[[औचित्यविचारचर्चा Source: EB]]
[
औचित्यविचारचर्चा
व्याख्याकारः
डॉ. रमाशङ्कर त्रिपाठी
कृतारिवञ्चने दृष्टिर्येनाञ्जनमलीमसा ।
अच्युताय नमस्तस्मै परमौचित्यकारिणे ॥ 1 ॥
युग्मकम्__
कृत्वापि काव्यालङकारां क्षेमेन्द्रः कविकर्णिकाम् ।
तत्कलङंक विवेकञ्च विधाय विबुधप्रियम् ॥ 2 ॥
औचित्यस्य चमत्कारकारिणचारुणश्चारुचवणे ।
रसजोविस्य चमत्कारकारिणश्चारुचर्वणे ।
रसजोवितभूतस्य विचारं कुरुतेऽधुना ॥ 3 ॥
काव्यस्यालमलङकारैः किं मिथ्यागणितैर्गुणैः ।
यस्य जोवितमौचित्यं विचिन्तयापि न वृश्यते ॥ 4 ॥
अलङकारास्त्वलङकारा गुणा एव गुणाः सदा ।
औचित्यं रस-सिद्धस्य स्थिरं काव्यस्य जोवितम् ॥ 5 ॥
नरस्परोपकारकरुचिरशब्दार्थ रूपस्य काव्यस्योपमोत्प्रेक्षादयो ये
प्रचुरालङकारास्ते कटककुण्डलकेयूरहारादिवदलङकारा एव, बाह्मशोभा-
हेतुत्वात् । येऽपि काव्यगुणः केचन तल्लक्षणविचणैः समाम्नाता-
स्?तेऽपि श्रूतसत्यशेलादिवद् गुणा एव, आहार्यत्वत् । औचित्यं त्वग्रे
वक्ष्यमाणलक्षणं स्थिरमविनश्वरं जीवितं काव्यस्य, तेन विनास्य
गुणालङकारयुक्तस्यापि निर्जीवत्वात् ॥ रसेन श्रृङगारा?दिना सिद्धस्य
प्रसिद्धस्य काव्यस्य धातुवादरससिद्धस्येव तज्जीवितं स्थिरमित्यर्थः ।
उक्तार्थस्यैव विशेषमाह__
उचितस्थानविन्यासदलङ्कृतिरलङ्कृतिः ।
औचित्यादच्युता नित्यं भवन्तयेव गुणा गुणाः ॥ 6 ॥
अलङ्कृतिरुचितस्थानविन्यासदलङकर्तु क्षमा भवति, अन्यथा
त्वलड्.कृतिव्यपदेशमेव न लभते । तद्वदौचित्यादपरिच्युता गुणा गुण-
तामासदयन्ति अन्यथा पुनरगुणा एव ।
यदाह__
कण्ठे मेखलया नितम्बया नितम्बफलके तारेण हारेण वा,
पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा ।
शैर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता-
मौचित्येन विना रुचिं प्रतुते नालङ्कृतिर्नो गुणाः ॥
किं तदौचित्यमित्याह__
अचितं प्राहुराचार्याः सदृशं किल यस्य यत् ॥
अचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ 7 ॥
यत्किल यस्यानुरूपं तदुचितमुच्यते, तस्य भावमौचित्यं कथयन्ति ।
अधुना सकलकाव्यशरोरजीवातुभूतस्यौचित्यस्य प्राधान्येनोप-
लभ्यां स्थितिं दर्श यितुमाह__
पदे वाक्ये प्रबन्धार्थे गुणेऽलङकरणे रसे ।
क्रियायां कारके लिङेग वचने च विशेषणे ॥ 8 ॥
उपसर्गे निपाते च काले देशे कुले व्रते ॥ तत्त्वे सत्त्वेऽग्रहे ॥ 9 ॥
प्रतिभायामवस्थायां चिवारे नाम्नयथाशिषि ।
काव्यस्याङगेषु च प्राहुरौचित्यं व्यापि जीवितम् ॥ 10 ॥
एतेषु पदप्रभृतिषु स्थानेषु मर्मस्वव काव्यस्य सकलशरीरव्यापि
जीवितमौचित्यं स्फुटत्वेन स्फुरदवभासते ॥
तेषूदाहरणानि ऋमेण दर्शयितुमाह__
तिलकं बिभ्रती सूक्तिर्भात्येकमुचितं पदम् ।
चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ॥ 11 ॥
एकमेवो?? चितं पदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपर-
भागाशे भतिशयेन रुचिरतामावहति ।
यथा परिमलस्य__
मग्नानि द्विषतां कुलानि समरे त्वत्खड्गधाराकुले,
नाथास्मिन्निति वन्दिवाचि बहुशो देव श्रुतायां पुरा ।
मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः,
कान्तारे चकिता विभुञ्चति मुहुः पत्युः कृपाणे दृशौ ॥
अत्र मुग्धापदेनौचित्यचमत्कारिणा सूक्तिः शरदिन्दुवदनेव श्याम-
तिलकेन श्यायेव शुभ्रविशेषकेण विभूषिता सकलकदिकुलललामभूतां
विच्छित्तिमातनोति ।
न तु यथा धर्मकीर्तेः__
लावण्द्रविणव्ययो न गणितः क्लेशा महान्स्वीकृतः,
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्ताज्वरो निमिंतः ।
एषापि स्वयमेव तुल्यरमणा भावाद्वराकी हता,
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्वयास्तनुं तन्वता ॥
अत्र “तन्वयाः’’ इति पदं केवलशब्दानुप्रासव्यसनितया
निबद्धं न
का?ञ्चिदथौचित्यचमत्कारकणिकामाविष्करोति । “सुन्दर्याः’’ इत्यत्र
पदमनुरूपं स्यात् । अन्यानि वा निरतिशरूपलावण्यव्यव्यञ्जकानि ।
तन्वीपदं तु विरहविधुररमणीजने न्रयुक्तमथौचित्यशो जनयति ।
यथा श्रीहर्षस्य__
परिम्लानं पीनस्तनजघनस ङगादुभयत-
स्तनोर्मक्ष्यस्यान्तः परिमलनमप्राप्य हरितम् ।
इद व्यस्तन्यासं श्लभुजलताक्षेपवलनैः,
कृशाङचाः सन्तापं वदति विसिनीपत्रशयनम् ॥
अत्र सागरिकाया विरहावस्थासूचकं “कृशाडगचाः’’ इतिपदं पर-
मौचित्यं पुष्णाति ॥ 11 ॥
वाक्यगतौचित्यं दर्शयितुमाह__
औचित्यरचितं वाक्यं सततं संमतं सताम् ।
त्यागोदग्रमिवंश्वय्र शीलोज्जवलमिव श्रुतम् ॥ 12 ॥
औचित्यरचितं वाक्यं काव्यविवेकविचणानामभिमततमम् ।
यथा मम विनयवल्लयाम्__
युग्मकम्__
देवो दयावा?न्विजयो जितात्मा यमौ मनः संयममाननीयौ ।
इति बुवाणः स्वभुजं प्रमाषिट यः कीचकाकालिककालदण्डम् ॥
क्षीरः स किर्मोरजटासुरारिः कुबेरशौर्यप्रशमपोपदेष्टो ।
दृष्टो हिडिम्बादयितः कुरूपां पर्यन्तरेखागणनाकृतान्तः ॥
अत्र भोमस्य भीमचरितोचितकोचकाकालिककालदण्डहिडिम्बाद-
यितादिभिः पदैरुद्ररौस्वरूपानुरूपो वाक्यार्थः सजीव इव भासते ।
अथवा राशेखरस्य__
सम्बन्क्षी पुरुभूभुजां मनसिजव्यापारदीक्षागुरु-
गौराङगीवदनोपमापरिचितस्तारबधूवल्लभः ।
सद्योमा?जिंतदाक्षिणात्यतरुणोदन्तावदातद्युति-
श्चन्द्रः सुन्दरि दृश्यतामयमितश्चण्डोशचूडाणिः ॥
अत्रापि चन्द्रमसः श्रृङगारान्?तरङैग रनङगोद्दीपनैः
पदैनिंर्वर्तितो
वाक्यार्थः सर्वथौचित्यसामर्थ्येन समुचितार्थवशेनात्यर्थमत्यन्तमर्थनीयतां प्राप्तः ।
न तु यथास्यैव__
नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिघेः
शश्वत्खड्गभुङगचन्दनतरौ क्रौडोपक्षाने श्रियः ।
आकाने जयकुञ्जरस्य सुदृशां कन्दर्पदर्पे परं
श्रीदुर्योक्षनदोष्णि विक्रमपरे लीनं जगन्नन्दतु ॥
अत्रातिशयपरकर्कशसोत्कर्षसुभटभुजस्तजस्तम्भस्यासमुचितेन कुवलय-
नालतुलाधिरोपणेन वाक्यार्थः सोपहासतयेव निबद्धः परिज्ञायते ॥ 12 ॥
प्रबन्क्षार्थौचित्यं दर्श यितुमाह__
उचितार्थवशेषेण प्रबन्क्षार्थः प्रकाशते ।
गुण्प्रभावभव्येन विभवेनेव सज्जनः ॥ 13 ॥
अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन
सकलप्रबन्धार्थाप्यायियीयूषवर्षेण
समुचितार्थविशेषेण महाकाव्यं चमत्कारकारितामापद्यते ।
यथा कालिदासस्य__
जातं बंशे भुवनविविते पुष्करावर्तकानां,
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनाथिंत्वं विधिपरवशाद् दूरबन्धुर्गतोऽहं
याच्ञ मोघा वरमधिगुणे नाक्षमे लब्धकामा ॥
अत्राचेतनस्य चेतनाक्ष्यारोण मेघस्य दौत्ययोग्यताक्षानाय प्रथि- तपुष्करावर्तकपर्जन्यवंशत्वममात्यप्रकृतिपुरुषत्वञ्च यदुपन्यस्तं तेन-
समस्तप्रबन्धस्योत्प्रे क्षितेतिवृत्तरुचिरतरस्य निरतिशयमौचित्यमुद्यो- तितम् ।
यथा वा भवभूतेः__
?0( ?0नेपथ्ये ?0)
योऽयमश्वः पताकेयमथवा वीरघोषणा ।
सप्तलोकैकवीरस्य दशकण्कुलद्विषः ॥
लत्रः?0__( ?0सगर्वमिव । ?0) ?0अहो सन्तापनान्यक्षराणि । भो, भोः ?0!
किमक्षत्रिया पृथिवी यदेवमुद्घुष्यते । ?0( ?0विहस्य ?0) ?0आः किं नाम
स्फुरन्ति शस्त्राणि । ?0( ?0धनुरारेपयन् ?0)?0
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
मुद्गारिघोषघनघर्घ रघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र-
जृमभाविडम्बिविक्रटोवरसस्तु चापम् ॥
अत्रार्थे रामायणकथातिक्रमेण नृतनोत्प्रे? क्षिता रामतनयस्य सहज-
विक्रमानुसारिणी शौर्योत्कर्षभूमिः परप्रतापस्पस्पर्शसहिष्णुता प्रबन्धस्य
रसबन्धुरामौचित्यच्छायां प्रयच्छति ।
रावणः__यत्पार्वतीहठकचग्रहणप्रीणी-
पाणौ ? स्थितं पुरभिदः शरदां सहस्त्रम् ।
गोर्वाणसारकणनिमिंतगात्रमत्र-
तन्मैथिलीक्रयधनं धनुराविरस्तु ॥
जनकः__आविरस्तु सममग र्भ सम्भवया सीतया ।
अत्र ‘आविरस्तु समं सीतया’ इति जनकराजेन यदुच्यते तेनानास्य
विशिताशनाय तनयाप्रतिपादनमभितमिवोपलक्ष्यते । नचैतद्विह्मः कथं भक्ष्यभूता कुमुमकोमलाङगी पुरुषादाय प्रतिपाद्यते, इत्यनौचित्येन प्रसिद्धं वृत्तवैपरीत्यं परं हृदयविसंवादमादक्षाति ।
यथा वा कालीदासस्य__
ऊरुमूलनखमार्गपंक्तिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥
अत्राम्बिकासंभोगवर्णने पामरनारीसमुचिचितर्लज्जसज्जनखराजि-
विराजितोरुमूलहृतविलोचनत्वं त्रिकोचनस्य भगवतस्त्रिजगद्गुरोर्य-
दुक्ते तेनानौचित्यमे व परं प्रबन्धार्थः पुष्णति ॥ 13 ॥
गुणैचित्यं दर्शयितुमाह__
प्रस्तुतार्थोचितः काव्ये भव्ये भव्यः सौभाग्यवान् गुणः।
स्यन्दतोन्दुरिवानन्दं संभोगावसरोदितः ॥ 14 ॥
प्रस्तुतार्थस्यौचित्येनौजःप्रसादमाधुर्यसौकुर्मायादिलक्षणो
गुणः
काव्ये भव्यः सौभाग्यवत्तामवाप्तः सहृवयानन्दसन्दोहमिन्दुरिव
स्यन्दति ।
अत्र विप्रलम्भभरभग्नधै र्यायाः कादम्बर्या विरहव्यथावर्णना
माधुर्यसौकुमार्यादिगुणयोगेन पूर्णेन्दुदनेव प्रियंवदत्वेन हृदयानन्द-
दायिनीं दयिततमतामातनो ति ।
त तु यथा चन्द्रकस्य__
युद्धेषु भाग्यचलेषु न मे प्रतिज्ञा
दैवं नियच्छति जयञ्च पराजयञ्च ।
एषैव मे रणगतस्य सदा प्रतिज्ञा
पश्यन्ति यन्न रिवपवो जघनं हयानाम् ॥
अत्र क्षात्रवृत्तिरिवौजसा काव्यगुणेनास्पृष्टा सुभटोक्तिरुचितार्थापि
तेजोजोवितविरहिता दुर्गतगृहदीपशिखेव मन्दायमाना न विद्योतते ।
यथा वा राजशेखरस्य__
एतस्याः स्मरसंज्वरः करतलस्पर्शैः परीक्ष्यो न यः,
स्निग्क्षेनापि जनेन दाहभयतः प्रस्थम्पचः पाथसाम् ।
निवींर्यीकृतचन्दनौषक्षिविक्षौ तस्मिंस्तडत्कारिणो,
लाजस्फोटममी स्फुटन्ति मणयः सर्वेऽपि हारस्त्रजाम् ॥
अत्र विरहविक्षुररमणीमनोभवावस्थानुरूपं माक्षुर्यमुत्सृज्य तड-
त्कारिणो लाजस्फोटं स्फुटन्तीत्योजःस्फूर्जितोर्जितस्वभावाक्षिपासिता सूक्तिर्लावण्यपेशलतुर्ल लितललनेव परुषभाषिणी ज्ञटित्यनौचित्यं चेतसि सञ्चारयति ॥ 14 ॥
अलङकारौचित्यं दर्शयितुमाह__
अथैचित्यवता सूक्तिरलङकारेण शोभते ।
पीतस्तनस्थितेनेव हारेण हरिणेक्षणा ॥ 15 ॥
प्रस्तुतार्थस्यौचित्येनोपमोत्प्रेक्षादिनालङगारेण
सूक्तिश्चकास्ति
कामिनीवोच्चकुचचु म्बिना रुचिरमुक्ताकलापेन ।
यथा श्रीहर्षस्य__
विश्रान्तविग्रहकथो रतिमाञ्जनस्य
चित्ते वसन् प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय
वत्सेश्वरः कुसुमचाप हवाभ्युपैति ॥
अत्र वत्सेश्वरस्य कुसुमचापेनोपमा श्रृङगारावसरसरसचारुतरता-
मौचित्येन कामपि चेतश्चमत्कारिणीमाविष्?करोति ।
नतु यथा चन्द्रकस्य__
खगोत्क्षिप्तैरन्त्रैस्तरुशिरसि दोलेव रचिता,
शिवा तृप्ताहारा स्वपिति रतिखिन्नेव वनिता ।
तृषार्तो गोमायुः सरुधिरमसिं लेढि बहुशो,
बिलान्वेषी सर्पो हतगजकाराग्रें प्रविशति ॥
अत्रानुचितस्थानस्थितायाः पुरुषपिशिततृप्तसुटतायाः शिवायाः
सुरतकेलिवलान्तकान्तया विच्छयैवोपमा परं वैवरीत्यं प्रकाशयति ।
यथा वा मालवरुद्रस्य__
अभिनववक्षूरोषास्वादः करीषतनूनपा-
दसरलजाश्लेषकूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञवाद्य द्युतिर्मसृणा रवे-
विंरहिवनितावक्त्रौपम्यं बिभतिं निशाकरः ॥
अत्र कोमलकामिनीकोपेन करीषकृशानोः सादृश्यं शीतसमयस्वादु-
तया हृदयसंवादसुन्दरमप्यनुचितत्वेन सहसैव चेतसः सङकोचमिवाद- क्षाति ।
यथा वा राजशेखरस्य__
चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः,
कलङकस्तत्रत्यः स्पृशति मलिनाङगारकलनाम् ।
यदेतत्सज्योतिर्दरदलितकर्पूरक्षवलं,
मरुदिभर्भस्मैतत्प्रसरति विकीर्णं दिशि दिशि ॥
अत्राप्यानन्दिसुक्षावस्यन्दसुन्दरस्येन्दोश्चिताचक्रत्वमनुचिततया कर्ण-
कटृकमातङकमिवातनोति ।
योऽर्थस्तु हृदयसंवादी स यद्यनौचित्यस्पर्श लेशरहितस्तदाऽक्षिकत-
रामलङकारशो भां पुष्णति । यथा कार्पटिकस्य__
शीतेनाद्घृषितस्य माषशिमिवच्यिन्तार्णवे मज्जतः,
शान्ताग्निं स्फुटिताक्षरस्य क्षमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वापि विमानितेव दयिता सत्यज्य दूरं गता,
सत्पात्रप्रतिपादितेव वसुक्षा न क्षीयते शर्वरी ॥
अत्रानौचित्यस्पर्शपरिहारेण केवलं हृदयसंवासौन्दर्यमेव स्वादुत-
मादक्षाति ॥ 15 ॥
रसौचित्यं दर्शयितुमाह__
कुर्वन्सवशिये व्याप्तिमौचित्यरुचिरो रसः ।
मधुमास इवाशोकं करोत्यङ्कुरितं मनः ॥ 16 ॥
औचित्येन भ्राजिष्णुः श्रृङगारादिलक्षणो रसः सकलजनहृदय-
व्यापी वसन्त इवाशोकमङ्कुरितं मनः करोति ।
यथा श्रीहर्षस्य__
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविमैरविरलैरातन्वतीमात्मनः ॥
अद्योद्यानलतामिमां समदनां नारीमिवान्यां क्ष्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥
अत्रेर्ष्याविप्रलम्भरूपस्य श्रृङगाररसस्य वासवदत्तायामवेक्ष्यमाणस्य नबमालिकालताया ललितवनितातुल्यतया विरहावस्थारोपेण नितरा- मौचित्यरुचिरचमत्कारकारिणी दीप्तिरुपपादिता ।
यथा वा कालिदासस्य__
बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन सगातानां नखक्षतानीव वनस्थलीनाम् ॥
अत्र पार्वत्यां परमेश्वरस्याभिलाषश्रृङगारे वक्ष्यमाणे प्रथममुद्दीपन-
विभावभूतस्य वसन्तस्य वर्णनायां कामुकाध्यारोपेण वनस्थलीललना-
नां कुटिललोहितपलाशकलिकाभिर्नवसंगमयोग्यनखक्षतायुत्प्रेक्षितानि
परमामौचित्यचारुतां प्रतिपादयन्ति ।
नतु यथास्यैव__
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।
प्रायेण सामग्रय् विधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः॥
अत्र केवलकर्णिकारकुसुमवर्णनमात्रेण विधातृवाच्यताग र्भेणैव प्रस्तुतश्रृङगारानुपयोगिना तदुद्दीपनविभावोचितं न किञ्चिदभिहितम् ।
हास्यरसे यथा मम लावण्यवतीनाम्नि काव्ये__
सीधुस्पर्श भयान्न चुम्बसि मुखं किं नासिकां गूहसे,
रे रे श्रोत्रियतां तनोषि विषमां मन्दोऽसि वेश्यां विना ।
इत्युक्त्वा मदघूर्णमाननयना वासन्तिका मालती
लीनस्यात्रिवसोः करोति वकुलस्येवासवासेचनम् ॥
अत्र श्रोत्रियस्यात्रिवसोरपवित्रसीधुस्पर्श शङकासङकोचनिलीनस्य
शुष्यकबकुलवृक्षस्येव सरसतापदनाय वेदशविलासिन्या यदासवासेचनं
तदङगभूतश्रृङगाररसा भासस्पर्शेन हास्यरसस्य वरासवस्येव सहकार-
रसवेधेन सचमत्कारसौचित्यमाचिर्नोति ।
यथा वा मम लावण्यवत्यामेव__
मार्गे केतकसूचिभिन्नचरणा सीत्कारिणी केरली,
रम्यं रम्यमहो पुनः कुरु विटेनेत्यर्थिता सस्मिता ।
कान्ता दन्चतुष्कबिम्बितशशिज्योत्स्नापटेन क्षणं
धूर्तालोकनलज्जितेव तनुते मन्ये मुखाच्छदनम् ॥
अत्रापि हास्यरसस्य कुटिलविटनर्मोक्तिवचनौचित्येनश्रृङगाररसा-
भासाधिवासितस्य सचमत्कारः परः परिपोषः समुन्विषति ।
नतु यथा श्यामलकस्य__
चुम्बनसक्तः सोऽस्या दशनं च्युतमात्मनो वदनात् ।
जिह्वामूलप्राप्तं खाडिति कृत्वा निरष्ठीवत् ॥
अत्र हास्यरसस्य बीभत्सरसाधिवासितस्य लशुलिप्तस्येव कुसुम-
शेख रस्याविजुगुप्सितत्वादनीप्सितस्य परमानौचित्?येन चमत्कारस्ति-
रोहितः । वृद्धापरिचुम्बने जिह्वामूलप्राप्तस्य च्युतदशनस्य कण्ठली-
लिनः ष्ठीवनेन बीभत्सस्यैव प्राधान्यम्, नतु हास्यरसस्य ।
करुणे यथा मम मुनिमतमीमांसायाम्__
प्रत्यग्रोपनताभिमन्युनिधने हा वत्स हा पुत्रके-
त्यश्मद्रावि सुभद्रया प्रलपितं पार्थस्य यत्तत्पुरः ।
येनोद्वाष्पविमुक्तशष्पकलैः सेनातुरङैगरपि,
न्यञ्चत्पार्श्वगतैककर्णकुहतैर्निःस्पन्दमन्दं स्थितम् ॥
अत्र प्रत्यग्रोपनतप्रियतरतनयवियोगोपजनितशोकाख्यस्थायिभा-
वोचितं__दृषतामपि हृदयद्रावणं सुभद्रया यत्प्रलपितं तदर्जु नचेतसि
प्रतिफलितं न केवलमुद्दीप्ततमुपगतं यावत्तिरश्चां तुरङगमाणामप्यन्तः
संक्रन्तमुद्वाष्यविमुक्तशष्पकलनिःस्पन्दमन्दस्थितादिभिरनुभावैरुदी-
र्णतरुणकरुणरसप्रतिपर्तिं किमप्यावधाति ।
नतु यथा परिमलस्य__
हा श्रृङगारतरङिगणीकुलगिरे हा राजचूडामणे,
हा सौजन्यधुधानिधान हहहा वैदग्ध्यदुग्धोदधे ।
हा देवोज्जायिनीभुजङग युवतिप्रत्यधकन्दर्प हा,
हा सद्वान्धव हा कलामृतकर ! क्वासि प्रतीधस्व नः ॥
अत्र ‘हसेति’ हतमहीपतिविरहे तद्गुणामन्त्रणपदैर्दक्तूववत्रगत ए
शोकः केवलमुपलध्यते,नतु विभावानुभावव्यभिचारिसंयोगेन शोक ख्यस्य स्थायिभावोचितं रसीकरणं किंचिन्निष्पन्नम्।
रौद्रे यथा भटृनारायणस्य__
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदःपाडवीनां चमूनां,
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः,
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥
अत्र क्रूरक्रोधस्थायिभावत्मकस्योन्निद्ररौद्ररसस्योचिता शिशुस्थ-
विरग र्भगतविशसननिर्स्त्रिशकर्माध्यवसायाधिरोहणसंयादिनी द्रोण-
वधविधुरामर्षविषविषमव्यथा कश्मलशिथिलमश्वत्थाम्नः स्थेमानं-
वधविज्ञापयति ।
नतु यथा श्राप्रवरसेनस्य__
दणुइन्दरुहिरलग्गे जस्य फुरन्ते णहप्पहाविछडे ।
गुप्यन्तो विवलाआ गलिअब्बथणंसुए, महासुरलच्छी ॥
[ दनुजेन्द्ररुधिरलग्ने यस्य स्फुरति नखप्रभासमूहे ।
व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका
महासुरलक्ष्मीः ॥
॥ इति छाया ॥
अत्र क्रोधव्यञ्जकपदविरहिततया “दनुजेन्द्रधिरलग्ने यस्य नृसिं-
हस्य स्फुरति नखप्रभासमूहे व्याकुलीभवन्ती विपलायिता गलितस्त-
नांशुका सहासुरलक्ष्मीः’’ इति वर्णनया रुधिरलग्न इति बीभत्सरस-
संस्पर्शे व्याकुलीभवन्ती दैत्यश्रीः पलायितेति भयान्करससङकरेण
प्रकृतोचितप्रधानभूतस्य रौद्ररसस्य क्वचिन्मुखमपि न दृश्यते ।
वीरे यथा मम नीतिलतायाम्__
शौर्याराधितभर्गभार्गवमुनेः शस्त्रग्रहोन्मार्गिणः,
संखेपेण निवार्य संक्षयमयीं क्षत्रोचितां तीक्ष्णताम् ।
आकर्णायतकृषटचापकुटिलभूभङगसंसर्गिणा,
येनान्यायनिषेधिन शममयी ब्राह्मी प्रटिष्टा स्थितिः ॥
अत्र “सोऽयं राम’’ इति रावणाग्रे शुकसारणाभ्यां दूरान्निर्दिदश्य-
मानस्य निःसंरम्भगभ्भीरावष्टम्भसं भाव्यामानप्रभावोचितायां शस्त्रसं-
ग्रहोन्मार्गगामिनो भार्गवस्य मुनेः स्वजातिसमुचितस्थित्युपदेशे सति प्रभविष्णुतायां चापरूपभङगचा भूभङगः प्रदर्शितः न तु स्वाभाविकः वीरस्य
क्रोधे विकारसंभवात् । प्रसन्नमधुरधीरा हि वीरवृत्तिः,
तदुचितमत्राभिहितम् भार्गवाभिभवेन च प्रधाननायकस्योत्कर्षः
प्रतिपादितः ।
यथा वा राजशेखरस्य__
स्त्रीणां मध्ये सलीलं श्रमितगुरुगदाघातनिर्नष्टसंज्ञः,
सद्यो वध्योऽभवस्त्वं पशुरिव विवशस्तेन राज्ञाऽर्जुनेन ।
तस्य च्छेत्तापि योऽसौ सकलनृपरिपुर्जामदग्न्यो भुजानां,
जित्वोच्चैः सोऽपि येन द्विज इति न हतस्तापसस्त्वेष रामः॥
अत्र रावणकार्तवीर्यजामदग्नयोत्कार्षेत्कर्षतरसोपानपरम्पराधिरो-
हणक्रमेण प्रधाननायकस्य प्रतापः परां कोटिमारेपितः ।
नतु यथा भवभूतेः__
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हं वर्ततां,
युद्धं स्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते ।
यानि त्रोणि कुतोमुखान्यपि पदान्यासन्खरायोधने,
यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ॥
अत्राप्रधानस्य रामसूनोः कुमारलवस्य परप्रतापोत्कर्षासहिष्णो-
र्वीररसोद्दीपनाय सकलप्रबन्धजीवितसर्वस्वभूतससय प्रधाननायकगतस्य
वीररसास्य ताडकादमनखररणापसरणान्यरणसंसक्तबालिव्यापानादि-
जनविहितावाप्रतिपादनेन स्ववचसा कविना विनाशः कृत इत्यनु- चितमेतत् ।
भयानके यथा श्रीहर्षस्य__
कण्डे कृत्तावशेषं कनकमयमधः श्रृङखलादाम कर्षन्
क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङिकणीचक्रवालः ।
प्रभ्रष्टोऽयं प्लवडगः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥
अपि च__
नष्टं वर्षवरैर्मनुष्यगणानाभावादकृत्वा त्रण-
मन्तःकञ्चुकिकञ्चुकस्य विशाति त्रासादयं वामनः ।
पर्यन्ताश्रायिभिर्निजस्य सृशं नाम्नः किरातैः कृतं,
कुब्जा नीचतयैव यान्ति शनकैरात्सेक्षणाशङिकनः ॥
अत्राङगनानां निशितदशननखशिखेल्लेखातङकदानेन प्रचुरतरवा-
नराभिसराणभयसंभ्रान्तान्तःपुरिकवृद्धवामनाकिरातकुब्जादीनां पुरुष-
गणनासिहीनतया धै र्यविरहकातरणामुचितचेष्टानुभाववर्णनया भया-
नकरससंवादिरुचिरौचित्यमाचकास्ति ।
नतु यथा राजपुत्रमुक्तापीडस्य__
नीवारप्रराग्रमुष्टिकवलैर्यो वर्धितः शैशवे,
पीतं येन सरोजपत्रपृटके होमावशेषं पयः ।
तं वृषट्वा मदमन्थरालिवलयव्यालोलगल्लं गजं,
सानन्दं सभयञ्च पश्यति मुहुर्दू रे स्थितस्तापसः ।
अत्र गजस्याघातकविकृतचेष्टानुवर्णनाविरहिततया स्थायिभावस्य
भयानुभाववर्जितस्य केवलं नाममात्रोदीरणेन च भयानकरसो चित-
संभ्रमाभावादुपचितमौचित्यं न कि?ञ्चिदुपलभ्यते ।
बीभत्से यथा मम मुनिमतमीमांसयाम्__
सर्वापायचयाश्रयस्य नियतं कुत्सानिकायस्य किं,
कायस्यास्य विभूषणैः सुवसनैरान्दनैश्चन्दनैः ।
अन्तर्यस्य शकृद्यकृत्कृमिकुलवलोमान्त्रमालाकुले,
क्लेदिन्यन्तदिने प्रयान्ति विमुखाः कौलेयकाका अपि ।
अत्र वैराग्यवासनाच्छुरितबीभत्सस्य जुगुप्सास्थायिभावोचित-
कायगतकुत्सिततरान्त्रादिसमुदीरणेन परा परिपुष्टिर्निःसारशरी-
रामिमानवैरस्यजननी प्रतिपादिता ।
नतु यथा चन्दकस्य__
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः,
क्षुधाक्षामो ख्क्षः विठरककपालार्दितगलः ।
व्रणैः पूतिक्लिन्नैः कृमिपरिवृतै रावृततनुः,
शुनीमन्वेति श्वा तमपि मदयत्येष मदनः ॥
अत्राशुचिचर्वणरुचेरुपचितविचिकित्सकुत्सानिकायस्य स्वभाव-
जुगुत्सितयोनेः शुनकस्य किमेतैर्बीभत्सविशेषणैरतिशयनिर्बन्धानुबर्द्ध-
रधिकमुदभासितम् । एतैरेव पुरुषगतैर्जु गुप्?सापरं गौरवमावहति ।
अद्भुते यथा चन्दकस्य__
कृष्णेनाम्ब ?0? ?0गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया,
सत्यं कृष्ण ?0? ?0क एवमाह मुसली, मिथ्याम्ब ?0? ?0पश्याननम्
व्यादेहीति विकासितेऽथ वदने दृष्ट्वा समस्तं जग-
न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥
अत्र पाण्डुराङगकरसाक्षिलक्षितमृदभक्षणाक्षेपोद्यतजननीभयकि-
तस्यापह्रवकारिणः शिशो र्विकासितास्यस्यान्तः समस्तजगद्दर्शनेन
मातुश्च तत्प्रभावानभिज्ञतया वात्सल्यविह्वलाया विस्मयगमनेनात्यु-
चितोऽयमदभतातिशयः ।
नतु यथा मम मुनितमीमांसायाम्__
समस्ताश्चर्यंणां जलनिधिरपारः स वसति-
स्ततोऽप्याश्चर्यं यत्बिति सकलं तं किलमुनिः ।
इदं त्वत्याश्चर्यं लघुकलशजन्मापि यदसौ,
परिच्छेत्तुं को वा प्रभवति तवाश्चर्यसरणिम् ॥
अत्रापरस?रित्पतिप्रभावेण मुनिना तस्यैकचुलकाचमनेन मुनेश्च
लघुकलशजन्मना क्रमाक्रान्तिसमारूढोऽप्यसमविस्मयमयोऽयमद्भुत-
प्रसरः संसारस्यैवंविविधै वाश्चर्यसरणिरपरिच्छिन्ना न किंचिदेतत्कौतुक-
मित्यर्थान्तरन्याससामर्थ्थ्येन सहसैवावरोपित इव तिरोभूततामुपगतः ।
शान्ते यथा मम चतुर्वर्गसंग्रहे__
भोगे रोगभयं सुखे क्षयथयं वित्तेऽग्निभू भृदभयं,
दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिदभयम् ।
माने म्लानिभयं जये रिपुभयं काये कृतान्तादभयं,
सर्वं नाम भये भवेदभयमहो वैराग्यमेवाभयम् ॥
अत्र सकलजनाभिमतभोगसुखवित्तादीनां भयमयतया हेयतां प्रति-
पाद्य वैराग्यमेव सकलभयायासशमनमुपादेययता यदुपन्यस्तं तेन
शान्तरसस्य निरर्गलमार्गावतरणामुचिततरमुपदिर्ष्ट भवति ।
यथा वा मम मुनिमतमीमांसायाम्__
कुसुमशयनं पाषाणे वा प्रियं भवनं वनं,
व्रतनु, मसृणस्पर्शं वासस्त्वगप्यथ तारवी ।
सरसमशनं कुल्माषे ष धनानि तृणानि वा,
शमसुखसुधापानक्षैव्ये समं हि महात्मनाम् ॥
अत्र सकलविकल्पतल्परहिताभेदाव भाससमानात्मतत्त्वविश्रान्ति-
??जनितसर्वसाम्यसमुल्लरसितशसुखपीयूषपानोदितनित्यानन्दधूर्णमान -
मानसानां प्रियाप्रियसुखदुःखादिषु महतां सदृशी प्रतिपत्तिरिति जीव-
न्मुक्तिसमु चितमभिहितम् ।
नतु यथा श्रीमदुत्पलराजस्य__
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा,
मणौ वा लोष्टे वा कुसुमशयने वा वृशदि वा ।
तृणे वा स्त्रैणे वा मम समटृशो यान्ति दिवसाः,
क्वचित्पुण्यारण्ये शिवशिवशिवेति प्रलपतः ॥
अत्र जीवन्मुक्तोचितं प्रियाप्रियरागद्वेषोपशमलखणमोक्षक्षमं सर्व-
साम्यमहिहारसुहृदरिसमदृष्टिरूपमभिधता क्वचित्पुण्यारण्ये यदभि-
हितं तद्विकल्प्रतिपादकमभेदवासनाविरुद्धमनु चितमवभवभासते । धारा-
धिरूढसर्वसाम्यविगलितभेदाभिमानग्रन्योर्हि सर्वत्र सर्व शिवमयं पश्यत-
स्तपोवने नगरावस्करकूटे च विमलात्मलाभतृप्ततया समानदुशः क्वचितुपण्यादिवचनमनुचितोच्चारणमेव
॥ 16 ॥
यथा मधुरतिक्ताद्या रसाः कुशलयोजिताः ।
विचित्रास्वदतां यान्ति श्रृङगाराद्यास्तथा मिथः ॥ 17 ॥
तेषां परस्पराश्लेषात्कुर्यादौचित्यरक्षणम् ।
अनौचित्येन संस्पुष्टः कस्येष्टो रससङकरः ॥ 18 ॥
रसाः कटुकमधुराम्लवणाद्याः कुशलसूदेन वेसवारपानादिषु
योजिता विचित्रास्वादतामुपयान्ति तथैव परस्परमविरुद्धाः श्रृङगारा-
दय इति तेषामन्योन्यमङगभावयोजनायामौचित्यस्य जीवितसर्वस्वभू-
तस्य रक्षां कुर्यात् । अनौचित्यरजसा रससंयोगः स्पृष्टो न कस्यचिद-
भिमत इत्यर्थः ।
रससङकरौचित्ये शान्श्रृङगारयोरङगङिगभावो यथा भगवतो
महर्षेर्व्यासस्य__
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किन्तु मत्ताङगापाङगभङिगलोलं हि जीवितम् ॥
अत्र भगवता जन्तुहिताभिविष्टेन मोक्षक्षमोपदेशेऽङिगनः शान्त-
रसस्य रागिजनानिष्टत्वात्सकलजनमनःप्रह्लादने बालगुडिह्विकया
श्रृङगारेऽङगभावमुपनीते पर्यन्ते शान्तस्यैव लोलं जी वितमित्यनित्यता-
प्रतिपादनपरिनिर्वाहेण परमौचित्यमुच्चैः कृतम् ।
बीभत्सश्रृङगारयोरङगाङिगभावो यथा मम बौद्धावदानकल्पलता-
याम__
क्षीबस्येवाचलस्य द्रुतहृतहृदया जम्बुकी कण्ठसक्ता,
रक्ताभिव्यक्तकामा कमति नखमुखेल्लेखमासूत्रयन्ती ।
आस्वाद्यास्वाद्य युनः क्षणमधरदलं दत्तदन्तव्रणाङंकः,
लग्नानङगक्रियायामियमतिर भसोत्कर्षमाविष्करोति ॥
अत्र श्लेषोपमया तुल्यकक्षाधिरूढयोरपि परस्परविरुद्धयोरर्थयोर्वी-
भत्सश्रृङगाराङगाङिगभावयोजनायां जम्बुकी तरुणशवस्य क्षीबस्येव
निश्चलस्थितेः सहसैव हृतहृदयह्माकृ?ष्टचिता वा, कण्ठे लग्ना
शोणिते भृशमभिव्यक्तस्पृहा रक्ताभभिव्यक्तकाम वा, नखोल्लेखमासूत्र-
यन्ती दत्तदन्तव्रणमधरमास्वाद्या ङगच्छेदक्रियामनङगभोगक्रियायां
वा, लग्ना गात्राणामर्ध्वगतं कर्षणं रतकौशलोत्कर्षं वा, प्रकाश्यतीति
समानयोर्बीभत्सश्रृङगारयोः कामिनीपदपरित्यागेन केवलं जम्बुक्याः
कतृं त्वेन बीभत्सस्यैव प्राधान्ये श्रृङगारेऽडगतामुपगते वक्तुर्बोधिसत्त्वा-
स्यायान्तर्ग तगाढवै राग्यवासनाधिवासितचेतसः कुत्सार्हजुगुप्सया नित-
म्बिनीरतिविडम्बनमौचित्यरुचिरतामादधाति । यद्यप्यत्र महावक्ये
शान्तस्यैव प्राधान्यं तथाप्युदाहरणशलोकवाक्ये बीभत्यस्यैव ।
वीरकरुणयोर्यथा मम मुनिमतमीमांसायाम्__
गाण्डीवस्त्र्?ुवमार्जनप्रणयिनः स्नातस्य बाष्पाम्बुभि-
श्चण्डं खाण्डवपाकादपि परं शोकानलं बिभ्रतः ।
जिष्णेर्नुतनयौवनोदयदिनच्छिन्नाभिमन्योश्चिरं,
हा वत्सेति बभूव सैन्धववधारब्धाभिचारे जपः ॥
अत्र त्रिगर्तसंग्रामगतस्य गाण्डीवधन्वनः शत्रुभिर्नवयौवनोदयसम-
यनिहततनयस्य कार्मुकस्त्रुवमुन्मार्जयतःप्रसरदश्रुस्नातस्य शोकाम्निमुद्व-
हतश्चिरं हा पुत्रेति जयद्रथवघारब्धाभिचारे जपो बभूवेति यदुपन्श्त्स्तं,
तेनारिक्षये दीक्षासमुचितव्रतवर्णनया शोकाग्नेश्चण्डत्वेन खाण्डवपदोदी-
रणेन वीररसस्याङिगनः सहसैवागन्तुके करुणरसे प्रज्वलिते सैन्धवव-
धारब्धाभिचारभिधानेन पर्यन्ते शौर्यनिर्वाहेण परममौचित्यमुज्जृम्भते।
शान्तश्रृङगारकरुणबीभत्सानां यथा मम तत्रैव__
तीक्ष्णान्तस्त्रीकटाक्षक्षतहृदयतया व्यक्तसंसक्तरक्ताः,
क्रोधादिक्रूररोगव्रणगणतीततीव्रवयथार्ताः ।
स्नेहक्लेदातिलग्नैः कृमिभिरिव सुतैः स्वाङगजैर्भक्ष्यमाणाः,
संसारक्लेशशय्यानिपतिततनवः पश्य सीदन्ति मन्दाः ॥
अत्र मुरूयस्याङिगनः शान्तरसस्यैवोद्दीपने कारणीभूतास्तीक्ष्णान्त-
स्त्रीकटाक्षक्षतहृदयव्यव्यथार्त्तस्नेहक्लेदातिलग्नकृमितुल्यतनयादिपदोपा-
दानेन श्रृङगारकरुणबीभत्साः शान्तमुखप्रे क्षिणः, संलीनतया स्तिमित-
वृत्तयो भृत्या इव परममौचित्यं दर्शयन्ति ।
रससङगरस्यानौनित्यमुदभावयितुमाह । श्रृङगारशान्तयोर्यथा-
ऽमरुकस्य__
गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा,
द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।
संसारे घटिकाप्रणालविगलद्वारा समे जीविते,
को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङगमः ॥
अत्र प्रकरणवर्तिनः श्रृड्गाररसस्य पश्यामि यावन्मुखमित्यकुण्ठो-
त्वकण्ठासमुज्जृम्भमाणस्य स्वभावविरोधिनि शान्तेऽङगभावमुमपनीते
विस्तीर्णतरानित्यातावर्णनया वैराग्येण रतेर्न्यगभावमापदयन्त्या प्रधान
रससम्बन्धेनाधिकमनौचित्यमुत्साहितम् । निःसारसंसाराचारुताश्रव-
णेन हि कठिनक्रियाकूरचेतसामप्युसाहभङगादङगान्यलसोलसोभवन्ति,
किमुत कुसुमसुकुमारश्रृङ् गाररसकोमलमनसां विलासवताम् ।
प्रान्ते च शान्तपरिपोषनिर्वाहेण रागवैरस्यमेव पयैवस्यति ।
तदुक्तमानन्दवर्घनेन__
विरोधी वाऽविरोधो वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तेन स्यादविरोधिता ॥
तदेवात्र वैपरीत्येनाबलोक्यते__
परिपोषविपरीते स्वमभावविरोधिन्यपि प्रधानानुपरोध एव । यथा
राजशेखरस्य__
माणं भुंचध देह वल्लहजणे दिट्ठि तरंगुत्तरं,
तारुण्णं दिअहार्हे पञ्च वह वा पीणत्थणत्थंभणं ।
इत्यं कोइलिमंजुसिंजिणमिसाद् देवस्य पंचेसुणो,
दिष्णा चित्तमहूसवेण सहसा आणब्ब सब्बंकसा ॥
?0[ ?0मानं मञ्चत दत्त वल्लभजने दृष्टिं तरङ्गोत्तरां,
तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् ।
इत्थं कोकिलमञ्जुशिञ्जितमिषाद्दे वस्य पञ्चेषो-
र्दत्ता चैवमहोत्सवेन सहसाऽऽज्ञेव सर्वङकषा ॥ ?0] ?B?0 इति च्छाया ॥
अत्र ‘मानं मुञ्चत इत्त वल्लभजने दृषिंट तरङिगतां तारुण्यं दिनानि
पञ्च दश वा पीनस्तनस्तम्भनमित्थं कोकिलमधुरध्वनिव्याजेन देवस्य
पञ्चेषेश्चैत्रमहोत्सवेनाज्ञेव सर्वङकषा दत्ता” इति वाक्ये मुखयः श्रृंगार-
प्रारम्भपर्यन्तव्याप्तिशाली कतिपयदिसस्चापि यौवनमित्यनित्यता-
रूपशान्तबिन्दुना मधबुडितेने विरसतां न नीतः, विरुद्धस्य परिपोषा-
भावत् । विरुद्धवर्णनोदितेन ह्मनौचित्येन स्थायी कुञ्चर इव श्वभ्र-
पातितः पुनरुत्थातुं नोत्सहत इत्यलं विस्तरेण । अनया दिशा रस-
सङगरे भेदप्रपञ्चौचित्यं विपश्चिदिभः स्वयं विचार्यम् ॥ 18 ॥
रसौचित्यविचारानन्तरमुद्द शोनुसारक्रमेण क्रमापगतं क्रियापदौ-
चित्यं दर्शयितुमाह__
सगुणत्वं सुवृत्तत्वं साधुता च विचराजते ।
काव्यस्य सुजनस्येव यद्यौचित्यवती क्रिया ॥ 19 ॥
काव्यस्य माधुर्यादिगुणवत्ता वसन्ततिलकातिलकादिसुवृत्तता परिपूर्ण-
लक्षणसधुता च विराजते, यद्यौचित्युक्तं क्रियापदं भवति सुजनस्ये-
वेति तत्तुल्यत्वं स्पष्टार्थमेव ।
क्रियापदौचित्यं यथां मम नीतिलतायाम्__
यः प्रख्यातजबः सदास्थिविधौ सप्ताब्धिसंध्यायर्चने,
दीर्दर्पेण निनाय दुन्दुभिवपुर्यः कालकङकालताम् ।
यः पातालमसृङ् मयं प्रविदधे निष्पिष्य मायाविनं,
सुग्रीवाग्रचविभूतिलुण्ठनपदुर्बाली स किं स्मर्यते ॥
अत्र सप्ताब्धिसंध्यार्चनप्रख्यातजवो महिषरूपदुन्दुभिदानवेन्माथी
मायाविदानवनिष्पेद्भूतशोणितपूरितपातालतः स किं बाली
स्मर्यत इति क्रियापदेन शुकसारणाभ्यां रावणस्य दुर्नयाभिनिवेशिन-
स्तद्विरामाय हितोपदेशेन भवान्वसनकोणनियमिततनुः कक्षायां निः-
क्षिप्त इत्युचितयुक्तिमुक्तं भवति ॥
न तु यथा श्रीप्रवरसेनस्य__
? सग्गं अपारिजाअं कोत्थुहलच्छिरहिअँ महुमहस्सउरं ।
सुमिरामि महणपुरओ समुद्धअन्दं हरअड़ापब्भारं ॥
क्रियापदानौचित्यस्यादोहरणमुपस्थापयितुमाह__न तु यथेति ।
सग्गं इति ।’
स्वर्गमपारिजातं कौस्तुभलक्ष्मीभ्यो विरहितं मधुमथनस्योरः ।
स्मराम्यमृतमथनपुरोप्यबालचन्द्रं हरजाटाप्राग्भारम् ॥
इति छाया ।
अत्र जाम्बवताऽभिधीयमाने “स्वर्गमपारिजातं कौस्तुभलक्ष्मीभ्या
विरहितं मधुमथनस्योरः, स्माराम्यमृतमथनपुरतोऽप्यबालचन्द्रं हर-
जटाप्राग्भारम्” इति प्रगुणगुणाख्यानप्रसङेग कियापदेन जराजजर-
शरीरत्वमात्रमेव प्रतिपादितम् न तु पौरुषोत्?कर्षविशेषातिशयः कश्चि-
दुचितः संसूचितः ॥ 19 ॥
कारकौचित्यं दर्शयितुमाह__
सान्वयं शोभते वाक्यमुचितैरेव कारकैः।
कुलाभरणमैश्वर्यमौदार्यचरितैरिव ॥ 20 ॥
उचिर्तरेव कारकैः सदान्वयदद्वाक्यं विराजते सद्वंशभूषिमैश्वयं
सच्चरितैरिव ।
कर्तृपदौचित्यं यथा भटटबाणस्य__
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रेणाम् ॥
अत्र शत्रुस्त्रियो व्रतं चरन्तीति वक्तव्ये स्तनयुगं बाष्पसलिलस्नातं
शोका ग्निसमीपर्ति विमुक्तभोजनं विगतमुक्ताहारं च सव्गतं चरती-
त्वुक्ते कर्तृपदमौचित्यमुपचितं जनयति ।
नतु यथा परिमलस्य
आहारं न करोति नाम्बु पिबति स्त्रैणं न संसेवते,
शेते यत्सिकतासु मुक्ताविषयश्चण्डातपं सेवते ।
त्वतपादब्जःप्रसादकणिकालो भोन्मुखस्तन्मरौ,
मन्ये मालवसिंह ! गुजरपतिस्तीव्रं तपस्तप्यते ॥
अत्र गुर्जरपतिर्विद्रुतो मरुगहनं प्रविष्टः प्ररित्यक्ताहारादिसमस्त-
विषयश्चण्डातपोपसेवी तपश्चातीति यादुक्तं तत्कर्तृपदस्य विशेषाभि-
प्रायेचितं न किञ्चिदुपलक्ष्यते शत्रुत्रासतरलतया मरुकान्तारान्तराव-
सन्नः सकलविषयसुख भोगपरिभ्रष्टः किमन्यकुरुताम् । स्तनयुगवत्कर्तृ-
पदस्य चमत्कारोचितं न किंचिदभिहितम् ।
कर्मपदौचित्यं यथा मम लावण्यवत्याम्__
सदा सक्तं शैत्यं विमलजलधारापरिचितं,
घनोल्लासः क्ष्मा भृत्पूथुकटकपाती वहति यः ।
विधत्ते शौर्य श्रीश्रवणनवनीलोत्पलरुचिः,
स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥
अत्र निश्चलममलजलधारागतं शैत्यं तैक्ष्ण्यं शीतलत्वं च घनोल्लासो
निविडोत्साहः पर्जन्यतुल्योदयश्च क्षमाभृतां सानुसैन्यनिपाती वहति स
शौर्यश्रीश्रवणनवनीलोत्पलतुल्यस्त्वत्खड्गश्चित्रं शात्रूणां संतापं करो-
तीति यदुक्तं तत्कर्मभूतस्य तापस्य शिशिरतरसामग्रीजन्मनः परं
वैचित्र्यं रुचिरमौचित्यमासूत्रितम् ।
न तु यथा ममैवावसरसारे__
भग्नाहितश्वसितवातविबोध्यमानः
काष्ठाश्रयेण सहसैव विवृद्धिमाप्तः।
अत्र विद्रुतारिनिःश्वसितानिलप्रबोध्यमानः काष्ठाश्रयेण दिक्चक्र-
पूरणे प्रौढतां प्राप्तः पावकतुलृयस्म्त्वत्प्रतापः शत्रुकान्तानां
तापमात्रं
तनोतीति तत्समुचितमाश्चर्यं न किंचित् ।
तापं तनोति निहतारिविलासिनीनां
वह्रिद्युतिर्भुवननाथ ?0! ?0भवत्प्रतापः ॥
अत्र विदुतारिनिःश्वसितानिलप्रबोध्यमानःकाष्ठाश्रयेण दिक्चक्र-
पूरणेन प्रौढतां प्राप्तः पावकतुल्यस्त्वत्प्रतापः शत्रुकान्तानां
तापमात्रं
तनोतीति ततसमुचितमाश्चर्यं न किंचित् ।
करणौचित्य यथा गौडकुम्भकारस्य__
लाङ्गूलेन गभस्तिमान्वलायितः प्रोतः शशी मौलिना,
व्याधूता जलदाः सटाभिरुडवो दष्ट्राभिरुत्तम्भिताः ।
प्रोत्तीर्णो जलधिर्टृशैव हरिणा रवैराटटहासोर्मिभि-
र्लङेकशस्य च लङ्घितो दिशि दिशि प्राज्यः प्रतापानलः ॥
अत्र हरिणा हनुमता जलनिधितरणे तरणिर्लाङ्गूलेन वलयितः,
किरीटप्रान्तेन शशी प्रोतः, सटाभिर्मेघा व्याधूतास्तारा दष्ट्राभिरायासि-
तास्तीर्णोऽब्धिर्टृ षट्यैवाटटहासतरङैगर्लङेकशस्य विस्तीर्णः
प्रतापाग्निः
शमित इति बहुभिः करणपदैरुत्साहाधिवासितैर्विस्मयशिखरारोहण-
सोपानैरिव रघुपतिप्रभावारम्भविजयध्वायमानस्य पवनसूनोरौचि-
त्यातिशयः प्रकाशितः।
न तु यथा बाणस्य कादम्बर्यां__
जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्या ।
दूशैव कोपारुणया रिपोरुरः स्वयं भयादिभन्नमिवास्त्रपाटलम् ॥
अत्र भगवतो नृसिंहस्य कोपरक्तया दुष्ट्यैव क्षणलब्धलक्षया
?हिरण्यकशिपोर्वक्षः स्वयं भयादिभुन्नमिवेति यदुक्तं तन्महोत्साहपराक्र-
मस्य प्रतिनायापकस्य रिपोः प्रधाननायकप्रतापोद्दीपनोपकरणीभूताधि-
कधैयैस्य स्वयं विह्वलतया हृदयस्फुटनमित्युपचितमनौचित्यं “दृशैव’’
इति करणदस्य शिरसि विश्रानतम् ।
सम्प्रदानौचित्यं यथा भट्ट प्रभाकरस्य__
दिङ्मात ङगघटोविभक्तचतुराघाटा मही साध्यते,
सिद्धा सापि वदन्त एव हि वयं रोमञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाया तस्यै नमो,
यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥
अत्र रावणदूतेन परशुं याचितो भार्गवो ब्रूते__नैष हरप्रसादलब्धः
पाशुर्दानयोग्यः। तत्तस्मादात्मद्वचसा स दशग्रीवो वाच्यः__पृथ्वी मया
कश्यपय प्रतिपादिता, तुभ्यं पातालत्रिदिवयोर्मध्यात्किं निर्जित्य दीय-
ताम् इत्यनुचितं मुनेर्लोकहितप्रवृत्तस्य त्रैलोक्यकण्टकभूताय राक्षसाय
भुवनप्रतिपादनम् ।
अपादानैचित्यं यथा मालवरुद्रस्य__
एतस्माज्जलधोर्मिताम्बुकणिकाः काश्चिद् गृ?हीत्वा ततः,
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां,
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूच्युतः ॥
अत्र यदुक्तमेतस्मान्महोदधेः परिमिताम्बुकणिकाः प्राप्य जलदा
जगत्पूरयन्ति, तथा भ्रमन्मन्दरकूटकोटिसंधट्टत्रासतरलतारकामेकां
जलमानुषीं श्रियं प्राप्य श्रीमानच्युतोऽभूदिति तेन सागरगतनिरति-
शयोत्कर्षविशेषः प्रदर्शितः । त्र एतस्माज्जलघे रित्येत्पदमौचित्यस्य मूलभूमिः ॥
न तु यथा भट्टेन्दुराजस्य__
आदाय वारि परितः सरितां मुखेभ्यः
किं नाम साधितमनेन महार्णवेन ।
क्षारीकृतं च वडवाहने हुतं च
पातालमूलकुहरे विनिवेशितं च ॥
अत्र महार्णवव्यपदेशेनान्योपार्जितद्रविणुर्व्ययकारिणः सत्संवि-
भाग-विमुखस्य कस्यचिदुच्यते । सरितां मुखेभ्यः समन्तात्तोयमादाया-
पात्रेभ्यः प्रतिपादितं दूषितम् । यत्त्वत्र सरिद्भ्यः समादायेति वक्तव्ये
सरिन्मुखेभ्य इत्युक्तं तेन मुखाशब्दस्य नैरर्थक्यादत्रानौचित्यमेव पर्य-
वस्यति ।
अधिकरणौचित्?यं यथा कुन्तेश्वरदौत्ये कालिदासस्य__
इह निवसति मेरुः शेखरः क्ष्माधराणा-
मिह विनिहितभाराः सागराः सप्त चान्ये ।
इदमहिपितभोगस्तम्भविभ्राजमानं
धरणितलमिहैव स्थानमस्मद्विधानाम् ।
अत्र महाराजदूतोऽपि सामन्तास्थाने स्वप्रभुसमुचितगौरवपूजार्ह-
मासनमनासाद्य कार्यवशेन भूमावेवोपविष्टः प्रागल्भयगाम्भीर्येणैवं ब्रूते?0__
यथाऽस्मद्विधानां वसुधातल एव भुजगपतिभोगस्तम्भप्राग्भरनिष्कम्पे
धासने स्थानं युक्तं यस्मादिहैव मेरुचलचक्रवर्ती समुपविष्टः सप्त-
सागरा अब्धयश्च, तत्तल्यतैवास्माकमित्यौचित्मधिकरणपद- सम्बद्धमेव ।
नतु यथा परिमलस्य__
तत्र स्थितं स्थितिमतां वर वेच ! दैवाद्
भृत्येन ते चकितचित्तमियन्त्यहोनि ।
उत्कम्पिनि स्तनतटे हरिणेक्षणानां
हारान्प्रवर्तयति यत्र भवत्प्रतापः ॥
अत्र त्वद् भृत्येन मया तत्र तस्मिन्देशे स्थितं यत्र भवत्प्रतापः कम्प-
तरलस्तनतटे हरिणटृशां हारान्प्रवर्तयतीति यदुक्तं तेन शौर्यश्रृङगार-
गुणोत्कर्षस्तुतौ सर्वतो दिग्गमनाविच्छिन्नप्रसरः प्रतापः पारिमित्यं
प्राप्तः । एकत्र परिच्छिन्ने देशे मया तत्र स्थितं यत्र त्वप्रतापस्तरु-
णीस्तनतटेषु हारतरलनं करोत्यन्यदेशे विलक्षणमुपलक्षणम् । सर्वगत-
श्चेत्प्रतापस्तत्सर्वत्रैव मया स्थितमिमति वक्तव्ये तत्रेत्येकदेशाभिधायि
पदं नोपपद्यते, दस्युमात्रस्याप्येकदेशे जृम्भमाप्रतापत्वात् । तदत्राधि-
करणपदगतमनौचित्यमुपलभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भव-
त्प्रताप इत्येव स्तुत्युचितं युक्तयुक्तं स्यात् ॥ 20 ॥
लिङगौचित्यं दर्शयितुमाह__
अचितेनैव लिङेगन काव्यमायाति भव्यताम् ।
साभ्राज्यसूचकेनेव शरीरं शुभलक्ष्मणा ॥ 21 ॥
प्रस्तुतार्थोचितेन लिङेगन काव्यं भव्यतामुपयाति राजलक्षणेनेव
शरीरम् ।
यथा मम ललितरत्नमालायाम्__
निद्रां न स्पुशति त्यजत्यपि धृतिं धत्ते स्थितिं न क्वचिद्
दीर्घां वेत्ति कथां व्याथां न भजते सर्वात्मना निर्वृ तिम् ।
तेनाराधयता गुणस्तवजपध्यानेनन रत्नावलीं,
निःसङेगन पराङगनापरिगतं नामपि नो सह्मते ॥
अत्र वत्सेश्वरस्य रत्नावलीविरहविधुरचेतसः स्मरावस्थासमुचितं
विदूषकेण सुसङगतायै यदभिहितम्__निद्रां न स्पृशति, धृतिं
त्यतति, र्स्थिनिं न धत्ते, दीर्घां कथां व्यथामिव वेत्ति, तिर्वृ तिं न भजते
तां विना तेन तद्गुणजापिना तद्धचाननिरतेन जनसङगत्यागिनाऽन्या-
सामङगनानां नामापि न सह्मते । तत्र स्थितिधृतिकथानिर्वृ तीनां स्त्री-
लिङगाभिधानेनाङगानात्वध्यारोपेण परमौचित्यं प्रतिपादितम् ।
नतु यथा मम नीतिलतायाम्__
वरुणरणसमर्था स्वर्गभङैग कृतार्थ,
यमनियमनशक्ता मारुतोन्माथसक्ता ।
धनदनिधनशय्या लज्जते मर्त्ययुद्धे
दहनदलनचण्डा मण्डली मद्भुजानाम् ॥
अत्र रावणः कपिनिकरामर्षविषमविकाराविष्कारोचितं ब्रूते__
चरुणादिलोकपालविशालबलावलेपविप्लवकारिणी मर्त्यमात्रयुद्धेलज्जते
प्रचण्डा मद्भुजमण्डलीति स्त्रीलिङेगन निर्देशस्त्रैलोक्यविजयोचितस्य
प्रतापस्य कठोरतामपहरन्ननौचित्यं सूचयति ॥ 21 ॥
वचनौचित्यं दर्शयितुमाह__
उचितैरेव वचनैः काव्यमायाति चारुताम् ।
अदैन्यधन्?यमनसां वदनं विदुषामिव ॥ 22 ॥
अचितैरेकवचनद्विवचनबहुवचनैः काव्.यं चारुतामायाति अदैन्यो-
दारचेतसां विदुषामिव वदनयाञ्चाचारुचिरौचित्यचारुभिर्वचोभिः ।
यथा मम नीतिलतायाम्__
त्रैलोक्याक्रमणैर्वराहविजयैर्निःसंख्यारत्नाप्तिभिः,
प्रख्यातः स्वरसस्वयंवरशतैर्युद्धाब्धिमध्ये श्रियः ।
साश्चर्यै र्ब लिबन्धनैश्च बहुभिर्नित्यं हसत्युत्थितः
पौलस्त्यः सकृदुद्यमश्रमवशाद्व्चासक्तनिद्रं हरिम् ॥
अत्र शुकसारणाभ्यां रघुपतेरग्रे दशग्रीवपराक्रमेऽभिधीयमाने
यदुक्तं पैलस्त्यः शेषशायिनं हरिमेकवारेद्योगश्रमवशेन संसक्तालस्य-
निद्रमनेकत्रैलोक्याक्रमणैर्वराहविजयिनां सुभटानां जयैरनेकरत्नप्रा-
प्तिभिः समरसमुद्रमध्ये बहुवारविहितैः श्रियः स्वयंवरशतैबैलिनां च
लोकपालानां बन्धनैः प्रख्यातः दोत्थितः सोत्साहः सततं हसतीति
बहुवचनैरेव हरिवैलक्षण्यलक्षणमुपचितमौचित्यमुदञ्चितम् ।
नतु यथा मातृगुप्तस्य__
नायं निशामुखसरोरुहराजहंसः,
कीरीकपोलतलकान्ततनुः शशाङकः ।
आभाति नाय ! तदिदं दिवि दुग्धसिन्धु-
डिण्डीरपिण्डपरिपाण्डु यशस्त्वदीयम् ॥
अत्र नायं शरी त्वदीयं दुग्धाब्धिफेनपिण्डपाण्डुरं यश इति यदभि-
हितं तदविच्छिन्नप्रराणां यशसां बहुवचनेन वर्णनायां समुचिताया-
मेकचनोचित्युमुदभावयति ।
विशेषणौचित्यं दर्शयितुमाह__
विशेषणैः समुचितैर्विशेष्योऽर्थः प्रकाश्याते ।
गुणाधिकैर्गुणोदारः सुहृदिभरिव सज्जनः ॥ 23 ॥
काव्ये विशेष्योऽर्थः समुचितैरेव विशेषणैः शोभां लभते, गुणोदारः
साधुर्यथाऽभ्यधिकगुणैः सुहृदिभः ।
यथा मम मुनिमतमीमांसायाम्__
चैत्रे सूत्रितयौवनान्युपवनान्यामोदिनी पह्मिनी,
ज्योत्स्नाप्रावरणानि रत्नवलभीहर्म्याणि रम्याः स्त्रियः ।
सर्वं चारुतरं न कस्य दयितं यर्स्मिस्तु तद्भुज्यते,
तन्मृन्निर्मितमामभाजनमिव क्षिप्रक्षयं जीवितम् ॥
अत्र युधिष्ठिरस्यासादितमहाविभूतेर्मयनिर्मितमणिमयसभाभि-
मानिनो विभवप्रभावे वर्ण्यमाने सकलभावाभावस्वरूपभाववादोपदे-
शिनोमहामुनेराशयविचरावसरे यदुक्तं कुसुमसमयसमुपचितयौवना-
न्युपवनानि मकरन्दामोदसयुन्दरारविन्दिनो ज्योत्स्नापटप्रावृतानि रत्न-
वलभीहर्म्याणि रमणीया रमण्श्चेति सर्वमेतच्चारुतरं सर्वस्याभि-
मतम् । किन्तु यस्मिन्भुज्यते तज्जीवितमाममृत्पात्रनिःसारं क्षिप्रक्षय-
मिति तद्विशेष्यपदोत्कर्षकारिविशेषणपदोदितसौन्दर्येण पर्यन्तनिःसार-
तानिर्वेदसवादिस्फुरदौचित्यमातनोति ।
न तु यथा भट्टलट्टनस्य__
ग्रीष्मं द्विषन्तु जलदागममर्थयन्तां
ते सङकटप्रकृतयो विकटास्तडागाः ।
अब्धेस्तु मुग्धशफरीचटुलावचलोचलेन्द्र-
निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥
अत्र ग्रीष्मं द्विषन्तु मेघागमं सङकटस्वभावा विकटा
विस्तीर्णाश्च
तटाकाः प्रार्थयन्ताम्, महब्धेस्तु बालशफरीलोलाचलेन्द्रनिश्चलकुक्षि-
पयसो ग्रीष्मघनागमावप्यगणनीयाविति यदुक्तम्,तत्र तडागविशेषणयोः
सङकटविकटपदयोः परस्परविरुद्धार्थयोरनौचित्यं स्पष्टमवभासते,
सङकटस्वभावस्य हि विकटत्वं विस्तीर्णत्वं नोपपद्यते । अथ स्वभावे
सङकटमाकारे विकटत्वम्, तदपि तटाकस्य निश्चेतनस्य स्वभावा-
भावादनुपपन्नमेव ॥ 23 ॥
उपसर्गैचित्यं दर्शयितुसाह__
योग्योपसर्गसंसगैर्निरर्गलगुणोचिता ।
सूक्तिर्विवर्धते सम्पत्सन्मार्गगनैरिव ॥ 24 ॥
अचितैः प्रादिभिरुपसर्गैः सूक्तिरुन्नतिमासादयति, विभूतिरिव
सन्मार्गगमनैः ।
यथा मम मुनिमतमीमांसायाम्__
आचारं भजते त्यजत्यपि मदं वै राग्यमालम्बते,
कर्तुं वाञ्छति सङगभङगगनिलतोत्ततुङगाभिमानं तपः ।
र्दवत्यस्तविपर्ययैः सुखशिखाभ्रष्टः प्रणाष्टो जनः,
प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यताम् ॥
अत्र दुर्योधनस्य घोषयात्रायां गन्धर्वबन्धपराभवभग्नाभिमानस्य
प्राज्यसाभ्राज्यमुत्सृज्य तपःप्रयत्नाभिविष्टस्य दुर्ग्रहे
वर्ण्यमाने
यदुक्तं__सर्वो जनः सुख भ्रष्टः प्रणष्टविभवः सदाचारं भजते, मदं
त्यजति, वैराग्यमाश्रयति, सङगभङगेन विगलितोत्तुङगाभिमानं तपः
कर्तुं वाञ्छति, प्रायो बाहुल्येन तापविगलितलोहपिण्डसदृशीं कर्मण्य-
तामायातीति, तत्रोत्पूर्वतया सोपसर्गस्य तुङगशब्दस्य स्व्भावोत्रतिर्द्वि-
गुणातामुपयाता दुर्मदाभिमानार्थैचित्यमुच्यैः करोति ।
न तु यथा कुमारदासस्य__
अयि विजहीहि दृढोपगूहनं त्यज नवसङगमभीरु ! वल्लभम् ।
अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदिन्त कुक्कुटाः ॥
अत्राभिनवानङगसङगमगाढालिङगननिश्चलाङगच्छन्नाङगनाप्रबोधने
सख्या यदुक्तं मुञ्च वल्लभं प्रभातसंध्ययामरुणकिरणोद्गमो वर्तते,
कुक्कृटाश्च सम्प्रवदन्तीति, तच्च
सम्प्रोपासर्गंशून्याशब्दापूरणमात्रेण
निरर्थकत्वानुचितमेव ॥ 24 ॥
निपातौचित्यं दर्शयितुमाह__
उचितस्थानविन्यस्तैर्निपातैरर्थसङगति ।
उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥ 25 ॥
उपादेयैश्चा?दिभिर्निपातैरुचितपदविनिवेशितैः काव्याथैस्य सङगति-
रसन्दिधा सत्सहायैरिव भवति ।
यथ मम मुनिमतमीमांसायाम्__
सर्वे स्वर्गसुखथिनः त्रतुशतैः प्राज्यैर्यजन्ते जडा-
स्तेषां नाकपुरे प्रयाति विपुलः कालः क्षणार्धं च तत् ।
क्षीणे पुष्यधने स्थितिनं तु यथा वेश्यागृहे कामिनां, तस्मान्मोक्षसुखं समाश्रयत भोः ! सत्यं च नित्यं च यत् ॥
अत्र स्वर्गसुखस्य वेश्याभोगवदवसानविरसचपलतायां प्रतिपा-
दितायां निश्चलमोक्षसुखस्य निःसन्देहनिश्चिता प्रतिपत्तिर्निपातपदो-
पबृंहिता वाक्यार्थौचित्यं जनयति ।
न तु यथां श्राचक्रस्यम__
देवो जानाति सर्वं यदपि च तदपि ब्रूमहे नीतिनिष्ठं,
सार्द्धं सन्धाय जालान्तरधरणिभुजा निर्वृ तो बान्धवेन ।
स्लेच्छानुच्छिन्धि भिन्धि प्रतिदिनमयशो रुन्धि विश्वं यशोभिः,
सोदन्वन्मेखलायां परिकलय करं किञ्च विश्वम्भरायाम् ॥
अत्र क्षितिपतिस्तुतिप्रस्तावे “देवो जानाति सर्वं यदपि च तदपि’’
इति तदुक्तं तत्र पूर्वापरयोरसम्बन्द्धत्वेन निरर्थक एव निरुपयोगश्च-
कारः प्रततोत्सवबहुजनभोजनपङ्क्तावपरिज्ञातः स्वयमिव मध्ये
समुपविष्टः पश्चादभिव्यक्तः परं लज्जादुर्मना अनौचित्यं प्रतनोति ॥ 25 ॥
कालौचित्यं दर्शयितुमाह__
कालौचित्येन यात्येव वाक्यमर्थेन चारुताम् ।
जनावर्जनरम्येण वेषेणेव सतां वपुः ॥ 26 ॥
कालकृतौचित्ययुक्तेनार्थेन वाक्यं चारुतामेति वेषपरिग्रहेणेव
कालयोग्येन सतामवसरज्ञानां वपुः ।
यथ्या मम मुनिमतमीमांसायाम्__
योऽभूद गोपिशिशुः पयोदधिशिरश्चौरः करीषङकष__
स्तस्यैवाद्य जगत्पते खगपते शौरे मुरारे हरे ।
श्रीवत्साङक ! जहैरिति स्तुतिपदैः कर्णौ नृणां पूरितौ,
ही कालस्य विपर्ययप्रणयिनी पाकक्रियाश्चर्यभूः ॥
अत्रामर्षविषविषमाविष्कारमुमूर्षुणा शिशुपालेनाभिधीयमाने
यत्किल गोपलबालः पयोदधिशिरश्चौरः करीषङकषोऽभूत्तस्यैवाद्य
जगन्नाथादिभिः स्तुतिपदैर्नु णां कर्णौ पूरितौ ही बत कालस्य विपर्यय-
कारिणी पाकक्रियाऽऽचर्य भूमिरिति वाक्येभूदिति भूतकालेनाश्चर्य-
परिषोषरुचिरमारब्धाधिक्ष पलक्षणं वक्यौचित्यं कृतम् ।
यथा वा मालवकुवलयस्य__
च्यतुतसुमनसः कुन्दाः पुष्पोद्गमैरलसा द्रुमा,
मनसि च गिरं गृह्णन्तीमे किरन्ति न कोकिलाः ।
अथ च सवितुः शीतोल्लासं लुलन्ति मरीचयो
न च जरठतामरलम्बन्ते क्लमोदियदायिनीम् ॥
अत्र शिशुतरवसन्तकान्तोपवननवरसोल्लाससूच्यमानमनसिजो-
त्कण्ठावर्णनायामृतुमन्धिसमुचिताः कुन्दाः कुसुमावसानशून्यतनवः,
किंशुकाशोकाः कलिकोद्गमभरालसाः, मनसि कोकिलाः कलकूजिता-
न्यनुसन्दधति, रबेर्मरीचयः शीतोल्कासमथ च निवारयन्ति न च
सन्तापदायिनीं प्रौढतामालम्बन्ते इत्युक्ते वर्तमानकालपदेष्वेव
हृदयसंवादसुन्दरमौचित्यं किमप्यामोदते ।
यथा च भूट्टभल्लटस्य__
मृत्योरास्यमिवाततं धनुरिदं मुर्च्छद्विषाश्चषेवः,
शिक्षा सा विजितार्जुना प्रतिलयं सर्वाङगलग्ना गतिः ।
अन्तःकौर्यमहो शठस्य मधुनो हा हारि गीतं मुखे,
व्याधस्यास्य यथा भष्यियति तथा मन्ये वनं निर्मृगम् ॥
अत्र लुब्धकस्य धनुः सायकशिक्षागतिक्रौर्यगीतानि तथा यथा
वनं निर्मृगं भविष्यतीति भविष्यत्कालः प्रककृतार्थपरिपोषेण हृदयसंवा-
दौचित्यमादधाति ।
न तु यथा वराहमिहिरस्य__
क्षीणश्चन्द्रो विशति तरणेर्मण्डलं मासि मासि
लब्ध्वा का?ञ्चित्पुनरपि कलां दूरदूरानुवर्ती ।
स्म्पूर्णश्चेत्कथमपि तदा स्पर्द्धयोदेति भानो-
र्नो दौर्जन्यादिरमति जडो नापि दैन्याद्वचरंसीत् ॥
अत्र रवेर्मण्डलं क्षीणः शशी प्रतिमासं प्रविशति ततः का?ञ्चिदाप्या-
यिकां कलां प्राप्य दूरे दूरे भवति,परिपूर्णश्च तस्यैव स्पर्द्ध याऽभ्युदेति,
दौर्जन्यान्न्?ा विरमति न च दैन्याद्वचरंसीदित्येतद् “विरमति
व्यरंसीत्
इति परस्परासङगतं कालपदद्वयं चन्द्रस्य सदृशयोर्दौर्जन्ययोः सर्वकाल-
मभिनिर्वु तयोर्यदुपन्यस्तं तत्र व्यरंसीदिति विरुद्वार्थत्वादनुचित-
मेव ॥ 26 ॥
वेशौचित्यं दर्शयितुमाह__
देशौचित्येन काव्यार्थः ससंवादेन शोभते ।
परं परिचयाशंसी व्यवहारः सतामिव ॥ 27 ॥
देशविषयौचित्येन हृदयसंवादिना काव्यार्थः सतां व्यवहार इव
परिचयसूचकः शोभते ।
यथा भट्टभवभूतेः__
पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृ ष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥
अत्र बहुभिर्वर्षैरतिक्रान्तै शम्बूकवधप्रसङेगन दण्डकारण्यं रामः
पूर्वपिरिचतं पुनः प्रविष्टः समान्तादवलोक्यैवं ब्रूते__‘‘पुरा यत्र
नदीनां
प्रवाहस्तत्रेकदानीं तटम्, वृक्षाणां घनविरलत्वे विपर्ययश्चिराद् दृष्टं
वनमिदमपूर्वमिव मन्ये, पर्वतसन्निवेशस्तु तदेवैतदिति बुद्धिं स्थिरीकरी-
ति” इत्युक्ते चिरकालविपर्यपरिवृत्तसंस्थानकरानकाननवर्णनया हृदयसंवादी
देशस्वभावः परमौचित्यमुद्द्योतयति ।
न तु यथा राजशेखरस्य__
कर्णटीदशानाङिकतः सितमहाराष्ट्रीकटाक्षाहतः,
प्रौढान्ध्रीस्तनपीहितः प्रणयिनीभ्रूभङगवित्रासितः ।
लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः,
सोऽयं सम्प्रति राजशेखरकविर्वाराणसीं वाञ्छति ॥
अत्र कर्णटमहाराष्ट्रान्ध्रलाटमलयललनासम्भोगसुभगः कालेन
गलितरागमोहः सम्प्रति राजशेखरकविर्वाराणसीं गन्तुमिच्छ?तीत्युक्ते
श्रृङगाररसतरङिगतवराङगनाप्रसङेगऽनङगनिरर्गलदक्षिणापयथदेशोद्दे श__
मध्येप्रणयिनीभ्रू भङ्गवित्रासित इति देशोपलक्षणाविरहितकेवलप्रण_
यिनीपदेन देशौचित्यमुपचितमप्यनुचिततां नीतम् ॥ 27 ॥
कुलौचित्यं दर्शयितुमाह__
कुलोपचितमौचित्यं विशेषेत्कर्षकारणम्
काव्यस्य पुरुषस्येव प्रियं प्रायः सचेतसाम् ॥ 28 ॥
पुरुषस्येव काव्यस्य कुलोन्नतमौचितृयं सविशेषोत्कर्षजनकं प्रायेण
बाहुल्येन सहृदयानामभिमतम् ।
यथा कालिदासस्य__
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवापरणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥
अत्र” अथ स राजा वृद्धस्तरुणाय सूनवे राज्यं प्रतिपाद्य तया देव्या
सह तपोवनं भेजे, विरक्तचेतसामिख्वाकूणामन्ते हि कुलव्रतीमदमेव’’
इत्युक्ते भूतवर्तमानभाविनां तद्वंश्यानामौचित्यमुन्मीलितम् ।
न तु यथा यशोवर्मंदेवस्य__
उत्पत्तिर्भण्डकुले यदभीष्टं तत्पदं समाक्रान्तम् ।
भोगास्तथापि दैवात्सकृदिप भोक्तं न लभ्यन्ते ॥
अत्र ममोत्पत्तिर्भण्डकुले समीहितपदाक्रमणं च निष्पन्नं तथापि
दैवार्पितप्रियावियोगादभोगा भोक्तु न लभ्यन्त ?इत्यभिहिते स्वसंवे-
द्यमेव भण्डकुलमन्यत्राप्रसिद्धं स्वयमेव निर्दिदिश्यमानमुत्कर्षविशेषण-
विरहितकेवलपदोदनेन निरर्थकतया निरौचित्यमेव । इक्ष्वाकुकुलस्य
तु निर्विशेषणत्वमुपपद्यत एव, त्रिभुवनप्रसिद्वौचित्यचरित्रत्वात् ॥ 28 ॥
व्रतौचित्यं दर्शयितुमाह__
काव्यार्थः साधुवादाहंः सद्व्रतौचित्यगौरवात् ।
सन्तोषनिर्भरं भक्त्या करोति जनमानसम् ॥ 29 ॥
काव्यार्थः समुचिततव्रतगौरवात्सधुवावादयोग्यः सन्तोषपूर्णं जनमनः
करोति । भक्तिविंच्छित्तिः ।
यथा मम मुक्तावलीकाव्ये__
अत्र वल्कलजुषः पलाशिनः पुष्परेणुभरभस्मभूषिताः।
लोलभृङगवलयाक्षमालिकास्तापसा इव विभान्ति पादपाः ॥
अत्र तपोधनोचिंव्रतव्यञ्जकवल्कलभस्माक्षसूत्रप्र णयिपादपवर्ण-
नायामचेतनामपि शमसमयविल चित्तवृत्तिरौचित्युपननयति ।
न तु यथा दीपकस्य__
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपाली-
मादाय न्यायगर्भद्विजहुतहुतभुग्धूमोपकण्ठम् ।
द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो-
मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः॥
अत्र वैराग्यनिरर्गलवर्णनायां भिक्षाकपलीमादाय क्षुत्क्षामः कुक्षि-
पुरणाय प्रवृत्तो मानी वरं द्वारं द्वारं यष्टिनिविष्टपाणिः परिभ्रान्तो न
पुनरनिशं तुल्युकुल्येषु दीन इत्युक्ते सहजप्रशमविमल मानसविश्रान्ति-
सन्तोषामुत्सृज्य तुल्युकुल्यद्वेषविजिगीषापरमेव वाक्यं भृशमनौचित्य-
मुदभावयति । वरमेतत्तीव्रव्रतकष्टं न तु स्वजनदैन्यायचनमिति संसार-
ग्रन्थिबन्धाभिमानोयन्यासः ॥ 29 ॥
तत्त्वैचित्यं दर्शयितुमाह__
काव्यं हृदयसंवादि सत्यप्रत्ययनिश्चयात् ।
तत्त्वोचिताभिधानेन यात्पयुपादेयतां कवेः ॥ 30 ॥
तत्त्वोचिताख्यानेन कवेः सूक्तं सत्यप्रत्यस्यैर्यात्संवदि
गृह्मतां याति ।
यथा मम बौद्धावदानलोतिकायाम्__
दिवि भूवि फणिकोके शैशवे यौवने वा
जरसि निधनकाले गर्भशय्याश्रये वा ।
सहगमनसहिष्णोः सर्वथा देहभाजां
नहि भवति विनाशः कर्मणः प्राक्तनस्य ॥
अत्र प्राक्तनस्य कर्मणस्त्रैलोक्ये शैशवयौवनवृद्धत्वास्थासु देहिनां
सहगमने समर्थत्वान्न्?ा विनाशोऽस्तीत्युक्ते निःसंशयसकलजनहदय-
संवादितत्त्वाख्यानमौचित्यं ख्यापयति ।
न तु यथा माघस्य__
बुभक्षितैव्यकिरणं न भुज्यते न पीयते काव्यरसः पिपासितैः ।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥
अत्रायर्थार्थाथिंथतापरत्वेन धनमेवार्जय, क्षुधितैर्व्याककरणं
न
भुज्यते, न च काव्यरसः पिपासितैः पीयते, न च विद्यया कुलं केन-
?Bचिदुद्धृतमित्युक्ते सर्वमेतद्दारिद्रचदैन्यविद्रुतधैर्यकातरताया
तत्त्वविर-
हितं विपरीतमुपन्यस्तमनौचित्यसयुक्तमेव । विद्याानामेव सर्वसम्पत्प्र-
सपिवनीनां कुलोद्धारक्षमत्वं नान्यस्य ॥ 30 ॥
सत्त्वैचित्यं दर्शयितुमाह__
चमत्कारं करोत्येव वचः सत्त्वोचितं कवेः ।
विचारीरुचिरोदारचरितं सुमतेरिव ॥ 31 ॥
सत्त्वोचितं कवेर्वचश्चमत्कारं करोति, सुमतेरिव विचार्यमाणं
रुचिरमुदारवरितम् ।
यथा मम चित्रभारते नाटके
नदीवृन्दोद्दामप्रसरसलिलापृरिततनुः,
स्फुरत्स्फीतज्वालानिविडवडवाग्निक्षतजलः ।
न दर्पं नो दैन्यं स्पृशति बहुसयत्त्वः पीतरपा- मवस्थानां भेदादभवति
विकृतिर्नैव महताम् ॥
अत्र पयोधिव्यपदेशेन युधिष्ठिरस्य सत्त्वोत्कर्षेऽभिधीयमाने सरि-
त्पूरप्रवर्धिततनुर्वडवाग्निनिष्पीतश्च नोत्सेकं न सङकोचमब्धिर्विपुल-
सत्त्वः स्पृशति, न ह्मवस्थानां भेदान्महाशयानां विकारो
भवतीत्युक्ते
गम्भरीरधीरा सत्त्ववृत्तिरौचित्यमातनोति ।
न तु यथा भट्टेन्दुराजस्य__
आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भो निधि-
र्यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।
एकस्याशयघस्मरस्य पिबतस्तृप्तिर्न जाता जलै-
रन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि जातः श्रमः ॥
अत्र वडवानलसमुद्रयोः सत्त्वमहत्त्वे वक्ष्यमाणे नातिविपुलाशयत्वा-
देकस्य पिबतः, पयोभिस्तृप्तिनं जाता, द्वितीयस्य तदुपजीव्यमानस्य न
मनागपि खेदः, तदेतदुभयमाश्चर्यमित्युक्ते निःसन्तोषतया सततया च
कस्य न वडवाग्नेर्लज्जा न च जलनिघेराश्रितैकार्थिपूरणसामर्थ्यमित्य-
सत्त्वे सत्त्वस्तुतिरनौचित्यमावहति ॥ 31 ॥
अभिप्रायौचित्यं दर्शयितुमाह__
अकदर्थनया सूक्तमभिप्रायसमर्थकम् ।
चित्तमावर्जयत्येव सतां स्वस्थमिवार्जवम् ॥ 32 ॥
अक्लेशेनाभिप्रायसमर्थकं काव्यं हृदयमावर्जयति, सज्जनानां
निर्मलमार्ज वमिव ।
यथा दीपकस्य__
श्येनाहिङ्ध्रग्रहदारितोत्तरकरो ज्याङगप्रकोष्ठान्तर,
आताभ्राधरपाणिपादनयनप्रान्तः पृथूरः स्थलः ।
मन्येऽयं द्विजमध्यगो नृपसुतः कोऽप्यम्ब ! निःशम्कलः,
पुत्र्येवं यदि कोष्ठमेतु सुकृतैः प्राप्तो विशेषातिथिः ॥
अत्र स्वैररमणी रमणीयं दिवसावसाने युवानं पथिकमालोक्याभि-
प्रायसूचकं जननीमेवं ब्रूते__“यदसौ राजपुत्राकृतिः श्येनग्रहनाराच-
?परिचयोचितः सायंसमये प्राप्तः हत्युक्ते मात्राप्यभिप्रायपूरकमभिहि-
तम्–पुत्रि ! यद्येवं तत्कोष्ठाङंक प्रविशतु सुकृतैर्विशेषोऽतिथिः प्राप्तः
पूज्य इत्येतेन स्फुटाभिप्रायसूचकमौचित्यमुपचितमाचकास्ति ।
न तु यथाऽस्यैव-
अयि विरहविचित्ते ! भर्तुरर्थे तथार्ता
सपदि, निपतिता त्वं पादयोश्चण्डिकायाः ।
स्वयमुपहितधूपस्थालकच्छत्रश्रृङगो-
द्दलितमपि ललाटं येन नैवाललक्षे ॥
अत्राविनयदत्याः सुचिरात्पत्पयावगते ललाटनखोल्लेखापह्नववचने
सख्या समुपदिश्यमाने हे विरहोन्मत्ते भर्तुरर्थे चणिडकापादपतने स्वयं
स्थापितधूपस्थालको टिक्षतमनि न लक्षितं भवत्या ललाटमित्युक्तौ
स्वैरापह्नवशिक्षामात्रमेवोपलक्ष्यते, न तु तस्याः सख्या वा कश्चिदभि-
प्रायविशेषः ॥ 32 ॥
स्वभावौत्यिं दर्शंयितुमाह—
स्वभावौचित्यमाभाति सूक्तीनां चारु भूषणम् ।
अकृत्रिममसामान्यं लावण्यमिव योषिताम् ॥ 33 ॥
यथा मम मुनिमतमीसायाम्—
कर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङिगना,
हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी ।
निर्धौताञ्जनशोणकोणनयना स्नानावसानेऽङगना,
प्रस्यन्दत्कबरीभरा न कुरुते कस्य स्पृहार्द्रं मनः ॥
अत्र “व्याससूनोः शुकस्य गाढवैराग्यनिःसङगस्य, गगनगङगातीरे
स्नातोत्तीर्णास्त्रिदशयोषितो विवसनास्तद्दर्शननिःसङकोचाः पश्यतः
प्रशमविमलमनसः स्मरव्यतिकरनिर्विकारतायां कर्णमूलोत्क्षिप्तालक-
पर्यन्तनिपतत्तोयकणसन्तानेन स्तनयोः कृतमुहूर्तहाराविभ्रमा, शीतेन
रोमाञ्चसीत्कारिणी, धौताञ्जनारुणनयनान्ता, प्रस्त्रवन्मुक्तकेशकलापा,
स्नानोत्तीर्णा तरुणी कस्य स्पृहार्द्र न ममः करोतीत्युक्ते’’ स्वयमार्द्र -
स्वभावः परमप्यार्द्रीकरोतीत्युचितमेतत् ।
न तु यथा मम तत्रैव__
भक्तिः कातरतां क्षमा सभयतां पूज्यस्तुतिर्दीनतां,
धैर्यं दारुणतां ?मतिः कुटिलतां विद्याबलं क्षोभताम् ।
ध्यानं वञ्चकतां तपः कुहकतां शीलव्रतं षण्ढतां,
पैशुन्यव्रतिनां गिरां किमिव वा नायाति दोषार्द्र ताम् ॥
अत्र पिशुनस्वभावे वर्ण्यमाने भक्तयादीनां गुणानां वैवपरीत्ये प्रति-
पादिते पिशुनानां वचसां किं वा दोषार्द्रतां नायातीत्यभिहिते स्वय
मनार्द्र स्वभावस्य पशर्द्रीकरणमनुचितमेव ॥ 33 ॥
सारसङ्ग्रहौचित्यं दर्शयितुमाह__
सारसङ्ग्रहवाक्येन काव्यार्थः फलनिश्चितः ।
अदीर्घसूत्रव्यापार इव कस्य न स्म्मतः ॥ 34 ॥
सारसंग्रहवाक्येन काव्यार्थः सुनिश्चितफलः शीघ्रकारिण इव
व्यापारः कस्य नाभिमतः ।
यथा मम मुनिमतमीमांसायाम्__
विविधगहनगर्भग्रन्थसम्भारभारै-
र्मुनिभिरभिनिविष्टैस्तत्त्वमुक्तं न कि?ञ्चित् ।
कृतरुचिरविचारं सारमेतन्महर्षे-
रहमिति भवभूमिर्नाहमित्येव मोक्षः ॥
अत्र भगवद्गीतार्थविचारे सारसंग्रहोऽभिहितः__यत्किल मुनिभिर-
नेकभेवभिन्नशास्त्रजहैरभिविष्टमभिनिविष्टमतिभिस्तत्त्वमुपादेयं न
किञ्चत्क-
थितम् । भगवतो महर्षेर्व्यासस्य सुमतेर्विमलविचारोत्तीर्ण निश्चितमेत-
देव__यदहङकारः संसारमूलभूमिर्ममतपारित्याग एव मोक्ष इति तत्संक्षे-
पेण भयक्षयोपदेशः प्रकृतार्थस्य परममौचित्यं पुष्णाति ।
न तु यथा परिव्रजकस्य__
तपो न तप्तं वयमेव तप्रा भोगा न भुक्ता वयमेव भुक्ताः।जरा न जीर्ण वयमेव जीर्णस्तृष्णा न याता वयमेव याताः॥
प्रतिभौचित्यं दर्शयितुमाह__
प्रतिभाभरणं काव्यमुचितं शोभते कवेः ।
निर्मलं सुगुणस्येव कुलं भूतिविभूषितम् ॥ 35 ॥
यथा मम लावण्यवत्याम्__
अदय ! दशसि किं त्वं बिम्बबुद्धचाधरं मे
भव वपल निराशः पक्वजम्बूफलानाम् ।
इति दयितमवेत्य द्वारदेशाप्तमन्या
निगदति शुकमुच्यैः कान्तदन्तक्षतौष्ठी ॥
अत्र कयापि द्वारवेशाप्तं प्रियं ज्ञात्वा वन्यकामुकदशनखण्?िडतोष्ठचा
सम्प्रति तदागमन।नभिज्ञसयेव शुममुद्दिश्य यदुक्तं निदंय किं ! त्वं बिम्ब-
फललोभादधर मम विदारयसि, पक्वानां ज्म्बूफलानामिदानीं चपल
निराशो भव, कुपिता तुभ्यं नो दास्यामीति तेनोच्चैः प्रत्यायनापह्नवन-
वनवोन्मेप्रज्ञाचातुर्यचारुचनमौचित्चमत्कारं करोति । यदाह
भट्टतौतः__“प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता’’ इति ।
न तु यथा मम तत्रैव__
निर्याते दयिते गृहे विशयने निर्माल्यमाल्ये कृते,
प्राप्ते प्रातरसह्मरागिणि परे वारावहारेऽन्यथा ।
द्वाराली?नविलोचना व्यसनिनी सुप्राहमेकाकिनी-
त्युक्त्वा नीविविकर्वणैः स चरणाघातैरशोकीकृतः ॥
अत्र वेश्या व्यालग्नकामुकस्य वारावहारं विधाय नवकानुकेन सह
क्षपायां नीतायां प्रभाते तन्निर्याते शयायाकुमादिसम्भोददिसम्भोगलक्षणे निवा-
रिते वारवञ्चनकुपिते गाढसनुरागग्रहग्रस्तमतौ पूर्वकामुके प्राप्ते त्वदा-
लोकनकांखिणी व्यसनिनी द्वारन्यस्तनयनाहमेकाकिनी सुप्तेति प्रत्याय-
नावचनविलीसन्युसनमप्युसरभससरसनीविविकर्षणोद्यताकृतिकृतेर्ष्याकोपया
चरणनलिनप्रहारैरशोकीकृतः शङकाशल्योन्मुलनान्निःशोकः सम्पादितः
सन्ततपुलकाङकरत्वादशोकतरुतुल्यतां नीत इति वा वाक्यार्थः केवल-
यति, न तु प्रतिभोद्भूतामौचित्यकणिकां सूचयति ॥ 35 ॥
अवस्थौचित्यं दर्शयितुमा__
अवस्थौचित्यमाधत्ते काव्यं जगति पूज्यताम् ।
विचार्यमाणरुचिरं कर्तव्यमिव धीमताम् ॥ 36 ॥
अवस्थोचिततया काव्यं जगति श्लाध्यतामायाति, मतिमतामिव
कृत्यं विचारनिर्धर्षरुचिरम् ।
यथा मम लावण्यवतयाम्__
मुक्तः कन्दुकविभ्रमस्तरलता त्यवक्तैव बाल्योचिता,
मौग्ध्यं निर्धृतमाश्रिता गजगतिर्भ्रू लास्यमभ्यस्यते ।
यन्तर्मोमषु निर्मितं मृगदृशा वैदग्ध्यदिव्यं वच-
स्तह्मिः सुभगाभिमानलटभाभावे निबद्धो भरः ॥
अत्र यदुक्तं__कंन्दुकक्रीडा त्यक्त, बालचापल्यं परिहितम्, मौग्धं
निरस्तम्, गजगतिरङगीकृता, भूलतालास्याभ्यासः क्रियते, नर्मोमिषु
वचनवैचित्र्यमासूत्रितम्, तेन जानीभहे शैशवावस्थां समुत्सृजन्त्या
प्रौढतामनारूढयापि नवसम्भोगगौरवगर्भेण सुभगाभिमानेन लटभाभावे
बालया भरो निबद्धः, इत्यभिहिते स्फुटधिया वयोवस्थामध्यसन्धिवर्ण-
नायामौचित्यं स्फुरदिवावभासते ।
न तुथा राजशेखरस्य__
ज्यायान् धन्वी नवण्धृतधनुस्ताभ्रहस्तोदरेण,
क्षत्रक्षोदव्यतिकरपटुस्ताटकाताडकेन ।
कर्णार्भायर्णस्फुरितपलितः क्षीरकण्ठेन सार्धं,
योद्धुं वाञ्छन्न कथमधुना लज्जते जामदग्न्यः ।
“अत्र भार्गवः स्थाविरावास्थास्थितः स्थिरतपराक्रमककंशप्रौढो धनुधरः शिशुना रामेण धनुर्ग्रहणारुणितकोमलकरकमलेन क्षत्रिय-
क्षयसंरम्भप्रगल्स्ताटकाताडकेन स्फुरदाकर्णपलितः सम्भाव्यमानजन-
नीस्तनक्षीरकण्ठेनामुना युयुत्सुः कथं न लज्जत’’ इत्युक्ते पेशलताया राघवावस्थायां जामदग्न्यावस्थाविरीततायां प्रतिपाद्यमानायां ताट-
काताडकेनेति विरुद्धाधिवासोऽर्थः किमप्यनौचित्येन चेतसि सङकोच-
मादधाति ॥ 36 ॥
विचारौचित्यं दर्शयितुमाह__
उचितेन विचारेण चारुतां यान्ति सूक्तयः ।
वेद्यतत्त्वावबोधेन विद्या इव मनीषिणाम् ॥ 37 ॥
विचारौचित्येन सूक्तयश्चारुतां यान्ति, ज्ञेयस्वरूपज्ञानेन विद्या इव
विदुषाम् ।
यथा मम मुनिमतमीमांसायाम्—
अध्वत्यथामवधाभिधानसमये सत्यव्रतोत्साहिना,
मिथ्या धर्मसुतेन जिह्मवचसा हस्तीति यद् व्याहृतम् ।
सा सत्यामृतरश्मिर्वरमसमं संसूचयन्त्याः सदा,
शङके पङकजसंश्रयेण मलिनारम्भा विजृम्भा श्रियः ॥
अत्र “द्रोणनिधनाख्याने सत्यव्रतोत्साहवता धर्मतनयेनापि मिथ्या
लघुवचसा कुञ्चर इति यदुक्तं सा सततं सत्यचन्द्रद्वेषं सूचयन्त्याः श्रियाः
शङेक पङकजसंश्रयेण मलिनव्यापरा विजृम्भे’’ त्यभिहिते ससंवादलक्ष्मी-
स्वभावपरिभावनया तत्त्वावबो धेन मूलविश्रान्त्या फलपर्यंवसायी
विचारः सहृदयसंवेद्यमौचित्यं व्यनक्ति ।
न तु यथा मम तत्रैव__
प्रग्लाने चिरकालवृत्तदयिताकेशाम्बराकर्षणे,
कूरं राक्षसवैशसं यदि कृतं भीमेन दुःशासने ।
तत्कालक्षमिणा कुशाश्मपरुषारण्यप्रवासे चिरं,
किं पीतं तततापमग्नमहिषस्वेदाम्बुपृक्तं पयः ॥
अत्र भीमसेनचरिते विचार्यमाणे त्रयोदशवर्षपर्युषिते कृष्णाकेशा-
कर्षणपराभवे भीमेन भीमं राक्षसकर्म दुःशासने यदि कृतं तत्सद्यः
कृतार्द्रापराधकालक्षमिणा सुचिरं दर्भसूचीविषमाश्मपरुषवनवासे किं
ग्रीष्मतापनिमग्नमहिषस्वेदस्त्रुतिपृक्तं पयःपीतिमित्यनुपपन्नकृत्येऽभिहिते
कारणविचाराभावान्निर्मुलोवान्निर्मुलोपालम्भात्रमनौचित्यमनुबध्नाति ॥ 37 ॥
नामौचित्यं दर्शयितुमाह__
नाम्ना कर्मानुरूपेण ज्ञायते गुणदोषयोः ।
काव्यस्य पुरुषस्येव व्यक्तिः संवादपातिनी ॥ 38 ॥
यथा कालिदासस्य__
इदमसुलभवस्तुप्रार्थनादुर्निवारः
प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातान्दोलितापण्डपत्रै -
रुपवसहकारैर्दर्शितेष्वङ्कुरेषु ॥
अत्र प्रारम्भ एव ममेदं मनः पञ्चबाणः सुदुर्लंभवस्तुप्रार्थनादुर्नि-
वारः शकलीकरोति किमुत लीलोद्यानसहकारैर्मलयानिलान्दोलितबाल
पल्लवैरङ्कुरेषु दर्शितेष्वित्युक्ते मदनस्? ञ्चबाणाभिधानमुचितमेव ।
यथा वा मम बौद्धावदानलतायाम्__
तारुण्येन निपीतशैशवतया साऽनङगश्रृङगारिणी,
तन्पङगचा सकलाङगङगमसखी भङिगर्नवाङगीकृता ।
निःसंरम्भपराक्रमः पृथुतराम्भाभियोगं विना,
साभ्राज्ये जगतां यया विजयते देवो विलासायुधः ॥
अत्र “यौवननिपीतशैशवतया तन्वङगचाऽनङगश्रृङगारवती सर्वाङग
सङगमसखी सा काप्यभिनवा भङिगरङगीकृता यया निष्प्रयत्नपराक्रमः
प्रभूततराम्भम्भारं विहाय त्रिभुवनसाम्राज्ये जयति देवोविलासा-
युधः’’ इत्युक्ते कामस्य विलासायुध इति नामपोपपन्नमेव, तन्वङगीभङग-
चैव सिद्धत्रैलोक्याधिपत्वविजिगीषायां कामसायकादीनां नैरर्थक्यात् ।
न तु यथा कालिदासस्य__
क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।
तावत्स वह्रिर्भबनेत्रजन्मा भस्मावशेषं मदनं चकार ॥
अत्र “पश्यतो भगवतस्त्रिनेस्य स्मरशरनिपातक्षोभे वर्ण्यमाने-
तन्निकारोपशमाय ‘सहर संहर प्रभो क्रोधमि’ति यावद्वचः खे देवानां
चरति तावदभवनेत्रोदभवः स वह्निर्मदनं भस्मराशिशेषमकार्षीत्’‘इत्युक्ते
संहारावसरे रुद्रस्य भवाभिवानमनुचितमेव ॥ 38 ॥
आशीर्वचनौचित्यं दर्शयितुमाह__
पूर्णार्थदाजतुः काव्यस्य सन्तोषितमनीषिणः ।
उचिताशीर्नृ पस्येव भवत्यभ्युदयावहा ॥ 39 ॥
सम्पूर्णसमर्पकस्य सन्तोषितविदुषः काव्यस्य नृपतेरिवोचितमाशीः
पदमभ्युदयावहं भवति ।
यथाऽस्मदुपाध्यायगङगकस्य__
स कोऽपि प्रेमार्द्रः प्रणयपरिताकप्रचलितो
विलासोऽक्ष्यां देयात्सुमनुपमं वो मृगवृशाम् ।
यदाकूतं वृष्ट्वा पिदधति मुखं तूणविवरे,
निरस्तव्यापारा भुवनजयिनः पञ्चविशिखाः ॥
अत्र “स कोऽप्यसामान्यप्रेमार्द्रविश्रान्प्रिगल्भकुरङगवृशां
निरु-
पमो नयनविलासः, सुखं वो देयात्, यदभिप्रायमालोक्य भुवनजयिनः
कामस्य पञ्चसायकाः समाप्तव्यापारास्तूणीरविवरे लज्जयेव मुखं पिद-
धती’’ इत्युक्ते सुखं वो देयादित्याशीःपदमुचितमेव प्रियानयनविभ्रमस्य सुखार्पणयोग्यत्वात् ।
यथा वा मम वात्स्यायनसूत्रसारे__
कामः कामं कमलवदनानेत्रपर्यन्तवासी
दासीभूतत्रिभुवनजनः प्रीतये जायतां वः ।
दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा
यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता ॥
अत्र कामः प्री?तये वो जायतां यस्य दग्धस्याप्यञ्जनस्येवाधिक्यं
रुचिर्यातेत्युक्ते प्रीतये जायतामित्युचितं, कामस्य प्रीत्यात्मकत्वात् ।
नतु यथाऽमरुकस्य_ _
आलोलामलकावलीं विलुलितां विभ्राच्चलत्कुण्डलं,
किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाभसां सीकरैः ।
तन्वङगचाः सुतरां रतान्तसमये वक्त्रं रतिव्यत्यये,
तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥
अत्र “तन्व्या रतिव्यत्यये लोलाकं चलत्कुण्डलं चलत्कुण्डलं
स्वेदसलिलेन
किञ्चिन्मृष्टतिलकं यन्मुखं तत्त्वां पातु किं
हरिहरस्कन्दादिभिर्दैवतैः’’
इत्युक्ते पातु त्वामित्यनु?चितम्, आनान्दयतु त्वामित्युचितं स्यात् ।
अन्येषु काव्याङेगष्वनयैव दिशा स्वयमौचित्यमुत्प्रेणीयम् ।
तदुदाहरणान्यानन्त्यान्न प्रदर्शिशतानीत.यलमतिप्रसङगेन ॥ 40 ॥
?0ग्रन्थकर्तृ परिचयः
आसीत् प्रक्राशेन्द्र इति प्रकाशः काश्मीरदेशे त्रिदशेश्वरश्रीः ।
अभूद् गृहे यस्य पवित्रसत्त्रमच्छिन्नमग्रासनमग्रजानाम् ॥ 1 ॥
यः श्रीस्वयंभूभवने विचित्रे दिचित्रे लेप्यप्रतिष्ठापितमातृचक्रः ।
गोभूमिकृष्णाजिनवेश्मदाता तत्रैव काले तनुमुत्ससर्जं ॥ 2 ॥
तस्यात्मजः सर्वमनीषिशिष्यः श्रीव्यासदापरपुण्यनामा ।
क्षेमेन्द्र इत्यक्षयकाव्यकीर्तिश्चक्रे नवौचित्यविचारचर्याम् ॥ 3 ॥
श्रीरत्नसिंहे सुहृदि प्रयाते शार्वं पुरं श्रीविजचेशराज्ञिः ।
तदात्मजस्योदयासिंहनाम्नः कृते कृतस्तेन गिरां प्रपञ्चः ॥ 4 ॥
यस्यासिः परिवारकृत्त्रिभुवनप्रख्यातशीलश्रूतेः
सर्वस्यावनतेन येन नितरां प्राप्ता विशेषोन्नतिः ।
आशाः शीतलतां नयत्यविरतं यस्य प्रतापानल-
स्तस्य श्रीमदनन्तराजनृपतेः काले किलायं कृतः ॥ 5 ॥
इति श्रीप्रकाशेन्द्रात्मज्वयासदासपराख्यश्रीक्षेमेन्द्रकृता
‘औचित्यविचारर्चा’ समाप्ता ॥
]