भावोऽत्र सम्भोगाख्यो रसो गोप्यो गोप्यः । गोपनस् त्व् अश्रु-निरोधेन प्रत्यायितो धृत्य्-आभासः । तथाप्य् अश्रु-स्रवो गोपन आत्मज-द्वारा परिरम्भणेन सम्भोग-रसावरकः पत्य्-उचित-मैत्री-मात्रात्मकः । तत्र पाठ-व्युत्क्रमेणार्थ-क्रमश् चायं—प्रथमं दृष्टिभिस् दृष्टिभिः, ततोऽन्तर्-आत्मना, तत आत्मजैः परिरेभिरे इति ।
का वृषस्यति [भ।र।सि। २.४.१२४] इत्य् इत्य्-आदौ जैह्म्यम् अपि तस्या स्वाभाविकम् इति हेतुर् एव । गोप्यो हर्षः । वचन-मात्राभाषिता भीतिर् गोपनी ।
गूढ [भ।र।सि। २.४.१२५] इत्य् इत्य्-आदौ सौजन्यं हेतुर् गम्यः ।
गोविन्द [भ।र।सि। २.४.१२६] इत्य् इत्य्-आदौ गौरवं हेतुः । यत्न-मात्राभाविता धृतिर् गोपनी । चापलं गोप्यम् इति ॥१२८॥
मुकुन्दः : हेतुर् अनुभाव-कारणं लक्षणोदाहरणयोर् अनुभाव-ग्रहणेनैवास्य प्राप्तेः साक्षाद्-अनुक्तिः । गोप्योऽनुभाव-रूपः । गोपनः करण-रूपम् । अत्रावहित्थायाम् एकशः एकेनैकेन कृत्वा **सर्व-भावानाम् अनुभाव-सात्त्विक-व्यभिचारि-स्थायिनाम् । सर्वे हि सत्त्व-मूलत्वाद् भावाः [भ।र।सि। २.३.६१] इत्य् अत्रानुभावानाम् अपि भावता दर्शितास्ति । यथा सभाजयित्वा **[भ।र।सि। २.४.१२१] इत्य् अत्र हेतुर् असूया, गोप्योऽमर्षः, गोपनो जैह्म्यम् । एवम् अन्येऽप्य् अन्य-पद्येषु ज्ञेयाः ॥१२८॥
विश्वनाथः : कश्चिद् भावः अवहित्थाया हेतुर्, यथा सभाजयित्वा [भ।र।सि। २.४.१२१] इत्य् इत्य्-आदौ हेतुः जैह्म्यम् । तच् च स्व-गिरैवायं व्यक्त-दोषः स्याद् इति मति-कौटिल्यम् । तच् च तादृश-भ्रू-विलासेन व्यक्तम् । गोप्योऽसूया-रूपामर्षः । स च ईषत् ईषत्-कुपिता इत्य् अनेन व्यक्तः । गोपयत्य् अनेनेति गोपनः । स चात्र संस्तव-स्पर्शाभ्यां प्रत्यायितो हर्षः । सर्वत्र गोपन-रूपानुभावः कृत्रिम एव । मृगतृष्णा-जलवत् प्रतीति-मात्र-शरीरः, किं त्व् गोप्य-भावस्यैव वास्तवत्वं ज्ञेयम् ।
षात्राजिती सात्राजिती [भ।र।सि। २.४.१२२] इत्य् आदौइत्य्-आदौ दाक्षिण्यं हेतुः । ईर्ष्या गोप्या । हर्षाभासो गोपनः ।
तम् आत्मजैर् [भ।र।सि। २.४.१२३] इत्य् आदौइत्य्-आदौ लज्जा हेतुः । दुरन्त-भावोऽत्र सम्भोगाख्य-रसो गोप्यः । गोपनं त्व् अश्रु-निरोधेन प्रत्यायितो धृत्य्-आभासः ।
का वृषस्यति [भ।र।सि। २.४.१२४] इत्य् आदौइत्य्-आदौ जैह्म्यम् हेतुः, गोप्यो हर्षः । भीतिर् गोपनी ।
गूढ [भ।र।सि। २.४.१२५] इत्य् आदौइत्य्-आदौ सौजन्यं हेतू रतिर् गोप्या । गाम्भीर्यं गोपनम् ।
गोविन्द [भ।र।सि। २.४.१२६] इत्य् इत्य्-आदौ गौरवं हेतुः । धृतिर् गोपनी । चापल्यं गोप्यम् ॥१२८॥
—ओ)०(ओ—
॥ २.४.१२९ ॥
अथ (२०) स्मृतिः—
या स्यात् पूर्वानुभूतार्थ-प्रतीतिः सदृशेक्षया । दृढाभ्यासादिना वापि सा स्मृतिः परिकीर्तिता । भवेद् अत्र शिरः-कम्पो भ्रू-विक्षेपादयोऽपि च ॥
श्री-जीवः : प्रतीतिर् अत्रानुसन्धानम् ॥१२९॥
मुकुन्दः : प्रतीतिर् अभिज्ञानम् ॥१२९॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१३० ॥
तत्र सदृशेक्षणा, यथा—
**विलोक्य श्यामम् अम्भोदम् अम्भोरुह-विलोचना ।
स्मारं स्मारं मुकुन्द त्वां स्मारं विक्रमम् अन्वभूत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **हे मुकुन्द ! त्वां स्मृत्वा स्मृत्वा स्मर-सम्बन्धिनं विक्रमम् अन्वभूत्॥१३०॥
—ओ)०(ओ—
॥ २.४.१३१ ॥
दृढाभ्यासेन, यथा—
**प्रणिधान-विधिम् इदानीम् अकुर्वतोऽपि प्रमादतो हृदि मे ।
हरि-पद-पङ्कज-युगलं क्वचित् कदाचित् परिस्फुरति ॥
श्री-जीवः : **प्रमादतस् तद्-धेतोर् उपद्रवतः । उपद्रवाद् इति वा पाठः ॥१३१॥
**मुकुन्दः : **प्रमादः सङ्गादि-जातानवधानता ॥१३१॥
**विश्वनाथः : **भगवच्-चरणारविन्दे चित्तस्य प्रणिधाने व्यापारम् इदम् इदानीम् अकुर्वतोऽपि मम प्रमादतः अनवधान-समयेऽपि हृदि चरण-युगलं परिस्फुरति ॥१३१॥
—ओ)०(ओ—
॥ २.४.१३२ ॥
अथ (२१) वितर्कः—
विमर्षात् संशयादेश् च वितर्कस् तूह उच्यते ।
एष भ्रू-क्सेपण-शिरोऽङ्गुलि-सञ्चालनादि-कृत् ॥१३२॥
श्री-जीवः : विमर्शो हेतु-परामर्शः, यथा—“पर्वतोऽयं वह्निमान् धूमाद् धूमात्” इति । संशयः कोटि-द्वयं स्पृशन् निर्णेतुम् अशक्यं ज्ञानं, यथा स्थाणुर् वा पुरुषो वेति । आदि-ग्रहणात् अतस्मिंस् तद्-बुद्धि-रूपो विपर्यासः, यथा शुक्तौ रजतम् इति । तस्मात् तस्माच् चेति तत्-तद्-अनन्तरं य ऊहो वस्तुनस् तत्त्व-विनिर्णयाय विचारः, स वितर्क उच्यते इत्य् अर्थः । तत्र हेतु-परामर्शानन्तरं विचारो व्याप्ति-ग्रहणम्, यथा धूम-परामर्शानन्तरं “यत्र यत्र धूमस् तत्र वह्निर् यथा महानसम्” इति । तस्माद् वह्निमान् इत्य् एतल्-लक्षणो निर्णयोऽत्र ज्ञेयः संशयानन्तरं तु विचारो हेतु-परामर्शः । तथा विपर्यासानन्तरं च स क्वचिद् दृश्यत इति ॥१३२॥
**मुकुन्दः : **विमर्शो हेतु-परामर्शः, यथा—पर्वतोऽयं वह्मिनान् धूमाद् इति । संशयः कोटि-द्वयं स्पृशन् निर्णेतुम् अशक्यं ज्ञानं, यथा स्थाणुर् वा पुरुषो वेति । आदि-ग्रहणात् अतस्मिंस् तद्-बुद्धि-रूपो विपर्यासः । तस्मात् तस्माच् चेति तत्-तद्-अनन्तरं य ऊहो वस्तुनस् तत्त्व-विनिर्णयाय विचारः, स वितर्क उच्यते इत्य् अर्थः ॥१३२॥
**विश्वनाथः : **विमर्शो हेतु-परामर्शः, यथा—पर्वतोऽयं वह्मिवह्नि-व्याप्य-धूमवान् इति । तस्माद् य ऊहः प्रत्यक्षाद्य्-आत्मक-निर्णयः, सोऽपि वितर्कः ॥१३२॥
—ओ)०(ओ—
॥ २.४.१३३ ॥
तत्र विमर्षाद्, यथा विदग्ध-माधवे (२.२७)—
न जानीषे मूर्ध्नश् च्युतम् अपि शिखण्डं यद् अखिलं
न कण्ठे यन् माल्यं कलयसि पुरस्तात् कृतम् अपि ।
तद् उन्नीतं वृन्दावन-कुहर-लीला-कलभ हे
स्फुटं राधा-नेत्र-भ्रमर-वर वीर्योन्नतिर् इयम् ॥
श्री-जीवः : न जानीष इति । अत्र व्याप्ति-ग्रहणं पूर्व-पूर्वानुभवेन ज्ञेयम् । उन्नीतम् इति ज्ञाततया निर्देशस् तस्यावहित्थाखण्डनार्थम् एव कृतो, न तु वस्तुतः । अत्र च सति तद् इदम् अस्येङ्गितान् निर्णेष्यत इति वितर्क एव पर्यवस्यति । एवम् उत्तरत्रापि । ध्रुवम् इत्य् अत्र च स एव । अत्र तु राधेति निर्णयः प्रकरण-बलात् ॥१३३॥
**मुकुन्दः : **तत् त्स्मात् हे वृन्दावन-कुहर-लीला-कलभेत्य् अनेन पूर्वं व्रज-सुन्दरीणाम् अनुरागाकृष्टात्वम् एवम् एवं जात इति व्याप्तिर् बोध्यते । उन्नीतं वितर्कितम् । किम् उन्नीतम् ? तत्राह—राधा-नेत्रेति । अत्र राधेति ज्ञानं प्रकरण-बलात् ॥१३३॥
**विश्वनाथः : **श्री-कृष्णं प्रति मधुमङ्गलस्य वचनम् । त्व कण्ठे मया कृतम् अपि माल्यं न जानीषे, तस्मात् हे वृन्दावन-कुहर-लीला-कलभ ! राधा-नेत्र-भ्रमर-वीर्यस्य इयम् उन्नतिः पराक्रम इति मया उन्नीतम् ॥१३३॥
—ओ)०(ओ—
॥ २.४.१३४-१३५ ॥
संशयात्, यथा—
**असौ किं तापिञ्छो न हि तद्-अमल-श्रीर् इह गतिः
पयोदः किं वामं न यद् इह निरङ्को हिमकरः ।
जगन्-मोहारम्भोद्धूर-मधुर-वंशी-ध्वनिर् इतो
ध्रुवं मूर्धन्य् अद्रेर् विधु-मुखि मुकुन्दो विहरति ॥
विनिर्णयान्त एवायं तर्क इत्य् ऊचिरे परे ॥
श्री-जीवः : **असाव् इत्य् आदि इत्य्-आदि विचारेण पूर्वं संशय एवासीद् इति गम्यते । सोऽयं तापिञ्छो वा पयोदो वा मुकुन्दो वेति लक्षणो गम्यः । तापिञ्छस्य वात्यादिना दोलायमानता-रूपा यत् किञ्चिद् गतिः प्रतीयतां नाम । इह तु अमल-श्रीः स्पष्टैव गतिः । तथा पयोदे स्वतस् तद्-आवृतत्वाच् च कलङ्की हिमकरः सम्भवतु । इह तूभयथापि निष्कलङ्कः स प्रतीयत इति न, स च स चेत्य् अर्थः ॥१३४-५॥
**मुकुन्दः : **असौ किम् इति तापिञ्छाभावे अमल-श्रीर् इति विशेषणं पयोदाभावे निरङ्ग इति । मुकुन्दत्वे जगन्-मोहेत्य् असाधारणं तत् ॥१३४॥
**विश्वनाथः : **असाव् इत्य् आदि इत्य्-आदि विचारेण पूर्वं संशय एवासीद् इति गम्यते । स चायं तापिञ्छो वा पयोदो वा मुकुन्दो वेति लक्षणो गम्यः । तापिञ्छस् तमालः, तस्य वात्यादिना दोलायमानता-रूपा यत् किञ्चिद् गतिः प्रतीयतां नाम । इह तु अमल-श्रीः स्पष्टैव गतिर् दृश्यते । नायं पयोधो मेघः, यतः प्रसिद्ध-मेघोपरि यश् चन्द्रः स तु स-कलङ्कः, इह तु मेघवद् भासमानस्य शरीरस्योपरि यो मुख-रूप-चन्द्रः स निरङ्को निष्कलङ्कः । जगन्-मोहारम्भ-समर्थ-वंशी-ध्वनिः, ततोऽस्माद् धेतोः गोवर्धनस्य मूर्धनि ध्रुवं निश्चितं मुकुन्दो विहरति ॥१३४॥
—ओ)०(ओ—
॥ २.४.१३६ ॥
अथ (२२) चिन्ता—
ध्यानं चिन्ता भवेद् इष्टानाप्त्य्-अनिष्टाप्ति-निर्मितम् ।
श्वासाधोमुख-भूलेख-वैवर्ण्यान् निद्रता इह ।
विलापोत्ताप-कृशता-बाष्प-दैन्यादयोऽपि च ॥
श्री-जीवः : ध्यानम् अत्र विचारः । तच् च निजेष्टानाप्त्येत्य् निजेष्टानाप्त्येत्य्-आदि-लक्षणं चेच् चिन्ता कथ्यते, तद् एवाह—ध्यानम् इत्य् इत्य्-आदिना ॥१३६॥
मुकुन्दः : ध्यानं विचारः ॥१३६॥
**विश्वनाथः : **इष्टस्याप्राप्त्या अनिष्टस्य च प्राप्त्या निर्मितं ध्यानं चिन्ता भवेत् । अधो-मुखम् अधो-मुखता ॥१३६॥
—ओ)०(ओ—
॥ २.४.१३७ ॥
तत्र इष्टानाप्त्या, यथा श्री-दशमे (१०.२९.२९)—
**कृत्वा मुखान्य् अवशुचः श्वसनेन शुष्यद्
बिम्बाधराणि चरणेन लिखन्त्यः ।
अस्रेर् उपात्त-मसिभिः कुच-कुङ्कुमानि
तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **चिन्ताया अनुभावान् आह—कृत्वेति । मुखानि अव अधः कृत्वेति22 लज्जा ध्वनिता । प्रेम्णोऽनुरोधो नास्माकं23 स्वाभाविक-लज्जा-त्याग एव सम्प्रति लज्जां प्राप, यतः कुलवतीनां पुञ्जी-भूत-लज्जानाम् अप्य् अस्माकं लज्जा-त्यागः खलु प्रेम-हेतुक एव । स च प्रेम-रस-विदां मते सङ्गीत एव, न तु विगीतः । प्रेम्णस् तु लक्षणम् एतद् एव । यत् स्व-विषयं परमेश्वरम् अप्य् अतिशयेन वशीकरोति, तत् प्रेमेति । ततश् च, यद्य् अस्माकं प्रेम-विषयोऽयं कृष्णो न वशोऽभूत्, तदास्माकं प्रेमैव नास्तीत्य् अवगतम् । लज्जा-त्यागोऽयं किं हेतुकोऽभूत् ? इत्य् अनुतापो लज्जा चिन्ता च । तत्रानुतापं विवृण्वन् मुखानि विशिनष्टि । मुखानि कीदृशानि ? शुचः शोकाद् उद्भूतेन श्वसनेनोष्ण-श्वासेन शुष्यन्तो बिम्बाधरा येषु तानि, सूर्यातपेन पक्व-बिम्ब-फलानां शोषे सति स्थौल्यस्यापगमः स्फुट-मलिनत्वं च यथा भवेत्, तथा अधरानाम् अप्य् अभूद् इति भावः । लज्जा-चिन्ते विवृणोति—चरणेन वाम-पादाङ्गुष्ठेन भुवं लिखन्त्य इति विदीर्णायां भूमाव् एव प्रवेष्टुम् इति भावः । शोक-सन्तापौ विवृणोति—उपात्त-मसिभिः कज्जलाक्तैर् अस्रैः कुचयोः कुङ्कुमानि मृजन्त्यः, तेन विच्छेद-वर्धकेन महानुताप-क्रकचेन द्विधा विदारयितुं श्याम-सूत्र-रेखे दत्ते इति सम्भावना ध्वनिता । अस्रैर् इति बहु-वचनेन मृजन्त्य इति वर्तमान-कालेन चास्राणां प्रवाहवती धारा सूचिता । तावद्भिर् अप्य् अस्रैर् अन्तरीय-वस्त्राण्य् आर्द्रीयन्त्य इत्य् अनुक्त्या एवं सम्भाव्यते । नयनोत्थ-यमुना-द्वय-हृदयोत्थ-सन्तापानलयोर् निर्वापण-शोषण-कामयोर् विवादे न कस्यापि जयः पराजयो वा दृष्ट इति । उरु-दुःखस्य भरो भारो यासां ताः। तूष्णीम् इति भारासहिष्णुतैव चेतनाया अपगमाद् इति भावः । ततश् च तस्थुर् इति तासां गत-चेतनानां पाञ्चालिकानाम् ऊर्ध्वावस्थितिर् अवगम्यते ॥१३७॥
—ओ)०(ओ—
॥ २.४.१३८ ॥
यथा वा—
**अरतिभिर् अतिक्रम्य क्षामा प्रदोषम् अदोष-धीः
कथम् अपि चिराद् अध्यासीना प्रघाणम् अघान्तक ।
विधूरित-मुखी घूर्णत्य् अन्तः प्रसूस् तव चिन्तया
किम् अहह गृहं क्रीडा-लुब्ध त्वयाद्य विसस्मरे ॥
श्री-जीवः : **अदोष-धीः तद्-रूपत्वात् सर्वत्रापि स्निग्ध-स्वभावा, किम् उत त्वयीत्य् अर्थः । प्रघाणम् अलिन्दं गृह-द्वाराग्रे-लग्न-वेदिका-रूपम् । अत्र च न-कारस्य मूर्धन्यत्वम् एव बहूनां मतम् ॥१३८॥
**मुकुन्दः : **श्री-कृष्णं प्रति पथि पौर्णमास्या वचनम् अरतिभिर् इति । अदोष-धीस् त्वयि स्निह्यत्य् एव, न तु विलम्बाद् अन्यत् किञ्चिद् भावयतीत्य् अर्थः । प्रघानम् अलिन्दं गृह-द्वाराग्र-लग्न-वेदिका-रूपम् । अत्र न-कारो दन्त्यो मूर्धन्योऽपि बहूनां मतम् ॥१३८॥
**विश्वनाथः : **तव प्रसूर् माता अरतिभिः क्लेशैः प्रदोषं रजनी-मुखं कथम् अपि कष्टेन अतिक्रम्य प्रघाणम् अलिन्दं गृह-द्वाराग्रे-लग्न-वेदिका-रूपं चिर-कालाद् व्याप्य अध्यासीना सती चिन्तया अन्तर् घूर्णति । कथम्-भूता ? तव विरहेण क्षामा क्षीणा । पुनश् च दुःखित-मुखी । अहह खेदे । हे क्रीडा-लुब्ध ! त्वया अद्य किं गृहं विसस्मरे ? त्वं सहचर-बालकैर् युवतिभिश् च सह क्रीडां करोषि, तथापि त्वयि तस्या दोष-दृष्टिर् नास्ति । अत एव विशेषणम् आह—यतः सा अदोष-धीः सर्वत्र स्निग्ध-स्वभावत्वाद् दोष-दृष्टिर् नास्ति । किम् उत त्वयीत्य् अर्थः ॥१३८॥
—ओ)०(ओ—
॥ २.४.१३९ ॥
अनिष्टाप्त्या, यथा—
**गृहिणि गहनयान्तश्-चिन्तयोन्निद्र-नेत्रा
ग्लपय न मुख-पद्मं तप्त-बाष्प-प्लवेन ।
नृप-पुरम् अनुविन्दन् गान्दिनेयेन सार्धं
तव सुतम् अहम् एव द्राक् परावर्तयामि ॥
श्री-जीवः : **स्नपयेत्य् आदौ ग्लपय न मुख-पद्मं तप्त-बाष्प-प्लवेन इत्य् एव पाठः । द्राक् परावर्तयामीत्य् अत्रानिष्ट-शङ्का तु सर्वथा न कर्तव्या । गर्गादि-वाक्याद् इति भावः । तस्माद् अनिष्टम् अत्र कंस-वधानन्तरं तत्रावस्थानम् एव ॥१३९॥
**मुकुन्दः : **बाष्प-बिन्दूत्करेण नेत्र-जल-बिन्दु-समूहेन वदनेन्दुं न स्नपय । दुःखजत्वाद् उष्ण-स्नपनेन ग्लपनं ध्वन्यते ॥१३९॥
**विश्वनाथः : **हे गृहिणि यशोदे ! नूपुरं मथुराम् अनुविन्दन् प्राप्नुवन् सन् तव सुतं शीघ्रं परावर्तयामि । अतोऽत्र अनिष्टाशङ्का न कर्तव्या, गर्गादि-वाक्याद् इति भावः । गान्दिनेयोऽक्रूरः ॥१३९॥
—ओ)०(ओ—
॥ २.४.१४०-१४१ ॥
अथ (२३) मतिः—
शास्त्रादीनां विचारोत्थम् अर्थ-निर्धारणं मतिः ॥
अत्र कर्तव्य-करणं संशय-भ्रमयोश् छिदा ।
उपदेशश् च शिष्याणाम् ऊहापोहादयोऽपि च ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१४२ ॥
यथा पाद्मे वैशाख-माहात्म्ये (६.९७.२७)24—
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास्
तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥
श्री-जीवः : व्यामोहायेति व्यामोहाय इति । सर्व-पुराणागम-रूप-महा-वाक्यस्य सम्यग्-विचारायोग्य-पुरुषान् प्रति खण्डशो वदन्त्व् इत्य् अर्थः । यतः सिद्धान्त इत्य् इत्य्-आदि । व्यापारा रूद्ःय्-आदि-वृत्तयः । विवेचनं विचारः । व्यतिकर आसङ्गस् आसङ्गः, तं नीतेषु तद्-व्यापारेषु यः सिद्धान्तस् तस्मिन्न् एक एव भगवान् निश्चीयते । चराचरा जङ्गमास् ते चात्र मनुष्या एव, मनुष्याधिकारित्वात् शास्त्रस्य ॥१४२॥
**मुकुन्दः : **ये आपाततो देवता-प्रतिपादिकास् ते ते जल्पन्तु, वदन्तु नाम समस्तागमास् तज्-जल्पकाः । अन्ये च पुराणागमादयस् तेषां व्यापारा अभिधाद्याश् चतस्रो वृत्तयस् तेषु विवेचनस्योहापोहादि-रूपस्य विचारस्य व्यतिकरः सम्पर्कस् तं नीतेषु सत्सु यः सिद्धान्तस् तस्मिन्न् एकः केवलो भगवान् एव निश्चीयते, न देवाः ॥१४२॥
विश्वनाथः- चराचरस्य जगतं जगतो व्यामोहाय पुराण-वेद-शास्त्राणि तां तां देवतां परमिकां श्रेष्ठां कल्प-पर्यन्तं जल्पन्तु, समस्तानाम् आगमानां वेदानां व्यापारेषु तात्पर्येषु विवेचनस्य व्यतिकरं पौनःपुन्येन नीतेषु सत्सु यः सिद्धान्तस् सिद्धान्तः, तस्मिन्न् एक एव भगवान् निश्चीयते ॥१४२॥
—ओ)०(ओ—
॥ २.४.१४३ ॥
यथा वा, श्री-दशमे (१०.६०.३९)—
त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव
आत्मात्मदश् च जगताम् इति मे वृतोऽसि ।
हित्वा भवद्-भ्रुव उदीरित-काल-वेग-
ध्वस्ताशिषोऽब्ज-भवनाक-पतीन् कुतोऽन्ये ॥
श्री-जीवः : त्वं न्यस्तेति न्यस्त- इति । क्षीरोद-मथनाचरित-निज-चरितम् अनुसन्धाय श्री-रुक्मिण्य् आह । पूर्व-पूर्वम् एवेदं मया निश्चितम् इत्य् उपलक्षयितुं तत्र न्यस्त-दण्डत्वं सर्व-सङ्ग-सर्वाभिलाष-रहितत्वं गमयति । सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते [गीता २.६२] इत्य् इत्य्-आदेः ॥१४३॥
मुकुन्द-दासः : क्षीरोद-मथन-स्ववृत्तं स्मरन्ती श्री-रुक्मिण्य् आह—त्वं न्यस्तेति न्यस्त- इति । न्यस्त-दण्डा गर्वादि-शून्याश् च ते मुनय आत्मारामाश् च ते, तथा आत्मारामेष्व् अपि विशिष्टा इत्य् अर्थः, तैः ॥१४३॥
विश्वनाथः- त्वम् इति श्री-कृष्णं प्रति रुक्मिणी-वाक्यम् । भिक्षुभिः श्लाघिता मुधा [भा।पु। १०.६०.१६] इति यत् त्वया पूर्वम् उक्तं तत्र भिक्षु-शब्दार्थं व्याचक्षाणा भिक्षु-श्लाघैव सर्वोत्कर्ष इत्य् आह—त्वम् इति । **न्यस्त-दण्डेति **त एव भिक्षव उच्यन्ते इति भावः । गदितानुभावः श्लाघित-प्रभावः । आत्मा परमात्मेति यद् अर्थं सर्वं प्रियं जातं तेषाम् आत्मनाम् अप्य् आत्मनस् तव श्लाघनं मुधेत्य् अतो मुधेति त्वद्-उक्तिर् एव मुधेति भावः । जगताम् आत्मद इति जगद्-वर्ति-जनेभ्योऽपि भजद्भ्यस् त्वम् आत्मानम् अपि ददासीति ज्ञात्वैव मे मया वृतोऽसि । तद् अपि यद् उक्तं त्वया वैदर्भ्य् एतद् अविज्ञाय [भा।पु। १०.६०.१६] इति तन् ममेदं विलक्षणं ज्ञानम् अज्ञात्वैवेति भावः । भवतो भ्रुवः सकाशाद् उदीरितो यः कालस् तस्य वेगेन ध्वस्ता आशिषो येषां तान् ब्रह्मादीन् अपि विहाय त्वं वृतोऽसि । कुतोऽन्ये वराकाः ? तद् अपि यद् उक्तं त्वया अदीर्घ-समीक्षयेति तन् मम दीर्घ-समीक्षाम् अप्य् अज्ञात्वैवोक्तम् इति भावः ॥१४३॥
—ओ)०(ओ—
॥ २.४.१४४ ॥
अथ (२४) धृतिः—
**धृतिः स्यात् पूर्णता ज्ञान-दुःखाभावोत्तमाप्तिभिः ।
अप्राप्तातीत-नष्टार्थान् अभिसंशोचनादि-कृत् ॥
श्री-जीवः : **ज्ञानेन भगवद्-अनुभवेन, तथा भगवत्-सम्बन्धेन यो दुःखाभावस् तेन, तथा उत्तमस्य भगवत्-सम्बन्धितया परम-पुरुषार्थस्य प्रेम्णः प्राप्त्या च पूर्णता मनसोऽचाञ्चल्यं, सा धृतिर् इत्य् अर्थः ॥१४४॥
मुकुन्द-दासः : ज्ञानेन अविद्या-ध्वंसात् प्रबुद्धता-लक्षणेन बोधेन, तथा दुःखाभावः पुत्रादि-सम्बद्भ्यः क्षोभ-राहित्यं तेन तथा उत्तमस्य श्री-कृष्ण-तद्-भक्त्य्-आदेः प्राप्त्या च पूर्तता पूर्णता कृत-कृत्यता-मननं, सा धृतिर् इत्य् अर्थः । अप्राप्तातीत-नष्टा ये अर्था इन्दिरियार्थास् तेषां न अभिसंशोचनादीन् करोतीति तथा । आदि-ग्रहणात् उत्कण्ठा-पश्चात्ताप-प्रयत्नाद्याः ॥१४४॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१४५ ॥
तत्र ज्ञानेन, यथा वैराग्य-शतके (५५) भर्तृहरिः—
**अश्नीमहि वयं भिक्षाम् आशा-वासो वसीमहि ।
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ॥
श्री-जीवः : **अश्नीमहीत्य् अत्र भगवत्-सम्बन्धि-ज्ञानम् आहार्यम् । ईश्वरैः राजादिभिः ॥१४५॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **आशा-वासः दिग्-रूप-वस्त्रं परिधानं करोमि । ईश्वरै राजादिभिः किम् ॥१४५॥
—ओ)०(ओ—
॥ २.४.१४६ ॥
दुःखाभावेन, यथा—
**गोष्ठं रमा-केलि-गृहं चकास्ति
गावश् च धावन्ति परः-परार्धाः ।
पुत्रस् तथा दीव्यति दिव्य-कर्मा
तृप्तिर् ममाभूद् गृहमेधि-सौख्ये ॥
श्री-जीवः : **गोष्ठम् इति श्री-गोष्ठ-महेन्द्र-वाक्यम् । परः-परार्धाः परार्धतोऽपि पर-सङ्ख्या इत्य् अर्थः । कथं तत् तज् ज्ञातं ? तत्राह—पुत्रस् तथेति । येन प्रकारेण तत् तज् ज्ञायते तेनैव प्रकारेण दिव्य-कर्मा पुत्रो दीव्यतीत्य् अर्थः । तृप्तिर् ममाभूद् इत्य् अत्रातृप्ति-मय-दुःख-ध्वंसो व्यञ्जितः ॥१४६॥
**मुकुन्दः : **गोष्ठम् इति । परः-परार्धाः परार्धतोऽपि पर-सङ्ख्या इत्य् अर्थः । तृप्तिर् ममाभूद् इति पुत्रादेर् अप्राप्तिज-दुःखं तत्-प्राप्त्या गतम् एव, तद्-अन्य-सुखेच्छा नास्तीत्य् अर्थः ॥१४६॥
**विश्वनाथः : **गोष्ठम् इति श्री-नन्द-वाक्यम् । परः-परार्धाः परार्धतोऽपि पर-सङ्ख्या इत्य् अर्थः । कथं तज् ज्ञातं ? तत्राह—पुत्रस् तथेति । येन प्रकारेण तत् तज् ज्ञायते तेनैव प्रकारेण दिव्य-कर्मा पुत्रो दीव्यतीत्य् अर्थः । तृप्तिर् ममाभूद् इत्य् अत्रातृप्ति-मय-दुःख-ध्वंसो व्यञ्जितः ॥१४६॥
—ओ)०(ओ—
॥ २.४.१४७-१४८ ॥
उत्तमाप्त्या, यथा—
**हरि-लीला-सुधा-सिन्धोस् तटम् अप्य् अधितिष्ठतः ।
मनो मम चतुर्-वर्गं तृणायापि न मन्यते ॥ \
**अथ (२५) हर्षः—
अभीष्टेक्षण-लाभादि-जाता चेतः-प्रसन्नता ।
हर्षः स्याद् इह रोमाञ्चः स्वेदोऽश्रु मुख-फुल्लता ।
आवेगोन्माद-जडतास् तथा मोहादयोऽपि च ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१४९ ॥
तत्र अभीष्टेक्षणेन, यथा श्री-विष्णु-पुराणे [वि।पु। ५.१७.२५]—
तौ दृष्ट्वा विकसद्-वक्त्र-सरोजः स महामतिः ।
पुलकाञ्चित-सर्वाङ्गस् तदाक्रूरोऽभवन् मुने ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१५० ॥
अभीष्ट-लाभेन, यथा श्री-दशमे (१०.३३.११२)—
तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् ।
चन्दनालिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह ॥
श्री-जीवः25, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : तत्र रास-स्थले एका गोपी स्वस्य स्कन्ध-गतं श्री-कृष्णस्य बाहुम् आघ्राय चुचुम्ब ॥१५०॥
—ओ)०(ओ—
॥ २.४.१५१ ॥
अथ (२६) औत्सुक्यम्—
कालाक्षमत्वम् औत्सुक्यम् इष्टेक्षाप्ति-स्पृहादिभिः ।
मुख-शोष-त्वरा-चिन्ता-निःश्वास-स्थिरतादि-कृत् ॥
श्री-जीवः : कालाक्षमत्वं काल-यापनायाम् असमर्थत्वम् ॥१५१॥
मुकुन्दः : कालाक्षमत्वं काल-यापनायाम् असामर्थ्यम् ॥१५१॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१५२ ॥
तत्र इष्टेक्षा-स्पृहया, यथा श्री-दशमे (१०.७१.३४)—
प्राप्तं निशम्य नर-लोचन-पान-पात्रम्
औत्सुक्य-विश्लथित-केश-दुकूल-बद्धाः ।
सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे
द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥
_न कतमेनापि व्याख्यातम् _।
—ओ)०(ओ—
॥ २.४.१५३ ॥
यथा वा, स्तवावल्यां श्री-राधिकाष्टके (१४.७)—
**प्रकटित-निज-वासं स्निग्ध-वेणु-प्रणादैर्
द्रुत-गति हरिम् आरात् प्राप्य कुञ्जे स्मिताक्षी ।
श्रवण-कुहर-कण्डुं तन्वती नम्र-वक्त्रा
स्नपयति निज-दास्ये राधिका मां कदा नु ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **स्निग्ध-वेणु-प्रणादैः प्रकटितं निज-वासं निज-स्थलं येन तथाभूतं कृष्णं द्रुत-गतिर् यथा स्यात् तथा कुञ्जे प्राप्य स्मितास्या राधिका कदा मां स्व-दास्य-रूपामृत-समुद्रे स्नपयति । श्रवण-कुहरेति—स्वभावोक्तिः । कालाक्षमत्वं काल-यापनायाम् असामर्थ्यम् ॥१५३॥
—ओ)०(ओ—
॥ २.४.१५४ ॥
इष्टाप्ति-स्पृहया, यथा—
**नर्म-कर्मठतया सखी-गणे
द्राघयत्य् अघहराग्रतः कथाम् ।
गुच्छक-ग्रहण-कैतवाद् असौ
गह्वरं द्रुत-पद-क्रमं ययौ ॥
श्री-जीवः : **द्राघयति दीर्घां कुर्वति सति ॥१५४॥
न व्याख्यातम् ।
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
द्राघयति दीर्घां कुर्वति सति ॥१५४॥
**विश्वनाथः : **नर्म-कर्मठतया परिहास कर्मणि कुशलतया सखी-गणे कामोद्दीपक-कथां द्राघयति दीर्घतरां कुर्वति सति असौ श्री-कृष्ण-स्पर्शौत्सुक्यात् गुच्छक-ग्रहण-कैतवात् कुञ्ज-गह्वरम् एकान्त-स्थलं ययौ ॥१५४॥
—ओ)०(ओ—
॥ २.४.१५५-१५६ ॥
अथ (२७) औग्र्यम्—
अपराध-दुरुक्त्य्-आदि-जातं चण्डत्वम् उग्रता ।
वध-बन्ध-शिरः-कम्प-भर्त्सनोत्ताडनादि-कृत् ॥
तत्र अपराधाद्, यथा—
स्फुरति मयि भुजङ्गी-गर्भ-विश्रंसि-कीर्तौ
विरचयति मद्-ईशे किल्बिषं कालियोऽपि ।
हुत-भुजि बत कुर्यां जाठरे वौषड् एनं
सपदि दनुज-हन्तुः किन्तु रोषाद् बिभेमि ॥
श्री-जीवः : हुत-भुजि अग्नौ वौषट् कुर्यां जुहूयाम् ॥१५६॥
****न व्याख्यातम् ।
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
हुत-भुजि अग्नौ वौषट् कुर्यां जुहूयाम् ॥१५६॥
**विश्वनाथः : **स्फुरतीति गरुड-वाक्यं, सर्पी-गर्भ-विध्वंसि-कीर्तौ मयि विद्यमाने सति जाठरे हुतभुजि जठराग्नौ एनं कालियं वौषट् आहुतिं कुर्यां, किन्तु दनुज-हन्तुः श्री-कृष्णस्य ॥१५६॥
—ओ)०(ओ—
॥ २.४.१५७ ॥
दुरुक्तितो, यथा सहदेवोक्तिः26—
**प्रभवति विबुधानाम् अग्रिमस्याग्र-पूजां
न हि दनुज-रिपोर् यः प्रौङ्ध-कीर्तेर् विसोढुम् ।
कटुतर-यम-दण्डोद्दण्ड-रोचिर् मयासौ
शिरसि पृथुनि तस्य न्यस्यते सव्य-पादः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **शिशुपालस्य दुरुक्तिं श्रुत्वा भीम आह—प्रभवतीति । विबुधानाम् अग्रिमस्य श्रेष्ठस्य कृष्णस्य अग्र-पूजां सोढुं यो न प्रभवति समर्थो न भवति, तस्य शिरसि मया वाम-पादो न्यस्यते । पादः कीदृशः ? कटुतर-यम-दण्डाद् अपि उद्दण्ड-रोचिः प्रचण्ड-प्रकाशो यस्य सः ॥१५७॥
—ओ)०(ओ—
॥ २.४.१५८ ॥
यथा वा, बलदेवोक्तिः—
**रताः किल नृपासने क्षितिप-लक्ष-भुक्तोज्झिते
खलाः कुरु-कुलाधमाः प्रभुम् अजाण्ड-कोटिष्व् अमी ।
हहा बत विडम्बना शिव शिवाद्य नः शृण्वतां
हठाद् इह कटाक्षयन्त्य् अखिल-वन्द्यम् अप्य् अच्युतम् ॥
श्री-जीवः : **रता इति कटाक्षयन्ति कुटिल-दृष्टि-विषयीकुर्वन्ति अवजानन्तीत्य् अर्थः ॥१५८॥
**मुकुन्दः : **रता इति कटाक्षयन्तीत्य् अस्य शृण्वताम् इति पद-सान्निध्याद् वचनावज्ञार्थो लक्ष्यते । दुरुक्ति-विषयीकुर्वन्तीत्य् अर्थः ॥१५८॥
**विश्वनाथः : **क्षितिप-लक्षैः भुक्त्वा उज्झिते त्यक्ते नृपासने अमी खलाः अजाण्ड-कोटिषु प्रभुं श्री-कृष्णं शृण्वतां नोऽस्माकम् अग्रे कटाक्षयन्ति, कुटिल-दृष्टि-विषयीकुर्वन्ति अवजानन्तीत्य् अर्थः ॥१५८॥
—ओ)०(ओ—
॥ २.४.१५९-१६० ॥
अथ (२८) अमर्षः—
अधिक्षेपापमानादेः स्याद् अमर्षोऽसहिष्णुता ॥
तत्र स्वेदः शिरः-कम्पो विवर्णत्वं विचिन्तनम् ।
उपायान्वेषणाक्रोश-वैमुख्योत्ताडनादयः ॥
न कतमेनापि व्याख्यातम् ॥
—ओ)०(ओ—
॥ २.४.१६१ ॥
तत्र अधिक्षेपाद्, यथा विदग्ध-माधवे (२.५३)—
**निर्धौतानाम् अखिल-धरणी-माधुरीणां धूरीणा
कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा ।
अन्तर्गोष्ठे चटुल नटयन्न् अत्र नेत्र-त्रिभागं
निःशङ्कस् त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **मां दृष्ट्वा कथं त्वं व्याकुला भवसीति उक्तवन्तं श्री-कृष्णं प्रति जटिला आह—निर्धौतानां क्षालितानां तिर्जगद्-वर्ति-माधुरीणां धुरीणा वधूः श्री-राधिका मम पार्श्वे निवसति । हे चटुल ! त्वम् अन्तर्-गोष्ठे गोष्ठ-मध्ये नेत्रस्य त्रि-भागं कटाक्षं नटयन् निःशङ्कं सन् भ्रमसि । तस्मात् कथं ममाकुलत्वं न भविष्यति ? ॥१६१॥
—ओ)०(ओ—
॥ २.४.१६२ ॥
अपमानाद्, यथा पद्मोक्तिः—
**कदम्ब-वन-तस्कर द्रुतम् अपेहि किं चाटुभिर्
जने भवति मद्-विधे परिभवो हि नातः परः ।
त्वया व्रज-मृगी-दृशां सदसि हन्त चन्द्रावली
वरापि यद् अयोग्यया स्फुटम् अदूषि ताराख्यया ॥
श्री-जीवः : **ताराख्ययेति श्री-राधां सूचयति ॥१६२॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **कदाचिन् मिलितानां सर्वासां व्रज-सुन्दरीणां मध्ये अकस्मात् सखीभिः सहितां चन्द्रावलीं दृष्ट्वा तारा-नाम्नी काचिद् व्रज-सुन्दरी तस्या भ्रमेण, “हे प्रिये तारे !” इत्य् उक्तवति श्री-कृष्णे तदैव क्रोधेन तस्मान् निर्गत्यान्यत्र कुञ्जे गतायाः सखी-सहितायाश् चन्द्रावल्या अग्रे गत्वा मान-भङ्गार्थं नाना-विधानुनयं कृतवन्तं श्री-कृष्णं प्रति तस्या सखी पद्मा आह—हे कदम्ब-वन-तस्कर ! अपेहि इतः स्थानाद् दूरे गच्छ । चन्द्रावली वरा सर्वतः श्रेष्ठापि यद् यस्माद् अत्यन्तायोग्याया तारा इति आल्यया नाम्ना त्वया स्फुटम् अदूषि, अतः परम् अस्माकं परिभवो नास्ति ॥१६२॥
—ओ)०(ओ—
॥ २.४.१६३ ॥
आदि-शब्दाद् **वञ्चनाद् **अपि, यथा श्री-दशमे (१०.३१.१६)—
**पति-सुतान्वय-भार्तृ-बान्धवान्
अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः
कितव योषितः कस् त्यजेन् निशि ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **याश् च वेणु-वादन-समये पतिभिर् अन्तर्-गृह-निरुद्धा आसन् ताः सेर्ष्यम् आहुः—पतीति । गतिम् अन्तिमां स्वासां दशमीं दशां विदन्तीति ता वयम् अन्ति त्वद्-अन्तिकम् आयाताः । तर्हि किम् आगता इति चेद् उद्गीतेन मोहिता हत-विवेकी-कृताः । एवं चेत् तर्हि—रे मूढाः ! सहध्वं वेदनाम् इति । तत्राहुः—हे कितव ! शठ ! एवम्भूता योषितो निशि स्वयम् आगता भीरूस् त्वां निर्दयम् ऋते कस् त्यजेत् ? न कोऽपीत्य् अर्थः । यद् वा, हे कितव ! हे मत्त ! निशि आयाता युवतीः कः खलु युवा त्यजेत्, अतस् त्वं वञ्चकोऽपि वञ्चित एवाभूर् इति भावः । कितवस् तु पुमान् मत्ते वञ्चके कनकाह्वये इति मेदिनी ॥१६३॥
—ओ)०(ओ—
॥ २.४.१६४ ॥
अथ (२९) असूया—
द्वेषः परोदयेऽसूयान्य-सौभाग्य-गुणादिभिः ।
तत्रेर्ष्यानादराक्षेपा दोषारोपो गुणेष्व् अपि ।
अपवृत्तिस् तिरो-वीक्षा भ्रुवोर् भङ्गुरतादयः ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१६५ ॥
तत्र अन्य-सौभाग्येन, यथा पद्यावल्याम् (३०२)27—
मा गर्वम् उद्वह कपोल-तले चकास्ति
कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१६६ ॥
यथा वा श्री-दशमे (१०.३०.३०)—
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१६७ ॥
गुणेन, यथा—
**स्वयं पराजयं प्राप्तान् कृष्ण-पक्षान् विजित्य नः ।
बलिष्ठा बल-पक्षाश् चेद् दुर्बलाः के ततः क्षितौ ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **कौतुकार्थं पराजयं प्राप्तान् कृष्ण-पक्षान् अस्मान् निर्जित्य यदि बल-पक्षा बल्ष्ठाः स्युः, तदा क्षितौ के दुर्बलाः ? ॥१६७॥
—ओ)०(ओ—
॥ २.४.१६८ ॥
अथ (३०) चापलम्—
राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।
तत्राविचार-पारुष्य-स्वच्छन्दाचरणादयः ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.१६९ ॥
तत्र रागेण, यथा श्री-दशमे (१०.५२.४१)—
**श्वो-भाविनि त्वम् अजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतना-पतिभिः परीतः ।
निर्मथ्य चैद्य-मगधेश-बलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **सत्यं त्वम् अङ्गीकार्यैव मया, किन्तु चैद्याय बन्दुभिर् दास्यमानायां त्वयि किम् अधुना करणीयम् ? इत्य् अपेक्षायां स्वयम् एवोपायम् उपदिशति—श्व इति । हे अजित ! त्वं कैर् अपि जेतुम् अशक्य इत्य् अर्थः । अतो निर्भयत्वात् श्वो-भाविनि उद्वहने विवाहे प्रथमं स्व-सैन्य-रहित एव गुप्तोऽलक्षित एवागत्य कुण्डिन-पुरीं प्रविश्य पश्चाद् एव स्व-शोभा-ख्यापनार्थं पृतना-पतिभिः परीतो भवेः । अन्यथैतत्-पुर-प्रवेशो झटिति दुष्करः । अत्रत्यैर् वीरैर् दूराद् एव त्वया सह योद्धुं प्रयास्यते अवश्यम् इति भावः । पुर-प्रवेशे तु सति मया विवाह-शोभा प्रेक्षणार्थम् एवागतम् इति वदता त्वया सह यदि वीरा योद्धुं कारणाभावाद् एव न प्रक्रंस्यन्ते, तदा त्वया सुखेनैवाहं हरणीया । यदि चानिष्टा-शङ्किनो योत्स्यन्त एव, तदा स्व-शौर्यम् आविष्कार्यम् एवेत्य् आह—निर्मथ्येति निर्मथ्य इति । समुद्रं निर्मथ्य यथा लक्ष्मीर् गृहीता तथैवेति भावः । प्रसह्य हठाद् एव वीर्यं प्रभाव-दर्शनम् एव शुष्कं शुल्कं वैवाहिक-देयं यस्यास् तां माम् ॥१६९॥
—ओ)०(ओ—
॥ २.४.१७० ॥
द्वेषेण, यथा—
**वंशी पूरेण कालिन्द्याः सिन्धुं विन्दतु वाहिता ।
गुरोर् अपि पुरो नीवीं या भ्रंशयति सुभ्रुवाम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **काचिद् व्रज-सुन्दरी स्व-सखीम् आह—यमुनायाः पुरेण प्रवाहेण वाहिता सती वंशी समुद्रं विन्दतु । तथा च—हे सखि ! त्वयैव यत्नेन इदम् अवश्यं कार्यम्, यथा सा इतो व्रज-भूम्या अन्यत्र यात्व् इति भावः । एवं सति कुलाङ्गनायाः पर-पुरुष-विषये एतादृशी चित्त-वृत्तिर् व्यवहार-मार्गे चित्तस्य लघुता-प्रयोजिका । तथा कुल-कुमार्या रुक्मिण्या अपि स्व-विवाहार्थम् एतादृश-व्यापारश् चित्तस्य लघुता-व्यञ्जकः, तथापि तादृश-लघुत्वं भगवद्-विषयक-स्नेह-जनकत्वेनाभिजनानां परम-सङ्गीतम् एवेति ज्ञेयम् ॥१७०॥
—ओ)०(ओ—
॥ २.४.१७१ ॥
अथ (३१) निद्रा—
चिन्तालस्य-निसर्ग-क्लमादिभिश् चित्त-मीलनं निद्रा ।
तत्राङ्ग-भङ्ग-जृम्भा-जाड्य-श्वासाक्षि-मीलनानि स्युः ॥
श्री-जीवः, विश्वनाथः : चित्तस्य मीलनं बहिर्-वृत्त्य्-अभावः ॥१७१॥
**मुकुन्दः : **चिन्तालस्येति चिन्तात्रैक-निष्ठ-भावना _॥_१७१॥
—ओ)०(ओ—
॥ २.४.१७२ ॥
तत्र चिन्तया, यथा—
लोहितायति मार्तण्डे वेणु-ध्वनिम् अशृण्वती ।
चिन्तयाक्रान्त-हृदया निदद्रौ नन्द-गेहिनी ॥
न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१७३ ॥
आलस्येन, यथा—
**दामोदरस्य बन्धन-कर्मभिर् अतिनिःसहाङ्ग-लतिकेयम् ।
दर-विघूर्णितोत्तमाङ्गा कृताङ्ग-भङ्गा व्रजेश्वरी स्फुरति ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **अतिनिःसहा अतिदुर्बला यस्याः सा ॥१७३॥
—ओ)०(ओ—
॥ २.४.१७४ ॥
निसर्गेण, यथा—
**अघहर तव वीर्य-प्रोषिताशेष-चिन्ताः
परिहृत-गृह-वास्तु-द्वार-बन्धानुबद्धाः ।
निज-निजम् इह रात्रौ प्राङ्गनं शोभयन्तः
सुखम् अविचलद्-अङ्गाः शेरते पश्य गोपाः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **अघहरेति । कुञ्जाद् गृहं गच्छन्तं प्रति प्रिय-नर्म-सखस्य वचनम्॥१७४॥
**विश्वनाथः : **तव वीर्येण प्रेषिता गता अशेष-चिन्ता येषां ते परिहृतास् त्यक्ता गृहाणां द्वार-बन्धने अनुबन्धा व्यापारा यैस् ते गोपाः ॥१७४॥
—ओ)०(ओ—
॥ २.४.१७५ ॥
क्लमेन, यथा—
**सङ्क्रान्त-धातु-चित्रा सुरतान्ते सा नितान्त-तान्ताऽद्य ।
वक्षसि निक्षिप्ताङ्गी हरेर् विशाखा ययौ निद्राम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **सुरतस्य सम्भोगस्य अन्ते श्रम-जलेन सङ्क्रान्तं मीलितं गैरिकादि-कृत-मकरिकादि-चित्रं यस्याः सा विशाखा ॥१७५॥
—ओ)०(ओ—
**॥ २.४.१७६ ॥
युक्तास्य स्फूर्ति-मात्रेण निर्विशेषेण केनचित् ।
हृन्-मीलनात् पुरोऽवस्था निद्रा भक्तेषु कथ्यते ॥
श्री-जीवः : **ननु पूर्वं चित्त-मीलनं निद्रेत्य् उक्तं, सा च तमो-गुणेन चित्त-वृत्ति-रूपैव प्रसिद्धा, सा च परम-भक्तानां न सम्भवति, गुणातीत-चित्तत्वात् । तर्हि केन तदावृतिर् इयं निद्रा ? तत्राह—युक्तेति । अस्य श्री-कृष्णस्य उत्तम-भक्तानां भगवत्-समाधि-रूपैव निद्रा, न तु प्राकृती युज्यत इति भावः, गुणातीत-भावत्वात् । यथोक्तं गारुडे—
जाग्रत्-स्वप्न-सुसुप्तेषु योग-स्थस्य च योगिनः । या काचिन् मनसो वृत्तिः सा भवेद् अच्युताश्रयः ॥ इति ।
अत एव श्री-कृष्णस्य स्फूर्ति-मयत्वाद् धृन्-मीलनात् पुरोऽवस्थैव निद्रोच्यते, न तु हृन्-मीलन-मात्रम् । यत् तु पूर्वं, चित्त-मीलनं निद्रा इत्य् उक्तं तत् खल्व् आपातत एव बोधयतीति भावः ॥१७६॥
**मुकुन्दः : **ननु चित्त-मीलने कुतो भावत्वं, भावस्य चित्त-वृत्ति-रूपत्वाद् इत्य् अत्राह—युक्तास्येति । अस्य श्री-कृष्णस्य अतोऽत्राङ्ग-भङ्ग-जृम्भे अनुभावौ चोक्तौ ॥१७६॥
**विश्वनाथः : **ननु पूर्वं चित्त-मीलनं निद्रेत्य् उक्तं, सा च तमो-गुणेन चित्त-वृत्ति-रूपैव प्रसिद्धा । सा च परम-भक्तानां न सम्भवति गुणातीत-चित्तत्वाद् इति चेत् तत्राह—युक्तेति । तस्य श्री-कृष्णस्य निर्विशेषेण लीला-विशेष-रहितेन केवल-श्री-विग्रह-स्फूर्ति-मात्रेण युक्ता हृन्-मीलनात् पूर्वावस्था निद्रा कथ्यते । तथा चोत्तम-भक्तानां समाधि-रूपा एव निद्रा, न तु प्राकृती युज्यत इति भावः । तथा चोक्तं गारुडे—
जाग्रत्-स्वप्न-सुसुप्तेषु योग-स्थस्य च योगिनः । या काचिन् मनसो वृत्तिः सा भवेद् अच्युताश्रयः ॥ इति ॥१७६॥
—ओ)०(ओ—
॥ २.४.१७७ ॥
अथ (३२) सुप्तिः—
**सुप्तिर् निद्रा-विभावा स्यान् नानार्थानुभवात्मिका ।
इन्द्रियोपरति-श्वास-नेत्र-सम्मीलनादि-कृत् ॥
श्री-जीवः : **निद्राया एवावस्था-विशेषे सञ्ज्ञान्तरम् आह—सुप्तिर् इति । विविधो भावो भावना यस्यां सा विभावा । न केवलं तादृशी, अपि तु नानार्थेत्य् आदि-विशिष्टा च । ततस् तद्-विधा निद्रा एव सुप्तिः स्वप्न उच्यते इत्य् अर्थः ॥१७७॥
**मुकुन्दः : **निद्रा विभावः कारणं यस्याः सा निद्रा-विभावा । सुप्तिः स्वपनम् । नानार्थानुभावात्मिका सुप्तिर् निद्रातो जायत इत्य् अर्थः ॥१७७॥
**विश्वनाथः : **निद्राया एवावस्था-विशेषे सञ्ज्ञान्तरम् आह—सुप्तिर् इति । विविधो भावो भावना यस्यां सा विभावा । न केवलं तादृशी, अपि तु नानार्थेत्य् आदि-विशिष्टा च । तथा च निद्रायां केवलं श्री-कृष्णस्यैव स्फूर्तिः, सुप्तौ च लीलादि-सहितस्य स्फूर्तिर् इति भेदो ज्ञेयः ॥१७७॥
—ओ)०(ओ—
॥ २.४.१७८ ॥
यथा—
**कामं तामरसाक्ष केलि-विततिः प्रादुष्कृता शैशवी
दर्पः सर्प-पतेस् तद् अस्य तरसा निर्धूयताम् उद्धूरः ।
इत्य् उत्स्वप्न-गिरा चिराद् यदु-सभां विस्मापयन् स्मेरयन्
निःश्वासेन दरोत्तरङ्गद्-उदरं निद्रां गतो लाङ्गली ॥
श्री-जीवः : **केलि-विततिः क्रीडा-विस्तारः । केलिर् अभित इति पाठश् च सङ्गतः । केलि-शब्दस्य स्त्रीत्वम् अपि दृश्यत इति । तथा ह्य् उमापति-धरः—रत्न-च्छाया-च्छुरित-जलधौ [पद्या। ३७१] इत्य् आदौइत्य्-आदौ, राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः इति । यदु-सभां तद्-अन्तः-सभा-गामिनं कियन्तम् अपि यदु-गणं विस्माययन् स्मेरयंश् च ॥१७८॥
**मुकुन्दः : **केलिः क्रीडा अभितः अस्माकं सर्वेषां सम्मुखे शैशवी शिशोर् इयं शिशूचितेत्य् अर्थः । अहं सर्वेश्वरस्य तव निवारणे असमर्थतया सर्व-व्रज-जनेभ्यो दुःख-दानम् अयुक्तम् इति भावः । यदु-सभां यदूनां गोष्ठीं विस्मेरयन् विस्मय-शीलां कुर्वन् स्मेरयन् ईषद्-धास-शीलां च कुर्वन् । विरोधालङ्कारोऽयं, केलि-शब्दस्य—अथ स्त्री-पुंसयोः केलिः इति त्रिकाण्डात् स्त्री-लिङ्गता ॥१७८॥
**विश्वनाथः : **हे तामरसाक्ष कमल-लोचन कृष्ण ! त्वया शिशुना शिशु-काल-सम्बन्धिनी केलिः कामं यथेष्टं प्रादुष्कृता । तत् तस्मात् तस्य कालियस्य उद्धुरो दर्पः शीघ्रं निर्धूयतां दूरीक्रियताम् इत्य् उच्च-गिरा लाङ्गली बलदेवः यदु-सभा-स्थ-यादवं विस्मापयन् ईषद्-धास-युक्तं कारयन् श्वासेन ईषद्-चञ्चलोदरं यथा स्यात् तथा निद्रां गतः । केलि-शब्दस्य स्त्रीत्वम् अपि दृश्यते । तथा ह्य् उमापति-धरः—राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः [पद्या। ३७१] इति ॥१७८॥
—ओ)०(ओ—
॥ २.४.१७९ ॥
अथ (३३) बोधः—
**अविद्या-मोह-निद्रादेर् ध्वंसोद्बोधः प्रबुद्धता ॥
श्री-जीवः- **प्रबुद्धता ज्ञानाविर्भावः ॥१७९॥
**, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **प्रबुद्धता ज्ञानाविर्भावः ॥१७९॥
—ओ)०(ओ—
॥ २.४.१८० ॥
तत्र अविद्या-ध्वंसतः—
**अविद्या-ध्वंसतो बोधो विद्योदय-पुरःसरः ।
अशेष-क्लेश-विश्रान्ति-स्वरूपावगमादि-कृत् ॥
श्री-जीवः : **प्रबुद्धता ज्ञानाविर्भावः । अविद्या-ध्वंसत इत्य् अत्र बोधस् त्व् अस्पदार्थ-लक्षितस्य तत्-पदार्थ-लक्षितस्य च ज्ञानं, स्वरूपावगमस् तयोर् अभेद-ज्ञानं विद्या, तेषु निदिध्यासन-रूपं साधनं, प्रथमं निदिध्यासनं, तस्माद् अविद्या-ध्वंसस् ततः क्रमात् पदार्थ-द्वय-ज्ञानं, ततस् तयोर् अभेद-ज्ञानम् इति क्रमो ज्ञेयः, अविद्या-ध्वंसतो यो बोधः, स विद्योदय-पुरः-सरो भवति, स चाशेष-क्लेश-विश्रान्तिर् यत्र तादृश-स्वरूपावगमादि-कृद् भवतीत्य् अन्वयः । आदि-ग्रहणाद् भक्त्य्-अवबोध-कृद् भवतीति ज्ञेयम् । एवम्-भूतो बोधः खलु केषाञ्चिद् भक्ति-सहायो भवतीति सञ्चारीत्य् अर्थः । ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इति श्री-गीताभ्यः ॥१८०॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१८१ ॥
यथा—
**विन्दन् विद्या-दीपिकां स्व-स्वरूपं
बुद्ध्वा सद्यः सत्य-विज्ञान-रूपम् ।
निष्प्रत्यूहस् तत् परं ब्रह्म मूर्तं
सान्द्रानन्दाकारम् अन्वेषयामि ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **विन्दन्न् इति । जात-रति-तापस-भक्तस्य वचनम् । बोधस्य साक्षाद्-रतेः सम्बन्धाभावात् परस्परतया तं योजयति निष्प्रत्यूह इत्य् आदि इत्य्-आदि । तत्-परं स्व-स्वरूपस्यापि कारणम् ॥१८१॥
**विश्वनाथः : **ननु भक्तिर् मुक्त्यैव निर्विघ्ना इति अग्रिम-ग्रन्थे वक्ष्यमाणस्य शान्त-विशेष-स्वभावस्यानुसारेणाविद्या-निवर्तक-विद्योदय-पुरः-सरो बोधोदयः, तादृश-शान्त-भक्त-विशेषं प्रति व्यभिचारीत्य् अभिप्रायेणाह—अविद्येति । तस्यायम् आशयः—अविद्या-जन्य-काम-क्रोधादि-सत्त्वे रतिः शीघ्रं नोत्पद्यते । अतो अविद्या-निरसनीं विद्याम् उत्पाद्य पश्चाद् विद्याम् अपि पर्त्यज्य केवल-श्रवण-कीर्तनादि-रूपा शुद्धा भक्तिर् एवेति कार्येति । अनन्य-भक्तैस् तु, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा [भा।पु। ११.२०.३३] इति भगवद्-वाक्ये विश्वासेन अविद्यादि-सर्व-दोष-निरसनी शुद्धा भक्तिर् एव प्रथमतः क्रियते, न तु विद्योदये प्रयासम् इति ज्ञेयम् । निष्प्रत्यूहः काम-क्रोधादि-विघ्न-रहितः सन् मूर्तं परं ब्रह्म नारायणम् ॥१८१॥
—ओ)०(ओ—
॥ २.४.१८२ ॥
मोह-ध्वंसतः—
**बोधो मोह-क्षयाच् छब्द-गन्ध-स्पर्श-रसैर् हरेः ।
दृग्-उन्मीलन-रोमाञ्च-धरोत्थानादि-कृद् भवेत् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **हरेः शब्दादिभिः मोह-क्षयात् उत्पन्नो बोधः दृग्-उन्मीलनादि-कृद् भवेत्॥१८२॥
—ओ)०(ओ—
॥ २.४.१८३ ॥
तत्र शब्देन, यथा—
**प्रथम-दर्शन-रूढ-सुखावली-
कवलितेन्द्रिय-वृत्तिर् अभूद् इयम् ।
अघ-भिदः किल नाम्न्य् उदिते श्रुतौ
ललितयोदमिमीलद् इहाक्षिणी ॥
श्री-जीवः : **इयं श्री-राधा । अघभिद इति पूर्वत्र परत्र चान्वितम् ॥१८३॥
**मुकुन्दः : **उदमीमिलत् कृष्ण-दर्शनार्थं प्रसारितवती ॥१८३॥
**विश्वनाथः : **श्री-कृष्णस्य प्रथम-दर्शन-जन्य-सुख-श्रेण्या कवलिता ग्रस्ता इन्दिर्य-वृत्तिर् यस्या एवम्भूता इयं राधा आनन्द-मूर्च्छाक्रान्ता अभूत् । ततस् तस्याः श्रुतौ श्री-कृष्ण-नाम्नि ललितया उदिते सति सा अक्षिणी उदमिमीलत् मुद्रितयोर् नेत्रयोः उन्मीलनं चकार इत्य् अर्थः ॥१८३॥
—ओ)०(ओ—
॥ २.४.१८४ ॥
गन्धेन, यथा—
**अचिरम् अघ-हरेण त्यागतः स्रस्त-गात्री
वन-भुवि शवलाङ्गी शान्त-निःश्वास-वृत्तिः ।
प्रसरति वन-माला सौरभे पश्य राधा
पुलकित-तनुर् एषा पांशु-पुञ्जाद् उदस्थात् ॥
श्री-जीवः : **अचिरम् इति । कदाचित् परिहास-पूर्वक-श्री-कृष्णान्तर्धाने चरितम् ॥१८४॥
**मुकुन्दः : **अचिरम् इति अरिष्ट-वधार्थं त्यक्ता गते कृष्णे अवस्थेयम् ॥१८४॥
**विश्वनाथः : **ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत [भा।पु। १०.३०.३९] इति दशमोक्त-प्रकारेण श्री-कृष्ण-कर्तृक-त्यागतः श्री-राधिका वन-भुवि स्रस्त-गात्री सती नासिकायां वन-माला-सौरभे प्रसरति सति ॥१८४॥
—ओ)०(ओ—
॥ २.४.१८५ ॥
स्पर्शेन, यथा—
**असौ पाणि-स्पर्शो मधुर-मसृणः कस्य विजयी
विशीर्यन्त्याः सौर-पुलिन-वनम् आलोक्य मम यः ।
दुरन्ताम् उद्धूय प्रसभम् अभितो वैशस-मयीं
द्रुतं मूर्च्छाम् अन्तः सखि सुख-मयीं पल्लवयति ॥
श्री-जीवः : **मधुरः स्वभावाद् एवानन्द-दायकः । मसृणः त्वचो गुणतः कोमलः । पल्लवयतीति वर्तमान-सामीप्ये वर्तमानवत्त्वम् ॥१८५॥
**मुकुन्दः : **असौ पाणीति प्रबुद्ध्यैव वदति—मधुरो रोचकः मसृणः कोमलः त्वच इमौ गुणौ । पल्लवयति विस्तारयति ॥१८५॥
**विश्वनाथः : **कदाचित् सखीभिः सह श्री-राधिका पुष्प-चयनार्थं यमुना-तीरम् आगत्य तत्रानुभूत-चरीं विहार-स्थलीं दृष्ट्वा मूर्च्छा-दशाम् आप । ततो बहुभिः प्रयन्तैर् मूर्च्छाया अभङ्गम् आलक्ष्य सखीभिर् यत्नात् तत्रानीते श्री-कृष्णे राधिकाया अङ्गं स्व-हस्तेन स्पृष्ट्वा कौतुकार्थं पुनस् तत्रैवान्तर्धाय स्थिते सति तस्य स्पर्शात् मूर्च्छा-भङ्गानन्तरं श्री-राधिका सखीम् आह—असाव् इत्य् आदि इत्य्-आदि । मधुरः स्वभावत एवानन्द-दायकः मसृणः कोमलश् चासौ कस्य पाणि-स्पर्शो विजयीभवति । हे सखि ! यमुना-पुलिन-वनम् आलोक्य विशीर्यन्त्या मम दुरन्तां वैशस-मयीं विपत्ति-मयीम् अन्तर् मूर्च्छां यः पाणि-स्पर्शः उद्धूय दूरीकृत्य सुख-मयीम् आनन्द-मूर्च्छां पल्लवयति ॥१८५॥
—ओ)०(ओ—
॥ २.४.१८६ ॥
रसेन, यथा—
**अन्तर्हिते त्वयि बलानुज रास-केलौ
स्रस्ताङ्ग-यष्टिर् अजनिष्ट सखी विसञ्ज्ञा ।
ताम्बूल-चर्वितम् अवाप्य तवाम्बुजाक्षी
न्यस्तं मया मुख-पुटे पुलकोज्ज्वलासीत् ॥
श्री-जीवः : **ताम्बूलेषु यच् चर्वितम् । तवेति सम्बन्ध-विवक्षया षष्ठी । त्वच्-चर्वितं मुखम् अनु प्रतिपद्य गौरी ताम्बूलम् अर्पितम् उदस्रतया चिचेत इति पाठान्तरम् ॥१८६॥
**मुकुन्दः : **ताम्बूलानां चर्वितं रसं ग्रहणानन्तरोर्वरितांशं तव त्वत्-सम्बन्धि॥१८६॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.४.१८७-१८८ ॥
निद्रा-ध्वंसतः—
बोधो निद्राक्षयात् स्वप्न-निद्रा-पूर्ति-स्वनादिभिः ।
तत्राक्षि-मर्दनं शय्या-मोक्षोऽङ्ग-वलनादयः ॥
तत्र स्वप्नेन, यथा—
**इयं ते हास-श्रीर् विरमतु विमुञ्चाञ्चलम् इदं
न यावद्-वृद्धायै स्फुटम् अभिदधे त्वच्-चटुलताम् ।
इति स्वप्ने जल्पन्त्य् अचिरम् अवबुद्धा गुरुम् असौ
पुरो दृष्ट्वा गौरी नमित-मुख-बिम्बा मुहुर् अभूत् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **इयं ते इति यावद् इत्य् अवध्य् अर्थे । नाभि-दधे न कथयिष्यामीत्य् अर्थः । यावद् योगे लट् ॥१८८॥
**विश्वनाथः : **इति स्वप्नेन जल्पन्ती गौरी अवबुद्धा निद्रा-भङ्गात् प्राप्त-बोधो सती गुरु-जन-भयं पुरो दृष्ट्वा लज्जया नमित-मुख-बिम्बा अभूत् ॥१८८॥
—ओ)०(ओ—
॥ २.४.१८९ ॥
निद्रा-पूर्त्या, यथा—
**दूती चागात् तद्-आगारं जजागार च राधिका ।
तूर्णं पुण्यवतीनां हि तनोति फलम् उद्यमः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **यदा श्री-राधा जजागार, तदैव कृष्णेन प्रेषिता दूती तस्या गृहम् अगात् ॥१८९॥
—ओ)०(ओ—
॥ २.४.१९० ॥
स्वनेन, यथा—
**दूराद् विद्रावयन् निद्रा-मरालीर् गोप-सुभ्रुवाम् ।
सारङ्ग-रङ्गदं रेजे वेणु-वारिद-गर्जितम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **स्वनेन शब्देन वेणु-रूप-मेघ-गर्जितं गोप-सुभ्रुवां निद्रा-रूपा या मराल्यः हंस्यः ता विद्रावयत् सारङ्गाणां रङ्गदं यथा स्यात् तथा रेजे । वेणु-पक्षे सारं गायन्तीति सारङ्गा भक्तास् तेषां रङ्गदम् ॥१९०॥
—ओ)०(ओ—
॥ २.४.१९१-१९३ ॥
इति भावास् त्रयस्-त्रिंशत् कथिता व्यभिचारिणः ।
श्रेष्ठ-मध्य-कनिष्ठेषु वर्णनीया यथोचितम् ॥१९१॥
मात्सर्योद्वेग-दम्भेर्ष्या विवेको निर्णयस् तथा ।
क्लैब्यं क्षमा च कुतुकम् उत्कण्ठा विनयोऽपि च ॥१९२॥
संशयो धार्ष्ट्यम् इत्य् आद्या भावा ये स्युः परेऽपि च ।
उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥१९३॥
न व्याख्यातं कतमेनापि ।
—ओ)०(ओ—
॥ २.४.१९४-१९५ ॥
तथा हि—
**असूयायां तु मात्सर्यं त्रासेऽप्य् उद्वेग एव तु ।
दम्भस् तथावहित्थायाम् ईर्ष्यामर्षे मताव् उभौ ॥
विवेको निर्णयश् चेमौ दैन्ये क्लैब्यं क्षमा धृतौ ।
औत्सुक्ये कुतुकोत्कण्ठे लज्जायां विनयस् तथा ।
संशयोऽन्तर्भवेत् तर्के तथा धार्ष्ट्यं च चापले ॥
श्री-जीवः : **असूयायाम् इत्य् आदिषु परोदये द्वेषो मात्सर्यं, स एव गुणेष्व् अपि दोषारोपणायाम् अव्यभिचारित्वाद् असूयेति । तडिद्-आदिभिः सहसा भयं त्रासः । तत्रासहिष्णुत्वम् उद्वेग इति। आकार-गुप्तिः अवहित्था । दम्भस् त्व् असतः स्वीयोत्तमत्वस्य व्यञ्जनम् । तस्माद् उभयम् अपि कपटम् अयम् इति परापराधासहनम् अमर्षः । परोत्कर्षासनम् ईर्ष्या । तद् एतद् उभयम् अपि असहनात्मकम् इति । उभौ विवेक-निर्णयौ मतान्तर्भूतौ ज्ञेयौ । अर्थ-निर्धारणं मतिस् तद् एव निर्णयः । तस्य कारणस्य विचारस् तु विवेकः । सोऽयं कारणत्वान् मताव् अनुस्यूत इति । आत्मन्य् अतिनिकृष्टता-मननं दैन्यम् । अनुत्साहः क्लैब्यं, तत् तु तद्-अङ्गम् एवेति । मनसोऽचाञ्चल्यं धृतिः । क्षमा तु सहिष्णुत्वं, तद् अङ्गम् एव । काल-यापनायाम् असमर्थत्वम् औत्सुक्यम् । आश्चर्य-दर्शनेच्छा कुतुकम् । तच् च क्वचित्-कारणात् तत्रानुस्यूतं स्यात् । उत्कण्ठा च तस्यैव सूक्ष्मावस्थेति । लज्जायाम् अपि विनय आवश्यक इति। विमर्षस् तर्कः संशयानन्तरं भावीति । चापल्यं च धार्ष्ट्यानन्तरं भावीति । प्रथमे प्रथमे पर-परेषां प्रवेशो भाव्यते ॥१९४-१९५॥
**मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **असूयायाम् इत्य् आदिषु परोदये द्वेषो मात्सर्यं, स एव गुणेष्व् अपि दोषारोपणायाम् अव्यभिचारित्वाद् असूयेति । तडिद्-आदिभिः सहसा भयं त्रासः । तत्रासहिष्णुत्वम् उद्वेग इति । आकार-गुप्तिः अवहित्था । दम्भस् त्व् अविद्यमानस्य स्वीयोत्तमत्वस्य व्यञ्जनम् । तस्माद् उभयम् अपि कपटम् एवेति अपराधासहनम् अमर्षः । परोत्कर्षासनम् ईर्ष्या । तद् एतद् उभयम् अपि असहनात्मकम् इति । उभौ विवेक-निर्णयौ मतान्तर्भूतौ ज्ञेयौ । तत्रार्थ-निर्धारणं मतिः । तद्-एक-निर्णयः तस्य कारण-विचारस् तु विवेकः । सोऽयं कारणत्वान् मताव् अनुस्यूत इति । आत्मन्य् अतिनिकृष्टता मननं दैन्यम् । अनुत्साहः क्लैब्यं, तत् तु तद्-अङ्गम् एवेति । मनसोऽचाञ्चल्यं धृतिः । क्षमा तु सहिष्णुत्वं तद् अङ्गम् एव । कौतुकोऽकण्ठे द्वे औत्सुक्ये वर्तेते । तत्र काल-यापनायासमर्थत्वम् औत्सुक्यम् । आश्चर्य-दर्शनेच्छा कुतुकम् । तच् च क्वचित् कारणत्वान् मताव् अनुस्यूतं स्यात् । उत्कण्ठा च तस्यैव सूक्ष्मावस्थेति । लज्जायाम् अपि विनय आवश्यक इति। विमर्षस् तर्कः संशयानन्तरं भावीति । चापल्यं च धार्ष्ट्यानन्तरं भावीति ॥१९४-१९५॥
—ओ)०(ओ—
**॥ २.४.१९६ ॥
एषां सञ्चारि-भावानां मध्ये कश्चन कस्यचित् ।
विभावश् चानुभावश् च भवेद् एव परस्परम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **एषां व्यभिचारि-भावानां मध्ये कस्यचिद् भावस्य कश्चन भावो विभाव उद्दीपनो भवेत्, अनुभावः कार्यं भवेत् । तस्या ईर्ष्याया अनुभावता उक्ता ॥१९६॥
—ओ)०(ओ—
॥ २.४.१९७-२०१ ॥
निर्वेदे तु यथेर्ष्याया भवेद् अत्र विभावता ।
असूयायां पुनस् तस्या व्यक्तम् उक्तानुभावता ॥१९७॥
औत्सुक्यं प्रति चिन्तायाः कथितात्रानुभावता ।
निद्रां प्रति विभावत्वम् एवं ज्ञेयः परेऽप्य् अमी ॥१९८॥
एषां च सात्त्विकानां च तथा नाना-क्रिया-ततेः ।
कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः ॥१९९॥
निन्दायास् तु विभावत्वं वैवर्ण्यामर्षयोर् मतम् ।
असूयायां पुनस् तस्याः कथितैवानुभावता ॥२००॥
प्रहारस्य विभावत्वं सम्मोह-प्रलयौ प्रति ।
औग्र्यं प्रत्यनुभावत्वम् एवं ज्ञेयाः परेऽपि च ॥२०१॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.४.२०२-२०३ ॥
त्रास-निद्रा-श्रमालस्य-मद-भिद्-बोध-वर्जिनाम् ।
सञ्चारिणाम् इह क्वापि भवेद् रत्य्-अनुभावता ॥
साक्षाद्-रतेर् न सम्बन्धः षड्भिस् त्रासादिभिः सह ।
स्यात् परस्परया किन्तु लीलानुगुणताकृते ॥
श्री-जीवः : मद-भित् मधुपान-जो मद-भेदः । रत्य्-अनुभावता रति-कार्यत्वम् ॥२०२॥
त एते त्रासादयः न कदाचिद् रतिमतां श्री-कृष्णाज् जायन्ते । तस्य तच्-छमक-स्वभावत्वेनैवानुभूयमानत्वात् । किन्तु विरोध्यादिभ्यः एव ते जायन्ते । तेभ्य एव तेषाम् अनुभूयमानत्वात् । ततश् च साक्षाद् इति यथा हर्षादयो भावाः केवलं श्री-कृष्णं विभावीकृत्य जायन्ते, तथा त्रासादयो न । किन्तु विरोध्य्-आदि-संवलितम् इति केवलया रतेर् न सम्बन्धः । किन्तु विरोध्य्-आदि-गत-तत्-तद्-भावस्यापीति परम्परया तत्-तत्-संवनया रतेः सम्बन्धः स्याद् इत्य् अर्थः । किन्तु त्रासादयो भयादीनाम् अप्य् उपलक्षणानि स्वापराधादि-संवलनया तेऽपि स्युर् इति ॥२०३॥
**मुकुन्दः : **+++
**विश्वनाथः : **+++
—ओ)०(ओ—
॥ २.४.२०४-२०६ ॥
वितर्क-मति-निर्वेद-धृतीनां स्मृति-हर्षयोः ।
बोध-भिद्-दैन्य-सुप्तीनां क्वचिद् रति-विभावता ॥
परतन्त्राः स्वतन्त्राश् चेत्य् उक्ताः सञ्चारिणो द्विधा ॥
तत्र परतन्त्राः—
वरावरतया प्रोक्ताः परतन्त्रा अपि द्विधा ॥
श्री-जीवः : बोध-भित् अविद्या-क्षयजो बोधः । वितर्कादीनां रतेर् विभावतेति परम्परया ज्ञेयम् । श्री-कृष्णानुभवस्यैव साक्षात्-कारणत्वात् । पर-तन्त्रा मुख्य-गौण-रति-वशाः स्वतन्त्रास् तद्-विपरीता इति ज्ञेयम् ॥२०४-२०५॥
**मुकुन्दः : **बोध-भिदौ अविद्या-ध्वंसजौ भेदौ क्वचिद् भक्ते रति-विभावतेति एते रतेर् आस्वाकदे कारणानीत्य् अर्थः । मोह-ध्वंसजो बोधस् तद्वद् उदाहरणेषु स्पष्ट एव रतेर् आस्वादकः । परतन्त्रत्वम् उद्भवे कृष्ण-सम्बन्धि-भावानाम् अधीनता स्वतन्त्रत्वं तैर् विनोद्भवत्वम् ॥२०४-२०५॥
**विश्वनाथः : **बोध-भित् अविद्या-क्षयजो बोधः । वितर्कादीनां रतेर् विभावतेति परम्परया ज्ञेयम् । पर-तन्त्रा मुख्य-गौण-रति-द्वय-वशीभूताः । स्वतन्त्रास् तादृश-रत्य्-अवशीभूता इति ज्ञेयम् ॥२०४-२०५॥
—ओ)०(ओ—
॥ २.४.२०७ ॥
तत्र वरः—
**साक्षाद् व्यवहितश् चेति वरोऽप्य् एष द्विधोदितः ॥
श्री-जीवः : **तत्र वर इत् जात्यैकत्वम् । तस्य लक्षणं रस-द्वयस्य योऽङ्गं प्राप्णोति स वरो मतः [भ।र।सि। २.४.२१३] इति ज्ञेयम् । वक्ष्यमाणोऽवर-लक्षणानुसारेण ॥२०६॥
मुकुन्दः : तत्र वर इत् जात्यैकत्वम् ॥२०६॥
**विश्वनाथः : **तत्र वर इत् जात्यैकत्वम् । तस्य लक्षणं रस-द्वयस्य योऽङ्गं प्राप्णोति स वरो मतः [भ।र।सि। २.४.२१३] इति ज्ञेयम् । वक्ष्यमाणस्यावरस्य लक्षणानुसारेण ॥२०६॥
—ओ)०(ओ—
॥ २.४.२०८-२०९ ॥
तत्र साक्षात्—
मुख्याम् एव रतिं पुष्णन् साक्षाद् इत्य् अभिधीयते ॥
यथा—
तनुरुहाली च तनुश् च नृत्यं
तनोति मे नाम निशम्य यस्य ।
अपश्यतो माथुर-मण्डलं तद्
व्यर्थेन किं हन्त दृशोर् द्वयेन ॥
श्री-जीवः : तनुरुहाली चेति । माथुर-मण्डल-दिदृक्षा चेयं श्री-भगवद्-रति-मय्य् एव । तस्मात् साक्षाद्-रतिम् एव पुष्णातीति भावः ॥२०९॥**
मुकुन्दः :** न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : यस्य मथुरा-मण्डलस्य नाम श्रुत्वा रोमावली च तनुश् च नृत्यं तनोति, तत् माथुरं मण्डलम् अपश्यतो मम । माथुर-मण्डल-दिदृक्षा चेयं भगवद्-रति-मय्य् एव । तस्मात् साक्षात् रतिम् एव पुष्णातीति भावः ॥२०९॥
—ओ)०(ओ—
॥ २.४.२१०-२११ ॥
अथ व्यवहितः—
पुष्णाति यो रतिं गौणीं स व्यवहितो मतः ॥
यथा—
धिग् अस्तु मे भुज-द्वन्द्वं भीमस्य परिघोपमम् ।
माधवाक्षेपिणं दुष्टं यत् पिनष्टि न चेदिपम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : चेदिपं शिशुपालं पिनष्टि चूर्णीकरोतीति ॥२११॥
—ओ)०(ओ—
॥ २.४.२१२-२१४ ॥
निर्वेदः क्रोध-वश्यत्वाद् अयं व्यवहितो रतेः ॥
अथ अवरः—
रस-द्वयस्याप्य् अङ्गत्वम् अगच्छन्न् अवरो मतः ॥
यथा—
लेलिह्यमानं वदनैर् ज्वलद्भिर्
जगन्ति दंष्ट्रा स्फुटद्-उत्तमाङ्गैः ।
अवेक्ष्य कृष्णं धृत-विश्वरूपं
न स्वं विशुष्यन् स्मरति स्म जिष्णुः ॥
श्री-जीवः : निर्वेद इति क्रोधोऽत्र क्रोध-रतिः । स च रौद्र-रसस्य गौणस्य स्थायीति गौणम् । जिष्णुर् अर्जुनः ॥२१२-२१४॥
**मुकुन्दः : **निर्वेद इति । क्रोधः रौद्र-स्थायी ॥२१२-२१४॥
**विश्वनाथः : **निर्वेद इति क्रोधोऽत्र क्रोध-रतिः । स च रौद्र-रसस्य गौणस्य स्थायीति गौणी-पोषणम् ॥२१२॥
जगन्ति जगद्-वर्ति-समस्त-जन्तून् दंष्ट्रा करणेन स्फुटम् उत्तमाङ्गं शिरो यत्र तथा दंष्ट्रा करणेन प्राणि-मात्र-चर्वण-कर्तारम् । धृत-विश्व-रूपं जिष्णुर् अर्जुनः शुष्यन् सन् स्वम् आत्मानं न स्मरति स्म ॥२१४॥
—ओ)०(ओ—
॥ २.४.२१५ ॥
घोर-क्रियाद्य्-अनुभावाद् आच्छाद्य सहजां रतिम् ।
दुर्वराविरभूद् भीतिर् मोहोऽयं भी-वशस् ततः ॥
श्री-जीवः : घोरेति । ततः स्वापरिचित-तदीय-घोर-रूपात् सर्व-भक्षणाशङ्कामयं भयम् एव केवलं, न तु भय-रतिः । रूपं महत् ते बहु-वक्त्र-नेत्रम् [गीता ११.२३] इत्य् आरभ्य, दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् इति तद्-वाक्याद् रतेर् अत्यन्तास्फूर्तेः । स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यन्त्य् अनुरज्यते च इत्य् आदिकं त्व् अवस्था-भेदात् । अतो गौण-रतेर् अपि नाङ्गत्वम् ॥२१५॥
मुकुन्दः : घोर-क्रियादीति । केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः [गीता ११.२७] इत्य्-आदि-रूपा घोर-क्रिया । आदि-शब्दात्, दंष्ट्रा-करालानि भयानकानि [गीता ११.२७] इत्य्-आदि-घोर-रूपादि-विश्व-रूप-धरम् अद्भुताकृति । पूर्वोक्ते भयाद् रोमाञ्चोदाहरणे, अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि त्वा सर्वतोऽनन्त-रूपम् [गीता ११.१६] इत्य् आदि, दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् [गीता ११.२७] इत्य् अन्तं विश्व-रूपं भय-जनकम् । नभः-स्पृशं दीप्तम् [गीता ११.२४] इत्य् आदि, न हि प्रजानामि तव प्रवृत्तिम् [गीता ११.३१] इत्य् अन्तं दुर्वार-भय-जनकं तद् इति विवेकः । मोहो भी-वशः । भिय एव पोषकः, न भय-रतेर् इत्य् अर्थः ॥२१५॥
**विश्वनाथः : **घोरेति । सहजां रतिम् आच्छाद्य दुर्वारा भीतिर् आविरभूत् । अतोऽयं मोहः सञ्चारि-भी-वशः । ततश् चापरिमित-तदीय-घोर-रूप-दर्शनात् सर्व-भक्षण-शङ्कामय-भयम् एव केवलं, न तु भय-रतिः । रूपं महत् ते बहु-वक्त्र-नेत्रम् [गीता ११.२३] इत्य् आरभ्य, दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् इति गीतोक्त-तद्-वाक्याद् रतेर् अत्यन्तास्फूर्तेः । अतो गौण-रतेर् अपि नाङ्गत्वम् ॥२१५॥
—ओ)०(ओ—
॥ २.४.२१६-२१८ ॥
अथ स्वतन्त्राः—
सदैव पारतन्त्र्येऽपि क्वचिद् एषां स्वतन्त्रता ।
भूपाल-सेवकस्येव प्रवृत्तस्य कर-ग्रहे ॥
भावज्ञै रति-शून्यश् च रत्य्-अनुस्पर्शनस् तथा ।
रति-गन्धिश् च ते त्रेधा स्वतन्त्राः परिकीर्तिताः ॥
तत्र रति-शून्यः—
जनेषु रति-शून्येषु रति-शून्यो भवेद् असौ ॥
श्री-जीवः : अथ स्वतन्त्रा इति । एषु स्वतन्त्रेषु प्रथमस्य रति-शून्यस्य स्वातन्त्र्यं व्यक्तम् एव, अन्य-द्वयस्यापि तद् योजयति—सदैवेति । एषां मध्ये क्वचित् कयोश्चिद् इति रत्य्-अनुस्पर्शन-रति-गन्ध्योः सदैव पारतन्त्र्योऽपीत्य् अर्थः । कर-ग्रहे राज्ञोऽंश-ग्रहणे विवाहे वा, जन्य-यात्रिकतां प्राप्ताद् राज्ञोऽपि तस्मिन् जामातरि आधिक्यं दृश्यत इति ॥२१६-२१८॥
**मुकुन्दः : **भूपाल-सेवक-पक्षे स्वतन्त्रता यथेष्ट-कर्तृकम् । कर-ग्रहे प्रजातो राजांश-ग्रहणे ॥२१६॥
**विश्वनाथः : **अथ स्वतन्त्रा इति । एषु मध्ये प्रथमस्य रति-शून्यस्य स्वातन्त्र्यं व्यक्तम् एव, अन्य-द्वयस्यापि तद् योजयति—सदैवेति । एषां मध्ये क्वचित् कयोश्चिद् रत्य्-अनुस्पर्शन-रति-गन्ध्योः सदैव पारतन्त्र्योऽपीत्य् अर्थः । यथा राज-पुरुषस्य सर्वथा राज्ञोऽधीनत्वेऽपि कदाचित् कर-ग्रहे प्रजातः राजांश-कर-ग्रहणे । किं वा, विवाहादौ प्रवृत्तस्य तस्य राज्ञोऽपि सकाशाद् आधिक्यं दृश्यते ॥२१६-२१८॥
—ओ)०(ओ—
॥ २.४.२१९ ॥
यथा श्री-दशमे (१०.२३.४०)—
धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे ॥
अत्र स्वतन्त्रो निर्वेदः ।
**श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : **अत्र निर्वेद इति याज्ञिकेषु स्त्री-सङ्गाद् रति-च्छायैव, न तु रतिर् इति रति-शून्यत्वाद् इति भावः ॥२१९॥
**विश्वनाथः : **धिग् इति । त्रिवृत् शौक्रं सावित्रं दैक्ष्यम् इति त्रिगुणितं जन्म नोऽस्माकं यत् तत् धिक् । व्रतं ब्रह्मचर्यं, त्रिधा नित्य-नैमित्तिकादि कर्माणि । ये वयम् अधोक्षजे श्री-कृष्णे तु विमुखा एव ॥२१९॥
—ओ)०(ओ—
॥ २.४.२२०-२२१ ॥
तत्र रत्य्-अनुस्पर्शनः—
यः स्वतो रति-गन्धेन विहीनोऽपि प्रसङ्गतः ।
पश्चाद् रतिं स्पृशेद् एष रत्य्-अनुस्पर्शनो मतः ॥
यथा—
गरिष्ठारिष्ट-टङ्कारैर् विधुरा वधिरायिता ।
हा कृष्ण पाहि पाहीति चुक्रोशाभीर-बालिका ॥
अत्र त्रासः ।
श्री-जीवः : सदैव पारतन्त्र्योऽपीति पूर्वम् उक्तं, उत्तरतस् तु यः स्वतो रति-गन्धेनेति । तद् एवं परम्पर-विरोध-परिहारम् उदाहरणेन दर्शयति—गरिष्ठेति । तद्-व्रजाभीर-बालिकात्वात् तस्या सर्वदैव तद्-रति-परतन्त्र-भावत्वं वर्तत एव । सम्प्रत्य् अकस्माद् भयानक-दर्शनेन स्वतन्त्र एव त्रासो जात इति भावः । याज्ञिकेषु रति-च्छायैव, न तु रतिर् इति रति-शून्यत्वं ज्ञेयम् ॥२२०-२२१॥
मुकुन्दः : गरिष्ठेति । विधुरा विकला वधिरायिता च सती । अयम् अर्थः—व्रज-बालिकादौ रतिमत्त्वात् परतन्त्र-भावाः सन्त्य् एव, अकस्माद् उग्र-स्वनादिना रत्य्-अनधीनाश् चोदयन्त इति ॥२२०-२२१॥
विश्वनाथः : तद् एवं परम्पर-विरोध-परिहारम् उदाहरणेन दर्शयति—गरिष्ठेति । गरिष्ठो योऽरिष्टासुरः । तस्य टङ्कारा घोर-शब्दास् तैः विधुरिता दुःखिता एवं वधिरायिता कर्णे वाधिर्य-युक्ता गोप-बालिका “हा कृष्ण पाहि” इति चुक्रोश । व्रज-स्थाभीर-बालिकात्वात् तस्या सर्वदैव तद्-रति-परतन्त्र-भावत्वं वर्तत एव । सम्प्रत्य् अकस्माद् भयानक-दर्शनेन स्वतन्त्र एव त्रासो जात इति भावः । याज्ञिकेषु रति-च्छायैव, न तु रतिर् इति रति-शून्यत्वं ज्ञेयम् ॥२२०-२२१॥
—ओ)०(ओ—
॥ २.४.२२२-२२३ ॥
अथ रति-गन्धिः—
यः स्वातन्त्र्येऽपि तद्-गन्धं रति-गन्धिर् व्यनक्ति सः ॥
यथा—
पीतांशुकं परिचिनोमि धृतं त्वयाङ्गे
सङ्गोपनाय न हि नप्त्रि विधेहि यत्नम् ।
इत्य् आर्यया निगदिता नमितोत्तमाङ्गा
राधावगुण्ठित-मुखी तरसा तदासीत् ॥
अत्र लज्जा ।
**श्री-जीवः : **यः स्वातन्त्र्योऽपि रति-गन्धं तल्-लेशं व्यनक्ति स रति-गन्धिर् इत्य् अन्वयः । उदाहरणे चार्यायास् तस्या महारागेणैव श्री-कृष्ण-विषयक-नप्त्री-समर्पण-लालसायास् तादृशत्वेन नप्त्र्यापि तर्कितायाः स्व-रहस्ये ज्ञातेऽपि लज्जाच्छन्नतया नप्त्र्या रतेर् गन्ध-व्यञ्जनेति ज्ञेयम् । यथा धर्मादेर् लङ्घने तस्या महा-राग एव कारणं, तथा आर्याया अपीति ॥२२३॥
मुकुन्दः : रतेर् गन्धं तल्-लेशम् ॥२२२॥ पीतांशुकम् इत्य् अत्र सख्यादिभिः पश्चात् समाधान-करणं ज्ञेयम्, रसौचित्यात् ॥२२३॥
**विश्वनाथः : **यः स्वातन्त्र्योऽपि रति-गन्धं तल्-लेशं व्यनक्ति स रति-गन्धिर् इत्य् अन्वयः । नप्त्रि हे राधे ! आर्यया मुखरया इति निगदिता राधा तरसा वेगेन लज्जया अवगुण्ठित-मुखी वस्त्रेणाच्छादित-मुखी तदासीत् । उदाहरणे चार्यायास् तस्या महारागेणैव श्री-कृष्ण-विषयक-नप्त्री-समर्पण-लालसायास् तादृशत्वेन नप्त्र्यापि तर्कितायाः स्व-रहस्ये ज्ञातेऽपि लज्जाच्छन्नतया नप्त्र्या रति-गन्ध-व्यञ्जनेति ज्ञेयम् । यथा धर्मादेर् लङ्घने तस्या महा-राग एव कारणं, तथा आर्याया अपीति श्री-जीव-गोस्वामि-चरणानां व्याख्येति ॥२२३॥
—ओ)०(ओ—
॥ २.४.२२४ ॥
आभासः पुनर् एतेषाम् अस्थाने वृत्तितो भवेत् ।
प्रातिकूल्यम् अनौचित्यम् अस्थानत्वं द्विधोदितम् ॥
श्री-जीवः : आभास इति तद् एवम् उक्तस्य तेषाम् आभासस्य द्विधात्वं दर्शयितुम् अस्थानस्य द्विधात्वं दर्शयति—प्रातीत्य्-अर्धेन ॥२२४॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : आभास इति । तद् एवम् उक्तस्य तेषाम् आभासस्य द्विधात्वं दर्शयति—प्रातीत्य्-अर्धेन ॥२२४॥
—ओ)०(ओ—
॥ २.४.२२५-२२६ ॥
तत्र प्रातिकूल्यम्—
विपक्षे वृत्तिर् एतेषां प्रातिकूल्यम् इतीर्यते ॥
यथा—
गोपोऽप्य् अशिक्षित-रणोऽपि तम् अश्व-दैत्यं
हन्ति मे हन्त मम जीवित-निर्विशेषम् ।
क्रीडा-विनिर्जित-सुराधिपतेर् अलं मे
दुर्जीवितेन हत-कंस-नराधिपस्य ॥
--अत्र निर्वेदस्याभासः ।
श्री-जीवः : अथास्थान-सम्बन्धात् तेषां द्विधात्वं दर्शयति—तत्रेत्य् आदिना । अत्र गर्वस्य इत्य् अन्तेन विपक्षे प्रतिकूले ॥२२६॥
मुकुन्दः : विपक्षे श्री-कृष्ण-विरोधि-समूहे ॥२२५॥
विश्वनाथः : विपक्षे प्रतिकूले । अश्व-दैत्यं केशिनं कंस-नराधिपस्य मम दुर्जीवितेन । अलं व्यर्थम् । अत्र निर्वेदस्याभासः ॥२२६॥
—ओ)०(ओ—
॥ २.४.२२७ ॥
यथा वा—
**डुण्डभो जलचरः स कालियो
गोष्ठ-भूभृद् अपि लोष्ट्र-सोदरः ।
तत्र कर्म किम् इवाद्भुतं जने
येन मूर्ख जगदीशतेर्यते ॥ **
> अत्रासूयायाः ।
**श्री-जीवः : **डुण्डुभ इत्य् अक्रूरं प्रति कंसस्य वाक्यम् ॥२२७॥
**मुकुन्दः : **डुण्डुभ इत्य् अन्धकं प्रति कंसस्य वचनम् ॥२२७॥
विश्वनाथः : डुण्डुभ इत्य् अक्रूरं प्रति कंसस्य वाक्यम् । कालियो जल-चरत्वात् डुण्डुभो जलचरः निर्विष-सर्प-विशेषः गोष्ठ-भूभृत् गोवर्धनोऽपि लोष्ट्र-सोदरः क्षुद्र-मृत्-पिण्ड-सदृशः । तत्र जने लोके तस्येदं कर्म किम् अद्भुतम् इव ? हे मूर्ख ! येन हेतुता त्वया जगदीशता कृष्णेऽर्प्यते ॥२२७॥
—ओ)०(ओ—
॥ २.४.२२८-२२९ ॥
अथ अनौचित्यम्—
असत्यत्वम् अयोग्यत्वम् अनौचित्यं द्विधा भवेत् ।
अप्राणिनि भवेद् आद्यः तिर्यग्-आदिषु चान्तिमम् ॥
तत्र अप्राणिनि, यथा—
छाया न यस्य सकृद् अप्य् उपसेविताभूत्
कृष्णेन हन्त मम तस्य धिग् अस्तु जन्म ।
मा त्वं कदम्ब विधुरो भव कालियाहिं
मृद्नन् करिष्यति हरिश् चरितार्थतां ते ॥
अत्र निर्वेदस्य ।
श्री-जीवः : अनौचित्येनायोग्यत्वस्य तावत् समार्थत्वम् एव । वर्णनायाम् अनौचित्यत्वेऽसत्यत्वम् अपि तत्र प्रवेशयितुं तद् एतद् भेद-द्वयं कृतम् इति विवेचनीयम् । तत्र तिर्यग्-आदिष्व् अपि गर्वादीनाम् असत्यत्वम् एव । तथापि प्राणित्वात् तेषु कस्यापि ते सम्भाविता इव तद्-उत्कर्ष-व्यञ्जनाय स्युः । हर्ष-विषादादयस् तु भवन्त्य् एवेत्य् अत एव भेदः क्रियत इत्य् अपि ज्ञेयम् ॥२२८॥
मुकुन्दः : असत्यम् इति विश्व-प्रकाशे च, औचित्यं सत्य-योग्ययोः इति ॥२२८॥
विश्वनाथः : यस्य मम छाया श्री-कृष्णेन सकृद् अपि न उपसेविता अभूत् । तस्य मम जन्म धिग् अस्तु । हे कदम्ब ! इति विभाव्य मा त्वं विधुरो दुःखितो भव । कालियाहिं मृदनन् मर्दयितुं हरिस् तव चरितार्थतां करिष्यति । तथा च मर्दन-समये तर्यारोहणं करिष्यतीति ॥२२९॥
—ओ)०(ओ—
॥ २.४.२३० ॥
तिरश्चि, यथा—
अधिरोहतु कः पक्षी कक्षाम् अपरो ममाद्य मेध्यस्य ।
हित्वापि तार्क्ष्य-पक्सं भजते पक्षं हरिर् यस्य ॥
> अत्र गर्वस्य ।
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : अधीति । कष्टां हर्म्य-प्रकोष्ठं याम् अहम् अधिरूढस् तां कोऽधिरोहतु मत्-तुल्यः को भवत्व् इत्य् अर्थः ॥२३०॥
विश्वनाथः : तार्क्ष्यस्य गरुडस्य पक्षं हित्वा मेध्यस्य पवित्रस्य मम मयूरस्य पक्षं हरिर् भजते ॥२३०॥
—ओ)०(ओ—
॥ २.४.२३१-२३३ ॥
वहमानेष्व् अपि सदा ज्ञान-विज्ञान-माधुरीम् ।
कदम्बादिषु सामान्य-दृष्ट्य्-आभासत्वम् उच्यते ॥
भावानां क्वचिद् उत्पत्ति-सन्धि-शाब्वल्य-शान्तयः ।
दशाश् चतस्र एतासाम् उत्पत्तिस् त्व् इह सम्भवः ॥
यथा—
मण्डले किम् अपि चण्ड-मरीचेर्
लोहितायति निशम्य यशोदा ।
वैणवीं ध्वनि-धुराम् अविदूरे
प्रस्रव-स्तिमित-कञ्चुलिकासीत् ॥
अत्र हर्षोत्पत्तिः ।
श्री-जीवः : वहमानेष्व् इति । ज्ञानम् अत्र तत्-तज्-जात्य्-उचितं, विज्ञानम् अपि ततः किञ्चिद् एव विशिष्टम् । मनुष्यवज्-ज्ञाने सति तेभ्योऽपि रहस्य-क्रीडादीनां गोपने तद्-उच्छित्तिः स्यात् । केवलेन हि भावेन गोप्यो गावो नगा मृगाः [भा।पु। ११.१२.८] इत्य् एकादशादिभ्यस् तेष्व् अपि भावः श्रूयते । स च सामान्याकार एव, न तु स-विवेक इति मन्तव्यम् । तद् एतद् आह सामान्य-दृष्ट्येति । निर्विवेकेन ज्ञानेन हेतुनेत्य् अर्थः ॥२३१॥
भावानाम् इत्य् अस्य चतुर्थ-चरणे उत्पत्तिस् त्व् इह सम्भवः इत्य् एव पाठः ॥२३२॥
**मुकुन्दः : **वहमानेष्व् इति । उदाहरण-मात्राय प्राकृत-वृक्षादि-दृष्टिम् एष्व् आरोप्य आभासम् उच्यते । वस्तुतस् तु ते भगवद्-भक्ति-रसानुभवं कुर्वन्त एव विराजन्ते । जात्य्-अनुकरणं तु भगवति क्षुत्-पिपासा-शयनादिवल् लीला-शक्त्या रस-वैचित्री-पोषणायैवोद्भावितम्, भाव-सम्भवः भाव-प्राकट्यम् ॥२३१॥
अत्र हर्षोत्पत्तिर् इति । अस्या एव व्यञ्जक-बाहुल्यान् न तु विषाद-शान्तेर् इति भावः । एवम् अग्रेऽपि ज्ञेयम् ॥२३३॥
**विश्वनाथः : **वहमानेष्व् इति । ज्ञानम् अत्र तज्-जात्य्-उचितम् । विज्ञानं भगवद्-विषयक-मात्रम् अनुभवम् । केवलेन हि भावेन गोप्यो गावो नगा मृगाः [भा।पु। ११.१२.८] इत्य् एकादशोक्तेस् तेष्व् अपि भावः श्रूयते । स च सामान्याकार एव, न तु स-विवेक इति मन्तव्यम् । तद् एवाह सामान्य-दृष्ट्येति । निर्विवेकेन ज्ञानेन हेतुनेत्य् अर्थः । अन्यथा मनुष्यवत् स-विवेक-ज्ञाने सति तेभ्यो रहस्य-क्रीडादीनां गोपने तादृश-क्रीडोच्छेद-प्रसङ्गः ॥२३१॥
भावानां सम्भवः प्राकट्यम् उत्पत्तिर् उच्यते । चण्ड-मरीचेः सूर्यस्य मण्डले लोहितायति सन्ध्या-समये रक्त-वर्णे सति वैणवीं वेणु-सम्बन्धिनीं ध्वनि-धुरां ध्वन्य्-अतिशयं श्रुत्वा प्रस्रवेण स्तनाभ्यां क्षरित-दुग्धेन यशोदा स्तिमित-कञ्चुलिका आसीत् ॥२३३॥
—ओ)०(ओ—
॥ २.४.२३४ ॥
यथा वा—
त्वयि रहसि मिलन्त्यां सम्भ्रम-न्यास-भुग्नाप्य्
उषसि सखि तवाली मेखला पश्य भाति ।
इति विवृत-रहस्ये कुञ्चित-भ्रूर्
दृशम् अनृजु किरन्ती राधिका वः पुनातु ॥
अत्रासूयोत्पत्तिः ।
श्री-जीवः : अत्रासूयोत्पत्तिर् इति परिहासेन निजोत्कर्षं व्यञ्जयति श्री-कृष्णे स-प्रणय-द्वेषात् ॥२३४॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : हे सखि ! विशाखे ! रहसि शयन-गृहे अकस्मात् त्वयि मिलन्त्यां सत्यां तवागमन-जातेन सम्भ्रमेण यः सम्भोगेन शिथिलाया मेखलायाः पुनर् बन्धनार्थं मध्य-देशे विन्यासस् तेन सम्यक्तया बन्धनाभावात् । भुग्ना वक्रापि तवाल्या मेखला क्षुद्र-घण्टिका भाति इति । विवृत-रहस्ये श्री-कृष्णे दृशम् अन्वृजु कुटिलं यथा स्यात् तथा किरन्ती राधिका पुनातु । कथं-भूता ? लज्जया कुञ्चित-भ्रूः ॥२३४॥
—ओ)०(ओ—
॥ २.४.२३५-२३७ ॥
अथ सन्धिः—
सरूपयोर् भिन्नयोर् वा सन्धिः स्याद् भावयोर् मूर्तिः ॥
तत्र सरूपयोः सन्धिः—
सन्धिः सरूपयोस् तत्र भिन्न-हेतूत्थयोर् मतः ॥
यथा—
राक्षसीं निशि निशाम्य निशान्ते
गोकुलेश-गृहिणी पतिताङ्गीम् ।
तत्-कुचोपरि सुतं च हसन्तं
हन्त निश्चल-तनुः क्षणम् आसीत् ॥
> अत्रानिष्टेष्ट-संवीक्षाकृतयोर् जाड्ययोर् युतिः ।
श्री-जीवः : राक्षसीम् इति पूर्ववत् (२.३.१०) स्वाप्निकं चरितम् (२.४.५७) हरिवंशानुसृतम् ॥२३७॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : स्वरूपयोः सजातीययोर् भावयोः युतिर् एकत्र मिश्रणं सन्धिर् इत्य् अन्वयः । यशोदा निशान्ते स्व-गृहे पतिताङ्गीं राक्षसीं पूतनां निशम्य स्वप्ने दृष्ट्वा तस्या कुचोपरि सुतं च निशम्य तत्रानिष्ठायाः पूतनाया दर्शन-जन्य-शङ्कया जाड्यम् । एवम् इष्टस्य कृष्णस्य दर्शन-जन्यानन्देन जातम् । द्वयोर् एकत्र यशोदायां युतिर् मिश्रणम् ॥२३७॥
—ओ)०(ओ—
॥ २.४.२३८-२३९ ॥
अथ भिन्नयोः—
भिन्नयोर् हेतुनैकेन भिन्नेनाप्य् उपजातयोः ॥
अथ एक-हेतु-जयोः, यथा—
दुर्वारचापलोऽयं धावन्न् अन्तर् बहिश् च गोष्ठस्य ।
शिशुर् अकुतश्चिद् भीतिर् धिनोति हृदयं दुनोति च मे ॥
> तत्र हर्ष-शङ्कयोः ।
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : गोष्ठस्यान्तर् मध्ये बहिश् च धावन् शिशुः मम हृदयं धिनोति प्रीणयति । अनिष्टा-शङ्कया दुनोति च ॥२३९॥
—ओ)०(ओ—
॥ २.४.२४० ॥
तत्र भिन्न-हेतुजयोः, यथा—
विलसन्तम् अवेक्ष्य देवकी
सुतम् उत्फुल्ल-विलोचनं पुरः ।
प्रबलाम् अपि मल्ल-मण्डलीं
हिमम् उष्णं च जलं दृशोर् दधे ॥
अत्र हर्ष-विषादयोः सन्धिः ।
श्री-जीवः : सुतम् उत्फुल्लेत्य् आदौ गज-दन्त-स्फुरद्-अंसम् अङ्गजम् इति वा पाठः । हर्षः खल्व् अनेन लब्ध-बलो भवतीति प्रथम-पाठे तु तस्या ऐश्वर्य-ज्ञानस्य ह्य् उपोद्वलकम् उत्फुल्ल-विलोचनत्वं हर्षाय स्याद् इति समाधेयम् ॥२४०॥
मुकुन्दः : विलसन्तम् इति । अत्रैवं विवेकः । एतादृशेऽपि समये देव्या ऐश्वर्य-ज्ञाने सत्य् अपि यथा अनिष्ट-दर्शने विषादः, प्रेमोत्कर्ष-स्वभावेनैव तथेष्ट-क्षणे हर्षोऽपि तेनैव । हर्षा-मनने इष्टक्षणेष्यापकर्षः स्यात् । कृष्णेन गोवर्धनस्योद्धरणे कृते तद्-धस्तास् तस्य पात-शङ्काया एव ग्रहणे व्रज-जनानां शुद्ध-प्रेमवतां प्राणाः कथं तिष्ठेयुः । अतः सन्दर्शनजस्य हर्षस्याप्य् अङ्गीकार उचित एव । अन्यच् च—श्री-कृष्ण-परिकरेभ्यो लीला-शक्तिर् एव तत्-तद्-गुणान् समयानुरूपं स्फोरयति, तद्-अधीन-प्रवृत्तित्वात् तेषाम् । अन्यथा ताल-वनादौ सख्यादिभिः प्रेरणाद्यं न सम्भवेद् इति ॥२४०॥
विश्वनाथः : श्री-कृष्ण-दर्शनानन्देन जातं नेत्रयोर् हिमं जलं देवकी दधे । तथा च प्रबलां मल्ल-मण्डलीं दृष्ट्वा अनिष्टा-शङ्कोत्थ-दुःखेन उष्णं जलं दधे । आनन्दोत्थ-नेत्र-जलस्य हिमत्वं दुःख-जन्य-नेत्र-जलस्य उष्णत्वम् इति प्रसिद्धेः ॥२४०॥
—ओ)०(ओ—
॥ २.४.२४१-२४२ ॥
एकेन जायमानानाम् अनेकेन च हेतुना ।
बहूनाम् अपि भावानां सन्धिः स्फुटम् अवेक्ष्यते ॥
तत्र एक-हेतुजानां, यथा—
निरुद्धा कालिन्दी-तट-भुवि मुकुन्देन बलिना
हठाद् अन्तः-स्मेरां तरलतर-तारोज्ज्वल-कलाम् ।
अभिव्यक्तावज्ञाम् अरुण-कुटिलापाङ्ग-सुषमां
दृशं न्यस्यन्त्य् अस्मिन् जयति वृषभानोः कुल-मणिः ॥
> अत्र हर्षौत्सुक्य-गर्वामर्षासूयानां सन्धिः ।
श्री-जीवः : तरलेत्य् आदिनोत्सुकस्य व्यक्तिः । कुटिलेत्य् अनेनासूयायाः ॥२४२॥
**मुकुन्दः :
विश्वनाथः : **यथा भावयोर् एकत्र सन्धिस् तथा बहूनाम् अपि भावानाम् एकत्र सन्धिर् इत्य् आह—एकेनेति ॥२४१॥
—ओ)०(ओ—
॥ २.४.२४३ ॥
अनेक-हेतुजानां, यथा—
परिहित-हरि-हारा वीक्ष्य राधा सवित्रीं
निकट-भुवि तथाग्रे तर्क-भाक् स्मेर-पद्माम् ।
हरिम् अपि दर-दूरे स्वामिनं तत्र चासीन्
महसि विनत-वक्र-प्रस्फुर-म्लान-वक्त्रा ॥
> अत्र लज्जामर्ष-हर्ष-विषादानां सन्धिः ।
श्री-जीवः : परिहित-हरि-हारेति च चरितं कदाचित् श्री-व्रजेश्वर-गृहे महोत्सवं सम्भाव्य, यद्यपि हारस् तदानीं तस्या वस्त्रैः सुसंवृत एव, तथापि तस्या स्वत एव सङ्कोचात् तथा भावितम् इति लभ्यते । परिहितो धृतो हरि-हारो यया सा । द्वितीयान्त-पाठस् तु त्यक्तः । हृदि धृतेत्य् आदौ परिहितेत्य्- आदि पाठान्तरं त्यक्तम् । लज्जामर्षेत्य् आदौ लज्जासूयेत्य् आदिकं च ॥२४३॥
**मुकुन्दः : **
“परिहित-हरि-हारा प्रेक्ष्य राधा सवित्रीं प्रबलम् उपहसन्तीं छद्मनाग्रे च पद्माम् । अघरिपुम् अपि पृष्ट्ःए सा पतिं चाङ्गनास्ते विनत-कुटिल-फुल्ल-श्याम-वक्त्रा तदासीत् ॥”
इत्य् अत्र लज्जासूया-हर्ष-त्रासानां सन्धिर् इति च मूल-पाठः । पश्चात् सख्यादिभिः ह्र्य्-आदीनां यथोचितं समाधानं व्यवहाराद् इव ज्ञेयम् ॥२४३॥
**विश्वनाथः : **परिहितः हरेः श्री-कृष्णस्य हारो यया एवं-भूता राधिका स्वैत्रीं मातरं दृष्ट्वा विनतं लज्जया नम्रं वक्त्रं यस्यास् तथा-भूता आसीत् । कुलाङ्गनाया ममेदं विकर्म मात्रा ज्ञातम् इति भावनया लज्जोदयः । श्री-कृष्णस्य हरं परिचित्य छद्मेन मिषेण उपहसन्तीं विपक्षां पद्मां दृष्ट्वा कुटिल-वक्त्रासीद् इत्य् अनेनासूया । पृष्ठ-देशे श्री-कृष्णं दृष्ट्वा फुल्ल-वक्त्रेत्य् अनेन हर्षः । अङ्गनास् ते पतिं दृष्ट्वा भय-जन्य-वैवर्ण्येन श्याम-वक्त्रासीद् इत्य् अनेन त्रासः ॥२४३॥
—ओ)०(ओ—
॥ २.४.२४४-२४५ ॥
अथ शाबल्यम्—
शबलत्वं तु भावानां सम्मर्दः स्यात् परस्परम् ॥
यथा—
शक्तः किं नाम कर्तुं स शिशुर् अहह मे मित्र-पक्षान् अधाक्षीद्
आतिष्ठेयं तम् एव द्रुतम् अथ शरणं कुर्युर् एतन् न वीराः ।
आं दिव्या मल्ल-गोष्ठी विहरति स करेणोद्दधाराद्रि-वर्यं
कुर्याम् अद्यैव गत्वा व्रज-भुवि कदनं हा ततः कम्पते धीः ॥
अत्र गर्व-विषाद-दैन्य-मति-स्मृति-शङ्कामर्ष-त्रासानां शाबल्यम् ।
श्री-जीवः : पूर्व-पूर्व-भावस्य किञ्चिद् अवशेषात् शवलत्वम् ॥२४४॥
मुकुन्दः : सम्मर्द उपरि-पातः ॥२४४॥
विश्वनाथः : शाबल्य-स्थले तु एकस्य भावस्य उपमर्दनं कृत्वा भावान्तरस्योदयः । सन्धि-स्थले तु द्वयोर् एव एकदा स्थितिर् इति भेदो ज्ञेयः ॥२४४॥
कंसः स्वगतम् आह—स श्री-कृष्णः शिशुः । अतः किं कर्तुं शक्य इत्य् अनेन गर्वोदयः । अहह खेदे, मे मित्र-पक्षान् अधाक्षीत् भस्मीचकार इत्य् अनेन विषादः । अत्र पूर्वोत्पन्नस्य गर्वस्य उपमर्दनं कृत्वैव विषादस्य उदयो ज्ञेयः । तं श्री-कृष्णम् एव शरणम् अहम् अतिष्ठेयम् इति दैन्यम् । वीरा एतन् न कुर्युर् इति दैन्य-सम्मर्दिका मतिः । आं ज्ञातेषु मम दिव्य-मल्ल-गोष्ठी विहरति इत्य् अनेन स्मृतिः । स करेण वाम-हस्तेन गोवर्धनम् उद्दधारेति स्मृत्य्-उपमर्दिका शङ्का । कुर्याम् इत्य् अमर्षः । ततः तस्मात् धीं कम्पते इत्य् अनेनामर्ष-सम्मर्दकस् त्रासो ज्ञेयः ॥२४५॥
—ओ)०(ओ—
॥ २.४.२४६ ॥
यथा वा—
धिग् दीर्घे नयने ममास्तु मथुरा याभ्यां न सा प्रेक्ष्यते
विद्येयं मम किङ्करी-कृत-नृपा कालस् तु सर्वङ्करः ।
लक्ष्मी-केलि-गृहं गृहं मम हहा नित्यं तनुः क्षीयते
सद्मन्य् एव हरिं भजेय हृदयं वृन्दाटवी कर्षति ॥
अत्र निर्वेद-गर्व-शङ्का-धृति-विषाद-मत्य्-औत्सुक्यानां शाबल्यम् ।
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : मधुरा मथुरा प्रोक्ता इति द्वि-रूप-कोषः । सा याभ्यां न प्रेक्ष्यते, ते नयने धिक् इति निर्वेदः । किङ्करी-कृता नृपा यया एवम्भूता विद्या मयि वर्तते इति निर्वेदोपमर्दको गर्वः । सर्वङ्कषः सर्व-संहारकः कालो जयति, किं विद्ययेति गर्वोपमर्दिका शङ्का । मम गृहं लक्ष्म्याः सर्व-सम्पत्त्याः क्रीडा-गृहम् इति धृतिः । हहेति विषादः धृत्य्-उपमर्दकः । अहं गृह एव हरिं भजेयेति मतिर् विषादोपमर्दिका । मम हृदयं वृन्दाटवी कर्षतीत्य् औत्सुक्यं मत्य्-उपमर्दकम् ॥२४६॥
—ओ)०(ओ—
॥ २.४.२४७-२४८ ॥
अथ शान्तिः—
अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते ॥
यथा—
विधुरित-वदना विदून-भासस्
तम् अघहरं गहने गवेषयन्तः ।
मृदु-कल-मुरलीं निशम्य शैले
व्रज-शिशवः पुलकोज्ज्वला बभूवुः ॥
> अत्र विषाद-शान्तिः ।
**श्री-जीवः : **गवेषयन्तो मार्गयन्तः । मृदु-कलेत्य् आदिर् एव पाठ इष्टः ॥२४८॥
**श्री-मुकुन्द-दासः : **गवेषयन्तो मार्गयन्तः । “मुरलि-कलम् अथाकलय्य शैले” इत्य् अत्र मुरलि-शब्दः कृद्-इ-कारान्तः । अतः कृद्-इ-काराद् अक्तिन् इति ङीब्-अभावोऽपि ॥२४८॥
**विश्वनाथः : **व्रज-शिशवः श्री-कृष्णस्य सखायः कृष्णं गवेषयन्तः मार्गयन्तः ते दुःखित-वदनाः विदून-कान्तयश् च मुरलीं श्रुत्वा पुलकोज्ज्वला बभूवुः ॥२४८॥
—ओ)०(ओ—
॥ २.४.२४९ ॥
शब्दार्थ-रस-वैचित्री वाचि काचन नास्ति मे ।
यथा-कथञ्चिद् एवोक्तं भावोदाहरणं परम् ।।
न व्याख्यातं कतमेन ।
**॥ २.४.२५०-२५१ ॥
त्रयस्त्रिंशद् इमेऽष्टौ च वक्ष्यन्ते स्थायिनश् च ये ।
मुख्य-भावाभिधास् त्व् एक-चत्वारिंशद् अमी स्मृताः ॥
शरीरेन्द्रिय-वर्गस्य विकाराणां विधायकाः ।
भावाविर्भाव-जनिताश् चित्त-वृत्तय ईरिताः ॥
श्री-जीवः : **अष्टौ हासादयः सप्त । सामान्य-भक्ति-रूपस् त्व् एक इति । मुख्य-पदेन सात्त्विका व्यावर्तिताः ॥२५०॥
**श्री-मुकुन्द-दासः **: अष्टौ मुख्य-रत्य्-आख्य एकः गौण-रत्य्-आख्याः सप्त इति । मुख्य-शब्देन सात्त्विकाश् च गौणतया गृहीताः । अत एव भावाख्यास् तान् असङ्ख्यका [भ।र।सि। २.५.७४] इत्य् अग्रे वक्ष्यति ॥२५०॥
**विश्वनाथः : **त्रयस्त्रिंशद् इति । हासादयः सप्त । तथा शान्तादयः पञ्च मुख्य-भक्तित्वेनैक एव विवक्षितः । एवं रीत्या अष्टौ स्थायिनो ज्ञेयाः । मुख्य-भावाभिधा इत्य् अग्र मुख्य-पदेन सात्त्विका व्यावर्तिताः ॥२५०॥ \
भावानाम् आविर्भावेनोत्पन्ना याश् चित्त-वृत्तयस् ताः शरीरेन्द्रिय-वर्गस्य विकाराणां विधायिका ईरिताः ॥२५१॥
—ओ)०(ओ—
**॥ २.४.२५२ ॥
क्वचित् स्वाभाविको भावः कश्चिद् आगन्तुकः क्वचित् ।
यस् तु स्वाभाविको भावः स व्याप्यान्तर्-बहिः-स्थितः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
श्री-मुकुन्द-दासः : **स्वाभाविका नित्य-सिद्धानां दासादि-भावना-रूपः ॥२५२॥
**विश्वनाथः : **क्वचिद् इति औग्र्य-चापल्य-धैर्य-लज्जादीनां सर्वेषां भावानां मध्ये कश्चन भावः स्वाभाविकः औत्पत्तिकः, स भक्तस्य बहिर् अन्तर् व्याप्य स्थितः ॥२५२॥
—ओ)०(ओ—
**॥ २.४.२५३ ॥
मञ्जिष्ठाद्ये यथा द्रव्ये रागस् तन्-मय ईक्ष्यते ।
अत्र स्यान् नाम-मात्रेण विभावस्य विभावता ॥
श्री-जीवः : **तन्-मय इति अवयवार्थे मयट् । नाम-मात्रेणेति—यथा-कथञ्चित्-सम्बन्ध-मात्रेणेत्य् अर्थः ॥२५३॥
**श्री-मुकुन्द-दासः : **तन्-मय इति अवयवार्थे मयट् । नाम-मात्रेण स्वल्प-सम्बन्ध-मात्रेणेत्य् अर्थः ॥२५३॥
**विश्वनाथः : **यथा औत्पत्तिक-रक्त-द्रव्ये मञ्जिष्ठादौ रागो रक्तिमा बहिर् अन्तर् व्याप्य स्थितः । अतस् तन्-मयो रक्त-द्रव्य-मय ईक्ष्यते, अवयवार्थे मयट् । नाम-मात्रेणेति यथा-कथञ्चित् सम्बन्ध-मात्रेणेत्य् अर्थः । विभावस्य विभावता उद्दीपकता ॥२५३॥
—ओ)०(ओ—
**॥ २.४.२५४-२५५ ॥
एतेन सहजेनैव भावेनानुगता रतिः ।
एक-रूपापि या भक्तेर् विविधा प्रतिभात्य् असौ ॥
आगन्तुकस् तु यो भावः पटादौ रक्तिमेव सः ।
तैस् तैर् विभावैर् एवायं धीयते दीप्यतेऽपि च ॥
श्री-जीवः : **धीयते न्यस्यते ॥२५५॥
**श्री-मुकुन्द-दासः **: शुद्ध-सत्त्व-विशेषतया एक-रूपा एक-स्वरूपा विविधा शान्तिः सम्भ्रम-गौरवादि-भावना-रूपा ॥२५४॥ धीयते न्यस्यते ॥२५५॥
**विश्वनाथः : **एतेन सहजेन स्वाभाविकेन भावेन अनुगता या रतिः, रतित्व-सामान्य-विवक्षया एक-रूपापि असौ शान्तत्वाद्य्-अवान्तर-धर्म-विवक्षया शान्त-दास्यादि-विविधा प्रतिभाति ॥२५४॥
स्वाभाविक-भाव-भिन्नो य आगन्तुको भावः, स तु स्वाभावैक-शुक्ल-पटादौ यथा आगन्तुक-रक्तिमा तद्वत् । अयम् आगन्तुको भावस् तैस् तैः स्वाभाविकैर् विभावैर् धीयते भक्तेषु न्यस्यते दीप्यते प्रकाश्यते च । तथा च पूर्वम् उक्तम्—
एषां सञ्चारि-भावानां मध्ये कश्चन कस्यचित् । विभावश् चानुभावश् च भवेद् एव परस्परम् ॥ [भ।र।सि। २.४.१९६] इति ।
वैशिष्ट्यं वैलक्षण्यम् ॥२५५॥
—ओ)०(ओ—
**॥ २.४.२५६-२५७ ॥
विभावनादि-वैशिष्ट्याद् भक्तानां भेदतस् तथा ।
प्रायेण सर्व-भावानां वैशिष्ट्यम् उपजायते ॥
विविधानां तु भक्तानां वैशिष्ट्याद् विविधं मनः ।
मनोऽनुसाराद् भावानां तारतम्यं किलोदये ॥
श्री-जीवः : **विविधानां शान्तादीनां समस्तानाम् एव भक्तानां मनो विविधं भवति । तत्र हेतुः—वैशिष्ट्यात् गरिष्ठत्वादि-वैविध्यात् ॥२५७॥
**श्री-मुकुन्द-दासः : **विभावनादि-वैशिष्ठ्यात् विभावनानुभावना-सञ्चारणानां तरतमत्वात् वैशिष्ट्यं न्यूनाधिक-स्वरूपता-भेदतः शान्तादितया साधनादितया च बहुविधतः ॥२५६॥
भावानां विभावनादि-कृतस्य वैशिष्ट्यस्योदयो मनोऽधीनोऽतो मनसोऽपि गुण-कृतं तत् प्रदर्श्य भाव-वैशिष्ट्यस्य तद्-अवधानताम् आह—विविधानां त्व् इति । विविधं गरिष्ठादि । उदये अन्तर् बहिर् प्राकट्ये ॥२५७॥
**विश्वनाथः : **विविधानां शान्तादि-समस्तानाम् एव भक्तानां मनो विविधं भवति । तत्र हेतुः—वैशिष्ट्यात् गरिष्ठत्वादि-वैविध्यात् । भावानाम् उदये तारतम्यं ज्ञेयम् ॥२५७॥
—ओ)०(ओ—
**॥ २.४.२५८-२५९ ॥
चित्ते गरिष्ठे गम्भीरे महिष्ठे कर्कशादिके ।
सम्यग्-उन्मीलिताश् चामी न लक्ष्यन्ते स्फुटं जनैः ॥
चित्ते लघिष्ठे चोत्ताने क्षोदिष्ठे कोमलादिके ।
मनाग्-उन्मीलिताश् चामी लक्ष्यन्ते बहिर् उल्बणाः ॥
श्री-जीवः : **तद् एवाह—चित्ते गरिष्ठे इत्य् आदिना । अमी भावाः ॥२५८॥
श्री-मुकुन्द-दासः : तद् एवाह—चित्ते गरिष्ठे इत्य् आदि इत्य्-आदि अमृतं किलेत्य् अन्तैः सार्ध-दश-पद्यैः । अमी भावाः । गरिष्ठादिभिर् उत्तमैः सह कर्कशादेर् निकृष्टस्यापि कथनं भावैर् मनसो चालनादौ साम्यात् ॥२५८॥ कोमलस्योत्तमस्यापि लघिष्ठादिभिर् निकृष्टैः सहोक्तिः भावैर् मनश् चालनादौ साम्यात् ॥२५९॥
**विश्वनाथः : **गरिष्ठत्वादि-विशिष्टे चित्ते सम्यक् उन्मीलिता अमी भावाः । देहेन्द्रियादि-विकार-द्वारा बहिः स्फुटं न लक्ष्यन्ते । उत्ताने गाम्भीर्य-रहिते अस्मिन् चित्ते किञ्चिद् उन्मीलिता अमी भावा बहिर् देहेन्द्रियादि-विकार-द्वारा उल्बणा लक्ष्यन्ते ॥२५८-२५९॥
—ओ)०(ओ—
**॥ २.४.२६०-२६३ ॥
गरिष्ठं स्वर्ण-पिण्डाभं लघिष्ठं तुल-पिण्डवत् ।
चित्त-युग्मेऽत्र विज्ञया भावस्य पवनोपमा ॥२६०॥
गम्भीरं सिन्धुवच् चित्तम् उत्तानं पल्वलादिवत् ।
चित्त-द्वयेऽत्र भावस्य महाद्रि-शिखरोपमा ॥२६१॥
पत्तनाभं महिष्ठं स्यात् क्षोदिष्ठं तु कुटीरवत् ।
चित्त-युग्मेऽत्र भावस्य दीपेनेभेन वोपमा ॥२६२॥
कर्कशं त्रिविधं प्रोक्तं वज्रं स्वर्णं तथा जतु ।
चित्त-त्रयेऽत्र भावस्य ज्ञेया वैश्वानरोपमा ॥२६३॥
श्री-जीवः : **भावस्य पवनोपमेति । पवनेऽधिकरणे सादृश्यम् इत्य् अर्थः । किन्तु दीपेनेभेन वोपमेति वक्ष्यमाण-रीत्या तृतीयान्तेनैव पवनेन समासो, न तु सप्तम्य्-अन्तेनेति ग्रन्थ-कृताम् अभिप्रायो लक्ष्यते । तृतीया च न सहार्थ-योगे मन्तव्या, पुत्रेणागत इतिवत् समासो न स्यात् । तुल्यार्थैर् अतुलोपमाभ्यां तृत्र्टीयान्यतरस्याम् इत्य् अत्र तु सदृश-वचनाभ्याम् अपि तुलोपमा-शब्दाभ्याम् प्रत्युदाहृतं भाषा-वृत्तौ । उपमा स्त्री-मुखस्येन्दुश् चन्द्रस्य स्त्री-मुखं तुलेति । तुल्यार्थैर् इत्य् उक्तेः सादृश्य-वचनाभ्यां तुलोपमाभ्यां तृतीया न प्राप्नोत्य् एव । तस्मात् कांस्य-पात्र्र्या भुङ्क्ते इतिवद् अधिकरण एव करणम् अत्र विवक्षितम् । ततः कर्तृ-करणे च कृता बहुलम् इति समासश् च सम्मतः इति परत्रापि ज्ञेयम् ॥२६०-२६३॥
**श्री-मुकुन्द-दासः : **सोपमम् एतद् आह—गरिष्ठम् इत्य् आदिना । पवनेनोपमा सादृश्यम् । तुल्यार्थैर् अतुलोपमाभ्यां तृतीयान्यतरस्याम् इत्य् अत्र तुलोपमाभ्यां सदृश-पर्यायाभ्याम् एव योगे षष्ठी । कालान्तिकयमोपमम् इत्य् अस्य तैर् उपमा यस्येति स्वामिभिस् तृतीयान्तैर् एव समासः कृतः । पर्यायाख्यायां तु तृतीयैव, यथा माघे स्फुटोपमं भूति-इस्तेन शम्भुना [शि।व। १.४] इति । सदृश-कर्कशस्य चित्तस्य कनिष्ठ-मध्यमोत्तमा वज्रं स्वर्णं तथा ज्ञात्वेति भेदाः ॥२६०-२६३॥
**विश्वनाथः : **भावस्य पवनोपमेति । पवनेऽधिकरणे सादृश्यम् इत्य् अर्थः । न तु पवनेन सहोपमेति तृतीया विवक्षणीया, पुत्रेण सहागत इतिवत् समासाभाव-प्रसङ्गात् । गृह-मध्य-स्थितं तुल-पिण्डं पवनो यथा यत् किञ्चित्-सम्बन्धेनैवअ बहिः प्रकटीकरोति, किन्तु गरिष्ठ-चित्ते यदि भाविओ गरिष्ठतया सम्यग् गच्छति, तदा गरिष्ठ-चित्तम् अपिइ क्षोभयति । यथा प्रचण्ड-पवनस्याघाते स्वर्ण-पिण्डम् अपि चञ्चलं भवतीत्य् अग्रे व्यक्तीभविष्यतीति ज्ञेयम् । पल्वलादिवत् तडागादिवत् तडागादीआम् अल्प-प्रमाणे जले निक्षिप्तः पर्वत-शिखरो यथा तडागादिवत् क्षुब्धं करोति, न तु समुद्रे निक्षिप्तः सन् समुद्रं, तथैव भावोऽप्य् अगम्भीर चित्तम् एव क्षुब्धं करोति, न तु गम्भीरं चित्तम् । पत्तनाभं नगर-सदृशं महिष्ठं चित्तं स्यात् । इभेन हस्तिना वा सहोपमा । अत्र कुटी-मध्यस्थो हस्ती यथा तां क्षोभयति, न तु नगर-मध्य-स्थितः सन् नगरम् । एवं दीपोऽपि गृहम् एव प्रकाशयति, न तु नगरम्, तथैव भावोऽपि क्षुद्र-चित्तं क्षोभयति, न तु महिष्ठम् । वैश्वानरोऽग्निः ॥२६०-२६३॥
—ओ)०(ओ—
**॥ २.४.२६४ ॥
अत्यन्त-कठिनं वज्रम् अकुतश्चन मार्दवम् ।
ईदृशं तापसादीनां चित्तं तावद् अवेक्ष्यते ॥
श्री-जीवः : **तापसादीनां कनिष्ठ-शान्त-भक्तादीनाम् इत्य् अर्थः ॥२६४॥
**श्री-मुकुन्द-दासः : **तापसानाम् अनुज्झित-मुमुक्षाणां कनिष्ठ-शान्त-भक्तानाम् इत्य् अर्थः । भाव-कलोदयाद् भक्त-चित्तेषु गणना ॥२६४॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
**॥ २.४.२६५-२६७ ॥
स्वर्णं द्रवति भावाग्नेस् तापेनातिगरीयसा ।
जतु द्रवत्वम् आयाति ताप-लेशेन सर्वतः ॥
कोमलं च त्रिधैवोक्तं मदनं नवनीतकम् ।
अमृतं चेति भावोऽत्र प्रायः सूर्यातपायते ॥
द्रवेद् अत्राद्य-युगलम् आतपेन यथायथम् ।
द्रवीभूतं स्वभावेन सर्वदैवामृतं भवेत् ।
गोविन्द-प्रेष्ठ-वर्याणां चित्तं स्याद् अमृतं किल ॥
श्री-जीवः : **मदनं मधुच्छिष्टम् । तत्र गरिष्ठत्वादि-त्रिकेण सह लघिष्ठत्वादि-त्रिकम् । व्यभिचारि-मात्रेणाविक्षेपयोर् हेतुत्वाय निरूपितं, कर्कशत्व-कोमलत्वे तु मुख्य-स्थायि-भावेनाद्रव-द्रवयोर् हेतुत्वाय निरूपिते, तत्र च गरिष्ठत्वम् अल्पार्थ-स्पर्शित्वेऽपि तस्मिन् निविडतया यत्-किञ्चिद्-अर्थेनाचाल्य-स्वभावत्वम् । लघिष्ठत्वं किञ्चिद्-बह्व्-अर्थ-स्पर्शित्वेऽपि तस्मिन् निविडतया यत्-किञ्चिद्-अर्थेन चाल्य-स्वभावत्वम् । अत्र गरिष्ठ-कर्कशयोर् भावस्य सम्यग्-उन्मीलनं नाम तस्मिन् योग्यतैव ज्ञेया । गरिष्ठत्वादिभ्यां निरुद्धं बहिः-प्रकाशत्वात् । अत एव वक्ष्यते—किन्तु सुष्ठु महिष्ठत्वं [भ।र।सि। २.४.२६९] इत्य् आदि इत्य्-आदि । गम्भीरत्वम् अतिबह्व्-अर्थ-स्पर्शितया तत्राप्य् आमूल-स्पर्शितया महताप्य् अर्थेनादृश्य-क्षोभ-स्वभावत्वं, तद् विपरीतत्वम् उत्तानत्वं, महिष्ठत्वं बह्व्-अर्थ-स्पर्शितया किञ्चिद् योग्येनार्थेनैक-देश एव प्रकाश्यत्वं विक्षेप्यत्वं वा । मनः-पक्षे त्व् ऐकदेशत्वं नाम एक-द्वि-मात्रेन्दिर्यात्मकत्वम् । क्षोदिष्ठत्वम् अल्पार्थ-स्पर्शितया तत्-तन्-मात्रेण सम्यक् तत्-तत्-स्वभावत्वं पल्वल-कुटीरयोः किञ्चिद्-गाम्भीर्य-तद्-अभावाभ्यां भेदः । अत्र वज्रादयास् त्रयो भेदा द्रावक-भावस्य केवल-प्रतिकूल-सम-प्रतिकूलानुकूल-किञ्चित्-प्रतिकूल-युक्तानुकूल-भावैर् ज्ञेयाः । मदनादयस् तु द्रावक-भावानुकूल-भावस्य । कनिष्ठत्व-मध्यमत्व-श्रेष्ठत्वैर् ज्ञेयाः । तद् एवं गरिष्ठत्वादि-युग्म-त्रिकेऽप्य् एवं भेदाः सम्भवन्तीत्य् अभिप्रेतम् । द्रवीभूतम् इत्य् अत्र तु व्यभिचारिण एव वैचित्रीकारिका इति भावः ॥२६५-२६७॥
**मुकुन्दः : **आत्मारामानां शान्तानां स्वर्णं, तेषु श्रेष्ठानां जत्व् इत्य् अपि ज्ञेयम् । चित्तं मदनं, प्रेष्ठानां नवनीतं, प्रेष्ठ-वर्याणाम् अमृतम् इति तस्य तद्-एकात्म-स्वरूप-भक्तानाम् अप्य् एतद् अनुसारस् तत् तद् यथायोग्यं ज्ञेयम् ॥२६७॥
**विश्वनाथः : **मदनं मधुच्छिष्टं मोम इति प्रसिद्धम् । अत्र गरिष्ठत्वादि-त्रिकेण सह लघिष्ठत्वादि-त्रिकं व्यभिचारि-भावानाम् अविक्षेप-विक्षेपयोर् हेतुत्वार्थं निरूपितम् । एवं चित्तस्य कर्कशत्व-कोमलत्वादि-कथनं तु भावानां चित्ताद्रव-द्रवयोर् हेतुत्वार्थम् एव ज्ञेयम् । तत्र गरिष्ठत्वं, न तु चित्तस्य वस्तुतो गुरुत्वं लघुत्वं वा विवक्षणीयम् इति ज्ञेयम् ॥२६६॥
—ओ)०(ओ—
**॥ २.४.२६८ ॥
कृष्ण-भक्ति-विशेषस्य गरिष्ठत्वादिभिर् गुणैः ।
समवेतं सदामीभिर् द्वित्रैर् अपि मनो भवेत् ॥
श्री-जीवः : **कृष्ण-भक्तेति अत्र गरिष्ठत्वादिकं श्री-कृष्ण-सम्बन्धिन एवार्थान्तरस्यावेशेन ज्ञेयम् । एतद् वैपरीत्यादिना लघिष्ठत्वादिकम् अपि । कर्कशत्वं तु ब्रह्मत्वैश्वर्य-ज्ञानादिना । माधुर्य-ज्ञानम् एव हि स्नेहम् उत्पादयति । तद्-द्वयं पुनश् चमत्कार-मात्र-करम् इति दशम-टिप्पन्याम् इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य् आदौइत्य्-आदौ व्याख्यातम् । एतद् उक्तं भवति—मनः खलु स्वतः सत्त्व-गुण-जातत्वेन सर्वेषाम् अविशिष्टम् एव । तत्र भावान्तरैर् एव विशेष आरोप्यते । ते च भावा द्विविधाः । प्राकृता भागवताश् चेति । तत्र कनिष्ठाधिकारिणां प्राकृता एव गरिष्ठत्वादौ हेतवः । श्रेष्ठाधिकारिणां तु भागवता एव । ते चामृतत्व-हेतु-भावापेक्षया सर्वेऽपि न्यून-न्यूनाः। स्थायि-भाव-तारतम्यात् सर्वत्र द्रवता-तारतम्यं, द्रवता च स्वर्णादीनां यथोत्तरम् उत्तमा । यौ व्यभिचारि-भावाद् अविक्षेप-विक्षेपौ । तयोश् च यथा स्थायिभावं प्रशंसा, किन्तु तत्र गरिष्ठत्वादौ हेतुर् एक एव भाव स्वाभाविकऊ । विक्षेप-हेतुः परः परस् त्व् आगन्तुको ज्ञेयः ॥२६८॥
**मुकुन्दः : **ननु स्वभावाद् द्रवीभूत-चित्तस्यापि कस्यचिद् बहिः-क्षोभः कथं न दृश्यते ? तत्राह—कृष्ण-भक्तेति । विशेषोपादानात् तापसाद्या निरस्ताः । गरिष्ठत्वादिभिर् इत्य् आदि इत्य्-आदि शब्दाद् गम्भीरत्व-महिष्ठत्वे ग्राह्ये । अयम् अर्थः—एकैक-गुण-समवेत-चित्तस्य बहिः-क्षोभो नहि तैस् तैः समवेतस्य स न भवेद् इति कैमुतेति ॥२६८॥
**विश्वनाथः : **गोविन्द-प्रिय-वर्याणां व्रजस्थ-प्रभृतीनाम् अमृतोपमं चित्तं यथा कथञ्चिद् भाव-सम्बन्धेन द्रवीभूतम् अपि गरिष्ठत्वादि-गुणैर् बहिः न प्रकाशते इति विवेचनीयम् । एतद् एवाह—कृष्ण-भक्तेति । गरिष्ठत्वादिभिर् गुणैः सदा मनः समवेतं भवेत्, अतः शीघ्रं बहिर् न प्रकाशते इति भावः ॥२६८॥
—ओ)०(ओ—
**॥ २.४.२६९ ॥
किन्तु सुष्ठु महिष्ठत्वं भावो बाढम् उपागतः ।
सर्व-प्रकारम् एवेदं चित्तं विक्षोभयत्य् अलम् ॥
श्री-जीवः : **ननु गरिष्ठादौ विक्षेपो मा भून् नाम, वज्रे तु द्रवता कदाचिन् नास्त्य् एव, सा च स्थायि-मात्र-कृतेत्य् उक्तं, तर्हि तत् कथं भक्त-चित्तत्वेन गण्यते ? तत्राह—किन्त्व् इति । भावोऽत्र मुख्यतया स्थायी विवक्षितः प्रसङ्गाद् अन्यश् च । सर्व-प्रकारम् एवेति हीरकस्यापि ओषधि-विशेष-योगेन द्रवीभावाय योग्यत्वात् ॥२६९॥
**मुकुन्दः : **ननु तर्हि गरिष्ठादि-चित्तानां तापसादीनां च बहिः क्षोभो नास्त्य् एव, तत्राह—किन्त्व् इति । भावोऽत्र मुख्यतया स्थायी विवक्षितः, प्रसङ्गाद् अन्यश् च । तत्र तापस-भावस्य सुष्ठु महिष्ठत्वं पूर्ण-प्रेमवत्त्वम् ॥२६९॥
**विश्वनाथः : **किन्त्व् इति । सुष्ठु महिष्ठत्वम् अतिशय-महत्त्वम् उपनीतो भावः सर्व-प्रकारकं गरिष्ठत्वादि-सर्व-धर्म-विशिष्टं चित्तम् अतिशयेन क्षोभयति । तत्रापि कर्कशम् अपि चित्तं क्षोभयति यथा औषध-विशेष-योगेनाग्नैर् अपि हीरक-द्रावकत्वम् अस्ति, तद्वद् एवेति ज्ञेयम् ॥२६९॥
—ओ)०(ओ—
॥ २.४.२७० ॥
यथा दान-केलि-कौमुद्याम् (४)—
**गभीरोऽप्य् अश्रान्तं दुरधिगम-पारोऽपि नितराम्
अहार्यां मर्यादां दधद् अपि हरेर् आस्पदम् अपि ।
सतां स्तोमः प्रेमण्य् उदयति समग्रे स्थगयितुं
विकारं न स्फारं जल-निधिर् इवेन्दौ प्रभवति ॥
श्री-जीवः : **तत्र दिग्-दर्शनं—यथेति । सतां स्तोम-पक्षे गम्भीरत्वं तावत् स्वत एव प्रेम-गोपन-हेतुः स्यात्, समर्यादत्वं धार्ष्ट्य-परिहाराय कृत्रिमतया । अथ दुरधिगम-पारत्वं नामानन्त-गुणत्वम् । तच् च तद्-धेतुः स्यात् । यदा यदा यो गुणो दृश्यते, तदा तस्यैवालौकिकतया लोक-चित्तावरणात् । तथा हरेर् आस्पदत्वम् अपि तद्-गोपनाय कल्पते, तत्-स्फूर्तेः स्वभावापन्नत्वाद् बहिर्-विकाराय नातिसम्पद्यत इति । सिन्धु-पक्षे हरेर् आस्पदत्वेऽपि तस्येन्दुर् दर्शनाद् विकारो, हरेः शयन-लीलोपयोगितया स्व-पुत्रस्य तस्य किरण-गण-व्याप्तेर् इति ज्ञेयम् ॥२७०॥
**मुकुन्दः : **द्वि-त्र-गुण-समवेत-चित्तानां दासादीनां तद् दर्शयति—यथेति । सतां स्तोमो दासादि-भक्तानां समूहः । तत्-पक्षे दुरधिगम-पारत्वं महताप्य् अर्थेनैक-देश-क्षोभ-स्वभाव-लक्षण-महिष्ठत्वं मर्यादा-बहिर् विकाराय नातिकल्पते । अशृआन्तम् इति नितराम् इति च गम्भीरादि-चतुर्षु योग्जनम् । अहार्यं स्वाभाविकम् । सिन्धु-पक्षे गम्भीरत्वम् । अतल-स्पर्शत्वं मर्यादा सीमा ॥२७०॥
**विश्वनाथः : **तत्र दिग्-दर्शनम् एवाह—यथेति । जल-निधिः समुद्रो यथा अश्रान्तं निरन्तरं गम्भीरोऽपि दुरधिगम-पारोऽपि नितराम् अतिशयेन अहार्याम् अनाश्यां मर्यादाम् अधद् अपि कदापि मर्यादां कुलं न लङ्घयति । हरेर् नारायणस्य आस्पदं शयन-स्थानम् एवम्भूतोऽपि पौर्णमास्यां समग्रे परिपूर्णे चन्द्रे उदयति सति स्फारं विस्तीर्णं विकारं स्थगयितुं संवरीतुं न प्रभवति समर्थो न भवति । तथा सतां स्तोमः साधूनां समूहः गम्भीरोऽपि इति तेषां प्रेम-गोपन-हेतुर् गम्भीरत्वं स्वतः-प्रसिद्धम् एवेत्य् अर्थः । तथा तेषां दुरधिगम-पारत्वं नाम अनन्त-गुणवत्त्वम् । समर्यादत्वम् अपि तेषां स्वभाव-सिद्धम् एवेति स्फूर्ति-प्राप्तस्य हरेर् आस्पदः आश्रयः । एवम्भूतोऽपि समग्रे परम-काष्ठाम् आपन्ने प्रेम्णि उदयति सति स्फारं विकारं संवरीतुं न प्रभवति ॥२७०॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे व्यभिचारि-लहरी चतुर्थी ॥
॥ २.४ ॥
(२.५)
स्थायि-भावाख्या पञ्चम-लहरी
॥ २.५.१ ॥
अविरुद्धान् विरुद्धांश् च भावान् यो वशतां नयन् ।
सु-राजेव विराजेत स स्थायी भाव उच्यते ॥
श्री-जीवः : अविरुद्धान् हासादीन् । विरुद्धान् क्रोधादीन् । स भावः स्थायी उच्यते ॥१॥
मुकुन्दः : अविरुद्धा मित्रोदासीनास् तत्र ह्री-बोधोत्साहाद्या मित्राणि । गर्व-हर्ष-सुप्ति-हासाद्या उदासीनास् तान् । विरुद्धान् विषाद-दीनता-मोह-शोक-त्रासादीन् । सुराज-पक्षे भावा मित्राद्याः पदार्थाः ॥१॥
विश्वनाथः : अविरुद्धान् हासादीन् । विरुद्धान् क्रोधादीन् वशतां नयन् यः सुराजेव विराजेत स भावः स्थायी उच्यते ॥१॥
—ओ)०(ओ—
**॥ २.५.२ ॥
स्थायी भावोऽत्र स प्रोक्तः श्री-कृष्ण-विषया रतिः ।
मुख्या गौणी च सा द्वेधा रस-ज्ञैः परिकीर्तिता ॥२॥
श्री-जीवः : **स्थायि-भावम् एव पूर्वतोऽप्य् अधिकत्वेन बोधयितुम् आह—स्थायी इति । या श्री-कृष्ण-विषया रतिः, स एव स्थायी भावः पूर्वं प्रोक्तम् । सम्प्रति तु किञ्चिद् अधिकत्वेनापि वक्ष्यते इत्य् अर्थः । तथैवाह—मुख्या इत्य्-आदिना सा गौणी रतिर् उच्यते इत्य् अन्तेन ग्रन्थेन ॥२॥
**मुकुन्दः : **पूर्वोक्तं स्थायि-भावं तद्-भेदान् दर्शयितुम् अनुस्मरति—स्थायी भाव इति स प्रोक्तः । एषा कृष्ण-रतिः स्थायी भावः [२.१.५] इति पूर्वम् एवोक्तम् ॥२॥
विश्वनाथः : स्थायि-भावम् एव पूर्वतोऽप्य् अधिकत्वेन बोधयितुम् आह—स्थायी इति । या श्री-कृष्ण-विषया रतिः, स एव स्थायी भावः पूर्वं प्रोक्तम् । सम्प्रति तु किञ्चिद् अधिकत्वेनापि वक्ष्यते इत्य् अर्थः । तथैवाह—मुख्या इत्य्-आदिना सा गौणी रतिर् उच्यते इत्य् अन्तेन ग्रन्थेन ॥२॥श्री-जीवः : स्थायि-भावम् एव पूर्वतोऽप्य् अधिकत्वेन बोधयितुम् आह स्थायीति । या श्री-कृष्ण-विषया रतिः स एव स्थायी भावः पूर्वं प्रोक्तम् । सम्प्रति तु किञ्चिद् अधिकत्वेनापि वक्ष्यते इत्य् अर्थः । तथैवाह मुख्येत्य् आदिना सा गौणी रतिर् उच्यते इत्य् अन्तेन ग्रन्थेन ॥२॥
मुकुन्दः : पूर्वोक्तं स्थायि-भावं तद्-भेदान् दर्शयितुम् अनुस्मरति स्थायी भाव इति स प्रोक्तः । एषां कृष्ण-रतिः स्थायी भाव इति पूर्वम् एवोक्तम् ॥२॥
विश्वनाथः : स्थायि-भावम् एव पूर्वतोऽप्य् अधिकत्वेन बोधयितुम् आह स्थायीति । या श्री-कृष्ण-विषया रतिः स एव स्थायी भावः पूर्वं प्रोक्तम् । सम्प्रति तु किञ्चिद् अधिकत्वेनापि वक्ष्यते इत्य् अर्थः । तथैवाह मुख्येत्य् आदिना सा गौणी रतिर् उच्यते इत्य् अन्तेन ग्रन्थेन ॥२॥
—ओ)०(ओ—
॥ २.५.३ ॥
तत्र मुख्या—
शुद्ध-सत्त्व-विशेषात्मा रतिर् मुख्येति कीर्तिता ।
मुख्यापि द्वि-विधा स्वार्था परार्था चेति कीर्त्यते ॥३॥
श्री-जीवः : शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाग् [भ।र।सि। १.३.१] इत्य् अत्र या लक्षिता, सेत्य् अर्थः ॥३॥
मुकुन्दः : तद्-भेदान् आह— मुख्येत्य् आदिना । विज्ञेया रतयश् च षड् इत्य् अन्तेन ग्रन्थेन मुख्या इत्य्-आदिना । विज्ञेया रतयश् च षड् [भ।र।सि। २.५.४३] इत्य् अन्तेन ग्रन्थेन ॥३॥
विश्वनाथः : शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाग् [भ।र।सि। १.३.१ ॥ [भ।र।सि। १.३.१] इत्य् अत्र या लक्षिता सेत्य् अर्थः ॥३॥
—ओ)०(ओ—
॥ २.५.४-७ ॥
तत्र स्वार्था—
अविरुद्धैः स्फुटं भावैः पुष्णात्य् आत्मानम् एव या ।
विरुद्धैर् दुःख-ग्लानिः सा स्वार्था कथिता रतिः ॥४॥
अथ परार्था—-
अविरुद्धं विरुद्धं च सङ्कुचन्ती स्वयं रतिः ।
या भावम् अनुगृह्णाति सा परार्था निगद्यते ॥५॥
शुद्धा प्रीतिस् तथा सख्यं वात्सल्यं प्रियतेत्य् असौ ।
स्व-परार्थ्यैव सा मुख्या पुनः पञ्च-विधा भवेत् ॥६॥
वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति ।
यथार्कः प्रतिबिम्बात्मा स्फटिकादिषु वस्तुषु ॥७॥
श्री-जीवः : वैशिष्ट्यम् इति । अत्र पात्रत्वं प्रतिबिम्बत्वम् अप्य् अविवक्षितं वैशिष्ट्य एव तु तात्पर्यम् । शुद्धादि-तत्-तद्-विशेषण-भेदाद् एव स्थिति-भेदा नाम-भेदश् चेत्य् अर्थः ॥७॥
मुकुन्दः : आत्मानम् एव, न तु भावान् इत्य् अर्थः ॥४॥ शुद्धा केवला ॥६॥ पञ्च-विधत्वे हेतुम् आह आह—वैशिष्ट्यम् इति ॥७॥
**विश्वनाथः : **सेवकं वर्धयितुं कदाचिद् राजा यथा स्वयं गुणीभवन् सेवकम् अनुगृह्णाति । तथैव रतिर् अपि स्वयं सङ्कुचन्ती अविरुद्ध-विरुद्ध-भावम् अनुगृह्णाति, सा परार्था । स्वार्था परार्था च सा मुख्या रतिः पुनः शुद्धेत्य् शुद्धेत्य्-आदि पञ्च-विधा भवेत् । प्रीतिर् दास्य-रतिः । प्रियता शृङ्गार-रतिः ॥६॥
यथा सूर्यः स्वच्छ-स्फटिकादिषु प्रतिबिम्ब-रूपो भवति, तद्-अपेक्षया अव्स्वच्छ-वस्तुषु प्रतिबिम्बम् अपि तादृशं भवति, तथा रतिर् अपि भक्त-रूप-पात्र-वैशिष्ट्यात् वैशिष्ट्यं वैलक्षण्यम् उपगच्छति । अत्र मुख्य-रतेः प्रतिबिम्ब-रूपत्वं न सम्भवत्य् अतो वैशिष्ट्यांश एव दृष्टान्तो न तु सर्वांशेनेति ज्ञेयम् । तत्-तद्-भक्त-भेदेन रतेर् एव स्थिति-भेदो नाम-भेदश् च भवतीति फलितार्थः ॥७॥
—ओ)०(ओ—
॥ २.५.८ ॥
तत्र शुद्धा—
सामान्यासौ तथा स्वच्छा शान्तिश् चेत्य् आदिमा त्रिधा ।
एषाङ्ग-कम्पता-नेत्रामीलनोन्मीलनादि-कृत् ॥
श्री-जीवः : शुद्धा केवला । एतद् उत्तरं वक्ष्यमाणैः प्रीत्य्-आद्य्-आस्वाद-विशेषैर् असमवेतेत्य् अर्थः । सेयम्** आदिमा शुद्धा त्रिधेति त्रिधा** इति तिस्रोऽत्र तन्-नाम्ना इत्य् अर्थः ॥८॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : सेयम् आदिमा शुद्धा त्रिधेति त्रिधा इति तिस्रोऽत्र तन्-नाम्न्य इत्य् अर्थः ॥८॥
—ओ)०(ओ—
॥ २.५.९ ॥
तत्र **सामान्या—
कञ्चिद् विशेषम् अप्राप्ता साधारण-जनस्य या ।
बालिकदैश् बालिकादेश् च कृष्णे स्यात् सामान्या सा रतिर् मता ॥९॥
श्री-जीवः : **तत्र सा प्रीत्य्-आदितः पृथक् पठितत्वेन तं तं विशेषम् अप्राप्ता कृष्ण-विषया शुद्धा रतिः कञ्चिद् अन्यम् अपि स्वच्छा-रूपं शान्ति-रूपम् अपि विशेषम् अप्राप्ता सती सामान्या नाम्नी मता । तत्-तद्-वैशिष्ट्येन तु स्वच्छेति शान्तिर् इति च नाम स्यात् । सामान्या तु साधारण-जनादौ पृथक् स्यात् । सर्वत्र चानुगता स्याद् इत्य् अर्थः ॥९॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : साधारण-जनस्य भक्त-रूप-सामान्य-धर्माश्रय-साधारण-लोकस्य तथा श्री-कृष्ण-विषयिकोत्पत्तिक-प्रीति-युक्त-व्रजस्थ-बालिकादेश् च श्री-कृष्णे या रतिः दास्य-सख्य-स्वच्छत्व-शान्स्तत्वादिकम् अपि विशेषम् अप्राप्ता । अतः सा रतिः सामान्या मता ॥९॥
—ओ)०(ओ—
॥ २.५.१० ॥
यथा—
अस्मिन् मथुरा-वीथ्याम्
उदयति मधुरे विरोचने पुरतः ।
कथस्व सखे म्रदिमानं
मानस-मदनं किम् एति मम ॥
श्री-जीवः : मानस-मदनं यन् म्रदिमानम् एति तत् किम् अस्मिन् मधुरे विरोचने उदयति सतीति । तस्माद् एव हेतोर् वितर्क्यते इत्य् अर्थः । हेत्व्-अन्तरं तु न पश्याम इति भावः । यस्य च भावेन भाव-लक्षणम् इति ह्य् अत्र सप्तमी ॥१०॥
मुकुन्दः : अस्मिन्न् उदयति सति मम मानस-मदनं म्रदिमानम् एति । किम् इति प्रश्ने, सम्बन्धाभावात् दर्शन-मात्रे कथं मनसो मृदुतेति मां बोधयेत्य् अर्थः । सूर्य-पक्षे । उदित-मात्रे आतपाभावात् कथं सः ॥१०॥
**विश्वनाथः : **मथुरा-नगरे प्राप्तं कृष्णं दृष्ट्वा काश्चिन् मथुरा-स्थ-साधारण-लोक आह—हे सखे ! मम मानस-रूप-मदनं मधूच्छिष्टं यन् म्रदिमानम् एति प्राप्नोति, तत् किम् ? अस्मिन् मधुरे विरोचने श्री-कृष्ण-रूपे सूर्ये उदयति सतीति तस्माद् एव हेतोर् वितर्क्यते इत्य् अर्थः, । हेत्व्-अन्तरं तु न पश्यामीति भावः । यस्य च भावेन भाव-लक्षणम् इति सप्तमी ॥१०॥
—ओ)०(ओ—
॥ २.५.११ ॥
यथा वा—
त्रि-वर्षीया बालिका सेयं
वर्षीयसि समीक्ष्यताम् ।
या पुरः कृष्णम् आलोक्य
हुङ्कुर्वत्य् अभिधावति ॥
श्री-जीवः : त्रि-वर्ष्ईय्आ बालिका सेयम् इति । अत्र त्रिवर्षेति तम् अधिष्ठो भृतो भृतो भावी वा इत्य् अधिकृत्य भृत्य्-अर्थे वर्षल् लुक् चेति कृतस्य खस्य ठञो वा । चित्तवति नित्यम् इत्य् अनेन लुक् । त्रीन् वर्षान् बूता स्व-सत्तया व्याप्तवतीत्य् अर्थः । त्रिवार्षिकी बालिकेयम् इति वा पाठः । कालाठ् ठञ् इति शैशिक-विधानात् । वर्षस्याभविष्यतीत्य् उत्तर-पद-वृद्धेश् च त्रिषु वर्षेषु भवा विद्यमानेत्य् अर्थः । तत्र भव इत्य् अस्य हि तथैवार्थः । त्रिवर्षीयेति पाठस् त्यक्तः । वर्षीयसि हे वृद्धे ॥११॥ इत्य् अधिकृत्य भृत्य्-अर्थे वर्षल् लुक् चेति । कृतस्य खस्य ठञो वा । चित्तवति नित्यम् इत्य् अनेन लुक् । त्रीन् वर्षान् भूता स्व-सत्तया व्याप्तवतीत्य् अर्थः । “त्रिवार्षिकी बालिकेयम्” इति वा पाठः । कालाठ् ठञ् इति शैशिक-विधानात् । वर्षस्याभविष्यतीत्य् उत्तर-पद-वृद्धेश् च त्रिषु वर्षेषु भवा विद्यमानेत्य् अर्थः । तत्र भव इत्य् अस्य हि तथैवार्थः । त्रिवर्षीयेति पाठस् त्यक्तः । वर्षीयसि ! हे वृद्धे ॥११॥
मुकुन्दः : बालिकेयं त्रिवर्षीयम् इति । त्रि-वर्षा पूर्णा अस्या इति त्रिवर्षीया । उदर्क एष्यत् कालीय-फले इति विश्व-प्रकाशेऽपि कालाच् छि-प्रत्ययः । वर्षीयसि हे वृद्धे ॥११॥
**विश्वनाथः : **हे वर्षीयसि ! वृद्धे ! इयं त्रि-वर्षीया बालिका त्वया ईक्ष्यताम्, या बालिका गो-चारणाय कृत-गमनं कृष्णम् आलोक्य तस्य पुरोऽग्रे हुङ्कारं कुर्वती सती अभिधावति॥११॥
—ओ)०(ओ—
॥ २.५.१२-१३ ॥
अथ **स्वच्छा—
तत्-तत्-साधनतो नाना-विध-भक्त-प्रसङ्गतः ।
साधाकानां तु वैविध्यं यान्ती स्वच्छा रतिर् मता ॥
यदा यादृशी भक्ते स्याद् आसक्तिस् तादृशं तदा ।
रूपं स्फटिकवद् धत्ते स्वच्छासौ तेन कीर्तिता ॥
श्री-जीवः : **अथ स्वच्छाम् आह—तत् तद् इति द्वाभ्याम् । भवापवर्गो भ्रमतो यदा भवेत् [भा।पु। १०.५१.५३] इत्य् आदिषु भक्त-प्रसङ्गस्यैव रति-बीज-रूपत्वात् । नाना-विध-भक्तानां प्रसङ्गतस् तत्र च जल-सेकादि-रूपात् तत्-तत्-साधनतः साधकानां वैविध्यं यान्तीति यान्त्इ इति तु पूर्वोक्ता शुद्धाख्या रतिः स्वच्छा मता । वैविध्ये कारणम् आह—यदेति यद्आ इति । रूपं स्फटिकवद् धत्ते इति नाना-भाव-धारणांश एव दृष्टान्तः, न तु प्रतिबिम्बत्वेऽपि यथावद् रतेर् एव प्रकरण-प्राप्तत्वात् । शुद्धान्तः-पातश् चास्यास् तद्-भावानाम् आगमापायित्वात् । अत एव अग्रतो वक्ष्यमाणैस् तु स्वादैः प्रीत्य्-आदि-संश्रयैर् [भ।र।सि। २.५.२१] इति वक्ष्यमाणं चात्र सङ्गच्छते । तेषां सम्यक् सम्पर्को नास्तीति । अनाचान्त-धियाम् आस्वाद-विशेषाभावेन अनिष्ठित-चित्तानां यत आर्याणां तत्-तच्-छास्त्र-मात्र-दृष्ट्या प्रवर्तमानानां, का स्त्र्य्-अङ्ग ते [भा।पु। १०.२९.४०] इत्य् आदौइत्य्-आदौ ह्य् आर्य-चरित-शब्दस्य शास्त्रीय-मार्गत्वम् एव विवक्षितम्॥१२-१५३॥
मुकुन्दः : तत्-तत्-साधनतो हेतोर् यो नाना-विध-भक्त-प्रसङ्ग आसक्तिस् ततो हेतोर् वैविध्यं यान्ती साधकानां रतिः स्वच्छा मता ॥१२॥ ननु शवला कथं न स्यात् ? तत्राह—यदेति यदा इति । तादृशम् इति । पूर्व-रूपस्यात्र गन्धोऽपि नैव । तेन पूर्व-त्यागोऽन्य-ग्रहणेन । अयम् अर्थः—साधन-हेतुकेयम् आसक्तिर् न तु साध्यास्वाद-हेतुका । अतः पूर्व-साधनस्य निवृत्त्या । पूर्व-भक्तासक्तेर् अपि सा, अन्यस्यास् तस्याग्रहणात् स्वच्छेति ॥१३॥
विश्वनाथः : अथ स्वच्छाम् आह—तत् तद् इति द्वाभ्याम् । भवापवर्गो भ्रमतो यदा भवेद् [भा।पु। १०.५१.५३] इत्य्-आदिषु भक्त-प्रसङ्गस्यैव रति-बीज-रूपत्वात् । **नाना-विध-भक्त-सङ्गात् **तत्र च जल-सेक-रूपात् **तत्-तत्-साधनतः साधकानां वैविध्यं यान्ती इति **तु पूर्वोक्ता शुद्धाख्या रतिः स्वच्छा मता । वैविध्य-कारणम् आह— यदा इति । रूपं स्फटिकवद् धत्ते इति नाना-भाव-धारणांश एव दृष्टान्तः । न तु प्रतिबिम्बत्वेऽपि यथावद् रतेर् एव प्रकरण-प्राप्तत्वात् । अस्या नाना-विध-रतेर् आगमापायित्वात् न दास्य-सख्याद्य्-अन्तः-पातिता, किन्तु स्वच्छात्वम् एवेति ज्ञेयम् ॥१२-१३॥अथ स्वच्छाम् आह—तत् तद् इति द्वाभ्याम् । भवापवर्गो भ्रमतो यदा भवेद् [भा।पु। १०.५१.५३] इत्य् आदिषु भक्त-प्रसङ्गस्यैव रति-बीज-रूपत्वात् । नाना-विध-भक्त-सङ्गात् तत्र च जल-सेक-रूपात् तत्-तत्-साधनतः साधकानां वैविध्यं यान्तीति तु पूर्वोक्ता शुद्धाख्या रतिः स्वच्छा मता । वैविध्य-कारणम् आह—यदेति । रूपं स्फटिकवद् धत्ते इति नाना-भाव-धारणांश एव दृष्टान्तः । न तु प्रतिबिम्बत्वेऽपि यथावद् रतेर् एव प्रकरण-प्राप्तत्वात् । अस्या नाना-विध-रतेर् आगमापायित्वात् न दास्य-सख्याद्य्-अन्तः-पातिता, किन्तु स्वच्छात्वम् एवेति ज्ञेयम् ॥१२-१३॥
—ओ)०(ओ—
॥ २.५.१४ ॥
यथा—
क्वचित् प्रभुर् इति स्तुवन् क्वचन मित्रम् इत्य् उद्धसन्
क्वचित् तनय इत्य् अवन् क्वचन कान्त इत्य् उल्लसन् ।
क्वचिन् मनसि भावयन् परम एष आत्मेत्य् असाव्
अभूद् विविध-सेवया विविध-वृत्तिर् आर्यो द्विजः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : क्वचित् कस्मिंश्चित् शुद्ध-प्रसङ्गे सति सेवा आसक्तिः कार्या भक्त-भक्तितः॥१४॥
विश्वनाथः : अवन् पालयन् । एष परमात्मा इति भावयन् इत्य् अनेन शान्त-रतिर् ज्ञेया ॥१४॥
—ओ)०(ओ—
॥ २.५.१५ ॥
अनाचान्त-धियां तत्-तद्-भाव-निष्ठा सुखार्णवे ।
आर्याणाम् अतिशुद्धानां प्रायः स्वच्छा रतिर् भवेत् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : आर्याणाम् अस्य भावस्यायम् आलम्बनादिर् इति विवेकं विना भक्ति-पराणाम् । अत अतोऽ नाचान्त-धियां स्वल्पम् अपि निष्ठा-सुखास्वादम् अप्राप्तानाम् अतिशुष्कानां (अतिशुद्धानां) पञ्चविध-भक्तेषु आसक्तिम् एव कुर्वतां, न तु कुत्रापि अनादरम् इत्य् अर्थः अनाचान्त-धियां स्वल्पम् अपि निष्ठा-सुखास्वादम् अप्राप्तानाम् अतिशुष्कानां पञ्चविध-भक्तेषु आसक्तिम् एव कुर्वतां, न तु कुत्रापि अनादरम् इत्य् अर्थः ॥१५॥
**विश्वनाथः : **दास्यादि-भाव-निष्ठा-सुख-समुद्रे अनाचान्त-धियाम् आस्वाद-विशेषालाभेनानिष्ठित-चित्तानां यत आर्याणां तत्-तच्-छास्त्र-मात्र-दृष्ट्या प्रवर्तमानानाम्॥१५॥ दास्यादि-भाव-निष्ठा-सुख-समुद्रे अनाचान्त-धियाम् आस्वाद-विशेषालाभेन अनिष्ठित-चित्तानां यत आर्याणां तत्-तच्-छास्त्र-मात्र-दृष्ट्या प्रवर्तमानानाम् ॥१५॥
—ओ)०(ओ—
॥ २.५.१६-१७ ॥
अथ शान्तिः—
मानसे निर्विकल्पत्वं शम इत्य् अभिधीयते ॥
तथ चोक्तम्—
विहाय विषयौन्मुख्यं निजानन्द-स्थितिर् यतःइहाय विषयौन्मुख्यं निजानन्द-स्थितिर् यतः ।
आत्मनः कथ्यते सोऽत्र स्वभावः शम इत्य् असौ ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः : निजानन्द-स्थितिः आत्मानन्दावस्थानं यतः स्वभावात् ॥१७॥
**विश्वनाथः : **अथ शान्ताख्यां रतिं लक्षयन् शमं लक्षयित्वा तद्-उपलक्षितां लक्षयति॥१७॥
—ओ)०(ओ—
॥ २.५.१८-१९ ॥
प्रायः शम-प्रधानानां ममता-गन्ध-वर्जिता ।
परमात्मतया कृष्णे जाता शान्त-रतिर् मता ॥
यथा—
**देवर्षि-वीणया पीते हरि-लीला-महोत्सवे ।
सनकस्य तनौ कम्पो ब्रह्मानुभविनोऽप्य् अभूत् ॥
श्री-जीवः : **अथ शान्त्य्-आख्यां रतिं लक्षयन् शमं लक्षयित्वा तद्-उपलक्षिततां तां लक्षयति—प्राय इति । मुक्तानाम् अपि सिद्धानाम् [भा।पु। ६.१४.५] इत्य् इत्य्-आदि आदि-न्यायेन प्राय एव शम-प्रधानानां परमात्मतया, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य् इत्य्-आद्य्-उक्त-रीत्या सर्वाश्रय-स्वरूपतया जाता शुद्धा रतिः शान्तिर् मता ॥१८॥
**मुकुन्दः : **अधिकारि-विशेषणत्वेन शमं लक्षयित्वा तत्र कृपया जातां रतिं लक्षयति—प्राय इति । प्रायो बाह्य-क्रिया-त्यागेन मनो-नैश्चल्य-प्रधानानाम् । प्रायः-पदान् महोपनिषच्-छ्रवणाद्य्-अर्थं स्वल्प-क्रियापि सर्वात्मनां परमात्मतया, मूल-स्वरूपतया कृष्णे पर-ब्रह्मणि चतुर्भुज-कृष्ण-तत्-प्रेष्ठ-कारुण्येन जाता शुद्धा रतिः शान्तिर् मता ॥१८॥
विश्वनाथः : प्राय इति । मुक्तानाम् अपि सिद्धानाम् [भा।पु। ६.१४.५] इति न्यायेन प्राय एव शम-प्रधानानां परमात्मतया, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य् आद्य्-उक्त-रीत्या सर्वाश्रय-स्वरूपतया जाता शुद्धा रतिः शान्तिर् मता । कथम्भूता ? ममता-गन्ध-वर्जिता, “भगवान् मम प्रभुः, किं वा मम सखेत्य्सखा इत्य्-आदि-ममता-लेशेनापि रहितेत्य् अर्थः ॥१८॥ देवर्षेर् नारदस्य वीणया गीते ॥१९॥
—ओ)०(ओ—
॥ २.५.२० ॥
यथा वा—
हरि-वल्लभ-सेवया समन्ताद्
अपर-वर्गानुभवं किलावधीर्य ।
घन-सुन्दरम् आत्मनोऽप्य् अभीष्टं
परमं ब्रह्म दिदृक्षते मनो मे ॥
श्री-जीवः : आत्मनोऽपीति आत्मनोऽपि इति । आत्मानं ब्रह्म-रूपम् अप्य् अतिक्रम्येत्य् अर्थः ॥२०॥
**मुकुन्दः : आत्मनोऽपि इति । **आत्मनोऽपीति । आत्मानं ब्रह्म-रूपम् अप्य् अतिक्रम्येत्य् अर्थः । यतः परमं ब्रह्मेति ब्रह्म इति ॥२०॥
विश्वनाथः : हरि-वल्लभानां वैष्णवानां सेवया ब्रह्मानुभवम् अवधीर्य अवज्ञाय मेघ-सुन्दरं ममाभीष्टं परमं ब्रह्म मे मनो दिदृक्षते ॥२०॥
—ओ)०(ओ—
॥ २.५.२१ ॥
अग्रतो वक्ष्यमाणैस् तु स्वादैः प्रीत्य्-आदि-संश्रयैः ।
रतेर् अस्या असम्पर्काद् इयं शुद्धेति भण्यते ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : प्रीत्य्-आदि-संश्रयैः दास्यादि-रति-विषयकैः आस्वाद्यैर् अनुभावैः सह अस्याः शान्त्य्-आख्याया रतेः असम्पर्काद् असंयोगात् इयं रतिः शुद्धेति भण्यते । भगवत्य् अतिशय-ममत्वोत्पादकत्वात् हृद्या परमोपादेया या रतिस् रतिः, तस्या दास्यादि-भेद-त्रयी ईर्यते ॥२१॥
—ओ)०(ओ—
॥ २.५.२२-२४ ॥
अथ भेद-त्रयी हृद्या रतेः प्रीत्य्-आदिर् ईर्यते ।
गाढानुकूलतोत्पन्ना ममत्वेन सदाश्रिता ॥
कृष्ण-भक्तेष्व् अनुग्राह्य-सखि-पूज्येष्व् अनुक्रमात् ।
त्रि-विधेषु त्रयी प्रीतिः सख्यं वत्सलतेत्य् असौ ॥
अत्र नेत्रादि-फुल्लत्व-जृम्भणोद्घूर्णनादयः ।
केवला सङ्कुला चेति द्वि-विधेयं रति-त्रयी ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अनुक्रमाद् इति । अनुग्राह्येषु दासेषु दास्यं, सखिषु सख्यं, पूज्येषु पित्रादिषु वात्सल्यम् । एतत् त्रितय-रूपा असौ रतिर् भवतीत्य् अर्थः ॥२३॥
—ओ)०(ओ—
॥ २.५.२५ ॥
तत्र केवला—
रत्य्-अन्तरस्य गन्धेन वर्जिता केवला भवेत् ।
व्रजानुगे रसालादौ श्रीदामादौ वयस्यके ।
गुरौ च व्रजनाथादौ क्रमेणैव स्फुरत्य् असौ ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.५.२६ ॥
तत्र **सङ्कुला—
एषां द्वयोस् त्रयाणां वा सन्निपातस् तु सङ्कुला ।
उद्भवादौ उद्धवादौ च भीमादौ मुखरादौ क्रमेण सा ।
यस्याधिक्यं भवेद् यत्र स तेन व्यपदिश्यते ॥२६॥
श्री-जीवः : **अथ सङ्कुलेति । अथ सङ्कुला इति । एषां भेदानां मध्ये अत्र संस्कार-स्थितिः । स्वच्छायां तु तद्-अभाव इति भेदः । मुखरा नाम्नी काचिद् वृद्धा व्रजेश्वर्या धात्रीति महाजन-प्रसिद्धिः । सन्निपात इति धर्म-धर्मिणोर् अभेदोपचारात् तेन भावेन व्यपदिश्यते, यथा सख्य-भाग् अप्य् उद्धवो दास्यत्वेन ॥२६॥
**मुकुन्दः : **यस्य भावस्य यत्र विभावे त्रिभावे वा भक्ते । तेनेति यथा—सख्य-दास्यवान् अप्य् उद्धवो दास्येन यस्य भावस्य यत्र द्विभावे त्रिभावे वा भक्ते, तेनेति यथा—सख्य-दास्यवान् अप्य् उद्धवो दास्येन ॥२६॥
विश्वनाथः : सङ्कुला इति । सङ्कुलेति । एषां भेदानां मध्ये सन्निपातः एकत्र मिलनम् । अत्र धर्म-धर्मिणोर् अभेदोपचारः । यत्र भक्तेषु सख्यस्य मुख्यत्वं तत्र दास्यादीनां संस्कार-रूपेण स्थितिः । स्व-स्व-समयं प्राप्य उद्गच्छति, स्वच्छायां तु संस्काराभाव इति भेदो ज्ञेयः । मुखरा नाम्नी काचिद् व्रजेश्वर्या धात्रीति महाजन-प्रसिद्धिः । तेन भावेन भक्तो व्यपदिश्यते, यथा सख्य-भाग् उद्धवो दास्यत्वेन व्यपदिश्यते, तस्मिन् दास्यस्याधिक्यम् ॥२६॥
—ओ)०(ओ—
॥ २.५.२७-२८ ॥
अथ प्रीतिः—
स्वस्माद् भवन्ति ये न्यूनास् तेऽनुग्राह्या हरेर् मताः ।
आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता ॥
तत्रासक्ति-कृद् अन्यत्र प्रीति-संहारिणी ह्य् असौ ॥
श्री-जीवः : स्वस्मात् श्री-हरेः न्यूना न्यूनताभिमान-मय-रति-युक्ता इत्य् अर्थः । आराध्यत्वम् “आराध्योऽयम्” इति ज्ञानम् आत्मा स्वरूपः यस्याः । अत्र प्रीति-शब्द-प्रयोगः पूर्वतः प्रीतित्वस्य वैशिष्ट्यात् पारिभाषिकः28 ।
[बहुत्र प्राप्तौ सङ्कोचनं नियमः । अनियमे नियम-कारिणी परिभाषा ।] अन्यत्र तु भक्ति-प्रीती विपर्ययेण प्रयुज्यते । अनुग्राह्या इत्य् अपि पूर्वतो वैशिष्ट्यापेक्षया भण्यते । तत्रेत्य् तत्र इत्य् अर्धम् अपि तथा व्याख्येयम् । प्रीतित्वं विशेषेण दर्शयति । हि यस्मात् । तत्र श्री-कृष्णे । असौ आराध्यत्वात्मिका प्रीति-नाम्नी रतिस् ततोऽन्यत्र प्रीतेस् तद्-रूप-रतेः संहारिणी । तत्र तस्यां जातायाम् अन्यत्र सा नश्यतीत्य् अर्थः । ततोऽन्यत्र यदि स्यात्, तदा तत्-सम्बन्धेनैव मन्तव्येति भावः । उदाहरणेऽपि कुत्रचिद् अन्यत्र गमनेऽपि मम त्वय्य् एव प्रीतिर् भवेन् नान्यत्र पुंसीति विवक्षितम् । सख्यादिषु त्व् अन्यद् अपि वैशिष्ट्यम् अस्तीति भेदो ज्ञेयः ॥२७-२८॥
स्वस्माद् भवन्ति ये न्यूनास् तेऽनुग्राह्या हरेर् मताः ।
आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता ॥
तत्रासक्ति-कृद् अन्यत्र प्रीति-संहारिणी ह्य् असौ ॥
मुकुन्दः : स्वस्माद् धरेः ये भक्ता न्यूना हीनाभिमानवन्तः, न्यूनत्वाद् एव आराध्यत्वं पूज्योऽहम्” इति ज्ञानम् आत्मा स्वरूपं यस्याः, सा असौ आराध्यात्मिका प्रीति-नाम्नी रतिः ॥२७॥
विश्वनाथः : स्वस्मात् श्री-हरेः सकाशात् न्यूना न्यूनताभिमान-मय-रति-युक्ता इत्य् अर्थः । आराध्यत्वम् “आराध्योऽयम्” इति ज्ञानम् । आत्मा स्वरूपः यस्याः । एवम्भूता रतिः प्रीतिः ईरिता कथिता । अत्र प्रीति-शब्द-प्रयोगः शान्त-रतेः सकाशात् प्रीतित्वस्य वैशिष्ट्यात् पारिभाषिको ज्ञेयः। प्रीतित्वम् एव विशेषेण दर्शयति—असौ आराध्यत्वात्मिका प्रीति-नाम्नी रतिस् तत्र भगवति आसक्ति-कृत्, अन्यत्र भगवद्-भिन्ने प्रीतेः संहारिणी । भगवति रतौ जातायां सत्याम् अन्यत्र सा न दृश्यत इत्य् अर्थः । ततोऽन्यत्र यदि न स्यात्, तदा भगवत्-सम्बन्धेनैव मन्तव्येति ।
उदाहरणेऽपि कुत्रचिद् अन्यत्र गमनेऽपि मम त्वय्य् एव प्रीतिर् भवेन् नान्यत्र पुंसीति विवक्षणीयम् । सख्य-रत्य्-आदिषु त्व् अन्यत्र प्रीति-हारकत्वेऽपि तत्रान्यद् अपि वैशिष्ट्यम् अस्तीति भेदो ज्ञेयः ॥२७-२८॥
—ओ)०(ओ—
॥ २.५.२९ ॥
यथा मुकुन्द-मालायाम् (८)—
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामम् ।
अवधीरित-शारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ २.५.३० ॥
अथ सख्यम्—
ये स्युस् तुल्या मुकुन्दस्य ते सखायः सतां मताः ।
साम्याद् विश्रम्भ-रूपैषां रतिः सख्यम् इहोच्यते ।
परिहास-प्रहासादि-कारिणीयम् अयन्त्रणा ॥
श्री-जीवः : तुल्याः तुल्यत्वाभिमान-मय-रति-युक्ता इत्य् अर्थः । ततः साम्यात् श्री-कृष्णेन सह परस्परं सम-भावत्वाद् धेतोर् विश्रम्भम् अयन्त्रणं रूपयति प्रकाशयति या रतिः, सा सख्यम् उच्यते । विश्रम्भ-रूपत्वम् एव विवृणोति—परिहासेति परिहास- इति ॥३०॥
मुकुन्दः : तुल्यास् तुल्याभिमानवन्तः । साम्यात् तुल्यत्वाद् धेतोर् विश्रम्भ-रूपा असङ्कोचात्मा ॥३०॥
विश्वनाथः : तुल्याः तुल्यत्वाभिमान-मय-रति-युक्ता इत्य् अर्थः । ततः साम्यात् श्री-कृष्णेन सह परस्परं सम-भावत्वाद् धेतोर् विश्रम्भ-रूपत्वम् एव विवृणोति—परिहासेति परिहास- इति । अयन्त्रणेतिअयन्त्रणा इति—दासवद् वयं श्री-कृष्णस्याधीना इत्य् अभिमान-रहिता इत्य् अर्थः ॥३०॥** **
—ओ)०(ओ—
॥ २.५.३१ ॥
यथा—
मां पुष्पितारण्य-दिदृक्षयागतं
निमेष-विश्लेष-विदीर्ण-मानसाः ।
ते संस्पृशन्तः पुलकाञ्चित-श्रियो
दूराद् अहम्पूर्विकयाद्य रेमिरे ॥
श्री-जीवः : माम् इति ब्रह्मणा हृतानां बालकानाम् अनुशोचन-मयी निशि श्री-कृष्णस्य भावना । मथुरायाम् उद्धवं प्रति तेन कथनं वा । त इति वत्स-सम्भालनार्थं मे सर्वेऽपि मया प्रेषिता इति भावः ॥३१॥
**मुकुन्दः : **मां पुष्पितेति पुष्पित- इति । कस्मैचित् कार्याय गृहे स्थितं श्रीदामानं प्रति वनाद् गोष्ठ-गतस्य श्री-कृष्णस्य वचनम् । पुष्पितेति पुष्पित- इति अभिप्रायान्तरं गोपितम् । ते इति केवल-सख्य-भाक्त्वेन प्रसिद्धाः । दूराद् अहम्पूर्वम् इति वचनेन सह मां स्पृशन्तः ॥३१॥
विश्वनाथः : माम् इति श्री-कृष्णस्योक्तिः । मया सह निमेष-मात्र-विश्लेषेण विदीर्ण-मानसास् ते सख्यायः पुष्पित-वनाद् वनानि दिदृक्षया गतं मां मय्य् एव पूर्वं श्री-कृष्णः स्पृष्ट इत्य् अहम्पूर्विकया दूरात् संस्पृशन्तः सन्त अद्य रेमिरे ॥३१॥
—ओ)०(ओ—
॥ २.५.३२ ॥
यथा वा—
श्रीदाम-दोर्-विलसितेन कृतोऽसि कामं
दामोदर त्वम् इह दर्प-धुरा दरिद्रः ।
सद्यस् त्वया तद् अपि कथनम् एव कृत्वा
देव्यै ह्रिये त्रयम् अदायि ज्वलाञ्जलीनाम् ॥
श्री-जीवः : श्रीदामेति श्रीदामा इति । देव्यै राजायमानस्य तव महा-महिषी-रूपायै । „सख्यै” इति वा पाठः॥३२॥
मुकुन्दः : देव्यै राजायमानस्य तव महा-महिषी-रूपायै ॥३२॥
विश्वनाथः : श्रीदाम्नः मम दोर्-विलसितेन “हे दामोदर ! त्वं **दर्प-धुरया **अहङ्कारातिशयेन दरिद्रः कृतोऽसि । मया सह बाहु-युद्धैस् त्वं पराजितोऽसीत्य् पराजितोऽसि” इत्य् अर्थः । तद् अपि त्वया कथनं मया जितम् इति आत्म-श्लाघां कृत्वा [ह्रिये] लज्जायै देव्यै जलाञ्जलीनां त्रयम् अदायि ॥३२॥
—ओ)०(ओ—
॥ २.५.३३ ॥
अथ वात्सल्यम्—
गुरवो ये हरेर् अस्य ते पूज्या इति विश्रुताः ।
अनुग्रह-मयी तेषां रतिर् वात्सल्यम् उच्यते ।
इदं लालन-भव्याशीश्- चिबुक-स्पर्शनादि-कृत् ॥
श्री-जीवः : गुरवो गुरुत्वाभिमान-मय-रति-युक्ताः । वत्सं वक्षो लान्ति निज-लाल्येषु ददतीति वत्सलाः पित्रादयः, तेषां भावो वात्सल्यम् । यथोक्तं तृतीये देवहूतिम् अधिकृत्य—
वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा । ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ [भा।पु। ३.३३.२१] इति ॥३३॥
मुकुन्दः : हरेः सकाशात् गुरवो गुर्व्-अभिमानवन्तः, गुरुत्वाद् अस्य पूज्यः पूज्याः । वात्सल्यं वत्सलानां पित्रादीनां भावस् तन्-नाम्नी ॥३३॥
विश्वनाथः : गुरवो गुरुत्वाभिमान-मय-रति-युक्ताः । वत्सं वक्षो लान्ति निज-लाल्य-पुत्रादिभ्यो ददतीति वत्सलाः पित्रादयः, तेषां भावो वात्सल्यम् । यथोक्तं तृतीये देवहूतिम् अधिकृत्य—
वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा । ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ [भा।पु। ३.३३.२१] इति ॥३३॥
—ओ)०(ओ—
॥ २.५.३४ ॥
यथा—
**अग्रासि यन्-निरभिसन्धि-विरोध-भाजः
कंसस्य किङ्कर-गणैर् गिरितोऽप्य् उदग्रैः ।
गास् तत्र रक्षितुम् असौ गहने मृदुर् मे
बालः प्रयात्य् अविरतं बत किं करोमि ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : **अस्माकं दोषानुसन्धानं विनैव विरोध-भाजः कंसस्य पर्वताद् अपि उच्चैः किङ्कर-गणैः असुरैः यत् वृन्दावनम् अग्रासि ग्रस्तं, तत्रैव गहने वृन्दावने गा रक्षितुं मम बालः कृष्णः प्रयाति ॥३४॥
—ओ)०(ओ—
॥ २.५.३५ ॥
यथा वा—
सुतम् अङ्गुलिभिः स्नुत-स्तनी
चिबुकाग्रे दधती दयार्द्र-धीः ।
समलालयद् आलयात् पुरः
स्थिति-भाजं व्रज-राज-गेहिनी ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : आलयाग्रे स्थिति-भाजं सुतं यशोदा समलालयत् । कथम्-भूता ? अङ्गुलिभिः कृष्णस्य चिबुकाग्रे दधती ॥३५॥
—ओ)०(ओ—
॥ २.५.३६-३७ ॥
मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् ।
मधुरापर-पर्याया प्रियताख्योदिता रतिः ।
अस्यां कटाक्ष-भ्रू-क्षेप-प्रिय-वाणी-स्मितादयः ॥
यथा गोविन्द-विलासे—
चिरम् उत्कुण्ठित-मनसो राधा-मुर-वैरिणोः कोऽपि ।
निभृत-निरीक्षण-जन्मा प्रत्याशा-पल्लवो जयति ॥
श्री-जीवः- हरेर् मृगाक्ष्याश् च यो मिथः सम्भोगः स्मरण-दर्शनाद्य्-अष्ट-विधः । तस्यादि-कारणं या मृगाक्ष्या रतिः, । सा प्रियताख्या कथितेति योज्यम् ।, भक्ताश्रयायाः श्री-कृष्ण-विषयाया एव रते रस्यमानतया निर्देश्यत्वात् ।, भक्त-विषयक-श्री-कृष्ण-रतेस् तु तत्रोद्दीपनत्वात् । प्रियाया भावः प्रियतेति निरुक्तेः । त्व-तलोर् गुण-वचनस्येति पुंवत्त्वम् । तद् उक्तं कातन्स्त्र-विस्तरे—गुण-ग्रहणेनात्र जाति-सञ्ज्ञयोर् निवृत्तिः क्रियते । तेन पाचिकायाः पाचकत्वम् इत्य् इत्य्-आदि । सा च मधुरापर-पर्यायेति पर्याय- इति मधुर-आनाम्नीत्य् अर्थः ॥३६॥ चिरम् इत्य् आदि-वक्ष्यमाणम् उदाहरणं तु एकांशेन ज्ञेयम् ॥३६-३७॥
मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- हरेर् मृगाक्ष्याश् च यो मिथः सम्भोगः स्मरण-दर्शनाद्य्-अष्ट-विधः । तस्यादि-कारणं या मृगाक्ष्या रतिः, सा प्रियताख्या कथितेति योज्यम् । भक्ताश्रयायाः कृष्ण-विषयाया एव रतेः रस्यमानतया निर्देश्यत्वात् भक्त-विषयक-श्री-कृष्ण-रतेस् तु तत्रोद्दीपनत्वात् । सा च मधुरापर-पर्यायेति मधुरामधुर-नाम्नीत्य् नाम्नीत्य् अर्थः ॥३६-३७॥
—ओ)०(ओ—
**॥ २.५.३८ ॥
यथोत्तरम् असौ स्वाद-विशेषोल्लासमय्य् अपि ।
रतिर् वासनया स्वाद्वी भासते कापि कस्यचित् ॥
श्री-जीवः- **तद् एवं पञ्च-विधां रतिं निरूप्याशङ्कते—नन्व् आसां रतीनां तारतम्यं साम्यं वा मतम् ? तत्राद्ये सर्वेषाम् एकत्रैव प्रवृत्तिः स्यात् । द्वितीये च कस्यचित् क्वचित् प्रवृत्तौ किं कारणम् ? तत्राह—यथेति यथा इति । यथोत्तरम् उत्तर-क्रमेण स्वाद्वी अभिरुचिता । नन्व् अत्र विवेक्ता कतमः स्यात्—निर्वासनः, एक-वासनः, बहु-वासनो वा ? तत्राद्ययोर् अन्यतर-स्वादाद् अभावाद् विवेक्तृत्वं न घटत एव । अन्त्यस्य च रसाभासिता-पर्यवसानान् नास्तीति । सत्यम्, तथाप्य् एक-वासनस्य एतद् घटते । रसान्तरस्याप्रत्यक्षत्वेऽपि सदृश-रसस्योपमानेन प्रमाणेन विसदृश-रसस्य तु सामग्री-परिपोषापरिपोष-दर्शनाद् अनुमानेन चेति ॥३८॥
मुकुन्दः- तद् एवं पञ्च-विधां रतिं निरूप्याशङ्कते—नन्व् आसां रतीनां तारतम्यं साम्यं वा मतम् ? तत्राद्ये सर्वेषाम् एकत्रैव प्रवृत्तिः स्यात् । द्वितीये च कस्यचित् क्वचित् प्रवृत्तौ किं कारणम् ? तत्राह—यथेति यथोत्तरम् इति । यथोत्तरम् उक्ति-क्रमेण स्वाद्वी अभिरुचिता । तद्-विवेक-रस-निष्ठः सर्वज्ञो ज्ञेयः ॥३८॥
**विश्वनाथः- **तद् एवं पञ्च-विधां रतिं निरूप्याशङ्कते—नन्व् आसां रतीनां साम्यं तारतम्यं वा ? तत्राद्ये कस्यचित् कुत्रचित् रतौ प्रवृत्तिः, कस्यचिच् च कुत्रचिन् न प्रवृत्तिर् दृश्यते । तत् कथं सम्भवति ? द्वितीये सर्वोत्तमा या रतिः, तस्याम् एव सर्वेषां प्रवृत्तिः स्यान् नान्यत्र ? इत्य् आह—यथोत्तरम् इति । शान्त-रत्य्-अपेक्षया दास्ये स्वादाधिक्यम् । दास्यापेक्षया सख्ये, सख्यापेक्षया वात्सल्ये, वात्सल्यापेक्षया प्रियतायां स्वादाधिक्यम् । एवं क्रमेणोत्तरोत्तरा स्वाद-विशेषस्य उल्लास-मय्य् अप्य् असौ पञ्च-विधा मुख्या रतिः । तन्-मध्ये **कापि रतिः कस्यचिद् **भक्तस्य प्राचीन-वासनया स्वाद्वी भासते । यथा मधुराम्ल-कट्व्-आदि-रसानां मध्ये एकस्मिन्न् एव रसे कस्यचन प्राचीन-वासनया रुचिर् नान्य-रसे, तथैव दासाद्य्-एकतर-रसे कस्यचिद् भक्तस्य प्राचीन-वासनया । किं वा, अस्मिन्न् एव जन्मनि तादृश-महत्-कृपया रुचिर् नान्यत्रेति । कस्यचन दास्यादि-द्वये रति-त्रये चेति सर्वत्र विवेचनीयम् ॥३८॥
**सर्वस्वती-ठक्कुरः- **असौ रतिः यथोत्तरम् उत्तरोत्तर-क्रमेण स्वादु-विशेषोल्लास-मयी मधुर-विशेषस्य आधिक्यवती अपि वासनया वासना-भेदेन कापि कस्यचित् भक्तस्य स्वाद्वी भासते ॥३८॥ (चैतन्य-चरितामृत १.४.४५, २.८.८८)
—ओ)०(ओ—
॥ २.५.३९-४० ॥
अथ गौणी—
विभावोत्कर्षजो भाव-विशेषो योऽनुगृह्यते ।
सङ्कुचन्त्या स्वयं रत्या स गौणी रतिर् उच्यते ॥
हासो विस्मय उत्साहः शोकः क्रोधो भयं तथा ।
जुगुप्सा चेत्य् असौ भाव-विशेषः सप्तधोदितः ॥
श्री-जीवः- तद् एवं मुख्या-परिकरं समाप्य गौणीम् आह—अथेति अथ इति । विभावत्वम् अत्रालम्बनत्वम् । भाव-विशेषस्यैव तत्र तत्र प्रकटम् उपलभ्यमानत्वात् सङ्कुचन्त्य् एवेति । सा रतिर् इति भावः । अनुगृह्यते प्रकटीक्रियते । सा गौणी रतिर् उच्यते इति । सोऽपि भाव-विशेषो रतिर् उच्यते ।, किन्तु सा मञ्चाः क्रोशन्तीतिवत् गौणी औपचारिकीत्य् अर्थः ॥३९॥
**मुकुन्दः- **अथ गौणी । सहार्थेति विभावः उद्दीपनालम्बनात्मकः । अनुगृह्यते कञ्चित् कालं स्थलं दत्त्वा चारु क्रियते । गौणी औपचारिकी ॥३९॥
विश्वनाथः- विभाव- एति इति । आलम्बन-विभावोत्कर्ष-जन्यो यो भाव-विशेषः स्वयं सङ्कुचन्त्या रत्या अनुगृह्यते प्रकटीक्रियते, सा गौणी रतिर् उच्यते इति । सोऽपि भाव-विशेषो रतिर् उच्यते । किन्तु सा मञ्चाः क्रोशन्तीतिवत् गौणी औपचारिकीत्य् अर्थः । स्वयम् इत्य् उत्तरेणान्वयः ॥३९॥
—ओ)०(ओ—
॥ २.५.४१ ॥
अपि कृष्ण-विभावत्वम् आद्य-षट्कस्य सम्भवेत् ।
स्याद् देहादि-विभावत्वं सप्तम्यास् तु रतेर् वशात् ॥
श्री-जीवः- अपीति अपि इति । विभावत्वम् अत्रालम्बनत्वं रतेर् मुख्याया वशाद् आद्य-षट्कस्य हासादि-भय-पर्यन्तस्य कृष्ण-विभावत्वम् अपि सम्भवेत्, तस्य तस्यापि योग्यत्वात् । अथ **रतेर् वशाद् **एव सप्तम्या जुगुप्सायास् तु देहादि-विभावत्वम् एव सम्भवेत्, न तु कृष्ण-विभावत्वम्, तद्-अयोग्यत्वात् ॥४१॥
**मुकुन्दः- **ननु रतिमतां कृष्णे तत्-कारणका हासादयोऽसम्भाव्या एव, सर्वेश्वरत्वात् ? तत्राह—अपीति अपि इति । रतेः परार्थाया वशाद् अधीनत्वात् सम्भवेत् । सप्तम्यास् तु देहादि-विभावत्वम् । अयम् अर्थः—ऐश्य-ज्ञान-शून्यानां रतिमतां क्वचित् समये कृष्णे हासादयः सम्भवेयुर् एव । ऐश्वर्य-ज्ञानवताम् अपि रतेः स्निग्ध-स्वभावत्वात् यथोचितं ते सम्भवेयुः सम्भवेयुः। जुगुप्सा तु देहादाव् एव, न कृष्ण इति ॥४१॥
विश्वनाथः- अपि इति । अपीति विभावत्वम् अत्रालम्बनत्वं रतेर् मुख्याया वशाद् **आद्य-षट्कस्य **हास्यादि-भय-पर्यन्तस्य कृष्ण-विभावत्वम् अपि सम्भवेत्, तस्य तस्यापि योग्यत्वात् । अथ रतेर् वशाद् एव सप्तम्या जुगुप्सायास् तु देहादि-विभावत्वम् एव सम्भवेत्, न तु कृष्ण-विभावत्वम्, तद्-अयोग्यत्वात् । इति उदाहरणे व्यक्तीकरिष्यति ॥४१॥
—ओ)०(ओ—
॥ २.५.४२ ॥
हासादाव् अत्र भिन्नेऽपि शुद्ध-सत्त्व-विशेषतः ।
परार्थाया रतेर् योगाद् रति-शब्दः प्रयुज्यते ॥
श्री-जीवः- शुद्ध-सत्त्व-विशेषतः स्वार्थाया रतेः । परार्थायास् तस्या एव परार्थत्वं प्राप्तायाः ॥४२॥
**मुकुन्दः- **रति-धर्म-भिन्ने हासादौ गौण-रतित्वेऽपि पुरुषोऽयं सिंह इतिवत् रति-धर्म-प्राप्तिम् आशङ्क्याह—हासादाव् अत्रेति अत्र इति । शुद्ध-सत्त्व-विशेषतः स्व-परार्थाया रतेः । रतेर् योगात् सम्बन्धात् । अयम् अर्थः—राजकीय-पुरुषो राजेतिवत् रति-सम्बन्धिनि हासादौ रति-शब्दः सम्बन्ध-हेतुकः, न तु पुरुषोऽयं सिंह इतिवत् सादृश्य-हेतुक इति ॥४२॥
विश्वनाथः- हासादाव् इति । शुद्ध-सत्त्व-विशेषतः शुद्ध-सत्त्व-स्वरूपाया रतेः सकाशात् भिन्नेऽपि हासादौ परार्थाया रतेर् योगाद् एव रति-शब्दः प्रयुज्यते । तत्र रति-शब्दस्य गौणी प्रयोग इत्य् अर्थः ॥४२॥
—ओ)०(ओ—
**॥ २.५.४३ ॥
हासोत्तरा रतिर् या स्यात् सा हास-रतिर् उच्यते ।
एवं विस्मय-रत्य्-आद्या विज्ञेया रतयश् च षट् ॥
श्री-जीवः- **तद् एवं गौणीनां रतीनां हासादय एव सञ्ज्ञा । परार्थायास् तु हास-रत्य्-आदय इत्य् आह—हासोत्तरेति हासोत्तरा इति ॥४३॥
**मुकुन्दः- **गौण-रतेः सामान्य-लक्षणम् उक्त्वाग्रे वक्ष्यमाणत्वाद् विशिष्टं तत् सङ्क्षिप्याह—हासोत्तरा हास-श्रेष्ठा स्वयं हासं संवर्ध्य निलीन-वैभवा स्थितेत्य् अर्थः ॥४३॥
**विश्वनाथः- **तद् एवं गौणीनां हासादय एव सञ्ज्ञा । परार्थायास् तु हासादय इत्य् आह—हासोत्तरा इति ॥४३॥—हासोत्तरेति ॥४३॥
—ओ)०(ओ—
॥ २.५.४४-४५ ॥
कञ्चित् कालं क्वचिद् भक्ते हासाद्याः स्थायिताम् अमी ।
रत्या चारु-कृता यान्ति तल्-लीलाद्य्-अनुसारतः ॥
तस्माद् अनियताधाराः सप्त सामयिका इमे ।
सहजा अपि लीयन्ते बलिष्ठेन तिरस्कृताः ॥
श्री-जीवः- सहजा अपीतिअपि इति, यदि सहजाः स्युः,स् तथापीत्य् अर्थः । बलिष्ठेन रत्य्-उत्थ-तद्-विरोधि-भावेनेति शेषः ॥४५॥
**मुकुन्दः- **तस्माद् अनियताधारा इति पद्यस्यायम् अर्थः—यथा शान्ति-रति-प्रभृतीनां शान्त-दास-प्रभृतयः आधारा नियतास् नियताः, तथा हासादीनाम् आधारा नियता न सन्ति, कुत्रचित् समये क्वचिद् भक्ते उदयन्ते इति हासादीनाम् अनियताधारत्वम् । \
ननु, हासादिषु मध्ये कश्चिद् भावः कुत्रचिद् भक्ते सहजो दृश्यते, स तु तत्र नियताधार एव । कथं सर्वथा अनियताधारा इत्य् उच्यते ? तत्राह—सहजा इति । बलिष्ठेन देश-कालादि-वैशिष्ट्येन विभावनाद्य्-अतिशयं लब्ध्वा बलिष्ठ-भूतेन हासादिष्व् अन्यतमेन भावान्तरेण तिरस्कृतास् ते सहजा अपि लीयन्ते । हासादीनां कारण-रूपेण विभावेन स्व-कार्येषु हासादिषु उत्कर्षातिशयाधाणम् उत्कर्षातिशयाधानम् उत्कर्षातिशयाधानं विभावना । एवं सञ्चारिणा सञ्चारणा, अनुभावेनानुभावनाअ । यथा यो भय-स्वभावस् तस्य स्वाभाविकम् अपि भयं विभावनादि-बलिष्ठेन क्रोधादिना तिरस्कृतं सत् सद्यो लीयते इति ॥४५॥
विश्वनाथः- रत्या चारु-कृता अनुगृहीता हासाद्याः कञ्चित् कालं स्थायितां यान्ति, । न तु दास्यादिवत् सर्वदा । एवं **नियताधाराश् **च न स्युः । सहजा अपीति । —यदि सहजाः स्युः, तथापीत्य् अर्थः । बलिष्ठेन रत्य्-उत्थ-तद्-विरोधि-भावेनेति शेषः ॥४४-४५॥
—ओ)०(ओ—
॥ २.५.४६ ॥
काप्य्29** अव्यभिचरन्ती सा स्वाधारान् स्व-स्वरूपतः ।
रतिर् आत्यन्तिक-स्थायी भावो भक्त-जनेऽ खिले ।
स्युर् एतस्या विना-भावाद् भावाः सर्वे निरर्थकाः ॥४६॥
श्री-जीवः- रतिर्** एव स्व-स्वरूपेण स्वाधारान् अव्यभिचरन्ती आत्यन्तिक-स्थाय्य् स्थाय्य्-आख्यो भावः स्यात् । “स्वाधाराद्स्वाधारात्” इति पञ्चम्य्-अन्तो वा पाठः ॥४६॥
**मुकुन्दः- **ननु, यथा गौणा बलिष्ठेन तिरस्कृतं लीयेरन्, तथा मुख्योऽपि बलिष्ठेन हेतुना लीयताम् ? तत्राह—क्वापीति क्वापि इति । रतिस् तु शान्त्य्-आदि-रूपा स्वाधारान् शान्तादि-जनान् अव्यभिचरन्ती । न व्यभिचरति व्यभिचारोऽतिक्रमः, अत्र शत्र्-अन्तेन पदेन निङा तत्-क्रिया लक्ष्यते, यतः स आत्यन्तिक-स्थायी भावः । ननु श्रीमद्-आनकदुन्दुभ्य्-अर्जुन-प्रभृतीन् आधारान् वात्सल्य-सख्यादि-रतयो व्यभिचरन्त्यो दृश्यन्ते, यतोऽमीषु स्तुत्य्-आदौ दासाधाराया प्रीत-रतेर् उदयो दृश्यते इति ? तत्राह—स्व-स्वरूपत इति स्व-स्वरूपेण रतेर् व्यभिचारो नास्ति, प्रीते रतित्वाव्यभिचारात् ॥४६॥
**विश्वनाथः- **दास्यादि-मुख्या- रतिश् च स्व-स्वरूपेण स्वाधारान् भक्तान् कदापि अव्यभिचरन्ती अनतिक्रामन्ती आत्यन्तिक-स्थायि-भावः स्यात् । एतां मुख्यां रतिं विना सर्वे हासाद्या भावा निरर्थकाः स्युः ॥४६॥
—ओ)०(ओ—
॥ २.५.४७ ॥
विपक्षादिषु यान्तोऽपि क्रोधाद्याः स्थायितां सदा ।
लभन्ते रति-शून्यत्वान् न भक्ति-रस-योग्यताम् ॥
श्री-जीवः- रति-शून्यत्वाद् रति-रिक्तत्वात् । रत्य्-आभासस्यापि सम्भावना नास्तीति तद्-विरोधित्वाद् इत्य् अर्थः ॥४७॥
**मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- **असुराणां रति-शून्यत्वात् तेषां क्रोधाद्या भक्ति-रस-योग्यतां न लभन्त इत्य् आह—लभन्त इति ॥४७॥
—ओ)०(ओ—
॥ २.५.४८ ॥
अविरुद्धैर् अपि स्पृष्टा भावैः सञ्चारिणोऽखिलाः ।
निर्वेदाद्या विलीयन्ते नार्हन्ति स्थायितां ततः ॥
श्री-जीवः- येन स्पृष्टा लीयन्ते तस्य विरुद्धत्वापत्तेर् अविरुद्धैर् अपि स्पृष्टा इति । नञ् भिन्न-क्रमे । असूर्यम्पश्या राज-दारा इतिवत् विरुद्धैर् अप्य् अस्पृष्टाः काल-व्यवधानेन स्वतोऽपि लीयन्त इत्य् अर्थः ॥४८॥
मुकुन्दः- अविरुद्धैर् विरुद्धेभ्योऽन्यैस् तैर् मित्रैश् च किम् उत विरुद्धैः । निर्वेदस्य हर्षादिर् विरुद्धः ।, दैन्यादिर् मित्रम् । शङ्कादिस् तटस्थः । एवम् अन्येषाम् अन्ये विरुद्धाद्या ज्ञेयाः । परस्परं सर्वे स्पृष्टास्पष्टा लीयन्ते इत्य् अर्थः ॥४८॥
**विश्वनाथः- **किञ्चित् काल-स्थायित्वेन निर्वेदादि-सञ्चारिणां स्थायित्वं नास्तीत्य् आह—अविरुद्धैर् इति । येन स्पृष्टा लीयन्ते तस्य विरुद्धत्वम् अस्त्य् एव । अतो विरुद्धैर् अपि स्पृष्टा इति ।
अत्र नङ् भिन्न-क्रमे । असूर्यम्पश्या राज-दारा इतिवत् विरुद्धैर् अप्य् अस्पृष्टाः काल-व्यवधानेन स्वतोऽपि लीयन्त इत्य् अर्थः ॥४८॥
—ओ)०(ओ—
॥ २.५.४९-५० ॥
इत्य् अतो मति-गर्वादि-भावानां घटते न हि ।
स्थायिता कैश्चिद् इष्टापि प्रमाणं तत्र तद्-विदः ॥
सप्त हासादयस् त्व् एते तैस् तैर् नीताः सुपुष्टताम् ।
भक्तेषु स्थायितां यान्तो रुचिर् रुचिम् एभ्यो वितन्वते ॥
श्री-जीवः- नन्व् इदम् अस्माकम् अनुभव-विरुद्धं ? तत्राह तत्राह—प्रमाणं तत्र तद्-विद इति । तद्-विदो भरताद्याः ॥४९॥
मुकुन्दः- तद्-विदस् तद् विदन्ति जानन्ति ये, त एव प्रमाणम् इति भ्र्व्-आदि-चालनेन तेषु कटाक्षः ॥४९॥ एभ्यो भक्तेभ्यः ॥५०॥
**विश्वनाथः- **अतो हेतोः कैश्चित् पण्डितैः मति-गर्वादि-भावानां स्थायिता इष्टापि न तेषां स्थायिता घटते ? नन्व् इदम् अस्माकम् अनुभव-विरुद्धं ? तत्राह—प्रमाणं तत्र तद्-विद इति । तद्-विदो भरत-मुनि-प्रभृतयः ।, तैर् अपि तेषां स्थायित्वं नाङ्गीकृतम् इत्य् अर्थः । तैस् तैर् व्यभिचारिभिर् भावैः पुष्टतां नीता हासादयः स्थायितां यान्तः । एभ्यो भक्तेभ्यो रुचिं वितन्वते ॥४९-५०॥
—ओ)०(ओ—
॥ २.५.५१ ॥
तथा चोक्तम्—
**अष्टानाम् एव भावानां संस्काराधायिता मता ।
तत्-तिरस्कृत-संस्काराः परे न स्थायितोचिताः ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- **रतित्वेन मुख्या एका, हासादयः सप्त इत्य् अष्टानां भावानां संस्काराधायकत्वं वर्तते । तैर् विरुद्धैर् भावैः तिरस्कृत-संस्काराः परे व्यभिचारि-भावाः न स्थायित्वस्य योग्याः । यद्यपि हासादीनाम् अपि बलिष्ठ-भावेन लय उक्तस् तथापि तेषां लयेऽपि संस्कारास् तिष्ठन्त्य् एव । अतस् तान् आदाय हासादीनां स्थायिता-निर्वाहः, व्यभिचारि-भावानां तु लये तेषां संस्कारा अपि न सन्तीति भेदो ज्ञेयः ॥४८॥
—ओ)०(ओ—
॥ २.५.५२-५३ ॥
तत्र हास-रतिः—
चेतो-विकासो हासः स्याद् वाग्-वेषेहादि-वैकृतात् ।
स दृग्-विकासन-सौष्ठ-कपोल-स्पन्दनादि-कृत् ॥
कृष्ण-सम्बन्धि-चेष्टोत्थः स्वयं सङ्कुचद्-आत्मना ।
प्रत्यानुगृह्यमाणोऽयं हासो हास-रतिर् भवेत् ॥
श्री-जीवः- पूर्वं हासोत्तरा [भ।र।सि। २.५.४३] इत्य् इत्य्-आदिना हासाद्य्-आवृताया रतेर् हास-रत्य्-आदीति सञ्ज्ञत्वम् उक्तम् । सम्प्रति तु रत्य्-आरोपितत्वेन स्वीय-धर्मेणानुगृह्यमाणत्वाद् धासादयोऽपि रत्य्-आदिना व्यवहृइयन्त इत्य् आह—कृष्णेति कृष्ण- इति । हासो रतिर् इव हास-रतिर् इति पुरुष-व्याघ्र इतिवत् समासः । पूर्वा हास-रतिस् तु शाक-पार्थिवादिवत् । सङ्कुचद्-आत्मना रत्यानुगृह्यमाण इत्य् अत्र हेतुम् आह—कृष्ण-सम्बन्धि-चेष्टोत्थ इति । तच्-चेष्टा-जात-सुख-विशेषेण व्याप्ततयेति भावः । यत्र तु कृष्ण-विरोधि-चेष्टा-वैरूप्योत्थः स्यात्, तत्रापि भावि-तन्-नाशक-कृष्ण-चेष्टाभावेनैव हेतुः स्याद् इति । एवम् अन्यत्रापि योज्यम् ॥५३॥
**मुकुन्दः- **तद् एवं निर्वेद-मत्य्-आदीनां स्थायितां निराकृत्य हासादि-गौण-रतीनां सलक्षानान्य् उदाहरणानि दर्शयति—तत्र हास-रतिर् इत्य् इत्य्-आदिना । रतित्वाद् इत्य् अतः प्राक्तनेन ग्रन्थेन ॥५२॥ हासोत्तरा रतिर् हास-रतिः शाक-पार्थिवादिवत् समासः ॥५३॥
विश्वनाथः- चेत इति—वचन-वेश-चेष्टादीनां वैकृतात् विकारात् यश् **चित्तस्य विकाशः **प्रफुल्लत्वं, स हासः स्यात् । स हासः दृशोः प्रफुल्लत्वं, तथा नासौष्ठ-कपोलानां स्पन्दनादिकं च करोति ॥५२॥
पूर्वं हासोत्तरा [भ।र।सि। २.५.४३] इत्य् इत्य्-आदिना हासाद्यावृताया रतेर् हास-रत्य्-आदि-सञ्ज्ञत्वम् उक्तम् । सम्प्रति तु रत्य्-आरोपितत्वेन स्वीय-धर्मेणानुगृह्यमाणत्वाद् धासादयोऽपि रत्य्-आदित्वेन व्यवहृइयन्त इत्य् आह—कृष्णेति कृष्ण- इति । हासो रतिर् इव हास-रतिः । पुरुष-व्याघ्र इतिवत् समासः । पूर्वा हास-रतिस् तु हास-सहिता रतिर् इति शाक-पार्थिवादिः । सङ्कुचद्-आत्मनेत्य् आत्मना इत्य् अत्र हेतुम् आह—कृष्ण-सम्बन्धि-चेष्टोत्थ इति । तच्-चेष्टा-जात-सुख-विशेषेण व्याप्ततयेति भावः॥५३॥
—ओ)०(ओ—
॥ २.५.५४ ॥
यथा—
मया दृग् अपि नार्पिता सुमुखि30** दध्नि तुभ्यं शपे
सखी**31** तव निरर्गला तद् अपि मे मुखं जिघ्रति ।
प्रशाधि तद् इमां मुधा च्छलित-साधुम् इत्य् अच्युते
वदत्य् अजनि दूतिका हसित-रोधने न क्षमा ॥
श्री-जीवः-** मया दृग् अपीति अपि इति । वन-मध्ये देव-पूजा-व्याजेन दध्य्-आदीन्य् अवतार्य पुष्पाद्य्-अवचयनार्थम् इतस् ततः क्रीडन्तीषु तासु दधि-समीपे रहसि दधि-रक्षार्थं रक्षित-दूती-प्रापितया कयाचिल् लीलायमानस्य तस्य श्री-कृष्णस्याकस्माद् आगतां वामां सखीं प्रति छलोक्तिः । “जरती” इति, “वधूर्” इति च पाठो नेष्टः । किन्तु सुमुखी इत्य् एव सखी इत्य् एव पाठः । भयानकेन हास्याच्छादनात् ॥५४॥
मुकुन्दः- हसित-रोधने न क्षमेत्य् क्षमा इत्य् अनेन हास-रतेर् भयागणनया स्थायि-योग्या सुपुष्टता दर्शिता ॥५४॥
**विश्वनाथः- **कदाचिद् ग्रामान्तरे गतां जटिलां वीक्ष्य काचिद् दूती कृष्णं तस्या गृहम् आनीय श्री-राधया सह तस्यैव मिलनं चकार । अकस्मात् तत्रागतां जटिलां कृष्णेन सह क्रीडन्तीं वधूं दृष्ट्वा क्रोधेन तर्जन्तीं तां प्रतारयितुं श्री-कृष्णम् आह—हे जरति ! वृद्धे ! तव गृह-स्थिते दध्नि मया दृष्टिर् अपि न अर्पिता । तव शपथः । तद् अपि निरर्गला निःशङ्का तव वधूः मयि दधि-भोजन-निश्चयार्थं मन्-मुखं जिघ्रति । तत् तस्मात् तव वधूं प्रशाधि शिक्षय, यथा पुनर् अस्मद्-विधे साधु-जने विरुद्धाशङ्का न क्रियते। कथम्-भूतां ? मुधा व्यर्थम् एव अनेनास्माकं दधि चोरितम् इति छलितः साधु-रूपोऽहं यथा हास्य-रोधने दूती क्षमा समर्था न अजनि ॥५४॥
—ओ)०(ओ—
॥ २.५.५५ ॥
अथ विस्मय-रतिः—
लोकोत्तरार्थ-वीक्षादेर् विस्मयश् चित्त-विस्तृतिः ।
अत्र स्युर् नेत्र-विस्तार-साधूक्ति-पुलकादयः ।
पूर्वोक्त-रीत्या निष्पण्णः स विस्मय-रतिर् भवेत् ॥
श्री-जीवः- चित्तस्य विस्तृतिः किम् इदम् इति नाना-गतिः । चेतो-विकाशः हास इत्य् अत्र विकाशस् तु प्रकाश इत्य् अर्थः ॥५५॥
**मुकुन्दः- **चित्तस्य विस्तृतिः किम् इदम् इति नाना-गति-रूपो विस्तारः । चेतो-विकाशः हास इत्य् अस्य विकाशस् तु प्रफुल्लता ॥५५॥
**विश्वनाथः- **चित्तस्य विस्तृतिः किम् इदम् इति नाना-गतिः । पूर्वोक्त-रीत्या हास-रति-लक्षणस्थ-रीत्या निष्पण्ण इत्य् अर्थः ॥५५॥
—ओ)०(ओ—
॥ २.५.५६ ॥
यथा—
गवां गोपालानाम् अपि शिशु-गणः पीत-वसनो
लसच्-छ्रीवत्साङ्कः पृथु-भुज-चतुष्कैर् धृत-रुचिः ।
कृत-स्तोत्रारम्भः स विधिभिर् अजाण्डालिभिर् अलं
पर-ब्रह्मोल्लासान् वहति किम् इदं हन्त किम् इदम् ॥५६॥
श्री-जीवः- न व्याख्यातम् ।न व्याख्यातम्।
**मुकुन्दः- **गवाम् इति ब्रह्मणो वाक्यम् ॥५६॥
**विश्वनाथः- **ब्रह्मादौ वत्स-बालकान् ददर्श । पश्चात् तत्-क्षण एव तान् नारायण-स्वरूपान् दृष्ट्वा स-विस्मयम् आह—गवाम् इति । शिशु-गणः वत्स-बालक-गणः परं-ब्रह्मणो नारायणस्य उल्लासान् उत्कर्षान् वहति । अत इदं किम् इति ब्रह्मणो विस्मयोक्तिः । कथम्-भूतः शिशु-गणः ? सविधिभिः ब्रह्म-सहिताभिः ब्रह्माण्ड-श्रेणिभिः कृतः स्तोत्रस्यारम्भो यत्र सः ॥५६॥
—ओ)०(ओ—
॥ २.५.५७-५८ ॥
अथ उत्साह-रतिः—
स्थेयसी साधुभिः श्लाघ्य-फले युद्धादि-कर्मणि ।
सत्वरा मानसासक्तिर् उत्साह इति कीर्त्यते ॥
कालानवेक्षणं तत्र धैर्य-त्यागोद्यमादयः ।
सिद्धः पूर्वोक्त-विधिना स उत्साह रतिर् भवेत् ॥
श्री-जीवः- युद्धादि-कर्मणीति आदि-पदेन युद्ध-दान-दया-धर्मा एव गृह्यन्ते । स्वाभीष्ट-कर्मणीति वा पाठः ॥५७-५८॥
**मुकुन्दः- **साधुभिः श्लघ्यं फलं यस्य युद्ध-दान-दया-धर्म-रूपस्य तस्मिन् स्वाभीष्ट-कर्मणि ॥५७-५८॥
**विश्वनाथः- **साधुभिः श्लघ्यं फलं यस्य तथा-भूते युद्ध-दान-दया-धर्म-रूपे कर्मणि स्थेयसी स्थिरतरा त्वरा-युक्ता मानसासक्तिर् उत्साहः ॥५७-५८॥
—ओ)०(ओ—
॥ २.५.५९ ॥
यथा—
**कालिन्दी-तट-भुवि पत्र-शृङ्ग-वंशी
निक्वाणैर् इह मुखरी-कृताम्बरायाम् ।
विस्फूर्जन्न् अघ-दमनेन योद्धु-कामः
श्रीदामा परिकरम् उद्भटं बबन्ध ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- **पुत्र-शृङ्गादिभिर् मुखरी-कृतम् अम्बरम् आकाशं यत्र तथा-भूतायां कालिन्दी-तट-भुवि, विस्फुर्जन् «मत्-समः को बली जगत्य् अस्ति» इत्य् अहङ्कारं प्रकाशयन् श्रीदामा परिकरं फेट इति प्रसिद्धम् उद्भटं दृढं यथा स्यात् तथा बबन्ध ॥५९॥
—ओ)०(ओ—
॥ २.५.६० ॥
अथ शोक-रतिः—
शोकस् त्व् इष्ट-वियोगाद्यैश् चित्त-क्लेश-भरः स्मृतः ।
विलाप-पात-निःश्वास-मुख-शोष-भ्रमादि-कृत् ।
पूर्वोक्त-विधिनैवायं सिद्धः शोक-रतिर् भवेत् ॥
श्री-जीवः- चित्त-क्लेश-भर इति प्रियस्य नाश-भावना-मयत्वात् परमातिशय-चित्त-क्लेश इत्य् अर्थः ॥६०॥
**, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- **चित्त-क्लेश-भर इति प्रियस्य नाश-भावना-मयत्वात् परमातिशय-चित्त-क्लेश इत्य् अर्थः ॥६०॥
—ओ)०(ओ—
॥ २.५.६१ ॥
यथा श्री-दशमे (१०.७.२५)—
रुदितम् अनु निशम्य तत्र गोप्यो
भृशम् अनुतप्त-धियोऽश्रु-पूर्ण-मुख्यः ।
रुरुदुर् अनुपलभ्य नन्द-सूनुं
पवन उपारत-पांशु-वर्ष-वेगे ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- उपरितः पांशु-वर्षस्य वेगो यत्र, तथाभूते पवने सति तत्र यशोदाया रुदितं निशम्य अनु पुरान्तराद् अपि गोप्य आगत्य रुरुदुः ॥६१॥
—ओ)०(ओ—
॥ २.५.६२ ॥
यथा वा—
अवलोक्य फणीन्द्र-यन्त्रितं
तनयं प्राण-सहस्र-वल्लभम् ।
हृदयं न विदीर्यति द्विधा
धिग् इमां मर्त्य-तनोः कठोरताम् ॥
श्री-जीवः- अवलोक्येति अवलोक्य इति श्री-व्रजेश्वरः स्वयम् एव स्वं निन्दति ॥६२॥
**मुकुन्दः- अवलोक्य **इति अवलोक्येति श्री-व्रज-राज-वाक्यम् ॥६२॥
विश्वनाथः- फणीन्द्रेण कालियेन वेष्टितं तनयं वीक्ष्य हृदयं द्विधा न विदीर्यते इति हेतोः मर्त्य-तनोः कठोरतां धिग् इति व्रजेश्वरः स्वयं स्वं निन्दति ॥६२॥
—ओ)०(ओ—
॥ २.५.६३-६४ ॥
अथ क्रोध-रतिः—
प्रातिकूल्यादिभिश् चित्त-ज्वलनं क्रोध ईर्यते ।
पारुष्य-भ्रू-कुटी-नेत्र-लौहित्यादि-विकार-कृत् ॥
एवं पूर्वोक्तवत्-सिद्धं विदुः क्रोध-रतिं बुधाः ।
द्विधासौ कृष्ण-तद्-वैरि-भावत्वेन कीर्तिता ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- पारुष्यं निष्ठुरता ॥६३॥
—ओ)०(ओ—
॥ २.५.६५ ॥
अथ कृष्ण-विभावाः, यथा—
कण्ठ-सीमनि हरेर् द्युति-भाजं
राधिका-मणि-सरं परिचित्य ।
तं चिरेण जटिला विकट-भ्रू-
भङ्ग-भीमतर-दृष्टिर् ददर्श ॥
श्री-जीवः- कण्ठ- इइतेति । अत्र श्वश्रूं-मन्यायाः जटिलायाः क्रोधः श्री-कृष्ण-रति-मूलकत्वेनापि सम्भवति, श्री-कृष्णस्यापि मङ्गल-कामनया स्व-वधू-सम्बन्ध-निवर्तनात् । एवं सर्वत्र ज्ञेयम् ॥६५॥
मुकुन्दः- कण्ठ- इति ।** **कण्ठेति । जटिलायाः सख्य-रतेर् एव निषेधतया शृङ्गार-रस-पोषके क्रोधेऽनुग्रहः, न तु वात्सल्य-रतेः, वैरस्यात् । जरदाभीरिकादीनां वात्सल्यं सख्य-मिश्रितम् इति वात्सल्य-रसे वक्ष्यमाणात् सख्यम् ॥६५॥
**विश्वनाथः- **अत्र श्वश्रूं-मन्यायाः जटिलायाः क्रोधः श्री-कृष्ण-मूलकत्वेनापि सम्भवति । श्री-कृष्णस्यापि मङ्गल-कामनया स्व-वधू-सम्बन्ध-निवर्तनात् । एवं सर्वत्र ज्ञेयम् इति श्रीमज्-जीव-गोस्वामि-चरणाः । श्री-कृष्णस्य कण्ठ-सीमनि राधिकाया मणिसरं हारं द्युति-युक्तं विकट-भ्रू-भङ्गेन अतिशय-भयानका **दृष्टिर् **यस्मिन्, तद् यथा स्यात्, तथा ददर्श ॥६५॥
—ओ)०(ओ—
॥ २.५.६६ ॥
तद्-वैरि-विभावाः, यथा—
अथ कंस-सहोदरोग्र-दावे
हरिम् अभ्युद्यति तीव्र-हेति-भाजि ।
रभसाद् अलिकाम्बरे प्रलम्ब-
द्विषतोऽभूद् भ्रू-कुटी-पयोद-रेखा ॥
श्री-जीवः- अथ कंस- इएति । हेतिर् अस्त्रं ज्वाला च । अलिकं ललाटम् ॥६६॥
मुकुन्दः- हेतिर् अस्त्रं ज्वाला च । अलिकं ललाटम् ॥६६॥
विश्वनाथः- कंस-सहोदर-रूपे उग्र-दावानले युद्धार्थं श्री-कृष्णम् अभ्युद्यति सति प्रलम्ब-द्विषतो बलदेवस्य ललाट-रूपे आकाशे भ्रू-कुटी-रूपा मेघ-रेखा **रभसात् **हठाद् अभूत् । दावानले कथम्-भूते ? तीव्र-ज्वाला-भाजि, पक्षे हेतिः अस्त्रम् ॥६६॥
—ओ)०(ओ—
॥ २.५.६७-६८ ॥
अथ भय-रतिः—
भयं चित्तातिचाञ्चल्यं मन्तु-घोरेक्षणादिभिः ।
आत्म-गोपन-हृच्-छोष-विद्रव-भ्रमणादि-कृत् ॥
निष्पन्नं पूर्ववद् इदं बुधा भय-रतिं विदुः ।
एषापि क्रोध-रतिवद् द्वि-विधा कथिता बुधैः ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- मन्तुर् अपराधस् अपराधः, तेन एवं भयानके क्षणादिभिश् चित्तस्यातिचाञ्चल्यम् । विद्रवो धावनम् ॥६७॥
—ओ)०(ओ—
॥ २.५.६९ ॥
तत्र कृष्ण-विभावाः—
याचितः पटिमभिः स्यमन्तकं
शौरिणा सदसि गान्दिनी-सुतः ।
वस्त्र-गूढ-मणिर् एष मूढ-धीस्
तत्र शुष्यद्-अधरः क्लमं ययौ ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- वस्त्रेण गुप्तः स्यमन्तक-मणिर् येन, सः अक्रूरः श्री-कृष्णेन **पटिमभिश् **चातुर्यैः करणैः सभा-मध्ये स्यमन्तक-मणिं याचितः सन् प्रत्युत्तर-दानेनासामर्थ्यात् मूढ-धीः, एष अक्रूरः “मत्-प्रभुणा मदीय-विकर्मेदं ज्ञानम् ज्ञातम्” इति भयेन क्लमं ययौ ॥६९॥
—ओ)०(ओ—
॥ २.५.७० ॥
दुष्ट-विभाव-जाः, यथा—
भैरवं ब्रुवति हन्त हन्त गोकुल-
द्वारि वारिद-निभे वृषासुरे ।
पुत्र-गुप्ति-धृत-यत्न-वैभवा
कम्प्र-मूर्तिर् अभवद् व्रजेश्वरी ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- वारिद-निभे मेघ-सदृशे अरिष्टासुरे भयानकं यथा स्यात्, तथा ब्रुवति सति कृष्णस्य गोपने धृतः यत्नस्य वैभवः, अर्थात् यत्न्तातिशयो यया तथा-भूता यशोदा भयेन कम्प-युक्त-मूर्तिर् अभूत् ॥७०॥
—ओ)०(ओ—
॥ २.५.७१ ॥
अथ जुगुप्सा-रतिः—
जुगुप्सा स्याद् अहृद्यानुभवाच् चित्त-निमीलनम् ।
तत्र निष्ठीवनं वक्त्र-कूणनं कुत्सनादयः ।
रतेर् अनुग्रहाज् जाता सा जुगुप्सा-रतिर् मता ॥
श्री-जीवः- वक्त्र-कूणनं मुखस्य कुटिलीकरणम् ॥७१॥
मुकुन्द-दासः- वक्त्र-कूणनं मुख-सङ्कोचनम् ॥७१॥
विश्वनाथः- अहृद्यस्य घृणास्पदस्य अनुभवात् चित्तस्य मीलनं सङ्कोचं जुगुप्सा स्यात् । वक्त्र-कूननं मुखस्य कुटिलीकरणम् ॥७१॥
—ओ)०(ओ—
॥ २.५.७२ ॥
यथा—
यद्-अवधि मम चेतः कृष्ण-पादारविन्दे
नव-नव-रस-धामन्य् उद्यतं रन्तुम् आसीत् ।
तद्-अवधि बत नारी-सङ्गमे स्मर्यमाने
भवति मुख-विकारः सुष्ठु-निष्ठीवनं च ॥
श्री-जीवः, मुकुन्द-दासः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- नव-नव-रस-धामनि कृष्ण-पदारविन्दे यदवधि मम चेतः रन्तुम् उद्यतम् आसीति, पूर्व-दशायाः कृते स्त्री-सङ्गमे अधुना स्मर्यमाणे सति । तथा चोक्तं श्री-भागवते—
त्वङ्-मांस-रुधिर-स्नायु- मेदो-मज्जास्थि-संहतौ । विण्ङ्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम् ॥ [भा।पु। ११.२६.२१] इति ॥७२॥ —ओ)०(ओ—
॥ २.५.७३-७४ ॥
रतित्वात् प्रथमैकैव सप्त हासादयस् तथा ।
इत्य् अष्टौ स्थायिनो यावद् रसावस्थां न संश्रिताः ॥७३॥
चेत् स्वतन्त्रास् त्रयस्-त्रिंशद् भवेयुर् व्यभिचारिणः ।
इहाष्टौ सात्त्विकाश् चैते भावाख्यास् तान् असङ्ख्यकाः ॥
श्री-जीवः : प्रथमा मुख्या । यावद् इति रसावस्थायां तु रसा एवोच्यन्ते इत्य् अर्थः ॥७३॥** स्वतन्त्राः** स्थाय्य्-अङ्गतया रसात्मताम् आगताश् चेद् भवेयुः, तदा व्यभिचारिणस् त्रयस्त्रिंशत् । तान् ऊनपञ्चाशत्, तत्-सङ्ख्यकाः ॥७४॥
**मुकुन्दः : रतित्वाद् **इति द्वाभ्याम् अन्वयः । भाव इत्य् आख्या येषां स्थायि-व्यभिचारि-सात्त्विकानां ते भावाख्याः । तेषां सङ्ख्या ऊनपञ्चाशत् सैव सङ्ख्या येषां, ते तत्-सङ्ख्यका भवन्ति ॥७४॥मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- प्रथमा मुख्या पञ्च-विधापि रतित्व-सामान्य-धर्म-विवक्षया एकैव । यावद् इति रसावस्थायां तु रसा एवोच्यन्ते, न तु स्थायिन इत्य् अर्थः ॥७३॥** स्वतन्त्राः** स्थाय्य्-अङ्गतया रसात्मताम् आगताश् चेद् यदि भवेयुस् तदा व्यभिचारिणस् त्रयस्त्रिंशत् । एतेन ऊनपञ्चाशत् सङ्ख्यकाः भावाः स्युर् इत्य् अर्थः ॥७४॥
—ओ)०(ओ—
॥ २.५.७४ ॥
चेत् स्वतन्त्रास् त्रयस्-त्रिंशद् भवेयुर् व्यभिचारिणः ।
इहाष्टौ सात्त्विकाश् चैते भावाख्यास् तान् असङ्ख्यकाः ॥
श्री-जीवः : स्वतन्त्राः स्थाय्य्-अङ्गतया रसात्मताम् आगताश् चेद् भवेयुस् तदा व्यभिचारिणस् त्रयस्त्रिंशत् । ताना ऊनपञ्चाशत्, तत्-सङ्ख्यकाः ॥७४॥
मुकुन्दः- रतित्वाद् इति द्वाभ्याम् अन्वयः । भाव इत्य् आख्या येषां स्थायि-व्यभिचारि-सात्त्विकानां ते भावाख्याः । तानानां सङ्ख्या ऊनपञ्चाशत् सैव सङ्ख्या येषां ते तान-सङ्ख्यका भवन्ति ॥७४॥
विश्वनाथः- स्वतन्त्राः स्थाय्य्-अङ्गतया रसात्मताम् आगताश् चेद् यदि भवेयुस् तदा व्यभिचारिणस् त्रयस्त्रिंशत् । एतेन ऊनपञ्चाशत् सङ्ख्यकाः भावाः स्युर् इत्य् अर्थः ॥७४॥
—ओ)०(ओ—
॥ २.५.७५-७६ ॥
कृष्णान्वयाद् गुणातीत-प्रौढानन्द-मया अपि ।
भान्त्य् अमी त्रिगुणोत्पन्न-सुख-दुःख-मया इव ॥
तत्र स्फुरन्ति ह्री-बोधोत्साहाद्याः सात्त्विका इव ।
तथा राजसवद् -गर्व-हर्ष-सुप्ति-हसादयः ।
विषाद-दीनता-मोह-शोकाद्यास् तामसा इव ॥
श्री-जीवः : **कृष्णान्वयाद् **इत्य् अस्यायम् अर्थः । कृष्ण-स्फुरण-मयत्वाद् धर्षादयः, स् तावद् अप्राकृत-सुखमया एव, किन्तु तद्-अन्वयात् विषादादयश् च तादृश-सुखमया एव वक्तव्याः । दुःख-मयत्वेन तेषां स्फुरणं तु तद्-अप्राप्त्य्-आदि-भावना-रूपेणोपाधिनोपादानेनैव जायते, कृष्ण-स्फुरणं तु तत्र निमित्त-मात्रम् । भक्तानाम् आयत्यां तत्-प्राप्त्य्-आदयस् त्व् आवश्यका एव, प्राप्त्य्-आदिषु च जातेषु तद्-भावना-रूपस्योपाधेर् उपादानस्यापगमाद् धर्षस्य पोषणाच् च बुभुक्षादिवद् विषादादयोऽपि सुख-मयत्वेनैव स्फुरन्तीति दुःखमया इव, न तु दुःख-मयाः । ते च भक्त-गते सुख-दुःखे अभक्तानां त्रिगुणोत्पन्ने एते इति प्रतीत्यास्पदे भवतः, वस्तुतस् तु न तादृशे । यथोक्तम् एकादशे—कैवल्यं सात्त्विकं ज्ञानम् [भा।पु। ११.२५.२४] इत्य् आदौइत्य्-आदौ, मन्-निष्ठं निर्गुणं स्मृतम् इति ॥७५-७६॥
मुकुन्दः- कृष्णान्वयात् कृष्ण-सम्बन्धोत्पन्नत्वात् ॥७५॥
विश्वनाथः- **कृष्णान्वयाद् **इत्य् अस्यायम् अर्थः– । कृष्णस्यान्वयात् कृष्णस्य स्फुरणाद् धर्षादयस् तावद् अप्राकृत-सुखमया एव । तथैव कृष्णस्य स्फुरण-मयत्वाद् विषादादयोऽपि तादृश-सुखमया एव ज्ञेयाः ।
ननु विषाद-शोकादीनाम् आनन्दमयत्वे कथं विषादाद्याश्रयस्य भक्तस्य विषादादीनां दुःख-मयत्वेन ज्ञानं ? कथं वा तेषां त्यागेच्छा चेति च ? इति । सत्यम् । विषाद-शोक-दशायां श्री-कृष्णस्याप्राप्ति-भावना-रूपोपपाधिना तेषां दुःखमयत्वेन ज्ञानम् औपाधिकम् एव। यथा श्री-कृष्ण-दर्शनोत्पनस्यानन्दाश्रु-जलस्य श्री-कृष्ण-दर्शन-प्रतिवृद्धकत्वात् तादृशानन्द एव व्रज-सुन्दर्यो धिक्-कुर्वन्ति । तथैव तद्-दशायां श्री-कृष्णस्याप्राप्त्या आनन्द-मयान् अपि विषाद-शोकादीन् धिक्-कुर्वते । एवं यथा तप्तेक्षु-चर्वण-दशायाम् इक्षु-रसस्य उष्णतानुभवेन त्यागेच्छा जायते, तस्या माधुर्यानुभवेन तं रसं त्यक्तुम् अपि न शक्नोति ।
तथैवानन्दोऽपि द्विविधः—उष्णः शीतश् च । तत्र विषादादय उष्णाः, हर्षादयः शीताः । एवं सति विषादादीनाम् उष्ण-स्वभावेन त्यागेच्छा जायते, तेषां माधुर्यानुभव-वशात् त्यक्तुम् अपि न शक्नोतीति सर्वम् अनवद्यम् । शीता हर्षादयः सुख-मया एव, उष्णा विषादादयो दुःख-मया इव, न तु दुःख-मयाः । ते च भक्त-गते सुख-दुःखे अभक्तानां त्रि-गुणोत्पन्ने इति प्रतीत्यास्पदे भवतः । वस्तुतस् तु न तादृशे । यथोक्तम् एकादशे—कैवल्यं सात्त्विकं ज्ञानम् [भा।पु। ११.२५.२४] इत्य् अत्र, मन्-निष्ठं निर्गुणं स्मृतम् इति ।
तथा सति भगवद्-विषयकं ज्ञानं—ज्ञानात्मकाः सर्वे लज्जा-बोध-गर्व-हर्ष-विषादादयश् च गुणातीता एव । किन्तु सिद्ध-भक्त-निष्ठानां मोक्षस्यापि लघुता-करण-स्वभावानां गुणातीतत्वे किम् आश्चर्यम् ? यतः प्रथमत एव भक्तौ प्रवृत्तानां साधकानां प्रथम-भूमिकात्मक-श्रद्धा-रूप-साधन-भक्तेर् गुणातीतत्वं तत्रैवैकादश-स्कन्धे—
सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भा।पु। ११.२५.२७]
इति विवेचनीयम् ॥७५-७६॥
—ओ)०(ओ—
॥ २.५.७७ ॥
प्रायः सुख-मयाः शीता उष्णा दुःख-मया इह ।
चित्रेयं परमानन्द-सान्द्राप्य् उष्णा रतिर् मता ॥
श्री-जीवः : प्रायो वितर्के । शीता हर्षादयः । उष्णा विषादादयः । रतेः स्वतः उष्णत्वं तु संयोगेऽपि उत्कण्ठा-शङ्का-प्रधानत्वात्—यथोक्तं—
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेद-भीरुता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ इति ॥७७॥
मुकुन्दः- सुख-मयाः सात्त्विक-राजसवद् ये ये शीताः । लज्जासुप्त्योर् दुःखस्याप्य् अनुभवात् प्राय इति । विषाद-भीताद्या ये दुःखमया इत्य् अरे उष्णाः । परमानन्द-सान्द्राया उष्णत्वे हेतुतया विशेषणं—चित्रेत्इ **चित्रा **इति । तर्कागोचरतयाश्चर्य-रूपा ॥७७॥
विश्वनाथः- परमानन्द-सान्द्रापीयं रतिर् उष्णा भवतीति चित्रम् ॥७७॥
—ओ)०(ओ—
॥ २.५.७८ ॥
शीतैर् भावैर् बलिष्ठैस् तु पुष्टा शीतायते ह्य् असौ ।
उष्णैस् तु रतिर् अत्युष्णा तापयन्तीव भासते ॥
श्री-जीवः : शीतैर् भावैः शीतायते, हर्षादिभिः सहाभेदं प्राप्नोतीत्य् अर्थः । उष्णैर् इति स्वस्यात्युष्णत्वाभावान् न स्वयं तापयति किन्तूष्णैर् विषादादिभिर् भावैर् अत्युष्णेव सति तापयन्तीव भासते प्रतीयते, । वियोगाद्य्-उत्थानां तेषां गुणा एव तस्याम् आरोप्यन्त इत्य् अर्थः । यथा रोग-राजाद्य्-अह्वयं बहु-गुणम् औषधं तत्-तद्-गुण-द्रव्यैर् इति भावः । आभासत्वम् आद्य्-अन्तयोर् अस्थायित्वात् वियोग-लक्षणम् उपाधिम् अन्व् एव मध्येऽप्य् अन्यथा प्रतीयमानत्वात् ॥७८॥
मुकुन्दः- शीतैर् भावैर् बलिष्ठैर् एव पुष्टा सती शीतायते, न तु शीत-मात्रैः, स्वयं तस्या उष्णत्वात्, तापयन्तीव भासते, न तु वास्तवस् तापः । परमानन्दाद् धेतोः दुःख-भरस्याभास-कृत् तद्वत्-प्रतीति-कर्त्री उच्यते ॥७८॥
**विश्वनाथः- **तद् एवोपपादयति—शीतैर् इति । शीतैर् हर्षादिभिर् बलिष्ठैर् भावैः पुष्टा असौ रतिः शीतायते एव । उष्णैर् विषादाद्यैः पुष्टा सती श्री-कृष्णस्याप्राप्ति-भावना-रूपोपाधिना तापयन्तीव भासते । न तु तथा, तस्या पर-ब्रह्मात्मक-श्री-कृष्ण-स्फुरण-मयत्वात्, न च कस्यापि मते ब्रह्मानुभव-दशायां दुःखानुभवः सम्भवतीति । ततः तस्माद् एव हेतोः श्री-कृष्णेन सह विच्छेद-दशायां विप्रलम्भ-रसेऽपि दृश्स-भराणाम् आभासः प्रतीति-मात्रं, न तु दुःखातिशयः । भक्ति-रसस्याप्य् अंशे दुःख-मयत्व-स्वीकारे प्रथम-लहर्यां (१.१.३७)—मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इत्य्- आदि- बहु-वचनैः प्रतिपादितं मोक्षापेक्षया भक्तैः साक्षात् अनुभूयते रस्यते ॥७८॥
—ओ)०(ओ—
॥ २.५.७९ ॥
रतिर् द्विधापि कृष्णाद्यैः श्रुतैर् अवगतैः स्मृतैः ।
तैर् विभावादितां यद्भिस् तद्-भक्तेषु रसो भवेत् ॥
श्री-जीवः : मुखा-गौणी-विभेदेन द्विधा । अभिनयादौ कृष्णत्वादिना अवगतैः । यद्भिः प्राप्नुवद्भिः ॥७९॥
मुकुन्दः- रतिर् मुख्या गौणी चेति द्विधा । कृष्णाद्यैस् तैः कृष्ण-भक्त-मुरलीत्य्-आदि-पद्याभ्यां (२.१.१२-१३) रतेः कारण-कार्य-सहायतयोक्ता ये, तैः श्रुतैस् तद्-वाचक-शब्देन एते कृष्णादय इति जात-बोधैः, अवगतैः अभिनयादि-दर्शनेन जात-बोधैर् वा, स्मृतैर् मनसि भावनया जात-बोधैर् वा, विभावादितां विभावनाम् अनुभावनां सञ्चारणां यद्भिः रति-प्रभावात् प्राप्नुवद्भिः ॥७९॥
**विश्वनाथः- **विभावानुभाव-स्वरूपैः कृष्णाद्यैः अवगतैः अभिनयादौ कृष्णत्वादिना साक्षाद्-अनुभूतैः । अत एव विभावानुभावतां यद्भिः प्राप्नुवद्भिः, तैर् एव मुख्या गौणीति भेदेन द्विधा रतिः भक्तेषु रसो भवेत् ॥७९॥
—ओ)०(ओ—
॥ २.५.८०-८१ ॥
यथा दध्य्-आदिकं द्रव्यं शर्करा-मरिचादिभिः ।
संयोजन-विशेषेण रसालाख्यो रसो भवेत् ॥
तद् अत्र सर्वथा साक्षात् कृष्णाद्य्-अनुभवाद्भुतः ।
प्रौढानन्द-चमत्कारो भक्तैः कोऽप्य् अनुरस्यते ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- तथात्रापि विभावानुभाव-रूपाणां कृष्णादीनाम् अनुभवेन जातः कोऽप्य् अद्भुत-रसः भक्तैः साक्षात् अनुभूयते** रस्यते** ॥८१॥
—ओ)०(ओ—
॥ २.५.८२ ॥
स रत्य्-आदि-विभावाद्यैर् एकीभाव-मयोऽपि सन् ।
ज्ञप्त-तत्-तद्-विशेषश् च तत्-तद्-उद्भेदतो भवेत् ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः- स रसः । रतिः स्व-परार्थ-रूपा पञ्च-विधा आदिर् मुख्या यस्य गौणी-रति-रूपस्य स रत्य्-आदिः स्थायी च विभावादिश् च, आदि-शब्दाद् अनुभाव-सात्त्विक-व्यभिचारिणः रत्य्-आदि-विभावादी तयोर् एकी-भाव एकत्वं, तन्-मयस् तत्-स्वरूपः ॥८२॥
विश्वनाथः- स रसः । रत्य्-आदिभिः विभावाद्यैश् च सह एकी-भाव-मयोऽपि सन् तत्-तद्-रति-विभावादीनां भेदात् ज्ञप्तौः अनुभूतः रति-विभावादि-विशेषो यत्र तथा-भूतो भवेद् इत्य् अन्वयः । तथा च परम-दशायां सर्वेषाम् एकी-भावेऽपि सूक्ष्मतया तन्-मध्ये रत्य्-आदि-विभावादीनां विशेषानुभवोऽपि वर्तत इति भावः ॥८२॥
—ओ)०(ओ—
॥ २.५.८३-८४ ॥
यथा चोक्तम्—
प्रतीयमानाः प्रथमं विभावाद्यास् तु भागशः ।
गच्छन्तो रस-रूपत्वं मिलिता यान्त्य् अखण्डताम् ॥
यथा मरीचमरिच-खण्डादेर् एकीभावे प्रपानके ।
उद्भासः कस्यचित् क्वापि विभावादेस् तथा रसे ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- तत्र दृष्टान्तो, –यथा प्रपानक-रसे मरीच-खण्डादेर् एकीभावेऽपि क्वाप्य् अंशे कस्यचिन् मरीच-खण्डादेः उद्भासः प्रकाशो जायते, तथा रसेऽपि विभावादेर् ज्ञेयः ॥८४॥
—ओ)०(ओ—
॥ २.५.८५-८६ ॥
रतेः कारण-भूता ये कृष्ण-कृष्ण-प्रियादयः ।
स्तम्भाद्याः कार्य-भूताश् च निर्वेदाद्याः सहायकाः ॥
हित्वा कारण-कार्यादि-शब्द-वाच्यत्वम् अत्र ते ।
रसोद्बोधे विभावादि-व्यप
देशत्वम् आप्नुयुः ॥
श्री-जीवः : न व्याख्यातम् ।न व्याख्यातम्।
मुकुन्दः- रतिर् द्विधापीति पद्यस्यार्थस्य विवरणं—रतेः कारणेत्य् कारण- इत्य्-आदि आदि-पञ्चभिः ॥८५॥
विश्वनाथः- प्राकृत-घट-पटादीनां यथा कारण-कार्यता, तथा नित्य-पदार्थानां रति-विभावादीनां कार्य-कारणत्वं न सम्भवति । अत एषां कार्य-कारणादि-शब्द-वाच्यतां विहाय विभावादि-व्यपदेशो ज्ञेयः ॥८५॥
—ओ)०(ओ—
॥ २.५.८७ ॥
रतेस् तु तत्-तद्-आस्वाद-विशेषायातियोग्यताम् ।
विभावयन्ति कुर्वन्तीत्य् उक्ता धीरैर् विभावकाः ॥
श्री-जीवः : रतेस् त्व् इति । स्पष्टार्थम् एवोक्तस्याप्य् अनुवादोऽयं विभवायन्तीत्य् विभवायन्ति इत्य् एव व्याचष्टे, रतेस् तु तत्-तद्-आस्वाद-विशेषायाति-योग्यतां कुर्वन्तीति **कुर्वन्ति **इति पर-परत्राप्य् एवम् उन्नेयम् ॥८७॥
मुकुन्दः- न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः- विभावादि-शब्दानाम् अवयव-व्युत्पत्त्या अन्व्-अर्थ-सञ्ज्ञाम् आह—रतेर् इति । विभावयन्तीत्य् विभावयन्ति इत्य् एव व्याचष्टे । रतेस् तु तत्-तद्-आस्वाद-विशेषायातियोग्यतां कुर्वन्तीति कुर्वन्ति इति परम्परताप्य् एवम् उन्नेया ॥८७॥
—ओ)०(ओ—
॥ २.५.८८ ॥
तां चानुभावयन्त्य् अन्तस् तन्द्वन्त्य् आस्वाद-निर्भराम् ।
इत्य् उक्ता अनुभावास् ते कटाक्षाद्याः स-सात्त्विकाः ॥
श्री-जीवः : तां विभावितां रतिम् अनुभावयन्ति अन्तर्-मनस्य् आस्वाद-निर्भरां तन्वन्ती कुर्वन्तीति स्व-रतेस् तत्-तद्-रूपेशातिविकाशात् ॥८८॥
मुकुन्दः- तां विभावितां रतिम् अन्तर्-मनसि तन्वन्ति कुर्वन्ति ॥८८॥
विश्वनाथः- तां पूर्वोक्त-विभावितापन्नां रतिम् अनुभावअयन्ति अन्तर्-मनसि आस्वाद-निर्भरां तन्वन्ति विस्तारयन्ति, अतः सात्त्विक-सहिताः कटाक्षाद्या अनुभावा उष्णाः ॥८८॥
—ओ)०(ओ—
॥ २.५.८९ ॥
सञ्चारयन्ति वैचित्रीं नयन्ते तां तथा-विधाम् ।
ये निर्वेदादयो भावास् ते तु सञ्चारिणो मताः ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : तथा-विधां विभाविताम् अनुभावितां च ॥८९॥
—ओ)०(ओ—
॥ २.५.९० ॥
एतेषां तु तथा-भावे भगवत्-काव्य-नाट्ययोः ।
सेवाम् आहुः परं हेतुं केचित् तत्-पक्ष-रागिणः ॥
श्री-जीवः : तथा-भावे विभावादित्वे ॥९०॥
मुकुन्दः- एतेषां कृष्णां कृष्णादीनां **तथा-भावे **विभावादित्वे परं केवलम् ॥९०॥
विश्वनाथः- एतेषां भावादीनां तथा-भावे विभावादित्वे काव्य-नाट्य-पक्ष-रागिणः केचित् पण्डिताः भगवत्-काव्य-नाट्ययोः सेवाम् उत्कृष्टं हेतुम् आह आहुः ॥९०॥
—ओ)०(ओ—
॥ २.५.९१ ॥
किन्तु तत्र सुदुस्तर्क-माधुर्याद्भुत-सम्पदः ।
रतेर् अस्याः प्रभावोऽयं भवेत् कारणम् उत्तमम् ॥
श्री-जीवः : अस्याः श्री-भगवत्-सम्बन्धिन्याः । अयं वक्ष्यमाण-**प्रभावः **॥९१॥
मुकुन्दः- तत्र तथा-भावे प्रभावः पराक्रमः, अयं वक्ष्यमाणः, उत्तमं श्रवणादिषु मुख्यम् ॥९१॥
**विश्वनाथः- **पक्षान्तरम् आह—किन्त्व् इति । अस्या भगवत्-सम्बन्धिन्या रतेः । अयं वक्ष्यमाण-**प्रभावः **प्रभाव उत्तमं कारणं भवेत् ॥९१॥
—ओ)०(ओ—
॥ २.५.९२-९३ ॥
महा-शक्ति-विलासात्मा भावोऽचिन्त्य-स्वरूप-भाक् ।
रत्य्-आख्या इत्य् अयं युक्तो न हि तर्केण बाधितुम् ।
भारताद्य्-उक्तिर् एषा हि प्राक्तनैर् अप्य् उदाहृता ॥
यथोक्तम् उद्यम-पर्वणि [म।भा। ६.६.११]—
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत्
प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥
श्री-जीवः : ननु देवतान्तर-रतिवद् एवेयम् अपि सत्-कवि-निबद्धतयापि रसत्वं नापद्येत, किम् उत तां विनेत्य् आशङ्क्याह—** महा-शक्ति**- इईतिइ । ह्लादिनी-विलास-रूपः, । अत एव अआचिन्त्य-स्वरूप-भाक् या खलु मोक्षानन्दम् अपि तिरस्करोति श्री-भगवन्तम् अप्य् आनन्दयति इति भावः । न हि तर्केण बाधितुम् इति, किन्तु श्री-भागवतादि-शास्त्रानुसार्य्-अनुभवेनैव ग्रहीतुं युक्त इत्य् अर्थः ।
तर्केणाबाधे हेतुम् आह आह–**भारताद्य्-उक्तिर् एषा हि प्राक्तनैर् अप्य् उदाहृता **इएति । प्राक्तनैः शारीरक-भाष्य-कारादिभिः शास्त्रविद्भिः । शास्त्रं चेदं—
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः ॥ [भा।पु। ११.२.४०] क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [भा।पु। ११.३.३२] इत्य् आदि इत्य्-आदि ॥९३॥
मुकुन्दः : ननु विरुद्धम् इदं रतिर् एव दधीवोपादानं रसाला-करणे निमित्तं चेति तत्राह—महा-शक्तीति ह्लादिनी-विलास-रूपः । प्रमाणयति प्रभास-खण्ड-वचनम् इति प्राक्तनैः शारीरक-भाष्य-कारादिभिः ॥९३॥
विश्वनाथः : ननु देवतान्तर-रतिवद् इयम् अपि सत्-कवि-निबद्धतयापि रसत्वं नापद्येत इत्य् आशङ्क्याह—महा-शक्ति- इति ह्लादिनी-विलास-महा-शक्तीति । ह्लादिनी-शक्तेर् विलास-स्वरूपोऽयं रत्य्-आख्यो भावः । अत एव अआचिन्त्य-स्वरूप-भाक् या खलु मोक्षानन्दम् अपि तिरस्करोति श्री-भगवन्तम् अप्य् आनन्दयति इति भावः । न हि तर्केण बाधितुम् इति श्री-भागवतादि-शास्त्रानुसार्य्-अनुभवेनैव ग्रहीतुं युक्त इत्य् अर्थः ।
तर्केणाबाधे हेतुम् आह प्रभास-खण्ड-वचनम् **प्राक्तनैर् अप्य् उदाहृता **इएति । **प्राक्तनैः **शारीरक-भाष्य-कारादिभिः शास्त्रविद्भिः । शास्त्रं चेदं—
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः ॥ [भा।पु। ११.२.४०] क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [भा।पु। ११.३.३२] इत्य् आदि इत्य्-आदि ।
यद् वस्तु प्रकृतिभ्यः माया-मायिकेभ्यः परं भिन्नं भवति, तत् अचिन्त्यस्य लक्षणं स्वरूपं भवतीत्य् अर्थः ॥९३॥
—ओ)०(ओ—
**॥ २.५.९४-९५ ॥
विभावतादीन् आनीय कृष्णादीन् मञ्जुला रतिः ।
एतैर् एव तथा-भूतैः स्वं संवर्धयति स्फुटम् ॥
यथा स्वैर् एव सलिलैः परिपूर्य बलाहकान् ।
रत्नालयो भवत्य् एभिर् वृष्टैस् तैर् एव वारिधिः ॥
श्री-जीवः, मुकुन्दः : **प्रभावम् एव विवृणोति—**विभावतादीन् **इति धर्मान् इति शेषः । तथा-भूतैर् विभावादित्वं प्राप्तैः ॥९४॥
**विश्वनाथः : **प्रभावम् एव विवृणोति—विभावतादीन् इति । धर्मान् इति शेषः । तथा च विभावत्वादि-रूपेण कृष्णादीन् प्रकटीकृतेत्य् अर्थः । तथा-भूतैर् विभावादित्वं प्राप्तैः एतैः कृष्णादिभिः करणैः रतिः स्वयं संवर्धयति । तत्र दृष्टान्तः—रत्नालयः समुद्रः स्वकीयैर् एव जलैर् **बलाहकान् **मेघान् परिपूर्य तैर् एव वृष्टैः जलैः करणैः वारिधिः जल-समूहाश्रयो भवति ॥९४-९५॥
—ओ)०(ओ—
॥ २.५.९६ ॥
नवे रत्य्-अङ्कुरे जाते हरि-भक्तस्य कस्यचित् ।
विभावत्वादि-हेतुत्वं किञ्चित् तत् काव्य-नाट्ययोः ॥
श्री-जीवः : तर्हि काव्य-नाट्ययोर् वैयर्थ्यं स्यात् ? तत्राह—नव इति । हरि-भक्तस्य कस्यचित् काव्याद्य्-अर्थ-चर्वण-विज्ञस्य इत्य्- आदि करणे सम्बन्ध-विवक्षा । तत्र हर्य्-आश्रय-काव्य-नाट्ययोर् विभावतादि-कारणत्वं स्यात्, **तच् **च किञ्चित् स्यात् । जात-रतिसो तु प्रकारान्तरस्यापि यथा तत्-कारणत्वं न तथेत्य् अर्थः ॥९६॥
मुकुन्दः : प्रथम-जात-रतौ जने कृष्ण-काव्य-नाट्ययोः सेवापि रसोद्बोधे कारणम् इत्य् आह—नवे इति । रतेर् एवाङ्कुरः प्रेम-प्रथमावस्था कस्यचित् काव्याद्य्-अर्थास्वाद-विज्ञस्य किञ्चिद् इति रत्य्-अङ्कुरस्य प्रचुर-हेतुत्वात् ॥९६॥
विश्वनाथः : ननु रतेर् एव कारणत्वे तर्हि काव्य-नाट्ययोर् वैयर्थ्यं स्यात्, तत्राह—नवे इति । हरि-भक्तस्य कस्यचित् काव्याद्य्-अर्थ-चर्वण-विज्ञस्य भगवद्-आश्रय-काव्य-नाट्ययोर् विभावत्वादि-कारणत्वं स्यात् । तच् च यत् किञ्चित् स्यात् ॥९६॥
—ओ)०(ओ—
॥ २.५.९७ ॥
हरेर् ईषच्-छ्रुति-विधौ रसास्वादः सतां भवेत् ।
रतेर् एव प्रभावोऽयं हेतुस् तेषां तथाकृतौ ॥
श्री-जीवः : तर्हि कथम् आरूढ-भावेषु तत्-तद्-प्रयोजकं स्यात् ?, नेत्य् आह—हरेर् इति । ईषत् श्रुति-विधाव् अपि स्यात् । लोके हर्ष-शोकादि-कारणेभ्यो हर्ष-शोकादि-नियमेन जायते, काव्य-नाट्ये सर्वेभ्योऽपि सुखम् एवेत्य् अलौकिकत्वं ताभ्यां तत्-तद्-अनुभव-प्राचूर्ये सुतराम् एवेति भावः । श्री-हनुमद्-आदीनां नित्यम् एव रामायण-श्रवण-प्रसिद्धेः, नैषातिदुःसहा क्षुन् मां [भा।पु। १०.१.१३] इत्य् आदि इत्य्-आदि परीक्षित्-प्रभृति-वचनात्, । तव कथामृतं तप्त-जीवनं कविभिर् ईडितं [भा।पु। १०.३१.९] इति श्री-व्रज-देवीनाम् अभिलाषाच् च । न च तेन विना तेषु तद्-उत्पत्तिर् न सम्भाव्येत्य् आशङ्क्याह—तेषां कारणादीनां तथा-कृतौ विभावत्वादि-प्रापणे हेतुर् अयं पूर्वोक्त-रतेः प्रभाव एव स्यात् ॥९७॥
मुकुन्दः : प्रौढ-रतीनां तु तयोर् अन्यत्र वा प्रथम-श्रवण एव रसास्वाद इत्य् आह—**हरेर् **इति । तथा-कृतौ विभावत्वादि-प्रापणे पुनः पुनः श्रवणादौ तु नव-नवः प्रौढो वा रसास्वाद इत्य् अर्थः ॥९७॥
विश्वनाथः : ननु रत्य्-अङ्कुरे अङ्कुर एव काव्य-नाट्ययोः सार्थकत्वे तर्हि कथनारूढ-भावेषु प्रेम-प्रणय-रागादिषु काव्य-नाट्यम् अप्रयोजनं स्यात् ?, नेत्य् आह—हरेर् इति । आरूढ-भाव-दशायां **हरेर् ईषत्-**श्रवणेऽपि स्यात्, काव्य-नाट्याभ्यां तत्-तद्-अनुभव-प्राचूर्ये तु सुतराम् एवेति भावः । रसास्वादे काव्य-नाट्ययोर् यथा-कथञ्चित् कारणत्वेऽपिइ , तेषां विभावादीनां तथा-कृतौ विभावत्वादि-प्रापणे रतेः प्रभाव एव हेतुर् न काव्य-नाट्ययोः ॥९७॥
—ओ)०(ओ—
॥ २.५.९८-९९ ॥
माधुर्याद्य्-आश्रयत्वेन कृष्णादींस् तनुते रतिः ।
तथानुभूयमानास् ते विस्तीर्णां कुर्वते रतिम् ॥
अतस् तस्य विभावादि-चतुष्कस्य रतेर् अपि ।
अत्र साहायिकं व्यक्तं मिथोऽजस्रम् अवेक्ष्यते ॥
श्री-जीवः : **तनुते **प्रकाशयति ॥९८॥
मुकुन्दः : ननु कारणादीनां माधुर्याद्य्-आश्रयत्वे रतिः सहाया किं वा रतेर् विस्तारे ते तथा ? तत्राह—**माधुर्येति **द्वाभ्याम् । तनुते प्रकाशयति । अत्र माधुर्याश्रयत्व-विस्तारयोः । अयम् अर्थः—रतिं विना तेषां माधुर्यादेर् अनुभवो न स्यात् । तं विना रतेर् विस्तीर्णता न स्यात् । अतः मिथः सापेक्षत्वाद् त्वयोर् अत्र परस्परं साहाय्यम् इति ॥९८-९९॥
विश्वनाथः : रतिर् एव माधुर्याद्य्-आश्रयत्वे कृष्णादीन् तनुते प्रकाशयति । तथानु-भूयमाना माधुर्याद्य्-आश्रयत्वेनानुभूयमानाः कृष्णादयः रतिं विस्तीर्णां कुर्वते । अतो हेतोः विभावादि-चतुष्कस्य रतेश् च मिथः परस्परम् **अजस्रं **सततं साहाय्यकं साहाय्यं व्यक्तम् अएवेक्ष्यते ॥९९॥
—ओ)०(ओ—
॥ २.५.१०० ॥
किन्त्व् एतस्याः प्रभावोऽपि वैरूप्ये सति कुञ्चति ।
वैरूप्यस् तु विभावादेर् अनौचित्यम् उदीर्यते ॥
श्री-जीवः : विभावादेर् इति विभावोऽत्र श्री-कृष्ण-भक्त-विशेषश् च, तद्-आदेर् वैरूप्यम् अनुपयुक्तावस्थत्वम् ॥१००॥
मुकुन्दः : विभावादेर् अनौचित्यं योग्यावस्था-रहितत्वात् ॥१००॥
विश्वनाथः : विभावादेर् इति । विभावोऽत्र श्री-कृष्ण-भक्त-विशेषः श्री-कृष्णश् च । श्री-कृष्णस्य तद्-आदेर् अनुपयुक्तावस्थत्वं, तथा च दृश्य-नाट्य-स्थितयोः श्री-राधा-कृष्ण-रूप-धारिणोः नटयोर् वैरूप्ये सति एवं श्री-कृष्णापेक्षया राधिकाया अधिक-वयस्त्वे सति तेन विभावेन रतिः सङ्कुचिता भवति, न तु पुष्टा । एवं श्रव्य-काव्य-वर्णनेऽपि विभावादीनां यथावद् अकथने रतिः सङ्कुचिता भवतीति ज्ञेयम् ॥१००॥
—ओ)०(ओ—
॥ २.५.१०१-१०३ ॥
अलौकिक्या प्रकृत्येयं सुदुरूहा रस-स्थितिः ।
यत्र साधारणतया भावाः साधु स्फुरन्त्य् अमी ॥
एषां स्व-पर-सम्बन्ध-नियमानिर्णयो हि यः ।
साधारण्यं तद् एवोक्तं भावानां पूर्व-सूरिभिः ॥
तद् उक्तं श्री-भरतेन—
शक्तिर् अस्ति विभावादेः कापि साधारणी-कृतौ ।
प्रमाता तद्-अभेदेन स्वं यया प्रतिपद्यते ॥ इति ।
श्री-जीवः : अथ तादृशी रतिर् एव प्राचीन-भक्तानां भावैः सहार्वाचीनानां भावान् साधारण्यम् आनयति, येन साधारण्य-प्रापकेण भावेन रस-स्थितिर् अपि तादृशी स्याद् इत्य् आह—अलौकिक्या इएत्य्- आदिना **प्रतिपद्यत **इत्य् इत्य्-अन्तेन । भावा अत्र विभावादयो रत्य्-आदयश् च । तद् उक्तं—
व्यापारोऽस्ति विभावादेर् नाम्नः साधारणी-कृतिः । तत्-प्रभावात् परस्यासन् पाथोधि-प्लवनादयः ॥ उत्साहादि-समुद्बोधः साधारण्याभिमानतः ॥ नृणाम् अपि समुद्रादि-लङ्घनादौ न दुष्यति । साधारण्येन रत्य्-आदिर् अपि तद्वत् प्रतीयते ॥ परस्य न परस्येति ममेति न ममेति च । तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [सा।द। ३.९-१२]
इति प्लवनादयस् तादृश-चेष्टाः । रत्य्-आदेर् अपि स्वात्म-गतत्वेन व्रीडा-तन्द्रादिर् भवेत्, । पर-गतत्वेन रस्यता न स्याद् इति भावः । मुनि-वाक्ये तु भेदांशः स्वयम् अस्त्य् एवेति,य् अभेदांश एव तु विभावादेः शक्तिर् इति भावः ॥१०१-१०३॥
मुकुन्दः : अथ प्रायिकीं रस-स्थितिम् आह—अलौकिक्या इतिअलौकिक्येति त्रिभिः । भावा विभावा आलम्बन-स्था रत्य्-अनुभावादयश् च । तद्-अभेदेन विभावादेर् अभेदेन ॥१०१-१०३॥
**विश्वनाथः : **अथ कदाचित् सतां मध्ये रामायण-पाठे हनुमतः समुद्र-लङ्घनम् आगतं तच् छ्रुत्वा तत्रस्थः कश्चित् सहृदय-भक्तस् तादृश-रसावेशेन लज्जा-सङ्कोचादिकम् अनवेक्ष्य स्वयम् अपि समुद्र-लङ्घनार्थं सभा-मध्ये चुकूर्द । दृश्य-नाट्येऽपि कश्चिद् दशरथ-रूप-धारी सहृदय-नटः “रामो वनं जगाम” इएति श्रुत्वा दशरथस्य भावावेशेन स्वयम् अपि प्राणान् तत्याजेति लोके महती प्रसिद्धिर् आसीत् । अतस् तादृशी रतिर् एव प्राचीन-भक्तानाम् अपि भावैः सहार्वाचीन-भक्तानां भावान् साधारण्यम् आनयति, येन रस-स्थितिर् अपि च तादृशी स्याद् इत्य् आह—**अलौकिक्या **एइत्य्- आदिना प्रतिपद्यत इत्य्- अन्तेन ।
एषां भावानां स्व-पर-सम्बन्ध-नियमस्यानिर्णयो निर्णयाभाव एव भावानां साधारण्यम् उक्तम् । भावा अत्र विभावादयो रत्य्-आदयश् च । तद् उक्तम् अलङ्कार-शास्त्रे—
व्यापारोऽस्ति विभावादेर् नाम्नः साधारणी-कृतिः । तत्-प्रभावात् परस्यासन् पाथोधि-प्लवनादयः ॥ उत्साहादि-समुद्बोधः साधारण्याभिमानतः ॥ नृणाम् अपि समुद्रादि-लङ्घनादौ न दुष्यति । साधारण्येन रत्य्-आदिर् अपि तद्वत् प्रतीयते ॥ परस्य न परस्येति ममेति न ममेति च । तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [सा।द। ३.९-१२]
इति प्लवनादयस् तादृश-चेष्टाः रत्य्-आदेर् अपि स्वात्म-गतत्वेन व्रीडातङ्कादिर् भवेत् । पर-गतत्वेन तु रस्यता न स्याद् इति भावः ॥१०१-१०२॥
शक्तिर् इति । प्रमाता तादृश-काव्यानुभव-कर्ता ध्वनिज्ञः भक्तः । यया शक्त्या तस्य प्राचीन-भक्तस्याभेदेन भक्तस्य अभेदेन स्वम् आत्मानं जानातीत्य् अर्थः ॥१०३॥
—ओ)०(ओ—
॥ २.५.१०४-१०५ ॥
दुःखादयः स्फुरन्तोऽपि जातु भान्तः स्वीयतया हृदि ।
प्रौढानन्द-चमत्कार-चर्वणाम् एव तन्वते ॥
पराश्रयतयाप्य् एते जातु भान्तः सुखादयः ।
हृदये परमानन्द-सन्दोहम् उपचिन्वते ॥
श्री-जीवः : अन्याम् अपि सुदुरूहतां दर्शयति—दुःखादय इति द्वाभ्याम् । तादृश्य-निर्णयेऽपि सति यदा दुःखादयः स्वीयतयापि स्फुरन्ति, यदा च **सुखादयः पराश्रयतयापि **स्फुरन्ति, तदापीति योज्यम् । दुःखादीनां प्रौढानन्द-प्राणनं तु दुःखादि-शान्ति-पूर्वकम् आयत्यां सुखादयस् तत्र समुद्भूता इति तत्-कार्याद् वक्तृ-मुखाद् वा सङ्क्षेपाच् छ्रुतस्य तत्-श्रवणादि-समयेऽप्य् अन्तर्-अनुसन्धानं वर्तत एवेति, यथा श्री-सीता-हरणादाव् इत्य् अभिप्रायः । तन् न चेत्—न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते [सरस्वती-कण्ठाभरणम् ५.५२] इति नोपपद्यते ॥१०४-१०५॥
श्री-मुकुन्दः : कादाचित्कीं ताम् आह—दुःखादय इति द्वाभ्याम् । साधारण्येऽपि **जातु **कदाचित् स्वीयतया ममैवैते इति ज्ञानेन । अपि-शब्दात् परकीयतयापि स्फुरन्तः प्रौढानन्द-चमत्कार-चर्वणाम् एव तन्वते, न तु पीडादिकम् । **पराश्रयतया **आलम्बनाश्रयतया, स्वाश्रयतया तु परमानन्द-सन्दोहम् उपचिन्वाना एव ॥१०४-१०५॥
**विश्वनाथः : **अन्याम् अपि सुदुरूहतां दर्शयति—दुःखादय इति द्वाभ्याम् । स्व-पर-भेदेनानिर्णयेऽपि सति यदा परकीय-दुःखादयः स्वीयतया स्फुरन्तोऽपि ते प्रौढानन्द-चमत्कार-चर्वणाम् एव तन्वते प्रकाशयन्ति । यद् उक्तं द्वितीय-स्कन्धे सप्त-लोक-वर्णन-प्रसङ्गे—
न यत्र शोको न जरा न मृत्युर् नार्तिर् न चोद्वेग ऋते कुतश्चित् । यच् चित् ततोऽदः कृपयानिदं-विदां दुरन्त-दुःख-प्रभवानुदर्शनात् ॥ [भा।पु। २.२.२७] इति ।
सप्त-लोकस्य माहात्म्यम् आह—न यत्र इति । _आर्तिर् _दुःखम् । _उद्वेगो _भयम् । किन्तु चित्ततो हेतोर् यद् दुःखं, अदः ऋते तद् एकं विना । तद् एव किम् ? कथं वा भवेत् ? तत्राह—अनिदं-विदाम् इमं वैष्णवं योगम् अजानतां त्रिलोक-स्थ-जनानाम् । दुरन्त-दुःखो यः प्रभवः संसारस् तस्य अनुदर्शनाद् या कृपा, तया ।
अस्यार्थः—सप्त-लोकस्य माहात्म्यम् आह—न यत्रेति । आर्तिर् दुःखम् । उद्वेगो भयम् । किन्तु चित्ततो हेतोर् यद् दुःखं, अदः ऋते तद् एकं विना । तद् एव किं ? कथं वा भवेत् ? तत्राह—अनिदं-विदाम् इमं वैष्णवं योगम् अजानतां त्रिलोक-स्थ-जनानाम् । दुरन्त-दुःखे यः प्रभवः संसारस् तस्यानुदर्शनाद् या कृपा, तया । तथा च सत्य-लोके ब्रह्म-सभा-स्थ-शान्तादि-भक्तानां हृदये सांसारिक-जन-सम्बन्धि-दुःखादयः स्फुरन्तोऽपि प्रौढानन्दम् एव प्रकाशयन्ति । एवं निरुपाधि-पर-दुःख-प्रहाणेच्छा-रूप-दयावान् कारुणिकः प्रह्लादः सांसारिक-जनानां दुःखेन दुःखी सन् तेषां दुःख-नाशाय भगवन्-निकटे वर-प्रार्थनां चकार । तद् उक्तं सप्तम-स्कन्धे—नैतान् विहाय कृपणान् [भा।पु। ७.९.४४] इत्य् आदि इत्य्-आदि । पञ्चमे च—स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां [भा।पु। ५.१८.९] इत्य् आदि इत्य्-आदि । एवं नवम-स्कन्धेऽपि रन्तिदेवोपाख्याने तस्य पर-दुःख-त्राणाय तथैव प्रसिद्धा ।
अत एवैषां भक्तानां **हृदि स्फुरन्तोऽपि दुःखादयः परमानन्द-स्वरूपा **एव, न तु दुःख-साक्षात्-कार-विषया । प्राचीनार्वाचीन-पापानाम् एव दुःखानुभवे कारणत्व-प्रसिद्धेः । येषां महानुभावानां स्मरणेऽपि सति अन्ये निष्पापा भवन्ति । कुतस् तेषां पाप-सम्भावनापि । यद् उक्तं श्री-भागवते—
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः ॥ [भा।पु। १.१९.३३] इति ।
तथैव मम यथा तथा भवतु, किं वा मयि दुःखं सततं तिष्ठतु, किन्तु मत्-प्रभुर् मत्-सेवया सदा सुखी भवत्व् इति । पराश्रयातया जातु कदाचित् भान्तः स्फुरन्तोऽपि सुखादय एतादृश-भावनावतो निष्काम-भक्तस्य **हृदये **परमानन्द-समूहं प्रकाशयन्ति ॥१०४-१०५॥
—ओ)०(ओ—
॥ २.५.१०६ ॥
सद्-भावश् चेद् विभावादेः किञ्चिन्-मात्रस्य जायते ।
सद्यश् चतुष्टयाक्षेपात् पूर्णतैवोपपद्यते ॥
श्री-जीवः : तस्या रतेर् अन्यम् अपि प्रभावं दर्शयति—सद् इति । श्री-कृष्ण-लीला-परिकर-गत-विभावादेः किञ्चिन्-मात्रस्यापि सद्-भावश् चेज् जायते आधुनिक-तत्-तत्-सवासन-भक्तानां हृद्य् आविर्भवति, तदा विभावानुभाव-सात्त्विक-सञ्चारिण इति चतुष्टयस्याक्षेपात् स्फोरणात् पूर्णतैवोपपद्यते सिध्यतीत्य् अर्थः ॥१०६॥
**श्री-मुकुन्दः : **ननु सततम् ईषच्-छ्रवणादिना विभावादिष्व् एकतमस्यैव विद्यमानतया कथं रसस्य पूर्णता ? तत्राह—सद्-भावश् चेद् इति । रतेर् एव प्रभावेन सद्यो विभावानुभाव-सात्त्विक-व्यभिचारिण इति चतुष्टयस्याक्षेपात् अनुभवितुर् मन-इन्द्रिय-देहेषु उपस्थापनात् ॥१०६॥
**विश्वनाथः : **अन्या रतेर् अन्यम् अपि प्रभावं दर्शयति—सद् इति । श्री-कृष्ण-लीला-परिगत-विभावादेः किञ्चिन्-मात्रस्यापि सद्-भावश् चेज् जायते, आधुनिक-तत्-तद्-वासन-सहृदय-भक्तानां हृद्य् आविर्भवति, तदा विभावानुभाव-सात्त्विक-सञ्चारिण इति चतुष्टयस्याक्षेपात् स्फोरणात् पूर्णतैवोपपद्यते सिध्यतीत्य् अर्थः ॥१०६॥
—ओ)०(ओ—
॥ २.५.१०७ ॥
किं च—
रतिः स्थितानुकार्येषु लौकिकत्वादि-हेतुभिः ।
रसः स्यान् नेति नाट्य-ज्ञा यद् आहुर् युक्तम् एव तत् ॥
श्री-जीवः : तद् एवं मनसा तद्-अनुभवितॄणां रसम् उपपाद्य साक्षात् तद्-अनुभवितॄणां रसम् उपपादयिष्यन्न् अभ्युपगम-वादेन विरोधि-मतम् उत्थापयति—रतिर् इति । नाट्य-ज्ञा इत्य् उपलक्षणं कार्य-मात्र-ज्ञानाम् । ते च लौकिका एव । तेषां रसोत्पत्तौ त्रिविध-जनाः—(१) परिकराः दृश्य-काव्ये तावद् अनुकार्या नलादयः, अनुकर्तारो नटाः, तद्-द्रष्टारः सामाजिकाः, (२) अनुकर्तारो नटाः, (३) तद्-द्रष्टारः सामाजिकाः । तथा श्रव्य-काव्ये च क्रमेण ते श्रोतव्य-वक्तृ-श्रोतारः । तत्रानुकार्य-श्रोतव्ययो रस-निष्पत्तिं न ते मन्यन्ते लौकिकत्वात्, पारिमित्यात्, भयादि-सद्-भावाच् च । न चानुकर्त्र्-वक्त्रोर् जीविकार्थं तत्-तद्-अनुकरणात् । किन्तु द्रष्टृ-श्रोत्रो रसं मन्यन्ते, तेषां निबन्ध-चातुर्येण तत्-तच्-चरितस्यालौकिकत्वादि-प्राप्तेः । तत्र च स-वासनेष्व् एव, न च जरन्-मीमांसकादिषु । तद् एतद् अभ्युपगच्छन्न् आह—युक्तम् एव इएति । किन्तु लोकातीतानन्त-गुणाः श्री-राम-सीतादयोऽपि यन्-निजानुकार्यादिषु प्रवेश्यन्ते, तत् त्व् अयुक्तम् एवेति भावः । तयोः कर्तृ-वक्त्रोर् यदि स-वासनत्वं स्यात्, तदा तेषां वा कथं न स्यात् ?द् इति च ॥१०७॥
**श्री-मुकुन्दः : **आलम्बन-भक्तानां रतेर् वियोगेऽपि परमानन्द-दातृत्वं दर्शयितुं प्राकृतालम्बनानां रतेर् नाट्याङ्गोक्तं रसाभावत्वम् अङ्गीकरोति—रतिर् इत्य् इत्य्-आदिना । अनुकार्येषु नल-दमयन्त्य्-आदिषु लौकिकत्वं नियत-कालत्वम् ॥१०७॥
**विश्वनाथः : **तद् एवं मनसा तद्-अनुभवितॄणां रसम् उपपाद्य साक्षात् तद्-अनुभवितॄणां रसम् उपपादयिष्यन्न् अभ्युपगम-वादेन विरोधि-मतम् उत्थापयति—रतिर् इति । नाट्य-ज्ञा इत्य् उपलक्षणं कार्य-मात्र-ज्ञा इत्य् अर्थः । ते च लौकिका एव । तेषां रसोत्पत्तौ त्रिविध-जनाः—(१) परिकराः दृश्य-काव्ये तावद् अनुकार्या नलादयः, अनु(२) अनुकर्तारो नटाः, (३), तद्-द्रष्टारः सामाजिकाः । तथा श्रव्य-काव्ये च क्रमेण ते श्रोतव्य-वक्तृ-श्रोतारः । तत्रानुकार्य-श्रोतव्ययो रस-निष्पत्तिं न ते मन्यन्ते, लौकिकत्वात्, पारिमित्यात्, भयादि-सद्-भावाच् च । न चानुकर्त्र्-वक्त्रोर् जीविकार्थं तत्-तद्-अनुकरणात् । किन्तु द्रष्टृ-श्रोत्रो रसं मन्यन्ते, तेषां निबन्ध-चातुर्येण तत्-तच्-चित्तस्यालौकिकत्वादि-प्राप्तेः । तत्र च स-वासनेष्व् एव, न तु जरन्-मीमांसकादिषु । तद् एतद् अभ्युपगच्छन्न् आह—युक्तम् एव इतेति । किन्तु लोकातीता अनन्त-गुणाः श्री-राम-सीतादयोऽपि यन्-निजानुकार्यादिषु प्रवेश्यन्ते, तत् तु तैर् अयुक्तम् एवेति कृतम् । तथानुकर्तृ-वक्त्रोर् यदि जीविकाभिलाषो नास्ति, स-वासनत्वं च वर्तते, तदा तेषां वा कथं रसो न स्यात् ? स्याद् इति च ॥१०७॥
—ओ)०(ओ—
॥ २.५.१०८-१०९ ॥
अलौकिकी त्व् इयं कृष्ण-रतिः सर्वाद्भुताद्भुता ।
योगे रस-विशेषत्वं गच्छन्त्य् एव हरि-प्रिये ॥
वियोगे त्व् अद्भुतानन्द-विवर्तत्वं दधत्य् अपि ।
तनोत्य् एषा प्रगाढार्ति-भराभासत्वम् ऊर्जिता ॥
श्री-जीवः : अथ तत्रैव स्व-मतानुकार्यादिष्व् अपि रसम् उपपादयति—अलौकिकी त्व् इति । मोक्षानन्दस्यापि तिरस्कारित्वात्, । सर्वानन्द-मूलस्य श्री-भगवतोऽप्य् आनन्दकत्वात् । , सर्वेअ- इति—श्री-भगवत्-प्रादुर्भावान्तराणां रतितोऽपि परमाधिक्यात् । तच् च स्वयं श्री-कृष्णेन तद्-भक्त-वरेण च, यन् मर्त्य-लीलौपयिकं [भा।पु। ३.२.१२] इत्य् इत्य्-आद्य् आद्य्-अनुभवात् । हरि-प्रिये साक्षात्-तद्-अनुभवितरि तल्-लीला-परिकरे रतेः परमाश्रये ॥१०८॥
ननु दुःख-मये वियोगे तेषां कथं रसः स्यात्, रसस्य परमानन्द्मयत्वात् ? तत्राह—वियोगे त्व् इति । अद्भुतानन्द-विवर्तत्वं स्वतः परमानन्द-स्वरूपत्वात् तु तत्र निमित्तत्वात्, सर्वानन्द-मूल-श्री-भगवद्-आलम्बनत्वाच् च । प्रगाढार्ति-भवाभासत्वं नियोग-ज्ञान-परिणाम-दुःखस्य तस्याम् अध्यासात्, तस्यां तु तत्र निमित्तत्वात्, तद्-दुःखस्यापि दृढ-प्राप्त्य्-आशया तिरस्कृतत्वाद् इति । विवर्तोऽत्र परिपाकः । तस्या स्वरूपानन्यथा-भावे हेतुः—ऊर्जिता इति । अन्यथा-भावे सा त्यजेतैव, न तु त्यक्तुं शक्येतेति । तद् उक्तं श्री-व्रज-देवीभिः स्वयम् एव—ननु दुःख-मये वियोगे तेषां कथं रसः स्यात् । रसस्य परमानन्द्मयत्वात् । तत्राह—वियोगे त्व् इति । अद्भुतानन्द-विवर्तत्वं स्वतः परमानन्द-स्वरूपत्वात् तु तत्र निमित्तत्वात्, सर्वानन्द-मूल-श्री-भगवद्-आलम्बनत्वाच् च । प्रगाढार्ति-भवाभासत्वं नियोग-ज्ञान-परिणाम-दुःखस्य तस्याम् अध्यासात्तस्यां तु तत्र निमित्तत्वात् । तद्-दुःखस्यापि दृढ-प्राप्त्य्-आशया तिरस्कृतत्वाद् इति । विवर्तोऽत्र परिपाकः । तस्या स्वरूपानयथा-भावे हेतुः—ऊर्जितेति । अन्यथा-भावे सा त्यजेतैव, न तु त्यक्तुं शक्येतेति । तद् उक्तं श्री-व्रज-देवीभिः स्वयम् एव—आशा हि परमं दुःखं [भा।पु। ११.८.४४] इत्य्- आद्य्- अनन्तरं, तज्-जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया [भा।पु। १०.४७.४७] इति ॥१०८-१०९॥
श्री-मुकुन्दः : कृष्ण-रतिः कृष्णे भक्त-कर्तृक-रतिः । सर्वाद्भुताभ्यः सर्वावतारावतारि-भक्त-रतिभ्योऽद्भुताः ॥१०८॥ प्रगाढार्ति-भरस्य आभासत्वं तनोति ॥१०९॥
**विश्वनाथः : **अथ तत्रैव स्व-मतानुकार्यादिष्व् अपि रसम् उपपादयति—अलौकिकी त्व् इति । मोक्षानन्दस्यापि तिरस्कारित्वात्, सर्वानन्द-मूलस्य श्री-भगवतोऽप्य् आनन्दकत्वात्, । सर्व इएति —श्री-भगवद्-अवताराणां रतितोऽपि परमाधिक्यत्वात् । तच् च स्वयं श्री-कृष्णेन तद्-भक्त-वरेणोद्धवेन चानुभूतम् । तद् यथा तृतीये—विस्मापनं स्वस्य च … यन् मर्त्य-लीलौपयिकं स्व-योगमाया-बलं दर्शयता गृहीतम् [भा।पु। ३.२.१२] इति च । श्री-दशमे —द्विजात्मना मे युवयोर् दिदृक्षुणा [भा।पु। १०.८९.५८] इत्य् उक्तवता परम-व्योमाधिनाथेन महा-नारायणेनानुभूतम् इति । हरि-प्रिये साक्षात्-तद्-अनुभवितरि तल्-लीला-परिकरे रतेः परमाश्रये ।
वियोगे त्व् इति । अद्भुतानन्द-विवर्तत्वं स्वतः परमानन्द-स्वरूपत्वात् सर्वानन्द-मूल-श्री-भगवद्-आलम्बनत्वाच् च । प्रगाढार्ति-भराभासत्वम् इति तेषां श्री-कृष्णस्याप्राप्ति-भावनया दुःखत्वेन भान-मात्रं, न वस्तुतो दुःख-रूपत्वम् इति रति-प्रकरणे उक्त-सिद्धान्तोऽप्य् अत्रापि रस-प्रकरणे ज्ञेयः । विवर्तोऽत्र परिपाकः । तस्या रतेः स्वरूपानन्यथा-भावे हेतुः—ऊर्जिता इएति । अन्यथा-भावे सा त्यजेतैव, न तु त्यक्तुं शक्येतेति । तद् उक्तं श्री-व्रज-देवीभिः—आशा हि परमं दुःखं [भा।पु। ११.८.४४] इत्य्- आद्य्- अनन्तरं, तज्-जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया [भा।पु। १०.४७.४७] इति ॥१०८-१०९॥
—ओ)०(ओ—
॥ २.५.११०-१११ ॥
तत्रापि वल्लवाधीश-नन्दनालम्बना रतिः ।
सान्द्रानन्द-चमत्कार-परमावधिर् इष्यते ॥
यत्-सुखौघ-लवागस्त्यः पिबत्य् एव स्व-तेजसा ।
रेमशरमेश-माधुरी-साक्षात्-कारानन्दाब्धिम् अप्य् अलम् ॥
श्री-जीवः : तद् एवं सामान्यतः श्री-कृष्ण-रतेः सर्वोत्कर्षम् उक्त्वा, श्रीमद्-व्रज-गतायास् तु वैशिष्ट्यम् आह—तत्रापीति द्वाभ्याम्, यत्- सुखौघ-लवेति लव इति । रमेशोऽत्र श्री-रुक्मिणी-नाथत्वावस्थः स एव । तद् एतत् तु हरिः पूर्णतमा [भ।र।सि। २.१.२२१] इत्य् आदौइत्य्-आदौ, तत्राप्य् एकान्तिनां श्रेष्ठः [भ।र।सि। १.२.५८] इत्य् आदौइत्य्-आदौ च सुष्ठु व्याख्यातम् एव ॥१११॥
**श्री-मुकुन्दः : **तद् एवं सामान्यतः श्री-कृष्ण-रतेः सर्वोत्कर्षम् उक्त्वा, तत्रापि श्री-नन्द-नन्दन-रतेस् त्व् अतिवैशिष्ट्यम् आह—तत्रापीति तत्रापि इति द्वाभ्याम् । तत्रापि सर्वाद्भुतायाम् अपि श्री-कृष्ण-रतौ मध्ये यस्य सुखौघस्य लव एवागस्त्यः एव अगस्त्यः यत्-सुखौघ-लवागस्त्यः । रमेशोऽत्र परम-व्योम-नाथः, यद् यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य् आदौइत्य्-आदौ प्रसिद्धं तत् ॥१११॥
**विश्वनाथः : **तद् एवं सामान्यतः श्री-कृष्ण-रतेः सर्वोत्कर्षम् उक्त्वा, श्रीमद्-व्रज-गतायास् तस्यास् तु वैशिष्ट्यम् आह—तत्रापीति तत्रापि इति द्वाभ्याम् । यत् सुख-समूहस्य लवः स्वल्पोऽपि स एवागस्त्यः एव् अगस्त्यस् तादृशानन्द-समुद्रं पिबति । तद् एतत् तु हरिः पूर्णतमा [भ।र।सि। २.१.२२१] इत्य् आदौइत्य्-आदौ, तत्राप्य् एकान्तिनां श्रेष्ठः [भ।र।सि। १.२.५८] इत्य् आदौइत्य्-आदौ च सुष्ठु व्याख्यातम् एव ॥१११॥
—ओ)०(ओ—
॥ २.५.११२-११४ ॥
किं च—
परमानन्द-तादात्म्याद् रत्य्-आदेर् अस्य वस्तुतः ।
रसस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति ॥
पूर्वम् उक्ताद् द्विधा भ्देदान् मुख्य-गौणतया रतेः ।
भवेद् भक्ति-रसोऽप्य् एष मुख्य-गौणतया द्विधा ॥
पञ्चधापि रतेर् ऐक्यान् मुख्यस् त्व् एक इहोदितः ।
सप्तधात्र तथा गौण इति भक्ति-रसोऽष्टधा ॥
श्री-जीवः, मुकुन्दः : परमानन्द-तादात्म्याद् इति । परमानन्दोऽत्र ह्लादिनी-शक्तिः । तत्र रतिस् तन्-मूला, कृष्ण-रूपो विभावस् तु शक्ति-शक्तिमतोर् एकात्मत्वात् । शक्त्य्-आत्मकोअः भक्त-रूपो रत्य्-आविष्टः । अनुभावा व्यभिचारिणश् च तद्-उत्था ः—इति रत्य्-आदेस् तत्-तादात्म्य-प्राप्तिः । तद् एवं रत्य्-आदेः परमानन्द-तादात्म्याद् धेतोः रसस्य भक्ति-रसस्य वस्तुतो मूलांश-विचारे सति स्व-प्रकाशत्वं मन-आद्य्-अनधीन-प्रकाशत्वं, अखण्डत्वम् अनन्य-स्फूर्ति-मयत्वं च सिद्ध्यति ॥११२-११४॥
**विश्वनाथः : **तद् एवं रत्य्-आदेः रस्य-वस्तु-विभावादेः रसस्य च **परमानन्द-तादात्म्याद् **धेतोः, वस्तुतो मूलांश-विचारे सति स्व-प्रकाशत्वं मन-आद्य्-अनधीनत्वम्, अखण्डत्वं चानन्य-स्फूर्ति-मयत्वं च सिद्ध्यतीति विवक्षितम् । द्वयोर् मुख्य-गौणयोर् भेदेन भक्ति-रसो द्वादशोच्यते ॥११२-११४॥
—ओ)०(ओ—
॥ २.५.११५ ॥
तत्र मुख्यः—
मुख्यस् तु पञ्चधा शान्तः प्रीतः प्रेयांश् च वत्सलः ।
मधुरश् चेत्य् अमी ज्ञेया यथा-पूर्वम् अनुत्तमाः ॥
श्री-जीवः : अनुत्तमाः कनिष्ठाः ॥११५॥
**श्री-मुकुन्दः : **मुख्य-स्थितिः । अनुत्तमाः कनिष्ठाः ॥११५॥
विश्वनाथः : अनुत्तमाः कनिष्ठाः । मधुरापेक्षया वात्सल्यस्य कनिष्ठत्वं, तथा वात्सल्यापेक्षया सख्यस्येत्य् सख्यस्येत्य्-आदि-क्रमेण बोध्यम् ॥११५॥
—ओ)०(ओ—
॥ २.५.११६ ॥
अथ गौणः—
हास्योऽद्भुतस् तथा वीरः करुणो रौद्र इत्य् अपि ।
भयानकः स बीभत्स इति गौणश् च सप्तधा ॥
न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.५.११७ ॥
एवं भक्ति-रसो भेदाद् द्वयोर् द्वादशधोच्यते ।
वस्तुतस् तु पुराणादौ पञ्चधैव विलोक्यते ॥
श्री-जीवः, विश्वनाथः श्री-जीवः : पञ्चधैवेति पञ्चधैव इति हास्यादीनां व्यभिचारिषु पर्यवसानात् ॥११७॥
**श्री-मुकुन्दः : **वस्तुतः पञ्चधैवेति हास्यादीनां रसत्वं भरतादीनां सम्मत्यैवेति भावः ॥११७॥
**विश्वनाथः : **पञ्चधैवेति हास्यादीनां व्यभिचारिषु पर्यवसानात् ॥११७॥
—ओ)०(ओ—
॥ २.५.११८ ॥
श्वेतश् चित्रोऽरुणः शोणः श्यामः पाण्डुर-पिङ्गलौ ।
गौरो धूम्रस् तथा रक्तः कालो नीतः क्रमाद् अमी ॥
श्री-जीवः : यशसः शुक्लत्ववत् कवि-समयानुरूप्येण मन-आदीनां चन्द्रादिवत् तत्-तद्-अधिष्ठातृ-मूर्ति-भेदेन वा तेषां रूप-कल्पनाम् आह—श्वेत इत्य् आदि इत्य्-आदि ॥११८॥
मुकुन्दः : काल-स्वभावेत्य्स्वभाव- इत्य्-आदिभिर् मूर्तिमद्भिर् उपासिताः [भा।पु। १०.१३.५३] इति दशमोक्तिवद् भगवल्-लोके मूर्ति-मत्तया स्थितत्वात् तेषां रूपम् आह—श्वेत इति ॥११८॥
विश्वनाथः : क्रमेण अमी शान्तादि-द्वादश-रसाः श्वेतादि-रूपवन्तः । ह्लादिनी-शक्तेः सार-भूतानाम् एतेषां लक्ष्म्य्-आदिवन्–मूर्ति-धराणां रूपवत्त्वं नासङ्गतम् इति ज्ञेयम् ॥११८॥
—ओ)०(ओ—
॥ २.५.११९ ॥
कपिलो माधवोपेन्द्रौ नृसिंहो नन्द-नन्दनः ।
बलः कूर्मस् तथा कल्की राघवो भार्गवः किरिः ।
मीन इत्य् एषु कथिताः क्रमाद् द्वादश देवताः ॥
श्री-जीवः : अत्र भगवत्-सम्बन्धिनाम् एतेषां रसानां चन्द्रादीनाम् अनिरुद्ध्य दरद्-अन्तर्यामित्वेन भगवद्-अवतारा एव ज्ञेया इत्य् आह—कपिलो माधवोपेन्द्राव् इति । किरिः वराहः । मीन-स्थाने बुद्धो वा पठनीयः ।, तच्-चेष्टाया अरोचकत्वात्, । मीनस्य सच्-चिद्-आनन्द-विग्रहत्वात् ॥११९॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
विश्वनाथः : अत्र भगवत्-सम्बन्धिनाम् एतेषां चन्द्रादीनाम् अनिरुद्धादिवद् भगवद्-अवतारा एव देवता ज्ञेया इत्य् आह । किरिः वराहः ॥११९॥
—ओ)०(ओ—
॥ २.५.१२०-१२२ ॥
पूर्तेर् विकार-विस्तार-विक्षेप-क्षोभस् तथा ।
सर्व-भक्ति-रसास्वादः पञ्चधा परिकीर्तितः ॥
पूर्तिः शान्ते विकाशस् तु प्रीतादिष्व् अपि पञ्चसु ।
वीरेऽद्भुते च विस्तारो विक्षेपः करुणोग्रयोः ।
भयानकेऽथ बीभत्से क्षोभो धीरैर् उदाहृतः ॥
अखण्ड-सुख-रूपत्वेऽप्य् एषाम् अस्ति क्वचित् क्वचित् ।
रसेषु गहनास्वाद-विशेषः कोऽप्य् अनुत्तमः ॥
श्री-जीवः : पञ्चस्व् इति हास्य-साहित्याद्य्-उक्तम् । उग्रो रौद्रः ॥१२१॥
मुकुन्दः : अपि अपि-शब्दाच् चान्तेऽपि विकाशः । उग्रो रौद्रः ॥१२१॥ क्वचित् क्वचिद् रसे सख्ये वत्सले मधुरेऽपि ॥१२२॥
विश्वनाथः : पूर्तेस् तथा विकारादिभ्यश् च सर्व-भक्ति-रसास्वादः पञ्चधा परिकीर्तितः । पञ्चसु इति हास-साहित्याद् उक्तम् । उग्रो रौद्रम् । एषां सर्वेषां रसानाम् अखण्ड-सुख-रूपत्वेऽपि क्वचित् क्वचित् रसेषु अनुत्तमं नास्ति उत्कृष्टो यस्माद् इति व्युत्पत्त्या सर्वोत्कृष्टः कोऽपि गहनास्वाद-विशेषः तारतम्येनास्ति ॥१२११२०-१२२॥
—ओ)०(ओ—
॥ २.५.१२३ ॥
प्रतीयमाना अप्य् अज्ञैर् ग्राम्यैः सपदि दुःखवत् ।
करुणाद्या रसाः प्राज्ञैः प्रौढानन्द-मया मताः ॥
श्री-जीवः : तत्र तावत् पञ्चविधा जनाः परामृश्यन्ते—भाव्य-भक्ताः, भावक-भक्ताः, प्राज्ञाः, अज्ञाः, ग्राम्याश् चेति । अत्र कश्चिद् आशङ्कते—ननु वियोगे यथा रसता स्थापिता, तथा प्रतीयते स्म, किन्तु करुण-भयानक-बीभत्सेषु न प्रतीयते । तत्र करुणे वियोगे वियोग इव लीला-परिकर-लक्षण-भाव्य-भक्तानां तत्-प्राप्त्य्-आशया व्यत्ययात्, भयानके भयेनाच्छादनाद् बीभत्से चाहृद्य-स्फूर्त्या हृद्य-कृष्णादि-स्फुरणाच्छादनानन्द-स्वरूप-रस-प्रतियोगि दुःखम् एव स्फुरति । तत एव तद् इतरेषां भावक-भक्तानां वैरस्यापत्तिः स्याद् इति तत्राह—प्रतीयमाना इति ।
अज्ञैः शास्त्रान्तर-विज्ञत्वेऽपि रस-शास्त्रानभिज्ञत्वाद् भाव्य-भावक-भक्तानां तत्-तद्-रसाक्रान्त-चित्तानां मर्म बोद्धुम् असमर्थैस् असमर्थैः । तथा ग्राम्यैः पशु-निर्विशेषैः सपदि तात्कालिक-दृष्टि-मात्र-पारवश्याद् दुःखवत् प्रतीयमाना अपि भाव्य-भावक-भक्तास्वाद्याः करुणाद्या रसाः प्राज्ञैः रस-चर्वणायाम् असमर्थत्वेऽपि रस-शास्त्र-तात्पर्य-विज्ञैः प्रौढानन्द-मया मताः ॥१२३॥
मुकुन्दः : ननु करुण-रौद्र-बीभत्सानां दुःखवत् प्रतीतेः कथम् अखण्ड-सुख-रूपत्वम्? इत्य् अत्राह—प्रतीयमाना इति । ग्राम्यैर् विषयिभिः । कथम्भूतैः ? अज्ञैः सामान्य-रसानभिज्ञैः, । प्राज्ञैः रस-तत्त्व-ज्ञैः ॥१२३॥
विश्वनाथः : प्रतीयमाना इति । अज्ञैः शास्त्रान्तर-विज्ञत्वेऽपि रस-शास्त्राक्रान्त-चित्तानां मर्म बोद्धुम् असमर्थैस् असमर्थैः । तथा ग्राम्यैः पशु-निर्विशेषैः सपदि तात्कालिक-दृष्टि-मात्र-पारवश्याद् दुःखवत् प्रतीयमाना अपि भक्तास्वाद्याः रसाः प्राज्ञैः रस-चर्वणायाम् असमर्थत्वेऽपि रस-शास्त्र-तात्पर्य-विज्ञैः प्रौढानन्द-मया मता ज्ञाता इत्य् अर्थः ॥१२३॥
—ओ)०(ओ—
॥ २.५.१२४ ॥
अलौकिक-विभावत्वं नीतेभ्यो रति-लीलया ।
सद्-उक्त्या च सुखं तेभ्यः स्यात् सुव्यक्तम् इति स्थितिः ॥
श्री-जीवः : तद् एवम् अज्ञान् ग्राम्यांश् च निन्दित्वा रस-निष्पत्तौ प्राज्ञ-मतेन युक्तिं दर्शयति—अलौकिकेति अलौकिक- इति । अत्र नीतेभ्यस् तेभ्य इति बहु-वचनं स्पष्टतार्थं, त्रिभिर् एक-वचनैः पृथक्-कृत्य व्याख्येयम् । तत्र करुणेऽनिष्टाशङ्कामयत्वाद् वियोगाद् विलक्षणे, तेभ्य इति बहु-वचनं स्पष्टतार्थं, त्रिभिर् एक-वचनैः पृथक्-कृत्य व्याख्येयम् । तत्र कुर्णेऽनिष्टाशङ्कामयत्वाद् वियोगिआद् विलक्षणे, अवलोक्य फणीन्द्र-यन्त्रितम् [भ।र।सि। २.५.६२] इत्य् आदि इत्य्-आदि भाव्य-भक्तानुभवेन वियोगे वियोग-ज्ञानजम् इवाध्यस्तं यद् अनिष्टा-शङ्का-मयं दुःखं, तन्-मयेऽपि रति-लीलया स्वतः परमानन्द-रूपाया रतेर् लीलया तत्-तत्-काव्य-प्रशस्त-भाव्य-भक्तेषु सर्वज्ञ-शत-वाग्-विश्वस्तितः पूर्व-पूर्ववत् प्राप्ति-सम्भावनातश् चाशामय्या वृत्त्या, तथा सद्-उक्त्या भावक-भक्तेषु प्रथम-सूचितावसान-विस्तृत-मङ्गल-मय्या सद्-रचना-रूपया सतां वक्तॄणां तादृग्-उक्त्या चालौकिक-विभावत्वं लोक-चमत्कार-कारि-विभावादि-स्फूर्ति-शालित्वं नीतात् करुण-रसात् सुखं व्यक्तं स्याद् इति स्थितिः रसविदां रस-मर्यादेत्य् अर्थः ।
अथ भयानके रति-लीलया तद्वद् एवाशामय्या रतेर् वृत्त्या सद्-उक्त्या च तादृश्येत्य् अर्थः । बीभत्सेऽपि रति-लीलया बीभत्स-स्फूर्तिम् उपमर्द्य कृष्णादि-स्फूर्ति-कारिण्या सद्-उक्त्या च तादृश्येत्य् अर्थः । यथोक्तं श्री-रुक्मिणी-देव्याभावक-भक्तेषु प्रथम-सूचितावसान-विस्तृत-मङ्गल-मय्या सद्-रचना-रूपया सतां वक्तॄणां तादृग्-उक्त्या चालौकिक-विभावत्वं लोक-चमत्कार-कारि-विभावादि-स्फूर्ति-शालित्वं नीतात् करुण-रसात् सुखं व्यक्तं स्याद् इति स्थितिः रसविदां रस-मर्यादेत्य् अर्थः । अथ भयानके रति-लीलया तद्वद् एवाशामय्या रतेर् वृत्त्या सद्-उक्त्या च तादृश्येत्य् अर्थः । बीभत्सेऽपि रति-लीलया बीभस्त-स्फूर्तिम् उपमर्द्य कृष्णादि-स्फूर्ति-कारिण्या सद्-उक्त्या च तादृश्येत्य् अर्थः । यथोक्तं श्री-रुक्मिणी-देव्या—त्वक्-श्मश्रु-रोम-नख [भा।पु। १०.६०.४५] इत्य् आदि इत्य्-आदि ॥१२४॥
मुकुन्दः : प्राज्ञानाम् अभिप्रायं दर्शयति—अलौकिक- इति । तेभ्यः करुणादिभ्यः । स्थिती रस-मर्यादा ॥१२४॥प्राज्ञानाम् अभिप्रायं दर्शयति—अलौकिकेति । तेभ्यः करुणादिभ्यः । स्थिती रस-मर्यादा ॥१२४॥
**विश्वनाथः : तद् एवम् अज्ञान् ग्राम्यांश् च निन्दित्वा रस-निष्पत्तौ प्राज्ञ-मतेन युक्तिं दर्शयति—अलौकिक- इति । अत्र नीतेभ्यस् तेभ्य इति बहु-वचनं स्पष्टतार्थं, त्रिभिर् एक-वचनैः पृथक्-कृत्य व्याख्येयम् । तत्र करुणेऽनिष्टाशङ्का-मयत्वाद् वियोगाद् विलक्षणे, तद् एवम् अज्ञान् ग्राम्यांश् च निन्दित्वा रस-निष्पत्तौ प्राज्ञ-मतेन युक्तिं दर्शयति—अलौकिकेति । अत्र नीतेभ्यस् तेभ्य इति बहु-वचनं स्पष्टतार्थं, त्रिभिर् एक-वचनैः पृथक्-कृत्य व्याख्येयम् । तत्र कुर्णेऽनिष्टाशङ्कामयत्वाद् वियोगिआद् विलक्षणे, अवलोक्य फणीन्द्र-यन्त्रितम् [भ।र।सि। २.५.६२] **इत्य्-आदि भाव्य-भक्तानुभवेन वियोगे वियोग-ज्ञानजम् इवाध्यस्तं यद् अनिष्टा-शङ्का-मयं दुःखं, तन्-मयेऽपि रति-लीलया स्वतः परमानन्द-रूपाया रतेर् लीलया तत्-तत्-काव्य-प्रशस्त-भाव्य-भक्तेषु सर्वज्ञ-शत-वाग्-विश्वस्तितः पूर्व-पूर्ववत् प्राप्ति-सम्भावनातश् चाशामय्या वृत्त्या तथा सद्-उक्त्या भावक-भक्तेषु प्रथम-सूचितावसान-विस्तृत-मङ्गल-मय्या सद्-रचना-रूपया सतां वक्तॄणां तादृग्-उक्त्या चालौकिक-विभावत्वं लोक-चमत्कार-कारि-विभावादि-स्फूर्ति-शालित्वं नीतात् करुण-रसात् सुखं व्यक्तं स्याद् इति स्थितिः रस-विदां रस-मर्यादेत्य् अर्थः ।
अथ भयानके रति-लीलया तद्वद् एवाशामय्या रतेर् वृत्त्या सद्-उक्त्या च तादृश्येत्य् अर्थः । बीभत्सेऽपि रति-लीलया बीभस्त-स्फूर्तिम् उपमर्द्य कृष्णादि-स्फूर्ति-कारिण्या सद्-उक्त्या च तादृश्येत्य् अर्थः । यथोक्तं श्री-रुक्मिणी-देव्या— [भ।र।सि। २.५.६२] इत्य् आदि भाव्य-भक्तानुभवेन वियोगे वियोग-ज्ञानजम् इवाध्यस्तं यद् अनिष्टा-शङ्का-मयं दुःखं तन्-मयेऽपि रति-लीलया स्वतः परमानन्द-रूपाया रतेर् लीलया तत्-तत्-काव्य-प्रशस्त-भाव्य-भक्तेषु सर्वज्ञ-शत-वाग्-विश्वस्तितः पूर्व-पूर्ववत् प्राप्ति-सम्भावनातश् चाशामय्या वृत्त्या तथा सद्-उक्त्या भावक-भक्तेषु प्रथम-सूचितावसान-विस्तृत-मङ्गल-मय्या सद्-रचना-रूपया सतां वक्तॄणां तादृग्-उक्त्या चालौकिक-विभावत्वं लोक-चमत्कार-कारि-विभावादि-स्फूर्ति-शालित्वं नीतात् करुण-रसात् सुखं व्यक्तं स्याद् इति स्थितिः रसविदां रस-मर्यादेत्य् अर्थः । अथ भयानके रति-लीलया तद्वद् एवाशामय्या रतेर् वृत्त्या सद्-उक्त्या च तादृश्येत्य् अर्थः । बीभत्सेऽपि रति-लीलया बीभस्त-स्फूर्तिम् उपमर्द्य कृष्णादि-स्फूर्ति-कारिण्या सद्-उक्त्या च तादृश्येत्य् अर्थः । यथोक्तं श्री-रुक्मिणी-देव्या—त्वक्-श्मश्रु-रोम-नख [भा।पु। १०.६०.४५] इत्य् आदि इत्य्-आदि ॥१२४॥
—ओ)०(ओ—
॥ २.५.१२५ ॥
तथा च नाट्यादौ—
करुणादाव् अपि रसे जायते यत् परं सुखम् ।
सुचेतसाम् स-चेतसाम् अनुभवः प्रमाणं तत्र केवलम् ॥
श्री-जीवः : तत्रास्तां तावद् अस्माकं सा कथेय्त्य् अभिप्रेत्याह—तथा चेति च इति ॥१२५॥
**मुकुन्दः : **तद् आह आह—तथा च इति तथा चेति द्वाभ्याम् ॥१२५॥
विश्वनाथः : तत्र च तावद् अस्माकं सा कथेत्य् अभिप्रेत्याह—तथा च इति तथा चेति । स-चेतसां हनुमद्-आदीनां, न तु अविद्या-ग्रस्तानां तेषां स-चेतस्त्वस्यैवासद्भावात् ॥१२५॥
—ओ)०(ओ—
॥ २.५.१२६ ॥
सर्वत्र करुणाख्यस्य रसस्यैवोपपादनात् ।
भवेद् रामायणादीनाम् अन्यथा दुःख-हेतुता ॥
श्री-जीवः, विश्वनाथः : अथ व्यतिरेकेण स्व-मतं योजयति—सर्वत्रेति सर्वत्र इति । प्रतिकाण्डं बहुत्रेत्य् अर्थः उपपादनाद् व्यञ्जनात् दुःख-हेतुतेत्य् हेतुता इत्य् अत्र भावक-भक्तेष्व् इति शेषः ॥१२६॥
मुकुन्दः : न व्याख्यातम् ।न व्याख्यातम्।
**विश्वनाथः : **अथ व्यतिरेकेण स्व-मतं योजयति—सर्वत्रेति । प्रतिकाण्डं बहुत्रेत्य् अर्थः उपपादनाद् व्यञ्जनात् दुःख-हेतुतेत्य् अत्र भावक-भक्तेष्व् इति शेषः ॥१२६॥
—ओ)०(ओ—
॥ २.५.१२७ ॥
तथात्वे राम-पादाब्ज-प्रेम-कल्लोल-वारिधिः ।
प्रीत्या रामायणं नित्यं हनुमान् शृणुयात् कथम् ॥
श्री-जीवः : तत्र भावकेषु मुख्यस्यैकस्य प्रवृत्त्य्-अन्यथानुपपत्तिं प्रमाणयति—तथात्व इति । दुःख-हेतुत्वे सतीत्य् अर्थः ॥१२७॥
**मुकुन्दः : **प्राज्ञानां मते अनुभवितृषु मुखस्यैकस्य प्रवृत्त्य्-अन्यथानुपपत्तिं प्रमाणयति—तथात्व इति । दुःख-हेतुत्वे सति ॥१२७॥
**विश्वनाथः : **तत्र भक्ति-रसिकेषु मध्ये मुख्यस्यैकस्य प्रवृत्त्य्-अन्यथानुपपत्तिं प्रमाणयति—तथात्व इति । दुःख-हेतुत्वे सतीत्य् अर्थः । राम-चरण-कमले प्रेम-तरङ्गस्य समुद्रो हनूमान् नित्यं कथं शृणुयात् ? ॥१२७॥
—ओ)०(ओ—
॥ २.५.१२८ ॥
अपि च—
सञ्चारी स्यात् समाओनाओ वा कृष्ण-रत्याः सुहृद्-रतिः ।
अधिका पुष्यमाणा चेद् भावोल्लासा रतिः ॥
श्री-जीवः : सञ्चारी स्याद् इत्य् अस्यायम् अर्थः—सुहृदां निजाभीष्ट-रसाश्रये भक्त-विशेषे श्री-राधिकादौ विषये सजातीय-भाव-भक्तानां परस्परं रत्या विषयाश्रय-रूपाणां ललितादीनां सखी-मुख्यानाम् एकतराश्रया या रतिः, सा यदि कृष्ण-विषयाया रत्याः समा स्याद् ऊना वा स्यात्, तदा कृष्ण-विषयाया रतेः सञ्चर्य्सञ्चार्य्-आख्य एव भावः स्यात्, । तन्-मूलत्वात् तत्-पोषणाच् च । एवं मधुराख्ये रसे तु सा यदि क्वचित् कृष्ण-विषयाया अपि रत्या अधिका , तत्रापि पुष्यमाणा सन्तताभिनिवेशेन संवर्ध्यमाना स्यात्, तदा सञ्चारित्वेऽपि विशिष्ट्यापेक्षया भावोल्लासाख्यो भाव ईर्यते इति । तद् इदं त्व् अत्रानुस्मृत्य लिखितम् अपि सञ्चारिणाम् अन्ते योजनीयम्, तत्रैव सजातीयत्वात् ॥१२८॥
मुकुन्दः : अपि चेति च इति । एवं रसः सम्यग् उक्तोऽन्यद् अपि तत्-पोषकम् उच्यते इत्य् अर्थः ॥१२८॥
**विश्वनाथः : अपि च इति । **अपि चेति । तद् एतत् समाप्तं, किञ्चिद् अप्य् उच्यते इत्य् अर्थः । अथ सजातीय-भक्तानां परस्पर-परम-प्रीत्यापन्नानां मध्ये एकस्मिन् भक्ते अन्य-भक्तस्य वा रतिः सा कृष्ण-विषयिण्या रतेः पोषकत्वात् व्यभिचारि-भाव-मध्ये एव निविष्टा इत्य् आह—सञ्चारी स्याद् इति । अस्यायम् अर्थः—सजातीय-भाव-भक्ति-विशिष्टानां परस्पर-रतेर् विषयाश्रय-रूपाणाम् एकतराश्रया या रतिः, सा यदि कृष्ण-विषयाया रत्याः समा वा स्यात्, ततो न्यूना वा स्यात्, तदा कृष्ण-विषयाया रतेः सञ्चर्य्-आख्य एव भावः स्यात् । एवं मधुराख्ये रसे तु सा यदि कृष्ण-विषयाया अपि रतेर् अधिका तत्रापि पुष्यमाणा सतताभिनिवेशेन संवर्ध्यमाना स्यात्, तदा सञ्चारित्वेऽपि सर्व-भावापेक्षया परमोत्कर्षात् भावोल्लासाख्यो भाव ईर्यते इति । तद् इदं त्व् अत्रानुस्मृत्य लिखितम् । अतस् त्रयस्त्रिंशत्-सञ्चारिणाम् अन्ते इदम् अपि योजनीयम् ॥१२८॥तद् एतत् समाप्तं, किञ्चिद् अप्य् उच्यते इत्य् अर्थः । अथ सजातीय-भक्तानां परस्पर-परम-प्रीत्यापन्नानां मध्ये एकस्मिन् भक्ते अन्य-भक्तस्य वा रतिः सा कृष्ण-विषयिण्या रतेः पोषकत्वात् व्यभिचारि-भाव-मध्ये एव निविष्टा इत्य् आह—सञ्चारी स्याद् इति । अस्यायम् अर्थः—सजातीय-भाव-भक्ति-विशिष्टानां परस्पर-रतेर् विषयाश्रय-रूपाणाम् एकतराश्रया या रतिः, सा यदि कृष्ण-विषयाया रत्याः समा वा स्यात्, ततो न्यूना वा स्यात् तदा कृष्ण-विषयाया रतेः सञ्चर्याख्य एव भावः स्यात् । एवं मधुराख्ये रसे तु सा यदि कृष्ण-विषयाया अपि रतेर् अधिका तत्रापि पुष्यमाणा सतताभिनिवेशेन संवर्ध्यमाना स्यात् तदा सञ्चारित्वेऽपि सर्व-भावापेक्षया परमोत्कर्षात् भावोल्लासाख्यो भाव ईर्यते इति । तद् इदं त्व् अत्रानुस्मृत्य लिखितम् । अतस् त्रयस्त्रिंशत्-सञ्चारिणाम् अन्ते इदम् अपि योजनीयम् ॥१२८॥
—ओ)०(ओ—
**॥ २.५.१२९-१३० ॥
फल्गु-वैराग्य-निर्दग्धाः शुष्क-ज्ञानाश् च हैतुकाः ।
मीमांसका विशेषेण भक्त्य्-आस्वाद-बहिर्मुखाः ॥
इत्य् एष भक्ति-रसिकैश् चौराद् इव महा-निधिः ।
जरन्-मीमांसकाद् रक्ष्यः कृष्ण-भक्ति-रसः सदा ॥
श्री-जीवः : **अथ पूर्वोक्तान् अज्ञादीन् रसानधिकारिण आह—फल्गु-वैराग्य- एति इति फल्गु-वैरागं भक्त्य्-उदासीनादि-वैरागम् । शुष्क-ज्ञानं भक्त्य्-उदासीनादि-ज्ञानं हैतुकास् तर्क-मात्र-निष्ठाः । मीमांसकाः कर्म-वादिनः पूर्व-मीमांसकास् तथा द्वैत-मात्र-मिथ्या-वादिनः केचिद् उत्तर-मीमांसकं-मन्याः । एषाम् उत्तरोत्तरं परिहार्यत्वाधिक्यम् । तार्किकाणां च केषाञ्चित् कौतुकेनाधीतालङ्कारादीनां रस-साधारण्यात् किञ्चिद् अत्र प्रवेशः स्याद् इति मीमांसकात् पूर्वत्र पाठः । अत्र ग्राम्याः फल्गु-वैराग्य-निर्दग्धाः । अन्ये त्व् अज्ञा ज्ञेयाः ॥१२९॥
यस्मात् सर्वेऽपि मीमांसका विशेषेण भक्त्य्-आस्वाद-बहिर्मुखा इति हेतोर् एष कृष्ण-भक्ति-रसो जरन्-मीमांसकात् तु सदा विशेषेण रक्ष्यो गोप्य इति पूर्वेणान्वयाद् अन्येभ्योऽपि फल्गु-वैराग्य-निर्दग्धादिभ्यो यथायथं रक्ष्य इति लभ्यते । तत्र चौराद् इव महानिधिर् इति दृष्टान्तस् तु तेन तद्-रिक्ती-करण-मात्रापेक्षया, न तु तेनापि तस्य लोभ्यत्वम् इत्य् अपेक्षया, वह्नेर् इवेति तु पाठान्तरम् ॥१३०॥
**मुकुन्दः : **विपक्षेभ्यो रसो गोपनीय इत्य् आह—फल्ग्व् इति द्वाभ्याम् । हैतुकास् तर्क-मात्र-निष्ठाः । मीमांसकाः कर्म-वादिनः । पूर्व-मीमांसकास् तथाद्वैत-मात्र-मिथ्या-वादिनः केचिद् उत्तर-मीमांसकं-मन्याः । एषाम् उत्तरोत्तरं परिहार्यत्वाधिक्यम् । यस्मात् सर्वे मीमांसका विशेषेण भक्त्य्-आस्वाद-बहिर्मुखा इति हेतोः । एष कृष्ण-भक्ति-रसो जरन्-मीमांसकात् तु सदा विशेषेण रक्ष्यो गोप्य इति । पूर्वेणान्वयाद् अन्येभ्योऽपि फल्गु-वैराग्य-निर्दग्धादिभ्यो यथायथं रक्ष्य इति लक्ष्यते । चौराद् इव महा-निधिर् इति । अस्यायं भावः—खण्डनेच्छया तस्यापि चौरवद् ग्रहणेच्छास्ति । तद्-अग्रे प्रकाशेति रसस्याभक्ताग्रे खण्डनाभावात् कापि हानिर् न स्यात्, तेन तस्याग्रहणात् । प्रत्युतापराधस् तस्यैव । यथा चौरेण महा-निधेर् दृष्टस्यापि अग्रहणान् न कापि सा, प्रत्युत चौरतया ज्ञातत्वात् तस्यैव प्राण-हानिः स्यात् तथापि अनिष्टाशङ्कीनि बधुवधू-हृदयाणीतिवद् गोप्य एव सः । तथा रसोऽपीति ॥१२९-१३०॥
**विश्वनाथः : **तत्र पूर्वोक्ताज्ञ-ग्राम्यादीन् रसानधिकारिण आह—फल्गु-वैराग- इएति । भक्ति-प्रतिकूल-वैरागम् फल्गु-वैराग्यम् । तथैव भक्ति-प्रतिकूल-ज्ञानं शुष्क-ज्ञानम् । हैतुकास् तर्क-मात्र-निष्ठाः । मीमांसकाः कर्म-वादिनः । एषाम् उत्तरोत्तरं परिहार्याधिक्यम् परिहार्याधिक्यम्। तार्किकाणां च केषाञ्चित् कौतुकेनाधीतालङ्कारादीनां रस-साधारण्यात् किञ्चिद् अत्र प्रवेशः स्याद् इति मीमांसकात् पूर्व-पाठः । अत्र ग्राम्याः फल्गु-वैराग्य-निर्दग्धाः । अन्ये त्व् अज्ञा ज्ञेयाः ॥१२९॥
यस्मात् सर्वेऽपि मीमांसका अविशेषेण भक्त्य्-आस्वाद-बहिर्मुखा इति हेतोर् एष भक्ति-रसस् तेभ्यो रक्ष्य एव । जरन्-मीमांसकात् तु सदा विशेषतो रक्ष्यो गोप्य इति । चौराद् इवेति इव इति रक्षणार्थम् एव दृष्टान्तः, न तु लोभ्यत्वांशेन । अत एव बहिर्मुखानां रसे लोभाभावेऽपि न क्षतिः ॥१३०॥
—ओ)०(ओ—
**॥ २.५.१३१ ॥
सर्वथैव दुरूहोऽयम् अभक्तैर् भगवद्-रसः ।
तत्-पादाम्बुज-सर्वस्वैर् भक्तैर् एवानुरस्यते ॥
श्री-जीवः : **अस्य भक्ति-रसस्यास्वादस् तु भाव्य-भावक-भक्तैर् आस्वाद्यः स्यान् न तु पूर्वोक्त-प्राज्ञैर् अपीत्य् आह—सर्वथैवेति अस्य भक्ति-रसस्यास्वादस् तु भाव्य-भावक-भक्तैर् आस्वाद्यः स्यान् न तु पूर्वोक्त-प्राज्ञैर् अपीत्य् आह—सर्वथैव इति ॥१३१॥
मुकुन्दः : ननु ये फल्गु इत्य्-आदि-दोष-हीना, किन्तु पूर्वोक्ता अज्ञा विषयिणस् ते तु श्रावयित्वा प्रवर्तनीया एव ? तत्राह—सर्वथैव इत्य् अर्धम् । दुरूहस् तर्कागोचरः । कुतस् तेषां तत्र प्रवृत्तिः ? इत्य् अर्थः । प्राज्ञास् तु भगवद्-रसम् अपि स्वदन्त्य् एव । तत्राह—तत्-पद- इत्य् अर्धम् । अन्तरङ्ग-भक्तिं विना तेऽपि तद्-आस्वादिका नैव ॥१३१॥ननु ये फल्गु इत्य्-आदि-दोष-हीना, किन्तु पूर्वोक्ता अज्ञा विषयिणस् ते तु श्रावयित्वा प्रवर्तनीया एव ? तत्राह—सर्वथैवेत्य् अर्धं, दुर्ःउअस् तर्कागोचरः । कुतस् तेषां तत्र प्रवृत्तिर् इत्य् अर्थः । प्राज्ञास् तु भगवद्-रसम् अपि स्वदन्त्य् एव । तत्राह—तत्-पदेत्य् अर्धम्। अन्तरङ्ग-भक्तिं विना तेऽपि तद्-आस्वादिका नैव ॥१३१॥
विश्वनाथः : न व्याख्यातम् ।न व्याख्यातम्।
—ओ)०(ओ—
॥ २.५.१३२-१३३ ॥
व्यतीत्य भावना-वर्त्म यश् चमत्कार-कार-भूः ।
हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः ॥
भावनायाः पदे यस् तु बुधेनानन्य-बुद्धिना ।
भाव्यते गाढ-संस्कारैश् चित्ते भावः स कथ्यते ॥
श्री-जीवः : अथ कारण-कार्याद्य्-अस्तित्वेन साम्येऽपि रस-भावयोर् भेदम् आह आह—व्यतीत्येति व्यतीत्य इति द्वाभ्यम् । सत्त्वं भाव-कारणत्वेन पूर्वम् उद्दिष्टं शुद्ध-सत्त्व-विशेषः । समाधि-ध्यानयोर् इवानयोर् भेद इति भावः ॥१३२-१३३॥
मुकुन्दः : व्यतीत्य इति द्वाभ्यम् । व्यतीत्येति द्वाभ्यम् । सत्त्वं शुद्ध-सत्त्वात्मा भावः । स्वदते स्वादुर् भवति। भावो रति-रूपो भाव्यते भावनाय [भावनया?] स्वाद्यते, स्थायि-कारणकोऽतिस्वादु-रसः । गाढ-संस्कार-कारणकः स्वादु- स्थायी भावः । समाधि-ध्यानयोर् इवानयोर् भेद इति भावः ॥१३२-१३३॥
विश्वनाथः : अथात्र विभावादिभिर् आदौ भाव-साक्षात्कारो जायते । तद्-अनन्तरं भाव-स्वरूपो भवति । पश्चात् तैर् एव विभावादिभिः रस-साक्षात्कारो भवतीति क्रमः । तत्र रति-रसयोर् विशेषम् आलक्ष्य भेदम् आह—व्यतीत्य इति व्यतीत्येति द्वाभ्यम् । व्यभिचार्य्-आदीनां भावना-मार्गं व्यतीत्य यो रसः स्वदते इत्य् अन्वयः । रसः कथम्-भूतः ? रत्य्-अपेक्षया अतिशय-चमत्कार-जनकः । भावस् तु विभाव-व्यभिचार्य्-आदीनां भवनास्पदे चित्ते भाव्यते । तथा च—रस-साक्षात्कार-काले विभावादीनां स्वातन्त्र्येणानुभवो नास्ति । रति-साक्षात्कार-काले तु विभावादीनां स्वातन्त्र्येणाप्य् अनुभवोऽप्य् अस्ति । रस-साक्षात्कारापेक्षया रति-साक्षात्कारस्य गाढत्वाभावाद् इति रति-रसयोर् भेदो ज्ञेयः ॥१३२-१३३॥
—ओ)०(ओ—
॥ २.५.१३४ ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा दैक्षिण-विभागे सुधाम्बु-निधेः ॥
न केनापि व्याख्यातम् ।
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे स्थायि-भाव-लहरी पञ्चमी ।
॥ २.५ ॥
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
सामान्य-भगवद्-भक्ति-रस-निरूपको नाम
दक्षिण-विभागः समाप्तः ॥
॥ २ ॥
-
युग्मकम् (विश्वनाथः) ↩︎
-
विश्वनाथ ओन्ल्य्। ↩︎
-
Nओत् फ़ोउन्द् इन् च्रितिचल् एदितिओन्। ↩︎
-
Nओत् फ़ोउन्द् इन् च्रितिचल् एदितिओन्। (Cहेच्क् अगैन्।) ↩︎
-
Sएए Pरीति-सन्दर्भ १३६ अन्द् Kरम-सन्दर्भ फ़ोर् थे फ़ुल्ल् वेर्से। ↩︎
-
Śइशुपाल-वध। ↩︎
-
Sतोत्र-रत्नम्। ↩︎
-
Nओत् इन् अन्य् ओफ़् थे एxतन्त् KK चेन्तुरिएस्। ↩︎
-
Tहिस् अप्पेअर्स् तो बे अन् इनद्वेर्तेन्त् मिxतुरे ओफ़् त्wओ वेर्सेस्—३.२.१५ अन्द् १.५.२१। Tहे फ़ोर्मेर् इस् स्पोकेन् ब्य् Uद्धव, थे लत्तेर् ब्य् Nअरद। ↩︎
-
रक्तिमेति विश्वनाथः । ↩︎
-
Nओत् इन् अन्य् ओफ़् थे KK चेन्तुरिएस्। ↩︎
-
Tहिस् वेर्से इस् च्रेदितेद् तो Sअर्वभौम Bहत्तछर्य इन् थे Pअद्यवलि। ↩︎
-
I चन्ऽत् फ़िन्द् थे सोउर्चे ओफ़् थिस् वेर्से, wहिछ् दोएस् नोत् क़ुइते स्चन्। ↩︎
-
Cरितिचल् एदितिओन्, ७६.१६ ↩︎
- ↩︎
-
Mउकुन्द अप्पेअर्स् तो बे फ़ोल्लोwइन्ग् थे रेअदिन्ग् रेजेच्तेद् ब्य् Jइव। I दोन्ऽत् हवे थे चोम्प्लेते वेर्सिओन् ओफ़् थिस् वेर्से। ↩︎
-
Iन् च्रितिचल् एदितिओन्, अप्पेन्दिx २९। ↩︎
- ↩︎
-
Pउरुषोत्तम-देवस्य। SRK १२७, SKM २३८। ↩︎
-
Cरेदितेद् तो Rअघुनथ Dअस् Gओस्wअमि। ↩︎
-
Iन् च्रितिचल् एदितोन्, अप्पेन्दिx २९। ↩︎
-
Tहेसे फ़ोउर् wओर्द्स् नोत् इन् HDD एदितिओन्। ↩︎
-
प्रेम्णोऽनुरोधाद् अस्माकम् इन् बोथ् Bहगवतम् एदितिओन्स्। ↩︎
-
Rएअद्स् “स्युर् मोहाय”, “कल्पे विधौ।” ↩︎
-
अत्र कृष्णस्यालस्यम् अस्या उत्कण्ठां व्यभिचारिणौ इति श्री-जीव-पादैर् बृहत्-क्रम-सन्दर्भे लिखितम् । ↩︎
-
Iत् सेएम्स् उन्लिकेल्य् थत् Vइस्वनथ wओउल्द् हवे चोन्त्रदिच्तेद् अ च्लेअर् स्ततेमेन्त् इन् थे तेxत्। Cओउल्द् थिस् हवे स्लिप्पेद् ओउत् ओफ़् Mउकुन्दऽस् चोम्मेन्तर्य्? ↩︎
-
Aत्त्रिबुतेद् तो Dआमोदर इन् Pअद्यावली। Aल्सो फ़ोउन्द् इन् Aमरु ५५; SKM २.१४०.५ केशटस्य; Sम्व् ८६.१४; Sआह्D ३.१०५ (अस् अन् एxअम्प्ले ओफ़् मद); Dअश २.२२। ↩︎
- ↩︎
-
क्वापि ? ↩︎
-
जरति (Tहिस् इस् थे रेअदिन्ग् प्रेफ़ेरेद् ब्य् Vइश्वनाथ) ↩︎
-
वधूस् (Sएए प्रेविओउस् नोते) ↩︎