श्री-श्री-भक्ति-रसामृत-सिन्धुः
पूर्व-विभागः
Tहिस् एदितिओन् इस् एन्तिरेल्य् बसेद् ओन् Hअरिदस् Dअस्ऽस् एदितिओन्। (Nअबद्wइप् : Hअरिबोल् Kउतिर्, ४६२ Gऔराब्द = १९५१)। I हवे सुप्प्लेमेन्तेद् सोमे ओफ़् थे चोम्मेन्तरिएस् wइथ् थे अन्वय प्रोविदेद् ब्य् Bहक्तिसिद्धन्त Sअरस्wअति इन् हिस् एदितिओन् ओफ़् थे Cहैतन्य Cहरितम्रित। I हवे नोत् दोने थिस् फ़ोर् एवेर्य् अवैलब्ले वेर्से, थोउघ् I मय् दो सो इन् थे फ़ुतुरे। (Jअन् Bर्ज़ेज़िन्स्कि २००३-१२-२०)
Hअरिदस् Dअस् हस् नोत् गिवेन् अ देतैलेद् एxप्लनतिओन् ओफ़् थे सोउर्चेस् हे उसेद् इन् प्रोदुचिन्ग् हिस् एदितिओन्, थोउघ् हे ओच्चसिओनल्ल्य् नोतेस् अल्तेर्नतिवे रेअदिन्ग्स्। Tहे ओन्ल्य् रेफ़ेरेन्चेस् I चोउल्द् फ़िन्द् अरे तो मनुस्च्रिप्त्स् ओफ़् Vइस्ह्wअनथ्ऽस् चोम्मेन्तर्य् फ़ोउन्द् इन् थे Bओरो Oरिय अन्द् Gअन्ग Mअत Mअथ्स् इन् Pउरि। Hए देसिग्नतेस् थेसे अस् क अन्द् ख रेस्पेच्तिवेल्य्। Wहेरे I हवे नोतेद् थेम् (इ।ए।, ओन्ल्य् wहेरे चोन्सिदेरेद् च्रेदिब्ले), I हवे सुब्स्तितुतेद् अ अन्द् ब् फ़ोर् _क _अन्द् _ख। _(Jअन् Bर्ज़ेज़िन्स्कि २००४-०९-२५)
–ओ)०(ओ–
श्री-श्री-भक्ति-रसामृत-सिन्धुः
—ओ)०(ओ—
भगवद्-भक्ति-भेद-निरूपकः
पूर्व-विभागः
—ओ)०(ओ—
प्रथम-लहरी सामान्य-भक्तिः
श्री-श्री-राधा-गोविन्द-देवौ विजयेते
॥ १.१.१ ॥
अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।
कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥
श्री-जीवः (दुर्गम-सङ्गमिनी):
श्री-राधा-दामोदरौ जयतः ।
सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः ।
श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥
अथ श्रीमान् सोऽयं ग्रन्थ-कारः सकल-भागवत-लोक-हिताभिलाष-परवशतया प्रकाशितैः स्व-हृदय-दिव्य-कमल-कोष-विलासिभिः श्रीमद्-भागवत-रसैर् एव भक्ति-रसामृत-सिन्धु-नामानं ग्रन्थम् अपूर्व-रचनम् आचिन्वानस् तद्-वर्णयितव्यस्यैव च सर्वोत्तमतां निश्चिन्वानस् तद्-व्यञ्जनयैव निश्चिन्वानस् तद्-व्यञ्जनयैव मङ्गलम् आसञ्जयति । एवं सर्व एव ग्रन्थोऽयं मङ्गल-रूप इति च विज्ञापयति—अखिलेति । विधुः श्री-कृष्णो जयति सर्वोत्कर्षेण वर्तते । यद्यपि विधुः श्रीवत्स-लाञ्छन इति सामान्य-भगवद्-आविर्भाव-पर्यायस् तथापि विधुनोति खण्डयति सर्व-दुःखम् अतिक्रामति सर्वं चेति । यद् वा, विदधाति करोति सर्व-सुखं सर्वं चेति निरुक्तेः सर्यवसाने विचार्यमाणे तत्रैव विश्रान्तेः । असुराणाम् अपि मुक्ति-प्रदत्वेन स्व-वैभवातिक्रान्त-सर्वत्वेन परमापूर्व-स्व-प्रेम-महा-सुख-पर्यन्त-सुख-विस्तारकत्वेन स्वयं भगवत्त्वेन स्वयं भगवत्त्वेन च तस्यैव प्रसिद्धेः । अत एवामरेणापि तत्-प्राधान्येनैव तानि नामानि प्रोक्तानि—वसुदेवोऽस्य जनकः इत्य् आद्य् उक्तेः । एतद् एव सर्वं जयत्य् अर्थेन स्पष्टीकृतम् । सर्वोत्कर्षेण वृत्तिर् नाम तत् तद् एवेति । अत एव प्राकट्य-समय-मात्र-दृष्ट्या या लोकस्याप्रतीतिस् तस्या निरासकोऽयं वर्तमान-प्रयोगः । तथा च प्रमाणानि—विजय-रथ-कुटुम्ब इत्य् आदौ यम् इह निरीक्ष्य हता गताः स्व-रूपम् [भा।पु। १.९.३९] इति ।
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः । बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः ॥ [भा।पु।३.२.२१] इति । यस्याननं मकर-कुण्डल-चारु-कर्ण- भ्राजत्-कपोल-सुभगं सविलास-हासम् । नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो नार्यो नराश् च मुदिताः कुपिता निमेश् च ॥ [भा।पु। ९.२४.६५] इति । का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन सम्मोहिता ‘र्यपदवीं न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ [भा।पु। १०.२९.४०] इति । यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ [भा।पु। ३.२.१२] इति । एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ [भा।पु। १.३.२८] इति । जयति जन-निवासो देवकी-जन्म-वाद [भा।पु। १०.९०.४८] इत्य्-आदीनि श्री-भागवते ।
अथ तत्-तद्-उत्कर्ष-हेतुं स्वरूप-लक्षणम् आह—अखिला रसा वक्ष्यमाणाः शान्ताद्या द्वादश यस्मिन् तादृशम् अमृतं परमानन्द एव मूर्तिर् यस्य सः । आनन्द-मूर्तिम् उपगुह्य [भा।पु। १०.४१.२८] इति, त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते [भा।पु। १०.१४.२२] इति, मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य् आदि श्री-भागवतात् । तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसयेत् इति श्री-गोपाल-तापनीभ्यश् च । तत्रापि रस-विशेष-विशिष्ट-परिकर-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं दृश्यते । अत एवादि-रस-विशेष-विशिष्ट-सम्बन्धेन नितराम् । यथा—
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा।पु। १०.४४.१४]
त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् [भा।पु। १०.३२.१४], तत्रातिशुशुभे ताभिः [भा।पु। १०.३३.६] इत्य् आदि श्री-भागवते । तासु च गोपीषु मुख्या दश भविष्योत्तरे श्रूयन्ते—
गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।
विशाखा ध्यान-निष्ठिकेति पाठान्तरम् । तथेति दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । दशमीत्य् अप्य् एकं नाम वा । स्कान्द-प्रह्लाद-संहिता-द्वारका-माहात्म्ये च—ललितोवाच इत्य् आदौ मुख्यास्व् अष्टासु पूर्वोक्ताभोऽन्या ललिता-श्यामला-शैव्या-पद्मा-भद्राश् च श्रूयन्ते । पूर्वोक्तास् तु राधा-धन्या-विशाखाश् च । तद् एतद् अभिप्रेत्य तत्रापि मुख्य-मुख्याभिर् उत्तरोत्तर-वैशिष्ट्यं दर्शयितुम् अवर-मुख्ये द्वे तारका-पाली तावन् निष्कृष्य ताभ्यां वैशिष्ट्यम् आह—प्रसृमराभिः प्रसरण-शीलाभी रुचिभिः कान्तिभी रुद्धे वशीकृते तारका-पाली येन सः । पालिकेति तु सञ्जायां कन्-विधानात् । पालीति दीर्गान्तोऽपि क्वचिद् दृश्यते ।
अथ मध्यम-मुख्याभ्याम् आह—कलिते आत्म-सात्कृते श्यामा श्यामला ललिता च येन सः । अथ परम-मुख्ययाह राधायाः प्रेयान् अतिशयेन प्रीति-कर्ता—इगुपधज्ञाप्रीकिरः कः इति कर्तरि क-प्रत्यय-विधेः । अत एवास्या एवासाधारण्यम् आलोक्य पूर्ववद् युग्मत्वेनापि नेयं निर्दिष्टा । अतस् तस्या एव प्राधान्यं कार्त्तिक-माहात्म्ये उत्तर-खण्डे तत्-कुण्ड-प्रसङ्गे—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।
अत एव मात्स्य-स्कान्दादौ शक्तित्व-साधारण्येनाभिन्नतया गणनायाम् अपि तस्या एव वृन्दावने प्राधान्याभिप्रायेणाह—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा च बृहद्-गौतमीये तस्या एव मन्त्र-कथने—
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
ऋक्-परिशिष्ट-श्रुताव् अपि—राधया माधवो देवो माधवेनैव राधिका, विभ्राजन्ते जनेष्व् आ इति । अत एवाहुः—अनयाराधितो नूनम् [भा।पु। १०.३०.२८] इत्य् आदि ।
अथ श्लेषार्थ-व्याख्या—तत्रैक-श्लेषेणोपमां सूचयंस् तयार्थ-विशेषं पुष्णाति । सर्व-लौकिकातीतेऽपि तस्मिन् लौकिकार्थ-विशेषोपमा-द्वारा लोकानां बुद्धि-प्रवेशः स्याद् इति केनाप्य् अंशेनोपमेयम् । सर्व-तमस्-तापज-दुःख-शमकत्वेन सर्व-सुखदत्वेन च तत्र पूर्ववन् निरुक्ति-पर्यवसाने विचार्यमाणे राकापतेर् एव विधुत्वं मुख्यं पर्यवस्यतीति सर्वतः प्रभावात् पूर्णतमांशेन च । एवं सूर्यादीनां ताप-शमत्वादि नास्तीति नोपमान-योग्यता, ततो विधुः सर्वत उत्कर्षेण वर्तते इति लभ्यते । वर्तमान-प्रयोगांशस् तु प्रत्य्-ऋतु-राजम् एव तत्-तद्-रूपतयानुवृत्तेः । एवं विशेष्ये साम्यं दर्शयित्वा विशेषणेऽपि साम्यं दर्शयति—अखिलेत्य् आदिभिः । अखिलोऽखण्डो रस आस्वादो यत्र तादृशम् अमृतं पीयूषं, तद्-आत्मिकैव मूर्तिर् मण्डलं यस्य । अत्र शब्देन साम्यं रसनीयत्वांशेनार्थेनापि योज्यम् । तथा प्रसृमराभी रुचिभिः कान्तिभी रुद्धावृता तारकाणां पालिः श्रेणी येनेति पूर्ववन् निज-कान्ति-वशीकृत-कान्तिमती-गण-विराजमानत्वांशेनापि ज्ञेयम् । तथा—श्यामा तु वाल्गुलौ अप्रसूताङ्गनायां च तथा सोम-लतौषधौ । त्रिवृता-शारिवा-गुन्द्रा-निशा-कृष्णा-प्रियङ्गुषु इति विश्व-प्रकाशात् । कलितम् उरीकृतं श्यामाया रात्रेर् ललितं विलासो येनेति रात्रि-विलासित्वेनापि ज्ञेयम् । तथा राधायां विशाखा-नाम्न्यां तारायां प्रेयान् अधिक-प्रीतिमान् ऋतुराज-पूर्णिमायां तद्-अनुगामित्वात् इति तद्-अनुगति-मात्र-साध्य-स्व-वैभव-विज्ञत्वांशेनापि ज्ञेयम् । उपमानस्य चैतानि विशेषणान्य् उत्कर्ष-वाचकानि—सूर्यादेस् तादृश-मूर्तित्वाभावात् तारा-नाशन-क्रियत्वेन तत्-साहित्य-शोभित्वाभावात् सुख-विशेष-कर-रात्रि-विलासाभावात् तादृश-विज्ञत्वानभिव्यक्तेश् चेति ।
सिद्धान्त-रस-भावानां ध्वन्य्-अलङ्कारयोर् अपि । अनन्तत्वात् स्फुटत्वाच् च व्यज्यते दुर्गमं त्व् इह ॥ लिखनं सर्वम् एवास्मिन्न् आशङ्कानाशगर्भितम् । वृथात्व-शङ्कया त्व् अत्र नावध्येयम् अबुद्धिभिः ॥ ग्रन्थ-कृतां स्वारस्यात् कतिचित् पाठास् तु ये मया त्यक्ताः । नात्रानिष्ठं चिन्त्यं चिन्त्यं तेषाम् अभीष्टं हि ॥१॥
मुकुन्दः (अर्थ-रत्नाल्प-दीपिका):
लोकं गोप्यं सुमधुर-रसं स्वादयन् योऽवतीर्णो
धन्ये गौडे व्रज-पति-सुतः कृष्ण-चैतन्य-नामा ।
आचाण्डालात् सकल-जगति प्रेम-भक्तेः प्रदाता
कारुण्याब्धिर् वसतु हृदि स श्री-शचीनन्दनो मे ॥
श्री-राधिका-माधविका-वसन्तं व्रजाक्षि-पद्म-बन्धुम् ।
रसज्ञ-भक्तौघ-चकोर-चन्द्रं नमाम्य् अहं नन्द-तनुजम् ईश्वरम् ॥
दुर्गमं सुगमं तत्त्वं भवेद् यस्य प्रसादतः ।
राधा-कृष्ण-रसे मग्नं श्रीमद्-रूपं नमामि तम् ॥
रागानुगामि-भजनोल्लास-मानसानां
श्री-राधया सह सदा स्मरतां व्रजेन्दुम् ।
श्री-रूप-पाद-कमलाश्रित-चेतसां मे
चित्तं सतां मधुकरीयतु पाद-पद्मे ॥
अथ श्रीमद्-ग्रन्थकारः श्री-श्री-चैतन्य-देवस्य कृपया प्रकाशित-श्री-कृष्ण-रस-वर्णनात्मकतयात्यद्भुततमं भक्ति-रसामृत-सिन्धु-नामानं ग्रन्थं सर्व-भागवत-लोक-हिताभिलाष-परवशतया कुर्वन् प्रथमं तावत् स्वाभीप्सित-परिपूर्त्यै स्वेष्ट-देव-सङ्कीर्तन-रूपं मङ्गलम् आचरति । तेनैव च ग्रन्थार्थश् च सङ्क्षेपतो दर्शयति—अखिलेति । विधुः श्री-कृष्णो जयति—माया-शक्त्यानन्त-कोटि-ब्रह्माण्डानि, चिच्-छक्त्याख्य-स्वरूप-शक्त्या वैकुण्ठादि-महा-लीलाः स्वरूपेण प्राभव-वैभव-महावस्थाख्य-स्वांश-विलासान्, स्व-शक्त्यावेशेन पृथ्वादि-शक्त्यावेशावतारान् विदधाति करोति प्रकाशयतीति विधुर् इति विधु-शब्दस्यासङ्कोच-वृत्त्या तत्रैव पर्यवसानम् । तस्यैवावतारावतारावतारिनाम् अंशित्वाच् च । जयति इति पदेन—स्व-स्व-लोकेषु तत्-तत्-परिकर-सम्बन्धतो गुणान् दर्शयद्भ्यस् तत्-तद्-अवतारि-नायकेभ्य उत्कर्षेण द्वारकादौ मथुरादौ गोकुले पूर्णान् पूर्णतरान् पूर्णतमान् गुणान् क्रमेण प्रकाशयन् सदा विराजत इत्य् उक्तम् । नमस्कारश् चाक्षिप्तस् तं प्रति नतोऽस्मीति । तत्र स्वयं भगवत्-तत्त्व-सर्वावतारादि-कारणत्वयोः—
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [ब्र।सं। ५.१]
इत्य् आदि ब्रह्म-संहितादि-वचनानि प्रमाणम् । स्व-स्व-परिकरैर् गोकुलादिषु सदा विराजमानत्वे—
अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर् वनम् । यद् एष पुंसाम् ऋषभः श्रियः पतिः स्व-जन्मना चङ्क्रमणेन चाञ्चति ॥ [भा।पु। १.१०.२६] इत्य्-आदीनि वचनानि ।
ननु, गोकुल-मथुरादिषु बहु-विध-भक्तैर् एकः कह्तं सदा वर्तते । बाल्य-पौगण्ड-भाक्-किशोर-स्वरूपेषु कतमोऽयं प्रकाशस् तत्राह—अखिलेति । अखिलानां पञ्च-विधानां भक्तानां ये रसाः, शान्तः प्रीतिः प्रेयान् वत्सलो मधुरश् चेति पञ्च मुख्याः । हासोऽद्भुतो वीरः करुणो रदुरो भयानको बीभत्स इति सप्त गौणाः—एवं द्वादश-भेदास् त एव ह्लादिनी-शक्ति-वृत्ति-रूपत्वाद् अमृतः परमानन्दस् तद्-रूपा मूर्तिर् यस्य । सर्व-रसानां विषयत्वाद् आश्रयत्वाच् च तन्-मूर्तित्वं तस्य नाना-प्रकाशवत्त्वेन धर्मी किशोर एव सर्व-भक्त-सुख-हेतुर् इत्य् अर्थः । धर्मित्वेऽप्य् अस्यासमोर्ध्व-प्रेम-रूप-गुणायाः सुखार्थं चेष्टादीनि बोधयितुं—प्रसृमरेत्य् आदि-पद-त्रयम् । प्रसृमराभी रुचिभी रुद्धे वशीकृते तारका-पाली येन सः । तारका-पाल्योः कथनं श्री-राधाया अन्य-विपक्ष-तटस्थ-व्रज-देवीनाम् उपलक्षणम् । राधया सह स्वच्छन्द-विहाराय रसोपकरण-भूता वशीकृता इत्य् अर्थः । कलिते पूर्वोक्ताभ्यां परम-प्रेमास्पदतया गृहीते श्यामा-ललिते येन सः । श्यामायाः कथनं श्री-राधाय अन्य-सुहृत्-पक्षाणाम् उपलक्षणम् । ललितायास् तु तद्-अन्य-सखीनाम् । तत्रापि सुहृत्-पक्षाणाम् सखीनां कृष्णे प्रेमाधिक्याल् ललिताया उत्तरोत्रोक्तिः । प्रेयान् राधायाम् अतिशयेन प्रीति-कर्ता । अत एवास्या असाधारण्यम् आलोक्य पूर्ववद् युग्मत्वेन नेयं निर्दिष्टा । अस्याः सम्बन्धे कृष्णस्य सौन्दर्यादि-गुणानां परमोत्कर्षश् च बोधितः । पूर्ण-प्रेम्णैव पूर्ण-प्रकाशौचित्यात् । श्री-राधायाः सर्व-व्रज-देवीभ्यः प्रेम-रूप-गुणैर् आधिक्यं यथोज्ज्वल-नीलमणौ—महा-भाव-स्वरूपेयं गुणैर् अतिगरीयसी [उ।नी। ४.२] इति । पाद्मे च—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।
अत एव मात्स्ये—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा च बृहद्-गौतमीये तस्या एव मन्त्र-कथने—
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
तत्-सम्बन्धे कृष्ण-गुणोत्कर्षो, यथा ऋक्-परिशिष्ट-श्रुतौ—राधया माधवो देवो माधवेनैव राधिका, विभ्राजन्ते जनेष्व् आ इति । अत्र चन्द्र-वर्णन-रूपो द्वितीयोऽर्थोऽप्राकरणिकत्वाद् व्यज्यः । तत्-पक्षे व्याख्या—विधुनोति खण्डयति तापज-दुःखम् इति निरुक्तेर् असङ्कोचेन पूर्ण-चन्द्रो लभ्यते । जयति तापात्मकत्वात् सूर्यादेर् उत्कर्षेण वर्तते । प्रतिपूर्णिमायां तत्-तद्-रूपतया प्रकाशाद् वर्तमान-प्रयोगः । अखिल-रसो मधुराद्या यस्मिंस् तद्-अमृतमयी मूर्तिर् मण्डलं यस्य सः । तमस्-तापज-दुःख-शान्ति-पूर्वक-सर्व-जन-सुख-हेतुर् इत्य् अर्थः । तथा प्रसृमराभी रुचिभिर् ज्योत्स्नाभी रुद्धा आवृता तारकाणां पालिर् येन । तथा कलितम् प्रकटितं श्यामाया रात्रेर् ललितं विलासो येन । तथा राधा-प्रेयान् राधायाः विशाखा-नाम्न्यां तारायां प्रेयान् अधिक-प्रीतिमान् इति । ऋतुराज-पूर्णिमायां तद्-अनुगामित्वाच् चन्द्रस्य परमोत्कर्षश् च दर्शितः । अत्रोपमालङ्कारः शब्द-शक्ति-मूलानुरणन-रूप-ध्वनिः ।
यत्-प्रसादं विनात्रत्या अर्थाः सर्वे सुदुर्गमाः ।
स्वयं स्फोरयतां प्रीतः श्रीमद्-रूपः स तान् मयि ॥१॥
विश्वनाथः (भक्ति-सार-प्रदर्शिनी):
श्री-कृष्णाय नमः ।
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥
श्री-चैतन्य-मुखोद्गीर्णा हरे-कृष्णेति वर्णकाः ।
मज्जयन्तो जगत् प्रेम्णि विजयन्तां तद्-आह्वयाः ॥
अथ सोऽयं निखिल-सहृदय-हृद्य-समुदय-हृदयालङ्कारः सकल-कवि-मण्डलाखण्डलो भगवन्-निर्देश-परम-मङ्गल-सुधा-धारा-परम्परया निर्मीयमाणे प्रत्यूह-तापानुद्गमकेऽप्य् अस्मिन् ग्रन्थे सदाचार-सम्माननार्थम् अवश्य-कर्तव्य-मङ्गलाचरणम् अप्य् अनुषञ्जयति—अखिलेति । विधुः—श्री-कृष्णो जयति । सर्वोत्कर्षेण वर्तते । यद्यपि विधुः श्री-वत्स-लाञ्छन इत्य् अभिधानात् विधु-शब्दः सर्व-भगवत्-पर एव, तथापि राधा-प्रेयान् इत्य् आद्य् असाधारण-विशेषणैः श्री-कृष्णम् एव प्रतिपादयतीति ज्ञेयम् । तद्-उत्कर्ष-हेतुं स्वरूप-लक्षणम् आह—अखिला रसा वक्ष्यमाणाः शान्ताद्या द्वादश यस्मिन् तादृशम् अमृतं परमानन्द एव मूर्तिर् यस्य सः । तत्रापि रस-विशेष-विशिष्ट-परिकर-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं दृश्यते । अत एवादि-रस-विशेष-विशिष्ट-परिकर-सम्बन्धेन नितराम् । यथा दशमे—
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा।पु। १०.४४.१४] इति । त्रैलोक्य-लक्ष्म्यैक-पदं वपुर् दधत् [भा।पु। १०.३२.१४] इत्य् आदि । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३३.६] इत्य् आदि ।
तासु गोपीषु मुख्या दश भवैष्योत्तरे श्रूयते—
गोपाली पालिका धन्या विशाखान्या धनिष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।
तथेति दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । दशमीत्य् एकं नाम वा । स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये च—ललितोवाच इत्य् आदौ मुख्यास्व् अष्टसु पूर्वोक्ताभ्योऽन्या ललिता-श्यामला-शैव्या-पद्मा-भद्राश् च श्रूयन्ते । पूर्वोक्तास् तु राधा-धन्या-विशाखाश् च । तद् एतद् अभिप्रेत्य तत्रापि मुख्यामुख्याभिर् उत्तरोत्तर-वैशिष्ट्यं दर्शयितुम् अवर-मुख्यात्वं तावन् निष्कृष्य ताभ्यां वैशिष्ट्यम् आह—प्रसृमराभिः प्रसरण-शीलाभी रुचिभिः कान्तिभी रुद्धे वशीकृते तारका-पाली-नाम्न्यौ यूथेश्वर्यौ येन सः ।
अथ मध्यम-मुख्याभ्याम् आह—कलिते स्वीकृते श्यामा श्यामा-ललिते येन सः ।
अथ परम-मुख्याया वैशिष्ट्यम् आह—राधायाः प्रेयान् अतिशयेन प्रीति-कर्ता । इगुपधज्ञाप्रीकिरः कः इति कर्तरि क-प्रत्यय-विधेः । अत एवास्या एवासाधारण्यम् आलोक्य पूर्ववद् युग्मत्वेनापि नेयं निर्दिष्टा । अतस् तस्या एव प्राधान्यं पाद्मोत्तर-खण्डे कार्त्तिक-माहात्म्ये तत्-कुण्ड-प्रसङ्गे—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।
अत एव मात्स्य-पुराणे शक्तित्व-साधारण्येनाभिन्नतया गणनायाम् अपि तस्या एव वृन्दावने प्राधान्याभिप्रायेणाह—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा च बृहद्-गौतमीये तस्या एव मन्त्र-कथने—
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
ऋक्-परिशिष्ट-श्रुताव् अपि—राधया माधवो देवो माधवेनैव राधिका, विभ्राजन्ते जनेष्व् आ इति । अतएव दशमे गोप्य आहुः—अनयाराधितो नूनं भगवान् हरिर् ईश्वरः [भा।पु। १०.३०.२८] इति । सर्वलौकिकालौकिकातीतोऽपि तस्मिन् लौकिकार्थ-विशेषोपमा-द्वारा लोकानां बुद्धि-प्रवेशः स्याद् इति केनाप्य् अंशेनोपमानम् आह ।
पक्षे, विधुश् चन्द्रो जयति सर्वोत्कर्षेण वर्तते । एवं विशेष्ये साम्यं दर्शयित्वा विशेषणेऽपि साम्यं दर्शयति । अखिलोऽखण्डो रस आस्वादो यत्र तादृशम् अमृतं पीयूषं, तद्-आत्मिकैव मूर्तिर् यस्य । तारका-पालीः तारका-श्रेणी । अत्र शब्द-साम्यं रसनीयत्वांशेना-र्थेनापि योज्यम् । तथा प्रसृमराभी रुचिभिः कान्तिभी रुद्धावृता तारकाणां पालिर् येन स इति पूर्ववन् निज-कान्तिमत्-तारा-गण-विराजमानत्वांशेनार्थेनापि ज्ञेयम् । विश्व-प्रकाशे श्यामा-शब्दो रात्रि-पर्यायः । कलितम् उरीकृतं श्यामाया रात्रेर् ललितं विलासो येन सः । इति रात्रि-विलासित्वेनापि साम्यं ज्ञेयम् । तथा राधायां विशाखा-नाम्न्यां तारायां प्रेयान् अतिप्रीतिमान् ॥१॥
**सिद्धान्त-सरस्वती : **अखिल-रसामृत-मूर्तिः अखिलाः शान्ताद्याः पञ्च मुख्य-रसाः हास्याद्याः सप्त गुण-रसाश् च यस्मिन् तद् एव अमृतं परमानन्द एव मूर्तिः यस्य सः । प्रसृमर-रुचि-रुद्ध-तारका-पालिः प्रसृमराभिः प्रसरण-शीलाभिः रुचिभिः कान्तिभिः रुद्धे वशीकृते तारका-पाली येन सः । कलित-श्याम-ललितः कलिते आत्म-सात्कृते श्यामा च ललिता च येन सः । राधा-प्रेयान् राधायाः प्रेयान् प्रियतमः विधुः कृष्ण-चन्द्रो जयति (अनुभाष्य २.८.१४१) ॥१॥
—ओ)०(ओ—
॥ १.१.२ ॥
हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि ।
तस्य हरेः पद-कमलं वन्दे चैतन्य-देवस्य ॥
श्री-जीवः: अथ निज-भक्ति-प्रवर्तनेन कलि-युग-पावनावतारं विशेषतः स्वाश्रय-चरण-कमलं श्री-श्री-चैतन्य-देवं भगवन्तं नमस्करोति—हृदीति । हृदि यस्य प्रेरणया प्रवर्तितोऽस्मिन् सन्दर्भ इति शेषः । वराकेति स्वयं दैन्योक्तं, सरस्वती तु तद्-असहमाना वरं श्रेष्ठम् आ सम्यक् कायति शब्दायत इति । तद्-द्वारेणैव तं स्तावयति मत्-कवितायाम् अपि तत्-प्रेरणयैवात्र प्रवृत्तिः स्यान् नायथेत्य् अपेर् अर्थः ॥२॥
मुकुन्दः: अतिदुर्बोध-भक्ति-रस-निरूपणे अयोग्य-मानी श्री-कृष्ण-चैतन्यस्य कृपया तत् सम्भावयन् तं च नन्द-नन्दतवेन बोधयन् भूयोऽपि मङ्गलम् आचरति—हृदीति । तस्य हरेः श्री-कृष्णस्य पद-कमलं वन्दे । तस्य कस्य ? यस्य हृदि प्रेरणयात्र रस-वर्णने प्रवृत्तिः । अत्रेत्य् अर्थाद् अध्याहार्यम् । कीदृग् अप्य् अहं वराक-रूपोऽपि वराक-स्वभावेऽपि—रूपं स्वभाव-सौन्दर्ये इति विश्वः । सादृश्यार्थे रूप-प्रत्ययः—वराक-सदृशोऽपि । पक्षे, वराकश् चासौ रूपो रूपाख्यः स इति स्व-नाम्नः स्व-ग्रन्थे प्रकटनम् । वराकस्यापि मम ब्रह्म-शिवादि-दुर्गमेऽप्य् अर्थे नियोजकत्वेनेश्वरस्यैवैतत्-कर्तृत्वम् । न तु ममेति कवेर् विनयेन भगवद्-ऐश्वर्यस्य सूचिकोक्तिः ।
ननु जयतीत्य् अनेन कृष्णस् त्वया वन्दितोऽस्ति, पुनः किमर्थं वन्दनम् इति चेत् तत्राह—चैतन्य देवस्य । योऽसौ राधा-प्रेयान् श्री-कृष्ण इह खलु त्रिविध-तापैस् तापितान् जनान् भजन-गन्धम् अप्य् अजानतो महा-कृपालु-मौलित्वात् ताप-शमन-पूर्वकं दास्य-सख्यादि-भक्तौ स्वयम् आचरणादिना प्रवर्तनेच्छुस् तत्र प्रवृत्तेभ्यस् तत्-तद्-भक्ति-रस-महामृत-लहरी-वितरणाय राधादि-निज-मधुर-रस-परिवाराणां महा-भावाढ्यानां प्रेम-स्नेहादिना विवशस् तेषां महा-भावादि-माधुर्यं कीदृशम् इति तद्-आश्रयत्वेन तद् आस्वादयितुं च तत्-तत्-स्वभाविक-भावामृतोच्छलित-स्वान्त-सिन्धुभिर् नित्य-निज-परिवारैः सह स्वयं श्री-कृष्ण-चैतन्य-रूपेण प्रकटीबभूव । तस्येति भगवत्-प्रतिपादक-पुराणादि-सारोद्धारात्मकोऽयं सन्दर्भ इति चागतम् ।
ननु, श्री-कृष्ण-चैतन्यस्य श्री-कृष्णत्वे किं प्रमाणम् इति चेत्, श्री-भगवद्-गीता-वचनं तावद् अवधार्यताम्—धर्म-संस्थापनार्थाय सम्भवामि युगे युगे [गीता ४.८] इति । धर्मश् च तत्-प्रवर्तित-नाम-सङ्कीर्तन-रूप एव मुख्यः कलौ । यद् उक्तं विष्णु-पुराणे—
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् । यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ [वि।पु। ६.२.१७] इति ।
एकादशे कलि-युगोपास्य-प्रसङ्गे स्पष्टम् एव तस्य भगवत्त्वं निरूपितम् । तद् यथा—
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ [भा।पु। ११.५.३२] इति ।
अस्यार्थः—त्विषा कान्त्या योऽकृष्णो गौरस् तं सुमेधसो विवेकिनः कलौ यजन्ति उपासते । कैर् यजन्ति ? यज्ञैः पूजा-सम्भारैः । किम्भूतैर् यज्ञैः ? सङ्कीर्तन-प्रायैः । सङ्कीर्तनं बहुभिर् मिलित्वात्य् उच्चैः श्री-कृष्ण-गानम्, तत्-प्रधानैः । कथम्भूतं तम्? कृष्ण-वर्णं, कृष्णं कृष्णेति नाम वा वर्णयति परम-प्रेम-विवशतया गायति । परम-कारुणिकतयोपदिशति चेति तथा तम् । पुनः किम्भूतम् ? साङ्गोपाङ्गास्त्र-पार्षदम् । अङ्गं श्री-नित्यानन्दः । उपाङ्गं श्रीमद्-अद्वैताचार्यः । अङ्गं चोपाङ्गं च अङोपाङ्गम् । तद्-अस्त्राणीव महा-प्रभाव-मयत्वात्, सुदर्शनाद्य्-अस्त्र-निग्राह्य-दैत्य-तुल्य-बहिर्मुखानां तद्-दर्शनाद् एव भक्तौ प्रवृत्त्या असुर-स्वभाव-परित्यागात् । अङ्गोपाङ्गास्त्राणि च पार्षदाश् च श्री-गदाधर-पण्डित-प्रभृतयोऽन्तरङ्ग-शक्ति-रूपाः । श्रीनिवास-प्रभृतयो भक्त—रूपाश् चाङ्गोपाङ्गास्त्र-पार्षदास् तैः सह वर्तमानम् । अङ्गोपाङ्गस्यास्त्रवन् निरूपणम्—पार्षदानां दर्शनाद् भक्ति-प्रवृत्ति-पूर्वकासुर-स्वभाव-परित्यागे सत्य् अपि तस्याधिक्यार्थम् । स्वयं भगवत्त्वम् अपि सूचयत्य् एतद्-विशेषणम् ।
अस्य गौरत्वं च—
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ‘नुयुगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा।पु। १०.८.१३]
इति गर्ग-वचनेपारिशेष्य-प्रमाण-लब्धम् । तथा हि, इदानीं कृष्णतां गतः इत्य् अत्रेदानीम् इत्य् अनेन द्वापरस्योक्तत्वात्—द्वापरे भगवाञ् श्यामः [भा।पु। ११.५.२७] विधानाच् च कृष्णस्य द्वापरोपास्यत्वम् उक्तम् । शुक्ल-रक्तयोः सत्य-त्रेतोपास्यत्वेनैकादश एव वर्णितत्वाच् च कलौ श्री-गौरः परिशिष्यते । अतो वैशम्पायनीय-सहस्र-नाम-स्तोत्रे—
सुवर्ण-वर्णो हेमाङ्गो वराङ्गश् चाङ्गनाङ्गदी । तथा सन्न्यास-कृत् समः शान्तो निष्ठा-शान्ति-परायणः ॥ इति ।
नन्व् आसन्न् इत्य् अनेन पीतस्यातीतत्व-निर्देशात् कथं भाविनो गौरस्य ग्रहणम् इति चेत् प्राचीन-गौरापेक्षयातीतत्व-निर्देश इति ब्रूमः । नह्य् अस्मिन्न् एव कलौ श्री-गौरावतारः, किन्तु प्रतिकल्पेऽष्टविंशच्-चतुर्युग-द्वापरान्ते श्री-कृष्णआवतारवत्-तत्-पश्चात् कलौ श्री-गौरावतारस्य निश्चयात् ।
नन्व् एतैर् वचनैर् युगावतारत्वम् अस्यायातम् । कथं श्री-कृष्णः स्वयम् अवतीर्ण इति चेत्, द्वापरोपास्यस्य श्यामस्य यशोदानन्दनेऽन्तर्भाव इव कल्य्-उपास्यस्य कृष्ण-वर्ण-युगावतारस्य श्री-शचीनन्दनेऽन्तर्भावोऽङ्गोपाङ्गास्त्र-पार्षदैः सहावतारात् ।
ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः । सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥ [भ।र।सि। १.१.३६] भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितोऽन्यत्र सेविनाम् । भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥ [भ।र।सि। १.२.२२२]
इत्य् आदि-वचनेभ्यो यस्याः साधन-साहस्र-करणेऽप्य् आप्राप्ति-श्रवणं तां, तस्याः स्व-वश्य-कारिकाया रति-लक्षणायाः, तस्या अपि परमोत्कर्ष-रूपायाः प्रेम-लक्षणायाश् च भक्ते जगाइ-माधाइ-प्रभृति-महा-पातकेभ्यो वितरणात् । मुनीनाम् अपि मनसोऽप्य् अगोचरस्य श्री-कृष्णावतार-रहस्यस्य प्रकाशनात् । विद्वद्-अनुभव-सिद्धत्वाच् च ।
अथ विद्वद्-अनुभवः । तत्र ग्रन्थ-कृतां स यथा—
अपारं कस्यापि प्रणयि-जन-वृन्दस्य कुतुकी रस-स्तोमं हृत्वा मधुरम् उपभोक्तुं कम् अपि यः । रुचिं स्वाम् आवव्रे द्युतिम् इह तदीयां प्रकटयन् स देवश् चैतन्याकृतिर् अतितरां नः कृपयतु ॥
परम-विद्वच्-छिरोमणीनां श्री-सार्वभौम-भट्टाचार्याणां—कालान् नष्टं भक्ति योगम् इत्य् आदि ।
कृष्णो देवः कलि-युग-भवं लोकम् आलोक्य सर्वं पापासक्तं समजनि कृपा-सिन्धु-चैतन्य-मूर्तिः । तस्मिन् येषां न भवति सदा कृष्ण-बुद्धिर् नराणां धिक् तान् धिक् तान् धिग् इति धिग् इति व्याहरेत् किं मृदङ्गः ॥ इति च तेषाम् एव ।
श्री-रघुनाथ-दास-गोस्वामिनां, यथा—
शची-सूनुं नन्दीश्वर-पति-सुतत्वे गुरु-वरं मुकुन्द-प्रेष्ठत्वे स्मर परम् अजस्रं ननु मनः ॥ [मनः-शिक्षा २] इति ।
श्री-जीव-गोस्वामिनां, यथा—
अन्तः कृष्णं बहिर् गौरं दर्शिताङादि-वैभवम् । कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः ॥ इति ।
श्री-प्रबोधानन्द-सरस्वतीनां, यथा—
वन्दे श्री-कृष्ण-चैतन्यं गौरं कृष्णम् अपि स्वयम् । यो राधा-भाव-संलुब्धः स्वभावं नितरां जहौ ॥ इत्य् आदि सहस्रम् ।
ननु तस्य श्री-कृष्णत्वे—
प्रत्यक्ष-रूप-धृग् देवो दृश्यते न कलौ हरिः । कृतादिष्व् एव तेनासौ त्रियुगः परिपठ्यते ॥ कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् । अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥
इति त्रियुग-नाम-व्याख्यातृ-विष्णु-धर्म-वचनतस् तस्य कलौ प्रत्यक्षता विरुध्येतेति चेन्, न । यत इदम् एव प्रत्युत तस्य साक्षात् श्री-कृष्णत्वे लिङ्गं निरतिशयैश्वर्येण मर्यादाम् अतिक्रम्य श्री-कृष्णस्य कलि-प्रथमेऽवस्थानवद् अस्यापि तथात्वेनैव कलावतरण-सम्भवाद् इति ॥२॥
**विश्वनाथः- **अथ निज-भक्ति-प्रवर्तनेन कलि-युग-पावनावतारं विशेषतः स्वाश्रय-चरण-कमलं श्री-श्री-चैतन्य-देवं भगवन्तं नमस्करोति—हृदीति । हृदि विषये यस्य प्रेरणया प्रवर्तित इत्य् अस्मिन् ग्रन्थ इति शेषः । वराकेति स्वयं दैन्येनोक्तं, वस्तुतस् तु वरं श्रेष्ठम् आ सम्यक् कायते शब्दायत इति तम् एव स्तावयति इत्य् अर्थः । मत्-कवितायाम् अपि तत्-प्रेरणयैवात्र प्रवृत्तिः स्यान् नायथेत्य् अपेर् अर्थः ॥२॥
सिद्धान्त-सरस्वती : निज-भगवत्-सेवा-प्रवर्तकं स्वाश्रय-चरण-कमलं भगवन्तं गौर-हरिं नमस्करोति—अहं वराक-रूपः क्षुद्र-दीन-रूपः । स्वयं गोस्वामि-कुल-चूडामणेर् अपि अतिदैन्य-वशाद् एवेयम् उक्तिः । अपि यस्य कर्तृ-भूतस्य गौरस्य हृदि मनसि प्रेरणया हृद्-विषयानुज्ञया प्रवर्तितः प्रेरितः । तस्य चैतन्य-देवस्य हरेः गौर-हरेः कृष्ण-चैतन्यस्य पद-कमलं चरणारविन्दं अहं वन्दे (अनुभाष्य २.१९.१३४) ॥
—ओ)०(ओ—
॥ १.१.३ ॥
विश्राम-मन्दिरतया तस्य सनातन-तनोर् मद्-ईशस्य ।
भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय ॥
श्री-जीवः: अथ निजेष्ट-देवावतारत्वेन निज-गुरुं स्तुवन् प्रार्थयते—विश्रामेति । भक्ति-रस-रूपस्यामृतस्य सिन्धुर् इवेति तन्-नामायं ग्रन्थस्य श्री-कृष्णाख्यस्य मद्-ईशस्य सदा स्वेनैव रूपेण स्थितस्यैव प्रकाशित-नाना-रूप-तनोर् या सनातन-नाम्नी तनुस् तस्या विश्राम-मन्दिरतया तत्-तुल्यतयाङ्गीकारेणेत्य् अर्थः । अन्यस्या अपि नारायणाख्यायाः सदा प्रसिद्ध-समानार्थ-सनातन-तनोः सिन्धुर् विश्राम-मन्दिरं भवतीति ॥३॥
मुकुन्दः: अथास्य ग्रन्थस्य श्री-कृष्णस्य प्रमोद-हेतुतां श्लेषेण सनातन-नाम्नो निज-गुरोश् च ताम् अर्थात् तौ प्रार्थयते—विश्रामेति । भक्ति-रसामृत-सिन्धुस् तन्-नामायं ग्रन्थः । तस्य श्री-कृष्णाख्यस्य मद्-ईशस्य विश्राम-मन्दिरतया प्रमोदाय भवतु, मद्-ईशो मन्दिरवद् विश्राम-सुखम् अत्राङ्गीकरोत्व् इत्य् अर्थः । अन्योऽपि सिन्धुर् भगवतो विश्राम-मन्दिरं भवतीति । किन्तु तस्य सनातन-तनोः सनातनी नित्या तनुः श्री-विग्रहौ यस्य । श्लेष-पक्षे—सनातन-नामा तनुर् यस्य, तस्य भक्ति-वैराग्यादि-गुणैः प्रसिद्धस्य मत्-प्रभोः ॥३॥
**विश्वनाथः- **अथ निजेष्ट-देवावतारत्वेन निज-गुरुं स्तुवन् प्रार्थयते—विश्रामेति । अयं भक्ति-रसामृत-सिन्धुस् तस्य मद्-ईशस्य श्री-कृष्णस्य विश्राम-मन्दिरतया सदा प्रमोदाय भवतु । समुद्रस्य तद्-विश्राम-मन्दिरत्वेन प्रसिद्धेः । कथम्भूतस्य नित्य-तनोः ? पक्षे सनातन-नाम्नी तनुर् यस्य तस्य मद्-ईशस्य ॥३॥
—ओ)०(ओ—
॥ १.१.४ ॥
भक्ति-रसामृत-सिन्धौ चरतः परिभूत-काल-जाल-भियः ।
भक्त-मकरान् अशीलित-मुक्ति-नदीकान् नमसामि ॥
श्री-जीवः: तद् एवं नाम-ग्राहं तं वन्दित्वा स्वाभीष्टानन्यान् अपि सामान्यतः सद्-भक्तान् वन्दते—भक्त्-रसेति । भक्ता एव मकरा मीन-राजाख्या जल-चरास् तान् नमस्यामि । मकरत्वेन रूपके सादृश्य-त्रयम् आह—भक्ति-रस एवामृत-सिन्धुर् नाना-विध-मुक्ति-नदी-नामाश्रयः परम-परमानन्दस् तस्मिन् चरतो विहरतोऽतो न शीलिता नादृता मुक्तिर् एव नदी तद्-रूपतया निरूपितं जन्म-मरणादि-बन्ध-च्छेदकम्म् अप्य् अनवच्छिन्न-प्रवाहम् अपि ब्रह्म-कैवल्यादि-सुखं यैस् तान् । अनादृत्येत्य् एव वा पाठः । अत एव परिभूतं जन्म-मरणादि-बन्ध-दुःख-परम्परा-हेतोः काल-रूपाज् जालाद् भयं यैस् तान् । नैषां वयं न च वयं प्रभवाम दण्डे [भा।पु। ६.३.२७] इत्य् उक्तेः । सालोक्य-सार्ष्टि-सारूप्य [भा।पु। ३.२९.११] इत्य् आदेः मत्-सेवया प्रतीतं ते [भा।पु। ९.४.६७] इत्य् आदेश् च॥४॥
मुकुन्दः: अथ—
अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः । सिद्धाः स्युः सन्तत-प्रेम-सौख्यास्वाद-परायणाः ॥ [भा।पु। १.२.२८०]
इति लक्षणान् सिद्ध-भक्तान् नमस्यति—भक्ति-रसेति । भक्ता एव मकरा मीन-राजाख्याः सिन्धु-चरास् तान् । मकरत्वेन रूपकेन सादृश्य-त्रयम् आह—भक्ति-रस एवामृत-सिन्धुर् नाना-विध-मुक्ति-नदीनाम् आश्रयः परमानन्दस् तस्मिन् चरतो विहरतः । अनेन विशेषणेन सन्तत-प्रेम-सौख्यास्वाद-परायणत्वम् उक्तम् । तत्र विहरणाद् एव परिभूत-काल-रूपाज् जालाद् भीर् भयं यैस् तान् । अनेनाविज्ञाताखिल-क्लेशत्वम् । पूर्व-हेतोर् एव न शीलिता नादृता मुक्ति-नदीस् तान् अशीलित-मुक्ति-नदीकान् श्री-कृष्ण-सेवा-निर्वृत्या मुक्ति-स्पृहा नास्तीत्य् अर्थः । अनेन सदा कृष्णाश्रितत्वम् ॥४॥
**विश्वनाथः- **तद् एवं नाम-ग्राहं तं वन्दित्वा स्वाभीष्टानन्यान् अपि सामान्यतः सद्-भक्तान् वन्दते—भक्त्-रसेति । भक्ता एव मकरा मीन-राजाख्या जल-चरास् तान् नमस्यामि । मकरत्वेन रूपकेन सादृश्य-त्रयम् आह—भक्ति-रस एवामृत-सिन्धुर् नाना-विध-मुक्ति-नदीनाम् आश्रयः परम-परमानन्द-स्वरूपस् तस्मिन् चरतो विहरतः । अतएव न शीलिता नादृता मुक्ति-रूपा नदी यैस् तान् । पूर्व-हेतोर् एव परिभूतं तिरस्कृतं जन्म-मरणादि-बन्ध-दुःख-परम्परा-हेतु-भूतात् काल-रूपाज् जालाद् भीर् भयं यैस् तान् ॥४॥
—ओ)०(ओ—
॥ १.१.५ ॥
मीमांसक-बडवाग्नेः कठिनाम् अपि कुण्ठयन्न् असौ जिह्वाम् ।
स्फुरतु सनातन सुचिरं तव भक्ति-रसामृताम्भोधिः ॥
श्री-जीवः: अथ निज-ग्रन्थस्य विरोधि-कृत-पराभवाभावकरीं सदा स्फूर्तिं श्री-गुरु-चरणान् प्रार्थयते—मीमांसकेति । मीमांसको द्विविधः—कर्म-ज्ञान-विचार-भेदेन । बडवाग्नेर् जिह्वा ज्वाला तद्-भेदेनैवाग्नेः सप्त-जिह्वत्वेन प्रसिद्धेः । तां यथा कुण्ठयन्न् अम्भोधिर् वर्तते, तथायम् अपि मीमांसकानां वचन-शक्तिम् इत्य् अर्थः । तत्-कुण्ठनातिशय-विवक्षायाम् एव तात्पर्यात् । उभयत्रापि तदीय-रस-स्वाभाव्याद् इति भावः । अथवान्याभोधितो विलक्षणत्वम् अत्रोक्तम् । तद् एवम् एतत्-पद्य-त्रयेण सिन्धु-रूपकत्वं त्रिधापि स्थापितम् । सिन्धाव् अन्यत्र बडवाग्नेः स्वाभाविकी स्थितिः । अत्र तु मीमांसकस्य यथा कथञ्चिद् आगन्तुकी स्याद् इत्य् आशङ्क्य तद् एव प्रार्थितम् ॥५॥
मुकुन्दः: अथ निज-ग्रन्थस्य विरोधि-कृत-प्रतिबन्ध-नाश-पूर्विकां बहु-काल-स्फूर्तिं श्री-कृष्ण-गुरू प्रार्थयते—मीमांसकेति । पूर्वोत्तर-भेदेन मीमांसको द्विविधः । यथाम्भोधिर् बाडवाग्नेर् ज्वालात्मिकां जिह्वां कठिनाम् अमृद्वीम् अपि स्वस्य रस-स्वभावेन कुण्ठयन् सुचिरं स्फुरति, तथायम् अपि मीमांसकानां तां कुण्ठयन् पूर्व-पक्षासमर्थां कुर्वन् स्फुरतु विराजतां—तत्-कृपयैव भवत्व् इत्य् अर्थः । गुरु-पक्षे तु रस्य-भावत्वेन तवेति सम्बन्धः ॥५॥
**विश्वनाथः- **अथ निज-ग्रन्थस्य विरोधि-कृत-पराभवाभाव-करीं सदा स्फूर्तिं प्रार्थयते—मीमांसक इति । हे सनातन ! तव भक्ति-रसामृताम्भोधिः सुचिरं मयि स्फुरतु । किं कुर्वन् ? मीमांसक-रूप-बडवाग्नेर् जिह्वा ज्वाला तत्-तद्-भेदेनैवाग्नेः सप्त-जिह्वत्वेन प्रसिद्धेः । तां यथा कुण्ठयन्न् अम्भोधिर् वर्तते, तथायम् अपि मीमांसकानां वचन-शक्तिम् इत्य् अर्थः ॥५॥
—ओ)०(ओ—
॥ १.१.६ ॥
भक्ति-रसस्य प्रस्तुतिर् अखिल-जगङ्-मङ्गल-प्रसङ्गस्य ।
अज्ञेनापि मयास्य क्रियते सुहृदाम् प्रमोदाय ॥
श्री-जीवः: मम पुनर् अनुकूलानां प्रतिकूलानां च पण्डितानां समाधाने न शक्तिः । किन्त्व् एतद्-अर्थम् एवेदं क्रियत इत्य् आह भक्ति-रसस्येति । अज्ञेनेति पूर्ववद् दैन्येऽपि न विद्यते ज्ञो यस्मात् तेनेति ज्ञेयम् । अपिर् अत्र स्वतः-प्रयोजनाभावं व्यञ्जयति ॥६॥
मुकुन्दः: किम्-अर्थम् एतादृश आग्रह इति चेत् तत्र भक्ति-रस-तत्पराणां निरुपाधि-हित-कर्तॄणां प्रीतयेऽस्यारम्भः क्रियते । प्रसङ्गात् सर्व-लोक-मङ्गलं च स्याद् इत्य् आह—भक्ति-रसस्येति । निज-प्रौढिं वारयितुं—हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि इति स्मारयति—अज्ञेनापीति ॥६॥
**विश्वनाथः- **मम पुनर् अनुकूल-प्रतिकूलानां च पण्डितानां समाधाने न शक्तिः । किन्तु सुहृदां प्रमोदार्थम् एव क्रियत इत्य् आह भक्ति-रसस्येति । अखिल-जगन्-मङ्गलस्य श्री-कृष्णस्य प्रसङ्गो यत्र तथाविधस्य भक्ति-रसस्य प्रस्तुतिर् मया क्रियते । अज्ञेनेति पूर्ववद् दैन्येऽपि न विद्यते ज्ञो यस्मात् तेनेति ॥६॥
—ओ)०(ओ—
**॥ १.१.७ ॥
एतस्य भगवद्-भक्ति-रसामृत-पयोनिधेः ।
चत्वारह् खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥
श्री-जीवः, विश्वनाथः **: अथ ग्रन्थम् आरब्धुं तत्-परिपाटीं दर्शयति—एतस्येति चतुर्भिः॥७॥
मुकुन्दः: ग्रन्थस्य सिन्धु-सदृशीम् अनुक्रमणिकां दर्शयति—एतस्येत्य् आदि त्रिभिः ॥७॥
—ओ)०(ओ—
**॥ १.१.८ ॥
तत्र पूर्वे विभागेऽस्मिन् भक्ति-भेद-निरूपके ।
अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥
श्री-जीवः, विश्वनाथः **: न व्याख्यातम्।
मुकुन्दः: तत्र चतुर्षु विभागेषु मध्ये पूर्वे प्रथमे ॥८॥
—ओ)०(ओ—
**॥ १.१.९ ॥
आद्या सामान्य-भक्त्य्-आढ्या द्वितीया साधनान्विता ।
भावाश्रिता तृतीया च तुर्या प्रेम-निरूपिका ॥
श्री-जीवः, विश्वनाथः **: न व्याख्यातम्।
मुकुन्दः: अनुक्रमम् आह—आद्या प्रथमा लहरी सामान्या साधनादि-विशेषणम् अप्राप्ता या भक्तिस् तयाढ्या । तुर्या चतुर्थी ॥९॥
—ओ)०(ओ—
॥ १.१.१० ॥
तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥
श्री-जीवः: तत्रादाव् इति । तत्र पूर्व-विभाग-गत-प्रथम-लहर्याम् । आदौ प्रथमत एव उत्तमाया भक्तेर् लक्षणं क्रियते । प्रतिपाद्यत्वेन विधीयते । न तु सर्वात्मिकायाः । तत्र हेतुः—सुष्ठु वैशिष्ट्यं कथयितुम् इति । अन्यत्रान्याभिलाष-ज्ञान-कर्माद्य्-आवृतत्वेनापूर्ण-बलत्वात् । एतद्-अंशत एवास्यास् तादृशत्व-व्यक्तेः । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चन [भा।पु। ५.१८.१२] इत्य् आदेश् च ॥१०॥
मुकुन्दः: अथ ग्रन्थारभमाणो भक्तेर् लक्षणं प्रतिजानीते—तत्रादाव् इत्य् एकेन । तत्र पूर्व-विभाग-प्रथम-लहर्याम् । आदौ प्रथमतः वैशिष्ट्यं—साधनं भाव-प्रेमेति त्रैविध्यं लक्षणम् असाधारणो धर्मः । लक्षणं विना वैशिष्ट्य-कथनासम्भवात् । किम्भूतं तत् ? सतां नारदादीनां सम्मतं, न स्व-कपोल-कल्पितम् ॥१०॥
**विश्वनाथः- **तत्रादाव् इति । तत्र पूर्व-विभाग-गत-प्रथम-लहर्याम् । आदौ प्रथमत एव उत्तमाया भक्तेर् लक्षणं क्रियते । प्रतिपाद्यतयाभिधीयते । न तु सर्वात्मिकायाः । लक्षण-करणे हेतुम् आह—सुष्ठु वैशिष्ट्यं वैलक्षण्यं कथयितुम् इति । अन्यत्रान्याभिलाष-ज्ञान-कर्माद्य्-आवृतत्वेनापूर्ण-बलवत्त्वाद् एतद्-अंशत एवास्याः शुद्ध-भक्तेर् वैलक्षण्य-व्यक्तेः । यथोक्तं श्री-भागवते—यस्यास्ति भक्तिर् भगवत्य् अकिञ्चन [भा।पु। ५.१८.१२] इत्य् आदेश् च ॥१०॥
—ओ)०(ओ—
**॥ १.१.११ ॥
अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥
श्री-जीवः- **अथ तस्या लक्षणं वदन्न् एव ग्रन्थम् आरभते अन्येति । अनुशीलनम् अत्र क्रिया-शब्द-बद्धात्मर्थ-मात्रम् उच्यते । धात्व्-अर्थश् च द्विविधः । प्रवृत्ति-निवृत्त्य्-आत्मकः काय-वाङ्-मानसीयस् तत्-तत्-चेष्टा-रूपः, प्रीति-विषादात्मको मानसस् तत्-तद्-भाव-रूपश् च । सत्त्वासत्त्वे तु परस्परोपमर्दितत्वाच् चेष्टान्तर्गते एव । तद् एवं सति कृष्ण-सम्बन्धि कृष्णार्थं वानुशीलनं कृष्णानुशीलनम् इति । तत्-सम्बन्ध-मात्रस्य तादर्थ्यस्य वा विवक्षितत्वाद् गुरु-पादाश्रयादौ भाव-रूपस्यापि क्रोडीकृतत्वात् तत्-स्थायिनि व्यभिचारिषु च भावेषु नाव्याप्तिः । एतच् च कृष्ण-तद्-भक्त-कृपयैक-लभ्यं, श्री-भगवतः स्वरूप-शक्ति-वृत्ति-रूपम् अतोऽप्राकृतम् अपि कायादि-वृत्ति-तादात्म्येनैव तत्र तत्राविर्भूतम् इति ज्ञेयम्। अग्रे तु स्पष्टीकरिष्यते ।
कृष्ण-शब्दश् चात्र स्वयम्भगवतः श्री-कृष्णस्य तद्-रूपाणां चान्येषाम् अपि ग्राहकः । तारतम्यं चाग्रे विवेचनीयम् । तत्र भक्ति-मात्रत्व-सिद्ध्य्-अर्थं विशेषणम्–आनुकूल्येनेति। प्रातिकूल्ये भक्तित्वाप्रसिद्धेः । आनुकूल्यं चास्मिन्न् उद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिः । प्रातिकूल्यं तु तद्-विपरीतं ज्ञेयम् । तृतीया चेयं विशेषण एव, न तूपलक्षणे । ततश् च यथा शस्त्रिणः समानयेत्य् उक्ते शस्त्राणाम् अपि समानयनं प्रसज्यते, तथानुकूल्यस्यापि भक्तित्व-विधानम् । न तु शस्त्रिणो भोजयेत्य् अत्र शस्त्राणाम् अभोजनवत् तद्-अविधानम् ।
नन्व् आनुकूल्यं भक्तिर् इत्य् एवास्ताम् । ततश् च राजायं गच्छतीत्य् अत्र राज-पदेन तत्-परिकराणां ग्रहणं स्यात् । सत्यं, तथापि धात्व्-अर्थ-भेदानां स्पष्टा प्रतिपत्तिर् न स्याद् इति धात्व्-अर्थ-मात्र-ग्रहणायानुशीलन-पदम् उपादीयते । अन्व् इति पदं चानुकूल्ये जाते मुहुर् एव शीलनं स्याद् इत्य् अभिप्रायेण कृतम् । तद् एतत् स्वरूप-लक्षणम् । उत्तमात्व-सिद्ध्य्-अर्थं तु तटस्थ-लक्षणेन विशेषण-द्वयम्–अन्याभिलाषिता-शून्यम् इति । अत्र अन्य- इति भक्त्य्-एकाभिलाषेण युक्तम् इत्य् अर्थः । ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानम्, न तु भजनीय-तत्त्वानुसन्धानम् अपि, तस्यावश्यापेक्षणीयत्वात् । कर्म चात्र स्मृत्य्-आद्य्-उक्तं नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि । तस्य तद्-अनुशीलन-रूपत्वात् । आदि-शब्देन वैराग्य-योग-साङ्ख्याभ्यासादयः । अत्र श्री-कृष्णानुशीलनं कृष्ण-भक्तिर् इति वक्तव्ये भगवच्-छास्त्रेषु केवलस्य च भक्ति-शब्दस्य तत्रैव विश्रान्तिर् इत्य् अभिप्रायात् तथोक्तं, तथैव ह्य् अग्रिम-वाक्यम् इति ॥११॥
मुकुन्दः- कृष्णानुशीलनं कृष्णस्य देहेन्द्रियान्तःकरणैर् अभ्यासः । शील उपधारण इति चौरादिको धातुः । कृष्ण-शब्दश् चात्र यत्र ग्रन्थे यस्य भगवतः प्रतिपादनं तत्र तस्य नाम देयम् इति नारायणादीनाम् उपलक्षणम् । यस्यानुशीलनं तस्यार्थत एव प्राप्तिः स्याद् इत्य् अभिप्रेत्य भक्तिर् इत्य् एवोक्तम् । न तु कृष्ण-भक्तिर् इति । तत्र भक्ति-मात्र-सिद्ध्य्-अर्थं विशेषणम् आनुकूल्येनेति । आनुकूल्यं कृष्ण-रोचक-प्रवृत्तिः । तृतीयेयं विशेषणे, न तूपलक्षणे । शास्त्रिणः समानयेतिवद् आनुकूल्यस्यापि भक्तित्व-विधानम् उत्तमात्व-सिद्ध्य्-अर्थम् । तटस्थ-लक्षणेनान्येत्यादि-विशेषण-द्वयम् । ज्ञानम् आध्यात्मिकं । कर्म नित्य-नैमित्तिक-दान-व्रतादि-स्मृत्याद्य्-उक्तम् । आदि-पदेनालस्यं गृहीतम् । लक्षणम् इदम् आ-साधनम् आ-महा-भावम् अन्वेति ॥११॥
**विश्वनाथः- **अथ तस्या लक्षणं वदन्न् एव ग्रन्थम् आरभते अन्येति । यथा क्रिया-शब्देन धात्व्-अर्थ-मात्रम् उच्यते, तथात्रानुशीलन-शब्देनापि धात्व्-अर्थ-मात्रम् उच्यते । धात्व्-अर्थश् च द्विविधः । प्रवृत्ति-निवृत्त्य्-आत्मकः । तत्र प्रवृत्त्य्-आत्मक-धात्व्-अर्थस् तु काय-वाङ्-मानसीय-तत्-तच्-चेष्टा-रूपः । निवृत्त्य्-आत्मक-धात्व्-अर्थश् च प्रवृत्ति-भिन्नः प्रीति-विषादात्मको मानसस् तत्-तद्-भाव-रूपश् च । स च वक्ष्यमाण-रति-प्रेमादि-स्थायि-भाव-रूपश् च । सेवा-नामापराधानाम् उद्भवाभाव-कारितेत्य् आदि-वचन-व्यञ्जित-सेवा-नामापराधाद्य्-अभाव-रूपश् च ।
तद् एवं सति कृष्ण-सम्बन्धि कृष्णार्थं वानुशीलनम् इति तत्-सम्बन्ध-मात्रस्य तद्-अर्थस्य वा विवक्षितत्वाद् गुरु-पादाश्रयादौ भाव-रूपस्यापि क्रोडीकृतत्वात् रत्य्-आदि-स्थायिनि व्यभिचारि-भावेषु च नाव्याप्तिः । एतच् च कृष्ण-तद्-भक्त-कृपयैव लभ्यं श्री-भगवतः स्वरूप-शक्ति-वृत्ति-रूपं कायादि-वृत्ति-रूपेणाविर्भूतम् एव ज्ञेयम् । अग्रे स्पष्टीकरिष्यते ।
कृष्ण-शब्दश् चात्र स्वयं भगवतः कृष्णस्य तद्-रूपाणां चान्येषाम् अवताराणां ग्राहकः। तारतम्यम् अग्रे विवेचनीयम् । तत्र भक्ति-स्वरूपता-सिद्ध्य्-अर्थं विशेषणम् आह— आनुकूल्येनेति। प्रातिकूल्ये भक्तित्वाप्रसिद्धेः । आनुकूल्यं चोद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिर् इत्य् उक्ते लक्षणेऽतिव्याप्तिर् अव्याप्तिश् च । तद् यथा— असुर-कर्तृक-प्रहार-रूपानुशीलनं युद्ध-रस उत्साह-रतिः श्री-कृष्णाय रोचते, यथोक्तं प्रथम-स्कन्धे मनस्विनाम् इव सन् सम्प्रहारः [भा।पु। १.१३.४०] इति । तथा श्री-कृष्णं विहाय दुग्ध-रक्षार्थं गताया यशोदायास् तादृशानुशीलनं कृष्णाय न रोचते, यथोक्तं श्री-दशमे– सञ्जात-कोप-स्फुरितारुणाधरः [भा।पु। १०.९.६] इति । तथा च तत्र तत्रातिव्याप्त-व्याप्ति-वारणायानुकूल्यं नाम प्रातिकूल्य-शून्यत्वम् एव विवक्षणीयम् । एवं सत्य् असुरेषु द्वेष-रूप-प्रातिकूल्य-सत्त्वान् नातिव्याप्तिः । एवं यशोदायाः प्रातिकूल्याभावान् नाव्याप्तिर् इति बोध्यम् । एतेन विशेषणस्यानुकूल्यस्यैव भक्तित्वम् अस्तु । भक्ति-सामान्यस्यैव कृष्णाय रोचमानत्वाद् विशेष्यस्यानुशीलन-पदस्य वैयर्थ्यम् इत्य् अपि शङ्का निरस्ता । तादृश-प्रातिकूल्यस्याभाव-मात्रस्य घटेऽपि सत्त्वात् । उत्तमात्व-सिद्ध्य्-अर्थं विशेषण-द्वयम् आह अन्याभिलाषिता-शून्यम् इत्य् आदि ।
कथम्-भूतम् अनुशीलनम् ? अन्यस्मिन् भक्त्य्-अतिरिक्तत्वे फलत्वेनाभिलाष-शून्यम् । भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१] इत्य् एकादशोक्तेर् भक्त्य्-उद्देशक-भक्ति-करणम् उचितम् एवेत्य् अतोऽन्यस्मिन् खलु भक्त्य्-अतिरिक्त इति । यथात्रान्याभिलाष-शून्यत्वं विहायान्याभिलाष-स्वभावार्थक-ताच्छील्य-प्रत्ययेन कस्यचिद् भक्तस्य कदाचिद् अकस्मात् मरण-सङ्कटे प्राप्ते «हे भगवन् भक्तं माम् एतद् विपत्तेः सकाशाद् रक्ष» इति । कदाचित्काभिलाष-सत्त्वेऽपि न क्षतिः । यतस् तस्य वैवश्य-हेतुक-स्वभाव-विपर्ययेणैव तादृग्-अभिलाषो, न तु स्वाभाविक इति बोध्यम् ।
पुनः कीदृशम् ? ज्ञान-कर्माद्य्-अनावृतम् । ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानम् । न तु भजनीय-तत्त्वानुसन्धानम् अपि । तस्यावश्यापेक्षणीयत्वात् । कर्म स्मार्त-नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि । तस्य तद्-अनुशीलन-रूपत्वात् । आदि-शब्देन यज्ञ-वैराग्य-योग-साङ्ख्याभ्यासादयस् तैर् अनावृतम् । न तु पूर्ववत् तच्-छून्यम् इत्य् अर्थः । तेन च भक्त्य्-आवरकाणाम् एव ज्ञान-कर्मादीनां निषेधोऽभिप्रेतः । भक्त्य्-आवरकत्वं नाम विधि-शासनान् नित्य-कर्माकरणे प्रत्यवायादि-भयाच् छ्रद्धया क्रियमाणत्वम् । तथा भक्त्य्-आदि-रूपेष्ट-साधनत्वाच् छ्रद्धया क्रियमाणत्वं च । तेन लोक-सङ्ग्रहार्थम् अश्रद्धयापि पित्रादि-श्राद्धं कुर्वतां महानुभावानां शुद्ध-भक्तौ नाव्याप्तिः । अत्र श्री-कृष्णानुशीलनं कृष्ण-भक्तिर् इति वक्तव्ये भगवच्-छास्त्रेषु केवलस्य च भक्ति-शब्दस्य तत्रैव विश्रान्तिर् इत्य् अभिप्रायात् तथोक्तम् ॥११॥
**सिद्धान्त-सरस्वती- **प्राग् अस्य तटस्थ-लक्षणम् आह अन्याभिलाषिता-शून्यं अन्याभिलाषिता कृष्ण-भजन-सम्पादन-विरोधि-योषित्-सङ्गादि-रूपा दुर्नीति-मूला वाञ्छा । तया शून्यं विहीनम् । ज्ञान-कर्माद्य्-अनावृतं ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानं, न तु भजनीयत्वानुसन्धानम् अपि, तस्यावश्यापेक्षणीयत्वात् । कर्म च स्मृत्य्-आद्य्-उक्तं नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि, तस्य तद्-अनुशीलन-रूपत्वात् । आदि-शब्देन वैराग्य-योग-साङ्ख्याभ्यासादयः, तैर् अनावृतम् अव्यवहितम् अप्रतिहतम् । आनुकूल्येन आनुकूल्यम् अत्र भजनोद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिः, प्रातिकूल्यं तु तद्-विपरीतं ज्ञेयम् । तस्य भजन-विरोधात्, तेनेति विशेषेण तृतीया न तु उपलक्षणतः आनुकूल्यस्यापि भक्तित्व-विधानं ज्ञेयम् । कृष्णानुशीलनं । कृष्ण-शब्दश् चात्र स्वयं भगवतः श्री-कृष्णस्य, तद्-रूपाणां चान्येषां अपि श्री-विष्णु-तत्त्वानां ग्राहकश् चेति बोध्यम् । तस्य कृष्णस्य सम्बन्धि, कृष्णार्थं वा अनुशीलनं काय-वाङ्-मानसीयत्-तच्-चेष्टा-रूपं प्रीति-विषयात्मकं शैथिल्य-परित्याग-पूर्वकं मुहुर् एव तत्-तत्-कर्म-प्रवर्तनम् एव उत्तमा भक्तिः । अनेन वैध-रागानुग-मार्गयोः साधक-सिद्ध-दशयोर् उभयत्राप्य् अस्याः सुष्ठु वैशिष्ट्यं स्फुटं कथितम् (अनुभाष्य २.९.१६७) ॥११॥
—ओ)०(ओ—
॥ १.१.१२ ॥
यथा श्री-नारद-पञ्चरात्रे—
सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥१२॥
श्री-जीवः : तत्-परत्वेन आनुकूलेन । सर्वेत्य् अन्याभिलाषिता-शून्यम् । सेवनम् अनुशीलनम् । निर्मलं ज्ञान-कर्माद्य्-अनावृतम् । अत उत्तमात्वं स्वत एवोक्तम् ॥१२॥
**मुकुन्दः : **हृषीकेशेणेत्य् एतद् देहान्तःकरणयोर् उपलक्षणम् । सेवन-शब्दस्य ज्ञानादि-शून्यम् अनुकूलताचरणम् एव यद्यपि मुख्यार्थस् तथापि भक्तेर् विशदार्थं देहादि-व्यापार-रूपो गौणार्थ एव गृहीतः । भक्तिः सेवा भगवतः इत्य् आदिषु सेवेत्य् आदि-पदं मुख्यार्थ-परम् । तत्-परत्वेनानुकूल्येन निर्मलं ज्ञान-कर्माद्य्-अनावृतम् । अत उत्तमात्वं स्वत एव व्यक्तम् ॥१२॥
**विश्वनाथः : **सर्वेति । हृषीकेण इन्द्रियेण तत्-परत्वेनानुकूल्यं च । सर्वेत्य् अन्याभिलाषिता-शून्यम् । सेवनम् अनुशीलनम् । निर्मलं ज्ञान-कर्माद्य्-अनावृतम् । अत उत्तमात्वं स्वत एव व्यक्तम् ॥१२॥
**सिद्धान्त-सरस्वती : **सर्वोपाधि-विनिर्मुक्तं सकल-भेदावरण-परिशून्यं कृष्णेतरान्याभिलाषिता-वर्जितं तत्-परत्वेन कृष्ण-सेवैक-तात्पर्येण आनुकूल्येन निर्मलं कर्मावरण-ज्ञान-विमोहनादि-उपाधि-रूप-मल-निर्मुक्तं हृषीकेण सेवोन्मुखेन्द्रिय-द्वारा हृषीकेश-सेवनं सर्वेन्द्रियाधिपस्य विष्णोर् अनुशीलनं एव भक्तिर् उच्यते कथ्यते (अनुभाष्य २.१९.१७०) ॥१२॥
—ओ)०(ओ—
॥ १.१.१३-१५ ॥
श्री-भागवतस्य तृतीय-स्कन्धे च (३.२९.११-१३)—
**अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ॥ **इति ।
**श्री-जीवः- **अत्राहैतुकीति । अत्राहैतुकीति अन्याभिलाषिता-शून्या, अव्यवहिता ज्ञान-कर्माद्य्-अनावृता, भक्तिर् भाव-रूपा, तथाप्य् एतद् अव्यभिचारिणी क्रिया-रूपोऽपि लक्ष्यते ॥१३॥
अत्राहैतुकत्वम् एव विशेषेण दर्शयति सालोक्येति । यस्याम् इति शेषः । आत्यन्तिकः परम-पुरुषार्थः इत्य् अर्थः ॥१४-१५॥
मुकुन्दः- अत्राहैतुकीति, पुरुषोत्तमे भक्तिः । आनुकूल्येन कृष्णानुशीलनम् अहैतुकी अन्याभिलाषिता-शून्या, अव्यवहिता ज्ञान-कर्माद्य्-अनावृता । अत्राहैतुकीत्वम् एव विशेषेण दर्शयति—सालोक्येति पद्येन । या अत्राहैतुक्य्-आदि-लक्षणा भक्तिः स एव भक्ति-योग उदाहृत इत्य् अन्वयः । आत्यन्तिकः स्वतो वीर्यवत्तमतयोत्तमः ॥१३-१५॥
विश्वनाथः: अत्राहैतुकीति । अत्राहैतुकीति अन्याभिलाषिता-शून्या, अव्यवहिता ज्ञान-कर्माद्य्-अनावृता, अत्राहैतुकत्वम् एव विशेषेण दर्शयति सालोक्य इति । यस्याम् भक्तौ सत्याम् इति शेषः । सालोक्यं भगवता सह एकस्मिन् लोके वासः । सार्ष्टिं समानैश्वर्यम् । सारूप्यं समान-रूपत्वम् । सामीप्यं निकट-वर्तित्वम् । एकत्वं सायुज्यम् । आत्यन्तिकः परम-पुरुषार्थः इत्य् अर्थः ।
ननु भक्तानाम् उत्कर्ष-निरूपकं सालोक्येत्य्-आदि-पद्यं कथं भक्ति-लक्षणोदाहृतम् । तत्राह सालोक्य इति । सालोक्य इत्य् आदि-पद्यं तु मध्यस्थम् अपि नोद्धृतम् । भक्त-माहात्म्य-वाचित्वात् नात्र स्याद् उपयोगि तत् । यतोऽस्मिन् भक्तेऽन्याभिलाषिता-शून्या शुद्धा भक्तिर् अस्त्य् अतोऽयं सालोक्यादिकं न गृह्णाति । तस्माद् एतत् पद्यस्थं भक्तोत्कर्ष-निरूपणं भक्तेर् विशुद्धता-व्यक्ति-द्वारा लक्षणे पर्यवस्यति ॥१३-१६॥
सिद्धान्त-सरस्वती : मद्-गुण-श्रुति-मात्रेण मम गुण-श्रवण-मात्रेण सर्व-गुहाशये सर्वान्तः-करण-वर्तित्वे मयि अम्बुधौ समुद्रे गङ्गाम्भसः यथा तथा अविच्छिन्ना अप्रतिरुद्धा विषयान्तरेण छेत्तुम् अशक्या या मनो-गतिः पुरुषोत्तमे या अहैतुकी फलानुसन्धि-रहिता अव्यवहिता देह-द्रविण-जनता-लोभ-पाषण्डत्वादि-व्यवधान-विवर्जिता भक्तिः, सा निर्गुणस्य त्रिगुणातीतस्य भागवतः भक्ति-योगस्य लक्षणम् उदाहृतं कथितं हि । जना हरिजनाः मत्-सेवनं विना मद्-भजनं त्यक्त्वा दीयमानं सालोक्यं मया सह एकस्मिन् लोके वासं, सार्ष्टिः समानम् ऐश्वर्यं, सामीप्यं निकट-वर्तित्वं, सारूप्यं समान-रूपताम्, एकत्वम् उत सायुज्यम् अपि न गृह्णन्ति नाभिनन्दन्ति (अनुभाष्य १.४.२०५-२०७) ॥
—ओ)०(ओ—
॥ १.१.१६ ॥
सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् ।
भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥
न व्याख्यातम् ।
—ओ)०(ओ—
**॥ १.१.१७ ॥
क्लेश-घ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा ।
सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥
श्री-जीवः- **अथ वैशिष्ट्यं कथयितुम् इति यद् उक्तं तद् एव सङ्क्षिप्य दर्शयति—क्लेशघ्नीति ॥१७॥
मुकुन्दः- अस्या महिमानं दर्शयति—क्लेशघ्नीत्य् आदिना ॥१७॥
विश्वनाथः- अत्र वैशिष्ट्यं कथयितुम् इति यद् उक्तं तद् एव सङ्क्षिप्य दर्शयति—क्लेशघ्नीति । तत्र साधन-भक्तिः क्लेशघ्नी-रूपा शुभदा-रूपा च । भाव-भक्तिर् मोक्ष-लघुता-कृद्-रूपा सुदुर्लभा-रूपा च । साध्य-प्रेम-भक्तिः सान्द्रानन्द-विशेषात्मा-रूपा श्री-कृष्णाकर्षिणी-रूपा चेत्य् अग्रे व्यक्तीकरिष्यतीति । वायु आदि भूत-चतुष्टयवत् तत्र तत्र तत्-तद्-अन्तर्भाव इति ॥१७॥
—ओ)०(ओ—
॥ १.१.१८-१९ ॥
तत्रास्याः क्लेशघ्नत्वम्—
क्लेशास् तु पापं तद्-बीजम्
अविद्या चेति ते त्रिधा ॥
तत्र पापम्—
अप्रारब्धं भवेत् पापं
प्रारब्धं चेति तद् द्विधा ॥
_न कतमेणापि व्याख्यातम् _॥१८-१९॥
—ओ)०(ओ—
॥ १.१.२० ॥
तत्र **अप्रारब्ध-हरत्वम्, **यथा एकादशे (११.१४.१९)—
यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया-भक्तिर् उद्धवैनांसि कृत्स्नशः ॥
श्री-जीवः- पाकाद्य्-अर्थं प्रज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा मद्-विषया भक्तिर् यथा कथञ्चित् श्रवणादि-लक्षणा समस्तानि पापानि दहतीति ॥२०॥
**मुकुन्दः- **यथाग्निर् इति । सुसमिद्धार्चिर् इति विशेषणम् । स्वल्पापि भक्तिः सुसमिद्धाग्नि-समेति दर्शयति—कृष्णाय नो नमति यच्-छिर एकदापि [भा।पु। ६.३.२९] इत्य् आदेः ॥२०॥
**विश्वनाथः- **कृत्स्नशः एनांसि समस्त-पापानि ॥२०॥
**सिद्धान्त-सरस्वती : **हे उद्दव ! यथा सुसमृद्धार्चिः सुसमृद्धा अर्चिः यस्य सः अग्निः एधांसि काष्ठानि भस्मसात् करोति विनाशयति, तथा मद्-विषया भक्तिः कृत्स्नशः सर्वाणि एनांसि पापानि प्रारब्धाप्ररब्धानि च विधुनोति (अनुभाष्य २.२४.५७) ॥२०॥
—ओ)०(ओ—
**॥ १.१.२१ ॥
प्रारब्ध-हरत्वम्, **यथा तृतीये (३.३३.६)—
यन्-नाम-धेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥
श्री-जीवः- यन्-नामेति । श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव । श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात् । क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-श्व-भक्षण- प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैः स्वामि-चरणैर् व्याख्यातम् । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यतायाः प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाश-पूर्वक-सवन-योग्य-जातित्व-जनक-पुण्य-लाभः प्रतिपद्यते । ब्राह्मणानां शौक्रे जन्मनि दुर्जातित्वाभावेऽपि सवनाय सुजातित्व-जनक-सावित्र्य-जन्मापेक्षावत् । तस्माद् भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भा।पु। ११.१४.२१] इति तु कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति ॥२१॥
मुकुन्द-गोस्वामि- यद् इति । श्वादो यतोऽन्यो नीचो नास्ति सोऽपि कल्पते समर्थो भवति सद्यस् तस्मिन्न् एव क्षणे वैधर्म्ये ब्राह्मणस्य सुरापाने सद्यः पातित्यवन् नातिचित्रम् इदम् ॥२१॥
विश्वनाथः- यन्-नामेति । यत्-प्रह्वणाद् यस्य नमस्कारात् श्वादोऽपि सवनाय कल्पते याग-योग्यो भवति ॥२१॥
—ओ)०(ओ—
॥ १.१.२२ ॥
दुर्जातिर् एव सवनायोग्यत्वे कारणम् मतम् ।
दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत् ॥
श्री-जीवः: तस्माद् दुर्जातिर् एवेत्य् अत्र सवनायोग्यत्वेऽपि कारणम् इति तद्-योग्यता प्रतिकूल-पापमयीत्य् अर्थः । न तु तद्-योग्यत्वाभाव-मात्र-मयीति । ब्राह्मण कुमराणां शौक्रे जन्मनि दुर्जातित्वाभावेऽपि सवन-योग्यत्वाय पुण्य-विशेष-मय-सावित्र-जन्मापेक्षत्वात् । ततश् च सवन-योग्यत्व-प्रतिकूल-दुर्जात्य्-आरम्भकं प्रारब्धम् अपि गतम् एव, किन्तु शिष्टाचाराभावात् सावित्रं जन्म नास्तीति ब्राह्मण-कुमाराणां सवन-योग्यत्वाभावावच् छेदक-पुण्य-विशेष-मय-सावित्र-जन्मापेक्षावद् अस्य जन्मान्तरापेक्षा वर्तत इति भावः । अतः प्रमाण-वाक्येऽपि सवनाय कल्पते सम्भावितो भवति, न तु तदैवाधिकारी स्यादि त्य् अभिप्रेतम् । व्याख्यातं च तैः सद्यः सवनाय सोम-यागाय कल्पते। अनेन पूज्यत्वं लक्ष्यत इति । तद् एवं दुर्जात्य्-आरम्भकस्य पापस्य सद्यो-नाशे वचनाद् अवगते दुःखारम्भकस्यापि नशस् तु भक्त्यावृत्त्या सम्भावित इति सर्व-प्रारब्ध-पाप-हारितायाम् इदम् उदाहरणं युक्तम् एव । यथोक्तं विष्णु-सहस्र-नाम-स्तोत्रे—
म वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् । जन्म-मृत्यु-जरा-व्याधिर् भयं वाप्य् उपजायते ॥ इति ।
मुकुन्द-गोस्वामि- दुर्जातिर् एवेति । सवनस्य सोम-यागस्यायोग्यत्वेऽसामर्थ्ये । दुर्जातेर् आर्मम्भकं दुर्जात्य्-आरम्भकं भक्ति-सहायकानाम् अन्य-कर्मणां सत्त्वान् न देह-पात इति भावः ॥२२॥
विश्वनाथः- योग्यत्वम् अत्र यागाधिकारित्व-स्वरूपम् एव । न च तादृश-श्वपचस्य यागाधिकारित्वे स कथं यागं न करोतीति वाच्यम् । तस्य शुद्ध-भक्तत्वेन कर्मणि श्रद्धा-राहित्यात् । अन्ये सत्-कुलोत्पन्न-गृहस्थास् तु श्रद्धा-रहिता अपि लोक-सङ्ग्रहार्थं कर्म कुर्वन्ति । तथा च गीतायाम्—लोक-सङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि इति । अस्य तु कर्म-करणे प्रत्य् उत भक्ति-शास्त्रानभिज्ञ-जन-प्रवाद-भयम् अपि प्रतिबद्धकम् अस्तीति ज्ञेयम् । अत्र सवनाय कल्पते इत्य् अत्र सोम-याग-कर्तृवत् पूज्यो भवतीति व्याख्याने ग्रन्थस्य कष्ट-कल्पनापत्तेः । प्रकृत-ग्रन्थस्यासङ्गतेश् च । यतः सवनायोग्यस्यैव प्रारब्ध-नाशकत्वं, न तु पूज्यत्वस्य । तथाभूत-दुर्जातित्व-प्रयोजकी-भूत-प्रारब्धवतां ज्ञानिनां पूज्यत्व-दर्शनात् । अथात्र भक्तानां प्रारब्ध-सामान्य-नाशेऽपि यत् सुख-दुःखं दृश्यते, तत्र तु सुखं भक्तेर् आनुसङ्गिकं फलम् । यथा नारद-पञ्चरात्रे**—**
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुद्रुताः ॥ इति ।
दुःखं तु कुत्रचिद् भगवद्-दत्तम् । यथा श्री-दशमे—
यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः । ततो ‘धनं त्यजन्त्य् अस्य स्व-जना दुःख-दुःखितम् ॥ [भा।पु। १०.८८.८] इति ।
कुत्रचिद् वैष्णवापराधादि-फलम् इति विवेचनीयम् । दुर्जातिर् एव सवनायोग्यत्वे कारणं मतम् ॥२२॥
—ओ)०(ओ—
॥ १.१.२३ ॥
पद्म-पुराने च—
**अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥
श्री-जीवः- **पूर्वार्थम् एव स्पष्टयति—पाद्मे चेति । पापम् इति विशेष्यम् । तत्र फलोन्मुखं प्रारब्धम् । बीजं वासना-मयं प्रारब्धत्वोन्मुखम् इति यावत् । कूटं बीजत्वोन्मुखम्। अप्रारब्ध-फलं न प्रारब्धं कूटत्वादि-रूप-कार्यावस्थत्वं येन तत् । तच् चानादि-सिद्धम् अनन्तम् एव । कारिकायां तु एतद् एवाप्रारब्धम् इत्य् उक्तम् । बीज-प्रारब्धे तु पूर्वं गणिते । यत् तु कूटम् अवशिष्टं तद् अप्य् अप्रारब्ध एवान्तर्भाव्यम् । क्रमेण पूर्व-पूर्वानुक्रमेण, तथापि पूर्वोक्तं सद्यः सवनाय [भ।र।सि। १.१.२१] इति कमल-पत्र-शत-वेध-न्यायेन किञ्चित्-काल-विलम्बो ज्ञेय इति ॥२३॥
**मुकुन्दः- **पाद्मे चेति । पापम् इति विशेष्यम् । अप्रारब्ध-फलं प्रारब्धातिरिक्तम् अनन्तम् । कूटं तस्यैव राशितयावस्थानम् । बीजं वासनामयम् । फलोन्मुखं प्रारब्धं क्रमेण पूर्वं पापं पश्चात् तद्-बीजम् इति क्रमेण । न तु श्लोकोक्त-पाप-क्रमेण अजामिलादेर् नामाभासेन बीजस्यापि क्षयो नाम्नोऽनर्गल-प्रभावात् ॥२३॥
**विश्वनाथः- **भक्तेः प्रारब्ध-सामान्य-नाशकत्वे पुराणान्तरम् अपि प्रमाणयति—पाद्मे चेति । पापम् इति विशेष्यम् । तत्र फलोन्मुखं प्रारब्धम् । बीजं वासना-मयं प्रारब्धत्वोन्मुखम् । कूटं बीजत्वोन्मुखम् । अप्रारब्ध-फलं न प्रारब्धं फलं कूटत्वादि-रूप-कार्यावस्थत्वं येन तत् । तच् चानादि-सिद्धम् अनन्तम् एव । कारिकायां तु एतद् एवाप्रारब्धम् उक्तम् । बीज-प्रारब्धे तु पूर्वं गणिते । यत् तु कूटम् अवशिष्टं तद् अप्य् अप्रारब्ध एवान्तर्भाव्यम् । क्रमेणाप्राररब्धादि पूर्व-पूर्व-पाप-नाश-क्रमेण । क्रमस् तु कमल-पत्र-शत-वेध इव एक-क्षण-मध्य एव ज्ञेयः ॥२३॥
—ओ)०(ओ—
॥ १.१.२४ ॥
बीज-हरत्वम्, यथा षष्ठे (६.२.१७)—
**तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।
नाधर्मजं तद्-हृदयं तद् अपीशाङ्घ्रि-सेवया ॥
श्री-जीवः- **बीज-हरत्वं विशेषतो दर्शयतीत्य् आह ॥२४॥
**मुकुन्दः- **तैर् इति पूयन्ते विनश्यन्ति—पुञ् विनाशे इति धातोः । तद्-धृदयं—तेषां पापानां तत्-कर्तुः पुरुषस्य वा हृदयं पापं वासना-मयं । अधर्मजं अधरोम्ऽविद्या तज्-जम् ॥२४॥
**विश्वनाथः- **बीज-हेतुत्वं विशेषतो दृश्यते इत्य् आह—बीजेति । तैस् तथा-विधेर् अपि पूयन्ते नश्यन्ति । पुञ् विनाशे । अधर्माज् जातम् अघानां हृदयं मूलं सूक्ष्म-रूपं तु न पूयते न नश्यति । तद् अपि ईशाङ्घ्रि-सेवया हरि-चरणयोर् भक्त्या वासना-पर्यन्त-पाप-क्षयात् तद् अपि शुद्ध्यते ॥२४॥
—ओ)०(ओ—
॥ १.१.२५ ॥
अविद्या-हरत्वम्, यथा चतुर्थे (४.२२.३९)—
**यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥
श्री-जीवः- **नैष्ठिक्यास् तु अविद्या-हरत्वम् इति प्रतिपाद्य द्वाभ्यां दर्शयति—यद्-पाद इति । रिक्त-मतयो भगवद्-ध्यानादि-विनाभूत-मतयः । अरणं शरणम् । क्रमश् चात्र श्री-सुतेन श्रवणोपलक्षणतया प्रोक्तः ।
शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः । हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया । भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ तदा रजस्-तमो-भावाः काम-लोभादयश् च ये । चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ एवं प्रसन्न-मनसो भगवद्-भक्ति-योगतः । भगवत्-तत्त्व-विज्ञानं मुक्त-सङ्गस्य जायते ॥ भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ [भा।पु। १.२.१७-२१] इति ।
नैष्ठिकी निश्चला इति टीका-काराः ॥२५॥
**मुकुन्दः- **रिक्ते अव्यक्ते ब्रह्मणि मतिर् येषाम् एवम्भूता अपि ॥२५॥
**विश्वनाथः- **नैष्ठिक्यास् तु अविद्या-हरत्वम् इति प्रतिपाद्य द्वाभ्यां दर्शयति—यद्-पाद इति । यस्य पाद-पङ्कजयोः पलाशाङ्गुलयस् तेषां विलास-भक्त्या विशेषेण लासः प्रतिक्षण-वर्धमाना कान्तिर् यस्यां तया साधन-रूपया भक्त्या साध्य-रूपया च कर्माशयं कर्म-वासनामयम् अहङ्कारं ग्रथितम् । येनैव स्व-कर्मणा । तद्-विपरीतेन भगवत्-कर्मणा उद्ग्रथयन्ति । सन्तो वैष्णवाः । तद्वत् यतयः सन्न्यासिनो न । कुतः ? रिक्ता निर्विषया अविद्यमाना मतिर् येषां ते रिक्त-धना इव निर्बुद्धयोऽसन्तश् चेत्य् अर्थः । सन्तस् तु भगवद्-विषय-मतयः सुबुद्धय एवेति भावः । निरुद्धो नद्यादेः स्रोतसाम् इवेन्द्रियाणां गणो यैः । न हि स्रोतांसि निरोद्धुं शक्यानि भवन्तीति निर्बुद्धित्व-चिह्नम् एतद् एवेति भावः । सन्तस् तु भगवत्-सौन्दर्यामृतादिषु प्रसारित-चक्षुर्-आदीन्द्रिय-गणाः सुधियः सुखिनश् चेति भावः । अरणं शरणम् ॥२५॥
—ओ)०(ओ—
॥ १.१.२६ ॥
पाद्मे च—
कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा ।
अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥
श्री-जीवः, मुकुन्दः- _न व्याख्यातम् _॥२६॥
**विश्वनाथः- **विद्याभिः कृता अनु यात्रा यस्याः सा । तथा च भक्तस्य विद्या-विषयकेच्छाभावेऽपि सा विद्या स्वयम् एव भक्तेः पश्चाद् गच्छतीत्य् अर्थः । अनुत्तमा अत्युत्कृष्टा । पन्नगीं सर्पीम् ॥२६॥
—ओ)०(ओ—
॥ १.१.२७-२८ ॥
शुभदत्वम्—
शुभानि प्रीणनं सर्व-जगताम् अनुरक्तता ।
सद्-गुणाः सुखम् इत्य् आदीन्य् आख्यातानि मनीषिभिः ॥
तत्र जगत्-प्रीणनादि-द्वय-प्रदत्वम्, यथा पाद्मे—
**येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जङ्गमाः स्थावरा अपि ॥
श्री-जीवः- **सर्व-जगताम् इति । सर्व-जगत्-कर्मकं प्रीणनं तत्-कर्तृकानुरक्तता च । अनयोः साद्गुण्यान्तर्भावेऽपि पृथग्-उक्तिः सर्वोत्तमतापेक्षया । किं वा ते एते यद्यपि साद्गुण्य-कृते अपि तत्र सम्भवतः, तथाप्य् अन्यत्रैव तावन्-मात्र-कृते न स्यातां, किन्तु स्वरूप-कृते अपीति पृथग्-उक्तिः कृता । यथोक्तं चतुर्थे ध्रुव-चरिते—
यस्य प्रसन्नो भगवान् गुणैर् मैत्र्य्-आदिभिर् हरिः । तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ [भा।पु। ४.९.४७] इति ।
आदि-ग्रहणात् सर्व-वशीकारित्व-मङ्गल-कारित्वादीनि ज्ञेयानि ॥२८॥
**मुकुन्दः- **शुभानीति प्रीणनं भक्त-कर्तृकं जगत्-कर्तृकानुरक्तता । सद्-गुणादि-प्रदत्वम् इत्य् अत्रादि-शब्देनोक्ताद् देवादेर् वशीकाराद् अनयोः पृथग्-उक्तिर् मर्त्य-लोकापेक्षया। स्थावरा अपीत्य् अत्र तद्-द्वारा भगवता कृतोऽनुरागस् तेषूपचर्यत इति भावः ॥२७-२८॥
**विश्वनाथः- **तत्र जगत्-प्रीणनादि-द्वय-हेतुत्वं यथा पाद्मे येनार्चित इति । जगन्ति जगद्-वर्ति-जीवा इत्य् अर्थः ॥२८॥
—ओ)०(ओ—
॥ १.१.२९ ॥
**सद्-गुणादि-प्रदत्वं **(भा।पु। ५.१८.१२)
**यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनो-रथेनासति धावतो बहिः ॥
श्री-जीवः- **साद्गुण्यादीत्य् अत्रादि-शब्द-ग्रहणात् सर्व-वशीकारित्वोपलक्षक-सुर-वशीकारित्वं गृह्यते । सद्-गुणादि-प्रदत्वम् इत्य् अत्र सद्-गुणादि-वशीकारयितृत्वम् इत्य् अर्थः । सुरा भगवद्-आदयः । स च तथा च तत्-परिकरा देवा मुनयश् चेत्य् अर्थः । समासते वशीभूय तिष्ठन्तीत्य् अर्थः ॥२९॥
**मुकुन्दः- **सद्-गुणा ज्ञान-वैराग्य-यम-नियमादयः । आदि-शब्दाद् देवर्ष्य्-आदि-वशीकारित्वम् । आदि-शब्दः सुखम् इत्य् आदीनीत्य् अत आकृष्टः ॥२९॥
**विश्वनाथः- **गुणैर् इन्द्रिय-निष्ठ-गुणैः सह, न तु दोषैः सह । सुरा इन्द्रियाधिष्ठाऋ-देवतास् तत्र भक्ते समासते । मनोरथेनासति विषये धावतोऽभक्तस्य महद्-गुणा इन्द्रियाणं निर्दूषण-गुणाः ॥२९॥
—ओ)०(ओ—
॥१.१.३०-३१॥
सुख-प्रदत्वम्—
सुखं वैषयिकं ब्राह्मम् ऐश्वरं चेति तत् त्रिधा ॥
यथा तन्त्रे—
सिद्धयः परमाश्चर्या भुक्तिर् मुक्तिश् च शाश्वती ।
नित्यं च परमानन्दो भवेद् गोविन्द-भक्तितः ॥
श्री-जीवः- _न व्याख्यातम् _॥३०-३१॥
**मुकुन्दः- **सिद्धयो भुक्तिश् च वैषयिकं सुखम् । मुक्तिर् ब्रह्म-सुखम् । परमानन्दम् ऐश्वरं सुखम् । परमानन्दम् इति नपुंसकत्वम् आर्षम् ॥३१॥
**विश्वनाथः- **सिद्धयोऽणिमादयो भुक्तिश् च विषय-सुखम् । मुक्तिर् ब्रह्म-सुखम् । पारिशेष्यान् नित्यं परमानन्दम् ऐश्वर-सुखम् ॥३१॥
—ओ)०(ओ—
॥ १.१.३२ ॥
यथा हरि-भक्ति-सुधोदये च—
भूयोऽपि याचे देवेश त्वयि भक्तिर् दृढास्तु मे ।
या मोक्षान्त-चतुर्वर्ग फलदा सुखदा लता ॥
श्री-जीवः- _न व्याख्यातम् _॥३२॥
**मुकुन्दः- **सुखदेत्य् ऐश्वरम् ॥३२॥
**विश्वनाथः- **भूयोऽपीति, या लता-रूपा भक्तिर् मोक्षान्त-चतुर्-वर्ग-फल-दा । सुखदा ईश्वरानुभवानन्द-दात्री मोक्षादि-लघुता-करी ॥३२॥
—ओ)०(ओ—
॥ १.१.३३-३४ ॥
मोक्ष-लघुताकृत्—
मनाग् एव प्ररूढायां हृदये भगवद्-रतौ ।
पुरुषार्थास् तु चत्वारस् तृणायन्ते समन्ततः ॥
यथा श्री-नारद-पञ्चरात्रे—
**हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ **इति ।
**श्री-जीवः- **मनाग् एवेति । अल्पम् अपि प्ररूढायां, न तु जनितायां, तस्याः स्वयम् प्रकाश-रूपत्वात् । पुरुषार्थो धर्मार्थ-काम-मोक्षाख्यास् तृणायन्ते तत्र गन्तुं लज्जन्ते इत्य् अर्थः ॥३३॥ हरि-भक्तीति चेटिकावद् इति भीता इत्य् अर्थः ॥३४॥
मुकुन्दः- _न व्याख्यातम् _॥३३-३४॥
**विश्वनाथः- **अद्भुता भुक्तयो विषय-भोगाश् चेटिकावद् दासीवत् पश्चाद्-गामिन्यः ॥३३-३४॥
—ओ)०(ओ—
**॥ १.१.३५ ॥
सुदुर्लभा—
साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि ।
हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥
श्री-जीवः- **हरिणा चाश्व् अदेयेत्य् अत्रासङ्गेऽपीति गम्यते । अन्यथा द्वैविध्यानुपपत्तेः । द्विधा सुदुर्लभेति प्रकार-द्वयेनापि सुदुर्लभत्वं तस्या इत्य् अर्थः ॥३५॥
**मुकुन्दः- **साधनेति । अनासङ्गैः आसङ्ग आसक्ती रुचिर् अपर-पर्याया । तद्-रहितैः । साधनौघैः श्री-मूर्तेर् अङ्घ्रि-सेवने प्रीतिः, श्री-भागवतास्वादः, सजातीय-वासना-भक्त-सङ्गो नाम-सङ्कीर्तनं श्रीमन्-मथुरा-मण्डले स्थितिः इति पञ्चाङ्गानि विना नति-स्तुति-वन्दनादिभिः सर्वैर् अलभ्या लब्धुम् अयोग्या । सासङ्गैः साधनैर् लभ्यापि हरिणा चाश्व् अदेया स्वस्मिन्न् आसक्तौ सत्याम् एव देयेत्य् अर्थः । तथा चाग्रे—
साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् । हराव् आसक्तिम् उत्पाद्य रतिं सञ्जनयत्य् असौ ॥ [भ।र।सि। १.३.८] इति ॥३५॥
**विश्वनाथः- **अनासङ्गैः श्रद्धादि-भक्ति-भूमिकान्तर्गतासक्ति-रहितैः साधन-समूहैः सर्वथैवालभ्या । आसक्त्य्-उत्तरम् एव रत्य्-उत्पत्तेः श्रवणात् । हरिणा चासक्ति-सहितैर् अपि साधन-समूहैर् आशु शीघ्रम् अदेया । विलम्बेन तु दीयत इत्य् अर्थः । द्विधा सुदुर्लभेति प्रकार-द्वयेनापि दुर्लभत्वं तस्या इत्य् अर्थः ॥३५॥
—ओ)०(ओ—
॥ १.१.३६ ॥
तत्र आद्या, यथा तान्त्रे—
**ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः ।
सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥
श्री-जीवः- **ज्ञानत इति । तन्त्र-मतं तावद् विचार्यते । अत्र ज्ञान-यज्ञादि-पुण्ये सासङ्गे एव वाच्ये, तयोस् तादृशत्वं विना मुक्ति-भुक्त्योः सिद्धिर् अपि न स्यात् । अस्तु तावत् सुलभत्व-वार्ता । अतः साधन-सहस्राणाम् अपि सासङ्गत्वम् एव लभ्यते । वाक्यार्थ-क्रम-भङ्गस्यावश्य-परिहार्यत्वात् सहस्र-बाहुल्यासिद्धेश् च । तत्र यदि ज्ञान-यज्ञादि-पुण्ययोः सासङ्गत्वं तद्-एक-निष्ठत्व-मात्रं वाच्यं, तदा तादृशाभ्याम् अपि ताभ्यां तयोः सुलभत्वं नोपपद्यते । क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता १२.५] इत्य् आदेः, क्षुद्राशा भूरि-कर्माणो बालिशा वृद्ध-मानिनः [भा।पु। १०.२३.९] इत्य् आदेश् च । तस्मात् तयोः सासङ्गत्वं नैपुण्येन विहितत्वम् इत्य् एव वाच्यम् । नैपुण्यं च भक्ति-योग-संयोक्तृत्वम् इति । पुरेह भूमन् बहवोऽपि योगिनः [भा।पु। १०.१४.५] इत्य् आदेः, स्वर्गापवर्गयोः पुंसां [भा।पु। १०.८१.१९] इत्य् आदेश् च ।
अथ हरि-भक्ति-शब्देन साध्य-रूपो रति-पर्यायस् तद्-भाव एवोच्यते—भक्त्या सञ्जातया भक्त्येतिवत् । ततश् च साधन-शब्देन हरि-सम्बन्धि-साधनम् एवोच्यते, तत्-सम्बन्धित्वं विना तद्-भाव-जन्मायोगात् । तथा च साधन-शब्देन साक्षात्-तद्-भजने वाच्ये तत्र पूर्व-क्रमतः सासङ्गत्वे लब्धे सहस्र-बहुत्व-निर्देशेनापर्यवसानात् सु-शब्दाच् च भीतस्य कस्यापि तत्र [भाव-भक्तौ] प्रवृत्तिर् न स्यात् । तेन तत्र सुलभत्वं तु—
शृण्वतः श्रद्धया नित्यं गृणतश् च स्व-चेष्टितम् । कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ [भा।पु। २.८.४] तत्रान्वहं कृष्ण-कथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥ [भा।पु। १.५.२६] इत्य् आदौ प्रसिद्धम् ।
तस्मात् साधन-शब्देन न साधयति मां योग [भा।पु। ११.१४.२०] इत्य् आदिवत् तद्-अर्थ-विनियुक्त-कर्मादिकम् एवोच्यते । अत एव साधन-शब्द एव विन्यस्तो, न तु भजन-शब्दः । तस्य सासङ्गत्वं नाम च तद्-अर्थ-विनियोगात् पूर्ववन् नैपुण्येन विहितत्वम् एव । तत्-साहस्रैर् अपि सुदुर्लभेत्य् उक्तिस् तु साक्षात् तद्-भजनम् एव कर्तव्यत्वेन प्रवर्तयति । तथापि कारिकायाम् अनासङ्गैर् इति यद् उक्तं, तत्र चासङ्गेन साधन-नैपुण्यम् एव बोध्यते, तन् नैपुण्यं च साक्षात् तद्-भजने प्रवृत्तिः । ततश् च तस्य तादृश-सामर्थ्येऽप्य् अन्यत्र स्वर्गादौ प्रवृत्त्या न विद्यते आसङ्गो नैपुण्यं येषु तादृशैर् नाना-साधनैर् इत्य् अर्थः । तादृश-नाना-साधनत्वं तु नेष्टम् ।
तस्माद् एकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥ [भा।पु। १.२.१४] इत्य् आदौ ।
तस्माद् इतर-मिश्रितापि न युक्तेति साध्व् एव लक्षितं ज्ञान-कर्माद्य्-अनावृतम् इति ॥३६॥
मुकुन्दः, विश्वनाथः- _न व्याख्यातम् _॥३६॥
—ओ)०(ओ—
॥ १.१.३७ ॥
द्वितीया, यथा पञ्चम-स्कन्धे (५.६.१८)—
**राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥
श्री-जीवः- **कर्हिचिन् न ददातीत्य् उक्ते कर्हिचिद् ददातीत्य् आयाति । असाकल्ये तु चिच्-चनौ । अत एव कर्हिचिद् अपीति नोक्तम् । तस्माद् आसङ्गेनापि कृते साधन-भूते साक्षाद् भक्ति-योगे सति यावत् फल-भूते भक्ति-योगे गाढासक्तिर् न जायते, तावन् न ददातीत्य् अर्थः । तथैव च लक्षितम्—अन्याभिलाषिता-शून्यम् इति ॥३७॥
**मुकुन्दः- **राजन्न् इति । अस्त्व् एवं युष्माकं यादवानां च स्नेह-सम्बन्धाभ्यां वशवर्ती दूरे तिष्ठत्व् इत्य् अर्थः । भक्ति-योगं रति-रूपं कर्हिचिन् न ददातीत्य् उक्तेः कर्हिचिद् ददातीत्य् आयाति—असाकल्ये तु चिच्-चनौ । अत एव कर्हिचिद् अपीति नोक्तम् । तस्मात् स्वस्मिन्न् आस्कत्यां सत्याम् एव देयत्वम् ॥३७॥
**विश्वनाथः- **हे राजन् ! भवतां पाण्डवानां यदूनां च पतिः पालकः । गुरुर् उपदेष्टा दैवम् उपास्यः । प्रियः प्रीतिकृत् । कुल-पतिर् नियन्तेति । यदुष्व् अवतरतोऽपि कृष्णस्य तेषु भवत्सु च तुल्य एव व्यवहारो दृष्टः । किं च, क्व च कदाचित् वः पाण्डवानां दूत्य्-आदिषु किङ्करो, न च तथा यदूनाम् इति यदुभ्योऽपि प्रेमवत्त्वे भवताम् आधिक्यम् एवेति भावः। भवद्भ्यो ह्य् अभजद्भ्योऽपि परम-प्रेमाधिक्य-दानस्य वार्ता कियती वक्तव्या ? सा सर्वोपरि विराजताम् । अन्येभ्यो भजद्भोऽपि न भक्ति-योगं भाव-भक्तिम् अपि प्रायो न ददाति, किं च ततोऽप्य् अतिनिकृष्टां मुक्तिम् एवेत्य् आह अस्त्व् एवेति । भजतां भजद्भ्यः । अत्र कर्हिचिद् अपीत्य् अनुक्ते मुक्तिम् अनिच्छद्भ्यः शुद्ध-भक्तेभ्यस् तु भक्तिम् एव ददातीत्य् अर्थो लभ्यते ॥३७॥
—ओ)०(ओ—
**॥ १.१.३८ ॥
सान्द्रानन्द-विशेषात्मा—
ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥
श्री-जीवः- **परार्द्धेति—परार्द्ध-काल-समाधिना समुदितं तत्-सुखम् अपीत्य् अर्थः ॥३८॥
मुकुन्दः- _न व्याख्यातम् _॥३८॥
**विश्वनाथः- **परार्धेति—परार्धं कालं व्याप्य क्रियमाणेन समाधिना सिद्धं ब्रह्म-सुखम् अपीत्य् अर्थः । भक्ति-रूप-सुख-समुद्रस्य यः परमाणुस् तस्यापि तुलनां नैति न प्राप्नोति ॥३८॥
—ओ)०(ओ—
॥ १.१.३९ ॥
यथा, हरि-भक्ति-सुधोदये—
**त्वत्-साक्षात्करणाह्लाद-विशुद्धाब्धि-स्थितस्य मे ।
सुखानि गोष्पदायन्ते ब्राह्माण्य् अपि जगद्-गुरो ॥
श्री-जीवः- **ब्राह्माणीत्य् अत्र पारमेष्ठ्यानीति तु न व्याख्येयम् । पर-ब्रह्मानन्देनैव तस्य तारतम्यं श्री-भागवतादिषु प्रसिद्धम् इति । तस्यारविन्द-नयनस्य पदारविन्द [भा।पु। ३.१५.४३] इत्य्-आदिभ्यः ॥३९॥
मुकुन्दः- _न व्याख्यातम् _॥३९॥
**विश्वनाथः- **त्वत्-साक्षाद् इति तव साक्षात्कारानन्द-समुद्रे स्थितस्य मम ब्राह्माणि ब्रह्म-स्वरूपाण्य् अपि सुखानि गोष्पदायन्ते गोष्पदम् इवाचरन्ति । ब्राह्माणीत्य् अत्र पारमेष्ठ्यानीति तु न व्याख्येयम् । पर-ब्रह्मानन्देनैव तस्य तारतम्यं श्री-भागवतादिषु प्रसिद्धम् । तस्यारविन्द-नयनस्य पदारविन्द [भा।पु। ३.१५.४३] इत्य् आदिभ्यः ॥३९॥
—ओ)०(ओ—
॥ १.१.४० ॥
तथा भावार्थ-दीपिकायां (१०.८८.११) च—
**त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः ।
कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम् ॥
श्री-जीवः- **सत्स्व् अपि बहुषु उदाहरिष्यमाणेषु श्री-भागवतादि-वाक्येषु भावार्थ-दीपिकोदारणं तु तत्-कर्तुस् तत्-तात्पर्यज्ञत्वेन सर्व-तत्-तद्-वाक्यार्थ-सङ्ग्रहोऽयम् इत्य् अभिप्रायात् ॥४०॥
मुकुन्दः- _न व्याख्यातम् _॥४०॥
**विश्वनाथः- **भावार्थ-दीपिकायां श्री-स्वामि-चरणैः कृतायां श्रुत्य्-अध्याय-टीकायाम् । पाथोधौ समुद्रे । महा-मुदः परमानन्द-युक्ताः ॥४०॥
—ओ)०(ओ—
॥ १.१.४१ ॥
श्री-कृष्णाकर्षिणी—
**कृत्वा हरिं प्रेम-भाजं प्रिय-वर्ग-समन्वितम् ।
भक्तिर् वशीकरोतीति श्री-कृष्णाकर्षिणी मता ॥
श्री-जीवः- **प्रेम-भाजम् इति आकर्षण-शब्द-बलात् । प्रिय-वर्ग-समन्वितम् इति श्री-शब्द-बलाद् व्याख्यातम् ॥४१॥
**मुकुन्दः- **कृत्वेति । प्रिय-वर्ग-समन्वितम् इति राजायं गच्छतीतिवत् स-परिवारस्य प्राप्तिर् इति व्याख्यातम् ॥४१॥
विश्वनाथः- _न व्याख्यातम् _॥४१॥
—ओ)०(ओ—
॥ १.१.४२ ॥
यथा एकादशे (११.१४.२०)—
**न साध्यति माम् योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥
श्री-जीवः- **न साधयतीति—अत्र यद्यपि योगादि-साधन-प्रतिस्पर्धित्वेन साधनत्वम् एवास्या आयाति—ततश् चाग्रत इत्य् आदि वक्ष्यमाणानुसारेण साध्य-भक्ति-महिम-प्रस्तावेऽस्मिन्न् उदाहरणं न सम्भवति, तथापि साध्याम् एव जनयित्वा वशीकरोत्य् असाव् इति तथोक्तम् ॥४२॥
**मुकुन्दः- **न साधयतीति । ऊर्जिता प्रेम-लक्षणा सती मां स-प्रिय-वर्गम् । तत्र योगादयोऽपि परमोत्कर्षं प्राप्ता ज्ञेयाः । ऊर्जित-भक्ति-प्रतिस्पर्धित्वात् ॥४२॥
**विश्वनाथः- **न साधयतीति—यद्यपि योगादि-साधन-प्रतिस्पर्धित्वेन साधनत्वम् एवास्या आयाति—ततश् चाग्रत इत्य् आदि वक्ष्यमाणानुसारेण साध्य-भक्ति-महिम-प्रस्तावेऽस्मिन्न् उदाहरणं न सम्भवति, तथापि साध्याम् एव भक्तिं जनयित्वा वशीकरोत्य् असाव् इति तथोक्तम् । न साधयति न प्राप्ति-साधनं भवति । ऊर्जिता ज्ञान-कर्माद्य्-अनावृतत्वेन प्रबला तीव्रेत्य् अर्थः ॥४२॥
—ओ)०(ओ—
॥ १.१.४३ ॥
सप्तमे (७.१०.४८) च नारदोक्तौ—
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गुढं परं ब्रह्म मनुष्य-लिङ्गम् ॥
श्री-जीवः: अत एव तत्रापरितुष्यन् प्रिय-वर्ग-समन्वितत्वोदाहरणं च करिष्यन्न् अपरम् आह—यूयम् इति ॥४३॥
मुकुन्दः: साक्षाद्-वचन-गतम् अप्य् एतद् दर्शयति—यूयम् इति गूढं वेदादि-रहस्यत्वात् असर्व-बोध-स्वभावम् ॥४३॥
**विश्वनाथः- **अहो प्रह्लादस्य भाग्यम्—येन भगवान् दृष्टः । वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रति यूयं प्रह्लादात्, प्रह्लाद-गुरोर् मत्तोऽप्य् अन्येभ्योऽपि भक्तेभ्यः । यदु-गुरु-प्रभृतिभ्योऽपि वशिष्ट-मरीचि-कश्यपादि-ऋसिभ्योऽपि, ब्रह्म-रुद्राभ्याम् अपि, भूरि-सौभाग्यवन्त इत्य् आह नारदः—यूयम् इति । यूयं नृणां जीवानां लोक-मध्ये भूरि-भागाः । येषां युष्माकं गृहान् लोकं स्व-दर्शनादिना पवित्रीकुर्वन्तोऽपि मुनयोऽभि सर्वतो-भावेन स्वं कृतार्थीकर्तुं गच्छन्ति । यतो गूढं सर्वतोऽपि रहस्यं यन् मनुष्य-लिङ्गं नराकृति परं ब्रह्म । तत् सम्यक् प्रकारेण युष्माभिर् अनाहूतम् अप्य् आसक्ति-पूर्वकं येषां गृहेषु साक्षाद् वसति । न हि प्रह्लादादीनां गृहेषु नराकृति परं ब्रह्म साक्षाद् वसति । न च तद्-दर्शने कृतार्थी-भवितुं मुनयो गच्छन्तीति भावः ॥४३॥
—ओ)०(ओ—
॥ १.१.४४ ॥
अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् ।
द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥
श्री-जीवः: द्विशो द्वाभ्यां द्वाभ्यां षड्भिः पदैः क्लेशघ्नीत्य् आदिभिः परिकीर्तितम् इति । असाधारणत्वेनेति परिशब्दार्थः । तेन साधन-रूपाया द्वौ गुणौ । भाव-रूपायाश् चत्वारो गुणाः प्रेम-रूपायाः षड् अपि ज्ञेयाः । तत्र तत्-तद्-अन्तर्भावात् वाय्व्-आदि-भूत-चतुष्टयवत् ॥४४॥
मुकुन्दः: अग्रत इति । द्विशो द्वाभ्यां द्वाभ्यां कृत्वा षड्भिः पदैः क्लेशघ्नीत्य् आदिभिः असाधारण-साधारणत्वेनेति परिशब्दार्थः । तेन साधन-रूपाया द्वौ । भाव-रूपायाश् चत्वारः । प्रेम-रूपायाः षड् अपि ज्ञेयाः । वाय्व्-आदि-भूत-चतुष्टयवत् तत्र तत्र तत्-तद्-अन्तर्भावात् ॥४४॥
**विश्वनाथः- **अग्रत इति । साधन-भाव-प्रेम-रूपायास् त्रिधा भक्तेर् द्विशो द्वाभ्यां द्वाभ्यां षड्भिः पदैः । तथा च क्लेशघ्नी शुभदा इत्य् अनेन पद-द्वयेन साधन-भक्तेर् माहात्म्यं कथितम् । एवं मोक्ष-लघुताकृत् सुदुर्लभा इत्य् अनेन भाव-भक्तेः । एवं सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी इति प्रेम-भक्तेर् इत्य् एवं षड्भिः पदैर् इत्य् अर्थः ॥४४॥
—ओ)०(ओ—
**॥ १.१.४५ ॥
किं च -
स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका ।
युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥
श्री-जीवः- **अत्र बहिर्मुखान् प्रत्य् अन्यद् अप्य् उच्यते इत्य् आह—किं चेति । रुचिर् अत्र भक्ति-तत्त्व-प्रतिपादक-शब्देषु श्रीमद्-भागवतादिषु प्राचीन-संस्कारेणोत्तमत्व-ज्ञानम्, सैव भक्ति-तत्त्वम् एवावबोधयति, यथा-शब्दं श्रद्धापयतीति, केवला शुष्का नैवेति किन्तु तद्-रुचि-सहिता, इत्थम् एव वक्ष्यते शास्त्रे युक्तौ च निपुण [भ।र।सि। १.२.१७] इति ॥४५॥
**मुकुन्दः- **हे महा-कृपालो ! त्रिविध-भक्तेस् तत्-तन्-माहात्म्यं श्रुतम् अप्य् अत्यपूर्वत्वात् सम्यङ् नावबुध्यते, ततो युक्तिं च दर्शयेति बुभुत्सून् प्रति सत्यम् अत्यपूर्वम् एवैतत्, किन्तु साधनाभिनिवेशाद् रुचौ स्वल्पायाम् अपि जातायां मनो-नैर्मल्यात् स्वयम् एव भक्ति-तत्त्वस्यावबोधो, न तु केवलया युक्त्येत्य् आह—किम् चेति । रुचिर् एव स्वयम् एव स्वल्प-रुचाव् अपि सत्यां तद्-अनुकूला युक्तिश् च स्वयं स्फुरेद् इत्य् अर्थः । युक्तिस् तु केवला रुचि-रहिता नैव । अस्या युक्तेः ॥४५॥
**विश्वनाथः- **अथ बहिर्मुखान् प्रत्य् अन्यद् अप्य् उच्यते इत्य् आह—किं चेति । रुचिर् अत्र भक्ति-तत्त्व-प्रतिपादक-शब्देषु श्री-भागवतादिषु प्राचीन-संस्कारेणोत्तमत्व-ज्ञानम् । सैव भक्ति-तत्त्वम् अवबोधयति । केवला शुष्का नैवेति किन्तु तद्-रुचि-सहिता । इत्थम् एव वक्ष्यते शास्त्रे युक्तौ च निपुण [भ।र।सि। १.२.१७] इति ॥४५॥
—ओ)०(ओ—
॥ १.१.४६ ॥
तत्र प्राचीनैर् अप्य् उक्तम्—
यत्नेनापादितोऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥
श्री-जीवः, मुकुन्दः, **विश्वनाथः- **अप्रतिष्ठताम् एव दर्शयति—तथेति । प्राचीनैः तर्कोऽप्रतिष्ठानात् [ब्र।सू। २.१.१२] इति न्यायानुसारिभिर् वार्तिक-कारादिभिः । अभियुक्ततरास् तार्किकेषु प्रवीणतराः ॥४६॥
—ओ)०(ओ—
इति श्री श्री भक्ति-रसामृत-सिन्धौ
पूर्व-भागे भक्ति-सामान्य-लहरी प्रथमा
-=ओ०ओ=-
॥ १.२ ॥
भक्ति-रसामृत-सिन्धौ पूर्व-विभागे द्वितीया लहरी
अथ साधन-भक्तिः
**॥ १.२.१ ॥
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥
श्री-जीवः- **सा भक्तिर् आपाततः प्रतीत्य्-अर्थम् एवेदं विवेचनम्, विशेषतस् त्व् इदं ज्ञेयम्—भक्तिस् तावद् द्विविधा—साधन-रूपा, साध्य-रूपा च । तत्र प्रथमाया लक्षणं भेदाश् च वक्ष्यन्ते । द्वितीया तु हार्द-रूपा, सापि भक्ति-शब्देनोच्यते । यथैकादशे—भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् [भा।पु। ११.३.११] इति । अस्याश् च भाव-प्रेम-प्रणय-स्नेह-रागाख्याः पञ्च भेदाः । तथा उज्ज्वल-नीलमणाव् अस्य परिशिष्ट-ग्रन्थे मानानुराग-महाभावास् त्रयश् च सन्ति । तद् एवम् अष्टौ । तथापि भावः प्रेमेति द्वि-भेदत्वेनोक्तिस् तूपलक्षणर्थम् एव ।
प्रेम्ण एव विलासत्वाद् वैरल्यं साधकेष्व् अपि । अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥ [भ।र।सि। १.४.१९]
इत्य् अत्रैव प्रेम-लहर्य्-अन्ते वक्ष्यमाणत्वात् ॥१॥
**मुकुन्दः- **वैशिष्ट्यं कथयितुं यद् उक्तं, तद् एव वैशिष्ट्यं दर्शयति सेति यावद्-विभागम् । सा उक्त-लक्षणा सामान्य-भक्तिः ॥१॥
**विश्वनाथः- **सा भक्तिर् इति । अथात्र साधन-साध्यत्व-रूप-द्विविध-भेद एवास्तु । भावस्यापि साध्य-भक्त्य्-अन्तर्भावोऽस्तु । किं भेद-त्रय-करणेन ? इति चेत् न, यतोऽग्रे वक्ष्यमाणस्य
उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः । कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥ [भ।र।सि। २.१.२७६]
इति साधक-भक्त-लक्षणस्य मध्ये रत्य्-अपर-पर्यायस्य भावस्याविर्भावेऽपि सम्यङ्-नैर्विघ्न्यम् अनुपागताः इति विशेषणेन प्रबलतरस्य कस्यचिन् महद्-अपराधस्य कश्चन भागोऽवशिष्टोऽस्तीति लभ्यते । एवं सति क्लेश-जनकस्यापराधस्य लेशेऽपि साध्य-भक्तेर् आविर्भावो न सम्भवति । अत एव तत्रैवोक्तस्य साध्य-भक्ति-विशिष्ट-सिद्ध-भक्त-लक्षणस्य मध्ये—अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः सिद्धाः स्युः [भ।र।सि। २.१.२८०] इत्य् अनेन तथैव प्रतिपादितम् । तस्माद् भावस्य साध्य-भक्तेर् अन्तर्भावो न सम्भवति । तथैव साधन-भक्तेर् अन्तर्भावस् तु सुतराम् एव नास्ति । यतोऽत्रैव प्रकरणे साधन-भक्ति-लक्षणे भाव-साधनत्व-रूप-विशेषणेन भावस्य साधन-भक्तित्वं परास्तम् । भावस्य भाव-साधनत्वाभावात् । तस्मात् साधूक्तं भक्तेस् त्रिविधत्वम् इति विवेचनीयम्॥१॥
—ओ)०(ओ—
॥ १.२.२ ॥
तत्र साधन-भक्तिः—
कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥
श्री-जीवः- कृतीति । सामान्यतो लक्षिता उत्तमा भक्तिः । कृत्या इन्द्रिय-प्रेरणया साध्या चेत्, सा साधनाभिधा भवति । कृत्यास् तद्-अन्तर्भावश् च पूर्व-क्रियाया यज्ञान्तर्भाववात् । तत्र भावाद्य्-अनुभाव-रूपाया व्यवच्छेदार्थम् आह—साध्येति । साध्यो भावो भाव-प्रेमादि-रूपो यया सा, न तु भाव-सिद्धा । सा हि तद्-अङ्गत्वात् साध्य-रूपैवेति । साध्य-भावेत्य् अनेन सा साध्य-पुमर्थान्तरा च परिहृता, उत्तमाया एवोपक्रान्तत्वात् । भावस्य साध्यत्वे कृत्रिमत्वात् परम-पुरुषार्थत्वाभावः स्याद् इत्य् आशङ्क्याह—नित्येति । भगवच्-छक्ति-विशेष-वृत्ति-विशेषत्वेनाग्रे साधयिष्यमाणत्वाद् इति भावः ॥२॥
मुकुन्दः- कृत्या देहादि-व्यापारेण साध्या । कृतेस् तद्-अङ्गत्वात् तद्-अन्तर्भावः । अव्यङ्ग्यो देहादि-व्यापारः साधनाभिधा भवेद् इत्य् अर्थः । अस्याः फलं दर्शयन्न् आह—साध्यो निष्पाद्यो भावो रतिर् ययावृत्ति-रूपया कुत्रापि सकृद्-रूपया च सा साध्य-भावा । भावात् पूर्वा साधन-भक्तिर्, भावस् तस्याः फलम् इत्य् अर्थः । जात-भावे या सा भावस्य कार्यत्वात् साध्यैव । भावस्य साध्यत्वे कृत्रिमत्वात् परम-पुरुषार्थताम् आशङ्क्याह—नित्येति । नित्य-सिद्ध-भक्तेषु शुद्ध-सत्त्व-विशेष-रूपतया सदा वर्तमानस्यात्र स्वयं स्फुरणान् न कृत्रिमत्व-शङ्का । अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यम् इन्द्रियैः [भ।र।सि। १.२.२३४] इति वक्ष्यमाणत्वात् । साधन-भक्तिर् एव न कृत्रिमा, किम् उत भावः ? ॥२॥
**विश्वनाथः- **कृतीति । सा सामान्यतो लक्षितोक्ता भक्तिर् इन्द्रिय-व्यापारेण साध्या चेत् साधनाभिधा भवति । अत्रेन्द्रिय-व्यापारस्य भक्त्य्-अन्तर्-भावः । यागस्य पूर्व-क्रियाया यथा यागस्यान्तर्भावस् तथैव ज्ञेयः । तेन भक्ति-भिन्नस्य न भक्ति-जनकत्वम् इति सिद्धान्तोऽपि सङ्गच्छते । अत्र भाव-भक्तेर् अनुभाव-रूपस्य श्रवण-कीर्तनादेः साधनत्व-व्यवहाराभावात् तद्-वारणायाह—साध्येति । साध्यो भावो यया सा भाव-जनिकेत्य् अर्थः । तेन धर्मार्थादि-पुरुषार्थान्तर-साधक1-भक्तिश् च पराकृता, उत्तमाया एव उपक्रान्तत्वात् । भावादीनां साध्यत्वे कृत्रिमत्वात् परम-पुरुषार्थत्वाभावः स्याद् इत्य् आशङ्क्याह—नित्येति । भावस्येत्य् उपलक्षणं श्रवन-कीर्तनादयोऽपि ग्राह्याः । तेषाम् अपि कर्ण-जिह्वादौ प्राकट्य-मात्रम्, यथा श्री-कृष्णो वसुदेव-गृहेऽवततार । भक्तीनां भगवच्-छक्ति-वृत्ति-विशेषत्वेनाग्रे साधयिष्यमाणत्वाद् इति भावः ॥२॥
सिद्धान्त-सरस्वती: कृति-साध्या कृत्या इन्द्रिय-प्रेरणया साधनीया या साध्य-भावा सधनीयः भावः यस्य सा साधनाभिधा साधन-भक्ति-नाम्नी भवेत् । हृदि जीवात्म-हृदये नित्य-सिद्धस्य नित्य-वर्तमानस्य स्वतः-प्रकाशस्य भावस्य कृष्ण-प्रेम-भावस्य प्राकट्यम् आविष्करणम् एव साध्यता साधन-योग्यता ॥२॥ (च्च् २.२२.१०२)
—ओ)०(ओ—
॥ १.२.३ ॥
सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता ॥
श्री-जीवः- सेति । नन्व् अत्र—
तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा। स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ [भा।पु। ७.१.२५]
इति भय-द्वेषाव् अपि विहितौ । तर्हि ताव पि भक्ती स्यातां तर्ह्य् आनुकूल्येनेति विशेषण-विरोधः स्यात् तत्राह—भङ्ग्येति । यः खलु भय-द्वेषयोर् अपि मङ्गलं विदधीत । तस्मिन्न् अपि को वा परम-पामरो भक्तिं न कुर्वीत, प्रत्युत तौ विदधीतेति परिपाट्येत्य् अर्थः । युञ्ज्याद् इति तु सम्भावनायाम् एव लिङ्-विधानात् । न तु विधौ । भय-द्वेषयोर् विधातुम् अशक्यत्वात् । यद्यपि श्री-कृष्ण-परम् एवेदं वाक्यं, तथापि तद्-अंशादौ च तारतम्येन ज्ञेयम् ॥३॥
मुकुन्दः- न व्याख्यातम् ।।३॥
**विश्वनाथः- **सेति । नन्व् अत्र—
तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ [भा।पु। ७.१.२५]
इति पद्ये भय-द्वेषाव् अपि विहितौ । तर्हि ताव पि भक्ती स्यातां ? तयोर् भक्तित्व-स्वीकारे तु आनुकूल्येनेति विशेषण-विरोधः स्यात् । तत्-कर्तर्य् असुरेऽपि भक्त-व्यवहारापत्तेश् चेत्य् आह—भङ्ग्येति । यः खलु भय-द्वेष-कर्तृणाम् अपि मङ्गलं करोति । तस्मिन्न् ईश्वरे को वा परम-पामरो भक्तिं न कुर्वीत ? प्रत्युत भय-द्वेषौ विदधीतेति भङ्ग्या परिपाट्या देवर्षिणोक्तम् ॥३॥
—ओ)०(ओ—
॥ १.२.४ ॥
यथा सप्तमे (७.१.३१)—
**तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ **इति ।
**श्री-जीवः- **तस्माद् इति । उपायेन कामादिना निर्वैर-शब्द-प्रतिपादयितव्येन विधिना च द्वारा, मनो-निवेशोपलक्षणत्वेन तत्-तद्-इन्द्रिय-चेष्टा च भक्तिर् इत्य् अर्थः । तथापि केनापि योग्येन भय-द्वेषातिरिक्तेन स्व-मनोऽनुकूलेनैकतरेणैवेत्य् अर्थः ॥४॥
**मुकुन्दः- **तस्माद् इत्य् अस्य पूर्वार्धेः— कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति [भा।पु। ७.१.३१] इति । अस्यार्थः—पूर्व-शत्रु-रूपं मां घातकोऽवतीर्ण इति द्वेष-मूलत्वात् कंस-भयस्य द्वेषान्तर्भावात् पञ्चानाम् इत्य् उक्तम् । कतमोऽपि न वेण इत्य् अस्य भय-द्वेषयोर् निषिद्धत्वात् कंसादीनां पाप-जातम् अभिन्वेशोत्तन्नष्टम् । ते च तद्-आत्मतां प्राप्ताः । अभिनिवेशाभावाद् अस्य तु पापम् इत्य् अभिप्रायः । यस्मान् निषिद्ध-कर्ता वेणवन् नरकं गच्छेत् तस्माद् धेतोः केनाप्य् उपायेन काम-स्नेहादि-चतुष्टयानुवर्तिना मनोभिरुचिनैकतमेन देहेन्द्रियान्तःकरण-व्यापारात्मकेन साधनेन मनः कृष्णे निवेशयेद् आसक्तं कुर्याद् इति चातुर्येण प्रेरणम् । श्रवण-कीर्तन-स्मरणादिका भावोत्पत्तेः प्राक् श्री-कृष्णासक्ति-पर्यन्ता क्रिया साधन-भक्तिर् इत्य् अर्थः । तस्माद् वैरानुभन्धेन इत्य् आदि पद्ये भय-द्वेषाव् अपि मनोभिनिवेशात्मकाव् एव गृहीतौ । कथञ्चिन् नेक्षते पृथग् इत्य् उक्तत्वात् ॥४॥
विश्वनाथः- पश्चात् श्लोके देवर्षिर् अभिप्रायं स्पष्टीकरोति—तस्माद् इति । तेषां मध्ये केनाप्य् उत्कृष्टेन निर्वैर-शब्द-प्रतिपादितेन कामाद्य्-उपायेनेत्य् अर्थः ॥४॥
—ओ)०(ओ—
॥ १.२.५-६ ॥
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥
तत्र वैधी—
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥
श्री-जीवः- यत्र भक्तौ प्रवृत्तिः पुंसो रागानवाप्तत्वात् रागेणनवाप्तेति हेतोः शास्त्रस्य शासनेनैव उपजायते । सा भक्तिर् वैधी उच्यते । रागोऽत्रानुरागस् तद्-रुचिश् च । अग्रे रागात्मिका-रागानुगयोर् भेदस्य वक्ष्यमाणत्वात् । शासनेनैवेत्य् एव-कारात्, राग-प्राप्तत्वम् अपि चेत् तर्हि अंशेनैव वैधीत्वं ज्ञेयम् ॥६॥
**मुकुन्दः- **यत्र भक्तौ प्रवृत्तिः रागानवाप्तत्वात् रागेण लोभेनानवाप्ति-हेतोः शास्त्रस्य शासनेनैव, न तु स्व-कल्पनादिना ॥६॥
विश्वनाथः- वैधीति । रागोऽत्र रागस् तद्-रुचिश् च । अग्रे रागात्मिका-रागानुगयोर् वक्ष्यमाणत्वात् । अथात्र साधनादौ प्रवृत्ति-सामान्ये कुत्रचिल् लोभस्य कारणत्वम् । कुत्रचिच् छास्त्र-शासनस्य । तत्र च यस्यां भक्तौ लोभस्य कारणत्वं नास्ति, किन्तु शास्त्र-शासनस्यैव सा वैधीत्य् आह—यत्रेति । रागोऽत्र श्री-मूर्तेर् दर्शनाद् दशम-स्कन्धीय-तत्-तल्-लीला-श्रवणाच् च भजन-लोभस् तद्-अनाप्तत्वाद् अनधीनत्वाद् धेतोः शास्त्रस्य शासनेनैव या प्रवृत्तिर् उपजायते, सा भक्तिर् वैध्य् उच्यते ॥६॥
—ओ)०(ओ—
॥ १.२.७ ॥
यथ, द्वितीये (२.१.६)—
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेछताभयम् ॥
श्री-जीवः- न व्याख्यातम् ।
मुकुन्दः- तस्माद् भारत इत्य् अत्र हरि-शब्दाद् भक्ताश् च प्राप्ताः ।
अर्चयित्वा तु गोविन्दं तदीयान् नार्चयन्ति ये । न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥ इत्य् आदौ दोष-श्रवणात् ।
कृष्णं स्मरन् जनं चास्य [भ।र।सि। १.२.२९४] इत्य् आदौ ते साक्षाद् एव ग्रहीष्यन्ते—तेषां तत्रैवात्युपादेयत्वात् । अतः कृष्णानुशीलनम् इत्य् अत्रापि स-परिकर एव कृष्णो ज्ञेयः ॥७॥
**विश्वनाथः- **अभयं नास्ति संसारादि-जन्य-भयं यस्मात् भगवतस् तम् इच्छता पुरुषेण भगवान् श्रोतव्यः । तेन संसारादि-भय-निवृत्ति-प्रतिपादक-शास्त्र-शासनाद् एव प्रवृत्तिः, न तु लोभाद् इति भावः ॥७॥
—ओ)०(ओ—
॥ १.२.८ ॥
पाद्मे च—
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्व-विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥
श्री-जीवः- सर्व इति अहरहः सन्ध्याम् उपासीत ब्राह्मणो न हन्तव्य इत्य् आदि-रूपाः । एतयोः स्मर्तव्य-विस्मर्तव्य-रूपयोर् विधि-निषेधयोर् एव किङ्कराः अधीनाः । विपरीते तु विपरीत-फला भवन्तीति भावः । चिच्-छब्दस् त्व् अत्र जातु-शब्दस्यार्थ-द्योतक एव, न तु वाचकः॥८॥
**मुकुन्दः- **एतयोः स्मरण-विस्मरण-विध्योः ॥८॥
**विश्वनाथः- **सर्व इति । सर्वेषां विधीनां श्री-विष्णु-स्मरण-किङ्करत्वात् श्री-विष्णु-स्मरणे क्रियमाण एव सर्वेषां विधि-बोधितानां करणानर्वाहः । एवम् अनन्त-गो- ब्राह्मणादि-हत्यानां निषेधानां विष्णु-स्मरणस्य किङ्करत्वाद् विष्णु-विस्मरणे जाते विस्मर्तुः पुरुषस्य सर्व-निषेध-प्रतिपादितानन्त-पापवत्त्व-प्रसङ्ग इत्य् अर्थः । सततं प्रत्यहं, न तु प्रतिक्षणं, तस्यासाध्यत्वेन विधेर् अनुष्ठान-लक्षणाप्रामाण्यापत्तेः ॥८॥
—ओ)०(ओ—
॥ १.२.९ ॥
इत्य् असौ स्याद् विधिर् नित्यः सर्व-वर्णाश्रमादिषु ।
नित्यत्वेऽप्य् अस्य निर्णीतम् एकादश्य्-आदिवत्-फलम् ॥
श्री-जीवः- इत्य् असाव् इति कारिका तु एवं क्रिया-योग-पथैः पुमान् इत्य् अनन्तरं पठनीया । इति-शब्देन पूर्व-प्रकरणस्य हेतुतायां योग्येन कृत-मुखाया एतस्याः कारिकाया उपसंहार-वाक्यता-प्राप्तेस् तत्-प्रकरणान्त एव योग्यत्वात् ॥९॥
मुकुन्दः- इत्य् असाव् इति । सर्व-वर्णाश्रमादिषु—आदि-शब्दात् तद्-उर्वारिताः सर्वजनाश् च गृहीताः । एकादश्यादिवद् इति । एकादश्या भक्तित्वेऽपि दृष्टान्तः । इदं विश्वं नश्वरं घट-कुण्डलादिवद् इत्य् एक-देशेऽपि तद्-दर्शनात् ॥९॥
**विश्वनाथः- **इत्य् असाव् इति । अकरणे पाप-श्रवणेन भजनस्य नित्यत्व-निश्चयेऽप्य् एकादश्य्-आदिवत् फलम् अस्ति ॥९॥
—ओ)०(ओ—
॥ १.२.१०-११ ॥
यथा, एकादाशे (११.५.२-३) तु व्यक्तम् एवोक्तम्—
**मुख बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- **तथात्र भजनीयस्य भगवतोऽभजनाद् दुर्गतिर् एवेति वक्तुं प्रथमं भजनीयत्वे युक्तिम् आह मुखेति । गुणैः सत्त्वादिभिः करणैर् आश्रमैः सह विप्रादयश् चत्वारो जज्ञिरे । एषां मध्ये ये विप्रादयः साक्षाद् आत्मनः प्रभव उत्पत्तिर् यस्माद् एवम्भूतम् ईश्वरं न भजन्त्य् अत एवावजानन्त्य् अभजनाद् एवावज्ञां कुर्वन्ति । यथा परमादरणीयस्य पुरुषस्यादराकरणम् एवानादरस् तथा परम-भजनीयस्य भगवतोऽभजनम् एवावज्ञेत्य् अर्थः । स्थानाद् वर्णाश्रमाद् भ्रष्टाः सन्तोऽधः पतन्ति ॥१०-११॥
—ओ)०(ओ—
**॥ १.२.१२ ॥
तत् फलं च, **तत्रैव (११.२७.४९)—
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभ्यतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥
श्री-जीवः- तत्-फलम् उदाहरन्न् अर्चनम् उपलक्ष्याह—एवम् इति । तद् उक्तं—
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०] इत्य् आदेः ॥१२॥ \
मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- तस्या भक्तेः फलम् उदाहरन्न् अर्चनम् उपलक्ष्याह—एवम् इति । उभयतः ऐहिकीं पारलौकिकीं च सिद्धिम् ॥१२॥
—ओ)०(ओ—
॥ १.२.१३ ॥
पञ्चरात्रे च—
सुरर्षे विहिता शास्त्रे हरिम् उद्दिश्य या क्रिया ।
सैव भक्तिर् इति प्रोक्ता तया भक्तिः परा भवेत् ॥
श्री-जीवः- सामस्त्येन दर्शयन् परम-फलम् आह—पञ्चेति । सैव भक्तिर् इत्य् अत्र वैधीति गम्यम् । तत्-प्रकरण-पठितत्वात् ॥१३॥
मुकुन्दः- सुरर्षे इति विहिता विधेयत्वेन कथिता शास्त्र-विधेय-दृष्टिर् एव प्रवृत्ति-हेतुर् अतो वैध्य् एव, न रागानुगा । तत्र लोभस्यैव प्रवृत्ति-हेतुत्वात् ॥१३॥
विश्वनाथः- सामस्त्येन दर्शयन् परम-फलम् आह—पञ्चरात्र इति । सैव भक्तिर् इत्य् अत्र वैधीति गम्या । तत्-प्रकरण-पठितत्वात् । तया प्रेम-लक्षणा भक्तिर् भवेद् इति ॥१३॥
—ओ)०(ओ—
॥ १.२.१४-१५ ॥
तत्र अधिकारी—
यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने ।
नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥
यथैकादशे (११.२०.८)—
यदृच्छया मत्-कथादौ जात-श्रद्धोऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धिदः ॥
श्री-जीवः- अतिभाग्येन महत्-सङ्गादि-जात-संस्कार-विशेषेण ॥१४॥ यदृच्छयेति । तद् एतच् च विवृतं स्वयं भगवता—
जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःखात्मकं कामान् परित्यागेऽप्य् अनीश्वरः ॥ ततो भजेत मां प्रीतः श्रद्धालुर् दृठ-निश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ [भा।पु। ११.२०.२७-८] इति ।
अत्र तत इति ताम् अवस्थाम् आरभ्येत्य् अर्थः । भक्तिर् हि स्वतः प्रबलत्वाद् अन्य-निरपेक्षा । न तु ज्ञानादिवत् सम्यग् वैराग्यादि-सापेक्षा । कर्म-निर्वेदापेक्षा त्व् अनन्यता-सिद्ध्य्-अर्थैवेति, तस्याम् एवावस्थायां प्रवृत्तिर् युक्ता । किन्तु आत्मारामाश् च मुनय इत्य् आदेर् न तु तत्रैव तस्याः समाप्तिर् इति भावः ॥१५॥
मुकुन्दः- य अतिभाग्येनातिशय-सुकृतेन केनापि भक्तौ विश्वास-हेतुत्वाद्य्-अनिर्वचनीयेन। तस्य श्री-कृष्णस्य सेवने भक्तौ जात-श्रद्धस् तन्-माहात्म्यं यथा श्रूयते तत् तथैव श्रद्धया युक्तः । नातिसक्तः भगवत्-सम्मुखता-मात्रार्थं देह-दैहिकेष्व् ईषद् विमुखः ॥१४-१५॥
विश्वनाथः- य इति अतिभाग्येन महत्-सङ्गादि-जात-संस्कार-विशेषेण, वैराग्यम् अत्र भजन-प्रतिकुल-फल्गु-वैराग्यम् इत्य् अर्थः । तेन विषय-वासनादौ वैराग्यार्थं यतिष्यत्य् एव ॥१४॥
यदृच्छया प्रथम-स्कन्ध-व्याख्यात-युक्त्या यादृच्छिक-महत्-सङ्गेन सत्-सङ्गेन मत्-कथादौ जात-श्रद्ध इति । अत एव श्रद्धामृत-कथायां मे [भा।पु। ११.१९.२०] इति, श्रद्धालुर् मे कथां शृण्वन् [भा।पु। ११.११.२३] इति, तत्र तत्र भक्ति-योगे कथा-श्रद्धालुर् एवाधिकारी दर्शितः । नातिसक्तो देह-गेह-कलत्रादिषु अत्यासक्ति-रहितः । अत एव न निर्विण्ण इति तेषु निर्विण्णत्वे ज्ञानेऽधिकारः, अत्यासक्तत्वे कर्मण्य् अधिकारः। अत्यासक्ति-राहित्ये भक्ताव् अधिकार इत्य् अधिकार-त्रय-विवेकः । निर्वेदस्य कारणं निष्काम-कर्म-हेतुकान्तः-करण-शुद्धिर् एव । अत्यासक्तेः कारणम् अनाद्य्-अविद्यैव । अत्यासक्ति-राहित्यस्य कारणं यादृच्छिक-महत्-सङ्ग एवेति तत्र तत्र कारणं दृश्यम् । किं चैतद् उत्कृष्टाधिकारिण एव लक्षणं किन्तु को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् न भजेत् सर्वतो-मृत्युः [भा।पु। ११.२.२] इत्य् उक्तेर् यादृच्छिक-भक्त-सङ्गे सतीन्द्रियवान् एव भक्तावधिकारी ज्ञेयः ॥१५॥
—ओ)०(ओ—
॥ १.२.१६-१७ ॥
उत्तमो मध्यमश् च स्यात् कनिष्ठश् चेति स त्रिधा ॥
तत्र उत्तमः—
शास्त्रे युक्तौ च निपुणः सर्वथा दृढ-निश्चयः ।
प्रौढ-श्रद्धोऽधिकारी यः स भक्ताव् उत्तमो मतः ॥
श्री-जीवः- पूर्वं शास्त्रस्य शासनेनैव प्रवृत्तिर् इत्य् उक्तत्वाच् छास्त्रार्थ-विश्वास एव आदि-कारणं लब्धम् । अतः श्रद्धा-शब्दस् तत्र प्रयुक्तः । तस्माच् छास्त्रार्थ-विश्वास एव श्रद्धेति लब्धे श्रद्धा-तारतम्येन श्रद्धावतां तारतम्यम् आह—शास्त्र इति द्वाभ्याम् । निपुणः प्रवीणः । शर्वथेति तत्त्व-विचारेण साधन-विचारेण पुरुषार्थ-विचारेण च दृढ-निश्चय इत्य् अर्थः । युक्तिश् चात्र शास्त्रानुगतैव ज्ञेया । युक्तिश् च केवला नैव [भ।र।सि। १.१.४५] युक्तेः स्वातन्त्र्य-निषेधात् । श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२८] इति न्यायात् ।
पूर्वापरानुरोधेन को न्व् अर्थोऽभिमतो भवेत् । इत्य् आद्यम् ऊहनं तर्कः शुष्क-तर्कं तु वर्जयेत् ॥ इति वैष्णव-तन्त्राच् च ।
एवम्भूतो यः प्रौढ-श्रद्धः स एवोत्तमोऽधिकारीत्य् अर्थः ॥१७॥
मुकुन्दः- शास्त्र इति । शास्त्रोक्तार्थ-प्रतिपादनाय युक्तौ च निपुण ऊहापोह-समर्थः । सर्वथोपास्य-विचारेण साधन-विचारेण पुरुषार्थ-विचारेण च—
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् । नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥ [भा।पु। ५.१४.४४]
इत्य् आदि-कैमुत्येन सुखाधिक्य-मननात् प्रौढ-श्रद्धः ॥१७॥
**विश्वनाथः- **पूर्वं शास्त्रस्य शासनेनैव प्रवृत्तिर् इत्य् उक्तत्वाच् छास्त्रस्रार्थ-विश्वास एवादि-कारणं लब्धम् । तस्माच् छास्त्रार्थ-विश्वास एव श्रद्धेति लब्धे श्रद्धा-तारतम्येन श्रद्धावतां तारतम्यम् आह—शास्त्र इति द्वाभ्याम् । शर्वथेति तत्त्व-विचारेण साधन-विचारेण पुरुषार्थ-विचारेण च दृढ-निश्चय इत्य् अर्थः । युक्तिश् चात्र शास्त्रानुगतैव ज्ञेया । युक्तिश् च केवला नैव [भ।र।सि। १.१.४५] इति युक्तेः स्वातन्त्र्य-निषेधात् । एवम्भूतो यः प्रौढ-श्रद्धः स एवोत्तमोऽधिकारीत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ १.२.१८ ॥
तत्र मध्यमः—
यः शास्त्रादिष्व् अनिपुणः श्रद्धावान् स तु मध्यमः ॥
श्री-जीवः- अनिपुण इति निपुण-सदृशः । बलवद्-बाधे दत्ते सति समाधातुम् असमर्थ इत्य् अर्थः । तथापि श्रद्धावान् मनसि दृढ-निश्चय एवेत्य् अर्थः ॥१८॥
मुकुन्दः- य इति श्रद्धावान् अस्य सेवने ॥१८॥
**विश्वनाथः- **अनिपुणो बलवद्-बाधे दत्ते सति समाधातुम् असमर्थः, तथापि श्रद्धावान् गुरूपदिष्ट-भगवत्-तत्त्वादौ मनसि दृढ-निश्चय एवेत्य् अर्थः ॥१८॥
—ओ)०(ओ—
॥ १.२.१९ ॥
तत्र कनिष्ठः—
यो भवेत् कोमल-श्रद्धः स कनिष्ठो निगद्यते ॥
श्री-जीवः- यो भवेद् इत्य् अत्रापि शास्त्रादिष्व् अनिपुण इत्य् अनुवर्तनीयं श्रद्धा-मात्रस्य शास्त्रार्थ-विश्वास-रूपत्वात् । ततश् चात्रानिपुण इति यत् किञ्चिन् निपुण इत्य् अर्थः । कोमल-श्रद्धः शास्त्र-युक्त्य्-अन्तरेण भेत्तुं शक्यः ॥१९॥
मुकुन्दः- कोमल-श्रद्धो भक्ति-मार्ग-विश्वासान् मार्गान्तर-विश्वासे प्रवेष्टुं शक्यः । अनिर्वचनीयस्य भाग्यस्य तारतम्याच् छ्रद्धावतां तारतम्यम् इति भावः ॥१९॥
विश्वनाथः- कोमल-श्रद्धः शास्त्र-युक्त्य्-अन्तरेण भेत्तुं शक्यो, न तु सर्वथा भिन्नः । तथात्वे भक्तत्वानुपपत्तेः । बहिर्मुख-कृत-बलवद्-बाधे सति क्षण-मात्रं चित्तस्य दोलायमानत्वम् एव कोमलत्वम् । पश्चात् स्वकृत-विवेकेन गुरूपदिष्टार्थम् एव निश्चिनोति ॥१९॥
—ओ)०(ओ—
॥ १.२.२०-१ ॥
तत्र गीतादिषूक्तानां चतुर्णाम् अधिकारिणाम् ।
मध्ये यस्मिन् भगवतह् कृपा स्यात् तत्-प्रियस्य वा ॥
स क्षीण-तत्-तद्-भावः स्याच् छुद्ध-भक्त्य्-अधिकारवान् ।
यथेभः शौनकादिश् च ध्रुवः स च चतुःसनः ॥
श्री-जीवः- श्री-भगवद्-गीतासु ये चतुर्विधा अधिकारिण उक्तास् तेऽपि शुद्ध-भक्तितः पूर्वावस्था एवेत्य् आह—तत्रेति । तत्र च यस्मिन्न् इति स इति च सामान्येनोक्तिः । यस्मिन् यस्मिन् स स इत्य् अर्थः । शौनकादि-गणः चतुःसनः सनकादिः । श्री-गीता-वाक्यं चेदम्—
चतुर्-विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥ उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्तेऽन्य-देवताः [गीता ७.१६-२०] इत्य् आदि ।
तत्र ज्ञानी आत्मविद् इति टीका-काराः । तत्रोत्तमत्वस्य कारणं च व्याख्यातवन्तः । ज्ञानिनो देहाद्य्-अभिमानाभावेन चित्त-विक्षेपाभावान् नित्य-युक्तत्वम् एकान्त-भक्तित्वं च सम्भवति । नान्यस्य इति । अत्र चेदं प्रतिपद्यते—तादृशत्वं तस्य तत्त्वं पदार्थ-ज्ञानेऽपि सम्भवतीत्य् आस्तां तज्-ज्ञानी । तत्त्वं-पदार्थ-ज्ञानानन्तर-भावयैक-ज्ञानि-गुरूणाम् अपि श्री-भगवत्-प्रसादाच् छुद्ध-भक्ति-प्रवेशो दृश्यते । यथा तृतीये—
तस्यारविन्द-नयनस्य पदारविन्द- किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः । अन्तर्-गतः स्व-विवरेण चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ [भा।पु। ३.१५.४३] इति ।
तद् एतद् अभिप्रेत्य् आह स च चतुःसन इति । तद् एवं शुद्ध-भक्तेर् उत्कर्ष-व्यञ्जनार्थम् एवैष उदाहृतः, न तु वैध्य्-अंशेऽपि राग-प्राप्तत्वात् । तच् चानुभव-ज्ञानित्वात् । अत एव शास्त्र-शासनातीतत्वाच् च । वैध्य्-उदाहरणं तु तादृश-शाब्द-ज्ञानिषु ज्ञेयम् । तथारम्भत एव शुद्ध-भक्त्य्-उत्थाने पञ्चमम् अप्य् उदाहरणं द्रष्टव्यं, यथा पूर्व-जन्मनि श्री-नारद एव । श्री-गीतादिष्व् अपि राज-विद्या-राज-गुह्याध्यायादाव् ईदृश एवाधिकारी दर्शितः । तद् एतद् गीतोदाहरणं च तन्-मतानुसारेणापि शुद्ध-भजने पर्यस्यतीति ग्रन्थकृद्भिर् अपि दर्शितम् । श्री-वैष्णवानां मते तु सुतराम् एवेति तन् नोट्टङ्कितं, वस्तुतस् तु तत्र हि ज्ञानि-शब्देन भगवज्-ज्ञान्य् एवोच्यते । पूर्वं हि—ज्ञानं तेऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः [गीता ७.२] इत्य् उक्त्वा तस्य च ज्ञानस्य मनुष्याणां सहस्रेषु [गीता ७.३] इत्य् आदिना आत्म-ज्ञान-सिद्धेर् अपि दुर्लभत्वम् उक्त्वा स्वस्य च भूमिर् आप [गीता ७.४] इत्य् आदिना प्रधानाख्य-जीवाख्य-शक्ति-द्वय-कारणके स्वस्मिन् परम-कारणत्वम् उक्त्वा तत एव सर्व-श्रेष्ठत्वं सर्वाश्रयत्वं चोक्तं, सर्वाश्रयत्वेऽपि— पुण्यो गन्धः [गीता ७.९] इत्य् आदौ पुण्यादि-शब्दानां यथायोगं सर्वत्र योजनया प्राप्ता दोषास्पृष्ट्वा ये सर्वे गुणास् तेषाम् अतितुच्छानाम् अपि स्वाभेद-निर्देशेन स्व-गुण-च्छविमयत्वं दर्शयित्वा साक्षात् स्व-गुणानां तु कैमुत्यम् एवानीतम् आनन्त्यं च । तत्र च—
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ [गीता ७.१२]
इत्य् अनेन माया-गुणास्पृष्ट-गुणत्वं दर्शितम् । तद् एवं भेदेऽपि लब्धे यद् उत्तरत्र बहूनां जन्मनाम् इत्य् आदौ वासुदेवः सर्वम् इति ज्ञानवान् मां प्रपद्यते इत्य् अत्र प्रतिपाद्ये यद् अभेद इव श्रूयते । तत् खलु सूर्य-तद्-रश्म्य्-आदिवत् वासुदेवात् सर्वं न भिन्नं सर्वस्मात् तु वासुदेवो भिन्न इत्य् एव सङ्गच्छते । यथोक्तं श्री-भागवते ब्रह्मणा—
सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः । समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यत् ॥ [भा।पु। २.७.५०] इति ।
तत्रैव श्री-भगवता प्रोक्तं— ये चैव सात्त्विका भावा इत्य् आदि । श्रीमद्-अर्जुनेन तु
सर्वं समाप्नोषि ततोऽसि सर्वः [गीता ११.४०] इत्य् एव वक्ष्यते । यस्माद् एव चैवम्भूत-ज्ञानवान् यः स मां प्रपद्यत इति प्रपत्तिर् एव प्रोक्ता । यतो वासुदेवः सर्वम् इति माया-गुणातीत-बाह्याभ्यन्तरानन्त-महा-गुण-गणालङ्कृतः सोऽहम् इति स्व-ज्ञानम् एव निर्दिशन् स्वस्य भजनम् एव निश्चिकाय । अथ चतुर्विधा इत्य् आदि-पद्यानां चायम् एवार्थः—आर्तो दुःख-हानेच्छुः । अर्थार्थी सुख-प्राप्तीच्छुः । स च स च द्विविधः परिच्छिन्नापरिच्छिन्नत्व-दृष्टिः-भेदेन । अपरिच्छिन्न-दृष्टिश् चेत् तत्-तद्-अर्थं कश्चित् तत्त्व-जिज्ञासुर् अपि भवति । व्यतिक्रमेणोक्तिर् आर्ति-हानेच्छानन्तरम् एव च जिज्ञासा ज्ञायत इति । ज्ञानी पूर्वोक्त-प्रकारक-शाब्द-ज्ञानवान् । स च त्रिविधः । तादृशैश्वर्य-माधुर्य-तत्-तन्-मिश्र-ज्ञान-भेदेन । सुकृतं भक्ति-वासना-हेतु-महत्-सङ्गादि-मयं विद्यते येषां ते । तत्राद्येषु त्रिषु सुकृतस्य सन्देह इति यदि सुकृतिनस् ते तदा भजन्त इत्य् अर्थः । चतुर्थे तु निश्चयः, यतोऽसौ सुकृतित्वाज् जात-ज्ञानस् ततो भजत एवेत्य् अर्थः । तेषां मध्ये स एव पूर्वोक्त-मज्-ज्ञान्य् एवान्याभिलाषिताया मतान्तर-प्रसिद्ध-तत्त्वं-पदार्थैक्य-भावना-रूप-ज्ञानस्य स्मृति-प्रसिद्ध-वर्णाश्रम-धर्मस्य चोपेक्षया केवलं मां भजन्न् उत्तम-भक्तत्वान् ममात्यन्त-प्रियस् तस्य चाहम् अत्यन्त-प्रिय इति स-हेतुकम् आह—तेषाम् इत्य् आदि-द्वयेन ।
नन्व् आर्तादि-त्रयस्यान्ते का निष्ठा स्यात् तत्राह—बहूनाम् इति । सुकृतिन इत्य् अत्र ज्ञापितं सुकृत-विशेषं विना त्व् अन्ये संसरन्तीत्य् आह—कामैर् इत्य् आदि । तस्माच् चतुर्विधत्वम् एव भक्तानाम् इति भगवत्-प्रतिज्ञैव निर्णेया ॥२०-२१॥
मुकुन्दः- आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च इति चतुर्णां तत्-तद्-भावः आर्तत्वादिः क्षीण-तत्-तद्-भावः सन् शुद्ध-भक्त्य्-अधिकारवान् शुद्ध-सेवा-श्रद्धावान् स्यात् । क्षीण-तत्-तद्-भाव इत्य् अत्र तत्-तद्-भाव इत्य् अत्र तत् तद् इति वीप्सा यस्मिन्न् इत्य् अत्र यस्मिन् यस्मिन् स स इत्य् अर्थं बोधयति शरैर् एकैक-शास्त्रिभिर् इतिवत् ॥२०-२१॥
विश्वनाथः- चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥
इति भगवद्-गीतासु [गीता ७.१६] ये चतुर्-विधा अधिकारिण उक्तास् तेऽपि शुद्ध-भक्तितः पूर्वावस्था एवेत्य् आह—तत्रेति इतो गजेन्द्रो भगवतो माधुर्यं प्राप्य लुब्धः सन्न् आर्ति-नाशेच्छां विहाय पश्चाच् छुद्ध-भक्तो बभूव । एवं शौनकादि-मुनि-गणः सूत-सङ्गात् स्वर्गेच्छादिकं विहाय शुद्धो भक्तोऽभूत् । ध्रुवोऽपि भगवत्-कृपया राज्येच्छां विहाय । एवं चतुःसनः सनकादिर् अपि भगवत्-कृपया मोक्षेच्छां विहाय ॥२०-२१॥
—ओ)०(ओ—
॥ १.२.२२ ॥
भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते ।
तावद् भक्ति-सुखस्यात्र कथम् अभ्युदयो भवेत् ॥
श्री-जीवः : अथ मूलम् अनुसरामः । पूर्वत्र हेतुं व्यतिरेकेणाह—भुक्तीति । अत्र मुक्ति-स्पृहायाम् अपि पिशाचीत्वं, भावान्तरेण भक्ति-स्पृहावरकत्वात् पूर्वा, परा च स्वोन्मुख-तात्पर्यवतीति । अत्र यद्यपि भक्ता अपि संसारतो मुक्ता भवन्त्य् एव, तथापि तद्-अंशे तु तेषां तात्पर्यं न भवत्य् एव, किन्तु भक्तेः प्रभावेणैव सा स्याद् इति । व्याप्नोति हृदयं यावद् भक्ति-मुक्ति-स्पृहाग्रहः इति पाठान्तरं तु सुश्लिष्टं, तद् एवम् अनया कारिकया साधकानाम् अपि भुक्ति-मुक्ति-स्पृहा न युक्तेत्य् उक्तं, ततः सुतराम् एव सिद्धानां नास्तीत्य् अभिप्रायस् तु परत्रोभय-विध-तत्-तद्-उदाहरणेषु ज्ञेयः ॥२२॥
मुकुन्दः : ननु भक्तिं कुर्वताम् आर्तादीनां तत्-तद्-इच्छा भक्ति-सुखोदयात् स्वत एव निवर्तते । किम् अत्र कृपया ? तत्राह—भुक्तीति । यथा, पिशाची-स्थाने सज्जनस्य स्थितिर्, तथा हृदि तस्यां सत्यां भक्ति-सुखस्याभ्युदयो न, अत इभादीनां तत्-त्यागः कृपयैवेत्य् उक्तम् । अत आर्तादयो न शुद्ध-भक्ताव् अधिकारिणः, किन्तु तद्-इच्छा-रहिता एव ॥२२॥
**विश्वनाथः : **भुक्तीति—श्री-भागवतेऽपि स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.२८] इत्य् अनेन मोक्षस्य नरकमरव-तुल्यतया दर्शन-कथनाद् अतोऽत्र मोक्ष-स्पृहायाः पिशाचीत्व-कथनम् अपि नासङ्गतम् इति ज्ञेयम् ॥२२॥
—ओ)०(ओ—
॥ १.२.२३ ॥
तत्रापि च विशेषेण गतिम् अण्वीम् अनिच्छतः ।
भक्तिर् हृत-मनः-प्राणान् प्रेम्णा तान् कुरुते जनान् ॥
श्री-जीवः : मुक्तीच्छा-रहिताया भक्तेर् वैशिष्ट्यम् आह—तत्रापीति । अन्वीं मोक्ष-लक्षणाम् । भक्तिः श्रवणादि-लक्षणा । हृतम् आत्म-सात्-कृतं मनः प्राणाश् चेन्द्रियाणि येषां तथा-भूतान् प्रेम-द्वारा कुरुते ॥२३॥
**मुकुन्दः : **भुक्ति-मुक्ति-स्पृहा-रहितेष्व् अपि मुक्तीच्छा-रहितानां वैशिष्ट्यम् आह—तत्रापीति। अन्वीं मोक्ष-लक्षणाम् । प्राणान् इन्द्रियाणि । भक्तिः श्रवणादि-लक्षणा प्रेम्णा प्रेम-द्वारा ॥२३॥
**विश्वनाथः : **तयोर् मध्ये मुक्तीच्छा-रहिताया भक्तेर् वैशिष्ट्यम् आह—तत्रापीति । तथा च विषय-भोगेच्छा न भक्तेर् आत्यन्तिकं विरोधिनीति भावः । अन्वीं मोक्ष-लक्षणां गतिम् अनिच्छतो जनान् भक्तिः श्रवण-कीर्तनादि-लक्षणा हृत-मनः-प्राणानात्म-सात्कृत-मनः-प्राणान् प्रेम-द्वारा कुरुते । प्राणा इन्द्रियाणि ॥२३॥
—ओ)०(ओ—
॥ १.२.२४ ॥
तथा च, तृतीये (३.२५.३६)—
तैर् दर्शनीयावयवैर् उदार-
विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥
श्री-जीवः : एतत् प्रमाणयति तैर् इति । दर्शनीयावयवाद्य्-अनुभव-जात-प्रेम-द्वारैर् इत्य् अर्थः । प्रयुङ्क्ते कुरुते । तद् एवम् अक्लेश-प्राप्तत्वाद् व्याख्यातम् । व्याख्यान्तरेऽपि अन्वीं सूक्ष्मां दुर्ज्ञेयां पार्षद-लक्षणाम् इत्य् एवार्थः । प्रकरण-प्राप्तत्वात् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ‘श्नुवते तु लोके [भा।पु। ३.२५.३७] इति वक्ष्यमाणात् । तस्या अप्य् अनिच्छा दैन्येनैवेति भावः ॥२४॥
**मुकुन्दः : **तैर् इत्य् आद्य्-अनुभावेन प्रेम दर्शितम् । प्रेम्णैव साक्षाद् भगवद्-अनुभावात्। प्रयुङ्क्ते कुरुते ॥२४॥
**विश्वनाथः : **मद्-दर्शनादि-माधुर्येणैव स-चमत्कारम् अनुभूयमाणेन ब्रह्म-सायुज्यस्यारोचकत्वम् उत्पद्येता इत्य् आह—तैर् इति । दर्शनीया अतिमनोहरा ये अवयवाः श्री-कृष्ण-रामाद्य्-अङ्गानि तैस् तथा उदारा अभीष्ट-प्रदातारो विलास-हासेक्षित-मनोहर-वाक्यादयस् तैस् तथा च भक्तिर् अन्वीं गतिम् अनिच्छतो जनान् विलास-हासादिभिर् हृत-मनः-प्राणान् प्रयुङ्क्ते कुरुते । चतुर्षु धर्मार्थ-काम-मोक्षेषु मध्ये को दुर्लभः ॥२४॥
—ओ)०(ओ—
॥ १.२.२५ ॥
श्री-कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् ।
एषां मोक्षाय भक्तानां न कदाचित् स्पृहा भवेत् ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
**मुकुन्दः : **जात-भक्ति-सुखानां तु मोक्ष-सुखानां मोक्ष-स्पृहा स्वत एव नास्तीत्य् आह—श्री-कृष्णेति । कदापि भगवता तद्-दानादि-कालेऽपि ॥२५॥
—ओ)०(ओ—
॥ १.२.२६ ॥
यथा तत्रैव, श्रीमद्-उद्धवोक्तौ (३.४.१५)—
को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥
जीव-मुकुन्दयोर् व्याख्या नास्ति।
विश्वनाथः : चतुर्षु धर्मार्थ-काम-मोक्षेषु मध्ये को दुर्लभः ? ॥२६॥
—ओ)०(ओ—
॥ १.२.२७ ॥
तत्रैव, श्री-कपिल-देवोक्तौ (३.२५.३५)—
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥
श्री-जीवः- एकात्मतां ब्रह्म-सायुज्यं भगवत्-सायुज्यम् अपि ॥२७॥
मुकुन्दः- न व्याख्यातम् ।
**विश्वनाथः- **तत्रैव श्री-कपिल-देवोक्तौ—नैकात्मताम् इति ब्रह्मैक्य-रूपायै मुक्त्यै न स्पृहयन्तीत्य् अर्थः । ननु केन सुखेन पूर्णास् ते ब्रह्म-सुखं न रोचयन्ति । तत्राह—मम पादयोः सर्वेन्द्रियैर् या सेवा तस्याम् एव, न तु ज्ञानादिषु । अभि शास्त्राभिमुख्येन रता अत्यासक्तिमन्तः । अनेन भक्तेर् भगवद्-विषयत्वं सर्वेन्द्रिय-वृत्ति-रूपत्वं कर्म-ज्ञानादि-राहित्यं शास्त्रानुसारित्वं स्वाभाविकत्वं चोक्तम् । मय्य् एव मत्-सौन्दर्य-माधुर्याद्य्-आस्वादन एव ईहा वाञ्छा येषां ते इत्य् अन्याभिलाष-शून्यत्वं प्रसज्यासज्य पौरुषाणि गोवर्धनोद्धरणादि-लीलामृतानि सभाजयन्ते स-स्तुतिकम् आस्वादयन्ति । तेन चरण-सेवानन्दाभावात् सौन्दर्य-सौरभ्याद्य्-अनुभवाभावाल् लीलामृतास्वादनाभावाच् च ब्रह्म-सुखं न रोचयतीति मुक्ताव् अस्पृहायां हेतु-त्रयम् उक्तम् ॥२७॥
—ओ)०(ओ—
॥ १.२.२८ ॥
तत्रैव (३.२९.१३)—
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥
श्री-जीवः- सार्ष्टिः समानैश्वर्यम् ॥२८॥
मुकुन्दः- न व्याख्यातम् ।
**विश्वनाथः- **सालोक्यं मया सहैक-लोके वासः । सार्ष्टिः समानैश्वर्यम् । सामीप्यं निकट-वर्तित्वम् । सारूप्यं समान-रूपत्वम् । एकत्वं सायुज्यम् । उत अपि दीयमानम् अपि न गृह्णन्ति कुतस् तत्-कामनेति भावः । मत्-सेवनं विनेति केचिद् गृह्णन्ति चेन् मत्-सेवार्थम् एव गृह्णन्तीत्य् अर्थः ॥२८॥
—ओ)०(ओ—
॥ १.२.२९ ॥
चतुर्थे श्री-ध्रुवोक्तौ (४.९.१०)—
**या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥
श्री-जीवः- **तद् अपि कैवल्यम् अपि, यत्र भवत्-पदाम्भोज-मकरन्दो यशः-श्रवणादि-सुखं नास्ति । तर्हि किं कामयसे ? तत्राह—यशः-श्रवणाय कर्णानाम् अयुतं विधत्स्व । एष मे वरःस्व-महिमनि स्वः असाधारणो महिमा यस्य तस्मिन्न् अपि अन्तकस्यासिना कालेन लुलितात् विमानात् पततां नास्तीति किमुत वक्तव्यम् ॥३०॥
विश्वनाथः: येति ध्यानाद् इत्य् उपलक्षणं श्रवणादेर् अपि, श्रवणेनेत्य् उपलक्षणं ध्यानादिनापि । सा निर्वृतिः । स्व-महिम-रूपे ब्रह्मणि ब्रह्मानन्देऽपि माभूत् न भवति । महतो भावो महिमा—त्वं महान्, तत् तु महत्त्वं सर्व-व्यापकत्व-लक्षणो धर्म एवेति त्वन्-निष्ठा यावती निर्वृतिस् तावती तत्र कथं वर्तताम् इति भावः । मदीयं महिमानं च पर ब्रह्मेति शब्दितम् [भा।पु। ८.२४.३८] इत्य् अष्टमे मत्स्य-देवोक्त्यापि ब्रह्मणो भगवन्-महिमत्वम् अवगतम् । ततश् च अन्तकासिना कालेन लुलितात् खण्डितात् विमानात् स्वर्गीयात् पतताम् नास्तीति किम् उ वक्तव्यम् । ततश् च स्वर्गापवर्गाभ्याम् अधिकस्यान्यस्य कस्यापि फल-श्रवणात् । त्वद्-भक्तेर् वास्तवं फलं त्वद्-भक्तिर् एवेति भक्तेः स्वतः फलत्वं भक्तानां च निष्कामत्वम् उपपादितम् ॥२९॥
—ओ)०(ओ—
॥ १.२.३० ॥
तत्रैव श्रीमद्-आदिराजोक्तौ (४.२०.२४)—
**न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः ॥
श्री-जीवः- **तद् अपि कैवल्यम् अपि, यत्र भवत्-पदाम्भोज-मकरन्दो यशः-श्रवणादि-सुखं नास्ति । तर्हि किं कामयसे ? तत्राह—यशः-श्रवणाय कर्णानाम् अयुतं विधत्स्व । एष मे वरः ॥३०॥
मुकुन्दः : तद् अपि कैवल्यम् अपि ॥३०॥
विश्वनाथः- न कामये इति । तद् अपि कैवल्यम् अपि क्वचित् कदाचिद् अपि दुःख-दशायाम् अपि न कामये । कुतः ? यत्र कैवल्ये युष्मच्-चरणाम्बुजस्यासवो मकरन्दस् तदीय-गुण-कथा-माधुर्य-भरो नास्ति । कीदृशः ? महत्तमान्तर्-हृदयात् मुख-द्वारा च्युतोऽन्तर्-हृदये नास्वाद्यानन्दोद्रेकात् कीर्त्यमान इत्य् अर्थः । शुक-मुखाद् अमृत-द्रव-संयुतम् [भा।पु। १.१.३] इतिवन् मद्-आस्वाद्यत्वे सति तस्यातिमाधुर्यम् उदयते इति भावः । मधुरम् अपि जलं क्षार-भूमि-प्रविष्टं यथा विरसीभवति, तथैवावैष्णव-मुख-निर्गतो भगवद्-गुणोऽपि नातिरोचक इति व्यतिरेकश् च गम्यः । तर्हि किं कामयसे ? तत्राह—विधत्स्वेति । महतां गुण-कथानां चानान्त्याद् यैर् यैर् यत्र यत्र या या गुण-कथाः कीर्त्यमानाः स्युस् तासाम् एकाम् अहं त्यक्तुं न शक्नोमीत्य् अतिलोभात् कणानत्य-स्पृहा । ननु कोऽप्य् एवं न वृणीते ? सत्यम् । मम त्व् एष एव वरो नान्य इति ॥३०॥
—ओ)०(ओ—
॥ १.२.३१ ॥
पञ्चमे श्री-शुकोक्तौ (५.१४.४४)—
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥
श्री-जीवः : य आर्यभेयो भरतः ॥३१॥
**मुकुन्दः : **यो भरतः ॥३१॥
**विश्वनाथः : **य इति भरतः । वैराग्योत्तं शारीर-कष्ठं मा स्वीकरोतु । मया लाल्यमानो गृह एव तिष्ठत्व् इति सदयोऽवलोक्य् यस्यास् ताम् । अभवो मोक्षोऽपि फल्गुस् तुच्छः । तत्रापि ते विरज्यन्ति इत्य् अर्थः ॥३१॥
—ओ)०(ओ—
॥ १.२.३२ ॥
षष्ठे श्री-वृत्रोक्तौ (६.११.२५)—
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥
श्री-जीवः : नाक-पृष्ठं ध्रुव-पदम् । सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम्। रसाधिपत्यं पातालादि-साम्राज्यम् । अपुनर्भवं मोक्षम् अपि त्वा त्वां विरहय्य त्यक्त्वा । अत्र नाकपृष्ठादि-चतुष्टयस्यानुक्रमश् च न्यूनत्व-विवक्षया ततश् चोत्तरोत्तर-कैमुत्यम् अपि । ध्रुवपदस्य श्रैष्ठ्यं विष्णुपद-सन्निहितत्वात् । योग-सिद्धादिकं तु सर्वत्रैतेषां पश्चाद् विन्यस्तम् । अनयोस् तूत्तरत्र श्रैष्ठ्यम् ॥३२॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **न नेति नाकपृष्ठं स्वर्ग-पदं । हे समञ्जस ! त्वा त्वां विरहय्य त्यक्त्वा॥३२॥
—ओ)०(ओ—
॥ १.२.३३ ॥
तत्रैव श्री-रुद्रोक्तौ (६.१७.२८)—
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥
श्री-जीवः : श्री-नारायणं विनायत्र हानोपदान-दृष्टि-राहित्यात् । अपवर्ग इव स्वर्गे नरकेऽपि तुल्यम् एकम् एवार्थं द्रष्टुम् अनुभवितुं शीलं येषां ते । तुल्य-शब्दस्यैक-वाचित्वं—रषाभ्यां नो णः समान-पदे इतिवत् ॥३३॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **नारायणेति । नन्व् एवं सर्वोत्तम-माहात्म्यवत्त्वे भक्तानां को हेतुस् तत्राह—नारायण-निष्ठत्वम् एव नान्य इत्य् आह नारायणेति । न केवलम् एते चित्रकेतु-प्रभृतय एव, अपि तु सर्व एव । स्वर्गेति त्रयाणाम् एव भक्ति-सुख-राहित्येनारोचकत्वाविशेषाद् इति भावः ॥३३॥
—ओ)०(ओ—
॥ १.२.३४ ॥
तत्रैव इन्द्रोक्तौ (६.१८.७४)—
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥
श्री-जीवः : परं मोक्षम् अपि ॥३४॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **आराधणम् इति । परं मोक्षम् अपि । स्वार्थ-कुशला इति तेन ये हरेर् आराधनेन मोक्षम् इच्छन्ति, ते वर्तमान-महा-निधि-विनिमयेन तृणार्थिनः स्वार्थानभिज्ञाः । किन्तु विषय-साद्गुण्यात् तेऽपि कृतार्था एवेत्य् अर्थः । सत्यं दिशत्य् अर्थितम् अर्थितो नृणाम् [भा।पु। ५.१९.२६] ॥३४॥
—ओ)०(ओ—
॥ १.२.३५ ॥
सप्तमे प्रह्लादोक्तौ (७.६.२५)—
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः ॥
श्री-जीवः : अगुणेन मोक्षेण । सारं जुषां तन्-माधुर्यास्वादिनां सत्यम् ॥३५॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **तुष्ट इति । आद्ये भगवति तुष्टे सति गुण-व्यतिकराद् रजो-गुण-क्षोभात् स्वयम् एव सिद्धा ये धर्मादयस् तैः किम् ? आकाङ्क्षितेनागुणेन मोक्षेण किम् ? चरणयोः सारं जुषां नोऽस्माकम् एतैः किं ? ॥३५॥
—ओ)०(ओ—
॥ १.२.३६ ॥
तत्रैव शक्रोक्तौ (७.८.४२)—
**प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **प्रत्येति । हे परम ! नोऽस्मांस् त्रायता रक्षता भवता स्वीया एव भागा दैत्यात् प्रत्यनीताः प्रत्याहृताः । इन्द्रादीनां तद्-दासादीनाम् अस्माकं वस्तुषु वस्तुतः प्रभोस् तवैव स्वत्वौचित्यात् । किं चास्माकं हृदयं खलु कमलं, तत्र शश्वत् तवैव ध्यातत्वात् तद्-गृहं, कमलं यथा निःश्रीकं रात्रौ तम् असाक्रान्तं मलिनं निद्रितं भवेत् तथैव दैत्य-जन्मारभ्यैतावद्-दिन-पर्यन्तं भयाद् दैत्यस्यैव ध्यातत्वाद् दैत्याक्रान्तम् । सम्प्रति तव नृसिंह-सूर्योदये सति प्रत्यबोधि, तच्-चरणाक्रान्तं सद् व्यकसद् इत्य् अर्थः । काल-ग्रस्तम् इदम् इन्द्र-पदं कियत् ? अपरैर् योगैश्वर्यादिभिः ॥३६॥
—ओ)०(ओ—
॥ १.२.३७ ॥
अष्टमे श्री-गजेन्द्रोक्तौ (८.३.२०)—
**एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः ।
अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **एकान्तिन इति । एकान्तिनो यस्य भक्ता न कञ्चनार्थं वाञ्छन्ति तम् ईड इत्य् उत्तरेणान्वयह् । कुतो न वाञ्छन्ति, यतो भगवत्-प्रपन्ना भगवत्-प्रपत्ति-महा-सम्पत्त्यैव परिपूर्णा इत्य् अर्थः । तेषां सुखं सर्वतोऽप्य् अधिकम् इत्य् आह—अत्यद्भुतम् इत्य् आदि ॥३७॥
—ओ)०(ओ—
॥ १.२.३८ ॥
नवमे श्री-वैकुण्ठनाथोक्तौ (९.४.६७)—
**मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **प्रतीतं प्राप्तं कालेन विप्लुतं नष्टम् । अन्यत् स्वर्गादिकं कुत इच्छन्ति॥३८॥
—ओ)०(ओ—
॥ १.२.३९ ॥
श्री-दशमे नागपत्नी-स्तुतौ (१०.१६.३७)—
न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥
श्री-जीवः : अत्र नाक-पृष्ठम् अपि न वाञ्छन्ति, किम् उत सार्वभौमं, पारमेष्ठ्यम् अपि न वाञ्छन्ति । किम् उत रसाधिपत्यम् इति । पूर्वार्धे योज्यम् । उत्तरार्धे वा-शब्दोऽप्य्-अर्थे । पाद-रजः-शब्देन भक्ति-विशेष-ज्ञापनया गाढ-प्रतिपत्तिर् ज्ञाप्यते ॥३९॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.४० ॥
तत्रैव श्री-वेद-स्तुतौ (१०.८७.२१)—
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥
श्री-जीवः : हे ईश्वर ! दुरवगमं यद् आत्मनः स्वस्य भगवतस् तत्त्वं ब्रह्मानन्दाच्छादक-रूप-गुण-लीला-याथार्थ्यम् । तस्य निगमाय निगमनाय ज्ञापनाय आत्ता प्रपञ्च आनीता तनुः श्री-विग्रहो येन तस्य, तव चरितम् एव महामृताब्धिस् तत्र यः परिवर्तो मुहुः परिवृत्त्य प्लवनं, तेन परिश्रमणा वर्जित-संसार-श्रमास् ते केचिद् विरल-प्रचारा अपवर्गम् अपि नेच्छन्ति । कीदृशास् ते ? तत्राहुः—ते चरण-सरोजयोर् हंसानां भागवत-परमहंसाख्यानां यानि कुलानि शिष्योपशिष्य-परम्परास् तेषां सङ्गेन विसृष्ट-गृहाः, तन्-मते प्रथमत एव प्रवर्तास् तेऽपि । आसतां तावत् ते हंसाः, तत्-कुलानि चेत्य् अर्थः ॥४०॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **हे ईश्वर ! दुरवगमं यद् आत्मनः स्वस्य भगवत्-तत्त्वं ब्रह्मानन्दाच्छादक-रूप-गुण-लीला-याथार्थ्यम् । तस्य निगमाय ज्ञापनायात्ता प्रपञ्च आनीता तनुः श्री-विग्रहो येन तस्य तव चरितम् एव महामृताब्धिस् तत्र यः परिवर्तो मुहुः परिवृत्त्य प्लवनं तेन परिश्रमणा वर्जित-संसार-श्रमास् ते केचिद् विरल-प्रचारा अपवर्गम् अपि नेच्छन्ति । कीदृशास् ते ? तत्राहुः—ते तव चरण-सरोजयोर् हंसानां भागवत-परमहंसानां यानि कुलानि शिष्योपशिष्य-परम्परास् तेषां सङ्गेन विसृष्ट-गृहाः ॥४०॥
—ओ)०(ओ—
॥ १.२.४१ ॥
एकादशे श्री-भगवद्-उक्तौ (११.२०.३४)—
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.४२ ॥
तथा (११.१४.१४)—
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥४२॥
श्री-जीवः : अत्र पारमेष्ठ्यादि-चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया न्यूनत्व-विवक्षया च । ततश् च पूर्ववत् कैमुत्यम् अपि योगादि-द्वयं तु पूर्ववत्, किं बहुना, यत् किञ्चिद् अन्यद् अपि साध्य-जातं तत् सर्वं नेच्छन्त्य् अपि, किन्तु मत् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिक्यम् इच्छन्तीत्य् अर्थः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥४२॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **किं बहुना, यत् किञ्चिद् अन्यद् अपि साध्य-जातं, तत् सर्वं नेच्छन्त्य् एव, किन्तु मत् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिक्यम् इच्छन्तीति भावः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥४२॥
—ओ)०(ओ—
॥ १.२.४३ ॥
द्वादशे श्री-रुद्रोक्तौ (१२.१०.६)—
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.४४ ॥
पद्म-पुराणे च कार्त्तिक-माहात्म्ये (दामोदराष्टके)—
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशाद् अपीह ।
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥
श्री-जीवः : मोक्षावधिं मोक्षं चेति, नरकादि-मोक्षास् तु तत्र के वराका इति भावः ॥४४॥
**मुकुन्दः : **वरम् इति । मोक्षं न वृणे मोक्षावधिं धर्मार्थ-काम-रूपं वान्यं वरं च ॥४४॥
**विश्वनाथः : **मोक्षम् एव मोक्ष एवावधिर् येषां तान् धर्मार्थ-कामान् अप्य् अहं न वृणे॥४४॥
—ओ)०(ओ—
**॥ १.२.४५ ॥
कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-बद्धौ कृतौ च ।
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **कुवरात्मजौ नलकूवर-मणिग्रीवौ ॥४५॥
—ओ)०(ओ—
॥ १.२.४६-४८ ॥
हयशीर्षीय-श्री-नारायण-व्यूह-स्तवे च—
न धर्मं कामम् अर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥
तत्रैव—
पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः ।
भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहं ॥
यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः ।
नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥
श्री-जीवः : विष्णुर् न याचित इति दुह्-आदौ गौण-कर्मण एव विष्णोर् वाच्यत्वात् प्रथमा विभक्तिर् एव, वृतेत्य् अत्र वृणोतेर् अपि तद्-आदित्वे मुख्य-कर्मणो भक्तेर् उक्तत्वम् आर्षम् ॥४७॥
**मुकुन्दः : **विष्णुर् न याचित इति याचतेर् दुह्-आदित्वाद् गौण-कर्मण एव विष्णोः प्रत्ययेनोक्तत्वात् प्रथमा । भक्तिर् एव वृता याचिता । अत्र प्रथमार्षी द्विकर्मकस्य विवक्षाभावात् । विष्णोर् भक्तिर् वृतेति वा योज्यम् ॥४७॥
**विश्वनाथः : : **विष्णुर् न याचित इति दुह्-आदेर् गौण-कर्मण एव विष्णोर् उक्तत्वात् प्रथमा । भक्तिर् एव, वृतेत्य् अत्र द्वितीय-कर्मणोऽविवक्षितत्वाद् एव मुख्य-कर्मणो भक्तेर् उक्तत्वम् ॥४६-४८॥
—ओ)०(ओ—
॥ १.२.४९ ॥
अतएव प्रसिद्धम् श्री-हनुमद्-वाक्यम्—
भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये ।
भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।** **
**विश्वनाथः : **भव-बन्ध-च्छेदिकायै तस्यै मुक्त्यै अहं न स्पृहयामि । यत्र मुक्तौ॥४९॥
—ओ)०(ओ—
॥ १.२.५०-५१ ॥
श्री-नारद पञ्चरात्रे च जितन्ते-स्तोत्रे—
**धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन ।
त्वत्-पाद-पञ्कजस्याधो जीवितं दीयतं मम ॥
मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **जीवितं जीवनम्—तथा च तं विना मम जीवनम् एव मास्तु इत्य् अर्थः ॥५०॥
—ओ)०(ओ—
॥ १.२.५२ ॥
अतएव श्री-भागवते षष्ठे (६.१४.५)—
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥
श्री-जीवः, विश्वनाथः : मुक्तानां प्राकृत-शरीर-स्थत्वेऽपि तद्-अभिमान-शून्यानाम् । सिद्धानां प्राप्त-सालोक्यादीनां च, कोटिष्व् अपि मध्ये नारायण-सेवा-मात्र-काङ्क्षी सुदुर्लभः ॥५२॥
**मुकुन्दः : **यत्र एषां मोक्षेच्छा कदापि नास्त्य् अत एवैते पञ्चविध-मुक्तेषु सुदुर्लभा इत्य् आह अत एव श्री-भागवते षष्ठ इत्य् आदि श्लोक-त्रय्या मुक्तानां देहस्थत्व एव प्राप्त-ब्रह्म-भावानां प्राप्त-सालोक्यादि-चतुर्धा-मुक्तीनाम् अपि कोटिषु मध्ये ॥५२॥
—ओ)०(ओ—
॥ १.२.५३ ॥
प्रथमे च श्री-धर्मराज-मातुः स्तुतौ (१.८.२०)—
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥
श्री-जीवः : तद् एवं श्री-कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् [भ।र।सि। १.२.२५] तत्-सेवा-सुखैक-स्पृहिणां यन् मोक्ष-स्पृहा नास्तीत्य् उक्तं तत्र प्रमाणानि विवृतानि । अथ तादृशेषु तस्य च स्व-सेवा-दान एव प्रयत्न इत्य् आह—प्रथमे इत्य् अनन्तरं तथा परमेत्य् अनेन । परमहंसानां भक्ति-योग-विधानार्थम् अर्थो यस्य तं त्वाम् इति शेषः ॥५३॥
**मुकुन्दः : **परमहंसानां जीव-मुक्तानां भक्ति-योग-विधानार्थम् अर्थो यस्य तं त्वाम् इति शेषः ॥५३॥
**विश्वनाथः : **तद् एवं श्री-कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् [भ।र।सि। १.२.२५] तत्-सेवा-सुखैक-स्पृहिणां यन् मोक्ष-स्पृहा नास्तीत्य् उक्तं तत्र प्रमाणानि विवृतानि । इदानीं तादृश-भक्तेषु भगवतश् च स्व-सेवा-दान एवाभिप्राय इत्य् आह—प्रथमे इत्य् आद्य् अनन्तरं तथा परमेत्य् अनेन । परमहंसानां भक्ति-योग-विधानम् एवार्थः प्रयोजनं यस्य तं त्वाम् इति शेषः ॥५३॥
—ओ)०(ओ—
॥ १.२.५४ ॥
तत्रैव श्री-सूतोक्तौ (१.७.१०)—
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥
श्री-जीवः : निर्ग्रन्था विधि-निषेधात्मक-ग्रन्थेभ्यो निर्गता अपि ॥५४॥
मुकुन्दः : आत्मारामा ब्रह्मानुभविनो निर्ग्रन्था विधि-निषेधात्मक-ग्रन्थेभ्यो निर्गता अपि । तत्र हेतुम् आह—इत्थम्भूत-गुण इत्थम्भूता आत्मारामादि-कर्षका गुणा यस्य न तथा । आत्मारामाः स्वतो भक्ति-करणायोग्या भगवान् तान् अपि कृपया गुणैर् आकृष्य भक्तिं कारयितुम् एव तरति स्म । अहो भक्तानां दौर्लभ्यम् इति भावः ॥५४॥
विश्वनाथः : निर्ग्रन्था विधि-निषेधात्मक-ग्रन्थेभ्यो निर्गता अपि । इत्थम्भूत आत्मारामाकर्षक-गुणो यस्य सः ॥५४॥
—ओ)०(ओ—
॥ १.२.५५ ॥
अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्च-विधापि चेत् ।
सालोक्यादिस् तथाप्य् अत्र भक्त्या नातिविरुध्यते ॥५५॥
श्री-जीवः : अत्र त्याज्येति । अपि चेद् यद्यपि तथापि सालोक्यादिः सालोक्य-सार्ष्टि-सामीप्य-सारूप्य-रूपा नातिशयेन विरुध्यते, किन्तु केनाप्य् अंशेन विरुध्यन्ते, प्रतिकुलतया भाव्यत इति तत्र तत्र भक्ति-श्रवणात् ॥५५॥
**मुकुन्दः : **अत्रेति । अपि चेद् यद्यपि सालोक्यादिश् चतुर्विधा नातिविरुध्यते, केनाप्य् अंशेन प्रतिकुला भवति, केनापि नेत्य् अर्थः । ऐक्य-रूपा तु सर्वांशेनैव ॥५५॥
**विश्वनाथः : **अत्र त्याज्येति । **अपि चेद् **यद्यपि तथापि **सालोक्यादिः **सालोक्य-सार्ष्टि-सामीप्य-सारूप्य-रूपा नातिशयेन विरुध्यते, तत्र तत्र भक्ति-श्रवणान् नात्यन्त-विरोधश् च ॥५५॥
—ओ)०(ओ—
**॥ १.२.५६ ॥
सुखैश्वर्योत्तरा सेयं प्रेम-सेवोत्तरेत्य् अपि ।
सालोक्यादिर् द्विधा तत्र नाद्या सेवा-जुषं मता ॥५६॥
श्री-जीवः : **तत्राति-शब्द-प्रतिपाद्यम् आह—सुखेति । तल्-लोकादि-स्वभावजं सुखम् ऐश्वर्यं च उत्तरं प्राधान्येन वाञ्छनीयं यस्यां सा । प्रेम्णा प्रेम-स्वाभाव्येन सेवैव उत्तरा यस्यां सा । **तत्र नाद्या सेवा-जुषां मता **इति सालोक्य-सार्ष्टि-सामीप्य- [भा।पु। ३.२९.१३] इत्य्-आद्य् उक्तत्वात् । तत्र सालोक्यादि-चतुष्टयं सेवनं विनाभूतं चेत्, तर्हि न गृह्णन्त्य् एवेत्य् अर्थः । एकत्वं तु नित्यं तद्-विनाभूतत्वात् न गृह्णन्त्य् एवेत्य् अर्थः । तच् चेश्वरे ब्रह्मणि च सायुज्यं ज्ञेयम् ॥५६॥
**मुकुन्दः : **नातिविरुध्यते इति विविच्य दर्शयति—सुखेति । ऐश्वर्य-प्रधान-गुण-प्रकाशि श्री-पर-व्योमनाथादीनाम् ऐश्वर्य-प्रधानेषु लोकेषु तेषां सेवाम् उपसर्जनीकृत्य सुखैश्वर्य-प्रधानतया सालोक्यादीनां स्थितिः सुखैश्वर्योत्तरा मुक्तिः । सुखैश्वर्ये उपसर्जनीकृत्य तत्-सेवा-प्रधानतया तत्र स्थितिः प्रेम-सेवोत्तरा सा । सेवा-जुषां सेवायाम् प्रीतिमताम् ॥५६॥
**विश्वनाथः : **तत्राति-शब्द-प्रतिपाद्यम् आह—सुखेति । तल्-लोकादि-स्वभावजं सुखम् ऐश्वर्यं चोत्तरं प्राधान्येन वाञ्छनीयं यस्यां सा । प्रेम्णह् स्वाभाव्येन सेवोत्तरा प्राधान्येन वाञ्छनीया यस्यां सा । तत्र नाद्या सेवा-जुषां मता इति भगवत्-सुख-तात्पर्येण सेवा-जुषां भक्तानां स्वस्य सुखैश्वर्योत्तरा मुक्तिर् न मता—न सम्मता । तत्र सालोक्यादि-चतुष्टयं सेवनं विनाभूतं चेत् तर्हि न गृह्णन्ति । एकत्वं तु सर्वथा तद्-विनाभूतत्वात् न गृह्णन्त्य् एवेत्य् अर्थः । एकत्वं त्व् ईश्वरे ब्रह्मणि च सायुज्य-रूपं ज्ञेयम् ॥५६॥
—ओ)०(ओ—
॥ १.२.५७ ॥
किन्तु प्रेमैक-माधुर्य-जुष एकान्तिनो हरौ ।
नैवाङ्गीकुर्वते जातु मुक्तिं पञ्च-विधाम् अपि ॥
श्री-जीवः : नैवाङ्गीकुर्वत इति प्रेम-सेवोत्तरेत्य् उत्तर-शब्दोपादानाद् अन्यांशस्यापि सद्-भावापत्तेः । तत्रान्यांशं नेच्छन्तीत्य् अर्थः । मत्-सेवया प्रतीतं ते [भा।पु। ९.४.६७]2 इत्य् आदौ तु प्रथमा सेवा साधन-रूपा, द्वितीया तु तया सिद्ध-रूपा, प्रतीतम् आनुषङ्गिकतया प्राप्तम् अपि सालोक्यादि-चतुष्टयं तद्-गत-सुखैश्वर्यादिकं तु नेच्छन्ति इत्य् अर्थः । ततः साक्षात् तदीय-सेवयैव पूर्णा लब्ध-परमानन्दाः । सेव्य् ह्य् एषा सालोक्यादिकम् अपेक्षत एव । एतच् च न वाञ्छन्ति चेत्, कैमुत्येन ऐक्यं सालोक्यादिभ्यो यद् अन्यत् तु काल-विप्लुतम् एव । तद् वा कथं वाञ्छन्त्व् इत्य् अर्थः ॥५७॥
मुकुन्दः : किन्तु हरौ एकान्तिनस् तद्-एक-निष्ठाः श्रीमद्-उद्धव-पाण्डव-हनुमद्-आदयः। किं-रूपास् ते ? तत्राह—प्रेमैकेति । दासादि-सम्बन्धि-प्रेम-सेवा-मात्रास्वादकाः ॥५७॥
**विश्वनाथः : **नैवाङ्गीकुर्वत इति । एकान्तिनो भक्ताः प्रेम-सेवोत्तराम् अपि नैवाङ्गीकुर्वते । प्रेम-सेवोत्तरेत्य् उत्तर-शब्दोपादानेन स्व-सुख-तात्पर्यस्यापि गौणतया सद्-भावापत्तेः । तथा च केवल-प्रेम-सेवार्थम् एव सालोक्यम् अङ्गीकुर्वन्ति, न तु प्रेम-सेवोत्तरार्थम् अपि॥५७॥
—ओ)०(ओ—
॥ १.२.५८ ॥
तत्राप्य् एकान्तिनां श्रेष्ठा गोविन्द-हृत-मानसाः ।
येषां श्रीश-प्रसादोऽपि मनो हर्तुं न शक्नुयात् ॥
श्री-जीवः : गोविन्दः श्री-गोकुलेन्द्रः । उपलक्षणत्वेन श्री-द्वारकानाथोऽपि । श्रीशः पर-व्योमाधिपतिः ॥५८॥
मुकुन्दः : गोविन्दो नन्द-नन्दनः । श्रीशः श्री-पर-व्योमेश्वरः ॥५८॥
विश्वनाथः : तत्राप्य् एकान्तिनां नानावतार-भक्तानां मध्ये गोविन्दः श्री-गोकुलेन्द्रः, तेन हृत-मानसाः श्रेष्ठाः । श्रीशः पर-व्योमेशो महा-नारायणः, तस्यापि प्रसादोऽनुग्रहः ॥५८॥
—ओ)०(ओ—
॥ १.२.५९ ॥
सिद्धान्ततस् त्व् अभेदेऽपि श्रीश-कृष्ण-स्वरूपयोः ।
रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः ॥
श्री-जीवः: रसेनेति । सर्वोत्कृष्ट-प्रेम-मय-रसेनेत्य् अर्थः । उत्कृष्यते अन्तर्भूत-ण्य्-अर्थत्वात् उत्कृष्टतया प्रकाश्यते इत्य् अर्थः । यतस् तस्य रसस्य एषैव स्थितिः स्वभावः । यत् कृष्ण-रूपम् एवोत्कृष्टत्वेन दर्शयतीत्य् अर्थः । यथोक्तं कुरुक्षेत्र-यात्रायाम् अष्ट-पट्ट-महिषीतर-महिषीभिः ।
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः ॥ व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा।पु। १०.८३.४१-४३] इति ।
अत्र साम्राज्यं सार्वभौमं पदं स्वाराज्यम् इन्द्र-पदम् । भोज्यं तद्-उभय-भोग-भाक्त्वम् । वैराज्यम् अणिमादि-सिद्ध्या विराजमानत्वम् । पारमेष्ठ्यं प्राजापत्यम् । आनन्त्यं ते ये ते शतम् [तैत्त।उ। २.८.२] इत्य् आदि-श्रुति-रीत्या मनुष्यानन्दम् आरभ्य शत-शत-गुणितत्वेन प्राजापत्यस्य गणनायाः परां काष्ठां दर्शयित्वा पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [तैत्त।उ। २.४.१] इत्य् अनेन यदानन्दस्यानन्त्यं दर्शितं तद् अपीत्य् अर्थः । किं बहुना, हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत् तद् एतत् सर्वम् अपि न कामयामहे, नाधीनं कर्तुम् इच्छाम इत्य् अर्थः । तर्हि किम् अधिकं लब्धुं कामयध्वे? तत्राहुः, एतस्यास्मत्-पतित्वेन सर्व-विज्ञातस्य गदा-ब्ःर्तः श्रीमत्-पाद-रज एव मूर्ध्ना वोढुं कामयामहे । तत्रापि यत् श्रियः कुच-कुङ्कुम-गन्धेनाढ्यं, तद्-गन्धेन प्राप्त-सम्पद्-विशेषं, तत् पुनर् अधिकं कामयामह इत्य् अर्थः ।
ननु, श्रीपतेर् एव पदं श्री-कुच-कुङ्कुम-गन्धाढ्यं तत्-सामीप्यादि-त्यागात् तत् तु भवत्यस् त्यक्तवत्य एव । यदि श्रीर् अत्र रुकुम्ण्य् अभिप्रेयते तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तत्-तद्-विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यम् तत् स्याद् इति गम्यते । ततस् तद्-अवबोधनाय पुनर् विशिष्यताम् । तत्राहुः—व्रज-स्त्रिय इति ।
पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥ [भा।पु। १०.२१.१७]
इति स्व-वाक्याद्य्-अनुसारेण व्रज-स्त्र्य्-आदयो यद् वाञ्छन्ति ववाञ्छुर् इत्य् अर्थः । वर्तमान-प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्-आदि-निर्देशस् तु स्वेषाम् अपि तत्-प्राप्ति-योग्यता-विवक्षया । तृण-वीरुधो दूर्वाद्याः । आसां तादृग्-अनुभवश् च तत्-कुङ्कुम-सौरभ-वासितत्वाविच्छिन्न-तत्-पाद-प्रभावाद् एवेति भावः । आसां वाञ्छा—केवलेन हि भावेन गोप्यो गावो नगा मृगाः [भा।पु। ११.१२.७] इति दृष्टेः । गावो गाश् चारयन्तो गोपा इत्य् अन्तेन निर्देशस् तु तेषां केषाञ्चित् प्रिय-नर्म-सखादीनां तद्-अनुमोदन-कारित्वेऽपि पुरुषत्वात् तत्रायोग्यत्व-विवक्षया ।
अयं भावः—स्त्रीत्वेन प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः ।
कस्यानुग्रहोऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्पर्शाधिकारः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रतः ॥ [भा।पु। १०.१६.३६]
इति नाग-पत्नीनाम् उक्तेः । या वै श्रियार्चितम् [भा।पु। १०.४७.६२] इत्य् उद्धवस्याप्य् उक्तेः ।
न च रुक्मिणीत्वेन प्रसिद्धायाः श्रियस् तत्र सङ्गतिः । काल-देशयोर् अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता—नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इत्य्-आदिना ततोऽपि परमाधिक्य-श्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मात्स्य-स्कान्दादि-निर्णीत्या रुक्मिण्या सह पठिता शक्तित्व-साधारण्येनैव शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे।सू। १.१.३०] इति न्याय-रीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्य् अहङ्ग्रहोपासना-शास्त्र-दृष्ट्या स्वाभेदेनोपदिष्टा । श्री-राधा तु सर्वतः पूर्णा तल्-लक्ष्मीः । तथा,
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥
इत्य् आदि बृहद्-गौतमीय-दृष्ट्या च । तथा या तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा श्रीर् विराजते ताम् उद्दिश्यैव तासां तद् इदं वाक्यम् । यथा,
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ [भा।पु। १०.३०.२८] इति ।
अप्य् एणपत्न्य्-उपगत [भा।पु। १०.३०.११] इत्य्-आदि-द्वयं च । ततश् च तासां यथा तत्र स्पृहास्पन्दता तथास्माकं चेति ।
तद् एवं तादृश-प्रेम-स्फूर्तिमय-तद्-गन्धाढ्यतायाः सम्प्रत्य् अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्-रज एव वाञ्छन्ति, अपि तु तादृश-पाद-स्पर्शम् च वाञ्छन्ति । ततो वयम् अपि च कामयामह इत्य् अर्थः । यद् वा, तद्-रजस एव विशेषणं पाद-स्पर्शम् इति । तद्-अव्यभिचारि-फलत्वाद् अभिन्नम् एवेत्य् अर्थः । एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्याद् अपि स्वभावाद् उत्तम आत्मा सौन्दर्यादि-प्रकाश-मयः स्वभावो यस्य तादृशस्य । तत्रातिशुशुभे ताभिर् भगवान् [भा।पु। १०.३३.६] इति श्री-शुकोक्तेः ।3
तस्मात् साधूक्तं तत्राप्य् एकान्तिनां श्रेष्ठा गोविन्द-हृत-मानसाः [भ।र।सिन्। १.२.५८] इत्य् आदिना । कृष्ण-रूपम् इत्य् अनेन च तादृशं तत्-सौन्दर्यम् एवोपलक्षितम् इति । यद्य् अप्य् एतत् प्रकरणं सिद्ध-भक्त-गणाश्रितं, तथाप्य् अन्ये तथा-दृष्ट्या स्युर् इत्य् अत्रानुकीर्तितम्॥५९-६०॥
मुकुन्दः : तत्र हेतुम् आह—सिद्धन्तत इति । श्रीश-कृष्णयोर् ये स्वरूपे सच्चिदानन्द-निविडौ श्री-विग्रहौ तयोः सिद्धान्ततोऽभेदे ऐक्येऽपि कृष्ण-रूपं कृष्ण-विग्रहस् तु रसेन वक्ष्यमाणाद्भुत-चतुःषष्ठि-गुणजास्वाद-विशेषेण करणेनोत्कृष्यते, तद्-योग्येषु भक्तेषु श्रीशाद् उत्कर्षतया प्रकाश्यते । कर्म-कर्तरि प्रत्ययः । एषा रस-स्थितिर् एषैवरस-मर्यादा—
यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ [भा।पु। ३.२.१२] गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा।पु। १०.४४.१४]
यद्-वाञ्छया श्रीर् ललनाचरत् तपो
विहाय कामान् सुचिरं धृत-व्रतः ॥ [भा।पु। १०.१६.३६]
इत्य् आदि श्री-भागवत-पुराणादिषु श्री-जयदेव-बिल्वमङ्गल-लीलाशुक-श्री-चैतन्य-देव-पार्षदाद्य्-अनुभवेषु च दृश्यते इत्य् अर्थः ॥५९॥
विश्वनाथः : रसेनेति । सर्वोत्कृष्ट-प्रेम-मय-रसेनेत्य् अर्थः । उत्कृष्यतेऽन्तर्भूत-ण्य्-अर्थत्वाद् उत्कृष्टतया प्रकाश्यते इत्य् अर्थः । यतस् तस्य रसस्य एषैव स्थितिः स्वभावः । यत् कृष्ण-स्वरूपम् एवोत्कृष्टत्वेन दर्शयतीत्य् अर्थः । तथा च नाना-विध-प्रेम-रसस्य महा-भाव-रूप-रसे उत्कर्षस्य परम-काष्ठा तादृश-रसस्यालम्बनः केवलः व्रजेन्द्रनन्दनः श्री-कृष्ण एव, न त्व् अवतारान्तरो महा-नारायणो वा । अत एव महा-नारायणस्य वक्षः-स्थल-स्थितापि लक्ष्मीः तादृश-रसोत्कर्ष-विशिष्टस्य प्राप्त्य्-अर्थं तपश् चकार । तत्र प्रमाणं श्री-दशमे नाग-पत्नी-स्तुतौ—
कस्यानुग्रहोऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्पर्शाधिकारः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रतः ॥ [भा।पु। १०.१६.३६] इति ।
तत्रैवोद्धवोक्तौ—नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इति । महा-भावस्य प्रमाणं तत्रैव दशमे—कृष्णे क्व चैष परमात्मनि रूढ-भावः [भा।पु। १०.४७.५९] इति रूढ-भावस्यापर-पर्यायो महा-भावः । एवं सति साधूक्तं रसेनोत्कृष्यते कृष्ण-रूपम् इति भावः ॥५९॥
—ओ)०(ओ—
॥ १.२.६० ॥
किम् च—
**शास्त्रतः श्रूयते भक्तौ नृ-मात्रस्याधिकारिता ।
सर्वाधिकारितां माघ-स्नानस्य ब्रुवता यतः ।
दृष्तान्तिता वशिष्ठेन हरि-भक्तिर् नृपं प्रति ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : **नन्व् एवं भुक्ति-मुक्ति-स्पृहा-रहिताः श्रद्धालवः शुद्ध-भक्त्य्-अधिकारिण इत्य् आयातम् । तत्र ते त्रैवर्णिका एव, किं वा सर्वे ? तत्राह—किं चेति ॥६०॥
—ओ)०(ओ—
॥ १.२.६१-६२ ॥
यथा पाद्मे—
सर्वेऽधिकारिणो ह्य् अत्र हरि-भक्तौ यथा नृप ॥
काशी-खण्डे च तथा—
**अन्त्यजा अपि तद्-राष्ट्रे शङ्ख-चक्राङ्क-धारिणः ।
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥
श्री-जीवः : **काशी-खण्डे च भक्तौ नृमात्रस्याधिकारिता श्रूयते, इत्य् एतन्-मात्रांशेनान्वयः । दीक्षिता याज्ञिकाः ॥६०॥
**मुकुन्दः : **माघ-स्नानस्य सर्वाधिकारितां ब्रुवता वशिष्टेन नृपं प्रति हरि-भक्तिर् दृष्टान्तिता । वशिष्ट-वाक्यम् एवाह—यथेति । अत्र माघ-स्नाने ॥६०॥
**विश्वनाथः : **तस्य राज्ञो राष्ट्रे देशे । दीक्षिता याज्ञिका इव सम्बभुर् दीप्तिं चक्रुः ॥६०॥
—ओ)०(ओ—
॥ १.२.६३-६४ ॥
अपि च—
अननुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते ।
न कर्मणाम् अकरणाद् एष भक्त्य्-अधिकारिणाम् ॥६३॥
निषिद्धाचारतो दैवात् प्रायश्चित्तं तु नोचितम् ।
इति वैष्णव-शास्त्राणां रहस्यं तद्-विदां मतम् ॥६४॥
श्री-जीवः : तद् एवम् अन्याभिलाषिता-शून्यत्वम् इति स्थापितम् । तत्-प्रसङ्ग-सङ्गत्या सर्वेषाम् अप्य् अधिकारित्वं दर्शितम् । तत्र शङ्कते—ननु, भवन्तु सर्व एवाधिकारिणः, किन्तु स्व-स्व-धर्म-युक्ता एवेति युज्यते । तं विना प्रत्यवाय-श्रवणात् । तथा सर्वेषां प्रायो निषिद्ध-कर्म आपतत्य् एव । सति च तेन दुष्टत्वे कथं शुद्धत्वं स्यात् ? कृते च प्रायश्चित्ते कर्मावृतत्वम् आपद्यते ? तत्राह—अपि चेति । भक्त्य्-अङ्गानां नित्यानां इति ज्ञेयम् ॥६३॥
दैवाद् इति । यस्य भक्तौ तादृशी रुचिः श्रद्धा वा जाता, तस्य तु विकर्मणि स्वतः प्रवृत्तिर् न सम्भवत्य् एवेति भावः । प्रायश्चित्तं तु नोचितम् इति भक्ति-प्रभाव एव तत्-प्रायश्चित्ताय कल्पत इति भावः ॥६४॥
मुकुन्दः- ननु, भवन्तु सर्व एवाधिकारिणः, किन्तु तेषां स्व-स्व-धर्मो निषिद्धाचरणे प्रायश्चित्तं च दोष-निवर्तकत्वात् कर्तव्यम् एव । तत्राह—नोचितम् इति । दैवाद् इति भक्त्य्-अधिकारिणां विकर्मणि स्वतः प्रवृत्तिर् न जायत इति भावः । प्रायश्चित्तं तु नोचितम् इति तेषां भक्ति-प्रभावाद् एव विकर्म-पापास्पर्शश् चेति भावः । यथा इतिहास-समुच्चये—लिप्यते न हि पापेन वैष्णवा विष्णु-तत्पराः इति ॥६३-६४॥
विश्वनाथः : भक्त्य्-अधिकाराणां जनानां भक्त्य्-अङ्गानाम् एकादशी-व्रत-जन्माष्टम्य्-आदि-नित्याङ्गानां अकरणे दोषः । न कर्मणाम् अकरणात् । दैवात् प्राचीन-वैष्णवापराध-दोष-वशात् । न तु शुद्ध-भक्तानां विकर्मणि स्वतः प्रवृत्तिः सम्भवतीति प्रायश्चित्तं नोचितम् इति भक्ति-स्वभाव एव तत्-प्रायश्चित्ताय कल्पते इति भावः । इति वैष्णव-शास्त्राणां तात्पर्यार्थ-विनिर्णयः ॥६३-६४॥
—ओ)०(ओ—
॥ १.२.६५ ॥
यथा एकादशे (११.२१.२)—
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥
श्री-जीवः- तद् एतद् एव स्व-पाद-मूलं भजतः प्रियस्य [भा।पु। ११.५.४२, भ।र।सि। १.२.७१] इत्य् अन्तेन ग्रन्थेन आह स्वे स्वे इति । स्वे स्वे अधिकार इति पूर्वोक्त-केवल-कर्म-ज्ञान-भक्ति-विषयतया पृथक् पृथक् निर्दिष्ट इत्य् अर्थः । उभयोर् गुण-दोषयोः । तत्र शुद्ध-भक्त्य्-अधिकारिण इतर-द्वय-करणे दोष एव । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा।पु। ११.२०.३१] इति तत्रैवोक्तेः । तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य् आदेश् च । कर्म-ज्ञानाधिकारिणोस् तु तादृश-श्रद्धा-रहितयोः सङ्गादि-वशात् तादृश-शुद्ध-भक्तौ प्रवृत्तयोर् अपि अनादर-दोषेण झटिति असिद्धेः दोष-प्राय एवेति ज्ञेयम् । विपर्ययः स्वाधिकारानिष्ठा तद् इतर-निष्ठा च ॥६५॥
**मुकुन्दः- तत्र भक्त्य्-अधिकारिणां भक्त्य्-अङ्गानुष्ठान-कर्माकरणं चाह स्वे स्व इत्य् आदि पञ्चभिः । स्वे स्वेऽधिकार इति क्रमेण ज्ञाने कर्मणि भक्तौ या निष्ठा ज्ञानि-कर्मि-भक्तानां स्थितिः स गुणः स्वाभीष्ट-प्राप्ति-लक्षणः । विपर्ययः स्वाधिकारानिष्ठा पराधिकार-निष्ठा च दोषः स्वाभीष्ट-प्राप्ति-प्रतिबन्धक-रूपः । भक्त्य्-अधिकार-रहितयोः कर्म-ज्ञानाधिकारिणोः सङ्गादि-वशाच् छुद्ध-भक्तौ प्रवृत्तयोर् अपि कस्यचिद् वचनेन तस्यास् त्यागाज् जातापराधेन स्वाभीष्ट-प्राप्ति-प्रतिबन्धक-रूपो दोष एव ॥६५॥
विश्वनाथः- **स्वे स्व इति । पूर्वोक्त-केवल-तत्त्व-ज्ञान-योग-भक्ति-विषयतया पृथक् पृथक् निर्दिष्ट इत्य् अर्थः । उभयोर् गुण-दोषयोः । तत्र शुद्ध-भक्त्य्-अधिकारिण इतर-द्वय-करणे दोष एव । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा।पु। ११.२०.३१] इति तत्रैवोक्तेः । तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य् आदेश् च । विपर्ययः स्वाधिकारानिष्ठा तद् इतर-निष्ठा च ॥६५॥
—ओ)०(ओ—
॥ १.२.६६ ॥
प्रथमे (१.५.१७)—
त्यक्त्वा स्वधर्मं चरणाम्बुजम् हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥
श्री-जीवः : यत्र क्व वा नीच-योनाव् अपि, अमुष्य भक्तौ प्रवृत्तस्य अभद्रं कम् अभूत् किं स्यात् ? अपि तु वेत्य् अर्थः । भक्ति-वासनाया अपरिच्छेदाद् इति भावः । अभजत्म् अभजद्भिस् तु स्व-धर्मतः को वा अर्थ आप्तः ? न कोऽपीत्य् अर्थः ॥६६॥
मुकुन्दः : यद्यपि भक्ति-ज्ञानाधिकारी स्व-धर्मं त्यक्त्वा भजन् वर्तते, तदापि न कापि चिन्ता । यदि भजनात् पूर्वम् एव विषयिणां भजन् भक्तुं स्वधर्मं त्यक्त्वापक्वं कीर्तनादि-लक्षणं किञ्चिन् मात्रम् अपि पाकम् अप्राप्तस् ततो निश्चित-मात्राच् चरणाम्बुज-भजनाद् यदि यत्र क्व वा विषयि-सङ्गे नीच-योनौ वा पतेत्, तदा किम् अमुष्याभद्रम् अभूत्? अपि तु नेत्य् अर्थः । भक्तौ विश्वासिनो विषय-निष्ठा नीच-योनिर् वा न स्याद् एव, तथापि तवातीवाग्रहो दृश्यते, तस्यां सत्याम् अपीति वा-शब्दार्थः । येन भाग्येन भक्तौ विश्वासस् तस्यापरिच्छेदात् पुनर् भक्तेर् उत्पत्तिर् एवेति भावः ॥६६॥
विश्वनाथः : त्यक्त्वा स्वधर्मम् इत्य् अत्र श्री-स्वामि-चरणानां व्याख्या यथा—एवं तावत् काम्य-धर्मादेर् अनर्थ-हेतुत्वात् तं विहाय हरेर् लीलैव वर्णनीयेत्य् उक्तम् । इदानीं तु नित्य-नैमित्तिक-स्वधर्म-निष्टाम् अप्य् अनादृत्य केवलं हरि-भक्तेर् एवोपदेष्टव्येत्य् आशयेनाह—त्यक्त्वेति । ननु स्वधर्म-त्यागेन भजन् भक्ति-परिपाकेन यदि कृतार्थो भवेत् तदा न काचिच् चिन्ता, यदि उनर् अपक्व एव म्रियेत ततो भ्रश्येद् वा तदा स्वधर्म-त्याग-निमित्तोऽनर्थः स्याद् इत्य् आशङ्क्याह । ततो भजनात् कथञ्चित् पतेद् भ्रश्येन् म्रियेत वा यदि तद् अपि भक्ति-रसिकस्य कर्मानधिकारान् नानर्थ-शङ्का । अङ्गीकृत्याप्य् आह—वा-शब्दः कटाक्षे । यत्र क्व वा नीच-यानाव् अप्य् अमुष्य भक्ति-रसिकस्याभद्रम् अभूत् किम् । नाभूद् एवेत्य् अर्थः । भक्ति-वासना-सद्-भावाद् इति भावः । अभजद्भिस् तु केवलं स्व-धर्मतः को वार्थः आप्तः प्राप्तः । नो कोऽपीत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ १.२.६७ ॥
एकादशे (११.११.३७)—
आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥
श्री-जीवः : कृपालुर् अकृत-द्रोहः [भा।पु। ११.११.२९] इत्य् आदौ स्थिरः स्व-धर्मे, कविः सम्यक् ज्ञानीति टीकानुसारेण कर्म-ज्ञान-मिश्रा भगवच्-छ्रवण-लक्षणा भक्तिर् दर्शिता । तद्-अनन्तरं चाह—आज्ञायैवम् इति । यदि च स्वात्मनि तत्-तद्-गुण-योगाभावः, तथाप्य् एवं पूर्वोक्त-प्रकारेण गुणान् कृपालुत्वादीन्, दोषान् तद्-विपरीतांश् च आज्ञाय हेयोपादेयत्वेन निश्चित्यापि यो मया तेषु गुणेषु मध्ये तत्रादिष्टान् अपि स्वकान् नित्य-निमित्तिक-लक्षणा । सर्वान् एव वर्णाश्रम-विहितान् धर्मान् तद्-उपलक्षकं ज्ञानम् अपि मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत्, स च सत्तमः । च-कारात् पूर्वोक्तोऽपि सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यम् इति बोधयति ॥६७॥
मुकुन्दः : स्वधर्म-नित्य-नैमित्तिके कृते गुणान् चित्त-शुद्धि-ज्ञानोत्पत्त्य्-आदीन्, अकृते दोषान् नरक-प्राप्त्य्-आदीन् । एवम् आज्ञाय सम्यग् ज्ञात्वा यो धर्मान् सन्त्यज्य । स चेति च-शब्दस् त्व्-अर्थे । स तु सत्तमः ॥६७॥
**विश्वनाथः : **कृपालुर् अकृत-द्रोहः [भा।पु। ११.११.२९] इत्य् आदौ स्थिरः स्व-धर्मे, कविः सम्यक् ज्ञानीति टीकानुसारेण कर्म-ज्ञान-मिश्रा भगवच्-छ्रवण-लक्षणा भक्तिर् दर्शिता । तद्-अनन्तरं त्व् आह—आज्ञायैवम् इति । यदि च स्वात्मनि तत्-तद्-गुण-योगाभावः, तद् अप्य् एवं पूर्वोक्त-प्रकारेण गुणान् कृपालुत्वादीन्, दोषान् तद्-विपरीतांश् च हेओपादेयत्वेन निश्चित्यापि यो मया तेषु गुणेषु मध्ये तत्रादिष्टान् अपि स्वकान् नित्य-निमित्तिक-लक्षणान् सर्वान् एव वर्णाश्रम-विहितान् धर्मान् तद्-उपलक्षकं ज्ञानम् अपि मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत्, स च सत्तमः । च-कारात् पूर्वोक्तोऽपि सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यम् इति बोधयति ॥६७॥
—ओ)०(ओ—
॥ १.२.६८ ॥
तत्रैव (११.५.४१)—
**देवर्षि-भूताप्त-नॄणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥
श्री-जीवः : **परित्यज्य कर्तुम् इति । अयम् इन्द्रः सेव्यः, अयं चन्द्रः सेव्य इत्य् आदि-लक्षणं भेदं, शरणम् अनेन प्रारब्ध-नाशात् वर्णाश्रमित्व-नाशेन न नित्य-कर्माधिकारः । कृत्यम् इति पाठेऽपि स एवार्थः ॥६८॥
**मुकुन्दः : **परित्यज्य कृष्ण एव सेव्यो, भक्तिर् एव साधनं, प्रेमैव पुरुषार्थ इति बुद्ध्या कर्तुम् अन्यद् अप्य् उपास्यादिकम् अस्तीति भेदम् । कृत्यम् इति पाठेऽपि स एवार्थः ॥६८॥
**विश्वनाथः : **परित्यज्य कर्तुम् इति । अयम् इन्द्रः सेव्यः, अयं चन्द्रः सेव्य इत्य् आदि-लक्षणं भेदं । कृत्यम् इति पाठेऽपि स एवार्थः ॥६८॥
—ओ)०(ओ—
॥ १.२.६९ ॥
श्री-भगवद्-गीतासु (१८.६६)—
**सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वां सर्व-पापेभ्यो मोक्षयिष्यामि मा सुचः ॥
श्री-जीवः : **सर्व-धर्मान् परित्याज्येति । परि-शब्दः स्वरूपतोऽपि त्यागं बोधयति । सर्व-पापेभ्यः सर्वान्तरायेभ्यः इत्य् एवार्थः । श्री-भगवद्-आज्ञया भक्तौ श्रद्धावतां कर्म-त्यागे पापानुत्पत्तेः ॥६९॥
**मुकुन्दः : **सर्व-पापेभ्यो बहु-जन्म-सञ्चितेभ्योऽपि किम् उतास्मिन् जन्मनि जातेभ्यः । मा शुच इति मय्य् आश्रितेभ्यः शोको नोचित इति भावः ॥६९॥
**विश्वनाथः : **सर्व-पापेभ्यः सर्वान्तरायेभ्यः इत्य् एवार्थः । श्री-भगवद्-आज्ञया भक्तौ श्रद्धावतां कर्म-त्यागे पापानुत्पत्तेः ॥६९॥
—ओ)०(ओ—
॥ १.२.७० ॥
अगस्त्य-संहितायाम्—
यथा विधि-निषेधौ तु मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥
श्री-जीवः : विधि-निषेधौ स्मार्तौ विधि-पूर्वकं वैदिक-तान्त्रिक-पूजा-विधि-सहितम् ॥७०॥
मुकुन्दः : दैवान् निषिद्धाचरणे प्रायश्चित्ताभावम् आह—यथेत्यादि द्वाभ्याम् । विधिः प्रायश्चित्त-लक्षणो निषेधः पापाचरण-रूपस् तौ । विधि-पूर्वकः विधि-पुरस्कं वैधी-भक्ति-परं । जीवन्मुक्त-दशा-तुल्यता चास्यायाता ॥७०॥
**विश्वनाथः : **विधि-निषेधौ स्मार्तौ श्रौतौ च । विधि-पूर्वकं वैदिक-तान्त्रिक-पूजा-विधि-सहितम् ॥७०॥
—ओ)०(ओ—
॥ १.२.७१ ॥
एकादश एव (११.५.४२)—
स्व-पाद-मुलं भजतः प्रियस्य
त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥
श्री-जीवः : त्यक्तोऽन्यत्र भाव उपास्य-बुद्धिर् येन तस्य कथञ्चिद् दैवाद् उत्पतितम् उत्पात-रूपेण जातम् ॥७१॥
**मुकुन्दः : **कथञ्चिद् दैवात् सन्निविष्टः श्रवणादिना हृदि स्फुरितः ॥७१॥
**विश्वनाथः : **त्यक्तोऽन्यत्र भाव उपास्य-बुद्धिर् येन तस्य कथञ्चिद् दैवाद् उत्पतितम् उत्पात-रूपेण जातं विकर्म ॥७१॥
—ओ)०(ओ—
**॥ १.२.७२ ॥
हरि-भक्ति-विलासेऽस्या भक्तेर् अङ्गानि लक्षशः ।
किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
मुकुन्दः : **लक्षशो बहूनि निर्दिष्टानीति शेषः ॥७२॥
—ओ)०(ओ—
॥ १.२.७३ ॥
अत्र अङ्ग-लक्षणम्—
आश्रितावान्तरानेक-भेदं केवलम् एव वा ।
एकं कर्मात्र विद्वद्भिर् एकं भक्त्य्-अङ्गम् उच्यते ॥
श्री-जीवः : आश्रितेति यथार्चनादिकम् । केवलम् अत्रास्पष्ट-स्वगत-भेदं, यथा गुरु-पदाश्रयो, यथा अभ्युत्थानादि च । अत्र भक्तौ ॥७३॥
मुकुन्दः : आश्रितेति । यथार्चनादि केवलं यथा गुरु-पदाश्रयादि ॥७३॥
विश्वनाथः : आश्रितोऽवान्तरानेक-भेदो येन, यथार्चनादिः । एवं कीर्तनानां भेदो गुण-कीर्तन-नाम-कीर्तनादिः । केवलम् अत्रास्पष्ट-स्वगत-भेदं, यथा गुरु-पदाश्रयो, यथा अभ्युत्थानादिः ॥७३॥
—ओ)०(ओ—
॥ १.२.७४ ॥
अथ **अङ्गानि—
गुरु-पादाश्रयस् तस्मात् कृष्ण-दीक्षादि-शिक्षणम् ।
विश्रम्भेण गुरोः सेवा साधु-वर्त्मानुवर्तनम् ॥
श्री-जीवः- **गुरु-पदाश्रय इति । अस्मिन् ग्रन्थे अङ्गा द्विविधा औत्पत्तिकाः, टीका-क्रम-लाभार्थः कल्पिताश् च । तत्र पूर्वा द्वि-बिन्दु-मस्तकाः । उत्तरास् तु तच्-छून्या इति भेदो ज्ञेयः । कृष्ण-दीक्षादीति दीक्षा-पूर्वक-शिक्षणम् इत्य् अर्थः । साधु-वर्त्मानुवर्तनं सदाचरित-श्रुत्य्-आदि-विधि-सेवित्वम् ॥७४॥
**मुकुन्दः- **कृष्ण-दीक्षा आदिर् येषां ते कृष्ण-दीक्षादयो भागवत-धर्मास् तेषां शिक्षणम् ॥७४॥
**विश्वनाथः- **दीक्षा-पूर्वक-शिक्षणम् इत्य् अर्थः । कृष्णस्येति कृष्ण-प्राप्तेर् यो हेतुः कृष्णस्य प्रसादस् तद्-अर्थम् इत्य् अर्थः ॥७४॥
—ओ)०(ओ—
**॥ १.२.७५ ॥
सद्-धर्म-पृच्छा भोगादि-त्यागः कृष्णस्य हेतवे ।
निवासो द्वारकादौ च गङ्गादेर् अपि सन्निधौ ॥
श्री-जीवः- **कृष्णस्येति कृष्ण-प्राप्तेर् यो हेतुस् तत्-प्रसादस् तद्-अर्थम् इत्य् अर्थः । अतो वैयधिकरण्यात् तादर्थ्ये चतुर्थ्य् एव । अन्नस्य हेतोर् वसति इत्य् अत्र षष्ठी हेतु-प्रयागे इति त्वन्नहेत्वोः सामानाधिकरण्ये एव प्रवृत्तम् । कृष्णार्थे भोगादि-त्याग इत्य् अस्यानुवदिष्यमाणस्यापि कृष्ण-प्रापक-तत्-प्रसादार्थ इत्य् एवार्थः । आदि-ग्रहणात् लोक-वित्त-पुत्रा गृह्यन्ते ॥७५॥
**मुकुन्दः- **सतां धर्मस्य पृच्छा सद्-धर्म-पृच्छा, कृष्णस्य यो हेतुः प्राप्ति-कारणं प्रसादस् तद्-अर्थम् । कृष्णार्थ-भोगादि-त्याग इत्य् अनुवदिष्यमाणस्याप्य् अयम् एवार्थः । आदि-शब्दाद् वित्त-पुत्रादीनाम् अपि ॥७५॥
**विश्वनाथः- **आदि-ग्रहणात् लोक-वित्त-पुत्रा गृह्यन्ते ॥७५॥
**—ओ)०(ओ—
॥ १.२.७६-९६ ॥
व्यावहारेषु सर्वेषु यावद्-अर्थानुवर्तिता ।
हरि-वासर-सम्मानो धात्र्य्-अश्वत्थादि-गौरवम् ॥७६॥
एषाम् अत्र दशाङ्गानां भवेत् प्रारम्भ-रुपता ॥७७॥
सङ्ग-त्यागो विदूरेण भगवद्-विमुखैर् जनैः ।
शिष्याद्य्-अननुबन्धित्वं महारम्भाद्य्-अनुद्यमः ॥७८॥
बहु-ग्रन्थ-कलाभ्यास-व्याख्या-वाद-विवर्जनम् ॥७९॥
व्यावहारेऽप्य् अकार्पण्यं शोकाद्य्-अवश-वर्तिता ॥८०॥
अन्य-देवानवज्ञा च भूतानुद्वेग-दायिता ।
सेवा-नामापराधानाम् उद्भवाभाव-कारिता ॥८१॥
कृष्ण-तद्-भक्त-विद्वेष-विनिन्दाद्य्-असहिष्णुता ।
व्यतिरेकतयामीषां दशानां स्याद् अनुष्ठितीः ॥८२॥
अस्यास् तत्र प्रवेशाय द्वारत्वेऽप्य् अङ्ग-विंशतेः ।
त्रयां प्रधानम् एवोक्तं गुरु-पादाश्रयादिकम् ॥८३॥
धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च ।
निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः ॥८४॥
अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः ।
अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥८५॥
विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः ।
धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम् ॥८६॥
आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् ।
स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम् ॥८७॥
निज-प्रियोपहरणं तद्-अर्थेऽखिल-चेष्टितम् ।
सर्वथा शरणापत्तिस् तदीयानां च सेवनम् ॥८८॥
तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः ।
यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः ॥८९॥
ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु ।
श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने ॥९०॥
श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह ।
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥९१॥
नाम-सङ्कीर्तनं श्री-मथुरा-मण्डले स्थितिः ॥९२॥
अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च ।
निखिल-श्रैष्ठ्य-बोधाय पुनर् अप्य् अत्र कीर्तनम् ॥९३॥
इति काय-हृषीकान्तः-करणानाम् उपासनाः ॥९४॥
चतुःषष्टिः पृथक् साङ्घातिक-भेदात् क्रमाद् इमाः ॥९५॥
अथार्षानुमतेनैषाम् उदाहरणम् ईर्यते ॥९६॥
श्री-जीवः- न व्याख्यातम् ।
मुकुन्दः- **हरि-वासर एकादशी जन्माष्टम्यादिश् च तस्य सम्मानो यथा-शक्ति-करणम् ॥ ७६॥ व्यवहारे व्यहारेषु सर्वेष्व् इति पूर्वोक्त-देहावावश्यक-व्यवहारे ॥८०॥ वैष्णवानां यानि चिह्नानि तुलसी-काष्ठ-धात्री-फल-नलिनाक्षमालोर्ध्व-पुण्ड्र-शङ्ख-चक्रादीनि तेषाम् ॥८४॥ वैष्णवादय इति आदि-शब्दाद् यमुनादिः । यथा-वैभव-सामग्र्यश् च सद्-गोष्ठी च यथा-वैभव-सामग्री-सद्-गोष्ठ्यस् ताभिः ॥८९॥ विशेष-पद-स्वारस्यान् माघास्द्या गृहीताः । यात्रा उत्सवः । आदि-शब्दाद् वसन्त-दोलादि-दिनानि ॥९०॥ श्रीमद् इति । आस्वाद आसक्त्य्-अनुमोदनम् । स्निग्धे स्नेह-कर्तरि साधौ सद्-आचारे ॥९१॥
**विश्वनाथः- **सेवा-नामापराधानाम् उद्भवः साधकस्य प्रायो भवत्य् एव । किन्तु पश्चात् यत्नेन तेषाम् अभाव-कारिता ॥८१॥ अस्याः भक्तेः प्रवेशाय विंशत्य्-अङ्गानां द्वारत्वेऽपि गुरु-पादाश्रयादि-त्रयं प्रधानम् ॥८३॥ इति कायेन्द्रियान्तःकरणानाम् इमाः चतुःषष्ठिर् उपासनाः । गुरु-पादाश्रयादीनां पृथक्तत्-तद्-रूपेणैव भेदो ज्ञेयः । अर्चन-कीर्तनादीनां यावन्तो भेदा वर्तन्ते । तेषां सङ्घातिकत्वेन समुदायत्वेन भेदो ज्ञेयः । अतएवार्चनाद्य्-अङ्गानाम् अवान्तर-भेद-विवक्षयानन्तत्वे सति समुदायत्वेन एक-भेद-विवक्षया न तु चतुःषष्ठि-गणनानुपपत्तिर् इति ॥९४॥
**सिद्धान्त-सरस्वती (अनुभाष्य २.२२.१२६-१२७): **सजातीयाशये समजातीय-वासना-विशिष्टे स्निग्धे गाढ-विश्रम्भात्मक-स्नेह-परे स्वतः आत्मनः वरे श्रेष्ठे साधौ सङ्गः कार्यः । रसिकैः कृष्ण-भजन-विज्ञैः सह श्रीमद्-भागवतार्थानाम् आस्वादः कार्यः । तात्पर्यं ग्रहणीयम् इत्य् अर्थः । श्रौत-मार्ग-भक्ति-योग-त्यागी वैयाकरणस्य शाब्दिकस्य योषित्-सङ्गि-गृह-व्रतस्य विष्णु-वैष्णव-विरोधिनो मायावादिनो नामापराधिनो वेषोपजीविनो मन्त्रोपजीविनो भागवत-जीविन इन्द्रिय-तर्पण-रत-विषयिणश् च यस्य देवे परा भक्तिर् इति, भक्त्या भागवतं ग्राह्यं न बुद्ध्या न च टीकया इति श्रुति-स्मृति-वचनात् तेषां पारमहंस्य-शास्त्रार्थ-बोधासम्भवात् ग्रन्थ-तात्पर्यस्यार्थ-ग्रहणेऽनधिकारत्वाच् च तैः सह आस्वादो न कार्यः ॥९१॥
श्री-मूर्तेर् अङ्घ्रि-सेवने श्रद्धा विशेषतः विशेषेण प्रीतिः बहिः-पूजायाम् अर्चने सामान्यतः, व्रज-दम्पत्योः मानस-सेवायां विशेषतः सार्वकालिक-भजनानुरागः । नाम-सङ्कीर्तनं नाम-भजनं । श्रीमन्-मथुरा-मण्डले स्थितिः कृष्ण-वसति-स्थले अवस्थानम् । श्री-गौड-मण्डले भूमौ चिन्तामणि-ज्ञानं तद् एव मथुरा-वास इति श्रीमन्-नरोत्तम-प्रभु-चरणैः प्रेम-भक्ति-चन्द्रिकायां निर्णीतम् । श्री-गौड-विलास-भूमि-श्रीमायापुरादि-धाम-वासः । श्री-क्षेत्र-दाक्षिणात्य-व्रज-मण्डलादि-धाम-वासश् च मथुरा-वासेन सह अभिन्नो ज्ञेयः । तद्-भेद-वादिनां तथा-कथित-मथुरा-वासोऽपि प्राकृत-भोग-मयोऽधो-गति-प्रदश् चेति ॥९०-९२॥
—ओ)०(ओ—
॥ १.२.९७-९९ ॥
१। तत्र गुरु-पादाश्रयो, यथा एकादशे (११.३.२१)—
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥
२। श्री-कृष्ण-दीक्षादि-शिक्षणं, यथा तत्रैव (११.३.२२)
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥
३। विश्रम्भेण गुरोः सेवा, यथा तत्रैव (११.१७.२७)-
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥
न जीवेन मुकुन्देन वा व्याख्यातम्।
विश्वनाथः- शाब्दे भक्ति-शास्त्रे । परे ब्रह्मणि भगवद्-विषयक-श्रवण-कीर्तनादौ निष्णातं पारं गतम् ॥९७॥ गुरु एवात्मा आत्मवत् प्रियः । दैवतम् इष्ट-देवतश् च यस्य तथाभूतः । अनुवृत्त्या सेवया । यैर् धर्मैर् वस्तुत आत्मा आत्म-प्रदश् चोपासकानां, यथा—बलि-प्रभृतीनाम् ॥९८॥ आचार्यं मां मदीयम् । अत एव गुरु-वरं मुकुन्द-प्रेष्ठत्वेन स्मरेत्य् आद्य्-उक्तिर् अपि सङ्गच्छते । सामान्य-मनुष्य-बुद्ध्या नावमन्येत ॥९९॥
—ओ)०(ओ—
॥ १.२.१०० ॥
४। साधु-वर्त्मानुवर्तनम्, यथा स्कान्दे— स मृग्यः श्रेयसां हेतुः पन्थाः सन्ताप-वर्जितः । अन्वाप्तश्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥
श्री-जीवः- तच् च साधु-वर्त्म श्रुत्य्-आदि-विध्य्-आत्मकम् एव ॥१००॥
मुकुन्दः- तच् च साधु-वर्त्म श्रुत्य्-आदि-विध्य्-आत्मकम् एव ॥१००॥
**विश्वनाथः- **अनवाप्त-श्रमं यथा स्यात् तथा तेन पथा सन्तः प्रतस्थिरे ॥१००॥
—ओ)०(ओ—
॥ १.२.१०१ ॥
ब्रह्म-यामले च—
श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥
श्री-जीवः: ततस् तद्-अकरणे दोषम् आह श्रुतीति । श्रुत्य्-आदयोऽप्य् अत्र वैष्णवानां स्वाधिकार-प्राप्तास् तद्-भागा एव ज्ञेयाः । स्वे स्वेऽधिकार [भा।पु। ११.२१.२] इत्य् उक्तेः । श्रुत्य्-आदि-विधिं विनेति नास्तिकतया तं न मत्वेत्य् अर्थः । न त्व् अज्ञानेन आलस्येन वा त्यक्त्वेत्य् अर्थः । धावन् निमील्य वा नेत्रे [भा।पु। ११.२.३५] इत्य् आदेर् ऐकान्तिक-निष्ठां प्राप्तापि ॥१०१॥
**मुकुन्दः- **ततस् तद्-अकरणे दोषम् आह श्रुति-स्मृतीति ॥१०१॥
**विश्वनाथः- **ननु साधु-वर्त्म श्रुत्य्-आदि-विध्य्-आत्मकम् एव । ततस् तद् अकरणे दोषम् आह श्रुतीति । श्रुत्य्-आदि-विधिं विनेति नास्तिकतया तन् न मत्वेत्य् अर्थः । ऐकान्तिकी निष्ठां प्राप्तापि ॥१०१॥
—ओ)०(ओ—
॥ १.२.१०२ ॥
भक्तिर् ऐकान्तिकी वेयम् अविचारात् प्रतीयते ।
वस्तुतस् तु तथा नैव यद् अशास्त्रीयतेक्ष्यते ॥
श्री-जीवः : ननु, तर्हि कथम् ऐकान्तिकी स्यात्, तद्-रूपत्वे च कथम् उत्पाताय कल्पते, तत्राह भक्तिर् इति । इयं नास्तिकतामयी बौद्धादीनां बुद्ध-दत्तात्रेयादिषु भक्तिर् यद् ऐकान्तिकीव प्रतीयते, तद् अप्य् अविचाराद् एवेत्य् अर्थः । तत्र हेतुः यद् यस्माद् अशास्त्रीयता शास्त्रावज्ञा-मयता तत्रेक्ष्यते, शास्त्रम् अत्र वेदस् तद्-अङ्गादि । शास्त्र-योनित्वाद् इति न्यायात् । तदा तत्-तद्-अवतारि-भगवद्-आज्ञा-रूपानादि-सत्-परम्परा-प्राप्त-वेद-वेदाङ्गावज्ञायां सत्यां कथम् ऐकान्तिकी सा स्याद् इति भण्यताम् । किं च, येनैव वेदादि प्रामाण्येन बुद्धादीनाम् अवतारत्वं गम्यते, तेनैव बुद्धस्यासुर-मोहनार्थं पाषण्ड-शास्त्र-प्रपञ्चयितृत्वं च श्रूयते, विष्णु-धर्मादौ त्रियुग-नाम-व्याख्याने । तत्र तु श्री-भगवद्-आवेश-मात्रत्वं चोपाख्यायते । तस्मात् तद्-आज्ञापि न प्रमाणीकर्तव्येति ॥१०२॥
मुकुन्दः : ननु, श्रुत्य्-आदि-विध्य्-अभावे कथम् ऐकान्तिकी स्यात् तद्-रूपत्वे च कथम् उत्पाताय कल्पते ? तत्र श्लोकाभिप्रायं विवृणुते—भक्तिर् इति । अशास्त्रीयत्वात् तावत् सा भक्तिर् वैधी-रागानुगा-रूपा नास्ति । सन्-मार्गानादरेण कल्पितत्वाद् उत्पातायैव कुमार्ग-गामित्वायैव कल्पत इति भावः ॥१०२॥
**विश्वनाथः : **ननु, तर्हि कथम् ऐकान्तिकी स्यात्, तद्-रूपत्वे च कथम् उत्पाताय कल्पते, तत्राह—भक्तिर् इति । इयं नास्तिकतामयी बौद्धादि-पाषण्डानां बुद्धाद्य्-अवतारेषु, एवम् आधुनिक-मतानुवर्तिनां श्री-कृष्णे भक्तिर् यद् ऐकान्तिकीव प्रतीयते, तद् अविचाराद् एवेत्य् अर्थः । तत्र हेतुः—यद् यस्माद् अशास्त्रीयता शास्त्रावज्ञा-मयता तत्रेक्ष्यते ॥१०२॥
—ओ)०(ओ—
॥ १.२.१०३ ॥
५। सद्-धर्म-पृच्छा, यथा नारदीये—
अचिराद् एव सर्वार्थः सिध्यत्य् एषाम् अभीप्सितः ।
सद्-धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१०४॥
६। कृष्णार्थे भोगादि-त्यागो, यथा पाद्मे—
हरिम् उद्दिश्य भोगानि काले त्यक्तवतस् तव ।
विष्णु-लोक-स्थिता सम्पद्-अलोला सा प्रतीक्षते ॥
श्री-जीवः : त्यक्तेति—त्यक्तवन्तं त्वाम् इत्य् अर्थः ॥१०४॥
मुकुन्दः : हरिम् उद्दिश्येति । त्यक्तवत इति शेषे षष्ठी—भजे शम्भोश् चरणयोः इतिवत्॥१०४॥
विश्वनाथः : त्यक्तेति—त्यक्तवन्तं त्वाम् इत्य् अर्थः ॥१०४॥
—ओ)०(ओ—
॥ १.२.१०५ ॥
७। द्वारकादि-निवासो, यथा स्कान्दे—
संवत्सरं वा षण्मासान् मासं मासार्धम् एव वा ।
द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
मुकुन्दः : मनोऽशुद्ध्य्-आदिना संवत्सरादि-क्रमः ॥१०५॥
—ओ)०(ओ—
॥ १.२.१०६ ॥
आदि-पदेन पुरुषोत्तम-वासश् च, यथा ब्राह्मे—
अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१०७ ॥
गङ्गादि-वासो, यथा प्रथमे (१.१९.६)—
या वै लसच्-छ्री-तुलसी-विमिश्र-
कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री ।
पुनाति सेशान् उभयत्र लोकान्
कस् तां न सेवेत मरिष्यमाणः ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : या गङ्गा उभयत्र अस्मिन् लोके परत्र च ईश-सहितान् लोकान् पुनाति । कथम्भूता लसन्ती या श्री-युक्ता तुलसी तया विमिश्रो यः कृष्णाङ्घ्रि-रेणुस् तेनैवाभ्यधिकं सर्वतोऽपि श्रेष्ठं यद् अम्बु तस्य नेत्री प्रापयित्री ॥१०७॥
—ओ)०(ओ—
॥ १.२.१०८ ॥
८।** यवद् अर्थानुवर्तिता, यथा नारदीये**—
यावता स्यात् स्व-निर्वाहः स्वीकुर्यात् तावद् अर्थ-वित् । आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥
श्री-जीवः: स्व-निर्वाह इति । स्वस्य भक्ति-निर्वाह इत्य् अर्थः ॥१०८॥
**मुकुन्दः **: यावतेति । स्व-निर्वाहो देहादेर् आवश्यक-निर्वाहः । स्व-भक्ति-निर्वाह इति व्याख्या तद्-अर्थेऽखिल-चेष्टितेऽन्तर्भवेत् ॥१०८॥
विश्वनाथः: स्व-निर्वाह इति । स्वस्य भक्ति-निर्वाह इत्य् अर्थः ॥१०८॥
—ओ)०(ओ—
॥ १.२.१०९ ॥
९। हरि-वासर-सम्मानो, यथा ब्रह्म-वैवर्ते—
सर्व-पाप-प्रशमनं पुण्यम् आत्यन्तिकं तथा ।
गोविन्द-स्मारणं नॄणाम् एकदश्याम् उपोषणम् ॥
न व्याख्यातं कतमेनापि ।
—ओ)०(ओ—
॥ १.२.११० ॥
१०। धात्र्य्-अश्वत्थादि-गौरवम्, यथा स्कान्दे—
**अश्वत्थ-तुलसी-धात्री-गो-भूमिसुर-वैष्णवाः ।
पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणाम् अघम् ॥
श्री-जीवः- **अश्वत्थस्य तद्-विभूति-रूपत्वात् पूज्यत्वम् । भूमि-सुरा ब्राह्मणाः । गो-ब्राह्मणयोर् हितावतारत्वाद् भगवतो भागवतैर् एताव् अपि पूज्याव् इति भावः । सर्वेषाम् एषां तुलसी-वैष्णव-साहित्योक्तिर् विचिकित्सा-निरसनाय । तत्र गवां पूजा तु श्री-गोपालोपासकानां परमाभीष्ट-प्रदा । यथा श्री-गौतमीये—
गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणम् । गोषु नित्यं प्रसन्नासु गोपालोऽपि प्रसीदति ॥ इति ॥११०॥
मुकुन्दः- _न व्याख्यातम् _॥११०॥
**विश्वनाथः- **अश्वत्थस्य तद्-विभूति-रूपत्वात् पूज्यत्वम् । भूमि-सुरा ब्राह्मणाः । भगवतो गो-ब्राह्मणयोर् हितावतारत्वाद् भागवतैर् एताव् अपि पूज्याव् इति भावः । सर्वेषाम् तुलसी-वैष्णव-साहित्योक्तिर् विचिकित्सा-निरसनाय । अत्र गवां पूजा तु श्री-गोपालोपासकानां परमाभीष्ट-प्रदा । यथा श्री-गौतमीये—
गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणम् । गोषु नित्यं प्रसन्नासु गोपालोऽपि प्रसीदति ॥ इति ॥११०॥
—ओ)०(ओ—
॥ १.२.१११ ॥
**११।_ _अथ श्री-कृष्ण-विमुख-जन-सङ्ग-त्यागः, यथा कात्यायन संहितायाम्—
वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः- **वैशसं विपत्तिः ॥१११॥
**सिद्धन्त-सरस्वती (अनुभाष्य २.२२.८८): **हुत-वहज्-ज्वाला-पञ्जर-व्यवस्थितिः प्रज्वलित-वह्नि-शिखायां पिञ्जर-मध्य-निवासोऽपि वरं प्रार्थनीयस् तथापि शौरि-चिन्ता-विमुख-जन-संवास-वैशसं शौरेः कृष्णस्य चिन्ताया विमुखो जनस् तेन सह सम्यक् वासः । स एव वैशसं विपत्-पातः ॥१११॥
—ओ)०(ओ—
॥ १.२.११२ ॥
विष्णु-रहस्य च—
आलिङ्गनं वरं मन्ये व्याल-व्याघ्र-जलौकसाम् । न सङ्गः शल्य-युक्तानां नाना-देवैक-सेविनाम् ॥
श्री-जीवः, मुकुन्दः,विश्वनाथः- शल्यम् अत्र तत्-तद्-देवतान्तर-सेवा-वासना ॥११२॥
—ओ)०(ओ—
॥ १.२.११३ ॥
****१२-१४। शिष्याद्य्-अनुबन्धित्वादि-त्रयं, यथा सप्तमे [भा।पु। ७.१३.८]—
**न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।
न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥
श्री-जीवः- **शिष्यान् नैवानुबध्नीयाद् इत्य् आदिको यद्यपि सन्न्यासि-धर्मस् तथापि निवृत्तानाम् अप्य् अन्येषां भक्तानाम् उपयुज्यत इति भावः । एतच् चानधिकारि-शिष्याद्य्-अपेक्षया । श्री-नारदादौ तच्-छ्रवणात् । तत्-तत्-सम्प्रदाय-नाश-प्रसङ्गाच् च । अन्यथा ज्ञान-शाठ्यापत्तेः । अतएव नानुबध्नीयाद् इति स्व-स्व-सम्प्रदाय-वृद्ध्य्-अर्थम् अनधिकारिणोऽपि न सङ्गृह्णीयाद् इत्य् अर्थः । बहून् इति भगवद्-बहिर्मुखान् अन्यांस् त्व् इत्य् अर्थः । आरम्भान् इत्य् अपि तद्वत् ॥११३॥
मुकुन्दः- शिष्यान् इति । नैवानुबध्नीयान् नानुसरेत् । तद्-अनुसरणे लाभ-प्रतिष्ठादिना साधक्स्य साधन-शैथिल्य-प्राप्तेः । शिष्य-करणं तु जात-रतीनाम् एव विहितत्वाच् च । ग्रन्थान् नैवाभ्यसेद् बहून् इति कलानाम् उपलक्षणम् । न व्याख्याम् उपयुञ्जीतेति वादस्योपलक्षणम् ॥११३॥
**विश्वनाथः- **शिष्यान् नैवानुबध्नीयाद् इत्य् आदिको यद्यपि सन्न्यासि-धर्मस् तथापि निवृत्तानाम् अपि भक्तानाम् उपयुज्यत इति भावः । एतच् चानधिकारि-शिष्याद्य्-अपेक्षया श्री-नारदादौ तच्-छ्रवणात् । तत्-तत्-सम्प्रदाय-नाश-प्रसङ्गाच् च । अन्यथा ज्ञान-शाठ्यापत्तेः । अतएव नानुबध्नीयाद् इति स्व-सम्प्रदाय-वृद्ध्य्-अर्थम् अनधिकारिणोऽपि न गृह्णीयाद् इत्य् अर्थः । बहून् इति भगवद्-बहिर्मुखान् अन्यांस् त्व् इत्य् अर्थः । आरम्भान् इत्य् अपि ॥११३॥
—ओ)०(ओ—
॥ १.२.११४ ॥
१५। व्यवहारेऽप्य् अकार्पण्यम्, यथा पाद्मे—
अलब्धे वा विनष्टे वा भक्ष्याच्छादन-साधने । **अविक्लव-मतिर् भूत्वा हरिम् एव धिया स्मरेत् ॥
श्री-जीवः, विश्वनाथः **: अलब्ध इति । स्मरणादि-पराणाम् एवेयं रीतिः । सेवादि-परैस् तु यथा-लाभम् एव सेवा कार्या । न तु याच्ञाद्य्-अतिशयेन कार्पण्यं कार्यम् इति ज्ञेयम् ॥११४॥
मुकुन्दः : न व्याख्यातम् ॥११४॥
—ओ)०(ओ—
॥ १.२.११५ ॥
१६। **शोकाद्य्-अवशवर्तिता, **यथा तत्रैव— शोकामर्षादिभिर् भावैर् आक्रान्तं यस्य मानसम् । कथं तत्र मुकुन्दस्य स्फूर्ति-सम्भावना भवेत् ॥
_न केनापि व्याख्यातम् _॥११५॥
—ओ)०(ओ—
॥ १.२.११६ ॥
१७- अन्य-देवानज्ञा, यथा तत्रैव—
**हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ** **इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन **
न व्याख्यातं कतमेन ।
—ओ)०(ओ—
॥ १.२.११_७ _॥
१८-_ भूतानुद्वेग-दायिता_, यथा महाभरते—
पितेव पुत्रं करुणो नोद्वेजयति यो जनम्
विशुद्धस्य हृषीकेशस् तूर्णं तस्य प्रसीदति
न व्याख्यातं कतमेन ।
—ओ)०(ओ—
॥ १.२.११८-१२० ॥
१९। सेवा-नामापराधानां वर्जनं, यथा वाराहे—
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥
पाद्मे च— सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः । हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥ नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः । **नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः- **सेवानाम् अपराधानां वर्जनम् इत्य् आदि । वाराहे पाद्मे च यथा-क्रमं योज्यम् । तत्र सेवापराधा आगमानुसारेण गण्यते । यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे । देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥ उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् । एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥ पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् । शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥ उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम् ॥ कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः । अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥ शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् । तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥ विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके । पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥ गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा । अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥ [ह।भ।वि। ८.४४०-८]
वाराहे च येऽन्येऽपराधास् ते सङ्क्षिप्य लिख्यन्ते—राजान्न-भोजनं, ध्वान्तागारे हरेः स्पर्शः, विधिं विना हर्य्-उपसर्पनं, वाद्यं विना तद्-द्वारोद्घाटनं, कुक्कुर-दृष्ट-भक्ष्य-सङ्ग्रहः, अर्चने मौन-भङ्गः, पूजा-काले विड्-उत्सर्गाय सर्पणम्, गन्ध-माल्यादिकम् अदत्त्वा धूपनं, अनर्ह-पुष्पेण पूजनम् । तथा—
अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा । स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥ रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् । परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥ क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् । भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥ तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च । हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥ [ह।भ।वि। ८.४५६-९]
तथा तत्रैवान्यत्र—भगवच्-छास्त्रानादरेण तत्-प्रतिपत्तिः, अन्य-शास्त्र-प्रवर्तनं, तद्-अग्रतस् ताम्बूल-चर्वणम्, एरण्ड-पत्रस्थ-पुष्पैर् अर्चनम्, आसुर-काले पूजनम्, पीठे भूमौ वोपविश्य पूजनम्, स्न्वपन-काले वाम-हस्तेन तत्-स्पर्शः, पर्युषितैर् याचितैर् वा पुष्पैर् अर्चनम्, पूजायां निष्ठीवनम्, तस्यां स्व-गर्व-प्रतिपादनम्, तिर्यक्-पुण्ड्र-धृतिः, अप्रक्षालित-पादत्वेऽपि तन्-मन्दिरे प्रवेशः, अवैष्णव-पक्व-निवेदनम्, अवैष्णव-दृष्टौ पूजनम्, विघ्नेशम् अपूजयित्वा कपालिनं दृष्ट्वा वा पूजनम्, नखाम्बसा स्नपनम्, घर्माम्बु-लिप्तत्वेऽपि पूजनम् इत्य् आदयः । अन्यत्र—निर्माल्य-लङ्घनम्, भगवच्-छपथादयोऽन्ये च बहव इति ।
अथ नामापराधाः पाद्मोक्ताः—सतां निन्दा, श्री-विष्णोः सकाशात् शिवस्य नामादेः स्वातन्त्र्य-मननं, गुरोर् अवज्ञा, श्रुति-तद्-अनुगत-शास्त्र-निन्दनं, हरि-नाम-महिम्न्य् अर्थ-वाद-मात्रम् इदम् इति मननम्, तत्र प्रकारान्तरेणार्थ-कल्पनम्, नाम-बलेन पापे प्रवृत्तिः, अन्य-शुभ-क्रियाभिर् नाम-साम्य-मननम्, अश्रद्दधानादौ नामोपदेशः, नाम-माहात्म्ये श्रुतेऽप्य् अप्रीतिर् इति । सर्व एवैते हरि-भक्ति-विलासे प्रमाण-वचनैर् द्रष्टव्याः ॥११८-१२०॥
—ओ)०(ओ—
॥ १.२.१२१ ॥
२०। तन्-निन्दाद्य् असहिष्णुता, यथा श्री-दशमे (१०.७४.४०)—
निन्दां भगवतः श्र्ण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१२२ ॥
२१। अथ वैष्णव-चिह्ण-धृतिः, यथा पाद्मे—
ये कण्ठ-लग्न-तुलसी-नलिनाक्षा-माला
ये बाहु-मूल-परिचिह्णित-शङ्ख-चक्राः ।
ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्रास्
ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥
श्री-जीवः : न व्याख्यातम् ।
मुकुन्दः : ये कण्ठ-सक्तेत्य् अत्र धात्री-माला-धारणं च ज्ञेयम् । तद् यथा स्कान्दे—
धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि । वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि ॥
तत्रैव—
न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः । महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम् ॥
इत्य् आदि-वचनेभ्यः श्री-ग्रन्थ-कृद्भिः सदा धारणाच् च ॥१२२॥
**विश्वनाथः : **कण्ठासक्त-तुलसीनाम् एवं नलिनानां कमल-कर्णिका-मध्यस्थ-पक्व-बीजानां च । अक्ष-माला अ-कारादि-क्ष-कार-पर्यन्त-वर्ण-सङ्खक-माला येषाम् ॥१२२॥
—ओ)०(ओ—
॥ १.२.१२३ ॥
२२। नामाक्षर-धृतिः, यथा स्कान्दे—
**हरि-नामाक्षर-युतं भाले गोपी-मृडङ्कितम् ।
तुलसी-मालिकोरस्कं स्पृशेयुर् न यमोद्भटाः ॥
श्री-जीवः : **गोपी-मृद्-अङ्कितं गोपी-चन्दनेन तिलकितम् ॥१२३॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः : **कण्ठासक्त-तुलसीनाम् एवं नलिनानां कमल-कर्णिका-मध्यस्थ-पक्व-बीजानां च । अक्ष-माला अ-कारादि-क्ष-कार-पर्यन्त-वर्ण-सङ्खक-माला येषाम् ॥१२२॥
—ओ)०(ओ—
॥ १.२.१२४ ॥
पाद्मे च—
कृष्ण-नामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना ।
स लोक-पावनो भुत्वा तस्य लोकम् अवाप्नुयात् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१२५ ॥
२३। निर्माल्य-धृतिः, यथा एकादशे (११.६.४६)—
त्वयोपभुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥
श्री-जीवः- त्वयोपभुक्त इति श्रीमद्-उद्धव-वाक्यम् । परोक्ष-पूजादाव् अपीति भावः । जयेमहि जेतुं शक्नुम इत्य् अर्थः । एतद्-उत्तरम् अस्य पद्य-द्वयं चास्ति—
मुनयो वात-वसनाः श्रमणा ऊर्ध्व-मन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ [भा।पु। ११.६.४७-४८] इति ।
तरिष्यामस् तर्तुं शक्नुम इत्य् अर्थः ॥१२५॥
**मुकुन्दः : न व्याख्यातम् ।
विश्वनाथः- **त्वयोपभुक्त इति श्रीमद्-उद्धव-वाक्यम् । परोक्ष-पूजादाव् अपीति भावः । जयेमहि जेतुं शक्नुम इत्य् अर्थः । एतद्-उत्तरम् उद्धवस्य पद्य-द्वयं चास्ति—
मुनयो वात-वसनाः श्रमणा ऊर्ध्व-मन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ [भा।पु। ११.६.४७-४८] इति । —ओ)०(ओ—
॥ १.२.१२६ ॥
स्कान्दे च—
**कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्व-रोगैस् तथा पापैर् मुक्तो भवति नारद ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
श्री-मुकुन्दः : **कृष्णोत्तीर्णम् इत्य् अत्र स इति शेषः ॥१२६॥
—ओ)०(ओ—
॥ १.२.१२७ ॥
२४। अग्रे ताण्डवं, यथा द्वारका-माहात्म्ये—
**यो नृत्यति प्रहृष्टात्मा भावैर् बहु-सुभक्तितः ।
स निर्दहति पापानि मन्वन्तर-शतेष्व् अपि ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : **मन्वन्तर-शतेष्व् इत्य् अत्र जातानीति शेषः ॥१२७॥
—ओ)०(ओ—
॥ १.२.१२८-१३० ॥
तथा श्री-नारदोक्तौ च—
नृत्यतां श्री-पतेर् अग्रे तालिका-वादनैर् भृशम् ।
उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥
२५। दण्डवन्-नतिः, यथा नारदीये—
एकोऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर् न तुल्यः ।
दशाश्वमेधी पुनर् एति जन्म
कृष्ण-प्रणामी न पुनर्-भवाय ॥
२६। अभ्यूत्थानं, यथा ब्रह्माण्डे—
यानारूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् ।
अभ्युत्थानं नरः कुर्वन् पातयेत् सर्व-किल्बिषम् ॥
एते त्रयः श्लोका न कतमेनापि व्याख्याताः ।।१२८-१३०॥
—ओ)०(ओ—
॥ १.२.१३१ ॥
२७। अनुव्रज्या, यथा भविष्योत्तरे—
रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः ।
विष्णुनैव समाः सर्वे भवन्ति श्वपचादयः ॥
श्री-जीवः : रथेनेत्य् उपलक्षणम् । अन्येनापि इत्य् उन्नेयम् इति भावः । एवं पूर्वत्र च यानारूढम् इत्य् अत्र ज्ञेयम् ॥१३१॥
**मुकुन्दः : **रथेनेत्य् उपलक्षणम् । अन्य-यानस्योपलक्षणम् ॥१३१॥
**विश्वनाथः : **रथेनेत्य् उपलक्षणम् । अन्येनापि इत्य् उन्नेयम् इति भावः ॥१३१॥
—ओ)०(ओ—
॥ १.२.१३२-१३५ ॥
२८। स्थाने गतिः ।
स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर् यथा ॥
पुराणान्तरे—
संसार-मरु-कान्तार-निस्तार-करण-क्षमौ ।
स्लाघ्यौ ताव् एव चरणौ यौ हरेस् तीर्थ-गामिनौ ॥
आलये च, यथा हरि-भक्ति-सुधोदये—
प्रवीशन्न् आलयं विष्णोर् दर्शनार्थं सुभक्तिमान् ।
न भूयः प्रविशेन् मातुः कुक्षि-कारागृहं सुधीः ॥
२९। परिक्रमो, यथा तत्रैव—
विष्णुं प्रदक्षिनी-कुर्वन् यस् तत्रावर्तते पुनः ।
तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥
एते चत्वारः श्लोका न कतमेनापि व्याख्याताः ।।१३२-१३५॥
—ओ)०(ओ—
॥ १.२.१३६ ॥
स्कान्दे च चातुर्मास्य-माहात्म्ये—
चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्-तीर्थ-गमनादिकम् ॥
श्री-जीवः, विश्वनाथः : चतुर् इत्य् अत्र विष्णुं परितः इति प्रकरण-प्राप्तम् । तीर्थानां श्री-गङ्गादीनां गमनाद् अप्य् अधिकं शीघ्रं भगवद्-भक्ति-प्रदत्वाद् इत्य् अर्थः ॥१३६॥
मुकुन्दः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१३७ ॥
३०। अथ अर्चनम्—
शुद्धि-न्यासादि-पूर्वाङ्ग-कर्म-निर्वाह-पूर्वकम् ।
अर्चनम् तूपचाराणां स्यान् मन्त्रेणोपपादनम् ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः : शुद्धिर् भूत-शुद्धिः । न्यासाः मातृका-न्यासादयः । तद्-आदिकं पूर्वम् अङ्गं यस्य । तादृश-कर्म-निर्वाह-पूर्वकं यन्-मन्त्रेणोपचाराणां समर्पणं तद्-अर्चनम् इत्य् अन्वयः ॥१३७॥
—ओ)०(ओ—
॥ १.२.१३८ ॥
तद्, यथा दशमे (१०.८१.१९)—
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं ताच्-चरणार्चनं ॥
श्री-जीवः : स्वर्गापवर्गयोरिति—अत्रार्चनं प्रधानं कृत्वा भक्त्य्-अन्तर-महिमा सूचितः । इत्य् अर्चन-महिमन्य् एव लिखितं, मूलम् इति** । **अन्यत् तु तद्-अभावाद् एव विधीयत इत्य् अर्थः ।
कालेन नष्टा वाणीयं प्रलये वेद-सञ्ज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। ११.१४.३] इति ।
अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य् आदेश् च । यद् वा तद्-बहिर्मुखानां साधनान्तरस्याप्य् असिद्धेः । तच् च मन्त्रतस् तन्त्रतश् छिद्रम् [भा।पु। ८.२३.१६] इत्य् आदेः । मुख-बाहूरु-पादेभ्य [भा।पु। ११.५.२] इत्य् आदेः । तपस्विनो दान-परा [भा।पु। २.४.१६] इत्य् आदेश् च ॥१३९॥
—ओ)०(ओ—
॥ १.२.१३९ ॥
विष्णु-रहस्ये च—
श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥
श्री-जीवः : अन्यत् तु तद्-अभावाद् एव विधीयत इत्य् अर्थः ।
कालेन नष्टा वाणीयं प्रलये वेद-सञ्ज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। ११.१४.३] इति ।
अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य् आदेश् च । यद् वा तद्-बहिर्मुखानां साधनान्तरस्याप्य् असिद्धेः । तच् च मन्त्र-तन्त्रतश् छिद्रम् [भा।पु। ८.२३.१७] इत्य् आदेः । मुख-बाहूरु-पादेभ्य [भा।पु। ११.५.२] इत्य् आदेः । तपस्विनो दान-परा [भा।पु। २.४.१६] इत्य् आदेश् च ॥१३९॥
मुकुन्दः, विश्वनाथः : न किञ्चित् ।
—ओ)०(ओ—
॥ १.२.१४० ॥
३१। परिचर्या—
परिचर्या तु सेवोपकरणादि-परिष्क्रिया ।
तथा प्रकीर्णक-च्छत्र-वादित्राद्यैर् उपासना ॥
श्री-जीवः : परिचर्यात्र राज्ञ इव सेवोच्यते । सा च द्विधा—उपकरणादि-परिष्क्रिया, चामरादिभिर् उपासना चेत्य् अर्थः ॥१४०॥
मुकुन्दः : न व्याख्यातम् ।
**विश्वनाथः : **परिचर्यात्र राज्ञ इव सेवोच्यते । सा च द्विधा—उपकरणादि-परिष्क्रिया, चामरादिभिर् उपासना च । प्रकीर्णकश् चामरम् ॥१४०॥
—ओ)०(ओ—
॥ १.२.१४१ ॥
यथा नारदीये—
मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे ।
स याति परमं स्थानं किम् उ शुश्रूषणे रताः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
मुकुन्दः : शुश्रूषणे परिचर्यायाम् ॥१४१॥
—ओ)०(ओ—
॥ १.२.१४२-१४३ ॥
यथा चतुर्थे (४.२१.३१)—
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥
अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः ।
न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१४४ ॥
३२। अथ गीतं, यथा लैङ्गे—
ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् ।
हरेः सालोक्यम् आप्नोति रुद्र-गानाधिकं भवेत् ॥
श्री-जीवः, विश्वनाथः : ब्राह्मण इति । गान-सामान्यस्य ब्राह्मणे निषिद्धत्वात् ब्राह्मणोऽपीत्य् अर्थः । रुद्र-कर्तृक-गानाद् अपि भगवद्-अग्रे तस्य गानम् अधिकं भवेद् इत्य् अर्थः ॥१४४॥
मुकुन्दः : ब्राह्मण इत्य् अनेन ब्राह्मण-गानस्य निषेधस् तु भगवतोऽन्य्-ग्-अन-पर इति सूचितम् ॥१४४॥
—ओ)०(ओ—
॥ १.२.१४५-१४६ ॥
३३। अथ सङ्कीर्तनम्—
नाम-लीला-गुणदीनाम् उच्चैर्-भाषा तु कीर्तनम् ॥
न व्याख्यातम् ।
तत्र नाम-कीर्तनम्, यथा विष्णु-धर्मे—
**कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥
श्री-जीवः : **कृष्णेति मङ्गलं नामेत्य् अर्चनवद् एव व्याख्येयम् । तद् एतत् प्राधान्येन नामान्तर-कीर्तनम् अपि ज्ञेयम् इति । एवम् अन्यत्रापि ॥१४६॥
मुकुन्दः : कृष्णेति । प्र इत्य् उच्चैः ॥१४६॥
**विश्वनाथः : **कृष्णेति प्राधान्येनेनोक्तम् । नामान्तर-कीर्तनम् अपि ज्ञेयम् । एवम् अन्यत्रापि॥१४६॥
—ओ)०(ओ—
॥ १.२.१४७ ॥
लीला-कीर्तनम्, यथा सप्तमे (७.९.१८)—
**सोऽहं प्रियस्य सुहृदः पर-देवताया
लीला-कथास् तव नृसिंह विरिञ्च-गीताः ।
अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो
दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥
श्री-जीवः, विश्वनाथः : **तितर्मि तरिष्यामीत्य् अर्थः ॥१४७॥
मुकुन्दः : सोऽहम् इति । अनुगृणन् कीर्तयन् तितर्म्य् अनायासेन अतिक्रामन्न् अस्मीत्य् अर्थः ॥१४७॥
—ओ)०(ओ—
॥ १.२.१४८ ॥
गुण-कीर्तनम्, यथा प्रथमे (१.५.२२)—
इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतोऽर्थः कविभिर् निरूपितो
यद् उत्तमःश्लोक-गुणानुवर्णनम् ॥
श्री-जीवः : न व्याख्यातम् ।
मुकुन्दः : अविच्युतोऽर्थोऽखण्ड-पुरुषार्थः । धर्मार्थ-काम-मोक्षास् तु खण्डास् तु खण्डास् ते तप-आदीनां भक्ति-फलत्वाभावेऽपि कर्तृ-स्थान-सम्प्रदानादि-विशेषणानां सम्बन्धाद् भक्तौ श्रद्धोत्पादन-द्वारा तत्-करण-फलत्वं ज्ञेयम् । प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् [भा।पु। ७.७.५२] इत्य् आदिभिस् तेषां स्वातन्त्र्येण तत्-फलत्वं निराकृतम् ॥१४८॥
**विश्वनाथः : **एवं त्यक्त्वा स्वधर्मम् इत्य् आदिना धर्मान् परित्यज्य भक्त्यैव कृतार्थी-भवतीत्य् उक्तम् । इदानीं कस्यचिद् भक्तस्य केषुचित् धर्मेषु यदि स्पृहा स्यात् तदा ते धर्मा अपि भक्त्यैव भवन्तीत्य् आह—इदं हीति । पुंसस् तप-आदीनां अविच्युतोऽव्यभिचारी । अर्थो हेतुः इदं उत्तमः-श्लोक-गुणानुवर्णम् एव निरूपितः ।
अर्थो विषयानर्थयोर् धन-कारण-वस्तुषु । अतिधेये च शब्दानां निवृत्तौ च प्रयोजने ॥ इति मेदिनी ।
यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य् आदि भगवद्-वाक्याद् भक्त्या तप-आदि-फलानाम् अपि सिद्धिर् भवेत्, किं पुनस् तेषाम् ?
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥
इत्य् आदि पाद्म-वाक्यतः सर्वेषाम् अपि धर्माणां किं पुनस् तप-आदि-मात्राणाम् इति । यद् वा तपस इति तपः श्रुतादि-विधायक-श्रुति-वाक्यानां भगवद्-भक्ति-विधान एव तात्पर्यात् । हरि-कीर्तनम् एवाविच्युतोऽभिधेयः—धर्मो यस्यां मद्-आत्मक [भा।पु। ११.१४.३] इति भगवद्-उक्तेः सर्व-शास्त्र-वाक्यानां श्री-भगवत्य् एव तात्पर्यम् इति श्री-मधुसूदन-सरस्वती-व्याख्यानाच् च ।
अत एव भक्तौ कर्मणः सापेक्षत्वाभावान्न शुद्ध-भक्ति-लक्षणस्य गुण-कीर्तनेऽव्याप्तिः । अन्यथा भक्तिं प्रति करमः कारणत्व-पर-व्याख्यायां तु कर्म-सापेक्षत्वेन स्पष्टैवाव्याप्तिर् इति ज्ञेयम् । बुद्ध-दत्तयोः बुद्धि-दानयोः । तेनैव विज्ञापनेनैव तव मोक्ष-द्वारस्यार्गलाया मोक्षो विहितः ॥२२॥
—ओ)०(ओ—
॥ १.२.१४९-१५१ ॥
३४। अथ जपः
मन्त्रस्य सुलघूच्चारो जप इत्य् अभिधीयते ॥
यथा पाद्मे—
कृष्णाय नम इत्य् एष मन्त्रः सर्वार्थ-साधकः ।
भक्तानां जपतां भूप स्वर्ग-मोक्ष-फल-प्रदः ॥
३५। अथ विज्ञप्तिः, यथा स्कान्दे—
हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा ।
मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव ॥
न केनापि व्याख्यातम् ।।१४९-१५१॥
—ओ)०(ओ—
॥ १.२.१५२ ॥
सम्प्रार्थनात्मिका दैन्य-बोधिका लालसामयी ।
इत्य् आदिर् विविधा धीरैः कृष्णे विज्ञप्तिर् ईरिता ॥१५२॥
श्री-जीवः- न व्याख्यातम् ।
**मुकुन्दः : **सम्प्रार्थना मन आदेर् भगवन्-निष्ठी-करण-प्रार्थना-मात्रम् । लालसा स्वाभीप्सित-सेवादि-प्रार्थनम् ॥१५२॥
**विश्वनाथः : **सम्प्रार्थना अनुत्पन्न-भावस्य । लालसा उत्पन्न-भावस्य इति भेदो ज्ञेयः ॥१५२॥
—ओ)०(ओ—
॥ १.२.१५३ ॥
तत्र सम्प्रार्थनात्मिका, यथा पाद्मे—
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन् मनोऽभिरमतां त्वयि ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१५४ ॥
दैन्य-बोधिका, यथा तत्रैव—
मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन ।
परिहारेऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥
सिद्धान्त-सरस्वती: हे पुरुषोत्तम पुरुषश्रेष्ठ, मत्-तुल्यः कश्चित् पापात्मा पापी नास्ति । कश्चन अपराधी न वास्ति । परिहारे अपराध-क्षयम् आपण-विषये अपि मे मम लज्जा व्रीडात्मकः सङ्कोचः । अतोऽहं ब्रुवे कथयामि मम प्रार्थनावसरोऽपि नास्तीत्य् अर्थः ॥ (मध्य १.१९०) ॥१५४॥
—ओ)०(ओ—
॥ १.२.१५५ ॥
लालसामयी, यथा श्री-नारद-पञ्चरात्रे—
कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते ।
चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥
न व्याख्यातम् ।।
—ओ)०(ओ—
॥ १.२.१५६ ॥
यथा वा—
**कदाहं यमुना-तीरे नामानि तव कीर्तयन् ।
उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥
श्री-जीवः- **कदाहं यमुना-तीरे इति दूरतः प्रार्थना कस्यचिद् अजात-भावस्य । यतः सम्प्रार्थना अनुत्पन्न-भावस्य । लालसा तु जात-भावस्येति भेदः । लालसामयत्वात् सम्प्रार्थनाप्य् अत्र लालसेत्य् एव हि भण्यते । अतो लालसामयीयम् । अत्रेदृशे सम्प्रार्थना-लालसे प्रस्तावाद् एव दर्शिते । किन्तु, रागानुगायाम् एव ज्ञेये ॥१५६॥
मुकुन्दः, विश्वनाथः : न व्याख्यातम् ।
सिद्धान्त-सरस्वती: हे पुण्डरीकाक्ष, कदाहं यमुना-तीरे कालिन्दी-तटे तव नामानि कीर्तयन् उद्बाष्पः अश्रु-पूर्ण-नेत्रः सन् ताण्डवं नृत्यं रचयिष्यामि करिष्यामि ? (मध्य २३.३३) ॥१५५॥
—ओ)०(ओ—
॥ १.२.१५७ ॥
३६। अथ स्तव-पाठः—
प्रोक्ता मनीषिभिर् गीता-स्तव-राजादयः स्तवाः ॥
श्री-जीवः : गीतायाः स्तवत्वं भगवन्-महिमात्मकत्वात् । स्तव-राजो गौतमीयोक्तः स्तव-राजः ॥१५७॥
**मुकुन्दः : **स्तव-राजो गौतमीयोक्तः स्तव-राजः ॥१५७॥
**विश्वनाथः : **मनीषिभिः भगवद्-गीता-स्तवराजादयः स्तवाः प्रोक्ताः । गीतायाः स्तवत्वं भगवन्-महिमात्मकत्वात् । स्तव-राजो गौतमीयोक्तः स्तव-राजः ॥१५७॥
—ओ)०(ओ—
॥ १.२.१५८ ॥
यथा स्कान्दे—
श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता ।
नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥
न व्याख्यातं केनापि ।
—ओ)०(ओ—
॥ १.२.१५९ ॥
नारसिंहे च—
स्तोत्रैः स्तवश् च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥
श्री-जीवः : स्तोत्र-स्तवयोर् अभेदेऽप्य् अवान्तर-भेदः पूर्व-प्रसिद्ध-स्वकृतत्वाभ्यां ज्ञेयः । स्तोत्रस्य करण-साधनत्वेन पूर्व-सिद्धत्व-प्रतीतेः । स्तवस्य भाव-साधनत्वेन स्वकृतत्व-प्रतीतेः । तथापि प्रोक्ता मनीषिभिर् इत्य् आदौ गीतादीनां स्तवत्वम् उक्तम् । तत्र त्व् अनन्य-गत्या करण-साधनत्वम् एव कर्तव्यम्, देवाग्रे श्रीमद्-अर्चायाः पुरतः ॥१५९॥
**मुकुन्दः- **स्तोत्रैः पौरुषैः स्तवैर् आर्षैः । यथाकादशे—स्तवैर् उच्चावचैः स्तोत्रैः पौरुषैः प्राकृतैर् अपि [भा।पु। ११.२७.४५] इति ॥१५९॥
विश्वनाथः : देवाग्रे श्रीमद्-अर्चायाः स्तोत्र-स्तवयोर् अभेदेऽप्य् अवान्तर-भेदः पूर्व-प्रसिद्ध-स्वकृतत्वाभ्यां ज्ञेयः ॥१५९॥
—ओ)०(ओ—
॥ १.२.१६० ॥
३७। अथ नैवेद्यास्वादो, यथा पाद्मे—
नैवेद्यम् अन्नं तुलसी-विमिश्रं
वीशेषतः पाद-जलेन सिक्तम् ।
योऽश्नाति नित्यं पुरतो मुरारेः
प्राप्णोति यज्ञायुत-कोटि-पुण्यम् ॥
श्री-जीवः : मुरारेः पुरत इति ल्यप्-लोपे पञ्चमी । पुरम् अन्तः-पुरं परित्य्ज्येत्य् अर्थः । तद्-अग्रतो भोजन-निषेधात् ॥१६०॥
**मुकुन्दः : **पुरत इति पुरम् अन्तः-पुरं परित्य्ज्येत्य् अर्थः । तद्-अग्रतो भोजन-निषेधात्॥१६०॥
**विश्वनाथः : **मुरारेः पुरत इति पूर्वं तु भगवद्-अग्रे ताम्बूल-चर्वणम् एव निषिद्धम्, न तु भोजन-सामान्यम् इति ज्ञेयम् ॥१६०॥
—ओ)०(ओ—
॥ १.२.१६१-१६४ ॥
३८। अथ पाद्यास्वादो, यथा तत्रैव—
न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् ।
तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥
३९। अथ धूप-सौरभ्यम्, यथा हरि-भक्ति-सुधोदये—
आघ्राणं यद् धरेर् दत्त-धूपोच्छिष्टस्य सर्वतः ।
तद्-भव-व्याल-दष्टानां नस्यं कर्म विषापहम् ॥
अथ माल्य-सौरभ्यं, यथा तन्त्रे—
प्रविष्टे नासिका-रन्ध्रे हरेर् निर्माल्य-सौरभे ।
सद्यो विलयम् आयाति पाप-पञ्जर-बन्धनम् ॥
अगस्त्य-संहितायां च—
आघ्राणं गन्ध-पुष्पादेर् अर्चितस्य तपोधन ।
विशुद्धिः स्याद् अनन्तस्य घ्राणस्येहाभिधीयते ॥१६४ ॥
श्री-जीवः : न व्याख्यातम् ।।१६१-१६३॥ अर्चितस्यानन्तस्य भगवतः सम्बन्धी यो गन्ध-पुष्पादिस् तस्याघ्राणं घ्राणेन्द्रियस्य इह जगति विशुद्धिस् तद्-धेतुः स्याद् इत्य् अभिधीयत इति ॥१६४॥
मुकुन्दः : न व्याख्यातम् ।।१६१-१६३॥ आघ्राणम् इति । इह जगति विशुद्धिस् तद्-धेतुः स्याद् इत्य् अभिधीयत इत्य् अर्थः ॥१६४॥
**विश्वनाथः : **तद्-आग्र्हाणं संसार-व्याल-दष्ट-जनानां विषापहं विष-नाशकं नस्य-कर्म-स्वरूपं भवति । घ्राणेन महौषधीनां गन्ध-ग्रहणं नस्यं कर्म । पञ्जरेति प्रसिद्धेन पाप-पञ्जरेण बन्धनम् ॥१६२-१६३॥ अर्चितस्य अनन्तस्य भगवतः सम्बन्धी यो गन्ध-पुष्पादिस् तस्य घ्राणं घ्राणेन्द्रियस्य इह जगति विशुद्धिस् तद्-धेतुः स्याद् इत्य् अभिधीयते ॥१६१-१६४॥
—ओ)०(ओ—
॥ १.२.१६५ ॥
४०। अथ श्री-मूर्तेः स्पर्शनं, यथा विष्णु-धर्मोत्तरे—
**स्पृस्ट्वा विष्णोर् अधिष्ठानं पवित्रः श्रद्धयान्वितः ।
पाप-बन्धैर् विनिर्मुक्तः सर्वान् कामान् अवाप्नुयात् ॥
श्री-जीवः : **अथ श्रीमद्-अर्चा-मात्रस्य स्पर्शाधिकारिणां स्पर्श-माहात्म्यम् आह—स्पृष्ट्वेति ॥१६५॥
**मुकुन्दः, विश्वनाथः **: न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१६६ ॥
४१। अथ श्री-मूर्तेर् दर्शनम्, यथा वाराहे—
**वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥
श्री-जीवः : **अथ सर्वान् प्रति दर्शन-माहात्म्यं च सर्वासाम् अर्चानां वदन् भक्त्य्-आवेश-विशेषाद् उपर्य् उपरि परिस्फूर्त्या श्रीमद्-अर्चा-विशेषायमानस्य साक्षाद्-भगवतः श्री-गोविन्द-देवस्य दर्शने माहात्म्य-विशेषम् आह—वृन्दावन इति । यान्ति पूण्य-कृतां गतिम् इति स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे [भा।पु। १.२.६] इति न्यायेन सुविचारवतां सर्व-सत्-कर्मणाम् एकान्त-गतिं भक्त्य्-आख्य-परम-पुरुषार्थ-सिद्धिम् आप्नुवन्तीत्य् अर्थः ॥१६६॥
**मुकुन्दः **: न व्याख्यातम् ।
**विश्वनाथः : **पूण्य-कृतां गतिम् इत्य् आदौ सर्वत्र फल-श्रवणं बहिर्मुख-प्रवृत्त्य्-अर्थम् एव । निष्कामानां तु रतिर् एव मुख्य-फलम् इति ग्रन्थ-कृद् एव पश्चाद् व्याख्यास्यते ॥१६६॥
—ओ)०(ओ—
॥ १.२.१६७ ॥
४२। आरात्रिक-दर्शनं, यथा स्कान्दे—
**कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोटयः ।
दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखम् ॥१६७॥
श्री-जीवः : **पुनः श्रीमद्-अर्चामात्रारात्रिक-दर्शन-फलम् आह—कोटयः कोटीर् इति । मुखं कर्तृ ॥१६७॥
**मुकुन्दः **: न व्याख्यातम् ।
**विश्वनाथः : **कोटयः कोटीर् इति । मुखं कर्तृ ॥१६७॥
—ओ)०(ओ—
॥ १.२.१६८ ॥
उत्सव-दर्शनं, यथा भविष्योत्तरे—
**रथ-स्थं ये निरीक्षन्ते कौतुकेनापि केशवम् ।
देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥
श्री-जीवः : **रथस्थम् इत्य् उत्सवान्तरोपलक्षणं, सर्वे श्वपचादयोऽपि । देवतानां पार्षदानाम् ॥१६८॥
**मुकुन्दः **: रथस्थम् इत्य् उत्सवान्तरस्योपलक्षणम् ॥१६८॥
—ओ)०(ओ—
॥ १.२.१६९-१७० ॥
आदि-शब्देन पूजा-दर्शनं, यथाग्नेये—
**पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम् ।
श्रद्धया मोदमानस् तु सोऽपि योग-फलं लभेत् ॥
श्री-जीवः : **योगोऽत्र पञ्चरात्राद् उक्तः क्रिया-योगः ॥१६९॥
**मुकुन्दः **:_ न व्याख्यातम् ।_
विश्वनाथः : पूज्यमानं पूजा-समान-कालीनां हरिं योगोऽत्र पञ्चरात्राद्य्-उक्तः परिचर्या-रूप-योगः ॥१६९॥
४३। अथ श्रवणम्
श्रवणं नाम-चरित-गुणादीनां श्रुतिर् भवेत् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१७१ ॥
तत्र नाम-श्रवणं, यथा गारुडे—
संसार-सर्प-दष्ट-नष्ट-चेष्टैक-भेषजम् ।
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१७२ ॥
चरित्र-श्रवणं, यथा चतुर्थे (४.२९.४०१)—
तस्मिन् महन्-मुखरिता मधुभिच्-चरित्र-
पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥
श्री-जीवः : तस्मिन्न् इति । महतां सदसि महद्भिर् मुखरिताः शब्दायमानीकृताः तान् प्राप्य स्वयम् एव स्व-व्यञ्जक-शब्दं कुर्वत्य इव जाता इत्य् अर्थः । शेषः सारः ॥१७२॥
**मुकुन्दः : **शेषः सारः ॥१७२॥
**विश्वनाथः : **तस्मिन् महतां सदसि महान्त एव मुखरिता मुखरीकृता अर्थाद् वाचालीकृता याभिस् तथाभूताः कृष्णस्य चरित्र-रूप-पीयूष-सार-सरितो नद्यः परितः स्रवन्ति । ता नदीर् येऽवितृषो जना गाढ-कर्णैर् आसक्त-कर्णैस् तान् एते न स्पृशन्ति, तृट् तृष्णा ॥१७२॥
—ओ)०(ओ—
॥ १.२.१७३ ॥
गुण-श्रवणं, यथा द्वादशे (१२.३.१५)—
**यस् तूत्तमःश्लोक-गुणानुवादः
सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णेऽमलां भक्तिम् अभीप्समानः ॥
श्री-जीवः : **उत्तमः-श्लोकानां भगवद्-अवताराणां भागवतानां च गुणानुवादो महद्भिः सङ्गीयते । तम् एव नित्यं प्रत्यहं तत्राप्य् अभीक्ष्णं शृणुयात् । तत्र त्व् अतिशयेनाग्रहं कुर्याद् इत्य् अर्थः । श्रवणस्य तस्य परम-फलम् आह कृष्ण इति । कृष्णस् तु भगवान् स्वयम् इत्य् आदि प्रसिद्धेः श्री-गोपाल इत्य् अर्थः ॥१७३॥
मुकुन्दः : नित्यं प्रत्यहं तत्राप्य् अभीक्ष्णं प्रतिक्षणम् ॥१७३॥
**विश्वनाथः : **यो गुणानुवादः सङ्गीयते तम् एव ॥१७३॥
—ओ)०(ओ—
॥ १.२.१७४ ॥
अथ तत्-कृपेक्षणं, यथा दशमे (१०.१४.८)—
तत् तेऽनुकम्पां सु-समीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥
श्री-जीवः : तत् तेऽनुकम्पाम् इत्य् अत्रानुकम्पेक्षणं नमस्कारश् चेति पृथग् एव साधन-द्वयम् । वैशिष्ट्याय त्व् एकत्र पठितम् । तत उभयम् अपि समान-फलम् एव ज्ञेयम् इति भावः । नवम-पदार्थस्य मुक्तेर् अप्य् आश्रये दशम-पदार्थे त्वयि स दाय-भाग् भवति। त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः ॥१७४॥
मुकुन्दः : मुक्तिः पदे भक्ति-योगाख्ये मार्गे यस्य स मुक्ति-पदस् तस्मिन् त्वयि । अथवा, मुक्तेर् आश्रये त्वयि दाय-भाग् भवति—त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः ॥१७४॥
विश्वनाथः : तद् एवम् अन्यत् सर्वं साधनं परित्यज्य भक्तिम् एव कुर्वंस् त्वाम् लभते इति प्रकरणार्थोऽवगतस् तत्र कीदृशः सन् कुर्याद् इत्य् अपेक्षायाम् आह—तत् ते इति । यस्माद् एवं तत् तस्माद् आत्म-कृतं विपाकं धर्मस्य ह्य् आपवर्गस्य नार्थोऽर्थायोपकल्पते इत्य् अत्र प्रतिपादयितुं भक्तेर् अप्य् अननुसंहितं फलं सुखं, तद्-अपराध-फलं दुःखं च भुञ्जान एव तं तवानुकम्पां सुष्ठु-सम्यग्-ईक्षमाणः समये प्राप्तं सुखं दुःखं च भगवद्-अनुकम्पाद्-फलम् एवेदम् इति जानन् । पिता यथा स्व-पुत्रं समये समये दुग्धं निम्ब-रसं च कृपयैव पाययति । आश्लिष्य चुम्बति पाणि-तलेन प्रहरति चेत्य् एवं मम हिताहितं पुत्रस्य पितेव मत्-प्रभुर् एव जानाति न त्व् अहं मयि त्वद्-अभक्ते नास्ति काल-कर्मादीनां केषाम् अप्य् अधिकार इति स एव कृपया सुख-दुःखे भोजयति च स्वं सेवयति चेति विमृश्य, यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् [Bह्P ४.२०.३१] इति पृथुर् इव प्रत्यहं भगवन्तं विज्ञापयन् हृदादिभिर् नमस्कुर्वन् नातीव क्लिष्यन् यो जीवेत स मुक्तिश् च पदं च तयोर् द्वन्द्वैक्यं तस्मिन् संसारान् मुक्तौ त्वच्-चरण-सेवायां चेत्य् आनुषङ्गिक-मुख्य-फलयोर् दाय-भाग् भवति, यथा पुत्रस्य दाय-प्राप्तौ जीवनम् एव कारणं तथा भक्तस्य जीवनं तच् चेह भक्ति-मार्गे स्थितिर् एव दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा [Bह्P १०.८७.१७] इत्य् उक्तेर् इति भावः ॥१७४॥
—ओ)०(ओ—
॥ १.२.१७५ ॥
अथ स्मृतिः—
यथा कथञ्चिन् मनसा सम्बन्धः स्मृतिर् उच्यते ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१७६ ॥
यथा विष्णु-पुराणे (५.१७.१७)—
स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥
विश्वनाथः : यत्र हरौ सति पुरुषः सकल-कल्याण-भाजनं भवति, तं हरिं शरणं व्रजामि ॥१७६॥
—ओ)०(ओ—
॥ १.२.१७७ ॥
यथा च पाद्मे—
प्रयाणे चाप्रयाणे च यन्-नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥
श्री-जीवः : प्रयाणे मरण-दशायां, अप्रयाणे जीवन-दशायाम् । प्रयाण-काले मनसाचलेनेति श्री-गीतातः (८.१०) ॥१७७॥
मुकुन्दः : प्रयाणे प्राणानां देहाद् बहिर् निष्क्रमणे सति तन्-निष्क्रमण-मनय इत्य् अर्थः ॥१७७॥
विश्वनाथः : प्रयाणे मरण-दशायां, अप्रयाणे जीवन-दशायाम् । प्रयाण-काले मनसाचलेनेति श्री-गीतातः (८.१०) ॥१७७॥
—ओ)०(ओ—
॥ १.२.१७८ ॥
अथ ध्यानम्—
ध्यानम् रूप-गुण-क्रीडा-सेवादेः सुष्ठु चिन्तनम् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१७९ ॥
तत्र रूप-ध्यानं, यथा नारसिंहे—
भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् ।
पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम्4** ॥
श्री-जीवः :** निर्द्वन्द्वं शीतोष्णादि-मय-दुःख-परस्परातीतम् । ईरितं शास्त्रे मङ्गलं विहितं, तच् च पापिनोऽपि प्रसङ्गेनापि परम् उत्कृष्टं सुहितं विहितं तत्रैवेत्य् अर्थः ॥१७९॥
मुकुन्दः : निर्द्वन्द्वं द्वन्द्वातीतं शीतोष्णादि-मय-दुःख-परस्परा-निवर्तकम् इत्य् अर्थः । ईरितं शास्त्रे विहितं, तस्य पापिनोऽपि दुर्वासना-ग्रस्तस्यापि भगवद्-ध्यान-पर-प्रसङ्गेन यथा कथञ्चिद् अनुकूलता-सम्बन्धेन परं सुहितं भगवत्-प्राप्ति-साधनं विहितं तत्रैवेत्य् अर्थः ॥१७९॥
विश्वनाथः : निर्द्वन्द्वं शीतोष्णादि-मय-दुःख-परस्परातीतम् । ईरितं शास्त्रे विहितं पापिनोऽपि जनस्य प्रसङ्गेनापि जातं तद्-ध्यानं परम् उत्कृष्टं सुहितं विहितं तत्रैव शास्त्र इत्य् अर्थः ॥१७९॥
—ओ)०(ओ—
॥ १.२.१८० ॥
गुण-ध्यानं, यथा विष्णुधर्मे—
ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः ।
प्रक्षीण-कलुषौघास् ते प्रविशन्ति हरेः पदम् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१८१ ॥
क्रीडा-ध्यानं, यथा पद्मे—
सर्व-माधुर्य-साराणि सर्वाद्भुतमयानि च ।
ध्यायन् हरेश् चरित्राणि ललितानि विमुच्यते ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१८२ ॥
सेवा-ध्यानं, यथा पुराणान्तरे—
मानसेनोपचारेन परिचर्य हरिं सदा ।
परे वाङ्-मनसाऽगम्यं तं साक्षात् प्रतिपेदिरे ॥
श्री-जीवः- मानसेनेत्य् अत्र ब्रह्म-वैवर्त-कथा च, यथा—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कर्माधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितुम् आरब्धवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां श्री-हरि-मूर्तिं स्थापयित्वा स्वयं दुकूलादिकं परिधाय तां प्रणम्य दृढं परिकरं बद्ध्वा तत्-सदनं सम्मार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य च दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन् हन्त तद् इदं दुष्टं जातम् इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्ठेन च सतां तं स्व-निकटं विमानेन आनयामासे । तथाविधतया दर्शयामासे स्व-निकटे योग्यतया स्थापयामासेति ॥१८२॥
**मुकुन्दः- **मानसेनेत्य् अत्र ब्रह्म-वैवर्त-कथा च, यथा—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कम्राधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां हरि-मूर्तिं स्थापयित्वा स्वयं सुकूलादिकं परिधाय दृढं परिकरं बद्ध्वा तत्-सदनं सम्मार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य दिनं दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन्, “हन्त तद् इदं दुष्टं जातम्” इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्ठेन च सतां तं स्व-निकटं विमानेनानिनाय । तथाविधतया दर्शयामास स्व-निकट-योग्यतया स्थापयामास चेति ॥१८२॥
**विश्वनाथः- **परे भक्ताः । मानसेनेत्य् अत्र ब्रह्म-वैवर्त-कथा च, यथा—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कम्राधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां हरि-मूर्तिं स्थापयित्वा स्वयं सुकूलादिकं परिधाय दृढं परिकरं बद्ध्वा तत्-सदनं सम्मार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य दिनं दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन्, “हन्त तद् इदं दुष्टं जातम्” इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्ठेन च सतां तं स्व-निकटं विमानेनानिनाय । तथाविधतया दर्शयामास स्व-निकट-योग्यतया स्थापयामास चेति ॥१८२॥
—ओ)०(ओ—
॥ १.२.१८३ ॥
अथ दास्यम्—
**दास्यं कर्मार्पणं तस्य कैङ्कर्यम् अपि सर्वथा ॥
श्री-जीवः- **कर्मार्पणम् इत्य् अनूद्य दास्यम् इति विधीयते । तद् एतच् चान्य-मतम् । स्व-मतं तु कैङ्कर्यम् इति । तच् च किङ्करोऽस्मीति अभिमानः । यथोक्तम् इतिहास-समुच्चये—
जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् स उद्धरेत् ॥ इति ।
तथैव व्याख्यातम् तस्यैव मे सौहृद-सख्य-मैत्री-दास्यं पुनर्-जन्मनि स्याद् [भा।पु। १०.८१.३६] इति श्रीदाम-विप्रस्य वाक्ये स्वामिभिर् अपि दास्यम् इति सेवकत्वम् इति । एतस्य च कार्य-भूतं परिचर्यादिकं ज्ञेयम् । केवल-परिचर्या-रूपत्वे भेदो न स्यात् ॥१८३॥
मुकुन्दः- कर्मार्पणम् कर्मणां स्वभाव-प्राप्तानां भक्षणादीनां भक्त्य्-अङ्गानां चार्पणं कर्मार्पणम् । कैङ्कर्यं तदीयतया तत्-परत्वम् ॥१८३॥
**विश्वनाथः : **कर्मार्पणम् इत्य् अनूद्य दास्यम् इति विधीयते तद् एतच् चान्य-मतम् । स्व-मतं तु कैङ्कर्यम् इति किङ्करोऽस्मीति अभिमानः । यथोक्तम् इतिहास-समुच्चये—
जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् स उद्धरेत् ॥ इति ।
एतस्य च कार्य-भूतं परिचर्यादिकं ज्ञेयम् । केवल-परिचर्या-रूपत्वे भेदो न स्यात् ॥१८३॥
—ओ)०(ओ—
॥ १.२.१८४ ॥
तत्र **आद्यं **यथा स्कान्दे—
**तस्मिन् समर्पितं कर्म स्वाभाविकम् अपीश्वरे ।
भवेद् भागवतो धर्मस् तत्-कर्म किम् उतार्पितम् ॥
श्री-जीवः- **तत्राद्यं कर्मार्पणम् उदाहरति—तस्मिन्न् इति ॥१८४॥
मुकुन्दः- भागवतं तत्-प्रापकं दास्य-लक्षणं, तत् कर्म जप-ध्यानादि ॥१८४॥
विश्वनाथः : तत्र कर्मार्पणम् उदाहरति—तत्रेति । तस्मिन् भगवति स्वाभाविकम् अपि कर्मार्पितं सद् भागवतो धर्मो भवेत् । तस्य भगवतः कर्म-श्रवण-कीर्तनादिकम् अर्पितं सत् किम् उत ॥१८४॥
—ओ)०(ओ—
**॥ १.२.१८५ ॥
कर्म स्वाभाविकं भद्रं जप-ध्यानार्चनादि च ।
इतीदं द्विविधं कृष्णे वैष्णवैर् दास्यम् अर्पितम् ॥
श्री-जीवः- **तत्रैव विधेयं दास्यम् अपि द्विविध्येनाह—कर्म स्वाभाविकम् इति । स्वाभाविकं तत्-तद्-वर्णाश्रमाद्य्-उपाधि-स्वभाव-प्राप्तं, तच् च भद्रम् एव । न त्व् अन्यत् । तथा जपेति । इतीदं द्विविधं कर्म वैष्णवैः कृष्णोऽर्पितं चेद् दास्यम् उच्यते ॥१८५॥
मुकुन्दः- तस्मिन्न् इति श्लोकं व्याचक्षते—कर्मेति । स्वाभाविकं भक्षणादि भद्रम् उत्तमं न त्व् अभद्रं निन्द्यम् अपि । नित्य-नैमित्तिकान्य् अपि कर्माणि—
नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भा।पु। १.५.१२] कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः । गुण-दोष-विधानेन सङ्गानां त्याजेनेच्छया ॥ [भा।पु। १०.२०.२६]
इत्य् आदि-वचनेभ्योऽभद्राण्य् एव तेषाम् अर्पणं सात्त्विकं कर्मैव, न दास्यम् इत्य् अभिप्रायो यथैकादशे—मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् [भा।पु। ११.२५.२३] इति तस्मात् ज्ञानम् एव भवति, न भक्तिर्, यथा तत्रैव—
अस्मिन् लोके वर्तमानः स्व-धर्म-स्थोऽनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥ [भा।पु। ११.२०.११]
मद्-भक्तिं च तु यदृच्छया केनापि भाग्योदयेनैवेत्य् अर्थः । जप-ध्यानादेर् अर्पणं दास्यां, यथा सप्तमे—
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा । क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ [भा।पु। ७.५.२४]
अनयोर् अर्थः—इति श्रवणादीनि नव लक्षणानि यस्याः सा नव-लक्षणा । तत्र दास्यं जप-ध्यानादि-रूपं दासानां कर्म । भगवत्य् अद्धा साक्षाद् भक्तिर् या पुंसा क्रियेत, सा विष्णौ अर्पिता चेत् तन् नवधा भक्त्य्-अर्पणम् उत्तमम् अधीतम् दास्यं मन्ये दास्यम् एवाधीत-फलं नान्यद् इति सोत्तमाधीता शिक्षेति प्रश्नस्योत्तरम् इति ॥१८५॥
विश्वनाथः : स्वाभाविकम् एव द्विधा विवृणोति—कर्म स्वाभाविकम् इति स्वाभाविकम् । चतुर् वर्णाश्रमाद्य्-उपाधि-प्राप्तम् । तच् च भद्रम् एव । न त्व् अन्यत् मृत्तिका-शौचादि । तथा जपेति । इतीदं द्विविधं कर्म वैष्णवैः कृष्णोऽर्पितं चेद् दास्यम् उच्यते ॥१८५॥
—ओ)०(ओ—
**॥ १.२.१८६ ॥
मृदु-श्रद्धस्य कथिता स्वल्पा कर्माधिकारिता ।
तद्-अर्पितं हरौ दास्यम् इति कैश्चिद् उदीर्यते ॥
श्री-जीवः- **तत्रोत्तरस्यार्पणाभावाद् दास्यत्वाभावेऽपि शुद्ध-भक्त्य्-अङ्गत्वम् अस्ति । पूर्वस्य तु तद् अपि नास्तीति । सुतराम् एव न तत् स्वमतम् इत्य् आह—मृदु-श्रद्धस्येति । तेन तस्यार्पितम् अर्पणं दास्यम् । तद् एवं पूर्वत्राप्य् अर्पण एव तात्पर्यम् । श्रवण-कीर्तनम् इत्य् आदौ तु इति पुंसार्पिता विष्णौ इत्य् अनेन दास्याद् अन्यद् अर्पणं प्रतीयते ॥१८६॥
मुकुन्दः- मृद्व् इति । कैश्चित् श्रीधर-स्वामि-प्रभृतिभिस् तत् स्वल्पं कर्म अर्पितं सत् ॥१८६॥
**विश्वनाथः **: तत्रोत्तरस्य जप-ध्यानार्चनादेर् अर्पणाभावेऽपि शुद्ध-भक्तित्वम् अस्ति । पूर्वस्य वर्णाश्रमाचार-कर्मणोऽर्पणेऽपि न शुद्ध-भक्तित्वम् इति सुतराम् एव न तत् स्वमतम् । ज्ञान-कर्माद्य्-अनावृतत्वेनोक्तत्वाद् इत्य् आह—मृदु-श्रद्धेति । श्रद्धाया मृदुत्वं नाम भगवद्-भक्त्यैव सर्वं भविष्यति इति दृढ-विश्वासाभाव-विशिष्टत्वम् ॥१८६॥
—ओ)०(ओ—
॥ १.२.१८७ ॥
द्वितियं, यथा नारदीये—
**ईहा यस्य हरेर् दास्ये कर्मणा मनसा गिरा ।
निखिलास्व् अप्य् अवस्थासु जीवन्-मुक्तः स उच्यते ॥
श्री-जीवः- **अथ स्व-मतं महिम्ना दर्शयति—ईहा यस्येति । दास्ये निमित्त ईहा दासो भवामीति स्पृहेत्य् अर्थः ॥१८७॥
मुकुन्दः- ईहेति दास्ये निमित्ते तदीयोऽहम् इति बुद्ध्या ईहा चेष्टा—स वै मनः [भा।पु। ९.४.१८] इत्य् आदि श्लोक-त्रय्योक्ता सा ज्ञेया ॥१८७॥
**विश्वनाथः **: अथ स्व-मतं महिम्ना दर्शयति—ईहा यस्येति । दास्ये निमित्ते ईहा दासो भवामीति स्पृहेत्य् अर्थः ॥१८७॥
—ओ)०(ओ—
॥ १.२.१८८ ॥
अथ सख्यम्—
**विश्वासो मित्र-वृत्तिश् च सख्यं द्विविधम् ईरितम् ॥
श्री-जीवः- **विश्वास इति पूर्ववद् अन्य-मतम् । मित्र-वृत्तिर् इति तु स्व-मतम् । मित्रं बन्धु-मात्रम् । यन्-मित्रं परमानन्दम् [भा।पु। १०.१४.३२] इतिवत् तद्-वृत्तिस् तत् तयाभिमानः ॥१८८॥
मुकुन्दः- _न व्याख्यातम् _॥१८८॥
**विश्वनाथः **: विश्वास इति पूर्ववद् अन्य-मतम् । मित्र-वृत्तिर् इति तु स्व-मतम् । मित्रं बन्धु-मात्रम् । यन्-मित्रं परमानन्दम् [भा।पु। १०.१४.३२] इतिवत् तद्-वृत्तिस् तत् तयाभिमानः ॥१८८॥
—ओ)०(ओ—
॥ १.२.१८९ ॥
तत्र **आद्यं, **यथा महाभारते—
**प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् सन्धारयाम्य् अहम् ॥
श्री-जीवः- **प्रतिज्ञेति श्री-द्रौपदी-वाक्यम् । तस्माद् अस्या यद्यपि प्रेम-विशेष-मय-परिकरान्तर्गतत्वेन दर्शयिष्यमाणाया वाक्यम् इदं प्रेम-विशेष-कार्यम् एव, न तु साधनं, तथापि परम-प्रेमातिशयानां साधनम् अपि स्याद् इत्य् एवम् उदाहृतम् । एवम् उत्तरत्र च श्री-भागवतोत्तम-वर्णन-मय-प्रकरणाद् उद्धृते पद्ये ज्ञेयम् । प्रणय-रसनया धृताङ्घ्रि-पद्म [भा।पु। ११.२.५५] इति तद्-उपसंहारात् ॥१८९॥
मुकुन्दः- प्रतिज्ञेति श्री-द्रौपदी-वाक्यम् । यत्र श्लोके यद्-अंशस्य स्फुटोपलब्धिस् तत्र तद्-अंशस्यैवोदाहृतिर् इति ज्ञापयितुं तस्या वाक्यम् साधने उदाहृतम् । एवम् एव कुत्रापि पूर्वत्राप्य् अग्रेऽपि परीक्षितादयो भावोत्पत्ति-मात्रे तं मोपयातं प्रतियन्तु विप्राः [भा।पु। १.१९.१५] इत्य् आदि उदाहरिष्यन्ति ॥१८९॥
**विश्वनाथः **: न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१९० ॥
तथा एकादशे (११.२.५३) च—
**त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥
श्री-जीवः- **त्रिभुवन-विभवाय किम् उत तद्-धेतव इत्य् अर्थः । सार्वोऽपि द्वन्द्वो विभाषरैकवद् भवतीति न्यायेन एक-वचनम् ॥१९०॥
मुकुन्दः- त्रिभुवन-विभव-हेतवे त्रिभुवन-विभवस्य सिद्ध्य्-अर्थम् ॥१९०॥
**विश्वनाथः **: प्रतिज्ञेति यद्यपि सिद्ध-भक्ताया द्रौपद्या इदं वाक्यम् एव, न तु साधन-रूपं, एवं त्रिभुवन-विभवेत्य् अपि उत्तम-भक्त-लक्षणत्वेन सिद्ध-तद्-बह्क्तस्यानुभाव-रूपम् एव, न तु साधन-रूपम्, तथापि सख्यात्म-निवेदनयोर् अधिकारी सिद्ध-भक्त एव, न तु साधन-मात्रम् । अत एव वक्ष्यते
दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने । केषाञ्चिद् एव धीराणां लभते साधनार्हताम् ॥ [भ।र।सि। १.२.१९८] इति ।
तस्मात् सिद्ध-तुल्यः कश्चिद् विरल-प्रचारः साधक-विशेष एवानयोर् अधिकारी, न तु सर्वे इति ज्ञेयम् । त्रिभुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिर् इति त्वया भगवत्-स्मृतिः क्षणं त्यज्यतां तुभ्यं त्रिभुवन-विभवं दास्यामीटि श्रवणेऽपि योऽकुण्ठ-स्मृतिर् इत्य् अर्थः । अत एव भगवत्-पदारविन्दान् न चलति स वैष्णवाग्र्यः । पदारविन्दात् कथम्भूतात् ? अजितेन्द्रियैः सुरादिभिर् विमृग्याद् एव, न तु प्राप्यात् ॥१९०॥
—ओ)०(ओ—
**॥ १.२.१९१ ॥
श्रद्धा-मात्रस्य तद्-भक्ताव् अधिकारित्व-हेतुता ।
अङ्गत्वम् अस्य विश्वास-विशेषस्य तु केशवे ॥
श्री-जीवः- **श्रद्धा-मात्रस्य इति । यद्यपि श्रद्धा-विश्वासयोर् एक-पर्यायत्वम् एव, तथापि तत्-पूर्वोत्तरावस्थयोस् तत्-तच्-छब्द-प्रयोग-प्राचुर्यम् इति पृथक्-शब्द-प्रयोगः । फल-सामान्यावश्यक-सर्वोत्तम-साधनत्वेन प्रतीतिर् अत्र मात्र-पदार्थः । फल-विशेषस्य तादृश-साधनत्वेन स्वतः सर्वोत्तम-फल-रूपत्वेन वा प्रतीतिः विशेष-पदार्थः । तत्र प्रस्तुतत्वात् द्वयं क्रमेण उदाहृतम् इति भावः ॥१९१॥
मुकुन्दः- ननु पूर्वं तद्-भक्तौ श्रद्धाया अधिकारि-हेतुतोक्ता । अधुना तु श्रद्धा-विश्वासयोर् एकार्थत्वात् कथं तस्या अङ्गत्वम् इत्य् अत्राह—श्रद्धेति तस्य भक्तौ तद्-भक्तौ भजने श्रद्धा-मात्रस्याधिकारित्व-हेतुता । केशवे भक्ति-प्राप्ये श्री-कृष्णे विश्वास-विशेषस्यानुभव-वलित-विश्वासस्य त्व् अङ्गम् । श्रद्धा-विश्वासयोः पूर्वोत्तरावस्थाभ्यां भेदोऽपि ज्ञेयः ॥१९१॥
**विश्वनाथः **: श्रद्धा-मात्रस्य इति । यद्यपि श्रद्धा-विश्वासयोर् एक-पर्यायत्वम् एव, तथापि तत्-पूर्वोत्तरावस्थयोस् तत्-तच्-छब्द-प्रयोग-प्राचुर्यम् इति पृथक्-शब्द-प्रयोगः ॥१९१॥
—ओ)०(ओ—
**॥ १.२.१९२ ॥
द्वितीयं, **यथा अगस्त्य-संहितायाम्—
परिचर्या पराः केचित् प्रासादेषु च शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यावहर्तुं च बन्धुवत् ॥
न व्याख्यातं केनापि ।
—ओ)०(ओ—
**॥ १.२.१९३ ॥
रागानुगाङ्गतास्य स्याद् विधि-मार्गानपेक्षत्वात् ।
मार्ग-द्वयेन चैतेन साध्या सख्य-रतिर् मता ॥
श्री-जीवः- **तद् एवं यद्यपि पूर्वम् उदाहरणं वक्ष्यमाण-रागानुगाङ्गत्वम् एव प्रविशति । तथाप्य् एतद्-अनुसारेण वैध्य्-अङ्गोदाहरणम् अपि द्रष्टव्यम् इत्य् अभिप्रायेण आह—रागानुगाङ्गतेति । सख्य-रतिर् बन्धु-भाव-रतिर् इत्य् अर्थः ॥१९३॥
मुकुन्दः- मार्ग-द्वयेन चैतेनेति । अयं भावः—
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥ [भ।र।सि। १.२.२७७]
इति लक्षणेन लोभेन कृतस्यास्याङ्गस्य रागानुगाङ्गता स्यात् । शास्त्रस्य शासनेनैव कृतस्य तु वैध्य्-अङ्गता स्यात् । विधि-मार्गानपेक्षणत्वस्य स्वरूपम् एवेति ॥१९३॥
**विश्वनाथः **: अस्य मित्र-वृत्ति-रूप-सख्यस्य । यद्यपि विधि-मार्गानपेक्षत्वेन पूर्व-पूर्वोक्त-सर्वेषाम् अपि रागानुगाङ्गत्वम् अस्त्य् एव । तथापि मित्र-वृत्ति-रूप-सख्यस्य विशिष्यात्र कथनं तु राग-मार्गे प्राधान्य-द्योतनायेति ज्ञेयम् । एतेन वैध-राग-मार्ग-द्वयेन साधनी-भूत-सख्य-भक्तेः साध्या सख्य-रतिर् मता ॥१९३॥
—ओ)०(ओ—
॥ १.२.१९४ ॥
अथ आत्म-निवेदनं, यथा एकादशे (११.२९.३४)—
**मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भुऊयाया च कल्पते वै ॥
श्री-जीवः- **मर्त्य इति । यतो निवेदितात्मा अतस् त्यक्तं समस्तैहिकामुष्मिकं कर्म आत्मात्मीय-पोषणादि-रूपं येन सः । तर्हि मे मया विशिष्टः कर्तुम् इष्टो भवति । अमृतत्वम् इति मृत्यु-परम्पराम् अक्तिक्रामन् इत्य् अर्थः । मया सह मत्-साम्येन आत्म-भूयाय कल्पते। स्वरूपावस्थितिं मत्-सार्ष्टि-लक्षणां मुक्तिं प्राप्नोतीत्य् अर्थः ॥१९४॥
मुकुन्दः- मर्त्य इति । यतो निवेदितात्मत्वात् त्यक्तानि समस्त-विकर्माण्य् आत्मात्मीय-पोषणोद्यमादि-रूपाणि येन स तथा । अमृतत्वं मर्त्य-धर्म-रहितत्वम् । मया हेतुनात्म-भूयाय मत्-साम्याय कल्पते योग्यो भवति । यथोचित-मद्-गुणाश् चतत्राविर्भवन्तीत्य् अर्थः ॥१९४॥
**विश्वनाथः **: मर्त्य इत्य् अस्य समम् । यतो निवेदितात्मा अतस् त्यक्तं समस्तम् ऐहिकामुष्मिकं कर्म आत्मात्मीय-पोषणादि-रूपं येन सः । तर्हि मे मया विशिष्टः सर्वोत्कृष्टः कर्तुम् इष्टो भवति । अमृतत्वम् इति मृत्यु-परम्पराम् अक्तिक्रामन् इत्य् अर्थः । मया सह मत्-साम्येन आत्म-भूयाय कल्पते । स्वरूपावस्थितिं प्राप्नोति मत्-सार्ष्टि-लक्षणां मुक्तिं प्राप्नोतीत्य् अर्थः ॥१९४॥
—ओ)०(ओ—
**॥ १.२.१९५ ॥
अर्थो द्विधात्म-शब्दस्य पण्डितैर् उपपायते ।
देह्य्-अहन्तास्पदं कैश्चिद् देहः कैश्चिन् ममत्व-भाक् ॥
श्री-जीवः- **देहः कैश्चित् इत्य् अनुकल्प एव ॥१९५॥
मुकुन्दः: न व्याख्यातम् ।
विश्वनाथः- अहन्तास्पदं देही जीवः ॥१९५॥
—ओ)०(ओ—
॥ १.२.१९६ ॥
तत्र देही, यथा यामुनाचार्य-स्तोत्रे (४९)—
वपुर्-आदिषु योऽपि कोऽपि वा
गुणतोऽसानि यथा तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः ॥१९६॥
श्री-जीवः- योऽपि कोऽपीति । वादि-भेदात् स्वरूपतोऽथवा गुणतो यथा-तथाविधो देव-मनुष्यादि-रूपः असानि भवानि काम-चारे लोट् । तद् अयम् इति चासाव् अयं चेति विग्रहात् सोऽयम् इत्य् अर्थः ॥१९६॥
**मुकुन्दः- **योऽपि कोऽपीति । वादि-भेदात् स्वरूपतो गुणतो यथा-तथाविधो देव-मनुष्यादि-रूपो वा असानि भवानि काम-चारे लोट् । तद् अयम् इति चासाव् अयं चेति विग्रहात् सोऽयम् इत्य् अर्थः ॥१९६॥
विश्वनाथः- वपुर्-आदिषु मनुष्यादिषु गुणतो योऽपि कोऽपि वा पशुः पक्षी वा तत्रापि यथा-तथाविधोऽङ्गादि-हीनो वा असानि भवानि । तद् अयम् इति स चासौ अयं चेति विग्रहात् सोऽयम् अहन्तास्पदं मया समर्पितः ॥१९६॥
—ओ)०(ओ—
॥ १.२.१९७ ॥
देहो, यथा भक्ति-विवेके—
चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षनात् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.१९८ ॥
दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने ।
केषाञ्चिद् एव धीराणां लभते साधनार्हताम् ॥
श्री-जीवः- दुष्करत्वेनेत्य् अत्रात्म-निवेदनस्य केवलस्य दुष्करत्वेन वैरल्यं, न तु महिमाधिक्येन भाव-शून्यत्वात् । सख्यस्य तु दुष्करत्वेन महिमाधिक्येन च वैरल्यं भावोत्तम-रूपत्वात् । यदि च भाव-मिश्रम् आत्म-निवेदनं भवति, तदा तु सुतरां महिमाधिक्येनापि विरलं स्यात् । तत्र केवलम् आत्म-निवेदनं दान-समये श्री-बलि-राजे दृश्यते । शरणापत्तिः खलु रक्षितृत्वेन वरणम् । तद् इदं त्व् आत्मनस् तदीयता-सम्पादनम् इति भेदः । भाव-मिश्रेषु दास्येनात्म-निवेदनं श्रीमद्-अम्बरीषे । तद्-उक्तम्—स वै मनः कृष्ण-पदारविन्दयोर् [भा।पु। ९.४.२०] इत्य् आरभ्य कामं च दास्ये न तु काम-काम्यया इत्य् अन्तेन । तद् एवोक्तं श्री-भगवतैकादशे — दास्येनात्म-निवेदनम् इति । तथा प्रेयसी-भावेन श्री-रुक्मिणी-देव्यां । यथोक्तं तत्राइव—तन् मे भवान् खलु वृतः पतिर् अङ्गजायाम् आत्मार्पितश् च भवतोऽत्र विभो विधेहि [भा।पु। १०.५२.३९] इति । एवं सख्यादीनाम् अपीति ज्ञेयम् ॥१९८॥
मुकुन्दः- दुरूहत्वेनेत्य् अत्र सख्यस्य विध्य्-उल्लङ्घनत्वेनात्म-निवेदनस्य क्षुत्-पिपासासहनादितया विरलत्वम् । धीराणां प्रौढ-श्रद्धावताम् ॥१९८॥
विश्वनाथः- दुष्करत्वेनेत्य् अत्रात्म-निवेदनस्य केवल-दुष्करत्वेनैव वैरल्यं, न तु महिमाधिक्येन भाव-शून्यत्वात् । सख्यस्य दुष्करत्वेन वैरल्यं भावोत्तम-रूपत्वात् ममताधिक्येन च । यदि च कृष्णस्य सेवार्थं तस्मै अर्पितम् इति भाव-पूर्वकं दीयते । तदा तु सुतरां महिमाधिक्येनापि विरलं स्यात् । तत्र केवल्म् आत्म-निवेदनं दान-समये श्री-बलि-राजे दृश्यते । शरणापत्तिः खलु रक्षितृत्वेन वरणम् । तद् इदं त्व् आत्मना तदीयता-सम्पादनम् इति भेदः । भाव-मिश्रं दास्येनात्म-निवेदनं श्रीमद्-अम्बरीषेणोक्तम् । स वै मनः कृष्ण-पदारविन्दयोर् इत्य् आरभ्य कामं च दास्ये न तु काम-काम्यया इत्य् आद्य्-अन्तेन । तथैवोक्तं श्री-भागवते एकादशे—दास्येनात्म-निवेदनम् इति । तथा प्रेयसी-भावेन श्री-रुक्मिणी-देव्यां । यथोक्तं तयाइव—तन् मे भवान् खलु वृतम् इत्य् आदीति । एवं सख्यादीनाम् अपि ज्ञेयम् ॥१९८॥
—ओ)०(ओ—
॥ १.२.१९९ ॥
५०। अथ निज-प्रियोपहरणं, यथा एकादशे (११.११.४१)—
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥
श्री-जीवः- यद् यद् इति च-कारात् मम प्रियं च ॥१९९॥
मुकुन्दः- यद् यद् इति च-कारात् मम प्रियं गुञ्जादि शिखि-पिञ्छादिकं च ॥१९९॥
विश्वनाथः- यद् यद् इति च-कारात् मम प्रियं च यद् वस्तु तद् आनन्त्याय कल्पते अनन्तं भवति ॥१९९॥
—ओ)०(ओ—
॥ १.२.२०० ॥
५१। अथ तद्-अर्थेऽखिल-चेष्टितं, यथा पञ्चरात्रे—
लौकिकी वैदिकी वापि या क्रिया क्रियते मुने ।
हरि-सेवानुकूलैव सा कार्या भक्तिम् इच्छता ॥
श्री-जीवः- न व्याख्यातम् ।
मुकुन्दः- हरि-सेवानुकुलैव, न तु सेवातोऽन्य-परा लौकिकी वैदिकी क्रियापि हरि-सेवा-परा कार्या ॥२००॥
विश्वनाथः- न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.२०१ ॥
५२। अथ शरणापत्तिः, यथा हरि-भक्ति-विलासे (११.६७७)—
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.२०२ ॥
श्री-नारसिंहे च—
त्वां प्रपन्नोऽस्मि शरणं देव-देव जनार्दन ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥
श्री-जीवः- शरणं प्रपन्नोऽस्मि रक्षितृत्वेन वृतवान् अस्मि । शरणं तद् आश्रयं प्राप्तः । शरण-शब्देन हि तद्-द्वयम् अप्य् उच्यते इति ॥२०२॥
मुकुन्दः- शरणं प्रपन्नोऽस्मि रक्षितृत्वेन वृतवान् अस्मि । शरणम् आश्रयं प्राप्तः । शरण-शब्देन हि तद्-द्वयम् एवोच्यते ॥२०२॥
विश्वनाथः- न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.२०३-२०५ ॥
५३— अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे—
या दृष्टा निखिलाघ-सङ्ग-शमनी स्पृष्टा वपुः-पावनी
रोगाणाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी ।
प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥
तथा च तत्रैव—
दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता ।
रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥
नवधा तुलसीं देवीं ये भजन्ति दिने दिने ।
युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥
श्री-जीवः- या दृष्टेति । वपुः-पावनी कुजन्मत्वादि-शोधनी । रोगाणां क्लेश-मात्राणां, प्रत्यासत्तिर् मनस आसङ्गः । विमुक्तिर् विशिष्टा मुक्तिः सा प्रेम-भक्तिर् इत्य् अर्थः ॥२०३॥
मुकुन्दः- वपुः-पावनी दुर्जात्य्-आदि-शोधनी । प्रत्यासत्तिर् मनस आसङ्गः । विमुक्तिः सालोक्यादिः ॥२०३॥
विश्वनाथः- या तुलसी दृष्टा सती निखिल-पाप-शमनी भवति वपुः-पावनी कुजन्मत्वादि-शोधनी । रोगाणां क्लेश-मात्राणां । प्रत्यासत्तिर् मनस आसङ्गः । विमुक्तिर् विशिष्टा मुक्तिः प्रेम-भक्तिर् इत्य् अर्थः । रोपितेति रुह जन्मनि प्रादुर्भावे इत्य् अस्य णिज्-अन्त-रूपम् । तथा च प्रतिदिनं तस्याः पत्र-मञ्जर्य्-आदि-प्रादुर्भाव-प्रयोजको भविष्यतीति तात्पर्यार्थः, न तु प्रत्यहम् उत्पादयिष्यतीत्य् अर्थः ॥२०३-५॥
—ओ)०(ओ—
॥ १.२.२०६ ॥
५४— अथ शास्त्रस्य,
शास्त्रम् अत्र समाख्यातं यद् भक्ति-प्रतिपादकम् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.२०७-२०९ ॥
यथा स्कान्दे—
**वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥
वैष्णवानि तु शास्त्राणी येऽर्चयन्ति गृहे नराः ।
सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥
तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- **तिष्ठते इति प्रकाशनार्थे त्व् आत्मनेपदम् । तथा च यस्य मन्दिरे स्वयम् एव प्रकाशितं भवतीत्य् अर्थः ॥२०९॥
—ओ)०(ओ—
॥ १.२.२१० ॥
तथा श्री-भागवते द्वादशे (१२.१३.१५) च—
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥
श्री-जीवः-_ न व्याख्यातम् ।_
मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः:
—ओ)०(ओ—
॥ १.२.२११ ॥
५५— अथ मथुरायाः, यथा आदि-वाराहे—
**मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहिता मम मायया ॥
श्री-जीवः, विश्वनाथः-_ न व्याख्यातम् ।_
मुकुन्दः- **अन्यत्र अन्य-तीर्थे ॥२११॥
—ओ)०(ओ—
॥ १.२.२१२ ॥
ब्रह्माण्डे च—
**त्रैलोक्य-वर्ति-तीर्थानां सेवनाद् दुर्लभा हि या ।
परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः ॥
श्री-जीवः-_ _**परानन्द-मयी प्रेम-लक्षणा ॥२१२॥
**मुकुन्दः- **परानन्द-मयी रति-रूपा ॥२१२॥
विश्वनाथः: परानन्द-मयी प्रेम-लक्षणा ॥२१२॥
—ओ)०(ओ—
**॥ १.२.२१३ ॥
श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता ।
स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् ।
इति ख्यातं पुराणेषु न विस्तार-भियोच्यते ॥
श्री-जीवः, मुकुन्दः, विश्वनाथः-_ _**प्रेक्षिता दूराद् दृष्टा, गता तत्-समीप-प्राप्ता । श्रिता निजाश्रयत्वेन वृता । सेविता तत्-तत्-स्थान-संस्कारादिना परिचिता । अभीष्ट-देत्य् उत्तरोत्तर-वैशिष्ट्येन ज्ञेयम् ॥२१३॥
—ओ)०(ओ—
॥ १.२.२१४ ॥
५६—अथ वैष्णवानां सेवनं, यथा पाद्मे (६.२५३.१७६)—
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम् ॥
न व्याख्यातम् कतमेनापि ।
—ओ)०(ओ—
॥ १.२.२१५ ॥
तृतीये (३.७.१९) च—
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥
श्री-जीवः- एक-रूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः । मधुद्विषः पादयो रति-रासो रतेर् उल्लासो भवेत् ॥२१५॥
**मुकुन्दः : **मधुद्विषः पादयो रति-रासो रतेर् उल्लासो भवेत् । तीव्रो दृढः ॥२१५॥
**विश्वनाथः- **एक-रूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः । मधुद्विषः पादयो रति-रासो रतेर् उल्लासो भवेत् । तीव्रो नितान्तः ॥२१५॥
—ओ)०(ओ—
॥ १.२.२१६-२१९ ॥
स्कान्दे च—
शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।
गोपी-चन्दन-लिप्ताङ्गो दृष्तश् चेत् तद्-अघं कुतः ॥
प्रथमे (१.१९.३३) च—
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श-पाद-शौचासनादिभिः ॥
आदी-पुराणे—
ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः ।
मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः ॥
यावन्ति भगवद्-भक्तेर् अङ्गानि कथितानीह ।
प्रायस् तावन्ति तद्-भक्त-भक्तेर् अपि बुधा विदुः ॥
न व्याख्यातम् कतमेनापि ।
—ओ)०(ओ—
॥ १.२.२२० ॥
५७। अथ यथा-वैभव-महोत्सवो, यथा पाद्मे—
**यः करोति महीपाल हरेर् गेहे महोत्सवम् ।
तस्यापि भवति नित्यं हरि-लोके महोत्सव ॥
श्री-जीवः, मुकुन्दः : न व्याख्यातं ।
विश्वनाथः- **हरेर् मन्दिर-निमित्तं महोत्सवं यः करोति ॥२२०॥
—ओ)०(ओ—
॥ १.२.२२१ ॥
५८। अथ ऊर्जादरो, यथा पाद्मे—
यथा दामोदरो भक्त-वत्सलो विदितो जनैः ।
तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः ॥
श्री-जीवः : यथा दामोदरो जनैर् भक्त-वत्सलो विदितस् तद्-रूपश् च सन् स्वल्पम् अप्य् उरु-कारकः ऋण-निर्यातक इव स्वल्पम् अपि उरु कृत्वा ददातीत्य् अर्थः । तस्य दामोदरस्यायं मासः कार्त्तिकाख्योऽपि तादृशः सन् स्वल्पम् अप्य् उरु-कारक इति पूर्ववत् । अकेनोर् भविष्यद्-आधमर्ण्ययोः [पा। २.३.७०] इति षष्ठी-निषेधः ॥२२१॥
**मुकुन्दः : **यथेति तादृशत्वे हेतुः स्वल्पम् इत्य् आदि । स्वल्पम् अप्य् उरु करिष्यतीत्य् अर्थः । अकेनोर् भविष्यद्-आधमर्ण्ययोः [पा। २.३.७०] । अस्यार्थः—भविष्यत्य् अकस्य भविष्यद्-आधमर्ण्यार्थेनश् च योगे षष्ठी न स्यात् । इति भविष्यद्-अक-योगे षष्ठी-निषेधः ॥२२१॥
**विश्वनाथः- **यथा दामोदरो भक्त-वत्सलो विदितः । भक्त-वत्सलः सन् स्वल्पम् अप्य् उरु-कारकः । ऋणस्य व्याज इति प्रसिद्ध-निर्यातक इव स्वल्पम् अपि वस्तु उरु कृत्वा ददातीत्य् अर्थः। तत्र कर्म-स्थाने षष्ठ्य्-अभाव आर्षः । यत्र स्वल्पम् अय् उरु कर्तुं समर्थो भवतीति तुम्-अर्थे णमुल् । तथा तस्य दामोदरस्यायं कार्त्तिकाख्यो मासः भक्त-वत्सलः सन् स्वल्पम् अप्य् उरु-कारक इति पूर्ववत् ॥२२१॥
—ओ)०(ओ—
॥ १.२.२२२-२२३ ॥
तत्रापि मथुरायां विशेषो, यथा तत्रैव—
**भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितोऽन्यत्र सेविनाम् ।
भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥
सा त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृद् अपि श्री-दामोदर-सेवनात् ॥
श्री-जीवः- **यतो वश्यकरीति । वश्य-करीत्वम् अत्र सुख-दानेनैव ज्ञेयम्, न तु दुःख-दानेन । अतो भक्त्य्-अदाने न तद् अत्र प्रयोजकं, किन्तु तेन लक्षितं परमोत्कृष्टत्वम् एव। तथाविधा च सा नायोग्ये सहसा दातुं योग्येति, यावद् अयोग्यता तावद् भगवता न दीयत एव । योग्यता च सर्वान्य-स्व-हित-निरपेक्षत्वम् एव । तस्माद् योग्यतायाम् एव सत्यां दातव्यत्वेऽपि यदि मथुरा-कार्त्तिकयोः सङ्गमे पूजनं घटते, तदा योग्यता-विरहितेनापि वस्तु-प्रभावात् सहसैव प्राप्यते एवेति भावः ॥२२२-३॥
**श्री-मुकुन्दः- **अन्यत्र सेविनां श्री-मथुराया अन्यत्र देशे श्री-कृष्णे आसक्ति-शून्य-साधन-साहस्रवताम् इत्य् अर्थः । यतो वश्यकरी हरेर् इति । आसक्ति-शून्ये वशी-भाव उचितो नेति भावः । यदा मथुरायां कार्त्तिके श्री-दामोदर-पूजनं घटते, तदा तत्-प्रभावाद् एवान्य-साधन-शून्यैर् नरैः सहसा प्राप्यत इति भावः । अन्यदा सेवनात् कार्त्तिके सकृद् अपीति विशेषः ॥२२२-३॥
**विश्वनाथः- **अन्यत्र मथुरातोऽतिरिक्त-स्थले ॥२२२-३॥
—ओ)०(ओ—
॥ १.२.२२४ ॥
५९— अथ श्री-जन्म-दिन-यात्रा, यथा भविष्योत्तरे—
यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन ।
तद्-दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् ।
तेन सम्यक्-प्रपन्नानां प्रसादं कुरु केशवः ॥
न व्याख्यातं कतमेनापि ।
—ओ)०(ओ—
॥ १.२.२२५ ॥
६०— अथ श्री-मूर्तेर्-अङ्घ्रि-सेवने प्रीतिः, यथा आदि-पुराणे—
मम नाम-सदाग्राही मम सेवा-प्रियः सदा ।
भक्तिस् तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥
श्री-जीवः, विश्वनाथः:** **सेवा-प्रियः सेवैक-पुरुषार्थः सन् । मुक्तिर् अत्र भक्ति-शून्या ज्ञेया ॥२२५॥
मुकुन्दः- _न व्याख्यातम् _॥
—ओ)०(ओ—
॥ १.२.२२६ ॥
६१— अथ श्री-भागवतार्थास्वादो, यथा प्रथमे (१.१.३)—
**निगम-कल्प-तरोर् गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः ॥
श्री-जीवः- **हे भावुकाः ! परम-मङ्गलायनाः ! हे रसिका भगवत्-प्रीति-रसज्ञाः ! इत्य् अर्थः । ते यूयं वैकुण्ठात् क्रमेण भुवि पृथिव्याम् एव गलितम् अवतीर्णं निगम-कल्प-तरोः सर्व-फलोत्पत्ति-भुवः शाखोपशाखाभिर् वैकुण्ठम् अप्य् अध्यारूढस्य वेद-रूप-तरोर् यत् खलु रस-रूपं श्री-भागवताख्यं फलं तत् भुव्य् अपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत । अहो इत्य् अलभ्य-लाभ-व्यञ्जना; भागवताख्यं यच् छास्त्रं तत् खलु रसवद् अपि रसैकमयता-विवक्षया रस-शब्देन निर्दिष्टम् । भागवत-शब्देनैव तस्य रसस्यान्यदीयत्वं च व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाक्षेपात् शब्द-श्लेषेण च भगवत्-सम्बन्धि-रसम् इति गम्यते । स च रसो भगवत्-भक्ति-मय एव । यस्यां वै श्रूयमाणायाम् [भा।पु। १.७.७] इत्य्-आदि-फल-श्रुतेः । यन्-मयत्वेनैव श्री-भगवति रस-शब्दः श्रुतौ प्रयुज्यते । रसो वै सः [टैत्तू २.७.१] इति । स एव च प्रशस्यते रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । तत्र रसिका इत्य् अनेन प्राचीनार्वाचीन-संस्काराणाम् एव तद्-विज्ञत्वं दर्शितम् ।
गलितम् इत्य् अनेन तस्य सुपक्त्रिमत्वम् उक्त्वा शास्त्र-पक्षे सुनिष्पन्नार्थत्वम् अधिक-स्वादुत्वं च दर्शितम् । रसम् इत्य् अनेन फल-पक्षे त्वग्-अष्ट्य्-आदि-राहित्यं व्यज्यात्र च पक्षे हेयांश-राहित्यं दर्शितम् । तथा निगम-तरोर् परम-फलत्वोक्त्या तस्य परम-पुरुषार्थत्वं दर्शितम् ।
एवं तस्य रसात्मक-फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष-बोधनार्थं वैशिष्ट्यान्तरम् आह शुकेति । अत्र फल-पक्षे कल्प-तरु-वासित्वाद् अलौकिकत्वेन शुकोऽप्य् अमृत-मुखोऽभिप्रेयते । ततस् तन्-मुखं प्राप्य यथा तत् फलं विशेषतः स्वादु भवति तथा परम-भागवत-मुख-सम्बन्धं भगवद्-वर्णनम् अपि । ततस् तादृश-परम-भागवत-वृन्द-महेन्द्र-श्री-शुकदेव-मुख-सम्बन्धं किम् उतेति भावः । अतएव परम-स्वाद-परम-काष्ठा-प्राप्तत्वात् स्वतोऽन्यतश् च तृप्तिर् अपि न भविष्यतीत्य् आलयं मोक्षानन्दम् अप्य् अभिव्याप्य पिबतेत्य् उक्तम् । तथा च वक्ष्यते—परिनिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य् आदि । अनेनास्वाद्यान्तरवन् नेदं कालान्तरेऽप्य् आस्वादक-बाहुल्येऽपि व्ययिष्यतीत्य् अपि दर्शितम् ।
यद् वा, तत्र तस्य रसस्य भगवत्-प्रीतिमयत्वेऽपि द्वैविध्यम् । तत्-प्रीत्य्-उपयुक्तत्वं तत्-प्रीति-परिणामत्वं चेति । यथोक्तं द्वादशे—
कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् ॥ यत् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा।पु। १२.३.१४-१५] इति ।
ततः सामान्यतो रसत्वम् उक्त्वा विशेषतोऽप्य् आह अमृतेति । अमृतं तल्-लीला-रसः । हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरम् [भा।पु। १२.१३.११] इति द्वादशे श्री-भागवत-विशेषणात् । लीला-कथा-रस-निषेवणम् [भा।पु। १२.४.४०] इति तस्यैव रसत्व-निर्देशाच् च । सत्-सुरम् इति सन्तोऽत्रात्मारामाः । इत्थं सताम् [भा।पु। १०.१२.११] इत्य् आदिवत् । त एव सुराः । अमृत-मात्र-स्वादित्वात्, तेन समवेतं तत्रापि तादृश-शुक-मुखाद् गलितं प्रवाह-रूपेण वहन्तम् इत्य् अर्थः ।
तद् एवं भगवत्-प्रीतेः परम-रसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च सर्व-वेदान्त-सारं हि [भा।पु। १२.१३.१५] इत्य् आदौ तद्-रसामृत-तृप्तस्य इत्य् आदि । एवम् एवाभिप्रेत्य भावुका इत्य् अत्र रस-विशेष-भावना-चतुरा इति टीका । तथा स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः [भा।पु। १.५.१९] इत्य् आदि ॥२२६॥
मुकुन्दः- रसिका भावुका इत्य् अनयोर् उपादानं तद्-आस्वाद-विशेषार्थम् । न त्व् अधिकारिणां विशेषणार्थम् । आभ्यां रथितानाम् अपि यस्यां वै श्रूयमाणायाम् इत्य् आदिना श्रवणेनैव भावोत्पत्तेः । रसवद् इति वक्तव्येऽपि रस-तादात्म्य-विवक्षया रसम् इत्य् उक्तम् ॥२२६॥
विश्वनाथः:** **एवम् अस्य शास्त्र-शिरोमणेः पूर्व-श्लोके ईश्वरावरोधकत्वादि-मयम् ऐश्वर्यम् उक्त्वा माधुर्यं चाह—निगमेति । निगमो वेदः । स एव कल्प-तरुस् तस्य स्वाश्रितेभ्यो वाञ्छित-विविध-पुरुषार्थ-रूप-फल-दायित्वेऽपि तरुत्वाद् यत् साहजिकं तद् इदं भागवतं फलम् । श्लेषेण भगवत्-स्वामिकम् इदम् । तेनैव स्व-भक्तेभ्यो दत्तम् इति तान् विना न कस्याप्य् अन्यस्यात्र स्वत्वारोपे शक्तिर् इति भावः । गलितम् इति वृक्ष-पक्वतया स्वयम् एव पतितं, न तु बलात् पातितम् इति स्वाद-सम्पूर्णत्वम् ।
न चोच्च-निपातनेन स्फुटितम्, नाप्य् अनतिमधुरं चेत्य् आह—शुकेति । परमोर्ध्व-चूडतः श्री-नारायणात् ब्रह्म-शाखायां, ततोऽधस्तान् नारद-शाख्यायां, ततो व्यास-शाखायां, ततः शुक-मुखं प्राप्यातपात् मध्व् इवामृत-द्रव-संयुतम् । शुकेनैव तेन स्व-चञ्च्व्-अमृत-निष्क्रमणार्थं द्वारम् अपि कृतम् । अथ च तेनास्वादितत्वाद् अतिमधुरं, ततः सूतादि-शाखातः शनैः शनैः पतनाद् अखण्डितम् । तेन गुरु-परम्परां विना स्व-बुद्धि-बलेनास्वादने श्री-भागवतस्याखण्डितत्वे पानाशक्तिः सूचिता ।
ननु कथं फलम् एव पातव्यम् इत्य् अत आह—रसम् इति । रस-स्वरूपम् एवेदं फलं, नात्र त्वग्-अष्ठ्य्-आदि-हेयांशोऽस्तीति भावः । लयो मोक्षः सालोक्यादिर् जीवन्-मुक्तत्वं वा, तम् अभिव्याप्य तत्र तत्र भगवल्-लीला-गान-प्रसिद्धेः । मुहुर् इति पीतस्यापि पुनः पाने स्वादाधिक्यम् एवेति । अहो इति विस्मये । रसिका हे रसज्ञा इति भक्तानाम् एव जात-रतित्वाद् रतेर् एव स्थायि-भावत्वात् स्थायिन एव रस्यमानत्वात् नात्र ज्ञानि-कर्मि-योगिनां कोऽपि दाय इति भावः । हे भावुकास् तत एव यूयम् एव कुशलिनोऽन्येऽमङ्गला एवेति भावः ॥२२६॥
—ओ)०(ओ—
॥ १.२.२२७ ॥
तथा द्वितीये (२.१.९) च—
**परिनिष्ठितोऽपि नैर्गुण्ये उत्तमःश्लोक-लीलया ।
गृहित-चेता राजर्षे आख्यानं यद् अधीतवान् ॥
श्री-जीवः- **निर्गुणम् एव नैर्गुण्यं स्वार्थे ष्यञ् । तस्मिन् ब्रह्मण्य् अपीत्य् अर्थः ॥२२७॥
मुकुन्दः- _न व्याख्यातम् _॥
विश्वनाथः:** **ननु त्वम् अतिप्रसिद्धः शुको जन्मत एव ब्रह्मानुभवी गृहात् परिव्रज्य गतोऽनुव्रजस् तं पितरम् अपि नैव पर्यचैषीः । सम्प्रति कथम् एवं ब्रूषे इत्य् अत आह—परिनिष्ठित इति । गृहीत-चेता आकृष्ट-चित्तः । ब्रह्मानुभवाद् अपि लीलाया माधुर्याधिक्येऽहम् एव प्रमाणम् इति भावः ॥२२७॥
—ओ)०(ओ—
॥ १.२.२२८ ॥
(६२) अथ स-जातीयाशय-स्निग्ध-श्री-भगवद्-भक्त-सङ्गो, यथा प्रथमे (१.१८.१३)—
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥
श्री-जीवः- भगवद् इति । भगवति सङ्ग आसक्तिः । स नित्यं विद्यते यस्य तस्य यः सङ्गस् तस्य लवेनापि स्वर्गादिकं न तुलयामेति । तत्-प्रशंसया स्वस्य तत्-समान-वासनत्वं दर्शितम् । तच् चान्येषाम् अपि शिक्षणाय जायत इति तद् एतद् अत्रोदाहृतम् । एतद् उपलक्षणत्वेन स्निग्धत्वादिकम् अपि दृश्यम् । अत्र क्षणार्धेनापि तुलये न स्वर्गम् [भा।पु। ४.२४.५७] इत्य् आदिकं चतुर्थस्य पद्यम् अप्य् अनुसन्धेयम् ॥२२८॥
**मुकुन्दः- **तुलयाम [भा।पु। ४.३०.३४] इत्य् आदि चतुर्थ-स्कन्ध-गतं प्रचेतसां च वचनम् । क्ष्णार्धेनापि लुलये न स्वर्गम् [भा।पु। ४.२४.५७] इत्य् आदि तु रुद्रस्य । भगवति सङ्ग आसक्तिः । स नित्यं विद्यते यस्य तस्य यः सङ्गस् तस्य लवेनापि स्वर्गादिकं न तुलयामेति प्रशंसया स्वस्य तत्-समान-वासनत्वं दर्शितम् । एतद् उपलक्षणत्वेन स्निग्धत्वादिकम् अपि उक्तम् ॥२२८॥
**विश्वनाथः- **तस्मात् तादृश-साधु-सङ्ग-महा-निधेर् माहात्म्यम् अस्मद्-अनुभव-गोचरी-कृतं कियद् ब्रुम इत्य् आहुः । भगवत्-सङ्गिनो भक्तास् तेषां सङ्गस्य यो लवोऽत्यल्पः कालस् तेन स्वर्गं कर्म-फलं अपुनर्भवं मोक्षं च ज्ञान-फलं न तुलयाम, मर्त्यानां तुच्छा आशिषो राज्याद्याः किम् उत वक्तव्यं न तुलयामेति । यतः साधु-सङ्गेन परम-दुर्लभाया भक्तेर् अङ्कुरो ह्य् उद्भवतीति भावः । तत्र भक्तेः साधनस्यापि साधु-सङ्गस्य लवेनापि कर्म-ज्ञानादेः फलं सम्पूर्णम् अपि न तुलयाम, किमुत बहु-काल-व्यापिना साधु-सङ्गेन, किमुततरां तत्-फल-भूतया भक्त्या, किमुततमां भक्ति-फलेन प्रेम्नेति च कैमुत्यातिशयो द्योतितो भवति । तथात्र सम्भावनार्ह्त-कलोटातोलने सम्भावनाम् एव न कुर्मः । न हि मेरुणा सर्षपं कश्चित् तुलयतीति द्योत्यते । बहु-वचनेन बहूनां सम्मत्या नैषोऽर्थः केनचिद् अप्रमाणीकर्तुं शक्यत इति व्यज्याते । भगवत्-सङ्गि-सङ्गस्य इत्य् अनेन—
न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसस् तथा तत्-सङ्गि-सङ्गतः ॥
इति योषित्-सङ्गाद् अपि योषित्-सङ्गिनां सङ्गो यथातिनिन्द्य उक्तः, तथैव भगवत्-सङ्गाद् अपि भगवत्-सङ्गिनां सङ्गोऽतिवन्द्योऽतिप्रशस्योऽत्यभिलषणीय इति बोध्यते ॥२२८॥
—ओ)०(ओ—
॥ १.२.२२९ ॥
हरि-भक्ति-सुधोदये च— यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः । स्व-कुल-र्द्ध्यै ततो धीमान् स्व-यूथ्यान् एव संश्रयेत् ॥
श्री-जीवः- तत्र सजातीय-सङ्गस्य प्रभावं दृष्टान्तेन स्पष्टयति यस्येति । प्रह्लादं प्रति हिरण्यकशिपोर् वाक्यम् । तत्र तस्याभिप्रायान्तरेऽपि सामान्य-वचनत्वेन स्वाभिप्रायेऽपि तद् योजयितुं शक्यत इति ग्रन्थ-कृताम् अभिप्रायः । मणिवत् स्फटिक-मणिवद् इति सन्निहित-गुण-ग्रहण-मात्रांशे स दृष्टान्तः । न तु तद् अस्थैर्यांशेनापि । स्व-यूथ्यान् सजातीयान् ॥२२९॥
मुकुन्दः- यस्य यत्-सङ्गतिर् इति श्री-प्रह्लादं प्रति हिरण्यकशिपोर् वाक्यम् । मणिवत् स्फटिक-मणिवद् इति सन्निहित-गुण-ग्रहण-मात्रांशे दृष्टान्तः । न तु तद् अस्थैर्यांशेऽपि । स्व-यूथान् सजातीयान् ॥२२९॥
**विश्वनाथः- **तत्र सजातीय-सङ्गस्य प्रभावं दृष्टान्तेन स्पष्टयति । यस्य यत्-सङ्गतिर् इति प्रह्लादं प्रति हिरण्यकशिपोर् वाक्यम् । यस्य पुंसो येन सह सङ्गतिः स तद्-गुणः। तद्-गुण-सजातीय-गुणवान् मणिवत् स्फटिक-मणिवद् इति सन्निहित-गुण-ग्रहण-मात्रांशे दृष्टान्तः । न तु तद्-अस्थैर्यांशेऽपि । स्व-यूथ्यान् स्व-यूथे भवान् सजातीयान् इति यावत् ॥२२९॥
—ओ)०(ओ—
॥ १.२.२३० ॥
६३। अथ श्री-नाम सङ्कीर्तनं, यथा द्वितीये (२.१.११)—
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनं ॥
श्री-जीवः : इच्छतां कामिनां, निर्विद्यमानानां मुमुक्षूणां, योगिनां मुक्तानां चैतद् अकुतो-भयं न कुतश्चिद् अपि भयं यत्र तद्-रूपं साधनं साध्यं च निर्णीतम् इत्य् अर्थः ॥२३०॥
मुकुन्दः : निर्विद्यमानानां मुमुक्षूणां, इच्छतां कामिनां, योगिनां मुक्तानां चैतद् अकुतो-भयं न कुतश्चिद् अपि भयं यत्र तद्-रूपं साधनं साध्यं च निर्णीतम् इत्य् अर्थः ॥२३०॥
**विश्वनाथः : **नन्व् अत्र शास्त्रे भक्तिर् अभिधेयेत्य् अवगम्यत एव । तत्रापि भक्त्य्-अङ्गेषु मध्ये महाराज-चक्रवर्तिवत् किम् एकं मुख्यत्वेन निर्णीयते, तत्राह—नामानुकीर्तनम् इति । सर्वेषु भक्त्य्-अङ्गेषु मध्ये श्रवण-कीर्तन-स्मरणानि मुख्यानि तस्माद् भारत सर्वात्मा [भा।पु। २.१.६] इति श्लोकेनोक्तानि । तेषु त्रिष्व् अपि मध्ये कीर्तनम् । कीर्तनेऽपि नाम-लीला-गुणादि-सम्बन्धिनि तस्मिन् नाम-कीर्तनम् । तत्राप्य् अनुकीर्तनं स्व-भक्त्य्-अनुरूप-नाम-कीर्तनं निरन्तर-कीर्तनं वा । निर्णीतं पूर्वाचार्यैर् अपि, न केवलं मयैवाधुना निर्णीयत इति । तेनात्र प्रमाणं न प्रष्टव्यम् इति भावः । कीदृशम् ? अकुतो-भयम् इति । काल-देश-पात्रोपकरणादि-शुद्ध्य्-अशुद्धि-गत-भयाभावस्य का वार्ता ? भगवत्-सेवादिकम् असहमाना म्लेच्छा अपि यत्र नैव विप्रतिपद्यन्ते इति भावः । किं च, साधकानां सिद्धानां च नातः परम् अधिकं श्रेय इत्य् आह—निर्विद्यमानानाम् अर्थात् मोक्ष-पर्यन्त-सर्व-कामेभ्य इति । इच्छताम् इत्य् अर्थात् तान् एव कामान् इति लभ्यते, ततश् च निर्विद्यमानानाम् एकान्त-भक्तानाम् । इच्छतां स्वर्ग-मोक्षादि-कामिनां योगिनाम् आत्मारामाणां च । एतद् एव निर्णीतं यथा-योग्यं साधनत्वेन फलत्वेन चेति भावः ॥२३०॥
—ओ)०(ओ—
॥ १.२.२३१-२ ॥
आदि-पुराणे च—
गीत्वा च मम नामानि विचरेन् मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥
पाद्मे च—
येन जन्म-सहस्राणि वासुदेवो निषेवितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥
श्री-जीवः : येन जन्मेति । एतादृशस्याप्य् अस्य पुनः पुनर् जन्म—समुत्कण्ठा-मय-भक्ति-वर्धनार्थं परमेश्वरेच्छयैव ज्ञेयम् ॥२३२॥
**मुकुन्दः : **येनेति । जन्म-सहस्राणि वासुदेवस्य सेवया नामसु परम-श्रद्धावान् यस् तस्य जिह्वायां तानि सदा स्वयं तिष्ठन्तीति ॥२३२॥
विश्वनाथः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.२.२३३ ॥
यतस् तत्रैव— नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः । पूर्णः शुद्धो नित्य-मुक्तो भिन्नत्वान् नाम-नामिनोः ॥
श्री-जीवः- नामैव चिन्तामणिः सर्वाभीष्ट-दायकं, यतस् तद् एव कृष्णः कृष्णस्य स्वरूपम् इत्य् अर्थः । कृष्णस्य विशेषणानि चैतन्येत्य् आदीनि । तस्य कृष्णत्वे हेतुः अभिन्नत्वाद् इति । एकम् एव सच्-चिद्-आनन्द-रसादि-रूपं तत्त्वं द्विधाविर्भूतम् इत्य् अर्थः । विशेष-जिज्ञासा चेत् श्री-भागवत-सन्दर्भस्य श्री-भगवत्-सन्दर्भो दृश्यः ॥२३३॥
मुकुन्दः- नामैव कृष्ण-स्वरूपं, तत्र हेतुः अभिन्नत्वाद् इति । चिन्तामणिः सर्वाभीष्ट-दाता, चिन्तामण्य्-आदीनि कृष्णस्य विशेषणानि ॥२३३॥
**विश्वनाथः- **नामैव चिन्तामणिः सर्वाभीष्ट-दाता, यतस् तद् एव कृष्णः कृष्ण-स्वरूपम् इत्य् अर्थः । कृष्ण-विशेषणानि चैतन्यादीनि । तस्य कृष्णत्वे हेतुः—अभिन्नत्वाद् इति । एकम् एव सच्-चिद्-आनन्द-रूपं तत्त्वं द्विधाविर्भूतम् इत्य् अर्थः ॥२३३॥
—ओ)०(ओ—
॥ १.२.२३४ ॥
अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥
श्री-जीवः : सेवोन्मुखे हीति । सेवोन्मुखे भगवत्-स्वरूप-तन्-नाम-ग्रहणाय प्रवृत्त इत्य् अर्थः । हि प्रसिद्धौ । यथा मृग-शरीरं त्यजतो भरतस्य वर्णितम्—नारायणाय हरये नम इत्य् उदारं हास्यन् मृगत्वम् अपि यः समुदाजहार [भा।पु। ५.१४.४५] इति । यथा च गजेन्द्रस्य जजाप परमं जाप्यं प्राग्-जन्मन्य् अनुशिक्षितम् [भा।पु। ८.३.१] इत्य् आदि ॥२३४॥
मुकुन्दः : यतः कृष्ण-स्वरूपम् अतः । आदि-शब्दाच् छ्रवण-नति-पूजाद्य्-आत्मिका भक्तिर् ग्राह्या । जिह्वादाव् इत्य् अन्येन्द्रियाणां चादि-पदेन ग्रहणम् ॥२३४॥
**विश्वनाथः : **सेवोन्मुखे हीति । सेवोन्मुखे भगवत्-स्वरूप-तन्-नाम-ग्रहणाय प्रवृत्त इत्य् अर्थः । अन्यत् समम् ॥२३४॥
सिद्धान्त-सरस्वती (२.१७.१३६) : अतः श्री-कृष्ण-नामादिना सह कृष्णस्य प्राकृत-भेदाभावात् श्री-कृष्ण-नाम-रूप-गुण-लीला-परिकर-वैशिष्ट्यम् इन्द्रियैः प्राकृत-भोग-परैर् नेत्र-कर्ण-नासा-जिह्वा-त्वग्-आदिभिः ग्राह्यं रूप-शब्द-गन्ध-रस-स्पर्शादि-विषयी-कृतं न भवेत्, कर्हिचित् न स्यात् । ननु अस्यैवाधोक्षजत्वात् सर्वथेदं जड-भोग-परेन्द्रियाणाम् अलभ्यं च, तर्हि कथम् एतत् कीदृशानां जीवानाम् आश्रयितव्यम् ? इति चेत्, तत्राह—सेवोन्मुखे अप्राकृत-बुद्ध्या शुद्ध-कृष्ण-भजन-प्रवृत्ते जिह्वादौ शुद्ध-सत्त्व-मये इन्द्रिये हि खलु अदः कृष्ण-नामादि स्वयम् एव स्फुरति प्रकटयति ॥२३४॥
—ओ)०(ओ—
॥ १.२.२३५-२३७ ॥
६४—अथ श्री-मथुरा-मण्डले स्थितिः, यथा पाद्मे—
अन्येषु पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् ।
मुक्तैः प्रार्थ्या हरेर् भक्तिर् मथुरायां तु लभ्यते ॥
त्रि-वर्गदा कामिनां या मुमुक्षूणां च मोक्षदा ।
भक्तीच्छोर् भक्तिदा कस् तां मथुरां नाश्रयेद् बुधः ॥
अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥
श्री-जीवः : न व्याख्यातम् ॥२३५-७॥
**मुकुन्दः : **अन्येष्व् इति भक्तिः रति-रूपा या ॥२३५॥ वैकुण्ठाद् गोलोकाख्यात् श्री-कृष्णस्य वैकुण्ठात्, गोलोकस्य गोकुल-वैभवत्वं दर्शयद्भिर् एतं श्लोकम् । एवं सप्त-पुरीणां चेति चोदाहृत्य वैकुण्ठाद् गोलोकाद् इति व्याख्या ग्रन्थ-कृद्भिर् एव भागवतामृते दर्शितास्ति । तद् यथा— यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् [ल।भा।१.५.४९८] इति । स गोलोको यथा ब्रह्म-संहितायां श्रुतः—
गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [Bरह्मष् ५.४३]
तथा चाग्रे (Bरह्मष् ५.५६)—
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् । कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥ स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ इति । तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥ [ल।भा।१.५.५०२]
यथा पाताल-खण्डे—
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी । दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ एवं सप्त-पुरीणां तु सर्वोत्कृष्टं तु माथुरम् । श्रूयतां महिमा देवि वैकुण्ठ-भुवनोत्तमः ॥ इति ।
एषाम् अर्थः । श्रियः कान्ताः कान्तः परम-पुरुष इति विवाहाभावेऽपि स्वकीयात्वम् एव तत्र पर्यवसानम्, न परकीयात्वम् । कल्प-तरवो द्रुमा इत्य् आदिनैश्वर्यस्य च प्रधानता च । तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेर् इति तस्य गोलोकस्य तद्-आत्म-वैभवत्वम्।
आम्नायाध्वर-तीर्थ-मन्त्र-तपसां स्वर्गाखिल-स्वर्गिणां सिद्धीनां महतां द्वयोर् अपि तयोश् चिच्छक्ति-वैकुण्ठयोः । वीर्यं यत् प्रथते ततोऽपि गहनं श्री-माथुरे मण्डले
दीव्यत् तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥ [दा।के।कौ। ७७]
इत्य् आदिना स्वयं वर्णितैश्वर्यस्य गोकुलस्यैश्वर्य-स्वरूप-विलासत्वम् । तत्र हेतुः तन्-महिमोन्नतेस् तस्माद् गोलोकान् महिम्नि आधिक्याद् इति । तद् एव प्रमाणम् इति यथा पाताल-खण्डे इत्य् आदिभ्याम् अहो मधुपुरी धन्येति द्वाभ्याम् । वैकुण्ठाद् गोलोकात् । मधुपुरी विंश-योजनात्मिका । माथुरं मथुरा-मण्डलं गोकुल-रूपं पुर-रूपं च । यथा तत्रैव— माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च [ल।भा।१.५.४९७] इति ।
वैकुण्ठाज् जनितो वरा मधु-पुरी तत्रापि रासोत्सवाद् वृन्दारण्यम् उदार-पाणि-रमणात् तत्रापि गोवर्धनः । राधा-कुण्डम् इहापि गोकुल-पतेः प्रेमामृताप्लावनात् कुर्याद् अस्य विराजतो गिरि-तटे सेवां विवेकी न कः ॥ [उपदेशामृत ९]
इत्य् अत्रापि वैकुण्ठाद् गोलोकाद् इत्य् एव युज्यते । कृष्ण-जन्म-प्रसङ्गेऽन्य-वैकुण्ठे तज्-जन्माभाव-कथनस्यानौचित्यात् । तर्हि किं गोलोके रासो नास्ति ? नैव । स्व-स्त्रीभिः रास-करणस्यायोग्यत्वात् । अतो द्वारकायां तद्-अश्रवणाच् च ।
लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् । वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ [छन्दोऽष्टादशकम् २९]
इत्य् अत्रापि गोलोकस्य वैकुण्ठ-पदेनोक्तिः । गोलोके श्री-कृष्णेन तत्-परिकरैः रास-दानादि-लीलां विनान्य-तत्-तल्-लीला-करणेऽपि न तथा स्फूर्तिः । तद् यथा च बृहद्-भागवतामृते—
तर्ह्य् एव सर्वज्ञ-शिरोमणिं प्रभुं वैकुण्ठ-नाथं किल नन्द-नन्दनम् । लक्ष्म्य्-आदि-कान्ताः कलयामि राधिका- मुखाश् च दासादि-गणान् व्रजार्भकान् ॥ तथाप्य् अस्यां व्रज-क्षमायां प्रभुः सपरि-वारकम् । विहरन्तं तथा नेक्षे खिद्यते स्मेति मन्-मनः ॥ कदापि तत्रोपवनेषु लीलया तथा लसन्तं निचितेषु गो-गणैः । पश्याम्य् अमुं कर्ह्य् अपि पूर्ववत् स्थितं निजासने स्व-प्रभुवच् च सर्वथा ॥ तथापि तस्मिन् परमेश-बुद्धेर् वैकुण्ठ-लोकागमनं स्मृतेश् च । सञ्जायमानादर-गौरवेण तत्-प्रेम-हान्या स्व-मनो न तृप्येत् ॥ [बृ।भा। २.४.११०-११३] इति ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् [ब्र।सं। ५.२९] इत्य् आदाव् अपि तथा । श्री-दास-गोस्वाम्य्-अभिप्रेतं यथा—
वैकुण्ठाद् अपि सोदरात्मज-वृता द्वारवती सा प्रिया यत्र श्री-शत-निन्दि-पट्ट-महिषी-वृन्दैः प्रभुः खेलति । प्रेम-क्षेत्रम् असौ ततोऽपि मथुरा श्रेष्ठा हरेर् जन्मतो यत्र श्री-व्रज एव राजतितरां ताम् एव नित्यं भजे ॥ [व्रज-विलास ५] इति ।
श्री-कृष्ण-सर्वेश्वर-बुद्धीनां श्रवण-कीर्तनादि-रूपां वैध-भक्तिं कुर्वतां प्रेम्णा तत्र प्राप्तिः । अत एव तत्रैव—
यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये । व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥ [ल।भा।१.५.३९]
इति यथोत्तर-न्यूनत्वे निर्देशः । गोलोकस्यैश्वर्य-प्रधानत्वाद् एव वर्णनम् अत्र न कृतं तैः । अन्यच् च, तत्र पाद्मोक्तिम् उदाहृत्य सिद्धान्तितम् । यथा—
अथ तत्रस्था नन्द-गोपादयः सर्वे जनाः पुत्र-दारादि-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूपधरा विमानम् आरूढाः परमं वैकुण्ठ-लोकम् अवापुः [प।पु। ६.२७९.२७] ॥ इति
अत्र कारिके—
व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् । कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥ प्रेष्ठेभ्योऽपि इत्य् अन्या च [ल।भा।१.५.४८८-९]
परमं वैकुण्ठ-लोकं गोलोकं पूर्वम् अहो मधुपुरी धन्या इत्य् आदिना वैकुण्ठस्य गोलोकतया दर्शितत्वाद् अत्र तन् न व्याख्यातम् । परम-पदेन गोलोकस्य सुतरां प्राप्तिः । पुत्र-दारादि-सहितास् तद्-उचित-श्री-कृष्ण-रूपादि-सहिता इति चार्थो बोध्यः ॥
गूढार्थ-विवृतिं काञ्चित् कुर्वतश् चापलं मम । सहजां श्री-प्रभोः पारिषदा जलधि-मानसाः ॥२३७॥
विश्वनाथः : _न व्याख्यातम् _॥२३५-७॥
—ओ)०(ओ—
॥ १.२।**२३८ ॥
दुरूहाद्भुत-वीर्येऽस्मिन् श्रद्धा दूरेऽस्तु पञ्चके ।
यत्र स्वल्पोऽपि सम्बन्धः सद्-धियां भाव-जन्मने ॥
श्री-जीवः : **सद्-धियां निरपराध-चित्तानाम् ॥२३८॥
**मुकुन्दः : **ननु मम नाम-सदा-ग्राही इत्य् आदिकम् अङ्ग-पञ्चकं रतेः प्रेम्णश् च प्रापकम् उक्तम् ।
साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि । हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥ [भ।र।सि। १.१.३५]
इति कारिकयोः प्रतीयमानं विरोधं परिहरति दुरूहेति । सद्-धियां निरपराध-चित्तानां स्वल्प-सम्बन्धस् तटस्थेषु जातत्वात् आभास-रूप एक-बार-सम्बन्धः । श्रद्धा-हीना भाग्यवन्तस् तटस्था ज्ञेयाः । यदि श्रद्धा-रहितास् तेष्व् अस्य स्वल्प-सम्बन्धो रतेः प्रापकस् तर्हि यत्र सम्बन्धस् तु श्रद्धावत्सु रतेः प्रेम्णश् च प्रापको भवत्य् एवेत्य् अर्थः ॥२३८॥
विश्वनाथः : सद्-धियां निरपराध-चित्तानाम् । तेषां तु श्रद्धादि-भूमिका नावश्यम् अपेक्षणीयेति भावः ॥२३८॥
सिद्धान्त-सरस्वती (अनुभाष्य १.२.१२८): अस्मिन् दुरूहाद्भुत-वीर्ये दुःसाध्ये अपूर्वे च प्रभाव-मये पञ्चके साधु-सङ्गाद्य्-अङ्गेषु पञ्चसु श्रद्धा दूरेऽस्तु, यत्र साधन-श्रेष्ठाङ्ग-पञ्चके स्वल्पः सम्बन्धोऽपि सद्-धियां सद्-बुद्धिमतां सुचतुराणां वैष्णवानां भाव-जन्मने भावस्य अभिव्यक्तये समर्थो भवतीति शेषः ॥२३८॥
—ओ)०(ओ—
॥ १.२.२३९ ॥
तत्र **श्री-मुर्तिः **यथा—
स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं
वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे
मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सङ्गेऽस्ति रङ्गः ॥
श्री-जीवः- स्व-वाक्य-माधुरी-द्वारा पूर्वम् एवार्थ-पञ्चकम् अनुभावयन्न् आह—स्मेराम् इत्य् आदि पञ्चभिः । मा प्रेक्षिष्ठा निषेध-व्याजेनावश्यक-विधिर् अयं, तद् एतन्-माधुर्येऽनुभूयमाने सर्वम् एव तुच्छं मंस्यसे । तस्माद् एनाम् एव पश्येर् इत्य् अभिप्रायात् ॥२३९॥
**मुकुन्दः- **श्रद्धा-रहितेष्व् अस्य स्वल्प-सम्बन्धेन रतेः प्राप्तिः स्व-वाक्यैर् दर्श्यते—स्मेराम् इत्य् आदि पञ्चभिः । साचि वक्रा, वंश्यां न्यस्तम् अधर-किशलयं यया सा तथा । सख इति प्रीति-सम्बन्धेनैव वशीकरणात् । श्रद्धा-रहितत्वं बोधयति—मा प्रेक्षिष्ठा इति । विरोधि-विलक्षणया तटस्थस्य परम-सुन्दर-दर्शने कौतुकार्थं प्रेरणम् । वृन्दावन-प्राप्तिर् भाग्य-सूचिका । अग्रेऽपि श्री-भागवतादि-सङ्गो भाग्येनैव । बन्धु-सङ्गे प्रीतेर् अभावात् भावो ज्ञेयः ॥२३९॥
विश्वनाथः- पूर्वोक्तं सर्वेभ्यः प्रधानं नाम-सङ्कीर्तनादि-पञ्चकं स्व-कृत-पद्येन अनुभावयितुम् आह—स्मेराम् इत्य् आदि पञ्चभिः । इतः सकाशाद् गच्छतस् तव यदि बन्धु-सङ्गे रङ्गो वर्तते, तदा हरि-तनुं मा प्रेक्षिष्ठा इति । निषेध-व्याजेनावश्यक-विधिर् अयं, तद् एतन्-माधुर्येऽनुभूयमाने सर्वम् एव तुच्छं मंस्यसे । तस्माद् एनाम् एव पश्येत्य् अभिप्रायात् । हरि-तनुं कीदृशीम् ? स्मेरां पुनश् च वक्रा विस्तीर्णा च दृष्टिर् यस्यास् ताम् ॥२३९॥
**सिद्धान्त-सरस्वती (अनुभाष्य १.५.२२४) : **हे सखे, यदि तव बन्धु-सङ्गे पुत्र-कलत्रादि-विषयिणां सङ्गे रङ्गः कौतूहलम् अस्ति विद्यते, तदा इतः अस्मिन् केशी-तीर्थोपकण्ठे यामुन-तटस्थ-केशी-तीर्थे स्मेरां स्मितान्वितां भङ्गी-त्रय-परिचितां ग्रीवा-कटि-जानु-भङ्गी-त्रयेण युक्तां साचि-विस्तीर्ण-दृष्टिं तिर्यक्-प्रशस्तावलोकनात् वंशी-नस्ताधर-किशलयां वंश्यां वेणौ न्यस्तः दत्तः अधर एव किशलयः नव-पल्लवः यया तां चन्द्रकेण मयूर-पिच्छेन उज्ज्वलां परम-शोभा-मयीं गोविन्दाख्यां हरि-तनुं नन्द-सूनु-मूर्तिं मा प्रेक्षिष्ठाः अवलोकय । इति निषेध-व्याजेन परम-सौन्दर्य-धार-विग्रहम् अवश्यम् एव द्रष्टव्यम् अभिप्रेतम् । तन्-माधुर्ये अनुभूयमाने सर्वम् एव तुच्छं मंस्यसे, तस्माद् एनाम् एव पश्येत्य् अभिप्रायः ॥२३९॥
—ओ)०(ओ—
**॥ १.२.२४० ॥
श्री-भागवतं **यथा—
शङ्के नीताः सपदि दशम-स्कन्ध-पद्यावलीनां
वर्णाः कर्णाध्वनि पथिकताम् आनुपुर्व्याद् भवद्भिः ।
हंहो डिम्भाः परम-शुभदान् हन्त धर्मार्थ-कामान्
यद् गर्हन्तः सुखमयम् अमी मोक्षम् अप्य् आक्षिपन्ति ॥
श्री-जीवः- शङ्के नीता इति उपालम्भ-व्याजेन स्तुतिर् इयम् । श्लोक-द्वयीयम् अप्रस्तुत-प्रशंसालङ्कार-मयी । सा च—
कार्ये निमित्ते सामन्ये विशेषे प्रस्तुते सति । तद् अन्यस्य वचस् तुल्ये तुल्यस्येति च पञ्चधा ॥ [का।प्र। १०.९९] इत्य् उक्तत्वात् ।
सामान्ये प्रस्तुते विशेष-प्रस्ताव-मय्य् अपि स्यात् । तद् एवम् अत्र श्री-मूर्ति-श्री-भागवत-मात्रयोः प्रस्तुतयोस् तत्-तद्-विशेषः प्रस्तावः कृतः । स हि तावत् तत्-पर्यन्त-महिम-ज्ञानन-प्रयोजक इति । किं च पूर्व-पद्ये स्मेराम् इत्य् आदिना तस्या हरि-तनोः प्रशंसनात् तत्-प्रेक्षण-निषेधे तात्पर्यं नास्तीति, तद्वत् तद्-उत्तर-पद्ये धर्मादीनां परम-शुभदानां मोक्षस्य च सुखमयस्य दशम-स्कन्ध-श्रवणज-भावेनातिक्रमात् तस्य परम-सुख-रूपत्व-प्राप्त्या । हंहो डिम्भाः इत्य् अत्राधिक्षेपे तात्पर्यं नास्तीति पद्य-द्वयेऽस्मिन्न् अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना स्तुताव् एव नयनात् । स्तुतिश् च सा निन्दा-व्याजेनेति व्याज-स्तुति-नामालङ्कारोऽयं गम्यते ॥२४०॥
**मुकुन्दः- **नीताः प्राप्ताः । गत्य्-अर्थत्वात् कर्तरि निष्ठा । डिम्भा इति श्रद्धाया अभावः । कर्णाध्वनि पथिकताम् इति स्वल्प-सम्बन्धः । मोक्षाक्षेपेण भावः ॥२४०॥
**विश्वनाथः- **वर्णा एव कर्णाध्वनि पथिकतां नीता, न त्व् अर्थ-ज्ञानम् । हे डिम्भा अज्ञाः! यद् यस्मात् वर्ण-श्रवणाद् धर्मादीन् गर्हयन्तः सन्तः सुख-मयं मोक्षम् अप्य् आक्षिपन्ति । पद्य-द्वयेऽस्मिन्न् अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना स्तुताव् एव पर्यवसानाद् व्याज-स्तुति-नामालङ्कारोऽयं गम्यते ॥२४०॥
—ओ)०(ओ—
**॥ १.२.२४१ ॥
कृष्ण-भक्तो **यथा—
दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः
स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि ।
दृशोः कक्षां यावन् मम स पुरुषः कोऽप्य् उपययौ
न जाते किं तावन् मतिर् इह गृहे नाभिरमते ॥
श्री-जीवः- इह मद्-अन्तः-स्फुरति कस्मिंश्चिद् अप्य् अनिर्वचनीये श्यामसुन्दरे मम मतिर् अभिरमते, गृहे तु नाभिरमते इत्य् अर्थः ॥२४१॥
**मुकुन्दः- **इह साक्षाद् वर्तमाने गृहे किं नाभिरमते—आसक्ता न भवति । दृशोः कक्षां यावद् इति स्वल्प-सम्बन्धः, पुरुष-दर्शने हेतौ सत्य् अपि किम् इत्य् उक्तिस् तत्र श्रद्धाभाव-बोधिका । इह गृहे नाभिरमते इति भावोत्पत्तिः ॥२४१॥
विश्वनाथः- _न व्याख्यातम् _॥
—ओ)०(ओ—
**॥ १.२.२४२ ॥
नाम **यथा—
यदवधि मम शीता वैणिकेनानुगीता
श्रुति-पथम् अघ-शत्रोर् नामा-गाथा प्रयाता ।
अनवकलित-पूर्वां हन्त काम् अप्य् अवस्थां
तदवधि दधद्-अन्तर्-मानसं शाम्यतीव ॥
श्री-जीवः- शीता कर्णयोस् ताप-शमनी । वैणिकेनेत्य् अज्ञात-नामत्वात् श्री-नारदस्य तादृशता-मात्रेणोद्देशः । तद्वत् काम् अप्य् अवस्थाम् इति प्रेम्ण एवोद्देशः । इवेति वाक्यालङ्कारे । शाम्यति सर्वं बहिर् उपद्रवं परिहृत्य निर्वृतं भवतीत्य् अर्थः ॥२४२॥
**मुकुन्दः- **शीता कर्णयोस् ताप-निवृत्ति-पूर्वक-सुखदेत्य् अर्थः । वैणिकेनेत्य् अज्ञात-नामत्वात् श्री-नारदस्य तादृशता-मात्रेणोद्देशः । यद् वा, अन्येनैव वीणावादकेन यद् अवधीति स्वल्प-सम्बन्धः । काम् अप्य् अवस्थां दधच् छाम्यतीवेति भावोत्पत्तिः । संसाराद् विरमद् अपि श्यामसुन्दर-विषयेऽभिलाषाद् इवेति नाम-गाथा-श्रवणे हेतौ सत्य् अपि हन्तेति विस्मय-वाचकम् अश्रद्धा-बोधकम् ॥२४२॥
विश्वनाथः- शीता कर्णयोस् ताप-शमनी । वैणिकेनेत्य् अज्ञात-नामत्वात् श्री-नारदस्य तादृशता-मात्रेणोद्देशः । तद्वत् काम् अप्य् अवस्थां दधत् सत् अन्तर् मानसं शाम्यति सर्वं बहिर् उपद्रवं परिहृत्य निर्वृतं भवतीत्य् अर्थः । इवेति वाक्यालङ्कारे ॥२४२॥
—ओ)०(ओ—
**॥ १.२.२४३ ॥
श्री मथुरा-मण्डलं **यथा—
तट-भुवि कृत-कान्तिः श्यामला यास् तटिन्याः
स्फुटित-नव-कदम्बालम्बि-कूजद्-द्विरेफा ।
निरवधि-मधुरिम्णा मण्डितेयं कथं मे
मनसि कम् अपि भावं कानन-श्रीस् तनोति ॥
श्री-जीवः- कम् अपि भावं श्यामसुन्दर-विशेष-विषयम् ॥२४३॥
**मुकुन्दः- **इयं कानन-श्रीर् भावं दर्शन-मात्रात् तनोतीति स्वल्प-सम्बन्धः । कम् अपि श्यामसुन्दर-विशेष-विषयम् । श्यामलाया यमुनायाः सकृद् यद् अङ्ग-प्रतिमान्तर् आहिता मनोमयी भागवतीं ददौ गतिम् [भा।पु। १०.१२.३९] इति । किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा।पु। १.१.२] इति । यत्-सेवया [भा।पु। ३.७.१९] इत्य् आदौ रति-रास इति । पद्यावली (२४)—
विष्णोर् नामैव पुंसाः शमलम् अपहरत् पुण्यम् उत्पादयच् च ब्रह्मादि-स्थान-भोगाद् विरतिम् अथ गुरोः श्री-पद-द्वन्द्व-भक्तिम् । टत्त्व-ज्ञानं च विष्णोर् इह मृति-जनन-भ्रान्ति-बीजं च दग्ध्वा सम्पूर्णानन्द-बोधे महति च पुरुषं स्थापयित्वा निवृत्तम् ॥ इति ।
परमानन्द-मयी सिद्धिर् मथुरा-स्पर्श-मात्रतः इत्य् आदि प्रमाणात् स्मेरां भङ्गी इत्य् आदि वचनेषु कुत्रापि श्रद्धा-वृत्त्य्-आदेः श्रवणं तु सापराध इति ज्ञेयम् ॥२४३॥
विश्वनाथः- श्यामलायास् तटिन्या यमुनायास् तट-भुवि कृता कान्तिर् यया तथा-भूता कामन-श्रीर् वृन्दावन-श्रीः कम् अपि भावं श्यामसुन्दर-विशेष-विषयकम् ॥२४३॥
—ओ)०(ओ—
**॥ १.२.२४४ ॥
अलौकिक-पदार्थानाम् अचिन्त्या शक्तिर् ईदृशी ।
भावं तद्-विषयं चापि या सहैव प्रकाशयेत् ॥
श्री-जीवः- **अलौकिकेति तेषां पञ्चानाम् इति प्रकरणाल् लभ्यते, यथा, सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् [भा।पु। १०.१२.३९] इति, धर्मः प्रोज्झित इत्य् आदौ, किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा।पु। १.१.२] इति, भवापवर्गो भ्रमत [भा।पु। १०.५१.५३] इति, नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः [भा।पु। ६.२.१०] इति, परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः [भ।र।सि। १.२.२१२] इति पञ्चस्व् अपि दर्शनात् ॥२४४॥
श्री-मुकुन्दः- ननु श्रवणादिना पूर्वानुभूत एव पश्चात् तद्-गुणानुभवेन भावः सम्भवेत् । स्वेषाम् इत्य् आदि-पञ्चसु यावद् उपययौ तावन् नाभिरमते इत्य् आदिना भाव-तद्-विषययोः सहैव कथम् उदयः । तत्राह—अलौकिक-पदार्थानां पञ्चानाम् अङ्गानाम् ॥२४४॥
**विश्वनाथः- **आलौकिकेति तेषां प्रकरणाल् लभ्यते । तथा, सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् [भा।पु। १०.१२.३९] इति श्री-विग्रहस्य । धर्मः प्रोज्झित इत्य् आदौ, किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा।पु। १.१.२] इति श्री-भागवतस्य । भवापवर्गो भ्रमत [भा।पु। १०.५१.५३] इति श्री-कृष्ण-भक्तस्य । नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः [भा।पु। ६.२.१०] इति नाम-ग्रहणस्य । परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः [भ।र।सि। १.२.२१२] इति मथुरा-मण्डलस्येति पञ्चस्व् अपि दर्शनात् । भावं तस्य भावस्य विषयं कृष्णं च सहैव एकदैव प्रकाशयेत् ॥२४४॥
—ओ)०(ओ—
**॥ १.२.२४५ ॥
केषाञ्चित् क्वचिद् अङ्गानां यत् क्षुद्रं श्रूयते फलं ।
बहिर्-मुख-प्रवृत्त्यैतत् किन्तु मुख्यं फलं रतिः ॥
श्री-जीवः- **मुख्यं फलम् इति अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य् आदेः । सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः [भा।पु। ५.१९.२६] इत्य् आदेः । स वै मनः कृष्ण-पदारविन्दयोर् इत्य् आदौ, कामं च दास्ये न तु काम-काम्यया [भा।पु। ९.४.१८] इत्य् अस्माच् च । यद् वा, बहिर्मुख-प्रवृत्त्या इति । अन्तर्मुखानां तु तत्-तद्-अनायास-भजनेऽपि कर्मादि-दुर्लभ-फल-प्रापक-तत्-तद्-गुण-श्रवणेन रत्य्-उत्पादनाद् रतिर् एव मुख्यं फलम् इति । तद् एवं रति-फलत्वेऽप्य् अशांसि-भगवद्-रूप-भेदेन रतेर् अपि भेदो ज्ञेयः ॥२४५॥
**मुकुन्दः- **बहिर्मुख-प्रवृत्त्या इति । विषयिणाम् अपि भक्तौ प्रवृत्त्य्-अर्थम् अन्य-कामनयापि कृता भक्तिः कृपा-हेतुः । कृपयान्य-कामना-निवृत्तिर् इति भावः । यथा—स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् [भा।पु। ५.१९.२६] इत्य् आदि ॥२४५॥
विश्वनाथः- बहिर्मुख-प्रवृत्त्या इत्य् अन्तर्मुखानां तु तत्-तद्-अनायास-भजनेऽपि कर्मादि-दुर्लभ-फल-प्रापक-तद्-गुण-श्रवणेन रत्य्-उत्पादनाद् रतिर् एव मुख्यं फलम् इति ॥२४५॥
—ओ)०(ओ—
**॥ १.२.२४६ ॥
सम्मतं भक्ति-विज्ञानां भक्त्य्-अङ्गत्वं न कर्मणाम् ॥
श्री-जीवः- **ननु सर्वासां केवलानाम् एव भक्तीनां माहात्म्यं खलु तादृशम् एव, किन्तु पराशरेण यद् इदम् उक्तं—
वर्णाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ इति ।
तत्र तु कर्मणां भक्त्य्-अङ्गत्वं प्रतीयते । वर्णाश्रमाचार-संयोगेनैव विष्णोर् आराधने सम्मति-प्रतीतेः । तत्राह—सम्मतम् इति । भक्ति-विज्ञानां भक्तिं विशेषतो जानतां शुद्ध-भक्तानां श्री-पराशरादीनाम् एवेत्य् अर्थः । तद् उक्तं तैर् एव—
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् । नान्यद् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेष्व् अपि ॥ इति ।
वर्णाश्रमाचर इत्य् आदिकं त्व् अजात-दृढ-श्रद्धान् शुद्ध-भक्त्य्-अनधिकारिणः प्रत्य् एवोक्तम् इति भावः ॥२४६॥
**मुकुन्दः- **ननु कर्मणाम् अपि भक्त्य्-अङ्गत्वं केचिद् वदन्ति, तत्राह—सम्मतम् इति ॥२४६॥
**विश्वनाथः- **ननु सर्वासां केवलानाम् एव भक्तीनां माहात्म्यं खलु तादृशम् एव, किन्तु पराशरेण यद् इदम् उक्तं—
वर्णाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ इति ।
तत्-तत्-कर्मणां भक्त्य्-अङ्गत्वं प्रतीयते । वर्णाश्रमाचार-संयोगेनैव विष्णोर् आराधने सम्मति-प्रतीतेः । तत्राह—सम्मतम् इति । भक्ति-विज्ञानां भक्तिं विशेषतो जानतां शुद्ध-भक्तानां श्री-पराशरादीनाम् एवेत्य् अर्थः । तद् उक्तं तैर् एव—
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् । नान्यद् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेष्व् अपि ॥ इति ।
वर्णाश्रमाचर इत्य् आदिकं तु शुद्ध-भक्त्य्-अनधिकारिणः प्रत्य् एवोक्तम् इति भावः ॥२४६॥
—ओ)०(ओ—
॥ १.२.२४७ ॥
यथ चैकादशे (११.२०.९)—
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥
श्री-जीवः- तद् एवोपपादयति यथेति । तस्माद् वर्णाश्रमेत्य् अस्य चायम् एवार्थः । वर्णाश्रमाचारवतापि यद् विष्णुर् आराध्यते, सोऽयं पन्थास् तत्-तोष-कारणं नान्यत् किम् अपि। अतएवोक्तं तेनैव
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन् मुहूर्तं क्षणं वापि वासुदेवं न कीर्तयेत् ॥ इति ॥२४७॥
मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- कर्माणि नित्य-नैमित्तिकादीनि इति टीका च । अत्र—
श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते । आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥5
इत्य् उक्त-दोषोऽप्य् अत्र नास्ति । आज्ञा-करणात्, प्रत्युत जातयोर् अपि निर्वेद-श्रद्धयोस् तत्-करण एवाज्ञा-भङ्गः स्यत् ॥२४७॥
—ओ)०(ओ—
॥ १.२.२४८ ॥
ज्ञान-वैराग्ययोर् भक्ति-प्रवेशायोपयोगिता ।
ईषत् प्रथमम् एवेति नाङ्गत्वम् उचितं तयोः ॥
श्री-जीवः- ज्ञानम् अत्र त्वम्-पदार्थ-विषयं तत्-पदार्थ-विषयं तयोर् ऐक्य-विषयं चेति त्रिभूमिकं ब्रह्म-ज्ञानम् उच्यते । तत्रेषद् इति ऐक्य-विषयं त्यक्त्वेत्य् अर्थः । वैराग्यं चात्र ब्रह्म-ज्ञानोपयोग्य् एव । तत्र चेषद् इति भक्ति-विरोधित्वं त्यक्त्वेत्य् अर्थः । तच् च तच् च प्रथमम् एवेत्य् अन्यावेश-परित्याग-मात्राय ते उपादीयेते । तत्-परित्यागेन जाते च भक्ति-प्रवेशे तयोर् अकिञ्चित्करत्वात् । तत्-तद्-भावनाया भक्ति-विच्छेदकत्वाच् च ॥२४८॥
मुकुन्दः: ज्ञानेति । ज्ञानम् आध्यात्मिकं वैराग्यं सर्वत्रौदासीन्यं तयोः । भक्ति-प्रवेशाय भक्तौ धृतिर् वैष्णव-चिह्नानां हरेर् नामाक्षरस्य चेत्य् आदि चतुश्चत्वारिंशद्-अङ्गिकायां प्रवेशाय प्रथमं, गुरु-पादाश्रय इत्य् आदि-विंशद्-अङ्गिकायां द्वार-भक्तौ एवोपयोगिता । तत्रापीषत् । अन्यावेश-परित्याग-मात्राय ते उपादेये । एतद् एवाधिकार-लक्षणे उक्तं नातिसक्त इत्य् अनेन । न तु ऐक्य-विषयकम् अपि ज्ञानम् । भगवत्-सम्बन्धिन्य् अपि भोगादौ वैराग्यम् अपि ॥२४८॥
**विश्वनाथः- **ज्ञानम् अत्र तत्-त्वम्-पदार्थ-विषयं तयोर् ऐक्य-विषयं चेति त्रिभूमिक-ब्रह्म-ज्ञानम् उच्यते । तत्रेषद् इति ऐक्य-विषयं त्यक्त्वेत्य् अर्थः । वैराग्यं चात्र ब्रह्म-ज्ञानोपयोग्य् एव । तत्रेषद् इति भक्ति-विरोधि त्यक्त्वेत्य् अर्थः । तच् च तच् च प्रथमम् एवेत्य् अन्यावेश-परित्याग-मात्राय ते उपादीयेते । तत्-परित्यागेन जाते च भक्ति-प्रवेशे तयोर् अकिञ्चित्करत्वात् तत्-तद्-भावनाया भक्ति-विच्छेदकत्वाच् च ॥२४८॥
—ओ)०(ओ—
॥ १.२.२४९ ॥
यद् उभे चित्त-काठिन्य-हेतू प्रायः सतां मते ।
सुकुमार-स्वभावेयं भक्तिस् तद्-धेतुर् ईरिता ॥
श्री-जीवः- उत्तरतस् तु तयोर् अनुगतौ दोषान्तरम् इत्य् आह यद् उभे इति । काठिन्य-हेतुत्वं च नाना-वाद-निरसन-पूर्वक-तत्त्व-विचारस्य दुःख-सहनाभ्यास-पूर्वक-वैराग्यस्य च रुक्ष-स्वरूपत्वात् । तर्हि सहायं विनोत्तरोत्तर-भक्ति-प्रवेशः कथं स्यात् ? तत्राह भक्तीति । तस्य भक्ति-प्रवेशस्य हेतुर् भक्तिर् ईरिता । उत्तरोत्तर-भक्ति-प्रवेशस्य हेतुः पूर्व-पूर्व-भक्तिर् एवेत्य् अर्थः ।
ननु भक्तिर् अपि तत्-तद्-आयास-साध्यत्वात् काठिन्ये हेतुः स्यात् तत्राह सुकुमार-स्वभावेयम् इति श्री-भगवन्-मधुर-रूप-गुणादि-भावना-मयत्वाद् इति । तस्माद् भगवति निज-चित्तस्य सार्द्रतां कर्तुम् इच्छुना भक्तिर् एव कार्येति भावः । प्राधान्येन च तथोक्तं श्री-प्रह्लादेन—
नैते गुणा न गुणिनो महद्-आदयो ये सर्वे मनः-प्रभृतयः सह-देव-मर्त्याः । आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ तत् तेऽर्हत्तम नमः-स्तुति-कर्म-पूजाः कर्म-स्मृतिश् चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षड्-अङ्गया किं
भक्तिं जनः परमहंस-गतौ लभेत ॥ [भा।पु। ७.९.४९-५०] इति ।
अत्र कर्म परिचर्या, कर्म-स्मृतिः लीला-स्मरणं । चरणयोर् इति भक्ति-व्यञ्जकं तच् च षट्स्व् अप्य् अन्वितम् । तथा संसेवया विनेति वैराग्यादिकम् अपि नादृतम् ॥२४९॥
मुकुन्दः: अत्र हेतुम् आह यद् उभे इत्य् अर्धकम् । द्वार-भक्तीषद्-औचित्यात् प्राय इति । तर्हि सहायं विनोत्तर-भक्ति-प्रवेशः कथं स्यात् ? तत्राह भक्तिर् ईरितेति भक्तिर् अङ्ग-विंशति-रूपा । तद्-धेतुश् चत्वारिंशद्-अङ्ग-भक्ति-प्रवेशस्य हेतुः । ईरितास्यास् तत्रेत्य् अत्रोक्तौ । सुकुमारौ विषयौदास्ये जागरूकोऽपि हरि-सम्बन्धि-वस्तुनि कोमलः सादरः स्वभावो यस्याः सा सुकुमार-स्वभावा कठिन-चित्तेऽस्या अप्रवेशोऽपि सूचितः ॥२४९॥
**विश्वनाथः- **भक्ति-प्रवेशानन्तरं तयोः करणे दोषम् आह यद् उभे इति । काठिन्य-हेतुत्वं च नाना-वाद-निरसन-पूर्वक-तत्त्व-विचारस्य । एवं दुःख-सहनाभ्यास-पूर्वक-वैराग्यस्य च रुक्ष-स्वरूपत्वात् । तर्हि ज्ञान-वैराग्य-रूप-सहायं विना उत्तरोत्तर-भक्ति-प्रवेशः कथं स्यात् ? तत्राह भक्तिस् तद्-धेतुर् ईरितेति । तस्य प्रवेशस्य हेतुर् भक्तिर् ईरिता । उत्तरोत्तर-भक्ति-प्रवेशस्य हेतुः पूर्व-पूर्व-भक्तिर् एवेत्य् अर्थः ।
ननु भक्तिर् अपि तत्-तद्-आयास-साध्यत्वात् काठिन्य-हेतुः स्यात् तत्राह सुकुमारेति । श्री-भगवन्-मधुर-रूप-गुणादि-भावना-मयत्वाद् इति । तथा च भगवति निज-चित्तस्य सार्द्रतां कर्तुम् इच्छुना भक्तिर् एव कार्येति भावः । यथोक्तं प्रह्लादेन—
नैते गुणा न गुणिनो महद्-आदयो ये सर्वे मनः-प्रभृतयः सह-देव-मर्त्याः । आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ तत् तेऽर्हत्तम नमः-स्तुति-कर्म-पूजाः कर्म-स्मृतिश् चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षड्-अङ्गया किं भक्तिं जनः परमहंस-गतौ लभेत ॥ [भा।पु। ७.९.४९-५०] इति ।
अत्र कर्म परिचर्या, कर्म-स्मृतिः लीला-स्मरणं । चरणयोर् इति भक्ति-व्यञ्जकम् । तच् च षट्स्व् अप्य् अन्वितम् । तत् तु संसेवया विनेति वैराग्यादिकम् अपि नादृतम् ॥२४९॥
—ओ)०(ओ—
॥ १.२।२५० ॥
यथा तत्रैव (११.२०.३१)—
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥
श्री-जीवः- _नास्ति व्याख्यानम् _॥२५०॥
मुकुन्दः: प्रायः श्रेयो नेत्य् उक्ताभिप्रायम् एव ॥२५०॥
विश्वनाथः- _नास्ति व्याख्यानम् _॥२५०॥
—ओ)०(ओ—
॥ १.२.२५१ ॥
किन्तु ज्ञान-विरक्त्य्-आदि-साध्यं भक्त्यैव सिध्यति ॥
श्री-जीवः- ज्ञान-साध्यं मुक्ति-लक्षणं । वैराग्य-साध्यं ज्ञानम् । तत् तच् च भक्त्यैव सिध्यति ॥२५१॥
मुकुन्दः: भक्त्यैवेति न ताभ्यां प्रयोजनम् इत्य् एव-कारार्थः ॥२५१॥
**विश्वनाथः- **ज्ञान-साध्यं मुक्ति-लक्षणम् । वैराग्य-साध्यं ज्ञानम् । तत् तच् च भक्त्यैव सिध्यति ॥२५१॥
—ओ)०(ओ—
॥ १.२.२५२-३ ॥
यथा तत्रैव (११.२०.३२-३३)—
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्य तश् च यत् ।
योगेन दान धर्मेण श्रेयोभिर् इतरैर् अपि ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥
श्री-जीवः- इतरैः सालोक्यादि-कामनाम्-मय-भक्त्य्-आदिभिः कथञ्चिद् भक्त्य्-उपयोगित्वेन । यथा चित्रकेतोर् विमान-चारित्वे, गर्भस्थ-शुकदेवस्य माया-त्यागे, प्रह्लादस्य भगवत्-पार्श्व-गमने वाञ्छा । यथोक्तं षष्ठे रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भा।पु। ६.१७.३] इति । ब्रह्म-वैवर्ते श्री-कृष्णं प्रति शुकदेवस्य प्रार्थना—
त्वं ब्रूहि माधव जगन्-निगडोपमेया मायाखिलस्य न विलङ्घ्यतमा त्वदीया । बध्नाति मां न यदि गर्भम् इमं विहाय तद् यामि सम्प्रति मुहुः प्रतिभूस् त्वम् अत्र ॥ इति ।
सप्तमे श्रि-प्रह्लाद-वाक्यम्—
त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र- संसार-चक्र-कदनाद् ग्रसतां प्रणीतः । बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [भा।पु। ७.९.१६] इति ।
दुःसहं यद् उग्रं संसार-चक्र-कदनं दुःखम् । तस्माद् अहं त्रस्तोऽस्मि । दुःसहेति त्वद्-बहिर्मुखतामयत्वाद् इति भाव । तत्रापि ग्रसतां त्वद्-भक्तेः सर्वङ्गिलानाम् असुराणां मध्ये स्वकर्मभिर् बद्धः सन्, प्रणीतो निक्षिप्तोऽस्मि । ततो हे उशत्तम, प्रीतः सन् ते तवाङ्घ्रि-मूलं चरणारविन्दयोर् नित्याधिष्ठानं प्रति श्री-वैकुण्ठं प्रति कदा नु ह्वयसे ॥२५२-३॥
मुकुन्दः: इतरैर् ज्ञान-मिश्र-भक्त्यादिभिः । मद्-धाम वैकुण्ठाख्यं तत्र प्राप्यां सालोक्यादि-चतुर्विधां मुक्तिम् इत्य् अर्थः । अञ्जसा तत्-तत्-साधनं विनैव कथञ्चिद् यदि वाञ्छति इति तल्-लोके भगवत्-सेवां कर्तुं वाञ्छतीत्यर्थः । बृहद्-भागवतामृते यथा गोप-कुमारस्य सा सा वाञ्छा ॥२५२-३॥
**विश्वनाथः- **इतरैः सालोक्यादि-कामनाम्-मय-भक्त्य्-आदिभिः कथञ्चिद् भक्त्य्-उपयोगित्वेन यदि वाज्छति यथा चित्रकेतोर् विमानचारित्वे, गर्भस्थस्य शुकदेवस्य माया-त्यागे, प्रह्लादस्य भगवत्-पार्श्व-गमने वाञ्छा । यथोक्तं षष्ठे रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भा।पु। ६.१७.३] इति । ब्रह्म-वैवर्ते श्री-कृष्णं प्रति शुकदेव-प्रार्थना—
त्वं ब्रूहि माधव जगन्-निगडोपमेया मायाखिलस्य न विलङ्घ्यतमा त्वदीया । बध्नाति मां न यदि गर्भम् इमं विहाय तद् यामि सम्प्रति मुहुः प्रतिभूस् त्वम् अत्र ॥ इति ।
सप्तमे श्रि-प्रह्लाद-वाक्यम्—
त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र- संसार-चक्र-कदनाद् ग्रसतां प्रणीतः । बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [भा।पु। ७.९.१६] इति ॥२५२-३॥
—ओ)०(ओ—
॥ १.२.२५४ ॥
रुचिम् उद्वहतस् तत्र जनस्य भजने हरेः ।
विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥
श्री-जीवः- ननु पूर्वं भक्ति-प्रविष्टस्य वैराग्यं चित्त-काठिन्य-हेतुतया हेयत्वेनोक्तम् । तर्हि तस्य विषय-भोग एव विहितः । तच् च—
विषयाविष्ट-चित्तस्य कृष्णावेशः सुदूरतः । वारुणी-दिग्-गतं वस्तु व्रजन् नैन्द्रीं किम् आप्नुयात् ॥ इत्य् आदि शास्त्र-विरुद्धम् ।
अत्रोच्यते—भक्तौ रुचि-मात्रम् एव तस्य विषय-राग-विलापकं, तस्माद् वैराग्याभ्यास-काठिन्यं न युक्तम् इत्य् आह रुचिम् इति । अत्र रुचिम् उद्वहतः प्रायो विलीयत इति । परिणामतस् तु कार्त्स्न्येनैव विलीयत इत्य् अर्थः । तद् एतद् उपलक्षणम् उक्तं ज्ञानं च भवतीत्य् अस्य—
वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ [भा।पु। १.२.७] इत्य् आदेः ॥२५४॥
**मुकुन्दः- **भक्ति-स्वभावेन विषय-राग-निवृत्तेर् अवधिम् आह रुचिम् इति । रुचिम् आदौ श्रद्धा ततः साधु-सङ्ग इत्य् अत्र वक्ष्यमाणां निष्ठानन्तरां साधन-निष्ठताम् । प्राय इति हरौ जातासक्तेस् तु कार्त्स्न्येनैव विलीयत इत्य् अर्थः ॥२५४॥
**विश्वनाथः- **ननु, पूर्वं भक्ति-प्रविष्टस्य वैराग्यं चित्त-काठिन्य-हेतुतया हेयत्वेनोक्तं, तर्हि तस्य विषय-भोग एव विहितः । तच् च—
विषयाविष्ट-चित्तस्य विष्ण्व्-आवेशः सुदूरतः । वारुणी-दिग्-गतं वस्तु व्रजन् नैन्द्रीं किम् आप्नुयात् ॥ इत्य् आदि शास्त्र-विरुद्धम् ।
अत्रोच्यते—भक्तौ रुचि-मात्रम् एव तस्य विषय-राग-विलापकं, तस्माद् वैराग्याभ्यास-काठिन्यं न युक्तम् इत्य् आह रुचिम् इति । तत्र भजने रुचिम् उद्वहतो जनस्येत्य् अत्र रुचि-पदं भक्ति-प्रवेशोत्तर-कालोत्पन्न-श्रद्धा-विशेष-परम् । प्रायो विलीयत इति भक्तौ प्रवेशानन्तरं विषये किञ्चिद् राग-सत्त्वेऽपि न दोषः । भक्ते परिपाकात् तद् अपि सामस्त्येन यास्यतीति भावः ॥२५४॥
—ओ)०(ओ—
॥ १.२.२५५ ॥
अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।
निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥
श्री-जीवः- तत् प्राग् उक्तं भक्ति-प्रवेश-योग्यम् एव वैराग्यं व्यनक्ति अनासक्तस्येति । अनासक्तस्य सतः यथार्हं स्व-भक्त्य्-उपयुक्त-मात्रं यथा स्यात् तथा विषयान् उपयुञ्जतो भुञ्जानस्य पुरुषस्य यद् वैराग्यं तद् युक्तम् उच्यते । अत्र कृष्ण-सम्बन्धे निर्बन्धः स्याद् इत्य् अर्थः ॥२५५॥
मुकुन्दः: भक्ति-स्वभावं वैराग्यं लक्षयति अनासक्तस्येति । यथार्हं स्वाधिकारोपयुक्त-मात्रं यथा स्यात् विषयान् उपयुञ्जतो भुञ्जानस्य जनस्य यः कृष्ण-सम्बन्धे महा-प्रसाद-स्रक्-चन्दनादौ निर्बन्ध आग्रहः स युक्तं वैराग्यं उच्यते । एतत् स्वयं भगवता विवृतं, यथा—
जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःखात्मकं कामान् परित्यागेऽप्य् अनीश्वरः ॥ ततो भजेत मां प्रीतः श्रद्धालुर् दृठ-निश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ [भा।पु। ११.२०.२८। इति ॥२५५॥
**विश्वनाथः- **प्राग् उक्तं भक्ति-प्रवेश-योग्यम् एव वैराग्यं व्यनक्ति । अनासक्तस्य सतः यथार्हं स्व-भक्त्य्-उपयुक्तं यथा स्यात् तथा विषयान् उपयुञ्जतो भुञ्जानस्य पुरुषस्य यद् वैराग्यं तद् युक्तम् उच्यते । यत्र वैराग्ये सति कृष्ण-सम्बन्धे निर्बन्धः स्याद् इत्य् अर्थः ॥२५५॥
—ओ)०(ओ—
॥ १.२.२५६ ॥
प्रापञ्चिकतया बुद्ध्या हरि-सम्बन्धि-वस्तुनः ।
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥
श्री-जीवः- अथ फल्गु वैराग्यं तु भक्त्य्-अनुपयुक्तं यत् तद् एव ज्ञेयम् । तच् च भगवद्-बहिर्मुखानाम् अपराध-पर्यन्तं स्याद् इत्य् आह प्रापञ्चिकतयेति । हरि-सम्बन्धि वस्त्व् अत्र तत्-प्रसादादि । तस्य परित्यागो द्विविधः । अप्रार्थना प्राप्तानङ्गीकारश् च । तत्रोत्तरस् तु सुतराम् अपराध एव ज्ञेयः । विष्णु-यामले—प्रसादाग्रहणं विष्णोर् इत्य् आदि-वचनेषु तच्-छ्रवणात् ॥२५६॥
मुकुन्दः: चित्त-काठिन्य-हेतुकं वैराग्यं दर्शयति प्रापञ्चिकतयेति ॥२५६॥
**विश्वनाथः- **फल्गु वैराग्यं तु भक्त्य्-अनुपयुक्तं यत् तद् एव ज्ञेयम् । तच् च भगवद्-बहिर्मुखानाम् अपराध-पर्यन्तं स्याद् इत्य् आह प्रापञ्चिकतयेति । हरि-सम्बन्धि वस्त्व् अत्र तत्-प्रसादादि । तस्य परित्यागो द्विविधः । अप्रार्थना प्राप्तानङ्गीकारश् च । तत्रोत्तरस् तु सुतराम् अपराध एव ज्ञेयः । प्रसादाग्रहणं विष्णोर् इत्य् आदि-वचनेषु तच्-छ्रवणात् ॥२५६॥
—ओ)०(ओ—
॥ १.२.२५७-८॥
प्रोक्तेन लक्षणेनैव भक्तेर् अधिकृतस्य च ।
अङ्गत्वे सुनिरस्तेऽपि नित्याद्य्-अखिल-कर्मणाम् ॥
ज्ञानस्याध्यात्मिकस्यापि वैराग्यस्य च फल्गुनः ।
स्पष्टतार्थं पुनर् अपि तद् एवेदं निराकृतम् ॥
श्री-जीवः- प्रोक्तेनेति । द्वयोर् अप्य् अन्वयः । अधिकृतस्य भक्ति-शास्त्राधिकारेण व्याप्तस्य वैराग्यस्य वैराग्य-मात्रस्य । विशेषतः फल्गुन इत्य् अर्थः ॥२५७-८॥
**मुकुन्दः- **प्रोक्तेनेति । ज्ञान-कर्माद्य्-अनावृतम् इत्य् अनेन वैराग्य-भाग् इत्य् अनेन च ॥२५७-८॥
विश्वनाथः- प्रोक्तेनेति । द्वयोर् अप्य् अन्वयः । तथा च शुद्ध-भक्तेर् एवम् अधिकृतस्य भक्ति-शास्त्राधिकारेण प्राप्तस्य च प्रोक्तेन लक्षणेन ज्ञान-कर्माद्य्-अनावृतत्वादि-विशेषण-घटित-लक्षणेन नित्याद्य्-अखिल-कर्मणाम् असङ्गत्वे निरस्तेऽपि स्पष्टतार्थं पुनर् अप्य् अत्र निराकृतम् । वैराग्यस्य युक्तायुक्त-वैराग्य-सामान्य-विशेषतः फल्गुन इत्य् अर्थः ॥२५७-८॥
—ओ)०(ओ—
॥ १.२.२५९-२६४ ॥
धन-शिष्यादिभिर् द्वारैर् या भक्तिर् उपपाद्यते ।
विदूरत्वाद् उत्तमता-हान्या तस्याश् च नाङ्गता ॥
विशेषणत्वम् एवैषां संश्रयन्त्य् अधिकारिणाम् ।
विवेकादीन्यतोऽमीषाम् अपि नाङ्गत्वम् उच्यते ॥
कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस् तथा ।
इत्य् एषां च न युक्ता स्याद् भक्त्य्-अङ्गान्तर-पातिता ॥
यथा स्कान्दे—
एते न ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः ।
हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥
तत्रैव—
**अन्तः-शुद्धिर् बहिः-शुद्धिस् तपः-शान्त्य्-अदयस् तथा ।
अमी गुणाः प्रपद्यन्ते हरि-सेवाभिकामिनाम् ॥
सा भक्तिर् एक-मुख्याङ्गाश्रितानैकाङ्गिकाथ वा ।
स्व-वासनानुसारेण निष्ठातः सिद्धि-कृद् भवेत् ॥
श्री-जीवः : **धनेति । ज्ञान-कर्माद्य्-अनावृतम् इत्य् आदि-ग्रहणेन शैथिल्यस्यापि ग्रहणाद् इति भावः । नाङ्गतेत्य् अत्रोत्तमायाम् इति शेषः ॥२५९॥ यमानां शौचादीनां च स्वयं प्राप्तिं सन्दर्श्य भक्त्य्-अङ्गत्वं निराकरोति कृष्णोन्मुखम् इत्य् आदिना हरि-सेवाभिकामिनाम् इत्य् अन्तेन । यमाः—
अहिंसा सत्यम् अस्तेयम्
असङ्गो ह्रीर् असञ्चयः ।
आस्तिक्यं ब्रह्मचर्यं च
मौनं स्थैर्यं क्षमाभयम् ॥ [भा।पु। ११.१९.३३] इति द्वादश ।
शान्तादय इत्य् अत्र आदि-पदात् सूनृतत्व-सम-दर्शनादयः ॥२६१-३॥
मुकुन्दः- लक्षणोपात्तादि-शब्दार्थम् आह ॥२५९॥ यमानां शौचादीनां च स्वयं प्राप्तिं सन्दर्श्य भक्त्य्-अङ्गत्वं निराकरोति कृष्णोन्मुखम् इत्य् आदिना हरि-सेवाभिकामिनाम् इत्य् अन्तेन । यमाः—
अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ [भा।पु। ११.१९.३३] इति द्वादश ।
शान्तादय इत्य् अत्र आदि-पदात् सूनृतत्व-सम-दर्शनादयः ॥२६१-३॥
विश्वनाथः- धनेति । ज्ञान-कर्माद्य्-अनावृतम् इत्य् आदि-ग्रहणेनैव शैथिल्यस्यापि ग्रहणाद् इति भावः । नाङ्गतेत्य् अत्रोत्तमायाम् इति शेषः । भक्त्य्-अङ्गानां मध्ये श्रवण-कीर्तनादेर् धनादि-द्वारत्वम् प्रायो न सम्भवति, किन्तु परिचर्या-घटकी-भूत-यावद्-व्यापारस्य एकदा कर्तुम् असाध्यत्वेन यस्य यस्य धन-शिष्यादि-द्वारत्वं, तस्य तस्यैव मुख्यत्व-हानिः । न तु सर्वेषाम् इति बोध्यम् । गीतोक्त-विवेकादीन्य् एषां भक्त्य्-अधिकारिणां दशा-विशेषे विशेषणत्वम् एव संश्रयन्ति । न त्व् अमीषां विवेकादीनाम् अङ्गत्वम् उचितम् इत्य् अर्थः । यतो यमादयः कृष्णोमुखं जनं स्वयम् एव प्राप्नुवन्ति, तेषां स्वतः-सिद्धा एव यमादयो भवन्तीत्य् अर्थः ।
ननु येषां भक्तानां स्वतः-सिद्धा यमादयो न भवन्ति, ते किं कृष्ण-बहिर्मुखा एव ? तत्राह—उन्मुखं कृष्ण उत्कृष्ट-मुखम् इत्य् अर्थः । हरि-सेवायाम् अभि सर्वतो-भावेन कामिनं जनम् अमी गुणाः प्रपद्यन्ते स्वयम् एव प्रपन्ना भवन्तीत्य् अर्थः॥
श्रवण-कीर्तनादीनां मध्ये मुख्यतया क्रियमाणम् एकम् अङ्गं यस्याः सा। तथा चान्याङ्गानि तु गौणतया क्रियमानानीति लभ्यन्ते । आश्रितान्य् अनेकाङ्गानि यस्याः सा । अत्र कल्प-द्वयम् एव श्रेष्ठम् इत्य् आह स्व-वासनेति ॥२५९-२६४॥
—ओ)०(ओ—
॥ १.२.२६५ ॥
तत्र एकाङ्गा, यथा ग्रन्थान्तरे6—
श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥
श्री-जीवः- तद्-अङ्घ्रि-भजन इत्य् अत्र तथाङ्घ्रि-भजन इत्य् एव युक्तम् ॥२६५॥
मुकुन्दः- तद् इत्य् अव्ययं तस्य प्रसिद्धस्य श्री-विष्णोर् इति ॥२६५॥
**विश्वनाथः- **तद्-अङ्घ्रि-भजन इत्य् अत्र तथाङ्घ्रि-भजन इत्य् एव युक्तम् ॥२६५॥
—ओ)०(ओ—
॥ १.२.२६६-२६८ ॥
अनेकाङ्गा, यथा नवमे (९.४.१८-२०)—
**स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने ।
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये ॥
मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमं ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥
पादौ हरेः क्षेत्र-पदानुसर्पणे
शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमःश्लोक-जनाश्रय रतिः ॥
श्री-जीवः- **लिङ्गानि प्रतिमाः । श्रीमत्यास् तुलस्या यस् तस्य पाद-सरोजयोर् अर्पितत्वात् तयोः सौरभ-विशेष-योगः स्यात् तस्मिन्न् इत्य् अर्थः । क्षेत्रं श्री-मथुरादि । पदं तद्-आलयादि । तद् एतच् च सर्वं तथा चकार यथोत्तमः-श्लोक-जनाश्रया रतिः स्यात् तेषाम् अभिरुचिः स्यात् तथैवेत्य् अर्थः ॥२६६-२६९॥
मुकुन्दः- लिङ्गानि प्रतिमाः । श्रीमत्यास् तुलस्या यस् तस्य पाद-सरोजयोर् अर्पितत्वात् तयोः सौरभ-विशेष-योगस् तस्मिन्न् इत्य् अर्थः । क्षेत्रं श्री-मथुरादि । पदं तद्-आलयम् । कामं स्रक्-चन्दनादि-सेवां दास्ये निमित्ते तत्-प्रसाद-स्वीकारायेत्य् अर्थः । न तु काम-काम्यया विषयेच्छया । एतत् सर्वं तथा चकार यथोत्तमः-श्लोक-जनाश्रया रतिः स्यात् तेषाम् अभिरुचिः स्यात् तथैवेत्य् अर्थः । अनेन भगवद्-भजनाद् अपि तेषु भक्तेर् आधिक्यं दर्शितम् ॥२६६-२६९॥
विश्वनाथः- मुकुन्दस्य लिङ्गानां प्रतिमानां चालयानं मन्दिराणां च मथुरादि-नित्य-सिद्ध-धाम्नां च वैष्णवानां च दर्शने, तुलस्यास् तुलसी-सम्बन्धिनि पाद-सरोज-सौरभे, तथा च चरणारविन्दार्पितायां तुलस्यां घ्राण-संयोगे सति चरणारविन्द-तुलस्योर् द्वयोर् एव साक्षात्कारो भवतीति भावः । तद्-अर्पिते महा-प्रसादान्ने रसनां जिह्वाम् । हरेः क्षेत्रं मथुरादि । पदम् अन्यत्रापि तन्-मन्दिरादि, तद्-अनुसर्पणे तत्र तत्र पुनः पुनर् गमने हृषीकेशस्य पदयोश् चरणयोः पदानां भक्तानां चाभिवन्दने। एतत् सर्वं तथा चकार यथा उत्तम-श्लोक-जनाः प्रह्लादादयस् तत्र तत्र एवाश्रयो यस्यास् तथा-भूता निष्कामैव रतिः स्यात् । न तु काम-काम्यया काम्य-वस्तुनः कामनया तत् सर्वं न चकारेत्य् अर्थः ॥२६६-२६८॥
—ओ)०(ओ—
**॥ १.२.२६९ ॥
शास्त्रोक्तया प्रबलया तत्-तन्-मर्यादयान्विता ।
वैधी भक्तिर् इयं कैश्चन् मर्यादा-मार्ग उच्यते ॥
श्री-जीवः, मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- **शास्त्रोक्ता मर्यादा यदि प्रबला भवति, प्रथमतो भक्ति-प्रवृत्तौ प्रयोजिका भवति । तदा तया मर्यादयान्विता इयं वैधी भक्तिः कैश्चिज् जनैर् मर्यादा-मार्ग इति सञ्ज्ञयोच्यते ॥२६९॥
—ओ)०(ओ—
अथ रागानुगा
॥ १.२.२७०-२७३ ॥
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥
रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥
सा काम-रूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥
श्री-जीवः: इष्टे स्वानुकूल्य-विषये स्वारसिकी स्वाभाविकी परमाविष्टता, तस्या हेतुः प्रेम-मय-तृष्णेत्य् अर्थः, सा रागो भवेत्, तद्-आधिक्य-हेतुतया तद्-अभेदोक्तिर् “आयुर् घृतम्” इतिवत् । एवम् उत्तरत्रापि, तन्-मयी तद्-एक-प्रेरिता । तत्-प्रकृत-वचने मयट् ॥२७२॥
कामेन राग-विशेष-रूपेण रूप्यते क्रियत इति । तथा सम्बन्धेन तद्-धेतुकेन राग-विशेषेण रूप्यते क्रियत इति तत्-तत्-प्रेरितेत्य् अर्थः । यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेषोऽस्त्य् एव तथापि पृथग्-उपादानं सम्बन्ध-प्राधान्य-विवक्षया सर्वे समायान्ति राजा चेतिवत् ॥२७३॥
मुकुन्दः: अथ रागानुगा—विराजन्तीम् इति । आदि-शब्देन गो-मृग-शुकादयो गृहीताः ॥२७०॥
इष्टे स्वारसिकी स्वभावजा परमाविष्टता रागो भवेत् । तन्मयी राग-मयी या भक्तिः सा रागात्मिका ॥२७२॥
विश्वनाथः: व्रज-वासि-जनादिषु अभिव्यक्तिं यथा स्यात्, तथा विराजन्तीं रागात्मिकां भक्तिम् अनुसृता या, सा रागानुगोच्यते ॥२७०॥
रागात्मिका—इष्टे स्वानुकूल्य-विषये स्वारसिकी स्वाभाविकी या पर्माविष्टता आवेशः । अत्र आविष्टतापदं तद्-धेतु-परम् । तथा चावेश-जनकी-भूत-प्रेम-मय-तृष्णेत्य् अर्थः । सा तृष्णा रागो भवेत् । तन्-मयी तद्-एक-प्रचुरा तत्-प्रकृत-वचने मयट् । तथा चेष्टे स्वारसिकावेश-जनकी-भूता या प्रेम-मय-तृष्णा तत्-प्रेरिता या माल्य-गुम्फनादि-परिचर्या, सा रागात्मिकेति समुदायार्थः । एवं सति तृष्णा-रूप-रागस्यानुसरणासम्भवेऽपि न क्षतिर् इति बोध्यम् । सा रागात्मिका काम-रूपा कामेन राग-विशेष-स्वरूपेण रूप्यते क्रियत इति तथा । एवं सम्बन्धेन तद्-धेतुक-राग-विशेषेण रूप्यते क्रियत इति । तथा च काम-प्रेरिता परिचर्या एवं सम्बन्ध-प्रेइर्ता परिचर्येति द्विविधा रागात्मिकेत्य् अर्थः । यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेषोऽस्त्य् एव तथापि पृथग्-उपादानं सम्बन्धानां मध्ये कामस्य प्राधान्य-प्रतिपादनाय । यथा सर्वः समायाति राजा चेत्य् अत्र राज्ञः सर्वान्तः-पातित्वेऽपि पुनस् तस्य कथनं प्राधान्य-प्रत्युपादानार्थम् ॥२७१-२७३॥
**सिद्धान्त-सरस्वती **: या व्रज-वासि-जनादिषु अभिव्यक्तां सुप्रकाशितां यथा स्यात् तथा विराजन्तीं शोभमानां रागात्मिकां नित्य-सिद्ध-व्रज-जन-स्वभाव-गतां भक्तिम् अनुसृता अनुगता सा रागानुगोच्यते (अनुभाष्य २.२२.१४९) ॥२७१॥
जात-रुचि-महा-भागवत-गुरु-मुखात् श्रीमद्-भागवत-पद्म-पुराणादि-सिद्ध-शास्त्राद् वा तत्-तद्-भावादि-माधुर्ये व्रज-वासिनां शान्त-दास्य-सख्य-वात्सल्य-मधुर-रसाश्रित-भावादीनां माधुर्ये श्रुते श्रवणेन अनुभूते सति यत् यस्य धीः बुद्धिः अत्र इह शास्त्रं विधि-वाक्यं न युक्तिं विचारणं च न अपेक्षते परन्तु स्वतः स्वभावत एव प्रवर्तते, तद् एव लोभोत्पत्ति-लक्षणं रागोदय-लक्षणम् (अनुभाष्य २.२२.१५०) ॥२७२॥
—ओ)०(ओ—
॥ १.२.२७४-२७५ ॥
तथा हि सप्तमे (७.१.२९-३०)—
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद् अघं हित्वा बहवस् तद्-गतिं गताः ॥
गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ इति ॥
श्री-जीवः- कामाद् इति । अत्र स्वरसत एवोत्पद्यमानानां कामादीनां विधातुम् अशक्यत्वात् तन्-मयीनां कथम् आप न वैधीत्वम् । यश् च—तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् [भा।पु। ७.१.२५] इति लिङ्-प्रत्ययः श्रूयते । सोऽपि सम्भावनायां सम्भवति । तस्मात् केनाप्य् उपायेन [भा।पु। ७.१.३१] इति तु अभ्यनुज्ञा-मात्रम् । यथा यथावत् तद्-गतिं तद्-रूपं गम्यं प्राप्ताः । तद्-अघम् इति तेषां मध्ये यद्-द्वेष-भययोर् अघं भवति, तद् अपि तद्-आवेश-प्रभावेण हित्वेत्य् अर्थः । न तु कामेऽपीति मन्तव्यम् । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः [भा।पु। १०.२९.१३] इति तस्य कामस्य द्वेषादि-गण-पातिताम् उल्लङ्घ्य स्तुतत्वात् ॥२७४॥
गोप्य इति—पूर्व-रागावस्था ज्ञेयाः । एवं वृष्ण्य्-आदयोऽपि ॥२७५॥
मुकुन्दः- तद्-गतिं तस्य प्रपञ्चागोचरावस्थां गताः प्राप्ता वर्तन्ते । अयम् अर्थः—चैद्य-कंसादीनां पूर्व-जन्मनि भगवद्-धस्त-मृत्यु-प्रभावाद् वेणवद् द्वेष-फल-नरक-भोगो न, किन्तु परम-भोग-प्राप्तिः । जन्म-जन्माभ्यासाद् वर्धमानेन स्व-देहादि-सम्बन्धतया भक्ति-योगाद् अपि तीव्रेण द्वेषेण मनोऽभिनिवेशान् मुक्तिः । एतद् अपि वाचो युक्ति-मात्रम् । श्री-कृष्ण-हस्त-मृत्यु-प्रभाव एव बक्य्-आदिवन् मुक्ति-कारणम् । गोप्य्-आदीनां स्वभाव-सिद्धः परम-प्रेमा जन्म-लीलायां नवीन इव भासमानोऽभिनिवेश-कारणम् अन्तर्धान-लीलापेक्षया तत्-प्रापकश् चोक्त इति ॥२७४-२७५॥
विश्वनाथः : कामाद् इति । अत्र स्वयम् एवोत्पद्यमानानां कामानां विधातुम् अशक्त्यत्वात् तन्-मयीनां कथम् अपि न वैधीत्वम् । यश् च तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्याद् इति लिङ्-प्रत्ययः श्रूयते । सोऽपि सम्भावनायां सम्भवति । तथा च कामाद् इत्य् आदिना मनो-योगः सम्भवतीत्य् अर्थः । तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा।पु। ७.१.३१] इति वाक्यं तु पूर्वोक्तस्यानुवाद-परम् एव, न तु स्वतन्त्र-विधि-वाक्यम् । यथा यथावद् भक्त्या वैध-भक्ति-साधारण-भक्ति-सामान्येन तद्-गतिं तद्-रूपां गतिं गम्यं प्राप्यम् इति यावत्, गताः प्राप्ताः । तद्-अघम् इति तेषां मध्ये यद् द्वेष-भययोर् अघं तत् तद् आवेश-प्रभावेण हित्वेत्य् अर्थः । न तु कामेऽप्य् अघं मन्तव्यम् । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः [भा।पु। १०.२९.१३] इति तस्य कामस्य द्वेषादि-गण-पातिताम् उल्लङ्घ्य स्तुतत्वात् ॥२७४॥
गोप्य इति—न च नित्य-सिद्धानां गोपी-प्रभृतीनां कथं कामादेः प्राप्तिर् इत्य् उच्यते इति वाच्यम् । कृष्णावतार-प्राकट्य-समये पूर्व-रागावतीनां तासां कामाधीनानां प्राप्तिर् इतिविवक्षितत्वात् । एवं वृष्ण्य्-आदयोऽपि ॥२७५॥
—ओ)०(ओ—
॥ १.२.२७६-२७७ ॥
आनुकूल्य-विपर्यासाद् भीति-द्वेषौ पराहतौ ।
स्नेहस्य सख्य-वाचित्वाद् वैध-भक्त्य्-अनुवर्तिता ॥
किं वा प्रेमाभिधायित्वान् नोपयोगोऽत्र साधने ।
भक्त्या वयम् इति व्यक्तं वैधी भक्तिर् उदीरिता ॥
श्री-जीवः- तद् एवं बह्व्-अङ्गत्वे प्राप्ते कामादि-द्वय-मात्रस्योपादाने कारणान्य् आह—आनुकूल्येति द्वाभ्याम् । श्री-नारदेन तु अनयोर् भीति-द्वेषयोर् उपादानं भक्तौ कैमुत्योपपादनायैव । तद् उक्तं—
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ [भा।पु। ११.५.४८] इति ।
तथा च व्याख्यातम्— सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता [भ।र।सि। १.२.३] इति । एवम् अपि—
यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् । न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ [भा।पु। ७.१.२६] इत्य् उक्तम् ।
तद् अपि भाव-मय-कामाद्य्-अपेक्षया विनिमयस्य चित्तावेश-हेतुत्वेऽत्यन्त-न्यूनत्वम् इति व्यञ्जनार्थम् एव । येषु भाव-मयेषु उपयेषु निन्दितोऽपि वैरानुबन्धस् तद्-आवेशाय विधि-मय-भक्ति-योगाच् छ्रेष्ठ इति । तन्-मयता ह्य् अत्र तद्-आविष्टता । स्त्री-मयः कामुक इतिवत् । स्नेहस्येति अयम् अर्थः । पाण्डवानां यः स्नेहः स सख्य-मय-रागात्मिकायाम् एव पर्यवस्यति—तादृश-व्यवहार-श्रवणात् । तथाप्य् ऐश्वर्य-ज्ञान-प्रधानत्वात् तेषां विधि-मार्गे प्रधानत्वम् एव स्याद् इति शुद्ध-रागानुगायां नोपयोगः । यद् च स्नेह-शब्देन प्रेम-सामान्यम् उच्यते, तदा तद्-विशेषानभिधानात् तत्-तत्-क्रिया-निर्धारणा-भावेनानुकरणासम्भव इत्य् एवम् अत्र रागानुगाख्ये साधने तस्योपजीव्यत्वाभावेन नोपयोगो विद्यत इति । प्रेम-विशेषे तु वाच्ये सम्बन्ध-रूपायाम् एव पर्यवसानात् पुनरुक्तत्वम् इति च ज्ञेयम् । भक्त्येति पारिशेष्य-प्रामाण्येन वैधत्व एव पर्यवसानात् । वैधी भक्तिश् चास्य पूर्व-जन्मानि महद्-उपासना-लक्षणा ज्ञेया । कामाद् द्वेषाद् इति पूर्व-पद्यानुसारेण पञ्चतयत्वे प्राप्तेऽप्य् अत्र षट्तयत्वेन व्याख्या श्री-स्वाम्य्-अनुरोधेनैव । वस्तुतस् तु सम्बन्धाद्यः स्नेहस् तस्माद् वृष्णयो यूयं चेत्य् एकम् इति वोपदेवानुसारेण ज्ञेयम् । उभयत्र सम्बन्ध-स्नेहयोर् अविशेषात् । एवम् एव— कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति [भा।पु। ७.१.३१] इति सुष्ठु सङ्गच्छते । पुरुषं भगवन्तं प्रतीत्य् अस्मिन्न् एवार्थे सार्थकता स्याद् इति ॥२७६-२७७॥
मुकुन्दः- एवं षोडा स्वभावान् मनोऽभिनिवेश-कारणतया सन्दर्श्य काम-सम्बन्धाव् एव द्विधा रागात्मिकयोः स्वरूपे, नान्ये स्वभावा इत्य् आह—आनुकूल्येति द्वाभ्याम् । भयेन निरुद्ध-करणाद् भीतेर् विपर्यासता प्रेमाभिधायित्वाद् इत्य् अत्रापि प्रेम्ण ऐश्य-ज्ञान-मयत्वात् वैध-भक्त्य्-अनुवर्तित्वं बोध्यम् । यदा यदा तु शुद्ध-सम्बन्धात्मकः स उदेति । तदा रागात्मिकायां प्रविशतीति च ज्ञेयम् । अत्र रागानुगाख्ये ॥२७६-२७७॥
विश्वनाथः- ननु कामाद् द्वेषाद् इति श्लोके श्री-कृष्ण-प्राप्तौ राग-द्वेषादीनां बहूनाम् अङ्गत्वे प्राप्ते, अन्यत् समम् । तद् अपि भाव-मय-काम-द्वेषादीनां यादृशातिशय-चित्तावेश-हेतुत्वं तद्-अपेक्षया न्यूनावेश-हेतुत्वं वैध-भक्तेर् इति व्यञ्जनार्थम् एव । अन्यत् समम् । किं पुनः सर्वैर् वन्द्यमानो रागात्मिका-भक्ति-योग इति । ननु, भक्ति-द्वेषयोर् निरासेऽपि तच्-छ्लोकस्थ-स्नेहः कथं शुद्ध-रागात्मिका-मध्ये न गणितस् तत्राह—स्नेहस्येति । अन्यत् समम् ॥२७६॥
भक्त्येति । पारिशेष्य-प्रामाण्येन वैधीत्वे एव पर्यवसानात् । अतो न तस्या अप्य् अत्र उपयोग इति भावः । नारदस्यैश्वर्य-ज्ञान-प्राधान्यात् पूर्व-जन्मनि वैधी-भक्तिर् एव महद्भिर् उपदिष्टेति ज्ञेयम् ॥२७७॥
—ओ)०(ओ—
॥ १.२.२७८ ॥
यद्-अरीणां प्रियाणां च प्राप्यम् एकम् इवोदितम् ।
तद् ब्रह्म-कृष्णयोर् ऐक्यात् किरणार्कोपमा-जुषोः ॥
श्री-जीवः- अत्र तद्-गतिं गताः [भ।र।सि। १.२.२७४] इत्य् उक्तौ सन्देहान्तरं निरस्यति—यद् अरीणाम् इति । प्रियाणां श्री-गोपी-वृष्ण्य्-आदीनाम् । अनयोः किरणार्कोपमाने ब्रह्म-संहिता, यथा—
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ (५.४०)
श्री-भगवद्-गीता च—ब्रह्मणो हि प्रतिष्ठाहम् इति । प्रतिष्ठा आश्रयः । तथैव स्वामि-टीका च दृश्या । तच् च युक्तम् । एकस्यापि तस्याधिकारि-विशेषं प्राप्य स-विशेषाकार-भगवत्त्वेनोदयाद् घनत्वम् । निर्विशेषाकार-ब्रह्मत्वेनोदयाद् अघनत्वम् इति । प्रभा-स्थानीयत्वात् प्रभा इति ज्ञेयम् । अत एवात्मारामाणाम् अपि भगवद्-गुणेनाकर्षणम् उपपद्यते । विशेष-जिज्ञासा चेत् श्री-भगवत्-सन्दर्भो दृश्यः ॥२७८॥
**मुकुन्दः- **प्रियाणां गोप्य्-आदीनां चतुर्विध-भक्तानां प्राप्यम् एकम् इवोदितं बहवस् तद्-गतिं गताः इत्य् अत्र ॥२७८॥
**विश्वनाथः- **तत्र बहवस् तद्-गतिं गताः [भ।र।सि। १.२.२७४] इत्य् उक्तौ सन्देहान्तरं निरस्यति—यद् अरीणाम् इति । अरीणां प्रियाणां च प्राप्यम् एकम् इव मुनिना यद् उक्तं, तद् ब्रह्म-कृष्णयोर् ऐक्यात् । वस्तुतस् तु स्वरूप-द्वयाभावेन द्वयोर् ऐक्येऽपि रसमयस्य कृष्णस्य माधुर्याधिक्याद् एव ब्रह्मणः सकाशाद् आधिक्यम् अस्त्य् एव । अत एवारेः सकाशाद् अपि प्रियाणाम् आधिक्यं स्वयम् एव सिद्धम् एतद् एवाभिन्नयोर् अपि सूर्य-तत्-किरणयोः किरणार्कोपमाने ब्रह्म-संहिता, यथा—
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ (५.४०)
अस्यार्थो, यथा—प्रभवतो यस्य गोविन्दस्य तद् ब्रह्म प्रभा । ब्रह्म कीदृशम् ? ब्रह्माण्ड-कोटि-कोटिषु अशेष-पृथ्वी-जलादि-विभूतेः सकाशाद् भिन्नम् । तद् अपि अशेष-भूतम् अशेष-विभूति-स्वरूपम् । निष्कलं कला अंशस् तद्-रहितम् । श्री-भगवद्-गीता च—ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति । तथैव स्वामि-टीका च दृश्या । प्रभा-स्थानीयत्वात् प्रभेति ज्ञेयम् । अत एवात्मारामाणाम् अपि भगवद्-गुणैर् आकर्षणम् उपपद्यते ॥२७८॥
—ओ)०(ओ—
॥ १.२.२७९ ॥
ब्रह्मण्य् एव लयं यान्ति प्रायेण रिपवो हरेः ।
केचित् प्राप्यापि सारूप्याभासं मज्जन्ति तत्-सुखे ॥
श्री-जीवः- अरीणां ब्रह्म-गतिम् एव विवृणोति—ब्रह्मण्य् एवेति ॥२७९॥
**मुकुन्दः- **अरीणां ब्रह्म-गतिम् एव विवृणोति—ब्रह्मण्य् एवेति । प्रायेणेत्य् अस्य विवरणं केचिद् इत्य् अर्धकेन । केचित् पूतनादयः तत्-सुखे ब्रह्म-सुखे ॥२७९॥
विश्वनाथः- अरीणां ब्रह्म-गतिम् एव विवृणोति—अरीणां मध्ये केचिद् धरेः रिपवः ब्रह्मण्य् एव लयं यान्ति । केचिच् छृगाल-वासुदेवादयः सारूप्याभासं प्राप्यापि तत्-सुखे मज्जन्ति ॥२७९॥
—ओ)०(ओ—
॥ १.२.२८० ॥
तथा च ब्रह्माण्ड पुराणे—
**सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि ।
सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिण हताः ॥
श्री-जीवः- **अत्र पूर्वस्य प्रमाणं निभृत-मरुद् इत्य् आद्य्-अर्धं वक्ष्यत इत्य् अभिप्रायेणोत्तरस्याह तथा चेति । तमसः प्रकृतेः ॥२८०॥
**मुकुन्दः- **तमसः प्रकृतेः ॥२८०॥
**विश्वनाथः- **अत्र ब्रह्मणि लय-प्राप्तानां प्रमाणं निभृत-मरुद् इत्य् अर्ध-श्लोकेन वक्ष्यते इत्य् अभिप्रायेण प्राप्त-सालोक्यानां प्रमाणम् आह— तथा चेति । तमसः प्रकृतेः । सिद्धा मुनयः । तथा दैत्याश् च ब्रह्म-सुखे मग्नाः सन्तस् तत्र वसन्ति ॥२८०॥
—ओ)०(ओ—
॥ १.२.२८१ ॥
राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥
श्री-जीवः- तत्र प्रियाणां गोपीनां विशेषम् आह—राग-बन्धेनेति ॥२८१॥
**मुकुन्दः- **चतुर्णां मध्ये श्री-गोपीनां श्री-कृष्ण-प्राप्तिम् आह—राग-बन्धेनेति ॥२८१॥
विश्वनाथः- तत्र गोपीनां विशेषम् आह—राग-बन्धेनेति । तस्य प्रिया जनास् तं भजनतः सन्तस् तद्-अङ्घ्रि-पद्म-सुधा व्रजन्ति प्राप्नुवन्ति ॥२८१॥
—ओ)०(ओ—
॥ १.२.२८२ ॥
तथा हि श्री-दशमे (१०.८७.२३)—
निभृत-मरुन्-मनोऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद्-अरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥
श्री-जीवः- तत्र ब्रह्मण्य् एवेति पद्यार्धेन राग-बन्धेनेति पद्येन च दशम-स्थ-श्रुति-वाक्यं तुलयति—निभृतेति । प्रतियुग्मान्तःस्थस्यापि-शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवगम्यते । ततश् च हृदि यद् ब्रह्माख्यं तत्त्वं मुनय उपासते, तद्-अरयोऽपि स्मरणाद् ययुः । स्त्रियः श्री-गोप-सुन्दर्यः, तासाम् एव तथा प्रसिद्धेः । ता अङ्घ्रि-सरोज-सुधास् तत्-प्रेम-मय-माधुर्याणि ययुर् वयम् अपि सम-दृशस् ताभिः सम-भावाः सत्यः समास् ताभिस् तुल्यतां प्राप्ता व्यूहान्तरेण गोप्यो भूत्वा ते तवाङ्घ्रि-सरोज-सुधा ययिमेत्य् अर्थः । अर्थ-विशेषस् त्व् अस्य दशम-टिप्पन्यां वैष्णव-तोषणी-नाम्न्यां दृश्यः । तथा च बृहद्-वामन-पुराणे श्रुतिभिः प्रार्थ्य-गोपिकात्वं प्राप्तम् इति प्रसिद्धिः । कारिकायां भजन्त इत्य् आदिना जन-सामान्य-निर्देशस् तु एतद्-उपलक्षणतया कृतः । तद् एवं स्त्रिय इत्य् अनेन वक्ष्यमाणा काम-रूपा वयम् इत्य् अनेन कामानुगा च उट्टङ्किता । तद् एतद्-अनुसारेण वृष्ण्य्-आदीनाम् अपि तत्-प्राप्ति-विशेषो ज्ञेयः ॥२८२॥
मुकुन्दः- निभृतेति । स्त्रियस् तव नित्य-प्रेयस्यः श्री-राधादयः ते तवाङ्घ्रि-सरोज-सुक्धास् तदीय-स्पर्श-माधुर्याणि यान्ति, वयम् अपि सम-दृशः श्रीमन्-नन्द-व्रज-गोपी-भावानुगत-भावाः सत्यः समास् तु तुल्य-रूपाः सत्यो ययिम ॥२८२॥
**विश्वनाथः- **तत्र ब्रह्मण्य् एव लयम् इति पद्यार्धेन राग-बन्धेनेति पद्येन च सह दशम-स्कन्ध-श्रुति-वाक्यं तुलयति—निभृतेति । प्रतियुग्मान्तस्थस्यापि-शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवगम्यते । ततश् च निभृतैर् नितरां धृतैर् अर्थाद् धारणादिना वशीकृतैर् मरुन्-मनोऽक्षैः करणैर् दृढ-योग-युक्ता मुनयः यद् ब्रह्माख्यं तत्त्वम् उपासतो मात्रं । प्राप्तौ तु सम्भावना एव, तद्-वयोऽपि स्मरणाद् ययुः प्रापुः । उरग-शरीर-तुल्ये कृष्णस्य भुज-दण्डे विषक्त-धियः । अन्यत् समम् ॥२८२॥
—ओ)०(ओ—
॥ १.२.२८३ ॥
तत्र **कामरूपा—
सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥
श्री-जीवः- **तत्र काम-रूपेति । कामोऽत्र स्वेष्ट-विषय-रागात्मक-प्रेम-विशेषत्वेनाग्रे निरूपणीयः । तद् एवाह—सेति । सा प्रसिद्धा प्रेम-रूपैवात्र काम-रूपा, न त्व् अन्येत्य् अर्थः । या सम्भोग-तृष्णां प्रसिद्धं कामम् अपि स्व-स्वरूपतां नयति । तत्र प्रेम-रूपत्वे हेतुः—यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यम इति ॥२८३॥
मुकुन्दः- सम्भोगे अङ्ग-सङ्गादौ तृष्णां स्व-सुखाभिलाषं स्वतां रागात्मिकतां, यत् यतो हेतोः ॥२८३॥
विश्वनाथः- अत्र काम-रूपेति । कामोऽत्र स्वेष्ट-विषयक-रागात्मिक-प्रेम-विशेषत्वेनाग्रे निरूपणीयः । कामस्य व्यक्ष्यमाण-प्रेम-रूपत्वम् एवात्राह—सा प्रसिद्धा प्रेम-रूपैवात्र काम-रूपा, न त्व् अन्य-विधा इति काम-रूपाया लक्षणं ज्ञेयम् । तस्याः कार्यम् आह—या कामत्वेन प्रसिद्धां सम्भोग-तृष्णां स्वतां स्वरूपताम् अर्थात् प्रेम-मयतां नयति । तस्याः प्रेम-रूपत्वे हेतुः—यद् यस्माद् अस्यां सम्भोग-तृष्णायां सत्यां कृष्ण-सौख्यार्थम् एव केवलं व्रज-सुन्दरीणां सर्वत्रोद्यमः ॥२८३॥
—ओ)०(ओ—
॥ १.२.२८४ ॥
इयं तु व्रज-देवीषु सुप्रसिद्धा विराजते ।
आसां प्रेम-विशेषोऽयं प्राप्तः काम् अपि माधुरीं ।
तत्-तत्-क्रीडा-निदानत्वात् काम इत्य् उच्यते बुधैः ॥
श्री-जीवः- तद् एव दर्शयति—इयं त्व् इति । सुप्रसिद्धत्वं च—यत् ते सुजात-चरणाम्बुरुहं स्तनेषु [भा।पु। १०.३१.१९] इत्य् आदि तद्-वाक्य-दर्शनात् । नन्व् अत्र काम-रूपा-शब्देन कामात्मिकैवोच्यते, सा च क्रियैव, न तु भावः । ततस् तस्यास् तृष्णायाः स्वरूपता-नयने सामर्थ्यं न स्यात् । उच्यते—क्रियापीयं मानस-क्रिया-रूपेण स्वांशेन तत्र समर्था स्यात्, सा च मत्तोऽस्य सुखं स्याद् इति भावना-रूपेति ज्ञेयम् । एवम् एव च स्वतानयनं सिध्यति ॥२८४॥
**मुकुन्दः- **ननु गोप्यः कामादित्यादिभिस् तासां प्रेम-विशेषः काम-शब्देन कथं नारदादिभिर् मृग्यते इत्य् अत्राह आसाम् इति ॥२८४॥
विश्वनाथः- तद् एव दर्शयति—इयं त्व् इति । ननु तादृश-प्रेमा कथं शास्त्र-कारैः काम-शब्देनोच्यते ? तत्राह तत् तद् इति । काम-जन्य-तत्-तत्-क्रीडाया निदानत्वात् कारणत्वाद् बुधैः काम-शब्देनोच्यते ॥ २८४॥
—ओ)०(ओ—
॥ १.२.२८५-२८७ ॥
तथा च तन्त्रे—
प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् ॥
इत्य् उद्धवादयोऽप्य् एतं वाञ्छति भगवत्-प्रियाः ॥
काम-प्राया रतिः किन्तु कुब्जायाम् एव सम्मता ॥
श्री-जीवः- एताः परं तनुभृतः [भा।पु। १०.४७.५८] इत्य् अनुसृत्य तत्र हेतुम् आह इतीति । एतम् एतादृशेन कान्तत्वाभिमान-रूपेण भावेनोपलक्षितो यः प्रेमातिशयस् तम् एवेति ज्ञेयम् । तादृशेन विशिष्टं तम् इति तु न ज्ञेयम् । मुमुक्षु-मुक्त-भक्तानाम् ऐकमत्ये भाव-भेद-व्यवस्थानुपपत्तेः । तादृश-प्रेमातिशय-प्रापकं तद्-भावं विनैव हि तत्-प्रेमातिशयं वाञ्छतीत्य् एवोक्त्वा तत्-प्राप्तिर् नाभिमतेति ॥२८६॥
काम-प्रायेति यत् ते सुजात [भा।पु। १०.३१.१९] इत्य् आदि शुद्ध-प्रेम-रीत्य्-अदर्शनात् । प्रत्युत उत्तरीयान्तम् आकृष्य [भा।पु। १०.४२.९] इत्य् आदि-काम-रीति-मात्र-दर्शनात् । तथापि रतिस् तद्-उपाधितयांशेन ज्ञेया ॥२८७॥
मुकुन्दः- प्रथां ख्यातिम् ॥२८५॥ इति सम्भोग-तृष्णायाः स्वतानयनाद् धेतोः ॥२८६॥ काम-प्राया सम्भोगेच्छा-बहुला । साक्षात् कृष्णात् सुखाभिलाषो रत्या न विरुध्येत । अतः काम-प्रायेति रतेर् विशेषणं कुब्जायाम् एव, न तु काम-शब्द-भ्रमात् तास्व् इत्य् अर्थः ॥२८७॥
**विश्वनाथः- **एताः परं तनुभृतः [भा।पु। १०.४७.५८] इति दशमस्थ-पद्यम् अनुसृत्य कामस्य प्रेम-रूपत्वे हेतुम् आह इतीति । इति हेतोर् भगवत्-प्रिया उद्धवादयोऽपि ॥२८६॥
काम-प्रायेति यत् ते सुजात [भा।पु। १०.३१.१९] इत्य्-आदि-शुद्ध-प्रेम-रीत्य्-अदर्शनात् । प्रत्युत उत्तरीयान्तम् आकृष्य [भा।पु। १०.४२.९] इत्य् आदि-काम-रीति-मात्र-दर्शनात् । तथापि रतिः कृष्ण-विषयकत्वाद् अंशेन ज्ञेया ॥२८७॥
—ओ)०(ओ—
॥ १.२.२८८ ॥
तत्र सम्बन्ध-रूपा—
सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां ब्वल्लवा मताः ।
यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता ॥
श्री-जीवः- पितृत्वाद्य्-अभिमानितेति तत्-प्रभव-राग-प्रेरितेत्य् अर्थः । सम्बन्धाद् वृष्णयः [भ।र।सि। १.२.२७५] इत्य् अत्र । वृष्णीनाम् उपलक्षणतया ये ब्वल्लवाः प्राप्तास् त एव अजहल्-लक्षणया मताः । अट्-कुप्वाङ्-नुम् व्यवायेऽपि [पाण् ८.४.२] इति सूत्रे यथा नुम उपलक्षणत्वेनानुस्वार-मात्रं गृह्यते, तद्वद् इति भावः । तत्र हेतुम् आह—यद् इति । एषां ब्वल्लवानाम् ॥२८८॥
**मुकुन्दः- **पितृत्वाद्य्-अभिमानिता—अहं गोविन्दस्य पिता, आदि-शब्दात् सखा दास इत्य् अभिमानित्वम् । लालनादयस् त्व् अनुभावाः । अत्र सम्बन्धाद् वृष्णयः [भ।र।सि। १.२.२७५] इत्य् अत्र वृष्णीनाम् उपलक्षणतया ये ब्वल्लवाः प्राप्तास् त एव अजहल्-लक्षणया मताः । अट्-कुप्वाङ्-नुम् व्यवायेऽपि [पाण् ८.४.२] इति सूत्रे यथा नुम उपलक्षणत्वेनानुस्वार-मात्रं गृह्यते, तद्वद् इति भावः । यद् यस्मात् । एषां ब्वल्लवानां रागे प्रधानता वृष्णिभ्यः श्रेष्ठ्यम् । वृष्णीनां सम्बन्धस्यैश्य-ज्ञानेन मध्ये मध्ये आवरणात् ॥२८८॥
**विश्वनाथः- **अत्रोपलक्षणतयेति सम्बन्धाद् वृष्णयः [भ।र।सि। १.२.२७५] इत्य् अत्र वृष्णीनाम् उपलक्षणतया ब्वल्लवा मताः प्राप्ताः । अत्र वृष्णि-पदस्य वृष्णि-ब्वल्लवोभय-पर-लक्षणायां बीजम् आह—यद् इति । अयं भावः—भक्त्या वयम् इत्य् अत्र पारिशेष्याद् वैधी-भक्तिर् एव व्याख्याता । तद्-व्यतिरिक्त-भक्तौ वक्तुम् उचितायां प्रथमतो यथा राग-विशेष-कामात्मिकानाम् उदाहरणे प्रधानत्वात् गोप्य उक्तास् तथैव राग-विशेषस्य सम्बन्धस्याप्य् उदाहरणे प्रधानत्वाद् ब्वल्लवा निवेशनीयाः । अन्यथा क्रम-भङ्गो न्यूनतापत्तिश् च ॥२८८॥
—ओ)०(ओ—
॥ १.२.२८९ ॥
काम-सम्बन्ध-रूपे ते प्रेम-मात्र-स्वरूपके ।
नित्य-सिद्धाश्रयतया नात्र सम्यग् विचारिते ॥
श्री-जीवः- प्रेम-मात्रं स्वरूपं काअरणं ययोः । नित्य-सिद्धाः श्री-व्रजेश्वरादय एव आश्रया मूल-स्थानानि ययोस् तयोर् भावस् तत्ता तया हेतुना । अत्र साधन-प्रकरणे, न सम्यग् विचारिते किन्तु तत्-प्रकरण एव विचारयिष्यते इत्य् अर्थः ॥२८९॥
**मुकुन्दः- **स्वरूपम् आत्मा नित्य-सिद्धाः श्री-राधादयः श्री-नन्दादयश् च । अत्र साधन-प्रकरणे ॥२८९॥
**विश्वनाथः- **ननु, काम-सम्बन्धयोर् बहवो भेदाः सन्ति । तेषां भेदः कथं नोक्तस् तत्राह—कामेति । ते द्वे काम-सम्बन्ध-रूपे प्रेम-मात्र-स्वरूपिके प्रेम-मात्र-स्वरूपं ययोस् तथाभूते । नित्य-सिद्धाः श्री-व्रजेश्वरादय एवाश्रया मूल-स्थानानि ययोस् तयोर् भावस् तत्ता तया हेतुना । अत्र साधन-प्रकरणे न सम्यग् विचारिते, किन्तु तत्-प्रकरण एव विचर्यिष्येते इत्य् अर्थः ॥२८९॥
—ओ)०(ओ—
॥ १.२.२९०-२९१ ॥
रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥
तत्र अधिकारी—
रागात्मिकाइक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥
श्री-जीवः- न व्याख्यातम् ।
मुकुन्दः- रागात्मिकैक-निष्ठा । अत्र एक-शब्देन महिम-ज्ञान-भिद्यमान-स्नेहा द्वारकादि-नित्य-सिद्ध-भक्ता निरस्ताः ॥२९१॥
विश्वनाथः- प्रसङ्गतो रागात्मिकाया लक्षणम् उक्त्वा प्रस्तुताया रागानुगाया लक्षणम् आह—रागात्मिकाया इति । रागात्मिका-भक्तौ एक-निष्ठा येषां तेषां व्रज-वासिनां श्री-कृष्णे यो भावस् तत्-सजातीय-भावाप्तये लुब्ध इत्य् अर्थः ॥२९१॥
—ओ)०(ओ—
**॥ १.२.२९२ ॥
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥
श्री-जीवः- **तत्-तद्-भावादि-माधुर्ये श्री-भागवतादिषु सिद्ध-निर्देश-शास्त्रेषु श्रुते श्रवण-द्वारा यत् किञ्चिद् अनुभूते सति यच् छास्त्रं विधि-वाक्यं नापेक्षते । युक्तिं च, किन्तु प्रवर्तत एवेत्य् अर्थः । तद् एव लोभोत्पत्तेर् लक्षणम् इति ॥२९२॥
मुकुन्दः- तत्-तद्-भावस्य आदि-ग्रहणाद् रूप-गुणादेश् च माधुर्ये श्री-कृष्ण-सर्वेन्द्रिय-प्रीति-हेतुत्वे श्रुते श्री-भागवतादिषु तद्-अर्थ-मय-रसिक-भक्त-कृत-तत्-तल्-लीलाद्य्-आत्मक-ग्रन्थेषु च श्रवण-द्वारा यत् किञ्चिद् अनुभूते सति । श्रुत इति प्राचुर्याद् उक्तिः । सम्भोगेच्छामय्यां कामानुगायां श्री-मूर्ति-माधुरी-दर्शनम् अपि ज्ञेयम् । यद् अपेक्षते अत्रापेक्षणे शास्त्रं विधि-वाक्यं युक्तिम् अनुकूल-तर्कं च नापेक्षते । तच्-छास्त्र-युक्ति-निरपेक्ष-तत्-तद्-भावादि-माधुर्याभिलषणं लोभोत्पत्तेर् लक्षणम् इत्य् अर्थः ॥२९२॥
विश्वनाथः- तत्-तद्-भावादि-माधुर्ये श्री-भागवतादि-प्रसिद्धावतार-लीला-वर्णन-मय-शास्त्र-सामान्ये श्रुते श्रवण-द्वारा यत् किञ्चिद् अनुभूते सति यच् छास्त्रं विधि-वाक्यं नापेक्षते । युक्तिं च न, किन्तु प्रवर्तत एवेत्य् अर्थः । तद् एव लोभोत्पत्तेर् लक्षणम् अनुमापकं तादृश-हेतु-ज्ञानाद् एव लोभोत्पत्तिर् अनुमीयते इत्य् अर्थः । न त्व् अत्र लक्षणं लोभोत्पत्तेः स्वरूपम् इति व्याह्यातुं शक्यं शास्त्र-युक्तापेक्षा-भावस्य स्वरूपत्वाभावात् ॥२९२॥
—ओ)०(ओ—
॥ १.२.२९३ ॥
वैध-भक्त्य्-अधिकारी तु भावाविर्भवनावधि ।
अत्र शास्त्रं तथा तर्कम् अनुकूलम् अपेक्षते ॥
श्री-जीवः- ननु, रागानुगाधिकारिणो रागात्मिकानुगामित्वात् निरवधिर् एव तादृशी भक्तिः, वैध-भक्त्य्-अधिकारिणस् तु किम् अवधिर् वैधी भक्तिस् तत्राह वैध-भक्तीति । भावो रतिः । तद् उक्तं श्री-भगवता—न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः [भा।पु। ११.२०.३६] इति ॥२९३॥
मुकुन्दः- न व्याख्यातम् ।
विश्वनाथः- अत्र साधन-प्रकरणे वैध-भक्त्य्-अधिकारी तु भावस्य रतेर् आविर्भाव-पर्यन्तं शास्त्रं तथानुकुल-तर्कं चापेक्षते । रत्य्-उत्तरं तु नापेक्षते । राग-भक्तौ तु प्रथम-प्रवृत्तिम् आरभ्य लोभोत्पत्तौ कदापि नापेक्षते इति महान् उत्कर्षः । किन्तु यत्र लोभो जातस् तत्-प्राप्त्य्-अर्थं शास्त्राद्य्-अनुसन्धानम् । एवं शास्त्रोक्त-साधनानुसन्धानं चावश्य-कर्तव्यम् एव ॥२९३॥
—ओ)०(ओ—
॥ १.२.२९४-२९६॥
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥
श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।
यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥
श्री-जीवः: अथ रागानुगायाः परिपाटीम् आह कृष्णम् इत्य् आदिना । सामर्थ्ये सति व्रजे श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ शरीरेण वासं कुर्यात् । तद्-अभावे मनसापीत्य् अर्थः ॥२९४॥ साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य निजाभीष्टस्य श्री-कृष्ण-प्रेष्ठस्य यो भावो रति-विशेषस् तत्-लिप्सुना । व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च तद्-अनुसारतः ॥२९५॥ वैध-भक्त्य्-उदितानि स्व-स्व-योग्यानीति ज्ञेयम् ॥२९६॥
मुकुन्दः: अथ रागानुगाङ्गान्य् आह कृष्णम् इति त्रिभिः । कृष्णस्य विशेषणं प्रेष्ठं, ज्ञानस्य च निज-समीहितम् इति । [निज-समीहितम् इति कृष्ण-तज्-जनयोर् विशेषणम् इति क्वचित्] व्रजे श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ च शरीरेण वासं कुर्यात् साधक-रूपेण व्रजे, अन्यत्र वा स्थितेन देहेन । सिद्ध-रूपेण मनश्-चिन्तित-स्वाभीष्ट-तत्-सेवोपयोगि-देहेन अत्र हि व्रज एव, न तु यत्र स्थितस् तत्र निज-समीहित-कृष्ण-जनस्य यो भावः काम-सम्बन्ध-रूपः तं लिप्सुना प्राप्तुम् इच्छुना व्रज-लोकानुसारतः व्रज-जन-सेवानुगतेत्य् अर्थः । यानि वैध-भक्त्य्-उदितानि श्रवणोत्कीर्तनादीनि तानि च मनीषिभिर् इति स्व-स्वभाव-पोषकाण्य् एव विचार्य कार्याणीत्य् अर्थः । च-कारोऽन्वाचये ॥२९४-६॥
विश्वनाथः: अथ रागानुगायाः परिपाटीम् आह—कृष्णम् इत्य् आदिना । प्रेष्ठं स्व-प्रियतमं किशोरं नन्द-नन्दनं स्मरन् एवम् अस्य तादृश-कृष्णस्य भक्त-जनम् । अथ च स्वस्य सम्यग्-ईहितं स्व-समान-वासनम् इति यावत् । तथा च तादृशं जनं स्मरन् व्रजे वासं कुर्यात् । सामर्थ्ये सति श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ शरीरेण वासं कुर्यात् । तद्-अभावे मनसापीत्य् अर्थः ॥२९४॥
साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य निजाभीष्टस्य श्री-कृष्णस्य यो भावो रति-विशेषस् तल्-लिप्सुना । व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जना श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आद्यास् तद्-अनुगताः श्री-रूप-सनातन-गोस्वामि-प्रभृतयश् च तेषाम् अनुसारतः । तथा च, सिद्ध-रूपेण मानसी-सेवा श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आदीनां अनुसारेण कर्तव्या । साधक-रूपेण कायिक्य्-आदि-सेवा तु श्री-रूप-सनातनादि-व्रज-वासि-जनानाम् अनुसारेण कर्तव्येत्य् अर्थः । एतेन व्रज-लोक-पदेन व्रज-स्थ-श्री-राधा-चन्द्रावल्य्-आद्या एव ग्राह्याः । तासाम् अनुसारेणैव साधक-देहेन कायिक्य्-आदि-सेवापि कर्तव्या । एवं सति ताभिर् गुरु-पादाश्रयणैकादशी-व्रत-शालग्राम-तुलसी-सेवादयो न कृताः । तद्-अनुगतैर् अस्माभिर् अपि न कर्तव्या इत्य् आधुनिक-सौरम्य-मतम् अपि निरस्तम् । अत एव श्री-जीव-गोस्वामि-चरणैर् अप्य् अस्य ग्रन्थस्य टीकायां दुर्गम-सङ्गमनी-नाम्न्यां तथैवोक्तम् । तद् यथा—व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च तद्-अनुसारतः ॥२९५॥
श्रवणोत्कीर्तनादीनि । गुरु-पादाश्रयणादीनि त्व् आक्षेप-लब्धानि । तानि विना व्रज-लोकानुगत्यादिकं किम् अपि न सिद्ध्येद् इत्य् अर्थः । मनीषिभिर् इति मनीषया विमृश्यैव स्वीय-भाव-समुचितान्य् एव तानि कार्याणि । न तु तद्-विरुद्धानि । तानि चार्चन-भक्ताव् अहङ्ग्रहोपासन-मुद्रा-न्यास-द्वारका-ध्यान-रुक्मिण्य्-आदि-पूजनानि आगम-शास्त्र-विहितान्य् अपि नैव कार्याणि । भक्ति-मार्गेऽस्मिन् किञ्चित् किञ्चिद् अङ्ग-वैकल्येऽपि दोषाभाव-श्रवणात् । यद् उक्तम् एकादशे—
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा।पु। ११.२.३५]
न ह्य् अङ्गोपक्रमे धंसो मद्-धर्मस्य [भा।पु। ११.२९.२०] इत्य् आदि ॥२९६॥
**सिद्धान्त-सरस्वती : **कृष्णं च अस्य कृष्णस्य प्रेष्ठं प्रियतमं निज-समीहितं निजाभीष्टं जनं च स्मरन् असौ साधकः तत्-तत्-कथा-रतः तत्-तद्-रसोचित-कथानुरक्तः सन् सदा नित्य-कालं व्रजे नन्दनन्दन-सेवामय-वृन्दावने वासं कुर्यात् । स्थूल-शरीरे मनसापि वा नित्य-निवासं स्थापयेत् । कृष्ण-भजन-विहीनस्य प्राकृत-विषय-भोग-विमूढस्य धाम-वासः कदापि न भवति, परन्तु नित्य-भजन-शीलस्य लौकिक-दृष्ट्या अन्यत्रावस्थानेऽपि अहरहः नित्य-धाम-वास एव स्याद् इति भावार्थः (अनुभाष्य २.२२.१५५) ॥२९४॥
अत्र रागानुगा-भक्ति-साधने तद्-भाव-लिप्सुना तत् तस्य व्रज-स्थितस्य निजाभीष्टस्य कृष्ण-प्रेष्ठस्य गुरोः यः भावः तस्य लिप्सुना तद्-अनुगमनेन निजायत्तीकर्तुम् इच्छुना साधक-रूपेण साधक-शरीरे कीर्तनाख्य-भक्त्य्-आश्रितेन सिद्ध-रूपेण स्वरूप-सिद्धौ नित्य-सेवनोपयोगि-मानस-देहेन च व्रज-लोकानुसारतः तद्-अनुरागि-व्रज-जनानुगत्येन सेवा हि कार्या करणीया (अनुभाष्य २.२२.१५३) ॥२९५॥
—ओ)०(ओ—
॥ १.२.२९७ ॥
तत्र कामानुगा—
कामानुगा भवेत् तृष्णा काम-रूपानुगामिनी ॥
श्री-जीवः- काम-रूपानुगामिनी तृष्णा तद्-आत्मिका भक्तिः कामानुगा भवेत् ॥२९७॥
**मुकुन्दः- **काम-रूपा या सम्भोग-तृष्णां स्वतां नयतीत्य् उक्ता, तस्या अनुगामिनी तृष्णा कामानुगा भवेत् ॥२९७॥
**विश्वनाथः- **कामेति । काम-रूपानुगामिनी तृष्णा कामानुगा भवेद् इत्य् अन्वयः । अत्र पूर्व-व्याख्यात-काम-रूपापदस्य काम-प्रेरिताक्रियापरत्वाद् अत्रापि साधक-भक्त-निष्ठ-तृष्णा-पदस्य काम-मय-तृष्णा-प्रेरित-क्रिया-परत्वं वाच्यम् । तथा च व्रज-सुन्दरी-निष्ठ-काम-प्रेरिता या क्रिया तस्या अनुगामिनी अनुसारिणी या साधक-भक्त-निष्ठ-काम-मय-तृष्णा-प्रेरिता परिचर्या-मयी, सा कामानुगा भक्तिः । क्रिया चात्र द्विविधा—भावना-मयी मानसी, परिचर्या-मयी बहिर् इन्द्रिय-व्यापार-रूपा च । न च व्रज-सुन्दरीणां क्रियानुसारेणैव क्रियायाः साधक-भक्तस्य कर्तव्यत्वेन विहिते तत् कथं ताभिः क्रियमाणा सूर्य-पूजा शुद्ध-भक्तैर् न क्रियते ? यदि च क्रियते तदा भक्तेः शुद्धत्व-हानिः ? कथं वा ताभिर् न कृतम् । अथ च महानुभवैः श्री-रूप-गोस्वामि-प्रभृतिभिः कृतं वन्दनैकादश्य्-आदि-व्रतं साधक-भक्तैः क्रियत इति वाच्यम् । अनुगामिनी अनुसारिणीत्य् एवार्थो, न त्व् अनुकारिणीति व्याख्यातत्वात् । तथा च तासां मतस्यानुकूल्येनानुसरण-मात्रं, न तु सामस्त्येन कर्तव्यत्वम् । यथा वेदान्तम् आलम्ब्य युक्त्यादिभिः स्वेनैवाधिकतया क्रियमाणा व्याख्या वेदान्तानुसारिणीत्य् उच्यते । एतेन पूर्ववद् आधुनिक-सौरम्य-मतम् अपि निरस्तम् इति ज्ञेयम् ॥२९७॥
—ओ)०(ओ—
॥ १.२.२९८ ॥
सम्भोगेच्छा-मयी तत्-तद्-भावेच्छात्मेति सा द्विधा ॥
श्री-जीवः- सम्भोगेच्छा-मयी काम-प्रायानुगा ज्ञेया तत्-तद्-भावेच्छात्मेति—तस्यास् तस्या निज-निजाभीष्टाया व्रज-देव्या यो यो भावस् तद्-विशेषस् तत्र या इच्छा सैवात्मा प्रवर्तिक यस्याः सेति मुख्य-कामानुगा ज्ञेया । तथा च दर्शितं स्त्रिय उरगेन्द्र-भोग [भा।पु। १०.८७.२३] इत्य् आदि ॥२९८॥
**मुकुन्दः- **सम्भोगः श्री-कृष्णेन सह तं सुखयितुम् अङ्ग-सङ्गाद्य्-अनुभावको राधादि-यूथेश्वरीणां यः प्रेम-विशेषस् तद्-इच्छा-मयी तद्-अभिलाषाया तत्-तद्-भावेच्छात्मा तस्यास् तस्या ललिता-पद्मादि-व्रज-देव्या भावो राधा-चन्द्रावल्य्-आदीनां कृष्णेनाङ्ग-सङ्गादौ साहाय्येन स्व-सुखातिशय-मननात् नायकयोर् आकर्षको यो भाव-विशेषस् तस्मिन्न् अभिलाष-स्वरूपा ॥२९८॥
विश्वनाथः- सम्भोगेच्छामयी यूथेश्वरीवत् स्वातन्त्र्येण श्री-कृष्णेन सह सम्भोगेच्छा-प्रेरिता पूर्वोक्त-द्विविध-क्रियेत्य् अर्थः । उदाहरणं, याथा शास्त्रे चन्द्रकान्ति-प्रभृतयः। तत्-तद्-भावेच्छात्मिकेति तस्यास् तस्या निजाभीष्टाया व्रज-सुन्दर्या यो भावः श्री-कृष्ण-विषये भाव-विशेषस् तस्यास्वादनेऽत्र या इच्छा सैवात्मा प्रवर्तिका यस्याः सेति । इयं पूर्वतः श्रेष्ठा मुख्य-कामानुगा ज्ञेया ॥२९८॥
—ओ)०(ओ—
॥ १.२.२९९ ॥
केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् ।
तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥
श्री-जीवः- सम्भोगोऽत्र सम्प्रयोगः । केलिर् अपि स एव, भाव-माधुर्यस्य कामिता यस्यां सा ॥२९९॥7
मुकुन्दः- एते व्याख्यायेते—केलीति । केलि-तात्पर्यम् अस्त्य् अस्यां तृष्णायाम् इति केलि-तात्पर्यवती नायिका-भावाभिलाष-स्वरूपेत्य् अर्थः । एव-कारो निर्धारणे । तत्-तद्-भावेच्छात्मेति—अस्यास् तद्-भावेच्छात्मिकेत्य् अनुवादः । तासां सखी-स्वरूपाणां व्रज-देवीनाम् ॥२९९॥
विश्वनाथः- सम्भोगोऽत्र सम्प्रयोगः । केलिर् अपि स एवेत्य् आह—केलि-तात्पर्यवती क्रिया एव सम्भोगेच्छा-मयी भवेद् इत्य् अर्थः । तासां श्री-कृष्णेन सह भाव-माधुर्यस्यास्वादने कामिता कामना यस्याः सा तत्-तद्-भावेच्छात्मिका ॥२९९॥
—ओ)०(ओ—
॥ १.२.३०० ॥
श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाङ्क्षिणो ये स्युस् तेषु साधनतानयोः ।
पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥
श्री-जीवः- श्री-मूर्तेः श्री-कृष्ण-प्रतिमायाः माधुरीं तत्-प्रेयसीभिर् अपि प्रतिमा-रूपाभिः सह लीलादि-माधुर्य-विशेषं प्रेक्ष्य, तस्यास् तत्-तद्-भावादि-माधुर्यं निशम्येति श्रुत्वा, केवलं श्रवणं यत् पूर्वम् उक्तं तत्र तु तस्याः प्रेक्षणेऽपि तस्य श्रवणस्य साहाय्यम् अवश्यं मृग्यत इत्य् अभिप्रेतं, यद् विना मूल-तत्-तद्-रूप-लीलाद्य्-अस्फूर्तेः । तत्-तल्-लीला-श्रवणं तु तत्-तत्-प्रेक्षणं विनापि कार्य-करम् इत्य् आह—तद् इति । अनयोर् द्विविध-कामानुगयोः । तेषु साधनता । अत एव तयोर् अधिकारिण इत्य् अर्थः ॥३००॥
**मुकुन्दः- **अनयोर् लोभोत्पत्तेर् द्विविधं कारणं दर्शयन्न् अधिकारिण आह—श्री-मूर्तेर् इति । तत्-तल्-लीलां तां तां प्रसिद्धां पूर्वानुराग-रासादिकां लीलाम् । तासां नायिकात्व-सखीत्वाभ्यां द्विविधानां व्रज-देवीनां भावयोः काङ्क्षिणो लोभिनो ये स्युस् तेषु अनयोः सम्भोगेच्छामयी तत्-तद्-भावेच्छात्मेति द्विविध-कामानुगयोः क्रमेण साधनता, ते अनयोः साधनाधिकारिण इत्य् अर्थः । ननु श्री-मूर्तेर् माधुरीं दृष्ट्वा लुब्ध-स्त्रीणां सम्भोगेच्छा-मयी स्यात् । पुंसां तु स्यान् न वेत्य् अत आह—पुराण इति । इयं सम्भोगेच्छा-मयी ॥३००॥
**विश्वनाथः- **श्री-मूर्तेः श्री-कृष्ण-प्रतिमाया माधुरीं प्रेक्ष्य । एवं तत्-प्रेयसीभिर् अपि प्रतिमा-रूपाभिः सह शास्त्रे श्रुत-लीलादि-माधुर्यम् अप्य् अनुभूय च । तस्मात् तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते इति हि पूर्व-ग्रन्थे यत् केवलं श्रवण-मात्रम् उक्तम् । तत्र श्री-मूर्तेर् दर्शनेऽपि श्रवणस्य साहाय्यम् अवश्यं मृग्यत इत्य् अभिप्रेतम् । श्रवणं विना मूल-भूत-तत्-तद्-रूप-लीलाद्य्-अस्फूर्तेः । तत्-तल्-लीला-श्रवणं तु श्री-मूर्ति-प्रेक्षणं विनापि कार्य-करम् इत्य् आह—तत्-तल्-लीलेति । अनयोर् द्विविध-कामानुगयोस् तेषु साधनता । अत एव ते जना द्विविध-कामानुगा-भक्तेर् अधिकारिण इत्य् अर्थः ॥३००॥
—ओ)०(ओ—
॥ १.२.३०१-२ ॥
यथा—
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥
श्री-जीवः- पुरेति । महर्षयोऽत्र श्री-गोकुल-स्थ-श्री-कृष्ण-प्रेयस्य्-अनुगत-वासनाः त एव सर्व इत्य् अर्थः । ते च रामं दृष्ट्वा ततोऽपि सुन्दर-विग्रहं हरिं श्री-कृष्णम् भाव्य्-अवतारम् अपि तत्-प्रतिपादक-शास्त्रे विद्वत्-प्रसिद्धं गोकुले प्रेयस्यो भूत्वा उपभोक्तुम् ऐच्छन् मनसा वरं ववृण्वते स्म । ते च कल्प-वृक्षाद् इव तस्माद् अवचनेनैव वरं लब्ध्वा देशान्तर-गोपीनां गर्भे स्त्रीत्वम् आपन्नाः । सर्वत्र गोकुल-नाम्नाति-विख्याते श्रीमन्-नन्द-गोकुले कथञ्चित् ताभ्य एवागताभ्यः समुत्पन्ना हरिं ततोऽपि मनोहरं श्री-कृष्णम् एव कामेन सङ्कल्प-मात्रेण सम्प्राप्य ततस् तद्-अनन्तरम् एव मुक्ता भवार्णवाद् इति । अन्तर्-गृह-गताः काश्चिद् इत्य् आदि रीत्या ज्ञेयम् ॥३०१-२॥
**मुकुन्दः- **रामं दृष्ट्वा ततोऽपि सुविग्रहं हरिं स्वोपास्यं श्री-कृष्णं भोक्तुम् ऐच्छन् । राम-दर्शनात् श्री-कृष्णे उद्बुद्ध-रतित्वात् सुष्ठु रिरंसाम् अकुर्वन्, ते सर्वे स्त्रीत्वं स्त्री-भावं सम्भोगेच्छात्मकं प्रेमाणम् आपन्नाः साधन-वशात् प्राप्ताः सन्तो गोकुले समुत्पन्ना गोप्यो जाताः । कामेन श्री-राधादि-गोकुल-देवी-सङ्गात् काम् अपि माधुरीं प्राप्तेनानुरागादि-प्रेम-विशेषेण हरिं सम्प्राप्य पूर्व-देहान् त्यक्त्वा श्री-कृष्ण-भोग-योग्य-शरीराः सत्यः प्रपञ्चागोचरे गोकुल-प्रकाशे मनोरथ-पूर्त्या प्राप्य भवार्णवात् भवार्णवं प्रपञ्चा-गोचरत्वं परित्यज्य मुक्ताः परमानन्दं प्राप्ता वर्तन्त इत्य् अर्थः । अत्रेदं प्रतिपद्यते—साधनेन प्रेमैव प्रायो भवति । प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि । अत्र स्नेहादयो भावा विविच्य न हि शंसिताः ॥ [भ।र।सि। १.४.१९] इति वक्ष्यमाणत्वात् । तेन गोकुले जन्मैव, न तु तस्य सम्यक् प्राप्तिः । सा तु श्री-कृष्ण-तत्-प्रियाणां कृपया सङ्गादि-जातानुरागादिनैव । तथैकादशे च—
केवलेन हि भावेन गोप्यो गावो नगा मृगाः । येऽन्ये मूठ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ [भा।पु। ११.१२.८] इति ।
अस्यार्थः—गोप्यो याः प्रेम्णा जातास् ताः केवलेन भावेन कृष्ण-कृपया सङादि-जातानुरागादि-रूपेण प्रेम-विशेषणेन सिद्धा माम् ईयुः प्रपञ्चागोचरे गोकुले मां प्राप्ताः सन्ति । गवादयस् तु यथोचित-प्रेम्णेयुर् इति । दुःसह-प्रेष्ठ [भा।पु। १०.२९.१०] इत्य् आदि दशम-गत-श्लोक-द्वये चैतद् एव स्पष्टम् ॥३०१-२॥
**विश्वनाथः- **पुरेति । महर्षयोऽत्र श्री-गोकुल-स्थ-श्री-कृष्ण-प्रेयस्य्-अनुगत-वासना ज्ञेयाः । ते च रामं दृष्ट्वा ततोऽपि सुन्दर-विग्रहं हरिं श्री-कृष्णम् आगम्य्-अवतारम् अपि तत्-प्रतिपादक-शास्त्रे प्रसिद्धं तं गोकुले प्रेयस्यो भूत्वा उपभोक्तुम् ऐच्छन् । श्री-रघुनाथ-निकटे मनसा तादृशं वरं वृण्वते स्म । ते च मुनयः कल्प-वृक्षाद् इव रघुनाथाद् अवचनेनैव वरं लब्ध्वा देशान्तरे गोपीनां गर्भे स्त्रीत्वम् आपन्नाः । सर्वत्र गोकुल-नाम्नाति-विख्याते श्रीमन्-नन्द-गोकुले कथञ्चित् ताभ्य एवागताभ्यः सम्यग् उत्पन्ना हरिं श्री-कृष्णम् एव कामेन सङ्कल्प-मात्रेण सम्प्राप्य ततस् तद्-अनन्तरम् एव मुक्ता भवार्णवात् प्राकृतत्वांशात् । अत एव रास-क्रीडायाम् अन्तर्-गृह-निरुद्धा निरोध-जन्य-विरहेणैव तेषां प्राकृतत्वांशो गतः । अस्य विशेष-व्याख्या तु दशम-टिप्पन्यां द्रष्टव्या । इदं तु भक्तिर् अननुषङ्गितं फलम् ॥३०१-२॥
—ओ)०(ओ—
॥ १.२.३०३ ॥
रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥
श्री-जीवः- य इति पुंलिङ्गत्वेन निर्देशो जन-मात्र-विवक्षया, स्त्री वा पुमान् वेत्य् अर्थः । रिरंसां कुर्वन्न् इति, न तु श्री-व्रज-देवी-भावेच्छां कुर्वन्न् इत्य् अर्थः । किन्तु सुष्ठु इति महिषीवद् भाव-स्पृष्टतया कुर्वन् । न तु सैरिन्ध्रीवत् तद्-अस्पृष्टतयेत्य् अर्थः । विधि-मार्गेणेति वल्लवी-कान्तत्व-ध्यान-मयेन मन्त्रादिनापि, किम् उत महिषी-कान्तत्व-ध्यान-मयेनेत्य् अर्थः । केवलेनेति—व्रजादि-सम्बन्ध-लिप्सा-ग्रहं विनेत्य् अर्थः । महिषीत्वं तद्-वर्गानुगामित्वम् इयाद् इति । श्रीमद्-दशाक्षरादाव् अप्य् आवरण-पूजायां तन्-महिषीष्व् एव तस्यात्यादराद् इति भावः । तदेति कदाचिद् विलम्बेनैव, न तु रागानुगवच् छैग्र्येणेत्य् अर्थः ॥३०३॥
**मुकुन्दः- **रिरंसां श्री-नन्दनन्दन-सुखार्थं रमणेच्छां सुष्ठु कुर्वन्न् इत्य् अनेन सिद्ध-रूपेण रागानुगया व्रजे सेवा सुष्ठु दर्शिता । विधि-मार्गेणेति—साधक-रूपेण वैध-भक्त्येति । केवलेनेति—रागानुगा-मिश्रेण चेत् तदा मथुरायां महिषीत्वम् इति भावः । अभिलाषे सत्य् अपि यथोचित-साधनेन्नैव तत्-प्राप्तिर् इति दर्शितम् । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता [भा।पु। १०.१६.३६] इति । वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इत्य् आदिभिस् तद्-वाञ्छायां सत्याम् अपि तद्-अप्राप्तिः साधन-वैषम्याद् एव ॥३०३॥
**विश्वनाथः- **य इति पुंलिङ्गत्वेन निर्देशो जन-मात्र-विवक्षया, स्त्री वा पुमान् वेत्य् अर्थः । साक्षात् श्री-कृष्णेन सह रमणेच्छायां लोभस्य प्रवर्तकत्वेऽपि निज-भाव-प्रातिकूल्यानि तानि सर्वाणि शास्त्र-विहितानीति त्यागानौचित्यम् इति बुद्ध्या यदि करोति, तदा द्वारका-पुरे महिषी-परिजनत्वं प्राप्नोतीत्य् आह—रिरंसाम् इति । केवलेनैव साकल्येनैवेति यावत् । न तु निज-भाव-प्रतिकूलान् महिषी-पूजा-द्वारका-ध्यानादीन् कांश्चित् कांश्चित् अंशान् परित्यज्येति । अत्र एव-कारार्थः निर्णीते केवलम् इति त्रि-लिङ्गं त्व् एक-कृत्स्नयोः इत्य् अमरः ।
येषां तु वृन्दावने राधा-कृष्णयोर् माधुर्यास्वादनेऽभिलाषः, अथ च न्यास-मुद्रादि-वैधी-मार्गानुसारेण भजनं, तेषां द्वारकायां न रुक्मिणी-कान्तस्य प्राप्तिस् तत्राभिलाषाभावात् । न वा वृन्दावने श्री-राधा-कृष्णयोः प्राप्तिः, राग-मार्गेण भजनाभावात् । तस्मात् तेषां विधि-मार्गेण भजन-कार्यस्य ऐश्वर्य-ज्ञानस्य प्राधान्यं यत्र, यथाभूतस्य वृन्दावनस्यांशे गोलोके राधा-कृष्णयोः प्राप्तिः । न तु शुद्ध-माधुर्य-मये वृन्दावने इति ज्ञेयम् । गोलोके श्री-वृन्दावनस्यांशत्वं श्री-प्रभु-वरै रूप-गोस्वामि-चरणैः स्तव-मालायाम् उपश्लोकितम् । स च श्लोको, यथा नन्दापहरणे—
लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् । वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ इति ।
अत्र वैकुण्ठ-पदं कृष्ण-वैकुण्ठ-गोलोक-परम् एव । यतो वृन्दावनस्य माधुर्योत्कर्ष-दर्शनार्थं बन्धु-वर्गाणां गोपानां कृष्ण-वैकुण्ठे गोलोके श्री-कृष्ण-प्रेरित-गमनं दशमे वर्णितम् । तद्-वर्णनं, यथा—
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ [भा।पु। १०.२८.१४] ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भा।पु। १०.२८.१६-७]
अत्र ब्रह्मणो नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य लोकं गोलोकम् एव । न तु रमा-वैकुण्ठम् । पूर्वत्र स्वं लोकम् इत्य् अत्र स्वस्य श्री-कृष्णस्य लोकम् इति व्याख्यया रमा-वैकुण्ठस्य कृष्ण-लोकत्वाभावात् । तथा कृष्णं च तत्र च्छन्दोभिः स्तूयमानम् इत्य् उक्त्या रमा-वैकुण्ठे कृष्ण-लीलाया असम्भवाच् च । ब्रह्म-लोक-पदेन गोलोक एव व्याख्यातः । वैष्णव-तोषण्याम् अपि तथा व्याख्यातम् । इदम् एव लघु-भागवतामृते यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् [१.५.४९८] तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः [१.५.५०२] इति ।
अस्यार्थः—तु भिन्नोपक्रमे । यद् गोलोक-नाम गोलोक-सञ्ज्ञकं तच् च तत् तु गोकुल-वैभवम् । गोकुलस्य महा-माधुर्यत्वेन ख्यातस्य वैभवं वैभव-रूपोऽंशः । अत एव तस्य गोलोकस्य तद्-आत्म-वैभवत्वं गोकुल-स्ववैभव-रूपत्वं भवति । गोलोको गोकुलस्य स्व-वैभव-रूपो भवतीत्य् अर्थः । कुतः ? तन्-महिमोन्नतेः । ततो गोलोकात् सकाशात् महिमाधिक्याद् इति । यथा यथा पाताल-खण्डे—
अहो मधुपुरी धन्या वैकुण्ठाद् अपि गरीयसी । दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ इति ।
अत्र वैकुण्ठ-शब्देन गोलोक एव तैर् अभिप्रेतो ज्ञेयः । तस्य तन्-महिमोन्नतेर् इत्य् अनन्तरं यथा पाताल-खण्डे अहो मधुपुरीत्य् आद्य्-उक्तेः । तदेति कदाचिद् अविलम्बेनैव, न तु रागानुगावच् छैघ्रेण इत्य् अर्थः ॥३०३॥
—ओ)०(ओ—
॥ १.२.३०४ ॥
तथा च महा-कौर्मे—
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥
श्री-जीवः- तपसा विधि-मार्गेण । अत्र विधि-मार्गोपलक्षणत्वेन वासना-विभेदोऽपि ज्ञेयः ॥३०४॥
**मुकुन्दः- **तपसा विधि-मार्गेण । महात्मानो महान् श्री-कृष्ण-सुखार्थ-रिरंसा-करणाद् उत्कृष्ट आत्मा मनो येषां ते तथा ॥३०४॥
**विश्वनाथः- **तपसा विधि-मार्गेण । अत्र विधि-मार्गोपलक्षणत्वेन वासना-विभेदोऽपि ज्ञेयः । अत्र भर्तारम् इति पदम् एव तस्य पूर्वे महिषीत्व-प्राप्ति-निश्चयात्मकम् इति ॥३०४॥
—ओ)०(ओ—
॥ १.२.३०५-३०६ ॥
अथ सम्बन्धानुगा—
सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिर् आत्मनि ।
या पितृत्वादि-सम्बन्ध-मननारोपनात्मिका ॥
लुब्धैर् वात्सल्य-सख्यादौ भक्तिः कार्यात्र साधकैः ।
व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया ॥
श्री-जीवः : पितृत्वादि-सम्बन्धस्य यन् मननं विशेष-चिन्तनं, पुनस् तस्यारोपणं स्वस्मिन्न् अभिमननं तद्-आत्मिकेत्य् अर्थः ॥३०५॥
व्रजेन्द्रेति । न तु व्रजेन्द्रादित्वाभिमानेनापीत्य् अर्थः । पितृत्वाद्य्-अभिमानो हि द्विधा सम्भवति—स्वतन्त्रत्वेन, तत्-पित्रादिभिर् अभेद-भावनया च । तत्रान्त्यम् अनुचितम् । भगवद्-अभेदोपासनावत् तेषु भगवद्वद् एव नित्यत्वेन प्रतिपादयिष्यमाणेषु तद्-अनौचित्यात् । तथा तत्-परिकरेषु तद्-उचित-भावना-विशेषेणापराधापातात् ॥३०६॥
**मुकुन्दः : **पितृत्वादि-सम्बन्ध-मननं यन् नन्दादौ तस्यारोपात्मिकाभिमनन-रूपा । व्रजेन्द्र-सुबलादीनां भावश् चेष्टितम् अनुभावाश् च तयोर् मुद्रा परिपाटी । भक्तिः साधक-सिद्ध-रूपा सेवा ॥३०५-६॥
**विश्वनाथः : **पितृत्वादि-सम्बन्धस्य यन् मननं विशेष-चिन्तनं, पुनस् तस्यारोपणं स्वस्मिन्न् अभेद-मननं तद्-आत्मिकेत्य् अर्थः ॥३०५॥
व्रजेन्द्रेति । न तु व्रजेन्द्रत्वाभिमानेनापीत्य् अर्थः । पितृत्वाद्य्-अभिमानो हि द्विधा सम्भवति—स्वतन्त्रत्वेन, तत्-पित्रादिभिर् अभेद-भावनया च । तत्रान्त्यम् अनुचितम् । भगवद्-अभेदोपासनावत् तेषु तद्-अनौचित्यात् । सुबलादौ सायुज्य-प्राप्तिः सख्यादि-भक्तौ। अहङ्ग्रहोपासना-सत्त्वेऽपि व्रजेन्द्रोऽहम् इत्य् अहङ्ग्रहोपासना तु केवलं नरक-साधिकेति ज्ञेयम् । तस्या व्रजेश्वर्य्-आदौ विरुद्ध-भावना-प्रयोजकत्वात् । भक्तिः सेवा, साधक-रूपेण सिद्ध-रूपेण साधकैः कार्या । अत एव सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि इत्य् अत्रापि तथैव व्याख्यातम् । व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया सेवा कार्येत्य् अत्र सिद्ध-देहेनैव मानसी सेवा कार्या, न तु साधकैः साधक-देहेन सुबलादीनां भाव-चेष्टित-मुद्रया सेवा कर्येति व्याख्यातुं शक्यम् । सुबलादिभिर् अकृतानां गुरु-पादाश्रयण-दण्डवत्-प्रणामैकादश्य्-आदीनाम् अकरणे गुर्व्-आद्य्-अपराध-प्रसक्त्या तेषां नरक-गमन-प्रसङ्गात् । अत एव ग्रन्थ-कारैर् अपि अनुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते [भ।र।सि। १.२.६३] इत्य् अनेन एकादश्य्-आदि-नित्याङ्गानाम् अकरणे दोष उक्तः । तस्माद् सिद्ध-देहेन मानसी-सेवा-करणार्थं व्रजेन्द्र-सुबलादीनां भाव-चेष्टितं श्री-भागवते प्रसिद्धम् एव ॥३०६॥
—ओ)०(ओ—
**॥ १.२.३०७ ॥
तथा हि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।
नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धोऽभूद् वृद्ध-वर्धकिः ॥३०७॥
श्री-जीवः- **अथ पूर्वम् एवोचितम् इति दर्शयति—तथा हीति । अधिष्ठानं प्रतिमाम् । सिद्धोऽभूद् इति । बाल-वत्स-हरण-लीलालायां तत्-पितॄणाम् इव सिद्धिर् ज्ञेया । एवम् एव हि स्कान्दे सनत्-कुमार-प्रोक्त-संहितायां प्रभाकर-राजोपाख्यानम् ।
अपुत्रोऽपि स वै नैच्छत् पुत्रं कर्मानुचिन्तयन् ।
वासुदेवं जगन्नाथं सर्वात्मानं सनातनम् ॥ अशेषोपनिषद्-वेद्यं पुत्रीकृत्य विधानतः । अभिषेचयितुं राजा स्वराज उपचक्रमे ॥ न पुत्रम् अभ्यर्थितवान् साक्षाद् भूताज् जनार्दनात् ॥ इति ।
ऊर्ध्वं भगवद्-वचश् च—अहं ते भविता पुत्रः इत्य् आदि ॥३०७॥
**मुकुन्दः- **सिद्ध इति व्रजेन्द्रनन्दनानुवर्तिनस् तस्य गृहे श्री-कृष्णस्य यथोचित-रूपेण स्थितिर् दर्शिता । बहु-रूपेणानन्त-व्रज-जन-मनोरथ-पूरणवत् ॥३०७॥
**विश्वनाथः- **अतः साधक-देहेन साधक-भक्तानुसारि-सेवानां करणे पुराणं प्रमाणयति—तथा हीति । नन्द-सूनोः श्री-कृष्णस्याधिष्ठानं प्रतिमेत्य् अनेन इयं सेवा न व्रजेन्द्रस्य भाव-चेष्टितानुसारिणी ज्ञेया । तेन तु साक्षात् श्री-कृष्णस्यैवेति सेवा कृता । न तु तत्-प्रतिमायाः । तस्मात् साधकेन तु साक्षाद्-दर्शनासम्भवात् तत्-प्रतिमाया एव सेवा कर्तव्या । अत एव वृद्ध-वर्धकिर् अपि साधक-महान्य-भाव-भक्तानुसारेण पुत्रत्वेन प्रतिमा-सेवां चकारेति ज्ञेयम् । वार्धकिर् बाढै इति प्रसिद्धः । सिद्धोऽभूद् इति वतस-हरण-लीलायां यथा सर्वेषां पुत्रोऽभूत् तथैव सिद्धिर् ज्ञेया ॥३०७॥
—ओ)०(ओ—
॥ १.२.३०८ ॥
अतएव नारायण-व्यूह-स्तवे—
**पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मैत्रवद् धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्योऽपीह नमो नमः ॥३०८॥
श्री-जीवः- **सुहृन्-निरप्केष-हित-कारी । मित्रं सह-विहारीति तयोर् भेदः । तथा च तृतीये श्री-कपिल-देव-वाक्यं—
येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [भा।पु। ३.२५.३८] ॥३०८॥
**मुकुन्दः, विश्वनाथः- **सुहृन्-निरुपाधि-हित-कारी । मित्रं सह-विहारीति तयोर् भेदः॥३०८॥
—ओ)०(ओ—
**॥ १.२.३०९ ॥
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥
श्री-जीवः- **कृष्णेति । मात्र-पदस्य विधि-मार्गे कुत्रचित् कर्मादि-समर्पणम् अपि द्वारं भवतीति तद्-विच्छेदार्थः प्रयोग इति भावः ॥३०९॥
**मुकुन्दः- **कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभ एवैकः सर्वोत्तमो हेतुः प्रवृत्ति-कारणं यस्यां सा तथा । तयोः कारुण्य-मात्र एव लोभोत्पत्तेः सर्वोत्तमं कारणम् । अन्यत् किम् अपि स्वल्पम् अपि नेत्य् अर्थः । श्री-मूर्तेर् एक-वार-दर्शनान् निरपराधे सामान्या—या रतिः सद्-धियां भाव-जन्मने इति भाव-जन्मन इत्य् अत्र दर्शिता, ततोऽपि रागानुगायां लोभस् तु दुर्लभः केवल-कृपयैवेति भावः ॥३०९॥
**विश्वनाथः- **कृष्णेति मात्र-पदस्य विधि-मार्गे कुत्रचित् कर्मादि-समर्पणम् अपि द्वारं भवतीति तद्-विच्छेदार्थः प्रयोग इति ॥३०९॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे साधन-भक्ति-लहरी-द्वितिया ॥
॥ १.२ ॥
—ओ)०(ओ—
॥ १.३ ॥
श्री-हरि-भक्ति-रसामृत-सिन्धौ पूर्व-विभागे तृतीया लहरी
अथ भाव-भक्तिः
॥ १.३.१ ॥
शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥
श्री-जीवः : अथ तद् एतद् विविच्यते—पूर्वं तावद् भक्ति-सामान्य-लक्षणे चेष्टा-रूपा भाव-रूपा चेति द्विविधा भक्तिर् दर्शिता । तत्र चेष्टा-रूपा द्विविधा—भाव-भक्तेः साधना-रूपा कार्य-रूपा च । कार्य-रूपा तु रसावस्थायाम् अनुभाव-रूपा च । तयोः साधन-रूपा पूर्वा दर्शिता । उत्तरा रस-प्रसङ्गे दर्शयिष्यते ।
अथ भाव-रूपा च द्विविधा—रसावस्थायां स्थायि-नाम्नी, सञ्चारि-रूपा च । तत्र च पूर्वा द्विविधा—क्रोडीकृत-प्रणयादि-प्रेम-नाम्नी, रत्य्-अपर-पर्याय-प्रेमाङ्कुर-रूपा भाव-नाम्नी च । तद् एवं सत्य् उत्तरा सञ्चारि-रूपापि रस-प्रसङ्गे दर्शयिष्यते । सम्प्रति तु, स्थायि-भाव-सामान्य-रूपं प्रेम-नाम्ना प्रणयादिकम् अपि क्रोडीकुर्वन्तं रत्य्-अपर-पर्याय-स्थायि-भावाङ्कुर-रूपं भावं लक्षयति—शुद्ध-सत्त्वेति । सा च महा-भाव-पर्यन्त-तद्-ऊर्ध्वावस्था-व्यक्तये भविष्यतीत्य् अभिप्रेत्य चाह—शुद्ध-सत्त्वेति ।8
अत्र शुद्ध-सत्त्वं नाम भगवतः स्व-प्रकाशिका स्वरूप-शक्तेः संविद्-आख्या वृत्तिः, न तु माया-वृत्ति-विशेषः । विवृतं त्व् एतत् श्री-भागवत-सन्दर्भस्य द्वितीय-सन्दर्भे श्री-वैष्णव-तोषण्यां द्वितीयाध्याये च । शुद्ध-सत्त्व-विशेषत्वं नाम चात्र या स्वरूप-शक्ति-वृत्त्य्-अन्तर-लक्षणा—
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९]
इति विष्णु-पुराणानुसारेण ह्लादिनी नाम्नी महा-शक्तिस् तदीय-सार-वृत्ति-समवेत-तत्-सारांशत्वम् एवेत्य् अवगन्तव्यम् । तयोः समवेतयोः सारत्वं च तन्-नित्य-प्रिय-जनाधिष्ठानक-तदीयानुकुल्येच्छामय-परम-वृद्धित्वम् । ह्लादिनी-सार-समवायित्वं चास्यैव भावस्य परम-परिणाम-रूप-मोदनाख्ये महा-भावे श्रीमद्-उज्ज्वल-नीलमणिम् अधिकृत्य व्यक्तीभविष्यति ।
राधिका-यूथ एवासौ मोदनो न तु सर्वतः । यः श्रीमान् ह्लादिनी-शक्तेः सुविलासः प्रियो वरः ॥ [उ।नी। १४.१७६] इति ।
असौ-पदेन चानुकूल्येन कृष्णानुशीलन-रूपा सामान्येन लक्षिता भक्तिर् एवाकृष्यत इत्य् अर्थः। सा तु यद्यपि धात्व्-अर्थ-सामान्य-रूपा व्याख्याता, तथाप्य् अत्र चेष्टा-रूपा न गृह्यते, किन्तु भाव-रूपैव । विधेयस्य भावस्य साक्षान् निर्दिष्टत्वात् । वक्ष्यते च स्वयम् एव भाव-मात्रस्य लक्षणम्—
शरीरेन्द्रिय-वर्गस्य विकाराणां विधायकाः । भावाविर्भाव-जनिताश् चित्त-वृत्तय ईरिताः ॥ [भ।र।सि। २.४.२५१] इति ।
चित्त-वृत्तयश् चात्र प्रकारान्तरेण चित्तस्य स्थितयः । विकारो मानसो भावः इत्य् अमरः । तथापि वक्ष्यमाणानां व्यभिचारिणाम् अत्राप्राप्तिस् तेषां योजयिष्यमाणानां चित्त-मासृण्यमाणानां चित्त-मासृण्य-कृत्त्वाभावात् प्रेमाङ्कुरत्वेन विशेष्यत्वाच् च ।
ततश् चायम् अर्थः—असौ सामान्यतो लक्षिता या भक्तिः सैव निजांश-विशेषे भाव उच्यते । स च किं-स्वरूपः ? तत्राह—कृष्णस्य स्वरूप-शक्ति-रूपः शुद्ध-सत्त्व-विशेषो यः स एवात्मा, तन्-नित्य-प्रिय-जनाधिष्ठानकतया नित्य-सिद्धं स्वरूपं यस्य सः । तथाधिष्ठानम् आत्म-सात्कृत्य तत्-तादात्म्यापन्नत्वेनानुकूल्य-लक्षण-चित्त-वृत्ति-रूपा च ।
किं च, रुचिभिः प्राप्त्य्-अभिलाष-स्व-कर्तृकानुकूल्याभिलाष-सौहार्दाभिलाषैश् चित्तार्द्रता-कृद् इति । एष च वक्ष्यमाण-प्रेम्णोऽङ्कुर-रूप एवेत्य् आह—प्रेमेति । सूर्यस् त्व् अत्राचिराद् उदयिष्यमाणावस्थो गृह्यते । ततश् च तद्-अंश-साम्य-भाग् इति प्रेम्णः प्रथम-च्छवि-रूप इत्य् अर्थः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते [भ।र।सि। १.४.१] इति हि वक्ष्यते । अस्याप्राकृतत्वं तादृश-शुद्ध-सत्त्व-विशेष-ह्लादिनी-सार-रूपत्वं च मोक्ष-सुखस्यापि तिरस्कारकत्वात्, श्री-भगवतोऽपि प्रकाशकत्वात्, आनन्द-करत्वाच् च । अत्र प्रमाणस्य विशेष-जिज्ञासा चेत् चेत् प्रीति-सन्दर्भो दृश्यः । तद् एवं नित्य-तत्-प्रिय-जनानां भावे लक्षिते प्रपञ्च-गत-भक्तानाम् अपि चित्त-वृत्तिः श्री-कृष्ण-तद्-भक्त-कृपया तादृशी भवतीति तेनैव लक्षितः स्याद् इत्य् अलम् अतिविस्तरेण ॥१॥
मुकुन्दः- श्री-रूप-चरणेभ्यो नमः । असौ साधन-भक्तिः रुचिभिः स-परिकर-श्री-कृष्ण-रूपाद्य्-अनुभवजैर् आस्वाद-विशेषैश् चित्त-मासृण्य-कृत् सती भाव उच्यते, इति कार्येण लक्षणम्। स किं-स्वरूपः ? तत्राह—शुद्ध-सत्त्वेति । शुद्ध-सत्त्व-विशेषो मुक्ति-सुख-तिरस्कारकः, भजद्भ्योऽपि भगवताश्व् अदीयमानः, तत्-प्रकाशकत्वात् तत्-स्वरूप-शक्ति-रूपत्वाच् च, स्व-प्रकाशः परमानन्दो यः स आत्मा स्वरूपं यस्य स शुद्ध-सत्त्व-विशेषात्मा । सूर्यांशुः सूर्यस्य दर्शनात् पूर्व-प्रकाशः । हराव् आसक्त्य्-अवधिका साधन-भक्तिर् आ-प्रेम-प्रथम-प्रकाशं भाव उच्यते इत्य् अर्थः ॥१॥
**विश्वनाथः- **असौ-पदेनाकूल्येन कृष्णानुशीलन-रूपा सामान्येन लक्षिता भक्तिर् एवाकृष्यते । सा तु यद्यपि अनुशीलन-पदेन धात्व्-अर्थ-सामान्य-रूपा पूर्वं व्याख्याता, तथाप्य् अत्र चेष्टा-रूपा न गृह्यते, किन्तु भाव-रूपैव । असौ भाव उच्यते इत्य् अत्र विधेयस्य भावस्य साक्षान्-निर्दिष्टत्वात् । स च भावः किं-स्वरूपः ? तत्राह—कृष्णस्य स्वरूप-शक्ति-रूप-शुद्ध-सत्त्व-विशेषो यः स एवात्मा तन्-नित्य-प्रिय-जनाधिष्ठानकतया नित्य-सिद्धं स्वरूपं यस्य सः । किं च, रुचिभिश् चित्तस्य मासृण्य-कृद् आर्द्रता-कृद् इत्य् अर्थः । एष च वक्ष्यमाण-प्रेम्णोऽङ्कुर-रूप एवेत्य् आह—प्रेमेति । सूर्यस् त्व् अत्राचिराद् उदयिषमाणावस्थो गृह्यते, ततश् च तद्-अंशु-साम्य-भाग् इति प्रेम्णः प्रथम-च्छवि-रूप इत्य् अर्थः । दृष्टान्तोऽयं न सर्वांशेन, तथा चोत्तर-काले किरणस्य स सूर्य-रूपत्वं, भावस्य तु उत्तर-काले प्रेम-रूपत्वेऽपि न क्षतिः । अत एव भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते [भ।र।सि। १.४.१] इति वक्ष्यते ॥१॥
**सिद्धान्त-सरस्वती-ठक्कुरः : **शुद्ध-सत्त्व-विशेषात्मा भगवतः कृष्णस्य सर्व-प्रकाशक-संविद्-आख्य-स्वरूप-शक्ति-वृत्ति-रूपः । शुद्ध-सत्त्व-विशेषः स एव आत्मा तन्-नित्य-प्रिय-जनाधिष्ठानतया नित्य-सिद्धं स्वरूपं यस्य सः । प्रेम-सूर्यांशु-साम्य-भाक् प्रेम-रूप-सूर्य-किरण-सादृश्य-युक्तः । प्रेम्णः अत्र प्रथम-च्छवि-रूपः । रुचिभिः प्राप्त्य्-अभिलाष-स्व-कर्तृकानुकूल्याभिलाष-सौहार्दाभिलाषैश् चित्त-मासृण्य-कृत् चित्तार्द्रता-सम्पादकः । असौ भावः प्रेमाङ्कुर-रूपः उच्यते ॥१॥ (चैतन्य-चरितामृत, मध्य २३.५)
—ओ)०(ओ—
॥ १.३.२ ॥
तथा हि तन्त्रे—
**प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।
सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥
श्री-जीवः, विश्वनाथः- **तच्-छवि-रूपत्वम् प्रेमाङ्कुरत्वं दर्शयति तथा हीति ॥२॥
**मुकुन्दः- **प्रेम-प्रथमावस्थत्वं दर्शयति तथा हीति ॥२॥
—ओ)०(ओ—
॥ १.३.३ ॥
स यथा पद्म-पुराणे—
ध्यायं ध्यायं भगवतः पादाम्बुज-युगं तदा ।
ईषद्-विक्रियमाणात्मा सार्द्र-दृष्तिर् अभूद् असौ ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.३.४-५ ॥
आविर्भूय मनो-वृत्तौ व्रजन्ती तत्-स्वरूपतां ।
स्वयं-प्रकाश-रूपापि भासमाना प्राकाश्यवत् ॥
वस्तुतः स्वयम् आस्वाद-स्वरूपैव रतिस् त्व् असौ ।
कृष्णादि-कर्मकास्वाद-हेतुत्वं प्रतिपद्यते ॥
श्री-जीवः- पूर्वाख्यानुसारेण तस्यैव रति-पर्यायस्य भावस्य प्रापञ्चिक-तत्-प्रिय-जनेषु कञ्चिद् विशेषं दर्शयति—आविर्भूयेति द्वाभ्याम् । असौ शुद्ध-सत्त्व-विशेष-रूपा रतिर् मूल-रूपत्वेन मुख्य-वृत्त्या तच्-छब्द-वाच्या सा रतिः । श्री-कृष्णादि-सर्व-प्रकाशकत्वेन हेतुना स्वयं-प्रकाश-रूपापि प्रापञ्चिक-तत्-प्रिय-जनानां मनो-वृत्तौ आविर्भूय तत्-स्वरूपतां तत्-तादात्म्यं व्रजन्ती तद्-वृत्त्या प्रकाश्यवद् भासमाना ब्रह्मवत् तस्यां स्फुरन्ती, तथ स्व-सात्कृतेन पूर्वोत्तरावस्थाभ्यां कारण-कार्य-रूपेण श्री-भगवद्-आदि-माधुर्यानुभवेन स्वांशेनास्वाद-रूपाणि यानि कृष्णादि-रूपाणि कर्माणि कर्तुर् ईप्सिततमानि तेषाम् आस्वाद-हेतुतां संविद्-अंशेन साधकतमताम् असौ भावैक-पर्याया रतिः प्रतिपद्यते प्राप्नोतीति । ह्लादिन्य्-अंशेन तु स्वयं ह्लादयन्ती तिष्ठतीत्य् अर्थः । वस्तुत इति—तद् एतद् एव वस्तु-विचारे सिध्यतीत्य् अर्थः । तु-शब्दोऽपि विशेष-प्रतिपत्त्य्-अर्थः । आदि-ग्रहणात् तत्-परिकर-लीलादयो गृह्यन्ते ॥४-५॥
**मुकुन्दः- **रतेर् अचिन्त्य-शक्तित्वं दर्शयति—आविर् इति द्वाभ्याम् । असौ रतिस् तु-शब्दात् काव्याद् उक्त-रतेर् विशिष्टा । तद् आह—स्वयम् आस्वाद-रूपैव, शुद्ध-सत्त्व-विशेषात्मत्वात् । न तूत्कण्ठिते दुःख-रूपापि । कृष्णादयः कर्ंआणि कारण-कार्य-सहाया यस्य स कृष्णादि-कर्मक आस्वादो विभावनादि-रूपस् तस्य हेतुत्वं स्व-प्रभावेणैव प्रतिपद्यते । तां विना तेषां चमत्काराभावात् । यथान्य-रतिः काव्यादि-सेवया तद्-धेतुस् तथा न । किम्-भूता सती ? तत्राह—आविर् इति । उक्त-हेतुत्वात् स्वयं-प्रकाश-रूपापि मनो-वृत्तौ साधनादि-योग्यायाम् आविर्भूय तत्-स्वरूपतां मनो-वृत्ति-स्वरूपतां व्रजन्ती प्रकाश्यवत् स्फुटीक्रियमाणं वस्त्व् इव भासमानानुभवितुर् मनो-वृत्ति-रूपया स्वयम् अनुभूयमाना । वस्तुतो वस्तु-विचारेणेयम् एवेदृशी नान्येत्य् अर्थः ॥४-५॥
**विश्वनाथः- **पूर्वाख्यानुसारेण तस्यैव रति-पर्यायस्य भावस्य प्रापञ्चिक-तत्-प्रिय-जनेषु कञ्चिद् विशेषं दर्शयति—आविर्भूयेति द्वाभ्याम् । असौ शुद्ध-सत्त्व-विशेष-रूपा रतिः श्री-कृष्णादि-प्रकाशकत्वेन स्वयं-प्रकाश-रूपापि प्रापञ्चान्तर्गत-तत्-प्रिय-जनानां मनो-वृत्तौ आविर्भूय तत्-स्वरूपतां तत्-तादात्म्यं व्रजन्ती, अथ च ब्रह्मवत् स्वयं-प्रकाश-रूपापि चित्त-वृत्त्या प्रकाश्यवद् भासमाना भवति । वस्तुतः स्वाद-रूपापि कृष्णस्य रूप-गुण-माधुर्य-कर्मकास्वादस्य हेतुतां प्रतिपद्यते प्राप्नोतीति ॥४-५॥
—ओ)०(ओ—
॥ १.३.६-८ ॥
साधनाभिनिवेशेन कृष्ण-तद्-भक्तयोस् तथा ।
प्रसादेनातिधन्यानां भावो द्वेधाभिजायते ।
आद्यस् तु प्रायिकस् तत्र द्वितीयो विरलोदयः ॥
तत्र साधनाभिनिवेश-जः—
वैधी-रागानुगा-मार्ग-भेदेन परिकीर्तितः ।
द्विविधः खलु भावोऽत्र साधनाभिनिवेशजः ॥
साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् ।
हराव् आसक्तिम् उत्पाद्य रतिं सञ्जनयत्य् असौ ॥
श्री-जीवः- अथस्याः प्रपञ्च-गत-भक्तेष्व् आविर्भाव-निदानम् आह—साधनेति । अतिधन्यानां प्राथमिक-महत्-सङ्ग-जात-महा-भाग्यानाम्—भवापवर्गो भ्रमतो यदा भवेद् [भा।पु। १०.५१.५३] इत्य् आदेः, रहूगणैतत् तपसा न याति [भा।पु। ५.११.१२] इत्य् आदेश् च । विचार-विशेषस् तु भक्ति-सन्दर्भे दृश्यः ॥६॥
**मुकुन्दः- **अस्याः साधनादिना भक्त-हृदि प्राकट्यं दर्शयति—साधनेति । अतिधन्यानाम् इति श्लाघा भावे स्व-लालसा-बोधनी । प्रायिको बहुत्र जायते । विरलोदयः कुत्रचिज् जायत इत्य् अर्थः ॥६॥ अभिनिवेशः सन्ततः कर्तृत्वम् । तत्र साधने ॥८॥
**विश्वनाथः- **तस्य भावस्य आविर्भावे प्रकार-द्वयम् आह—साधनस्याभिनिवेशेनानर्थ-निवृत्त्य्-उत्तर-निष्ठयेत्य् अर्थः । तथा श्री-कृष्ण-तद्-भक्तयोः प्रसादेन धन्यानां प्राथमिक-महत्-सङ्ग-जात-महा-भाग्यानां—भवापवर्गो भ्रमतो यदा भवेद् [भा।पु। १०.५१.५३] इत्य् आदेः, रहूगणैतत् तपसा न याति [भा।पु। ५.११.१२] इत्य् आदेश् च । आद्यः साधनाभिनिवेश-रूपः, द्वितीयो भगवत्-तद्-भक्तयोः कृपा । तत्र साधनाभिन्विशज इति वैधी-मार्ग-भेदेन रागानुगा-मार्ग-भेदेन च जातो यो द्विविधः साधनाभिनिवेशस् तेन जातो यो द्विविधो भावः, स एवात्र परिकीर्तित इत्य् अन्वयः । ननु साधनस्याभिनिवेशो निष्ठा सा च भक्तौ रुचिं तद्-अनन्तरं हराव् आसक्तिम् अनुत्पाद्य कथं भावं जनयिष्यतीत्य् अत आह—साधनाभिनिवेशज इति । तत्राद्यं वैधी-मार्ग-भेदेन साधनाभिनिवेश-जन्य-भावो यथा ॥६-८॥
—ओ)०(ओ—
॥ १.३.९ ॥
तत्र **आद्यो **(१.५.२६)—
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः ॥ इति ।
श्री-जीवः : अनुग्रहेण श्री-कृष्ण-कथेयं भवतापि श्रोतव्येति शास्त्रानुसारि-तद्-आज्ञा-रूपेण, मनोहराः रुच्य्-उत्पादिकाः, श्रद्धा पुनर्-आनुषङ्गिकीति कारिकायां न दर्शिता ॥९॥
मुकुन्दः : तत्रान्वहम् इति । कृष्ण-कथाः माधुर्यैश्वर्य-प्रकाशकान् प्रबन्धान् । अनुग्रहेणेति—कथासु श्रद्धा-बोधकं अन्वहम् अशृणवम् इति साधनेऽभिनिवेशः । मनोहरा इति साधने रुचिः । ता अनुपदं विशृण्वतो विशेषेण रुच्या शृण्वतो मम श्रद्धया हर्य्-आसक्त्या रतिः ॥९॥
**विश्वनाथः : **तत्र प्रत्यहं कृष्ण-कथाः प्रगायतां मुनीनाम् अनुग्रहेण मनोहरास् ताः कथाः शृण्वतो मम प्रिय-श्रवसि श्री-कृष्णे रतिर् अभवत् । अनुग्रहेण कृष्ण-कथेयं भवतापि श्रोतव्येति शास्त्रानुसारि-तद्-आज्ञा-रूपेणेत्य् अर्थः । एतेन वैधीत्वम् आयातम् । मनोहरा रुच्य्-उत्पादिकाः । अत्र यद्यपि श्रद्धाम् आरभ्य सर्वासां भूमिकानां रति-कारणत्वेन वक्तुम् उचितम्, तथाप्य् अनर्थ-निवृत्त्य्-उत्तरोत्पन्नाभिनिवेशाद् अविलम्बेनैव रत्य्-उत्पत्तिर् जायत इत्य् अभिप्रायेण तथोक्तम् इति ॥९॥
—ओ)०(ओ—
॥ १.३.१० ॥
रत्या तु भाव एवात्र न तु प्रेमाभिधीयते ।
मम भक्तिः प्रवृत्तेति वक्ष्यते स यद् अग्रतः ॥
श्री-जीवः : मम भक्तिः प्रवृत्तेति—भक्तिः प्रवृत्तात्म-रजस्-तमोऽपहा [भा।पु। १.५.२८] इत्य् उक्त्या भक्ति-शब्देन स प्रेमैवाग्रे वक्ष्यते इत्य् अर्थः । रतेः प्रथमावस्थत्वात् भक्तेस् तत उत्कृष्टत्वात् । अत एव प्रेम-सूर्यांशु-साम्य-भाग् इत्य् अत्र भाव-प्रेम्णोस् तारतम्यम् उक्तम् इति भावः ॥१०॥
मुकुन्दः : न व्याख्यातम् ।
**विश्वनाथः : **रत्येति । ममाभवद् रतिः इत्य् अत्र रति-पदेन भाव एवाभिधीयते, न तु प्रेमा । मम भक्तिर् इति । तथा च भक्तिः प्रवृत्तात्म-रजस्-तमोऽपहा [भा।पु। १.५.२८] इत्य् उक्त्या भक्ति-शब्देन प्रेमैवाग्रे वक्ष्यत इत्य् अर्थः । ममाभवद् रतिर् इत्य् अत्र रतेः प्रथमावस्थत्वात् तस्मात् सकाशाद् उत्पद्यमानाया भक्ते रति-रूप-कारणाद् उत्कृष्टत्वात् । अत एव प्रेम-सूर्यांशु-साम्य-भाग् इति । अत्र भाव-प्रेम्णोस् तारतम्यम् उक्तम् इति भावः ॥१०॥
—ओ)०(ओ—
॥ १.३.११ ॥
यथा तत्रैव (१.५.२८)—
इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर्
विशृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर् महात्मभिर्
भक्तिः प्रवृत्तात्म रजस्-तमोपहा ॥
न कतमेन व्याख्यातम् ॥
—ओ)०(ओ—
॥ १.३.१२ ॥
तृतीये च (३.२५.२५)—
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥
श्री-जीवः : न व्याख्यातम् ।।१२॥
मुकुन्दः : सताम् इति प्रसङ्गाद् इति भक्तौ श्रद्धावद्भिर् यः सतां सङ्गः प्रसङ्गः । वीर्य-संविद इति अभिविनिवेशः, पुनः पुनः श्रवणेनैव वीर्य-संवेदनस्य सम्भवात् । श्रद्धा आसक्तिः । भक्तिः प्रेम-लक्षणा ॥१२॥
विश्वनाथः : सतां प्रसङ्गान् मम वीर्य-संविदो जनस्य मम कथा हृत्-कर्ण-रसायणा भवन्ति । अपवर्ग-वर्त्मनि श्री-कृष्णे ॥१२॥
—ओ)०(ओ—
॥ १.३.१३ ॥
पुराणे नात्य-शास्त्रे च द्वयोस् तु रति-भावयोः ।
समानार्थतया ह्य् अत्र द्वयम् ऐक्येन लक्षितम् ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.३.१४ ॥
द्वितीयो, यथा पाद्मे—
इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका ।
हरि-प्रीत्या च तां सर्वां रात्रिम् एवात्यवाहयत् ॥
श्री-जीवः- मनोरथ-पूर्वक-नृत्यम् अत्र रागानुगा, तदानीं तच् छ्री-मूर्ति-प्रभावेण तस्यां तादृश-तत्-परिकराणां राग-स्फूर्तेः । तथैवोक्तं तया तत् पूर्वत्र—
बह्वीष्व् अन्यासु नारीषु मय्य् एवाधिक-प्रीतिमन् । नृत्यत्य् असौ मया सार्धं कण्ठाश्लेषादि-भाव-कृत् ॥ इति ।
प्रसङ्गोऽयं मूल-पाद्म-गतश् चेत् तर्हि—
सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल । त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा । प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ॥ इति ।
बृहद्-गौतमीये श्री-कृष्णस्य वचनात् तथा तत्रैव—
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
वचनान्तरान् नित्य-तन्-महा-शक्ति-रूपतया प्रसिद्धायाः श्री-राधाया विभूति-रूपा बाला-शब्देन मन्तव्या । किन्तु स्वयं श्री-राधिका तु तस्याः फलावस्थायां तां सखीं विधाय, तस्याः साधन-सिद्धि-गतं सर्वं कृपया आत्मन एव मेने, इत्य् एवाभेदेन निर्देशे कारणं ज्ञेयम् ॥१४॥
**मुकुन्दः- **इत्थम् इति—
बह्वीष्व् अन्यासु नारीषु मय्य् एवाधिक-प्रीतिमन् । नृत्यत्य् असौ मया सार्धं कण्ठाश्लेषादि-भाव-कृत् ॥ इति पूर्वोक्त-प्रकरणे ।
इत्थं मनोरथं बाला कुर्वतीति साधनाभिनिवेशः । नृत्य उत्सुकेति रुचिः । हरौ प्रीतिर् आसक्तिः । सर्वां रात्रिम् एवात्यवाहयद् इति रतिः । अव्यर्थ-कालत्वं कार्य-दर्शनात् । श्री-मूर्तेर् माधुरी-दर्शनेन जात-लोभत्वाद् अस्याः सम्भोगेच्छा-मयी ॥१४॥
**विश्वनाथः- **द्वितीयो रागानुगीय-साधनाभिनिवेशजो यथा मनोरथ-पुर्वक-नृत्यम् अत्र रागानुगा-बोधकं, तदानीं तच् छ्री-मूर्ति-प्रभावेण तादृश-परिकराणाम् अनुराग-स्फूर्तित एवानुराग-निर्वाहत्वात् ॥१४॥
—ओ)०(ओ—
॥ १.३.१५ ॥
अथ श्री-कृष्ण-तद्-भक्त-प्रसादजः—
साधनेन विना यस् तु सहसैवाभिजायते ।
स भावः कृष्ण-तद्-भक्त-प्रसादज इतीयते ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
**मुकुन्दः- **साधनेन भावोत्पत्तेः कारणेन । अतः केषूचिज् जनेषु किञ्चित् साधने सत्य् अपि भावस् तु कृपयैवेत्य् अभिप्रायः ॥१५॥
—ओ)०(ओ—
॥ १.३.१६ ॥
अथ श्री-कृष्ण-प्रसादजः—
प्रसादा वाचिकालोक-दान-हार्दादयो हरेः ॥
श्री-जीवः- वाचा चरति वाचिकः । स्वालोकस्य दानं यत्र स तद्-द्वाराविर्भूत इत्य् अर्थः । हृदि भावो हार्दम् । यत् तु स्मेरां भङ्गीत्य् आदिना पूर्वम् उक्तं तद् अप्य् अत्र ज्ञेयम् । एवं वृन्दावनादिकम् अपि भक्तेष्व् अन्तर्-भाव्यम् ॥१६॥
**मुकुन्दः- **वाचा चरतीति वाचिकः । स्वालोकस्य स्व-दर्शनस्य दानं यत्र स तद्-द्वाराविर्भूत इत्य् अर्थः । हृदि भावो हार्दः ॥१६॥
**विश्वनाथः- **वाचा चरति वाचिकः । आलोकस्य दानं यत्र सः । हृदि भावो हार्दः ॥१६॥
—ओ)०(ओ—
॥ १.३.१७-१९ ॥
तत्र वाचिक-प्रसादजः, यथा नारदीये—
सर्व-मङ्गल-मूर्धन्या पूर्णानन्द-मयी सदा ।
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्याभिचारिणी ॥
आलोक-दानजः, यथा स्कान्दे—
अदृष्ट-पूर्वम् आलोक्य कृष्णं जाङ्गल-वासिनः ।
विक्लिद्यद् अन्तरात्मनो दृष्टिं नाक्रष्टुम् ईशिरे ॥
हार्दः—
प्रसाद आन्तरो यः स्यात् स हार्द इति कथ्यते ॥
श्री-जीवः : न व्याख्यातम् ।
मुकुन्दः : जाङ्गल-देश-वासिनो दर्शनायोग्या एव दर्शन-दानस्य कृपयोक्तत्वात् । ‘यः स्मेरां भङ्गीऽ त्य् आदौ भाव उक्तः, स भाग्यवन्-निरपराधेष्व् एव । वृन्दावनादि-प्राप्तिस् तेषां भाग्यादि-द्योतिनी । विक्लिद्यद् इत्य् अर्ध-पद्येन कृष्ण-प्रसादज-भावस्य ततः परम-वैशिष्ट्यं दर्शितम् । तथैव वक्ष्यति ‘लोकोत्तर-चमत्कार-कारकऽ इति पद्ये [१.३.५८] ॥१८॥
**विश्वनाथः **: कुरु-जाङ्गल-देश-वासिनः ॥१८॥
—ओ)०(ओ—
॥ १.३.२० ॥
यथा शुक-संहितायां—
**महाभागवतो जातः पुत्रस् ते बादरायण ।
विनोपायैर् उपेयाभूद् विष्णु-भक्तिर् इहोदिता ॥
श्री-जीवः, विश्वनाथः : **महेति उपेया उपायेनैव लभ्या श्री-विष्णु-भक्तिर् विनोपायैर् उदिताभूत् । अत्र साधनान्तर-निषेधात् महत्-प्रसादस्याकथनाच् च भगवत्-प्रसाद एव लभ्यते । स च हार्द एव । यतो गर्भस्थस्यैव तस्य या तदीया स्मरण-मयी भक्तिर् जाता, सा दर्शनजा न भवति, न च वाचिकजा । ततो हार्दजैवेत्य् अवसीयते तद् एतद् ब्रह्म-वैवर्ताज् ज्ञेयम् ॥२०॥
**मुकुन्दः : **उपेया उपायैर् लभ्या । इह गर्भस्थे तव पुत्रे ॥२०॥
—ओ)०(ओ—
॥ १.३.२१-२४ ॥
अथ तद्-भक्त-प्रसादजः, यथा सप्तमे (७.४.३६)—
गुणैर् अलम् असङ्ख्येयैर् महात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥
नारदस्य प्रसादेन प्रह्लादे शुभ-वासना ।
निसर्गः सैव तेनात्र रतिर् नैसर्गिकी मता ॥
स्कान्दे च—
अहो धन्योऽसि देवर्षे कृपया यस्य तत्-क्षणात् ।
नीचोऽप्य् उत्पुलको लेभे लुब्धको रतिम् अच्युते ॥
भक्तानां भेदतः सेयं रतिः पञ्च-विधा मता ।
अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते ॥
एते श्लोका न कतमेन व्याख्याताः ।
—ओ)०(ओ—
**॥ १.३.२५-२६ ॥
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शून्यता ।
आशा-बन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥
आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले ।
इत्य् आदयोऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥
श्री-जीवः- **तत्र मुख्यानि लिङ्गान्य्—क्षान्तिर् इति ॥२५॥
**मुकुन्दः- **तस्य मुख्यानि कार्याण्य् आह—क्षान्तिर् इति । भावाङ्कुर इव प्रेमामर-तरोः । प्रथमावस्थैव भावाङ्कुरः ॥ २५॥
**विश्वनाथः- **तत्र मुख्यानि लिङ्गान्य् आह—क्षान्तिर् इति ॥२५॥
**सरस्वती ठक्कुरः- **जात-भावाङ्कुरे जने जात-रुचौ भक्ते क्षान्तिः क्षोभ-हेतौ प्राप्ते सति अक्षुभितात्मता, अव्यर्थ-कालत्वं कृष्ण-सम्बन्ध-वस्तुन्य् एव केवलं काल-क्षेपः, विरक्तिः कृष्णेतर-वस्तुनि एव वीत-स्पृहा, मान-शून्यता उत्कृष्टत्वेऽपि अमानित्वम्, आशा-बन्धः भगवतो दृढ-प्राप्ति-सम्भावना, समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता, नाम-गाने सदा रुचिः, तद्-गुणाख्याने आसक्तिः, तद्-वसति-स्थले प्रीतिः इत्य् आदयोऽनुभावाः स्युः वर्तन्ते ॥ (अनुभाष्य २.२३.१८-१९)
—ओ)०(ओ—
॥ १.३.२७-२८ ॥
(१) तत्र क्षान्तिः—
क्षोभ-हेताव् अपि प्राप्ते क्षान्तिर् अक्षुभितात्मता ॥
यथा प्रथमे (१.१९.१५)—
**तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥
श्री-जीवः- **तं मेति । प्रतियन्तु अङ्गीकुर्वन्तु । तत एव हेतोर् ईशे धृत-चित्तं सन्तं मां गङ्गा देवी चाङ्गीकरोतु । यस्माद् एवं श्री-परीक्षितो महा-प्रेमित्वात् क्षान्तिर् अपि महती दृश्यते । तस्माद् भाव-रूपे प्रेम्णोऽङ्कुरे जाते तद्-अङ्कुरोऽजायत इति भावः । एवम् अन्यत्रापि ॥२८॥
मुकुन्दः- तं मोपयातम् इति । मा माम् उपयान्तं शरणागतं प्रतियन्तु जानन्तु । गङ्गा च प्रत्येतु । वा-शब्दः प्रतिक्रियानादरे । रागवत्य् अपि परीक्षिति भाव-मात्रोदाहरणं तदा तस्यैवोदयात् । एवम् अग्रेऽपि साधक-सिद्ध-नित्य-सिद्धेषु पूर्ण-पूर्णतर-पूर्णतम इति क्रमेण भावो ज्ञेयः ॥२८॥
**विश्वनाथः- **तम् इति । तं मा माम् । उपयातम् उपसन्नम् । विप्राः प्रतियन्तु जानन्त अङ्गीकुर्वन्तु । अत एव हेतोर् ईशे धृत-चित्तं सन्तं मां गङ्गा देवी चाङ्गीकरोतु । अत्र क्षोभ-कारणस्य मरणस्य निश्चयेऽपि क्षोभाभावः ॥२८॥
**सिद्धान्त-सरस्वती- **हे विप्राः ! भवन्तः देवी देवता-रूपा गङ्गा च ईशे धृत-चित्तम् ईश्वरार्पित-चित्तं तं तथाभूतं मा माम् उपयातं शरणागतं प्रतियन्तु जानन्तु । द्विजोपसृष्टो द्विज-प्रेरितः कुहकः तक्षको वा अलं दशतु । विष्णु-गाथा विष्णु-कथाः गायत यूयं कीर्तयत ॥२८॥ (अनुभाष्य २.२३.२१)
—ओ)०(ओ—
॥ १.३.२९ ॥
(२) अथ अव्यार्थ-कालत्वं, यथा हरि-भक्ति-सुधोदये—
वाग्भिः स्तुवन्तो मनसा स्मरन्तस्
तन्वा नमन्तोऽप्य् अनिशं न तृप्ताः ।
भक्ताः स्रवन्-नेत्र-जलाः समग्रम्
आयुर् हरेर् एव समर्पयन्ति ॥
न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.३.३० ॥
(३) अथ विरक्तिः—
**विरक्तिर् इन्द्रियार्थानां स्याद् अरोचकता स्वयं ॥
श्री-जीवः, विश्वनाथः **: विरक्तिर् इति । अत्र कारण-कार्ययोर् विरक्त्य्-अरोचकतयोर् अभेदोक्तिर् अन्योन्याव्यभिचारित्वापेक्षया ॥३०॥
मुकुन्दः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.३.३१ ॥
यथा पञ्चमे (५.१४.४३)—
**यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः ।
जहौ युवैव मलवद् उत्तमःश्लोक-लालसः ॥
श्री-जीवः, विश्वनाथः **: यः श्री-भरतः ॥३०॥
मुकुन्दः : न व्याख्यातम् ।
—ओ)०(ओ—
॥ १.३.३२-३३ ॥
(४) अथ मान-शून्यता—
उत्कृष्टत्वेऽप्य् अमानित्वं कथिता मान-शून्यता ॥
यथा पाद्मे—
**हरौ रतिं वहन्न् एष नरेन्द्राणां शिखा-मणिः ।
भिक्षाम् अटन्न् अरि-पुरे श्वपाकम् अपि वन्दते ॥
श्री-जीवः, विश्वनाथः **: एष भगीरथः ॥३३॥
**मुकुन्दः : **एष भगीरथो भिक्षाम् उद्दिश्य ॥३३॥
—ओ)०(ओ—
॥ १.३.३४-३५ ॥
(५) अथ आशा-बन्धः—
आशा-बन्धो भगवतः प्राप्ति-सम्भावना दृढा ॥
यथा श्रीमत्-प्रभुपादानां—
न प्रेमा श्रवणादि-भक्तिर् अपि वा योगोऽथवा वैष्णवो
ज्ञानं वा शुभ-कर्म वा कियद् अहो सज्-जातिर् अप्य् अस्ति वा ।
हीनार्थाधिक-साधके त्वयि तथाप्य् अच्छेद्य-मूला सती
हे गोपी-जन-वल्लभ व्यथयते हा हा मद्-आशैव माम् ॥
श्री-जीवः : योगोऽष्टाङ्गः । तस्य वैष्णवत्वं विष्णु-ध्यान-मयत्वम् । स एव हि रस-गर्भ9 उच्यते । ज्ञानं ब्रह्म-निष्ठम् । शुभं कर्म वर्णाश्रमाचारादि-रूपम् । सज्-जातिस् तद्-योग्यता-हेतुः । तत्र योगादीनां तत्-प्राप्ति-हेतुत्वम् भक्त्य्-उक्ततया कृतत्वेन द्रष्टव्यम् । तच् च योगस्य तृतीये कापिलेयानुसारेण, ज्ञानस्य ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इति श्री-गीतानुसारेण, शुभ-कर्मणश् च स वै पुंसां परो धर्मः [भा।पु। १.२.६] इत्य् अनुसारेण ज्ञेयम् । मद्-आशा मम स्व-सुख-मात्रेच्छया त्वां प्राप्तुं प्रवृत्तस्य याशा, न तु भगवत्-प्रेम्णा प्रवृत्तस्य या आशा कापि तृष्णा सा । यत अच्छेद्य-मूलं स्व-सुख-कामत्वं यस्याः सा । तर्हि किं करवाणि तत्राह—हीनेति । भवता सापि प्रेममयीकर्तुं शक्यत इति विचार्य सैव क्रियत इति भावः । व्यथयत इत्य् अत्र स्वस्याचित्तत्व-मननात्—अणाव् अकर्मकाच् चित्तवत् कर्तृत्वात् [पा। १.३.८८] इत्य् अनेन प्राप्तस्य परस्मैपदस्याभावः । तद् इदं सर्वं दैन्येनैवोक्तम् इति रताव् एवोदाहृतम् ॥३५॥
मुकुन्दः : योगोऽष्टाङ्गः । तस्य वैष्णवत्वं विष्णु-ध्यान-मयत्वं यत्र रस-गर्भ उच्यते । ज्ञानं ब्रह्म-निष्ठम् । शुभ-कर्म वर्णाश्रमाचार-लक्षणम् । सज्जातिस् तय्-योग्यता-हेतुः । यद्यपि प्रेमादीनि न सन्ति, तथापि त्वयि मद्-आशा अयोग्योऽप्य् अहं त्वां प्राप्नुयाम् इति ललसैव मां व्यथयते व्यथावन्तं करोति । णाविष्टवत् प्रातिपादिकस्येति मतुब्-आदेर् लोपः । त्वद्-अप्राप्तिस् तद्-अनिर्वर्तनाच् च दुःखम् एवानुभवामीत्य् अर्थः । ननु अयोग्योऽहं कथं तं लभेयम् इति विचारेण तां निर्वर्त्य सुखीभवेति चेत् तत्राह—हीनेत्य् आदि । हीनस्य सर्व-साधन-रहितत्वाद् अयोग्यस्यार्थं प्रयोजनम् अधिकं यथा स्यात् तथा साधयतीति हीनार्थाधिक-साधकस् तस्मिन्, प्रत्युत अच्छेद्य-मूला बद्ध-मूला सती ॥३५॥
**विश्वनाथः : **वैष्णवो योगः । ज्ञानं भगवद्-विषयकम् । शुभ-कर्म भक्त-परिचर्यादि । कियद् अहो परिचर्योपयुक्त-सज्जातिर् अपि नास्ति । येषां सज्जातीनां दर्शन-स्पर्शने शास्त्रे स्नानं विहितम् उक्तं, तज्-जात्य्-अन्तर्-भूतोऽहम् इति अभिप्रायात् । तथापि हीन-जन-सम्बन्ध्य्-अर्थस्याधिकतया साधके त्वयि अच्छेद्य-मूला मद्-आशा मां व्यथयते । अत्राशा-बन्ध-लक्षणस्योदाहरणत्वाद् एतत्-पद्य-स्थ आशापि ज्ञान-कर्मादि-रहिता शुद्ध-भक्ति-जन्या प्रेम-सेवा-प्रत्याशा ज्ञेया । अतो व्याख्यान्तरस्यासम्भवात् तन् नोक्तम् ॥३५॥
**सरस्वती ठक्कुरः **: मम प्रेमा वा श्रवणादि-भक्तिर् अपि अथवा वैष्णवो विष्णु-ध्यान-मयः योगः शुद्ध-भक्ति-योगः, ज्ञानं ब्रह्म-निष्ठं वा, शुभ-कर्म दैव-वर्णाश्रमादि-रूपं वा, अहो खेदे कियत् सज्जातिः सद्-वंश-जात-सम्मानोऽपि वा नास्ति । हे गोपी-जन-वल्लभ हीनार्थाधिक-साधके योग्यता-परिमाणाधिक-फल-दातरि त्वयि अच्छेद्य-मूला सर्वथैव अविच्छेद्या सती, हा हा मत् मम आशा मां व्यथयते एव (अनुभाष्य २.२३.२७) ॥
—ओ)०(ओ—
॥ १.३.३६-३७ ॥
(६) अथ समुत्कण्ठा—
समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता ॥
अथ कृष्ण-कर्णामृते (५४)—
**आनम्राम् असित-भ्रुवोर् उपचितम् अक्षीण-पक्ष्माङ्कुरेष्व्
आलोलाम् अनुरागिणोर् नयनयोर् आर्द्रां मृदौ जल्पिते ।
आताम्राम् अधरामृते मद-कलाम् अम्लान वंशी-स्वनेष्व्
आशास्ते मम लोचनं व्रज-शिशोर्-मूर्तिं जगन्-मोहिनीम् ॥
श्री-जीवः : न व्याख्यातम् ।
मुकुन्दः : **व्रज-शिशोर् व्रज-किशोरस्य । आशास्ते द्रष्टुम् इच्छति । उपचितां समृद्धिमतीं घन-पक्ष्माङ्कुराम् इत्य् अर्थः । आर्द्रां मनो-द्राविकां मद-कलां स्मर-मदोद्गारेण कलां मधुरास्फुट-गुणां गम्भीराम् इत्य् अर्थः ॥३७॥
विश्वनाथः : मम लोचनं व्रज-पतेर् जगन्-मोहिनीं मूर्तिम् आशास्ते दर्शनार्थम् इच्छां करोति । कथम्भूताम् ? असित-भ्रुवोः श्याम-भ्रू-द्वये ईषन्-नम्राम् । पुनः किम्-भूताम्? अक्षीण-पक्ष्माङ्कुरेषु उपचिताम् अविरलां तथा च नेत्रस्थ-पक्ष्माङ्कुराणां स्ह्तूलाविरलत्वे प्रशंसनीये इति भावः । अधर-रूपामृते आताम्राम् अतिशय-ताम्र-वर्णाम् अम्लान-वंशी-स्वनेषु मद-कलां मत्ताम् ॥३७॥
—ओ)०(ओ—
॥ १.३.३८ ॥
(७) अथ नाम-गाने सदा रुचिः, यथा—
रोदन-बिन्दु-मरन्द-स्यन्दि-दृग्-इन्दीवराद्य गोविन्द ।
तव मधुर-स्वर-कण्ठी गायति नामावलीं बाला ॥
न केनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ १.३.३९ ॥
(८) तद्-गुणाख्याने आसाक्तिः, यथा कृष्ण-कर्णामृते (८८)—
**माधुर्याद् अपि मधुरं
मन्मथता तस्य किम् अपि कैशोरम् ।
चपल्याद् अपि चपलं
चेतो बत हरति हन्त किं कुर्मः ॥
श्री-जीवः : **माधुर्याद् अपि मधुरम् अतिशयेन मधुरम् इत्य् अर्थः । मन्मथ-तातस्य मन्मथोत्पादकस्येत्य् अर्थः । यद् वा—तस्य कैशोरम् एव मन्मथता मन्मथस्य धर्म इत्य् अर्थः ॥३९॥
**मुकुन्दः : **मधुरस्य धर्मो माधुर्यं तस्माद् अपि मधुरं लक्षणयातिमधुरम् इत्य् अर्थः । मन्मथ-तातस्य मन्मथोत्पादकस्येत्य् अर्थः । यद् वा, तस्य कैशोरम् एव मन्मथता मन्मथस्य धर्म इत्य् अर्थः ॥३९॥
विश्वनाथः : मन्मथ-तातस्य मन्मथोत्पादकस्य तस्य कैशोरं माधुर्याद् अपि मधुरं अतिशय-मधुरम् इत्य् अर्थः । यद् वा, किम् अप्य् अनिर्वचनीया मन्मथता मन्मथस्य धर्म इत्य् अर्थः । मम चेतो हरति ॥३९॥
—ओ)०(ओ—
॥ १.३.४० ॥
(९) तद्-वसति-स्थले प्रीतिः, यथा पद्यावल्याम् (१२१)10—
**अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेद-करोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः ।
इत्थं माथुर-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्न्
आनन्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम् ॥
श्री-जीवः, विश्वनाथः **: मधु-पुरीं तद्-उपलक्षितं मथुरा-मण्डलम् इत्य् अर्थः । व्रज-भुवम् इति वा पाठः ॥४०॥
**मुकुन्दः : **मधु-पुरीं तद्-उपलक्षित-मथुरा-मण्डलम् इत्य् अर्थः ॥४०॥
—ओ)०(ओ—
॥ १.३.४१ ॥
अपि च—
**व्यक्तं मसृणितेवान्तर् लक्ष्यते रति-लक्षणम् ।
मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा रतिर् न हि ॥
श्री-जीवः : **तद् एवं तद्-एक-स्पृहत्वम् एव रतेर् लक्षणं मुख्यम् इत्य् उक्तम् । यदि त्व् अन्य-स्पृहा स्यात्, तदा तल्-लक्षणान्तर-सात्त्विकादेः सद्-भावेऽपि रतिर् न मन्तव्येत्य् आह—अपि चेति । च-शब्दोऽत्र तु-शब्दार्थे । व्यक्तम् इति या अन्तर्-मसृणता आर्द्रता सा अन्यत्र व्यक्तं यद् रति-लक्षणं तद् इव मुमुक्षु-प्रभृतीनां यदि लक्ष्यते, तथापि तेषु रतिर् न स्यात् न मन्तव्येत्य् अर्थः । तत्र हेतुः—मुमुक्षु-प्रभृतीनाम् इत्य् एव, न ह्य् अन्यत्र स्पृहा अन्यत्र रतिर् इति युज्यते इति भावः ॥४१॥
**मुकुन्दः : **रुचिभिश् चित्त-मासृण्य-कृद् इत्य् अनेन मसृणता रतेर् लक्षणम् उक्तम् । अन्य-कामिष्व् अपि तद् वीक्ष्यते चेत्, तदा तेष्व् अपि किं रतिर् मन्तव्या ? इत्य् अत्राह—अपि चेति । भक्तानां व्यक्तं यथा स्यात्, तथा सा मसृणता मुमुक्षु-प्रभृतीनां चेत् सैव रति-लक्षणं तदा एषा हि निश्चितं रतिर् न ॥४१॥
विश्वनाथः : तद् एवं तद्-एक-स्पृहत्वम् एव रतेर् मुख्यं चिह्नम् इत्य् उक्तम् । यदि त्व् अन्यस्य स्पृहा स्यात्, तदा तच्-चिह्नान्तरस्य सात्त्विकादेः सद्-भावेऽपि रतिर् न मन्तव्येत्य् आह—अपि चेति । त्व्-अर्थे च-शब्दः । व्यक्तम् इति या अन्तर्-मसृणता आर्द्रता सा अन्यत्र व्यक्तं यद् रति-चिह्नं तद् इव मुमुक्षु-प्रभृतीनां चेद् यदि लक्ष्यते, तद् अपि तेषु रतिर् न स्यात् न मन्तव्येत्य् अर्थः । तत्र हेतुः—मुमुक्षुत्वम् एव, न ह्य् अन्यत्र स्पृहा, नान्यत्र रतिर् युज्यत इति भावः ॥४१॥
—ओ)०(ओ—
**॥ १.३.४२-४३ ॥
विमुक्ताखिल-तर्षैर् या मुक्तिर् अपि विमृग्यते ।
या कृष्णेनातिगोप्याशु भजद्भ्योऽपि न दीयते ॥
सा भुक्ति-मुक्ति-कामत्वाच् छुद्धां भक्तिम् अकुर्वताम् ।
हृदये सम्भवत्य् एषां कथं भागवती रतिः ॥
श्री-जीवः, विश्वनाथः **: हेतुम् एव विशिष्य दर्शयति—विमुक्तेत्य् आदिना । भुक्ति-मुक्ति-कामत्वात् कथं सा रतिः सम्भवेत् तस्माद् एव हेतोः साधन-गतम् अपि दोषम् आह—शुद्धां भक्तिम् अकुर्वताम् इति । शुद्धां ज्ञान-कर्माद्य्-अमिश्राम् ॥४२-४३॥
**मुकुन्दः : **तद् एतत् स-हेतुकम् आह—विमुक्तेति श्लोक-द्वयेन । शुद्धाम् अन्याभिलाषितेत्य् आदि-रूपां किन्तु कर्म-योग-मिश्राम् एव कुर्वताम् ॥४२-४३॥
—ओ)०(ओ—
**॥ १.३.४४-४५ ॥
किन्तु बाल-चमत्कार-करी तच्-चिह्न-वीक्षया ।
अभिज्ञेन सुबोधोऽयं रत्य्-आभासः प्रकीर्तितः ॥
प्रतिबिम्बस् तथा च्छाया रत्य्-आभासो द्विधा मतः ॥
श्री-जीवः, विश्वनाथः : न व्याख्यातम् ।
मुकुन्दः : **तर्हि किम् एतत् तत्राह—किन्त्व् इति । तस्याश् चिह्नं स्वल्पाश्रु-स्वल्प-पुलको वा द्वयं वा ॥४४॥ प्रतिबिम्बो यथा पुरुषावयवानां दर्पणे, छाया यथा तेषां सूर्यातपे । प्रतिबिम्ब एव पूर्णत्वापूर्णत्वाभ्यां द्विधा ज्ञापितः ॥४५॥
—ओ)०(ओ—
॥ १.३.४६ ॥
तत्र प्रतिबिम्बः—
**अश्रमाभीष्ट-निर्वाही रति-लक्षण-लक्षितः ।
भोगापवर्ग-सौख्यांश-व्यञ्जकः प्रतिबिम्बकः ॥
श्री-जीवः : **तस्मन् निरुपाधित्वम् एव रतेर् मुख्य-स्वरूपत्वं सोपाधित्वं त्व् आभासत्वं, तच् च गौण्या वृत्त्या प्रवर्तमानत्वम् इति प्राप्तेः तस्याभासस्य प्रतिबिम्बत्वादि-द्वैविध्यम् उद्दिश्य प्रतिबिम्बं लक्षयति—अश्रमेति । रति-लक्षण-लक्षित इति, बाष्पाद्य्-एक-द्वय-मात्र-दर्शनात्, तद्-रूपत्वेन प्रतीयमानोऽपि रत्य्-आभासः भोगापवर्ग-सौख्यांश-व्यञ्जकश् चेत् तर्हि प्रतिबिम्बक इत्य् अन्वयः । भोगापवर्ग-दातृत्व-लक्षण-भगवद्-गुण-द्वयावलम्बनाद् भोगापवर्ग-लिप्सोपाधित्वं तत्-प्रतिबिम्बम् इत्य् अर्थः । तथाप्य् अश्रमाभीष्ट-निर्वाहीति माहात्म्य-कथनम् ॥४६॥
**मुकुन्दः : **अश्रमेति विशेषण-त्रयात्मकः प्रतिबिम्बाख्यो रत्य्-आभासः ॥४६॥
विश्वनाथः : अश्रमेति । रति-लक्षण-लक्षित इति, बाष्पाद्य्-एक-द्वय-मात्र-दर्शनात्, तद्-रूपत्वेन प्रतीयमानोऽपि रत्य्-आभासः । भोगापवर्ग-सौख्यांश-व्यञ्जकश् चेत् प्रतिबिम्बक इत्य् अन्वयः । तथाप्य् अश्रमाभीष्ट-निर्वाही अश्रमेण मोक्ष-साधन-शम-दमादि-श्रमं विनैवाभीष्टस्य मोक्षस्य निर्वाहक इत्य् अर्थः । एतेन प्रतिबिम्बस्य माहात्म्य-कथनम् इदं ज्ञेयम् ॥४६॥
—ओ)०(ओ—
**॥ १.३.४७-४८ ॥
दैवात् सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणाम् ।
प्रायः प्रसन्न-मनसां भोग-मोक्षादि रागिणाम् ॥
केषाञ्चित् हृदि भावेन्दोः प्रतिबिम्ब उदञ्चति ।
तद्-भक्त-हृन्-नभः-स्थस्य तत्-संसर्ग-प्रभावतः ॥
श्री-जीवः : **तत्र प्रक्रियाम् आह—भोग-मोक्षादि-रागिणां दैवात् कदाचिद् एव, न तु मुहुः सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणां तत्-तद्-अर्थान्तर-लिप्सयैव तद्-अनुकर्तॄणां ततः प्रायः-प्रसन्न-मनसां दोष-दर्शित्वाद्य्-अभावेऽपि तत्-तद्-अर्थान्तर-लिप्सा-शवल-चित्तानां कथञ्चिद् हृदि तादृक्-चित्ते तद्-भक्त-हृन्-नभः-स्थस्य तद्-भक्त-हृद् एव नभः वस्त्व्-अन्तरास्पृश्यत्वात् प्रेमेन्दूदय-योग्यत्वाच् च । तत्-स्थ-भावेन्दोः प्रतिबिम्ब उदञ्चति, न तु स्वरूपं । तत्-तल्-लिप्सा-लक्षणोपाधिं विना तत्-प्रतिबिम्बस्याप्य् अनुदयात् । प्रतिबिम्बश् चायं न स्वरूप-सदृशः । तत्-तद्-एकैक-गुण-मात्रावलम्बनत्वात् तत्-तल्-लिप्सायास् तस्यास्वच्छत्वाच् च । शुद्ध-भाव-लिप्सा तु शुद्धं पूर्णं च तम् आकर्षत्य् एव । विचित्र-गुण-गानावलम्बनवात् तद्-अर्थ-प्रयत्नत्वाच् चेत्य् अर्थः । तर्हि कथं तादृश-भक्त-व्यवधाने सति स नापयाति ? तत्राह—तत्-संसर्गेति । तत्-संसर्ग-प्रभावाच् चिरम् उदञ्चत्य् एव संस्कार-रूपेणेति भावः ॥४७-४८॥
**मुकुन्दः : **तस्योदयो भाग्येनैवेत्य् आह—दैवाद् इति द्वाभ्याम् । प्रायः प्रसन्न-मनसाम् अन्य-चित्तत्वात् सद्-भक्तानां भावाभिलाषा-भावेऽपि तद्-अनुमोदन-मात्रेण प्रायो-विकशित-चित्तानां हृदि तद्-ग्रहणायोग्येऽपि तत्-संसर्गस्य प्रभावतः माहात्म्यम् ॥४७॥
विश्वनाथः : तस्याविर्भावे प्रकारम् आह—दैवाद् इति । सद्-भक्त-सङ्गाद् धेतोः कीर्तनाद्य्-अनुसारिणां केषाञ्चिद् भोग-मोक्षादि-रागिणां हृदि सद्-भक्त-हृदय-रूपाकाश-स्थस्य भाव-रूप-चन्द्रस्य प्रतिबिम्ब उदञ्चति । ननु यथा चन्द्रस्य मेघादि-व्यवधाने जलादौ प्रतिबिम्बो न तिष्ठति । तथाप्य् अत्रापि तादृश-भक्तस्य व्यवधाने सति प्रतिबिम्बः कथं नापयाति—तत्राह तत्-संसर्गेति । तत्-संसर्ग-प्रभावात् संस्कार-रूपेण चिरम् उदञ्चत्य् एवेति भावः ॥४७-४८॥
—ओ)०(ओ—
॥ १.३.४९ ॥
अथ **छाया—
क्षुद्र-कौतूहल-मयी चञ्चला दुःख-हारिणी ।
रतेश् छाया भवेत् किञ्चित् तत्-सादृश्यावलम्बिनी ॥
श्री-जीवः : **अथ छायेति । छाया-शब्देनात्र कान्तिर् उच्यते । छाया सूर्य-प्रिया कान्तिः प्रतिबिम्बम् अनातपः इत्य् अमरस्य नानार्थ-वर्गात् । सा चात्र प्रतिच्छविर् एवोच्यते । तस्याश् च कान्तित्वाद् आभास-शब्दस्य तत्र च प्रसिद्धत्वात् । तद् एतद् अभिप्रेत्य छायां लक्षयति—क्षुद्रेति । क्षुद्र-कौतूहलत्वम्—पारमार्थिकेऽपि कौतूहले तस्मिन् लौकिकत्व-मननात्। तथापि परमार्थ-कौतूहल-मय-रतेस् तत्र यत् किञ्चिच् छविर् आभासत एवेति छायात्वम् अत्रेति भावः । रतेश् छाया तु किञ्चिद् यथा स्यात् तथा तस्या रतेः सादृश्यावलम्बिनी भवेद् इति तु योजना । अतश् छायात्वाच् चञ्चलापि, न तु प्रतिबिम्बवत् स्थिरा । भोगादि-रागवल् लौकिक-कौतुकस्य स्थिरत्वाभावात् । तथापि वस्तु-प्रभावाद् दुःख-हारिणी संसार-तापस्य क्रमाच् छमनीति । न चात्र विशेष-लक्षणे भोगादि-सम्बन्धाभावाद् आभास-गतस्य सामान्य-लक्षणस्याव्याप्तिः स्यात्, कौतुहलानुभवस्य च भोग-विशेषत्वात्, न चात्रभोग-सम्बन्धेन प्रतिबिम्बेऽतिव्याप्तिः स्यात्, क्षुद्रेत्य् अनेनैव ततोऽविच्छिन्नत्वात् ॥४९॥
**मुकुन्दः : **रतेश् छाया तु किञ्चित् तस्याः सादृश्यं किञ्चित् तत्-सादृश्यं तद्-अवलम्बिनी भवेद् इति योजना । यथान्यस्याम् अपि छायायां पुरुषावयवानां किञ्चित् सादृश्यं, अद्भुता बालापि दुःख-हारिणी ॥४९॥
विश्वनाथः : पारमार्थिके भगवत्-कीर्तन-भक्त-नृत्यादि-कौतूहले तस्मिन् जने सामान्य-लौकिकत्व-मननात् क्षुद्र-कौतूहल-मयी रति-च्छाया तु किञ्चिद् यथा स्यात् तथा तस्याः रतेः सादृश्यावलम्बिनी भवेद् इति योजना । अतश् छायात्वाच् चञ्चलापि, न तु प्रतिबिम्बवत् स्थिरा । तथापि दुःख-हारिणी संसार-तापस्य क्रमाच् च शमनी ॥४९॥
—ओ)०(ओ—
**॥ १.३.५०-५१ ॥
हरि-प्रिय-क्रिया-काल-देश-पात्रादि-सङ्गमात् ।
अप्य् आनुषङ्गिकाद् एष क्वचिद् अज्ञेष्व् अपीक्ष्यते ॥
किन्तु भाग्यं विना नासौ भाव-च्छायाप्य् उदञ्चति ।
यद् अभ्युदयतः क्षेमं तत्र स्याद् उत्तरोत्तरम् ॥
श्री-जीवः : **हरि-प्रिय-क्रियादीनां सङ्गमाद् युगपन् मिलनाद् इत्य् अर्थः ॥५०॥
**मुकुन्दः : **हरि-प्रियानां क्रिया-काल-देश-पात्रादीनां सङ्गमात्, हरि-प्रिय-पात्रं भक्तः, कथम्भूतात् आनुसङ्गिकात् उद्देशं विनैव भाग्येनैव लब्धाद् इत्य् अर्थः । क्वचिद् अज्ञेष्व् अपीक्ष्यत इति भुक्ति-मुक्ति-कामिषु केषुचिद् ईक्ष्यत एवेत्य् अर्थः ॥५०॥
विश्वनाथः : हरि-प्रिय-क्रिया-कालादीनाम् आनुषङ्गिक-सङ्गात् क्वचिद् अज्ञेषु मोक्षेच्छा क्षान्त्य्-आदि-रहित-मूढेषु एषा रति-च्छायापीक्ष्यते ॥५०-५१॥
—ओ)०(ओ—
**॥ १.३.५२-५३ ॥
हरि-प्रिय-जनस्यैव प्रसाद-भर-लाभतः ।
भावाभासोऽपि सहसा भावत्वम् उपगच्छति ॥
तस्मिन्न् एवापराधेन भावाभासोऽप्य् अनुत्तमः ।
क्रमेण क्षयम् आप्नोति ख-स्थः पूर्ण-शशी यथा ॥
श्री-जीवः : न व्याख्यातम् ।
मुकुन्दः : **प्रसाद-भराभासतोऽतिप्रसाद-लाभात् । एव-कारः साधनाभिनिवेशादि-व्यावर्तकः । भावाभासः प्रतिबिम्ब-च्छायात्मकः । सहसा शीघ्रम् । तस्मिन्न् एवापराधेन, न तु विषय-भोगेनेत्य् अर्थः ॥५२-५३॥
विश्वनाथः : तस्मिन् हरि-प्रिय-जनेऽपराधेनानुत्तमः श्रेष्ठोऽपि रत्य्-आभासः क्षयं प्राप्नोति ॥५०॥
—ओ)०(ओ—
॥ १.३.५४ ॥
किं च—
**भावोऽप्य् अभावम् आयाति कृष्ण-प्रेष्ठापराधतः ।
आभासतां च शनकैर् न्यून-जातीयताम् अपि ॥
श्री-जीवः : **अभावं द्विविधस्यैवापराधस्याधिक्येन । एवम् आभासतां मध्यमत्वेन न्यून-जातीयताम् अल्पत्वेन तत्र न्यून-जातीयत्वं वक्ष्यमाणानां शान्त्य्-आदि-पञ्च-विधानां रत्य्-आद्य्-अष्ट-विधानां च तारतम्येन ज्ञेयम् ॥५४॥
**मुकुन्दः : **कृष्णस्य स्वयं भगवतः प्रेष्ठाः साधन-सिद्धा भक्ताः । अभावं द्विविदस्यैवापराधस्याधिक्येन । आभासतां मध्यमत्वेन न्यून-जातीयताम् अल्पत्वेन । तत्राभासता सालोक्यादि-चतुर्धा मुक्तिषु कामना । न्यून-जातीयत्वं वक्ष्यमाणानां शान्तादि-पञ्च-विध-रतीनां यथोत्तर-श्रेष्ठानां यथा-पूर्वत्वेन ॥५४॥
विश्वनाथः : कृष्णस्य प्रेष्ठः अतिशय-प्रियस् तस्मिन्न् अपराधतः । यथा रघुनाथस्य पार्षदोऽपि द्विविद-नामा वानरस् तस्य लक्ष्मण-स्थानेऽपराधस्याधिक्येन भावोऽभावं प्राप्तः । अपराधस्य मध्यमत्वेनाभासत्वम् । अल्पत्वे न्यून-जातीयत्वम् । तच् चोज्ज्वल-रतिमान् दास्यं, दास्यवान् शान्त्य्-आदिकं प्राप्नोति ॥५४॥
—ओ)०(ओ—
**॥ १.३.५५ ॥
गाढासङ्गात् सदायाति मुमुक्षौ सुप्रतिष्ठिते ।
आभासताम् असौ किं वा भजनीयेश-भावताम् ॥
श्री-जीवः : **भजनीयो य ईशस् तस्य भावोऽभिमान इव भावोऽभिमानो यस्य तत् तां याति । अहङ्ग्रहोपासनाम् आविशतीत्य् अर्थः ॥५५॥
**मुकुन्दः : **असौ भावः । भजनीयो य ईशस् तस्य भावो ब्रह्मत्वं याति, तद्-अभिमानितां प्राप्नोति ॥५५॥
विश्वनाथः : मुमुक्षौ कथम्भूते सुप्रतिष्ठिते मोक्षस्य सर्वोत्कर्ष-व्य्वस्थापक-ज्ञान-शास्त्रे युक्त्यानुकुल-तर्क-रचना-द्वारा प्रतिष्ठां प्राप्ते भजनीयो य ईशस् तस्य भावोऽभिमानो यस्य तत् तां याति । अहङ्ग्रहोपासनाम् आविशतीत्य् अर्थः ॥५५॥
—ओ)०(ओ—
**॥ १.३.५६ ॥
अत एव क्वचित् तेषु नव्य-भक्तेषु दृश्यते ।
क्षणम् ईश्वर-भावोऽयं नृत्यादौ मुक्ति-पक्षगः ॥
श्री-जीवः, विश्वनाथः : **क्षणम् इत्य् उपलक्षणं क्वचिच् चिरम् अभिव्याप्य । मुक्तिस् त्व् अत्र सारूप्य-सार्ष्टि-सामीप्य-लक्षणा ज्ञेया ॥५६॥
**मुकुन्दः : **।ईश्वरसेव भावश् चेष्टा दृश्यते । आन्तरत्वेन विज्ञैर् एव सर्वता ज्ञातुं शक्योऽपि सर्वैर् एव नृत्यादौ साक्षाद् अनुभूयते । मुक्तिः पञ्च-विधा ॥५६॥
—ओ)०(ओ—
**॥ १.३.५७ ॥
साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते ।
विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं ॥
श्री-जीवः : **साधनेक्षाम् इति । साधनानि पूर्वोक्त-साधनाभिनिवेश-कृष्ण-प्रसाद-भक्त-प्रसाद-लक्षणानि कारणानि तेषाम् ईक्षां शास्त्रादि-द्वारा ज्ञानं विना यस्मिन् भावो रत्य्-आदिर् ईक्ष्यते निश्चीयते तस्मिन् वृत्रादिष्व् इव प्राग्-भवीयं साधनम् ऊह्यम् ॥५७॥
**मुकुन्दः : **सुष्ठु साधनं सुसाधनं उत्पादित-हर्य्-आसक्तिकं श्रवण-कीर्तनादि । विघ्नेन हरि-भक्ताल्पाराधजैहिक-भोग-लालसादि-लक्षणेन स्थगितम् आवृतम् ॥५७॥
विश्वनाथः : साधनेक्षाम् इति । पूर्वोक्त-साधनाभिनिवेश-कृष्ण-प्रसाद-भक्त-प्रसाद-लक्षणानि कारणानि तेषाम् ईक्षां दर्शनं विना यस्मिन् भावो रत्य्-आदिर् वीक्ष्यते तस्मिन् वृत्रासुरादिष्व् इव प्राग्-भवीयं साधनम् ऊह्यम् ॥५७॥
—ओ)०(ओ—
**॥ १.३.५८ ॥
लोकोत्तर-चमत्कार-कारकः सर्व-शक्तिदः ।
यः प्रथीयान् भवेद् भावः स तु कृष्ण-प्रसादजः ॥
श्री-जीवः : **ननु पूर्वं (१.३.८) साधनाभिनिवेशादि-त्रयेणाधुना च प्राग्भवीय-साधनेन भाव-जन्मोक्तं तेषां मध्ये कतमः श्रेष्ठः ? तत्र पूतनादि-दृष्टान्तम् अभिप्रेत्याह—लोकेति ॥५८॥
**मुकुन्दः : **ननु साधनेक्षाया अभावाच् छुकादिवत् कृष्ण-प्रसादजः कथं नानुमेयोऽयं भावस् तत्राह—लोकेति । साधनज एतादृशो नेति भावः ॥५८॥
विश्वनाथः : ननु पूर्वं (१.३.८) साधनाभिनिवेशादि-त्रयेणाधुना च प्राग्भवीय-साधनेन भाव-जन्मोक्तम् । तेषां मध्ये कतमः श्रेष्ठः ? तत्र पूतनादि-दृष्टान्तम् अभिप्रेत्याह—लोकेति ॥५८॥
—ओ)०(ओ—
**॥ १.३.५९ ॥
जने चेज् जात-भावेऽपि वैगुण्यम् इव दृश्यते ।
कार्या तथापि नासूया कृतार्थः सर्वथैव सः ॥
श्री-जीवः, विश्वनाथः **: वैगुण्यं बहिर् दुराचारता, तद् इवेति तेन लिप्तत्वाभावात् । तथा चोक्तं—अपवित्रः पवित्रो वा इत्य् आदि । कृतार्थत्वं चात्र जात-भावत्वाद् एव ॥५९॥
**मुकुन्दः **: कस्यचिज् जात-भावस्यापि निषिद्धाचरणादौ प्रवृत्तिः स्वस्मिन् भाव-वृद्धये श्री-कृष्णेच्छया । इत्य् अभिप्रेत्याह—जने चेद् इति । वैगुण्यम् इव कृष्णेच्छया जातत्वाद् अवास्तवम् इत्य् अर्थः । यतः सर्वथा कृतार्थो भगवत्-कृपा-विषयतया कृत-कृत्य एव । तद् यथा श्री-कृष्णः श्री-बिल्वमङ्गलं चिन्तामणि-वेश्यायाम् आसक्तं विधाय तद्-वचन-मात्रेण सर्वं सन्त्याज्य स्व-लीलैक-निष्ठं कृत्वा गुरुणा लीला-शुक इति ख्यातिं प्रापय्य वृन्दावनागतं स्वं दर्शयामासेति । श्री-भरतस्य मृगासक्त्य्-आत्मकं प्रारब्धं कर्म नष्टम् अप्य् उद्बोध्य पश्चान् मृग-शरीरे ब्राह्मण-शरीरे च परम-वैराग्यम् उत्पाद्य भाव-वृद्धिम् एव चकारेति च ॥५९॥
—ओ)०(ओ—
॥ १.३.६० ॥
यथा नारसिंहे—
**भगवति च हराव् अनन्य-चेता
भृश-मलिनोऽपि विराजते मनुष्यः ।
न हि शश-कलुष-च्छविः कदाचित्
तिमिर-पराभवताम् उपैति चन्द्रः ॥
श्री-जीवः : **भृशं मलिनोऽपि सुदुराचारत्वेन बहिर् दृश्यमानोऽपि विराजते । अन्यापराभूतया अन्तर्गत-भक्त्या शोभत एव । तत्रार्थान्तर-न्यासो—न हीति । लोके च्छाया-मयं लक्ष्म तवाङ्के शश-सञ्ज्ञितम् इति श्री-हरि-वंशोक्तेः । शश-कलुष-च्छवित्वेन बहिर् दृश्यमानोऽपीत्य् अर्थः ॥६०॥
**मुकुन्दः : **भृश-मलिनोऽपि दुराचारतया दृश्यमानोऽपि विराजते भगवत्-कृपास्पदतया भृश-मालिन्यं परिभूय शोभत एव । अर्थान्तर-न्यासोऽत्र पद्ये विशेषेण सामान्य-समानत्वात् । मनुष्य इति जाति-बोधकत्वात् सामान्यम् ॥६०॥
विश्वनाथः : भृशं मलिनोऽपि सुदुराचारत्वेन बहिर् दृश्यमानोऽपि विराजते । अन्यापराभूतयान्तर्गत-भक्त्या शोभत एव । तत्रार्थान्तर-न्यासम् आह—न हीति । लोक-च्छाया-मयं लक्ष्म तवाङ्के शश-सञ्ज्ञितम् इति हरि-वंशोक्तेः । शश-कलुष-च्छवित्वेन बहिर् दृश्यमानोऽपीत्य् अर्थः ॥६०॥
—ओ)०(ओ—
**॥ १.३.६१ ॥
रतिर् अनिश-निसर्गोष्ण-प्रबलतरानन्द-पूर-रूपैव ।
उष्माणम् अपि वमन्ती सुधांशु-कोटेर् अपि स्वाद्वी ॥
श्री-जीवः : **उत्तरोत्तराभिलाष-वृद्धेः अशान्त-स्वभावत्वम् उष्णत्वम् उल्लासात्मकत्वाद् आनन्दत्वं अनिशोऽनादित एव यो निसर्गः स्वभावस् तेन उष्मा चासौ प्रबलतरानन्द-रूपा चेति विग्रहः । उष्माणं तद्-विध-नाना-सञ्चारि-भाव-लक्षणम् ॥६१॥
**मुकुन्दः : **अनिशं निरन्तरं निसर्गेण स्वभावेन उष्णा च सा प्रबलतरानन्द-रूपा चेति विग्रहः । एव-कारोऽयोग-व्यवच्छेदकः । अत उष्माणम् अपीत्य् आदि ॥६१॥
विश्वनाथः : अनिशं निरन्तरं यो निसर्गः स्वभावस् तेन उष्मा च सा प्रबलतरानन्द-रूपा चेति विग्रहः । रतेर् उष्णत्वं नाम उत्तरोत्तराभिलाष-वृद्ध्याशान्त-स्वभावत्वम् । उल्लासकत्वाद् आनन्द-रूपत्वं चेति ज्ञेयम् । उष्माणं तद्-विध-नाना-सञ्चारि-भाव-लक्षणं वमन्ति अभिव्यक्तं करोतीत्य् अर्थः ॥६१॥
—ओ)०(ओ—
इति श्री-श्री भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे भाव-भक्ति-लहरी तृतीया ॥
॥ १.४ ॥
श्री-हरि-भक्ति-रसामृत-सिन्धौ पूर्व-विभागे चतुर्था लहरी
अथ प्रेमा
**॥ १.४.१ ॥
सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥
श्री-जीवः- **अथ भावम् अप्य् उक्त्वा—सम्यग् इति । अत्र सान्द्रात्मकत्वं स्वरूप-लक्षणम् । अन्यद् द्वयं तटस्थ-लक्षणम् ॥१॥
मुकुन्दः- श्री-मुकुन्दाय नमः । अथ प्रेमाणम् आह—सम्यग् इति । स भाव **एव सान्द्रात्मा **सन् प्रेमा । सान्द्रात्मत्वं स्वरूप-लक्षणम् । पूर्वं चित्त-मासृण्य-कृत् [१.३.१], अत्र तत्-सम्यक्त्वम् । पूर्वं रुचिभिर्, अत्र ममत्वेनेति ॥१॥
विश्वनाथः- अथ भावम् अप्य् उक्त्वा प्रेमाणम् आह—सम्यग् इति । सम्यङ् मसृणितं भावस्य प्रथम-दशापेक्षया अतिशयार्द्रं स्वान्तं चित्तं यस्मिन् तथा-भूतो यः सान्द्रात्मा निविड-स्वरूपः प्रथम-दशापेक्षया परमानन्दोत्कर्षं प्राप्त इति यावत् । अत एव कृष्णेऽतिशय-ममत्वाङ्कितो भावः स एव प्रेमा निगद्यते ।
अत्रेयम् आशङ्का—ननु भाव एव चेद् उपादानः सन् साङ्ख्य-मतानुसारेण प्रेमाणम् उत्पाद्य स्वयं प्रेमात्मिको भवति, तदा तन्-मते उपादान-कारणम् एव पूर्वावस्थां परित्यज्य कार्य-रूपेण परिणमति, न तु कारणातिरिक्तः स्वतन्त्रः कार्य-पदार्थोऽस्ति । यथा गुड एव कम् अपि विकारं प्राप्य पूर्व-रूपं परित्यज्य च खण्डो भवति, जाते च खण्डे तस्माद् गुडस्य पृथक् स्थितिर् नास्ति । एवं खण्ड एव सिता भवति, सिता एव सितोपला भवति, तत्र सितोपला-दशायां गुड-खण्ड-सितानां पृथक् स्थितिर् नास्ति । तद्वद् अत्रापि भावः पूर्वावस्थां परित्यज्य प्रेम-रूपो भवतु, एवं प्रेम्णः सकाशाद् भावस्य पृथक्-स्थितिर् मास्तु, तथाग्रे वक्ष्यमाणं प्रेम्ण एव स्नेह-रूपत्वम् एव स्नेहादीनां रागादि-रूपत्वं च, तत्रापि स्नेहादिभ्यः सकाशात् प्रेमादि-स्थायि-भावानां पृथक् स्थितिर् मास्तु । एवं सति श्री-राधिका-प्रभृतिषु चरम-स्थायि-रूप-महाभाव एव तिष्ठतु, न तु रति-प्रेम-स्नेह-मान-रागानुरागादयः ।
मैवम् । श्री-कृष्णस्य ह्लादिनी-शक्तेः सार-वृत्ति-रूपाणां रति-प्रेम-स्नेहादीनां श्री-कृष्णस्यैवाचिन्त्य-शक्तित्वात् पूर्वावस्थाम् अपरित्यज्यैव भावः प्रेम-रूपो भवति । पूर्वावस्थाया अत्यागाद् एव प्रेम्णः सकाशाद् भावस्य पृथक्-स्थितिर् अपि ज्ञेया । एवं-रीत्या स्नेहादिभ्यः सकाशात् प्रेमादीनां पृथक्-स्थितिर् अप्य् ऊह्या । तत्र दृष्टान्तो, यथा—श्री-कृष्णस्य बाल्य-देह एव कम् अपि माधुर्याद्य्-उत्कर्षं प्राप्य बाल्यावस्था-परित्यागं विनैव पौगण्ड-देहो भवति । एवं पौगण्ड-देह एव पूर्वस्माद् अप्य् उत्कर्ष-विशेषं प्राप्य कैशोर-देहो भवति, न तु प्राकृत-मनुष्य-शरीरादिर् इव बाल्यावस्थां परित्यज्य पौगण्डावस्थां प्राप्नोति । श्री-कृष्णस्य बाल्य-पौगण्ड-कैशोराणाम् एवं बाल्याद् उचित-लीलानां च सर्वेषां नित्यत्वात् । किन्तु पौगण्डस्य प्राकट्ये बाल्य-देहोऽत्रान्तर्धाय यत्र यत्र ब्रह्माण्डे प्रकट-लीलायां बाल्य-लीलाया आरम्भस् तत्रैव प्रकटीभवति । एवम् अस्यैव वृन्दावनस्याप्रकट-प्रकाशे यत्र बाल्य-लीलाया आरम्भस् तत्रापि बाल्य-देहस्य प्राकट्यं ज्ञेयम् । ब्रह्मण आगामिनि कल्पे वैवस्वत-मन्वन्तरे पुनर् अप्य् अत्रैव वृन्दावनस्य प्रकट-प्रकाशे बाल्य-देहः प्रकटीभविष्यतीति । यथा—एतद्-द्वीपस्थः सूर्योऽत्रान्तर्धाय सन्ध्या-काले द्वीपान्तरं गच्छति, पुनर् अपि याम-चतुष्टयानन्तरम् एतद् द्वीपे प्रकटीभविष्यति । लीलानां बाल्याद्य्-अवस्थानां च नित्यत्वं श्री-भागवत-टीकायां महानुभावैर् विस्तार्य लिखितम् । विशेष-जिज्ञासा चेत्, सा टीका द्रष्टव्या ।
प्रकृते तु रति-प्रेमादि-स्थायि-भाववतां भक्तानां मध्ये यस्य भक्तस्य स्थायि-भावादेः स्व-स्व-कारणं प्राप्योदयस् तदा तस्यैवाभिव्यक्तिर् अन्येषां तु भावानाम् अनभिव्यक्तत्वेन तस्मिन्न् एव भक्ते स्थितिर् ज्ञेया । यथा काम-क्रोधादिमतां सांसारिकाणां कामादीनां मध्ये एकतरस्योदय-कालेऽन्येषां संस्कार-रूपेण स्थितिः, तद्वद् एवेति ज्ञेयम् ॥१॥
सरस्वती-ठाकुरः : सम्यङ्-मसृणित-स्वान्तः सुष्ठु मसृणितः आर्द्रीकृतः स्वान्तः यस्मात् सः, ममत्वातिशयाङ्कितः ममत्वातिशय-युक्तः इति तटस्थ-लक्षण-द्वय-विशिष्टो यः सान्द्रात्मा घनीभूत-स्वरूपः इति स्वरूप-लक्षण-युक्तो भावः स एव बुधैः प्रेमा निगद्यते कथ्यते ॥१॥ (चैतन्य-चरितामृत २.२३.७)
—ओ)०(ओ—
॥ १.४.२ ॥
यथा पञ्चरात्रे—
**अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥
श्री-जीवः- **अत्र स्व-मतम् उदाहरणम् एवं-व्रत [भा।पु। ११.२.३८] इत्य्-आदि-वक्ष्यमाण-प्रकारम् एव ज्ञेयम् । मतान्तरम् अपि योजनान्तरेण सङ्गमयितुम् आह—यथा इति । भक्तिर् अत्र भावः ॥२॥
मुकुन्दः- विष्णौ भक्तिः सान्द्र-भाव-लक्षणा, यत्र भक्तौ अनन्य-ममता इति सम्यङ् मसृणित-स्वान्तत्वम् ॥३॥
विश्वनाथः- नारद-पञ्चरात्र-पद्यस्य योजनाम् आह—भक्तिर् इति । भक्तिर् अत्र भावः । देह-गेहादि-निष्ठ-ममत्वेन वर्जिता, । अथ च विष्णौ सङ्गता या ममता, तद्-रूपा भक्तिर् भीष्म-प्रमुखैः प्रेम उच्यते इत्य् अर्थः । भाव इति भावस्यानुभाव-रूप-श्रवण-कीर्तनाद्य्-अन्तरङ्गाणाम् अङ्गानाम् अनुसेवया परमोत्कर्षम् आरूढा रतिर् एव भावोत्थः प्रेमा परिकीर्तिता ॥२-५॥
सरस्वती-ठाकुरः : विष्णौ भगवति प्रेम-सङ्गता प्रेम-युक्ता अनन्य-ममता ऐकान्तिकी सम्बन्ध-मयी ममता प्रीतिः इति भीष्म-प्रह्लादोद्धव-नारदैः भक्तैः सा भक्तिः भाव उच्यते ॥२॥ (चैतन्य-चरितामृत २.२३.८)
—ओ)०(ओ—
॥ १.४.३-४ ॥
भक्तिः प्रेमोच्यते भीष्म-मुख्यैर् यत्र तु सङ्गता ।
ममतान्य-ममत्वेन वर्जितेत्य् अत्र योजना ॥
भावोत्थोऽतिप्रसादोत्थः श्री-हरेर् इति स द्विधा ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ १.४.५ ॥
तत्र **भावोत्थः—
भाव एवान्तरङ्गाणाम् अङ्गानाम् अनुसेवया ।
आरूढः परमोत्कर्षम् भावोत्थः परिकीर्तितः ॥
श्री-जीवः, मुकुन्दः : **वैध्या निवृत्तो वैधः । स चासौ भावश् चेति तद्-उत्थः ॥५॥
विश्वनाथः- न व्याख्यातम्।
—ओ)०(ओ—
॥ १.४.६ ॥
तत्र वैध-भावोत्थो, यथा एकादशे (११.२.४०)—
**एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्मादवन् नृत्यति लोक-बाह्यः ॥
श्री-जीवः- **अत्रैवं-व्रत इति वैधी-सम्बन्धात् तन्-निवृत्तत्वं, प्रियेति भावोत्थत्वम् । स्वेति ममता-युक्तत्वम् । जातानुराग इति तद्-अतिशयित्वं च ज्ञेयम् ॥६॥
मुकुन्दः- अत्रैवं-व्रत इति वैध-भावत्वम् । स्व-प्रिय-नामेति अन्तरङ्गाङ्गानुसेवनम् । जातानुराग इति भावोत्कर्ष-प्राप्त्या प्रेम्णा भावोत्थत्वम् । उच्चैर् द्रुत-चित्तत्वं सम्यङ्-मसृणित-स्वान्तत्वम् । हसतीत्य् आदि ममतातिशयाङ्कितत्वम् ॥६॥
विश्वनाथः- एवं-व्रत इति । एवं पूर्व-वचनोक्त-प्रकारेण साधने व्रत इत्य् अर्थः । अनेन वैधी-सम्बन्धात् वैधी-निष्पाद्यत्वम् अस्योक्तम् । प्रिय-नाम-कीर्त्येत्य् अत्र कृष्णस्य प्रियत्व-कथनेन तन्-नाम-कीर्तनस्य भावोत्थत्वम् उक्तम् । स्वेति—प्रिय-निष्ठ-स्वीयत्व-कथनेन ममता-युक्तत्वम् उक्तम् । जातानुराग इति ममत्वस्यातिशयित्वम् उक्तम् । रौति रोदनातिरिक्तोच्च-शब्दं करोति । लोक-बाह्यः लोकातीतः ॥६॥
—ओ)०(ओ—
॥ १.४.७-८ ॥
रागानुगीय-भावोत्थो, यथा पाद्मे—
**न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।
तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर् वरानना ॥
श्री-कृष्ण-गाथां गायन्ती रोमाञ्चोद्भेद-लक्षणा ।
अस्मिन् मन्वन्तरे स्निग्धा श्री-कृष्ण-प्रिय-वर्तया ॥
श्री-जीवः- **ताम् एव मूर्तिं ध्यायन्तीति तस्यां मूर्तौ पूर्वं भावो जात आसीद् इति सूचितम् । कञ्चिद् अन्यं पतिं न कामयेत् । न कामयेतेति गाढ-ममतया प्रेम दर्शितम् । स्निग्धा बभूवेति शेषः ॥७-८॥
मुकुन्दः- न पतिं कामयेत् ब्रह्मचर्य-स्थिता सदेति—इन्द्रियार्थानां स्वयम् अरोचकत्वेन भावस्य सूचनम् । तस्य रागानुगीयत्वं मूर्ति-दर्शन-जातत्वात् । मूर्तिं ध्यायन्तीति श्री-कृष्ण-गाथां गायन्तीति चान्तरङ्गानुसेवनम् । पूर्वं यत्र जातो भावस् ताम् एवेत्य् अनेन ममत्वातिशयाङ्कितत्वम्, रोमाञ्चोद्भेद-लक्षणेति । सम्यङ्-मसृणित-स्वान्तत्वं श्री-कृष्ण-प्रिय-वार्तया स्निग्धा प्रेमवती बभूवेत्य् अर्थः ॥७-८॥
विश्वनाथः- ताम् एव मूर्तिं ध्यायन्तीत्य् अनेन तस्यां मूर्तौ पूर्व-भावो जात आसीद् इति सूचितम् । कञ्चिद् अन्यं पतिं न कामयेत् । न कामयेतेति गाढ-ममतया प्रेम दर्शितम् । रोमाञ्चोद्भेद अतिशय इत्य् अर्थः स एव लक्षणं चिह्नं यस्याः । स्निग्धा स्नेहवती बभूवेति शेषः ॥७-८॥
—ओ)०(ओ—
॥ १.४.९ ॥
अथ **हरेर् अतिप्रसादोत्थः—
हरेर् अतिप्रसादोऽयं सङ्ग-दानादिर् आत्मनः ॥
श्री-जीवः, मुकुन्दः : **सङ्ग-दानम् आदिर् यस्य सः ॥९॥
विश्वनाथः- हरेर् इति । आत्मनः सङ्ग-दानादिर् एव हरेर् अतिप्रसादस्य कार्यत्वात् अतिप्रसाद उच्यते ॥९॥
—ओ)०(ओ—
॥ १.४.१० ॥
यथा एकादशे (११.१२.७)—
ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसः मत्11-सङ्गान् माम् उपागताः ॥१०॥
श्री-जीवः- त इति । पूर्वोक्तेषु ते केचिद् बलि-प्रभृतयः । ते च मत्-प्राप्त्य्-अर्थं न अधीताः श्रुति-गणा यैः । तथा अध्ययनार्थं नोपासिता महत्तमाः तत्-पारगा यैः । मत्-सङ्गाद् इति । तेषां सतां मध्ये प्रधानस्य मम सङ्गात् प्रेमाणं प्राप्य माम् उपागता इत्य् अर्थः । किन्तु श्री-भगवतः स्वतन्त्रत्वेऽपि सतां मध्ये स्वयं गणनं विनय-स्वभावाद् एव कृतम् इति श्री-भगवत्-प्रसादोत्थ एवायं ज्ञेयः ॥१०॥
मुकुन्दः- ते वृष-पर्वादि-यज्ञ-पत्न्यस् ता मत्-सङ्गात् प्रेमाणं प्राप्य माम् उपागता इत्य् अर्थः । पूर्वोक्तात्वाष्ट्र-कायाधवादयस् तु मत्-सङ्गाद् एव ॥१०॥
**विश्वनाथः- **ते नेति । पूर्वोक्तेषु मध्ये केचिद् बलि-प्रभृतय इत्य् अर्थः । ते च मत्-प्राप्त्य्-अर्थं नाधीताः श्रुति-गणा यैः । तथा अध्ययनार्थं नोपासिता महत्तमा वेद-पारगा यैः । मत्-सङ्गाद् इति । तेषां सतां मध्ये प्रधानस्य मम सङ्गात् प्रेमाणं प्राप्य माम् उपागता इत्य् अर्थः । किन्तु भगवतः स्वतन्त्रत्वेऽपि सतां मध्ये स्वयं गणनं विनय-स्वभावाद् एव कृतम् इति श्री-भगवत्-प्रसादोत्थ एवायं ज्ञेयः ॥१०॥
—ओ)०(ओ—
॥ १.४.११ ॥
माहात्म्य-ज्ञान-युक्तश् च केवलश् चेति स द्विधा ॥
श्री-जीवः, विश्वनाथः : पुनश् च तस्यैव प्रेम्णो भेद-द्वयम् आह—माहात्म्येति । केवलो माधुर्य-मात्र-ज्ञानम् उक्त इत्य् अर्थः ॥११॥
मुकुन्दः- रूप-गुण-लीलादीनां माधुर्य-मात्रानुभव-हेतुत्वं केवलत्वम् ॥११॥
—ओ)०(ओ—
॥ १.४.१२ ॥
अथ आद्यो, यथा पञ्चरात्रे—
माहात्म्य-ज्ञान-युक्तस् तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्यादिनान्यथा ॥
श्री-जीवः- न व्याख्यातम् ।
मुकुन्दः : स्नेहः सान्द्रात्मा भावः । भक्तिः प्रेम-रूपा । सुदृढ इति ममतया बद्ध-मूलः । सर्वतोऽधिकश् चित्तस्य सम्यङ्-मासृण्य-हेतुत्वात् सर्व-श्रेयोभ्यः श्रेष्ठः । तया प्रेम-स्वरूपया भक्त्या । सार्ष्ठ्यादि-चतुर्धा प्रेम-सेवोत्तरा मुक्तिः । नान्यथा सुखैश्वरोत्तरा सा न ॥१२॥
**विश्वनाथः : **अत्र पाञ्चरात्रिक-पद्य-द्वयं माहात्म्य-ज्ञान-सद्-भावासद्-भावांश एव ज्ञेयम् । माहात्म्य-ज्ञानं च ईश्वरोऽयम् इति ज्ञान-जन्यः सख्यादि-भाव-सङ्कोचक-सम्भ्रम-विशेषः । अत एव रागानुगानम् ऐश्वर्य-ज्ञान-सत्त्वेऽपि तन् न सख्यादि-भाव-सङ्कोचकम् इति ज्ञेयम् । माहात्म्य-ज्ञान-युक्तोऽथ च सर्वतोऽधिक-स्नेहो भक्तिर् उच्यते । तया भक्त्या ॥१२॥
—ओ)०(ओ—
॥ १.४.१३ ॥
केवलो, यथा तत्रैव—
मनो-गतिर् अविच्छिन्ना हरौ प्रेम-परिप्लुता ।
अभिसन्धि-विनिर्मुक्ता भक्तिर् विष्णु-वशङ्करी ॥ इति ।
श्री-जीवः- न व्याख्यातम् ।
मुकुन्दः : भक्तिः सान्द्रात्म-भावः । विष्णु-वशङ्करीति प्रेम, हरौ मनो-गतिर् अविच्छिन्नेति ममतातिशयाङ्कितत्वम् । प्रेम-परिप्लुतेति—सम्यङ्-मसृणित-स्वान्तत्वम् । अभिसन्धिर् ऐश्वर्यानुसन्धानं तेन विमुक्तेति केवलत्वम् ॥१३॥
विश्वनाथः : तत्र नारद-पञ्चरात्रे । हरौ अविच्छिन्ना मनोगति-रूपा या भक्तिः । सा विष्नू-वशङ्करीत्य् अर्थः । अभिसन्धि-विनिर्मुक्ता फलाभिसन्धि-रहिता ॥१३॥
—ओ)०(ओ—
॥ १.४.१४ ॥
महिम-ज्ञान-युक्तः स्याद् विधि-मार्गानुसारिणाम् ।
रागानुगाश्रितानां तु प्रायशः केवलो भवेत् ॥
श्री-जीवः- प्रायश इति । वैध्य्-अंश-युक्तत्वेऽपि न केवलः स्याद् इत्य् अर्थः ॥१४॥
मुकुन्दः : वेद-र्चानां गोपीत्व-प्राप्तौ महिम-ज्ञानस्यापि श्रवणं प्रायश इत्य् उक्तम्॥१४॥
विश्वनाथः : प्रायश इति । रागानुगतस्यैवार्चन-भक्तौ वैध-भक्त्य्-उदित-रुक्मिण्य्-आदि-साहित्येन भावना-युक्तत्वे सति न केवलः स्याद् इत्य् अर्थः ॥१४॥
—ओ)०(ओ—
॥ १.४.१५-१६ ॥
आदौ श्रद्धा ततः साधुसङ्गोऽथ भजनक्रिया ।
ततोऽनर्थनिवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥
तथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्णः प्रादुर्भावः भवेत् क्रमः ॥
श्री-जीवः- तत्र बहुष्व् अपि क्रमेषु सत्सु प्रायिकम् एकं क्रमम् आह आदाव् इति द्वयेन । आदौ प्रथमे साधु-सङ्ग-शास्त्र-श्रवण-द्वारा श्रद्धा तद्-अर्थ-विश्वासः । ततः प्रथमानन्तरं द्वितीयः साधु-सङ्गो भजन-रीति-शिक्षा-निबन्धनः । निष्ठा तत्राविक्षेपेण सातत्यम् । रुचिर् अभिलाषः । किन्तु बुद्धि-पूर्विकेयम् । आसक्तिस् तु स्वारसिकी ॥१५॥
मुकुन्दः : आदौ प्रथमं केनापि भाग्योदयेन श्री-कृष्णस्य भक्तौ श्रद्धा । साधु-सङ्ग उद्यमेन साधुभिर् मिलनम् । भजन-क्रिया भजनस्य कारणम् । अनर्थस्य अप्रारब्ध-प्रारब्ध-रूपस्य पापस्य निवृत्तिर् नाशः । निष्ठा आग्रहेण पुनः पुनर् भजन-कारणम् । रुचिः पाप-बीज-नाशाद् भक्तौ माधुर्यानुभवः । आसक्तिर् अविद्या-निवृत्तेर् हरौ मनोऽभिनिवेशः ॥१५-१६॥
**विश्वनाथः : **अत्र बहुष्व् अपि क्रमेषु सत्सु प्रायिकम् एकं क्रमम् आह आदाव् इति द्वयेन । आदौ प्रथमे साधु-सङ्गे शास्त्र-श्रवण-द्वारा श्रद्धा तद्-अर्थ-विश्वासः । ततः श्रद्धानन्तरं द्वितीयः साधु-सङ्गो भजन-रीति-शिक्षार्थम् । निष्ठा भजने अविक्षेपेण सातत्यम् । रुचिर् अभिलाषः । किन्तु बुद्धि-पूर्विकेयम् । आसक्तिस् तु स्वारसिकी स्वाभाविकीत्य् अर्थः । एतेन निष्ठासक्त्योर् भेदो ज्ञेयः ॥१५-१६॥
—ओ)०(ओ—
॥ १.४.१७ ॥
धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि ।
अन्तर्वाणिभिर् अप्य् अस्य मुद्रा सुष्ठु सुदुर्गमा ॥
श्री-जीवः- अन्तर्-वाणिभिः शास्त्र-विद्भिः । मुद्रा परिपाटी ॥१७॥
**मुकुन्दः : **अन्तर्-वाणिभिः शास्त्र-ज्ञैः मुद्रा ज्ञान-प्रकारः ॥१७॥
**विश्वनाथः : **यस्य धन्यस्य अयं नव-प्रेमा चेतसि उन्मीलति । अन्तर्-वाणीभिः शास्त्र-विद्भिर् अपि अस्य भक्तस्य मुद्रा परिपाटी सुदुर्गमा ॥१७॥
**सरस्वती : **यस्य धन्यस्य सफलार्थस्य भक्तजनस्य चेतसि चित्ते नव-प्रेमा उन्मीलति प्रकटो भवत्, तस्य मुद्रा चेष्टा अन्तर्वाणीभिः शास्त्रविद्भिः अपि सुष्ठु सुदुर्गमा बोद्धुम् अतीवाशक्या ॥१७॥ (चैतन्य-चरितामृत २.२३.३६)
—ओ)०(ओ—
॥ १.४.१८ ॥
अत एव श्री-नारद-पञ्चरात्रे, यथा—
भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः ।
दुखं चेति महेशानि परमानन्द आप्लुतः ॥
श्री-जीवः- सुदुर्गमत्वम् एव दर्शयति—अत एवेति । अयं भावः—शास्त्रविद्भिर् हि सुख-प्राप्ति-दुःख-हानी एव पुरुषार्थत्वेन निर्णीते । ते च तादृश-भक्तानां बहिर् एव तैर् ज्ञायेते । तेषाम् अन्तस् तु सुख-दुःखे भगवत्-प्राप्त्य्-अप्राप्ति-कृते एव । यथोक्तं—नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं [भा।पु। ३.१५.४८] इत्य् आदि, कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् चेतो ‘लिवद् यदि नु ते पद यो रमेत [भा।पु। ३.१५.४९] इत्य् आदि च॥१८॥
**मुकुन्दः : **अत एव बाह्य-चेष्टा लोकातीतेत्य् आह—अत एवेति । शास्त्रविद्भिर् अयम् अत्र निष्ठ इति चेष्टयैव ज्ञायते सा चास्य तर्कानुकूला न, अतो ज्ञानाभाव इत्य् अर्थः ॥१८॥
**विश्वनाथः : **सुदुर्गमत्वम् एव दर्शयति—अत एवएति । हे महेशानि दुर्गे ! अयं भावः—शास्त्रविद्भिर् हि सुख-प्राप्ति-दुःख-हानी एव पुरुषार्थत्वेन निर्णीयेते । तादृश-भक्तानां ते सुख-दुःखे शास्त्र-विद्भिर् बहिर् एव ज्ञायेते, नान्तः । तेषाम् अन्तस् तु सुख-दुःखे भगवत्-प्राप्त्य्-अप्राप्ति-कृते एव । यथा—नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं [भा।पु। ३.१५.४८] इत्य् आदि ध्रुवोक्तौ भगवत्-प्रापक-भक्त्य्-अभावेनात्यन्तिकस्य मोक्षस्याप्य् अनादरात् । एवं, कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् चेतो ‘लिवद् यदि नु ते पदयो रमेत [भा।पु। ३.१५.४९] इत्य् आदि सनकादीनाम् उक्तौ निरयेषु नारकीषु योनिषु मम भवो जन्म स्याद् इत्य् अनेन यत्र भक्तिः सम्भवति, तस्यां नारकी-योनाव् अपि जन्म समीचीनम् इति तेषाम् अभिप्रायाद् इति ॥१८॥
—ओ)०(ओ—
॥ १.४.१९ ॥
प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि ।
अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥
न कतमेनापि व्याख्यातम् ।
—ओ)०(ओ—
॥ १.४.२०-२१ ॥
श्रीमत्-प्रभुपदाम्भोजैः सर्वा भागवतामृते ।
व्यक्तीकृतास्ति गूढापि भक्ति-सिद्धान्त-माधुरी ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा प्रथम-विभागे सुधाम्बु-निधेः ॥
श्री-जीवः : गोपालेति श्लिष्टम् इदम् । तत्र कृष्ण-पक्षे रघुनाथ-भावस्य रघुनाथत्वस्य विस्तारी रघुनाथादीनाम् अप्य् अवतारीत्य् अर्थः । तत्र तद्-उपासकानाम् अभीष्ट-पूरणायेति भावः । अहो कृपा-माहात्म्यम् इति विवक्षितम् । पक्षे स्व-वर्गस्य नाम-चतुष्टयम् उद्दिष्टम्। तत्र द्वितीयं श्रीमद्-ग्रन्थ-कृच्-चरणानां नाम, प्रथम-तृतीये तन्-मित्रयोः। चतुर्थं च श्रीमत्-तद्-अग्रज-चरणानां भावः श्री-कृष्ण-प्रेमा ॥२०-२१॥
**मुकुन्दः : **गोपालेति श्लिष्टम् इदम् । सनातनात्मा श्री-कृष्णो गोपाल-रूपेण शोभां कान्तिं दधद् अपि रघुनाथस्य भावः समुद्र-बन्धनादि-क्रिया तस्य विस्तारी । पक्षे सनातनात्मा स्वाग्रजः । गोपालो गोपाल-भट्टो रूपो ग्रन्थकृत् तयोः शोभाम् इच्छां दधत् पुष्णन्न् अपि बिभर्ति भृति-पोषयोः दधाति च इत्य् आख्यात-चन्द्रिकायाम् । रघुनाथस्य तन्-नाम्नोऽस्य बन्धोर् भावः श्री-कृष्ण-प्रेम तस्य विस्तारी वर्धकः । शोभा कान्तीच्छयोर् उक्ता इति विश्वः ॥२०-२१॥
**विश्वनाथः : **गोपालेति श्लिष्टम् इदं पद्यम् । तत्र श्री-कृष्ण-पक्षे—सनातनात्मा श्री-कृष्णः भक्ति-सुधाम्बोधं प्रथम-विभागे तुष्यतु । कीदृशः ? गोपालक-स्वरूपेण शोभां दधत् । रघुनाथस्य भावः सेतु-बन्धादि-लीला तं काम्य-वनादौ विस्तारी । सनातन-नामा आत्मा देहो यस्येति व्युत्पत्त्या श्री-सनातन-गोस्वामि-पक्षे गोपाल-भट्ट-गोस्वामी मल्-लक्षण-रूप-नामा चानयोः शोभां दधत् पुष्णन् रघुनाथ-दासस्य भावः प्रेमा तस्य विस्तारी॥२०-२१॥
—ओ)०(ओ—
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पूर्व-विभागे प्रेम-भक्ति-लहरी-चतुर्थी
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
रसोपयोगि-स्थायि-भावोपपादनो नाम
पूर्व-विभागः समाप्तः
—ओ)०(ओ—
-
साधन (अ,ब्) ↩︎
-
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ ↩︎
-
प्रीति-सन्दर्भ १०८। ↩︎
- ↩︎
-
Quoted by Maṇavāḷamamuni in Śrī Vacana Bhūṣaṇam 15.278, and by Vedānta Deśika in Rahasya Traya Sāram chapter 17. A similar verse is found in Lakṣmī tantra. ↩︎
-
Pअद्यावली, ५३। Aनोन्य्मोउस्। ↩︎
-
माधव-महोत्सवे (३.११६) तु चन्द्रकान्ते श्री-राधा-विभूतित्वम् उक्तम्, यथा—
↩︎राधे पुरा निज-विभूतिज-चन्द्रकान्ति-सञ्ज्ञे स-माधवम् ऋचं परिशिष्ट-गीते । कृष्णो निशम्य तद् अतीव निज-प्रतीक्ष्यं, निश्वस्य स-स्मितम् अथावदद् एवम् अस्तु ॥
-
In parentheses in Haridas Das’ edition. ↩︎
-
sa-garbha in most editions except Haridas Babaji’s ↩︎
-
Not found in my edition. ↩︎
-
आकरे प्रायशः सत्-सङ्गाद् इति पाठो दृष्टः । ↩︎