दशमः परिच्छेदः
टीका
विज्ञप्रिया:
(वि, क) अथावसरेति ।
उद्देश्यक्रमलङ्घनात्, न तु तत्क्रमप्राप्तनिति भावः ।
लोचना:
(लो, अ) इदानीमलङ्कारं निरूपयितुकामो ऽवतारयति–अथेति ।
अलङ्कारानाहस्वरूपतो विशेषतश्चेत्यर्थः ।
अथावसरप्राप्तानलङ्कारानाह–
शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः ।
रसादीनुपकुर्वन्तो ऽलङ्कारास्ते ऽङ्गदादिवत् ॥ विस्स्द्_१०।१ ॥
यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः ।
लोचना:
(लो, आ) यथेति ।
शब्दार्थशोभातिशायित्वमात्रेणालङ्कारत्वम् ।
तथाहि रसाद्यध्यवसायपृथक्यत्ननिवर्त्त्यस्य यमकादेरेकरूपानुबन्धनवतो ऽनुप्रसास्यासमीक्ष्य विनिवेशितस्य रूपकादेश्च रसानुपकारित्वादलङ्कारता ।
यदुक्तं ध्वनिकृता—
“यमकादिनिबन्धेषु पृथक् यत्नो ऽस्य जायते ।
शक्तस्यापि रसाङ्गत्वं तस्मादेषां न विद्यते” ॥
शक्तस्याप्यस्य कवेः ।
यमकदुष्करादीनां यथा—
“शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धनात् ।
सर्वेष्वेव प्रबन्धेषु नानुप्रासः प्रकाशकः” ॥
इति रूपकादेः समीक्ष्य निवेशनं च तेनैवोक्तम्—
“विवक्षातत्परत्वेन नाङ्गित्वेन कथञ्चन ।
काले च ग्रहणत्यागो नाति निर्वहणैषिता ॥
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।
रूपकादेरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥
इति ॥
“कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासैरयममृतहृद्यो ऽधररसः ।
मुहुऋ कण्ठे लगनः तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे ! न तु वयम्” ॥
कपोले गण्डस्थले, पत्राली पत्ररचना, करतलनिरोधेन पाणितलपीडनेन, मृदिता प्रमृष्टा ।
निश्वासैरमृतहृद्यो ऽमृतवन्मधुरो ऽधररसः, निपीतः आहतः ।
बाष्पः अश्रु, कण्ठे लग्नः सक्तः सन, स्तनतटम्, कुचप्रान्तम्, मुहुः पुनः पुनः तरलयति कम्पयति ।
एवमनेन प्रकारेण नायको नायिकामुपालभते ।
मन्युः क्रोधः, तव प्रियो जातः अयि निरनुरोधे ! अनङ्गीकृतानुवर्त्तने ! वयं प्रिया हिताः न भवामः इति सम्बन्धः ।
अत्र पत्रालीमर्द्दनवायापारेण सौभाग्यहारी मन्युः तव प्रियो जात इत्यनेन त्वदनुरोधकारिणो वयं तव हिता न भवाम इत्यनेन च उपालम्भो गम्यते ।
नायिका, स्वीया मध्या, नायकस्तु शठः ।
मानकृतो विप्रलम्भशृङ्गारः ।
अत्र सोपलम्भवचनं नर्म ।
आक्षेपो ऽलङ्कारः"इत्यादौ ।
मम तातपादानां प्रभावतीपरिणये प्रभावतीवर्णनं यथा— कलाकुलगृहं मनः–पतगपञ्जरं कामिनां वशीकरणभेषजम्, परमकौशलं वेधसः ।
जगद्विजयकर्मणि स्मरमहीभुजः कार्मणं दृशोर्निगडबन्धनं त्रिजगतां परं भूषणम् ॥
इत्यादौ अलङ्कारणां निर्वाहकरससम्बन्धाक्षिप्तचेतसः कवेरपृथक्-यत्ननिवर्त्त्यत्वात् न दोषः, इत्यतो ऽतीवरसपरिपोषकत्वम् ।
यदुक्तं ध्वनिकृता— रसाक्षिप्ततया यस्य बन्धः शक्यकियो भवेत् ।
अपृथक्यत्ननिर्वर्त्त्यः सो ऽलङ्कारो ध्वनेर्मतः ।
तथालङ्कारन्तरणि निरूप्यमाणदुर्घटनान्यपि रससमाहितचेतसः प्रतिभानवतः कवेरहम्पूर्विकया परापतन्ति ।
यथा—
“इयमम्लीपत्तशमनी त्रिदोषदमनी बुभुक्षुकमीनया ।
मर्त्त्यानाममृतवटी रसगन्धकपर्पटी जयति” ॥
इत्यादौ ।
सत्यपि रसे तमपि नोपकुर्वन्ति अनुप्रासादयः ।
यथा—“औवट्टै उल्लट्टै” इत्यत्र अनुप्रासः ।
“मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति कन्दत्सु भ्रमरेषु वीक्ष्य दयिता सन्नं पुरः सारसम् ।
चकाह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः” ॥
इत्यत्र चोद्दीपनरूपाया बिसलतायाः प्रयत्नजीवहरणावसानोपकारकत्वात् जीवननिरोधार्गलरूपोत्प्रेक्षायां विप्रलम्भशृङ्गारतदाभासयोरननुगुणत्वान्नालङ्कारः रसस्योपकारकः ।
इह नोपमेति उत्प्रेक्षानिरूपणे वक्ष्यते ।
तदेव सुष्ठूक्तं शब्दार्थशोभातिशयद्वारेण रसादेरुपकारका अलङ्कारा इति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः ।
टीका
विज्ञप्रिया:
(वि, ख) नैषां गुणवदिति—माधुर्य्यादीनां शृङ्गारादिव्यापकत्वात् तत्र तेषामवश्यस्थितेः ।
लोचना:
(लो, इ) अस्थिरा इति—कारिकापमनूद्य विवृणोति ।
नैषामिति–गुणादीनां वाक्येष्वन्वयव्यतिरेकानुविधायिनो रसस्य धर्मत्वेन अवस्थितिः ।
अलङ्काराणां च क्वचिदभावे ऽपि न काव्यत्वहानिरित्यर्थः ।
यथा गुणा रसस्य स्थिरधर्मास्तथा नैते शब्दार्थयोः ।
एवं शब्दार्थयोरनुपचरितधर्मत्वेनास्थिरत्वेन शब्दार्थशोभाधानद्वारेण रसोपकारकत्वेन च गुणव्यतिरिक्तत्वमलङ्काराणां दर्शितम् ।
शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह–
टीका
विज्ञप्रिया:
(वि, ग) तत्रादौ पुनरुक्तवदाभासस्य शब्दार्थोभयालङ्कारत्वे शब्दालङ्कारतया कथनबीजं प्रदर्शयंस्तमाह—शब्दालङ्कारस्यापीति ।
लोचना:
(लो, ई) समप्रतीत्यवतार्य्य तद्भेदानाह–शब्दार्थयोरिति ।
आह लक्षयतीत्यर्थः ।
आपाततो यदर्थस्य पौनरुक्त्येन भासनम् ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥ विस्स्द्_१०।२ ॥
टीका
विज्ञप्रिया:
(वि, घ) आपाततो यदर्थस्येति ।
आपातत एव न तु प्रणिधाने ऽप्यर्थपौनरुक्त्यम् ।
भिन्नाकारशब्दत्वेन पौनरुक्त्यप्रसक्तिस्तु नास्त्येव ।
लोचना:
(लो, उ) आपाततः पौनरुकत्यावभासनम्, पुनरुक्तिवत् प्रत्ययः, पर्य्यवसाने तु न तथा ।
अतः पुनरुक्तवदाभास इत्यर्थवन्नामालङ्कारः ।
भिन्नाकारशब्दग इत्यनेन यमकव्यवच्छेदः ।
अत्र “नवपलाशपलाशवनं पुरः” इत्यादावपि आपाततः पौनरुक्त्यावभासनम्; किन्तु तदेकरूपशब्दगतम् ।
उदाहरणम्–
भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥
टीका
विज्ञप्रिया:
(वि, ङ) भुजङ्गकुण्डलीति ।
शिवो जगन्त्यपि सदापायादव्याद् अवतु ।
कीदृशः, भुजङ्गरूपकुण्डलवान्; तथा व्यक्तेन शशिनः शुभ्रांशुना शीतः शीतलः गौर्वृषः यस्य तादृशः ।
चेतोहरः मनोहरः ।
लोचना:
(लो, ऊ) कुण्डली सर्पः; कुण्डलवांश्च ।
शशिसुभ्रांशुशीतगुशब्दास्त्रय एव आपाततश्चन्द्रार्थाः ।
पर्य्यवसाने तु शशिनः शुभ्रा उज्ज्वला येंऽशवः तद्वत् शीता गावः कान्तयो यस्य इति ।
अपायात् अपायतः अव्यात् रक्षतात् ।
हरः सदाशिवः मनोहरश्च ।
अत्र पायादिति पाधातोः, अव्यादिति अवधातोः रक्षणार्थस्य लिङन्तत्वे पौनरुक्त्यावभासः ।
पर्य्यवसाने तु सन्धिहेतुकं लुप्तमकारमादायापायशब्दस्य सुबन्तत्वमित्यर्थः ।
अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् ।
पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् ।
“पायादव्यात्” इत्यत्र क्रियागतो ऽयमलङ्गारः, “पायात्” इत्यास्य “अपायात्” इत्यत्र पर्यवसानात् ।
टीका
विज्ञप्रिया:
(वि, च) अपायादित्यत्र पर्य्यवसानादिति ।
प्रश्लिष्टाकारप्रतिसन्धानात् तत्र पर्य्यवसानम् ।
“भुजङ्गकुण्डली” इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् ।
“हरः शिवः” इति द्वितीयस्यैव ।
“शशिसुभ्रांशु” इति द्वयोरपि ।
टीका
विज्ञप्रिया:
(वि, छ) प्रथमस्यैवेति ।
सर्पकुण्डलीत्युक्ते ऽपि पौनरुक्त्यस्य भानात् ।
द्वितीयस्यैवेति ।
परिवृत्तिसहत्वमित्यन्वयः ।
मृडो भव इत्युक्तावपि तथात्वात् ।
द्वयोरपीति ।
परिवृत्तिसहत्वामित्यन्वयः ।
चन्द्रशीतांशुपददाने ऽपि तथात्वात् ।
लोचना:
(लो, ऋ) अस्य च शब्दार्थालङ्कारत्वे हेतुमाह—भुजङ्गेति ।
परिवृत्तिसहत्वम्; अहि–कुण्डली, सर्पकुण्डलीत्याद्युक्तावपि पौनरुक्त्यावभासता ।
तेनात्र कुण्डलीति पदस्य न परिवृत्तिसहत्वम् ।
एवं “हरः शिवःऽ; इत्यादावपि बोद्धव्यम् ।
“भाति सदानत्यागः” इति न द्वयोरपि ।
इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वम् ।
टीका
विज्ञप्रिया:
(वि, ज) भातीति ।
भाति सदानत्यागः स्थिरतायामिति काव्यप्रकाशोक्त्यैकदेशप्रदर्शनमिदम् ।
तत्र भवान् सदा अनत्या परनतिराहित्येन भातीति ।
स्थिरतायामगः पर्वतश्चेत्यर्थः ।
तत्र दानत्यागपदपौनरुक्त्यावभासः ।
अत्र न द्वयोरपि परिवृत्तिसहत्वम् ।
लोचना:
(लो, ॠ) तृतीयादौ च दानत्यागाभ्यां सह वर्त्तते इति पौनरुक्त्यावभासः ।
सदा सर्वदा अनत्वा, अनमनेन, अगः पर्वत इति पर्य्यवसानम् ।
न द्वयोर्दानत्यागयोः ।
परिवृत्तिसहत्वासहत्वाभ्यां क्वचित् परिवृत्तिसहत्वादर्थालङ्कारत्व; क्वचित्तदसहत्वाच्छब्दाजङ्कारत्वम्, दोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकाभ्यां नियमनादित्यर्थः ।
अनुप्रासः शब्दसाम्यं वैषम्ये ऽपि स्वरस्य यत् ।
स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितम् ।
रसाद्यनुगतत्वेन प्रकर्षेण न्यासो ऽनुप्रासः ।
टीका
विज्ञप्रिया:
(वि, झ) अनुप्रासालङ्कारमाह—अनुप्रास इति ।
स्वरमात्रसादृश्यमितिमात्रपदात् व्यञ्जनसाम्यव्युदासः ।
तेन “के वाते सेवया देशे गेहे च लेभिरे यश"इत्यत्र नानुप्रासः ।
व्यञ्जनमात्रसाम्ये तु कुपितकपिकपोलेत्यादौ अनुप्रास एव ।
क्वचिदुभयसाम्ये ऽपि यथा—“धूतचूतप्रसून” इति ।
यथा वा—“गुणसिन्धुः सतां बन्धुसत्वबन्धुस्त्वपरो जनः ।
“केवलं स्वरमात्रसाम्यं व्युदस्तं बोध्यम् ।
अनुप्रासपदव्युत्पत्तिमाह—रसाद्येति ।
अनुगमश्च व्यञ्जना ।
अनुपारसविशिष्टपदवाक्याभ्यां रसादिव्यञ्जनात् ।
आदिपदाद् वक्तुर्वैदग्ध्यपरिग्रहः ।
लोचना:
(लो, ऌ) अनुप्रास इति—स्वरवैषम्ये ऽपि शब्दसाम्यमित्यत्र शब्दा व्यञ्जनान्येव ।
स्वराणां स्वरानाधारत्वात् ।
तेनैषा बालायातीत्यादौ स्वरमात्रस्य असकृदावृत्तावपि व्यञ्जनवैसादृश्ये चारुत्वाभावस्य सहृदयसंवेद्यत्वान्नालङ्कारः ।
एतदेवोक्तं वृत्तौ स्वरमात्र इत्यादिना ।
किञ्च स्वरस्य वैषम्ये ऽपि इत्यनेन “कावेरी वारी” त्यादेरेतदवाह्यत्वम् ।
अपिशब्दात् “दर्दुरदुरध्यवसाय सायम्” इत्यादौ दुरशबादसाम्ये स्वरसाम्ये ऽप्यनुप्रासत्वम् ।
“नवपालशपलाशवनं पुर” इत्यादौ यमकस्यापवादत्वेनानुप्रासबाधकता ।
दर्दुरदुर इत्यादौ प्रथमदुरशब्ददकारस्य मूर्ध्रि रेफलोगान्न यमकम् ।
दुरध्यवसाय सायमित्यादौ चानुस्वारयोगादनुप्रसा एव न यमकम् ।
“आकर्ण्य कर्णमधुराणी” त्यादौ च प्रथमकर्णशब्दस्य स्वतः स्वरायोगे ऽपि द्वितीयकर्णशब्दनिष्ठस्वभावात् स्वरवैषम्यम् ।
नैत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृतेत्यादौ नकाररफेयुक्तदकारयोर्दूरावस्थानाद् अनुप्रासाभावबुद्धिर्न कार्य्या, संस्कारविच्छेदाभावाद् यदुक्तं–“पूर्वानुभवसंस्कारबोधनीयेत्यदूरते"ति ।
छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥ विस्स्द्_१०।३ ॥
टीका
विज्ञप्रिया:
(वि, ञ) तत्र छेकानुप्रासलक्षणमाह—छेक इति ।
व्यञ्जनसङ्गत्वमत्र एकव्यञ्जनभिन्नत्वमात्रं विवक्षितम् ।
तेन द्वयोस्त्षादीनां च तथात्वम् ।
लोचना:
(लो, ए) तद् भेदानाह ।
सङ्घशब्देनात्र नैकस्य व्यञ्जनस्यासकृदेकवारमनेकधा स्वरूपतः क्रमतश्च ।
एतदेवोक्तं वृत्तावनेकधेत्यादिना ।
छेकश्छेकानुप्रासः ।
अनेकधेति स्वरूपतः क्रमतश्च ।
रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः ।
टीका
विज्ञप्रिया:
(वि, ट) अनेकधेति ।
वर्णानामानुपूर्व्याश्च साम्यमित्यनेकधात्वम् ।
ईदृशैकधात्वं साम्यानुप्रासस्य विषय इत्याह—सरोरस इति ।
न चैवं वर्णैरानुपूर्व्याच्च साम्ये ऽनुप्रासाद् यमकाभेदप्रसक्तिरिति वाच्यम्; तत्र स्वरस्यापि साम्येन एतद् भेदात् ।
लोचना:
(लो, ऐ) रस रस इत्यत्र रसयोः स्वरूपत एव साम्यम्, न तु कमतः ।
कौवरौ वारीत्यादौ वरयोरिव कमतो ऽपि ।
उदाहरणं मम तातपादानाम्–
“आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः” ॥
टीका
विज्ञप्रिया:
(वि, ठ) आदायेति—भ्रमराणामन्धीकरणं गन्धलोभेन तदनुसरणमात्रेण विषयान्तरादर्शनम् ।
अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः ।
छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः ।
टीका
विज्ञप्रिया:
(वि, ड) वर्णद्वयस्यापि सङ्घपदार्थत्वेनात्र विवक्षणत्त्योरनेकवर्णानां चात्र सकृत्त्वं दर्शयति—अत्रेति ।
तत्प्रयोज्यत्वादेवेति ।
तथा च छेकपदं तत्प्रयोज्ये निरूढलाक्षणिकम् ।
एवं च वृत्त्यनुप्रासस्यापि विदग्धप्रयोज्यत्वे ऽपि तत्र रूढ्यभावात् न छेकपदप्रयोगः ।
लोचना:
(लो, ओ) संयुक्तयोर्नकारधकारयोः ।
छेक इत्यादिना पूर्वप्रसिद्धस्य नाम्नः कथञ्चिन्निरुक्तिः ।
अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा ।
एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ॥ विस्स्द्_१०।४ ॥
लोचना:
(लो, औ) अनेकस्येति ।
अनेकस्यार्थाद् व्यञ्जनस्य एकधा साम्यम् एकः ।
अनेकधापि वासकृत् साम्यं द्वितीयः, असकृदित्यनेन छेकानुप्रासव्यवच्छेदः ।
एकस्य व्यञ्जनस्य सकृदसकृद् वा साम्यमिति द्वाविति चतुर्द्धा वृत्त्यनुप्रासः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एकधा स्वरूपत एव, न तु क्रमतो ऽपि ।
अनेकधा स्वरूपतः क्रमतश्च ।
सकृदपीत्यपि शब्दादसकृदपि ।
टीका
विज्ञप्रिया:
(वि, ढ) वृत्त्यनुप्रासमाह—अनकस्येकधेति ।
तत्रैकधा पदार्थं व्याचष्टे—स्वरूपत एवेति ।
व्यञ्जनवर्णस्वरूपत इत्यर्थः ।
असकृद् वाप्यनेकधेत्यत्रानेकधात्वं व्याचष्टे—अनेकधेति ।
अन्त्र अनेकस्येत्यस्यान्वयः, तथा चानेकस्यानेकधा सकृत्त्वे छेकः ।
असकृत्त्वे तु वृत्त्यनुप्रासः ।
“एकस्य सकृदपि” इत्यत्रापिकारसमुचितं दर्शयति—सकृदपीत्यपिशब्दादिति ।
एकस्य सकृत्त्वे अनुप्रासस्तु न काव्यप्रकाशसम्मतः ।
जातच्युतेत्यत्र वैचित्र्याननुभवात् ।
स्वरसादृश्यसत्त्वे तु तस्यापि सम्मतो यथा “धूतचूतप्रसून” इत्यत्र ।
उदाहरणम्–
“उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः” ॥
टीका
विज्ञप्रिया:
(वि, ण) उन्मीलदित्यादि ।
“काकली तु कलौ सूक्ष्मे ध्वनौ तु मधुरा स्फुटे” इत्यमरः ।
तद्रूपैः कलकलैः ।
अत्र “रसोल्लासैरमी” इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि ।
द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च ।
प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् ।
रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः ।
टीका
विज्ञप्रिया:
(वि, त) अत्र अनेकस्यैकधासकृत्त्वं दर्शयति—रसोल्लासैरमी इति ।
रसयोरिति—रसेति रेफसकारयोरानुपूर्वोराहित्यादेकधा ।
कल्योरिति—कोकिलकाकलीकलवलैरित्यत्रेत्यर्थः ।
एकस्य सकृत्त्वमसकृत्त्वं दर्शयति—प्रथमे इति ।
धूतचूतेत्यत्र तकारस्य ।
मधुगन्धलुब्धमधुपेत्यत्र धकारस्येत्यर्थः ।
समासमेत्यत्र तु अनेकधानेकस्य सकृत्त्वाच्छेक एवेत्यतस्तन्न दर्शितम् ।
वृत्त्यनुप्रास इत्यत्र वृत्तिपदार्थं व्याचष्टे—रसविषयेति ।
रसविषयो वायपारः व्यञ्जना, तद्वत्यां वस्तुरचनायां वस्तुनोर्ऽथस्य शब्देन रचनायां वृत्तिसञ्ज्ञा इत्यर्थः ।
तत्रानुप्रसशब्दार्थं यौजयति–तदनुगतत्वेनेति ।
तादृशरचनासम्बन्धत्वेनेत्यर्थः ।
प्रकर्षश्च वर्णसाम्यम् ।
लोचना:
(लो, अ) प्राणसमासमागमेत्यत्र च यमकत्वं वक्ष्यते ।
यद्यपि ल्लासैरमी वासरा इत्यत्र च सरयोरनेकधा साम्यहेतुकेन छेकानुप्रासेनसहैकधासाम्यभेदस्य वृत्त्यनुप्रासभेदस्य एकवाचकानुप्रवेशरूपः सङ्करो वक्ष्यते; तथापि वासरशब्दमगणयित्वा वृत्त्यनुप्रासभेदकथनम् ।
एवमन्यत्र ।
रसविषयेति ।
रसविषयः स्वादानुप्राणको व्यापारो वृत्तिः ।
वृत्त्यते ऽनया शब्दो रसव्यञ्जनयेति व्युत्पत्त्या ।
तेन नद्वती उक्तरीत्या शृङ्गारादिरसौपयिककोमलपरुषमध्यमवर्णारब्धा वापि रचना वृत्तिरुपचारादिति भावः ।
तदनुगतत्वेन तया वृत्त्योपलक्षितत्वेन ।
उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके ।
सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ॥ विस्स्द्_१०।५ ॥
टीका
विज्ञप्रिया:
(वि, थ) श्रुत्यनुप्रासाख्यमनुप्रासान्तरमाह—उच्चार्य्यत्वादिति ।
वर्णसाम्याभावे ऽपि एकस्थानोच्चार्य्यत्वसादृश्यादित्यर्थः ।
लोचना:
(लो, आ) उच्चार्य्यत्वादिति–द्वयोर्बहूनां वा व्यञ्जनानां तालव्यत्वेन दन्त्यत्वेनादिशब्दात् कण्ठ्यत्वादिना साम्यं श्रुत्यनुप्रास इत्यर्थः ।
इमं च श्रुत्यनुप्रासं “निवेशयति वाग्देवी कस्यचित् प्रतिभावतः ऽ; इत्यादीना प्रशंसन्ति प्राच्याः ।
उदाहरणम्–
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः” ॥
टीका
विज्ञप्रिया:
(वि, द) दृशा दग्धमिति—विरूपाक्षस्य जयिनीस्ता वामलोचना अहं स्तुवे ।
लोचनस्य विरूपत्वसुन्दरत्वात्मकवामत्वाभ्यां जयपराजयावुक्त्वा क्रियाभायामप्याह—दृशा दग्धमिति ।
हरेण मनसिजस्य दृशा दाहस्ताभिस्तु कटाक्षरूपया दृशा जीवनमतो ऽपि जयः ।
अत्र “जीवयन्ति” इति, “याः” इति, “जयिनीः” इत ।
अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यम् ।
एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् ।
एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः ।
व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु ।
आवर्त्यते ऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ॥ विस्स्द्_१०।६ ॥
टीका
विज्ञप्रिया:
(वि, ध) अन्त्यानुप्रसाख्यमनुप्रासान्तरमाह—व्यञ्जनं चेदिति ।
यथावस्थमिति ।
अनुस्वारेण विसर्गेण वा विशिष्टो ऽविशिष्टो वा यः स्वरः केवलो वा पूर्वपादस्य पूर्वपदस्य वा अन्ते उच्चरितस्तादृशस्वरविशिष्टावस्थं व्यञ्जनं चेदाद्येन स्वरेण स्वपूर्वभूतस्वरेण सह आवर्त्त्यते तदान्त्यानुप्रास इत्यर्थः ।
तत् सञ्ज्ञाव्युत्पत्तिमाह अन्तयोज्यत्वादिति ।
यथा एकपादान्ते धीरः अन्यपादान्ते वीरः इति, यथा वा एकपादान्ते सारमन्यपादान्ते हारमिति ।
एवं कारी हारीति स्वरमात्रे ।
यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टम् ।
एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः ।
पदान्तगो यथा मम–
टीका
विज्ञप्रिया:
(वि, न) यथावस्थमिति व्याचष्टे—यथासम्भवमिति ।
अनुस्वरविसर्गस्वराणामन्यतरसम्भवो यथासम्भवपदार्थः ।
अक्षरविशिष्टमित्यत्र यथावस्थं बोध्यम् ।
अन्त्ययोज्यत्वं व्यचष्टे—एष चेति ।
प्रायेण इत्यनेन पज्झटिकादिच्छन्दः स्वेवास्य सम्भवो नानुष्ठुबादाविति दर्शतम् ।
केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥
टीका
विज्ञप्रिया:
(वि, प) केशः काशेति—जरत उक्तिरियम् ।
काशपुष्पस्तबकवद् धवलः केशः प्रकटितस्य वक्रस्य कुब्जस्य करभस्य करिशावकस्यैव विलासो यस्य कायस्तादृशः ।
तथापि चेतो ऽनल्पं बहु काममभिलाषं न त्यजतीत्यर्थः ।
तथापीत्याकाङ्क्षाबललभ्यम् ।
अत्र काशलासशब्दौ स्वविसर्गान्त्यस्वरविशिष्टान्त्यव्यञ्जनौ ।
कल्पानल्पशब्दौ सानुस्वारान्त्यस्वरविशिष्टन्त्यव्यञ्जनौ ।
तच्चान्त्यव्यञ्जनं तत्पूर्वस्वरेण सहवृत्तम् ।
लोचना:
(लो, इ) व्यञ्जनमिति ।
केश इत्यत्र यथासम्भवमिति वचनात् संयुक्ताक्षररहितो विकाश इत्यत्र शकारः स्वरविसर्गयुक्तः ककारस्थितेनाऽकारेण सह ।
विलास इत्यत्र लकारस्थितेनाऽकारेण सह वर्त्तते ।
कल्पमित्यत्र लकाररूपं व्यञ्जनं पकारनुस्वरयुक्तम्, ककारस्थितेनाकारेण सह ।
अनल्पेत्यत्र नकारस्थितेनाकारेण सहेत्यर्थः ।
प्रायेण इति वचनात् मम तातपदानां लक्ष्भीस्तवे यथा—
“श्रुताधीता गीता श्रुतिभिरविगीताखिलगुणा गुणातीता भीताभयकृदविनीतापचयदा ।
नतिप्रीता पीताम्बरसुपरिणीतामरवधू- दृशा पीता स्फीता मलरुचिपरीता विजयताम्” ॥
इत्यादौ क्वचिद्दन्त्ययोज्यत्वाभावे ऽप्ययमनुप्रासो दृश्यते ।
अस्य च प्राचीनोक्तालङ्कारेभ्यः पृथगनुभवसिद्धश्चमत्कारविशेष इति पृथगलङ्कारत्वम् ।
“मन्दं हसन्तः पलकं वहन्तः” इत्यादि ।
शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः ।
लाटानुप्रस इत्युक्तो–
टीका
विज्ञप्रिया:
(वि, फ) लाटानुप्रासख्यमनुप्रासमाह—शब्दार्थयोरिति ।
शब्दद्वयार्थयोरित्यर्थः ।
पौनरुक्त्यं पुनः पुनः कथनम् ।
ततश्च पुनरुक्तिदोषप्रसक्तावाह—भेदे इति ।
तात्पर्य्यमुद्देश्यविधेयताविषयम् ।
मात्रपदादर्थभेदो व्यावर्त्त्यति ।
लोचना:
(लो, ई) शब्दार्थयोरिति ।
तात्पर्य्यमन्यपरत्वम्, तच्चार्थान्तरसङ्क्रमितस्वरूपं तच्छब्देन विधेयतया प्रकृतोपयोगार्थविवक्षणात् तन्मात्रेण, न तु स्वरूपेण भेदो विशेषः ।
उदाहरणम्—
स्मेरराजीवनयने नयने किं निमीलिते ।
पश्य निजिन्तकन्दर्पं कन्दर्पवशगं प्रियम् ॥
टीका
विज्ञप्रिया:
(वि, ब) स्मेरराजीवेति—नायङ्कं दृष्ट्वा क्रोधान्निमीलिताक्षीं मानिनीं प्रतिसख्या उक्तिरियम् ।
रूपेण कन्दर्पनिर्जेतापि त्वदनुरागात् त्वद्वशगस्तथा चात्र मानानौचित्यमिति भावः ।
अत्र आद्ये नयनकन्दर्पपदे उद्देश्यतात्पर्य्यके ऽन्त्ये तत्पदे तु विधेयतात्पर्य्यके इत्यतो भेदः ।
पदार्थौ तु अभिन्नौ मात्रपदात् प्रकृत्यर्थस्य एव भेदव्यावृत्तिर्न तु प्रत्ययार्थस्य ।
अत्र विभक्त्यर्थस्य पौनरुक्त्ये ऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव ।
टीका
विज्ञप्रिया:
(वि, भ) इत्यतो विभक्त्यर्थभेदं दर्शयति—अत्र विभक्त्यर्थस्येति ।
मुख्यतरस्येति ।
प्रातिपदिकांशौ नयनकन्दर्पपदे, तद्द्योत्यस्य, तद्वोध्यस्य धर्मिरूपस्य नयनकन्दर्पात्मकस्य अर्थस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वेन अस्वतन्त्रप्रत्ययापेक्षया स्वातन्त्र्याद् मुख्यतरस्याभिन्नत्वाद् इत्यर्थः ।
“नयने तस्यैव नयने च” ।
अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः ।
टीका
विज्ञप्रिया:
(वि, म) यत्र तु प्रकृत्यर्थस्यापि भेदस्तत्र न लाटानुप्रासत्वमित्याह—नयने इति ।
अत्र द्वितीयनयनशब्दस्य भाग्यवत्तादीत्यर्थे तात्पर्यात् तात्पर्य्यस्यैव प्रातिपदिकार्थस्यापि भेद इति दर्शयति—अत्र हीति ।
तथा च अर्थान्तरसङ्क्रमितवाच्यलक्षणाविषय एवायं न लाटानुप्रास इत्युक्तम् ।
अतएव अर्थान्तंसङ्क्रमितवाच्यलाटानुप्रासयोः कथितपदादोषताकथने पृथगेन तद्द्वयमुक्तम् ।
लोचना:
(लो, उ) अत्रेति ।
विभक्त्योः सुपोः ।
धर्मिरूपस्य चक्षुरादिरूपस्य ।
विभक्तीत्युपलक्षणम्; तेन लिङ्गवचनयोरपि ।
एवं सुप्रतिपत्तये ऽसन्दिग्धमुदाहरणं दर्शयित्वा सन्दिग्धं दर्शयति-नयने इति ।
तात्पर्य्यमात्रेण न तु स्वरूपेण ।
इह च पौनरुक्त्यप्रतिभासमात्रमलाङ्कारः,न तु प्रतीयमानो विशेषः तस्य गूढत्वादिगुणीभावहेतुत्वाभावात् ।
यथा वा—
“यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य” ॥
टीका
विज्ञप्रिया:
(वि, य) अस्य एकपदे इव अनेकपदेष्वपि सम्भवं दर्शयति—यथा वा ।
यस्य तेति—अत्र प्रथमार्धे दवदहने तुहिनदीधितित्वं विधेयमतापकरत्वात् ।
लोचना:
(लो, ऊ) एष च बहुपदनिष्ठो ऽपि सम्भवतीति तत्रोदाहरणान्याह—यथा वेति ।
यस्य न सविधे दयितेत्यादौ प्रथमार्धे तुहिनदीधितिर्दवदहनः द्वितीयार्धे दवदहनः तुहिनदीधितिरिति सम्बन्धः ।
अत्रानेकपदानां पौनरुक्त्यम् ।
एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः ।
–ऽनुप्रासः पञ्चधा ततः ॥ विस्स्द्_१०।७ ॥
टीका
विज्ञप्रिया:
(वि, र) पञ्चधेति—छेकानुप्रासः, वृत्त्यनुप्रासः, श्रुत्यनुप्रासः, अन्त्यानुप्रसो लाटानुप्रासश्चेति पञ्चधा ।
काव्यप्रकाशे तु लाटानुप्रासस्यैव पञ्चधात्वमुक्तम् ।
लोचना:
(लो, ऋ) उपसंहरति—अनुप्रास इति ।
स्पष्टम् ।
सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ विस्स्द्_१०।८ ॥
टीका
विज्ञप्रिया:
(वि, ल) यमकनिकरमाह—सत्यर्थ इति ।
अर्थे सति पृथगर्थायाः पदसंहतेः तेनैव क्रमेण आवृत्तिरित्यर्थः ।
अत्र लाटानुप्रासवारणाय पृथगर्थाया इत्यवश्यं देयम् ।
तथा च शमरते ऽमरतेजसीत्यत्र यमकितबागयोः द्वयोः “समरसमरसो ऽय” मित्यत्र एकतरस्य निरर्थकत्वे पृथगर्थाया इत्युक्त्यनौचित्यमः अतोर्ऽथे सत्युक्तमित्याह ।
अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वम्, क्वचिन्निरर्थकत्वम् ।
क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वम् ।
अत उक्तम्–“सत्यर्थे” इति ।
टीका
विज्ञप्रिया:
(वि, व) अत्र द्वयोरपीति ।
द्वयोरेकतरस्य वा अर्थासत्त्वे तु स्वरव्यञ्जनसंहतेः तेनैव क्रमेण आवृत्तिरित्येवमेव लक्षणान्तरमित्यभिप्रायः ।
उभयानुगमस्तु एकार्थाभिन्नाया इत्येवंरूपेण बोध्यम् ।
लोचना:
(लो, ॠ) एतदेव वृत्तौ विशदयति—अत्रेत्यादि ।
अत्र यमके ।
पदयोर्यमकावयवभूतयोः स्वरव्यञ्जनयोरित्यर्थः ।
प्रियतमायतमानेत्यादिवत् निरर्थकत्वम् ।
द्वयोरेकस्य वानर्थकत्वे पदत्वाभावादिति क्वचिद् विषये सार्थकत्वे स्वातन्त्र्येणेत्यर्थः ।
अनर्थकत्वं पदावयवरूपाक्षरसाचिव्येनैव सार्थकत्वात् ।
इह च प्रायिकत्वात् वर्णसमुदायद्वयमधिकृत्य सार्थकत्वादिकमुक्तम् ।
त्रिचतुः पौनरुक्त्येन लक्षणानुसारेण यथा–योगमूह्यम् ।
“तेनैव क्रमेण” इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितम् ।
एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदम् ।
टीका
विज्ञप्रिया:
(वि, श) अस्य प्रभेदा बहव इत्याह—एतच्चेति ।
पादादीत्यादिपदात् पादस्यैव तृतीयचतुर्थभागस्य अनियततद्भागस्य च परिग्रहः ।
दिङ्मात्रमुदाह्रियते–
“नवपलाश-पऌआशवनं पुरः स्फुटपराग-परागत-पङ्कजम् ।
मृदुल-तान्त-लतान्तमलोकयत् स सुरभि सुरिभिं सुमनोभरैः” ॥
टीका
विज्ञप्रिया:
(वि, ष) नवपलाशेति ।
स कृष्णः पुरः सुरभिं वसन्तमलोकयत् ।
कीदृशं नवं पलाशं पत्रं यस्य तादृशं पलाशवनं किंशुककाननं यत्र तादृशम् ।
स्फुटैः परागैः परगतं व्याप्तं पङ्कजं यत्र तादृशम् ।
मृदुतो मृदुतरः एव क्लान्तोर्ऽथात् रविरश्मना लतया अन्तः अग्रभागो यत्र तादृशम् ।
यद्वा मृदुलः मृदुः तान्तः अर्थात् युवभिराकङ्क्षितो लताया अन्तो अग्रभागो यत्र तादृशम् ।
तम् काङ्क्षायामिति धातुः ।
सुरआभिं कीदृशम् ।
सुमनोभरैः पुष्पसमूहैः सुरभिं सुगन्धिम् ।
लोचना:
(लो, ऌ) नवपलाशं नूतनपत्रम् ।
पलाशवनम्, किंशुकवनम्, स्फुटैः परागैः कुसुमरेणुभिः परागतम्, सङ्गतम्, मृदुलं कोमलम्, तान्तं विस्तृतम्, लतान्तं लताम् ।
द्वयोर्निरर्थकत्वे “प्रियतमायतमामेत्याद्युदाहरणम् ।
अत्र पदावृत्तिः ।
“पलाशपलाश” इति “सुरभिं सुरभिम्” इत्यत्र च द्वयोः सार्थकत्वम् ।
“लतान्तलतान्त” इत्यत्र प्रथमस्य निरर्थकत्वम् ।
“परागपराग” इत्यत्र द्वितीयस्य ।
एवमन्यत्राप्युदाहार्यम् ।
टीका
विज्ञप्रिया:
(वि, स) अत्र सार्थकयोः पलाशं सुरभिमित्यनयोः पदयोः द्वयौः आवृत्तिः इत्याह—अत्रेति ।
अन्यतरनिरर्थकत्वं तु दर्शयति—लतान्तेति ।
लोचना:
(लो, ए) अन्यत्र पादाद्यावृत्तौ ।
अत्र पादावृत्तिर्यथा मम तातपादानां कुवलयाश्वचरिते मुन्याश्रमवर्णनम् ।
“जीअ उअ जण माणअम्, जीअ उअ जण माणअं ।
" केचित्तु स्वरैकव्यञ्जनावृत्तावपि यमकमिच्छन्ति ।
यथा मुद्राहस्तगोविन्दानन्दकवेः—
“एकं कूपे नयनमपरं मन्मुखे खेलयन्ती मामुद्दिश्य प्रतिकृतिमपि स्वां किमप्यालपन्ती ।
उद्यत्पीनोरसिजयुगलं कुम्भमभ्युद्धरन्ती शिक्षाकूतस्मितशुचिमुखी प्राविशन्मानसं मे” ॥
“यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा” ।
लोचना:
(लो, ऐ) यमकादावित्यादिशब्देन श्लेषादौ ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
इत्युक्तनयात् “भुजलतां जडतामबलाजनः” इत्यत्र नं यमकत्वहानिः ।
टीका
विज्ञप्रिया:
(वि, ह) यमकादावित्यादिपदात् श्लेषपरिग्रहः ।
डलोरित्यादौ सर्वत्र प्रथमवर्णेअकार उच्चारणार्थः ।
ववेरित्यत्र अन्यस्थपवर्गोययोरैक्यमुक्तम् ।
अत्र चालङ्कारिकसमयमात्रम् ।
अन्ये द्वये तु जलयोरेकत्वं डश्रुतेर्लश्रुतिरित्यनुशासनमप्यस्ति ।
अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ विस्स्द्_१०।९ ॥
द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।
टीका
विज्ञप्रिया:
(वि, क) वक्रोक्त्यलङ्कारमाह—अन्यस्य वक्तुरन्यार्थकं वाक्यम् अन्यः श्रोता तद्वाक्यश्लेषेण स्ववाक्यकाक्का वान्याभिप्रायकतया यदि योजयेद् योजनविशिष्टं प्रत्याययेत् तदा सा द्विधा वक्रोक्तिरित्यर्थः ।
द्विधात्वं दर्शयति—श्लेषेति ।
लोचना:
(लो, ओ) अन्यस्यति ।
अन्येन केनचिदन्यार्थकत्वेनोक्तम् ।
तदितरेण सभङ्गेनाभङ्गेन वा श्लेषण, काक्का, स्वरविशेषेण वा यदि यथार्थतो ऽन्यार्थत्वेन प्रयोज्यते सा वक्रोक्तिः ।
ततः श्लेषकाकुरुपोपाधिद्वययोगाद् द्विविधेत्यर्थः ।
क्रमेणोदाहरणम्–
“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।
वामा यूयमहो विडम्बरसिकः कदृक् स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः” ॥
टीका
विज्ञप्रिया:
(वि, ख) के यूयमिति ।
अविज्ञातनामजातिकं कञ्चित् प्रति अयं वक्तुः प्रश्रः ।
पृष्टः पुरुषश्च विद्रावकः स तद्वाक्यं तद्वाक्यश्लेषेण के जले यूयम् इत्यभिप्रायकं स्थले एवेत्यादि स्वोत्तरेण प्रत्याययति ।
पूर्ववक्ता त्वाह–प्रश्र इति ।
त्वदयिनामजातिरूपविशेषविषय इत्यर्थः ।
श्रोता तु विः पक्षी, शेषो ऽनन्तनागस्तदाश्रयस्तद्द्वयोः प्रश्र इत्यर्थकतां स्वोत्तरेण प्रत्याययति—किं व्रूते इति ।
यत्र वौ गरुडे हरिरस्ति, यत्र शेषे ऽनन्ते हरिः शेते इत्यर्थः ।
प्रष्टा तत् श्रुत्वा क्रोधादाह—वामा विपरीतबाद्धृत्वेन प्रतीकूला यूयमिति ।
श्रोता तु यूयं वामाः स्त्रियः इत्यभिप्रायकतां प्रत्याययन् तं निन्दति—अहो विडम्बेति ।
विडम्बो विडम्बनं वर्त्तते त्वयीति शेषः ।
विवेकशून्यमनसस्तवेति शेषः ।
अस्मासु पुंसु इत्यन्वयः ।
अत्र श्लेषं सभङ्गभङ्गपदयोर्दर्शयति—अत्रेति ।
लोचना:
(लो, औ) के किमाख्याः ? जले च ।
विशेषो वैधर्म्यम्, विः पश्री, शेषो नागश्च ।
वामा वक्राः स्त्रियश्च ।
विडम्बरसिकः विडम्बे रसिकः सकौतुकः ।
अत्र विशेषपदस्य “विः पक्षी” “शेषो नागः” इत्यर्थद्वययोग्यत्वात् सभङ्गश्लेषः ।
अन्यत्र त्वभङ्गः ।
“काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात्तस्याश्चेतो न दूयते” ॥
अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।
टीका
विज्ञप्रिया:
(वि, ग) काक्का योजनमाह–काले इति ।
क्रोधान्नायिकया परित्यक्तस्य कृतामसो नायकस्य आश्वासजनकसखीं प्रति सख्या उक्तिरियम् ।
कोकिला वाचाला यत्र इति विग्रहः ।
सहकारं तत् पुष्पम् ।
अत्रैकयेति ।
यद्यपि तत्प्रयुक्तं वाक्यं न श्रुतमस्ति यदन्तर्गतः नञ् निषेधार्थक। स्यात् ।
अतो ऽस्य काले इत्यादिवाक्यस्य काक्का योजनया तदर्थकवाक्यस्यासम्भव एव, तथापि प्रकरणादस्य वाक्यस्य नायकश्वासजनकवाक्यत्वप्रतीतौ काकुनञा एव तदुपपत्तेस्तदाक्षिप्तवाक्यस्थनञ् एव स्ववाक्यस्थनञो विध्यर्थकताघटनं बोध्यम् ।
इदं च तादृक्प्रङ्करणसत्त्वे एव सङ्गच्छते, तादृक्प्रकरणग्राहकासत्त्वे तु नेदमुदाहरणम् ।
तथाऽक्षिप्तवाक्यस्थस्य नञो विषेधार्थकत्वम् ।
एवं काकुनञ्विशिष्टवाक्यस्यैव विध्यर्थकता ।
तथा च— “गुरुपरतन्त्रतया बत, दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमये ऽसौ ॥
“इति काव्यप्रकाशकृदुक्तमेव उदाहरणं बोध्यम् ।
तत्र हि शोचनाभिप्रायकस्य पूर्ववाक्यस्य कामाकुलाभिप्रयकत्वेन द्वितीयवक्त्र्या योजनम् ।
शब्दैरेकविधैरेव भाषासु विविधास्वपि ।
वाक्यं यत्र भवेत्सो ऽयं भाषासम इतीष्यते ॥ विस्स्द्_१०।१० ॥
टीका
विज्ञप्रिया:
(वि, घ) भाषासमालङ्कारमाह—शब्दैरिति ।
शब्दैः पदैः ।
वाक्यं तत्समूहः, स च संस्कृतप्राकृतसकलभाषासु एकविधपदघटित इत्यर्थः ।
लोचना:
(लो, अ) शब्दैरिति ।
एकविधैर्विशेषाभावादेकप्रकारैः ।
भाषासु संस्कृतप्राकृतादिषु ।
भाषासमः ।
भाषासु समान्येकरूपाणि पदानि विद्यन्ते यत्रेति व्युत्पत्तियोगादन्वर्थनाम् पृथगलङ्कारः ।
एष च श्लेषालङ्कारविशेष इति यदुक्तं चणडीदासपण्डितैस्तदसङ्गतम्, अर्थद्वयाभावात् ।
यथा मम–
“मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।
विरसासि केलिकीरे किमीलि ! धीरे च गन्धसारसमीरे !” ॥
टीका
विज्ञप्रिया:
(वि, ङ) मञ्जुलेति ।
हे आलि ! मञ्जुलमणिमञ्जीरे मञ्जुलं मणियुक्तं मञ्जीरं यस्याः हे तादृशि ।
अथवा मञ्जीरे कलशब्दो गम्भीरो यत्र तादृशि ।
विहारसरसीतीरे कीदृशे, केल्यर्थकः कीरो यत्र ।
गन्धसारः गन्धप्रधानः समीरश्चयत्र तादृशे ।
एतादृशानेकोद्दीपकसत्त्वे ऽपि किं विरसासीत्यर्थः ।
एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव ।
“सरसं कैणं कव्वम्” ।
इत्यादौ तु “सरसम्” इत्यत्र संस्कृतप्राकृतयोः साम्ये ऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः ।
टीका
विज्ञप्रिया:
(वि, च) सर्वभाषासु एकविधैः पदैः वाक्यघटितत्वे एवायमलङ्कारः तादृशैकपदेन तु वाक्यघटने तादृशस्थले नायमलङ्कार इत्याह—सरसं कैण इति ।
सरसं कवीनां काव्यमित्यर्थः ।
अत्र तादृशैकसरसपदघटितत्वाद् वाक्यस्य नायकलङ्कार इत्यर्थः ।
श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते ।
टीका
विज्ञप्रिया:
(वि, छ) श्लेषालङ्कारमाह—ख्लिष्टैरिति ।
श्लिष्टैरुभयवाचकैः एकरूपैरित्यर्थः ।
लोचना:
(लो, आ) श्लिष्टैरिति ।
अनेकेत्यनेन द्वयोर्वा बहूनां वार्थानामभिधाने प्रकरणादिनियमाभावादभिधया बोधने ।
एतेन ध्वनिव्यवच्छेदः ।
ननु किं भिन्नैः पदैरनेकार्थाभिधानमुतैकैकेन ? आद्ये गौरश्वः पुरुषो, हस्तीत्यादावपि श्लेषप्रसङ्गः ।
द्वितीये लक्षणस्यासम्भवित्वमन्यायं चोनेकार्थत्वमिति न्यायात् ।
इत्यत आह— श्लिष्टैरिति ।
श्लिष्टैः “अर्थभेदेन शब्दभेद” इति दर्शनात्, “काव्यमार्गे स्वरो न गण्यते” इति च नयात् वाच्यभेदेन भिन्नैरपि युगपदुच्चारणेनापगतभेदैः ।
त्रिधा खलु शब्दाभिव्यक्तिः रूपतोर्ऽथतः स्वरतश्चेति दर्शनात् ।
एवं च भिन्नयोरपि समानश्रुत्योः शब्दयोस्तत्तन्न्यायेन उच्चरितयोः कमेण स्वस्यार्थबोधनं यत्र तत्र शब्दस्वरूपश्लेषेण शब्दश्लेषः ।
शब्दपरिवृत्तिसहत्वे त्वर्थश्लेष इति नियममङ्गीकुर्वतां काव्यप्रकाशकारादीनां मतमनुसृत्य व्याख्यानम् ।
अन्ये त्वाहुः–न खलु घटपटयोरिव “वसुधामहित पुराजित निरागमनाभावाः ।
वर्षाश्चासुरभितवराहवपुषस्तर्वे च हरेश्चोपमा घटता” ॥
इत्यादौ शब्दानामेकप्रयत्नेन निष्पत्तिद्वयमुपपद्यते ।
द्वयोरेकाकारत्वेन तथाङ्गीकारे एव एव कुलालः, एकाकारं घचशतमेकया सामग्या निष्पादयेत् ।
तथा सति भेदव्यवहारोच्छेदः स्यात् ।
“अयमेव भेदो भेदहेतुश्च यद्विरुद्धधर्माध्यासः कारणभेदश्चेति” ।
किं च यद्युभयार्थप्रतिपादनसमीहया वक्तुरेकदा शब्दद्वयोदाहरणसम्भवस्तदा घटसहस्त्रचिकीर्षुः कुलालो ऽपि एकदा तत् निर्वाहयेत् ।
तदुक्तमाचार्यश्रीमदुद्योतकरचरणैः “क्रमवृत्तित्वाद् वाच” इति ।
तेनैकत्रैव शब्दे नानाविषयाणामर्थानां स्वंस्वसामग्रीवशेन कमेणोज्जीवनमिति वादिनां मतमेवाश्रयितुमुचितम् ।
किन्त्वत्र मते तत्प्रथमविरुद्धाया द्वितीयाभिधायाः पुनरुज्जीवनमनुपपन्नमिति द्वितीयाभिधानाम्ना"जनस्थाने भ्रान्त” मित्यादाविवात्रापि व्यञ्जनैव वृत्तिरुपदिश्यते ।
एवं च ध्वनितन्त्रे प्रकरणनियमस्थले तस्मादेव शब्दादुच्चारणादिसामग्रीसहकृता तद्व्यापारन्तरेण सभङ्गाभङ्गशब्दान्तरलभ्यार्थप्रतीतिः ।
यत्र तु येन ध्वस्तेत्यादौ प्रकरणादिनियमो नास्ति तत्र द्वयोरभिधानसंशयः ।
यत्र च शब्दपरिवर्तने ऽपि द्व्यर्थहानिस्तत्र शब्दशक्तेर्मूलत्वेन शब्दश्लेषः ।
यत्र च शब्दपरिवर्त्तने ऽपि न तदर्थक्षतिस्तत्रार्थमात्रं प्रत्येवंशब्दोपयोगादर्थश्लेषता ।
एतन्मतानुसारेण तु श्लिष्टावर्थौ विद्येते एष्विति मत्वर्थोयप्रत्ययान्तत्वेन श्लिष्टैः पदैरित्यादि सौत्रं श्लिष्टपदं व्याख्येयम् ।
अनेकार्थाभिधान इति ।
अनेकार्थाभिधानसंशय इति ।
अस्य सूत्रस्य शब्दालङ्कारप्रकरणे पठितत्वादेव सिद्धं पदानां परिवृत्तयसहत्वम् ।
ये त्वाहुः “प्रति प्रसूते शब्दः शब्दान्तर"मिति तदयुक्तम्, प्रतिप्रसूतशब्दानुभवाभावात्, अननुभूतशब्देनार्थप्रतीतौ चातिप्रसङ्गात्, भिन्नवाचकाद् भिन्नवाच्योत्पत्तिनियमाभावाद्वा ।
एवं च वर्णादिगतत्वेन श्लेषस्य प्राचीनानुरोधेन व्यवहारः ।
तथोच्चारणाङ्गीकारे हि शब्दयोः “दुर्गालङ्घित” इत्यादौ जनस्थान इत्यादावपि व्यञ्जनानङ्गीकारप्रसङ्गः ।
“हृदिज्ञेषु च वक्ष्यति” इत्यादौ “व्यथां द्वयेषामपि मेदिनीभृताम्"इत्यादौ च यस्यार्थस्य प्रथमं बुद्ध्यारोहस्तस्योपमेयता, अन्यस्य च उपमानतेति सङ्गतिः ।
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ विस्स्द्_१०।११ ॥
श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।
टीका
विज्ञप्रिया:
(वि, ज) तस्य अष्टविधत्वमाह–वर्णेति ।
सकलषष्ठ्यन्तानां श्लेषाद् इत्यत्रान्वयः ।
वर्णादित्रये ऽपि वर्णद्वयप्रत्ययद्वयलिङ्गद्वयेति बोध्यम् ।
एवं विभक्तिवचनभाषास्वपि द्वित्वं च बोध्यम् ।
प्रकृतिपदयोस्तु द्विवचनेनैव तथात्वं बोधितम्, विभिन्नरूपवर्णद्वयस्य ऐक्यरूप्यं तत्त्वम् ।
लोचना:
(लो, इ) इह च वर्णादिगतत्वेन अष्टविधत्वं श्लेषस्यासमीचीनमिति चण्डीदासपण्डितराघवानन्दप्रभृतीनां मतम् ।
तदभिधानमसत् ।
तथाहि—वर्णादिगतत्वेन सर्वथा श्लेषस्याष्टविधत्वमस्ति ।
तथा च —
“वक्रीभूते विधौ मूद्र्ध्नि भवेद् भस्मानुलेपनम् ।
श्मशाने रक्तिरावासः स्याद्दिगम्बरता तथा” ॥
इत्यत्र प्रकरणाभावात् किं महादेवः? उताहो कश्चिद्दरिद्रो वाच्य इति सन्देहः ।
तेनात्र विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाद् वर्णश्लेषः ।
“येन ध्वस्तमनोभवेन” इत्यादौ “स्यान्नन्दिता विरूपाक्षपादपद्मनिषेवणात्” इत्यादौ च प्रकरणाज्ञाने किमहं नन्दितानन्दकः स्यामिति कस्यचिद् भक्तस्य वचनम् ? उत कस्यचिद् भक्तस्य नन्दितानन्दिनामगणविशेषत्वं स्यादिति वचनमिति सन्देहः ।
तेनात्र स्यात् स्यामिति प्रत्ययश्लेषः ।
नन्दिता इत्यत्र तल्तृचोर्विभक्त्योः श्लेषः ।
“यो ऽसकृत् परगोत्राणां पक्षच्छेदक्षणमः ।
शतकोटिदतां बिभ्रद् विबुधेन्द्रः स राजते” ॥
इत्यत्र पुन्नपुंसकलिङ्गयोः शतकोटिदतामित्यत्र ददाति-द्यत्योः धात्वोः प्रकृत्योश्चश्लेषः ।
“येन ध्वस्त” इत्यादौ विभक्तिसमासयोर्वैलक्षण्येन श्लेषः ।
“सर्वस्वं हर सर्वस्व” इत्यत्रापि वक्ष्यमाणोदाहरणेर्ऽथद्वयस्यापि सन्देहास्पदत्वाद् विभक्तिश्लेषः ।
“दधते ऽस्य परां शोभामहो मधुरताभृतः” इत्यादौ च किं मधुरतां बिभ्रतीति मधुरताभृतो बहवो जनाः, उत मधुरतया भृतः कश्चिद् वर्त्तत इति बहुवचनैकवचनयोः श्लेषः ।
किञ्च मधुरताभृत इत्यत्रापि क्किप्प्रत्ययक्तप्रत्यययोः ।
दधत इत्यत्रापि च पक्षे धाधातोर्बहुवचनं पक्षे च दधधातोरेकवचनं श्लिष्टं च ।
तदेवमभिधादूयसंवेद्यप्रत्ययोक्तितः श्लेषालङ्कारविषये ऽष्टविधश्लेषस्य सम्भवमविचार्य्य प्राचीनाधिक्षेपकारिभिरुपजीव्यैः सहालं बहुना विवादेन ।
नन्वेवं “येन ध्वस्त” इत्यादावपि यस्यार्थस्य प्रथमं बुद्ध्यारोहः स वाच्यो ऽस्तु अपरस्तु व्यङ्ग्यो ऽस्तु किं तत्रापि श्लेषालङ्कारकल्पनैरिति चेन्नैवम् ।
इह यदि संशयज्ञानविषयत्वादनिर्द्धारितत्वात् “भद्रात्मनऽ; इत्यादौ, “हृदिज्ञेषु च वक्ष्यतिऽ; इत्यादौ च निर्द्धारितत्वात् वृत्तिद्वयकल्पनसद्भावे सङ्गतिः ।
यत्तु चणडीदासपण्डितैरुक्तं “व्यथां द्वयेषामपि मेदिनीभृताम्” इत्यादौ उभयाभिधानं चेतीति “सन्ध्यावन्दनवेलायां मुक्तो ऽहमिति मन्यते ।
खण्डलड्डुकवेलायां हण्डमुद्यम्य धावति” ॥
इत्याभाणकमनुकरोति ।
क्वचिदभिधाङ्गीकारे हि भद्रात्मन इत्यादावपि किमपराद्धमभिधाद्वयेन ।
नन्वत्रैव दोषनिरूपणप्रस्तावे सन्दिग्धयोरर्थशब्दयोर्दुष्टता, तत् कथं “येन ध्वस्त” इत्यादावभिधानसंशये अलङ्कारत्वमप्युच्यते ? “अबला अचला वा स्युः"इत्यादौ “आशीः परम्परांवन्द्याम्” इत्यादौ च दोषस्थले सन्देहवशेन विवक्षितैकार्थानिर्द्धारणादतिव्यग्रतयाऽस्वादं प्रति प्रातिकूल्यम् ।
इह तु विवक्षितयोरप्यर्थयोरनिर्द्धारणरूपाया विच्छित्तरानुकूल्यमनुभवसिद्धम् ।
अतएव पूर्वत्र महाकवेः स्खलनमन्यत्र वह्वर्थपदनिर्वाहे प्रयुक्तसाधनं सार्वलौकिकमेव ।
किञ्च पूर्वत्रैकार्थस्यास्वादप्रदाने द्वितीयार्थः प्रतिकूलभूतः, तं हठादिवाकृष्य ततो बहिष्करोति, इह तु द्वयोरर्थयोरेकस्य बुद्ध्यारोहेणापरेणार्थेन तन्निमित्तकाव्यादावपकर्षत्वम् ।
एवमेव द्वयोरर्थयोः निर्द्धारितत्वेन कवित्वविवक्षानुभवसाक्षिकेति रहस्यम् ।
एवं “वौरिवंशदवानल” इत्यादौ वंशशब्दात् व्यञ्जनया बौधितस्य वेणुरूपार्थस्यैकान्वयरूपेणार्थेन “गौर्वाहीकऽ; इत्यादौ गोवहीकयोरिव “मुखचन्द्रऽ; इत्यादौ मुखचन्द्रयोरिव तादात्म्याद्रूपकम् ।
ननु गौर्वाहीक इत्यादौ आरोप्यमाणगवार्थस्य उत्पद्यमानान्वयबाधः ।
स च गवार्थो मुख्य इति तत्र गौणी लक्षणा ।
इह च वेणुरूपार्थो व्यङ्ग्य इति कथं मुख्यार्थबाधजीविता लक्षणेति चेत् ? अत्रैवं सङ्गतिः ।
यथा खलु “जातिरेकपदार्थ” इति वादिनां मते प्राचीनैरस्माभिश्च इहैव द्वितीयपरिच्छेदे सङ्केतितार्थनिरूपणे प्रदर्शितेन नयेन जातिमात्रबोधनाद् अभिधायां विरतायां व्यङ्ग्यत्वेनाभ्युपगन्तव्यया व्यक्ते रूप्यमाणान्वयबोधे लक्षणा तथेहापि व्यङ्ग्यत्वेनाह—त्सय वेणुरूपार्थस्य यथाव्यक्तिरूपव्यङ्ग्यस्य जातिरूपव्यङ्ग्येनाविनाभावेन तद्वत्प्रतीतिः ।
“गतो ऽस्तमर्कऽ; इत्यादौ “कान्तमभिसरेऽ; त्यादिव्यङ्ग्यवैलक्षण्येनावश्यकत्वेन मुख्यप्रायत्वं दवानलादित्वसमग्रीसमुत्थितस्य वेणुरूपार्थस्यापीति तौल्यम् ।
यद्वा “सो ऽयमिषोरिव दीर्घदीर्घतरो व्यापार” इति मताश्रयणाद् वेणुरूपर्थवंशशब्दस्यान्वयरूपार्थवंशशब्देन एकाकारत्वादभेदोपचाराद् व्यङ्ग्यस्य वेणुरूपार्थस्य विधेयत्वाद् मुख्यार्थत्वमिति ।
श्लेषादित्यस्य वर्णेत्यादौ प्रत्येकमन्वयः ।
तेन वर्णयोः श्लेषात् प्रत्यययोः श्लेषादित्यादि ।
क्रमेणोदाहरणम्–
“प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि” ॥
लोचना:
(लो, ई) विधौ चन्द्रे, विधातरि वा ।
कराः किरणाः, हस्ताश्च ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र “विधौ” इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः ।
टीका
विज्ञप्रिया:
(वि, झ) प्रतिकूलतामिति ।
हि एवार्थे ।
विधौ विधातरि प्रतिकूलतामुपगते बहुसाधनता बहूपायत्वं विफलत्वमेति इत्यर्थः ।
तदेव दर्शयति—अवलम्बनायेति ।
पतिष्यतः दिनभर्त्तुः अवलम्बनाय रक्षणाय करसहस्त्रं रश्मिसहस्त्रमेव करसहस्त्रं हस्तहसस्त्रं नाभूदित्यर्थः ।
विधौ चन्द्रे तस्यैव तत्प्रतिकूलत्वान्न तु विधातुः ।
अत्र विधावित्यत्र उकारेकाररूपवर्णयोर्विकारेण ऐक्यरूप्यमित्याह—अत्रेति ।
“किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।
कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः” ॥
अत्र “सुधाकिरः” इति क्विप्-क-प्रत्ययोः ।
किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषो ऽपि ।
टीका
विज्ञप्रिया:
(वि, ञ) प्रत्ययश्लेषमाह—किरणा इति ।
विभक्तिश्लेषस्य पृथगुपादानात् प्रत्ययो ऽत्र विभक्तिभिन्नो बोध्यः ।
विभिन्नरूपप्रत्ययद्वयस्यैवरूप्यं तत्त्वम् ।
कान्तोत्सङ्गजुषां नारीणामित्यर्थः ।
अत्रैकवचनश्लेषो ऽप्यस्तीत्यत्राह—किञ्जेति ।
वचद्वये ऽपि ऐक्यरूप्यन्तत्त्वम् ।
अत्र किरणा इति बहुवचनान्तम् ।
समीरण इति एकवचनान्तम् ।
उभयत्रैव सर्व इति किर इति च ।
अत्र च सर्व इत्यत्र प्रत्ययश्लेषं विना वचनश्लेष एव ।
“दोषयुक्तः पदादर्थऽ; इत्यत्र तु वचनश्लेषं विना प्रत्ययश्लेष एवेत्यतः पृथक् श्लेषद्वयम् ।
अत्र हि दोषयुक्तैत्यस्य पदादित्यत्रन्वये पञ्चम्यास्तसिप्रत्ययः ।
अर्थ इत्यन्वये तु क्तप्रत्यये उभयत्र एकवचनम् ।
लोचना:
(लो, उ) सर्व एव इत्यत्र सर्वशब्दो बहुवचनान्तः, एकवचनान्तश्च ।
तेन सुधाकिरः इत्यस्य बहुवचनान्तस्य विशेषणत्वे विक्षेपार्थात् कृधातोः क्किपप्रत्ययः ।
एकवचनान्तस्य तु कप्रत्ययः ।
“विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी ।
तव दत्तां सदामोदं लसत्तरलहारिणी” ॥
अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषो ऽपि ।
टीका
विज्ञप्रिया:
(वि, ट) लिङ्गश्लेषमाह—विकसदित्यादि ।
लिङ्गद्वये ऽप्यैकरूप्यं तत्त्वम् ।
तन्व्या विकसन्ती नेत्रनीलाब्जे स्तनद्वयी च तव मोदं सदा दत्ताम् ।
उभयोर्विशेषणमाह—लसदिति ।
नेत्रपक्षे—लसन्ती ते तरले चेति समासे ।
तादृशी च ते हारिणी मनोहारिणीत्यर्थः ।
लसन तरलःहरमध्यगः मणिर्यस्य तादृशहारवती स्तनद्वयी ।
अत्रापि वचनश्लेषसङ्करमाह—अत्र चेति ।
अत्रापीत्यर्थः ।
अत्र लिङ्गश्लेषं विना दत्तामित्यत्र वचनश्लेषः ।
वचनश्लेषं विना लिङ्गश्लेषस्तु “हरिस्तन्नाम चाघनुत्” इति ।
अत्र हरिस्तन्नाम्नो लिङ्गभेदे ऽपि अघनुदित्यैकरूप्यम् ।
वचनं तु अभिन्नम् ।
लोचना:
(लो, ऊ) दत्तामिति—दाधातोः परस्मैपदे द्विवचनान्तः ।
आत्मनेपदे चैकवचनान्तः ।
लसत् तरलहारिणीति पदं नेत्रनीलाब्जविशेषणत्वे द्विवचनान्तं स्तनद्वय्यास्त्वेकवचनान्तं स्त्रीलिङ्गम् ।
वचनश्लेषो ऽपीत्यपिशब्दात् न केवलं लिङ्गश्लेषमात्रमित्यर्थः ।
“अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः” ॥
अत्र “वक्ष्यति” इति वहि-वच्योः, “सामर्थ्यकृत्” इति कृन्तति-करोत्योः प्रकृत्योः ।
टीका
विज्ञप्रिया:
(वि, ठ) प्रकृतिश्लेषमाह—अयमिति ।
राजपुत्रे जाते ज्योतिर्विद उक्तिरियम् ।
हृदि वक्ष्यतीत्यन्वयः ।
ज्ञेषु पण्डितेषु शास्त्राणि वक्ष्यति कथयिष्यति ।
अमित्राणां समर्थ्यस्य छेत्ता ।
मित्राणां सामर्थ्यस्य कर्त्ता जनकः ।
लोचना:
(लो, ऋ) वहिवच्योरिति—हृदो ऽधिकरणत्वे वहिधातुर्ज्ञानार्थवाची ।
सामर्ध्यकृत् चामित्रसम्बन्धित्वे छेदनार्थः कृन्तति इति धातोः ।
मित्रसम्बन्धित्वे करणार्थः ।
विभक्त्यभेदे ऽपि प्रकृतिमात्रस्य भेदात् प्रकृतिश्लेष एव इत्यत आह–प्रकृत्योरिति ।
“पृथुकार्तस्वरपात्रम्-” इत्यादि ।
अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः ।
टीका
विज्ञप्रिया:
(वि, ड) पदश्लेषमाह—पृथुकेति ।
न्यूनाधिकवर्णयोः पदयोर्मिलनाद् अर्थद्वये ऽपि ऐक्यरूप्यं तत्त्वम् ।
पृथुकार्त्तेत्यादि व्याख्यातम् ।
अत्र प्रकृतिश्लेषत्वं निरस्यति अत्र पदभङ्गे इति ।
विभक्तेर्वैलक्षण्यमत्र समासे लुप्ताया बोध्यम् ।
यद्यपि न्यूनाधिकेत्यादिलक्षणवशादेव प्रकृतिश्लेषतो भेदसिद्धिस्तथापि प्रकारान्तरेणापि तत्सिद्धिर्दर्शिता ।
तथा चैतत्सकलवैलक्षण्यविशिष्टः पदश्लेषः ।
प्रकृतिमात्रवैलक्षण्ये तु प्रकृतिश्लेषः ।
लोचना:
(लो, ॠ) पृथुकेत्यादि व्याख्यातमेव सन्दिग्धत्वस्य क्वचिददोषकत्वकथनप्रस्तावे ।
अत्रेति ।
अयमर्थः ।
विभक्त्यादेरभिन्नत्वे हि प्रकृतिमात्रस्य भेदे प्रकृतिश्लेषत्वमेवोचित्म् ।
इह तु विभक्तेः पृथ्वादिशब्देषु पृथुकादिशब्देषु च भिन्नतया पददोष एव ।
विभक्त्यादेरभेदे ऽपि पदमात्रस्य भेदात्प्रकृतिश्लेष एव इत्याह ।
एवञ्च–
“नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणे” ॥
अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वे ऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः ।
टीका
विज्ञप्रिया:
(वि, ढ) तन्मात्रवैलक्षण्ये प्रकृतिश्लेषमप्यत्राह—एवं नीतनामिति ।
मधुलुब्धैर्भ्रमरैर्नोलोत्पलभ्रमेणाकुलीकृतयोः नायिकायाः नेत्रयोः वर्णनमिदम् ।
अत्र कमलानामित्यत्र चार्थो गम्यः ।
तथा च वनेवृद्धानां वृद्धमृगणां कमलानां च सदृशे तस्या लोचने ।
वनवृद्धकमलनायिकालोचनद्वयानां विशेषणमाह—नीतानमिति ।
भूरिशिलीमुखेरनेकबाणैः करणभूतैः लुब्धकैर्व्याधैः कर्त्तृभराकुलीभावं नीता वनवृद्धाः मृगाः, लुब्धैर्मधुलुब्धैर्भूरिशिलीमुखैरनेकमधुकरैराकुलीभावं नीतानि वने जले वृद्धानि कमलानि च ।
परं तु नीलोत्पलभ्रमान्नेत्रद्वयमिति विशेषः ।
“अलिबाणौ शिलीमुखौऽ; इति कोषः ।
अत्र लुब्धशिलीमुखौ प्रकृती ।
अन्यथेति ।
न्यूनाधिक इत्यादिलक्षणाभावपक्षे इति बोध्यम् ।
लोचना:
(लो, ऌ) एवं चेति ।
कमलशब्दस्य पदार्थत्वे लुब्धैर्लोभयुक्तैर्भूरिभिः शिलीनुशैर्भ्रमरैः ।
मृगविशेषार्थत्वे लुब्धैर्लुब्धकैर्भूरिभिः पूर्णभूतैः शिलीमुखैर्बाणैः ।
वनं जलं काननं च ।
विभक्तेः प्रत्ययरूपायाः सर्वत्र वक्ष्यत्यादौ ।
“सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसाम्मुख्यमायासि तनुवर्तनम्” ॥
टीका
विज्ञप्रिया:
(वि, ण) विभक्तिश्लेषमाह—सर्वस्वमिति ।
सुप्तिङन्तत्वेन भेदे ऽपि पदयोश्चैक्यरूप्यं तत्त्वम् ।
सर्वस्वमिति ।
शिवभक्तस्तं प्रति दस्योश्च पुत्रादिकं प्रति चोक्तिरियम् ।
हे हर ! त्वं सर्वस्य सर्वस्वम् ।
भवस्य उत्पत्तेश्छेदतत्परश्च मुक्तिदत्वात् ।
नयस्य नीतेः उपकारन्तरस्य साम्मुख्यं सम्भवो यस्मात् तादृशं तनुवर्त्तनं शरीरस्थितम् आयासि अगच्छसि प्राप्रोषीति यावत् ।
दस्युपक्षे—त्वं सर्वस्य सर्वस्वं हर ।
छेदतत्परो भव ।
उपकारस्य साम्मुख्यमानुकूल्यं नय अपनय ।
आयासि परायासकारिवर्त्तनं तनु विस्तारय ।
लोचना:
(लो, ए) सर्वस्वमिति ।
हे हर शम्भो ! त्वं सर्वस्य लोकस्य सर्वस्वम्, त्वं किमभूतः ? भवस्य संसारस्य छेदतत्परः ।
आयासि आयासयुक्तं तनोर्देहस्य वर्त्तनं वृत्तिमुपकारसाम्मुख्यं नय प्रापय ।
देहवृत्तिमायासरहितां कुर्विति भावः ।
पक्षे-चं सर्वस्य सर्वस्वं हर नाशय ।
छेदे खण्डने तत्परो भव ।
उपकारात् साम्मुख्यं नय उपकारं मा कुर्विति भावः ।
वर्त्तनं वृत्तिम् आयासि आयासयुक्तं तनु विस्तारय ।
अत्र “हर” इति पक्षे शिवसम्बोधनमिति सुप् ।
पक्षे हृधातोस्तिङिति विभक्तेः ।
एवं “भव” इत्यादौ ।
अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः ।
टीका
विज्ञप्रिया:
(वि, त) अत्र आयासि इति विना सर्वत्र लुप्तसुप्तिङन्तत्वे ऽपि आयासि इत्यत्र लुप्तालुप्तद्वयान्तत्वे ऽपि च पदयोरैकरूप्यं दर्शयति—अत्र चेति ।
अस्य प्रत्ययश्लेषतो वैलक्षण्यमाह—अस्य चेति ।
प्रत्ययान्तरासाध्येति ।
स्वतुल्यत्वेन प्रत्ययान्तरम् असाध्यम् अबोध्यं ययोः तादृशौ यौ सुप्तिङौ तदन्तर्गतत्वेनास्य श्लेषस्य इत्यर्थः ।
विच्छित्तिर्वैचित्र्यम् ।
लोचना:
(लो, ऐ) विच्छित्तिविशेषः सहृदयानुभवसिद्धः ।
“महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे ।
हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा” ॥
टीका
विज्ञप्रिया:
(वि, थ) भाषाश्लेषमाह—महदे इति ।
संस्कृतपक्षे—हे महदे हे उत्सवदात्रि ! हे उमे पार्वति ! आगमस्य वेदस्य आहरणे वशीकरणे मे मम तं प्रसिद्धं समासङ्गम् अव रक्ष ।
मुनिजनेषु प्रसिद्धं वेदाभ्यासं मम जनयेत्यर्थः ।
समासङ्गं कीदृशं सुरसन्धं सुराणां सन्धं सम्बन्धिकारकम्, मम सुरत्वप्रापकमित्यर्थः ।
तथा तं प्रसिद्धं चित्तमोहम् अवसरे ऽपर्थान्मरणरूपे सहसा हर नाशयः कीदृशं चित्तमोहं बहुसरणं नानाविधकार्य्यविषयम् ।
सृ गतौ ।
प्राकृतपक्षे— मम देहि रसं धर्में तमोवशामाशां गमागमाद् हर नः ।
हरवधु शरणं त्वं चित्तमोहो ऽपसरतु मे सहसा ॥
“इति संस्कृतम् ।
तदर्थश्च–हे हरवधु ! मम धर्मे रसं देहि ।
गमागमात् संसारात् तमोवशामाशां नो ऽस्माकं हर ।
त्वं मे शरणम् ।
मम चित्तमोहः सहसापसरतु ।
लोचना:
(लो, ओ) “महदे” इति ।
संस्कृतपक्षे—महदे उत्सवदे ! उमे ! पार्वति ! मे मम आगमाहरणे आगमानामाकलने तं समासङ्गम् आसक्तिम् अव स्थिरीकुर्विति भावः ।
सुरैर्देवैः सन्धः समाधानं येनेति समासङ्गविशेषणम् ।
आगमाध्यासस्य स्वर्गहेतुत्वाद् बहु बहुलं सरणं प्रसारो यस्य एवम्भूतं चित्तमोहं मनोनिष्ठम् अज्ञानम्, अवसरे, सहसा वेगेन हर अपनय ।
(महाराष्ट्रीयप्राकृतपक्षे) चतुर्थ्यर्थे “महद इति षष्ठी ।
तेन —
“मह्यं देहि रसं धर्मे तमोवशामाशं गमागमाद्वर नः ।
हरवधु ! शरणं त्वं चित्तमोहो ऽपसरतु मे सहसा” ॥
गमागमो विद्यते यत्र तस्मात् ममागमात् संसारादित्यर्थः ।
अत्र संस्कृतमहाराष्ट्रयोः ।
संस्कृतपैशाच्योर्यथा–
(ख)“कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् ।
अप्पतिमानं खमते सो ऽगनिकानं नरं जेतुम्” ॥
कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् ।
अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ॥
इति पैशाचीच्छाया ।
संस्कृतशूरसेन्योर्यथा–
(ग)“तोदीसदिगगणमदो ऽकलहं स सदा बलं विदन्तरिदम् ।
आरदमेहावसरं सासदमारं गदा भारम्” ॥
ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम् ।
आरतमेद्यावसरं शाश्वतमारं गतासारम्” ॥
इति शूरसेनीच्छाया ।
संस्कृतापभ्रंशयोर्यथा–
(घ)“धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु ।
अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु ।
पुनस्त्रिधा सभङ्गो ऽथाभङ्गस्तदुभयात्मकः ॥ विस्स्द्_१०।१२ ॥
लोचना:
(लो, औ) एवं वर्णादिगतत्वेनाष्टविधं श्लेषमुक्त्वा पुनः प्रकारान्तरेण त्रिविधमाहृ—पुनरिति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम् ।
टीका
विज्ञप्रिया:
(वि, द) पुनस्त्रिधेति ।
अयमष्टविधः श्लेषालङ्कारस्त्रिधा भवतीत्यर्थः ।
कथमित्यत्राह—सभङ्ग इति ।
तदुभयात्मकः सभङ्गाभङ्गात्मक इत्यर्थः ।
उत्कभेदाष्टक इति ।
तत्र पृथुकार्त्तेत्यत्र सभङ्गः ।
“किरणा” इत्यत्र “सर्व एव सुधाकिर” इत्यत्राभङ्गः ।
कहदे इत्यत्र चित्तमोहमित्यत्राभङ्गः ।
महदे इत्यादिषु सभङ्गः, इत्युभयात्मकः ।
यथा वा–
“येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा ।
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः” ॥
अत्र “येन-” इत्यादौ सभ्ङ्गश्लेषः ।
“अन्धक-” इत्यादावभङ्गः ।
अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।
टीका
विज्ञप्रिया:
(वि, ध) श्लोकान्तरे ऽपि त्रैविध्यं दर्शयति—-येन ध्वस्तमिति ।
त्वां सर्वदा स उमाधवः सर्वदो माधवश्च पायात् ।
तत्र माधवपक्षे, अभवेन अनुत्पत्तिना येन अनः शकटं ध्वस्तं नित्यशरीरस्य तस्यं रूपान्तरेणाविर्भावमात्रम्, नतूत्पत्तिः ।
तथा यो वलिजित् बलिजेता ।
येन कायः पुरा मोहिनीरूपेण स्त्रीकृतः ।
एकत्रैव नित्यशरीरे आकारभेदप्रदर्शनमात्रम्, न तु शरीरभेद इति भावः ।
यश्च उद्वृत्तस्य दुर्वृत्तस्य भुजङ्गस्य अघासुरस्य हन्ता ।
रवस्य नानात्मकब्रह्मणो लयो लीनता यत्र तादृशः ।
अगं गोवर्द्धनम्, कूर्मवराहमूर्त्त्या च गां पृथिवीं च यो ऽधारयत् ।
शशिमथः राहोः शिरोहर इति स्तुत्यं नाम यस्यामरा आहुः ।
स कीदृशः ? स्वयमन्धकवंशक्षयकरः निवासकरः ।
क्षि निवासगत्योः इति धातोः ।
उमाधवपक्षे—ध्वस्तमनोभवेन ध्वस्तो दलितो मनोभवो कामो यस्मात् ।
येन बलिजितो विष्णोः कायः पुरस्य त्रिपुरासुरस्य नाशकास्त्रीकृतः, त्रिपुरवधे विष्णोः कायस्य शरीकृतत्वात् ।
यश्चोद्वृत्तभुजङ्गरूपो हारः वलयश्च कङ्कणः यस्य तादृशः, गङ्गां च यो मौलौ अधारयत् ।
यस्य खिरः शशिमत् चन्द्रयुक्तम् ।
हर इति स्तुत्यं नाम चामरा आहुः ।
स कीदृशः—स्वयनन्धकासुरस्य नाशकरः ।
अत्र त्रितयसत्त्वं दर्शयति—अत्रेति ।
एकैकश्लोके एकैकाप्रदर्शनस्य बीजमाह—ग्रन्थेति ।
लोचना:
(लो, अ) हरपक्षे—मनोभवः कामः ।
बलिजित् विष्णुः, तस्य कायः पुरा दैत्यार्थमस्त्रीकृतः ।
उद्वृत्ता अतिवर्त्तुलाकारा भुजङ्गा एव हारा वलयाश्च यस्य ।
गङ्गां त्रिपथगाम् ।
शशी विद्यते यत्र तत् शशिमत् ।
अन्धकदैत्यस्य क्षयो नाशः, तत्करः सर्वदा उमाधवः गौरीपतिः ।
हरिपक्षे–येन अनः शकटं ध्वस्तम् ।
अभवेन चिद्रूपेण ।
आत्मन एव कायः पुरा पूर्वम् अमृताहरणकाले ऽसुरमोहनार्थं स्त्रीरूपः कृतः ।
उद्वृत्तः उद्धतो भुजङ्गः कालियः तं हन्तीति ।
रवे नादरूपे ब्रह्मणि लयो यस्य ।
अगं पर्वतं गोवर्द्धनाख्यं गां पृथ्वीं च ।
शसिनं मथ्नाति इति शशिमद्राहुः तस्य शिरोहरः ।
अन्धकानाम् अन्धकवंशीयानां क्षयो निवासो द्वारकापुरसम्भन्धी तत्करः ।
सर्वं ददाति इति सर्वदः ।
माधवः श्रीपतिः ।
सभङ्गः पदभङ्गे अर्थप्रत्ययात् ।
अनयोः सभङ्गाभङ्गरूपयोः श्लेषयोरेकश्लोके ।
इह केचिदाहुः–“सभङ्गश्लेष एव शब्दश्लेषविषयः ।
यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः ।
लोचना:
(लो, आ) सम्प्रति सभङ्ग एव शब्दश्लेषविषयः; अभङ्गस्त्वर्थश्लेष इति स्वीकुर्वतां पक्षमनूद्य दूषयति—इहेत्यादि ।
आहुरित्यस्य दूरस्थेनोपपत्तेरितीति शब्देनान्वयः ।
सभङ्गः वर्णव्यूहेषु भङ्गेन युतः, तद्भावात्मकेन भिन्नपदेन वा सहितः ।
शब्दश्लेषविषयः शब्दद्वैधभिन्ननिर्व्यूढार्थद्वैविध्यादित्यर्थः ।
उदात्तादीति–उच्चैरुदात्तः ।
नौच्चैरनुदात्तः ।
आदिशब्दात्तदन्तर्गतानामनुनासिकादीनां काकुभेदानां चोपसङ्ग्रहः ।
भिन्नप्रयत्नोच्चार्य्यत्वेन प्रयत्नभेदेन उच्चारणं विना उदात्तदिभेदाभावात् ।
एतेन तत्कार्य्येणातिभेदश्चाभिप्रेतः ।
यथा– “सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः ।
सरसीव कीर्त्तिशेषं गतवति भुवि विकमादित्ये” ॥
इति अत्र हि राजपक्षे सा, इति, कम् इति ।
सरः पक्षे नेतीत्यत्र तु सा नास्ति ।
जतुकाष्ठन्यायेनेति ।
यथा काष्ठयोर्भिन्नयोरप्युपायवशेन जडीकृतयोरेकता तथाभिन्नयोः पदयोः शब्दयोरेकत्र वर्णव्यूहे सन्निवेशः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अभङ्गस्त्वर्थश्लेष एव ।
यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः ।
लोचना:
(लो, इ) अर्थश्लेष एव शब्दस्वरूपविपर्यासाभावे ऽप्यर्थस्य द्विधात्मकत्वादित्यर्थः ।
यत्रेति ।
यथा एकस्मिन्नेव वृन्ते फलद्वयं तथा एकस्मिन्नेव शब्देर्ऽथद्वयसंसर्गः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यो हि यदाश्रितः स तदलङ्कार एव ।
अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः” इति ।
टीका
विज्ञप्रिया:
(वि, न) सभङ्गत्वे शब्दश्लेषत्वबीजमाह यत्रेति ।
सभङ्गश्लेषस्थले काव्ये ऽपि स्वरभेदगणनमिति तन्मतम् ।
ततश्च भिन्नप्रयत्नोच्चार्य्यत्वेनैव पृथक् पृथक् शब्दभेदः ।
केवलं विभिन्नत्वेन प्रतीयमानयोरपि अत्यन्तसन्निधानरूप एव जतुकाष्ठयोरिव श्लेष इत्यर्थः ।
अभङ्गश्लेषस्त्वर्थश्लेष इत्याह—अभङ्गस्त्विति ।
तदर्थश्लेषत्वे बीजमाह—यत्रेति ।
अभिन्नप्रयत्नोच्चार्य्यत्वेन शब्दभेदाभावाद् एकवृन्तलग्नफलद्वयवदेकशब्दलग्नार्थयोरेव श्लिष्टत्वमित्यर्थः ।
तावतैव कथमर्थालङ्कारत्वम् इत्यत्राह—यो हि यदाश्रय इति ।
सभङ्गत्वे शब्दयोरेव श्लिष्टत्वात्तत्र श्लेषः शब्दाश्रितः ।
एकदेशाश्रित्योरर्थयोरेव च श्लिष्टत्वादर्थाश्रितस्तत्र श्लेष इत्यर्थः ।
लोचना:
(लो, ई) यो हीति ।
यथा लोके भुजाश्रितो भुजस्थालङ्कारः कण्ठश्रितः कण्ठस्य तथासौ शब्दाश्रित इति भावः ।
लोकवदिति ।
लोके आश्रयाश्रयिभावेन एव व्यपदेशः, यथा राजपुरुषः ।
यद्वा उपपत्तेरुपादानाद् व्यवहरणादिति यावत् ।
तदन्ये न क्षमन्ते ।
तथाहि–अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम् इति ।
टीका
विज्ञप्रिया:
(वि, प) तदन्ये इति ।
काव्यप्रकाशकारादयस्तदनुयायिनो वयञ्च इत्यर्थः ।
तथा ह्यत्रेति ।
अत्रालङ्कारशास्त्रे शब्दशक्तिमूलव्यङ्ग्यत्वे ध्वनिगुणीभूतव्यङ्ग्ययोः शब्दगतत्वव्यवहारः ।
अर्थशक्तिमूलत्वे तु अर्थगतत्वेन दोषादीनां तु शब्दार्थन्वयाद्यविधानं स्फुटमेव ।
तथा च नानार्थाभङ्गशब्दस्यापि श्लेषेणान्वयव्यतिरेकानुविधानात तत्रापि शब्दश्लेषत्वमेव इति भावः ।
लोचना:
(लो, उ) सिद्धान्तमाह—तद् उक्तप्रकारं पूर्वेषां मतम्, अन्ये ऽभियुक्ता न मन्यन्ते न स्वीकुर्वन्ति ।
कुतो न मन्यन्ते तत्र हेतुमाह—तथाहीति ।
अत्र अलङ्कारप्रस्तावे येषां द्वन्द्वार्थानां शब्दानां पर्य्यान्तरेण प्रतिपादने ऽपि न क्षतिस्त एवार्थगताः ।
येषाम्न तु तथा ते शब्दगता एवेति नियमनात् प्राचीनैरलङ्कारकारैरिति शेषः ।
न च “अन्धकक्षय” इत्यादौ शब्दाभेदः, “अर्थभेदेन शब्दभेदः” इति दर्शनात् ।
टीका
विज्ञप्रिया:
(वि, फ) मतविशेषे तु यत्र नानार्थस्थले ऽपि शब्दभेदस्तथा च तत्रापि श्लिष्टानेकशब्दकृतः शब्दालङ्कारस्तन्मते निर्बाध एवेति तन्मतं दर्शयति—न चान्धक इति ।
न च शब्दाभेद इत्यन्वयः ।
तत्र हेतुमाह—अर्थभेदेनेति ।
घटपटरूपार्थभेदेन घटपटशब्दभेदनादित्यर्थः ।
तथा चैतद् दृष्टान्तेनैवार्थभेदस्य शब्दभेदव्याप्यत्वसिद्धिरिति भावः ।
न च तत्कथं नानार्थकशब्दाः श्रूयन्ते इति वाच्यम्–एकप्रयत्नोच्चार्य्यत्वदोषेण भेदाग्रहात् ।
लोचना:
(लो, ऊ) नच तन्नियमनमात्रेणाभङ्गस्य शब्दश्लेषत्वम्, शब्दभेदादपि इत्याह–नचेति ।
हेतुमाह–अर्थभेदेनेति ।
दर्शनाद् युष्माभिरेव सिद्धान्तात् प्रमाणीकृतादिति शेषः ।
किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव ।
विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद् वैचित्र्यस्यैव चालङ्कारत्वात् ।
अर्थमुखप्रेक्षितया चार्थालङ्कारत्वे ऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः ।
टीका
विज्ञप्रिया:
(वि, ब) ननु सभङ्गश्लेषस्थलेर्ऽथभेदात् त्वदभिमतस्वरभेददृष्टान्तेन अभङ्गानेकशब्दानामर्थभेदात् स्वरभेद एव स्यात् ।
तथा च स्वरभेदवैलक्षण्यग्रहे कथं भेदग्रहः स्यादतोर्ऽथभेदस्य शब्दभेदव्याप्तिरप्रयोजिकैव इत्यत एकप्रयत्नेन नानाशब्दोच्चारणमित्यत आह—किञ्चेति ।
शब्दस्यैव मुख्यतया वैचित्र्योपायत्वेन कविप्रतिभयोट्टङ्कनाद् विषयीकारणादित्यर्थः ।
ननु अन्धकाद्यखण्डशब्दस्य मुख्यत्वे किं प्रमाणमित्यत आहविसदृशशब्दद्वयस्येति ।
नहि हरिणशब्दस्थले तदर्थकेन्द्रादिशब्दप्रयोगे हरि नौमीत्यत्रेव विष्णिवन्द्रौ नौमीत्यत्रापि श्लेषरूपवैचित्र्याननुभव इत्यर्थः ।
नन्वर्थमुखप्रोक्षित्वाद् अभङ्गश्लेषस्यार्ऽथालङ्कारत्वमुच्यते इत्यत आह—अर्थमुखेति ।
अनुपारसादीनामित्यादिपदात् सभङ्गश्लेषवक्रोत्त्यादिपरिग्रहः ।
रसादिपरत्वेनेति ।
रसनिष्टगुणार्थकत्वेनैव रसपरत्वं बोध्यम् ।
आदिपदात् लाटानुप्रासे वाच्यार्थमुखप्रेक्षित्वमेव बौध्यम् ।
लोचना:
(लो, ऋ) ये ऽप्याहुर्यो यदाश्रेतः स तदलङ्कार इति तन्मते ऽप्यत्र वौचित्र्यस्य शब्दनिष्ठत्वाच्छब्दालङ्कारत्वमित्याह—किञ्चेति ।
वैचित्र्यं लोकोत्तरविच्छित्तिरलङ्काररूपा ।
प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा ।
उट्टङ्कनात् उल्लेखनात्, अत्र हेतुमाह— विसदृशेति ।
विसदृशमसमानश्रुतिकम् ।
यथा अन्धकक्षयकर इत्यत्र क्षयशब्दस्थाने विनाशनिवासरूपकशब्दद्वयम् ।
अस्य च वैचित्र्यस्यार्थानुसन्धानमन्तरेणनुपलब्धेरर्थालङ्कारत्वमस्तीत्याशङ्क्याह—अर्थेति ।
अर्थमुखप्रेक्षित्वमर्थानुसान्धाने वैचित्र्ययोगः ।
तथा सति अलङ्कारान्तरे ऽतिप्रसङ्ग इत्यत आह—अनुप्रासादीनामिति ।
अयमर्थः—अनुप्रासादीनामपि हि रसादिपरत्वाभावे वृत्तिविरोधात् ।
रसादिरूपस्यार्थस्य तदभिवयञ्जकस्य विभावादिरूपस्यार्थस्य वानुसन्धानमस्त्येवेति तेपि कथं शब्दालङ्कारमध्ये युष्माभिरपि गण्यन्त इति ।
शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे “प्रतिकूलतामुपगते हि विधौ” इत्यादौ शब्दभेदे ऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव ।
टीका
विज्ञप्रिया:
(वि, भ) अभिन्नप्रयत्नोच्चार्य्यत्वेनार्थालङ्कारत्वस्य तदुक्तस्य शब्दालङ्कारतया निर्विवादे वर्णश्लेषवर्णानुप्रासे ऽपि अतिप्रसाक्तिमाह—प्रतिकूलन्तमिति ।
उभयत्रापि इति ।
सभङ्गभङ्गयोरित्यर्थः ।
लोचना:
(लो, ॠ) यत् पुनरुक्तं शब्दस्यैकप्रयत्नोच्चार्य्यत्वेर्ऽथालङ्कारत्वमिति तथाप्यव्याप्तिदोष इत्याह—शब्दस्येति ।
प्रतिकूलतामित्यादौ विधावित्यत्र इकारोकारयोरौकाररूपत्वेनाभिन्नप्रयत्नोच्चार्य्यत्वं तत् शब्दभेदेन शब्दश्लेषमङ्गीकुर्वतः ।
उभयत्र “येन ध्वस्त"इत्यादौ “अन्धकक्षय” इत्यादौ च ।
यत्र तु शब्दपरिवर्त्तने ऽपि न श्लेषत्वखण्डना, तत्र–
“स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च” ॥
इत्यादावर्थश्लेषः ।
टीका
विज्ञप्रिया:
(वि, म) नन्वेवमर्थस्लेषालङ्कारोच्छेदप्रसङ्ग इत्यत आह—यत्र त्विति ।
तमेव विषयमाह—तत्र स्तोकेनेति ।
अहो तुलाया मानतुलायाः कोटेरग्रभागस्य खलस्य च सुसदृशी वृत्तिर्यतः स्तोकेनेत्यादि ।
स्तोकेन गुञ्जाद्यल्पवस्तुना, पक्षे स्तोकेनाल्पप्रशंसनेनाल्पनिन्दनेन च ।
अत्रोन्नत्यधोगत्यर्थकपदान्तरदाने ऽपि नार्थश्लेषत्वखण्डना ।
लोचना:
(लो, ऌ) तत् क्व नु पुनरर्थश्लेष इत्याह—यत्र हीति ।
शब्दस्य परिवर्त्तने पर्य्यायान्तरेण प्रतिपादने ।
सुवर्णदिगौरवप्रकर्षापकर्षसूचिका तुलाकोटिः ।
अत्र स्तोकादिस्याने स्वल्पादिपदनिवेशे ऽपि न ह्यर्थताहानिः ।
अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् ।
टीका
विज्ञप्रिया:
(वि, य) इदानीं श्लेषस्य अलङ्कारान्तरासङ्कीर्णविषयाभावाद् अलङ्कारान्तरस्य च श्लेषासङ्कीर्णविषयसत्त्वात् सामान्यमलङ्कारान्तरमपवादत्वेन बाधित्वा श्लेष एवालङ्कारः अलङ्कारान्तरं तु तत् सङ्कीर्णं तद्ग्राहकमेवेति केचिदाहुः ।
तन्मतं दर्शयति—अस्येति ।
तत्प्रतिभोत्पत्तिहेतुत्वमिति—तत्प्रतिभा, अलङ्कारान्तरविषयिणी प्रतिभा तस्या एवोत्पत्तिहेतुत्वमस्य श्लेषस्य तद्विषयबोधकत्वमित्यर्थः ।
शब्दश्लेषेण श्लेषालङ्कारविषयप्रतिभैव जन्यत इत्यर्थः ।
नतु अलङ्कारान्तरविषयप्रतिभा इत्यर्थः ।
तथा चालङ्कारान्तरसङ्करे श्लेष एवालङ्कार इत्यर्थः ।
लोचना:
(लो, ए) एष च नियमादलङ्कारणां विच्छित्तिमादायैव सम्भवतीत्येतद्विषये विद्यमानानामलङ्कारणां बाध इति ये मन्यन्ते तेषां पक्षमुपन्यस्य दूषयति–अस्य चेति ।
विद्यमानेष्वेतद्विषयेषु ।
तद्वाधकत्वात् ।
तेषामलङ्कारणां बाधकत्वादवकाशान्तराभावेन तह्यपदेशं बाधित्वा मुख्यत्वेन व्यपदेष्टुं योग्यत्वात् ।
अस्य च हेतुरपवादत्वेनेति ।
तेषामलङ्कारणां प्रतिभाबुद्धिस्विता उत्पत्तिहेतुरस्येति तत्प्रतिभोत्पत्तिहेतुः ।
इत्थमत्र विचार्यते–समासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धो ऽपि ।
टीका
विज्ञप्रिया:
(वि, र) तन्मते ऽपि सकलालङ्कारसङ्करे श्लेषो न बादकः, किन्तु कतिपयालङ्कारसङ्करे एवेति निष्कर्षं प्रतिपादयितुमाह—इत्थमत्रेति ।
तत्र समासोक्त्यप्रस्तुतप्रशंसासङ्कीर्णस्य श्लेषस्य तद्द्वयबाधकप्रसक्तिरेव नास्ति इत्याह—समासेक्तीति ।
प्रस्तुतकथनेनाप्रस्तुतव्यञ्जनं समासोक्तिः ।
क्वचित् श्लेषसङ्कीर्णा सा ।
यथा— “अनुरागवती सन्ध्या दिवसस्तत्पुरः सरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः” ॥
इत्यत्र प्रकृतदिवसपुरः सरसन्ध्याकथनादप्रकृतनायकपुरः सरनायिकाप्रतीतौ रक्तिमानुरगोभयार्थकानुरागपदश्लेषसङ्करः ।
अप्रस्तुतकथनेन प्रस्तुतव्यञ्जनं चाप्रस्तुतप्रशंसा; सा च क्वचित् श्ल्षसङ्कीर्णापि भवति ।
यथा— “सततं या मध्यस्था कथयति यष्टिः प्रतिष्टितासीति ।
पुष्करिणी नैव तदुचितं पूर्णायत्तामधो नयसि” ॥
इत्यत्र जनैः यष्टिप्लावनाप्राकरणिकपुष्करिणीकथनेन प्राकरणिकप्रतिष्टागायकजनतिरस्कारकसम्पत्तिमज्जनप्रतीतौ मध्यस्थादिपदश्लेषसङ्करः ।
एतदुभयत्र श्लेषालङ्कारप्रसक्तिरेव नास्तीत्यत आह—-नास्य गन्धो ऽपीति ।
अत्र हेतुमाह—द्वितीयार्थस्येति ।
अनयोर्द्वितीयार्थस्य व्यङ्ग्यत्वादेव ।
अर्थद्वयस्य वाच्यत्व एव श्लेषालङ्कारः ।
अप्रस्तुतप्रशंसादौ इत्यादिपदादुपमाध्वनिपरिग्रहः, यथा दुर्गालङ्घितेत्यादौ ।
लोचना:
(लो, ऐ) इत्थमिति वक्ष्यमाणस्य बुद्धिस्थितयां इदमा परामर्शः ।
अत्रेत्थमनतरोक्तम् ।
केषाञ्चित् पूर्वपक्षिणां मते समासोक्तिर्यथा—
“उपोढरागेण विलोलतारकम्, तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद् गलितं न लक्षितम्” ॥
अप्रस्तुतप्रशंसा यथा—
“एणालं सम्भ्रमेण त्यज गवय ! भयं सैरिभ ! स्वैरमास्स्व क्षौभं मा यास्तरक्षो ! विहर गिरिदरीं स्वेच्छयैवाच्यभल्ल ! पारिन्द्रः पारदृश्वा निखिलवनभुवः केवलं मोदते ऽसौ माद्यत्कुम्भीन्द्रकुम्भस्थलगलितघनस्थूलमुक्ताफलोघैः” ॥
आदिशब्देन पर्य्यायोक्त्यादिः ।
द्वितीयार्थः प्रकृताप्रकृतो वा यथा नायकय्यवहारादिः ।
अनभिधेयतया अभिधायाः प्रकृतबोधनेन विरमाद् अस्य श्लेषस्य ।
“विद्वन्मानसहंस–” इत्यादौ श्लेषगर्भे रूपके ऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वे ऽपि रूपकेण श्लेषो बाध्यते ।
सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वम् ।
टीका
विज्ञप्रिया:
(वि, ल) पूर्वोक्ते श्लिष्टपरम्परितरूपके ऽपि न श्लेषालङ्कारप्रसक्तिरित्याह—विद्वन्मानसेति ।
विदुषां मन एव मानसं सरस्तत्र हंसेति राज्ञः सम्बोधनम् ।
अत्र रूपकस्य श्लेषबाधकत्वे हेतुमाह—सरोरूपस्येति ।
विश्रान्तिधामता पर्य्यन्तिकप्रतीतिविषयता, हंसाश्रयत्वेन न तद्रूपकस्यैव तथात्वात् ।
उभयत्रैव विश्रान्तिसत्त्वे एव श्लेषप्रसाक्तिः ।
यथा “पृथुकार्त्तस्वरपात्रम्” इत्यत्र सदनद्वयविशेषणयोः श्लिष्टार्थयोः विश्रान्तिस्तदाह—श्लेषे हीति ।
लोचना:
(लो, ओ) श्लेषो बाध्यते–श्लेषव्यपदेशमनूद्यात्मना व्यपदेशः कार्य्यते ।
विश्रान्तिधामता चित्तरूपार्थानुवादेन विधेयत्वालाभात् ।
इह हि चित्तादिकमवच्छादितस्वरूपं सरोवरादिरूपत्वमापद्यते ।
अतएवात्र “राजनारायणं लक्ष्मीः समालिङ्गति निर्भरम्” इत्यत्र राज्ञो नारायणत्वोचितलक्ष्मीसमालिङ्गनं वर्ण्यते ।
तथा “मुखचन्द्र प्रकाशते” इत्यत्र मुखं चन्द्ररूपतामापद्यत इत्युपरचितचन्द्रधर्मस्य तत्र वर्णनम् ।
समकक्षत्वं न खलु रूपकवद् एकस्य गौणतान्यस्य प्राधान्यम् ।
स्वस्वसामग्रीवशेन पृथक्पृथक्स्वस्वार्थबोधनेनोपक्षेपात् ।
यथा—“हृदिज्ञेषु वक्ष्यति” इत्यादौ वहनवचनयोः तथा “पृथुकार्तस्वर” इत्यादौ पृथुकादीनाम् ।
“सन्निहितबालान्धकारा भास्वन्मूर्तिश्च” इत्यादौ विरोधाभासे ऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः ।
टीका
विज्ञप्रिया:
(वि, व) श्लिष्टविरोधाभासे ऽपि न श्लेषालङ्कारप्रसक्तिरित्याह—सन्निहितेति ।
नायिका भास्वन्मूर्त्तिर्देप्यमानमूर्त्तिः सन्निहितबालरूपान्धकारा च मोहजनकत्वेन ।
बालस्यान्धकारत्वरूपणम् ।
अत्र भास्वन्मूर्त्तेः सूर्य्यविम्बस्याल्पान्धकारसान्निध्यं बालपदभास्वत्पदश्लेषादुपस्थितं विरुद्धतयाऽभासते ।
अत्र श्लेषालङ्काराप्रसक्तिबीजमाह—विरुद्धार्थस्येति ।
प्रतिभातमात्रस्य उपस्थितमात्रस्य इत्यर्थः ।
प्ररोहाभावाद् अन्वयबोधाभावात् ।
नही अन्धकारसन्निहितसूर्य्यमूर्त्तिर्नायिका न वान्धकारसान्निध्यं सूर्य्यबिम्बस्य इति बाधस्यापि उपस्थितिमात्रेण एव विरोधाभासालङ्कारता श्लेषस्य तु श्लिष्टार्थस्यान्वये सत्येव अलङ्कारता विरोधाभासवत् श्लेषाभासालङ्कारानभ्युगमात् ।
लोचना:
(लो, औ) बालः क्षुद्रः केशश्च ।
भास्वतः सूर्य्यस्य, भास्वतः कान्तिमतो ऽपीवा सूर्य्यमूर्त्तौ अन्धकारस्य सन्निधानाभावाद् विरोधाभासः ।
यथा भासनं न तथा विश्रान्तिप्ररोहः ।
एवं पुनरुक्तवदाभासे ऽपि ।
टीका
विज्ञप्रिया:
(वि, श) एवं पुनरुरक्तेति—न हि भुजङ्गकुण्डलिशब्दयोः एकार्थत्वबोधः पर्य्न्तिकः; आपातमात्रतः श्लेषेण तथा बोधात् ।
तेन “येन ध्वस्त-” इत्यादौ प्राकरणिकयोः, “नीतानाम्-” इत्यादावप्रकारणिकयोरेकधर्माभिसम्बन्धात्तुल्ययोगितायाम्,
टीका
विज्ञप्रिया:
(वि, ष) इत्थमुक्तस्थलेषु श्लेषालङ्कारं बाधित्वा ते ते अलङ्कारा एवेत्युक्त्वा अलङ्कारान्तरस्यैव बाधकः श्लेष इति तदभिप्रेतं वक्तुमाह—येन ध्वस्तमिति ।
येन ध्वस्तमित्यादौ नीतानामित्यादौ च तुल्ययोगितायाम्, स्वेच्छोपजातेत्यादौ दपिके सकलकलमित्यादौ चोपमायां विद्यमानायामपि श्लेषेणैव व्यपदेशो भवितुं युक्त इत्यग्रे ऽन्वयः ।
तेन येन ध्वस्तमित्यादौ माधवोमाधवयोर्द्वयोरपि प्राकरणिकयोः येन ध्वस्तेत्याद्येकधर्मान्वयरूपस्तुल्ययोगितालङ्कारः ।
“पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।
एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥
“इति लक्षणात् ।
अत्र हि प्रस्तुतानां प्राकरणिकानामेवान्येषामप्राकरणिकानामेवेत्यर्थः ।
नीतानामित्यादौ तु अप्राकरणिकयोरेव वनवृद्धरकमलयोः नीतानीमित्यादि पूर्वार्द्धेक्ते कर्मान्वयः ।
स्वेच्छोपजातेत्यादौ सलक्षणं दीपकं दर्शयिष्यते ।
लोचना:
(लो, अ) पुनरुक्तवदाभासे यथोदाहृतभुजङ्गकुण्डलीत्यादौ ।
तेन हेतुना तुल्ययोगितायामित्यादेरुपरितनेन विद्यमानायामित्यनेन सम्बन्धः ।
“स्वेच्छोपजातविषयो ऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् ।
मोहात्समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः” ॥
इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद् दीपके ।
टीका
विज्ञप्रिया:
(वि, स) तच्च्लोकार्थस्तु यथा—प्रभुरल्पबुद्धिरित्यत्र चकारार्थो गम्यः ।
वक्तुमित्यत्र भावतुम्वचनमित्यर्थः ।
तथा च कष्टं खेदे ।
प्रसूनविशिखो ऽल्पबुद्धिः प्रभुश्च स्वेच्छोपजातविषयो ऽपि स्वेच्छया सर्वलोकोपरि प्राप्ताधिकारो ऽपि देहीति वचनं न याति न प्राप्तोति ।
देहाभावेन देहीति वाग्विषयो न प्रसूनविशिखः ।
तथापि मार्गणशतैः असङ्ख्यबाणैः दुः खं ददाति ।
उक्तरूपः प्रभुस्तु लोकेषु देहीति ददस्वेति वचनं न याति न प्राप्तोति ।
एतादृशवाग्वक्तान भवतीत्यर्थः ।
मार्गणशतैः परधनान्वेषणरूपमार्गणशतैः अर्थात् ईदृशपदातिशतैः दुः खं ददाति ।
देहीत्यनुक्त्वापि पदतिद्वारा सर्वसम्व हृत्वा दुः खं ददातीत्यर्थः ।
अधिकारसत्त्वाद्देहीत्युक्त्वापि सर्वस्वं ग्रहीतुं सामर्थ्यसत्त्वे ऽपि अल्पबुद्धित्वात्तथा न करोतीत्यर्थः ।
एवं प्रसूनविशिखः स्वदत्तमोहाद् अकाण्डे ऽकस्माज्जीवनमपि समाक्षिपति हरति इत्यर्थः ।
अत्र प्राकरणि क उक्तरूपः प्रभुरप्राकरणिकः प्रसूनविशिखः; तयोर्न याति इत्याद्येकधर्मान्वयरूपं दीपकम् ।
तदुक्तम्—“अप्रस्तुतप्रस्तुतयोर्देपकन्तु तदुच्यते"इति ।
एकधर्मान्वय इति तत्र शेषः ।
लोचना:
(लो, आ) स्वेच्छेति ।
स्वेच्छया उपजात आश्रितः विषयः भोगः यस्य ।
वक्तुं न यातीति न तत्र स्वार्थनिवेदनं वक्तुं शक्य इत्यर्थः ।
देहि प्रयच्छ ।
इति मार्गणशतैः याचनशतैः प्रदानाभावात् पुनः पुनः कृतैः ।
मोहादपराधगुरुलघुविचारादक्षत्वात् ।
अकाण्डे ऽकस्मात्, स्वल्पेऽप्यागसीति यावत् ।
पक्षान्तरे तु विषयः कामस्याश्रयो वनितादिः ।
वक्तुं न यातीति ।
वक्तुं न यातीदृशः सम्प्रति मे काम इति ।
देहा प्राणीत्येतावन्मात्रेण विशेषमनपेक्ष्य, मार्गणशतैर्मोहादात्मनो निवेकाभावात् ।
कष्टमिति निर्वेदे ऽव्ययम् ।
दीपके विद्यमान इत्यर्थः ।
“सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव” ।
इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासम्भवाद् एषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति ।
टीका
विज्ञप्रिया:
(वि, ह) सकलकलमित्यादौ च सकलकलावत्त्वकलकलशब्दवत्त्वार्थद्वयश्लिष्टोपमा स्पष्टैव ।
तत्र परस्परव्यभिचारसत्त्वेन द्वयोरप्यलङ्कारत्वं द्रढयन्नुभयसत्त्वेषु विषयेषु श्लेषस्यैवौचित्यमित्याह—श्लेषस्यैतद् इत्यादि ।
प्रतिकूलतामुपगते हि विधौ इत्यादिषु एतद्विषयपरिहारेण श्लेषस्य श्लेषरहिततुल्ययोगितादीपकोपमानान्तु श्लेषपरिहारेण स्थितिर्बहुष्वेवोदाहरणेषु द्रष्टव्या ।
एषु श्लेषालङ्कारस्यैवौचित्ये हेतुमाह—प्राबल्येन चमत्कारित्वेति ।
अन्यथेति ।
एषु विषयेष्वपि तुल्ययोगितादित्रयस्यैवालङ्कारत्वमित्यर्थः ।
तद् व्यपदेशस्येति ।
श्लेषव्यपदेशस्येत्यर्थः ।
नच कथं तदभावप्रसङ्गः ।
प्रतिकूलतामित्यादिष्वेव तत्सत्त्वादिति वाच्यम् ? तत्रापि विधेः प्रतिकूलतोपगमनस्य बहुसाधनतावैफल्यहेतुत्वेन हेत्वलङ्कारसत्त्वात् ।
लोचना:
(लो, इ) सकलकलं कोलाहलध्वनिसहितम्, सकलाभैः कलाभिर्युक्तं च ।
एषां तुल्ययोगितादीनां त्रयाणामलङ्कारणां प्राबल्येन चमत्कारित्वं कविना व्द्यर्थशब्दस्य वैचित्र्यबोधोपायत्वेनोपादानात् ।
अत्रोच्यते–न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता “येनध्वस्त-” इत्यादिना विविक्तविषयत्वात् ।
न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् ।
अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् ।
लोचना:
(लो, ई) अत्र सिद्धान्तमाह—अत्रेति ।
वाच्यत्वे नियमाभावादिति ।
येन ध्वस्तेत्यादावुक्तप्रकारेण प्रकरणादिनियमाभावात्, माधवोमाधवार्थयोर्द्वयोर्वाच्यत्वनियमः ।
तुल्ययोगितायां च द्वयोर्वाच्यत्वनियमो नास्ति ।
शब्दयोस्तन्त्रताङ्गीकारेण द्वयोर्वाचय्त्वनियमः समनन्तरोक्तप्रकारेण ध्वनितन्त्रवादिमते चैकस्य वाच्यत्वमितरस्य व्यङ्ग्यत्वमिति भावः ।
एतदेव विशेषयति—अत्र हीति ।
अत्र येन ध्वस्तेत्यादौ ।
अत्र हीत्यनन्तरं तुल्ययोगिताङ्गीकारे इति शेषः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
किञ्च–तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसम्बन्धितया प्रतीतिः ।
इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसम्बन्धतया ।
टीका
विज्ञप्रिया:
(वि, क) इत्थं स्लेषसायलङ्कारान्तरविविक्तविषयासत्त्वादलङ्कारान्तरस्य च श्लेषविविक्तविषयस्यापि सत्त्वेन सामान्यत्वादपवादेन श्लेषेण दर्शितास्तुल्ययोगितादयो ऽलङ्कारा बाध्यन्त इति केषाञ्चिन्मते दर्शिते, तद्दूषयितुमाह—अत्रोच्यत इति ।
श्लेषस्यालङ्कारान्तरविविक्तविषयासत्त्वे एव तस्यापवादकत्वम्, तदेव तु न ।
तस्यापि तद्विविक्तविषयसत्त्वादित्याह—न तावत्परमार्थत इति ।
अलङ्कारान्तरविविक्तं विषयं दर्शयति—येन ध्वस्तमिति ।
अत्र येन ध्वस्तमित्यादौ इति समीचीनः पाठः ।
क्वचित्तु येन ध्वस्तेत्यादिना इति पाठः ।
तदाच इत्यादिना श्लोकेन हेतुना विविक्तविषयसत्त्वादित्यर्थः ।
अत्र माधवोमाधवयोः प्रकरणिकयोर्येनेत्याद्येकधर्मान्वयित्वात् तुल्ययोगितालङ्कारमाशङ्कते—नचेति ।
समाधत्ते—तस्यामिति ।
तुल्ययोगितायामित्यर्थः ।
नन्वत्रापि द्वयोः प्राकरणिकयोर्वाच्यत्वमित्याह—अत्र हीति ।
अत्र द्वयोरर्थयोश्च प्राकरणिकत्वे नियामकं नास्ति ।
तथा च वक्त्रा यद्येकमेवार्थं प्रक्रम्येदं पद्यमुक्तं स्यात्तदान्यार्थस्य व्यङ्ग्यत्वेन तुल्ययोगिताया अत्र प्रसक्त्यभावेनायमेव तुल्ययोगितालङ्कारविविक्तः श्लेषस्य विषयः स्यादित्यर्थः ।
नच तथापि व्यङ्ग्योपमालङ्कारसङ्कीर्ण एवायं श्लेष इति वाच्यम्, सम्भवदवाच्यताकस्यालङ्कारस्य व्यङ्ग्यत्वे अलङ्कारत्वाभावात् किन्तु तदलङ्कारध्वनित्वादेव केवलं तत्रालङ्कारव्यपदेशो ब्राह्मणश्रमणन्यायेन वाच्यतादशायामलङ्कारत्वमादाय गौण एव ।
समासोक्त्यप्रस्तुतप्रशंसयोस्तु वाच्यतासम्भवाद् व्यङ्ग्यत्वे ऽपि अलङ्कारता, ननु माधवोमाधवयोः द्वयारपि तुल्यविभक्तिविषयत्वेन प्राकराणकत्वमेवेत्यतो द्वयार्वाच्यत्वेनात्र तुल्ययोगितैवेत्यत आह—किञ्चेति ।
एकस्यैव धर्मस्येति ।
न तु एकशब्दावाच्यधर्मद्वयस्येत्यर्थः ।
इह त्विति ।
येन ध्वस्तेत्यादावित्यर्थः ।
अनेकेषाम् इत्यत्र बहुत्वमविवक्षितम् ।
उमाधवमाधवयोरित्यर्थः ।
पृथग्धर्मैः श्लिष्टैकशब्दस्य पृथगर्थौ अनोमनोभवादिरूपौ ।
सम्बन्धितयेत्यत्र प्रतीतिरित्यन्वयः ।
एवं च येन ध्वस्तेत्यादौ नीतानामित्यादौ च यत्तुल्ययोगिता—प्रदर्शनं प्राक्कृतन्तत्परकीयमपप्रदर्शनमात्रं कृतमिति बोध्यम् ।
वस्तुतस्तु तद्द्वये श्लेष एव तुल्ययोगितारहित इति साधितं बोध्यम् ।
लोचना:
(लो, उ) अनुपपत्त्यन्तरमाह—किञ्चेति ।
अयमाशयः—
“सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचकमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः” ॥
इत्यादौ तुल्ययोगितायामेकस्यैव निलयगमनोपक्रमरूपधर्मस्य सौरभीप्रभयोर्धर्मिणोः सम्बद्धतया प्रत्ययः ।
इह तु श्लेषेषु पुनरनेकेषां धर्मिणां माधवोमाधवप्रभृतीनां येन ध्वस्तमनोभवेनेत्यादिरूपपृथग्धर्मसम्बद्धतया प्रत्यय इत्यन्वयः ।
धर्मवाचकशब्दयोर्भिन्नरूपत्वात् ।
तुल्ययोगितायां तु निलयगमनोपक्रमस्य भिन्नार्थत्वे ऽपि एकताध्यवसादेकता ।
नही येन ध्वस्तेत्यादावपि माधवोमाधवगामिनोर्धर्मयोरेकताध्यवसायः ।
द्वयोरनिश्चयेन प्रकृताप्रकृतत्वाभावात् ।
यद्यपि तुल्ययोगितायामपि द्वयोर्न प्रकृताप्रकृतत्वं तथापि तद् विवक्षा, तत्रोपमानोपमेयत्वस्य प्राच्यानामप्यभिमतत्वात् ।
“सकलकलम्–” इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः ।
पूर्णोपमाया निर्विषयत्वापत्तेः “कमलमिव मुखं मनोज्ञमेतत्” इत्याद्यस्ति पूर्णोपमाया विषय इति चेत् ? न, यदि “सकल-” इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं “मनोज्ञम्” इत्यादावर्थश्लेषेण ।
“स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः” ॥
इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् ।
टीका
विज्ञप्रिया:
(वि, ख) तथा सकलकलमित्यादौ च यदुपमायां विद्यमानायामपि अपवादत्वेन श्लेषस्यैव प्राधान्येन व्यपदेशो भवितुं युक्त इत्युक्तं तत्रोपमैवालङ्कारो न श्लेष इति प्रतिपादयति—सकलकलमित्यादौ चेति ।
नोपमाप्रतिभोत्पत्तिरिति ।
उपमाप्रतिभा उपमाज्ञानम् ।
सैव उत्पत्तिहेतुर्ज्ञानोत्पत्तिहेतुर्यस्य; श्लेषस्तादृशो न, उपमाज्ञानज्ञाप्यो न श्लेष इत्यर्थः ।
उपमा श्लेषज्ञापिकैव ।
अत्र श्लेष एव त्वलङ्कार इति नेत्यर्थः ।
तथा च श्लिष्टधर्मसाधर्म्या उपमा एवालङ्कार इत्युक्तमनेन ।
तत्रोपमाम्बाधित्वा श्लेषस्यैवालङ्कारत्वे ऽनिष्टोत्पत्तिमाह—पूर्णोपमाया इति ।
उपमानोपमेय साधारणधर्मे वादिचतुर्णाम् उपादाने हि पूर्णोपमा ।
अत्राप्युपमेयं पुरम्, उपमानं वन्दरबिम्बम्, सकलकलरूपमुभयान्वितार्थकत्वेन साधर्म्यम्, इवशब्दो ऽस्तीति पूर्णोपमा ।
तद् बाधयात्र स्लेषस्यैवालङ्कारत्वे पूर्णोपमाया निर्विषत्वापत्तिरित्यर्थः ।
ननु श्लेषरहितगुणसाधर्म्योपमैव पूर्णोपमा ; तद्वान् विषय एव पूर्णोपमाया विषयः स्यादित्याशङ्कते—कमलमिवेति ।
अत्र हि न श्लेषो मनोज्ञत्वगुणकथनरूपक्रिययोरेव साधर्म्याद् न तु श्लिष्टशब्दस्य इति ।
तत्र प्रतिबन्धमाह—यदीति ।
श्लेषो द्विविधःशब्दश्लेषोर्ऽथश्लेषश्च ।
यदि सकलकलमित्यत्रोपमां बाधित्वा श्लेष एव शब्दालङ्कारस्तदा कमलमिव मुखमित्यादावप्युपमां बाधित्वा अर्थश्लेषालङ्कारे प्रसजति तेन किमपराद्धं मनोज्ञत्वादिधर्माणामुभयत्रान्वयरूपश्लिष्टत्वदिति भावः ।
इवशब्दसद्भावादुपमाया एव तत्रानुभविकत्वे तु सकलकलमित्यादावपि शब्दसाधर्म्योदनुभूयमानोपमैवेत्यभिप्रायेणात्र रुद्रटोक्तमपि प्रमाणयति—स्फुटमर्थेति ।
इहापि शब्दालङ्कारमध्ये ऽपि “तवाधेर च रागो ऽभूद् रम्भोरु ! हृदये च मे” इत्यत्र शब्दासाधर्म्यात् समुच्चयालङ्कारः ।
लोचना:
(लो, ऊ) न केवलं श्लेषस्यालङ्कारान्तरविविक्तविषयता ।
पूर्णापमादिविषये ऽस्यासम्भवो ऽपीत्याह—सकलेति ।
पूर्णोपमाप्रकरणे लक्ष्यमाणार्थश्लेषेण कमल मिवेत्यादौ मनोज्ञत्वधर्मस्य कमलमुखरूपप्रतिसम्बन्धिभेदाङ्गीकारप्रयोजितेन किमपराद्धम् ।
तुल्येनापराधेन शब्दश्लेषविषये पूर्णोपमामनङ्गीकृत्य एतद् विषये किं तस्याः परिग्रहो ऽभिमतो युष्माकम्, द्वयोः समानत्वादिति भावः ।
कथं द्वयोः समानन्यायत्वमित्याहस्फुटमिति ।
समुच्चयो यथा वसुधामहितेत्यादिः ।
सामान्यं साधारणो धर्मः ।
इह शब्दालङ्कारमध्ये गुणसाम्यम्, कमलमित्यादि, क्रियासाम्यं चन्द्र इव मुखं शोभते इत्यादि ।
ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् ।
शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् ।
ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु “सकल-” इत्यादौ शब्दसाम्यस्यैवेति चेत् ? न-“साधर्म्यमुपमा” इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् ।
टीका
विज्ञप्रिया:
(वि, ग) तत्र साधर्म्यस्यावास्तवत्वादिति ।
शब्दस्य पुरचन्द्रबिम्बधर्मत्वाभावादिति भावः ।
ततश्च सकलकलमित्यादावुपमाप्रसक्त्यभावात्तत्र श्लेषालङ्कार एवास्तु ।
पूर्णोपमाया निर्विषयत्वापत्तिपरिहाराय गुणक्रियासाधर्म्येर्ऽथश्लेषं बाधित्वा पूर्णोपमैवास्तामित्याह—ततश्चेति ।
न तु सकलकलमित्यादौ शब्दसाधर्म्यस्य इत्यत्र उपमाप्रयोजकत्वमित्यन्वयः ।
शब्दसाधर्म्याद् व्यावृत्तेरभावादिति–उपमालक्षणस्य शब्दसाम्यतो ऽव्यावृत्तत्वात् शब्दसाम्यविषयत्वादपीत्यर्थः ।
शब्दस्य साधर्म्यं च वाचकतासम्बन्धेन इति यद्वृत्तित्वादितिभावः ।
लोचना:
(लो, ऋ) तत्र गुणक्रियासाम्ये वास्तवत्वात् स्वाभाविकत्वात् अवास्तवत्वात् अतात्त्विकत्वात् ।
पूर्णोपमाविषयता युक्ता गत्यन्तराभावादिति भावः ।
अविशिष्टस्य गुणक्रियासाम्ये चेति विशिष्यानिर्द्दिष्टस्य ।
यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं “विद्वन्मानस–” इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः ।
टीका
विज्ञप्रिया:
(वि, घ) यदि हि वाचकतासम्बन्धस्य वृत्तिनियामकत्वाभावेन शब्दरूपसाधर्म्यस्य अवास्तवत्वान्नालङ्कारप्रयोजकत्वं तदा परम्परितरूपके एव शब्दवाच्यत्वेन साम्येन तदर्थयोरभेदारोपात्मकरूपं कथं रूपकालङ्कारप्रयोजकमित्याह—शब्दसाम्य इति ।
लोचना:
(लो, ॠ) दूषणान्तरमाह—यदि वेति ।
अयमर्थः-यदि शब्दसाम्यस्य सकलकलमित्यादौ नोपमाप्रयोजकता कथं तर्हि “विद्वन्मानसहंस” इत्यादौ राज्ञो हंसारोपस्य मानसासाधारणप्रयोजकता चेति ।
किञ्च-यदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि “सकलकलम्-” इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ?
टीका
विज्ञप्रिया:
(वि, ङ) ननु साधर्म्यं तावत् समानो धर्मस्तस्यावास्तवत्वे तदनुपपन्नम् ।
विद्वन्मानसेत्यादौ त्वभेदारोप आहार्य्ये ऽवास्तवत्वे ऽपि श्लिष्टशब्दरूपदोषेण सम्भवत्येव इत्यत आह—किञ्चेति ।
बाध्यभूतोपमेति ।
उपमात्वाभावे उपमाया बाध्यत्वस्याप्यनुपपत्तिः इत्यर्थः ।
लोचना:
(लो, ऌ) पुनर्दूषणान्तरमाह—किञ्चेति ।
बाध्यभूता श्लेषस्य सर्वालङ्कारापवादत्वप्रपन्नेत्यर्थः ।
कथमङ्गीक्रियते, उत्सर्गसिद्धस्यैवापवादबाध्यत्वादित्यर्थः ।
किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासम्भवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् “प्रधानेन हि ब्यपदेशा भवन्ति” इति न्यायात् ।
ननु शब्दालङ्कारविषये ऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत् ? न, अर्थानुसन्धानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् ।
एवं दीपकादावपि ज्ञेयम् ।
टीका
विज्ञप्रिया:
(वि, च) ननु तत्रैव शब्दबोध्यत्वरूपसादृश्यात्तत्रोपमापदं गौणमेवेत्यत आहकिञ्चेति ।
श्लेषस्यैव इति ।
श्लिष्टपदस्यैवेत्यर्थः ।
साम्यनिर्वाहकता–उपमाघटकसाम्यनिर्वाहकता ।
उभयात्मकत्वे ज्ञाते सत्येव तादृशैकशब्दार्थरूपसाम्यबोधादित्यर्थः ।
श्लेषबन्धः प्रथममिति ।
सकलकलपदबन्धाभावे पुरचन्द्रबिम्बयोः साम्याप्रतीतेः, अङ्गित्वेन पर्य्यन्तिकप्रतीतिविषयतया प्रधानत्वेन; तथा च श्लिष्टपदार्थानुसन्धानेन साम्यप्रतीतौ ततो ऽङ्गिन्युपमा प्रतीयते ।
श्लेषस्तु तन्निर्वाहकरूपमङ्गमिति भावः ।
अङ्गाङ्गिभावो निर्वाहकनिर्वाह्यभावः ।
एवं दीपकादवपीति ।
दीपकतुल्ययोगितार्ऽथालङ्कारादावपि श्लेषस्तदङ्गमित्यर्थः ।
लोचना:
(लो, ए) एवं चात्रेपमायाः श्लेषप्रतिभोत्पत्तिहेतुत्वेनाङ्गित्वम्, श्लेषस्य तदङ्गत्वमिति युक्त्यन्तरेणापि द्रढयति–किञ्चात्रेति ।
साम्यमुपमाप्रयोजकम् ।
अङ्गङ्गिभावसङ्करः ।
“अविश्रान्तजुषामात्मन्यङ्गाङ्गित्वे तु सङ्कर"इत्युक्तप्रकारः ।
अर्थाननुसन्धानात् शब्दालङ्कारेष्वनुप्रसादीनां परस्परनिरपेक्षत्वेनाङ्गङ्गिभावसङ्करः नाङ्गीक्रियते, श्लेषादेस्त्वर्थानुसाधानात् सापेक्षत्वेन परस्परापेक्षासम्भवात् कथं वा न स्वीक्रियते इति भावः ।
एकमुक्तप्रकार उपमाभिधायकन्यायो दीपकादावपि ज्ञेयः ।
अयमर्थः—यथा शब्दसाम्यस्योपमाप्रयोजकत्वे श्लेषस्य तदङ्गता, तथा दीपकादिप्रयोजकत्वे दीपकाद्यङ्गतेति ।
आदिशब्दात्तुल्ययोगितादौ ।
“सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे” ॥
टीका
विज्ञप्रिया:
(वि, छ) इत्थं सकलकलमित्यत्रोपमैव न श्लेष इति साधिते श्लेषाधीनवस्तुध्वनावपि न श्लेषालङ्कार इत्याह—सत्पक्षा इति ।
शरत्कालवर्णनमिदं प्राकरणिकम् ।
तत्र धार्त्तराष्ट्राः कृष्णवर्णचञ्चूचरणा हंसविशेषाः शरत्कालवशात् मेदिनीपृष्टे निपन्तीत्यन्वयः ।
पक्षं पतत्रम् ।
आशा प्रसाधनं दिक्षु गमनम्, चौरादिकस्य साधेर्गत्यर्थत्वात् ।
अत्र धृतराष्ट्रपुत्राणाममङ्गले वक्तुस्तात्पर्य्यम् ।
तेषां मरणरूपं वस्तु श्लिष्टशब्दव्यञ्जनया प्रीतयते ।
तत्र धार्त्तराष्ट्रा धृतराष्ट्रापुत्रा दुर्य्योधनादयः प्रसाधिताशाः शासितदिङ्मण्डलाः ।
अतएव मदोद्धतारम्भाः ।
सत्पक्षाः प्रकृष्टसहायाः कालवशाद् यमवशात् मधुरगिरः कान्तवाचः मेदिनीष्टे निपतन्ति इत्यर्थः ।
लोचना:
(लो, ऐ) सत्पक्षा इति ।
पक्षे गरुत् सहायश्च ।
प्रसाधिताः भूषिताः प्रकर्षेणात्मसात्कृताश्च ।
धार्त्तराष्ट्रा हंसाः दुर्योधनादयश्च ।
उपमाध्वनिशङ्कां निराचष्टे ।
अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः ।
इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातम् ।
टीका
विज्ञप्रिया:
(वि, ज) अत्र चोपमाध्वनित्वं श्लेषालङ्कारश्च न प्रसज्यत इत्याह—इह चेति ।
प्रकृतप्रबन्धो वेणीसंहारनाटकं तदभिधेयस्य तत्प्रतिपाद्यस्य कुरूणां मरणरूपस्य द्वितीयार्थस्य सूच्यतयैव व्यङ्ग्यतयेत्यर्थः, न तु हंसोपमानत्वेनेति एवकारार्थः ।
तदेव विवृणोति—उपमेय इति ।
निच श्लेष इति ।
उभयार्थस्य वाच्यत्वाभावाद् इति भावः ।
सर्वमवदातमिति ।
येन ध्वस्तमित्यादावलङ्कारन्तरासङ्कीर्ण एव श्लेषः ।
सकलकलमित्यादौ च श्लेषघटित उपमालङ्कार एवेत्यादिकं विशदितमित्यर्थः ।
लोचना:
(लो, ओ) प्रकृतप्रबन्धो वेणीसंहारख्यं नाटकम् ।
सूच्यतयैव विवक्षितत्वात् यदुक्तमत्रैव नाटकलक्षणावसरे “सूचयेद् वस्तुबीजं वा मुख्यपात्रमथापिवा"इति उपमेयोपमानभावो हंसादीनां दुर्योधनादिभैः सहेत्यर्थः ।
नच श्लेषः , शरद्वर्णनाया एव प्रकृतत्वात् ।
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
लोचना:
(लो, औ) सम्प्रति रसानुपकारकमपि कविभिस्तेषु तेषु शक्तिप्रदर्शनार्थमुपनिबद्धत्वात्प्राच्यैरलङ्कारमध्ये लक्षितं चित्रं निरूपयति—पद्मेति ।
अस्य चालङ्कारतायां तथाविधनैपुण्यादिसंस्कारवशेन विस्मयावेशो यथाकथञ्चिद् बीजम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः ।
अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वम् ।
टीका
विज्ञप्रिया:
(वि, झ) चित्रालङ्कारमाह—पद्मेति ।
अत्र वर्णस्मारकलिपीनां सन्निवेशस्यैव पद्माद्याकारकत्वाल्लिपीनां चाशब्दत्वात् शब्दालङ्कारत्वमस्यानुपपन्नमित्याशङ्क्य् समाधत्ते—तथाविधश्रोत्रेति ।
तथाविधलिपिस्मार्य्यवर्णस्य यः श्रोत्ररूप आकाशे समवायविशेषः तद्वशेन चमत्काराधायिभिर्वर्णैः सह लिपेः अभेदोपचारादित्यर्थः ।
तादृशसमवायस्य वर्णानुभवजनकत्वं तज्जनितसंस्कारेण लिपितो वर्णस्मरणं ततश्चमत्कार इत्येतत्परम्परया श्रोत्राकाशसमवायस्य चमत्कारजनकत्वं बोध्यम् ।
तत्तद्वर्णनिरूपितसमवायलाभार्थं विशेषपर्य्यन्तानुधावनम् ।
लोचना:
(लो, अ) तथाविधश्चक्षुरिन्द्रियैरनुभूयमानो यो लिपिनिवेशः ।
सन्निवेशविशेषोर्ऽथाद् भूम्यादिस्थले सम्यगभिमतनिर्वाहोपयिकतया निवेशविशेषः, तद्वशेन तन्निमित्तीकृत्येत्यर्थः ।
तथाविधश्रोत्रेन्द्रियेणानुभूयमानैर्वर्णौरर्थादनुप्रसादिशब्दालङ्कारप्रयोजकैः ।
अत्र हिशब्दान्वयव्यतिरेकानुविधायित्वमात्रेण शब्दलङ्कारत्वाङ्गीकारे ऽनुप्रसान्तः- पातित्वमेव स्यादिति भावः ।
तत्र पद्मबन्धो यथा मम–
“मारमा सुषमा चारु-रुचा मारवधूत्तमा ।
मात्तधूर्ततमावासा सा वामा मे ऽस्तु मा रमा” ॥
टीका
विज्ञप्रिया:
(वि, ञ) मारमेति ।
“मारमा सुषमा चारु–रुचा सारधूत्तमा ।
मात्तधूर्त्ततमा वासा सा वामा मे ऽस्तु मारमा” ॥
इति श्लोकः ।
अस्यार्थः—सा वामा मा आर नागता ।
कीदृशी चारुरुचा विशिष्टा अतएव मासुषमा, लक्ष्मीतुल्यपरमाशोभा ।
तथा मारस्य कामस्य वधू रतिरिवोत्तमा ।
तत्किं धूर्त्ततया नागता इत्यत्राह—मात्तधूर्त्ततमा इति ।
धूर्त्ततमा पुनर्मेत्यर्थः ।
तत्कथं नागतेत्यत्राह–अवासा—वासो वसतिः तद्रहिता ।
इत्थं श्रुत्वा नायक आत्मनमाशस्ते–सा वामेति ।
पूर्वत्रान्वितस्यापि आवृत्त्या पश्चादप्यन्वयेन सा वामा मे मारमा कामलक्ष्मीरस्तु ।
आवृत्तिवशेन सा वामा इत्यस्य पश्चादप्यन्वयेन तस्य वा परकीयपदत्वादपि तत्परत्वाद् मे इत्यादेशः ।
एषो ऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव ।
एवं खड्गबन्धादिकमप्यूह्यम् ।
टीका
विज्ञप्रिया:
(वि, ट) अस्य बन्धप्रकारं दर्शयितुमाह—एषो ऽष्टदलपद्मबन्ध इति ।
अष्टदलता च दिग्विदिग्दलैर्लेख्या ।
तत्र प्रवेशनिर्गमाभ्यामिति ।
कर्णिकायामाद्यवर्णं लिखित्वा दले द्वौ द्वौ वर्णौ लेख्यौ ।
तत्र निर्गमप्रवेशाभ्यामित्येव बोध्यम् ।
लोचना:
(लो, आ) मारमेति—माया लक्ष्म्या रमणात् मारमो विष्णुस्तस्य असुसमा प्रणसमा ।
भारवधू रतिः ।
ततो ऽपि उत्तमा श्रेष्ठा ।
आत्तो गृहीतो धूर्त्ततमस्यावासो यथा एवम्भूता न भवतीत्यर्थः ।
तथाभूता सा प्रसिद्धा रमा लक्ष्मीर्मे वामा, वकामास्त्विति सम्बन्धः ।
एषो ऽष्टदलैति ।
कर्णिकायाम् “मा” शब्दं विन्यस्य “रमा” इत्यस्याक्षरद्वयं तत्र दिग्दले लिशित्वा, “सुऽ; “षऽ; इति अक्षरद्वयं विदिग्दलेन प्रवेश्य “चारु” इत्यक्षराभ्यामितरदिग्रदलेन निर्गमप्रवेशौ ।
तदनन्तरं विदिग्दले “रवऽ; इति अक्षरद्वम्य दत्त्वा तदनन्तरदिग्दले “धूर्त्त” इत्यक्षरद्वयेन प्रविश्य पुनः कर्णिकाक्षरात् प्रभृति तेनैव निर्गम्य “तमा” इत्यक्षरद्वयेन, पुनः तदनन्तरविदिग्दले प्रविश्य, तदनुदिग्दले, “वा सा " इत्यक्षरद्वयेन निर्गमप्रवेशौ ।
तदितरदिग्दले “मे ऽस्तु” इत्यक्षरद्वयेन निर्गत्य पुनः प्राक् निर्गम्य दिग्दले “मार” इत्यक्षरद्वयेन प्रविश्य कर्णिकातां गते “मा” इत्यत्र विश्रान्तिः ।
श्लिष्टवर्णः अभिन्नवर्णः ।
कर्णिकाक्षरं “मा” इति ।
खङ्गबन्धो यथा—
“सानन्दं देवदैत्यद्विजभुजगमुखैः प्रणिभिः सेव्यमाना नाशं तापं नयन्ती शरदि शशिकलां श्यामयन्ती स्वभासा ।
सा सख्यः साधरारे सकलजगदधीशेन संयुक्तहारा सा ध्वस्ताशेषपाता सलिलनिधिसुता सन्तं पातु युष्मान्” ॥
काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते ।
लोचना:
(लो, इ) अन्तर्गडुभूततया काव्यमध्यप्रविष्टगडुवद् असारतया ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ॥ विस्स्द्_१०।१३ ॥
उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका ।
टीका
विज्ञप्रिया:
(वि, ठ) प्रहेलिकां वक्तुमाह—रसस्येति ।
नालङ्कारो न रसप्रकर्षको ऽलङ्कार इति, किन्तु उक्त्यङ्कार एवेत्याह—उक्तिवैचित्र्यमात्रमिति ।
तथा च वैचित्र्यमलङ्कार इति अलङ्कारसामान्यलक्षणाक्रान्तत्वाद् उक्त्यलङ्कार एव स इत्यर्थः ।
सा च्युतदत्तेत्यादित्रिप्रकारा क्रिया गुप्त्यादिका च भवतीत्याह—व्युतदत्तेति ।
च्युताक्षरायुक्तैकाक्षरा ।
दत्ताक्षरा उक्ताधिकैकाक्षरा ।
च्युतदत्ताक्षरा एकाक्षरं च्यावयित्वा तत्स्थले दत्तापराक्षरा ।
च्यताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च ।
उदाहरणम्–
“कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम् ।
किं करोतु कुरङ्गक्षी वदनेन निपीडिता” ॥
टीका
विज्ञप्रिया:
(वि, ड) एतत्त्रयस्य एकमुदाहरणमाह—कूजन्तीति ।
अत्र यथाश्रुतेर्ऽथसम्भवेपि अनुपयुक्तकथनरूपत्वेन च्युतदत्ताक्षरत्वे एव तात्पर्य्यात् ।
प्रहेलिकात्वं तत्र यथाश्रुते ऽपर्थो यथा—कोकिलाः शालवृक्षे कूजन्ति ।
नारीणां यौवने ऽम्बुजं फुल्लम् ।
निपीडिता कुरङ्गाक्षी वदनेन किं करोतु इति ।
अनुपयुक्तकथनमेतत् ।
च्युतदत्ताक्षरत्वे तुभवत्येव उपयुक्तकथनम्—यथा–“कूजन्ति रसाले कोकिलाः ।
वने जले चाम्बुजं फुल्लम् ।
एभिरुद्दीपकैर्मदनेन निपीडिता सती कुरङ्गाक्षी किं करोत्विति ।
अत्र “रसाले” इति वक्तव्ये “साले” इति “र” च्युतः ।
“वने” इत्यत्र “यौवने” इति “यौ” दत्तः ।
“वदनेन” इत्यत्र “मदनेन” इति “म” च्युतः “व” दत्तः ।
आदिशब्दात्क्रियाकारकगुप्त्यादयः ।
तत्र क्रियागुप्तिर्यथा–
“पाण्डवानां सभामध्ये दुर्योधन उपागतः ।
तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च” ॥
अत्र “दुर्योधनः” इत्यत्र “अदुर्यो ऽधनः” इति ।
“अदुः” इति क्रियागुप्तिः ।
एवमन्यत्रापि ।
टीका
विज्ञप्रिया:
(वि, ढ) अत्र च्युतदत्ताक्षराणि दर्शयति—अत्रेति ।
पाण्डवानामित्यादि स्पष्टम् ।
कारकगुप्त्यादौ यथा मम— “षड्जसम्वादमापन्नैः स्वरैः श्रुतिमनोहरैः ।
गिरिशृङ्गस्थितं सर्वं मयूरं जयति ध्रुवम्” ॥
इति अत्र मयूरं जयति इत्यत्र लुप्तः कर्त्ता ।
सिद्धान्ते तु मयुस्तुरङ्गवदनो गिरिशङ्गस्थितं सर्वं जनं रञ्जयतीत्यर्थः ।
कर्मगुप्तिर्यथा— “कर्माभिर्बहुभिः आन्तः पुरुषो वारयत्वाययम् ।
अपयातपरिश्रान्तेरस्य दास्यामि वेतनम् ॥
“अत्र पुरुषो ऽयं वारयतीति ।
अस्य कर्म गुप्तम् ।
सिद्धान्ते तु वाः जलं पुरुषो ऽयमयति याति ।
अक्षरलोपगुप्तिः विरुद्धप्रदर्शनं च यथा— “मुकुन्देनामुना नूनं शुभ्रेण वरवर्णिनि ।
हसितेनासितेनापि राजमाना व्रजाङ्गने ॥
" अत्र मुकुन्देन श्भ्रेण हसितेनासितेन इति विरुद्धधर्मवत्त्वम् ।
अत्रैव कस्यचिदक्षरस्य लोपो गुप्तः ।
सिद्धान्ते तु मुकुन्दपदस्य मुकारराहित्यात् कुन्देन इत्यर्थः ।
तथा च तेन कुन्दवैशिष्ट्येन यद् हसितं तेन राजमानासीत्यर्थः ।
अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात् प्रथममुपमामाह–
टीका
विज्ञप्रिया:
(वि, ण) अर्थालङ्कारान् वक्तुमाह—अथेति ।
प्राधान्यात् सादृश्यमूलेष्विति ।
उपमारूपकोत्प्रेक्षादयो बहवो ऽलङ्काराः सादृश्यमूला अन्यालङ्कारान्तरापेक्षया चमत्काराधिक्यात् प्रथमं ते लक्षितुमुचिताः ।
तत्रापि तत्सर्वोपजीव्यत्वेन प्रथममुपमामाहेत्यर्थः ।
तस्यास्तदुपजीव्यत्वं च सर्वत्रैव सादृश्यवशात् प्रथममुपमास्फुरणात् ।
लोचना:
(लो, ई) अथेति ।
अथ शब्दालङ्कारनिरूपणानन्तरमर्थालङ्कारेष्वर्थालङ्कारविशेषलक्षणेषु ।
प्राधान्यादित्यनन्तरं प्रथममिति शेषः ।
उपजीव्यत्वं तेषामेतन्मूलत्वेन प्रवृत्तेः ।
यदुक्तम्–उपमैव प्रकारवैचित्र्येण सर्वालङ्काराणां बीजभूतेति ।
साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ॥ विस्स्द्_१०।१४ ॥
टीका
विज्ञप्रिया:
(वि, त) साम्यमिति ।
अवैधर्म्यमनुक्तवैधर्म्यम् ।
द्वयोरुपमेयोपमानयोः साम्यं वाक्यैक्ये वाच्यं सद् उपमा इत्यर्थः ।
रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः ।
टीका
विज्ञप्रिया:
(वि, थ) तत्र वाच्यपदव्यावृत्तिमाह—रूपकादिष्विति ।
एवं च उपमाध्वनावुपमापदं गौणमिति बोध्यम् ।
अवैधर्म्यपदव्यावृत्तिमाह—व्यतिरेके चेति ।
वाक्यैक्यपदवृत्तिमाह—उपमेति ।
द्वयोरित्यस्य व्यावृत्तिमाह—अनन्वये चेति ।
अनन्वयनामालङ्कार इत्यर्थः ।
अत्रोपमेयस्यैव उपमानत्वेन द्विर्भावात् ।
अत्र च साम्यमित्यस्य समानो धर्म इति नार्ऽथः ।
वक्ष्यमाणधर्मलुप्तोपमायां धर्मस्यावाच्यत्वेनाव्याप्त्यापत्तेः ।
मुखमाह्लादकश्चन्द्र इति रूपकधर्मस्य वाच्यत्वेन तत्रातिव्याप्त्यापत्तेः ।
किन्तूपमेयोपमानयोः सामान्यसादृश्यरूपस्य धर्मस्य तयोरनुयोगितप्रतियोगिताख्यः सम्बन्ध एव अत्र साम्यपदार्थः ।
यन्द्र इव मुखमित्यत्र चन्द्रप्रतियोगिसादृश्यवन्मुखमिति बोधे सादृश्यस्य प्रतियोगितायाश्चन्द्रे ऽनुपयोगितायाश्च मुखे प्रतीतेः सादृश्यसम्बन्ध एवोपमेत्यर्थः ।
एतएव साधर्म्यमुपमाभेदे इतिकाव्यप्रकाशोक्तलक्षणे समानेन धर्मेण सम्बन्ध उपमा इत्येव तत्र व्याख्यातम् ।
परन्त्विवादयः षष्ठीवत् सम्बन्धं प्रतिपादयन्ति, इति तत्र लिखनात् सादृश्यप्रतियोगिताख्यः सम्बन्ध एव तन्मते उपमानानुयोगिताख्यः ।
ग्रन्थकृन्मते तु उपमानोपमेयगतं सन्बन्धं बोधयन्तीत्यग्रे लिखनात् प्रतियोगितानुयोगिताख्यसम्बन्धद्वयमेवोपमा ।
काव्यप्रकाशे च तादृशप्रतियोगिताया इवाद्यव्ययपदवाच्यत्वेन उपमायाश्च श्रौतीत्वं तुल्याद्यनव्ययपदवाच्यत्वेन तस्या आर्थोत्वम् ।
अव्ययानामन्विताभिधायित्वमतेन चन्द्रान्वितप्रतियोगिताया इवादिवाच्यत्वात्तुल्याद्यनव्ययपदानां त्वावाच्यत्वात् ।
प्रकृतग्रन्थकृत्तुः इवादयः श्रुतमात्रा एव शीघ्रमुपमां प्रतिपादयन्तीति तत्सद्भावे श्रोती उपमा ।
तुल्यादयो ऽनव्ययशब्दास्तु प्रणिधानेन विलम्बादेव उपमां प्रतिपादयन्तीति तत्सद्भावे आर्थोति वक्ष्यति ।
अतएव तन्मते ऽन्विताभिधानं नास्ति ।
ननु तत्कथं तादृशसम्बन्धरूपस्य साम्यस्य वाच्यत्वम् ? यदि चान्विताभिधानवादावलम्बेन वाच्यत्वस्वीकारस्तथापि इवादेरुपमानस्य वानुपादाने या लुप्तोपमा तत्र तादृशसम्बन्धस्यावाच्यत्वात्तत्राव्याप्तिः ।
अतएव काव्यप्रकाशे तादृशसम्बन्धरूपाया उपमाया वाच्यत्वघटितं लक्षणं न कृतम् ।
उच्यते ।
अत्रापि वाच्यत्वघटितं लक्षणं कृतम् ।
किन्तु वाच्यमित्यस्याव्यङ्ग्यमित्येवार्थः ।
अतएव रूपकादौ साधर्म्यस्य व्यङ्ग्यत्वादेव तत्र वाच्यपदेन तद्व्यावृत्तिर्दर्शिता ।
इवादेरुपमानस्यानुपादाने त्वध्याहृतादिवादेरुपमानवाचकपदाच्च तल्लाभो, न व्यञ्जनयेति तत्त्वम् ।
इवाद्युपादाने तु अन्विताभिधानाभ्युपगमे वाच्यत्वमेव तादृशसम्बन्धस्य ।
तदनभ्युपगमे तु इवाद्युपादाने तुल्याद्युपादाने वा संसर्गमर्य्यादयैव तल्लाभ इति ।
सर्वत्राव्यङ्ग्यत्वमेव ।
लोचना:
(लो, उ) रूपकमित्यादिशब्दाद् दीपकतुल्ययोगितादयः ।
वैधर्म्यस्य अकलङ्कङ्खं तस्याश्चन्द्रवदित्यादावकलङ्कत्वादेः ।
एकाकारकपदावृत्तिरनन्वये चेति ।
सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च ।
उपमेयं चोपमानं भवेद्वाच्यम्–
सा उपमा ।
साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि ।
औपम्यवाचकमिवादि ।
उपमेयं मुखादि ।
उपमानं चन्द्रादि ।
टीका
विज्ञप्रिया:
(वि, द) सा च पूर्णा लुप्ता चेति द्विधा ।
तत्र पूर्णामाह—सा पूर्णेति ।
भवेद्वाच्यमिति ।
कारिकाञ्चलस्य “इयं पुनः” अग्रे शेषभागः ।
व्याचष्टे—साउपमेति ।
सामान्यधर्मपदार्थमाह—साधारणधर्म इति ।
स एव क इत्यत्राह—द्वयोरिति ।
श्लिष्टशब्दो ऽपि गुण इत्यभिप्रायः ।
तेन सकलकलं पुरमित्यादेः परिग्रहः ।
लोचना:
(लो, ऊ) तद्भेदानाह—सेति ।
सामान्यधर्म इत्यस्य विवृत्तिः साधारणधर्म इति द्वयोरुपमानोपमेययोः ।
इयं पुनः ॥ विस्स्द्_१०।१५ ॥
श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।
लोचना:
(लो, ऋ) इयं पूर्णा ।
श्रौतीशब्दः श्रुत्या ज्ञायत इति व्युत्पत्त्या ।
तेन साक्षान्निवेदिता श्रौती ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ॥ विस्स्द्_१०।१६ ॥
यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा ।
एवं “तत्र तस्येव” इत्यनेनेवार्थो विहितस्य वतेरुपादाने ।
टीका
विज्ञप्रिया:
(वि, ध) अस्याः श्रौत्यार्थोत्वद्वैविध्यमाह—-इयं पुनरिति ।
इयं पूर्णोपमा सर्वप्रकारैव श्रौत्री आर्थो चेत्यर्थः ।
वक्ष्यमाणा लुप्ता तु किञ्चित्प्रकारैव ।
यथाववाशब्दा इत्यत्रादिपदशब्दो ऽपि बोध्यः ।
तेन “शात्रवं च पपुर्यशः” इत्यादावपि तथात्वम् ।
श्रुतिमात्रेण श्रवणमात्रेण शीघ्रमित्यर्थः ।
उपमानोपमेयगतं सम्बन्धं प्रतियोगितानुपयोगितारूपमित्यर्थः ।
सादृश्यलक्षणमिति ।
सादृश्याल्लक्षणं ज्ञानं यस्य तादृशमित्यर्थः ।
प्रतियोगितानुयोगिताख्यस्य सम्बन्धस्य सादृश्यनिरूप्यत्वेन तज्ज्ञानज्ञेयत्वात् ।
नतु सादृश्यरूप एव सम्बन्ध उपमा, तस्य तुल्यादिपदानामपि वाच्यत्वात् शीघ्रप्रतीयमानत्वेन इवादितो ऽविशेषेण श्रौत्यार्थोविभागानुपपत्तेः ।
षष्ठ्यन्तसप्तम्यन्ततो विहितस्य वतेरपीवार्थे पाणिनिना विहितत्वात्, तस्यापि इवतुल्यव्युत्पत्तिकत्वेन तदुपादाने ऽपि श्रौतीत्याह—एवं तत्रेति ।
तत्र तस्येवेति वतिविधायकं पाणिनिसूत्रम् । तत्रैव तस्येव इत्यर्थकं षष्ठ्यन्तात् सप्तम्यन्ताद् वा इवार्थे वतिरित्यर्थः ।
लोचना:
(लो, ॠ) उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपीति ।
ननु मुखं चन्द्रतुल्यमित्याद्याकारेण उपमानानन्तरे यानि प्रयुक्तानि तुल्यसदृशानि पदानि तत्साधारणास्तत्प्रायाः यद्यपीत्यर्थः ।
श्रुतिमात्रेणेत्यादि ।
अयमाशयः—मुखं कमलमिव इत्यादेः शब्दस्य प्रयोगादेव मुखमुपमेयं कमलं चोपमानमिति प्रतीतिः ।
न त्वेवं तुल्यादिपदोपादान इति समनन्तरमेव वक्ष्यति–एवमिति ।
अनेन व्याकारणेन ।
यत इवशब्दस्योपादाने श्रौती, अतस्तदर्थविहितस्य वतेरुपादाने ऽपि सैव युक्तेति भावः ।
तुल्यादयस्तु-“कमलेन तुल्यं मुखम्” इत्यादावुपमेय एव ।
“कमलं मुखस्य तुल्यम्” इत्यादावुपमान एव ।
“कमलं मुखं च तुल्यम्” इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो ।
एवं “तेन तुल्यम्–“इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने
टीका
विज्ञप्रिया:
(वि, न) तुल्याद्यनव्ययोपादाने तु आर्थोत्वं वक्तुमाह—तुल्यादयस्त्विति ।
तुल्यादयः शब्द विश्राम्यन्तीत्यग्रे ऽन्वयः ।
विश्राम्यन्ति विशेष्यतां प्रतिपादयन्ति ।
यत्र हि विशेष्यताप्रतीतिस्तदुपमेयं तदितरदुपमानम्, तुल्यादिपदोपादाने तु तत्प्रतिपादनस्यानियतत्वाद् उपमेयोपमानयोः प्रतिसन्धानगम्यत्वाद् उपमेयोपमाननिष्ठप्रतियोग्यनुयोगिरूपाया उपमाया अपि प्रतिसन्धानगम्यत्वात् तत्सद्भावे आर्थोत्यर्थः ।
तत्र तुल्यादिपदोपादाने विशेषताप्रतीतेरनियतत्वं दर्शयति—कमलेनेति ।
कमलं मुखस्येति—नचात्र मुखमुपमानं कमलमुपमेयमेवैति कथमुपमाने विश्रान्तिरिति वाच्यम्, कमलस्योपमानत्वे तात्पर्य्याद् अप्येवं प्रयोगे तथात्वात् ।
तुल्यार्थे ऽपि वतिविधायकं “तेन तुल्यम्” इति पाणिनेरपरं सूत्रम् ।
तादृशवत्युपादने ऽपि भवति आर्थोत्याह—एवं तेनेति ।
लोचना:
(लो, ऌ) उपमेये इत्यादिभिः सप्तम्यन्तैः विश्राम्यन्तीति क्रियायाः सम्बन्धः ।
उपमेय एव विश्राम्यन्ति तद्विशेषणत्वेनोपादानात् ।
एवमुत्तरत्रापि ।
साम्यं मुखस्य उपमेयत्वम् ।
कमलस्य उपमानत्वम् ।
एवमिति—इवार्थविहितवतिविषयोर्तन्यायेन इत्यर्थः ।
द्वे तद्धिते समासे ऽथ वाक्ये–
द्वेश्रौती आर्थो च ।
उदाहरणम्–
“सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।
हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले !” ॥
अत्र क्रमेण त्रिविधा श्रौती ।
टीका
विज्ञप्रिया:
(वि, प) तत्र पूर्णायाः षड्विधत्वं दर्शयति–द्वे इति ।
वाक्ये इत्यन्तं कारिका पूर्णा ।
षडेव तद् इति तच्छेषः ।
तत्र तद्धितादिषु त्रिषु श्रौतीमाह—सौरभमिति ।
मुखस्य सौरभमित्यन्वयः ।
अत्राम्भोरुहस्येव इति षष्ठ्यन्ताद् वतिः ।
कुम्भाविवेत्यत्र इवशब्दयोगे नित्यसमासात्समासगा ।
शरदिन्दुर्यथा वदनमित्यत्र वाक्यगा ।
इवादेस्तदर्थकवतेश्च सत्त्वात् श्रौतीति ।
त्रिविधेति–तद्धितसमासवाक्यगामित्वरूपत्रैविध्यवतीत्यर्थः ।
लोचना:
(लो, ए) सौरभमिवेत्यादौ सौरभं साधारणधर्मः ।
कुम्भाविवेत्यत्र “इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च” इति नित्यसमासः ।
एतत्प्रोक्तस्य पूर्वपदप्रकृतिस्वरत्वस्य वेद एव उपयोगः ।
“मधुरः सुधावदधरः पल्लवतुल्यो ऽतिलेपवः पाणिः ।
चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः” ॥
टीका
विज्ञप्रिया:
(वि, फ) एतत् त्रिविधामार्थोमाह—मधुर इति ।
अत्र सुधया तुल्य इत्यर्थे तृल्यार्थे वतिः ।
पल्लवतुल्य इत्यत्र समासः ।
चकितमृगलोचनाभ्यामित्यत्र वाक्यम् ।
अत्र क्रमेण त्रिविधा आर्थो ।
—पूर्णा षदेव तत् ।
स्पष्टम् ।
लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ॥ विस्स्द्_१०।१७ ॥
त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् ।
टीका
विज्ञप्रिया:
(वि, ब) लुप्तामाह—लुप्तेति ।
सामान्यधर्मः साधारणधर्मः ।
आदिपदादुपमाप्रतिपादकेवतुल्यादिशब्दा उपमानमुपमेयं च ।
तेषामेकस्य द्वयोस्त्रयाणां वेत्यर्थः ।
सापि यथासम्भवं श्रौती आर्थो च भवतीत्यर्थः ।
पूर्ववदिति–तद्धितादित्रयगामिनीत्यर्थः ।
लोचना:
(लो, ऐ) सामान्यधर्मादेरित्यादिशब्देन उपमानोपमेयोपमाप्रतिपादकानां सड्ग्रहः ।
सा लुप्ता ।
तद्भेदमाह–
पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ॥ विस्स्द्_१०।१८ ॥
सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात् पञ्चप्रकारा ।
टीका
विज्ञप्रिया:
(वि, भ) पूर्णावदिति—लोपे ऽनुपादाने ।
पूर्णावदिति व्याचष्टे—पूर्वोक्तेति ।
तद्धितादित्रयगामित्वं पूर्वोक्तरीतिः ।
षडिति—षट् प्रसक्ता इत्यर्थः ।
वस्तुतस्तु पञ्चेत्याह—किन्त्विति ।
श्रौत्या असम्भवादिति ।
दर्मलोपे धर्मनिष्टसम्बन्धबोधिका षष्ठी नास्ति ।
ततस्तदन्तादिवार्थके वतिरपि नास्ति इत्यतो ऽसम्भवः ।
लोचना:
(लो, ओ) लुप्तोपमायां तद्धिते श्रौत्या असम्भवः ।
मुखस्य चन्द्रवत् शोभेत्यत्रशोभारूपसाधारणधर्मानुपादानेनार्थस्य साकाड्क्षत्वेनासङ्गतेः ।
उदाहरणम्–
“मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ! ।
वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनो ऽश्मवत्” ॥
टीका
विज्ञप्रिया:
(वि, म) मुखमिन्दुरिति ।
तत्राह्लादकत्वं धर्मो लुप्तः ।
यथाशब्देन सह समासाभावाद् वाक्यगा आर्थो ।
वाचः सुधा इवेत्यत्र मधुरत्वं धर्मो लुप्तः ।
इवशब्देन सह नित्यसमासात् श्रौती ।
ओष्ठस्ते इत्यत्र शोणत्वं ध्रमो लुप्तः ।
तुल्यशब्देन समासात् समासगा आर्थो ।
मनो ऽश्मवत् ।
इत्यत्राश्मना तुल्यमित्यर्थे तुल्यार्थे लद्धिते वतिरित्यार्थो ।
लोचना:
(लो, औ) मुखमिन्दुर्यथेत्यादौ पूर्वोक्तकमव्यत्ययः पद्यनिर्वाहार्थः ।
आधरकर्मविहिते द्विविधे च क्यचि क्यङि ।
कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ॥ विस्स्द्_१०।१९ ॥
टीका
विज्ञप्रिया:
(वि, य) धर्मलुप्तमित्थं वञ्चविधामुक्त्वा तामेवान्यपञ्चविधामाह—आधारकर्मविहित इति ।
द्विवेधे इत्यस्य क्यचि इत्यत्रैवान्वयो न तु क्यङईत्यत्रापि ।
कर्मकर्त्रोरिति–कर्मर्त्रोरुपपदयोरित्यर्थः ।
लोचना:
(लो, अ) क्यङीति ।
अर्थात् कर्त्तृविहिते ।
“धर्मलोपे लुप्ता” इत्यनुषज्यते ।
क्यच् क्यङ्-णमुलः कलापमते इन्-आयि णमः ।
क्रमेणोदाहरणम्–
अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश !” ॥
टीका
विज्ञप्रिया:
(वि, र) अन्तः पुरीयसीति ।
रणेषु निर्भयत्वेन अन्तः पुरेष्विवाचरसीत्यर्थः ।
अत्र निर्भयसञ्चारस्थानत्वं धर्मो लुप्तः ।
पौरमिति ।
पौरं जनं सुतमिवाचरसीत्यर्थः ।
अत्र स्त्रेहविषयत्वं धर्मो लुप्तः अनयोराधारकर्मणोः क्यच् ।
सदा रमणीयते इत्यत्र रमणीवाचरतीत्यर्थे क्यङ् ।
अत्र अदीनत्वं धर्मो लुप्तः ।
दृष्ट इति ।
अमृतद्युतिकर्मकदर्शनेन त्वं प्रियाभिर्दृष्टः ।
अत्र मनोहरत्वं धर्मो लुप्तः ।
तथा चात्र भुवि इन्द्रकर्त्तृकसञ्चारेणैव सञ्चरसीत्यर्थः ।
अत्राऽधिपत्यं धर्मो लुप्तः ।
उभयत्रकर्मकर्त्त्रेरुपपदयोर्णमुल् ।
लोचना:
(लो, आ)अमृतद्युतिदर्शं दृष्टः–अमृतद्युतिरिव दृष्ट ।
इन्द्रसञ्चारं सञ्चरसि ।
इन्द्रवत् सञ्चरसीत्यर्थः ।
अत्र “अन्तः पुरीयसि” इत्यत्र सुखविहारास्पदत्वस्य, “सुतीयसि” इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः ।
एवमन्यत्र ।
इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति ।
लोचना:
(लो, इ) अन्यत्रेति ।
यथा रमणीयते इत्यत्र अधीनत्वस्य ।
अमृतद्युतिदर्शम् इत्यत्र मनोहरत्वस्य ।
इन्द्रसाञ्चारमित्यत्र परिच्छदाद्यतिशयस्य ।
नास्तीत्यनन्तरं प्राचीनानुसारादिति शेषः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति,
टीका
विज्ञप्रिया:
(वि, ल) अत्र क्यङदित्रये तदर्थाचारस्य णमुल्द्वये च धात्वर्थदर्शनसञ्जारयोश्च साधारणधर्माणां सत्त्वाद् धर्मलुप्तोदाहरणानि एतानि न सम्भवन्तीत्यतः काव्यप्रकाशकृता उपमाप्रतिपादके वादिलोपोदाहरणतयैव क्यङदिलोपे उदाहृतम् ।
ग्रन्थकृता तु आचारादीनां साधारणधर्मत्वमनवधायैवोदाहृत्य औपम्यप्रतिपादकलोपोदाहरणतया यत्काव्यप्रकाशकृतैतत् पञ्चकमुदाहृतं तद्दूषयितुमुत्कीर्थयति—इदं च केचिदिति ।
तदयुक्तम्–क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् ।
ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वाद् इवादिप्रयोगाभावाच्चेति न वाच्यम्,
टीका
विज्ञप्रिया:
(वि, व) दूषयति—तदयुक्तमिति ।
तदर्थविहितत्वेनेति—तादृशाचारविहितत्वेनेत्यर्थः ।
सुतमिवाचरतीति प्रतीतिवशात् तथार्थे एव विधानादित्यर्थः ।
ननु तादृशार्थे विधानसत्त्वे ऽपि इवादिवन्न तेभ्यः स्वत औपम्यप्रतीतिः; प्रत्ययानां प्रकृत्यर्थान्वयेनैव बोधकत्वात् ।
अतः क्यजादयः स्वत औपम्यप्रतिपादकत्वाभावान्न स्वत औपम्यप्रतिपादकाः ।
तथा च तत्सत्त्वे ऽपि विवक्षितः स्वत औपम्यप्रतिपादकलोपो नास्तीत्याशङ्कते—नन्विति ।
ननु तैरौपम्यं स्वतः प्रत्याय्यते एव; किन्तु तादृशार्थस्य प्रकृत्यर्थान्वितत्वमात्रं नियतम्, तेषां तादृशार्थकत्वे तु तद्विवरकेवशब्दप्रयोग एव नासिति ।
कथमसौ तदर्थविवरक इति भावः ।
तथा च क्यजादय इवादिवन्न स्वत औपम्यप्रतिपादकाः इत्यापातत एवेयं विचारसहाप्याशङ्का ।
तत्रं स्वतस्तु अविवक्षैव न सम्भवतीति समाधत्ते—नेति ।
लोचना:
(लो, ई) तदर्थो वत्यर्थः ।
अस्वतन्त्रत्वात् प्रकृतियोगं विना केवलानामर्थबोधनसामर्थ्याभावात् ।
कल्पबादावपि तथाप्रसङ्गात् ।
न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्; इवादीनामपि वाचकत्वे निश्चयाभावात् ।
टीका
विज्ञप्रिया:
(वि, श) कल्पबादाविति ।
तेषामपि प्रत्ययत्वादित्यर्थः ।
इदमुपलक्षणम् ।
इवादेरपि स्वतः प्रयोगाभावात् ।
तत्सत्त्वे ऽपि औपम्यप्रतिपादकलोपापत्तेरिति बोध्यम् ।
आपातत आशङ्कते—नच कल्पबादीनामिति—आचारमत्र वाचकत्वम्; इवाद्यर्थस्य तु व्यञ्जकत्वमेवेत्यर्थः ।
प्रतिबन्धमाह—इवादीनामपीति ।
विनिगमकाभावे ऽपि स्वतन्त्रमुख्यतया यदि कस्यचित्प्रत्ययस्य वाचकत्वं कस्यचित्प्रत्ययस्य व्यञ्जकत्वमुच्यते तदा इवादयो ऽपि न वाचकाः स्युरुक्तिमात्रेणैव प्रमाणखण्डने तत्रापि प्रमाणाभावादित्यर्थः ।
वाचकत्वे वा “समुदितं पदं वाचकम्” “प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ” इति च मतद्वये ऽपि वत्यादिक्यङाद्योः साम्यमेवेति ।
टीका
विज्ञप्रिया:
(वि, ष) नन्वत्र नायं प्रतिबन्धकः ।
इवादीनामौपम्यवाचकत्वे ऽनुशासनमेव प्रमाणमित्यतो यदि त्वयेवादेः स्वतो ऽस्वतो वा वाचकत्वमिष्यते तदा ममापि क्यजादीनामपि मतभदेन स्वतो ऽस्वतो वा वाचकत्वं समानमेवेत्याह—वाचकत्वे वेत्यादि ।
तव यथा वाचकत्वं ममापि तथा वाचकत्वमिति साम्यमित्यर्थः ।
मतभेदेन तद्द्विधेति दर्शयति—समुदितमिति ।
स्वप्रकृतिप्रत्ययसमुदितमित्यर्थः ।
मतान्तरमाह—प्रकृतीति ।
स्वस्वार्थबोधकौ–स्वतः स्वस्वार्थबोधकवित्यर्थः ।
वत्यादिक्यङाद्येरिति ।
कल्पबित्यादयो यथेवादितुल्यतया त्वन्मते साम्यवाचकाः; क्यजादयो ऽपि तथेति द्वयोः साम्यमित्यर्थः ।
एवं क्यजादीनामिवाद्यर्थकत्वेन नेदमौपम्यप्रतिपादकलोपोदाहरणमित्युक्तम् ।
लोचना:
(लो, उ) धूषणान्तरमाह कल्पबादावपीति—अयमर्थः—यदि क्वचित् क्यङादीनां सद्भावे ऽपि तेषां प्रत्ययत्वेनास्वतन्त्रतयार्थबोधनासामर्थ्याद् औपम्यवाचकत्वाभावः तदा कल्पबादीनां सद्भावे अपि तथा स्यात् ।
नच तथा कल्पबादीनां सद्भावे ऽपि औपम्यवाचकत्वम् ।
कल्पे ऽप्यभावस्य सर्ववादिनिषिद्धत्वाद् निश्चयाभावात्; तथाहि–कैश्चिदिवादीनामपि वाचकत्वमङ्गीक्रियते ।
तन्मतानुसारेणास्माभिः कल्पबादीनामिवार्थविहितत्वेन वाचकत्वम् ।
क्यङादीनां तु द्योतकत्वमङ्गीक्रियते इत्यत आह— वाचकत्वे वा इति ।
समुदितं प्रकृतिप्रत्ययाभ्यां मिलितम्, तत् स्वरूपं पदम् ।
मतेत्यतः पूर्वं वैयाकरणेति शेषः ।
वत्यादिक्यङाद्योः साम्यमेवेति ।
अयमाशयः- यदि वत्यादीनां वाचकत्वाङ्गीकारः तदा क्यङादीनामपि वाचकत्वम् ।
यदा तेषामपि न चाचकत्वं तदेषामपीति ।
सर्वैरपि वतिकल्पबादिसद्भावे औपम्यवाचकसद्भावङ्गीकारात् प्रत्ययत्वेन तत्सदृशैः क्यङादिभिः किमपराद्धं यदेषां सद्भावे औपम्यवाचकलोपः स्यादिति ।
यच्च केचिदाहुः–“वत्यादय इवाद्यर्थे ऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे” इति, तदपि न ; न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति ।
तदेवं धर्मलोपे दशप्रकारा लुप्ता ।
टीका
विज्ञप्रिया:
(वि, स) काव्यप्रकाशकृता तु तेषामाचारमात्रे ऽनुशासनादिवाद्यर्थे ऽनुशासनाभावान्न तदर्थकत्वमित्युक्तम् ।
तद्दूषयितुमाह—यच्च केचिदिति ।
न खलु आचारमात्रार्था इति ।
उपमानादाचारे इत्यनुशासनस्यैव तुल्याचारोर्ऽथ इति भावः ।
तस्य च इवार्थकत्वे ऽनुशासनाभावोक्तिदूषणायोक्तत्वेन पूर्वोक्तेन सह न पौनरुक्त्यमिति बोध्यम् ।
तदेवमिति ।
तद्धितादित्रयगाः श्रौत्यार्थोभेदा उक्ताः पञ्च; क्यजादावुक्ताः पञ्च, इत्येवं दशेत्यर्थः ।
लोचना:
(लो, ऊ) सादृश्याचारार्था इति ।
अयमर्थः-क्यङादीनामाचारमात्रार्थत्वे एव सादृश्यार्थत्वं न स्यात् न च तथा ।
सादृश्याचारोभयार्थत्वादिति ।
उपमानानुपादाने द्विधा वाक्यसमासयोः ।
टीका
विज्ञप्रिया:
(वि, ह) उपमानामुपादाने इति ।
उपमानतावच्छेदकचन्द्रत्वादिना अनुपादाने इत्यर्थः ।
तेन सदृशतुल्यादिपदेन तदनुपादाने ऽप्यनुपादानं बोध्यम् ।
उदाहरणम्–
“तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।
टीका
विज्ञप्रिया:
(वि, क) तस्या मुखेनेति वाक्ये ।
नास्ते न वा नयनतुल्यमिति समासे ।
अत्र रम्यत्वं साधारणधर्म उक्त इत्यत्र उपमानमात्रलोपः ।
नच कथमत्रोपमानलोपः मुखेन सदृशमित्युक्तौ मुखस्येव उपमानताप्रतीतेस्यस्य चोक्तत्वदेवेति वाच्यम् ।
मुखस्योपमानत्वे सदृशपदमत्रोपमेयपरं स्यात्; उपमेयस्य च उपमानापेक्षया नाधिकत्वम्, किन्तु न्यूनत्वं समानत्वं वा ।
तथा च तस्या मुखस्य न्यूनं समानं वा नास्तीत्युक्ते ऽधिकत्वाकाङ्क्षानिवृत्तौ मुखप्रशंसानुपपत्त्या सदृशपदस्यात्रोपमानपरत्वादेव उपमेयापेक्षया उपमानस्याधिकत्वेन तस्या मुखस्याधिक्यं नास्तीत्येवार्थात् ।
लोचना:
(लो ऋ) वाक्यसमासयोः ।
वाक्ये समासे चेत्यर्थः ।
वाक्ये समासाभावो वैयाकरणरीत्या ।
तस्या इत्यादौ मुखेन सदृशमित्यत्र वाक्यगा ।
नयनतुल्यमित्यत्र समासगा ।
नास्ते किमपि वस्त्वन्तरमित्यर्थः ।
अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः ।
टीका
विज्ञप्रिया:
(वि, ख) नन्वेवं सदृशपदेनैव उपमानकथनात् कथं तल्लोप इत्यत आह—अत्र मुखप्रतिनिधीति ।
प्रतिनिधिरुपमानं चन्द्रादिवस्तु ।
गम्यमानत्वादिति ।
चन्द्रत्वादिना उपमानतावच्छेदकरूपेणानुपादानादाकाङ्क्षाबलेनाध्याहार्य्यत्वादित्यर्थः ।
एवं चाध्याहारलभ्ये तत्र सादृश्यप्रतियोगितारूपसाम्यं वाच्यमित्यत्र वाच्यपदस्य व्यङ्ग्यपरत्वं यद् व्याख्यातं तदत्रापि उपपन्नं बोध्यम् ।
एवमुत्तरत्रापि ।
अत्रैव च “मुखेन सदृशम्” इत्यत्र “मुखं यथेदम्” नयनतुल्यम्” इत्यत्र “दृगीव” इति पाठे श्रौत्यपि सम्भवतीति ।
अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसम्भवे ऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् ।
टीका
विज्ञप्रिया:
(वि, ग) दर्शितद्वये सादृश्यतुल्यपदवशादार्थोत्वमेव, तत्पदद्वयस्थाने यथा इवादिपददाने तु श्रौत्यौ अप्युपमाने लुप्ते भवतः ।
अतश्चतुर्विधा उपमानलुप्ता भवितुमर्हति ।
किन्तु काव्यप्रकाशकृदादिप्राचीनैस्तद्द्वयस्यानुक्तत्वाद् द्विप्रकारत्वमेवोक्तमित्याह—अत्रैव चेति ।
औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ विस्स्द्_१०।२० ॥
टीका
विज्ञप्रिया:
(वि, घ) औपम्यवाचिन इति ।
औपम्यप्रतिपादकस्येत्यर्थः, तुल्याद्यनव्ययानां तद्वाचकत्वाभावस्य दर्शितत्वात् ।
लोचना:
(लो, ॠ) औपम्यवाचिन इवादेः क्किपो लोपः ।
क्रमेणोदाहरणम्–
“वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्” ।
“गर्दभति श्रुतिपरुषं व्यक्तं निनदन् महात्मनां पुरतः” ।
टीका
विज्ञप्रिया:
(वि, ङ) वदनमिति—सुधाकर इवेत्यर्थः ।
गर्दभतीति—महात्मनां पुरतो व्यक्तं श्रुतिपरुषं निनदन्नयं गर्दभ इवाचरतीत्यर्थः ।
उभयत्र मनोहरत्वश्रुतिपरुषनिनादयोर्धर्मयोः सत्त्वादौपम्यप्रतिपादकयोरिव क्रिपोर्लोपमात्रमत्र ।
लुप्तयोस्तयोः प्रतिसन्धानाच्चौपम्यस्य प्रत#ईतिरित्यतो न तस्य व्यङ्ग्यत्वमित्यतो निरुक्तं वाच्यत्वमस्त्येव ।
अत्र “गर्दभति” इत्यत्रौपम्यवाचिनः क्विपो लोपः ।
न चेहोपयमेयस्यापि लोपः, “निनदन्” इत्यनेनैव निर्देशात् ।
टीका
विज्ञप्रिया:
(वि, च) औपम्यवाचिनः क्विप इति ।
यद्यपि लुप्तस्य एव क्किपः क्किप्परेभाषा इत्यतः तस्य लोप इत्युक्तिसम्भवः, तथापि भविष्यल्लोपस्य क्किप एव क्किपत्वमुक्तं तस्यैवौपम्यवाचित्वं तु एवेत्युक्तमेव ।
निनदन्नित्यनेनैवेति ।
कर्त्तुरुपमेयस्य कर्त्तरिवेहितेन शतृङैवोक्तत्वात् ।
द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।
लोचना:
(लो, ऌ) एवेमवैकलोपे लुप्तोपमां दर्शयित्वा द्विलोपे दर्शयति ।
अनयोरुदाहरणं व्युत्कमेण इत्यर्थः ।
इयमपि पूर्ववत् औत्यार्थो चेति चतुर्धा सम्भवति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“तस्या मुखेन” इत्यादौ “रम्यम्” इति स्थाने “लोके” इति पाठे ऽनयोरुदाहरणम् ।
टीका
विज्ञप्रिया:
(वि, छ) एवं धर्मलोपे दश, उपमानानुपादाने च द्वे औपम्यवचिलोपे च द्वे इति चतुर्दशविधामेकलुप्तामुक्त्वा द्विलुप्ताप्रभेदानाह—द्विधेति ।
रम्यमिति स्थाने इति ।
धर्मस्यापि लोपात् ।
क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ विस्स्द्_१०।२१ ॥
उदाहरणम्–
“विधवति मुखाब्जमस्याः” अत्र “विधवति” इति मनोहरत्व-क्विप्प्रत्यययोर्लोपः ।
“मुखाब्जम्” इति च समासगा ।
टीका
विज्ञप्रिया:
(वि, ज) विधवतीति—विधुरिवाचरति इत्यर्थः ।
क्किपो लोप एव ।
मुखा ब्जमितीति ।
मुखमब्जमिवेति पुरुषव्याघ्रादिसमासः ।
न चात्र रूपकमेव नोपमेति वाच्यम्, उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति पाणिनिसूत्रेण साधारणधर्माप्रयोगे रूपकबाधया उपमानविधानात् ।
साधारणधर्मप्रयोगसत्त्वे एव रूपकसम्भवात् ।
लोचना:
(लो, ए) केचिदिति—अनेनात्मनो ऽसम्मतिप्रकटनम् ।
केचित्त्वत्रायिप्रात्ययलोपमाहुः ।
उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि ।
लोचना:
(लो, ऐ) पुनरेकलोपे लुप्तोपमां प्राचीनानुरोधाद् द्विलोपप्रकरणे लक्षयति–उपमेयस्येति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति” ॥
टीका
विज्ञप्रिया:
(वि, झ) इत्थं द्विलुप्ताश्चातस्त्रः एकलुप्ताश्चतुर्द्दशोक्ता इत्यष्टादशोक्त्वा पुनरेकलुप्तामेकामाह—उपमेयस्येति ।
अरातीति ।
सहस्त्रायुधीयतीति ।
कृपाणोदग्रदोर्दण्डो ऽपि सहस्त्रायुधो यस्तमिवात्मानमाचरतीत्यर्थः ।
अत्र “सहस्त्रायुधमिवात्मानमाचरति” इति वाक्ये उपमेयस्यात्मनो लोपः ।
न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् ।
अत्र केचिदाहुः–“सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः” इति, तन्न विचारसहम् ; कर्तरि क्यचो ऽनुशासनविरुद्धत्वात् ।
टीका
विज्ञप्रिया:
(वि, ञ) नच सहस्त्रायुधीयते इत्येवमपि सम्भवात् क्यङा चापि अस्याः सम्भव इति वाच्यम् ।
क्यङन्तस्याकर्मकत्वेन कर्मभूतस्यात्मनः उपमेयस्यात्र प्रसक्त्यभावात् ।
नचेत्याशङ्क्योत्तस्यति–उक्तदेवेति ।
क्यन एव तद्वाचकत्वस्योक्तत्वादित्यर्थः ।
ननु क्यजर्थस्य आचारस्य साधारणधर्मत्वमनवधाय पौरं सुतीयतीत्यादिकं धर्मलुप्तत्वेन प्रागुदाहृतम्, तत्कथमत्र उपमेयमात्रलोपे उदाहृतम्, आचारस्य साधारणधर्मत्वानवधानेन तस्यापि लोपाद् इति चेन्न, अरातीत्यादेः साधारणधर्मवत्त्वे ऽवधानात् ।
सहस्त्रायुधपुरुषस्यापि तादृशविलोचनत्वात् ।
केचित्तु कर्मभूतस्यात्मन उपमेयस्यात्रन लोपः ।
“अकर्मके कर्त्तरि वा " अत्र क्यचो विधानात् ।
तथा च कर्तैवात्रोपमेयस्तस्य च विशेष्यतावच्छेदकेन रूपएमाननुपादानाल्लोप इत्याहुः ।
तन्मतमाह—अत्र केचिदिति ।
शब्दानुपात्तत्वादित्यर्थः ।
तन्मते कर्त्तरि विहितस्य क्यच आख्यातस्य च कर्त्तृत्वेन रूपेण वाचकत्वात् ।
अतो विशेष्यतावच्छेदकेन रूपेणानुपादानात् ।
अननुशासनादिति ।
अकर्मके कर्त्तरीत्यर्थः ।
तथा च दर्शितार्थे ईदृशप्रयोगो ऽसाधुरेवेत्युक्तं पुक्षीयतीत्यादौ कर्त्तृबोधस्तु कर्त्राख्यातादेवेति बोध्यम् ।
स इत्यनेन विशेष्यतावच्छेदकेन रूपेण कर्त्तुरुपाद्रानमस्त्येवेत्यपि तन्मते दूषणं बोध्यम् ।
लोचना:
(लो, ओ) उक्तादाधारकर्मविहित इति सूत्रव्याख्यानप्रसङ्गे इत्यर्थः ।
केचिद् चण्डीदासपण्डितादयः ।
अनुशासनविरुद्धत्वात् कर्त्तरि क्यच एवानुशासनात् ।
किञ्च “स सहस्त्रायुधीयति” इत्यत्र क्किपप्रत्ययस्य औपम्यवाचकत्वादुपकमे उपगमः ।
पर्य्यवसाने तु सम्भावनोत्थापनात् ।
उत्प्रेक्षा यथा— कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालवालमुकुलोत्तंसन्ति मौलीं प्रति ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालगुरू- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः” ॥
इत्यादौ ।
धर्मोपमेयलोपे ऽन्या–
यथा–
“यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे” ।
अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ ।
टीका
विज्ञप्रिया:
(वि, ट) क्षीरोदीयन्तीत्यत्र साधारणधर्मलोपप्रदर्शनमाधारस्य साधारणधर्मत्वानवधानादिति प्रागेव दर्शितम् ।
काव्यप्रकाशकृता तु एवादृशस्थले आचारस्यैव साधारणधर्मत्वादुपमेयलोपमात्रोदाहरणमेवोच्यते ।
क्षीरोदं यथा चरति तथात्मानमिति प्रतीत्या कर्मत्वेनोभयधर्मत्वादाचारस्य ।
–त्रिलोपे च समासगा ॥ विस्स्द्_१०।२२ ॥
यथा–
राजते मृगलोचना ।
अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः ।
टीका
विज्ञप्रिया:
(वि, ठ) प्रभेदान्तरमाह—त्रिलोपे चेति ।
मृगलोचनेत्यत्र त्रिलोपं दर्शयति ।
अत्र मृगस्येति ।
मृगस्येवेति प्रामादिकः पाठः ।
लोचने इवेत्येव पाठः ।
इवकारस्योपमानपरभागनियमात् ।
तेनोपमाया भेदाः स्युः सप्तविंशतिसङ्ख्यकाः ।
पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा ।
लोचना:
(लो, औ) उपसंहरति—तेनेति ।
लुप्तोपमा चैकविंशतिप्रकारा ।
तथा हि धर्मलोपेन दश ।
उपमानानुपादाने द्वौ ।
इवादिलोपे द्वौ ।
धर्मोपमानलोपे द्वौ ।
धर्मे वादिलोपे द्वौ ।
उपमेयलोपे एवः ।
धर्मोपमेयलोपे एकः ।
त्रिलोपे एकप्रकार इति गणनया एकविशतिप्रकारा लुप्तोपमा ।
किं चोपमानानुपादाने धर्मे वादिलोपेनेति मिलित्वा प्रकारचतुष्टयं श्रौतमार्थं च सम्भवतीत्यष्टविधमिति पञ्चविंशतिप्रकारा ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एषु चोपमाभेदेषु मध्ये ऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते–
टीका
विज्ञप्रिया:
(वि, ड) अलुप्तेति ।
साधारणधर्मस्य शब्दप्रतिपाद्यत्वे इत्यर्थः ।
एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ॥ विस्स्द्_१०।२३ ॥
भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा ।
टीका
विज्ञप्रिया:
(वि, ढ) एकरूपत्वम् एकशब्दप्रतिपाद्यतावच्छेदकैक्यात् ।
तेन “त्वं सुधावन्मधुर” इत्यत्र तदुदाहरणे व्यक्तैक्यस्य शक्यतावच्छेदकस्याभावे ऽपि मनोहरत्वस्य लक्ष्यतावच्छेदकस्यैक्येनैकरूप्यं बोध्यम् ।
भिन्नरूपत्वे तु शब्दभेदो वक्ष्यते ।
गुणो धर्मः भिन्नस्य द्वैविध्यमाह—भिन्ने इति ।
बिम्बानुबिम्बत्वं व्यक्त्योर्मनसा अभेदारोपः ।
लोचना:
(लो, अ) एकरूपतया सम्बन्धिभेदमात्रेण वेति द्विधा ।
तत्राद्यं वृत्तावेव–मधुरः सुधावदित्यादि ।
द्वितीयं सकलकलं पुरमेतदित्यादि ।
बिम्बानुबिम्बत्वं बिम्बप्रतिबिम्बभावः ।
सा च प्रकृतेः सदृशता यथा श्मश्रुलत्वसरघाव्याप्तत्वयोः ।
शब्दमात्रेण नत्वर्थतो ऽपि भिदाभेदः ।
यथा—स्मेरं विधाय इत्यादि ।
तत्र एकरूपे यथा उदाहृतम्-“मधुरः सुधावदधरः–” इत्यादि ।
विम्वप्रतिविम्बत्वे यथा–
“भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव” ॥
टीका
विज्ञप्रिया:
(वि, ण) भल्लेति—स रघुस्तेषां पारसीकानां यवनानां भल्लरूपास्त्रविशेषेणापवर्जितैस्त्यजितैः शिरोभिः मही तस्तार व्यापारयामास ।
कीदृशैः श्मश्रुलैः (अस्त्येर्थे लच्) क्षौद्रपटलैः मधुरससमूहैरिव सरघा मधुमक्षिका ।
दृष्टान्तवदिति– दृष्टान्तः—सादृश्यं तच्चात्र श्यामरूपम् ।
तद्वत् तद्विशिष्टं नन्मूलमिति यावत् ।
तादृशं प्रतिबिम्बनं मनसा अभेदारोपः इत्यर्थः ।
क्षौद्रपटलमुखयोः सादृश्यम्—श्यामसरघाभिन्नश्मश्रुमत्त्वादिति बोदनात् ।
लोचना:
(लो, आ) सरघा मधुमक्षिका ।
क्षौदं मधु ।
अत्र श्मश्रुलत्वसरघाव्याप्तत्वयोः धर्मयोर्भेदे ऽपि स्वगतपिङ्गलत्वादिधर्मसाजात्येन सादृश्यादेकरूपतया समानता शिरः क्षौद्रपटलयोर्धर्मिणोः साम्यबीजम् ।
एवं च गुणासाधारण्यं धर्मिणोर्विरुद्धधर्मयोगे ऽपि सुसङ्गतम् ।
दृष्टान्तप्रतिवस्तूपमे सोदाहरणे लक्षयिष्यते ।
अत्र “श्मश्रुलैः” इत्यस्य “सरघाव्याप्तैः” इति दृष्टान्तवत्प्रतिबिम्बनम् ।
शब्दमात्रेण भिन्नत्वे यथा–
“स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा ।
कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम्” ॥
अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे ।
टीका
विज्ञप्रिया:
(वि, त) स्मेरं विधायेति स्पष्टम् ।
अत्रेति—एके एवेति—एकधर्मावच्छिन्ने एवेत्यर्थः ।
यद्यपि स्मेरत्वं मुखस्यैव धर्मः न नयनस्येत्यतो विस्तारत्वमेव लक्षतावच्छेदकम् ।
विकसितत्वं तु नीलोत्पलधर्म इत्यवच्छेदकस्यापि भेदस्तथापि विकासस्यापि विस्तारविशेषत्वाद् अभेदो बोध्यः ।
प्रतिवस्तूपमावदिति ।
तत्रैकधर्मावच्छिन्नसाधारणधर्मस्य शब्दभेदो वक्ष्यते ।
लोचना:
(लो, इ) एके एवेति—स्मेरत्वस्य विकसितत्वस्याविशेषत्वात् ।
एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ॥ विस्स्द्_१०।२४ ॥
भवेतां यत्र साम्यस्य–
टीका
विज्ञप्रिया:
(वि, थ) एकदेशविवर्त्त्युपमामाह—एकदेशेति ।
गम्यत्वं व्यङ्ग्यत्वम्; साम्यस्य सादृश्यप्रतियोगितानुयोगितारूपाया उपमायाः ।
लोचना:
(लो, ई) वाच्यत्वगम्यत्वे एकदेशे वाच्यत्वमेकदेशे गम्यत्वमित्येकदेशे विशेषेण वर्त्तमानाद् एकदेशविवर्त्तिनीत्यन्वर्थं नाम क्वचित् रूपकवत् समस्तवस्तुविषयाप्युपमा दृश्यते ।
यथा गोपीनाथकवेः—
“ब्रह्माण्डं भवनायते त्वदुदरे लोकेश ! लोकः स्फुर- न्नानाचेतनकल्पनाशबलितः साक्षात् वितानायते ।
तन्मध्ये ऽपि तवामरायत इयं भूमण्डलालम्बिनी हारक्षीरपटीरसोदररुचिः स्वर्गौकसामापगाः” ॥
अत्र भवनस्याङ्गिनो वितानाद्यङ्गसहितस्य उपमानत्वेन समस्तवस्तुविषयता ।
यथा–
“नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव” ॥
अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यम् ।
टीका
विज्ञप्रिया:
(वि, द) नेत्रैरिवेति ।
सरः श्रीयः सरोवरलक्ष्म्याः पदे पदे देशे देशे उत्पलैः पद्मैश्चक्रवाकैश्च विभान्ति स्म ।
तत्रोत्पलादित्रयस्य नेत्रादित्रयोपमामाह—नेत्रैर्मुखैस्तनैरिवेति ।
अत्रेति ।
सादृश्यं सादृश्यप्रतियोगितानुयोगितारूपोपमा ।
सादृश्यप्रतियोगितानुयोगितारूपसम्बन्धस्य एवोपमात्वेनोपमाग्रन्थे प्रतिपादितत्वात् ।
तच्चात्र इवादेर्वाच्यमव्यङ्ग्यम् ।
अव्यङ्ग्यत्वस्यैव वाच्यपदार्थत्वेन प्राक् प्रतिपादितत्वाद् अन्विताभिधानपक्षे वाच्यमन्यथा तु संसर्गमर्य्यादगम्यम् ।
सरः श्रीणमिति ।
उत्पलादीनां नेत्रादिसादृश्यवशाद् गम्यं व्यङ्ग्यमित्यर्थः ।
–कथिता रसनोपमा ।
यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ॥ विस्स्द्_१०।२५ ॥
टीका
विज्ञप्रिया:
(वि, ध) रसनोपमामाह—कथितेति ।
यथोर्ध्वमिति उत्तरस्येत्यर्थः ।
लोचना:
(लो, उ) यथोर्ध्वम् ऊर्ध्वोर्ध्वक्रमेण ।
यथा–
“चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः” ॥
टीका
विज्ञप्रिया:
(वि, न) चन्द्रायते इति ।
चन्द्र इवाचरति इत्यादिरर्थः ।
शुक्लरुचापीत्यत्र अपिकारस्य हंसो ऽपि इत्यन्वयः ।
विहाय आकाशम् ।
मालोपमा यदेकस्योपमानं बहु दृश्यते ।
यथा–
“वारिजेनेव सरसी शशिनेव निशीथिनी ।
यौवनेनेव वनिता नयेन श्रीर्मनोहरा” ॥
टीका
विज्ञप्रिया:
(वि, प) मालोपमामाह—मालोपमेति ।
वारिजेनेत्यादि स्पष्टम् ।
अत्र प्रत्युपमानं मनोहरत्वमेको धर्मः ।
विभिन्नधर्माप्येषा सम्भवति—यथा “विज्ञो गुरुरिवासि त्वं कन्दर्प इव सुन्दरः ।
पाथोधिरिव गम्भीरो गरुत्मानिव विक्रमी ॥
“इति ।
लोचना:
(लो, ऊ) नयेनेत्यादौ मनोहरत्वमेकः साधारणो धर्मः ।
क्वचिद् भिन्नसाधारणधर्मा मालोपमा यथा—
“ज्योत्स्त्रेव नयनानन्दः सुरेव मदकारणम् ।
प्रभुतेव समाविष्टसर्वलोका नितम्बिनी” ॥
एवं रसनोपमाप्यभिन्नसाधारणधर्माम्भिन्नसाधारणधर्मावेति द्विधा बोद्धव्या ।
क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा–
“हसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।
विमलाः कुमुदानीव तारकाः शरदागमे” ॥
टीका
विज्ञप्रिया:
(वि, फ) मालोपमाप्रसङ्गेन स्मृतमुपमाया विशेषान्तरमाह–क्वचिदिति ।
हसं इति ।
अत्र प्रकृतशरद्वर्णने तद्धर्मा हंसचन्द्रादयः सर्व एव प्रकृताः ।
लोचना:
(लो, ऋ) हंसश्चन्द्र इवेत्यादौ शरद्वर्णनस्य प्रकृतत्वाद्धंसचन्द्रयोर्जलव्योम्नोस्तारकाकुमुदयोश्च प्रकृतत्वम् ।
“अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः ।
पुरन्दरस्य भवने कल्पवृक्षभवा इव” ॥
अत्रोपमेयभूतविभूतिभैः “कल्पवृक्षभवा इव " इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा ।
अत्रैव “गृहे” इत्यस्य “भवने” इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् ।
टीका
विज्ञप्रिया:
(वि, ब) आक्षेपोपमा–प्रतिनिर्देश्योपमयोः सूत्रेणनुक्तिबीजं दर्शयितुं तद्द्वयमाह–अस्य राज्ञ इति ।
भूपानीताः पराजितभूपेभ्यः आनीताः ।
कल्पवृक्षभवास्तज्जन्या विभूतय इत्यनुषङ्गः ।
आक्षिप्यन्ते अनुषज्यन्ते ।
आक्षेपोपमा अनुषङ्गोपमा ।
अत्रैव प्रतिनिर्देश्योपमावत्त्वमप्याह—अत्रैवेति ।
लोचना:
(लो, ॠ) भूपानीताः राजभिरुपहारीकृताः गृहे इत्यस्य उपमेयवाक्यगतस्य भवन इत्यनेन उपमानवाक्यगतेन ।
एवंविधेति ।
अयमाशयः यदित्थं क्वचिदपि विच्छित्त्याभासमादाय विशेषतो लक्षितव्यं तेन तस्य तथाविधस्य सहस्त्रधासम्भवाद् ग्रन्थगौरवं विना न किञ्चित्फलमिति ।
तथाविधस्यापि लिखितव्यत्वे वा यद्युक्तप्रकारवैलक्ष्यण्यं तदा लक्षितव्यम् ।
नच तथा ।
उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥ विस्स्द्_१०।२६ ॥
अर्थादेकवाक्ये ।
टीका
विज्ञप्रिया:
(वि, भ) अनन्वयालङ्कारमाह—उपमेति ।
अर्थादेकवाव्य इति ।
वाक्यभेदे उक्तरसनोपमाया वक्ष्यमाणोपमेयोपमायाश्च प्रसक्त्या तद्भेदस्यात्र प्रवेशात् ।
लोचना:
(लो, ऌ) तुः पुनर्थे ।
उपमालक्षणस्थस्य द्वयोरित्यस्य व्यवच्छेदार्थः ।
न विद्यत उपमेयस्य उपमानान्तरेणान्वयः सम्बन्धो ऽत्रेत्यन्वर्थनामानन्वयालङ्कारः, अर्थादिति ।
वाक्यद्वये उपमेयोपमाया वक्ष्यमाणत्वादित्यर्थः ।
यथा–
“राजीवमिव राजीवं जलं जलमिवाजनि ।
चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे” ॥
टीका
विज्ञप्रिया:
(वि, म) राजीवमिति ।
अतन्द्रो ऽनिद्रितो घूर्णमान इति यावत् ।
शरत्समुदयः शरल्लक्ष्मीस्तस्या उद्यमे उपक्रमे ।
अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः ।
“राजीवमिव पाथोजम्” इति चास्य लाटानुप्रासाद्विविक्तो विषयः ।
किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् ।
तदुक्तम्–
“अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम्” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, य) वैवक्षिक इति ।
विवक्षाशब्दात् कण ।
मुखं चन्द्र इत्यत्र यथा भेदे ऽभेदारोपाद् व्यधिकरणेनाऽरोपितेन चन्द्रत्वेन मुखप्रतीतिस्तथात्राभेदे भेदारोपाद् विवक्षितेन व्यधिकरणेनापि भेदघटितसादृश्येनेवार्थे नौपम्यप्रतीतिरित्यर्थः ।
आहार्य्यतादृशविवक्षाप्रयोजनमाह—अनन्यसदृशत्वेति ।
अत्र लाटानुप्रासो ऽप्यस्ति ।
तदसङ्कीर्णमिममाह–पाथेजमिति ।
उचितत्वादिति ।
अलङ्कारद्वयेन शोभातिशयजननादौचित्यम् ।
अनन्वये चेति ।
आनुषङ्गिकमन्यार्थप्रयत्नेन सिद्धम् ।
अस्मिम्मस्त्विति ।
लाटानुप्रासोक्तकारिकात्वेनास्मिन्नित्यनेन लाटानुप्रास उक्तः—साक्षादेवेति ।
अन्यार्थप्रयत्नाभावाद् इत्यर्थः ।
प्रयोजनं लाटानुप्रासस्य शब्दैक्यमित्यनुषङ्गः ।
लोचना:
(लो, ए) नन्वेकस्यैव उपमानोपमेयभावः कथं न विरुद्ध इत्यत आह—अत्रेति ।
वैवक्षिको न हि तात्त्विकः ।
अस्यालङ्कारस्य राजीवशब्दयोस्तात्पर्य्यमात्रभिन्नार्थत्वेन लाटानुप्रासे सम्भवत्यपि न तद्विशेषत्वमित्याशयः ।
तत्र विषयविवेकं दर्शयति-कथं राजीवमित्येकशब्दप्रयोगः पौनरुक्त्यापततीत्याह—किन्त्वत्रेति ।
उचितत्वं पर्य्यायक्रमभङ्गदोषस्यावश्योपेक्षणीयत्वादिति भावः ।
अत्र प्राचीनसम्मति दर्शयति–यदाहुरिति ।
आनुषङ्गिकं तल्लक्षणानन्तर्गतमपि काव्योज्ज्वलीकरणार्थमुपादेयमिति भावः ।
साक्षादेव न तु दोषनियमात्, तल्लक्षणन्तर्गतत्वादित्यर्थः ।
पर्यायेण द्वयोरेतदुपमेयोपमा मता ।
एतदुपमानोपमेयत्वम् ।
अर्थाद्वाक्यद्वये ।
यथा–
“कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य” ॥
अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः ।
टीका
विज्ञप्रिया:
(वि, र) उपमेयोपमामाह—पर्य्यायेणेति ।
द्वयोरुपमानोपमेययोरित्यर्थः ।
तेनोपमेयोपमालङ्कार इत्यर्थः ।
अर्थादिति ।
वाक्यद्वयं विना पर्य्यायेणोक्त्यसम्भवात् ।
कमलेवेति ।
अत्र सर्वत्र विभातीत्यन्वयः ।
लोचना:
(लो, ओ) उपमेयोपमेति ।
उपमेयेन पूर्ववाक्यत्थेन उपमासादृश्यं द्वितीयवाक्यस्थयोपमानस्येत्यन्वर्थं नाम, एतदितरोपमानव्यवच्छेदः फलम् ।
एतदेव वृत्तावुक्तमस्य राज्ञ इति ।
धृतिर्धेर्य्यम् ।
सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ॥ विस्स्द्_१०।२७ ॥
यथा–
“अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।
स्मरामि वदनं तस्याश्चारु चञ्चललोचनम्” ॥
टीका
विज्ञप्रिया:
(वि, ल) स्मरणालङ्कारमाह—सदृशेति ।
अरविन्दमिति ।
अरविन्दस्यैवोपरि खेलता खञ्जनेन मञ्जुलमरविन्दं वीक्ष्य चारुचञ्चललोचनं तस्या वदनं स्मरामीत्यर्थः ।
अत्र अरविन्दसादृश्यान्मुखस्य, खञ्जनसादृश्याल्लोचनस्य, खेलासादृश्यात् चाञ्चल्यस्य स्मरणम् ।
“मयि सकपटम्–“इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः ।
लोचना:
(लो, औ) सदृशानुभवादिति प्रतीकव्यवच्छेद्यं दर्शयति—मयि सकपटमित्यादि ।
अरविन्दमित्याद्युदाहरणे स्मृतिरुपाया विप्रलम्भाङ्गत्वेन प्रेयो ऽलङ्कारविषयत्वे ऽपि स्मरणालङ्कारस्यावादत्वेन तद्वाधकता ।
तेनानुचिन्तनीयदर्शनोत्थापिता स्मृतिः प्रेयोलङ्कारविषयः ।
यथा मयि सकपटमित्यादिरेव ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
राघवानन्दमहापात्रास्तु-वैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति ।
तत्रोदाहरणं तेषामेव यथा–
“शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता ।
तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः” ॥
टीका
विज्ञप्रिया:
(वि, व) मयि सकपटमित्यादाविति ।
तत्र “स्मेरं स्मेरं स्मरामि तदाननम्” इति ।
स्मृतेश्चिन्तयैवोत्थापितत्वादित्यर्थः ।
“सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः” इत्युक्तत्वात् ।
स्मृतिबीजसंस्कारोद्वोधकबाहुल्यात् ।
शिरीषेति ।
शिरीषमृद्वी सीता यदा यदा गिरिषुदुः खशतानि प्रपेदे तदा तदा रामो ऽस्याः सदनेषु सौख्यलक्षाणि गलदश्रु यथा स्यात्तथा दध्यावित्यर्थः ।
सुखध्यानमिति स्मृतिः ।
दुः खे सुखवैसादृश्यम् ।
लोचना:
(लो, अ) सुखमेव सौख्यम्, अत्र सुखदुः खयोर्वैसादृश्यम् ।
रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे ।
टीका
विज्ञप्रिया:
(वि, श) रूपकालङ्कारमाह—रूपकमिति ।
रूपितेत्यत्र रूपणं रूपः तत इतच्प्रत्ययाद्रूपणवानित्यर्थः ।
तथा च रूपयिष्यमाणश्चन्द्रादिरत्र रूपितपदार्थः ।
उक्तप्रत्ययान्तत्वे ऽतीतत्वानन्वयात् ।
तस्य मुखादावारोपो रूपकमित्यर्थः ।
केचिदत्र आरोपादिति पञ्चमी ज्ञापकतायाम्, स्वज्ञानद्वारा स्वस्यैव रूपकत्वप्रकारज्ञानहेतुता बोध्या इत्याहुः ।
लोचना:
(लो, आ) एवं साधर्म्ये ऽभेदप्राधान्ये अलङ्कारन् निर्णोय भेदप्राधान्ये लक्षयति–रूपकमिति ।
रूपितारोपवत्त्वं नच प्रकृते ऽपुयपयोगः ।
अनिगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिरारोपः ।
तेनाध्यवसायमूलकोत्प्रेक्षादेरपि व्यवच्छेदः; अध्यवसायो ऽपि विषयनिगरणेन विषयिणो ऽभेदप्रतिपत्तिः ।
अपह्नवो “न मुखं चन्द्र” इत्याकारः ।
एवं च निरपह्नवस्यानिगीर्णस्य विषयस्य विषयिणा तादात्म्याद् यद्रूपवत्त्वं तद्रूपकाख्यमलङ्करणमन्यरूपेणान्यस्य रूपवत्त्वादित्यर्थः ।
“रूपितऽ- इति परिणामाद्व्यवच्छेदः ।
एतच्च तत्प्रस्तावे विवेचयिष्यामः ।
“निरपह्नवे” इत्यपह्नुतिव्यवच्छेदार्थम् ।
टीका
विज्ञप्रिया:
(वि, ष) पदव्यावृत्तिमाह—रूपितेति ।
परिणामालङ्कारे रूपणाधिकरणतया रूप्यमाणस्य परिणामाद्वास्तवो ऽभेदस्तथात्वानारोपवत्त्वरूपं रूपितत्वम् ।
यथा—“स्तनोपपीडमाश्लेषः कृतो द्यूते पणस्तया"इति परिणामोदाहरणे रूपणाधिकरणाऽश्लेषतयैव रूप्यमाणस्य पणस्य परिणामादिवास्तव एव प्रणाऽश्लेषयोरभेद इत्यतः पणो न रूपति इति तद्व्यवच्छेदः ।
अपह्नुतिव्यवच्छेदायेति–“नायं शशी कुण्डलितः फणीन्द्रः” इत्यादौ शशिनि कुण्डलितफणीन्द्रारोप एव, किन्तु शशित्वापह्नवपूर्वक इत्यतः तद्व्यवच्छेदः ।
तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥ विस्स्द्_१०।२८ ॥
टीका
विज्ञप्रिया:
(वि, स) तस्य त्रैविध्यमाह—तदिति ।
लोचना:
(लो, इ) तद्भेदानाह–नदिति ।
त्रिधेत्यतः पूर्वं प्रथममिति शेषः ।
अन्यभेदानामेतदन्तरत्वात् ।
तद्रूपकम् ।
तत्र–
यत्र कस्यचिदारोपः परारोपणकारणम् ।
तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥ विस्स्द्_१०।२९ ॥
प्रत्येकं केवलं मालारूपं चेति चतुर्विधम् ।
टीका
विज्ञप्रिया:
(वि, ह) यत्र कस्यचिदिति ।
यत्र रूपके गृह्यमाणे क्वचित् कस्यचिदारोप इत्यर्थः ।
परारोपणस्य प्रकृष्टारोपस्य मुख्यारोपस्य इत्यर्थः ।
कारणं साधकम् ।
श्लिष्टेति—एकशब्देनैव रूप्यरोपकोभयोपस्थापने श्लिष्टत्वनिबन्धनत्वम् ।
अतथात्वे तु अश्लिष्टशब्दनिबन्धनत्वम् ।
लोचना:
(लो, ई) परस्य मुख्यस्य तथाविधसम्यगर्थान्तररूपणं विनानुपपद्यमाने आरोपणे कारणं निमित्तम् ।
श्लुष्टः, प्रकृतरोपणोत्पादकरूपाश्रयस्यात्मनो व्द्यर्थता श्लिष्टः ।
अश्लिष्टः पृथक्पदनिर्दिष्टरूपरूपकार्थः ।
तथाविधः शब्दो निबन्धनं कारणम् ।
अर्थात् मुख्यारोपे यस्यैत्यर्थः ।
केवलं सकृद्रूपणात्मकम् ।
मालारूपम् एकत्रैव विषयपरम्परामनपेक्ष्यानेकवस्त्वारोपात्मकम् ।
एवमन्यत्रापि ।
परम्परा जातास्येति परम्परितं सार्थकम् ।
तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा–
“आहवे जगदुद्दण्ड ! राजमण्डलाराहवे ।
श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव बाहवे” ॥
टीका
विज्ञप्रिया:
(वि, क) आहवेति—हे नृसिंहमहीपाल ! तव बाहवे हस्ताय स्वस्त्यस्तु ।
कीदृशाय—आहवे युद्धे जगत्युद्दण्डं राजमण्डलं नृपतिमण्डलमेव राजमण्डम्ल चन्द्रमण्डलं तदीयराहवे सैहिकेयाय तत्तिरस्कारकत्वात् ।
अत्र नृपतिमण्डलसम्बन्धित्वेन राहुत्वारोपो ऽनुपपन्नः राहोर्नृपतिमण्डलतिरस्कारकत्वाभावात् ।
अतो मुख्यतदारोपसाधको नृपतिमण्डले चन्द्रमण्डलारोपः ।
श्लिष्टराजशब्देन च तदुभयोपस्थापनम् एतदाह—अत्रेति ।
अत्र च मुख्यरूपकनिर्वाहाय द्वयोर्नृपतिचन्द्रयोः प्राकरणिकत्वादादावेव नृपचन्द्रो राजपदवाच्यो न तु चन्द्रो व्यङ्ग्यः ।
एकार्थमात्रे प्रकरणत्वे एवान्यार्थस्य व्यङ्ग्यत्वात् ।
अतो नात्र वाच्यसाधकत्वव्यङ्ग्यरूपस्य वाच्यसिद्ध्याङ्गाख्यगुणीभूतव्यङ्ग्यत्वस्य प्रसक्तिः ।
यत्र तु कस्यचिदारोपं विनैव प्रथमं मुख्यरूपकं सिद्ध्यति पश्चात्तादृशनिरूप्यमाणस्यापरपदार्थान्वयानुपपत्तिस्तत्रप्राकरणिके तादृशापरपदार्थे नियन्त्रकस्य श्लिष्टशब्दस्यापरार्थो मुख्यरूपमाणस्यापरपदार्थान्वयानुपपत्तिरिरासाय रूप्यमाणे व्यङ्ग्य एव; तत्र वाच्यसिद्ध्यङ्गतैव तस्य ।
यथा— “भ्रमिमरतिमत्वसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादं च ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्” ॥
इत्यत्र श्यामत्वेनोपकारकत्वेन च जलदे भुजगरूपणं प्रथमं सिद्ध्यत्येव ।
पश्चाच्च स्यमाणस्य भुजगस्य विषपदार्थे प्राकरणिकजलजनकत्वानुपपत्त्या तन्निरासाय विषपदद्वितीयार्थो हलाहलं व्यङ्ग्यम् ।
तत्र रूप्यतो वृष्टिवर्णनप्रकरणज्जलस्यैव वाच्यत्वात् ।
ततो भुजगस्य हलाहलजनकत्वेनानुपपत्त्यभावाद् भुजगरूपेण सिद्धिरिति विषयस्य विभागः सुधीभिरवधेयः ।
एवं च मुख्यरूपकसाधकविशेष्यस्य वाच्यत्वे परम्परितं रूपकम्, तस्य व्यङ्ग्यत्वे तु वाच्यसिद्ध्यङ्गमिति स्थिते “दीपयने रोदसीरन्ध्रमेष ज्वलति सर्वतः ।
प्रतापस्तव राजेन्द्र वैरिवंशदवानलः ।
“इत्यत्र कुले वेण्वारोपणस्य व्यङ्ग्यतया वाच्यदावानलरूपसिद्ध्यङ्गत्वमिति ग्रन्थकृता प्रागुक्तं चिन्त्यम् ।
राजमण्डलराहवे इत्यत्र इव तत्रापि मुख्यदवानलरूपकसाधकत्वेन वेण्वारोपणस्य वाच्यत्वादेव ।
लोचना:
(लो, उ) जगदुद्दण्डो ऽतिशयोत्कटः, राजमण्डलं नृपसमूहः चन्द्रमण्डलं च ।
अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तम् ।
मालारूपं यथा–
“पद्मोदयदिनाधीशः सदागतिसमीरणः ।
भूभृदावलिदम्भोलिरेक एव भवान् भुवि” ॥
अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तम् ।
टीका
विज्ञप्रिया:
(वि, ख) श्लिष्टपरम्परितरूपकमालामाह—पद्मोदयेति ।
अस्यार्थो वृत्तावेव विवृतः ।
इत्याद्यारोपः सूर्य्यत्वाद्यारोपे निमित्तमिति ।
अत्र हि लक्ष्या उदये सूर्य्यस्य, सतामागतौ समीरणस्य, भूभृतां राज्ञामावलौ दम्भोलेश्चानुपयोगेन पद्माया उदयादौ पङ्गजोदयाद्यारोपणैवतदुपयोगात्तन्निमित्तता ।
“विद्वन् मानसहम्स ! वैरिकमलासङ्कोचदीप्तद्युते ! दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! सत्यप्रतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।
" इति श्लोकः काव्यप्रकाशकृता श्लिष्टपरम्परितमालारूपकोदाहरणतयैव दर्शितः ।
तस्यार्थो हि “हे वरवीर ! वैरिञ्चं ब्राह्मं वत्सरशतम् उच्चैः साम्राज्यं क्रियाः कुर्य्याः ।
राज्ञः अन्यान्यपि सम्बोधनान्याह—विद्वदिति ।
विदुषां मानसं मनः एव मानससरः तत् हंस, कमलानामसङ्कोचो विकाशस्तत्र दीप्तद्युते सूर्य्य ।
दुर्गाणाममार्गणं दुर्गं विना योद्वृत्वम्, तदेव दुर्गाया मार्गणं तत्र नीललोहित ! समितां युद्धानां स्वीकार एव समिधां स्वीकारः तत्र वैश्वानर ! सत्ये प्रीतिविधानमेव सत्याम् अप्रीतिविधानं तत्र दक्ष प्रजापते ! विजयः परपराभव एव विजयोर्ऽजुनस्तत् प्राग्भावे पूर्वोत्पत्तौ भीमसेन ! हे प्रभो इत्यत्र राज्ञि हंसाद्यारोपमुख्यरूपकारण्यनेकानि प्रत्येकं तत्साधकानि मनआदौ मानससरोवरादिरूपकाण्यनेकानि ।
प्रकृते अपि राज्ञि दिनाधीशाद्यनेकरूपकसाधकानि लक्ष्म्यादीनामुदयादौ पङ्कजोदयादिरूपकाणीति ।
केवलश्लिष्टपरम्परितरूपकोदाहरणं तु काव्यप्रकाशकृता दत्तं यथा– “अलोकिकमहालोकप्रकाशितजगत्त्रय ! स्तूयते देव ! सद्वंशमुक्तरत्नं न कैर्भवान्” ॥
इति ।
अस्यार्थः हे देव ! सद्वंशः सत्कुलमेव सद्वंशः सद्वेणुः तत्र मुक्तारत्नं भावान् कैर्न स्तूयते ? वंशे मुक्तोत्पत्तेः ।
राज्ञः सम्बोधनान्तरमाह—अलौकिकेति ।
अलौकिको ऽन्यलोकविलक्षणो यो महालोको महादृष्टिपातः स एव महालोको महाज्योतिस्तेन प्रकाशितं जगत्त्रयम् अर्थान् मुक्तामण्डितं येन हे तादृश ! अत्र हि राज्ञि मुक्तारोपो मुख्यरूपकं तत्साधकं कुले वेण्वारोपणम् ।
दृष्टिपाते ज्योतिरारोपणं च ज्योतिरभावे मुक्तोत्कर्षाभावात् ।
लोचना:
(लो, ऊ) पद्मा लक्ष्मीः पद्मं च ।
सतामागमनं सर्वदागमनं च ।
भूमृतो राजानः वर्वताश्च ।
पद्माया लक्ष्म्याः सर्वदा सदा च ।
एवं– “त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिर्को लोकत्रयात्मकः” ॥
इत्यत्र लोकत्रयात्मकत्वमित्यादि रूपणं पातालमित्यादि रूपणं हेतुः ॥
अश्लिष्टशब्दनिबन्धनं केवलं यथा–
“पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः” ॥
अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम् ।
टीका
विज्ञप्रिया:
(वि, ग) अश्लिष्टं केवलमाह—पान्तु वो जलदश्यामा इति ।
चत्वारो हरिबाहवो वः पान्तु ।
कीदृशाः ? त्रैलोक्यमेव मण्डपस्तस्य स्तम्भाः, धारकत्वात् ।
तथा शार्ङ्गस्य धनुषो व्याघातेन कर्कशाः ।
स्तम्भत्वारोपे निमित्तमिति ।
त्रैलोक्ये स्तम्भावन्वयात् ।
मालारूपं यथा–
“मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः ।
विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम्” ॥
अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् ।
“तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्” इति केचित् ।
टीका
विज्ञप्रिया:
(वि, घ) मालारूपं यथेति—अश्लिष्टशब्दनिबन्धनमिति शेषः ।
मनोजराजस्येति ।
कर्पूरपूरप्रभमिन्दुबिम्बं विराजति ।
तत्र परम्परितरूपकनिमित्तकानि रूपकान्तराण्याह—मनोजेति ।
मनोज एव राजा तस्य सितातपत्रम् ।
हरिद्रूपाया अङ्गनायाः श्रीखण्डस्य, चन्दनस्य चित्रम् ।
व्योमरूपस्य सरसः सरोजम् ।
एषु चतुर्षु रूपकयोर्निमित्तनैमित्तकभाव उक्तविपरीत एवेति केषाञ्चिन्मतं दर्शयति—एष्विति ।
लोचना:
(लो, ऋ) केचिन्नतु वयमिति भावः ।
एतच्चात्रैव स्फोटयिष्यति ।
अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ विस्स्द्_१०।३० ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
टीका
विज्ञप्रिया:
(वि, ङ) द्विविधं साङ्गरूपकमाह—अङ्गिन इति ।
साङ्गस्य सधर्मस्य ।
यो रूप्यते तस्य धर्मा अपि यदि रूप्यन्ते तदा साङ्गमित्यर्थः ।
लोचना:
(लो, ॠ) साङ्गस्य सोपकरणस्य ।
तत्र–
आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ विस्स्द्_१०।३१ ॥
लोचना:
(लो, ऌ) अशेषाणामङ्गतदुपकरणानाम् ।
शाब्दत्वे शब्देनाभिधेयत्वे ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
प्रथमं समस्तवस्तुविषयम् ।
यथा–
“रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे” ॥
अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम् ।
टीका
विज्ञप्रिया:
(वि, च) रावणवग्रह इति ।
रावणरूपेणावग्रहेण वृष्टिविघातेन क्लान्तं मरुद्रूपं शस्यं वाग्रूपामृतेन स कृष्णो विष्णुर्मेघो शस्यमभिवृष्य अभिषिच्य तिरोदधे ।
अन्यो ऽपि रूप्यमाणो मेघो ऽङ्गी ।
तस्य धर्मो जलं वाचि रूपितम् ।
एवं स्वजलसिच्यमानत्वसम्बन्धेन शस्यमप्यङ्गम् ।
मरुत्सु तद्रूपितम् ।
तदाह—अत्रेति ।
लोचना:
(लो, ए) वागादीनां कृष्णोपकरणानाममृतत्वादीति मेघोपकरणम् ।
इह चच परतरूपणम् ।
यदाहुः—
“मुखपङ्कजरङ्गे ऽस्मिन् भ्रूलतानर्त्तकी तव ।
लीलानृत्यं करोतीति रम्यं रूपितरूपणम्” ॥
इति ॥
इह हि मुखे पङ्कजत्वरूपणानन्तरं पुना रङ्गत्वरूपणम् ।
एवं भ्रूलतानर्त्तकीत्यत्रापि ज्ञेयम् ।
यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् ।
लोचना:
(लो, ऐ) आर्थत्वमर्थगम्यत्वम् ।
एकदेशे विशेषेण शाब्दतया स्फुटत्वेन विर्त्तितुं शीलमस्य रूपकस्येत्येकदेशविवर्ति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
कस्यचिदारोप्यमाणस्य ।
यथा–
“लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरम् ।
लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ?” ॥
अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः ।
न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात् मुखे वोपचरितत्वात् ।
टीका
विज्ञप्रिया:
(वि, छ) एकदेशविवर्त्तिरूपकमाह—यस्य कस्येति ।
कस्यचिद्रूप्यमाणस्येति ।
क्वचिदङ्गिनः क्वचिदङ्गस्य तथात्वं बोध्यम् ।
तत्राङ्गिन आर्थत्वमाह—लावण्येति ।
लावण्यरूपैर्मधुभिः पूर्णं विकस्वरं चास्या आस्यं लोकलोचनरूपाणां रोलम्बानां भ्रमराणां कदम्बैः कैर्न पीयते ।
मुखे पद्माद्यारोप इति ।
मधुपूर्णता भ्रमरनिपीयमानता अत्राङ्गम् ।
रूप्यमाणम् पद्मादिकम् अत्राङ्गि ।
क्वचिदङ्गरूप्यमेवार्ऽऽथः ।
यथा—“गुणासिन्धुर्भावानिति ।
" अत्राङ्गिनः सिन्धोर्घर्मो जलं गुणे आरोप्यमाणमार्थम् ।
नचेत्यादि लावण्यं मधु इव इत्याद्युपमानसम्भवात् तद्वशेन मुखे ऽपि पद्मोपमाप्रतीतेः इत्याशङ्कार्थः ।
विकस्वरेत्याद्युत्तरम् ।
विकस्वरत्वं पुष्पधर्म एवेत्यस्तद्धर्मणि पुष्पे एव मुख्यतया साक्षात् सम्बन्धेन वर्त्तमानत्वात् इत्यर्थः ।
मुखे चेति पद्मतुल्ये मुखे स्वाश्रयसादृश्यसम्बन्धेनेत्येवं परम्परासम्बन्धरूपादुपचारादित्यर्थः ।
लोचना:
(लो, ओ) मुख्यतया वर्त्तनाद् इति ।
मुख्यतया विधेयतया ।
अयमाशयः ।
अत्र हि विषयस्यास्य रूपमवच्छाद्य, विषयिणः पद्मरूपेण रूपवत्तापादने तस्य विकस्वराख्यधर्मपरिग्रहः साधकं प्रामाणम् ।
एतच्च सङ्करनिरूपणप्रस्तावे सुव्यक्तं भविष्यतीति नेह तन्यते ।
निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ॥ विस्स्द्_१०।३२ ॥
मालाकेवलरूपत्वात्–
लोचना:
(लो, औ) केवलस्य सहयोगान्तररूपणासंयुक्तस्य ।
मालाकेवलरूपत्वं पूर्वोक्तवद् व्याख्येयम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तत्र मालारूपं निरङ्गं यथा–
“निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् ।
क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा” ॥
टीका
विज्ञप्रिया:
(वि, ज) निर्माणकौशलमिति ।
अत्र सारोपा लक्षणा ।
तत्कौशलजन्या इत्यर्थः ।
नात्रांशे रूपकम् ।
चन्दिकाक्रीडागृहद्वयरूपणात्तु मालेत्यवधेयम् ।
लोचना:
(लो, अ) निर्माणेति—अत्रैकस्यामिन्दीवरेक्षणायामनेकवस्त्वारोपात् निरवयविमाला ।
केवलं यथा–
“दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि ! नात्र दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै- र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे” ॥
टीका
विज्ञप्रिया:
(वि, झ) दासे कृतागसीति ।
उद्यतां कठोरपुलकाङ्कुररूपाणां कण्टकानामग्रेरित्यन्वयः ।
यत्र पुलकाङ्कुरेषु कण्टरूपणमात्रम् ।
लोचना:
(लो, आ) दास इति ।
दासे, स्वाधीनजने, कृतागसि कृतापराधे, प्रभूणां सेव्यानाम् ।
अत्र प्रहारे न दूये नाभ्यसूयामि ।
भिद्यते विध्यते ।
अत्र केवलमिति निरवयवरूपं समानान्तररूपणं विना एकत्रैव निरूपणणानिबन्धनात्, इहापि पुलकस्याङ्कुररूपणानन्तरं कण्टकत्वरूपपणेन रूपितरूपणम् ।
–तेनाष्टौ रूपके भिदाः ।
टीका
विज्ञप्रिया:
(वि, ञ) तेनाष्टाविति ।
श्लिष्टाश्लिष्टवाचकभेदे द्विविधस्य परम्परितरूपकस्य मालोकेवलभेदाच्चातुर्विध्यम् ।
साङ्गञ्च समस्तवस्तुविषयत्वैकदेशविवर्तित्वाभ्यां द्विविधम् ।
निरङ्गं च केवलमालात्वाभ्यां द्विविधमित्यष्टावित्यर्थः ।
लोचना:
(लो, इ) तेन तेन प्रकारेण अष्टौ, अन्यथा पुनर्वक्ष्यमाणा अपि भेदाः सम्भवन्तीत्याशयः ।
“चिरन्तनैरुक्ता” इति शेषः ।
क्वचित्परम्परितमप्येकदेशविवर्ति यथा–
“खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य” ॥
अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तम् ।
अस्य भेदस्य पूर्ववन्मालारोपत्वे ऽप्युदाहरणं मृग्यम् ।
टीका
विज्ञप्रिया:
(वि, ट) खड्गः क्ष्मेति—खड्ग एव स्त्रीत्वेनानारोपितायाः क्षमायाः पृथिव्याः सौविदल्लः अन्तः पुरस्थनपुंसकः ।
“सौविदल्लो महल्लिका"इति कोषः ।
अत्रेति ।
क्ष्मायाः स्त्रीत्वेनाऽरोपणं विना खड्गे सौविदल्लारोपस्यानुयोगेनानुपपत्तेः ।
उदाहरणं मृग्यमिति ।
यथा— “प्रसूचबाणस्य सितातपत्रमैन्द्र्या दिशश्चन्दनबिन्दुरिन्दुः ।
विराजते विष्णुपदारविन्दं मयूखविक्षालितभूमिपीठम्” ॥
इति अत्र हि प्रसूनबाणादेः राजत्वाद्यारोपः चन्द्रस्य सितातपत्राद्यारोपहेतुः ।
यदि चैकस्य वाच्यस्य रूप्यस्य साधकान्यनेकान्यन्यानि रूपकाण्येव माला इत्यभिप्रायः, तदा “राकाया नभसश्चन्द्रः पुण्डरीकं शशस्य च” इत्युदाहार्य्यम् ।
अत्र हि शशिनि रूप्यमाणे पुण्डरीके वाच्ये राकायाः पदहस्तलक्ष्मीत्वं गगनस्य सरोरत्वं शशस्य भ्रमरत्वं चार्थसाधकम् ।
लोचना:
(लो, ई) सौविदल्लो ऽवलोधाध्यक्षः ।
अत्रेति ।
अयमर्थः-अत्र क्ष्मायां महिषीत्वरूपणस्यार्थत्वाद् एकदेशविवर्तिरूपकम्, तद्रूपणस्य च खड्गस्य सौविदल्लत्वरूपणहेतुत्वात् परम्परितमिति ।
इह च क्ष्मायां महिषीत्वरूपणं विना खड्गस्य सौविदल्लत्वरूपणं नोपपद्यते ।
सावयवैकदेशविवर्त्तिनि तु वाक्यरूपणं स्वयमनुपपन्नमेव ।
सामर्थ्यात्त्वन्यदाक्षिपतीति वेवेकः ।
मृग्यं लक्ष्येष्वित्यर्थः ।
यथा—
“अस्ति स्वस्त्ययनं श्रियः सुचरितं द्राघीयसः श्रेयसः सौन्दर्य्यस्य रसायनं निरवधेः शीलस्य लीलायितम् ।
विद्यानामधिदैवतं निरुपधेः शौर्य्यस्य विस्फूर्जितं श्रीभानुस्त्रिकलिङ्गमङ्गलपदं गङ्गान्वये भूपतिः” ॥
अत्र श्रीप्रभृतीनां प्राणिविशेषत्वरूपणम् आर्थं स्वस्त्ययनरूपणे हेतुः ।
दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गे ऽपि रूपके ॥ विस्स्द्_१०।३३ ॥
टीका
विज्ञप्रिया:
(वि, ठ) साङ्के ऽपि रूपके इति ।
सास्तवस्तुविषयैकदेशविवार्त्तित्वेन द्विविधे साङ्गे इत्यर्थः ।
लोचना:
(लो, उ) क्वचिदेकदेशे आरोप्या आरोपविषयवाचके पदे व्यङ्ग्यतया निर्दिष्टाः
तत्रैकदेशविवर्ति श्लिष्टं यथा मम–
“करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः” ॥
समस्तवस्तुविषयं यथा–अत्रैव “विचुम्बति-” इत्यादौ “चुचुम्बे हरिदबलामुखमिन्दुनायकेन” इति पाठे ।
टीका
विज्ञप्रिया:
(वि, ड) करमुदयेति ।
अयं सुधांशुः अमरेशदिशः प्राच्याः, मुखं विचुम्बति ।
किं कृत्वा ? उदामहीधररूपस्य स्तनस्याग्रे करं रश्मिमेव करं पाणिं निधाय, स्तनाग्रे कीदृशे गलितं तम। पटलरूपमंशुकं यत्न तादृशे ।
मुखं कीदृशं ? विकसितकुमुदरूपमीक्षणं यस्य तादृशम् ।
अत्रामरेशदिशः नायिकात्वम्, सुधांशोर्नायकत्वं चार्थम् ।
तयोर्धर्मौ स्तनदत्तहस्तविकशितनेत्ने शाब्दौ ।
करपदञ्च श्लिष्टम् ।
द्वितीयस्योदाहरणं स्पष्टम् " चुचुम्बे हरिदबलामुखमिन्दुनायकेन” इति पाठे ।
लोचना:
(लो, ऊ) करं किरणं हस्तं च ।
मुखमाद्यभागम्, वदनं च
न चात्र श्लिष्टपरम्परितम् ? अत्र हि “भूबृदावलिदम्भोलिः–” इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतम् ।
तर्हि कथं “पद्मोदयदिनाधीशः-” इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य सम्भवादिति न वाच्यम् ।
तथा हि–राजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् ।
इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् ।
टीका
विज्ञप्रिया:
(वि, ढ) नचात्रेति ।
श्लिष्टपदेन कररूपणस्य स्तनरूपणसाधकत्वात् ।
समाधत्ते—तत्र हि इति ।
परम्परितं यद् रूपकं तदेव मुख्यरूपकसाधकं नतु सादृश्यं तत्साधकम् ।
यत्र तु सादृश्यादपि मुख्यरूपकं सिद्ध्यति न तत्र परम्परितरूपकम् ।
तेन प्रकृते पर्वतसादृश्याद् उच्चत्वादेव स्तनरूपणमित्युक्तमनेन ।
ननु यदि सादृश्यासत्त्वे एव परम्परितरूपकम्, तदा " पद्मोदय” इत्यादावव्याप्तिरित्याक्षिपति—तर्हि इति ।
अव्याप्तिमुपपादयति ।
राजादेरिति ।
नतु तद्विवक्षितमिति ।
यत्तुविवक्षितं तदाह—पद्मोदयादेरेवेति ।
पद्मोदयादिश्लिष्टपदस्यैव इत्यर्थः ।
लोचना:
(लो, ए) करादिशब्दस्य श्लिष्टत्वेन श्लिष्टपरम्परितशङ्कां निराकरोति—नचेति ।
राजादौ शात्रवादिरूपे सुव्यक्तमित्यतः पूर्वमस्त्येवेति शेषः ।
पद्मोदयेत्यादौ प्रद्योतत्तेजस्वितादिकमेव सादृश्यम् ।
पद्मोदयादेरिव सकलकलं पुरमित्यादावुपमायां सकलकलत्वस्येव इत्यर्थः ।
राजदिनाधीशयोः प्रकृते योजयति–इह त्विति ।
इह करमुदयमहीधरस्तनाग्र इत्यादौ ।
तुः पुनरर्थः ।
एवं च “भ्रमिमरति " मित्यादौ विषं जलमेव विषमित्यारोपो जलदे प्रसिद्धसादृश्यभुजगस्यारोपे निमित्तमिति श्लिष्टपरम्परितमेव ।
अत्र “विद्वन्मानसहंस” इत्यादौ राजादौ हंसत्वारोपो मानसे मानसत्वारोपे हेतुरिति मन्यमाना आहुः–“नेह विषशब्दस्य द्व्यर्थता “विद्वन्मानसहंस” इत्यादाविव जलदे भुजगारोपहेतुका, किन्तु एतत्पद्यावस्थितवैद्यशास्त्रप्रसिद्धभ्रमादिमरणान्ताष्टविधगरलकार्य्यविशेषोत्थापितेति द्व्यर्थतायास्तादात्म्यारोपणं विना प्रसिद्धेरिह श्लेषालङ्कार एवेति ।
ऽ; तदयुक्तम् ।
जलदे भुजगसादृश्यस्य सकलकलं पुरमित्यादाविव विषशब्दस्य द्व्यर्थतां विनानुपपत्तेः ।
किञ्च जलदभुजगजं विषं जलमिति न घटते ।
जलदस्य भुजगताया अवास्तवत्वाद् भुजगाच्च जलजन्मानिबन्धनात् ।
तस्माद् विषमेव विषमिति रूपणमाक्षिप्यैव वाच्यरूपणं सङ्गच्छते ।
नच श्लेषमात्नेणास्तु वाच्यरूपणोपपत्तिरिति युक्तम्, श्लेषेण तादात्म्याप्रतीतेः ।
श्लेषोपपादकविशकलितप्रतीतौ व्च्यरूपणासङ्गतिः, तादवस्थ्यात् ।
अन्यथा “विद्वन्मानसहंस” इत्यादावपि तथाप्रसङ्गः स्यात् ।
“आभाति ते क्षितिभृतः क्षणदानिभेयं निस्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुत्विषो युधि हठेन तवारिकीर्त्ति- रानीय यत्र रमते तरुणप्रतापः” ॥
इह एकदेशवर्त्तिनि रूपके क्षितिभृद् राजा एव क्षितिभृत् पर्वत इति श्लिष्टम् ।
तात्रालङ्कारिकचण्डिदासपण्डितादयः राजनि पर्वतत्वारोपणं निस्त्रिंशस्य तमालवनत्वारोपणे हेतुरिति श्लिष्टपरिम्परितमाद्रियन्ते ।
तच्चिन्त्यम् ।
तथाहि क्षितिभृतो व्द्यर्थतया “विद्वन्मानसहंसऽ; इत्यादौ मानसत्वादे राज्ञो हंसत्वादिरूपणनिमित्तमिव, निस्त्रिंशस्य तमालवनत्वरूपणोपयोगित्वम् ।
अपितु हठकामुककार्य्ये ऽपीति प्रतापकीर्त्त्योर्नायिकनायिकात्वोपकरणत्वाद् इह प्रकृतसूत्रोक्तं श्लिष्टैकदेशरूप्यं सावयवैकदेशविवर्तिरूपकमेव भावितुं युक्तम्, नतु श्लिष्टपरम्परितमिति मन्यामहे ।
किञ्च श्लिष्टपरम्परिते विद्वन्मानसहंसेत्यादौ राज्ञो हंसत्वं मानसस्य मानसत्वारोपणसादृश्यं विनासिद्धम् ।
इह तु निस्त्रिंशस्य तमालवनान्तत्वं नीलिमादिनापि प्रसिद्धम् ।
किञ्च सावयवे रूपके क्वचिदेकैकस्य सादृश्याप्रसिद्धेरप्येकोभूयान्योन्यसाहाय्येन सादृश्यप्रतीतिः ।
यथा—रावणावग्रहेत्यादौ मरुदादीनां शस्यत्वादेः ।
अपिच परम्परितस्यावयवरूपणाभावादेव सावयवान्तः पातिता नोच्यते ।
केवलं मानसादिपदेषु आक्षिप्यमाणं सरोवराद्यर्थरूपं व्यङ्ग्यं हंसत्वादिसाधकमात्रम् ।
अतएवात्र क्षणदानिभेत्यस्यापि पदस्य रात्रिकालाक्षेपेण अनिः शेषं भातीति तमसो बहुलीभावात् हठरमणोपयोगितेति प्राच्यानामपि व्याख्या ।
तदेवं क्षितिभृत इत्यादि सर्वेषां रूप्यमाणानां हठरमणोपकरणत्वाद् यथोक्तमेव ज्यायः ।
“द्यामालिलिङ्ग, मुखमाशुदिशां चुचुम्ब रूद्धाम्बरः शशिकलामलिखत् करग्रैः ।
आन्तर्निमग्नचरपुष्पशरो ऽतिपाता– त्किं किं चकार तरुणो नयदीक्षणाग्निः ॥
इत्यत्र नयनाग्नेः तरुणत्वस्य प्रौढत्वरूपमर्थमादाय प्रथममभिधाया विश्रामाद् व्यञ्जनयैव युवरूपोर्ऽथः प्रतीयते ।
इह तु क्षितिभृत इत्यादौ बहूनां रूपणात् प्रतापस्य तरुणत्वरूपणं शाब्दम् ।
इतश्च रमत इत्यादिपदानां रूपकसाधकतैव, नतु द्यामालिलिङ्ग इत्यादावालिङ्गनादीनामिव समासोक्तिसाधकता ।
अन्यथा सर्वत्रैव एकदेशविवर्तिरूपकेषु समासोक्तिप्रसङ्गः स्यात् ।
हठादानीय रमत इत्यत्र कार्य्यसाम्ये ऽपि न समासोक्तिः ।
यदि हि कार्य्यलेशसाम्यं वा समाश्रित्य समासोक्तिरङ्गीकार्य्या तदेकदेशविवर्तिरूपकस्य विषयापहार एव स्यात्, तस्यानेवंविधस्व लक्ष्यस्याप्रसिद्धेः ।
यत्र वाचा रूपणं नास्ति द्यामालिलिङ्गेत्यादि समासोक्त्युदाहरणवत् कार्य्यसाम्यबाहुल्यसम्वलितत्वम्, तत्रैव सामग्षभावादप्रस्तुतनायिकातादात्म्यं प्रतीयते ।
आभातीत्यादौ च वाच्यरूपणानां बहुत्वेन कार्य्यादिसाम्यं स्वल्पतया तत्सहाय्यमेवाचरति इति ।
अरिकीर्त्त्यादेस्तादात्म्यप्रतीतिहेतुत्वं सहृदयानुभवसिद्धं नतु व्यवहारसमाहोपजीविता समासोक्तिः ।
अनयोश्च समासोक्त्येकदेशविवर्तिरूपकयोरपरमपि युक्तिजातमिहैव समासोक्तिप्रस्तावे सुव्यक्तं भविष्यतीत्यलं बहुना ।
क्वचित्समासाभावे ऽपि रूपकं दृश्यते–
“मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा” ।
क्वचिद्वैयधिकरण्ये ऽपि यथा–
“विदधे मधुपश्रेणीमिह भ्रूलतया विधिः” ।
टीका
विज्ञप्रिया:
(वि, ण) उक्तरूपकाणामेवान्तरविशेषान् प्रपञ्चयति—क्वचित्त्विति ।
“राजमण्डलराहवे” इत्यादिषु सर्वत्र समास एव तस्य दर्शितत्वात् ।
मुखं तवेति ।
स्पष्टम् ।
वैयाधिकरण्ये विभिन्नविभक्तिकत्वे ।
विदधे इति ।
तथा चात्र भ्रूलतया हेतुना मधुपश्रेणीं विधिर्विदधे इत्यर्थः ।
भ्रूलतां विधातुं मधुपश्रेणीं विदधे इति पर्य्यवसितोर्ऽथः ।
इच्छाद्वारा भ्रूलतायास्तद्विधानहेतुत्वात् ।
लोचना:
(लो, ऐ) समासमभावे ऽपि रुपकमुदाहृतमपि स्पष्टप्रतिपत्तये पुनरुदाहरति-मुखमिति ।
विदध इत्यादौ तव भ्रूलता मधुपश्रेणी इत्यर्थः ।
क्वचिद्वैधर्म्ये ऽपि यथा–
“सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्” ॥
टीका
विज्ञप्रिया:
(वि, त) क्वचिद् वैधर्म्ये ऽपि इति ।
रूप्यरूपकयोर्विरुद्धधर्मो नार्ऽथः ।
किन्तु निर्दिष्टं यत्साधर्म्यं तदभाववत्त्वमेवात्र वैधर्म्यम् ।
सौजन्याम्बिति ।
अत्र कलियुगे यैर्दुराशया एषा राजावली नृपश्रेणी सेविता भक्तिमात्रसुलभे शूलिनि तेषां सेवा कियत् कौशलम् ।
राजावली कीदृशी ? सौजन्यरूपस्याम्बुनो मरुस्थली ।
अत्राभिन्नत्वेन निर्दिष्टयोः सौजन्याम्बुनोरुभयधर्मता इति ।
तयोरभावत्वमेव द्वयोर्मरुराजावल्योर्यथोक्तं वैधर्म्यम् ।
एवमुत्तरोत्तरं बोध्यम् ।
सुचरितरूपं यदालेख्यं वस्तु, तस्य द्युरूपा गगनरूपा भित्तिराश्रयः ।
गुणरूपायाः ज्योत्स्त्रायाः कृष्णचतुर्दशी ।
सरलतायोगश्वपुच्छच्छटा ।
अत्र छटापदं स्वरूपार्थकम् ।
तथा सरलतायाः योगस्य सम्बन्धस्य कुक्कुरपुच्छस्वरूपेत्यर्थः ।
सर्वत्र निर्दिष्टधर्माभावो बोध्यः ।
लोचना:
(लो, ओ) वैधर्म्येण, वैपरीत्येन, समानधर्मरूपतानापन्नेन ।
सरलता सन्मार्गता, वक्रताविरहश्च ।
अत्र वैधर्म्येण परम्परितरूपकम् ।
इदं मम ।
अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वे ऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनम् ।
एवं वक्ष्यमाणालङ्कारेषु बोध्यम् ।
लोचना:
(लो, औ) ननु पद्मोदयेत्यादौ परम्परितादेः शब्दान्वयव्यतिरेकानुविधायित्वात्कथं वार्ऽथालङ्कारमध्ये गणनमित्यत आह—अत्रेति ।
शब्दश्लेषमूलत्वे ऽपि शब्दद्व्यर्थतायाः शब्दान्वयव्यतिरेकानुविधानप्रयोजकत्वादुक्तरीत्या यद्यपि शब्दालङ्कारतैवोचितेति भावः ।
वक्ष्यमाणालङ्कारा विरोधादयः ।
वक्ष्यमाण इत्युपलक्षणम् ।
तेन उक्तायां शब्दसाधारणधर्मायामुपमायामपि ज्ञेयमिति शेषः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् ।
तदेवाधिकारूढवैशिष्ट्यसञ्ज्ञकम् ।
यथा मम–
“इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः” ॥
टीका
विज्ञप्रिया:
(वि, थ) रूपकान्तरमाह–अधिकेति ।
रूप्यमाणेन व्यक्तिविशेषेणापरप्रसिद्धतत्सजातीयतो ऽधिकमारूढं वैशिष्ट्यं तदित्यर्थः ।
तदेव तन्नामकमेव ।
इदं वक्त्रमिति ।
कलङ्कविरहो वैशिष्ट्यं रूप्यमाणशशधरव्यक्तिविशेषेण आरूढम् ।
एवमुत्तरत्र सुधाधाराया आधारो ऽधरश्चिरकालस्थमेव परिणतं पक्कं बिम्बम् ।
अत्र एक्कस्य चिरकालस्थितिर्वैशिष्ट्यम् ।
परार्द्धं स्पष्टम् ।
एवं च— “असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे” ॥
इत्यत्रायमप्यलङ्कारो मालारूपो बोध्यः ।
असम्भृतत्वानासवाख्यत्वपुष्पभिन्नत्वरूपवैशिष्ट्यारोहणात् ।
लोचना:
(लो, अ) अधिकारूढं वैशिष्ट्यं विशेष आर्थादारोप्यमाणादारोपविषयस्य यत्रेत्यर्थः ।
अवगाहे सुखतर इत्यत्र लवणेदधिर्मकरतरङ्गलवणादिसद्भावादवगाहकानां सुखावहो न भवतीत्याशयः ।
अधिकं वैशिष्ट्यमर्थात् सुखादेः ।
प्रस्थानान्तरे चेदमेकगुणहानौ विशेषोक्तिरिति ।
“असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे” ॥
इहासम्भृतं मण्डनमित्यत्र केचिदाहुर्विभावनाख्यो ऽलङ्कार इति, तन्न ।
न खलु सम्भरणपुष्पे मण्डनास्त्रयोः कारणे, किन्तु तत्स्वरूपे ।
अन्ये त्वाहुः, परिणामो ऽयमिति ।
तदप्यसत्, तत्कार्य्यस्य शरीरशोभाकरणस्य मदनोद्दीपनस्य च प्रस्तुत्वेन केनचिद् अनुसन्धीयमानत्वाभावात् ।
राघवानन्दमहापात्रास्त्वाहुः- अधिकारूढवैशिष्ट्यं रूपकमिदमिति ।
तदपिचिन्त्यम् ।
आरोपविषयस्यारोप्यमाणात् केनचिदंशेन वैशिष्ट्यस्यैतत्प्रयोजकत्वात् तत्स्वरूपत्वम् ।
तेनात्र “अयं राजा अपरः पाकशासनःऽ; “अन्यदेवाङ्गलावण्यम्ऽ; इत्यादिवद् अतिशयोक्तिरेव भवितुं युक्तेति मामकः पक्षः ।
अध्यवसायस्य स्फीततयानुभूयमानत्वात् ।
रूपकस्य च आरोपमूलत्वात् ।
अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् ।
विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥ विस्स्द्_१०।३४ ॥
परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा ।
टीका
विज्ञप्रिया:
(वि, द) परिणामालङ्कारमाह—विषयात्मतयेति ।
विषयो रूपणाधिकरणम्, प्रकृतार्थोपयोगिन्यनुष्ठीयमानार्थोपयोगिनि आरोप्ये, आरोप्यस्य परिणाम् इत्यर्थः ।
तुल्यातुल्येति ।
अभिन्नाभिन्नविभक्तिक इत्यर्थः ।
लोचना:
(लो, आ) विषय आरोपविषयः, तदात्मतया, तद्रूपतया नतु रूपकवत् तदुपरञ्जकत्वमात्रेण ।
एवं चास्य विषयात्मत्वेन, प्रकृते कार्य्योपयोगित्वेन रूपकाद् व्यवच्छेदः ।
रूपके विद्यमानाया अपि तादात्म्यप्रतीतेर्न पर्य्यन्तं गन्तुमाकाङ्क्षा इत्याशयः ।
परिणामालङ्कारस्य तथाभूतो रूप्यमाणो विद्यते यद् एतद्द्विप्रकारं परिणामं नाम निर्वक्ति ।
आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः ।
लोचना:
(लो, इ) आरोप्येति—परिणमनस्थाननिवेशेन तद्रूपतापत्तेः ।
नतु सतो धर्मिणो वै पूर्वरूपपरित्यागेन रूपान्तरापत्तेरिति भावः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“स्मितेनोपायनं दूरादागतस्य कृतं मम ।
स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया” ॥
अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते ।
अत्र तु नायकसम्भावनद्यूतयोः स्मिताश्लेषरूपतया ।
टीका
विज्ञप्रिया:
(वि, ध) स्मितेनेति ।
अत्राभेदे तृतीया ।
अत्र स्मिते आरोप्यमाणमुपायनं वास्तवस्मिततयैव परिणतम्, तच्चानुष्ठीयमानसम्भावनोपयोगि ।
स्तनोपपीडमिति ।
स्तनावुपपीड्याऽश्लेष इत्यर्थः ।
अत्राऽश्लेषे आरोप्यमाणः पणो वास्तवश्लेषतयैव परिणतः अनुष्ठीयमानद्यूतोपयोगी ।
उभयत्रानुष्ठीयमानार्थोपयोगं दर्शयति—अन्यत्रेति ।
सम्भावनद्यूतयोरित्यत्रोपयुज्येते इत्यस्यान्वयः ।
आरोप्यमाणयोरुपायनपण्योः स्मिताश्लेषरूपतयेत्यत्र परिणाम इति शेषः ।
प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन ।
रूपके “मुखचन्द्रं पश्यामि” इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः ।
इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसम्भावनादावुपयोगः ।
अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन ।
टीका
विज्ञप्रिया:
(वि, न) रूपके आरोप्यमाणस्यानुष्ठीयमानार्थोपयोगो नास्तीति दर्शयति—रूपके इति ।
उपरञ्जकत्वमात्रं शोभाबोधकत्वमात्रम् ।
नत्विति ।
उपयोगो निर्वाहकत्वं चन्द्रेण दर्शनानिर्वाहात् ।
प्रकृते तु निर्वाहकत्वमस्त्येवेत्याह ।
इह त्विति ।
तदात्म्यमित्यत्र उपयुज्यते इति शेषः ।
तादात्म्यस्योपयोगप्रदर्शनं परिणामतः उपायनादेरेवोपयोगप्रदर्शनपर्य्यवसन्नं बोध्यम् ।
उपायनेन सम्भावनस्य पणेन द्यूतस्य च निर्वाहात् ।
तदेव विशदयित्वा दर्शयति—प्रकृते चेति ।
उपयोगः सम्भावनद्यूतयोर्निर्वाहकत्वेनोपायनपणयोः स्मिताश्लेषाभेदेनान्वयैत्यर्थः ।
स चान्वयो ऽनारोपित इत्यतो निर्वाहकता ।
आरोपे तु न निर्वाहकतेत्याह—अतएवेति ।
अनारोपे सत्येव निर्वाहकत्वादेवेत्यर्थः ।
अवच्छेदकत्वेन अवास्तवत्वेन ।
प्रकृते तु वास्तवत्वेन इत्याह—अत्र चेति ।
तादात्म्यं वस्तवो ऽभेदः ।
लोचना:
(लो, ई) कविनिबन्धाहार्य्यतादात्म्ये ऽप्यारोपस्यैव रूपकप्रयोजकत्वादित्यवच्छेदकत्वमात्रेण ।
उपरञ्जकत्वामात्रं चारुत्वातिशयप्रकटनमात्रम् ।
तुश्चार्थः ।
तादात्म्यं तत्र निवेशः स्मितादेः उपायनत्वमस्ति तद्विशेषकत्वात् ।
मुखादेश्चन्द्रादित्वं न तथेति भावः ।
“दासे कृतागसि-” इत्यादौ रूपकमेव, न तु परिणामः ।
आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् ।
न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते ।
टीका
विज्ञप्रिया:
(वि, प) दासे कृतागसीत्यादिश्लोकीयरूपके तु परिणामाप्रसक्तिं दर्शयति—दासे इति ।
नन्वत्र कथं रूपकमेवेत्युक्तं सूक्ष्माग्रत्वेन कठोरत्वेन च पुलकाङ्कुराणां कण्टकभेदस्य वास्तवत्वादेवेत्याह—आरोप्यमाणेति ।
पादभेदः कार्य्यं यस्य तादृशस्यारोप्यमाणकण्टक्सय पुलकरूपस्येत्यर्थः ।
अत्र यद्यपि पुलकस्य कण्टकारोपविषयत्वमेव कण्टकत्वेनारोप्यमाणत्वं यथापि पादभेदकार्य्यकत्वे ऽनारोप्यमाणस्येत्यर्थः ।
तथाच तत्कार्य्यनिर्वाहकत्वं यतस्तस्यारोप्यमाणमतस्तस्य कण्टकत्वमपि न वास्तवम् ।
किन्तु आरोप्यमाणमेवेत्यतो रूपकमेवेत्यर्थः ।
ननु पादभेदकार्य्यनिवार्हकत्वमेव पुलकाङ्कुराणामस्ति ।
तत्कथमवास्तवत्वमित्याह—न खल्विति ।
तत्पुलकाङ्कुराग्रं कस्यचिदपि–भेदो हि प्रस्तुतं कार्य्यम् ।
कस्यचिदपि पादीयभेदस्यान्यदीयभेदस्य वा कस्यचिद् घटनार्थमित्यर्थः ।
इत्थं रूपकाभिन्नतया परिणामः सिद्धः ।
एवम् — “शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं सुरतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम्” ॥
इत्यत्रापि गुरुदक्षिणायाः सुरतिनैपुण्येन परिणामात् परिणआमालङ्कार एवेति बोध्यम् ।
अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते ।
यथा–
“वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः” ॥
अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगो ऽतलपूरत्वेनाधिकारूढवैशिष्ट्यम् ।
टीका
विज्ञप्रिया:
(वि, फ) वनेचराणामिति ।
यत्र हिमालये औषधय एव रजन्यां वनेचराणां वनितासखानां सुरतप्रदीपा भवन्ति इत्यन्वयः ।
प्रदीपीभावे हेतुमाह—दरीगृहेति ।
अतैलपूराः तैलपूरणरहितास्तैलसमूहरहिता वा ।
अत्र प्रदीपीभावस्य प्रकृतार्थोपयोगित्वं दर्शयति—अत्रेति ।
प्रकृते सुरतोपयोग्यन्धकारनाशे प्रदीपानामौषध्यात्मतया उपयोग इत्यन्वयः ।
औषध्यात्मतया परिणामस्येत्यपि क्वचिन्धोभनः पाठः ।
औषध्यात्मतया प्रकृत इति क्वचित्प्रामादिकः पाठः ।
नच सुरतमेव शाब्दं प्रकृतं नान्धकारनाशः; तस्याशाब्दत्वादिति वाच्यम् ? सुरतोपयोगित्वेन तस्यापि प्रकृतत्वात् ।
सन्देहः प्रकृते ऽन्यस्य संशयः प्रतिभोत्थितः ॥ विस्स्द्_१०।३५ ॥
शुद्धो निश्चयगर्भो ऽसौ निश्चयान्त इति त्रिधा ।
टीका
विज्ञप्रिया:
(वि, ब) सन्देहालङ्कारमाह—सन्देह इति ।
प्रतिभया उत्थितो ऽन्यस्याप्रस्तुतार्थकोटेः प्रस्तुते वस्तुनि यः संशयः स सन्देहालङ्कार इत्यर्थः ।
लोचना:
(लो, उ) सन्देहः सन्देहाख्यो ऽलङ्कारः ।
प्रकृते वर्ण्यमाने अन्यस्य आरोप्यमाणस्य ।
एवं च प्रकृतसन्देहे ऽप्रकृतमपि सन्दिह्यत एव ।
एवं च प्रकृताप्रकृतविषयसंशयज्ञानं सन्देहालङ्कारः इत्यर्थः ।
संशयश्च व्यवस्थानाद्यनेककोटिकज्ञानम् ।
एवञ्च संशय इत्येतावतैव लक्षणे पर्याप्ते प्रकृते अन्यस्येति वचनं “मध्यं तव " इत्यादि वृत्त्युदाहरिष्यमाणव्यवच्छेदार्थम् ।
प्रतिभोत्थित इति, प्रतिभा कवेः, तया उत्थितः आदृतः,एवञ्च कविवर्णितस्यापि “स्थाणुर्वा पुरुषो वा” इति संशयस्य नालङ्कारता ।
एतदेव वृत्तौ स्फुटीभविष्यति ।
अप्रतिभोत्थापित इत्यादिना ।
यत्र संशय एव पर्यवसानं स शुद्धः ।
यथा–
“किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारान्निधेः ।
उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः” ॥
टीका
विज्ञप्रिया:
(वि, भ) किं तारुण्येति ।
इयं नायिका किं लावण्यतरोः नवा वल्लरी ! लावण्यरूपतर्वाश्रिता नवा लतेत्यर्थः ।
कीदृशी रसभरोद्भिन्ना शृङ्गररस एव रसोजलं तेनोद्भिन्नो जलसेकेन लतोद्भेदात् ।
किंवा वेलया नीरेण प्रोच्छलितस्य उच्छलितस्य लावण्यरूपस्य वारान्निधेः समुद्रस्यलहरिका तरङ्गः ।
“वेला स्यान्नीरतीरयोः” इति कोषः ।
किं वा शृङ्गारिणो देवस्य कन्दर्पस्य अर्थात् शृङ्गारार्थमुद्दमोत्कलिकानतां गाढोत्कण्ठावतां जनानां स्थाने उपदेशस्य अर्थात् शृङ्गारोपदेश्स्य साक्षाद् वष्टिणलम्बनभूता यष्टिः ।
एनामालम्ब्य शृङ्गारो ऽनुभूयतामित्युपदेशः ।
देवस्य कीदृशस्य स्वसमयस्य वसन्तस्य उपन्यासेन विश्रम्मिणो विश्वस्तस्य ममेदानीमुपदेशो योग्य इत्यवें विश्वासवत इत्यर्थः ।
असन्दिहानत्वमेव विश्वासः ।
लोचना:
(लो, ऊ) रसः तारुण्यपक्षे—भोगभिलाषः, पक्षे सामान्यद्रवः ।
वेलालावण्यपक्षे-सामान्यमर्य्यादा, समुद्रपक्षे-तटम् ।
उच्छलितम् उत्सर्पणम् अतिक्रमः ।
उत्कलिका उत्कण्ठा ।
स्त्रसमयोपन्यासविश्रम्भिणः स्वसम्मतार्थकथने विश्वासप्रवर्त्तकस्य साक्षाद् उपदेशयष्टिः, यष्ट्याकारमूर्त्तिमत्त्वेन प्रत्यक्षमुद्देशः ।
यद्वा उपदेशार्थं यष्टिः, ताडनवेत्रादिदण्डः ।
तथाहि—यस्याः कस्या अपि विद्याया उपदेष्टारः चपलचित्तनिवारणाय ताडनार्थं यष्टिमाददते इति लोकप्रसिद्धः ।
यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः ।
यथा–
“अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति पुनः समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः” ॥
लोचना:
(लो, ऋ) सर्वा दिशो न प्रसरति, किन्तूर्ध्वमेव ज्वलतीति प्रसिद्धम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासम्भवात्
टीका
विज्ञप्रिया:
(वि, म) मध्ये च निश्चय इति ।
एककोटेर्व्यातिरेकनिश्चय इत्यर्थः ।
अयमिति ।
आजौ युद्धे त्वां समालोक्य प्रतिभटाः प्रतिकूलवीरा इत्येवं वितर्कान् विदधति कुर्वान्ति ।
तान् वितर्कान् आह—अयमिति ।
इतो गतः ।
सर्वा दिश इति ।
कृशानुः सर्वा दिशो न प्रसरति ।
अयं तु सर्वदिक्प्रसारी, अतो न कृशानुरित्यर्थः ।
साक्षात् कृतान्त इत्यन्वयः ।
महिषवाहनत्वाभावान्न कृतान्त इत्यर्थः ।
अत्र मार्त्तण्डाद्यभावनिश्चयो मध्ये ।
ननु विरुद्धकोट्यभावनिश्चयाद्राजकोटिनिश्चयो ऽपीत्यत आह—राजत्वनिश्चय इति ।
यत्रादौ संशयो ऽन्ते च निश्चयः स निश्चयान्तः ।
यथा–
किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्वकसवासिनां परोक्षैः” ॥
टीका
विज्ञप्रिया:
(वि, य) किं तावदिति ।
नायिकायामपि सरस्त्वाशङ्का बोध्या ।
आराद् एतत् किमित्यर्थः ।
विव्वोकैः “विव्वोकस्त्वतिगर्वेण वस्तुनीष्टे ऽप्यनादर"इति ।
एवंलक्षणैः स्त्रीणां हावविशेषैरित्यर्थः ।
कीदृशैः बकसहवासिनां परोक्षैः–बका हि मत्स्यनिश्चयार्थं ध्यायिनस्तत्सहवासिनस्ततः शिक्षितध्यानास्तेषामपि परोक्षैः अप्रत्यक्षैः ।
अतिदुरूहत्वादत्यन्तध्यानेनैव ज्ञेयैरित्यर्थः ।
अप्रतिभोत्थापिते तु “स्थाणुर्वा पुरुषो वा” इत्यादिसंशये नायमलङ्कारः ।
लोचना:
(लो, ॠ) विव्वोको, भावविशेषः ।
यदुक्तमत्रैव “विव्वोकस्त्वतिगर्वेण वस्तुनीष्टे ऽप्यनादर” इति ।
बकसहवासिनां पद्मानां परोक्षैरगोचरैः ।
अप्रतिभोत्थापिते इत्यनन्तरं काव्योपनिबद्धे ऽपीति शेषः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“मध्यं तव सरोजाक्षि ! पयोधरभरादितम् ।
अस्ति नास्तीति सन्देहः कस्य चित्ते न भासते” ॥
अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् ।
टीका
विज्ञप्रिया:
(वि, र) एकमसादृश्यमूलकाहार्य्यसंशयान्तरे ऽपि नायकलङ्कार इत्याह—मध्यं तवेति ।
सन्देहः कस्य चित्ते न भासते इत्यन्वयः ।
तत्रातिशयोक्तिः इति वक्ष्यमाणायाः पञ्चविधाया अतिशयोक्तेर्भेदे ऽप्यभेदारोपरूपप्रभेद एवात्रेत्यर्थः ।
नास्ति यः पदार्थः तदसत्त्वे ऽपि तदभेदारोपरूपत्वात् ।
नन्वेवं सन्देहालङ्कारे ऽप्येवमारोपो ऽस्त्येवेत्यत आह—उपमेयेति ।
तथाचानयोरलङ्कारयोः परस्परभेदो निवेशनीय इति भावः ।
लोचना:
(लो, ऌ) अतिशयोक्तिरेवाध्यवसायमूलत्वात् ।
साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः ॥ विस्स्द्_१०।३६ ॥
लोचना:
(लो, ए) मिथ्याज्ञानसादृश्येन सन्देहानन्तरमस्य प्रस्तावः ।
भ्रान्तिश्चित्तधर्मविशेषो विद्यते यत्र भ्रमप्रकारे स भ्रान्तिमान् इत्यन्वर्थनामालङ्कारः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि ।
कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका” ॥
टीका
विज्ञप्रिया:
(वि, ल) भ्रान्तिमदलङ्कारमाह—साम्यादिति ।
तद्वुद्धिस्तत्त्वेन बुद्धिः ।
मुग्धा इति ।
चन्द्रमसः सान्द्रा चन्द्रिका कस्य जनस्य चित्तविभ्रमं न कुरुते इत्यर्थः ।
भ्रान्तान् दर्शयति—मुग्धा इति ।
बल्लवाः गोपाः मुग्धा भ्रान्ताः सन्तः दुग्धधिया गवामधः कुम्भान् विदधते दुग्धमादातुमित्यर्थः ।
कैरवशङ्कया इत्यत्र शङ्काभ्रम एव ।
कर्कन्ध्विति ।
बदरफलमित्यर्थः ।
आकाङ्क्षा चात्र भ्रममूलिका ।
लोचना:
(लो, ऐ) कर्कन्धूर्बदरी ।
अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः ।
लोचना:
(लो,ओ) प्रतिभोत्थापितेति लक्षणपदस्य व्यावृत्तिं दर्शयति—स्वरस ज्ञत ।
स्वारसः स्वभावः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–“शुक्तिकायां रजतम्” इति ।
लोचना:
(लो, औ) शुक्तिकायां रजतभ्रान्तिरित्यर्थः ।
स्वरस इत्यतः पूर्वं काव्ये ऽपीति शेषः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
न चासादृश्यमूला ।
यथा–
“सङ्गमविरहविकल्पे वरमिह न सङ्गमस्तस्याः ।
सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे” ॥
टीका
विज्ञप्रिया:
(वि, व) प्रतिभोत्थितेत्यस्य व्यावृत्तिमाह—स्वरसेति ।
असादृश्यमूलकम्रमे ऽपि नायमलङ्कार इत्याह—नचासादृश्येति ।
सङ्गमेति ।
सङ्गमविरहयोः विकल्पे वरन्त्वविचारे इत्यर्थः ।
वरं मनागिष्टम् ।
न चात्रापि त्रिभुवने तत्सादृश्यभ्रमात्तद्भ्रम इति वाच्यम् ।
सादृश्यांशे ऽभ्रमस्यैव विवक्षितत्वात् ।
तथाच सङ्गमाद् विरहस्याधिक्याद् व्यतिरेकालङ्कारः एवायमिति भावः ।
एवं च लोभादिना भ्रमे ऽपि न भ्रान्तिमान् ।
यथा “जगद्धनमयं लुब्धाः कामुकाः कामिनीमयम् ।
नारायणमयं धीराः पश्यन्ति परमार्थिनः ॥
“इति ।
नचात्र धनभेदे ऽपि धनाभेदारोपारूपातिशयोक्तिरेवात्रेति वाच्यम् ।
अतिशयोक्तिघटकस्य आरोपस्य आहार्य्यत्वे एव तथात्वात् ।
अत्र तु प्रथमे चिन्तारूपव्यभिचारिभावध्वनिः ।
द्वितीये शृङ्गारध्वनिः ।
तृतीये भावध्वनिरेव ।
लोचना:
(लो, अ) साम्यादित्यस्य व्यावृत्तिर्नचेत्यादि ।
क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥ विस्स्द्_१०।३७ ॥
टीका
विज्ञप्रिया:
(वि, श) उल्लेखालङ्कारमाह—क्वचिद्भेदादिति ।
एकस्य वस्तुनो ऽनेकधा अनेकत्वेनोल्लेखो बुद्धैविषयत्वमित्यर्थः ।
तादृशबुद्धेर्हेतुद्रयमाह—क्वचिद्भेदादिति ।
क्वचिन्नानाग्रहीतॄणां तत्तद्रूपेणानेकत्वबुद्धिः ।
क्वचित्तु तादृशबुद्धिप्रयोजकधर्मरूपाणां विषयाणां भेदादेकस्यैव ग्रहीतुस्तथात्वबुद्धिविषयत्वमित्यर्थः ।
तेनास्य द्वैविध्यम् ।
क्रमेणोदाहरणम्–
“प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।
नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः” ॥
टीका
विज्ञप्रिया:
(वि, ष) प्रिय इतीति ।
देवः श्रीकृष्णस्तैस्तैः सममित्यग्रहीत्यर्थः ।
तत्तदेवाह–प्रिय इत्यादि ।
प्रियः स्वामी ।
सागरशायिरूपनीरूपत्वेन भेदान्नारायणब्रह्माणोर्भेदः ।
“आपो हि नाराः” तदयनः तत्स्थो नारायणः जलशायी इत्यर्थः ।
अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः ।
टीका
विज्ञप्रिया:
(वि, स) तत्तद्गुणे इति ।
तादृशबुद्धिप्रयोजकतत्तद्गुण इत्यर्थः ।
सच प्रिय इत्यत्र सौन्दर्यरूपः, शिशुरित्यत्र स्त्रेहविषयत्वम्, अधीश इत्यत्रैश्वर्य्यम्, नारायण इत्यत्र ध्यानोपयोगिमूर्त्तिमदभिन्नत्वम्, ब्रह्मेत्यत्र तद्व्यावृत्तस्वरूपाभिन्नत्वम् ।
रुच्यादयः प्रयोजका इति ।
तथाच तादृशरुचिमन्तो ग्रहीतारो भिन्ना इति दर्शितम् ।
यदाहुः–
“यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो ऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः” ॥
टीका
विज्ञप्रिया:
(वि, ह) रुच्यादीनां तद्वुद्धिप्रयोजकत्वे संवादमाह—यथारुचीति ।
एकस्मिन्नर्थे अनुसन्धानेन मनोनिवेशेन साधित आभासः ज्ञानं बुद्धिरपि यथारुच्यादि—भेदात् भिद्यत इत्यर्थः ।
रुचिरिच्छा, अर्थित्वं किञ्चित् प्राप्त्यर्थमिच्छारूपा ।
व्युत्पत्तिः संस्कारः ।
लोचना:
(लो, आ) व्युत्पत्तिरभ्यासकृता वासना, वा प्रतीतिः ।
अनुसन्धानं मनसस्तद्विषये प्रविणीकरणम् ।
तेन साधितः विषयान्तरं व्यवच्छिद्य निर्वाहितः ।
एवं च प्रिय इत्यादौ भगवतः प्रियत्वे गोपवधूनां रुच्यादित्रितयमपि प्रयोजकम् ।
शिशुत्वे च वृद्धानां व्युत्पत्तिः ।
सच्चिदानन्दब्रह्मत्वे योगिनां व्युत्पत्तिः एवमन्यत्र ।
अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद् ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् ।
न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः ।
तथाहि–“अन्यदेवाङ्गलावण्यम्-” इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानम् ।
न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् ।
टीका
विज्ञप्रिया:
(वि, क) अत्र मालारूपकप्रसाक्तिं निरस्यति—अत्र भगवत इति ।
वास्तवत्वेन अहार्य्याभेदारोपात्मकरूपकाप्रसाक्तिः ग्रहीतृभेदाच्च न तन्मालात्वप्रसाक्तिः; मालाया ग्रहीतृभेदाविवक्षमाणादेव ।
यद्यपि वास्तवत्वेन रूपकाप्रसक्तौ मालारूपकप्रसक्तिरपि तत एव निरस्ता तथापि ग्रहीतृभेदप्रदर्शनं मालापरिणामप्रसक्तिवारणसूचनार्थम् ।
वास्तवत्वेन तत्प्रसक्तिसत्त्वे ऽपि ग्रहीतृभेदस्य तद्वाधकत्वादिति हेतुः ।
अप्रसक्तमप्यतिशयोक्तिप्रभेदविशेषं वैशद्याय निरस्यति—नचायमभेद इति ।
तत्प्रभेदस्योदाहरणं प्रदर्शयते ।
तत्प्रसक्तिर्नास्तीत्याह—तत्र हीति ।
तत्रातिशयोक्तिप्रभेदे पृथक्त्वेन तत्रैव तदन्यत्वेन ।
नचेहेति ।
इह प्रिय हत्याद्युल्लेखोदाहरणे ।
प्रियतान्यथेति ।
प्रियतातः अन्यथा इत्यर्थः ।
किन्तु प्रियत्वाद्यध्यवसीयते इति क्वचित् प्रामादिकः पाठः ।
स चाध्यवसीयत इत्यत्र निरस्यते इत्येवं लक्षणया समर्थनीयः ।
तात्त्विकत्वादित्यन्यत्वेनाबोधितत्वादित्यर्थः ।
तात्त्विकबुद्ध्या च नाहार्य्यारोपरूपं रूपकं चेत्युक्तम् ।
लोचना:
(लो, इ) भगवतस्तत्काले तात्त्विकत्वाद् ग्रीतृभेदाच्चेति हेतोर्द्वयमपि मालारूपकभ्रान्तिमतोर्द्वयोरपि विवेकः ।
तात्त्विकं वस्तुतस्तद्रूपतायाः सम्भवात् ।
तथा मालारूपकस्य कविनिबद्धाहार्य्यतादात्म्यारोप एव प्रयोजकः ।
भ्रान्तिमतश्च मिथ्या ज्ञानमेव निदानम् ।
ग्रोतृभेदस्य च द्वयोरपि सम्भवे ऽपि अपवादत्वेन उल्लेखाख्यभिन्नालङ्कारस्य न प्रयोजकत्वमिति भावः ।
नाचाध्यवसीयते ; किन्तु तत्त्वेनैवावसीयते ।
अध्यवसानं विषयनिगरणेन विषयिणोरभेदप्रतिपत्तिः ।
केचिदाहुः–“अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः ।
उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावे ऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः ।
टीका
विज्ञप्रिया:
(वि, ख) अलङ्कारान्तरसङ्करात् तद्भङ्गिमूल एव नियमेनायमलङ्कार इति केचिदाहुः तद्दर्शयति—केचिदिति ।
विच्छित्तिर्भङ्गिः ।
उक्तोदाहरणेषु तां विच्छित्तिं दर्शयति—उक्तेति ।
नियमाभिप्रायादिति ।
वृद्धैश्च शिशुरेवाग्राहि इत्येवं नियमाभिप्रायदित्यर्थः ।
अतिशयोक्तिरस्तीत्यग्रे ऽन्वयः ।
तथाच यूनि देवे शिशुभिन्ने ऽपि नियमतः शिश्वभेदारोपाद् भेदे ऽप्यभेदारोपारूपातिशयोक्तिर्दर्शिता ।
अत्र च नियमप्रदर्शनं तेषां तथात्वेन भावनातिशयप्रदर्शनार्थमेव, नतु तस्यातिशयोक्तिघटनार्थतेति बोध्यम् ।
प्रिय इत्याद्यंशे ऽपि तमेवातिशयोक्तिं दर्शयति—प्रिय इत्यादीनामिति ।
अत्र च भेदे ऽप्यभेदारोपरूपाया अतिशयोक्तेरेव सम्भवः ।
तथा च भिन्नार्थाध्यवसाय इत्यत्र भिन्नत्ववत्यध्यवसाय इत्यर्थः ।
कस्याध्यवसाय इत्यत्राह—प्रियत्वादीनामिति ।
तथा च अस्वामिनि देवे स्वामित्वारोप एव स्वाम्यभेदारोप इत्यर्थः ।
अत्रैव केचिदित्यनेनास्वरससूचनम् ।
देव इत्यनेन आरोपविषयस्योक्तिसत्त्वे तु निगरणघटितस्यातिशयोक्तिसामान्यलक्षणस्यात्राभावात् ।
वक्ष्यमाणे “श्रीकण्ठजनपदेऽ; इत्यादौ नास्वरस इत्यवधेयम् ।
नन्वेवमतिशयोक्तिसत्त्वे स एवात्राङ्कारो ऽस्तु नोल्लेख इत्यत आह—तत्सद्भणेपीति ।
अतिशयोक्तिसत्त्वेपीत्यर्थः ।
प्रतीतिरूपविच्छित्तिविशेष अल्लेखाख्यातिशयोक्तिभिन्नस्यालङ्कारस्य प्रयोजक इत्यर्थः ।
श्रीकण्ठजनपदवर्णने–“वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः” इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः ।
इह च रूपकालङ्कारयोगः” ।
वस्तुतस्तु–“अम्बरविवरम्-” इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् ।
यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः-
“अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः” इति ।
इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति ।
टीका
विज्ञप्रिया:
(वि, ग) अतिशयोक्त्यसङ्कीर्णो ऽप्युल्लेखस्य विषयो ऽस्तीति दर्शयति—श्रीकण्ठेति ।
श्रीकण्ठनामा राजविशेषः तस्य नगरं शरणागतैः शत्रुतो भीतैः वज्रपञ्जरमित्यबोधीत्यर्थः ।
स्वप्रविष्टरक्षकत्वेन वज्रपञ्जरसादृश्यादभेदारोपरूपं रूपकमेवेत्यर्थः ।
ग्रहीतुर्भेदात् तत्सङ्कीर्ण उल्लेखः ।
नचासम्बन्धे सम्बन्धारोपरूपातिशयोक्तिरेवेयमिति वाच्यम्, स्वसादृश्यमूलकत्व एव तदवसरात् ।
शिशुरित्यत्र तु तात्त्विकत्वादेव न रूपकमित्युक्तमेव ।
असुरविवरमितीति ।
वातिकैरुन्मतैरप्रकाशरूपसादृश्यबुद्ध्या विवरमित्यर्थः ।
अतिशयोक्तेर्विविक्त इति ।
नगरस्यारोपविषयस्य स्वशब्देनैवोक्तत्वेन तन्निगरणाभावादतिशयोक्त्यप्रसक्तेरिति भावः ।
गौणीमूलेति ।
गौर्वाहीक इत्यादिवद् गौणीलक्षणमूलेति नात्रार्थः, रूपके लक्षणाभावात् ।
व्यधिकरणेनैव चन्द्रत्वेन शक्त्यैव चन्द्रपदात् मुखबोधात् ।
आरोपाधिकरणस्य प्रङ्निर्देशे रूपकं यथा—अयं चन्द्र इत्यत्र ।
“आरोपस्य प्राङ्निर्देशे तु गौणी लक्षणा, यथा गौर्वाहीक इत्यत्र ।
किन्तु आरोपाधिकरणस्यारोप्यगुणयोगात्मकसादृश्यरूपा या बुद्धिः सैवात्र गौणीपदार्थः ।
तादृशबुद्धिमूलकरूपकादिप्रयोजकत्वाद् भेदप्रतीतिपुरः सरारोपस्य इत्यर्थः ।
रूपकादीत्यादि शब्दात् सादृश्यमूलकोत्प्रेक्षाद्यनेकालङ्कारपरिग्रहः ।
तत्र मूलकत्वप्रदर्शनं च तत्पूर्वके परिणामालङ्कारे तथात्वाभावप्रदर्शनाय ।
परशब्द इत्यादि ।
परशब्दश्चन्द्रादिशब्दो गवादिशब्दश्चेत्यर्थः ।
परत्र मुखादौ वाहीकादौ च ।
लक्ष्यमाणेति ।
लक्ष्यमाणो ज्ञायमानो य आरोपस्य गुणो धर्म आरोपाधिकरणस्य तद्योगेनेत्यर्थः ।
परत्र वृत्तिश्च रूपके व्यधिकरणप्रकारेण शक्त्यैव ।
गौर्वाहीक इत्यादौ गौणीलक्षणास्थले तु लक्षणयेति विशेषः ।
वर्त्तत इतीति ।
सम्प्रतिपत्तिर्यत्र शब्दे प्रयोक्तृप्रतिपत्रोः स शब्दो गौण इत्यर्थः ।
स चेति ।
स गुणयोग इत्यर्थः ।
तादृशगुणयोगबुद्धिस्तु असुरविवरमित्यत्र नास्तीत्याह—इव तु इति ।
लोचना:
(लो, ई) अलङ्कारान्तरविच्छित्तिर्निदानं यस्येति भावः ।
शिशुत्वादीनामित्यादिशब्देन प्रियत्वादेः सङ्ग्रहः ।
अयमर्थः–भगवतः शिशुत्वादिभेदेषु सत्स्वपि गोपवधूभिः प्रिय इत्येवायं गृह्यते न शिशुरिति ।
यथा प्रियत्वादौ सत्यपि वृद्धैः शिशुरित्येव गृह्यते ।
तदत्रानेकरूपस्यापि प्रतिग्रहीत्रैकैकभेदरूपत्वेन नियमनमिति चाभेदे भेदाध्यवसायादतिशयोक्तिः ।
यदि त्वयं प्रत्येतृभेदेन भेदे ऽतिशयोक्तिसद्भाव एव स्यात्तदातिशयोक्तिप्रकारविशेष एव स्यात् नच तथा, अलङ्कारन्तरे ऽपि सम्भवादित्याह—श्रीकण्ठेति ।
श्रीकण्ठजनपदो नाम श्रीकण्ठदेवताधिष्ठितो देशः ।
असुरविवरं सिद्धविवरम् वातिकाः पवनयोगिनः ।
यद्वा–असुरविवरं वातरोगशान्तिकरः को ऽपि रोगविशेषः ।
वातिकैः वातरोगिभिः ।
अत्राप्यलङ्कारान्तरविच्छित्तिमूलतां दर्शयति—इह चेति ।
इच्छन्ति तत्त्वज्ञा इति शेषः ।
रूपकालङ्कारयोग इति तु केषाञ्चिद् मतानुसारेणोक्तमित्यर्थः ।
कथं न रूपकमित्यत आह—भेदेति ।
भेदप्रतीतिपुरः–सरस्यैव इत्येवकारेण भ्रान्त्यादेर्व्यवच्छेदः ।
प्रथमतो ऽपि भेदप्रतीतौ भ्रान्त्यादे रभावात् ।
मुग्धा दुग्धधियेत्यादौ मिथ्याज्ञानस्य कविप्रतिभाहृतत्वेन कविना बल्लवादिनिष्ठत्वेन सत्यत्वेनोपनिबद्धत्वाद् रूपकादीत्यादिशब्देनापह्नुत्यादिसङ्ग्रहः ।
कथं तथाभूतस्यारोपस्य रूपकादिप्रयोजकत्वमित्यत आह—गौणीमूलेति ।
रूपकादेर्गौणी लक्षणाहेतुकत्वादित्यर्थः ।
तथापि कथं तत्रारोपस्य भेदप्रतीतिपुरः सरत्वमित्यत्राचार्य्यसम्मतिं शारीरमीमांसाभाष्यं श्रीमदाचार्य्यशङ्करभगवत्पादकृतम् ।
परशब्दो ऽग्निर्माणवक इत्यादौ माणवकादिशब्दः परत्र माणवकादौ तन्मते लक्ष्यमाणो गुणस्तेक्ष्णयपिङ्गलादिः ।
प्रयोक्ता वाक्यप्रयोजकः ।
प्रतिपत्ता तदर्थज्ञाता ।
स च गौणीवृत्त्या बोध्योर्ऽथः ।
प्रकृते योजयति–इह तु इति ।
भ्रान्तिकृत एव प्राच्यानां मते भ्रान्तिकृतत्वाभावे पुना रूपकमस्ति इति भावः ।
अत्र भ्रान्तिमतो ऽलङ्कारत्वे ऽपि नालङ्कारान्तरविच्छित्तिमूलत्वं हीयत इति प्रकृते न काचित् क्षतिः ।
अत्रैव च “चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः” इत्यादौ परिणामालङ्कारयोगः ।
लोचना:
(लो, उ) अत्रैव श्रीकण्ठजनपदवर्णने परिणामालङ्कारयोगः ।
श्रीकण्ठजनपदे तपोवनत्वाद्यारोपस्य मुन्यादेः प्रकृते तपः प्रभृतावुपयोगात् ।
नचेह रूपकं तपोवनत्वाद्यारोपस्य सादृश्यमूलत्वाभावात्, मुन्यादीनां तु तपोवनादिभिन्नरूपस्य तद्रूपताप्रतीतेरिह भ्रान्तिमानिति ये ।
अप्याहुः तेषामयमाशयः— श्रीकण्ठजनपदे एकदेशस्य तपोवनादित्वेप्यवयवावयविनोरभेदात्समुदायस्य तथात्वप्रतीतिरिह न तात्त्विकीति न परिणाम् इति ।
एवमत्र एषु सर्वेषु अलङ्कारान्तरविच्छित्तिसम्भवे ऽपि ग्रहीतृभेदेनानेकधोल्लेखस्य विच्छित्तिविशेषस्य सम्भवात् तत्प्रयोजितस्य उल्लेखालङ्कारस्यापलापो न शक्यक्रिय इत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“गाम्भीर्येण समुद्रो ऽसि सौरवेणासि पर्वतः” ।
इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः ।
अत्र च रूपकयोगः ।
टीका
विज्ञप्रिया:
(वि, घ) अत्रैव चेति ।
तपोनमित्यादौ परिणामयोग इत्यन्वयः ।
तपोवनत्वकामायतनत्वयोस्तत्र वास्तवत्वेन परिणामालङ्कारत्वसम्भवात् ।
नच तपोवनत्वस्य कथं तत्र वास्तवत्वमिति वाच्यम् ।
वनपदस्यात्राश्रमे लाक्षणिकत्वाभिप्रायेण परिणामालङ्कारत्वकथनात् ।
इत्थं ग्रहीतृभेदघटितमुल्लेखमुदाहृत्य विषयभेदघटितं तमुदाहरति—गाम्भीर्य्येणेति ।
विषयभेदो धर्म्मरूपविषयभेदः ।
अत्र ग्रहीत्र्यैक्यमेव ।
“गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-” इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति ।
अत्र हि श्लेषमूलातिशयोक्तियोगः ।
टीका
विज्ञप्रिया:
(वि, ङ) रूपकासङ्कीर्णमस्य विषयं दर्शयति—गुरुरिति ।
उपदेश्यरूपे वचसि विषये गुरुरुपदेष्टा इत्यर्थः ।
श्लेषाच्च बृहस्पतिरित्यर्थः ।
पृथुरिति ।
उरसि उरोवच्छेदेन पृथुर्विस्फारः श्लेषाच्च—पृथू राजा ।
अर्जुन इति ।
अत्र यशसि इत्यत्र तृतीयार्थे सप्तमी ।
यशसार्जुनो धवलः इत्यर्थः ।
श्लेषाच्च पाण्डवोर्ऽजुनः कार्त्तवीर्य्यार्जुनो वा ।
रूपकाद् विविक्त इति ।
त्वं भवानित्यनयोरन्यतरस्यापि अनुक्तिरूपान्निगरणादतिशयोक्तेरेव विषयत्वात् ।
सा चात्र भेदे ऽपि अभेदारोपरूपा ।
यदि तु त्वं भवानित्यनयोरेकतरस्य निर्देशस्तदारूपकमेव, रूपकातिशयोक्त्योरेतन्मात्र भेदात् ।
अत्र हीति ।
नच दुर्गालङ्घितविग्रह इत्यादिवदुपमाध्वनिरयमिति वाच्यम् तत्र विशेष्यस्य श्लिष्टोमावल्लभपदस्येवात्र विशेष्यपदाभावात् त्वम्पदसत्त्वे ऽपि रूपकमेव नोपमाध्वनिस्तस्य श्लिष्टत्वाभावात् ।
लोचना:
(लो, ऊ) एवं ग्रीतृभेदे उदाहृत्य विषयभेदे उदाहरति—गम्भीर्य्येणेति ।
श्लेषमूलातिशयोक्तिः ।
गुरुरुपदेष्टैव गुरुर्बृहस्पतिरिति भेदे ऽप्यभेदाध्यवसायात् श्लेषमूलातिशयोक्तिरिति ।
पृथुर्विशालो वैण्यश्च ।
अर्जुनो धवलः, पक्षे कार्त्तवीर्य्यः, पार्थो वा ।
नचात्रशब्दशक्तिमूलो ध्वनिः, नच रूपकम् उपदेष्टृत्वादीनां बृहस्यतित्वादित्वेनाध्यवसानात् ।
प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः ।
लोचना:
(लो, ऋ) प्रकृतमारोपविषयम् अन्यस्थापनम् आरोप्यविषयत्वस्थापनम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
इयं द्विधा ।
क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वको ऽपह्नव इति ।
टीका
विज्ञप्रिया:
(वि, च) अपह्नुत्यलङ्कारमाह—प्रकृतमिति ।
प्रकृतं प्रक्रान्तम्, अन्यस्थापनम् अप्रकृतस्थापनम् ।
इत्थञ्चेति ।
प्रकृतापह्नवो अन्यस्थापनञ्चेत्येतन्मात्रविलक्षणे सतीत्यर्थः ।
प्रकृतापह्नवाप्रकृतस्थापनयोः पौर्वापर्य्यव्यत्यासाद् द्वैविध्यमिति दर्शयति क्वचिदिति ।
नच निषिध्येति कत्वानिर्देशादपह्नवपूर्वकत्वमेव लभ्यते कथं द्वैविध्यमिति वाच्यम् ।
निषेधबुद्धिं विषयीकृत्य इत्येव तदर्थात् ।
तद्विषयीकरणस्य चोभयथापि सम्भवात् ।
क्रमेणोदाहरणम्–
“नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः ।
नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः” ॥
टीका
विज्ञप्रिया:
(वि, छ) नेदं नभ इति ।
नभआदिनिषेधेन सफेनसमुद्रे फणिशयितमुरारिस्थापनमिदम् ।
अम्बुराशिरित्यादौ सर्वत्र किन्तु इति बोध्यम् ।
“एतद्विभाति चरमाचलचूडचुम्बि हिण्डीर-पिण्ड-रुचि-शीतमरीचिबिम्बम् ।
उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन” ॥
टीका
विज्ञप्रिया:
(वि, ज) अन्यस्थापनपूर्वकं निषेधमाह—एतद् विभातीति ।
एतद् बिम्बम् अर्थाच्चन्द्रस्य ।
हिण्डीरं कर्पूरः ।
उज्ज्वालितस्येति ।
निर्वापितस्येत्यर्तः ।
निर्भरस्वकान्तसम्भोगेन रजन्या मदनानलनिर्वाणाद् धूमोद्रमः ।
कैतवेनेति ।
नायं लाञ्छनः किन्तु यथोक्तधूम इति निषेधप्रतीतिः पश्चात् कैतवपदेन ।
लोचना:
(लो, ॠ) हिण्डीरः फेनः ।
अत्र कैतवपदेन कपटार्थेन न प्रकटलाञ्छनमिति प्रतीतेरपह्नव आर्थः ।
इदं पद्यं मम ।
एवम्–
“विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः”
टीका
विज्ञप्रिया:
(वि, झ) भङ्ग्यन्तरेणापि निषेधप्रतीतावाह—विराजतीति ।
अत्र वपुः पदमयट्प्रत्ययाभ्यां व्योमादिनिषेधप्रतीतिः ।
इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः ।
गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ॥ विस्स्द्_१०।३८ ॥
यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः ।
लोचना:
(लो, ऌ) अन्यथयेदिति ।
अन्यार्थे घटयेत् ।
कश्चिदिति शेषः ।
सपीति ।
अपिशब्देन समनन्तरोक्तप्रकारभिन्नापह्नुतिः इत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
श्लेषेण यथा–
“काले वारिधराणामपतितया नैव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः” ॥
अत्र “अपतितया” इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतम् ।
टीका
विज्ञप्रिया:
(वि, ञ) द्वितीयापह्नुतिमाह—गोपनीयमिति ।
श्लेषेण द्योतनं शक्त्यैव ।
अन्यथाद्योतनन्तु व्यञ्जनया ।
अन्यकथनन्तु श्लेषेण श्लिष्टपदवाच्यार्थेन चेति बोध्यम् ।
काले इति ।
अत्र वारिधाराणां कालस्य कामोद्दीपकत्वेन पतिशून्यतया स्थित्यशक्यत्वं गोपनीयमर्थमुक्त्वा तद् बोद्ध्याः सङ्ख्याः प्रश्रानन्तरं तदन्यथयतिनहि नहीति ।
वर्षाकाले पथः पिच्छिलत्वेन पतितभिन्नतया इत्युक्तवाक्यश्लेषण अन्यथा कृतं तदाहात्रेति ।
अश्लेषेण यथा–
“इह पुरो ऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता” ॥
टीका
विज्ञप्रिया:
(वि, ट) इह पुरोनिलेति ।
इह देशे पुरः सम्मुखे का लता ।
वनस्पतिपदमहिम्ना व्यञ्जनया साध्वसवन्नायिकायां सङ्गतनायकप्रतीतिः समासोक्तिरूपा सङ्ख्या तत्प्रतीत्या स्मरसीत्यादिप्रश्रे कृते वक्त्री वाच्यार्थेनेव तदन्यथयति—नहि घनागमेति ।
वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः ।
गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः ।
टीका
विज्ञप्रिया:
(वि, ठ) अस्या वक्रोक्तितो भेदमाह–वक्रोक्ताविति ।
व्याजोक्तितो ऽप्यस्या भेदमाह—गोपनेति ।
गोपनीयार्थो वक्ता व्याजोक्तौ प्रथमं नोच्यते ।
यथा— “पृथुना जलकुम्भेन श्रमो ऽयं श्वासकृन्मम ।
विश्राम्यामि क्षणं तस्माद् वयस्ये ! तव सन्निधौ ॥
“इत्यत्र जलाहरणस्य पथि उपनायकसम्भगजन्यः श्रमो वक्त्र्या प्रथममनुक्तो ऽपि सखिप्रतीतिभिया निगूहितः ।
व्याजोक्तेरिति भेद इत्यन्वयः ।
लोचना:
(लो, ए) अपतितया न विद्यते पतिर्यस्याः सा अपतिः तस्या भावस्तत्ता पतनरहितयेत्यर्थः ।
अन्यथाकरणमेतदेवाह ।
वक्रोक्तौ “के यूयं स्थल एव " इत्यादौ ।
व्याजोक्तौ शेलेन्द्रप्रतिपाद्यमानेत्यादौ गिरिजाकरस्पर्शजन्यस्य रोमाञ्चादेर्नाभिधानम् ।
अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ॥ विस्स्द्_१०।३९ ॥
लोचना:
(लो, ऐ) निश्चयाख्यः ।
अपह्नुतिवैधर्म्यात् ॥
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
निश्चयाख्यो ऽयमलङ्कारः ।
अन्यदित्यारोप्यमाणम् ।
यथा मम–“वदनमिदं न सरोजं नयने नेन्दीवरे एते ।
इव सविधे मुग्धदृशो भ्रमर ! मुदा किं परिभ्रमसि” ॥
यथा वा–
“हृदि विसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि” ॥
टीका
विज्ञप्रिया:
(वि, ड) निश्चयालङ्कारमाह—अन्यन्निषिध्येति ।
अपह्नुतौ प्रकृतनिषेधेन अन्यस्थापनम्, इह तु तद्वैपरीत्यमित्यर्थः ।
वदनमिदमिति ।
हे मधुकर इह मुग्धदृशः सविधे मुधा न परिभ्राम्य ।
भ्राम्येत्यत्र वैकल्पिकदिवादिश्यन्नन्तता ।
पद्मादिबुद्ध्या यद् भ्राम्यसि तन्मुधेत्यर्थः ।
मुधात्वमुपपादयति—वदनमिदमिति ।
हृदि बिसलताहार इत्यादिका विरहिण उक्तिः ।
एवम्—“नवजलधरः सन्नद्धो ऽयं न दृप्तनिशाचरः, सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुधारसारो न वाणपरम्परा, कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ।
“इत्यादावप्ययमलङ्कारो बोध्यः ।
लोचना:
(लो, ओ) मुग्धदृशो मनोहराक्ष्याः ।
अस्यालङ्कारस्य पूर्वाचार्य्याप्रकाशितत्वाद् विषयव्याप्तये पुनरुदाहरति—यथा वेति ।
भुजङ्गमनायको वासुकिः ।
न ह्ययं निश्चयान्तः सन्देहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् ।
अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः ।
किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासम्भावत् ।
तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर् भ्रान्तिः ।
न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यम् ।
किञ्चाविवक्षिते ऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव सम्भवति तथाविधोक्तिः ।
टीका
विज्ञप्रिया:
(वि, ढ) न ह्ययमिति ।
वार्थो हिकारः ।
नवायमित्यर्थः ।
भ्रमरादेरित्यादिपदादनङ्गस्य नायिकादेरित्यादिपदात् ततद्वोधकपुरुषस्य च परिग्रहः ।
ननु निश्चयान्तसन्देहे तदैक्यं न विवक्षितमित्यत आह—एककोट्यनधिके ज्ञाने इत्यर्थः ।
तज् ज्ञानं च एककोटौ उत्कटत्वेन तद्वृतितकोटेरेव निश्चये च भवति, तादृशनिश्चयश्च भ्रम एवेति तां कोटिमादायाशङ्कते—तर्हीति ।
अस्तु नामेति समाधानम् ।
तथाविधनायकाद्युक्तेरेवेति ।
नायिकासुखोत्कर्षस्य द्वितीयश्लोके वक्तुर्विप्रलम्भोत्कर्षस्य च प्रतिपादनादेव चमत्कारादिति भावः ।
तस्मिन्नर्थे सहृदयाः प्रमाणमित्याह—सहृयेति ।
मुग्धा दुग्धधिया” इत्यादौ अपि चन्द्रोत्कर्षप्रतिपादनादेव चमत्कार इति तुल्यमित्यत आह—किञ्चेति ।
तत्र तु भ्रान्तिमिति भ्रमाधीनकुम्भपातादिक्रिया, अत्र तु भ्रमरस्य नतु भ्रमाधीनपातक्रियेति समाधानसम्भवे ऽपि तादृशक्रियाभावे ऽपि भ्रान्तिमदलङ्कारादित्युपपत्तॄन् प्रत्याह ।
अविवक्षिते ऽपीति ।
तुष्यतु इति न्यायात् ।
तथात्वाभ्युपपत्तौ आह–नायिकाचाट्विति ।
तथाच भ्रान्तिमदलङ्कारसङ्कीर्ण एव निश्चयालङ्कार इति स्वीकृतम् ।
न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् ।
न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः ।
शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् ।
टीका
विज्ञप्रिया:
(वि, ण) अप्रसक्तमपि रूपकध्वनित्वं स्पष्टत्वाय निषिध्यति–नच रूपकेति ।
कमलत्वेनानिर्द्धारणादिति ।
न सरोजमिति तद्विरोधिनिर्देशादनिर्द्धारणम् ।
अपह्नुतिस्तु न सम्भवत्येव इत्याह—नचेति ।
चिरन्तनेति ।
न केवलमयमलङ्कारः किन्तु— “दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठरिगुरुं विदुर्बुधाः” ॥
इत्येकसङ्ख्यालङ्कारः ।
एकं विष्णुं द्वे तदीये च नेत्रे त्रींस्तान् देवान् दोश्चतुष्कं च विष्णोः पञ्चेशास्यान्यग्निभूषरामुखानि सप्तार्चिष्कं नौमि साष्टाङ्गपातम् ॥
इति क्रमिकसङ्ख्यालङ्कारः ।
अन्ये ऽपि वैचित्र्यावहा अलङ्कार अनुक्ता अपि स्वयमूह्याः ।
प्रयाशः सर्वेषामेव अलङ्कारणामाहार्य्यारोपबुद्धिविषयत्वे एवालङ्कारत्वं नतु वास्तवत्वे इत्यत आह—शुक्तिकायामिति ।
लोचना:
(लो, औ) एकाश्रयत्वेनावस्थानात् संशयितुरेव निश्चेतृत्वाद्यथा—किं तावत् सरसीत्यादौ ।
एककोटिः सरोजादिः ।
तथा समीपगमनादिसम्भवश्च शास्त्रयुक्तिसिद्ध एव ।
आदिशब्देन हृदि बिसलताहार इत्यादौ प्रहारादेः सङ्ग्रहः ।
तर्हेति ।
यद्येकं कोट्यनधिकं मिथ्याज्ञानमित्यर्थः ।
तस्याः यथाकथञ्चिद् अङ्गीकृताया भ्रान्तेस्तथाविधायाः “तव वदनं सरोजसदृशमेवऽ; इत्यादेर्नायिकाद्युक्तेर्विशेषणम्, तत्र किं प्रमाणमित्याह–सहृदयसंवेद्यं सहृदयानामनुभव इत्यर्थः ।
भ्रमरादेः पतनादिसद्भावे तदभावे ऽपि वा भ्रान्तिज्ञानस्य तेषां हृदयग्राह्यत्वे भ्रान्तिमदलङ्कारो वक्तुं युक्तः ।
नच तथेति ।
युक्त्यन्तरदर्शनेनापि तदभावं दृढयति—किञ्चेति ।
तथाविधवदनमिदं सरोजरूपम् ।
एवं च भ्रान्तेः स्वरूपस्याभावात् ।
तदभावे च कथं भ्रान्तिमदलङ्कार इत्यर्थः ।
कमलत्वेन अनिर्द्धारणादित्यतः पूर्वं व्यङ्ग्ययोरपीति शेषः ।
अयमस्माभिः प्रकाशितो निश्चयाख्यो ऽलङ्कारः ।
वैचित्र्यमलङ्कारबीजभूता लोकोत्तरा विच्छित्तिः ॥
भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
टीका
विज्ञप्रिया:
(वि, त) उत्प्रेक्षालङ्कारमाह—भवेदिति ।
प्रकृतस्य परात्मनाप्रकृत—तादात्म्येन सम्भावनमुत्कटकोटिकः संशय इत्यर्थः ।
तेनानुत्कटकोटिकसन्देहनिश्चययोः रूपकादौ च नातिप्रसङ्गः ।
लोचना:
(लो, अ) एवमभेदप्राधान्येनारोपगर्भालङ्कारान् लक्षयित्वाध्यवसायगर्भान् लक्षयति—भवेदिति ।
प्रकृतस्य सम्भविनो वर्णनीयस्य परः सदृशतयोपकल्पितः ।
अर्थाद् असम्भवी योर्ऽथः तदात्मना तत्स्वरूपेण सम्भावना ।
मिथ्याज्ञानविशेष उत्प्रेक्षालङ्कार इत्यर्थः ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ विस्स्द्_१०।४० ॥
वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः ।
जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ विस्स्द्_१०।४१ ॥
तदष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ॥ विस्स्द्_१०।४२ ॥
द्वात्रिंशद्विधतां यान्ति–
टीका
विज्ञप्रिया:
(वि, थ) अस्या विभक्तविभागबाहुल्येन षट्सप्तत्युत्तरैकशतविधतां पर्यवस्थापयितुमादौ द्वैविध्यमाह—वाच्येति ।
प्रतीयमाना चात्र न व्यङ्ग्या, तदा उत्प्रेक्षाध्वनित्वापत्तेः, यथा दर्शयिष्यमाणे महिलासहस्त्रेत्यादौ, किन्तु अध्याह्रियमाणा इत्येवेत्यर्थः ।
परा अध्याह्रियमाणा द्वयोरपीति वाच्योत्प्रेक्षायामध्याह्रियमाणोत्प्रेक्षायां चेत्यर्थः ।
तेन जात्यादिचतुष्कोत्प्रेक्षा वाच्या अध्याह्रियमाणा च इत्यष्टधेत्यर्थः ।
जात्यादिचतुष्काभावोत्प्रेक्षाप्येवमष्टधेत्याह—तदष्टधापीति ।
भावस्य जात्यादिभावचतुष्कस्य प्रत्येकमभावाभिमानतो ऽभावोत्प्रेक्षणादपि तदष्टधा तस्या उत्प्रेक्षायाः अष्टधा अष्टप्रकारभाव इत्यर्थः ।
अपिकारस्य दर्शितरीत्या भिन्नक्रमेण योजना ।
एवं च जात्यादिभावोत्प्रेक्षाष्टकं तदभावोत्प्रेक्षाष्टकं चेति षोडशप्रकाराः षोडशत्वानुक्तावपि पर्य्यवसिताः, तद्द्वैगुण्येन द्वात्रिंशत्वमाह—गुणाक्रियेति ।
निमित्तस्य उत्प्रेक्षाया हेतोर्गुणक्रियास्वरूपत्वात् ताः षोडशविधाः उत्प्रेक्षाः पुनर्द्वात्रिंशद्विधतां यान्तीत्यर्थः ।
ते वाच्यप्रतीयमानत्वभेदादष्टौ जात्यादिभावोत्प्रेक्षा अष्टौ च तदभावोत्प्रेक्षाश्च इति षोडशैव गुणक्रियाहेतुवत्त्वेन द्वैगुण्याद् द्वात्रिंशदित्यर्थः ।
हेतुश्च उत्प्रेक्षाजनकः ।
लोचना:
(लो, आ) तद्भेदानाह—वाच्येति ।
वाच्या इवादिद्योतकपदनिबन्धनाद् झटिति प्रत्येया ।
प्रतीयमाना द्येतकपदविरहेण वाच्यार्थपर्य्यालोचनानुसन्धेया ।
तदेवाह—वाच्ये वादेरिति ।
एकधर्म्मवन्नानाधर्मवाचकोपमेयोर्ऽथो जातिः ।
गुणः सामानाधिकरण्येन सिद्धतानिर्देश्यो धर्मः ।
क्रिया साध्यताकारनिर्द्देश्यो धर्मः ।
द्रव्यं शृङ्गग्राहिकया निर्देश्यो धर्मः ।
उत्प्रेक्ष्यमध्यवसेयम् ।
प्रकृतस्यापि एतद् भेदयोगे ऽपि वैचित्र्यानावहत्वान्न भेदगणनम्, सम्भावनप्राणस्य अस्यालङ्कारस्य सम्भाव्यमानविशेषादेव विशेषोपालम्भात् ।
द्वयोरुक्तभेदयोः ।
भावो जात्यादिरेव ।
अभावस्तेषामेवासत्ता ।
निमित्तस्य उत्प्रेक्षणकारणस्य विषयधर्मस्य ता उक्तषोडशप्रकाराः ।
उत्प्रक्ष्यते प्रकाश्यते, अर्थात् सजातीयमनेकमनया स्वल्पयापीत्युत्प्रेक्षा ।
तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा–
“ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति ।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव” ॥
अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा ।
टीका
विज्ञप्रिया:
(वि, द) दिङ्मात्रम् अल्पमात्रम् ।
ऊरुरिति ।
चञ्चलचेलाञ्चलः चलवस्त्रैकदेशः ।
कुरङ्गकदृशः ऊरुः स्मरस्य सपताकः कनकमयो निजयस्तम्भ इव भातीत्यर्थः ।
स्तम्भो हेमयष्टिः ।
पताका तदुपरिवस्त्रम्, चलचेलाञ्चलस्थाने तत्र ।
अत्र जात्युत्प्रेक्षात्वं ग्राहयति—अत्रेति ।
विजयस्तम्भस्येति ।
तद्वाचकपदस्येत्यर्थः, प्रक्रान्तस्य बहुवाचकत्वाद् बहुव्यक्तिवाचित्वात्, तथाच स्तम्भत्वस्य जातित्वमुपपादितम् ।
स्तम्भोत्प्रेक्षायाश्च तत्प्रकारकत्वात् तस्या अप्युत्प्रेक्षा ।
एवं सर्वत्र विधेयम् ।
इदमुदाहरणं न गुणाक्रियानिमित्तोत्प्रेक्षायाः किन्तु वक्ष्यमाणाया अनुक्तनिमित्तोत्प्रेक्षाया एव ।
अतो ऽत्र विजयस्तम्भोत्प्रेक्षाहेतु कामोद्दीपकत्वमनुक्तम् ।
लोचना:
(लो, इ) जात्युत्प्रेक्षा ।
जातिस्वरूपोत्प्रेक्षणात् ।
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” ॥
अत्र सप्रसवत्वं गुणः ।
टीका
विज्ञप्रिया:
(वि, ध) वाच्यगुणोत्प्रेक्षामाह—ज्ञाने मौनमिति ।
तस्य दिलीपस्य गुणागुणनुबन्धित्वात्सप्रसवा इवेत्यर्थः ।
गुणानां गुणान्तरानुबन्धित्वं दर्शयति—ज्ञानमिति ।
ज्ञानादौ सति मौनादिकमित्यर्थः—अत्रेति ।
प्रसवो योनिबहिर्भावः ।
उत्पादने प्रकृते ऽप्रकृततदुत्प्रेक्षा ।
प्रसवपदस्य कृदन्तत्वेन नामत्वप्राप्त्या तदर्थो न क्रियेत्यतो गुण एव ।
अत्र गुणानुबन्धित्वमुत्प्रेक्षाहेतुरुक्त एव ।
लोचना:
(लो, ई) एवं वक्ष्यमाणे गुण इत्यनन्तरमुत्प्रेक्ष्यते इति शेषः ।
एवमन्यत्र ।
“गङ्गाम्भसि सुरत्राण ! तव निः शाननिस्वनः ।
स्नातीवारिधूवर्गगर्भपातनपातकी” ॥
अत्र स्नातीति क्रिया ।
टीका
विज्ञप्रिया:
(वि, न) वाच्यां क्रियोत्प्रेक्षामाह—गङ्गाम्भसीति ।
सुरत्राणेति—पाश्चात्त्ययवननृपतीनामुत्कर्षबोधकः करिभाषाविशेषः सुलतान इति पदस्यापभ्रंशः ।
हे तादृश तव निः शाणस्य सैन्यवाद्यस्य निः स्वनः अरिवधूवर्गगर्भपातनपातकी यतः अतस्तत्पातकक्षयार्थं गङ्गम्भसि स्नातीवेत्यर्थः ।
गङ्गायाः पाश्चात्यनृपतिसैन्यदूरवर्त्तित्वात्तत्पर्य्यन्तमपि सैन्यनिः स्वन आयात इति भावः ।
अत्र हेतुं ग्रन्थकृदेव प्रदर्शयिष्यति ।
“मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः” ।
टीका
विज्ञप्रिया:
(वि, प) द्रव्योत्प्रेक्षामाह—मुखमिति ।
इयमपि अनुक्तहेतुका ।
अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः ।
एते भावाभिमाने ।
अभावाभिमाने यथा–
“कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ” ॥
अत्रापश्यन्ताविति क्रियाया अभावः ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, फ) अभावाभिमाने जात्याद्यभावोत्प्रेक्षायां तत्र क्रियाभावोत्प्रेक्षामाह—कपोलफलकाविति ।
अस्याः कपोलफलकौ कपोलरूपस्फरदेशौ तथाविधौ पुष्टस्वरूपौ भूत्वा ईदृक्षामीदृशीं क्षामतां क्षीणतां गतौ इति कष्टमित्यर्थः ।
इष्टदर्शनात् क्षीणत्वप्राप्तिः ।
अत्र क्षामत्वहेतौ विरहे प्रकृते तद्धेतुत्वेन परस्परदर्शनक्रियाभाव उत्प्रेक्षितः ।
अत्र हेतूक्तिः ग्रन्थकृतैव अग्रे दर्शयिष्यते—एवमन्यदिति ।
अत्र जात्यभावोत्प्रेक्षा यथा—“न सन्धयां कुरुते भास्वान् द्विजत्वाभावतः किमु” इत्यातपक्लान्तोक्तौ सन्ध्याकरणहेतौ मन्दगमनेप्रकृते ऽप्रकृतश्लिष्टसन्ध्यापदार्थकरणहेतुत्वेन द्विजत्वजात्यभाव उत्प्रेक्षितः ।
सन्ध्याकरणञ्च उत्प्रेक्षाहेतुरुक्तः ।
अनुक्तहेतुका जात्यभावोत्प्रेक्षा यथा— “आगच्छन्नेव पुरुषो न विप्र इति लक्ष्यते” ॥
इति ।
अत्र तु विप्रत्वव्यञ्जकसंस्थानाभावो हेतुरनुक्तः ।
एवं रीत्यान्यत्रापि हेतूक्त्यनुक्ती बोध्ये ।
“कीर्त्तिस्ते श्रीमतो दूरं प्रयातानादृतेव किम् ।
" इत्यत्र कीर्त्तिरनादरो गुण उत्प्रेक्षितः ।
तत्सपत्नीत्वेन अध्यासित्वं श्रीमत्त्वं हेतुरुक्तः ।
“अस्तं जगाम रजनी तदीशेन्दुमृतेरिव” ॥
इत्यत्र द्रव्यस्य इन्दोरभाव उत्प्रेक्षितः ।
रजन्यस्तगमनं तद्धेतुरुक्तः
लोचना:
(लो, उ) तथाविधौ रुपवन्तौ ।
क्रियाया दर्शनरूपायाः ।
निमित्तस्य गुणक्रियारूपत्वे यथा–“गङ्गम्भसि” इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः ।
“अपश्यन्तौ-” इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, ब) एषु हेतूनां क्रियात्वगुणत्वे स्वयमेव अवधात्व्ये ।
पातकित्वं हेतुरिति ।
“प्रभाते हसतीवेयम् " इत्यत्र तु प्रियसूर्य्यदर्शनं हेतुरनुक्तः ।
एवमन्यदिति ।
उत्सुकेव हसत्येषा हसत्येषा ज्योत्स्नामिन्दोः कुमुद्वती ।
" इत्यत्रोत्सुकत्वोत्प्रेक्षायामिन्दुज्योत्स्ना गुणः ।
प्रतीयमानोत्प्रेक्षा यथा–
“तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।
हाराय गुणिने स्थानं न दत्तमिति लज्जया” ॥
अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, भ) तन्वङ्ग्या इति ।
मुखाप्रकटनं वस्त्रावृतत्वात् ।
हाराय स्थानादानं निबिडसान्निध्येन सन्धिराहित्याच्च ।
स्थानादानमत्र गुणो हेतुरुक्तः ।
एवमन्यदिति ।
“विक्रीय विस्पष्टमुखेन बाला, मालाकृतः कैरवकोरकाणि ।
विक्रेतुकामा विकचाम्बुजानि चेलाञ्चलेनाननमावृणोति” ॥
इत्यत्राप्यम्बुजविक्रयेच्छाया मुखावरणेहतुत्वाभावात् विक्रेतुकामेव “इत्युत्प्रेक्षाध्याहारः ।
तदैव मुखचन्द्रादर्शनात् पद्मनिमीलनस्य वारणमिति भावः ।
क्रियोत्प्रेक्षाध्याहारे तु हसत्यर्कोदये ऽम्बुजमिति जात्युत्प्रेक्षाध्याहारे"चाण्डालो ऽन्यो द्विजः पापीऽ; इति ।
द्रव्योत्प्रेक्षाध्याहारे–चन्द्रो ऽन्यमुखमेतस्या इत्यनयोरन्यपदसत्त्वान्न रूपकम् ।
लोचना:
(लो, ऊ) मुखं चूचुकापरपर्य्यायं वदनञ्च ।
गुणः सूत्रं विज्ञात्वविनयादिश्च ।
अत्र गुणोत्प्रेक्षा प्रतीयमाना ।
भावाभिमानश्च अन्यत्र यथा मम तातपादानाम् ।
विकसितमुखीं रागासङ्गाद् गलत्तिमिरांशुकां दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं प्रातः प्रचेतसीं तुहिनद्युतिः ॥
अत्र निरीक्ष्येवेति निरीक्षणक्रियोत्प्रेक्षा प्रतीयमाना ।
एवमन्यत्र ।
ननु ध्वनिनिरूपणप्रस्तावे ऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तम् ।
सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्–“महिलासहस्स-” इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः ।
इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः ।
टीका
विज्ञप्रिया:
(वि, म) ननु इत्याद्याशङ्का स्पष्टैव ।
वाक्यार्थबोधस्योत्प्रेक्षाध्याहारं विनानुपपत्तौ तदध्याहारे प्रतीयमानोत्प्रेक्षा तदध्याहारं विनापि वाक्यार्थबोधसम्भवे पश्चत्तात्पर्य्यवशाद् उत्प्रेक्षाव्यञ्जने उत्प्रेक्षाध्वनिरिति सिद्धान्तयितुमुत्प्रेक्षाध्वनिविषयन्दर्शयति—उच्यत इति ।
महिलेति ।
प्राग् व्याख्यातम् ।
नायकस्यानेकनायिकानुरागात् कृशीभवन्त्यास्तत्पन्या अवस्थां तस्मिन् अवेदयन्त्यास्तत्सख्या उक्तिरियम् ।
सा तव पत्नी अमान्ती अवकाशमलभमाना दिवसं व्याप्य तनयति तनूकरोति ।
नामकारितान्तस्य तनुशब्दस्य रूपमिदम् ।
इत्यादाविति ।
विश्रान्तिर्बोधः ।
भाव्यमानत्वसम्बन्धेन स्थानप्राप्तेरभावस्याभाव्यमानत्वादेव बोधसम्भवात् ।
परन्तु अङ्गतनूकरणतात्पर्य्यानुसन्धानेन संयोगसम्बन्धेन मनसि स्थानाप्राप्तिरेवाङ्गतनूकरणहेतुतया प्रतीयते ।
तच्च बाधितमित्यतः स्थानाप्राप्युत्प्रेक्षाध्वनिः ।
तन्वङ्गया इत्यत्र तु न तथेत्याह—इह तु इति ।
इत्युत्प्रेक्षयेव इत्यत्र ।
विश्रान्तिरिति अनुषङ्गः ।
उत्प्रेक्षयोर्भेद इति ।
उत्प्रेक्षयोरधायाहार्य्यत्वव्यङ्ग्यत्वाभ्यां भेद इत्यर्थः ।
लोचना:
(लो, ऋ) एवं च उत्प्रेक्षाध्वनेर्विवेकं दर्शयितुकाम आशङ्कते–ननु इति ।
सिद्धान्तमाह—उच्यत इति ।
व्यङ्ग्योत्प्रेक्षायां काव्यस्य ध्वनित्वप्रयोजकस्य व्यङ्ग्यभूतस्योत्प्रेक्षायाम् ।
गाथार्थः पूर्वं व्याख्यात् एव उत्प्रेक्षां विना अपि वाक्यविश्रान्तेरिति ।
अयमाशयः ।
अमान्तीति पदस्य तव हृदयानुरागपात्रतामप्राप्य” इत्यर्थेनाभिधेये विश्रान्तेरिति ।
इह प्रकृतोदाहरणे व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेद इति ।
अयमाशयः ।
प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वादित्यादिना यथान्येषामपि बहूनामलङ्कारणामलङ्कारविशेषता तथोत्प्रेक्षाया अपीति न काचित् क्षतिः ।
यत्र तु काव्यध्वनित्वहेतुर्व्यङ्ग्यता न तत्रालङ्कारता युक्तेति ।
एवं यत्कैश्चित् महिलासहस्त्रेत्यादि प्रतीयमानोत्प्रेक्षायामुदाहृतं तदयुक्तमिति भावः ।
अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह–
टीका
विज्ञप्रिया:
(वि, य) वाच्योत्प्रेक्षायाः षोडशसु इति ।
जात्यादिचतुष्कस्य तच्चतुकाभावस्य च उत्प्रक्षा वाच्या अष्टविधाः तदष्टकस्यैव गुणक्रियाहेतुकत्वाद् द्वैविध्येन षोडशत्वम् ।
एवं प्रतीयमानायामपि षोडशत्वं प्रागुक्तं स्मर्त्तव्यम् ।
–तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ॥ विस्स्द्_१०।४३ ॥
टीका
विज्ञप्रिया:
(वि, र) तत्र वाच्येति ।
वाच्याया उत्प्रेक्षाया भिदाः भेदाः ।
जात्यादिचतुष्कस्य भावाभावरूपत्वेन द्वैगुण्यं प्रत्येकं च गुणक्रियाहेतुकत्वेन द्वैगुण्याच्चतुर्विधत्वमिति वाच्योत्प्रेक्षाया यत्तत् षोडशविधत्वमुक्तं तत्र द्रव्योत्प्रेक्षाचतुष्कं विना द्वायशानामेव त्रैगुण्यं भवतीत्याह–विना द्वव्यमिति ।
द्रव्योत्प्रेक्षाचतुष्कं विनेत्यर्थः ।
स्वरूपेति ।
उत्प्रेक्षितस्य वस्तुनः कस्यापि फलत्वेन हेतुत्वोक्तौ तत्स्वरूपविषया उत्प्रेक्षास्वरूपोत्प्रेक्षा ।
तद्द्वयान्यतरत्वेन उक्तौ तु तद्द्वयान्यतरगा ।
लोचना:
(लो, ॠ) स्वरूपफलहेतुगाः ।
स्वरूपोत्प्रेक्षा, फलोत्प्रेक्षा, हेतूत्प्रेक्षा चेति ।
स्वरूपं धर्म्मान्तरम्, विषयसमसङ्ख्यतयाभिहितौ धर्म्मश्च ।
यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः ।
द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः ।
अत्र स्वरूपोत्प्रेक्षा यथा
पूर्वोदाहरणेषु “स्मारस्य विजयस्तम्भः” इति ।
“सप्रसवा इव” इत्यादयो जातिगुणस्वरूपगाः ।
टीका
विज्ञप्रिया:
(वि, ल) व्याचष्टे—तत्रेति ।
ये द्वादश भेदा इति ।
चतुष्कत्रयस्य द्वादशत्वात् ।
तेषां प्रत्येकं द्वादशभेदतयेत्यर्थः ।
एकैकचतुष्कस्य त्रैगुण्याद् द्वादशत्वम्—षट् त्रिंशदिति ।
द्वादशत्रयस्य षट्त्रिंशत्त्वात् ।
चत्वारिंशादिति ।
द्रव्यो प्रेक्षाचतुष्कस्यषट्त्रिंशत्साहित्यात् ।
तत्र जातिगुणयोः स्वरूपोत्पेक्षाद्वयं पूर्वोक्तमेव दर्शयति—अत्र स्वरूपेति ।
जातिगुणस्वरूपा इत्यत्र जातिगुणादिस्वरूपा इत्यर्थः ।
आदिपदात् क्रियाद्रव्योत्प्रेक्षापरिग्रहः ।
अत्रैव जातिगुणेत्यत्र क्रियगुणेति क्वचित्प्रामादिक एव पाठः ।
क्रियोत्प्रेक्षाया अनुक्त्त्वेन आदिपदग्राह्यत्वादेव, तक्तियास्वरूपोत्प्रेक्षा स्नातीवेति, द्रव्यस्वरूपोत्प्रेक्षा पूर्णचन्द्र इवापर इति पूर्वोक्तद्वयमेव ।
फलोत्प्रेक्षा यथा–
“रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्” ॥
अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् ।
टीका
विज्ञप्रिया:
(वि, व) इत्थं स्वरूपोत्प्रेक्षाया द्रव्ये ऽपि सम्भवादादिपदग्राह्याभ्यां सह जात्यादिचतुर्ष्वेव दर्शयित्वा फलोत्प्रेक्षां हेतूत्प्रेक्षाञ्च द्रव्यं विहाय जात्यादित्रिषु दर्शयितुं क्रियागामिनीं फलोत्प्रेक्षामाह—रावणस्यापीति ।
रामास्तौ रामक्षिप्तः आशुगो ऽपि रावणस्य हृदयं भित्त्वा उरगेभ्यः प्रियमाख्यातुमिव भुवं विवेश इत्यन्वयः ।
अत्रेति ।
आख्यानक्रियारूपं प्रवेशस्य फलमुत्प्रेक्षितमित्यर्तः ।
तुमर्थेच्छाविषयस्य फलत्वप्रतीतेः ।
लोचना:
(लो, ऌ) रामास्तो रामेण क्षिप्तः ।
प्रियमाख्यातुमिवेति सम्बन्धः ।
हेतूत्प्रेक्षा यथा–
“सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम्” ॥
अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, श) सैषा स्थलीति—पुष्पकस्थां सीतां प्रति रामस्योक्तिरियम् ।
त्वां विचिन्वता विचारयता मया, यत्र भ्रष्टमर्थात्त्वच्चरणात्पतितमेकं नूपुरमदृश्यत सैषा स्थली ।
निः शब्दस्य नूपुरस्य मौनहेतुमुत्प्रेक्षते—त्वच्चरणेति ।
अत्रेति ।
हेतुत्वाभावादित्यर्थः ।
एवमन्यदिति । क्रियोत्प्रेक्षायाः फलगामित्वमेवोक्तं न हेतुगामित्वम्, गुणोत्प्रेक्षाया हेतुगामित्वमेवोक्तं न फलगामित्वम्, जात्युत्प्रेक्षायास्त्वनेकगामित्वमप्युक्तम् ।
एवं रीत्या तदूह्यमित्यर्थः ।
तत्र क्रियोत्प्रेक्षाया हेतुगत्वं यथा— “यशस्तव महीपाल ! मार्जनादिव निर्मलम् ।
ऽ; इत्यत्र नैर्मल्यहेतुत्वेन मार्जनक्रियोत्प्रेक्षिता ।
गुणस्य फलगामित्वं यथा— “सदा कीर्तिमुखं पद्मं पुण्यार्थमिव तिष्ठति ।
ऽ; अत्र मुण्यं गुणश्च फलत्वेनोत्प्रेक्षितम् ।
जात्युप्रेक्षायाः फलगामित्वं यथा– “कामुकस्य रतौ वामा कन्दर्पशरपीडिता ।
नखक्षतकृतं दुः खं सुखत्वायेव वाञ्छति ॥
" अत्र नित्याया अपि सुखत्वजातेर्दुः खे आरोप्यत्वरूपवाञ्छायाः फलमुत्प्रेक्षितम् ।
जात्युत्प्रेक्षाया हेतुगामित्वं यथा— “राहुग्रस्तो ऽपि शीतांसुर्द्विजत्वादिव पुण्यकृत् ।
ऽ; इति अत्र पुण्यजननत्वेन द्विजत्वजातिरुत्प्रेक्षिता ।
यद्यपि—- “कोकयूनोर्मनोदुः खं चन्द्रादिव समुत्थितम् ।
ऽ; इत्यादिषु द्रवोयत्प्रेक्षाया अपि हेतुगामित्वं सम्भवति तथापि विरलत्वाद् वैचित्र्यविशेषानावहत्वाच्च तदसम्भवो दर्शितः ।
लोचना:
(लो, ए) सैषेत्यत्र चलनद्रव्यसंयोगाभावाद् नूपुरस्य मौनित्वम्, तदेवं दुः खहेतुकमौनित्वाभावेनाध्यवसितम् ।
यद्वा नूपुमौनित्वहेतुश्चलद्द्रव्यसंयोगाभाव एवन्दुः खतादात्म्येन अध्यवसितः तत्र च पक्षे ऽतिशयोक्तिवद् विषयस्य गम्यमानता एतच्चाग्रे स्फुटीभविष्यति ।
उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः ।
टीका
विज्ञप्रिया:
(वि, ष) वाच्योत्प्रेक्षायाश्चत्वारिंशद्विधत्वं गुणक्रियारूपनिमित्तद्वयघटितं दर्शितमेव ।
सम्प्रति तु निमित्तानुक्रिवशादेव षोडशप्रकारप्रवेशात् षट्पञ्चाशद्विधत्वं दर्शयितुमाह—उक्त्यनुक्त्योरिति ।
जात्यादित्रयस्य फलहेतुगत्वेन निमित्तानुक्त्यसम्भवस्य वक्ष्यमाणत्वात् त्रयस्य द्रव्यगोत्प्रेक्षायाः स्वरूपगामित्व एव निमित्तानुक्तिसम्भवादाह—द्विधेति ।
स्वरूपगा इति ।
नतु फलहेतुगा इत्यर्थः ।
तेषु चत्वारिंशत्सङ्ख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः ।
तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते “स्नातीव” इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तम् ।
अनुपादाने यथा–“चन्द्र इवापरः” इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः ।
हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि–“विश्लेषदुः खादिव” इत्यत्र यन्निमित्तं बद्धमौनत्वम् “आख्यातुमिव” इत्यत्र च भूप्रवेशस्तयोरनुपादाने ऽसङ्गतमेव वाक्यं स्यात् ।
टीका
विज्ञप्रिया:
(वि, स) व्याचष्टे—तेष्विति ।
ये स्वरूपगायाः षोडश भेदाः जातिगामिन्यो जात्या चतस्त्रो, भावाभावविषयत्वेनाष्टौ, गुणक्रियानिमित्तद्वैविध्यात् षोडशप्रकारत्वं स्वरूपोत्प्रेक्षाया बोध्यम् ।
उपादानानुपादानाभ्यामिति ।
उपादानघटिताश्च षोडश तत्वारिंशट्रणनाप्रविष्टा एव ।
अनुपादानघटिता षोडशमात्रवृत्तिर्बोध्या ।
नच निमित्तानु पादाने कथं तद्द्वैविध्यघटितं षोडशत्वम् अष्टत्वस्यैवौचित्यादिति वाच्यम् ।
क्वचिन्निमित्तभूता क्रिययैव तस्या अनुक्तिः ।
क्वचित्तादृशस्य गुणस्यानुक्तिः ।
अनुक्तावपि द्वैविध्यसम्भवात् ।
मिलित्वेति ।
अनुक्तिनिमित्तकषोडशाभिः सह मिलित्वेत्यर्थः ।
इत्थं स्वरूपोत्प्रेक्षायामेव हेत्वनुक्तिसम्भवात् षट्पञ्चाशत्त्वं नतु फलयोगोत्प्रेक्षायामित्याह—हेतुफलयोस्त्विति ।
भूप्रवेश इत्यत्रापि यन्निमित्तमित्यन्वयः ।
असङ्गतमेवेति ।
तुमन्तपञ्चम्यन्तयोराकाङ्क्षानिवृत्तिरेवासङ्गतिः ।
लोचना:
(लो, ऐ) उक्तिर्वाचकपदप्रयोगः, अनुक्तिस्तदभावे ऽप्यर्थलभ्यता ।
असङ्गतमेवेति ।
साकाङ्क्षत्वादिति भावः ।
प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह–
लोचना:
(लो, ओ) षोडशसु—समनन्तरोक्तेषु ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ॥ विस्स्द्_१०।४४ ॥
टीका
विज्ञप्रिया:
(वि, ह) प्रतीयमानायाः षोडशस्विति—भावाभावविषयकत्वेन जात्यादिचतुष्कोत्प्रेक्षा अष्टौ, गुणक्रियानिमित्तद्वयवशाच्च षोडशेति प्रागेव दर्शितम् ।
फलहेतुगा इति ।
नतु स्वरूपेणेति वक्ष्यते ।
तथा च फलगामित्वहेतुगामित्वद्वैविध्याद् द्वात्रिंशत्प्रकारा इति वक्ष्यते ।
यथैदाहृते “नन्वङ्ग्याः स्तनयुग्मेन” इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः ।
अस्यामपि निमित्तस्यानुपादानं न सम्भवति ।
इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् ।
टीका
विज्ञप्रिया:
(वि, क) ननु निमित्तानुपादानकृता परषोडशवृद्धिः कथं न प्रदर्श्यते इत्याह– अस्यामपीति ।
अस्यां प्रतीयमानोत्प्रेक्षायामित्यर्थः ।
फलहेतुगत्वे वाच्योत्प्रेक्षायामिवास्यामपीत्यर्थः ।
तदसम्भवमुपपादयति—इवाद्यनुपादान इति ।
तथा हि, “तत्वङ्ग्याः"इत्यादौ हाराय स्थानादानं लज्जोत्प्रेक्षाया हेतुः, तदनुपादाने तु लज्जाहेत्वदर्शनाल्लज्जोत्प्रेक्षा प्रमात्रा बोद्धा निश्चेतुमशक्यैवेत्यर्थः ।
तदनिश्चये ऽचेतनस्य तनयुग्मस्य लज्जासम्भवात् तदन्वयो बाधित एव स्यादित्यर्थः ।
नच बाधवशादुत्प्रेक्षा निश्चीयतामिति वाच्यम् ।
हेत्वभावे कुतो लज्जोत्याकाङ्क्षासत्त्वान्निश्चयासम्भवात् ।
स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् ।
यथा–“अयं राजापरः पाकशासनः” इति ।
(विशेषणाभावे च रूपकस्य, यथा–“राजा पाकशासनः” इति । ) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।
टीका
विज्ञप्रिया:
(वि, ख) अस्या हेतुफलगामित्वमेवोक्तम्, स्वरूपगामित्वेनापरप्रभेदवृद्धिश्च कथं न दर्शितेत्यत्राह—स्वरूपोत्प्रेक्षाप्यत्रेति ।
तदसम्भवमुपपादयति—धर्म्यन्तरेति ।
प्रकृते धर्मिण्यप्रकृतधर्म्यन्तरतादात्म्यं यत्र निबन्धयते, तन्निबन्धनं यस्यां तादृश्यामस्यामुत्प्रेक्षायामित्यर्थः ।
विशेषणयोग इति ।
उत्प्रेक्षणीयचन्द्रादेरपरत्वादिविशेषणोपादान इत्यर्थः ।
तथात्वे ऽतिशयोक्तिं दर्शयति—यथायं राजेति ।
अत्र भेदे ऽप्यभेदारोपरूपातिशयोक्तिः ।
तदनुपादाने तु रूपकस्याभ्युपगमादित्याहविशेषणस्येति ।
तद्दर्शयति–राजेति ।
द्वात्रिंशत्प्रकारेति ।
वाच्योत्प्रेक्षाया मेलने त्वष्टाशीतिप्रकारेति बोध्यम् ।
लोचना:
(लो, औ) न भवति–तद्विषये ऽलङ्कारान्तरङ्गीकारादित्यर्थः ।
तदेवाह—धर्म्यन्तरेति ।
उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।
लोचना:
(लो, अ) प्रस्तुतस्य–उत्प्रक्षावषयस्य ।
ताः–समनन्तरोक्तप्रकाराः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
ता उत्प्रेक्षाः ।
उक्तौ यथा–“उरुः कुरङ्गकदृशः-” इति ।
टीका
विज्ञप्रिया:
(वि, ग) अष्टाशीतिप्रकाराया अस्या द्वैगुण्येन षट्सप्तत्युत्तरैकशतरूपतामाहौक्त्यनुक्त्योरिति ।
प्रस्तुतस्य प्राकरणिकस्य ।
वाच्यप्रतीयमानसमस्तमेलनेनाष्टाशीतिरूपोत्प्रोक्षा ।
नच प्राकरणिकानुक्तो तस्य निगरणरूपातिशयोक्तिरेवेति वाच्यम् ।
स्वरूपोत्प्रेक्षायामेव तत्प्रसक्तेः ।
प्रतीयमानोत्प्रेक्षायां तु स्वरूपोत्प्रेक्षआसम्भवस्य दर्शितत्वादेव ।
वाच्योत्प्रेक्षायामिवादिसत्त्वादेव नातिशयोक्तिप्रसक्तिः वाच्योत्प्रेक्षायां प्रकृतोक्तिं दर्शयति—ऊरुरिति ।
अनुक्तौ यथा मम प्रभावत्याम–“प्रद्युम्नः–इव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन–
घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः ।
ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम्” ॥
अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तम् ।
टीका
विज्ञप्रिया:
(वि, घ) घटितमिवेत्यादि–तिमिरपुञ्जेनैवमेवं कृतमिवेत्यर्थः ।
तत्तत्करणं दर्शयति—घटितमिवेति ।
भुवनमञ्जनपुञ्जैर्घटितं निर्मितमिवेत्यर्थः ।
तत्तं व्याप्तम् ।
वृतमाच्छादितम् ।
विषय इति–प्रस्तुतरूपः ।
यथा वा–
“लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः” ।
अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः ।
अञ्जनवर्षणस्य तमः सम्पातः ।
अनयोरुत्प्रेक्षानिमित्तं च तमसो ऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासङ्ख्यम् ।
केचित्तु–“अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभो ऽपि वर्षणाक्रियाकर्तृत्वेन” इत्याहुः ।
टीका
विज्ञप्रिया:
(वि, ङ) परकीयश्लोकमपि दर्शयति—लिम्पतीवेति ।
तमः सम्पात इत्यनुपात्त इत्यन्वयः ।
सम्पातश्चाधः संयोगहेतुप्तनक्रिया, नत्वधः संयोगः ।
अतो ऽत्र निमित्तत्वेन वक्ष्यमाणाधः संयोगस्य भेदः ।
अनयोरनुक्तं निमित्तं दर्शयति—अनयोरिति ।
इयं क्रियास्वरूपोत्प्रेक्षा ।
केचित्त्वत्र कर्तृस्वरूपद्रव्योत्प्रेक्षामाहुः ।
तद् दर्शयति—केचित्त्विति ।
अत्र केचिदित्यस्वरससूचनम् ।
क्रियोत्तरमिवकारत्त्मोनभसोर्वास्तवत्वेनानुत्प्रेक्षणीयत्वाच्च ।
लेपनवर्षणकर्तृत्वमवास्तवमिति चेत्तदा लेपनवर्षण्योरेवोत्प्रेक्षापर्यवसानात् ।
संयोगविशेषस्येव हि व्याप्तिनाम्नारेतिशयस्थागनसाम्येन रूपसम्भावना उत्प्रेक्षाभेदः प्रतीयते ।
विषयस्य गम्यता हेतुफलोत्प्रेक्षयोरङ्गीक्रियते ।
स च यदि स्वरूपोत्प्रेक्षायामेव स्यात्तदा को दोष इत्यलं बहुना ।
लोचना:
(लो, आ) क्षोदैश्चूर्णैः ।
अनयोर्घाटितामिवेत्यादेर्लिम्पतीवेत्यादेश्चोदाहरणयोरुत्प्रेक्षानिमित्तमित्यतः पूर्वं व्यापनस्याञ्जनघटनादिति शेषः ।
“वर्षतीवाञ्जनं नभः” इत्यत्र च धारारूपेणाधः संयोग इत्यर्थः ।
केचिदलङ्कारसर्वस्वकारादयः इत्याहुरिति सम्बन्धः ।
लेपनकर्तृत्वेनोत्प्रेक्षितं लिम्पतीति ततः कर्तृताभिधानात्तस्य च तमसि सामानाधिकारण्येन तद्रतताप्रत्ययादित्यभिसान्धिः ।
तेषामेषा युक्तिः-तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां लेपनादिनिमित्तं गम्यमानम् ।
व्यापनादावुत्प्रेक्षाविषयत्वे निमित्तमन्यदन्वेष्यं स्यात् ।
नच विषयस्य गम्यमानत्वं युक्तम्, तस्योत्प्रेक्षाधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् ।
अत्र केचिदित्यनेनात्मनो ऽरुचिप्रकटनम् ।
तथा हि अतिशयोक्तौ कमलमनम्भसीत्यादाविवात्र विषयनिमित्तयोर्द्वयोरप्यत्र गम्यमानत्वमेव ।
व्यापनकर्तर्येव तमसि लेपनकर्तृत्वसम्भावनस्य तमसो लेपनकर्त्रा सादृश्यविरहाच्च ।
अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ॥ विस्स्द्_१०।४५ ॥
टीका
विज्ञप्रिया:
(वि, च) अलङ्कारान्तरोत्थेति ।
सा दर्शितसमस्तप्रकारोत्प्रेक्षालङ्कारान्तरोत्था अलह्कारन्तरनिष्पन्ना चेत्तदाधिकं वैचित्र्यं भजेदित्यर्थः ।
तत्र सापह्नवोत्प्रेक्षा यथा मम–
“अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव” ॥
टीका
विज्ञप्रिया:
(वि, छ) अश्रुच्छलेनेति ।
पत्यौ जुह्वति तत्सन्निधिस्थाया नायिकाया अश्रुनिर्गमवर्णनमिदम् ।
हुतपावकधूमकलुषाक्ष्याः सुदृशो ऽङ्गे मानमवकाशमप्राप्य लावण्यवारिपूर इव अश्रुच्छलेन विगलतीत्यर्थः ।
अत्र छलपदादश्र्वपह्ववो विगलल्लावण्यवारिपूरात्मकस्वरूपोत्प्रेक्षानिष्पादकः ।
अश्र्वपह्नवं विना तदसम्भवादश्रुणि लावण्यरूपकस्यैवापत्तेः ।
अत्र च वारिपूरकसत्त्वेति न तदुत्प्रेक्षानिष्पादकम् ।
तद्वि नापि लावण्यमित्युक्तावप्युत्प्रेक्षानिष्पत्तेः ।
लोचना:
(लो, इ) सापह्नवोत्प्रेक्षेत्यनेन सहार्थनिर्देशेनापह्नुतेरङ्गभावः ।
सम्भावनाया एव उद्रेकावभासात् ।
हुतः पावको विवाहकालीनः ।
श्लेषहेतुगा यथा–
“मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः ।
जानीमहे ऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप” ॥
अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः ।
अत्र “जानीमहे” इत्युत्प्रेक्षावाचकम् ।
टीका
विज्ञप्रिया:
(वि, ज) मुक्तोत्कर इति ।
आवरणयन्त्रितत्वेन सङ्कटाद् दुः खद्रायकात् शुक्तिमाध्याद् विनिर्गतो मुक्तोत्करः सारसाक्ष्या अस्या कमनीयकम्बुग्रीवाधिवासाद् गुणंवत्त्वं तन्तमत्त्वमेव, गुणवत्त्वं ज्योतिराधिक्यमापेति जानीमहे उत्प्रेक्षामहे इत्यर्थः ।
अस्थानस्थितिदुःखोत्तीर्णस्य गुणवत्स्थानवासादिव गुणवत्त्वप्राप्तिरित्यर्थः ।
त्रिलेखाविशिष्टा ग्रीवा कम्बुः ।
अत्र तन्तोर्वास्तवत्वान्न तत्प्राप्तिहेतूत्प्रेक्षा सम्भवतीत्यतो गुणपदश्लेषाज् ज्योतिर्विशेषप्राप्तिहेतूत्प्रेक्षा इत्यतः श्लेषनिर्वाह्या इयमुत्प्रेक्षा ।
लोचना:
(लो, ई) गुणः सूत्रं महार्घ्यतादिश्च ।
अत्र श्लेषहेतुकत्वं श्लिष्टशब्दान्वयव्यतिरेकानुविधानादेव ।
एवम्–
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः ।
लोचना:
(लो, उ) जानीमहे इति मन्ये इत्यादयो ऽप्युत्प्रेक्षावाचका ज्ञेया इत्यर्थः ।
आदिशब्देन किमादयः ।
तत्र किंशब्दस्य प्रयोगे यथा गोपीनाथस्य गङ्गावर्णन—
“वलिप्रसूनावलिमूर्मिहस्तैः सञ्चारयन्ती भजतां सुदूरम् ।
विक्रीय कैवल्यममुष्य मूल्यं वराटसङ्ख्यां किमियं करोति” ॥
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
क्वचिदुपमोपक्रमोत्प्रेक्षा यथा–
“पारेजलं नीरनिधेरपस्यन् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः” ॥
इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा ।
पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा ।
टीका
विज्ञप्रिया:
(वि, झ) क्वचिदुपमोपक्रमोत्प्रेक्षा इति ।
उपक्रान्ताया उपमाया एवोत्प्रेक्षेत्यर्थः ।
पारेजलमिति—मुरारिः श्रीकृष्णः नीरनिधेः समुद्रस्य पारेजलं जलस्य पारे कूले वनावलीरपश्यत् ।
कीदृशीः ? आनीलः पलाशानां पत्राणां राशिर्यासु ।
पुनः कीदृशी ? उत्कलिकासहस्त्रेण तरङ्गसहस्त्रेण प्रतिक्षणोत्कूलितानां शैवलानामाभा इवेत्यर्थः ।
अत्रोपमाया एवोत्प्रेक्षां ग्राहयति—अत्राभाशब्दस्येति ।
शैवलस्येव आभा यत्रेति बहुव्रीहिसमासवशादुपमाप्रतिपादकस्येत्यर्थः ।
अनेन उपमोपक्रमो दर्शितः ।
ततस्तस्या उपमाया उत्प्रेक्षामुपपादयति—पर्यवसाने त्विति ।
“शैवलाभाऽ; इत्यनेनैवोपमापर्यवसानसम्भवे उत्कूलत्वकथनमनुपयुक्तमत उत्कूलितशैवलाभा इवेति पर्यवसाने उत्प्रेक्षेत्यन्वयः ।
तादृशोत्प्रेक्षाया उत्थानमुपपादयति—जलधितीर इति ।
वनान्तर उत्कूलितशैवलासम्भवात् तत्र न तत्सम्भावनोत्थानम् ।
जलनिधितीरे शैवलस्थितेः सम्भवस्योपपत्तेरनुपपत्त्यभावात् सम्भावनोत्थानमुत्कूलितशैवलसम्भावोत्थानमित्यर्थः ।
ततस्तदाभा इवेत्युत्प्रेक्षेत्यत आह—उत्प्रेक्षेति ।
तत्सम्भावनोत्थानाभावे उत्कूलितविशेषणवैयर्थ्यमिति भावः एवं चोत्प्रेक्षाया उपक्रान्तोपमाविषयत्वादुपमानिष्पाद्येयमुत्प्रेक्षेत्यर्थः ।
लोचना:
(लो, ऊ) उपमोकक्रमोत्प्रेक्षा—उपमोपक्रमे पदार्थान्वयवेलायां तद्वाचकशब्दोपादानाद् यस्यास्तथाभूता ।
वाक्यप्रतीत्यनन्तरं सम्भावनाकर्तुरभिमानव्यापारस्याविर्भावाद् विश्रान्तावुत्प्रेक्षा ।
उत्कलिका वीचयः ।
उत्कूलितानि–कूलमुद्रतानि ।
एवं विरहवर्णने–“केयूरायितमङ्गदैः–” इत्यत्र “विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः” इत्यादौ च ज्ञेयम् ।
टीका
विज्ञप्रिया:
(वि, झ) केयूरायितमिति ।
केयूरैरिवाचरितमिवेत्यर्थः ।
केयूरं कङ्कणम् ।
विरहकार्श्यादङ्गदैः केयूरस्थानं प्राप्तमित्यर्थः ।
तत्रापि प्रत्ययवशात् प्राप्तोपमा अङ्गदस्याऽचाराभावादुत्प्रेक्ष्यते ।
औत्युपमोत्प्रेक्षां दर्शयित्वा आर्थ्युपमोत्प्रेक्षां दर्शयति—विकासीति ।
अत्रापि क्किब्लोपादार्थो ऌउप्तोपमा उत्प्रेक्ष्यते ।
लोचना:
(लो, ऋ) सम्प्रति प्रत्ययस्योपमावाचकत्वे उदाहरति—केयूरायितमिति ।
प्रत्ययलोपे उदाहरति—विकासीति ।
भ्रान्तिमदलङ्कारे “मुग्घा दुग्धधिया–” इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् ।
इह तु सम्भावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः ।
टीका
विज्ञप्रिया:
(वि, ञ) भ्रान्तिमदलङ्कारे निश्चयो ऽत्र तु उत्कटकोटिकः संशय इति भेदसम्भवे ऽपि भेदकान्तरमाह—भ्रान्तिमदलङ्कार इति ।
ज्ञानमेव नास्तीत्यर्थः ।
तत्सत्त्वे दुग्धधिया गावामधः कुम्भदानानुपपत्तेः ।
ज्ञानमेव नास्ति चन्द्रिकात्वेन ।
ननु, “न कस्य कुरुते चित्तभ्रमञ्चन्द्रिका” इत्युक्तितश्चन्द्रिकात्वेन ज्ञानमस्तीत्यत आह—तदुपनिबन्धस्येति ।
चन्द्रिकायां बल्लवानां भ्रमोपनिबन्धस्येत्यर्थः ।
तथा च कव्युक्त्या श्रोतॄणां बल्लवादीनां न चन्द्रिकात्वेन ज्ञानमित्यर्थः ।
उत्प्रेक्षायामस्यां तद्वैलक्षण्यमाह—इह त्विति ।
सम्भवानाकर्तुः कवेस्तदुपनिबद्धनस्येत्यर्थः ।
विषयस्यापि विषयस्यानुत्कटतया तत्कोटेरपि ज्ञानात् ।
लोचना:
(लो, ॠ) विषयस्य वर्ण्यमानस्य ।
चन्द्रिकादेरित्यादिशब्दाच्चन्द्रिकाशबलितकुवलयादिः ।
तदुपनिबन्धस्य काव्ये शब्देनोपनिबन्धस्य ।
इह—उत्प्रेक्षायां कोटिद्वयस्य विषयविषयिरूपात्मकस्य ।
सन्देहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा सम्भाव्यभूतैककोटिः ।
अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासने ऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः ।
टीका
विज्ञप्रिया:
(वि, ट) तर्हि सन्देहालङ्काराभेद इत्यत आह—सन्देह इति ।
एककोटेरुत्कटत्वतुल्यत्वाभ्यां भेद इत्यर्थः ।
अतिशयोक्तितो भेदमाह—अतिशयोक्ताविति ।
विषयिण आरोप्यमाणस्य पर्यवसाने उत्तरकाले, “कथमुपरि कलापिनः कलापऽ; इत्यत्र कलापभ्रमानन्तरमेव केशत्वविशेषदर्शनात् कलापेऽसत्यता प्रतिपाद्यत इत्यर्थः ।
इह त्विति—सप्रसवा इवेत्याद्युत्प्रेक्षाकाल इत्यर्थः ।
एतच्चानुभववैलक्षण्यमभिप्रेत्यापातत एवोक्तम् ।
वस्तुतस्तु योनिबहिर्भावरूपप्रसवबाधस्येव नायिकाशिरसि कलापभाधस्यापि सत्त्वे एवाहार्यतदुभयबुद्धिसत्त्वेनोभयत्र साम्यमेव ।
किन्तूत्प्रेक्षा उत्कटकोटिकसन्देह रूपा, अतिशयोक्तिस्तु निश्चयरूपेति भेदः ।
“कथमुपरि” इत्यत्र हि कलापस्याहार्यनिश्चय एव कथम्पदबोध्यः सन्देहः ।
लोचना:
(लो, ऌ) उत्कटा—विषयनिगरणेन प्रतीयमानत्वात् ।
एककोटिविषयरूपा ।
“रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण” ॥
टीका
विज्ञप्रिया:
(वि, ठ) उत्प्रेक्षालङ्कारस्यैव विषये क्वचिच्छ्लोके सन्देहालङ्कारं केचिदाहुः, तद्दूषयितुं श्लोकमाह—“रञ्जिता नु” इत्यादि ।
गाढतमोवर्णनमिदम् ।
रञ्जिता न्विति—कृष्णवर्णोकृतेत्यर्थः ।
सर्वत्र तिमिरेणेत्यन्वयः ।
स्थगितमाच्छादितम् ।
विषमेषु–गभीरोच्चस्थलीषु ।
संहृता नाशैताः ।
इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण सन्दिह्यत इति सन्देहालङ्कार इति केचिदाहुः, तन्न-एकविषये समानबलतयानेककोटिस्फुरणस्यैव सन्देहत्वात् ।
इह तु तर्वादिव्याप्तेः प्रतिसम्बन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च ।
अन्ये तु–“अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिके ऽपि भिन्नो ऽयं सन्देहप्रकारः” इति वदन्ति स्म; तदप्ययुक्तम्–निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि सम्भावना, तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसन्दहप्रकारकल्पनया ।
टीका
विज्ञप्रिया:
(वि, ड) अत्र कैश्चिदुक्तं सन्देहालङ्कारं दर्शयति—इत्यत्रेति ।
एकविषय इति ।
एकधर्मिणि ।
तर्वादिव्याप्तिः–तर्वादिकर्मकरञ्जनादिव्याप्तिः ।
प्रतिसम्बन्धितर्वादिरूपं विशेष्यं प्रतीत्यर्थः ।
ननु प्रतिविशेष्यं सन्देहा एव बहवः स्युरित्यत्र उत्प्रेक्षाप्रापकहेतुविशेषश्चास्तीत्याह—व्यापनादेरिति ।
तिमिरव्यापनादेरित्यर्थः ।
आदिपदात्तिमिरकृतोच्चनीचादर्शनपरिग्रहः ।
तस्य निगरणमत्रानुत्कटकोटिकरणम् ।
अन्ये तु सन्देहालङ्कारविशेष इत्याहुः, तद्दर्शयति—अन्ये त्विति ।
अत्रोत्प्रेक्षामेव व्यवस्थापयितुमाह—तदप्ययुक्तमिति ।
निगीर्णस्वरूपस्यानुत्कटकोटिविशेषीकृतस्वरूपस्यान्यतादात्म्यमनुत्कटान्यकोटिमदभेदः ।
नन्वेवं निगरणसत्त्वादतिशयोक्तित्वप्रसक्तिरित्यत आह—नुशब्देन चेवशब्दवदिति ।
लोचना:
(लो, ए) रञ्जनादीत्यादिशब्देन नमनादिः ।
एको विषयः, “स्थाणुर्वा पुरुषो वेत्यादौ स्थाण्वादिः ।
अयं मार्तण्डः किमित्यादौ राजादिः ।
समानबलतया–चैककोटितया, इह–प्रकृतोदाहरणे, तुः–पुनरर्थः ।
तर्वादिव्याप्तेः–तरुगगनादौ तमसो व्यापनस्य सम्बन्धिनस्तरुगगनादयः , तदभेदाद् व्यापनस्यापि भेदः ।
ततश्च विषयभेदात्कथमुक्तरूपः संशय इत्यर्थः ।
नच समानबलतयानेककोटिस्फुरणमपीत्याह–व्यापनादेरिति ।
अन्ये–एकदेशिनः ।
अनिर्धारणम्–संशयबीजैकदेशः ।
कथमयुक्तमित्याह–निगीर्णेति ।
अन्यद् विषयात् ।
तस्याः सम्भावनायाः ।
अदृष्टन्यायविद्भिरित्यर्थः ।
सन्देहप्रकारो ऽनेकविषयनिष्ठ एककोट्यधिकस्फुरणाकारश्च ।
“यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्” ॥
टीका
विज्ञप्रिया:
(वि, ढ) “यदेतच्चन्द्रान्तःऽ; इत्यादिश्लोके सापह्नवोत्प्रेक्षाप्रसक्तिं निरस्यापह्नुत्यलङ्कारमात्रं व्यवस्थापयितुमाह—यदेतदित्यादि ।
राज्ञि कस्यचिदुक्तिरियम् ।
चन्द्रस्यान्तर्यदेतद्वस्तु, जलदलवस्य जलदखण्डस्य जलदखण्डस्य सादृश्यरूपां लीलां वितनुते तद् वस्तु, लोकः शशक इति आचष्टे ।
अन्यजनं प्रति तदाचष्टाम्, मां प्रति तु न तथाचष्टे इत्यर्थः ।
मम तथात्वाभावनिश्चयादिति भावः ।
तर्हि तव कीदृशे निश्चय इत्यत्राह—आहन्त्विति ।
त्वया वन्दीकृतानामरीणां विरहेणाक्रान्तानां तदीयतरुणीनां कटाक्षोल्कापातैर्जातो यो व्रणस्तस्य किणो व्रणस्थाने प्रकटभागः, स एव कलङ्को दोषः, तच्चिह्निता तनुर्यस्य तादृशम् ।
इत्यत्र “भन्ये” शब्दप्रयोगे ऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा ।
टीका
विज्ञप्रिया:
(वि, ण) उत्करूपायाः सम्भावनाया इति ।
उत्कटानुत्कटकोटिद्वयरूपाया इत्यर्थः ।
तदप्रतीतिश्च नो मां प्रति तथेत्यर्थः ।
तेन वक्तुः शशकोट्यभावनिश्चयस्य प्रतीतेः ।
नासावपह्नहेति—तथा चापह्नवमात्रमत्रेति भावः ।
लोचना:
(लो, ऐ) जलदस्य मेघस्य लवः ।
कलङ्काङ्कितम्–कलङ्कचिह्नितम् ।
“मन्येऽ; शब्दः क्वचित् क्वचिदुत्प्रेक्षाद्योतकः ।
उक्तरूपायाः–अध्यवसायसाध्यतापदवाच्यायाः ।
वितर्कः–ऊहनम् ।
सिद्धत्वे ऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।
विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो ऽध्यवसायः ।
टीका
विज्ञप्रिया:
(वि, त) अतिशयोक्त्यलङ्कारमाह—सिद्धत्व इति ।
आध्यवसायस्यारोपस्य सिद्धत्वे निश्चयरूपत्वे सति अतिशयोक्तिरित्यर्थः ।
एवं चानिश्चयरूपयोः सन्देहोत्प्रेक्षालङ्कारयोर्वारणम् ।
परन्तु निश्चयालङ्कारापह्नुत्यलङ्काररूपकालङ्कारेष्वतिव्याप्तिरवशिष्यते, तदलङ्कारत्रये आरोप्यस्य निश्चयरूपत्वात् ।
तद्वारणार्थमारोपविषयनिगारणपूर्वकत्वं विशेषणं दत्त्वाऽरोपविशेष्यपरत्वं निबध्नन् व्याचष्टे—विषयनिगरणेनेति ।
विषयिणो ऽभेदप्रतिपत्तिरर्थाद् विषये अध्यवसाय इह विवक्षित इत्यर्थः ।
यत्रारोप्यते स विषयः ।
य आरोप्यते स विषयी ।
निगरणं चाधः करणं व्याख्यास्यते ।
तदप्यविस्पष्टार्थमतो विशेषार्थकं शब्दं विना व्यञ्जनयैव विषयनिषेधबुद्धिरधः करणम् ।
तच्च सर्वविधातिशयोक्तौ तदवसरे दर्शयिष्यते ।
अपह्नुतिनिश्चयालङ्कारयोर्निषेधार्थकशब्द एवास्ति इत्यतो न तत्र निषेध–व्यञ्जना ।
रूपके तु चन्द्रतादात्म्येनैव मुखप्रतीतिर्नतु मुखनिषेधप्रतीतिः ।
अपह्नुतेर्व्यङ्ग्यत्वे तु नासावलङ्कारः किन्तु तद्ध्वनिः ।
तत्रालङ्कारपदप्रयोगस्तु बह्मणश्रमन्यायादोपचारिक एव ।
किन्तु अपह्नुतिध्वनौ अपह्नुतावेवातिव्याप्तिरिति, अतिशयोक्तौ तु अपह्नुतिपूर्वके ऽन्यतादात्म्यारोप इत्यनयोर्भेदः ।
अस्य चोत्प्रेक्षायां विषयिणो ऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् ।
विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ ।
टीका
विज्ञप्रिया:
(वि, थ) सिद्धत्व इत्यस्य व्यावृत्तिं दर्शयति—तस्य चेति ।
साद्ध्यत्वमनिश्चयत्वम् ।
सिद्धत्वं निश्चयत्वम् ।
उत्प्रेक्षावारणं निश्चयत्वविवक्षयैव न तु निगरणपूर्वकत्वविवक्षयेति दर्शयति—विषयनिगरणं चेति ।
अधः करणपदार्थो विवृत एव ।
उत्प्रेक्षायां च विषयतावच्छेदककोटेः क्वचिदनुक्तिवशात् क्वचिच्चोक्ताया अपि अनुत्कटत्वशान्निषेधव्यञ्जना ।
यथा—“गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इति ।
" इत्यत्र गर्भबहिर्भावरूपप्रसवकोट्या उत्कटाया अनुत्कटाया गुणानुबन्धकोट्या उक्ताया एव निषेधव्यञ्जना ।
“गङ्गम्भसि स्नातीव” इत्यादौत्वनुक्ताया गङ्गसम्बन्धकोटेर्निषेधव्यञ्जना ।
अतिशयोक्तिविशेषे ऽपि न तदसम्भव इत्यत आह—इहापि मुखं द्वितीयः इत्यादि ।
द्वितीयचन्द्रोक्तिवशादेव मुखत्वकोटिषेधव्यञ्जनेत्यर्थः ।
द्वितीयचन्द्राभावन्नेदं मुखमयमेव द्वितीयचन्द्र इति प्रतीतेः ।
द्वितीयपदाभावे तु नेदृशई निषेधप्रतीतिरिति तत्र रूपकमेव ।
यदाहुः–
“विषयस्यानुपादाने ऽप्युपादाने ऽपि सूरयः ।
अधः करणमात्रेण निगीर्णत्वं प्रचक्षते” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, द) यदाहुरिति—अनिगीर्णस्योपात्तस्य निगीर्णस्यानुपात्तस्य अधः– करणं तु विवृतमेव ।
भेदे ऽप्यभेदः सम्बन्धे ऽसम्बन्धस्तद्विपर्ययौ ॥ विस्स्द्_१०।४६ ॥
पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ।
तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः ।
सा अतिशयोक्तिः ।
टीका
विज्ञप्रिया:
(वि, ध) अस्याः पञ्चविधत्वमाह—भेदे ऽप्यभेद इति ।
अभेद आरोप्यमाणश्चेत्तदा स आरोपो ऽतिशयोक्तिरित्यर्थः ।
एवमुत्तरत्रापि ।
कार्यहेत्वोः पौर्वापर्यात्ययः–पौर्वापर्यविपर्यय इत्यर्तः ।
अत्र भेदे ऽभेदो यथा मम–
“कथमुपरि कलापिनः कलापो विलसति तस्य तले ऽष्टमीन्दुखण्डम् ।
कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्” ॥
अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः ।
टीका
विज्ञप्रिया:
(वि, न) कथमुपरीति—नायिकाया उपरीत्यथः ।
तदाप तदवयवरूपतयेति बोध्यम् ।
ततो विलोलमित्यत्र तत्स्थानमित्यनुषङ्गः ।
तिलकुसुममित्यत्रापि तत्स्थानमित्यनुषङ्गः ।
प्रवालं—-नवपल्लवम् ।
अत्रारोपविषयाणां केशपाशादीनामनुपादानादेव निषेध्व्यञ्जनरूपाधः करणम् ।
एवमुत्तरोत्तरमपि विषयानुपादाने बोध्यम् ।
उपादाने तु रूपकमेवेति बोध्यम् ।
यथा वा–“विश्लेषदुः खादिव बद्धमौनम्” ।
अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदे ऽप्यभेदः ।
एवम्–
“सहाधरदलेनास्य यौवने रागभाक्प्रियः” ।
अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः ।
टीका
विज्ञप्रिया:
(वि, प) अचेतनगतं चान्यदिति—उत्तरकरणसामर्थ्ये ऽपि तदकरणरूपामौनादन्यदित्यर्थः ।
तच्च शब्दाकरणरूपम् ।
स च विषयोत्रानुपात्तः ।
अस्या यौवने अस्या एवाधरदलेनेत्यन्वयः ।
द्वयोरभेद इति ।
रागपदश्लेषादिति भावः ।
एककालोत्पत्तिकत्वरूपसाहित्यमात्रप्रतीतौ तु अरुणाधरेण सह रागवान् इत्यतो ऽधिकस्य वेचित्र्यस्यानुभूयमानस्यानुपपत्तिप्रसङ्गात् ।
अभेदे भेदो यथा–
“अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः ।
तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्” ॥
टीका
विज्ञप्रिया:
(वि, फ) अन्यदेवेति ।
अङ्गलावण्यादेर्वैलक्षण्यात्तत्रेव तद्भेदारोपः ।
सरसत्वमिति ।
रसिकत्वमित्यर्थः ।
लौकिके तस्मिन्नलौकिकभेदारोपः ।
अत्रान्यत्वाद्यारोपानुक्तस्यापि तद्विषयलावण्यस्य निषेधव्यञ्जना ।
सम्बन्धे ऽसम्बन्धो यथा–
“अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः” ॥
लोचना:
(लो, ओ) पुराणो मुनिः विधिः ।
अत्र च प्रथमार्द्धे नुशब्देनाध्यवसायस्य सिद्धतानिरासादुत्प्रेक्षा ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र पुराणप्रजापतिनिर्माणसम्बन्धे ऽप्यसम्बन्धः ।
टीका
विज्ञप्रिया:
(वि, ब) अस्याः सर्गविधौ इति ।
नु वितर्के ।
अस्या निर्माणविधौ प्रजापत्रिर्निर्माता चन्द्रः यतो ऽसौ कान्तिप्रदः कान्तिमत्त्वेनैव तस्य कान्तिप्रदत्वं सम्भाव्योक्तम् ।
स्वयं मदनो नु यतो ऽसौ शृङ्गारैकरसः ।
इयं हि शृङ्गारिणी ।
पुष्पाकरे चैत्रमासे अपि शृङ्गारैकरसत्वान्वयः ।
मूलविधातृभावं कथं खण्डयसीत्यत्राह—वेदाभ्यासेति ।
पुराणो जीर्णः ।
मुनिः मुनिधर्मा तपस्वीत्यर्थः अत्र ।
चन्द्रादेर्विधातृत्वकथनादारोपविषयस्य विधातृसम्बन्धस्य निषेधव्यञ्जना ।
असम्बन्धे सम्बन्धो यथा–
“यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् ।
तदोपमीयते तस्या वदनं चारुलोचनम्” ॥
अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः ।
टीका
विज्ञप्रिया:
(वि, भ) यदि स्यादिति ।
चारुलोचनस्थाने इन्दीवरद्वयं वदनस्थाने इन्दुमण्डलम् ।
आहृतेन सम्बन्धेन इति ।
इन्दुमण्डले इन्दीवरस्य सम्बन्ध एव स्यादित्येवं सम्बन्धसम्भावना ।
अत्रापि सम्बन्धसम्भावनयैव आरोपविषयस्यासम्बन्धस्य निषेधव्यञ्जना ।
लोचना:
(लो, औ) यद्यर्थेति ।
इह यद्यपि चन्द्रमण्डलस्येन्दीवरद्वयेन सम्बन्धो न सम्भवति तथापि कविना निबद्धस्य वा सम्भावनारूपेणासावस्तीत्यर्थः ।
एतेन “यद्यर्थोक्तौ च कल्पन” मिति कैश्चिदुक्तो ऽतिशयोक्तेर्भेद उदाहृतः, एकस्यैव नानाभावोल्लेखश्च ।
अत्र प्रथमे ग्रन्थकृतैव उदाहृतम्, अन्यदेव इत्यादौ ।
द्वितीये केशपाशादेरित्यादिशब्देन ललाटनयननासाधाराणां सङ्ग्रहः ।
एवं मुखं द्वितीयश्चन्द्रः ।
तथा च—
“चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य” ॥
नचेह तस्या मुखं चन्द्र इतिवदारोपमूलं रूपकम् ।
तादात्म्यदृढतायामध्यवसायस्वरूपोत्थानात् ।
अत्र ही मदनस्य उद्यमं विनापि कोकिलरुतमात्रेण जगद्वशमासीदित्यर्थः ।
यथा—“अत्यारूढो हि नारीणामकालज्ञो मनोभवः ।
" एवं “न कामवृत्तिर्वचनीयमीक्षते” अत्र करणयोर्मनोभवकामवृत्त्योः क्रियाकर्त्तृभेदे ऽप्यभेदेनोक्तिः ।
“इयं कान्ता युवजनमनसो वशीकरण” मित्यादौ च हेत्वलङ्कारो वक्ष्यते ।
स तस्या एवासम्बन्धे सम्बन्धरूपेण भेदेन सङ्गृह्यत इत्यर्थः ।
अत्र शुद्धोदाहरणं विरहवर्णने—“दाहो ऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितऽ; इत्यादि ।
अत्र दाहादीनाम् अम्भः प्रसृतिपाकाद्यैः असम्बन्धे ऽपि सम्बन्धः सिद्धत्वेनोक्तः ।
कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति ।
कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच ।
क्रमेण यथा–
“प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् ।
पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः” ॥
टीका
विज्ञप्रिया:
(वि, म) पञ्चमातिशयोक्तिप्रभेदमुदाहर्त्तुमाह—कार्य्यकारणयोरिति प्रागेवेति–उत्कलिका उत्कण्ठा बकुलरसालयोर्द्वन्द्वः ।
तयोरुद्भिन्नमुकुलश्रियः पश्चादित्यर्थः ।
अत्र मुकुलश्रीदर्शनस्य कारणस्य जन्योत्कण्ठोत्तरोपपन्नत्वेन निर्देशाद्विपर्य्ययः ।
आहार्यबुद्धिविषयेण तेन कारणस्य शीघ्रकारित्वं व्यज्यते ।
अत्राप्युत्तरोपपन्नत्वादारोपविषयस्य पूर्वोत्पन्नस्य निषेधव्यञ्जना ।
एवमुत्तरत्रापि बोध्यम् ।
लोचना:
(लो, अ) उत्कलिका, उत्कण्ठा, उद्रतकोरकश्च ।
“सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम्” ॥
टीका
विज्ञप्रिया:
(वि, य) सममेवेति—तेन रघुणा ।
पितृसिंहासनाक्रमणरूपकारणस्य महीक्षिन्मण्डलाक्रमणरूपकार्य्यस्य समकालोपपन्नत्वकथनात्पैर्वापर्य्यविपर्य्ययः ।
इह केचिदाहुः–केशपाशादिगतो लौकिको ऽतिशयो ऽलौकिकत्वेनाध्यवसीयते ।
केशपाशादीनां कलापादिभिरध्यवसाये “अन्यदेवाङ्गलावण्यम्” इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य” इति ।
तन्न,–तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते ।
तथाहि “अन्यदेव” इति स्थाने “अन्यदिव” इति पाठे ऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते ।
“प्रगेव हरिणाक्षीणाम्–” इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र ।
टीका
विज्ञप्रिया:
(वि, र) ग्रन्थकृदुक्तस्यातिशयोक्तिसामान्यलक्षणस्य अन्यदेवाङ्गलावण्यमित्यादावव्याप्तिं केचिदाहुस्तद्दूषयितुमाह—इह केचिदिति ।
विषये विषयिणो ऽभेदेनाध्यवसायो हि भवत्कृतलक्षणार्थः, विषयविषयिभावश्च भेदघटितः ।
तथा च “कथमुपरि कलापिनः” इत्यत्र केशकलापयोर्भेदसत्तवात्तल्लक्षणार्थसम्भवे ऽपि “अन्यदेवाङ्गलावण्यम्ऽ; इत्यत्र तत्रैव तद्भेदारोपे भेदघटितविषयविषयिभावाभावादव्याप्तिरिति केषाञ्चिदुक्तिं दर्शयति—केशपाशादिगत इति ।
अतिशयः सौन्दर्य्यं लौकिको ऽन्यलोककेशसाधारणः अलौकिकत्वेन लोकविलक्षणकलापनिष्टसौन्दर्य्यत्वेनाध्यवसीतय इत्यर्थः ।
तयोः सौन्दर्ययोरभेदाध्यासमूलककेशपाशकलापयोर्भिन्नयोरभेदध्यासः सम्भवतीत्याह—केशापाशादीनामिति ।
अध्यवसाये इत्यनन्तरं सम्भवत्यपीति पूरणीयम् ।
तथापि अन्यदेवेत्यादिप्रकारेष्वव्याप्तिरित्याह—अन्यदेवेति ।
आरोप्यमाणरोपविषयलावण्ययोर्भेदाभावादिति भावः ।
अभेदे भेदारोपो ऽस्मदुक्तलक्षणार्थे ऽत्राप्यस्तीति ब्रुवन् समाधत्ते—तन्न ।
तत्र हीति ।
अनन्यदङ्गलावण्यमभिन्नमङ्गलावण्यमन्यत्वेन भिन्नत्वेनाध्यवसीयत इत्यर्थः ।
तथा च भिन्नत्वेनाध्यवसायादारोपविषये ऽभेदे तद्भिन्नस्य भेदस्यारोपाद् भेदघटीतो विषयविषयिभावो ऽत्राप्यस्तीति साधितम् ।
उत्प्रेक्षायां विषयविषयिभेदघटित आरोपस्तवापि सम्मतः ।
अत्रैवोत्प्रेक्षासम्भवाद् भेदघटितारोपः त्वन्मते ऽपीत्याह—तथा हीति—अतिशयोक्तितो वायवृत्तिदर्शनाय साध्यत्वप्रदर्शनम् “प्रागेव हरिणाक्षीणाम्ऽ; इत्यत्रापि भेदघटीतो विषयविषयिभावो ऽस्तीति दर्शयति ।
अत्राप्युत्प्रेक्षासम्भवं दर्शयति—अत एवेति ।
भेदघटितविषयविषयिभावसत्त्वादेवेत्यर्थः ।
लोचना:
(लो, आ) लौकिकः स्वाभाविकः ।
अलौकिकत्वेनाध्यवसायफलभूतालौकिकातिशयत्वेनाङ्गलावण्यमित्यादिशब्देन"प्रिय इति गोपवधूभि” रित्यादेरुपसङ्ग्रहः ।
अव्याप्तिलक्षणस्य इत्ययमाशयःउउपमेयवस्तुनः उपमानवस्तुतादात्म्ये एवाध्यवसायरूपोत्थापनम् ।
इह चान्यादिशब्दाख्यं लावाण्यादेः किमपि प्रतिनिधिवस्त्वन्तरं नास्ति ।
तदेवमादिषूहारणेषु लक्षणस्याव्याप्तिरिति सिद्धान्तमाह–तन्नेति ।
कथमन्यत्वेनाध्यवसाय इत्यत आह—तथा हीति ।
पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ॥ विस्स्द्_१०।४७ ॥
एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ।
टीका
विज्ञप्रिया:
(वि, ल) तुल्ययोगितालङ्कारमाह—पदार्थानामिति ।
अन्येषां वेति ।
वाकारेण पृथक् स्वतन्त्र्यबोधनात् प्रस्तुताप्रस्तुतयोर्मिश्रणनिषेधो वोध्यः ।
तन्मिश्रणे तु दीपकालङ्कारो वक्ष्यते ।
लोचना:
(लो, इ) पदार्थानामिति ।
बहुवचनमतन्त्रम् ।
तेन पदार्थयोरपीति ज्ञेयम् ।
प्रस्तुतानां प्राकरणिकानाम् ।
अप्रस्तुतानाम् अप्राकरणिकानाम् ।
अन्येषामप्रस्तुतानाम् ।
धर्मो गुणक्रियारूपः ।
उदाहरणम्–
“अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः ।
समयेन तेन सुचिरं शयित- प्रतिबोधितस्मरमबोधिषत” ॥
लोचना:
(लो, ई) अनुलेपनानीति ।
सुचिरं शयितं स्मरं प्रतिबोधितस्यरम् अबोधिषतेत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः ।
टीका
विज्ञप्रिया:
(वि, व) अनुलेपनानीति ।
तमिस्त्रायां तत्कालीनवस्तूनां कामुककामोद्दीपकवर्णनमिदम् ।
सुचिरं शयितं तेन समयेन तादृशरात्रिरूपेण प्रतिबोधितं जागरितं स्मरम् अनुलेपनादयो अबोधिषत क्रीडार्थं बोधयामासुरित्यर्थः ।
तमोवर्णनस्येति ।
तमसः कामोद्दीपकत्वात् तस्मिन् प्रस्तुते तत्कालीनानामन्येषामुद्दीपकानामनुलेपनादीनामपि प्रस्तुतत्वमिति भावः ।
“तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता” ॥
इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः ।
टीका
विज्ञप्रिया:
(वि, श) अप्रकृतानामेकगुणसम्बन्धमाह—त्वदङ्गमार्दवं द्रष्टुरिति ।
तद्द्रष्टुः कस्य जनस्य चित्ते मालत्यादीनां कठोरता न भासते ।
तन्मार्दवाधिक्येनात्र कठोरताभासनात् ।
अत्र त्वदङ्गोपमानत्वेन मालत्यादयो ऽप्रकृताः ।
एवम्–
“दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः ।
परोपकारणं कायादसारात्सारमाहरेत्” ॥
अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः ।
टीका
विज्ञप्रिया:
(वि, ष) प्रकृतानामेकगुणसम्बन्धो ऽप्रकृतानामेवक्रियासम्बन्धश्चानुदाहृत एवश्लोकेन उदाह्रियते—एवं दानं वित्तादिति ।
वित्तादितो ऽसाराद्दानादिकं सारमुद्धरेदित्यन्वयः ।
अत्र प्रकृतानामेकगुणक्रियासम्बन्धं दर्शयति—अत्र दानादीनामिति ।
उपार्जनीयत्वेन दानादीनिप्रकृतानि ।
अत्र प्रकृतानामपादानभूतानामेसारतागुणसम्बन्धो ऽप्यत्रैवास्ति ।
ग्रन्थगौरवापत्त्या न प्रदर्शितः ।
लोचना:
(लो, उ) कारकान्तरे ऽपि उदाहरति–दानमिति ।
अत्र न केवलं दानादीनामुद्धरणक्रियासम्बन्धो वित्तादीनामप्यसारतारूपैकगुणसम्बन्धः ।
इह च तुल्ययोगितायां “हसश्चन्द्र इवाभातीऽत्यादिवद् द्वयोः प्रकृतत्वे ऽप्युपमानोपमेयभावो वैवक्षिकः ।
इहे वाद्यभावाद् औपम्यस्य गम्यत्वम् ।
अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ॥ विस्स्द्_१०।४८ ॥
अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ।
टीका
विज्ञप्रिया:
(वि, स) दीपकालङ्कारमाह—अप्रस्तुतप्रस्तुयोरित्यनयोरेकधर्म्माभिसम्बन्ध इत्यनुषङ्गः ।
अन्यविधं दीपकमाह—अथेति ।
लोचना:
(लो, ऊ) अप्रस्तुतप्रस्तुतयोरेकधर्माभिसम्बन्ध इत्यर्थः ।
इह च द्वयोः प्रकृताप्रकृतत्वादिवाद्यभावादौपम्यस्य गम्यत्वं स्फुटमेव ।
क्रमेणोदाहरणम्–
“बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि” ॥
टीका
विज्ञप्रिया:
(वि, ह) बलावलेपादिति ।
अवलेपो ऽहङ्कारः ।
पूर्ववद्धिरण्यकशिपुरूपपूर्वजन्मवत् जिगीषुणा शिशुपालेनापि जगद् बाध्यत इत्यन्वयः ।
अर्थान्तरं न्यस्यतिसती चेति ।
भवान्तरेषु जन्मान्तरेषु ।
अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः ।
“दूरं समागतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा ।
उत्तिष्ठति स्वपिति वासगृह त्वदीय- मायाति याति हसति श्वसिति क्षणेन” ॥
टीका
विज्ञप्रिया:
(वि, क) अनेकक्रियास्वेककारकान्वयमाह—दूरमिति ।
प्रवासादागते नायके तत्पत्नीसख्या तद्विरहावस्थाकथनमिदम् ।
समागतवति—आगतवति ।
तपस्विनी दुः खान्विता सा तव प्रिया वासगृहगमनम्, त्वत्प्राप्तिसम्भावनया ।
इदं मम ।
अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः ।
अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् ।
लोचना:
(लो, ऋ) तपस्विनीति–शोच्या ।
इह दीपकप्रकारे क्रियाणां प्रस्तुतत्वादुपमानोपमेयभावो वैवश्रिकः ।
तत्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य प्रवृत्तौ आदिमध्यान्तदीपकास्त्रयो ऽस्य भेदाः ।
तत्रादिदीपकं यथा—
“रहेइ मिहिरेण णहं रसेण कव्विं सरेण जोव्वणअं ।
अमएण धुणिधवओ तुमए णरणाह भुअणमिणं ।
ऽ; मध्यदीपकं यथोदाहृते बलावलेपादित्यादौ ।
एवमन्यत् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ॥ विस्स्द्_१०।४९ ॥
एको ऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।
टीका
विज्ञप्रिया:
(वि, ख) प्रतिवस्तूपमालङ्कारमाह—प्रतिवस्त्विति ।
अत्र गम्यसाम्ययोरुक्तिवशाद् उपमेयोपमानयोरिति लभ्यते ।
तेन वाक्यद्वये ये उपमेयोपमाने, तयोरेको ऽपि सामान्यो धर्मः पृथक्शब्दभेदेन यत्रालङ्कारे निर्दिश्यते सा प्रतिवस्तूपमेत्यर्थः ।
गम्यसाम्ययोरिति बोध्यमाम्ययोरित्यर्थः ।
बोध्यता च क्वचिच्छब्दद्वयेन शक्तिलक्षणाभ्यां क्वचिच्चोपमेयगतस्य शब्दशक्त्या ध्रमान्तरे तद्वैधर्म्येण व्यञ्जनया ।
तच्चोदाहरणे दर्शयिष्यति ।
लोचना:
(लो, ॠ) व्सुतवाक्यार्थः ।
एवं च प्रतिनिर्दिष्टेन वाक्यार्थेन वाक्यार्थस्य उपमासादृश्यं यस्यामित्यनेन वाक्यार्थस्योपमासादृश्यं यस्यामित्यन्वर्था प्रतीवस्तूपमा ।
सामान्यः साधारणः ।
पृथक् पर्य्यायादिना निर्दिश्यते प्रतिपाद्यते पौनरुक्त्यनिरासाय इत्यर्थः ।
एकैकोपचाराश्रयेण नैकार्थपर्य्यवसानात् ।
यथा–
“धन्यासि वैदभि ! गुणैरुदारैर्यया समाकृष्यत नैषधो ऽपि ।
इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति” ॥
अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निर्दिष्टा ।
टीका
विज्ञप्रिया:
(वि, ग) धन्यासीति ।
प्रसिद्धजितेन्द्रियत्वेन धीरो नैषधौऽपीत्यर्थः ।
अत्र प्रतिवस्तूपमामाह—अत्रेति ।
अत्र दमयन्ती उपमेया चन्द्रिका उपमानं तयोर्धोराकर्षणमेको धर्मः ।
आकृष्यत इति ।
शब्दशक्त्या उत्तरलीकरोति इत्यत्र उत्तरलताजनकाकर्षणविशिष्टीक्रियते इत्यर्थः ।
उत्तरलीकरणं चेति ।
उत्तरलीकरणजनिका चेत्यर्थः ।
एकैवेति ।
आकर्षणरूपकैवेत्यर्थः ।
भिन्नवाचकतयेति भिन्नप्रातिपदिकतयेत्यर्थः ।
इयञ्च मालयापि दृश्यते यथा–
“विमल एव रविर्विशदः शशी प्रकृतिशोभन एव हि दर्णः ।
शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः” ॥
टीका
विज्ञप्रिया:
(वि, घ) विमल एवेति ।
शिवगिरिः कैलासः ।
शिवहासः शिवस्य अट्टहासः हासन्तरापेक्षया विलक्षणः ।
अत्र सज्जन एव वाक्ये उपमेयः ।
वाक्यान्तरेषु उपमानानि ।
निर्मलत्वम् एको धर्मः शब्दभेदेन प्रतिपादितः ।
लोचना:
(लो, ऌ) विमल एवेत्यादौ चतुर्थपादः प्रकृतः ।
अत्र विमलविशदादिरर्थत एव ।
वैधर्म्येण यथा–
“चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि” ॥
टीका
विज्ञप्रिया:
(वि, ङ) वैधर्म्येण यथेति—उपमेये निर्दिष्टधर्मविपरीताद् धर्म्यन्तरे निर्दिष्टाद्धर्माद् व्यञ्जनया लभ्येनोपमाननिष्ठसाधर्म्येण इत्यर्थः ।
चकोर्य एवेति ।
आवन्त्यो ऽवन्तीदेशीयाः स्त्रीर्विना, रतिकर्मणि नान्याः सुदृशो निपुणा इत्यर्थः ।
अत्र स्वकर्मचातुर्यस्य उपमेयासु चकोरीषु निर्दिष्टस्य विपरीतो धर्मः अवन्तीयस्त्रीभिन्नस्त्रीषु निर्दिष्टो रत्यनैपुण्यरूपः ततो व्यञ्जनया उपमानेषु अवन्तीस्त्रीषु स्वकर्मचातुर्य्यं साधर्म्यं प्रतीयते ।
दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ॥ विस्स्द्_१०।५० ॥
लोचना:
(लो, ए) सधर्मस्य साधारणगुणक्रियासहितस्य वस्तुनो वाक्यार्थस्य ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः ! अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा ।
टीका
विज्ञप्रिया:
(वि, च) दृष्टान्तालङ्कारमाह—दृष्टन्तस्त्विति ।
सधर्मस्य साधारणैकधर्मस्य, प्रतिबिम्बनमुभयत्र निर्दिष्टाभ्यां परस्परसमानाभ्यां धर्माभ्यामेकस्य तस्य व्यञ्जनमित्यर्थः ।
सधर्मः प्रसिद्ध एवं विवक्षित इत्यप्रस्तुतप्रशंसायां व्यक्तिर्भविष्यति ।
प्रतिवस्तूपमायां तूपमेयनिर्दिष्टो धर्मो वाच्य एव उपमाननिर्दिष्टशब्दस्य लक्षणया क्वचिच्छक्त्या वा स बोध्य इति भेदः ।
तस्य व्यञ्जनया बोधे तु दृष्टान्तः ।
साधर्म्यवैधर्म्याभ्यामिति ।
साधर्म्यव्यञ्जनार्थं निर्दिष्टाभ्यां साधर्म्याभ्यां साधर्म्यवैधर्म्याभ्यां चेत्यर्थः ।
क्रमेणोदाहरणम्–
“अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला” ॥
टीका
विज्ञप्रिया:
(वि, छ) अविदितगुणापीति ।
वर्णमाधुर्य्यादेवेति भावः ।
अत्र कर्णे मधुधारावमननेत्रहारणे धर्मै भिन्नौ प्रीतिजनकतया परस्परसमानौ ।
प्रतिजनकत्वरूप एको धर्मः ताभ्यां व्यङ्ग्यः ।
“त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा ।
दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः” ॥
टीका
विज्ञप्रिया:
(वि, ज) साधर्म्यवैधर्म्याभ्यां व्यञ्जनेत्याह—-त्वयि दृष्टेति ।
दृष्टानुदयेति ।
दृष्टो यो ऽनुदय इन्दौ तद्भाजि सतीत्यर्थः ।
उदयसत्त्वे ऽपि मेघात्तददर्शनात् ।
क्लान्तिप्रतिपादनार्थं दृष्टेत्युक्तम् ।
अत्र व्यथास्त्रंसनस्य विपरीतो धर्मः क्लान्तिः, उपमेयोपमानगताभ्यां ताभ्यां स्वस्वप्रियदर्शने स्वार्थप्राप्तित्वमेको धर्मः व्यज्यते ।
नच वैधर्म्यव्यङ्ग्यप्रतिवस्तूपमातो ऽस्या को भेद इति वाच्यम् ।
तत्र वैधर्म्यं धर्मान्तरनिष्ठम्, अत्र तूपमाननिष्ठं तथा च तत्र वैधर्म्येणैव व्यञ्जना ।
अत्र तु उभयनिष्ठाभ्यां साधर्म्यवैधर्म्याभ्यां व्यञ्जनेति भेदात् ।
“वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः ।
प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम्” ॥
टीका
विज्ञप्रिया:
(वि, झ) यत्र तु समानधर्मप्रतिपादकशब्दाभ्यामेको धर्मो व्यञ्जनां विनैव प्रतिपाद्यते तत्र प्रतिबिम्बाभावात् प्रतिवस्तूपमैवेति ।
अत्र स्वकीयं श्लोकमुदाहरति—वसन्तलेखैकेति—वसन्तलेखा नायिकाविशेषः ।
राज्ञश्चेयमुक्तिः ।
इदं पद्यं मम ।
अत्र “मनः कुतो नः” इत्यस्य “काङ्क्षति वल्लिमन्याम्” इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव ।
इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् ।
टीका
विज्ञप्रिया:
(वि, ञ) एकरूपतयैव पर्य्यवसानादिति ।
वाच्यप्रश्ररूपैकधर्मविषयतया एकत्वारोपादित्यर्थः ।
अत्र हि परनायिका उपमेया अन्या बह्व्यश्च उपमानानि तासां मनोविषयत्वाकाङ्क्षाविषयत्वयोर्हेतुप्रश्रैकधर्मविषयतया एकत्वारोपरूपपर्य्यवसानम् ।
अविदितगुणापीत्यत्र तु नैकत्वपर्यवसानम् ।
किन्तु समानधर्माभ्यामुभयसाधारणैकधर्मव्यञ्जनमेवेत्याह—इह त्विति ।
लोचना:
(लो, ऐ) एकरूपतयैव पर्य्यवसानादिति ।
“मनः कुतोनऽ; इत्यस्य पर्य्यवसाने नान्यां कान्तां काङ्क्षामि इत्येतदर्थत्वाद् इह दृष्टान्ते तु पुनः बिम्बप्रतिबिम्बभावः ।
अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः ।
टीका
विज्ञप्रिया:
(वि, ट) अर्थान्तरन्यासाद् द्वयोः प्रतिवस्तूपमादृष्टान्तयोर्भेदमाह—समर्थ्येति ।
वाक्ययोरित्यत्र वाक्यार्थयोरित्यर्थः ।
अनयोरपि उपमेयं सामर्थ्यमुपमानं समर्थनमित्यतो ऽभेदप्रसक्तिः ।
न तथेति ।
न सामान्यविशेषभाव इत्यर्थः ।
सम्भवन् वस्तुसम्बन्धो ऽसम्भवन् वापि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ॥ विस्स्द्_१०।५१ ॥
टीका
विज्ञप्रिया:
(वि, ठ) निदर्शनालङ्कारमाह—सम्भवन्निति ।
वस्तुनोः क्वचित् क्रियाकारकयोः ।
क्वचिद् यत्तद्पदार्थयोः सम्बन्धः असम्भवन्, क्वचिद् असम्भवन्, वाचकयोर्यत्र कुत्रचिद् बिम्बानुबिम्बत्वं सादृश्यं बोधयेदित्यर्तः ।
लोचना:
(लो, ओ) वस्तुसम्बन्धो ध्रमधर्मिभाव इत्यर्थः ।
असम्भवन् बाधप्रतिभासादित्यर्थः ।
बिम्बानुबिम्बत्वम्, बिम्बप्रतिबिम्बभावः ।
निदर्शनं प्रतिबिम्बीकरणम् ।
तदस्यां भणितावस्तीति निदर्शना ।
तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा–
“को ऽत्र भूमिवलये जनान् मुधा तापयन् सुचिरमेति सम्पदम् ।
वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः” ॥
टीका
विज्ञप्रिया:
(वि, ड) को ऽत्रेति ।
अत्र बूमिवलये मुधा निरर्थकं जनांस्तापयन् कः सुचिरं सम्पदमेति ।
भानुमानिति ।
वेदयन् ज्ञापयन् दिनेन चरमाचलं ततो नभोमध्यादाससादेत्यर्थः ।
दिनेनेत्यत्र दिनस्य पूर्ववर्त्तित्वरूपकारणतायं तृतीया ।
लोचना:
(लो, औ) दिनेनेत्यपवर्गे तृतीया ।
तृतीयार्थः परितापिनां विपत्प्राप्तिरूपः ।
अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव ।
टीका
विज्ञप्रिया:
(वि, ढ) अत्रेति ।
अत्र कर्त्तृत्वान्वयो जनकत्वान्वयः स्वस्तिगमनेन तादृशवदस्यानुमितिरूपस्य जनकत्वात् ।
जनः सुचिरं न सम्पदमेति परतापकत्वादस्तगामिरविवदित्यनुमितिसम्भवात् ।
सादृश्यव्यञ्जनरूपं प्रतिबिम्बानुबिम्बबोधकत्वं तस्य दर्शयति—स चेति ।
स च सम्बन्धः इत्यर्थः ।
परतापिनो रवेरस्तगमनवदन्येषामपि परतापिनां विपत्प्राप्तिरित्येवं हि तत् ।
ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् ।
स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति ।
असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा ।
तत्रैकवाक्यगा यथा–
“कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः ।
अधरः किसलयलीलामाननमस्याः कलानिधेविलासम्” ॥
अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति ।
टीका
विज्ञप्रिया:
(वि, ण) कलयतीति ।
अस्याः कुटिलः कटाक्षविक्षेपः कुवलयमालाया ललितं विन्यासं कलयति तधाति ।
एकमुत्तरत्रापि कलयतीत्यस्यान्वयः—अत्रेति ।
कटाक्षविक्षेपादीनां कर्तॄणां ललितादीनां कर्मणां धर्मतया धर्मिणोरप्यत्र प्रतिविम्बानुबिम्बं दर्शयति; तद्वल्ललितादिकमवगमयत्कटाक्षविक्षेपादेश्चेति ।
अत्रैकवाक्यगतयोरुपमेयोपमानयोः प्रतिबिम्बानुबिम्बनम् ।
एवमुत्तरत्रापि ।
लोचना:
(लो, अ) अवगमयत्-प्रत्यायत् ।
ललितव्यक्तेः सजातीयत्वेनात्यन्तासङ्गतिविरहेणादूरविप्रकर्षादिभावः ।
एवं लीलादावपि ज्ञेयम् ।
यथा वा–
“प्रयाणे तव राजेन्द्र ! मुक्ता वैरिमृगीदृशाम् ।
राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः” ॥
अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागो ऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति ।
टीका
विज्ञप्रिया:
(वि, त) प्रयाणे तवेति ।
तव प्रयाणे यात्रायां सत्यां वैरिमृगीदृशां पद्भ्यां राजहंसगतिर्मुक्ता द्रुतपलायमानत्वात् । आननेन च शशिद्युतिर्मुक्ता म्लानत्वात् ।
असम्बद्धेति ।
सम्बद्धस्यैव त्यागसम्भवात् ।
सम्बन्धः कल्प्यत इति ।
प्रतियोग्यारोपपूर्वकत्वादभावग्रहस्य ।
प्रतिबिम्बनं दर्शयति—स चेति ।
लोचना:
(लो, आ) कल्प्यत इत्यतः पूर्वं प्रथममिति शेषः ।
उपलक्षणं चैतत् ।
एवमाननेन शशिद्युतिरित्यत्रापि ज्ञेयम् ।
अनेकवाक्यगा यथा–
“इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” ॥
टीका
विज्ञप्रिया:
(वि, थ) इदं किलेति—आश्रमे तपस्योचितवेशां शकुन्तलां दृष्ट्वा दुष्मन्तस्योक्तिरियम् ।
अव्याजेन यथार्थ्येन ।
मनोहरमिदं वपुर्यो मुनिस्तपः क्षमं साधयितुम् इच्छति ध्रुवं निश्चितं स मुनिर्नोलोत्पलपत्रधारया कोमलया कठिनां शमीलतां छेत्तुं व्यवस्यतीत्यर्थः ।
अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयो ऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति ।
टीका
विज्ञप्रिया:
(वि, द) अत्र यत्तच्छब्देति ।
वाक्यार्थयोरित्यत्र काव्यद्वयार्थयोरित्यथः ।
वाक्यार्थौ तु तपः क्षमत्वसाधनेच्छुः शमीलताच्छेदनेच्छुश्च ।
व्यवसायस्यापीच्छार्थकत्वात्तयोरभेदान्वयो ऽनुपपद्यमान इत्यर्थः ।
यत्तदोरेकधर्मिबोधकत्वेनाभेदान्वय एव व्युत्पत्तिसिद्धः ।
स चेच्छाद्वययोरभेदाभावादनुपपद्यमान इत्यर्थः ।
लोचना:
(लो, इ) इदं वपुः तपः क्षमं साधयितुमिच्छति यो ऽनेन शकुन्तलाया वपुषा तपो निर्वाहयितुमिच्छतीति भावः ।
न केवलं यत्तदोर्द्वयोः शाब्दत्वे वाक्यनिदर्शना ।
एकस्यार्थत्वे ऽपि यथा—
“शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः” ॥
एवम्—“मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् ।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्द्धयोच्छिखाम्” ॥
“यञ्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत्” ॥
इत्यत्र तु निदर्शना अलङ्कार्य्या ।
नहीह “द्वारताऽ; मिवेति सामर्थ्यातिरस्ति ।
उपमेयादिसम्भवादिह प्रतीयमानोत्प्रेक्षेति राघवानन्दमहापात्राः—
“मुनेस्तत्र मनोभेदे दुर्लभे सुरकाङ्क्षिते कटाक्षा एवमेणाक्ष्याः प्रययुः स्मरबाणताम् ।
" इत्यादिषु तु परिणामादय एव ।
यथा–
“जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया ।
काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया” ॥
अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानम् ।
एवम्–
टीका
विज्ञप्रिया:
(वि, ध) जन्मेदमिति ।
व्यर्थतानयनं चिन्तामणिविक्रयश्चेति जन्मापि चिन्तामणिरिवेति बोध्यम् ।
“क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ॥
अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानम् ।
टीका
विज्ञप्रिया:
(वि, न) क्क सूर्येति ।
रघुवंशं वर्णयितुमिच्छोः कालिदासस्य उक्तिरियम् ।
मतिरित्यत्र ममेति शेषः ।
अत्र पूर्वार्द्धे वक्ष्यमाणो विषमालङ्कारः ।
परार्द्धं तु प्रकृतोदाहरणम् ।
तद् ग्राहयति—अत्र मन्मत्येति ।
नच तितीर्षुपुरुषरूपकमेव कथं नात्रेति वाच्यम्; तादृशपुरुषाप्रसिद्धेः; कस्यचिदुत्मत्तस्य तादृशस्य सत्त्वे ऽपि तस्य बुद्ध्यनारोहात्; किन्तु वक्तर्येव तितीर्षायाः स्फुटमवभासः ।
तस्य बोधेन रघुवंशवर्णनतितीर्षयोः सादृश्यमवगम्यते ।
लोचना:
(लो, ई) सागरतरणमिवेत्यनन्तरं बिम्बप्रतिबिम्बभाव इति शेषः ।
इयं च क्वचिदुपमेयवृत्तस्योपमाने ऽसम्भवे ऽपि भवति ।
यथा–
“यो ऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।
समास्वादि स मृद्वीकारसे रसविशारदैः” ॥
टीका
विज्ञप्रिया:
(वि, प) इयं चेति ।
इयं निदर्शना उपमेयवृत्तस्योपमेयधर्मस्य “कलयति कुवलयऽ; इत्यादौ तूपमानधर्मस्यैवोपमेयासम्भवाद्दर्शिता ।
असम्भवे ऽपीति ।
उपमानगतत्वेनोक्तस्यासम्भवे ऽपि तत्सादृश्यबोधनादित्यर्थः ।
यो ऽनुभूत इति ।
मधुरिमा ।
मृद्वीका द्राक्षा, तस्या रसे द्रवे ।
अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसे ऽसम्भवात्पूर्ववत्साम्ये पर्यवसानम् ।
लोचना:
(लो, उ) पूर्ववत् पूर्वोदाहरणवत् ।
एवं “सो ऽपि त्वदाननरुचं विजहति चन्द्रः” इत्यत्र “प्रयाणे तव राजेन्द्र” इत्युदाहरणवन्निदर्शनैव, निदर्शनालङ्कारलक्षणस्य तथाविधपर्यवसितबिम्बप्रतिबम्बभावस्य सम्भवात् ।
अन्यथा यो ऽनुभूत इत्यादौ समनन्तरोक्तोदाहरणे ऽपि निदर्शनाभावप्रसङ्गाच्च ।
एवं “सम्भवन् वस्तुसम्बन्ध उपमापरिकल्पकः निदर्शने"ति लक्षणे चोपमाशब्दः सादृश्यमात्रार्थो न तूपमालङ्कारार्थः ।
अत एवालङ्कारसर्वस्वकृतापि प्रतिबिम्बकारणं निदर्शनेत्युक्तम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
मालारूपापि यथा मम–
“क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने” ॥
टीका
विज्ञप्रिया:
(वि, फ) क्षिपसीति ।
भोगासक्तपुरुषं प्रति शान्तपुरुषस्योक्तिरियम् ।
हे पुरुष ! त्वं भोगविताने भोगसमूहे चेतो विदधद् वृषदंशकस्य मार्जारस्य मुखे शुकं क्षिपसि ।
यथा मार्जारः शुकं हिनस्ति तथा भोगवितानो ऽपि नरकपातेन हिंसिष्यति ।
अतः शुकस्य तत्र क्षेप इव भोगे चेतोविधानमित्यर्थः ।
एवमुत्तरत्रापि ।
मृगादनो व्याघ्रः ।
इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानम् ।
दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् ।
नापीयमर्थापत्तिः, तत्र “हारो ऽयं हरिणाक्षीणाम्–” इत्यादौ सादृश्यपर्यवसानाभावात् ।
टीका
विज्ञप्रिया:
(वि, ब) दृष्टान्तनिदर्शनयोर्भेदं दर्शयति—इह बिम्बेति ।
वाक्यार्थापर्यवसानं बाधादिति भावः ।
पर्यवसितेनेति ।
तत्र बाधाभावादित्यर्थः ।
सामर्थ्योदिति ।
प्रयुक्तानुपयुक्तकथनापत्तिपरिहार एव सामर्थ्यम्, ।
“हारो ऽयं हरिणाक्षीणाऽ; मिति— “हारो ऽयं हरिणआक्षीणां लुठति स्तनमण्डले ।
मुक्तानामप्यवस्थेयं क्व वयं स्मरकिङ्कराः ।
" इति श्लोके ऽस्माकं स्तनमण्डले सुतरां लुठनमुचितमित्येव हि पर्यवसानम् ।
न तु सादृश्यस्येत्यर्थः ।
एककथनाद् दण्डापूपन्यायाद् अन्यपर्यवसानस्यैवार्थापतित्वात् ।
लोचना:
(लो, ऊ) मृगादनस्तरक्षुः ।
वाक्यार्थस्यापर्यवसानमन्वयानुपपत्तेः, पर्यवसितेनान्वयानुपपत्त्यभावादुपमेयवाक्येनोपमानवाक्येन च प्रत्येकं स्वस्वबोधनविश्रान्तेन ।
अपर्यवसानस्य सादृश्ये ऽभावः ।
किन्तु नियतसमानन्यायेनार्थान्तरस्यापतनमात्रेण ।
आदिक्यमुपमेयस्योपमानान्न्यूनताथवा ।
व्यतिरेकः–
स च–
–एक उक्ते ऽनुक्ते हेतौ पुनस्त्रिधा ॥ विस्स्द्_१०।५२ ॥
टीका
विज्ञप्रिया:
(वि, भ) व्यतिरेकालङ्कारमाह—आधिक्यमिति ।
उपमेयस्योपमानादाधिक्यं न्यूनताथवा वर्ण्यते स व्यतिरेकालङ्कार इत्यर्थः ।
तस्य विभक्तविभागेनाष्टचत्वारिंशद्विधत्वम् ।
स चेति ।
क्वचित्तु एक उत्के ऽनुक्ते हेतौ पुनः त्रिधेति कारिका ।
एव इत्यादेरुत्थापिकावृत्तिः ।
हेतावित्युत्कर्षानुपकर्षतया हेतुद्वयेः इत्यर्थः ।
चतुर्विधो ऽपि साम्यस्य बोधनाच्छब्दतो ऽर्थतः ।
लोचना:
(लो, ऋ) हेताविति ।
ज्त्यपेक्षयैकवचनम् ।
यदुक्तं वृत्तौ हेतुरुपमेयगतमित्यादि ।
शब्दत इति ।
यदुक्तमत्रैव—श्रौती यथेववाशब्दा इति ।
अर्थत इति ।
यदुक्तमत्रैव—आर्थो तुल्यसमानाद्या इत्युक्तन्यायात् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
आक्षेपाच्च द्वादशधा श्लेषे ऽपीति त्रिरष्टधा ॥ विस्स्द्_१०।५३ ॥
प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः ।
उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च ।
तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधे ऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारो ऽपि श्लेषे, “अपि” शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः ।
उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः ।
टीका
विज्ञप्रिया:
(वि, म) कारिकार्थं स्वयमेव विशदयति—उपमेयस्येति ।
प्रत्येकमिति ।
उत्कर्षहेतोर्निकर्षहेतोर्वानुक्तौद्वौ ।
समुदायानुक्तौ चैकं इत्यनुक्तित्रयमित्याह—त्रिविध इति ।
हेतुद्वयोक्तिसाहित्यादाह—चतुर्विधे ऽप्यस्मिन्निति ।
निवेदनं ज्ञापनम् ।
शब्देनेति ।
उपमायाः श्रौतीत्वे इत्यर्थः ।
अर्थेनेति ।
उपमाया आर्थोत्वे इत्यर्थः ।
आक्षेपेणेति ।
उपमाप्रतिपादकानाम् इवादीनां तुल्यादिपदानां चाभावे कल्पनेनेत्यर्थः ।
इति द्वादशविधोपीति ।
हेतुद्वयोक्त्यनुक्तित्रयवशाच्चतुर्विधस्य उपमायाः शब्दार्थाक्षेपवशात्त्रिगुणत्वेन द्वादशविध इत्यर्थः ।
तद् द्वादशकस्य श्लेषाश्लेषयोः सम्भवं कारिकोक्तादपिशब्दाद् दर्शयति—श्लेषे ऽपीति ।
भङ्ग्या प्रकारेण ।
उदाहरणम्–
“अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा” ।
टीका
विज्ञप्रिया:
(वि, य) अकलङ्कमिति ।
कलङ्की विधुर्यथा तस्या मुखं तथा न, किन्तु ततोधिकम् ।
यतो ऽकलङ्कमित्यर्थः ।
अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम् ।
अत्रैव “न कलङ्किविधूपमम्” इति पाठे आर्थम् ।
“जयतीन्दुं कलङ्किनम्” इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तम् ।
अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः ।
कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः ।
द्वयोरनुक्तौ द्वयोरनुक्तिः ।
टीका
विज्ञप्रिया:
(वि, र) तत्रैवानेकप्रकारसम्भवं दर्शयति—अत्रैवेति ।
द्वयोरनुक्तिरिति ।
“तस्या मुखं न विधुर्यथेऽ; त्येवं करणम् इत्यर्थः ।
लोचना:
(लो, ॠ) द्वयोरकलङ्ककलङ्किपदयोर्द्वयोर्हेत्वोः ।
श्लेषे यथा–
“अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः” ।
लोचना:
(लो, ऌ) गुणः सौन्दर्य्यादिः, सूत्रं च ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्रेवार्थे वतिरिति शाब्दमौपम्यम् ।
उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः ।
गुणशब्दः श्लिष्टः ।
टीका
विज्ञप्रिया:
(वि, ल) श्लेषे ऽप्येवं रीत्या द्वादशविधानाह—अतिगाढेति ।
अत्रेवार्थ इति ।
अब्जस्येवेति षष्ठ्यन्तोपात्तत्वात् ।
उत्कर्षेति ।
गुणगतगाढत्वाभङ्गत्वे उत्कर्षनिकर्षहेतू ।
अन्ये भेदाः पूर्ववदूह्याः ।
टीका
विज्ञप्रिया:
(वि, व) अन्ये भेदा इति ।
तत्र हेतुद्वयस्य प्रत्येकं समुदायानुपादाने शाब्दौपम्ये यथा—“चन्द्रमुख्याः कुरङ्गाक्ष्या नाब्जवद् भङ्गुरा गुणाऽ; इत्युत्कर्षनिमित्तानुपादाने, “अतिगाढगुणायाश्च तस्या नाम्बुजवद् गुणाऽ; इति निकर्षहेत्वनुपादाने, “इन्दीवरपलाशाक्ष्यास्तस्या नाम्बुजवद्रुणाऽ; इत्युभयानुपादाने ।
आक्षिप्तौपम्ये यथा–“अतिगाढगुणा बाला नाब्जतुल्यस्खलद्गुणाऽ; इत्युभयोपादाने, “अतिगाढगुणा बाला नाब्जतुल्यगुणा किलऽ; इति निकर्षनिमित्तानुपादाने, “असौ चन्द्रमुखी बाला नाब्जतुलयगुणा किलऽ; इति उभयानुपादाने ।
आर्थौपम्ये यथा—“अतिगाढगुणा बाला नाब्जतुल्यस्खलद्गुणाऽ; इत्युभयोरुपादाने, “अतिगाढगुण बाला नाब्जतुल्यगुण किलऽ; इति निकर्षनिमित्तानुपादाने, “असौ चन्द्रमुखी बाला नाब्जतुल्यस्खलद्गुणाऽ; इत्युत्कर्षहेत्वनुपादाने, “असौ चन्द्रमुखी बाला नाब्जतुल्यगुणा किलऽ; इति उभयानुपादाने ।
आक्षिप्तौपम्ये यथा—“अतिगाढागुणास्तस्याः पद्मस्य भङ्गुरा गुणाऽ; इत्युभयोपादाने, “पङ्कजं गुणवत्सत्यं गुणास्तस्यास्तु भङ्गुराऽ; इति निकर्षहेत्वानुपादाने, “पङ्कजं गुणवज्जिग्ये गुणवत्या तया ध्रुवम्ऽ; इति उभयाननुपादाने ।
एतानि चोपमेयस्योपमानादाधिक्य उदारणानि ।
न्यूनत्वे दिङ्मात्रं यथा–
“क्षीणः क्षीणो ऽपि शशी भूयो भूयो ऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु” ॥
अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यम् ।
तेनात्र “उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः” इति केषाञ्चिल्लक्षणे “विपर्यये वेतिपदमनर्थकम्” इति यत्केचिदाहुः ।
तन्न विचारसहम् ।
तथाहि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते ।
लोचना:
(लो, ए) सत्त्वासात्त्वे, शोभनाशोभनत्वे ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव ।
अस्तु वात्रोदाहरणे यथाकथञ्चिद्रतिः ।
टीका
विज्ञप्रिया:
(वि, श) न्यूनत्व इति ।
उपमेयस्येति शेषः ।
क्षीणः क्षीण इति ।
मानिनीं प्रति कामुकस्योक्तिरियम् ।
विरमेति मानादिति शेषः ।
यौवनं त्वित्यन्वयः ।
यातं गतम् ।
अस्थैर्य्यस्याधिक्यमिति ।
तथा चास्थैर्यस्यापकर्षकहेतुत्वेन उपमेयस्य न्यूनत्वं चन्द्रस्यैवाधिक्यमिति मया वायख्यायते, तेनात्र यत्किञ्चिदाहुः तन्न विचारसहम् इत्याह—तेनात्रेति ।
केचित्काव्यप्रकाशकाराः ।
किमाहुरित्यत्राह—उपमानादिति ।
व्यतिर्के इत्यन्तेयं प्राचीना कारिका ।
तल्लक्षणे “विपर्यये वेतिऽ; पदमनर्थकमित्याहुरेत्यर्थः ।
सत्त्वासत्त्वे तत्रत्यातत्रत्ये, यौवनस्यातत्रत्वमाह—अत्र चन्द्रापेक्षयेति ।
ननूद्देश्यार्थस्याधिक्यमेव विवक्षितं प्रकृते च मानिन्यां यौवनास्थैर्य्यं प्रदर्शयितुमुद्देश्यं तदाधिक्यं चोपमेयाधिक्यमेवेत्यत आह—अस्तु वेति ।
“हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः” ।
इत्यादिषु का गतिरिति सुष्ठूक्तं “न्यूनताथवा” इति ।
टीका
विज्ञप्रिया:
(वि, ष) हनूमदाद्यैरिति ।
नलस्य देवदूतभूतस्य दौत्यफलासिद्ध्या विषादोक्तेरियम् ।
का गतिरिति ।
दूतपथस्य यशसा सीतिकर्त्तॄणां हनुमदादीनामुपमानानामेवाधिक्यादिति भावः ।
इदमुपलक्षणम् ।
“चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती” ॥
इत्यभिज्ञाने “पादाहतं यदुत्थाय मूर्द्धानमधिरोहति ।
स्वस्थादेवापमाने ऽपि देहिनस्तद्वरं रजः” ॥
इति माघे चोपमानभूततया मधुकररजसोः कृतिपदवरपदाभ्यामेवाधिक्यस्योक्तत्वात् काव्यप्रकाशस्य मतमत्रानुपादेयमेव ।
लोचना:
(लो, ऐ) हनूमदाद्यैरित्यादि दमयन्ती प्रति देवदूतस्य नलस्य वचनम् ।
द्विषां हसैर्दूतत्वं परित्यज्य स्वयं नायकत्वप्रतिग्रहादिति भावः ।
सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ॥ विस्स्द्_१०।५४ ॥
सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ।
टीका
विज्ञप्रिया:
(वि, स) सहोक्त्यलङ्कारमाह—सहार्थस्येति ।
वाचकं द्वयोरिति ।
उभयत्र स्वार्थान्वयबोधकमित्यर्थः ।
भिन्नविभक्तिकमपि पदं साहार्थस्य बलात्समानविभक्तिकभिन्नविभक्तिकपदार्थयोरभेदेन स्वार्थान्वयबोधकमित्यर्थः ।
लोचना:
(लो, ओ) सहार्थस्य सहपर्य्यायशब्दस्य ।
एकं क्रिया, गुणो वा ।
मूलभूता, बीजभूता ।
अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च ।
अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च ।
क्रमेणोदाहरम्–
टीका
विज्ञप्रिया:
(वि, ह) अभेदाध्यवसायमूलेति ।
नच भेदाध्यवसायस्यैव अतिशयोक्तित्वेन सा कथं तन्मूलेति वाच्यम्, शब्दस्यैवाध्यवसायस्यातिशयोक्तिचेन तस्या वक्तृतदध्यवसायमूलत्वात् ।
भित्तिराश्रयः स्लेषाश्रितेत्यर्थः ।
“सहाधरदलेनास्या यौवने रागभाक्प्रियः” ।
अत्र रागपदे श्लेषः ।
टीका
विज्ञप्रिया:
(वि, क) सहाधरेति ।
अत्र तृतीयान्तपदार्थे ऽधरदले प्रथमान्तपदार्थे प्रिये च रागवानितिपदम् अभेदेन स्वार्थबोधकम्; अधरदलमपि रागवदिति प्रतीतेः ।
रागपदार्थयोरभेदाध्यासरूपातिशयोक्तिश्च मूलम् ।
लोचना:
(लो, औ) अन्यथाश्लेषभित्तिका ।
रागो लौहित्यम्, अनुरागश्च ।
श्लेषां व्द्यर्थता ।
उपमानोपमेयभावो ऽत्र वैवक्षिकः ।
द्वयोः प्रकृत्वात् ।
प्रकृतत्वं च द्वयोः प्रज्ञाविशेषत्वात् ।
अत्र तृतीयान्तनिर्दिष्टस्य गुणभावेनोपमानविवक्षा ।
किञ्चात्रोदाहरणे अभेदाध्यवसायो ऽपि कार्य्यकारणैककालीनतासम्पृक्तः अधरदलस्य रागभजनानन्तरमेव प्रियस्य रगदर्शनात्; तेनात्रातिशयोक्तिद्वयमप्यवास्थितम्, सम्बन्धिभेदाद् आश्रयभेदाद् ।
यदुक्तं राघवानन्दैः–“एको ऽपि धर्म आरोपमाश्रित्य सहार्थबलादन्यधर्मण्यपि सम्बद्धश्चेत्तदा सहोक्तिरिति, तदसङ्गतम् ।
अस्यातिशयोक्तिमूलत्वस्य तैरपि स्वयमुपगमात् ।
अध्यवसायमूलायामतिशयोक्तौ पृथग्बीजस्यारोपस्यासम्भवः ।
तदाहुश्चण्डीदासप्रभृतयः—अनिगीर्णस्य विषयस्यान्यतादात्म्यप्रतीतिरारोपः ।
निगीर्णस्य त्वध्यवसाय इति ।
अलङ्कारसर्वस्वकृताऽरोपे रूपकादिरध्यवसाये चोत्प्रेक्षादिरेवेति विवेकः कृतः ।
“सह कुमुदकदम्बैः कालमुल्लासयन्तः सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः ।
सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति” ॥
इदं मम ।
अत्रोल्लासादीनां सम्बन्धिभेदादेव भेदः, न तु श्लिष्टतया ।
टीका
विज्ञप्रिया:
(वि, ख) श्लेषं विना त्वाह—सह कुमदेति ।
अमृतांशोरंशवः प्रतिदिशं सञ्चरन्ति ।
अंशूनां विशेषणान्याह—सह कुमुदेति ।
कदम्बः षण्डः, समूहः ।
आमीलयन्तः सङ्कोचयन्तः ।
स्वान्तस्य विषयान्तराद् व्यावर्त्तनमेव सङ्कोचः ।
अत्रेति ।
भेद इत्यनन्तरमभेदस्याध्यवसाय इति पूरणीयम् ।
तथा च सो ऽध्यवसायो नतु श्लिष्टतयेत्यन्वयः ।
“सममेव नराधिपेन सा गुरुसम्मोहविलुप्तचेतना ।
अगमत् सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम्” ॥
टीका
विज्ञप्रिया:
(वि, ग) कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूलिकामाह—सममेवेति ।
गुरुसम्मोहविलुप्तचेतना सा इन्दुमती नराधिपेन अजेन सममेव क्षितेस्तलं पृष्ठम् अगमत् ।
तनुतैलबिन्दुना सह दीपार्चिरिवेत्यर्थः ।
अत्र नराधिपो ऽपि क्षितेस्तलमगमदिति सहार्थस्य समं पदबलाद् बोध्यम् ।
इन्दुमतीपातः कारणं नराधिपपातः कार्य्यम्, तयोः समकालत्वकथनरूपः पौर्वापर्यविपर्ययः ।
इयं च मालयापि सम्भवति ।
यथोदाहृते “सह कुमुदकदम्बैः–” इत्यादौ ।
“लक्ष्मणेन समं रामः काननं गहनं ययौ” ।
इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः ।
विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ॥ विस्स्द्_१०।५५ ॥
नासाधु अशोभनं न भवति ।
एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः ।
तस्या पुनः स्वभावतः शोभनत्वमेवेति ।
टीका
विज्ञप्रिया:
(वि, घ) विनोक्त्यलङ्कारमाह—विनोक्तिरिति ।
व्याचष्टे—नासाध्विति ।
नञ्द्वयमुखेनोक्ते भावार्थं वक्तुमाह—एवं चेति ।
परसन्निधेरेव दोष इति ।
परसन्निधेर्यो दोषस्तदेवाशोभनत्वमित्यर्थः ।
लोचना:
(लो, अ) शोभन एव पर्यवसानम् “अभावस्य तु यो ऽभावो भाव एवावशिष्यतेऽ; इति न्यायादित्यर्थः ।
यथा–
“विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः ।
विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत” ॥
टीका
विज्ञप्रिया:
(वि, ङ) विना जलदकालेनेति ।
निस्तन्द्रतां निर्मलताम् ।
अत्र जलदकालादेव चन्द्रो मलिनो ग्रीष्मर्त्तौ च वनराजिरमञ्जुरिति प्रतीतेः ।
लोचना:
(लो, आ) निस्तन्द्रतां निर्मलताम् ।
अत्र चन्द्रवनराज्योरनिर्मलत्वामञ्जुलत्वे जलदकालग्रीष्मकालहेतुके, निर्मलत्वमञ्जुलत्वे पुनः सहजधर्मादित्याशयः ।
“असाध्वशोभनं यथा–
“अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।
का दिनश्रीर्विनार्केण का निशा शशिना विना” ॥
टीका
विज्ञप्रिया:
(वि, च) अनुयान्त्येति ।
सीतां प्रति अनसूयावाक्यमिदम् ।
जनानीतं परिजनरहितम् ।
लोचना:
(लो, इ) जनातीतं लोकान्तिकान्निर्जनस्थानं गतमिति यावत् ।
“निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन” ॥
लोचना:
(लो, ई) विभाता-विकसिता ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः ।
विनाशब्दप्रयोगाभावे ऽपि विनार्थविवक्षायं विनोक्तिरेवेयम् ।
एवं सहोक्तिरपि सहशब्दप्रयोगाभावे ऽपि सहार्थविवक्षायां भवतीति बोध्यम् ।
टीका
विज्ञप्रिया:
(वि, छ) विनाशब्दाभावे ऽपि तदर्थपर्यवसाने ऽप्ययमलङ्कार इत्याह—निरर्थकमिति ।
अत्रेति ।
परस्परादर्शनादेव परस्परविनोक्तिभङ्गिलाभ इत्यर्थः ।
एवं सहोक्तिरपीति ।
तृतीयामात्रबलादित्यर्थः ।
लोचना:
(लो, उ) विनाशब्दाभावादत्र कथं विनोक्तिरित्याशङ्क्याह—विनाशब्देति ।
सहशब्दाभावे सहार्थविवक्षा, यथा “ततो भार्गवप्रौढाहड्कृतिकन्दलेन सहसा तद्भग्नमैशं धनुऽरिति ।
“वनश्रियं वसन्तेन ज्योत्स्त्रया तुहिनद्युतिम् ।
कान्तया शून्यमालोक्य कस्य चेतो न दूयते” ॥
इत्यत्र न दूयत इत्यनेनासाधुत्वमुक्तप्रायमिति विनोकिरेव ।
समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुते ऽन्यस्य वस्तुनः ॥ विस्स्द्_१०।५६ ॥
टीका
विज्ञप्रिया:
(वि, ज) समासोक्त्यलङ्कारमाह—समासोक्तिरिति ।
अन्यस्य अप्रस्तुतस्य वस्तुनो व्यवहारस्य अर्थाद् व्यङ्ग्यस्य प्रस्तुते वस्तुनि समारोप इत्यर्थः ।
तद् व्यञ्जनं च समैः प्रस्तुताप्रस्तुतसमानैः कार्यलिङ्गविशेषणैरित्यर्थः ।
लोचना:
(लो, ऊ) समासोक्तिरिति ।
समैस्तुल्यैर्व्यवहारस्य कृतस्य न तु रूपकवत् स्वात्मनः ।
अन्यस्याप्रस्तुतस्य ।
अत्र समेन कार्येण प्रस्तुते ऽप्रस्तुतव्यवहारसमारोपः ।
यथा–
“व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः ।
आलिङ्गसि प्रसभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह !” ॥
अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः ।
टीका
विज्ञप्रिया:
(वि, झ) व्याधूयेति ।
वक्षोजयोर्वसनं व्याधूय दूरीकृत्येत्यर्थः ।
अत्रालिङ्गनं कार्यम् ।
सम्बोध्यत्वेन मलयानिलः प्रकृतः ।
यथा वा मम—“उल्लास्य लास्यनिलयं विपुलोरुयुग्मं प्रोत्क्षिप्य बाहुलतिकामतिकान्तगात्र्यः ।
यं साभिलाषमनसः प्रमदा भजन्ते पुण्यात्मने शिशिरपावन ते नमो ऽस्तु ॥
“अत्र नायिकाव्यवहारारोपभजनं कार्य्यं सम्बोध्यत्वेन पावनः प्रकृतः ।
लोचना:
(लो, ऋ) व्याधूयेत्यत्र गन्धवाहे हठकामुकव्यवहारसमारोपे लिङ्गसाम्यस्यापि प्रयोजकत्वे वसनव्याधूननादिकार्यसाम्यप्राधान्यादन्योदाहरणम् ।
एवमन्येष्वपि समासोक्त्युदाहरणेषु ।
कार्य्यलिङ्गविशेषणानां क्वचिद् द्वयोः क्वचित्त्त्रयाणां वा समावेशे ऽपि बोध्यम् ।
लिङ्गसाम्येन यथा–
“असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः” ॥
अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः ।
टीका
विज्ञप्रिया:
(वि, ञ) असमाप्तेति ।
स्पष्टार्थः ।
परार्द्धे दृष्टान्तः ।
सन्ध्यां सायंसन्ध्याम् ।
नायकव्यवहार इत्यत्रैकशेषः ।
यद्यप्यत्र जिगीषुरेव प्रकृततयोपमेयभूतो रविरप्रकृतः, तथापि व्यङ्ग्यनायिकापेक्षया वाच्यो रविरापेक्षिकः प्रकृतः ।
विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा ।
श्लिष्टतया यथा मम–
टीका
विज्ञप्रिया:
(वि, ट) श्लिष्टतयेति ।
श्लिष्टशब्दस्यैवोभयविशेषणत्वेन इत्यर्थः ।
साधारण्येनेति ।
आर्थोरूपविशेषणस्योभयसाधारण्येनेत्यर्थः ।
औपम्यगर्भत्वमौपम्यप्रतीत्यनन्तरमप्यप्रस्तुतत्वव्यवहारारोपः ।
तस्य च त्रिधात्वं वक्ष्यते ।
लोचना:
(लो, ॠ) पुंस्त्रीलिङ्गत्वमात्रेणेति ।
प्राधान्यतो हेतुभूतेनेत्यर्थः ।
श्लेष्टतया व्द्यर्थतया ।
साधारण्येन सम्बन्धभेदभिनैकधर्मवत्त्वेन ।
“विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त ! प्राचेतसीं तुहिनद्युतिः” ॥
अत्र मुखरागादिशब्दानां श्लिष्टता ।
टीका
विज्ञप्रिया:
(वि, ठ) विकसितमुखीमिति ।
प्रभातवर्णनमिदम् ।
हन्त खेदे ।
ऐन्द्रीं दिशं दिनकरकरस्पृष्टां पुरः सम्मुखे निरीक्ष्य जरठस्य कठिनस्य लवलीफलस्येव पाण्डुच्छायः सन् तुहिनद्युतिः कलुषान्तरः कलङ्कमलिनान्तरः प्रायेतसीं प्रतीचीं हरितं श्रयति ।
लवलीफलस्य पक्तत्वे सति काठिन्यं पाण्डुरत्वं च ।
शशिनः पाण्डुरत्वदर्शनात् ।
ऐन्द्रीं कीदृशीं विकसितमुखीम्, प्राप्तप्रकाशसम्मुखीम् ।
रागासङ्गात्, किरणरक्तिमाहसङ्गाद् गलत्तिमिररूपावरणाम् ।
हन्तेत्यनेन खेदप्रकाशनम् ।
स्वाक्रान्तां दिशं विरोधिनाऽक्रान्तां दृष्ट्वा दुः खेन पाण्डुरःसन् दिगन्तरमाश्रयतीति वाक्यार्थभिप्रायः ।
अप्रस्तुतस्य व्यञ्जनया रविचन्द्रयोरैन्द्रीप्राचेतसीदिशोश्चारोपः ।
तथा हि—स्वनायिकां स्मेरमुखीम् अनुरागेण गलिताङ्गावरणां करेण स्पृशन्तं परनायकं दृष्ट्वा दुः खात् पाण्डुरच्छायो नायकस्तां त्यक्त्वा नायिकान्तरमाश्रयतीत्येवं व्यवहारस्य प्राचीरव्योः प्रतीचीचन्द्रयोश्चारोपः ।
तत्र च सम्मुखमुखोभयाश्लिष्टमुखपदरागकरपदानां श्लिष्टतेत्याह अत्र मुखेति ।
लोचना:
(लो, ऌ) विकसितेति ।
मुखमारम्भो वदनं च ।
रागो लौहित्यमासक्तिश्च ।
करः किरणो हस्तश्च ।
श्लिष्टतेत्ययमाशयः श्लेषाच्चातिशयोक्तिप्रयोजने नायकव्यवहारे बीजम् ।
अत्रैव हि “तिमिरावृतिम्” इत्यत्र “तिमिराशुकम्” इति पाठे एतदेशस्य रूपणे ऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः ।
लोचना:
(लो, ए) स्फुटसादृश्यतया मुखचन्द्रयोरिवेत्यर्थः ।
परसाचिव्यम्, परस्य शब्दार्थस्य वा रोपणस्य साचिव्यं साहाय्यम् ।
स्वमात्रे नतु शब्दान्यापेक्षी ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव ।
टीका
विज्ञप्रिया:
(वि, ड) न त्वेकदेशविवर्त्तिरूपकमिति ।
ऐन्द्रीप्रधाननायिकानिरूपणं व्यङ्ग्यम् ।
तद्धर्मरूपस्यांशुकरूपस्यैकदेशस्य तिमिररूपस्य वाच्यत्वेन वाच्यत्वेन तत्प्रसक्तिर्बोध्या ।
तद्भावे हेतुमाह—अत्र हीति ।
रूपकान्तरस्याऽक्षेपे एव यत्र वाच्यो रूप्यरूपकभावो, न तु स्वस्य स्फुटसादृश्यात्तत्रैव वाच्यरूपकान्तरस्य आक्षेपत्वेन एकदेशविवर्त्तिरूपकम् ।
तदुदाहरणं च “जस्स रणन्ते” इति दर्शयिष्यते ।
प्रकृते तु अंशुकतिमिरयोः स्फुटसादृश्यादार्थरूपकनिरपेक्षः स्वतो रूप्यरूपकाभाव इत्यतो नैकदेशविवर्त्तितेत्यर्थः ।
स्वमात्रविश्रान्तः स्वतन्त्रः ।
एकदेशविवर्त्तिनो विषयं दर्शयति ।
अशाब्दमित्यस्य विवरणस्य व्यङ्ग्यमित्यर्थः ।
यथा–
“जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअं ।
रगसम्मुही वि सहसा परम्मुही होइ रिउसेणा” ॥
अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव ।
टीका
विज्ञप्रिया:
(वि, ढ) जस्स रणन्ते इति ।
“यस्य रणान्तः पुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससम्मुख्यपि सहसा पराङ्मुखी भवति रिपुसेना” ॥
इति सं दृ ।
मण्डलाग्रलतां खड्गलताम् ।
रसो युद्धरस एव ।
व्यङ्ग्यप्रतिनायिकापक्षे शृङ्गाररसः ।
भीत्यः पराङ्मुखी, तयैव लज्जया पराङ्मुखता मुखस्य पराश्रयत्वेन ।
रण एव अन्तः पुरं तत्र स्त्रीलिङ्गशब्दार्थत्वेन मण्डलाग्रलतया रूप्यमाणनायिकाव्यञ्जनात् ।
स्वकरेकुर्वतो राज्ञो ऽपि नायकत्वं व्यङ्ग्यम् ।
तद्भ्रष्टायां रिपुसेनायामपि स्त्रीलिङ्गशब्दार्थत्वेन रूप्यमाण प्रतिनायिका व्यङ्ग्या अत्र रणे ऽन्तः–पुररूपणमेकदेशविवर्त्ति ।
लोचना:
(लो, ऐ) तर्हि कः पुनरेकदेशविवर्त्तिरूपकस्य विषय इत्याशङ्क्याह—तत्र त्विति ।
“जस्स रणन्तौरऽ; इत्यादौ रणान्तः पुरादिकयो रूप्यरूपकयोरेकदेशान्तररूपणं मण्डलाग्रलतादिषु राजनायिकात्वाद्यारोपं विनास्फुटमेव ।
जस्सेति ।
“यस्य रणान्तः पुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससम्मुख्यपि सहसा पराङ्मुखी भवति रिपुसेना” ॥
रसा उत्साहो ऽनुरागश्च ।
क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव ।
टीका
विज्ञप्रिया:
(वि, ण) नन्वेवमस्फुटसादृश्यसत्त्व एव एकदेशविवर्त्तित्वम्, तत्कथम् “लावण्यमधुभिः पूर्णमास्यमस्या विकस्वरम् ।
लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ॥
“इत्येकदेशविवर्त्त्युदाहरणं दत्तम् ।
तत्र लावण्यमधुनो माधुर्यस्य उपादेयत्वपर्य्यवसन्नस्य सादृश्यस्य लोचनभ्रमरयोश्च चाञ्चल्यरूपसादृश्यस्य स्फुटत्वादित्यत आह—यत्रेति ।
लोचना:
(लो, ओ) क्वचिल्लावण्यमधुभिः पूर्णामित्यादौ ।
करमुदयमहीधर इत्यादौ ।
रूपकप्रतीतेर् व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् ।
टीका
विज्ञप्रिया:
(वि, त) ननु स्फुटसादृश्यादीनां वहुत्वे एकदेशविवर्त्तित्वमित्यत्र का युक्तिरित्यत्र आह—रूपकप्रतीतेरिति ।
व्यापितया बहुत्वेन तस्याश्च बहुत्ववशात् प्रथमोत्पन्नत्वो समासोक्तिविरोधकत्वम् ।
लोचना:
(लो, औ) व्यपितयानेकपदाश्रयत्वादिति भावः ।
नन्वस्ति रणान्तः पुरयोरपि सुखसञ्चारतया स्फुटं सादृश्यमिति चेत्?
लोचना:
(लो, अ) सुखसञ्चारतयानायासविहारास्पदत्वेन स्वतो मण्डलाग्रलतादीनां नायिकात्वाद्यारोपमनपेक्ष्य ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
सत्यमुक्तम् ; अस्त्येव किन्तु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः- पुरयोः स्वतः सुखसञ्चारत्वाभावात् ।
टीका
विज्ञप्रिया:
(वि, थ) रणान्तः पुरयोरपि स्फुटसादृश्यात्वमाखङ्कते—नन्वस्तीति ।
वाक्यार्थपर्य्यालोचनसापेक्षमिति ।
नृपदर्शनाद् रिपुसेनापराङ्मुखत्वं प्रत्यर्थतात्पर्य्यालोचनेन राज्ञः शूरत्वस्य ततो रणे ऽभीतत्वस्य च लाभेन तत एव सुखसञ्चारलाभ इत्यर्थः ।
रणान्तः पुरयोः स्वतः सुखसञ्चारालाभादिति ।
नहि मुखचन्द्रयोर्मनोहरत्वमिव राज्ञो रणे भीतत्वबुद्धिं विना प्रत्यक्षादिना सुखसञ्चारत्वं गम्यमिति भावः ।
अत्र रणान्तः पुरयोरिति सञ्चारालाभादित्यत्र सञ्चारत्वाभावादिति क्वचित् प्रामादिक एव पाठः ।
साधरण्येन यथा–
“निसर्गसौरभोद्भ्रान्तभृङ्गसङ्गीतशालिनी ।
उदिते वासराधीशे स्मेराजनि सरोजिनी” ॥
टीका
विज्ञप्रिया:
(वि, द) निसर्गेति ।
अत्राप्रस्तुतनायिका व्यङ्ग्या ।
तत्पक्षे च निसर्गसिद्धमुखसौरभेणोद्भ्रान्तो भृङ्गो यस्यास्तादृशी चासौ सङ्गीतशालिनी चेति समासः ।
एवं वासरं दिनमेव ।
वासरं गृहं तदधीशे गृहपतौ उदिते इत्यर्थः ।
अत्र दर्शितरीत्या निसर्गेति विशेषणान्नायिकाऽपतति ।
लोचना:
(लो, आ) स्मेरा ईषद्धासवती ।
अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणम् ।
लोचना:
(लो, इ) स्त्रीमात्रगामिनः सरोजिन्यामुपचारादेव प्रवृत्तेः, कारणं प्रधानम्, इतरेषां तु तच्छक्तिसाहाय्यमेव ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् ।
टीका
विज्ञप्रिया:
(वि, ध) प्राकरणिकरविकमलिनीवृत्तान्तमात्रप्रत्यायकत्वेनापि तदुपपत्तेरित्यतस्तत्प्रत्यायकत्वनियतं स्मेरविशेषणमेवेति वक्तुमाह—-अत्र निसर्गेत्यादीति ।
स्त्रीमात्रेति; मात्रपदात् सरोजिनीव्यवच्छेदः ।
तथा सरोजिन्याः, पुष्पविकाशस्मेरत्वस्यारोपवशात्तस्याः साधारणधर्मत्वं तादृशारोपश्च नायिकाव्यवहारप्रतीतेर्हेतुरित्यर्थः ।
विशेषणसाम्यमात्रेणेति ।
निसर्गेत्यादिविशेषणसाम्यमात्रेणेत्यर्थः ।
असम्भवादिति ।
रविकमलिनीवृत्तान्तेनैव तदुपपत्तेरित्यर्थः ।
औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् ।
टीका
विज्ञप्रिया:
(वि, न) उपमारूपकेति ।
उपमागर्भत्वे रूपकगर्भत्वे उपमारूपकयोः सन्देहसङ्करगर्भत्वे चेत्यर्थः ।
गर्भत्वं च तज्ज्ञानपूर्वकत्वम् ।
नच रूपकगर्भकस्य कथमुपमानगर्भप्रभेद इति वाच्यम्, रूपकस्यापि सादृश्यजनकत्वेन तज्जननत्पूर्वं तद्वोधेन तत्पूर्वत्वादपीत्याह–
तत्रोपमागर्भत्वे यथा–
“अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा” ॥
अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः ।
अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः ।
टीका
विज्ञप्रिया:
(वि, प) तदन्तप्रभेति ।
अत्र दन्तप्रभाः पुष्पाणीव इत्यादिरीत्या सर्वत्र पुरुषव्याघ्रादित्वादुपमासमासः ।
नच दन्तप्रभैव पुष्पमित्यादिरीत्या रूपकमेवेति वाच्यम् ।
रूपकस्य बाधकद्वयसत्त्वात् ।
तथा हि—“उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति पाणिन्यनुशासनेनसाधारणधर्माप्रयोगे रूपकसमासबाधाद् उपमासमासस्यैव व्यवस्थापनादित्येकं बाधकम् ।
द्वितीयं ग्रन्थकृदेव आह—अत्र सुवेषत्ववशादिति ।
अयं भावः ।
वेषास्तदारोपितधर्माः ।
कटककुण्डलसिन्दूरादीनां दन्तप्रभादीनां च नायिकाधर्मवृत्तिधर्मत्वेनारोपितत्वात् ।
कटककुण्डलसिन्दूरादीनां दन्तप्रभादीनां च नायिकाधर्मवृत्तिधर्मत्वेनारोपितत्वात् ।
पुष्पादिभिन्नैः तैः सुवेषप्रतीतिर्न घटते इत्यतः प्रथमं दन्तप्रभादिविशेष्यके व्याघ्रादिसमास एवेत्याह—उपमागर्भत्वेनेति ।
ननु तथापि सैवानुपपत्तिः, स्वीयधर्मैः सुवेषत्वासम्भवादित्यत आह—अनन्तरं चेति ।
अयमर्थः—सकृदुच्चरितैः शब्दैरसकृच्छक्तिलक्षणाभ्यां बोधासम्भवाद्दर्शितो ऽयं पुष्पादिविशेष्यक उपमासमासार्थो व्यङ्ग्य एव ।
तात्पर्यवशाच्छक्त्या वाक्यबोधकत्वं वा ।
सुवेषत्वोपपत्तिकत्वं च समासद्वयतात्पर्यग्राहकं तेन च सुवेषत्वेपपत्तौ उपपत्तिमाह—समानविशेषणमाहात्म्यादिति ।
समासद्वयघटितत्वेनोभयविशेषणात् साम्यम् ।
एकैकसमासेन एकैकविशेषणमिति भावः ।
लताव्यवहारस्तद्वल्लास्यादिः ।
लोचना:
(लो, ई) सुवेषत्ववशात् सुवेषेति पदसामर्थ्यात् ।
तद्धि नायिकायां मुख्यं नतु लतायामिति नायिकाधर्मिणामेव दन्तप्रभादीनामुपमेयप्रयोजकम्, नतु हरिणेक्षणपदोपादानम्, प्रस्तुतेतरपदापेक्षयैव समासप्रवृत्तेर्व्यवस्थानात् ।
अन्यथा दासे कृतागसीत्यादावपि प्राचीनप्रसिद्धे ऽपि रूपकसमासविषये उपात्तनायिकानुगुण्येन पुलकाङ्कुरकण्टकाग्रैरित्यत्र उपमासमास एव स्यात् ।
समासान्तरेण सामग्रीवशादामर्षितेन ।
रूपकगर्भत्वे यथा–
“लावण्यमधुभिः पूर्णम्-” इत्यादि ।
टीका
विज्ञप्रिया:
(वि, फ) लावण्यमध्विति—नच एकदेशविवर्त्तिरूपकोदाहरणमेव प्रागुक्तम्, कथमत्र समासोक्तिरिति वाच्यम् ।
साम्प्रदायिकमते एकदेशविवर्त्तिरूपकस्थले सर्वत्र व्यङ्ग्यरूप्यांशे समासोक्तित्वस्वीकारात्, यत्र विशेषे तु न स्वीकार इत्यग्रे व्यक्तिर्भविष्यति ।
अत्र सामान्यधर्माप्रयोगे ऽपि नोपमासमासः ।
मधुतुल्यलावण्यस्य पानासम्भवात् ।
रूपकत्वे तु मधुनः सम्भवत्येव पानम् ।
आस्यस्यैवात्र पानमुक्तं तस्य चोभयथापि पानासम्भव इति न वाच्यम्, “सविशेषणौ विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बोधेऽ; इति न्यायान्मधुन्येव चान्वयात् ।
सङ्करगर्भत्वे यथा-“दन्तप्रभापुष्प-” इत्यादि ।
“सुवेषा” इत्यत्र “परीता” इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणम् ।
समासान्तरं पूर्ववत् ।
समासान्तरमहिम्ना लताप्रतीतिः ।
टीका
विज्ञप्रिया:
(वि, ब) परीतेति पाठे इति ।
सुवेषत्वस्य निजधर्मेणासम्भवात्तत्सत्त्वे क्रमशः समासद्वयेनैवोपपत्तिर्दर्शितेत्यतस्तत्र न रूपकोपमायाः सन्देहसङ्करः ।
परीतेति पाठे तु परीतत्वं व्याप्तिः पुष्पैर्लावण्यैः सम्भवतीत्यत्र समासद्वयेनोपमारूपकयोर्भवत्येव सन्देह इति भावः ।
नच सामान्यधर्माप्रयोगवशादुपमा रूपकं बाधत इति वाच्यम् ।
रूपकस्य सम्भवे तथा रूपकाबाधात् ।
सुवेषत्ववशाद्रूपकबाधादेव तथा तद्बाधस्य प्राग् दर्शितत्वात् ।
सन्देहसङ्करं ग्राहयति—अत्र हीति ।
समासान्तरमिति ।
विनिगमकाभोवेनोभयसमासान्तरं पूर्ववल्लताप्रतीतिरित्यन्वयः ।
तत्र हेतुमाह—समासान्तरमहिम्नेति ।
समासान्तरमत्र रूपकसमासः ।
तद्वत्त्वे लावण्यमधुभिः पूर्णमित्येकदेशविवर्त्तिरूपकोदाहरणे ऽपि समासोक्तित्वमिदं दर्शितं साम्प्रदायिकमतानुसारेणैव ।
लोचना:
(लो, उ) साधकाभावादिति ।
परीतत्वस्य हरिणेक्षणायां लतायां च साधारण्येनैव प्रवृत्तेः ।
सङ्करसमाश्रयेणेति ।
सङ्करो ऽत्र उपमारूपकसन्देहसङ्करः ।
तदाश्रयेण समासो निर्द्धारिताकारः ।
पूर्वं दन्तप्रभासदृशैः पुष्पैश्चितेत्युक्तप्रकारः ।
लताप्रतीतिरित्यत्र लतापदं भावप्रधानम् ।
एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः ।
द्वितीयस्तु प्रकार एकदेशविर्विन्तरूपकविषय एव ।
टीका
विज्ञप्रिया:
(वि, भ) केचित्त्वत्रैकदेशविवार्त्तिरूपके समासोक्तिं न मन्यन्ते, किन्तूपमातत्सङ्करगर्भत्व एव तां मन्यन्ते ।
तत्र प्रथमं रूपकसमासबाधस्यादर्शितत्वात्तेषां मतं दर्शयति—एषु चेति ।
आद्यं दन्तप्रभेत्यादिकम् ।
तृतीयं परीतत्वपाठविशिष्टम् ।
तदेवं द्वितीयो लावण्यमधुभैरित्याद्युक्तो रूपकविषय एव न समासोक्तिविषयः ।
व्यङ्ग्यरूपकं मुखस्य पद्मत्वं तद्धर्मलावण्यादौ मध्वादिरूपकं वाच्यमित्येकदेशविवर्त्तिसुवेषत्वविशेषणवति दन्तप्रभेत्यादौ ।
पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता ।
टीका
विज्ञप्रिया:
(वि, म) पर्यालोचने तु न समासोक्तिर्नाप्येकदेशविवर्त्तिरूपकं किन्त्वेकदेशविवर्त्त्युपमैव इति स्वमतं ग्रन्थकृदाह—पर्यालोचने त्विति ।
समासे लुप्तेवकाराल्लावण्यादौ मध्वाद्युपमा वाच्या ।
नायिकायां तूपमा व्यङ्ग्या इत्येकदेशविवर्त्तिनी उपमैवेत्येवकारात्समासोक्तिव्यवच्छेदः ।
तद्व्यवच्छेदस्तु तत्पर्यालोचनादित्याह—पर्यालोचने त्विति ।
विशेषणसाम्ये यत्समासोक्तिरित्युक्तं तत्र विशेषणस्य साधारणत्वं श्लिष्टत्वं चेति ।
द्वैविध्यमेवोचितम् ।
औपम्यगर्भत्वरूपस्तृतीयप्रकारो नोचितः ।
तत्र दन्तप्रभापुष्पमिवेत्युपमासमासबोधे हरिणेक्षणा लते वेति बोधस्य समासद्वयकुसृष्टिकल्पनं विनैवोपपत्तिरित्येवं पर्यालोचना ।
एवं चाद्यप्रकाररीतेस्तृतीयप्रकारे ऽपि सम्भवात्तत्राप्येकदेशविवर्त्युपमैवेत्यत्र उपमागर्भाविशेषणिका समासोक्तिर्नास्त्येवेत्यभिप्रायः ।
आद्ये प्रकारे इत्युपलक्षणमेव ।
लोचना:
(लो, ऊ) इह चौपम्यगर्भस्यैवं त्रैविध्यसम्भवे ऽपि द्वितीयोदाहरणम् एकदेशविवर्त्तिरूपकविषय एवेति न पूर्वोत्तरविरोध इत्याह—एषु चेति ।
आद्यं दन्तप्रभाइत्यादि पद्यम् ।
तृतीयं तदेव सुवेषा इत्यत्र परीतपाठयुक्तम् ।
द्वितीयो लावण्यमधुभिः पूर्णमित्यादिपद्यवस्थितः ।
नच प्रथमतृतीययोरपि समासोक्तिरित्याह—पर्यालोचने त्विति ।
पर्यालोचने तत्त्वतो विवेचने उचिता हरिणेक्षण लतेवेति प्रतीतेः ।
अन्यथा–
टीका
विज्ञप्रिया:
(वि, य) अन्यथेति ।
समासद्वयकल्पना कुसृष्ट्यैव औपम्यगर्भस्थले समासोक्त्यङ्गीकारे इत्यर्थः ।
यत्र समासद्वयकल्पना कुसृष्ट्यसम्भवस्तत्र कथं समासोक्तिरित्यत्राह ।
“ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार” ॥
टीका
विज्ञप्रिया:
(वि, र) ऐन्द्रं धनुरिति ।
पाण्डुना पयोधरेण औपम्येनार्द्रनखक्षताभम् ऐन्द्रं धनुः दधाना सकलङ्कमिन्दुं प्रसादयन्ती प्रसन्नं निर्मलं कुर्वती शरद्रवेरत्यधिकं तापं ततानेत्यर्थः ।
शरदि मेघस्य पाण्डुत्वादिन्दोः निर्मलत्वान्मेघावरणाभावेन रवेस्तापाधिक्याच्च ।
अत्र पाण्डुपयोधरेण गौरस्तनेनार्द्रनखक्षतं दधानायाः परनायिकाया गन्तृत्वेन कलङ्किनमुपनायकमनुनयन्त्यास्तत्प्रदर्शनेन पत्युस्तापाधिक्यं जनयन्त्याश्च नायिकायाः समासोक्त्या प्रतीतिः तद्व्यवहारस्य च शरदि प्रतीतिः ।
लोचना:
(लो, ऋ) ऐन्द्रमिति ।
पयोधरो मेघः स्तनश्च ।
प्रसादनं निर्मलीकरणम्, परितोषणं च ।
कलङ्को लक्ष्म, कुलादिदोषश्च ।
तापः आतपो मनोज्वरश्च ।
शरदो नायिकात्वप्रतीतिरित्युक्तम् ।
तद्विशेषणस्यैव विचारदशारूढत्वात् ।
रविशशिनोर्टायकप्रतिनायकत्वे सैव मुख्यं पदं निदानम् ।
सकलङ्कतापशब्दयो रविशशिनोर्मुख्ययोर्वर्णनात् नायकविषयानियतत्वात् ।
उपमानत्वमाभाशब्दबोध्यम् ।
वस्तुपर्यालोचनया तद्विचारेण सच्चारणीयम् ।
धनुराभमिति प्रत्यनुदयप्रसङ्गदिति भावः ।
इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् ।
टीका
विज्ञप्रिया:
(वि, ल) उपमागर्भसमासोक्त्यङ्गीकारे तद्रर्भत्वे च समासद्वयनियमे सा कथं स्यादित्यर्थः ।
आर्द्रनखक्षताभमित्यत्रोपमाबोधकस्याभापदस्य सक्त्वे रूपकासम्भवाद् उपमासमासे च ऐन्द्रे धनुषि आर्द्रनखक्षततुल्यत्वाप्राप्तौ नायिकायां च विशेषणाभावेन तद्विशेषणस्य शरन्नायिकोभयधर्मत्वाभावेन कथं विशेषणसाम्यं कथं तस्यैवोपम्यगर्भात्वं कथं वा समासगर्भद्वयकल्पनमिति मनसिकृत्याह— नायिकापयोधरेणेति ।
तथा च उपमागर्भसमासोक्तिर्नास्त्येव ।
किन्त्वत्र पयोधरस्य प्रसादयन्तीति पदस्य सकलङ्कपदस्य तापपदस्य च श्लिष्टविशेषणिका समासोक्तिरेवेयम् ।
नौपम्यगर्भविशेषणिका इत्युक्तमनेन ।
ननु “आर्द्रनखक्षताभम्” इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम् ।
टीका
विज्ञप्रिया:
(वि, व) ननु आर्द्रनखक्षताभमित्यत्रार्द्रनखक्षतमुपमानम् ।
ऐन्द्रं धनुश्चोपमेयम् ।
धारणान्वयश्चोपमेव एव बोधितस्तेनासम्भवो दर्शितः ।
मनसा तु आर्द्रनखक्षतस्योपमानत्वं धनुषि बोध्यम् ।
क्षते तु तदुपमेयत्वं बोध्यम् ।
तथा च तत्क्षतधारणं स्तनस्य सम्भवत्येव इत्यत उपमागर्भसमासोक्तिरेवात्रापीति कथमुपमागर्भसमासोक्तिविलोप इत्याशङ्कते—नन्विति ।
स्थितमपि इति ।
नखक्षते स्थितमपीत्यर्थः ।
इदमुपलक्षणम् ।
धनुषि स्थितमुपमेयत्वमपि नखक्षते सञ्चारणीयमित्यापि बोध्यम् ।
तत्सञ्चारस्यैव प्रकृतस्तनधरणोपयोगित्वात् ।
पर्यालोचनयेति ।
पयोधरादिपदश्लेषात्तादृशार्थपर्यालोचनयेत्यर्थः ।
यथा–“दध्ना जुहोति” इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः ।
एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत् ? न, एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् ।
टीका
विज्ञप्रिया:
(वि, श) शब्देनैकत्र बोधितार्थस्यान्यत्र सञ्चारे दृष्टान्तमाह–यथा दध्नेति ।
आक्यातेन हवनस्येव प्रकृतस्तनधारणोपयोगित्वाद् बोध्यते ।
हवनस्य तु “हविषा जुहोतिऽ; इति वाक्यरूपाद् अन्यतः सिद्धेः सिद्धस्य च विधेयत्वासम्भवपर्यालोचनया तदेव विधेयत्वं यत्त्वसिद्धम् ।
अतो दध्नि सञ्चार्यते इत्यर्थः ।
दध्नो होमकरणत्वस्यान्यतः प्राप्त्यभावात् ।
तथा चैवं रीत्या धनुरुपमेयनखक्षतधारणं पयोधरे सम्भवति, इत्युपमागर्भसमासोक्तिरस्त्येव ।
कथं तद्विलोप इत्याह—एवंविधनिर्वाहे इति ।
एवंविधया निर्वाह इत्यर्थः ।
एकदेशविवर्त्युपमाङ्गीकारस्यैवेति ।
उपमागर्भसमासोक्तिर्नास्त्येवेति भावः ।
लोचना:
(लो, ॠ) शब्दशक्त्यर्पितलभ्यस्यार्थस्य पर्यालोचनायामन्यथाभावे दृष्टान्तमाह—यथेति ।
विधिः कर्त्तव्यतोपदेशः ।
अत्र हि होतव्यमित्यर्थे जुहोतिना यद्यपि होमविधानोपदेशः प्रतीयते तथापि वाक्यान्तरलभ्ये तस्मिन् “अप्राप्ते हि शास्त्रमर्थवदि” ति नयेन पिष्टपेषणवदुपदेशवैयर्थ्यादत्रानुक्त एव दध्नः करणत्वांशे पर्यवस्यत्युपदेशः ।
प्रकृतोदाहणे सञ्चारणशरीरम् दर्शयति-प्रतीतिः हि पर्यालोचनोत्पन्ना ।
एवंविधेति ।
अयमर्थः ।
समनन्तरोक्तप्रकारेण दध्नो हवनविधिसञ्चारणवद् इन्द्रधनुषि चौपम्यसञ्चारणमयुक्तम् ।
शब्दानां हि प्रधानक्रियानिवर्त्तकस्वक्रियाभिसम्बन्धात् साध्यायमानता न्यायसिद्धा, तेन दध्नि विधिसञ्चरणम् ।
आर्द्रनखक्षताभमित्यत्रार्द्रनखक्षतसम्बन्धाद् आभाशब्दस्यार्थस्य औपम्यस्य च तत्परित्यागेन सम्बद्धे इन्द्रधनुषि सञ्चारणे दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमित्यनिर्वाहात्; यथा कथञ्चिन्नर्वाहे वा न स्वारसिकीति कष्टा या सञ्चारणसृष्टिः तस्याः कल्पनादस्योत्पादानाद् ज्यायस्त्वादनायससिद्धत्वेन ।
ऐन्द्रं धनुरित्यादौ अर्थापत्तिः ।
ऐन्द्रं धनुरित्यादौ मुख्यतया वर्त्तमानस्य उपमामात्रे विशेषेण समासोक्त्युद्दीपकस्य प्रसादनक्रियादेः सद्भावः; तस्यानुभावात् ।
अस्तु वात्र यथाकथञ्चित्समासोक्तिः ।
“नेत्रैरिवोत्पलैः पद्मैः-” इत्यादौ चान्यगत्यसम्भवात् ।
टीका
विज्ञप्रिया:
(वि, ष) ननु प्राचीनोक्तत्वात्कष्टसृष्टिकल्पनापि कार्य्या ।
एकदेशविवर्त्युपमा तु प्राचीनैरनुक्ताप्युदाहरणे ऽदृष्टा नाङ्गीकर्त्तव्येत्यत उदाहरणे दृष्टत्वं दर्शयितुमाह–अस्तु वेति ।
“नेत्रोरिवोत्पलै” रित्यादौ ।
नेत्रौरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥
इत्यत्र एकदेशविवर्त्युपमोदाहरणे कष्टसृष्टिरूपगत्यन्तराभावादित्यर्थः ।
एतदनन्तरं च उपमागर्भसमासोक्त्यसम्भवात् ।
एकदेशविवर्त्युपमैवेति शेषः पूरणीयः ।
न चात्राप्युत्पलैरिव नेत्रैरित्युपमानोपमेयभाववैपरीत्यं सञ्चार्य्यतां कथं गत्यन्तरभाव इति वाच्यम् ।
तदा सरः श्रीषु नेत्रादिबोधात् सरः श्रिय इव नायिका इति पर्यवसाने प्रक्रान्तसरः श्रीवर्णनाभावापत्तेः ।
किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः ।
यदाहुः–
टीका
विज्ञप्रिया:
(वि, स) नन्वेवं “दन्तप्रभे” त्यत्र उपमागर्भसमासोक्तिर्नेत्रैरिवोत्पलैरित्यत्रैकदेशविवर्त्युपमा इति कथमुपमागर्भसमासोक्तिविलोप इत्यत आह—किञ्चेति ।
लोचना:
(लो, ऌ) प्रत्युत “नेत्रैरिवोत्पलै” रित्युपमासाधकसद्भावात् ।
यत्पुनरुक्तं राघवानन्दैः सरः श्रीनिष्ठं लिङ्गसाम्यं समासोक्तिप्रयोजकमिति; तदसत् व्यवहारप्रतीतिसाधकाभावात् ।
लिङ्गसाम्यमात्रेण समासोक्तिप्रतीतौ “दृश्यते सखि ! शीतांशुः” इत्यादावप्यतिप्रसङ्गात् ।
किन्तु प्रस्तुतमपेक्ष्यैव समासोक्तिः क्रियते इति स्वयमनन्तरमेवोक्तम् ।
तत्कथं युष्मन्मते ऽपि लिङ्गसाम्ये समासोक्तिप्रतीतिरिति चेत् ।
समनकार्यलिङ्गविशेषणानां लक्ष्येषु द्वयोः त्रयाणआं वा सद्भावे प्राधान्येन व्यवहार इति ।
यच्चोक्तं तैरपि “नेत्रैरिवोत्पलै” रित्यादावुत्प्रेक्षापि ।
तदत्यन्तमनुचितम् ।
हेत्वभावे ऽध्यवसानस्याननुत्थानात् ।
किञ्चैवं “मुखेन कमलेनेव विभाति हरिणेक्षणा"इत्यादावपि हरिणेक्षणायां नलिनीव्यवहारसमारोपेण समासोक्त्युत्प्रेक्षयोः समवेशः स्यात् ।
एतत्सर्वं गर्भोकृत्य प्राचीनाचार्य्यसम्मतिं दर्शयति–यदाहुरिति ।
“व्यवहारो ऽथवा तत्त्वमौपम्ये यत्प्रतीयते ।
तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा” ॥
टीका
विज्ञप्रिया:
(वि, ह) व्यवहारो ऽथवेति ।
ऐन्द्रं धनुरित्यादौ उपमानोपमेयभाववैपरीत्यसञ्चारणोक्तेः कष्टसृष्टिककल्पनारूपं दूषणमुक्त्वा औपम्यगर्भसमासोक्त्यङ्गीकारे दूषणान्तरं ददत इतीयं कारिका ।
अतो दूषणआन्तरत्वबोधकमथवेति ।
यद् यस्मात् काव्यलिङ्गादिसाम्यहेतुकसमासोक्तौ यथाव्यवहारसमारोपः प्रतीयते तद्वदौपम्यगर्भत्वममुष्मान्न प्रतीयते ।
तत्तस्मान्नौपम्यसमासोक्तिरङ्गीकार्य्योति शेषः ।
किन्तु तादृशे स्थले एकदेशोपमा एकदेशविवर्त्युपमैव स्फुटेत्यर्थः ।
तथा चौपम्यगर्भा समासोक्तर्नास्त्येवेत्युक्तम् ।
लोचना:
(लो, ए) यद्यस्माद् व्यवहारः समासोक्तिवत्तत्त्वं रूपकवद् औपम्येन प्रतीयते ।
तदौपम्यगर्भकसमासोक्तिर्न ।
अत एवालङ्कारसर्वस्वकृताप्युक्तम् ।
नेत्रैरिवोत्पलैरित्यादौ सरः श्रिया नायिकात्वप्रतीतिर्न समासोक्त्या विशेषणसाम्याभावात् ।
तस्मान्नायिकात्र उपमानत्वेन प्रतीयते, नतु सरः श्रीधर्मत्वेन नायिकात्वप्रतीतिरिति ।
एकदेशविवर्तिन्युपमैवोपास्येते ।
एतेन दन्तप्रभापुष्पेत्यादौ पदानामुपमानरूपकसमाससम्भवेन हरिणेक्षणाया लतायाश्च विशेषणत्वे सम्भवत्यपि ऐन्द्रं धनुरित्यादौ च कष्टकल्पितोक्तयुक्तिसद्भावे ऽपि चोक्तप्रकारेणावश्याभ्युपगन्तव्यतथैकदेशविवर्त्युपमयैव व्यवहारो युक्तः ।
तथाच भाषणम्– “अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्” इति ।
एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करे ऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति ।
टीका
विज्ञप्रिया:
(वि, क) उपमाया रूपकस्य एकदेशविवर्तित्वे तुल्यन्यायादुभयत्रैव समासोक्त्यप्रवेशे तदुभयसन्देहसङ्करस्थले ऽपि समासोक्तिर्नास्तीत्याह—-एवं चेति ।
नास्या विष्य इति ।
आस्याः समासोक्तेरित्यर्थः ।
लोचना:
(लो, ऐ) तन्मूलसङ्करे दन्तप्रभेत्यादौ परीतेति पाठे यत्पुनरुक्तं कैश्चित् ।
सन्देहसङ्करे सन्देहास्पदत्वेनाव्यवस्थितत्वाद्रूपकोपमयोरभाव इति तन्न ।
द्वयोरपि साधकबाधकाभावेन पर्य्यन्ते ऽप्यन्यूनानतिरिक्तत्वेन वृत्तौ हि सन्देहसङ्कराङ्कारः ।
नतु स्थाणुर्वा पुरुषो वेति असंशयवर्तित्वज्ञानदशायां क्वचित् कस्यचिन्मिथ्यात्वं क्वचिद् द्वयोरपि ।
अन्यथा तत्र प्राचीनोक्तलौकिकहारमुद्रिकादिसंसृष्ट मुकुटाद्यलङ्कारसादृश्यमनुपपन्नं स्यात् ।
नच सन्देहसङ्करस्य निर्वाहः शक्यक्रिय इति वक्तुं न युक्तम्, वैचित्र्यस्यानुभवसिद्धत्वात्तस्यैव चालङ्कारत्वात् ।
किञ्च क्षीरनीरन्यायेन मिश्रणेन सङ्कर इति प्राच्याः ।
तयोश्च मिश्रणेन चैकस्य द्वयोर्वा भावः ।
किन्त्वत्र एकतरिनिश्चयाभावमात्रेण सन्देहसङ्करव्यवहार इत्यलं बहुना ।
उपसंहरति–तेनेति ।
अस्याः समासोक्तेः ।
विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा ।
कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः ।
सर्वत्रैवात्र व्यवहारसमारोपः कारणम् ।
टीका
विज्ञप्रिया:
(वि, ख) औपम्यगर्भत्वं समासोक्तेर्निरस्य चतुर्विधमेव समासोक्ते रूपं संहृत्य व्यवस्थापयति—विशेषणसाम्ये श्लिष्टेत्यादि ।
व्यवहारसमारोपस्याप्यत्र चातुर्विध्यं वक्तुमाह—सर्वत्र चेति ।
स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा ।
लोचना:
(लो, ओ) लौकिके सर्वमार्गसाधारणे ।
शास्त्रीये विद्याव्युत्पत्तिविशेषगम्ये ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम् ।
शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः ।
दिङ्मात्रं यथा–“व्याधूय यद्वसनम्-” इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः ।
“यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसङ्ख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते–
स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये” ॥
अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः ।
एवमन्यत्र ।
टीका
विज्ञप्रिया:
(वि, ग) यैरेकरूपमिति ।
परमेश्वरं प्रति कस्यचिदुक्तिरियम् ।
अखिलासु वृत्तिषु संसारेषु एकरूपमद्वितीयं त्वां पश्यद्भिर्यैर्जनैः परत्वजुषो भिन्नत्वविषयाया विभक्तेर्विभागस्य लोपः कृतः ।
तदैतद्दर्शनाद् भेदबुद्धिर्न कृतेत्यर्थः ।
तैरेव तस्य च ध्रुवं ध्रुवत्वं लक्षणं कृतमित्यहं मन्ये ।
ध्रुवमिति भावप्रधाननिर्द्देशः ।
त्वां कीदृशम् अव्ययम् अक्षयम्, असङ्ख्यतया सङ्ख्यातुमशक्यतया प्रवृत्तम् असङ्ख्यपदानुवृत्तित्वात् ।
अत्र श्लिष्टविशेषणसामर्थ्यादपिकारदव्ययप्रतीतिः ।
तेषामपि हि अखिलपदसाहित्येन वृत्तिषु स्थितेष्वेकरूपं विकाराहित्यात्तदर्थे सङ्ख्याराहित्यम् ।
परस्याः सुब्विभक्तेर्लोपश्च कृतः इति ध्रुवं निश्चितं मन्ये ।
ईदृशं त्वां पश्यद्भिर्विभक्तिलोपं कुर्वद्भिः चादीनामीदृशत्वं लक्षणं चिह्नं कृतमित्येवं भावः ।
अत्रेति ।
आगमशास्त्रं वेदः ।
व्याकरणप्रसिद्धं वस्तु चकारादि ।
तद्वद् व्यवहारश्च शब्दात्मकत्वम् ।
ईश्वरे तदारोपस्यापि शब्दब्रह्मात्मकत्वात् ।
एवमन्यत्रेति ।
तत्र चान्यशास्त्रव्यवहारसमारोपो वेदशास्त्रप्रसिद्धे वस्तुनि ईश्वरे यथा मम ।
“यस्यौज्ज्वल्यं द्युतिभिरधिकं विग्रहेरलङ्कृतीनां यत्पादान्ते लघुरपि पतत् गौरवं सम्प्रयाति ।
छन्दः ।
सिद्धाक्षरतनुरसौ सद्रुणः शब्दमूर्त्तिः पुण्यश्लोको मनसि सततं सन्निधिं मे प्रयातु” ॥
इत्यत्र वाक्ये प्रस्तुतोर्ऽथो यथासौ पुण्यश्लोकः परमेश्वरो मे मनसि सततं सन्निधिं प्रयातु ।
यस्य विग्रहे शरीरे ऽलङ्कृतीनां कौस्तुभभूषणआनां द्युतिभिरधिकम् औज्ज्वल्यम्, यत्पादान्ते लघुर्निकृष्टो ऽपि पतन् गौरवं गुरुत्वम् उत्तमत्वं सम्प्रयाति ।
असौ पुण्यश्लोकः कीदृशः ।
छन्दसि वेदे सिद्धाक्षररूपा अस्खलनरूपा तनुर्यस्य तादृशः सद्रुण ऐश्वर्य्यरूपगुणवान् ।
शब्दमूर्त्तिधरस्यैते विष्णोरंशा इति विष्णुपुराणम् ।
अत्र श्लिष्टविशेषणैर्व्यञ्जनया पुण्यस्योत्तमश्लोकस्य कविरिव प्रतीतिः ।
तस्यापि विग्रहे समासे ऽलङ्कृतीनाम् अनुप्रासोपमादीनां द्युतिभिः शोभाभिरधिकम् औज्ज्वल्यं तत्पादस्य चतुर्थभागस्यान्ते पततो लघुवर्णस्यापि गुरुत्वम्, पदान्तगो गुरुर्वेति छन्दः–शास्त्रे उक्तत्वात् ।
असौ छन्दसानुष्टुब्त्वादिच्छन्दसा सिद्धो वर्णमयमूर्त्तिः ।
मादुर्य्यादिगुणवान् शब्दात्मकश्चेति ।
लोचना:
(लो, औ) एकरूपं सन्मात्रत्वेनाविकारित्वात्प्रत्ययादिविशेषाभावाद्वा ।
वृत्तिषु वर्त्तन्ते प्रवर्त्तन्ते आविर्भवन्तीति व्युत्पत्त्या वस्तुषु स्त्रीत्वादिलिङ्गेषु वा आव्ययं क्षयरहितं चकारादिकञ्च ।
असङ्ख्यतया प्रवृत्तमनन्तपदार्थरूपेण विवर्तनात् ।
एकत्रादिसङ्ख्याविरहित्वेन प्रसिद्धेश्च ।
परत्वाजुषो भिन्नत्वभाजः विभक्तेर्व्यक्तेर्वस्तुन इति यावत् ।
लोपः कृतः अभावो निश्चितः ।
प्रत्ययत्वेन पराद् भाविन्याः विभक्तेः अवच्छादयति निगूहति ।
अनवच्छादितस्वरूपम् अगूढस्वरूपम् ।
पूर्वावस्था लोकप्रसिद्धा ।
यदुक्तं चण्डीदासपण्डितैरपि “यत्राप्रकृततादात्म्येन प्रकृतप्रतीतिस्तत्र रूपकम् ।
यत्रापकृतव्यापारवतः प्रकृतस्य स्वतन्त्रस्यैव प्रतीतिस्तत्र समासोक्तिरिति स्पष्टार्थः ।
एवं रूपके ऽपि व्यवहारसमारोपवचनं राघवनन्दानामपास्तम् ।
रूपके ऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति ।
इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति ।
अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः ।
टीका
विज्ञप्रिया:
(वि, घ) एकदेशविवर्त्तिरूपकसामासोक्त्योर्भेदमाह—रूपक इति ।
एकदेशविवर्त्तिरूपके इत्यर्थः ।
अप्रकृतमात्मस्वरूपेति ।
अप्रकृतं व्यङ्ग्यरूपं तत् कर्त्तृ ।
आत्मस्वरूपसन्निवेशेनेति ।
आत्मस्वरूपस्योभेदारोपेण प्रकृतं वाच्यमवच्छादयत्यपह्नवविषयीकरोतीत्यर्थः ।
यथा"लावण्यमधुभिः पूर्णम्” इत्यादौ ।
इह त्विति ।
स्वावस्थाव्यङ्ग्यस्य स्वरूपं तत्समारोपेण तदारोपेणानवच्छादितस्वरूपमह्नुतस्वरूपं तत् प्रकृतं वाच्यम् ।
पूर्वावस्थातो ऽन्यारापितव्यङ्ग्यव्यवहाररूपकावस्थातो विशेषयति आरोपितव्यङ्ग्यव्यवहारं करोतीत्यर्थः ।
एकदेशविवर्त्तिरूपके व्यङ्ग्यं रूप्यं वाच्ये आरोपिते यथा व्याधूय वसनमित्यादौ वाच्ये गन्धवहेन कामुकाभेदारोपः ।
किन्तु कामुकव्यवहारस्य रत्यर्थं वसनाक्षेपालिङ्गनरूपव्यवहारस्यैवारोपो ऽत्र इत्यर्थः ।
संवादमाह—अत एवात्र व्यवहारेति ।
वस्तुतस्तु व्यङ्ग्यव्यवहाररूपकत्वद्वयमेकदेशविवर्त्तिरूपके समासोक्तितो भेदकम् ।
उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य ।
अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः ।
टीका
विज्ञप्रिया:
(वि, ङ) उपमाध्वनितो ऽस्य भेदमाह—उपमाध्वनाविति ।
अत्र श्लेषेणेत्येव पाठः, श्लेषाकारे द्वयोरेव वाच्यत्वेन व्यङ्ग्यस्यैवाभावात् ।
श्लेषेण विशेष्यस्यापि साम्यमित्यर्थः ।
प्रामादिकपाठे तु श्लेषे सति ततो विशेष्यादिसाम्यमित्यर्थः ।
तथापि चकारो निरर्थकः ।
अप्रस्तुतप्रशंसातो भेदः स्फुट एव ।
लोचना:
(लो, अ) इह चाप्रस्तुप्रशंसायामप्रस्तुतवर्णनामुखेन प्रस्तुतप्रतीतिर्युक्ता तथाच मूलमन्तरेणाप्रस्तुतवर्णनस्यासम्बन्धप्रलापप्रायत्वात् ।
इह च विशेषणानां वर्णनीयार्थप्रतिपादनेन प्रकरणेन नियमिते ऽपि द्वितीयार्थप्रतीतेरनुभवसिद्धेः ।
उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ।
यथा–
“अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण !, रक्षैनं भीमाद्दुः शानम् !”
टीका
विज्ञप्रिया:
(वि, च) परिकरालङ्कारमाह—उक्तिरिति ।
साभिप्रायत्वं प्रतीपादनीयार्थपुष्ट्यार्ऽथपुष्टिकारित्वम् ।
तच्च यद्यपुष्टार्थदोषत्यागेनैव लभ्यं तथापि विशेषणैरित्यत्र बहुविवक्षणाद् बहुत्वे वैचित्र्यविशेषानुभवाद् अलङ्कारित्वम् ।
अङ्गराजेत्यादिकं कर्णोपहासिनो ऽश्वत्थाम्न उक्तिः ।
अत्र प्रतिपाद्यः कर्णोपहासः तत्पुष्टिकारीण्येतानि सम्बोधनानि ।
साक्षाद् भीमेन बध्यमानस्य दुः शासनस्य रक्षकत्वेनाङ्गदेशनृपतित्वं सेनापतित्वं महावीरद्रोणोपहासित्वं तदा वीरस्य योग्यमित्युपहासः स्पष्टः ।
लोचना:
(लो, आ) सम्प्रिति सादृश्यमूलालङ्कारलक्षणावसरे ऽपि विशेषणविच्छित्तिहेतुकत्वेन समासोक्त्यनन्तरं परिकरं लक्षयति–उक्तिरिति ।
विशेषणैरिति बहुवचनस्य नैकस्य द्वाभ्यां विशेषणाभ्यामिदं वैचित्र्यम्, किन्तु अपुष्टार्थदोषपरिहार एवेति भावः ।
साभिप्रायैर्गर्भोकृतप्रतीयमानार्थैः ।
इह च प्रतीयमानार्थस्यागूढत्वे गुणीभूतव्यङ्ग्यता, अतो ऽस्यालङ्कारस्य न ध्वनित्वम् ।
अङ्गराजेति ।
इदं भीमवचनम् ।
अङ्गो देशविशेषः ।
अत्र अङ्गराजत्वेन परक्षार्थमधिनायकत्वम् ।
सेनापतित्वेन राजपूजा ।
द्रोणोपहासित्वेन शैर्य्यमदः प्रतीयते ।
शब्दैः स्वभावादेकार्थैः श्लेषो ऽनेकार्थवाचनम् ॥ विस्स्द्_१०।५७ ॥
“स्वभावादेकार्थैः” इति शब्दश्लेषाद् व्यवच्छेदः ।
“वाचनम्” इति च ध्वनेः ।
उदाहरणम्–
टीका
विज्ञप्रिया:
(वि, छ) अर्थश्लेषालङ्कारमाह—शब्दैरिति ।
एकार्थैरित्येकार्थे एव शक्तैरित्यर्थः ।
अनेकार्थेति ।
शक्यैकभिन्नो योर्ऽथः अपरार्थः तस्य वाचनं लक्षणया बोधनमित्यर्थः श्लेषाद्व्यवच्छेद इति ।
श्लेषः–शब्दश्लेषालङ्कारः ।
अत्र शब्दस्य स्वभावादेकार्थत्वाद् वाचनमित्यनेन व्यञ्जनाव्यवच्छेदमाह—ध्वनेरिति ।
गुणीभूतव्यङ्ग्यस्याप्युपलक्षणमिदम् ।
लोचना:
(लो, इ) श्लेषप्रकरणादत्र श्लेषः ।
वाचनमनिर्द्धारितत्वेन बोधनम् ।
एवञ्व शब्दैरितिकारिकापदार्थ एकीभूय बाध्यभावमापन्नैरिति विशकलितानां बहूनां पदार्थानां तथाविधार्थबोधनक्षमत्वात् ।
नच कस्यचित्पदार्थविशिष्टार्थे शक्तिः ।
“प्रवर्तयन् क्रियाः साध्वीर्मालिन्यं हरिता हरन् ।
महसा भूयसा दीप्तो विराजति विभाकरः” ॥
अत्र प्रकरणादिनियमाभावाद् द्वावपि राजसूर्यौ वाच्यौ ।
टीका
विज्ञप्रिया:
(वि, ज) प्रवर्त्तयन्निति ।
विभाकरः सूर्य्यः विभाकरनामा राजविशेषश्च विराजति ।
द्वयोर्विशेषणान्याह—प्रवर्त्तयन्निति ।
क्रियाः आलोकसाध्याः, पक्षेब्राह्मणादिवर्णक्रियाः ।
हरितां दिशाम्, पक्षे–दिक्स्थितलोकानां मालिन्यं तमः श्यामताम्, पक्षेदारिद्र्यवशादनुज्ज्वलतां च, महसा ज्योतिषा, पक्षे—शौर्य्येण ।
अत्र क्रिया इत्यत्र नानेकार्थता ।
मालिन्यादिपदत्रयस्य त्वेकार्थे शक्तिरन्यार्थे लक्षणा, विभाकरांशे तु शब्दश्लेषः ।
अत्रोपमाध्वनित्वं व्यवच्छिनत्ति “अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रितेऽ; इत्यत्र शक्तिलक्षणाभ्याम् अनेकार्थतापि परिग्राह्येत्यभिप्रायेणैवात्रोपमाध्वनिप्रक्तिर्बोध्या ।
लोचना:
(लो, ई) क्रियाः सन्ध्योपासनाद्याः इष्टापूर्त्ताद्याः ।
मालिन्यम् अन्धकारमयत्वम् ।
दुराचारयोगो वा ।
महस्तेज उत्सवश्च, दीप्तः प्रकाशितः निर्मलीभूतश्च विभाकरः सूर्य्यः ।
विभां करोति व्यनक्तीते व्युत्पत्त्या राजा च विभायाः कान्तेः कारकत्वात्तदाश्रयत्वाद् वाच्यवन्निर्द्धारितत्वेन बोध्या ।
क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ।
कार्यान्निमित्तं कार्यं च हेतोरथ समात्समम् ॥ विस्स्द्_१०।५८ ॥
अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः ।
अप्रस्तुतप्रशंसा स्याद्–
टीका
विज्ञप्रिया:
(वि, झ) अप्रस्तुतप्रशंसालङ्कारं पञ्चविधमाह—क्वचिद्विशेष इति ।
सकलपञ्चम्यन्तपदार्थाद् अप्रस्तुतात् सकलप्रथमान्तपदार्थः प्रस्तुतश्चेद् गम्यते बुध्यते तदा पञ्चविधो ऽप्रस्तुतप्रशंसालङ्कार इत्यर्थः ।
अन्यापदेशपरिभाषाप्यन्यत्र ।
लोचना:
(लो, उ) विशे, इत्यादीनां कर्मपदानां प्रस्तुतमिति विशेषणम् ।
सामान्यादित्यादिपञ्चम्यन्तपदानामप्रस्तुतादिति अप्रस्तुतादर्थतो ऽवाच्यात् ।
अत्र एवाप्रस्तुतस्य प्रशंसावाच्यतया वर्णनमित्यर्थाद् अप्रस्तुतप्रशंसाख्यो ऽलङ्कारः ।
एवं चाप्रस्तुतात् प्रस्तुतप्रतीतिरप्रस्तुतप्रशंसेति सामान्यलक्षणम् ।
तस्याश्चोक्तनयात् पञ्चप्रकारतेति भावः ।
क्रमेणोदाहरणम्—
“पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने ऽपि देहिनस्तद्वरं रजः” ॥
अत्रास्मदपेक्षया रजो ऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् ।
टीका
विज्ञप्रिया:
(वि, ञ) तत्र सामान्यादप्रस्तुतात् प्रस्तुतविशेषव्यङ्ग्यत्वमाह—पादाहतमिति ।
अपमाने ऽपि स्वस्थाद् देहिनः तद्रजः वरं श्रेष्ठम् ।
यद्रजः पादाहतं सद् उत्थायाभिहन्तुरेव मूर्द्धानमधिरोहति आरोहतीत्यर्थः ।
अत्रेति सामान्यं देहिसामान्यम्, तदभिधानात् प्रस्तुतस्यास्मत्त इत्यस्य व्यञ्जनेत्यर्थः ।
लोचना:
(लो, ऊ) पादाहतमिति ।
एवं माघकाव्योक्त्या शिशुपालं प्रति प्रयाणाभिमुखीकरणाय श्रीकृष्णं प्रति बलरामवाक्यम् ।
अस्मदिति ।
अस्मत्पदवाच्याः श्रीकृष्णादयो हि वाच्याः ।
“स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया” ॥
टीका
विज्ञप्रिया:
(वि, ट) विशेषादप्रस्तुतात् प्रस्तुतसामान्यव्यञ्जनमाह—स्त्रगियमिति ।
इन्दुमतीभर्तुर्नारदीयपारिजातस्त्रजं हृदि निधायाजस्यायं विलापः ।
अत्रेश्वरेच्छया क्वचिदहितकारिणो ऽपि हितकारित्वं हितकारिणो ऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषो ऽभिहितः ।
एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः ।
दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ।
टीका
विज्ञप्रिया:
(वि, ठ) अत्रेति ।
सामान्ये हिताहितकारित्वादिना सामान्ये विशेषः ।
अहितकारिविशेषो ऽमृतम् ।
अर्थान्तरन्यासालङ्कारस्यात्रानयाप्रस्तुतप्रशंसया निष्पाद्यत्वादनयोरत्रानुग्राह्यानुग्राहकभावरूपसङ्कर इत्याह—एवं चेति ।
अर्थान्तरन्यासो समान्येनेति ।
यस्तत्प्रभेदः स चात्र अप्रस्तुतप्रशंसानिष्पाद्यः ।
तथाहि किं न हन्ति इत्यनेन हन्तृविशेषस्य स्त्रजो हननसामर्थ्यसत्त्वे ऽपि हननाभावे विशेष उक्तः ।
स चाप्रस्तुतप्रशंसालभ्येनाहितकारिसामान्येन ईश्वरेच्छाधीनाहितकारित्वाभावरूप एव साधर्म्यात् ।
समानार्थतः स्त्रजो ऽहननघटितम् ।
ईश्वरेच्छाहितकारिणो ऽप्यहितकारित्वाभावादिति प्रतीतेः ।
ननु स्त्रङ्निष्ठयोरहननामृतभावयोरपकारसामर्थ्ये ऽप्यनपकारित्वरूपसाधनप्रतिबिम्बनादत्र दृष्टान्तालङ्कारस्यापि प्रसक्तिरित्यतस्तन्निरस्यति—दृष्टान्त इति ।
प्रख्यातमेव प्रसिद्धमेव बिम्बप्रतिबिम्बत्वेन व्यङ्ग्यसाधर्म्येण ।
अत्र तस्येति न दृष्टान्तालङ्कारसद्भाव इत्यर्थः ।
तथा च दृष्टान्तस्तु सधर्मस्य इत्यत्र प्रसिद्धसधर्मस्येत्यर्थः ।
लोचना:
(लो, ऋ) आहितकारिविशेषो विषं हतकारिविशेषो ऽमृतम् ।
अप्रस्तुतप्रशंसामूलमुत्थानबीजम् ।
यस्यार्थान्तरन्यासस्य सामान्येन विशेषकृतः समर्थकत्वात् ।
तस्य दृष्टान्तस्य ।
इह तु विषामृतत्वेनाध्यवसानादतिशयोक्तिरेव ।
तयोश्च सामान्यविशेषाभावरूपेण विच्छित्तिविशेषसम्भवात् ।
“इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त ! शिखिनां बर्हाः सहर्हा इव” ॥
अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, ड) अप्रस्तुतात् कार्य्यात् प्रस्तुतकारणव्यञ्जनमाह—इन्दुर्लिप्तैवेति ।
वदनादिसौन्दर्य्यवत्याः सीतायाः पुरतः ।
इन्द्वादयो निकृष्टा इति समुदायार्थः ।
तत्र सीतायाः वदनापेक्षया इन्दोः, चञ्चलनयनापेक्षया मृगदृशः, अरुणाधरापेक्षया विद्रुमस्य, अङ्गगौरत्वापेक्षया हेमप्रभायाः, मधुरस्वरोच्चारककोमलकण्ठापेक्षया तादृशस्वरोच्चारककोकिलकण्ठस्य, केशापेक्षया शिखिबर्हस्य च निकृष्टता प्रतिपादकविशेषणान्युत्प्रेक्ष्यन्ते ।
इन्दुर्लिप्त इवेति ।
जडिता चाञ्चल्यरहिता, प्रम्लानारुणिमेव आरुण्यम्लानिवत् ।
कार्कश्यं मधुरस्वरोच्चारणासमर्थकाठिन्यम् ।
प्रस्तुतं स्थितं तयैव जनितं वा ।
तच्च कलयापि चाल्पभावेनापि कोकिलयापि किञ्चिन् मधुरस्वरोच्चारणात् ।
बर्हाः सगर्हाः सनिन्दाः ।
हन्तेतीन्द्वादीनामपकर्षात् खेदे सीताया उत्कर्षाद्धर्षे वा ।
सम्भावितेभ्य उत्प्रेक्षितेभ्यः ।
कारणं प्रतीयते ।
इत्युत्प्रेक्षाकारणत्वेन कारणत्वं बोध्यम् ।
लोचना:
(लो, ॠ) इन्दुरित्यादि ।
वदनादीत्यादिशब्देन ईक्षणाधरकान्तिवचन केशसङ्ग्रहः ।
गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा ।
अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता- मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः” ॥
अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम् ।
टीका
विज्ञप्रिया:
(वि, ढ) अप्रस्तुतकारणात् प्रस्तुतकार्य्यव्यञ्जनमाह—गच्छामीति ।
त्वं किं प्रस्थाननिवृत्तो ऽसीति पृच्छन्तं प्रति प्रस्थानप्रवृत्तस्योक्तिरियम् ।
उद्रोकिणमुद्भटं निः श्वासम् मुक्त्वा बाष्पकलुषेणैकेन चक्षुषा मां तिर्य्यगवेक्ष्य इत्यन्वयः ।
स्नेहविवर्द्धितस्य मृगशिशोः स्वस्मिन्नर्पितस्य प्रेम्णः प्रियसखीवृन्दे विवन्धोपदेशस्य मरणसूचनाय सोछ्वासं प्रोद्गतस्य ममाभाषणक्रियाविशेषणम् ।
अत्र कस्यचिदिति ।
गमननिवृत्तस्य नायकस्येत्यर्थः ।
प्रस्तुत इति ।
कस्यचित् प्रश्नात् प्रस्तुत इत्यर्थः ।
कारणं नायिकायाः स्वमरणसूचनम् ।
लोचना:
(लो, ऌ) अत्रेति ।
कस्याचिद् अर्थात् केनचित् कुतो न गतो ऽसीति पृष्टस्याप्रस्तुतेनाभिधातुमुचितत्वात् ।
कारणमगमनस्येत्यर्थः ।
तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च ।
श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा ।
टीका
विज्ञप्रिया:
(वि, ण) समात्सममिति ।
पञ्चमप्रकारस्य त्रैविध्यं वक्तुमादौ द्वैविध्यमाह—श्लेषमूला सादृश्यमूलता चेति ।
श्लेषमूला च द्विधा भवतीत्याह—समासोक्तिवदिति ।
समासोक्तौ हि विशेष्यस्यापि श्लेष उपमाध्वनित्वापत्त्या न विशेष्ये श्लेषः ।
प्रकारान्तरमाह—श्लेषवदिति ।
शब्दालङ्कारविशेष्यवदित्यर्थः ।
“प्रतिकूलतामुपगते हि विधौ” इति विशेष्यपदेपि श्लेषऋ ।
लोचना:
(लो, ए) श्लेषमूलेति ।
श्लेषोर्ऽथश्लेषाभासः प्रस्तुतस्य गम्यत्वात् ।
क्रमेण यथा–
“सहकारः सदामोदो वसन्तश्रीसमन्वितः ।
समुज्ज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः” ॥
लोचना:
(लो, ऐ) आमोदः अतिनिर्हारी गन्धः, हर्षश्च ।
उत्कलिका उद्गतकोरक उत्कण्ठा च ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः ।
टीका
विज्ञप्रिया:
(वि, त) अत्र विशेषणमात्रश्लेषे आह—सहकार इति ।
सहकार आम्रवृक्षो वसन्तश्रीसमाश्रितः सन प्रभूताभिर्बहुभिरुद्गताभिः कलिकाभिः मुकुलैः आकुलो व्याप्तः सन् सदामोदो विद्यमानोत्तमगन्धस्तत एव समुज्ज्वलदीप्तिस्तत एव श्रीमांश्व ।
अत्रेति ।
नायको ऽपि वसन्तलक्ष्म्याऽश्रितः सन् आमोदेन हर्षेण समुज्ज्वले सम्यक् शृङ्गारे रुचिर्यस्य तादृशः ।
“शृङ्गारशुचिरुज्ज्वलः” इत्यमरः ।
श्रीमान् अत एवोत्कलिकया उत्कण्ठयान्वितः ।
“उत्कण्ठोत्कलिके समे " इति कोषः ।
कस्यचिदिति ।
उक्तविशेषणवत इत्यर्थः ।
“पुंस्त्वादपि प्रविचलेद्यदि यद्यधो ऽपि यायाद्यदि प्रणयने न महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन” ॥
टीका
विज्ञप्रिया:
(वि, थ) विशेष्यपदश्लेषे त्वाह—पुंस्त्वादिति ।
सपत्नापहृतं राव्यं येन केनापि प्रकारान्तरेणोद्धर्त्तुं कञ्चिद्राजानमुपदिशतः कस्यचिदुक्तिरियम् ।
केनाप्यनिर्वचनीयेन पुरुषोत्तमेन नारायणेन ईदृशीत्येवम्प्रकारा इयं दिक् अयं प्रकारः प्रकटिता दर्शिता ।
कीदृशी दिगित्यत्र आह—पुंस्त्वादिति ।
पुंस्त्वात् पुरुषभावाद् यदि प्रविचलेद् यदि स्यात्तदपि विश्वं संसारमुद्धरेत् ।
पुरा ह्यसुराहृतं राज्यं मोहिनीरूपा कन्या भूत्वा नारायणेनोद्धृतम् ।
तथा यद्यधो ऽपि यायात्तपीत्यर्थः—पुरा वराहमूर्त्त्या पातालं गत्वा तेन पृथिव्या उद्धृतत्वात् ।
तथा यदि प्रणयने याचने याचननिमित्ते न महान् लघुः स्यात् तदपीत्यर्थः ।
वलिदैत्यापहृतराज्यस्य उद्धरणाय तेन वामनीभावरूपलघुत्वप्राप्तोः ।
एवं च त्वयापि पुरुषश्रेष्ठेन पुंस्त्वात् पौरुषाच्चलनेनापि निकृष्टताप्राप्तिरूपताधः पातेनापि याचनार्थं लघुत्वप्राप्त्यापि सपत्नापहृतं राज्यमर्ज्यतामिति प्रकृतव्यञ्जना ।
लोचना:
(लो, ओ) पुंस्त्वादिति ।
अप्रस्तुतवासुदेवपक्षे, पुंस्त्वात् प्रविचलनममृतहारणकाले स्त्रीरूपधारित्वाद् अधोगमनं नीचताप्राप्तिः ।
प्रणयने प्रीतिविषये महान् उत्तमो यदि न स्यात् ।
पुरुषोत्तमेन पुरुषश्रेष्ठेन ।
अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते ।
तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, द) प्रचुरप्रसिद्ध्या प्रथममिति ।
तेन तुल्यकालबोधश्लेषाव्यपदेशः ।
इदमुपलक्षणम् ।
अप्रस्तुतेश्वरस्यैव प्रथमं बोधितत्वात् तात्पर्य्याच्चेति बोध्यम् ।
लोचना:
(लो, औ) श्लिष्टेन द्व्यर्थेन ।
प्रचुरप्रसिद्ध्येति ।
सामग्रीवशात्प्रकरणमपास्यैकदेशप्रसिद्धेः समुदायप्रसिद्धिर्गरीयसीति नयेनेति भावः ।
यत्पुनरुक्तं राघवानन्दैः पुंस्त्वादिशब्दानामत्र भगवन्तं प्रत्यधिकान्वयित्वमिति तन्न, प्रमाणआभावात् ।
प्रत्युत प्रकरणे वर्णनीयार्थनियमाच्च ।
सादृश्यमात्रमूला यथा–
लोचना:
(लो, अ) सादृश्यमात्रमूला नतु विशेषणादिद्व्यर्थताहेतुका ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति ।
अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा” ॥
अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, ध) एक इति ।
पोतः शिशुः ।
क्षुधेतितृतीयान्तम् ।
अत्रेति ।
कशिचिदत्र बहुदस्युवेष्टितः पलायनासमर्थो विधिकरुणाशरणं प्राप्तो बोध्यः ।
इयं च क्वचिद्वैधर्म्येणापि भवति ।
“धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः” ॥
अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते ।
वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् ।
तत्र सम्भवे उक्तोदाहरणान्येव ।
टीका
विज्ञप्रिया:
(वि, न) धन्या इति ।
वनप्रेषितरामशोकाकुलस्य दशरथस्योक्तिरियम् ।
सम्भवेति ।
सम्भवसम्भवं सम्भवासम्भवं चेति पक्षत्रयम् ।
लोचना:
(लो, आ) उभयरूपता, अंसतः सम्भवित्वादंशतश्चासम्भवित्वादयमलङ्कारः ।
असम्भवे यथा–
“कोकिलो ऽहं भवान् काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः” ॥
अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि ।
टीका
विज्ञप्रिया:
(वि, प) असम्भवे व्यङ्ग्यस्य वाच्ये आरोपः ।
कोकिलो ऽहमिति ।
काकली मधुरास्फुटध्वनिः ।
“काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटेऽ; इति कोषः ।
वाकोवाक्यमिति ।
कोकिलस्यैव वाच्यमिदम् ।
तत्कथमुक्तिप्रत्युक्तिरूपं वाकोवाक्यमिदमन्तरकथनाय मध्यस्थावलम्बनात्, कलहत्वप्राप्तौ काकस्यापि कोकिलसाम्योक्तेराक्षेपात् ।
प्रस्तुताध्यारोपं विनेति ।
अप्रस्तुते कोकिले वाच्ये प्रस्तुतस्य व्यङ्ग्यस्याध्यारोपं विनेत्यर्थः ।
नच वाच्यार्थबोधे तत्कथमप्रस्तुते वाच्ये तदारोप इति वाच्यम् ।
कोकिलस्योक्त्यसम्भवात्तद्व्यङ्ग्यस्याप्युक्तियोग्यस्य पुरुषस्य स्मरणात्तदारोपसम्भवात् वश्चात्तु व्यञ्जनया पुरुषविशेषबोधे ऽप्यनुपपत्त्यभावात् ।
उभयरूपत्वे यथा–
“अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः” ॥
अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि ।
अन्येषां तु सम्भवीत्युभयरूपत्वम् ।
टीका
विज्ञप्रिया:
(वि, फ) अन्तश्छिद्राणीति ।
अत्रेति ।
अत्र अन्तश्छिद्रादिमत्त्वं यत् कमलनालस्य वाच्यं तत्रान्तश्छिद्रस्य तन्तुभङ्गे हेतुत्वं न सम्भवति तदाह—छिद्राणामिति ।
अन्येषान्त्विति ।
कण्टकानामित्यर्थः ।
कण्टकैस्तन्तुच्छेदनसम्भवात् ।
तथा छिद्राम्श एव निर्गुणस्य कण्टकतुल्यपरिजनवतश्च प्रस्तुतपुरुषस्य तत्रारोपः ।
नतु कण्टकानामम्श इति भावः ।
लोचना:
(लो, इ) अन्तश्छिद्राणि मध्ये छिद्राणि कुटुम्बसुदुश्चरितानि च ।
कण्टकाः सूक्ष्मा अवयवाः मत्सरिणश्च ।
भङ्गुराः छिदुराविनश्वराश्च ।
गुणाः सूत्राणि ।
शिल्पादि गौरवादिश्च ।
असम्भविसूत्रोपदेशता तेषां पृथक्त्वात् ।
सम्भवि उद्ध्रियमाणे सूत्रे तत् सीम्नि छेददर्शनात् ।
इह च— अङ्ग देहि लिहिण मा अपि जवप्पसि परवैं प्पीनं येउं ।
अमण्डे कोहलिए अञ्जुकल्लिं पि पुं वहिंसि ।
अत्र नाप्रस्तुतप्रशंसा व्यङ्ग्यस्य वाच्यादधिकमास्वाद्यत्वेन ध्वनित्वात्; व्यङ्ग्य्स्य वाच्यादप्राधान्य एव एतदलङ्काराभ्युपगमः ।
यत्र पुनरप्रस्तुतप्रशंसाङ्गीकारे राघवानन्दमहापात्रैरप्रस्तुतार्थव्यङ्ग्यो व्यङ्ग्य इति मुहुर्मुहुरभिधतां ध्वनिकारप्रभृतिचण्डोदासपण्डितानामाचार्यणां ग्रन्थजातमत्रैव च साहित्यदर्पणे “लक्षणामूलध्वनिपरीक्षावसरे प्रदर्शितम्, “क्वचिद् बाध्यतया ख्यातिऽ; रित्यादिशास्त्रविदां वचनमनालोच्य लक्षणाजीवितमित्यभिधायैतदुदाहरणे सुलक्ष्यो लक्ष्य इत्युत्कुश्यते तेषां कस्यचिद् दुर्मेधसः प्रलपितेनवञ्चितानां मतमतितुच्छतरं पूर्वपक्षतया लिखितमात्मनो दुर्मतित्वप्रकटनाय ।
इह पादाहतं यदुत्थायेत्यादौ “क्वचिद् बाध्यतया ख्यातिः, इत्याक्तनयेन “भ्रम धार्मिकऽ; इत्यादिवत् “दृष्टिं हे प्रतिवेशिनीऽ; त्यादिवच्च लक्षणा मास्तु “कोकिलो ऽहऽ; मित्यादौ वाच्यस्यासम्भवित्वे अन्तश्छिद्रेत्यादाववयवस्यासम्भवित्वे कथं न लक्षणेति ।
अत्रोच्यते, यत्र खलु कोकिलो ऽहमित्यादौ वाक्यबोधस्तत्रोत्पत्स्यमानान्वयबाधहेतुका कथं लक्षणा ? यच्च तैरेव दर्शितम् ।
श्रुतान्वयादनाकाङ्क्षमित्यादि ।
किञ्चात्रोदाहरणे अन्तश्छिद्राणीत्यादौ वा यदि लक्षणा तदा शुद्धा गौणी वा, नाद्या ।
तस्याः सादृश्येतरसम्बन्धमूलत्वात् ।
यदि द्वितीया सापि सारोपा साध्यवसाना वा, नाद्या विषयस्य निर्गोर्णत्वात् ।
द्वितीया चेद् अतिशयोक्तिरस्तु किमलङ्कारान्तरकल्पनया ।
कथं वा पदमात्रान्वयबोधहेतुकाया वाक्यबोधे प्रवेशः ।
इह खलु प्रभुप्रभृतिषु केनचिद् अभिसन्धानेन कर्त्तव्योर्ऽथस्तात्पर्य्यम्, गोपनेनाभिमतकार्य्यनिवेदने ।
अत एवात्र समासोक्तिवद् व्यवहारसमारोप इति प्राच्याः ।
तथाहि “अयं रत्नाकरो ऽम्भोधिरित्यसेवि धनाशयेऽ; त्यादौ प्रकृतराजविषयको ऽम्भोधिव्यपदेशः प्रकृतेन तन्निष्ठसुशब्दप्रतिपादनाल्लक्ष्यगाम्भीर्य्यादिगुणाद्यतिशयस्य लक्षणाफलस्य प्रतिपत्तये किन्तु अभिलषितं तत्सेवार्थं वाच्यार्थमलब्ध्वा प्रत्युतानिष्ठप्राप्तेः ।
सुशब्दरचनाया एवं कोकिलो ऽहमित्यादावपि कुत्रचित्कोकिलव्यपदेशः ।
कस्मिंश्चित् प्रस्तुते महापुरुषे हीनस्य मत्सरो न युक्त इति बोधनाय तुल्ये ऽप्रस्तुते तुल्याभिधाने च लक्षणायां “जं दे लिहिण मा असीत्यादौ सुप्रसिद्धे तैरभ्युपगते व्यञ्जनाविषयत्वे ऽपि लक्षणा स्यात् ।
अन्तश्छिद्राणीत्यादौ अप्यन्तश्छिद्रादीनां कमलनालगुणभङ्गुरीकरणादेरसम्भवात् कथमन्वयोपपत्तिरिति चेत्, अत्राहुश्चण्डीदासपण्डिताः “अत्र बाह्यस्य प्रस्तुतपरत्वात् प्रारम्भात् प्रकृत्यैव वाच्यार्थवेलय् तत्समर्पणेन प्रतीतेर्न दूष्यत इति ।
" अत एवात्र सर्वेष्वपि भेदेषु प्रस्तुताभिधानस्य युक्तताप्रकाशनायालङ्कारसर्वस्वकृताप्युक्तम् ।
“इहाप्रस्तुतवर्णनमेवायुक्तमप्रस्तुतत्वात् ।
प्रस्तुतपरत्वे तु कदाचित् युक्तं स्यादिति ।
यदि “चान्तश्छिद्राणीऽ; त्यादौ लक्षणा तदा तत्र मुख्यार्थबाधे वाक्यार्थान्वयोपपादकं किं नाम लक्ष्यते कुटुम्बे दुश्चरितानीति रूपो ऽप्रस्तुतोर्ऽथश्चेत् तस्यापि न कमलनालभङ्गुरीकरणमपास्तम् ।
यच्चैषां मान्यानां मते बहुतरमस्खलितमवधार्य्यापि किञ्चित् किञ्चिदेव दूषणमुद्धुष्यते तत्र ध्वनिकारप्रभृतिचण्डीदासपण्डिताचार्यवर्यप्रयत्नप्रणीतविमलतरप्रमेयजातभङ्गभीरुणा तदतिक्षमध्वमविध्वस्तबुद्धयो विभुधाः ।
यच्च तैरेव—
“का त्वं कुन्तलमल्लकीर्त्तिरहह क्वापि स्थिता न क्वचित् सख्यस्तास्तव कुत्र कुत्र वद वाग् लक्ष्मीरुचः सम्प्रतिऽ; वागाप्ता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः- कान्तिर्मण्डनमण्डलं मम पुनः नाद्यापि विश्रामभूः ।
ऽ; इति क्वचित् प्रश्रोत्तरिकया कल्पयित्वा “वर्णनीयस्य लेशोद्दिष्टस्य लक्ष्यते” इत्यप्रस्तुतप्रशंसादिविशेषस्य लक्षणं लिखित्वा तदुदाहरणत्वेन दर्शितं तदस्माभिरुपेक्षणीयम् ।
अत्र हि प्रश्रोत्तरिकाभावेन भवने वस्तुषु न व्यवहारसमारोपेण समासोक्तिं प्रयोजयति ।
वाच्योर्ऽथो द्विविधः, स्वतः सम्भवी प्रौढक्तिसिद्धश्चेति प्रसिद्धम् ।
तत्र प्रौढोक्तिसिद्धार्थस्यालङ्कारत्वे “सज्जै सुरै " ( हि ) मासो इत्याद्यर्थानामाप्यलङ्कारत्वप्रसङ्गः ।
कुन्तलेश्वरस्य वागादीनां चतुराननादिगमनेन “यो ऽनुभूतः कुरङ्गाक्ष्या” इत्यादिवन्निदर्शना इह ।
ह्यध्यवसायस्य सिद्धेत्वन निर्देशात् शब्दमूलातिशयोक्त्यलङ्कारपरिकल्पनम् ।
तथाप्यत्र निदर्शनाविवेकप्रस्तावे उक्तम्—उपमापरिकल्पनं निदर्शनेति लक्षणे उपमापदं सादृश्यमात्रवाचकमिति ।
अत एवालङ्कारसर्वस्वकृताप्युक्तम् ।
सम्भवतासम्भवता वा वस्तुसम्भन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शनेति ।
तथाच पद्भ्यां हंसगतिरित्यादौ सो ऽपि तदाननरुचमित्यादौ च प्रतिकल्पना ।
“मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताणुरेणुजालाः” ॥
इत्यत्र च तथाभूतभूमिषु अवनतशितिकण्ठकण्ठानां सम्भवापत्तेः उत्प्रेक्षाकल्पने प्रकृतोदाहरणं वातिशयोक्तिकल्पने निदर्शनायां न विरोधः ।
किञ्च एकैकस्य वागादे राजनि चतुराननादौ च भवनात् ।
अस्याश्च समासोक्तिवद् व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः ।
उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वम् ।
एवं समासोक्तावपि ।
श्लेषे तु द्वयोरपि वाच्यत्वम् ।
टीका
विज्ञप्रिया:
(वि, ब) ननु “पन्थिअ” इत्यादौ यः शब्दशक्तिमूलो वस्तुध्वनिरुक्तस्तत्र उपभोगक्षमत्वे सति यत्स्थित्यनुमितिरूपं वस्तुव्यङ्ग्यमुक्तं तत्र वक्त्र्या उद्देश्यत्वेन तदेव प्रस्तुतं वाच्यार्थस्त्वप्रस्तुतः ।
तथा च तत्राप्रस्तुतप्रशंसात्वमेवापतितमित्यतस्ततो ऽस्या भेदमाह ।
वस्तुध्वनौ तथा स्थित्यनुमतिर्व्यङ्ग्या ।
न तत्र वाच्यस्य व्यवहारस्य व्यङ्ग्यपुरुषादौ समारोपस्य प्राणत्वाच्च तत्कारकत्वादित्यर्थः ।
अत्र च शब्दशक्तिमूलादित्युपलक्षणम् ।
“दृष्टिं हे प्रतिवेशिनी” त्यादावपि यद्भाविनखक्षतगोपनं व्यङ्ग्यम्, तदपि वक्त्र्या उद्देश्यत्वेन प्रस्तुतम् ।
वाच्योर्ऽथो ऽप्रस्तुतस्तत्राप्येव मस्याः प्रसक्तिरेवं समाधानं च बोध्यम् ।
उपमाध्वनौ समासोक्तौ शब्दश्लेषालङ्कारे तस्याः प्रसक्तिरेव नास्तीत्याह—उपमाध्वनाविति ।
अत्र ह्यप्रस्तुतो वाच्यः ।
उपमाध्वनिसमासोक्तौ चाप्रस्तुतो व्यङ्ग्य एवेति तयोर्नास्याः प्रसक्तिः ।
श्लेषे ऽपि नास्याः प्रसक्तिरित्याह ।
श्लेषेणाप्रस्तुतव्यञ्जनत्वे सति ह्यप्रस्तुतप्रशंसा ।
श्लेषे तु द्वयोरप्यर्थयोर्वाच्यत्वमित्यर्थः ।
लोचना:
(लो, ई) सम्प्रति सुमतिवेद्यमस्या ध्वन्यलङ्कारविवेकं दर्शयति–अस्याश्चेति ।
अस्याः अप्रस्तुतप्रशंसायाः शब्दशक्तिमूलाद् वस्तुध्वनेर्भेदः ।
तथाहि “भुक्तिमुक्तिकृदेकान्त” इत्यादौ यदागम इत्यत्र सच्छास्त्रे न सत आगमनरूपस्यार्थस्य व्यवहारः समारोप्यते, किन्तु रहस्यगोपनार्थमेव व्द्यर्थपदपयोगः, ततो ऽसा भेद इति भावः ।
वाच्यत्वमनिर्द्धारितत्वेनेति शेषः ।
उक्ता व्याजस्तुतिः पुनः ॥ विस्स्द्_१०।५९ ॥
निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः ।
लोचना:
(लो, उ) व्याजस्तुतिरित्यलङ्कारनाम ।
व्यङ्ग्यहेतुकवैचित्र्यसारूप्यादप्रस्तुतप्रशंसानन्तरमस्या लक्षणम्; अस्याश्च स्तुतिनिन्दयोः सामान्यविशेषकार्यकारणतुल्याभावादप्रस्तुतप्रशंसातो भेदः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः ।
स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः ।
टीका
विज्ञप्रिया:
(वि, भ) व्याजस्तुत्यलङ्कारमाह—उक्ता व्याजेति ।
वाच्याभ्यामिति ।
यद्यपि बक्ष्यमाणोदाहरणयोर्निन्दास्तुत्योरेकस्यापि वाच्यत्वं तथापि निन्दास्तुतिप्रयोजकार्थाभ्यां वाच्याभ्यामित्यर्थः ।
गम्यत्वे व्यङ्ग्यत्वे निन्दाव्याजेन स्तुतौ व्याजनिन्दात्वेन व्याजस्तुतिपरयोगार्थसम्भवात् समासद्वयेनोभयत्र तत्पदार्थं घटयति—निन्दयेति ।
क्रमेण यथा–
“स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ! ।
त्वयि कुपिते ऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः” ॥
टीका
विज्ञप्रिया:
(वि, म) अत्र निन्दाव्याजेन स्तुतिमाह—स्तनेति ।
हे देव ताः प्रसिद्धाः तव वैरिस्त्रियः त्वयि कुपिते प्रागिव विश्वस्ताः ।
अकोपदशायामिव कोपदशायामैक्यरूपमाह—स्तनयुगेति ।
मुक्तारचिताभारणाः ।
अकोपदशायां दृष्टत्वेन कण्टकैर्व्याप्ताङ्गयष्टयः कोपदशायां तु भयेन कण्टकवनप्रवेशात्तादृशास्तथाकोपदशायां विश्वस्ता अभीता कोपदशायां तु विशिष्टमधिकं श्वस्तं श्वासो यासां तादृशाः, चिन्तया दीर्घनिः– श्वासात् ।
सर्वत्रैव शब्दवाच्यत्वेन प्राक्तुल्यत्वम् कोपे ऽपि अकोपकालीनावस्थातो ऽविशेषान्निन्दा ।
श्लिष्टपदद्वितीयार्थेन तु स्तुतिः ।
लोचना:
(लो, ऊ) मुक्तेत्यत्र मुक्तानि त्यक्तनि, पक्षे—मौक्तिकमयान्याभरणानि यस्याम् कणअटकस्तत्र लतागतः प्रसिद्धः, लोमाञ्चश्च ।
विश्वस्ता विधवा विश्वसयुक्ताश्च ।
इदं मम ॥
“व्याजस्तुतिस्तव पयोद ! मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि ।
स्तोत्रं तु ते महदिदं घन ! धर्मराज- साहय्यमर्जयसि यत्पथिकान्निहत्य” ॥
टीका
विज्ञप्रिया:
(वि, य) स्तुत्या निन्दामाह—व्याजस्तुतिरिति ।
हे पयोद ! यज्जगतः जीवनाय तव जीवनानि जलानि इयं तव मया व्याजस्तुतिर्मिर्थ्यास्तुतिरेवोदिता ।
इतो ऽधिकस्तुतिसत्त्वे इयं न स्तुतिरप्यस्तुतिरेवेत्यर्थः ।
अधिकां स्तुतिमाह—स्तोत्रन्तु ते इति ।
हे घन ! यत् पथिकानि विरहणो निहत्य धर्मराजस्य यमस्य साहाय्यं महिमानमर्जयसि इदं तु ते महत्स्तोत्रं धर्मराजस्य तुल्यकर्म लोकमारणकारित्वेन माहात्म्याधिक्यात्तद्विरुद्धजगज्जीवकारित्वे, नतु तादृशमाहात्म्यम् ।
अत्र पथिकमारकत्वेन निन्दा ।
अत्र स्तुतेर्वाच्यत्वे ऽपि स्तुतिप्रयोजकार्थपरतया यत्स्तुतिपदं व्याख्यातं तदुदाहरणान्तरसङ्ग्रहाय ।
यथा “दानात् प्रशंसां प्राप्तो ऽसि कर्णेदानीं तु सङ्गरात् ।
अपक्रम्य यशो दत्त्वारये प्राप्तस्ततो ऽधिका"मिति कर्णं प्रति अश्वत्थाम्न उक्तौ स्तुतेरवाच्यता ।
लोचना:
(लो, ऋ) जीवनानि जलानि प्राणश्च ।
घनं निरन्तरम् ।
धर्मराजो यमश्च ।
पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ॥ विस्स्द्_१०।६० ॥
टीका
विज्ञप्रिया:
(वि, र) पर्यायोक्तालङ्कारमाह—पर्यायोक्तमिति ।
गम्यं व्यङ्ग्यं तच्च प्रस्तुतस्य कारणरूपं बोध्यम् भङ्ग्या प्रस्तुतमपि कार्यकथनरूपं भङ्ग्यभिधीयते प्रतिपाद्यते ।
व्यञ्जनयैवेति शेषः ।
नतु शक्त्या बोध्यत इत्यर्थः ।
प्रस्तुतकार्येण प्रस्तुतं कारणं यदा व्यज्यत इत्यर्थः ।
कारणव्यञ्जककार्यरूपायामप्रस्तुतप्रशंसायां तु अप्रस्तुतेन कार्येण प्रस्तुतं कारणं व्यज्यते इति भेदो वक्ष्यते यथा “इन्दुर्लिप्त इवाञ्जनेन” इत्यादौ ।
लोचना:
(लो, ॠ) सम्प्रति व्यङ्ग्यविच्छित्तिप्रकरणप्रसक्तं पर्यायोक्तं लक्षयति—पर्यायोक्तमिति ।
भङ्ग्या चमत्कारनिपुणविच्छित्त्यन्तराश्रयेण व्यङ्ग्यम् अभिधीयते बोध्यते कार्यादिद्वारेणेत्यर्थः ।
उदाहरणम्–
“स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः” ॥
अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितम् ।
टीका
विज्ञप्रिया:
(वि, ल) स्पृष्टास्ता इति ।
शच्याः केशसम्भोगलालितास्ताः प्रसिद्धाः पारिजातस्य मञ्जर्यो यस्य इयग्रीवस्य नृपस्य सैनिकैर्नन्दने वने सावज्ञं स्पृष्टा इत्यर्थः ।
अत्रेति ।
गम्यं व्यङ्ग्यं कारणरूपं सावत्रमञ्जरीस्पर्शस्य अभिहितं व्यञ्जनया प्रतिपादितम् ।
वर्णनीयस्येति ।
हयग्रीवनृपस्येत्यर्थः ।
तत्प्रभावेनैव सावज्ञमञ्जरीस्पर्शात् ।
लोचना:
(लो, ऌ) केशसम्भोगलालिताः केशसंयमपरिचिताः ।
कार्यद्वारेणोक्तं पारिजातमञ्जरीस्पर्शस्य स्वर्गविजयानतिरिक्तत्वात् ।
वैचित्र्यविशेषश्चात्र स्वर्गो विजित इति प्रतिपादनाल्लभ्यो ऽनुभवसाक्षिकः ।
एवम् यं प्रक्ष्य चिररूढापि निवासप्रीतिरुज्झिता ।
मदेनैरावणमुखे मानेन हृदयं हरेः” ॥
इत्यत्र मदमानयोर्विनाश एव तयोर्निवासप्रीतिपरित्याग इति पर्यायोक्तम् ।
एवं च यदेव गम्यते तस्यैवाभिधाने पर्यायोक्तमिति भावः ।
तदुक्तं काव्यप्रकाशकृता “यदेवोच्यते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथा उच्यते” इति पर्यायोक्तलक्षणव्याख्याने ।
अयं च क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे ऽपि सम्भवति ।
न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात् ; इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतम् ।
एवञ्–
“अनेन पर्यासयताश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु ।
प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः” ॥
टीका
विज्ञप्रिया:
(वि, व) श्लोकान्तरेणापि प्रस्तुतकार्येण प्रस्तुतकारणव्यञ्जनादिदानीमलङ्कारं दर्शयति—एवं चेति ।
पतिंवरामिन्दुमतीं धात्र्या उक्तिरियम् ।
अनेन राज्ञा शत्रुविलासिनीनां स्तनेषु मुक्ताफलवत् स्थूलतमान् अश्रुबिन्दून् पर्यासयता पातयता आक्षेपसूत्रेण ग्रथनसूत्रेणविनैव हाराः प्रत्यर्पिताः अश्रुबिन्दव एव हारा कृता इत्यर्थः ।
अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव ।
“राजन् राजसुता न पाठयति मां देव्यो ऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्थं राजशुकस्तवारिभवने मुक्तो ऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते” ॥
टीका
विज्ञप्रिया:
(वि, श) अप्रस्तुतकार्येण प्रस्तुतकारणव्यञ्जनरूपाया अप्रस्तुतप्रशंसाया उदाहरणं “राजन् राजसुता इत्यादिक “काव्यप्रकाशकृता दत्तम्; तत्रापि कार्यस्य प्रस्तुतत्वमेवेति केचिदाहुः तद्दर्शयितुमाह—राजन्निति ।
शत्रुजयोद्यतं राजानं प्रति तदमात्यस्योक्तिरियम् ।
तवारयः पलायिताः ।
तत्पुरीमध्येनैव वर्त्त्म प्रवृत्तम् ।
अतौऽध्वगैः पञ्जरान्मुक्तो राजशुकस्तदीयशून्यवच्भौ चित्रलिखितान् राजादीनवलोक्य एकैकमित्थमाभाषत इत्यर्थः ।
किमाभाषत इत्यत्राह—राजन्निति ।
देव्य इति सम्बोधनं यूयमपि तूष्णीं स्थिता इत्यर्थः ।
न तु राज्ञ इयमुक्तिरेकैकभाषणानुपपत्तेः ।
कुब्जा शुकभोजननियुक्ता काचिद् राजकुमारी ।
सचिवभोजनकाले तद्भोजननियमात् पृच्छतिकुमारेति ।
लोचना:
(लो, ए) कुब्जा अन्तः पुरवृद्धाः ।
कुमारसचिवाः कुमाराणां बालमित्रभूताः शिशवः ।
अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् ।
“कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्” इति केचित् ।
अन्ये तु–“राजशुकवृत्तान्तेन को ऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव” इत्याहुः,
टीका
विज्ञप्रिया:
(वि, ष) केषाञ्चिन्मते अत्रारिपलायनरूपप्रस्तुतकारणस्य कार्यं शुकभाषणप्रस्तुतमेवेति तद्दर्शयति—अत्रेति ।
काव्य प्रकाशकृदभिप्रायं दर्शयति—अन्ये त्विति ।
राजशुकवृत्तान्तेनेति ।
शत्रुमारणकार्याश्रुबिन्दुपातनवत् शुकाभाषणस्य शत्रुपलायननियतकार्यत्वाभावेन सम्भोध्यराजप्रभावबोधकत्वाभावादित्यर्थः ।
महामारीवशादपि तत्पुरशून्यत्वसम्भवादिति भावः ।
पलायनकार्यत्वाभिप्रायेणत्वमात्येन कथनमुपपद्यते एव ।
वस्तुतस्तु अमात्यवाक्ये प्रस्तुतत्वमखण्डनीयमेव ।
सामान्यं वा विशेषण विशेषस्तेन वा यदि ।
कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥ विस्स्द्_१०।६१ ॥
साधर्म्येणेतरेणार्थान्तरन्यासो ऽष्टधा ततः ।
टीका
विज्ञप्रिया:
(वि, स) अष्टविधमर्थान्तरन्यासालङ्कारमाह—सामान्यं वेति ।
सामान्यभुक्त्वा विशेषेण, एवम्, विशेषः सामान्येन, एवं कार्यं कारणेन कारणं वा कार्येण समर्थ्यते उचितत्वेन प्रतिपाद्यते इत्यर्थः ।
उक्तं यत् सामान्यं तद्विशेषे तथात्वदर्शनादुचितमिति बोधनं समर्थनरीतिः ।
इति चतुर्विधं समर्थनं समर्थ्यसमर्थकयोः साधर्म्येण तयोः परस्परवैधर्म्यरूपेणेतरेण वेत्यातो ऽष्टधेत्यर्थः ।
क्रमेणोदाहरणम्–
“बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” ॥
अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते ।
टीका
विज्ञप्रिया:
(वि, ह) तत्र सामान्यस्य विशेषेण समर्थनं साधर्म्येणाह—बृहदिति ।
कार्यान्तमुद्देश्यकार्यान्तम् ।
क्षोदीयान् क्षुद्रः ।
महानद्या सम्भूय मिलित्वेत्यर्थः ।
नागापगा पार्वतीयाल्पनदीनिर्झरः ।
अत्र द्वितीयार्धेति ।
क्षुद्रविशेषो नगापगा तद्रूपेणार्थेनेत्यर्थः ।
सामान्योर्ऽथः क्षुद्रसामान्यरूपः ।
अत्र कार्यान्तगामित्वं द्वयोः साधर्म्यम् ।
सोपपत्तिक इति ।
उपपत्तिरौचित्यम् तद्विशिष्टत्वेन प्रतिपाद्यत इत्यर्थः ।
यद्यपि क्षुद्रसामान्यस्य नेदृशं समर्थनमुचितमित्यप्रतीतेः तथापि कार्यान्तगमनविशिष्टस्य तस्य तत् समर्थनं विशेषणांशमादायेति बोध्यं सविशेषणे विधिनिषेधाविति न्यायात् ।
एवमुत्तरत्रापि ।
अत्र च क्षुद्रविशेषस्य नगापगायाः कार्यान्तगामित्वदर्शनात् क्षुद्रसामान्यस्य कार्यान्तगामित्वमौचित्येन सम्भवतीति प्रतीतिः ।
एवं सर्वत्र ।
“यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः” ॥
टीका
विज्ञप्रिया:
(वि, क) सामान्येन विशेषसमर्थनं साधर्म्येणाह—यावदर्थेति ।
श्रईकृष्णस्योक्तिविरतिवर्णनमिदम् ।
यावान् विवक्षितोर्ऽथो यस्य तादृशापदामित्यर्थः ।
महीयांसो महान्तः ।
अत्रोक्तिविरति विशिष्टः श्रीकृष्णे विशेषः ।
मितभाषित्वे विशिष्टा महान्तः सामान्यम् ।
भाषाविरामः साधर्म्यं मितभाषित्वे ऽस्यापि बहुभाषाविरामरूपत्वात् ।
कृष्णविशेषस्य भाषाविरतेः समर्थनमेवतस्य सगर्थनम् ।
“पृथ्वि ! स्थिरा भव भुजङ्गम् ! धारयैनां त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः ! कुरुत तत्नितये दिधीर्षां आर्यः करोति हरकार्मुकमाततज्यम्” ॥
अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकम् ।
टीका
विज्ञप्रिया:
(वि, ख) कारणेन कार्यसमर्थनं साधर्म्येणाह—पृथ्वीरिति ।
कार्यकारणयोश्चाविरुद्धधर्मवत्त्वमेव साधर्म्यम् ।
विरुद्धधर्मवत्त्वञ्च वैधर्म्य बोध्यम् ।
धनुर्भङ्गकाले लक्ष्मणस्योक्तिरियम् ।
आर्यो रामो हरकार्भुकमाततज्यं यतः करोति ततः कारणात् पृथ्व्यादिकं स्थिरादिकं भवेत्यर्थः ।
एनां पृथ्वीम् ।
द्वितीयं पृथ्वीभुजङ्गमौ, तत् त्रितये पृथ्वीभुजङ्गमकूर्मराजत्रितये ।
दिधीर्षां धर्त्तुमिच्छाम् ।
अन्यथा तु आततज्यीकरणे यावान् भरः स्यात्तेन सर्वेषामस्थैर्यं स्यादित्यर्थः ।
अत्रेति ।
नच पृथ्वीस्थैर्यादेः कथमाततज्यीकरणस्य कार्यत्वमस्थैर्यादेरेव तत्कार्यत्वादिति वाच्यम् ।
अस्थैर्यादिसम्भावनया विशेषस्थैर्यधारणदेस्तत्कार्यत्वात् ।
नचैवमाततज्यीकरणात्पूर्वभूतस्य विशेषस्थैर्यादेस्तत्रापि कथं कार्यत्वमिति वाच्यन्तज्ज्ञानकार्यत्वे च तत्कार्यत्वोपचारात् नान्दीमुखस्य विवाहनिमित्तकत्ववत् ।
अत्रानयोः कार्यकारणयोश्चाविरुद्धतत्कार्यकारणतावच्छेदकधर्मवत्त्वं साधर्म्यम् ।
तादृशात् क्रारणात् पृथ्व्यादेः स्थिरीभवनादिकमुचितमित्येवं समर्थनं स्थिरीभावाद्युपदेश एक कार्यम् ।
तस्यौचित्यमेव समर्थनमित्यपि वदति ।
कार्यादिसमर्थनचतुष्कं हेत्वलङ्काररूपस्यैवेत्यतः काव्यप्रकाशकृता तदुपेक्ष्य चातुर्विध्यमेवार्थान्तरन्यासोक्तं कारणस्य जनकहेतुत्वात् कार्यस्य च ज्ञापकहेतुत्वात्, ग्रन्थकृता तु ततो भेदो ऽस्य वक्ष्यते ।
“सहसा विदधीत न क्रियाम्” इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् ।
एतानि साधर्म्य उदाहरणानि ।
टीका
विज्ञप्रिया:
(वि, ग) कार्येण कारणस्य समर्थनं साधर्म्येणाह—सहसेति ।
सहसा विमर्षणं विना क्रियां न विदधीत, यतो ऽविवेको ऽविमृस्यकारिता परमापदां पदं स्थानम् ।
विमृश्यकारित्वे तु न केवलं नापदः किन्तु सम्पदश्चेत्याह—वृणते हीति ।
विमृश्यकारितागुणेनैव लोभः ।
अत्रेति ।
सम्पद्वरणकार्याद् विमृश्यकारित्वमुचितमिति समर्थनम् ।
वैधर्म्ये यथा–
“इत्थमाराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः” ॥
अत्र सामान्यं विशेषस्य समर्थकम् ।
टीका
विज्ञप्रिया:
(वि, घ) विशेषेण सामान्यस्य समर्थनं वैधर्म्यैणेत्यस्योदाहरणमूह्यमिति वक्ष्यते ।
अतस्तदनुदाहृत्य सामान्येन विशेषसमर्थनमेव वैधर्म्येणोदाहरति—इत्थमिति ।
तारकासुरस्य भुवनत्रयक्तेशकत्वबोधके श्लोके भुवनत्रयक्लेशकत्वविशिष्टदुर्जनविशेषस्ताहकासुरः ।
आराध्यमानत्वतद्धर्मस्य विरुद्धधर्मः प्रत्ययक्रियमाणत्वं दुर्जनसामान्यस्य ।
एवं क्तेशकत्ववैधर्म्यं शान्तिः ।
क्तेशकत्वविशिष्टदुर्जनविशेषसमर्थनं क्तेशकत्वसमर्थनरूपमेव ।
विशेषणे हीति न्यायात् ।
भवति हि प्रत्यपकारेणैव दुर्जनस्य शान्तिः ।
तद्विरुद्धारध्यमानत्ववतो दुर्जनविशेषस्य तारकस्य भुवनक्तेशनमुचितमिति प्रतीतिः ।
“सहसा विदधीत-” इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकम् ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, ङ) कारणेन कार्यसमर्थनं वैधर्म्येणेत्यस्योदाहरणमूह्यमिति वक्ष्यते ।
अतस्तदनुक्त्वा कार्येण कारणसमर्थनं वैधर्म्येणेत्यस्याप्युदाहरणं सहस् विदधीतेत्यत्रैवेत्याह—सहसेति ।
सहसा विधानाभावस्येति ।
कारणस्येत्यर्थः ।
आपत्पदत्वं समर्थकं कार्यम्, सम्पदा विरुद्धमिति विरुद्धधर्मवदित्यर्थः ।
अभावत्वभावत्वे ऽत्र विरुद्धधर्मे ।
अत्र हि विमृष्यकारिण एव सम्पदावरणात् कार्यात् सहसा विधानाभाव उचित इति प्रतीतिः ।
एवमन्यदिति ।
विशेषणसामान्यसमर्थनं कारणेन कार्यसमर्थनञ्च वैधर्म्येण यदनुदाहृतं तदित्यर्थः ।
तत्र विशेषेण सामान्यसमर्थनं वैधर्म्येण यथा— “गुणआनाभेव दौरात्म्याद्धुरि धूर्यो न युज्यते ।
असञ्जातकिणस्कन्धः सुखं स्वपति गौर्गलिः” ॥
इति ।
अस्यार्थः–धूर्यः आरोप्यमाणभारवहनसमर्थश्च प्राणी धुरि भारवहने नियुज्यते ।
तच्च गुणानामेव दौरात्म्याद् दौर्जन्याद् धूर्यत्वगुणस्य भारवहनदुः खप्रयोजकत्वात्तस्य दौर्जन्यम् ।
गुणाभावे तु तादृशं दुः खं न भवतीत्याह–असञ्जातेति ।
किणो युगघर्षणादुच्छूनभागः ।
असञ्जाततत्स्कन्धो गलिरलसो गौः सुखं स्वपिति, नतु धुरि नियुज्यते इत्यर्थः ।
अत्र धुरि नियुज्यमानधूर्यप्राणी सामान्यम्; अनियुज्यमानप्राणिविशेषेण गलिगवादियुज्यमानत्वविरुद्धधर्मेण सुखस्वापेन धूर्यविरुद्धधर्मेण गलित्वेन च समर्थितम् ।
अलसस्य सुखस्वपनशीलस्य धूर्यस्य धुरि नियुज्यमानत्वमुचितमिति प्रतीतेः नियोगसमर्थनमेव नियुज्यमानधूर्यसमर्थनम्; “सविशेषणे हिऽ; इति न्यायात् ।
कारणेन कार्यसमर्थनं वैधर्म्येण यथा— “स विजिग्ये रणे सर्वान् राक्षसेन्द्रो बलोद्धतः ।
रामबाणकटुस्वादमनास्वाद्य हि तादृशः ॥
इति ।
अत्र हि रावणस्य विजयः कार्यं रामबाणकटुस्वादानास्वादेन कारणेन समर्थितम् ।
तदनास्वादेन तस्य विजय उचितस्तदास्वादे सति तदसम्भवादिति प्रतितेः ।
भावत्वाभावत्वे तयोर्वैधर्म्ये ।
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ॥ विस्स्द्_१०।६२ ॥
टीका
विज्ञप्रिया:
(वि, च) काव्यलिङ्गालङ्कारमाह—क्रियाकारकभावेन समाप्तत्वे वाक्यम्, असमाप्तत्वे पदम् ।
अयमेव हेत्वलङ्कारः काव्यहेतुश्चोत्यते ।
तत्र वाक्यार्थता यथा–
“यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी ।
ये ऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते” ॥
अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः ।
टीका
विज्ञप्रिया:
(वि, छ) यत्त्वन्नेत्रेति ।
वर्षासु भावनोपनीतां रावणोपहृतां सीतां सम्बोध्य रामस्येयमुक्तिः ।
हे प्रिये ! त्वत्सादृश्येनार्थाद् दृश्यमानेन यो विनोदस्तन्मात्रमपि मे दैवेन न क्षम्यते ।
ननु नीलोत्पलचन्द्रहंसगतिषु त्वन्नेत्रमुखसादृश्यानि विलोक्यन्तामित्यत आह ।
यत्त्वन्नेत्रेति ।
वर्षाकालंवशात् नीलोत्पलं जलमग्नम्, चन्द्रो मेघान्तरितः, राजहंसाश्च मानसं गता इत्यर्थः ।
पादत्रयवाक्यानीति ।
वाक्यत्रयस्यैव क्रियाकारकभावेन समाप्तत्वाद् हेतव इत्यत्र हेत्वर्थका इत्यर्थः ।
पदार्थता यथा मम–
“त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः” ॥
अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः ।
टीका
विज्ञप्रिया:
(वि, ज) त्वद्वाजीति ।
निर्द्धूत उद्धूतः ।
न धत्ते इत्युत्प्रेक्षितम् ।
एकपदमिति ।
पङ्किलामित्यन्तं क्रियानन्वयेनासमाप्त्या समासेन चैकपदमित्यर्थः ।
अनेकपदं यथा मम–
“पश्यन्त्यसङ्ख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि” ॥
टीका
विज्ञप्रिया:
(वि, झ) पश्यन्त्यसङ्ख्येति ।
अत्रापि गोपायतीत्युत्प्रेक्षितम् ।
अत्र पश्यन्तीत्यसङ्ख्यपथ्गामिति त्वद्दानजलवाहिनीमिति च पदादेव क्रियानन्वयेनासमाप्तत्वात् पथत्रयगमनापेक्षया असङ्ख्यापथगमनोक्तर्षेण तद्दर्शनं गोपनहेतुः ।
इह केचिद् वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते ।
तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवति–ज्ञापको निष्पादकः समर्थकश्चेति ।
तत्र ज्ञापको ऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् ।
टीका
विज्ञप्रिया:
(वि, ञ) काव्यप्रकाशकृदभिप्रेतार्थमाह—इह केचिदिति ।
वाक्यार्थगतेनेति ।
कार्यकरणसमर्थेन यान्युदाहरणानि दर्शितानि तत्र हेतूनां वाक्यार्थमात्रगतत्वाज् ज्ञापको ऽनुमानस्य विषय इति ।
इदं तु काव्यप्रकाशकृद्विषयविभागमनादृत्यैव लिखितं तन्मते हि प्रश्रस्यैव ज्ञापको हेतुर्न हेत्वलङ्कारः, तत्रोत्तरालङ्कारेणाघ्रातत्वात् ।
अन्यत्र तु जनको ज्ञापकश्च हेतुर्हेत्वलङ्कार एव ।
अत एव— “भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालङ्कृतिम् ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- ल्लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे” ॥
इति श्लोके सुखालोकच्छेदित्वं मोक्षस्य महामोहत्वे हेतुरित्युक्त्या हेत्वलङ्कारोदाहरणतया उदाहृतम् ।
तत्र मोक्षस्य महामोहताया अलीकत्वेन सुखालोकच्छेदित्वस्य जनकहेतुत्वासम्भवेन ज्ञापकहेतुत्वादेव ।
अनुमानं तु साध्यसाधनयोरेकधर्मिगतत्वेन निर्देशे सति हेतोर्हेतुत्वेन निर्देशे सत्येव ।
इह तु सुखालोकाच्छेदिनीत्यनेन हेतोरेव निर्देशो नतु हेतुत्वेन ।
भवताप्यनुमानोदाहरणतया वक्ष्यमाणेषु श्लोकेषु हेतूनां हेतुत्वेनैव निर्देशात् नहि “पर्वातो वह्निमान् धूमात् ऽ; इत्युक्ते ऽनुमानम् ।
तस्माद् ज्ञापकहेतुमात्रं नानुमानालङ्कारस्य विषयः, किन्तु दर्शितहेतुरेव ।
अतो ज्ञापकहेतुमात्रस्यानुमानस्यानुमानत्वमुक्तमित्युक्तम् ।
निष्पादकः काव्यलिङ्गस्येति ।
इदमपि “भस्मोद्धूलनेऽ; त्यादौ न सम्भवतीत्यवधेयम् ।
त्वद्वाजिराजीत्यत्र पश्यन्त्यसङ्ख्येत्यत्र च हेतोर्निष्पादकत्वासम्भवादुत्प्रेक्षा ।
तथाहि–“यत्त्वन्नेत्र-” इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यात् इति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते ।
टीका
विज्ञप्रिया:
(वि, ट) यत्त्वन्नैत्रसमानकान्तीत्युक्तहेत्वलङ्कारोदाहरणे दैवाक्षमां प्रति नीलोत्पलादीनां सलिलमग्नत्वादेर्जनकहेतुत्वासम्भवात् कष्टसृष्ट्या जनकत्वमुपपादयितुमाह ।
तथाहि “यत्त्वन्नेत्रेति ऽ; चतुर्थपादवाक्यं दैवाक्षमाबोधकम्, अन्यथा यत्त्वन्नेत्रेत्यादिहेत्वनुपादाने ऽसमञ्जसं हेत्वाकाङ्क्षासत्त्वेनानिवृत्ताकाङ्क्षम् ।
पादत्रयवाक्यमित्यत्र वाक्यार्थमित्यर्थः ।
निष्पादकत्वेन निराकाङ्क्षबोधविशिष्टतया दैवाक्षमानिष्पादकत्वेन ।
तथा च ईदृशबोधविषयतारूपविशेषणांशनिष्पादकत्वेन सविशेषणन्यायाद् विशेष्टनिष्पादकत्वमित्युक्तम् ।
इदं न रुचिरमुक्तम् ।
ज्ञापकांशविषयताजनकत्वेन तद्विषयजनकत्वस्वीकारे ऽनुमानालङ्कारे प्र)ज्ञापकालङ्कारे च तदापत्तेः ।
तस्मादीदृशकष्टसृष्टिमनादृत्य काव्यप्रकाशकृता कार्यकारणसमर्थनेर्ऽथान्तरन्यासो ऽनादृतः ।
स एव ज्यायान् ।
“सहसा विदधीत-” इत्यादौ तु–
“परापकारनिरतैदुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन” ॥
इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतो ऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् ।
टीका
विज्ञप्रिया:
(वि, ठ) नन्वेवं “सहसा विदधीतेऽ; त्यादावपि “वृणते हिऽ; इत्यादिपदार्धं विना पूर्वार्धवाक्यं साकाङ्क्षमित्यत उक्तरित्या तत्रापि काव्यलिङ्गमेव स्यान्नार्थन्तरन्यास इत्यर्थः ।
तत्र तादृशाकाङ्क्षा नास्तीत्याह—सहसेत्यादि ।
उपदेशमात्रेणापि निराकाङ्क्षतया वृणते हि इत्यादावाकाङ्क्षाराहित्येनापि गतार्थं चरितार्थमित्यतः सहसा विधानाभावं कर्मभूतं सम्पद्वरणं कर्त्तृ सोपपतिकमेव कुरुते ।
ननु आकाङ्क्षाबलाद्धेतुर्भवतीत्यर्थः ।
तत्रोपदेशताया दृष्टन्तमाह—परापकारनिरतैरिति ।
तत्र “न विधेयेऽ; ति कृत्यप्रत्ययादिनात्रापि “विदधीतेऽ; त्यत्र विधिप्रत्ययादुपदेशप्रतीतिरित्यर्थः ।
परापकारेत्यादौ समर्थनीयानिर्देशात् नास्त्येव तत्रार्थान्तरन्यास इति विशेषः ।
इदं त्ववधेयम्–सहसेत्यादावुपदेशरूपत्वेन चरितार्थत्वान्मा भवतु तद्धेत्वलङ्कारः ।
पृथ्वि स्थिरा भवेत्यादौ सिद्धे स्थैर्ये उपदेशसम्भवात् कार्मुकज्याततीकरणं हेतुमपेक्षते एवेति तत्र हेत्वलङ्कारप्रसक्तिर्दुर्वारैव ।
“न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।
त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा” ॥
इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् ।
टीका
विज्ञप्रिया:
(वि, ड) यत्र जनकहेतोर्हेतुत्वेनैव निर्देशस्तत्र वैचित्र्याभावान्न हेत्वलङ्कार इत्याह–नि धत्त इत्यादि ।
अत्र “हि” शब्दोहेतुताबोधक इत्याह—हि शब्द इति ।
लोचना:
(लो, ऐ) अत्र हेतुस्त्रिधा भवति, त्रैविध्येन अलङ्कारणां विषयविभागस्थापनात् कथं त्रिधेत्याह ।
ज्ञापकः सिद्धत्वेनैवानिर्दिष्टस्याप्रतीतस्य प्रत्यायकः ।
यत्र साध्यसाधकत्वाकारेण हेतुमतोर्निर्देशः, यथा “यत्र पतत्यबलाना” मित्यादौ शरापातेन मदनधावनस्यानिष्पादकः साकाङ्क्षत्वेन सिद्धस्य साधकः ।
यथा—सहसा विदधीत न क्रियामित्यादौ ।
अन्यथा यत्त्वन्नेत्र इत्यादि पादत्रयं विनासमञ्जसं स्यात् तदैवास्य विरहिणो नायिकासादृश्यविनोदासहत्वस्य स्वतो ऽप्रतीतेः ।
स्वतो ऽपि समर्थकत्वाद् वाक्याभावे ऽपीत्यर्थः ।
गतार्थं–यत्त्वन्नेत्रेत्यादिवैलक्षण्येन निराकाङ्क्षताया प्रतीताभिधेयम् ।
उक्तमेव द्रढयति—पृथगेवेति ।
स्फुटतयाभिधेयविषयतया, वैचित्र्यस्यालौकिकविच्छित्तेः ।
इदञ्च काव्यलिङ्गस्य हेतुर्वैचितर्यावहनेन न निवर्त्तत इति काव्यलिङ्गाख्यमलङ्करणम् ।
अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् ।
टीका
विज्ञप्रिया:
(वि, ढ) अनुमानालङ्कारमाह—अनुमानं त्विति ।
विचिछत्त्या भङ्ग्या साधनाद् साध्यस्य ज्ञानमित्यर्थः ।
भङ्गी चाहार्यारोपरूपा; वह्निमान् धूमादित्यस्य वारणाय तत् ।
अत्र साध्यसाधनयोरेव धर्मिगतत्वं काव्यप्रकाशकृदुक्तं विशेषणं देयमेव ।
अन्यथा धनुराततज्यीकरणरूपहेतुपृथ्वीस्थैर्ययोर्धर्मिभेदे ऽपि पृथ्वी स्थिरेत्यादौ अतिप्रसक्त्यापतेतेः ।
लोचना:
(लो, ओ) विच्छित्त्या कविप्रतिभोत्थापितेन वैचित्र्येण ।
वह्निमान् धूमवत्त्वादित्यादौ लौकिकोक्तिमात्रे सधर्मिण्ययोगव्यवच्छेदः ।
व्यापकस्य साध्यत्वम् ।
पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तत्वविशिष्टो हेतुः साधनम् ।
एवं शब्दवृत्तेनापि यत्र साध्यसाधनत्वाकारेण निर्देशस्तत्रानुमानालङ्कारः ।
काव्यलिङ्गे त्वर्थानुसन्धानादेव हेतुहेतुमद्भावप्रतीतिः ।
यथा–
“जानीमहे ऽस्या हृदि सारसाक्ष्या विराजते ऽन्तः प्रियवक्त्रचन्द्रः ।
तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे” ॥
अत्र रूपकवशाद्विच्छित्तिः ।
टीका
विज्ञप्रिया:
(वि, ण) पाण्डोर्घूर्णमाननेत्राया विरहिण्या वर्णनमिदम् ।
जानीमहे अनुमिनुम इत्यर्थः ।
अस्या अन्तरित्यन्वयः ।
इयमन्तः प्रियवक्त्रचन्द्रवती तत्कान्त्यधीनपाण्डुदेहकुड्मलितनेत्रपद्मत्त्वादित्यनुमानम् ।
अत्र विच्छित्तिं ग्राहयति–अत्र रूपकेति ।
मुखनेत्रायोश्चन्द्रपद्मरूपकमङ्गपाण्डुपाण्डुत्वांशे ऽपह्नुतिरपि बोध्या ।
लोचना:
(लो, औ) तस्य चन्द्रस्य कान्तिजालैः ।
तत् तस्मात् रूपकवशादक्ष्णेः पद्मत्वप्रयोजितं रूपकालङ्कारमन्तर्भाव्योक्तत्वाम् ।
यथा वा–
“यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः ।
तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये” ॥
अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः ।
उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः ।
टीका
विज्ञप्रिया:
(वि, त) विच्छित्त्यन्तरेणाप्युदाहरति—यत्र पततीति ।
शरा इत्यत्र स्मरीयशरत्वबोधकवेलक्षण्यं बोध्यम् ।
मन्ये इत्यत्रानुमिनुम इत्यर्थः ।
अबलाश्चारोपितशरस्मरपुरः सराः स्वदृष्टिपातविशिष्टदिक्पतन्निमित्तशरकत्वादित्यनुमानम् ।
शरेषुपुष्पमयत्वं बोध्यम् ।
तेषां निशितत्वं तु आरोप्यम् ।
उत्प्रेक्षाविशेषादस्य भेदमाह—उत्प्रेक्षायामिति ।
हेतूत्प्रेक्षायामित्यर्थः ।
एवञ्च दर्शितोदाहरणद्वये “जानीमहे” “मन्ये” इति पदयोरुत्प्रेक्षावाचकत्वे तद्द्वये उत्प्रेक्षा नैवेति बोध्यम् ।
तत्पदद्वयाभावे तु द्वयोः सन्देहसङ्कर इति च बोध्यम् ।
लोचना:
(लो, अ) न केवलमलङ्कारन्तराश्रयेणैव विच्छत्तिरेतदलङ्कारप्रयोजिकेत्युदाहरणान्तरं दर्शयति—यथा वेति ।
अन्योरुदाहरणयोर्हृदये प्रयसद्भावस्य स्मरधावनस्य च कारणरूपस्य साध्यस्यापि पद्मकुड्मलता शरपतनञ्च साधनं यथा पर्वतो ऽयं वह्निमान् धूमवत्त्वादित्यादौ ।
एवम् ।
“आरूढः पतित इति स्वसम्भवे ऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः” ॥
अत्र स्वच्छानां पतितपरिहाररूपसामान्यस्य जलानामसितोत्पले निरसनरूपो विशेषरूपः साधनम् ।
यथा वृक्षो ऽयं शिंशपात्वादित्यादौ ।
एवं चास्य विच्छित्तिविशेषस्य वितर्काख्यभिन्नालङ्कारप्रयोजकत्व ।
निरूपणप्रयासो राघवानन्दानामविचारमूल एव ।
अनिश्चिततयानिर्द्धरितत्वेन सम्भावनोत्थानाद् इति भावः ।
निश्चिततया पर्वतो ऽयं वाह्निमानित्यादौ वह्निमत्त्वादिवत् ।
अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ॥ विस्स्द्_१०।६३ ॥
यथा मम–“तारुण्यस्य विलासः–” इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलो ऽयमङ्कारः ।
टीका
विज्ञप्रिया:
(वि, थ) काव्यलिङ्गतिरिक्तमपरमपि हेतुसञ्ज्ञकमलङ्कारमाह—अभेदेनेति ।
हेतुमता कार्येण सह हेतोरभेदेनाभिधाभिधानं हेतुनामालङ्कार इत्यर्थः ।
तारुण्यस्येत्यादौ तद्दर्शयति—वशीकरणेति ।
विलासहासतांशे कार्यकारणभावादाह—विलासेति ।
विलासादिस्तारुण्यादिजन्य एव नायिकायाः परम्परायाः कारणत्वाद्यो ऽभेदाध्यासस्तन्मूलस्तच्छोभितो ऽयमित्यर्थः ।
बहुषु तत्पात एव शोभेत्यभिप्रायः ।
अत्र च शुद्धसारोपा लक्षणैव, नह्ययमलङ्कार इति काव्यप्रकाशकृत् ।
लोचना:
(लो, आ) अभेदेनाभिधानं समानधिकरणनिर्देशादिति भावः ।
हेतुर्हेत्वाख्यो ऽलङ्कारः ।
कार्यकारणविच्छित्त्याश्रयेणानुमानानन्तरमस्य प्रस्तावः ।
अध्यवसायमूलः ।
वैचित्र्यं विजृम्भणस्य विलासत्वेन प्रचुरतरोल्लासस्य हासत्वेनाध्यवसायात् ।
अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ।
टीका
विज्ञप्रिया:
(वि, द) अनुकूलसञ्ज्ञकमलङ्कारन्तरमाह—अनुकूलमिति ।
प्रातिकूल्य यद्यनुकूलस्य इष्टार्थसायनुबन्धि जनकमित्यर्थः ।
लोचना:
(लो, इ) अनुकूलमित्यलङ्कारनाम ।
अनुकूलानुबन्धि आनुकूल्यावहम् ।
अस्यापि कारणवैचित्र्यमूलत्वेन हेत्वलङ्कारान्तरं लक्षणम् ।
अस्य सागस इत्यर्थः ।
यथा–
“कुपितासि यदा तन्वि ! निधाय करजक्षतम् ।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा” ॥
अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यम् ।
टीका
विज्ञप्रिया:
(वि, ध) कुपितासीति—मानिनीं प्रति सख्या उक्तिरियम् ।
यदीत्यथे यदा ।
हे तन्वि ! यदि कुपितासि तदा करजक्षतं विधाय भुजपाशाभ्यामस्य नायकस्य कण्ठं दृढं बधान इत्यर्थः ।
अत्र करजक्षतभुजपाशबन्धौ प्रतिकूलौ; नायकप्रीतेः अभीष्टस्यानुबन्धि ।
अत्रानुकूलपदार्थस्य व्यङ्ग्यत्वम् ।
क्वचित्तु तस्य वाच्यत्वमपि ।
“अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥
" अत्राभिमतशब्दस्येष्ठपदत्वं वाच्यम् ।
अन्यैरनुक्तस्यालङ्कारस्य स्वीकारबीजमाह—अस्य चेति ।
वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ॥ विस्स्द्_१०।६४ ॥
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।
टीका
विज्ञप्रिया:
(वि, न) चतुर्विधमाक्षेपालङ्कारमाह—वस्तुन इति ।
वक्तुमिष्टस्य वस्तुनो निषेधाभासो ऽनिषेधाभिप्रायत्वेन निषेधाभास आक्षेपालङ्कार इत्यर्थः ।
निषेधाभासस्य फलमाह—विशेषप्रतिपत्तये इति ।
प्रथमं तस्य द्वैविध्यमाह—वक्ष्यमाणेति ।
वक्ष्यमाणस्य उक्तस्य वा वक्तुमिष्टस्य निषेधाभास इत्यर्थः ।
उक्तस्य वक्तुमिष्टस्य चोक्तिः प्राचीनेच्छाविषयत्वात् ।
लोचना:
(लो, ई) सम्प्रत्यर्थस्य गम्यत्ववैशिष्ट्येनावशिष्टमाक्षेपालङ्कारमाह–वस्तुन इति ।
अयमर्थः-विवक्षितस्य वस्तुनः प्राकरणिकत्वादयुक्तो निषेधः कुतः सन् बाधितस्वरूपो यत्राभासतामवगमयति स आक्षेपो ऽलङ्कारः ।
न चात्र निष्फल इत्याह—विशेष इति ।
प्रकृतनिष्ठत्वेन विशेषस्य प्रतिपत्तये इत्यर्थः ।
सत्तासमानो निषेधः ।
क्वचिद् वक्ष्यमाणविषयः क्वचिदुक्तविषय इति द्विविध आक्षेपो ऽलङ्कारः ।
तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ ।
उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः ।
क्रमेण यथा–
“स्मरशरशतविधुराया भणामि सङ्ख्याः कृते किमपि ।
क्षणमिह विश्रम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा” ॥
अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः ।
टीका
विज्ञप्रिया:
(वि, प) स्मरशरेति ।
नायिकाया विरहावस्थां नायके विवक्षोस्तत्सख्या उक्तिरियम् ।
सखीपतित्वेन सखे ! इति सम्बोधनम् ।
क्षणमिह विश्रम्य भणामीत्यन्वयः ।
कथनीयबाहुल्याद् विश्रमपूर्वकत्वकथनम् ।
निर्दयहृदयेषु युष्मादृशेष्वित्यर्थः ।
अत्रेति ।
विरहस्य विरहावस्थायाःवक्ष्यमाणे विशेषे पाण्डुत्वकृशत्वादौ निर्दयहृदयत्वेन तु सामान्यतः सूचनम् ।
निषेधाभासवशाच्च तस्या वश्यमरणरूपविशेषप्रतिपत्तिः ।
लोचना:
(लो, उ) सर्वत्रापि वक्ष्यमाणस्य विरहस्य सामान्यतः सूचनं स्मरशरविधुराया इति प्रतिपादनात् ।
वक्ष्यमाणो विरहिण्यास्तत्तदवस्थाविशेषाणामकथनात् ।
“तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् ।
हन्त ! नितान्तमिदानीम् आः किं हतजल्पितैरथवा” ॥
अत्र मरिष्यतीत्यंशो नोक्तः ।
टीका
विज्ञप्रिया:
(वि, फ) अंशनिषेधाभासमाह—तव विरह इति ।
नितान्तमिदानीमिति ।
अन्यदा उद्दीपकविकसितमल्लिकादर्शनादक्षितजीवना ह्यासीत् ।
इदानीं तु मरिष्यतीत्यस्यांशस्यानुक्तस्य निषेधाभासः ।
वीक्ष्येत्यंशस्तूक्तः ।
एवं निषिद्धोक्तिविषयस्य मरणस्याशक्यवक्तव्यत्वरूपस्य विशेषस्य प्रतिपत्तिस्तत्फलम् ।
“बालअ ! णाहं दूती तुअ पिओसि त्ति ण मह वावारो ।
सा मरै तुज्झ अअसो एत्नं धम्मक्खरं भणिमो” ॥
अत्र दूतीत्वस्य वस्तुनो निषेधः ।
टीका
विज्ञप्रिया:
(वि, ब) उक्तनिषेधविषये वक्तुमित्यस्य वस्तुस्वरूपस्य निषेधमाह—बालअ इति ।
“बालक नाहं दूती तिष्ठ प्रियो ऽसीति न मम व्यापारः ।
सा म्रियते तवायशः एतद् धर्माक्षरं भणामः ॥
इति ।
धर्मानभिज्ञात्वेन धर्मवक्त्रया बालकत्वेन सम्बोधितः ।
धर्मकथनमात्रस्योद्देश्यत्वसूचनाय आत्मनो दूतीत्वनिषेदः ।
नायिकायाः प्रवृत्त्यनुमतिरपि मम नास्तीत्येतत्सूचनाय तिष्ठेत्युक्तम् ।
तथा प्राणिमात्रधर्मो वक्तव्यस्तत्र स्वप्रियत्वमन्यजनप्रियत्वं वा न प्रयोजकमित्येतत्सूचनाय प्रियो ऽसीत्युक्तम् ।
तस्या मम वा प्रियो ऽसीति नेत्यर्थः ।
अत्र सा म्रियते इत्युक्तविषये वक्तुमिष्टस्यात्मनो दूतीत्वस्य वस्तुना एव निषेधो नतु तदुक्तेः ।
नच दूतीत्वनिषेधः कथमुक्तमरणविषयक इति वाच्यम् ।
मरणव्यावर्त्तकदूतीत्वविषयत्वेन परम्परया तद्विषयत्वात् अत्राधर्मतो निवृत्तये यथार्थवादित्वस्य विशेषस्य प्रतिपत्तिः ।
“विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम् ।
दारुणव्यवसायस्य पुरस्ते भणितेन किम् ?” ॥
अत्र कथनस्योक्तस्यैव निषेधः ।
टीका
विज्ञप्रिया:
(वि, भ) उक्तिनिषेधमाह—विरहे इति ।
अत्रोक्तस्य क्षपाक्षपणासामर्थ्यस्य उक्तेरेव निषेधः ।
अत्रेति ।
अत्र कथनस्योक्तस्यैवेत्यत्र उच्चारितस्यैवेत्यर्तः ।
अत्र तद् व्यङ्ग्यदुः खातिशयस्य विशेषस्य प्रतिपत्तिः ।
प्रथमोदाहरणे सङ्ख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते ।
द्वितीये ऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः ।
न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् ।
टीका
विज्ञप्रिया:
(वि, म) उक्तश्लोकचतुष्टये उक्तरूपविशेषप्रतिपत्तिं दर्शयति—अत्र प्रथममिति ।
तृतीये दूत्या इत्येव सम्यक् पाठः ।
तथा च दूतीरेव सतीत्यर्थः ।
ननु “कर्त्तव्यं प्रत्यहं स्त्रानं नतु रात्रौ कदाचनऽ; इत्यत्र विहितस्य प्रत्यहस्नानस्य रात्रौ निषेधवद् विधिनिषेध एवायम् ।
स च नालङ्कारतां भजत इत्याशङ्कते–न चेति ।
समाधत्ते—अत्रेति ।
वास्तवनिषेधस्यैवानलङ्कारत्वम्; निषेधाभासस्य तु अलङ्कारत्वमेवेति भावः ॥
लोचना:
(लो, ऊ) अत्र च विहितनिषेधेन विच्छित्तेरभावात् क्षुद्रत्वाद्यलङ्कारमध्ये काव्यप्रकाशकारादिभिर्लाक्षितेन साङ्कर्यभ्रमं निरस्यति–न चायमिति ।
अत्र विहितनिषेधे ।
यथा—
“बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य ।
इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः” ॥
“यद्वा मृषा तिष्ठतु दैन्यमेत- न्नैच्छन्ति वैरं मरुता किराताः ।
कीलिप्रसङ्गे शवराङ्गनानां स हि श्रमग्लनिमपाकरोति” ॥
इह हि प्रथमपद्योक्तस्य द्वितीयपदेन निषेधस्तात्त्विक एव ।
एवञ्च निषिद्धविधिनापि नास्य साङ्कर्यम्, स हि यथा—
“क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ॥
“मन्दः कवियश- प्रेप्सुर्गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः” ॥
“अथवा कृतवग्द्वारे वंशे ऽस्मिन् पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णो सूत्रस्थे वास्ति मे गतिः” ॥
अत्र पद्यद्वयोक्तनिषेधस्य तृतीयपद्येन विधाने निषेधस्याभासता एव ।
अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥ विस्स्द्_१०।६५ ॥
टीका
विज्ञप्रिया:
(वि, य) अन्यविधमाक्षेपालङ्कारमाह—अनुष्टस्येति ।
अनिष्टस्यार्थस्य विध्याभासो निषेधबोधको विधिस्तथा पूर्वोक्तवत् विशेषप्रतिपत्तये चेत्तदापर आक्षेपालङ्कार इत्यर्थः ।
लोचना:
(लो, ऋ) एवमीषन्निषेधाभासाश्रयमेकमाक्षेपमुक्त्वा तद्विपरीतमनिष्ठविध्याभासं द्वितीयमाह—अनिष्टस्येति ।
अयमर्थः ।
यथेष्टस्य निषेधस्तथनिष्टस्य निधिरनुपपद्यमान आभासे पर्यवसायी द्वितीयाक्षेपालङ्कारबीजमिति ।
तथेति पूर्ववद्विशेषप्रतिपत्तये ।
यथा–
“गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः ।
ममापि। जन्म तत्रैव भूयाद्यत्र गतो भवान्” ॥
अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति ।
विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, र) “गच्छ गच्छसि चेत्कान्तऽ; इत्यत्र जन्मकथनान्मरणं व्यङ्ग्यम् ।
प्रस्खलद्रूप इति—अविधीभवद्रूप इत्यर्थः ।
विशेषप्रतिपत्तिं दर्शयति—विशेषश्चेति ।
लोचना:
(लो, ॠ) अत्यन्तपरिहार्यरूपः ममापीत्यादिना द्वितीयार्धेन व्यञ्जितः ।
यतत्र— यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि सादरं वचः ।
खण्डिताधरकलङ्कितश्रियं शक्नुमो न नयनैर्निरीक्षितुम् ॥
ऽ; इति राघवानन्दैरुदाहृतं तदसमञ्जसम् ।
अत्रोदाहरणवत् सर्वथा न यात्विति तथाविधापराधकाले नायिकाया निषेधाभासस्य मूढानामपि बुद्ध्यनारोहात् ।
विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।
उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ॥ विस्स्द्_१०।६६ ॥
टीका
विज्ञप्रिया:
(वि, ल) विभावनालङ्कारमाह—विभावनेति ।
हेतुं हेत्वाभासम् ।
कार्योत्पत्तिस्तदीयकारणविशेषादिवाच्यम् ।
उक्तानुक्तेतिनिमित्तं कार्योत्पत्तेः ।
व्याचष्टे—विना कारणमिति ।
लोचना:
(लो, ऌ) अस्य चाक्षेपस्य विरोधाश्रयत्वेन तदनन्तरं विरोधमूलालङ्कारप्रदर्शनं प्रक्रियते—विभावनेति ।
उच्यते चमत्कारप्रतिपत्तये कविना निबध्यते यस्य कस्यचित्कारणस्याभावं दर्शयित्वेत्यर्थः ।
एवमन्येषु एवंविधस्थलेषु सूत्रार्था नेयाः ।
तत्त्वतः सर्वथाकारणाभावे कार्योत्पत्तेरविद्यमानत्वात् ।
उक्तेति ।
सा विभावना उक्तनिमित्ता अनुक्तनिमित्ता चेत्यर्थः ।
विना कारणमुपनिबध्यमानो ऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः ।
तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा ।
यथा–
“अनायासकृशं मध्यमशङ्कतरले दृशौ ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः” ॥
टीका
विज्ञप्रिया:
(वि, व) अनायासेति ।
मध्यो मध्यभागः ।
अशङ्के शङ्कयैव तारतम्यौचित्यात् ।
अत्र वयोरूपनिमित्तमुक्तम् ।
अत्रैव “वपुर्भाति मृगीदृशः” इति पाठे ऽनुक्तम्
सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ।
लोचना:
(लो, ए) फलाभावः शब्देनोपनिबद्ध इत्यादि पूर्ववत् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तथेत्युक्तानुक्तनिमित्तत्वात् ।
तत्रोक्तनिमित्ता यथा–
“धनिनो ऽपि निरुन्मादा युवानो ऽपि न चञ्चलाः ।
प्रभवो ऽप्यप्रमत्तास्ते महामहिमशालिनः” ॥
टीका
विज्ञप्रिया:
(वि, श) विशेषोक्त्यलङ्कारमाह–सति हेताविति ।
उक्ते सीत्यर्थः, फलाभावो ऽप्युक्त इत्यर्थः ।
धनिनो ऽपीति ।
ते वर्णनीया राजानः ।
एतदेव विशदयति—विनेति ।
इयञ्च कारणाभावेन परतन्त्रतया कार्येत्पत्तेर्विशिष्टतया भावनादन्वर्था विभावना ।
अत्र महामहिमशालित्वं निमित्तमुक्तम् ।
अत्रैव चतुर्थपादे “कियन्तः सन्ति भूतले” इति पाठे त्वनुक्तम् ।
अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तम् ।
यथा–
“स एकस्त्री४णि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम्” ॥
टीका
विज्ञप्रिया:
(वि, ष) अचिन्त्यनिमित्तरूपस्य प्रभेदान्तरं काव्यप्रकाशकृतोच्यते ।
तच्चानुक्तनिमित्तरूपमेवेति पृथक् नोच्यते इत्याह—-अचिन्त्येति ।
अचिन्त्यनिमित्तोदाहरणं तदुक्तं दर्शयति—यथा स एक इति ।
त्रीणि जगन्तीत्यन्वयः ।
अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यम् ।
इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते ।
विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन ।
एवञ्च “यः कौमारहरः” इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना ।
“यः कौमार-” इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः ।
शुद्धोदाहरणं तु मृग्यम् ।
टीका
विज्ञप्रिया:
(वि, स) उत्कण्ठाकारणविरुद्धस्येति ।
उत्कण्ठाकारणं हि तादृशपत्याद्यसन्निधानम्, तद्विरुद्धस्य तादृशपत्यादिसन्निधानस्येत्यर्थः ।
कारणस्य च कार्यविरुद्धाया इति ।
तादृशकारणस्य यत्कार्यमनुत्कण्ठा ।
तद्विरुद्धाया इत्यर्थः ।
शुद्धोदाहरणं मृग्यमिति ।
शुद्धोदाहरणद्वयन्तु विभावनाविशेषोक्त्योरनायासकृशमित्यादिकम्, ऽ; धनिनो ऽपि निरुन्मादाऽ; इत्यादिकमेव चास्ति ।
तयोस्तथात्वमेव मृग्यमित्यर्थः ।
तथाहि—अनायासकृशमित्यादौ शङ्काविरुद्धाया अशङ्काया, भूषणविरुद्धस्यऽभूषणत्वस्य च प्रतीतावपि न विशेषोक्तिः प्रतीयते ।
न हि तारल्याभावरूपस्य फलाभावस्य मनोहारित्वाभावरूपस्य फलाभावस्य च प्रतीत्या विशेषोक्तिः स्यात् ।
तथा धनिनो ऽपीत्यादावधनित्वाविरुद्धस्य धनित्वस्य प्रतीतावपि न विभावनाप्रतीतिः, नहि अधनित्वादेः फलान्यनुन्मादादीनि येनाधनित्वविरुद्धधनित्वप्रतीतावपि तादृशफलाभावप्रतीत्या विभावना स्यात् ।
लोचना:
(लो, ऐ) इह च कार्याभाव इत्यादिग्रन्थः प्रथमपरिच्छेद एव विशदीकृतः ।
सङ्कर एकस्योपग्रहन्यायदोषाभावादनिश्चय इति प्रकारः ।
शब्दोदाहरणं विशेषोक्तेः कार्यविरुद्धसद्भावमुखेन, नतु “स एकस्त्रीणि” इत्यादिवत् कार्यविरुद्धमुखेन विभावनायाश्च कारणविरुद्धसद्भावमुखेन शुद्धोदाहरणं तु अन्यान्यसाङ्कर्याभावयुक्तम् ।
यद्यथा—
“कर्पूर इव दग्धो ऽपि शक्तिमान् यो जने जने नमो ऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे” ॥
अत्र दाहकार्यन्तया शक्तेरभावो ऽशक्तिविरुद्धशक्तिसद्भावमुखेन उपनिबद्ध इति विशेषोक्तिः सुफुटा ।
एवं विभावनादयो ऽपि
जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ॥ विस्स्द्_१०।६७ ॥
क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ।
विरुद्धमिव भासेत विरोधो ऽसौ दशाकृतिः ॥ विस्स्द्_१०।६८ ॥
टीका
विज्ञप्रिया:
(वि, ह) दशविधं विरोधाभासालङ्कारमाह–जीतिरित्यादि ।
जात्यादौ जातिगुणक्रियाद्रव्यैर्मिथो विरुद्धैरिति यथालिङ्गमन्वयः ।
गुणश्च जातिक्रियाभिन्नं धर्ममात्रं बोध्यम् ।
गुणादिभिस्त्रिभिरिति ।
तस्य जात्या सह विरोधस्तु जातेर्गुणेन सह विरोधरूप एवेति पूर्वगणनाप्रविष्टत्वान्नोक्तः ।
एवमुत्तरद्वये ऽपि ।
द्वव्यं त्वेकव्यक्तिकं बोध्यम् ।
लोचना:
(लो, ओ) चतुर्भिः जातिगुणक्रियाद्रव्यैः विरुद्धमिव भासेत, पर्यवसाने तु आविरोध एव अन्यथा दोषावहत्वादित्यर्थः ।
गुणस्य जात्या सह जातेर्गुणेन सह विरोध एवेति गुणविरुद्धस्य त्रैविध्यमेव ।
एवमेव क्रियाविरुद्धस्य चैक्यविध्यमेवेतिः–शाकृतिर्दशप्रकारो विरोधः ।
क्रमेण यथा–
“तव विरहे मलयमरुद्दवानलः शशिरुचो ऽपि सोष्माणः ।
हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः” ॥
टीका
विज्ञप्रिया:
(वि, क) तत्र जातेश्चतुर्भिश्च सह विरोधमेकश्लोके एव दर्शयति—तव विरह इति ।
तव विरहे ऽस्या इति मलयपवनादौ सर्वत्रान्वयः ।
अत्र दवदहनत्वमलयपवनत्वजात्यौर्विरोधः ।
न चात्र रूपकम्, दाहकत्वशीतलत्वधर्मव्याप्ययोर्जात्योर्विरोधस्यैव पुरः स्फूर्त्तिकत्वात् ।
शशिरुचो ऽपीत्यत्र शशिरुचित्वजातेश्च सोष्मत्वगुणविरोधः ।
हृदयमित्यत्रालिरुतत्वजातेर्भेदेन क्रियया विरोधः ।
नलिनीदलमपीत्यत्र नलिनीदलत्वजातेर्निदाघरविणा द्रव्येण सह तादात्म्येन विरोधः ।
अत्रापि विरुद्धधर्मव्याप्यत्वाद् विरोधस्यैव पुरः स्फूर्त्तिकत्वादपिकारेण विरोधबोधनाच्च न रूपकम् ।
रवेरुष्मत्वव्याप्यता तु तादात्म्येन ।
रवीणां द्वादशत्वे ऽपि नात्र जातिविरोधः, निदाघीयविशेषणादृतुषट्कप्रवर्त्तकरवेरेवात्र रविपदार्थत्वात् तस्यैकत्वादेव ।
“सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ! ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः” ॥
टीका
विज्ञप्रिया:
(वि, ख) गुणस्य गुणविरोधमाह—सन्ततेति ।
हे नृप ! ते पूर्वं सन्ततेत्यादिना कठिना द्विजपत्नीनां करा भवन्ति सरोजसुकुमाराः ।
त्वया सम्पद्दानेन दासीभि कर्मकरणात् करसौकुमार्यम् ।
अत्र कठिनत्वसौकुमार्यगुणयोर्विरोधः ।
“अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव” ॥
टीका
विज्ञप्रिया:
(वि, ग) गुणस्य क्रियाविरोधमाह—अजस्येति ।
ईश्वरं प्रति देवानां स्तुतिरयम् ।
अजस्येत्यत्र जन्माभावगुणजन्मग्रहणक्रिययोर्विरोधः ।
एवं निरीहत्वनिद्रारूपस्वापगुणयोरपि शत्रुहननजागरणक्रियाभ्याम् ।
“वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः ।
राकाविभावरीजानिर्विषज्वालाकुलो ऽभवत्” ॥
टीका
विज्ञप्रिया:
(वि, घ) गुणस्य द्रव्यविरोधमाह—वल्लभोत्सङ्गसङ्गेनेति ।
तद् विना विरहिण्या इत्यर्थः ।
राकाविभावरीजानिः पूर्णचन्द्रः ।
अत्र चन्द्रो द्रव्यमेकव्यक्तिकरत्वात् ।
तस्य तादात्म्येन विषज्वालाकुलत्वगुणविरोधः ।
नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥
टीका
विज्ञप्रिया:
(वि, ङ) क्रियायाः क्रियाविरोधमाह—नयनयुगेति ।
आसेचनकं सेकेन तापनाशकम् अमृतेन सेचनकं वा ।
दुष्प्रापमन्यस्त्रीभिः ।
अत्र मदनादिक्रिययोर्विरोधः ।
लोचना:
(लो, औ) “तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्ऽ; अमरः ।
मदिरो मत्तचकोरः ।
“त्वद्वाजि” इत्यादि ।
“वल्लभोत्सङ्गऽ–इत्यादिश्लोके चतुर्थपादे “मध्यन्दिनदिनाधिपः” इति पाठे द्रव्ययोर्विरोधः ।
टीका
विज्ञप्रिया:
(वि, च) क्रियाया द्रव्यविरोधमाह–त्वद्वाजिरजीति ।
अत्र हरो द्रव्यम्, तादात्म्येन तस्य नञर्थविशिष्टधारणक्रियाविरोधः ।
वस्तुतस्तु नेदमुदाहरणमुचितं गङ्गां दधतो ऽस्य धारणक्रियाभाररूपगुणस्यैव विरुद्धत्वात् ।
किन्तु “मोक्ष्यते शिरसो गङ्गां भुरिभारकरीं हरऽ; इत्येवं पाठविशिष्टमेवेदमुदाहरणं बोध्यम् ।
मध्यन्दिनदिनाधिप इति पाठे इति ।
चन्द्रसूर्ययोर्विरुद्धशीतोष्णगुणवत्त्वेन विरोधस्य पुरः स्फुर्त्तिकत्वाद् अत्रापि न रूपकम् ।
दिनादिपश्चैक एव सूर्यो नापरे एकादेशा इति न जातिविरोधः ।
अत्र “तव विरह-” इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानम् ।
टीका
विज्ञप्रिया:
(वि, छ) अत्र प्रथमश्लोके जातेश्चतुर्भिः सह विरोधं ग्राहयति–अत्र तव विरह इत्यादाविति ।
पवनादीनामित्यादिपदात् शशिरुच्यलिरुतनलिनीदलपदपरिग्रहः ।
एषां सर्वेषां बहुव्यक्तिवाचकत्वादित्यर्थः ।
मुखतः–आपाततः ।
तेषां यथोक्तजात्याविरोधं दर्शयति—विरहहेतुकत्वादिति ।
समाधानमविरोधः ।
विरोधहेतुकत्वं विरोधं व्यक्त्योरेव ।
तेद्धतुत्वं तद्व्यक्त्यारोपमात्रम् ।
नतु विरुद्धयोर्वास्तवमैकाधिकरणयमित्यर्थः ।
एव मित्यादिकं स्पष्टम् ।
“अजस्य-” इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानम् ।
“त्वद्वाजि-” इत्यादौ “हरो ऽपि शिरसा गङ्गां न धत्ते” इति विरोधः, “त्वद्वाजि-” इत्यादिकविप्रौढोक्त्या तु समाधानम् ।
स्पष्टमन्यत् ।
विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव; इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः ।
टीका
विज्ञप्रिया:
(वि, ज) विभावनाविशेषोक्त्योरपि कारणाभावे कार्यसत्त्वयोः कार्याभावकारणसत्त्वयोश्च विरुद्धत्वेन भासमानत्वाद् विरोधाभासत्वप्रसक्तौ तत एनं विशेषयितुमाह—विभावनायामिति ।
कारणाभावेन सहोपनिबध्यमानत्वादित्यर्थः ।
विशेषोक्ताविति कारणमात्रसामग्री, तस्या एव फलभावकाले बाध्यत्वप्रतीतेः ।
विशेषोक्त्युदाहरणेषु यद्यत्कारणं निर्दिष्टं तस्यैव सामग्रीत्वेनाध्यासे एवं वैचित्र्यात् ।
अन्यथा कारणान्तराभावप्रयुक्ते फलाभावे किम वैचित्र्यम् ॥
लोचना:
(लो, अ) कारणाभावे इत्यनन्तरं बलवदित्यर्थः ।
एवमन्यत्र ।
कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः ।
टीका
विज्ञप्रिया:
(वि, झ) असङ्ग्त्यलङ्कारमाह—कार्यकारणयोरिति ।
उत्पात्तकाले समानदेशतया प्रतीतिनियतयोरित्यर्तः ।
तेनान्यदा भिन्नदेशयोर्दण्डघटयोः सर्वदैव भिन्नदेशयोः कार्ययोश्च भिन्नदेशत्वे ऽपि नायमलङ्कारः ।
यथा–
“सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्” ॥
अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः ।
टीका
विज्ञप्रिया:
(वि, ञ) सा बालेति ।
द्रस्थां प्रियां स्मृत्वा विरहे दुर्बलस्योक्तिरियम् ।
बाला बाल्यधर्ममृदुत्ववती तत्कार्यं तस्या एव वचो ऽप्रागल्भ्यं तच्चास्माकं विरहदौर्बल्यात् ।
वस्तुतो बालात्वे ऽपि पीनस्तनकथनानुपपत्तेः ।
सा स्त्रीति कातर्यस्य स्त्रीधर्मत्वात् ।
गमनाशक्तिरपि दैर्बल्यात् ।
विरोधालङ्कारबोधकतामस्या आह—अस्या इति ।
विरोधालङ्कारो भिन्नैकदेशता नियमेनानुक्तत्वादुत्सर्गः ।
अस्याश्च भिन्नदेशतानियमेनोक्तत्वेनापवादत्वादेतद्विषयपरिहारेणैकदेशस्थयोरवे विरोध इत्यर्थः ।
लोचना:
(लो, आ) भिन्नदेशस्थत्वमाप्ततायां यद्देशमेव कारणं तद्देशमेव कार्यमित्येवमेव नियमः ।
एकदेशस्थयोरेव नतु भिन्नदेशस्थयो अपवादविधेर्बलीयस्त्वादितिभावः ।
गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ॥ विस्स्द्_१०।६९ ॥
यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः ।
विरूपयोः सङ्घटना या च तद्विषमं मतम् ॥ विस्स्द्_१०।७० ॥
टीका
विज्ञप्रिया:
(वि, ट) चतुर्विधं विषमालङ्कारमाह—गुणौ क्रिये वेति ।
हुतुकार्ययोर्गुणौ क्रिये वा यद् यदि विरुद्धे परस्परविपरीते स्यातां तदा एतौ द्वे च विषमे ।
तृतीयमाह–यदारब्धस्येति ।
वैफल्यमुद्देश्यफलाभावः; प्रत्युतानर्थस्योत्पत्तिरित्यर्थः ।
चतुर्थं विषममाह–विरूपयोरिति ।
विरूपत्वेन परस्परसम्बन्धायोग्यत्वेनोक्तयोर्यः सम्बन्धः प्रतीयत इत्यर्थः ।
एतच्च क्कद्वयप्रयोगे बोध्यम् ।
लोचना:
(लो, इ) विरूपयोरन्यरूपयोः स घटनायोगः ।
क्रमेण यथा–
“सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते” ॥
अत्र कारणरूपासिलतायाः “कारणगुणा हि कार्यगुणमारभन्ते” इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः ।
टीका
विज्ञप्रिया:
(वि, ठ) तत्र कार्यकारणयोर्गुणविरोधमाह—सद्य इति ।
तमालवन्नीला कृपाणलेखा लेखाकारः कृपाणो खड्गो रणे रणे यस्य राज्ञः करस्पर्शमवाप्य शरदिन्दुवत्पाण्डु यशः सद्यः प्रसूते इदं चित्रम् ।
त्रिलोकेति यशोविशेषणम् ।
अत्र कारणासिलताकार्ययशसो नीलत्वापाण्डुत्वे विपरीते इत्याह—अत्रेति ।
गुणस्य विरुद्धा इत्यन्वयः ।
शुक्लयशस उत्पत्तिरिति ।
उत्पद्यमानयशः शुक्लमिति पर्यवसित्तार्थः ।
ननु विरुद्धत्वे किं वैचित्र्यमित्यत आह–कारणगुणा इति ।
स्थितेरिति नियमादित्यर्थः ।
तथा च विरुद्धयोर्विरोधप्रदर्शनं वैचित्र्यमित्यर्थः ।
यद्यप्ययं नियमः समावायिकारणकार्ययोरेव तथापि तद्दर्शनात्कविना अन्यत्रापि तन्नयममध्यास्येदं वर्णितम् ।
“आनन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे” ॥
अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः ।
टीका
विज्ञप्रिया:
(वि, ड) कारणकार्ययोर्विरोधमाह—आनन्दममन्दमिति ।
कुवलयेत्यादिकं सम्बोधनम् ।
अत्रेति ।
तापजनकविरहोत्पत्तिः स्वोत्पाद्यविरहजन्यतापिक्रियोत्पत्तिरिति पर्यवसितार्थः ।
तथा च स्त्रीतज्जन्यविरहयोः कारणकार्ययोरानन्ददानतापक्रिये च विरुद्धे इत्यर्थः ।
एतज्जन्यस्यतक्त्रियासमानक्रियाया एव वैचित्र्यं समभाव्य वर्णितम् ।
“अयं रत्नाकरो ऽम्भोधिरित्यसेवि धनाशया ।
धनं दूरे ऽस्तु वदनमपूरि क्षारवारिभैः” ॥
टीका
विज्ञप्रिया:
(वि ढ) आरब्धकार्यवैफल्यानर्थोत्पत्तिद्वयमुदाहरति—अयमिति ।
अयमम्भोधिः रत्नाकर इति कृत्वा मया धानाशया असेवि सेवितः ।
धनं दूरे ऽस्तु प्राप्त्यविषयो ऽस्तु ।
क्षारवारिभिस्तु वदनमपूरि इत्यर्थः ।
अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणम् ।
“क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ।
नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम्” ॥
अत्र वनराज्यश्रियोर्विरूपयोः सङ्घटना ।
इदं मम ।
टीका
विज्ञप्रिया:
(वि, ण) विरूपयोर्घटनामाह—क्व वनमिति ।
रामं शोचन्त्याः कौशल्याया उक्तिरियम् ।
तरुवल्कलमेव भूषणं यत्र तादृशां वनं क्व नृपेत्यादिकं क्क ।
परस्परासम्बन्धायोग्यतया क्कद्वयेनोक्तयोरनयोरेकत्र रामे घटना ।
एवं “क्व सूर्यप्रभवऽ; इत्यादावपि बोध्यम् ।
यथा वा–
“विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा” ॥
टीका
विज्ञप्रिया:
(वि, त) क्कद्वयाभावे ऽप्याह—विपुलेनेति ।
सागरशयस्य विष्णोर्विपुलेन कुक्षिणा उदरेण युगक्षयकाले भुवनानि पपिरे ।
स पुनर्विष्णुः श्रीकृष्णः एकतमया पुरस्त्रिया कर्त्र्या मदविभ्रमेणासकलया एकदेशरूपया एकया दृशा पपे इत्यर्थः ।
अत्र भुवनपानसमर्थकुक्षिमत एकस्त्रीकटाक्षेण पेयत्वयोगो विरुद्ध इत्यर्थः ।
काव्यप्रकाशकृन्मते तुक्कद्वयेन विनैवात्र विरुद्धतयाप्रतीतेः केनाप्यनुक्ततया नेदं चतुर्थविषमालङ्कारोदाहरणम् ।
अतः कारणकार्ययोः क्रियाविरोधरूपद्वितीयविषमोदाहरणतयैवायं श्लोकस्तेन दर्शितः ।
कुक्षिस्तु अवयवः कारणम् ।
कुक्षिमानवयवी श्रीकृष्णस्तु कार्यम् ।
तयोर्भुवनपानस्त्रीकटाक्षपेयत्वक्रिये विरुद्धे ॥
लोचना:
(लो, ई) तदिति ।
विषमालङ्कारणामेषां सूत्रोक्तप्रकारणामुपलक्षणतया सम्बन्धिनोरननुरूपतया तक्ष्यानुसारेणान्ये ऽपि प्रकारा उदाहर्तव्या इत्यर्थः ।
तत्र दिड्यात्रमुदाहृत्य दर्शयति-विपुलेनेति ।
असकलया असमग्रपातिन्या ।
समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ।
टीका
विज्ञप्रिया:
(वि, थ) समसञ्ज्ञकमलङ्कारमाह—सममिति ।
योग्ययोः परस्परोचितयोः वस्तुनोरानुरूप्येणौचित्येन या श्लाघा सा समनामालङ्कार इत्यर्थः ।
लोचना:
(लो, उ) अत्रावयवावयविनोर्वैषम्यम् ।
क्वचित् सजातीययोः—
“असितमेकसुराशितमप्यभू- न्न पुनरेष पुनर्विषदं विषम् ।
अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम्” ॥
अत्र व्यतिरेकयोगे ऽपि द्वयोः सङ्करो, नतु विषमालङ्काराभावः ।
यथा–
शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विबव्रुः” ॥
टीका
विज्ञप्रिया:
(वि, द) शशिनमित्यादि ।
अजे इन्दुमत्या स्वयंवृते पौराणां श्लोघोक्तिरियम् ।
रसगुणयोर्योगेन प्रीतिर्येषां तादृशाः पौरा इत्येकवाक्यमेकस्य जनस्य प्राथमिकं वाक्यं विवव्रुः ।
तदर्थकशब्दान्तरैर्विवृतवन्त इत्यर्थः ।
शशिनमित्याद्येकस्य वाक्यम् ।
शशिजलनिधित्वेन अजः ।
कौमुदीजह्नुकन्यात्वेनेन्दुमती ।
पृथक्सिद्धस्यैव प्राप्तिः ।
कौमुदी तु शशिनो न पृथक् सिद्धा, अतः पृथक्सिद्धसम्पादनाय् मेघमुक्तत्वविशेषणम् ।
मेघेन पृथक्कृतायास्तदपगमे प्राप्तिरित्यर्थः ।
लोचना:
(लो, ऊ) विषमाद् वैपरीत्येन समस्य लक्षणम् ।
वस्तुनोर्दर्शनीययोः ।
जह्नुकन्या गङ्गा ।
विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ॥ विस्स्द्_१०।७१ ॥
यथा–
“प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् ।
दुः खीयति सुखहेतोः को मूढः सेवकादन्यः” ॥
टीका
विज्ञप्रिया:
(वि, ध) प्रणमतीति ।
प्रणामो हि नम्रीभावः स उन्नतिविपरीतः ।
प्राणान विमुञ्चति, युद्धे इति शेषः ।
यद्यपि प्राणविमोको न जीवितस्य हेतुस्तथापि प्राणविमोकक्रियापरमत्र विमुञ्चतिपदम् ।
दुः खीयति दुः खमिच्चति, दुः खजनकक्रियाप्रवृत्तत्वात् ।
लोचना:
(लो, ऋ) इष्टफलस्य प्रकृतोदाहरणादौ उन्नत्यादेः प्राप्त्यर्थं तद्विरुद्धस्य प्रणामादेः करणं विचित्रालङ्कारबीजफलम् ।
आश्रयाश्रयिणोरेकस्याधिक्ये ऽधिकमुच्यते ।
लोचना:
(लो, ॠ) आधिक्यं क्वचिदाश्रयाश्रयिणोर्महत्त्वमिति द्विविधो ऽधिकाख्यालङ्कारः इत्यर्थः ।
यत् पुनः कैश्चिदुक्तं वस्तुतः तनुत्वे ऽपि यदेकस्याधिक्यं तदधिकमुच्यते इति तन्न ।
“द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचित् क्वाप्यत्रैव धराधराधरजला धारावलिर्वर्त्तते ।
स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधैर्- दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम्” ॥
इत्यादावव्याप्तेः ।
अत्र हि नभसो न तनुत्वम् ।
अस्य चालङ्कारस्याश्रयाश्रयिरूपविलक्षणाश्रयतयापवादत्वेन विषमालङ्कारबाधकता ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
आश्रयाधिक्ये यथा–
“किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र ।
अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि” ॥
टीका
विज्ञप्रिया:
(वि, न) अधिकसञ्ज्ञकमलङ्कारमाह–आश्रयेति ।
आधिक्यम् अधिकतया वर्णनमित्यर्थः ।
किमधिकमिति ।
भुवनानि कुक्षौ निक्षिप्य हरिर्यत्राज्ञात एव शेते ।
जलनिधेः किञ्चिदवच्छेदेनैव शयनाज्जलनिधिद्रष्टृभिरज्ञात एव शेत इत्यर्थः ।
अस्य जलनिधेर्महिमानं किमाधिकं वदाम इत्यर्थः ।
अत्र कुक्षिनिक्षिप्तभुवनस्यापि हरेस्तु किञ्चिदवच्छेदेनैव शयनादाश्रयस्य जलनिधेराधिक्यं वर्णितम् ।
आश्रिताधिक्ये यथा–
“युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः” ॥
टीका
विज्ञप्रिया:
(वि, प) आश्रिताधिक्यवर्णनमाह—युगान्तेति ।
नारदागमने श्रीकृष्णस्य हर्षाधिक्यवर्णनमिदम् ।
युगान्तकाले प्रतिसंहृताः स्वकुक्षौ प्रवेशिता आत्मानः प्राणिनो येन तादृशस्य कैटभद्विषो विष्णोर्यस्यां तनौ जगन्ति सविकाशमयन्त्रणमासत तत्र तस्यां तनौ तपोधनस्य नारदस्याभ्यागमसम्भवा भुदो न ममुः न स्थातुमवकाशं लेभिरे इत्यर्थः ।
तनुभेदे ऽपि विष्णुतनुत्वेनैकत्वाध्यासादेकत्वं बोध्यम् ।
अत्राश्रितानां मुदामधिकत्वम् ।
अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ॥ विस्स्द्_१०।७२ ॥
“त्वया सा शोभते तन्वी तया त्वमपि शोभसे ।
रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी” ॥
टीका
विज्ञप्रिया:
(वि, फ) अन्योन्यसञ्ज्ञकमलङ्कारमाह–अन्योन्यमिति ।
एका क्रिया एकजातीया क्रिया ।
उभयोर्मिथः करणमित्यर्थः ।
त्वया सेति ।
परार्द्धं दृष्टान्तालङ्कारे ऽपि ।
यदाधेयमनाधारमेकं चानेकगोचरम् ।
किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ॥ विस्स्द्_१०।७३ ॥
कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः ।
टीका
विज्ञप्रिया:
(वि, ब) त्रिविधं विशेषालङ्कारमाह—यदाधेयमिति ।
यादिति त्रिष्वन्वितम् ।
अनाधारमाधारं विना स्थितं वर्णितमित्यर्थः ।
अनेकगोचरमित्यत्र एकदेति शेषः, क्रमिकस्थितौ तु पर्यायालङ्कारस्य वक्ष्यमाणत्वात् ।
किञ्चित्प्रकुर्वतः कर्त्तुर्दैवादितरस्याशक्यस्य कार्यस्य करणं वा यदित्यर्थः ।
क्रमेण यथा–
“दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः” ॥
टीका
विज्ञप्रिया:
(वि, भ) दिवमिति ।
दिवमुपयातानामपि येषां कवीनामनल्पगुणगणा गिरः जगन्ति रमयन्ति ते कवयः कथमिह न वन्द्या इत्यर्थः ।
अत्र कर्त्तृतासम्बन्धेनाधारणां कवीनामसत्त्वे ऽपि तदाधेयानां गिरां स्थितिः ।
“कानने सरिदुद्देशे गिरीणामपि कन्दरे ।
पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः” ॥
टीका
विज्ञप्रिया:
(वि, म) कानन इति ।
काननादौ पलायिता रिपवस्त्वामेकं तत्रतत्रैवान्तकसङ्काशं पश्यन्तीत्यर्थः ।
अत्र दर्शनस्य न क्रमविवक्षा ।
“गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्” ॥
टीका
विज्ञप्रिया:
(वि, य) गृहिणीति ।
मृतामिन्दुमतीं शोचतो ऽजस्योक्तिरियम् ।
त्वां हरता करुणाविमुखेन मृत्युना मम किं न हृतं वद ।
किं किं हृतमित्यत्राह–गृहिणीत्यादि ।
ललिते कामकलाविधौ मिथो रहसि प्रियशिष्येत्यन्वयः ।
अत्रेन्दुमतीहर्त्तुर्मृत्योर्गृहिण्यादिहरणरूपस्य कार्यस्य दैवात्करणं वर्णितम् ।
व्याघातः स तु केनापि वस्तु येन यथाकृतम् ॥ विस्स्द्_१०।७४ ॥
तेनैव चेदुपायेन कुरुते ऽन्यस्तदन्यथा ।
यथा–“दृशा दग्धं मनसिजम्-” इत्यादि ।
टीका
विज्ञप्रिया:
(वि, र) व्याघातालङ्कारमाह—व्याघात इति ।
केनापि कर्त्रा यद् वस्तु येनोपायेन यथाकृतं तेनैवोपायेनान्यश्चेत्तदन्यथा कुरुते तदा तदन्यथाकरणं स व्याघात इत्यर्थः ।
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरुपाक्षस्य जयिनीस्ताः स्तुनो वामलोचनाः” ॥
इत्युदाहरणम् ।
दृशा हरस्या याः कटाक्षरूपया दृशा जीवयन्तीत्यर्थः ।
नारीकटाक्षेण कामोद्दीपनात् ।
न केवलं क्रियया जयः, किन्तु रूपेणपीत्याह—विरूपाक्षस्येति ।
जेतव्यस्याक्षिवैरूप्यम् ।
जेत्रीणामक्षिषु मनोज्ञत्वरूपं वामत्वमित्येव तत्रापि जय इति भावः ।
अत्र येन दृगुपायेन दाहस्तेनैव दृगुपायेन जीवनरूपं दाहान्यथाकरणं स्त्रीभिः ।
सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥ विस्स्द्_१०।७५ ॥
व्याघात इत्येव ।
टीका
विज्ञप्रिया:
(वि, ल) अन्यविधं व्याघातलङ्कारमाह—सौकर्येण चेति ।
चकारो व्याघातान्तरसमुच्चये ।
अन्योक्तकार्यस्य विरुद्धं कार्यमन्येन यदि तदुक्तकारणस्य सौकर्येण विशिष्टं क्रियते प्रतिपाद्यते इत्यर्थः ।
चकारेण व्याघातमनुवर्त्तयति–व्याघात इत्येवेति ।
“इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते ! मृदुरसि न चायाससहना ।
मृदुत्वं मे हेतुः सुभग ! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृतमायासमसमम्” ॥
अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम् ।
नायिकया च प्रत्युत सहगमने ततो ऽपि सौकर्येण हेतुतयोपन्यस्तम् ।
टीका
विज्ञप्रिया:
(वि, व) इहैवेति ।
विदेशं जिगमिषुणा पत्या सह जिगमिषुं पत्नीं प्रति नायकस्योक्तिः पूर्वार्द्धम् ।
त्वमिहैव तिष्ठ न मया सह गच्छ ।
अहं कतिपयैरहोभिर्द्रुतं समागन्ता समागमिष्यामि, भविष्यदर्थे तृन् ।
यतो मृदुरसि ।
नच गमनायासहनासीत्यर्थः ।
पत्न्या उक्तिः परार्द्धं—हे सुभग ! भवता सह गन्तुं सहगमने एव मम मृदुत्वं हेतुः ।
यद् यस्मान् मृद्वी असमं विरहायासं न सोढा न सहिष्यते ।
अत्रापि तृन् ।
अत्र नायकोक्तकार्यस्य नायिकाया विरुद्धप्रतिपादनं ग्राहयति—अत्रेति ।
सहागमनहेतुत्वेनेति ।
स्थितिहेतुः सहगमनहेतुत्वेनेत्यर्थः ।
सौकर्येणेति ।
सहगमनमेव स्थितिहेतुत्वेनोक्तस्य मृदुत्वस्य सुकरम्, स्थितिस्तु मृदुत्वस्य दुष्करेत्यर्थः ।
स्थितौ मदत्वेन विरहासहत्वजननात् ।
लोचना:
(लो, ऌ) इह तु किञ्चिन्निष्पादयितुं सम्भाव्यमानस्य कारणस्य तद्विरुद्धनिष्पादकत्वेन समर्थनम् ।
इहैव त्वमित्युदाहरणे नहि मृदुत्वस्य नायकसहगमनस्य कार्यत्वं प्रतीयते किन्तु सहगमनस्य निर्वाहः ।
विषमालङ्कारे तु “अयं रत्नाकरऽ; इत्यादौ धनलाभरूपकार्यानुत्पत्तिः, अनर्थस्य चोत्पत्तिरिति भावः ।
एवं विरोधमूलालङ्कारान् निर्णोय शृङ्वलाबन्धेन विचित्रता अलङ्कारा लक्ष्यन्ते ।
परं परं प्रति यदा पूर्वपूर्वस्य हेतुता ।
तदा कारणमाला स्यात्–
लोचना:
(लो, ए) परमिति ।
कारणमालाख्यमलङ्करणम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् ।
लोकानुरागो विनयान्न किं लोकानुरागतः” ॥
–तन्मालादीपकं पुनः ॥ विस्स्द्_१०।७६ ॥
धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् ।
लोचना:
(लो, ऐ) यथोत्तरमुत्तरोत्तरं गुणावहत्वेनेत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः ।
शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः” ॥
अत्रासादनक्रिया धर्मः ।
टीका
विज्ञप्रिया:
(वि, श) कारणमालालङ्कारमाह—परम्परमिति ।
सोदाहरणं स्पष्टम् ।
मालादीपकालङ्कारमाह—तन्मालेति ।
इदमपि सोदाहरणं स्पष्टम् ।
एकावल्यलङ्कारमाह–पूर्वं पूर्वमिति ।
पूर्वत्र पूर्वत्र यद्विशेषणं तस्य तस्य विशेषणतया यदि परं परं स्थाप्यते, अपोस्यते वा तद्विशेषणाभावप्रतियोगितया निर्दिश्यते वेत्यर्थः ।
तेन पूर्वं पूर्वं विशेषणं यद्युत्तरोत्तरस्य उत्तरोत्तराभावस्य वा विशेष्यं भवतीत्यर्थः ।
पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ॥ विस्स्द्_१०।७७ ॥
स्थाप्यते ऽपोह्यते वा चेत् स्यात्तदैकावली द्विधा ।
टीका
विज्ञप्रिया:
(वि, ष)
[मिस्सिन्ग् इन् प्रिन्तेद् एदितिओन्]
क्रमेणोदाहरणम्–
“सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् ।
भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्” ॥
“न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ॥
न षट्पदो ऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः” ॥
टीका
विज्ञप्रिया:
(वि, स) सरो विकसितेति ।
अत्र सरोजराजे यानि विकसिताम्भोजादीनि तदेकदेशानामम्भोजादीनां विशेषणानि परम्परणि ।
अपोहे तु आह—न तज्जलमिति ।
सुचारुपङ्कजं यत्रेति बहुव्रीहिः ।
एवमलीनेत्यादावपि ।
अत्र जलविशेषणीभूतानामभ्रावानां प्रतियोगितया सुचारुपङ्कजत्वादीनि निर्दिष्टानि ।
लोचना:
(लो, ओ) अम्भोजं सरसो, भृङ्गा अम्भोजस्य; सङ्गीतानि भृङ्गाणां विशेषणत्वेन ।
न तज्जलमित्यादौ जलस्य सुचारुपङ्कजं निषेधत्वेन निबद्धम् ।
एवमन्यत्र ।
क्वचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते ।
यथा–
“वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।
कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्” ॥
एवमपोहने ऽपि ।
टीका
विज्ञप्रिया:
(वि, ह) अनयोः पूर्वपूर्वोक्तविशेषणानां परत्र परत्र विशेषणे विशेष्यतापोहश्च दर्शित इत्याह—क्वचिद् विशेष्यमपीति ।
वाप्यो भवन्तीति ।
अत्रापि शरदीति बोध्यम् ।
करोतीति ।
सङ्गीतं कर्तृ, अलिषु पदं सुसम्बन्धरूपतया व्यवसायं करोतीत्यर्थः ।
अत्र विमलत्वादौ विशेष्यभूता वाप्यादयः स्फुटत्कमलादौ भेदेन विशेषणानि ।
एवमपोहनेपीति ।
यथा—“न ता वाप्यः स्फुटन्ति यासु पद्मानि सम्प्रति ।
नच पद्मान्यन्यत्र न यत्र चालयो ऽपतन् ॥
“(?) इत्यादिके तद्वोध्यम् ।
उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥ विस्स्द्_१०।७८ ॥
लोचना:
(लो, औ) सारो नामालङ्कारः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्” ॥
टीका
विज्ञप्रिया:
(वि, क) सारालङ्कारमाह—उत्तरोत्तरमिति ।
राज्ये सारमिति ।
नपुंसकलिङ्गस्य सारपदस्य जहदजहल्लिङ्गद्वयमपीत्यतोत्राजहल्लिङ्गता ।
तत् किं त्रिभुवनसारा बालाऽराधिता भवतेत्यत्र तु जहल्लिङ्गता ।
वराङ्गनानङ्गेति—अनङ्गसर्वस्वभूता वराङ्गनेत्यर्थः ।
नन्वत्र राज्ये इत्यादौ यद्यधिकरणसप्तमी तदा राजाद्यपेक्षया सारत्वाप्रतीत्या निष्प्रयोजकसारत्वानुपपत्तिः ।
राज्यवसुधयोः सौधतल्पयोस्तल्पवराङ्गनयोश्च सामान्यविशेषभावाभावेन निर्धारणानुपपत्तिः, पुरुषेषु क्षत्रियः शूर इत्यादिषु सामान्यविशेषभावसत्त्वे एव निर्धारणात् ।
उच्यते—राज्ये राजत्वविषये यद् यद् वस्तु तेषु वसुधा सारम् ।
वसुधायां यद् यद् वस्तु तेषु पुरं सारमित्यादिरीत्या यद् यद् वस्तु तेषिवत्यध्याहारेण निर्धारणात् तेषु इत्यत्र निर्धारणसप्तमी ।
राज्ये इत्यत्र विषयसप्तमी, वसुधायामित्यादिष्वधिकरणसप्तमी ।
यथासङ्ख्यमूद्देश उद्दिष्टानां क्रमेण यत् ।
टीका
विज्ञप्रिया:
(वि, ख) यथासङ्ख्यालङ्कारमाह—यथासङ्ख्यमिति ।
प्रथमोद्दिष्टानां यः प्रथमद्वितीयादिक्रमस्तेन क्रमेण तदन्वितानामनु पश्चाद् उद्देश इत्यर्थः ।
लोचना:
(लो, अ) सम्प्रति वाक्यन्यायाश्रता अलङ्कारा उच्यन्ते ।
यथासङ्ख्यनामालङ्करणम् ।
अनूद्देशः अनु पश्चात् निर्देशः ।
उद्दिष्टानामुन्मीलनादिक्रियाणां वञ्जुलादिभिः क्रमेण सम्बन्धः ।
यथा–
“उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय ।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक- व्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः” ॥
टीका
विज्ञप्रिया:
(वि, ग) उन्मीलन्तीति ।
नायके नायिकाविरहकालीनान् तत्सखीनां साङ्केतिकव्यवहारान् कथयन्त्याः कस्याश्चिदुक्तिरियम् ।
हे सुभग ! त्वदीयविरहे तस्याः सखीनां तत्तत्क्रियया वञ्जुलादित्रये सङ्केतिता मिथः इत्थं वायवहारा इत्यर्थः ।
कीदृशा व्यवहारा इत्यत्राह ।
उन्मीलन्तीति ।
विकशन्तीत्यर्थः ।
इयमेकस्याः सख्याः प्रथमोक्तवञ्जुलपुष्पकर्तृके उन्मीलने सङ्केतिता प्राथमिकी उक्तिः ।
अपरसख्याश्च नखैरित्यादिका प्राथमिकी प्रत्युक्तिः ।
वहतीति द्वितीयोक्तदक्षिणानिलकर्तृके वहने सङ्केतिता इयं सख्या द्वितीयोक्तिः ।
अपरसख्याश्च चेलाञ्चलेनेत्यादि द्वितीया प्रत्युक्तिः ।
क्रीडेत्यादिका अपरसख्या तृतीयप्रत्युक्तिः ।
इत्थं प्रथमादिक्रमेणोक्तानां पश्चात् तत्क्रमेणैव तदन्वितानामुद्देशः ।
क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ॥ विस्स्द्_१०।७९ ॥
भवति क्रियते वा चेत्तदा पर्याय इष्यते ।
टीका
विज्ञप्रिया:
(वि, घ) पर्यायालङ्कारमाह–क्वचिदेकमिति ।
क्वचित् श्लोके एकमनेकस्मिन् क्रमात् भवेत् कारणक्रमात् क्रियते वा चेत् तथा अनेकमेकगमेकगमि वा क्रमात् भवति क्रियते वा चेत् तदा पर्याय इष्यते इत्यर्तः ।
क्रमेण यथा–
“स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः” ॥
टीका
विज्ञप्रिया:
(वि, ङ) तत्रैकस्या अनेकत्र भवनमाह—स्थिता इति ।
तपस्यन्त्याः पार्वत्याः अङ्गेषु नवमेघजलपतनक्रमवर्णनमिदम् ।
प्रथमोदबिन्दवः क्रमेण तस्या नाभिं प्रपेदिरे ।
तत्क्रमयमाह—स्थिता इति ।
पक्ष्मणां निबिडत्वेन तत्र क्षणं स्थिताः ततस्ते ताडिताधारः ।
अधरस्य कोमलत्वेन जलबिन्दुभिरपि ताडनम् ।
पयोधरोत्सेधः ।
कृद्विहितभावत्वेनोच्छूनौ पयोधरौ ।
तयोः कठिनत्वेन तत्र निपातेन ततः चूर्णिताः ।
तत्र वलीषु स्खलिताः तासामुच्चनीचत्वान्नाभेर्गभीरत्वेन ततो नान्यत्र गमनम् ।
अत्र स्वयम्भवनम् ।
लोचना:
(लो, आ) स्थिताः क्षणमित्यादावेके प्रथमोदबिन्दवो ऽवो ऽनेकेषु पक्ष्मादिषु क्रमेणाभवन् ।
एवं विलासिन्यो वृकादयश्चानेकविधा अरिपुरे ।
“विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।
वृककाकशिवास्तत्र धावन्त्यरिपुरे तव” ॥
टीका
विज्ञप्रिया:
(वि, च) अनेकेषामेकत्र भवनं त्वाह—विचरन्तीति ।
यत्र तवारिपुर इत्यन्वयः ।
अत्र विलासिनी वृकादीमेकत्रारिपुरे भवनम् ।
“विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः” ॥
टीका
विज्ञप्रिया:
(वि, छ) एकस्यानेकत्र परेण क्रियमाणत्वामाह—विसृष्टेति ।
पार्वत्यास्तपस्यारम्भवर्णनमिदम् ।
तया करो ऽक्षसूत्रे प्रणयीकृतः, व्यापृतः ।
कुशाङ्कुरेत्यादि विशिष्टश्च कृत इत्यर्थः ।
तथा चात्र विधेयद्वयम् ।
चार्थस्तु गम्यः कीदृशः–अधरान्निवर्तितः ।
यतो विसृष्टरागाद् अधरे रागदानार्थमेव प्रागधरे करदानाद् कन्दुकक्रीडाभावाच्च ततो निवर्तनम् ।
स्तनाङ्गेत्यादिविशेषणं च स्वरूपकथनमात्रम् ।
स्तने ऽङ्गरागोपीदानीं च न दीयते इत्येतत्सूचनार्थं वा ।
अत्र तयोः क्रियमाणत्वम् ।
लोचना:
(लो, इ) विसृष्टेत्यादावेकः करो ऽधरादौ ।
“ययोरारोपितस्तारो हारस्ते ऽरिवधूजनैः” ॥
निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः” ॥
टीका
विज्ञप्रिया:
(वि, ज) अनेकस्यैकत्र क्रियमाणत्वमाह—ययोरिति ।
अत्र हाराश्रुबिन्दूनामनेकेषामेकत्र स्तने अरिवधूभिः ।
लोचना:
(लो, ई) ययोरित्यादौ हारो ऽश्रुबिन्दवश्च पयोधरे कृताः ।
एषु च क्वचिदाधारः संहतरूपो ऽसंहतरूपश्च ।
क्वचिदाधेयमपि ।
लोचना:
(लो, उ) संहतरूपो मिलितस्वरूपः ।
तद्विपरीत एकाकीभूतः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–
“स्थिताः क्षणम्-” इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् ।
“विचरन्ति-” इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, झ) एष्वाधाराऽधेयानां संहतत्वासंहतत्वे सम्भवतस्तद् भेदाभेदो न विवक्षितः इत्यभिप्रायेण तद्दर्शयति—एष्विति ।
संहतरूपो मिलितानेकरूपो ऽसंहतरूपो ऽमिलितप्रत्येकरूपः ।
क्वचित् क्वचिदाधेयस्यापि एवं द्वैरूप्यमित्याह—क्वचिदाधेयमपीति ।
अत्राधारस्यासंहतत्वं दर्शयति—यथा स्थिताः क्षणमित्यत्रेति ।
अत्राधेयानामुदबिन्दूनां तु संहतत्वरूपत्वं नात्र विशेषकम् ।
येषामनेकत्वघटितोयमलङ्कारस्तेषामेव संहतत्वासंहतत्वायोर्विशेषकत्वाद् बिन्दूनां त्वनेकाश्रयेषु एकस्यैव घटितत्वात् ।
आधाराणां संहतत्वं यथा “स्वयंवरे सामिलितेषु राजसु क्रमेण चक्षुर्निदधे पतिंवरा” इति ।
आधेयानामसंहतत्वं तु ।
“पूर्वं पूर्वं यदा त्याक्षीन्नृपकन्या पतिंवरा ।
परः परस्तदा तस्यां विशेषादाकुलो नृपः” ॥
इत्यत्र बोध्यम् ।
एकत्राधारे ऽनेकेषामाधेयानां संहतत्वं दर्शयति—विचरन्तीति ।
वृकादयाः संहतरूपा इति बहुवचनेन मिलनबोधनात् क्रमस्तु विलासिनीचरणापेक्षया ।
एवमन्यत्रेति ।
ययोरारोपति इत्यत्रापि अश्रुबिन्दवो ऽनेकसंहतरूपाः ।
अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद् भेदः ।
विनिमयाभावात्परिवृत्तेः ।
टीका
विज्ञप्रिया:
(वि, ञ) ननु क्वचिदेकमनेकस्मिन्नित्युक्तरूपस्य पर्यायस्यैकं चानेकगोचरमित्युक्तरूपाद् विशेषालङ्कारात् को विशेष इत्यत आह–अत्र चेति ।
क्रमयुगपदवृत्तिभ्यां द्वयोर्भेद इत्यर्तः ।
वक्ष्यमाणपरिवृत्त्यलङ्कारतो विशेषमाह—विनिमयाभावाच्चेति ।
परस्परधर्मस्य परस्परेण ग्रहणरूपो विनिमयः परिवृत्तावेव ।
अत्र त्वनेकाश्रयगतमेवैकम्, नतु तादृशाश्रयधर्मसामान्येन ग्रहणमित्यर्तः ।
परिवृत्तिविन्निमयः समन्यूनाधिकैर्भवेत् ॥ विस्स्द्_१०।८० ॥
टीका
विज्ञप्रिया:
(वि, ट) परिवृत्त्यलङ्कारमाह—परिवृत्तिरिति ।
समाभ्यां न्यूनाधिकाभ्यां च विनिमय इत्यर्थः ।
न्यूनाधिकविनिमयश्च न्यूनं दत्त्वाधिकग्रहणमधिकं दत्त्वा न्यूनग्रहणमिति द्विधा ।
क्रमेणोदाहरणम्–
“दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम ।
मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः” ॥
टीका
विज्ञप्रिया:
(वि, ठ) तत्र समाभ्यामधिकं दत्त्वा न्यूनग्रहणाच्च विनिमये एकमुदाहरणमाह—दत्त्वा कटाक्षमिति ।
स्पष्टम् ।
अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन ।
“तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते ऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः” ॥
टीका
विज्ञप्रिया:
(वि, ड) न्यूनं दत्त्वा अधिकग्रहणमाह—तस्य चेति ।
रामस्योक्तिरियम् ।
प्रवयसो ऽतिवृद्धस्य ।
शोच्यते ।
नैव क्रिमपि शोचनीयम् ।
येन जर्जरस्य जराजीर्णस्य कलेवरस्य शरीरस्य व्ययाद् इन्दुकिरणोज्ज्वलं चन्द्रकिरणवत् शुभ्रं यशः क्रीतम् ।
अत्र जर्जरस्य शरीरस्य दानेन उज्ज्वलस्य यशासः क्रयः ।
अतोत्र आधिक्यम् ।
अत्रादिक्येन ।
प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।
तादृगन्यव्यपोहश्चेच्छाब्द आर्थो ऽथवा तदा ॥ विस्स्द्_१०।८१ ॥
परिसङ्ख्या–
टीका
विज्ञप्रिया:
(वि, ढ) चतुर्विधं परिसङ्ख्यालङ्कारमाह—प्रश्रादप्रश्रतो वापीति ।
प्रश्रवशात् तदभावाद्वा कथितं यद् यद् प्रष्टव्यस्य विशेषणस्य विशेष्यभूतं वस्तु परेण कथितात् तस्माद् हेतोः कथितसदृशस्यान्यस्य प्रष्टव्यविशेषणान्वयव्यवच्छेदः शाब्द आर्थो वा प्रतीयते चेत्तदा सव्यवच्छेदः परिसङ्ख्यालङ्कार इत्यर्थः ।
क्रमेणोदाहरणम्–
“किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्” ॥
अत्र व्यवच्छेद्यं रत्नादि शाब्दम् ।
टीका
विज्ञप्रिया:
(वि, ण) अत्र प्रश्रपूर्वकथिताच्छाब्दं व्यवच्छेदमाहुः—किं भूषणमिति ।
अत्र लोके किं सुदृढं भूषणमिति प्रश्रः, यश इत्युत्तरम् ।
न रत्नमिति ।
उपादेयत्वेन यशः सदृशस्यान्यस्य सत्नस्य प्रष्टव्यविशेषणभूतभूषणत्वान्वयव्यवच्छेदः ।
एवं सर्वत्र बोध्यम् ।
आर्यैर्वशिष्टादिभिश्चरितमाचरितं किं वस्तु कार्यमिति प्रश्रः ।
सुकृतमित्युत्तरम् ।
तदीयचाण्डालीगमनरूपदोषस्य तदा चरणीयत्वेन सुकृतसदृशस्य व्यवच्छेदो न दोष इति शाब्दः ।
एवमुत्तरत्र अप्रतिहतं चक्षुः किम्, धिषणा बुद्धिः, न नेत्रम् ।
जानातीति त्वदपर इति पाठे प्रत्युत्तरपरितुष्टस्य प्रष्टुरुत्तरकर्तृजनप्रशंसावाक्यमिदम् ।
तदपर इति पाठे धिषणापर इत्यर्थः ।
अत्र व्यवच्छेद्यमिति ।
व्यवच्छेद इत्यर्थः ।
सूत्रे व्यवच्छेदस्यैव शाब्दतया उक्तत्वान्नतु व्यवच्छेद्यस्य ।
एवमुत्तरत्रापि ।
“किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः ।
को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम्” ॥
अत्र व्यवच्छेद्यं पापाद्यार्थम् ।
अनयोः प्रश्नपूर्वकत्वम् ।
टीका
विज्ञप्रिया:
(वि, त) अन्यव्यपोहस्यार्थत्वं दर्शयति—किमाराध्यमिति ।
यद्यपि आराध्यत्वमाराधनाविषयत्वमाराधना च देवताप्रीतिहेतुः क्रिया तथापि आराध्यत्वमत्र पुरुषप्रवृत्तिविषयत्वमित्यर्थः ।
तेन आराध्यमुपार्जनीयं पुण्यमिति उत्तरस्य नान्यदिति व्यवच्छेदः ।
सदागमः सतामागमः सत्सङ्गः, परमपदं मुक्तिः ।
अप्रश्नपूर्वकत्वे यथा–
“भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्” ॥
टीका
विज्ञप्रिया:
(वि, थ) अप्रश्नपूर्वकत्वे व्यवच्छेदस्य शाब्दत्वे आह—भक्तिर्भव इति युवतिरूपे कामास्त्रे ।
भक्तिरित्यादौ सर्वत्र प्रायो महतां परिदृश्यत इत्यास्यान्वयः ।
“बलमार्तभयोपशान्तये विदुषां सम्मतये बहु श्रुतम् ।
वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्” ॥
श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा–
“यस्मिंश्च राजनि “जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः-” इत्यादि ।
टीका
विज्ञप्रिया:
(वि, द) अप्रश्रपूर्वकत्वे व्यवच्छेदस्यार्थत्वं दर्शयति—बलमिति ।
बलं विक्रमः आर्तानां पीडितानां भयनाशाय, सम्मतये प्रीतये इत्यर्थः, श्रुतं विद्या ।
अतो न केवलं तस्य राज्ञो वसु धनमेव परप्रयोजनम्, परप्रयोजनस्यार्थिदारिद्र्यनाशरूपस्य जनकमपितु बलादिगुणवत्तापि तथेत्यर्तः ।
प्रयोजनजनके प्रयोजनपदमायुर्घृतमितिवत् सारोपलाक्षणिकम् ।
अत्र न स्वार्थमिति व्यपोहप्रतीतिः ।
चित्रकर्मसु इत्यादि ।
अनयोर्वर्णगुणपदश्लेषः न ब्राह्मणआदिषु न प्रजासु इति व्यपोहप्रतीतिः ।
–उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ।
यच्चासकृदसम्भाव्यं सत्यपि प्रश्न उत्तरम् ॥ विस्स्द्_१०।८२ ॥
टीका
विज्ञप्रिया:
(वि, ध) द्विविधोत्तरालङ्कारमाह—उत्तरमिति ।
उन्नय उन्नयनं व्यञ्जना ।
यच्छेति ।
असकृदित्यस्योभयत्रान्वयः ।
सत्यप्यसकृत् प्रश्रे ऽसम्भाव्यं विलक्षणत्वेन सहसा अप्रतीयमानमसकृदुत्तरमित्यर्थः ।
लोचना:
(लो, ऊ) उत्तरम् उत्तराख्यमलङ्करणम् ।
असकृदित्यनेन प्रश्रपूर्वस्यासम्भवोत्तरस्य सकृद् निर्देशे न चारुत्वम् ।
यथा मम–
“वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः ।
अहमेकाकिनी बाला तवेह वसतिः कुतः” ॥
टीका
विज्ञप्रिया:
(वि, न) वीक्षितुमिति ।
स्वयं दूत्या उक्तिरियम् ।
वाच्यार्थे श्वश्र्वाः वीक्षणासामर्थ्यप्रदर्शनं तव रन्धनभोजनस्थले ऽपि गमनासम्भावनाप्रदर्शनार्थम् ।
अत्र निषेधाभावादाक्षेपालङ्कारो ऽपि बोध्यः ।
अनेन पथिकस्य वसतियाचनं प्रतीयते ।
“का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही ।
किं सोक्खं सुकलत्तं किं दुग्गोज्झं खलो लोओ” ॥
टीका
विज्ञप्रिया:
(वि, प) द्वितीयमुत्तरमाह—विषमेति ।
“का विषमा दैवगतिः किं लब्धव्यं जनो गुणग्राही ।
कि सौख्यम्, सुकलत्रम्, कि दुर्ग्राह्यं खलो लोकः ॥
“इति सं दृ ।
दैवगत्यादिवैषम्यादीनां वैलक्षण्येन सहसार्थतो ऽप्रतीयमानत्वात्तत्रैव प्रतीतिविश्रान्तेरिति भावः ।
लोचना:
(लो, ऋ) केति ।
“का विषमा दैवगतिः किं लब्धव्यं जनो गुणग्राही ।
कि सौख्यं सुकलत्रं किं दुर्ग्रह्यं खलो लोकः” ॥
अत्रान्यव्यपोहे तात्पर्याभावात्परिसङ्ख्यातो भेदः ।
न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् ।
न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।
टीका
विज्ञप्रिया:
(वि, फ) प्रश्नं प्रत्यजनकत्वादिति ।
इदं च ज्ञापकहेतीः काव्यलिङ्गत्वाभावत्वकथनं प्रागेवार्थान्तरन्यासविचारे स्मर्तव्यम् ।
परं प्रश्नज्ञापकत्वे उत्तरालङ्कारेण बाधनान्न तत्र काव्यलिङ्गत्वावकाशः ।
लोचना:
(लो, ॠ) अन्यव्यपोहे तात्पर्य्याभावात्, किन्तु पूर्वजनाभिसम्बन्धस्य दैवगत्यादेर्विषमत्वस्य ख्यपनमात्रस्य परिगतत्वादित्यर्थः ।
एवमुत्तरालङ्कारस्य विषयप्रकारस्यालङ्कारान्तरविवेकलाघवात् पश्चाद् भिनत्ति—नचेति ।
दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते ।
टीका
विज्ञप्रिया:
(वि, ब) अर्थापत्त्यलङ्कारमाह–दण्डापूपिकयेति दण्डापूपिका न्यायविशेषः ।
तञ्च स्वयमेव दर्शयिष्यति ।
तन्न्यायेनान्यार्थस्तानुक्तापरार्थस्यागमो व्यञ्जनेत्यर्थः ।
तन्न्यायश्च शब्दश्लेषाल्लभ्यो बोध्यः ।
अन्यथा समासोक्त्यप्रस्तुतप्रशं सादावपि तत्प्रसक्तेः ।
“मूषिकेण दण्डो भक्षित” इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका ।
टीका
विज्ञप्रिया:
(वि, भ) तन्न्यायं दर्शयति—मूषिकेणेति ।
दण्डो ऽत्र तत्तत्स्थलीतो ऽपूकध्याकर्षणदण्डः ।
अपूपः पिष्टकम् ।
तद्दण्डभक्षणं तत् पिष्टकगन्धात् ।
तथा तत् सहचरितपिष्टकभक्षणमावश्यकमतो मूषिकेण दण्डो भक्षित इत्यनेनार्थात् केनाप्युक्तेनेति शेषः ।
इति नियतसमानेति ।
इति यत् नियतं तस्य समानन्यायादर्थान्तरमुक्तभिन्नोर्थ आपतति प्रतीयत इत्यर्थः ।
तन्न्यायलभ्यत्वे द्वैविध्यं दर्शयतिक्वचिदिति ।
लोचना:
(लो, ऌ) कन् प्रत्ययेन दण्डापूपवत् दण्डापूपिका, तथाविधन्यायोपि दण्डापूपिका ।
येन केन विधिना च वस्त्वन्तरस्यागमोर्ऽथादापतनं सिद्धिरिति यावत् ।
एतदेव दर्शयति—मृषिकेणेति ।
अर्थादापतति ।
तथाहि येन खलु मूषिकेणापूपसहचरितो दण्डो भक्षितस्तेन कथमपूपः परित्यक्त इति तथेहापि बोद्धव्यम् ।
तस्मात् यत्र प्रतिसदृशन्यायाद् अर्थान्तरानुगमस्तत्रायमलङ्कार इत्यर्थः ।
अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ ।
क्रमेणोदाहरणम्–
“हारो ऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः” ॥
टीका
विज्ञप्रिया:
(वि, म) तत्र प्राकरणिकादप्राकरणिकार्थस्य तन्न्यायगम्यत्वं दर्शयतिहारोयमिति ।
लुठतीति ।
स्तनमण्डलावज्ञाधीनाङ्गपरावृत्तिरूपगतिविशेषेण तिष्ठतीत्यर्थः ।
इयमवस्थावज्ञास्थितिरूपा ।
के वयमिति ।
स्मराकिङ्कराणामियमवस्था ।
स्मरकिङ्कराणामस्माकमित्येवं ज्ञेयत्वात् सुतरां लुठनमित्यर्थः ।
अत्रालङ्काराधीनसौन्दर्यवर्णनस्य प्रक्रान्तत्वान्मुक्ताः प्राकरणिक्यः ।
अत्र के वयमित्यनेन तन्न्यायलाभः ।
लोचना:
(लो, ए) मुक्ता मौक्तिकानि प्राप्तनिः श्रेयसश्च ।
एवं मुक्तानां नारीणां स्तनमणअडललुठनेन पूर्वन्यायात् स्मरकिङ्कराणामपीत्यर्थः ।
“विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरताम् ।
अतितप्तमयो ऽपि मार्दवं भजते कैव कथा शरीरिणाम्” ॥
टीका
विज्ञप्रिया:
(वि, य) अप्राकरणिकात् प्राकरणिकार्थलाभमाह—विललापेति ।
स राजा अजः सहजां स्वाभाविकीम्, अत्रायो ऽप्राकरणिकम् ।
ततः प्राकरणिकाजस्य भार्दवलाभः ।
कैव कथेत्यादिशब्दाच्च तन्न्यायलाभः ।
अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते-“हारो ऽयम्-” इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।
टीका
विज्ञप्रिया:
(वि, र) श्लेषमूलत्वे इति ।
हारोयमित्यादौ मुक्तापदं स्मरस्याकिङ्गरमुक्तरूपेर्ऽथे मौक्तिके च श्लिष्टम् ।
लुठतीति पदं च सावज्ञस्थितिरूपे आलिङ्गने चार्थे श्लिष्टम् ।
विललापेत्यादौ च तप्तपदमग्निसंयोगे विरहदुः खे च श्लिष्टम् ।
मार्दवपदं च कोमलत्वे कातरत्वे चश्लिष्टम् ।
यथा हारोयमित्यादिपदाद् विललापेत्यादिश्लोकस्यापि परिग्रहः ।
नचेदमिति ।
हारोयमित्यत्र स्तनसङ्गिहारलुठनेन स्तनसङ्गिकामुकलुठनस्य विललापेत्यादौ चाभितापेन मार्दवस्यानुमेयत्वप्रसक्तेः ।
समानन्यायस्येति ।
दण्डापूपिकान्यायस्येत्यर्थः ।
सम्बन्धरूपत्वाभावात् व्याप्तिरूपसम्बन्धरूपत्वाभावात् ।
यद्यपि स्तनसङ्गित्वलल्लुठनयोरमितप्तत्वमार्दवयोश्च व्याप्तिरस्ति, तथा न्यायस्य पुरः स्फूर्तिकत्वात् साध्यहेतुभावेन निर्देशाभावाच्च नानुमानमित्याभिप्रायः ।
लोचना:
(लो, ऐ) सम्बन्धो ऽविनाभावः ।
नचेयं शास्त्रीयार्थापत्तिः ।
तस्य हि पीनो देवदत्तो दिवा न भुङ्क्ते पीनत्वभोजनादिकयोरविनाभाव इति भावः ।
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ॥ विस्स्द्_१०।८३ ॥
टीका
विज्ञप्रिया:
(वि, ल) विकल्पालङ्कारमाह–विकल्प इति ।
कोटिद्वये समानत्वं तुल्यबलता ।
चातुरी चालङ्कारान्तरघटितरूपा ।
अत एव अस्याः सर्गविधौ इत्यत्र चन्द्रमदनयोः प्रजापतित्वविकल्पे ऽप्यलङ्कारान्तराघटितत्वान्न विकल्पालङ्कारः ।
यथा–
“नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा” ।
अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात् सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः ।
तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् ।
चातुर्यं चात्रौपम्यगर्भत्वेन ।
एवं “कर्णपूरीक्रियन्ताम्” इत्यत्रापि
टीका
विज्ञप्रिया:
(वि, व) नमयन्त्वित्यादिकं न श्लोकः, किन्तु जेतृनृपतेर्जेतव्यनृपतिषु जिज्ञासावाक्यमात्रमिदम् ।
प्रणिपातार्थं ते राजानः शिरांसि वा नमयन्तु युद्धार्थं धनुर्वा नमयन्तु इत्यर्थः ।
तथा च भमाज्ञा चाकर्णपूरीक्रियतां कर्णं पूरयित्वा श्रूयतां युद्धार्थं मौर्वो वाकर्णपर्यन्तं नीयतामित्यर्थः ।
अत्र विरोधं ग्राहयितुमाह—अत्र धनुषामिति ।
सन्धिविग्रहोपलक्षणत्वात्तद्वोधकत्वादित्थं विरोधं दर्शयित्वा अत्रेच्छाविकल्पत्वं दर्शयति–स चेति ।
इच्छाया एकपक्षग्रहणे पर्याप्तेः ।
तुल्यबलत्वे एव इच्छाविकल्पसम्भवात् ।
तुल्यबलत्वं चात्रेति ।
द्वयोरिति ।
द्वयोः सकाशादित्यर्थः ।
तद्द्वयहेतुकयोः चात्महितकारित्वेन द्वयोस्तुल्यबलत्वम् ।
चातुरीयुतत्वं दर्शयति—चातुर्यं चेति ।
औपम्यमुपमा ।
शिरो धनुषोर्नमनसादृश्यादाज्ञामौर्व्योश्च कर्णपूरीकरणसादृश्यादुपम् ।
इदमुपलक्षणं द्वयोरेकक्रियान्वयेन तुल्ययोग्यता बोध्या ।
लोचना:
(लो, ओ) तुल्यबलयोरेकस्मिन् कार्ये नियोजितुमर्हयोः, विरोधः एकदा निर्वाहयितुमशक्यत्वात् ।
स एककक्षाश्रयणपर्यवसानादविरोध एव ।
एवं–
“युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः” ।
अत्र श्लेषावष्टम्भेन चारुत्वम् ।
लोचना:
(लो, औ) श्लेषश्च कुरुतामित्यत्र द्विवचनैकवचनयोरेकरूपत्वात् ।
अत्र नेत्रवर्ष्मणोर्द्वयोरपि चार्तिशमने समर्थत्वात् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“दीयतामजितं वित्तं देवाय ब्राह्मणाय वा” ।
टीका
विज्ञप्रिया:
(वि, श) चातुरीयुतस्य व्यावृत्तिं दर्शयति—दीयतामिति ।
अत्र विरोधप्रसक्तिरनवधानमूलिकैवेति मन्यामहे—एकदैव देवब्राह्मणेभ्यो वित्तदानसम्भवेन विरोधाभावात् ।
दवायोवेत्यादिनियमगर्भत्वेन एकव्यक्तिकवित्ताभिप्रायेण वा विरोधो दर्शित इति वा ।
इत्यत्र चातुर्याभावान्नायमलङ्कारः ।
समुच्चयो ऽयमेकस्मिन् सति कार्यस्य साधके ।
खलेकपोतिकान्यायात्तत्करः स्यात्परो ऽपि चेत् ॥ विस्स्द्_१०।८४ ॥
गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये ।
टीका
विज्ञप्रिया:
(वि, ष) चतुर्विदं समुच्चयालङ्कारमाह—समुच्चयोयमिति ।
धान्यमर्दनखले कपोतानामेकदापतनं तन्न्यायस्यन्न्यायादित्यर्थः ।
अन्यद् भेदत्रयमाह—गुणआविति ।
गुणद्वयं वा क्रियाद्वयं वा गुणक्रियाद्वयं वा यदि युगपद् वर्णितं स्यादित्यर्तः ।
लोचना:
(लो, अ) समुच्चय इति ।
तृतीयपादेन समाधेर्व्यवच्छेदः ।
तच्च वृत्तावेव सुव्यक्तम् ।
तत्करः तस्य कार्यस्य साधकः ।
यथा मम–
“हंहो धीरसमिर ! हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।
प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव- न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः” ॥
टीका
विज्ञप्रिया:
(वि, स) हंहो धीरेति । मन्दस्यैव धैर्यवत्त्वेनाकार्यनिवृत्तिरूपेण सम्बोधनम् ।
चन्दनेति ।
चन्दनसम्बन्धात् सुगन्धेरेव महाजनजन्यत्वेन सम्बोधनम् ।
दाक्षिण्यमिति ।
दक्षिणदिग्भवस्यैव जगद्विलक्षणविचक्षणत्वमुक्तम् ।
परिचय इति ।
जलसम्बन्धे शीतलस्यैव पुण्यनदीसम्बन्धेन महत्त्वमुक्तम् ।
ईदृशस्त्वमिति विरहे मे मम प्रत्यङ्गं दावाग्निवद् दहसि चेत् तदा मत्त उन्मत्तो मलिनात्मकः कुष्णवर्ण एव कुटिलस्वभावः ।
वनचरत्वेन च लोकव्यवहारानभिज्ञः कोकिलः किं वक्ष्यते ? स सुतरां धक्ष्यतीत्यर्थः ।
लोचना:
(लो, आ) धीरः वंशेन विधिना पाण्डित्यच्च, क्ष्माभृत्पर्वतः भूधरणक्षमः कश्चित् महापुरुषः ।
दाक्षिण्यं दक्षिणा दिक् जन्मसरलता च ।
मलिनात्मकः श्यामः कुटिलाशयश्च ।
हेतूनां धीरत्वादीनां सन्तः शोभनाः ।
अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् ।
अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः ।
अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः ।
टीका
विज्ञप्रिया:
(वि, ह) अत्रेति ।
अदाहकत्वे इत्येव पाठः ।
दाहकत्वे इति प्रामादिक एव पाठः ।
चन्दनक्षमेत्यादीनामदाहकहेतुत्वं श्लोकव्याख्यायामेव व्याख्यातम् ।
चतुर्थपाद इति ।
दाहं प्रति हेतूनां मत्तत्वादीनामित्यर्थः ।
सत्त्वासत्त्वे उपादेयत्वानुपादेयत्वे ।
सदसद्योगो यथा–
“शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभूर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे” ॥
टीका
विज्ञप्रिया:
(वि, क) शशीति ।
एते सप्त धूसरत्वविशिष्टशय्यादयः सप्त मनसि शल्यानीत्यर्थः ।
अनौचित्यदर्शनेन शल्यवद् दुः खदायित्वात् ।
तेष्वनौचित्यं दर्शयति—शशीति ।
उज्ज्वलमूर्तेस्तस्य दिवसधूसरत्वमनुचितम् ।
एवं गलितयौवनायाः कामवत्त्वं कामिन्या गलितयौवनत्वं वा अनुचितम् ।
एवं सरसो वारिजशून्यत्वम् ।
शोभनाकृतेर्मूर्खस्याक्षरेण विद्यया शून्यत्वम् ।
प्रभोर्धनपरायणत्वम्, धनपरायण जनस्य प्रभुत्वं वा ।
सज्जनस्य सततदुर्गतत्वं सततदुर्गतस्य सज्जनत्वं वा, नृपाङ्गण गतस्य खलत्वम्, खलस्य नृपाङागणगतत्वं वा अनुचितामित्यर्थः ।
अत्र शोच्यानां विधेयानां सदसत्त्ववशात् सदसद्योगः ।
तत्र दैवाधानदोषेण शोच्यस्य सत्त्वं स्वाधीनदोषेण शोच्यस्यासत्त्वम् ।
तत्र शशिनो धूसरत्वम्, कामिन्या गलितयौवनत्वस्य विधेयत्वपक्षे गलितयौवनात्वम्, सरसो वारिजशून्यत्वम्, स्वाकृतेरनक्षरमूर्खत्वम्, सज्जनस्य दुर्गतत्वं तदैव दोषात् शोच्यत्वेन शोभनम् ।
गलितयौवनायां कामवत्त्वस्य विधेयत्वपक्षे विधेयस्य तस्य प्रभोर्धनपरायणस्य धनपरायणे प्रभुत्वस्य वा, विधेयस्य खले नृपाङ्गणगतत्वस्य नृपाङ्गणगते खलत्वस्य वा बिधेयस्य स्वाधीनदोषेण शोच्यत्वाद शोभनत्वमिति विधेयानामेव सदसत्त्वम् ।
इह केचिदाहुः–“शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः” इति अन्ये तु–“शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः” ।
अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् ।
“मनसि सप्तशल्यानि मे” इति सप्तानामपि शल्यत्वेनोपसंहारश्च ।
“नृपाङ्गनगतः खल” इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति ।
इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः ।
समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रे ऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः ।
टीका
विज्ञप्रिया:
(वि, ख) पूर्वोक्तश्लोकेपि विधेयानामेव तथात्वाद् भिन्नाभिप्राय ग्रन्थकृन्मनसि कृत्वापरोक्तं सदसद्योगं दर्शयति—इह केचिदिति ।
एतन्मते उद्देश्यानां विशेष्याणामेव सदसत्त्वम् ।
मतान्तरमाह—अन्ये त्विति ।
एतन्मते उद्देश्यविधेययोर्विशेष्यविशेषणयोः सदसतोर्योगः ।
तेषां मते तथात्वमेव विच्छित्तिविशेषाच्चमत्कारस्तदृर्शयति—अत्रहीति ।
उद्देश्ये सत्त्वासत्त्वाभ्यां तु तेषां मतेन चमत्कार इत्यर्थः ।
तेषां सदसत्त्वे एव तावदलङ्कारः ।
प्रत्युत प्रथमपक्षे तादृशनिर्देशः क्रमभङ्गमावतीत्यर्थः ।
(वि, ख) तदेव ग्राहयति—सर्वत्रेति ।
शसी धूसर इत्याद्युद्देश्यविधेयार्थकसर्ववाक्ये इत्यर्थः, अयं च दोषः, खले नृपाङ्गणगत्वस्य विधेयता गतत्वस्य विधेयतापक्ष एव नृपाङ्गणगतदे खलत्वस्य विधयता पक्षेतूद्देश्यः शोभन एवेति नैष दोष इति बोध्यम् ।
एककारणादेव सुकरे कार्ये दैवात् कारणान्तराऽगमनरूपात् समाध्यलङ्कारादस्य भेदमाह—इह च खलेति ।
एकस्यैवेति ।
कार्यं प्रति एकस्यैव समग्रे साधकत्वे ऽसमग्रकारणवृत्तिर्न साधकत्वे इत्यर्थः ।
लोचना:
(लो, इ) द्वितीयपक्षे सुगतिं दर्शयति ।
विशेष्यस्य शशिकामिनीप्रभृतेः सूत्रस्य तृतीयपादं विशदयति–इह चेति ।
काकतालीनन्यायेनेति ।
“अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।
मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः” ॥
अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः ।
टीका
विज्ञप्रिया:
(वि, ग) गुणयोः क्रिययोश्च योगपद्यरूपं समुच्चयमाह—अरुणे चेति ।
अत्र चकारौ यौगपद्यबोधकौ ।
तौ च ययोरुत्तरभूतौ तयोर्यौगपद्यबोधकौ इत्यत आहअत्राद्ये इति ।
उभयोर्यौगपद्ये यथा–
“कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः ।
पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः” ॥
टीका
विज्ञप्रिया:
(वि, घ) कलुषं चेति ।
अहितेषु विपक्षेषु, महीपतीन्द्रेति सम्बोधनम् ।
अत्र पूर्वार्धे गुणोत्तरं चकारः, पारर्धे तु क्रियात्तरमित्यनयोर्यौगपद्यम् ।
धुनोति चेति ।
एकाधिकरणे रणस्थलरूपे ।
व्यधिकरण्येप्येष दृश्यते इति काव्यप्रकाशकृत्, यथा— “कृपाणपाणिश्च भवान् रणक्षितौ ।
रसाधुवादाश्च सुराः सुरालये” ॥
इत्यत्र रणक्षिति सुरालयरूपाधिकरणभेदः ।
“धुनोति चासिं तनुते च कीर्तिम्” ।
इत्यादावेकाधिकरणे ऽप्येष दृश्यते ।
न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः ।
टीका
विज्ञप्रिया:
(वि, ङ) “धुनोति चासिऽ; मित्युदाहरणे एकस्मिन् कर्तृकारके ऽनेकक्रियासम्बन्धादनेकक्रियास्वेककारकरूपदीपकप्रसाक्तिमाशङ्क्य निषिध्यति—न चात्रेति ।
एते गुणाक्रियायौगपद्ये ये समुच्चयप्रकारास्ते कार्यकारणयोर्यः पौर्वापर्य्यरूपः कालनियमः तद्विपर्य्ययरूपातिशयोक्तिमूला इत्यर्थः ।
दर्शितोदाहरणेषु सर्वत्रैव गुणयोः क्रिययोर्वा कार्यकारणभावसत्त्वेपि यौगपद्योक्तेः ।
दीपके तु तथात्वं नास्तीत्याह—दीपकस्येति ।
इदमुपलक्षणम्—तत्र यौगपद्यस्याप्यविवक्षणं भेदकमिति बोध्यम् ।
तथा चेत् तद्द्वयाभावे सतीति विशेषणं देयमित्यभिप्रायः ।
समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ॥ विस्स्द्_१०।८५ ॥
यथा–
“मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्” ॥
टीका
विज्ञप्रिया:
(वि, च) समाध्यलङ्कारमाह—समाधिरिति ।
एककारणेनैव सुकरे कार्ये दैवात् कारणरूपवस्त्वन्तरोपस्थितेरित्यर्थः ।
मानमस्या इति ।
घटगर्जितस्योद्दीपकत्वेन मानभङ्गे तदपि कारणान्तरं दैवादुपस्थितमित्यर्थः ।
प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ।
तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ॥ विस्स्द्_१०।८६ ॥
टीका
विज्ञप्रिया:
(वि, छ) प्रत्यनीकालङ्कारमाह–प्रत्यनीकमिति ।
रिपोः प्रतीकारे प्रत्यपकारे ऽशक्तेन केनापि यदि तत्सम्बन्धिनो ऽन्यस्य तिरस्कारः तस्यैव रिपोरेवोत्कर्षतासाधकः, उत्कर्षपर्य्यवसायक इत्यर्थः ।
लोचना:
(लो, ई) एवं वाक्यन्यायाश्रयिणो ऽलङ्कारान् दर्शयित्वा, लोकन्यायाश्रयिणो दर्शयति—प्रत्यनीकमिति ।
अनेकं सैन्यम्, तच्चात्र स्वसामान्यस्य सम्बन्धिमात्रस्योपलक्षकम् ।
तेनाभियोज्यतया प्रतिनिधिभूतोर्थो रिपोः सम्बन्धी वर्ण्यते इति प्रत्यनीकं नामालङ्करणम् ।
तदीयस्य रिपुसम्बन्धिनः ।
तस्यैवेति रिपोरेव ।
यथा मम–
“मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् ।
इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभो हरिः” ॥
टीका
विज्ञप्रिया:
(वि, ज) मध्येनेति ।
रिपुकुम्भभेदनार्थं सिंहस्य भावना पूर्वार्धम् ।
अत्र मध्येन स्वमध्यजयात् नायिका सिंहस्य रिपुः, तत्कुचसादृश्यात् करिकुम्भौ तदीयौ ।
लोचना:
(लो, उ) इभकुम्भयोरत्र नायिकासम्बन्धिता ।
स्वसम्बन्धः कुचकुम्भसम्बन्धः सादृश्यसम्बन्धादिदं च क्वचिदनुकूलस्य वाञ्छिताचरणेपि सम्भवति ।
यथा विरह विधुरापि सततं भवतः श्वासानुहारिणी पतति इत्यादौ ।
प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ।
निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ विस्स्द्_१०।८७ ॥
टीका
विज्ञप्रिया:
(वि, झ) द्विविधं प्रतीपालङ्कारमाह—प्रसिद्धस्येति ।
प्रसिद्धस्योपमानस्य उपमेयत्वकल्पनं वा निष्फलत्वकथनं वेति द्विविधं प्रतीपमित्यर्थः ।
क्रमेण यथा–
“यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरम्” ।
इत्यादि ।
टीका
विज्ञप्रिया:
(वि, ञ) यत्त्वन्नैत्र इत्यादि ।
सादृश्यास्य प्रतियोगि उपमानम् ।
अत्र च त्वन्नेत्रस्य समानकान्तिरित्युक्त्या नेत्रकान्तेरिन्दीवरकान्तिसादृश्यप्रतियोगित्वेन निर्द्देशात्त्वन्नेत्रकान्तिरुपमानम् ।
इन्दीवरकान्तेश्चोपमानत्वेन प्रसिद्धाया उपमेयत्वकल्पनम् ।
“तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिः; तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ? ।
धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः” ॥
अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम् ।
टीका
विज्ञप्रिया:
(वि, ट) उपमानस्य वैफल्यमुदाहरति–तद् वक्त्रं यदीति ।
तद् वक्त्रादिसत्त्वे शशिकथादीनां मुद्रितत्वादिकं वैफल्यं पर्यवसितं बोध्यम् ।
हा इति शोचामीत्यर्थः ।
हारितं पराजयः प्राप्त इत्यर्थः ।
तच्चेदिति ।
तस्याः तत्स्मितं चेदित्यर्थः ।
का निकृष्टा ।
इत्थमुक्त्वा उपसंहरति—कि वा बह्निति ।
वेधसः सर्गक्रमः सृष्टिक्रमः पुनरुक्तवस्तुविमुखः, पुनरुक्तं यत्सादृशवस्त्वन्तरकल्पनं तद्विमुखः ।
तत्र वैफल्यरूपदोषदर्शनविमुख इत्यर्थः ।
विमुखपदस्यैवेदृशार्थपरत्वं बोध्यम् ।
उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ।
कल्पिते ऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥ विस्स्द्_१०।८८ ॥
टीका
विज्ञप्रिया:
(वि, ठ) क्वचिदुपमानस्योपमानत्वकल्पनेपि काव्यप्रकाशकृदुक्तमिमलङ्कारं लक्षयति—उक्त्वा चात्यन्तमिति ।
अत्युत्कृष्टस्य वस्तुनो ऽत्यन्तमुत्कर्षमुक्त्वापि उपमानत्वे ऽपि कल्पिते निर्दिष्ट इत्यर्थः ।
सच निर्देशः समभिव्याहारविशयवशात्तन्निन्दापर्यवसायको बोध्यः ।
अन्यथोपमानस्योपमानत्वेन निर्देशेनानुगुणस्यैव प्रतीत्या प्रतीपत्वस्यैवासम्भवात् ।
अतिसुन्दरश्चन्द्र इव मुखमित्युपमायामतिव्याप्तेश्च ।
यथा–
“अहमेव गुरुः सुदारुणानामिति हालाहल ! तात ! मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भुवने ऽस्मिन् वचनानि दुर्जनानाम्” ॥
टीका
विज्ञप्रिया:
(वि, ड) अहमेवेति ।
हे हालाहल, हे तात, अहमेव सुदारुणानां गुरुः प्रधानम् ।
इत्येवं दृप्यो मा स्म, एवं दर्पं मा कुरु इत्यर्थः ।
कुत इत्यत्राह—नन्विति ।
ननु भो अस्मिन् भुवने दुर्जनानां भूयो बहूनि वचनानि अपि भवादृशानि भवत्तुल्यानि सन्तीत्यर्थः ।
भूय इति सान्तक्रियाविशेषणम् ।
तद्भूयस्त्वेन वचनानामेव भूयस्त्वं बोध्यम् ।
अत्र प्रथमपादेनोत्कर्षातिशय उक्तः ।
तदनुक्तौ तु नायमलङ्कारः ।
यथा–
“ब्रह्मेव ब्राह्मणो वदति” इत्यादि ।
टीका
विज्ञप्रिया:
(वि, ढ) अत्र भवदिव दृश्यन्ते यानीत्यनेन हलाहलस्योपमानत्वेनैव निर्देशः ।
दर्पनिषेधसमभिव्याहाराच्च तन्निन्दापर्यवसायकः ।
अत्रोक्तमत्यन्तमुक्तर्षं घटयति—प्रथमपादेनेति ।
सुदारुणान्तरापेक्षया तेन गुरुत्वकथनात् तद्विशेषणफलमाह—तदनुक्ताविति ।
नायमलङ्कारः, किन्तु उपमा एवेत्यर्थः ।
तद् दर्शयति–यथा ब्रह्मेति ।
ब्रह्मा यथा वेदं वदति तथा ब्राह्मणा इत्यर्थः ।
यद्यपि वेदस्यातिवक्ता ब्रह्मैवेति ब्राह्मणस्यात्यन्तोत्कर्षकथनेप्युपमैव नायमलङ्कारस्तथापि प्रतीपघटनार्थं समभिव्याहरविशेषादुपमानस्य निन्दापर्य्यवसायकत्वं निर्देशस्य विशेषणं दत्तमित्यतस्तद्वारणमिति प्रागेवोक्तं बोध्यम् ।
मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ।
अत्र समानलक्षणं वस्तु क्वचिदागन्तुकम् ।
टीका
विज्ञप्रिया:
(वि, ण) मीलितालङ्कारमाह ।
मीलितमिति ।
गुप्तिराच्छादनम् ।
तुल्यलक्ष्मणा तुल्यचिह्नेन ।
आगन्तुकमतदीयम्, सहजं तद्वृत्ति ।
क्रमेण यथा–
“लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षः स्थले हरेः ।
ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया” ॥
टीका
विज्ञप्रिया:
(वि, त) लक्ष्मीवक्षोजेति ।
हरेर्वक्षः स्थले लक्ष्मीस्तनकस्तूरीचिह्नं भारत्या नालक्षि, यतो नीलोत्पलभिया हरेरेव भासा ग्रस्तमाच्छादितमित्यर्थः ।
अत्र भगवतः श्यामा कान्तिः सहजा ।
“सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि ।
कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम्” ॥
टीका
विज्ञप्रिया:
(वि, थ) आगन्तुकलक्ष्मणा त्वाह—सदैवेति ।
शोण उपलो मणिः खचितो यत्र तादृशकुण्डलस्य मयूखैः सदैवारुणीकृतानि यस्यां पुरि कामिनीनां कोपोपरक्तान्यपि मुखानि यूनां कोपशङ्कां न विदधुरित्यर्थः ।
अत्र माणिक्यकुण्डलस्यारुणिमा मेखे आगन्तुकः ।
सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ॥ विस्स्द्_१०।८९ ॥
टीका
विज्ञप्रिया:
(वि, द) सामान्यमिति ।
अन्यतातात्म्यमन्यभेदाग्रहो यदि वर्णित इत्यर्थः ।
रूपकभ्रान्तिमतोस्तु अभेदाग्रहादेवाहार्या वेति ततो भेदः ।
अत एवोदाहरणे व्याख्यास्यति—भेदाग्रह इति ।
यथा–
“मल्लिकाचितधम्मिल्लाश्चारुचन्दनचचिताः ।
अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः” ॥
टीका
विज्ञप्रिया:
(वि, ध) मल्लिकेति ।
अविभाव्या ज्योत्स्नातो ऽगृहीतभेदा ।
मीलिते उत्कृष्टगुणेन निकृश्टगुणस्य तिरोधानम्, इह तूभयोस्तुल्यगुणतया भेदाग्रहः ।
तद्गुणः स्वगुणत्यगादत्युत्कृष्टगुणग्रहः ।
यथा–
“जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः” ॥
टीका
विज्ञप्रिया:
(वि, न) तद्रुणालङ्कारमाह–तद्रुण इति ।
अत्युत्कृष्टस्य गुणस्य ग्रहो गुणवहणम्म् ।
जगादेति ।
बलभद्रवदनच्छद्मनो वदनव्याजस्य पद्मस्य पर्यन्तपातिनो मुधुलिहो भ्रमरान् उदंशूनाम् उद्रतांशूनां दशानानां दन्तानामंशुभिः श्वैत्यं नयन् जगादेत्यर्थः ।
अत्र भ्रमराणां स्वगुणत्यागः श्वैत्यप्रापणादित्यर्थः ।
मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः ।
टीका
विज्ञप्रिया:
(वि, प) मीलितालङ्कारादस्य विशेषमाह—मीलिते इति ।
प्रकृतस्य वस्तुन इति ।
प्रकृतस्य यद्वस्तुनो गुणस्वरूपं तस्याच्छादनमग्रह इत्यर्थः ।
आक्रान्तता स्वाश्रयीकरणम् ।
तद्रूपाननुहारस्तु हेतौ सत्यष्यतद्गुणः ॥ विस्स्द्_१०।९० ॥
टीका
विज्ञप्रिया:
(वि, फ) अतद्रुणालङ्कारमाह—तद्रूपेति ।
अवनुहारो ऽग्रहणम् ।
हेतो ग्रहणहेतौ ।
यथा–
“हन्त ! सान्द्रेण रागेण भृते ऽपि हृदये मम ।
गुणगौर ! निषण्णो ऽपि कथं नाम न रज्यसि” ॥
टीका
विज्ञप्रिया:
(वि, ब) हन्त सान्द्रेति ।
अननुरक्तं नायकं प्रति अनुरक्ताया नायिकाया उत्किरियम् ।
गुणगौरिति ।
गुणेन गौर इति, गुणो गौरो यस्येति समासेन च सम्बोधनम् ।
हृदये निषण्णो ऽपीत्यन्वयः ।
रागपदरज्यसिपदे रक्तिमानुरागयोः श्लिष्टे ।
अत्र रागभृतिहृदये निषण्णत्वं रक्तहेतुः ।
यथा वा–
“गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहम्स ! तव सैव शुभ्रता चीयते न च न चापचीयते” ॥
पूर्वत्रातिरक्तहृदयसम्पर्कात् प्राप्तवदपि गुणगौरशब्दवाच्यस्य नायकस्य रक्तत्वं न निष्पिन्नम्, उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः सम्पर्के ऽपि न तद्रूपता ।
अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषोक्तेर्भेदः, वर्णान्तरोत्पत्त्यभावाच्च विषमात् ।
टीका
विज्ञप्रिया:
(वि, भ) उदाहृतश्लोकद्वयेपि एतद्गुणाग्रहणमुदाहरणद्वयवैलक्ष्यण्यं चाहपूर्वत्रेति ।
अतिरिक्तहृदयं रागभृतत्वेनातिरिक्तगुणं हृदयं प्राप्तवत् प्राप्तप्रायं रक्तत्वं न निष्पन्नम्, नायकस्योत्यर्थः ।
इत्थमत्र प्रकृतेन नायकस्य प्रकृतस्य हृदयस्य गुणाग्रहणं दर्शयित्वा प्रकृततो ऽप्रकृतगुणग्रहणरूपफलाभावमुत्तरश्लोके दर्शयति—उत्तरत्रेति ।
यद्यपि राजहंसोप्यप्रकृतस्तथापि सम्बोध्यत्वेनाऽपेक्षिकं तस्य प्रकृतत्वं दर्शयन्नाह—अप्रस्तुतप्रशंसायामिति ।
सति हेतौ फलाभावरूपाया विशेषोक्तेरस्य भेदमाह–अत्र चेति ।
विशेषोक्तौसामान्यत एव फलाभावः इह तु गुणग्रहणरूपफलाभावरूपो भङ्गिविशेष इति भेद इत्यर्थः ।
ननु कार्यस्य कारणविरोधिगुणवशात् कार्यस्य कारणगुणाग्रहणं विषमालङ्कारेप्यस्ति चेद् यद्यपि दर्शितोदाहरणद्वये कार्यकारणभावसत्त्वात् तादृशस्यातद्रुणस्य विषमालङ्कारत्वाविशेष इत्याह—वर्णान्तरेति ।
विषमालङ्कारे कारणविरोधिगुणान्तरोत्पत्तिरिति भेद इत्यर्थः ।
संलक्षितस्तु सूक्ष्मोर्ऽथ आकारेणेङ्गितेन वा ।
कयापि सूच्यते भह्ग्या यत्र सूक्ष्मं तदुच्यते ॥ विस्स्द्_१०।९१ ॥
टीका
विज्ञप्रिया:
(वि, म) सूक्ष्मालङ्कारमाह—संलक्षित इति ।
भङ्ग्या प्रकारविशेषेण सूच्यत इत्यर्थः ।
आकारः संस्थानम्, इङ्गितं क्रिया इत्यर्थः ।
सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः ।
अत्राकारेण यथा–
“वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख” ॥
अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् ।
टीका
विज्ञप्रिया:
(वि, य) वक्त्रस्यन्दि इति ।
काचिद् वयस्या सखी कस्याश्चिन्नायिकायाः कण्ठे वक्त्रस्यन्दिभिः स्वेदबिन्दुप्रवाहैः भिन्नं द्विधाकृतं कुङ्कुमं दृष्ट्वा तस्याः नायिकायाः पुस्त्वं रतौ पुरुषायितत्वं व्यञ्जयन्ती स्मित्वा हसित्वा तस्याः पाणौ खड्गलेखां लिलेखेत्यर्थः ।
अत्रेति ।
संलक्षितमिति ।
प्रकृतरतौ स्वेदस्य पृष्ठगामित्वेन संलक्षणम् ।
इङ्गितेन यथा–
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रापिताकूतं लीलापद्मं निमीलितम् ॥
अत्र विटस्य भ्रूविक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः ।
टीका
विज्ञप्रिया:
(वि, र) सङ्केतकालेति ।
विटं धूर्तम् उपनायकं तद्जिज्ञासार्थं सङ्केतकालमनसं ज्ञात्वा विदग्धया नायिकया हसता नेत्रार्पिताकूतं यथा स्यात्तथा लीलापद्मं निमीलितमित्यर्थः ।
कालाभिप्रायः कालजिज्ञासा भ्रूविक्षेपश्चाशाब्दोपि योग्यताबललभ्यमिङ्गितम् ।
व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ।
टीका
विज्ञप्रिया:
(वि, ल) व्याजोक्त्यलङ्कारमाह—व्याजेति ।
उद्भिन्नस्य व्यक्तीभूतस्य व्याजात् कपटेन ।
यथा–
“शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टो ऽवताद्वः शिवः” ॥
टीका
विज्ञप्रिया:
(वि, व) शैलेन्द्रेति ।
शिवो वो ऽवतात् ।
कीदृशः ।
शैलेन्द्रेण प्रतिपाद्यमानाया उत्सृज्यमानाया गिरिजाया हस्तस्य उपगूढने उपगूहनेन स्वर्शेण उल्लसद्धिः रोमाञ्चादिभिः रोमाञ्चवेपथुस्वेदैः विसंष्ठुलस्य व्यस्तस्य अखिलवैवाहिकविधेः व्यासङ्गस्य व्यापारस्य भङ्गेनाकुलः सन् आः आश्चर्थं तुहिनसम्बन्धिनो ऽचलस्य करयोः शैत्यम् इत्यूचिवान् सन् शैलान्तः पुरेण तद्रतस्त्रीभिः गौर्य्यादिमातृमण्डलेन स्वीयगणैश्च सस्मितं दृष्टः ।
नेयं प्रथमापह्नतिः, आपह्नवकारिणो विषयस्यानभिधानात् ।
द्वितीयापह्नुतेर्भेदश्च तत्प्रस्तावे दशितः ।
टीका
विज्ञप्रिया:
(वि, श) प्रथमोक्तापह्नुतितो ऽस्य भेदमाह—नेयमिति ।
अपह्नवकारिण इति ।
प्रकृतापह्नवकारी यो विषयो वस्तु स्थाप्यमानमप्रकृतं वस्तु, तस्यानभिधानादित्यर्थः ।
इदमुपलक्षणम्, अपह्नवार्थपदस्य नञादेरप्यनभिधानादिति बोद्धव्यम्, अपह्नव हेतोः श्वेतस्याभिधानाद् रोमाञ्चादेस्त्वनापह्नुतत्वादेव ।
द्वितीयापह्नुतेरिति ।
“गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन ।
यदि श्लेषेणान्यथा वान्यथयेत् साप्यपह्नुतिः"इत्युक्तलक्षणात्"काले वारिधराणाम्” इत्युदाहरणाद् द्वितीयापह्नवादित्यर्थः ।
तत्प्रस्तावे दर्शित इति ।
गोपनीयार्थस्य मोपनकृता प्रथममभिहितत्वाच्च व्याजोक्तेरिति लिखनेन दर्शित इत्यर्थः ।
इह तु गोपनीयार्थस्य रोमाञ्चादेः शिवेन प्रथममनभिधानात् ।
स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ॥ विस्स्द्_१०।९२ ॥
दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः ।
टीका
विज्ञप्रिया:
(वि, ष) स्वभावोक्त्यलङ्कारमाह—स्वभावोक्तिरिति ।
दुरूहार्थेत्यस्यात्यन्तदुरूहस्यार्थस्येति नार्थः ।
किन्त्वर्थस्य दुरूहा क्रिया इत्येवमन्वयः ।
अर्थश्च डिम्भादिरित्येवमेव व्याचष्टे—दुरूहयोरिति ।
दुरूहयोः स्वयोरित्यन्वयः ।
दुरूहपदार्थमाह—कविमात्रेति ।
कविभिन्नावेद्ययोरित्यर्थः ।
अर्थपदं डिम्भादिपरतया व्याचष्टे—अर्थस्येति ।
डिम्भः शिशुः ।
आदिपदादप्रकृष्टज्ञानमात्रपरिग्रहः ।
तदे काश्रययोस्तन्मात्रनिष्ठयोः ।
यथा मम–
“लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण ।
स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान् द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः” ॥
टीका
विज्ञप्रिया:
(वि, स) लाङ्गूलेनेति ।
अरुणे उच्छूने स्फारिते चक्षुषी यस्या तादृशः एष तरक्षुः व्याघ्रः प्रतिबलं प्रतिपक्षसमूहं प्रविष्टः ।
कीदृशः क्षितितलमसकृद् लाङ्गूलेनाभिहत्य अग्रपद्भ्यां दाहयन् विलिखन् ।
अथानन्तरं आत्मन्येवावलीय कुञ्चिताङ्गो भूत्वा द्रुतं गगनं विक्रमेण च प्रोत्पतन् तथा स्फूर्जता विस्फुरता फूत्कारेण घोरः तथास्विलान् जन्तून् प्रतिदिशं द्रावयन् तथा कोपाविष्टो ऽरुणोत्फुल्लचक्षुश्च ।
अत्रारुणेत्यादे रूपस्य क्रियाणां च वर्णनम् ।
अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥ विस्स्द्_१०।९३ ॥
टीका
विज्ञप्रिया:
(वि, ह) भाविकालङ्कारमाह—अद्भुतस्येति ।
अथेतिवेत्यर्थः ।
भूतस्य भविष्यतो वा अद्भुतस्य पदार्थस्य यत् प्रत्यक्षायमाणत्वं प्रत्यक्षेण दृश्यमानत्वं वर्णितं तदित्यर्थः ।
यथा–
“मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ” ॥
टीका
विज्ञप्रिया:
(वि, क) मुनिरिति ।
एकचलुके पीयमानसमुद्ररूपे गण्डुषे मत्स्यकच्छपावीश्वारावतारौ भूतभाविनौ योगबलेन दृष्टौ ।
एतदर्थमेव योगीन्द्रपदोपदानम् ।
यथा वा–
“आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्” ॥
टीका
विज्ञप्रिया:
(वि, ख) आसीदिति ।
यौवने ऽञ्जनाभावे ऽपि अञ्जनशोभासत्त्वादासीदिति ।
भूषणेन भविष्यन्त्याः शोभाया तद्विनापि दर्शनाद् भाविभूषणेति ।
न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् ।
टीका
विज्ञप्रिया:
(वि, ग) ननु भूतभाविनोः प्रत्यक्षायोग्ययोरपि प्रत्यक्षायमाणत्वं शीघ्रप्रतीतिविषयत्वात् ।
तथाचेदृशार्थस्य विषयत्वेन शब्दबोधितोपि सोर्थो विशद एव ।
तथा चार्थवैमल्यं प्रसादो यः परोक्तः प्रसादगुणः स एवायं तद्भिन्नवैचित्र्यविशेषाभावाद् भाविकनामालङ्कारो नास्तीत्याशङ्कते—न चायमिति ।
समाधत्ते—भूतभाविनोरिति ।
तयोः प्रत्यक्षायमाणत्वे ग्राह्ये तस्य प्रत्यक्षायमाणत्वस्याहेतुकत्वादहेतुकत्वस्फुरणादित्यर्थः ।
तथा चाहेतुकत्वस्फुरणवैशिष्ट्यरूपवैचित्र्यमेव भाविकालङ्कार इत्युक्तम् ।
न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् ।
टीका
विज्ञप्रिया:
(वि, घ) नन्वहेतुकत्वेन हेत्वनुसन्धानं विस्मय एव, तथा चाद्भुतरस एवायमित्याशङ्कते—नचाद्भुत इति ।
समाधत्ते—विस्मयं प्रतीति ।
अहेतुकत्वज्ञानविशिष्टं भाविभूतवस्तुप्रत्यक्षायमाणत्वमेवायमलङ्कारः ।
तस्य विस्मयं प्रति हेतुत्वादेव, नतु विस्मयरूपत्वादित्यर्थः ।
तथा नचात्र रसो ऽद्भुतोलङ्कारस्तु भाविकमिति भावः ।
न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् ।
न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् ।
टीका
विज्ञप्रिया:
(वि, ङ) नायिकायाः रूपातिशयप्रतीत्या उक्तचतुर्विधातिशयोक्तितो ऽतिरिक्तप्रकारातिशयोक्तिरेवेयं स्यादित्याशङ्कते—नचातिशयेति ।
समाधत्ते—अध्यवसायेति ।
सर्वविधातिशयोक्तय एवाध्यवसायघटिताः ।
अत्र तदभावात्तद्रूपातिशयबोधमात्रेण तदीयप्रकारान्तरकल्पनानौचित्यादिति भावः ।
भूते भाविनि रूपे भूतभावित्वेन ज्ञापनात् भ्रान्तिमत्त्वमाशङ्कते–न च भ्रान्तीति ।
समाधत्ते—भूतेति ।
प्रकृतस्यान्यतादात्म्यभ्रम एव भ्रान्तिमान्न चात्राभूतभाविपदार्थाः प्रकृतास्तत्र भूतभाविताविभ्रमः ।
किन्तु भूतभाविपदार्थं प्रकृत्य तत्रैव तथात्वप्रकाशनादित्यर्थः ।
रूपविशेषवन्नायिकामात्रधर्मयोरत्र नयनाकृत्योर्वर्णितत्वात् ।
न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्; अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषो ऽस्तीति ।
यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः ।
टीका
विज्ञप्रिया:
(वि, च) स्वभावोक्तिमाशङ्कते—नचेति ।
समाधत्ते—तस्या इति ।
लौकिकं वस्तु डिम्भव्याघ्रादि तद्गतस्य सूक्ष्मधर्मात्मकस्वभावस्य कविभिन्नजनावेद्यतन्मात्रवृत्तिधर्मरूपस्य तत्र यथा वर्णितं तस्य स्वरूपमित्यर्थः ।
अत्र नूतनतेत्याह—अस्यत्विति ।
तदपेक्षया अत्रविलक्षणभङ्गिरस्तीत्यर्थः ।
ननु “अस्फुटाक्षरवागासीदेष बालो विलोक्यते ।
दरदन्ताङ्कुरश्रीकहासो भावी च दृश्यते” ॥
इत्यत्र डिम्भमात्रक्रियादेर्भाविभूतस्य को ऽलङ्कारः स्यादिति मनसिकृत्य समाधत्ते–यदि पुनरिति ।
सङ्करः स्वातन्त्र्येणैकत्र स्थितिरूपः ।
“अनातपत्त्रो ऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः ।
अचामरो ऽप्येष सदैव वीज्यते विलासबालव्यजनेन को ऽप्ययम्” ॥
टीका
विज्ञप्रिया:
(वि, छ) यत्र भूतभाविवस्तुनोर्न प्रत्यक्षायमाणत्वं किन्तु तद्वस्तुन एव प्रत्यक्षायमाणत्वं वर्णित तत्र नायमलङ्कार इत्युदाहृत्य दर्शयति—अनातपत्रो ऽपीति ।
आतपत्ररहितोप्ययं राजा सर्वदिक्षु सितातपत्रैः सर्वतो वेष्टित इव लक्ष्यते, विलासहेतुकव्यजनेन वीज्यमान इव लक्ष्यते इति पूर्वतो ऽनुषङ्गः, शीतलाङ्कत्वात ।
अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् ।
यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते “आसीदञ्जनम्ऽ–इत्यादौ ।
टीका
विज्ञप्रिया:
(वि, ज) अत्रेति ।
प्रत्यक्षायमाणस्यैवेत्यत्रातत्रवृतत्वस्य वीज्यमानत्वस्य चेत्यर्थः ।
एवकाराद् भूतभाविवियवच्छेदान्नतु भूतभाविपदार्थस्य प्रत्यक्षायमाणत्वमित्यर्थः ।
अत्र श्लोके तथात्वाभावं विशदयित्वा दर्शयति—वर्णनावशेनेति ।
अत्र स्वरूपत्वात्, एतत् श्लोकार्थस्वरूपत्वात्, ननु भूतभाविपदार्थस्य प्रत्यक्षायमाणत्वमित्यर्थः ।
भाविकालङ्कारे तु भूतभावित्वघटनावशाद् विशेषान्तरमप्यस्तीत्याह—यत्र पुनरिति ।
प्रत्यक्षायमाणत्वं पर्यवस्यतीत्यर्थः ।
अनातपत्रोपीत्यत्र तु तेजाविशेषाच्छत्रत्वाद्यारोपो ऽनुमानमेवेति भेदैत्यर्थः ।
तथा चात्र विरोधालङ्कार एव इति बोध्यम् ।
लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥ विस्स्द्_१०।९४ ॥
टीका
विज्ञप्रिया:
(वि, झ) उदात्तालङ्कारं द्विविधमाह–लोकेति ।
यद्वेति ।
महतां चरितं वा प्रस्तुतस्याङ्गं प्रकर्षकं यदा भवेदित्यर्थः ।
क्रमेणोदाहरणम्–
“अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानाम् ।
ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति” ॥
टीका
विज्ञप्रिया:
(वि, ञ) अधः कृतेति ।
यस्या पुरि अधः कृतमम्भोधराणां मेघानां मण्डलं यैस्तादृस्मानां चन्द्रज्योत्स्नानिपातात् क्षरतां शशाङ्कोपलकुट्टिमानां चन्द्रकान्तमणियमगृहाणां पयोभिः केलीवनं वृद्धिमुररीकरोति प्राप्रोतीत्यर्थः ।
जलसेकेन विर्धितमित्यर्थः ।
अधः कृतेत्यादिक#ं कुट्टिमविशेषणम् ।
मण्डलायामिति क्वचित् पाठः ।
कुट्टिमैरधः करणमेव पुर्या अधः करणं बोध्यम् ।
अतैतादृशकुट्टिमवतो नृपस्य लोकातिशयसम्पत्तिवर्णना ।
“नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषो ऽधिशते” ॥
टीका
विज्ञप्रिया:
(वि, ट) नाभिप्ररूढेति ।
युगान्तोचितयोगानिद्रः, युगान्ते उचिता योगनिद्रा यस्य साः पुरुषो विष्णुर्लोकान् संहृत्य अमुं समुद्रम् अधिशेते ।
कीदृशः, प्रथमेव धात्रा आदिब्रह्मणा संस्तूयमानः ।
धात्रा कीदृशेन नाभिप्ररूढाम्बुरुहासनेन—नाभिस्थेन अतिस्फुटपद्यस्थितेन, अत्र नयनरविण आसनासङ्कोचनम् ।
लोकसंहारात् सूर्याभावे ऽपि नयनरविण पद्मविकाश इति भावः ।
अत्र वर्णनीयो ऽम्भोधिः प्रकृस्तस्य प्रकर्षकमीदृशं ब्रह्म स्तूयमानेदृशविष्णुशयनरूपं तच्चरितम् ।
रसभावौ तदाभासौ भावस्य प्रशमस्तथा ।
गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ॥ विस्स्द्_१०।९५ ॥
रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ।
टीका
विज्ञप्रिया:
(वि, ठ) इदानीं रसाद्यलङ्कारमाह—रसभावाविति ।
रसस्याङ्गत्वे रसवान् ।
भावस्याङ्गत्वे प्रेयान् ।
आभासयोरङ्गत्वे ओजस्वी ।
भावप्रशमस्याङ्गत्वे समाहितमिति क्रमः ।
तदाभासौ रसाभासो भावाभासश्च ।
तत्र रसयोगाद्रसवदलङ्कारो यथा–
“अयं स रसनोत्कर्षो-” इत्यादि ।
अत्र शृङ्गारः करुणस्याङ्गम् ।
एवमन्यत्रापि ।
प्रकृष्टप्रियत्वात्प्रेयः ।
यथा मम–
“आमीलितालसविवतिततारकाक्षीं मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् ।
प्रस्वेदवारिकणिकाचितघण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः” ॥
टीका
विज्ञप्रिया:
(वि, ड) प्रियशब्दात्प्रकर्षार्थे इयसुन्प्रत्ययेन साधितस्य प्रेयः शब्दार्थमाह ।
प्रकृष्टप्रियत्वादिति ।
तत्र भावस्य रसाङ्गत्वे प्रेयो ऽलङ्कारमुदाहरति—आमीलितेति ।
नायिकाया रत्युत्तरावस्थआं स्मृत्वा चिन्तयतो विरहिण उक्तिरियम् ।
तां रत्युत्तरावस्थां प्रियां संस्मृत्य तिष्ठतो ममान्तर्मानसमनिशमेव न शान्तिमेति ।
कौदृशावस्थां रतिप्रशमादामीलिति अलसाद् विवर्तिता च तारका यत्र तत् तादृशमक्षि यस्याः तादृशीम् ।
मत्कण्ठबन्धने दरश्लथा चाल्पशिथिला बाहुवल्ली यस्याः तादृशी, प्रखेदवारिकणिकया आचितगण्डबिम्बां च ।
अत्र सम्भोगशृङ्गारः स्मरणाख्यभावस्याङ्गम् ।
स च विप्रलम्भस्य ।
टीका
विज्ञप्रिया:
(वि, ढ) अत्रेति ।
अत्र स्मरणस्य वाच्यत्वेन गुणीभऊतव्यङ्ग्याभावे ऽपि गुणीभूतवाच्यस्याप्यलङ्कारत्वमिभिप्रेत्यदमुक्तम् ।
वस्तुतस्तु स्मरणपदमत्र स्मरणव्यङ्गयचिन्तापरम् ।
स्मरणस्य वाच्यत्वेन तस्य विप्रम्भाङ्गतोक्त्यनुपपत्तेः ।
व्यङ्ग्यत्वे सत्येवापराङ्गतद्वादपराङ्गस्येव चालङ्कारत्वस्य काव्यप्रकाशकृदादिसर्वालङ्कारिकसम्मतत्वात् ।
तथाच सम्भोगश्च शृङ्गारचिन्ताया अङ्गमित्यर्थः ।
सम्भोगकालावस्थायाः चिन्तितत्वात् ।
अत्रांशे रसवदलङ्कार एव ।
सचेति ।
सच चिन्ताख्यो व्यभिचारिभावो विप्रलम्भस्याङ्गमित्यर्थः ।
चिन्तया विप्रलम्भाधिक्यात् ।
अत्र प्रयोलङ्कारः ।
ऊर्जो बलम्, अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि ।
यथा–
टीका
विज्ञप्रिया:
(वि, ण) ऊर्जस्विपदार्थं व्याकुर्वाणस्तमुदाहर्तुमाह—ऊर्जो बलमिति ।
क्वचिदनौचित्याप्रवृत्तौ तदस्तीत्याह—अनौचित्येति ।
तेन बलात्कारं विना परोढाप्रवृत्तौ तदभाविपि सञ्ज्ञाशब्दस्यास्य प्रायिकी व्युत्पत्तिर्दर्शिता ।
अत्र बलात्कार एव उदाहरति–वने ऽखिलेति ।
“वने ऽखिलकलासक्ताः परिहृत्य निजस्त्रियः ।
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्” ॥
अत्र शृङ्गाराभासो राजविषयकरतिभावस्याङ्गम् ।
एवं भावाभासो ऽपि ।
टीका
विज्ञप्रिया:
(वि, त) वने त्वद्वैरिवनितादवृन्दे पुलिन्दा निजस्त्रियः परिहत्य रतिं कुर्वते ।
निजस्त्रीपरिहारे बीजमाह—अखिलेति ।
आसामखिलकामकलोवेत्तृत्वात् तदासक्ता इत्यर्थः ।
अत्रेति ।
वैरिस्त्रीविडम्बनेन राज्ञः प्रकर्षात् तत एव तद्विषयभावप्रकर्षाच्चेत्यर्थः ।
एवं भावाभासेपीति यथा— “किं ब्रूमस्ते महाराज माहात्म्यमन्यदुर्लभम् ।
स्तुवन्ति शत्रवस्त्वां हि कुड्मलीकृतपाणयः” ॥
इति अत्र शत्रुस्तुत्या तदीयरतिभावाभासो राजविषयरतिभावस्याङ्गम् ।
समाहितं परिहारः ।
यथा–
“अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्” ॥
टीका
विज्ञप्रिया:
(वि, थ) परिहार इति—प्रथमोत्पन्नभावस्य परिहारस्त्यागो नाशपर्यवसन्नः ।
अविरलेति ।
मदो गर्वः तद्दर्शने तेषामविरलेत्यादिकं हेतुः ।
तवेक्षणे तवदर्शने सति क्षणात् स मदः क्वापि गतो न दृष्ट इत्यर्थः ।
अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम् ।
टीका
विज्ञप्रिया:
(वि, द) अत्र मदाख्यस्येति ।
यद्यपि तत्प्रशमोपगतपदस्य लक्ष्यार्थेन मदस्य चात्यन्ताभावेन तत्प्रशमस्य लक्षणीयता तथापि गुणीभूतव्याङ्ग्यस्यैव गुणीभूतस्य लक्ष्यार्थस्याप्यलङ्कारत्वमभिप्रेत्येदमुक्तम् ।
वस्तुतस्तु अपराङ्गभूतव्यङ्ग्यस्यैव रसवदलङ्कारत्वं काव्यप्रकाशकृदादिसकलालङ्कारिकसम्मतं न गुणीभूतलक्ष्यार्थस्य ।
तदा अत्रैव श्लोके कवेरतिरूपो भावस्तस्यैव तन्मदनाशान्नाशो व्यङ्ग्यः ।
स एवात्र समाहितालङ्कारो बोध्यः ।
भावस्य चोदये सन्धौ मिश्रत्वे त तदाख्यकाः ॥ विस्स्द्_१०।९६ ॥
टीका
विज्ञप्रिया:
(वि, ध) भावोदयादयस्तु गुणीभूताः स्वखनामान एवालङ्कारा इत्याह—भावस्य चोदये इति ।
मिश्रत्वे भावशबलत्वे ।
बलवद्भिरुत्तरोत्तरभावैः सह पूर्वपूर्वभावस्यैकपद्यस्थितिरूपमिश्रणात् ।
तदाख्यका भावोदयभावसन्धिभावशबलनामानो ऽलङ्काराः ।
क्रमेणोदाहरणम्- “मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः ।
श्रुत्वा कुतो ऽपि त्वन्नम लेभिरे विषमां दशाम्” ॥
अत्र त्रासोदयो राजविषयरतिभावस्याङ्गम् ।
टीका
विज्ञप्रिया:
(वि, न) तत्रापराङ्गाभवोदयमुदाहरति—मधुपानेति ।
अत्रेति ।
प्रथमज्ञातस्य क्षासस्य श्लोकमध्ये उदयप्रतीत्य उदयः सराजविषयभावप्रकर्षकमङ्गम् ।
“जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका ।
सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा” ॥
अत्रौत्सुक्यलज्जयोश्च सन्धिर्देवताविषयरतिभावस्याङ्गम् ।
टीका
विज्ञप्रिया:
(वि, प) अपराङ्गभावसन्धिमुदाहरति—जन्मान्तरीणेति ।
अत्रेति ।
औत्सुक्यलज्जयोरलङ्कारत्वमत्रोदाहृतम् ।
“असौढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वा दिश्यात्कपटवटुवेशापनयेन त्वराशौथिल्याभायां युगपदभियुक्तः स्मरहरः” ॥
इति काव्यप्रकाशकृद्दत्तोदाहरणे आवेगहर्षयोर्व्यङ्गययोरपि सन्धिरलङ्कारः ।
“पश्येत्कश्चिच्चल चपल ! रे ! का त्वारहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषो ऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते” ॥
अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गम् ।
टीका
विज्ञप्रिया:
(वि, फ) अपराङ्गभावशबलत्वमुदाहरति—पश्येत्कश्चिदिति ।
हे पृथ्वीपरिवृढ ! अरण्यपरिवृत्तेर्भवद्विद्विषः भक्षणार्थं फलकिशलयानि आददाना कञ्चिदर्थादाकृष्टकामा इत्थमभिधत्ते ।
कीदृशमभिधत्ते इत्यत्राह—पश्येदित्यादि ।
अत्र पश्योदित्यत्र शङ्का व्यङ्ग्या ।
चल चपल रे इत्यत्र धृतिः ।
कुमारीत्यव कुमारीत्वस्मरणात् कार्यत्वस्मृतिः, का त्वरेत्याश्वासना ।
हस्तालम्बमित्यत्र ममेदमकायमेवेत्यवधारणरूपा मतिरेव विबोधः ।
क्कासीत्यत्र क्क त्वं यासीत्यर्थः ।
अत्र तद्रमननिवर्तने औत्सुक्यं व्यङ्ग्यम् ।
अत्र दैन्यविरोधमात्रयोर्न बाध्यबाधकता ।
अन्येषु तु पूर्वं पूर्वं प्रत्युत्तरोत्तरस्य बाधकत्वेन बलवत्तया शबलता ।
राजविषयरतिभावस्याङ्गमिति राजप्रक्रान्तत्वात्तदरिकन्याया एवं भावात् ।
इह केचिदाहुः–“वाच्यवाचकरूपालङ्करणमुखेन रसाद्युपकारका एवालङ्काराः, रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामङ्कारता भवितुं युक्ता” इति ।
अन्ये तु –“रसाद्युपकारमात्रेणेहालङ्कृतिव्युपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याङ्गीकार्य एव” इति ।
टीका
विज्ञप्रिया:
(वि, ब) वाच्यवाचकरूपेति ।
वाच्यवाचकयोरूपमर्थशब्दस्वरूपम्, तयोरलङ्कारणं शोभनम्, उपमानुप्रासादयः ।
तन्मुखेन तद्द्वारेणेत्यर्थः ।
रसादयस्त्विति ।
अपराङ्गभूता रसादय इत्यर्थः ।
अपराङ्गानां रसादीनामलङ्कारत्वं स्वीकुर्वतामन्येषां तु मतमाह—अन्ये त्विति ।
वाच्यवाचकशोभनद्वारा मुख्यरसस्योपकारकत्वप्रयोजकमिति न नियमः ।
किन्तु मुख्यरसोपकारकत्वेमव तथात्वप्रयोजकम् ।
किन्त्वर्थशब्दालङ्कारकत्वेन व्यवहारवशात्तयोरलङ्कारेष्वेवालङ्कारपदं शक्तम् ।
अपराङ्गरसादौ त्वलङ्कारपदं भाक्तमित्यर्थः, भाक्तं लाक्षणिकम् ।
अपरे च–“रसाद्युपकारमात्रेणालङ्कारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजगलस्तनन्यानेन” इति ।
टीका
विज्ञप्रिया:
(वि, भ) अपराङ्गरसादावपि अलङ्कारपदं शक्तमेव न भाक्तमिति वदतां मतमाह–अपरे चेति ।
रसाद्युपकारकतामात्रेणेत्यनेनोपमादीनामिवापराङ्गरसादीनामपि मुख्यतो मुख्यभावेनैवालङ्कारकत्वं न भाक्तालङ्कारपदार्थत्वेनेत्युक्तम् ।
तथा चोभयत्रैवालङ्कारपदं शक्तमित्यर्थः ।
ननु सर्वेषामेवालङ्कारपदवाच्यत्वे रूपकादावेवालङ्कारव्यवहारः कथमित्यत्राह–रूपकादाविति ।
वाच्याद्युपधानं वाच्यतादर्शनमजागतस्तनपानमिव निष्प्रयोजनमित्यर्थः ।
अभियुक्तास्तु–“स्वव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतैः रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यते ।
टीका
विज्ञप्रिया:
(वि, म) अभियुक्तास्त्विति ।
एतन्मते ऽपि द्वयोरप्यलङ्कारपदवाच्यत्वमेव ।
किन्तु पूर्वमते रसाद्युपकारकद्वारता तत्रापेक्षणीया ।
एतन्मते तु उपमादेरिवाङ्गभूतरसोदेरपि शब्दार्थोमयोपकारकद्वारैव रसोपकारकतयालङ्कारपदवाच्यतेति विशेषः ।
तदाह–स्वव्यञ्जकेति ।
स्वस्याङ्गभूतरसादेर्व्यञ्जकौ वाच्यवाचकौ ताभ्यामुपकृतैरङ्गभूतरसादिभिर्वाच्यवाचकोपस्कारकद्वारेणेककुर्वद्भिरर्थादङ्गिनं रसमुपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यत इत्यर्थः ।
अङ्गभूतरसादीनां शब्दार्थभ्यामुपकारो व्यञ्जनावशादेव तैः शब्दार्थयोरुपकारस्तद्व्यङ्ग्यत्ववैशिष्ट्येनेति परस्परमुपकारो दर्शितः ।
समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न त्वास्वादस्य, तस्योक्तरीतिविरहात्” इति मन्यन्ते ।
अत एव ध्वनिकारेणोक्तम्–
टीका
विज्ञप्रिया:
(वि, य) समासोक्तौ तु यो नायकनायिकाव्यवहारो व्यङ्ग्यस्तस्य रसाद्युपकारनिरपेक्षमेवालङ्कारत्वामित्याह—समासोक्ताविति ।
इदमुपलक्षणमप्रस्तुतप्रशंसायामपीदृशत्वं बोध्यम् ।
अत एवेति ।
अङ्गभूतरसादेरप्यलङ्कारपदवाच्यत्वादेवेत्यर्थः ।
“प्रधाने ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः” ॥
टीका
विज्ञप्रिया:
(वि, र) प्रधाने इति ।
यत्र काव्ये प्रधाने अङ्गिनि अन्यत्र रसादिरूपे रसादयो ऽङ्गमित्यर्थः ।
अङ्गत्वैक्याश्रितमेकवचनम् ।
स्मिन् काव्ये रसादिरलङ्कारो ऽलङ्कारपदवाच्य इति मे मतिरित्यर्थः ।
यदि च रसाद्युपकारमात्रेणालङ्कृतित्वं तदा वाचकदिष्वपि तथा प्रसज्येत ।
एवं च यच्च कैश्चिदुक्तम्–“रसादीनामङ्गित्वे रसवदाद्यलङ्कारः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः” इति तदपि परास्तम् ।
टीका
विज्ञप्रिया:
(वि, ल) ननु कटककुण्डलादेरलङ्कारत्वमङ्गप्रकर्षकत्वेनैव, अत उक्तन्यायादङ्गरसादेरुपमादेर्वालङ्कारत्वामस्तु ।
समासोक्तेस्त्वङ्गिरसादिप्रकर्षकत्वाभावान्नालङ्कारत्वमित्यत आह–यदीति ।
क्वचिदङ्गिप्रकर्षकत्वेन समासोक्तौ तु स्वतो वैचित्र्येणैवालङ्कारत्वम्, नतु अङ्गिप्रकर्षकत्वं तल्लक्षणम् ।
तथात्वे अतिव्याप्तिः स्यादित्यर्थः ।
केचित्तु अङ्गिरसस्यैव रसवदलङ्कारादित्वमङ्गभूतरसादेस्तु “यद् व्यङ्गयं प्रस्तुतस्याङ्गं महतां चरितं भवेऽ; दित्यनेनोक्तं द्वितीयोदात्तालङ्कारत्वमेवाहुः ।
एवं ध्वनिकारोक्तसम्वादेन अस्मद्दर्शितोदाहरणे ऽव्याप्तेश्च तत्परास्तमित्याह ।
“आमीलितालसविवर्तिततारकाक्षी” इत्यत्र यः स्मरणाख्यभावो विप्रलम्भाङ्गत्वेनोक्तस्तस्य कस्यापि महतश्चरितत्वाभावेनोदात्तालङ्कारत्वस्य तत्राव्याप्तेः ।
यद्येत एवालङ्काराः परस्परविमिश्रिताः ।
तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ॥ विस्स्द्_१०।९७ ॥
टीका
विज्ञप्रिया:
(वि, व) इदानीमनेकालङ्कारणामेकपदस्थितिरूपमिश्रणे क्वचित् संसृष्टिनामा क्वचिच्च सङ्करनामा पृथगलङ्कारो भवतीत्याह–यद्येत एवेति ।
पृथगलङ्कारावपीत्यर्थः ।
तेन मूलभूतालङ्कारव्यवच्छेदस्तथा च समासोक्तौ यदौपम्यगर्भत्वाद्यनेकालङ्कारगर्भत्वमुक्तम्, यच्चान्यत्राप्यलङ्कारान्तरोत्थापितत्वे तदलङ्कारस्य शोभाधिक्यमुक्तम्, तत्र सङ्करसम्भवे ऽपि न समासोक्त्याद्यलङ्कारत्वव्याहतिरिति बोध्यम् ।
यथा लौकिकालङ्काराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथगलङ्कारत्वं तथोक्तरूपाणां काव्यालङ्काराणामपि परस्परमिश्रत्वे संसृष्टिसङ्काराख्यौ पृथगलङ्कारौ ।
तत्र–
“मिथो ऽनपेक्षमेतेषां स्थितिः संसृष्टिरुच्यते ।
एतेषां शब्दार्थालङ्काराणाम् ।
यथा–
“देवः पायादपायान्नः स्मेरेन्दीवरलोचनः ।
संसारध्वान्तविध्वंसहंसः कंसनिसूदनः” ॥
अत्र पायादपायादिति यमकम्, संसारेत्यादौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः ।
द्वितीये पादे उपमा, द्वितीयार्धे च रूपकमित्यर्थालङ्कारयोः संसृष्टिः ।
एवमुभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः ।
टीका
विज्ञप्रिया:
(वि, श) तत्र संसृष्टिलक्षणमाह—मिथो ऽनपेक्षयैतेषमिति ।
देवः पायादित्यादि स्पष्टोर्ऽथः ।
हंसः सूर्यः ।
अत्र शब्दालङ्कारयोः संसृष्टिमादौ दर्शयति—अत्र पायादिति ।
संसारेत्यादावनुप्रास इति ।
ध्वान्तविध्वंसहंसेत्यत्रेत्यर्थः ।
अत्रैवार्थालङ्कारयोरपि संसृष्टिमाह–द्वितीयपाद इति ।
लोचने स्मेरेन्दीवरोपमा ।
द्वितीयार्ध इति ।
कंसनिषूदने सूर्यरूपकम् ।
तत्साधकं च संसारो ध्वान्तरूपकमिति परम्परितरूपकमित्यर्थः ।
एवं च संसृष्टिद्वयमित्याह–उभयोरपीति ।
संसृष्टिश्चेति ।
चकारस्य स्थितत्वाच्चेत्येवमन्वयः ।
तत् संसृष्टिद्वयस्यापि परस्परसंसृष्टिमित्याह—एवं चेति ।
अङ्गाङ्गित्वे ऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ ।
सन्दिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ॥ विस्स्द्_१०।९८ ॥
टीका
विज्ञप्रिया:
(वि, ष) सङ्करश्च त्रिविधो भवतीत्याह—अङ्गाङ्गित्वे इति अलड्कृतीनामङ्गाङ्गित्वे एवविधः ।
अपरविधमाह–तद्वदिति—एकाश्रये एकवाक्ये वा अलङ्कृतीनां स्थितावित्यर्थः ।
अपरविधमाह—सन्दिग्धत्वे चेति ।
अलङ्कारद्वयस्य सन्देहे कोटिद्वयत्वे इत्यर्थः ।
अङ्गाङ्गिभावो यथा–
टीका
विज्ञप्रिया:
(वि, स) अङ्गाङ्गिभावो यथेति ।
यद्यप्यङ्गाङ्गिभावो जन्यजनकभावः प्रकृष्यप्रकर्षकभावो ज्ञाप्यज्ञापकभावश्चेति त्रिविधस्तथापि ज्ञाप्यज्ञापकभावरूपमेवोदाहरति ।
“आकृष्टिवेगविगलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनायाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले” ॥
टीका
विज्ञप्रिया:
(वि, ह) आकृष्टवेगेति—मन्दरपर्वतवर्णनमिदम् ।
यस्य मन्दरपर्वतस्य गदमूले ऽधोभागरूपमूले एव श्लेषण चरणस्य मूले प्रान्ते मन्दाकिनी अचेष्टत सेवारूपां चेष्टामकरोदित्यर्तः ।
किमर्थमित्यत्रात्प्रेक्षते—अम्बुराशेर्मन्यव्यथाव्युपशमार्थमिवेति ।
मम पत्युरम्बुराशेर#मन्थजन्याया व्यथाया आशु शीघ्रं व्युपशमाय इत्येव तदर्थमिवेत्यर्थः ।
मन्थतो निवृत्तस्य तेनैव पूर्वं जनिता मन्थव्यथा आशु नङ्क्ष्यतीत्येवंरूपा प्रार्थना ।
ननु मन्दाकिनी मन्थनात्पूर्वमपि मन्दरस्य पादमूले वर्तते ।
इदानीं किंविधया चेष्टया सेवते इत्यत्राह—आकृष्टवेगेति ।
भावक्तान्तत्वाद् आकर्षणवेगेन विगलन् यो रज्जुभूतस्य भुजगेन्द्रस्य वासुकेर्भोगात् कायान्निर्मोकश्चर्मकञ्चुकं तद्रूपस्य पट्टस्य वस्त्रविशेषस्य परिवेष्टनया उद्वेष्टनप्रकारेणेत्यर्थः ।
नेदं चर्मकञ्चुकपदवेष्टनम्, किन्तु मन्दाकिन्येव परितः पादमूलं सेवर्#अथं वेष्टितवतीत्यर्थः ।
अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः ।
सा च मन्दा किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् ।
श्लेषञ्च पादमूलवेष्टनमेव चरणमूलवेष्टदमित्यतिशयोक्तरेङ्गम्, अतिशयोक्तिश्च “मन्थव्यथाव्युपशमार्थमिव” इत्युत्प्रेक्षाया अङ्गम् ।
उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम् ।
टीका
विज्ञप्रिया:
(वि, क) तत्र प्रथमाहपह्नुतिं दर्शयति—निर्मोकेति ।
सा चेति ।
सा अपह्नुतिः वस्तुवृत्तेन गङ्गावस्तुस्वभावेन ।
वस्तुतस्तु वेष्टनस्वभावत्वात् तस्या इत्यर्थः ।
श्लेषमुत्थापयतीति ।
श्लेषे ज्ञापयतीत्यर्थः ।
निर्मोके गङ्गारोपाभावे चरणार्थकश्लेषाप्रतीतेरित्यर्थः ।
सच श्लेषातिशयोक्तेरङ्गमित्याह—श्लेषश्चेति ।
अतिशयोक्तिं दर्शयति—पादमूलवेष्टनमेव सेवनमितीति भेदेप्यभेदारोपरूपातिशयोक्तिरियम् ।
नतु रूपकं रूपकाधिकरणस्य सेवनस्यानिर्दिष्टत्वाच्चरणार्थकपादश्लेषादेव सेवाबोधात् ।
श्लेषस्तज्ज्ञापक इत्यर्थः ।
अतिशयोक्तिरपि वाच्योत्प्रेक्षाया अङ्गभित्याहअतिशयोक्तिरपीति ।
इयं तु प्रकर्षकमङ्गं सेवाज्ञानं विना मन्थव्यथोपशमनार्थतायाः वेष्टनमात्रस्यासम्भवेनात्प्रेक्षायास्तथा प्रकर्षणआत् ।
नतु ज्ञापकमङ्गम् ।
इवशब्दादेव तस्याः प्रतीतेः, नापि जनकमङ्गमुत्कटकोटिसंशयात्मिकाया उत्प्रेक्षायाः सेवाज्ञानेन अजननत् ।
उत्प्रेक्षापि समासोक्तेर्ज्ञापकमङ्गमित्याह—उत्प्रेक्षा चेति ।
समुद्रगङ्गयोर्नायकनायिकाव्यवहारज्ञानस्य मन्थव्यथेपशामार्थतोत्प्रेक्षां विनाचेतनयोरसम्भवात् ।
यथा वा–
“अनुरागवती सन्ध्यां दिवसस्तत्पुरः सरः ।
अहो ! दैवगतिश्चित्रा तथापि न समागमः” ॥
अत्र समासोक्तिविशेषोक्तेरङ्गम् ।
टीका
विज्ञप्रिया:
(वि, ख) अनेकालङ्कारणमङ्गाङ्गिभावमुक्त्वालङ्कारयोस्तथात्वमाह—यथा वेति ।
सायंसन्ध्यावर्णनमिदम् ।
अनु दिवसस्य पश्चाद्रागवती रक्तिमवती सन्ध्या, दिवसश्च तस्याः पुरः सरः पूर्ववर्तो ।
अहो आश्चर्यम् ।
चित्रा विलक्षणा दैवगतिर्यतस्तथापि न समागमः ।
पुरः पश्चाद्भावेन स्थितयोरेकदा मिलरूपस्य समागमस्यैव दृष्टत्वात् ।
दिवससन्ध्ययोस्तु नैकदा मिलनम् ; सन्ध्याकाले दिवसाभावात् ।
अत्र समासोक्तिरिति ।
अत्र रागवन्नायिकापुरः सरनायकयोर्दैवात्समागमरहितयोर्वृत्तान्तप्रतीतिरूपा समासोक्तिः ।
पूर्वपश्चाद्भावस्थितिरूपस्य समागमहेतोः सत्त्वेपि समागमरूपफलस्याभावरूपाया विशेषोक्तेर्ज्ञापकहेतुरित्यर्थः ।
नायकनायिकासमागमाभावप्रतीतेर्नायके वृत्तान्तप्रतीतिं विनासम्भवात् ।
जनकरूपाङ्गोदाहरणं तु न दर्शितम् ।
त्तु यथा– “पुलिन्दास्ते रिपुस्त्रीणां वने हारं हरन्ति नो ।
बिम्बोष्ठकान्त्या शोणं तं गुञ्जमालां हि मन्यते ॥
“अत्र हारेण बिम्बोष्ठकान्तेर्ग्रहणात् तद्गुणो ऽलङ्कारः ।
तेन च गुञ्जाहारभ्रान्तिजननाद् भ्रान्तिमांस्तद्गुणस्य प्रकर्षकमङ्गम् ।
सन्देहसङ्करो यथा–
“इदमाभाति गगने भिन्दानं सन्ततं तमः ।
अमन्दनयनान्दकरं मण्डलमैन्दवम्” ॥
टीका
विज्ञप्रिया:
(वि, ग) बहूनामलङ्काराणां सन्देहसङ्करमाह–इदमाभातीति ।
इदमैन्दवमण्डलं गगने आभाति ।
कीदृशं सन्ततं विस्तृतं तमः अन्धाकारम् अज्ञानं च भिन्दानममन्दनयनानन्दकरं च ।
अत्र किं मुखस्य चन्द्रतयाध्वसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम्, अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसम्बन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वणित इति पर्यायोक्तिरिति बहूनामलङ्कराणां सन्देहात्सन्देहसङ्करः ।
टीका
विज्ञप्रिया:
(वि, घ) अत्रालङ्काराणां संशयकोटितां दर्शयति–अत्रेति । इदं गगने ऐन्दवं मण्डलमर्थान्नायिकायामाभातीत्यर्थः ।
एवं चारोपाधिकरणस्य मुखस्यानिर्देशादतिशयोक्तिरित्यर्थः ।
मुखस्येदं पदेन निर्देशे तु रूपकमित्याह उतेति ।
तुल्ययोगितां दर्शयत्यथवेति ।
तथां च इदं निर्दिश्यमानं मुखं गगने ऐन्दवं मण्डलं चाभातीत्यर्तः ।
द्वयोरपि प्रकृतयोरिति ।
उभयस्यैव दीप्यमानत्ववर्णने ऽपि क्रमसत्त्वे इत्यर्थः ।
मुखस्यैव प्रक्रान्तत्वे तदुपमानतयैव चन्द्रनिर्देशे तु तस्याप्रकृतत्वात् प्रकृताप्रकृतयोरेकधर्मान्वयरूपं दीपकमित्यर्थः ।
समासोक्तिं दर्शयति—किंवेति ।
चन्द्रवर्णनस्यैव प्रक्रान्तत्वे ऽप्रस्तुतप्रशंसेत्याह यद्वेति ।
कार्यभूतेति ।
चन्द्रोदयस्य सन्ध्याकालकार्यत्वात् ।
यथा वा–“मुखचन्द्रं पश्यामि” इत्यत्र किं मुखं चन्द्र इव इत्युपमा ? उत चन्द्र एवेति रूपकमिति सन्देहः ।
साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे न पुनः सन्देहः ।
यथा–
“मुखचन्द्रं चुम्बति” इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् ।
चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम् ।
“मुखचन्द्रः प्रकाशते” इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन सम्भवतीति नोपमाबाधकः ।
टीका
विज्ञप्रिया:
(वि ङ) अलङ्कारद्वयसन्देहं दर्शयति—यथा वेति ।
मुखचन्द्रं चुम्बतीति मुखस्यानुकूलं चन्द्रतुल्यमुख एव साक्षादन्वितमित्यर्थः ।
नतु मुखात्मके चन्द्रे सम्भोगचुम्बनासम्भवात् ।
चन्द्रस्या तु प्रतिकूलमिति ।
मुखनिष्ठस्य चुम्बनस्य मुखाभिन्नत्वेन गृहीतचन्द्रे ऽपि परस्परस्यासम्भवात् ।
प्रकाशाख्य इति ।
तिभिरनाशाख्य इत्यर्थः ।
सच धर्मश्चन्द्रे एव साक्षास्तीत्यतो विशेष्यत्वेन प्रतीयमाने चन्द्रे साक्षादन्वितत्वाद्रूपकस्य साधक इत्यर्थः ।
उपमायास्तु न बाधक इत्यत आहमुखे उपचरितत्वेनेति ।
चन्द्रतुल्यमुखे ऽपि चन्द्रधर्मप्रकाशनारोपसम्भवादित्यर्थः ।
“राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्” ।
अत्र योषित आलिङ्गनं नायकस्य सादृश्ये नोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यासम्भवादुपमाबाधकम्, नारायणे सम्भवाद्रूपकम् ।
टीका
विज्ञप्रिया:
(वि, च) रूपकसाधकमाह—राजनारायणमिति ।
लक्ष्मीरत्र नारायणस्य पत्नी नतु सम्पत् ।
अत आह–योषित इति ।
नारायणे च सम्भवाद्रूपकमिति ।
रूपके नारायणस्यैव विशेष्यत्वात् तत्रैवालिङ्गनान्वयात् ।
एवम्–
“वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्” ।
अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासम्भवाद्रूपकस्य बाधकता ।
टीका
विज्ञप्रिया:
(वि, छ) उपमायाः साधकमाह–वदनाम्बुजमिति ।
चञ्चलं लोचनं यत्रेति विग्रहेण चञ्चललोचनवत्त्वस्याम्बुजतुल्ये वदने एव सम्भवादुपमायाः साधकतेत्याह–अत्रेति ।
एवं–“सुन्दरं वदनाम्बुजम्” इत्यादौ साधारणधर्मप्रयोगे “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति वचनादुपमासमासो न सम्भवतीत्युपमाया बाधकः ।
एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव ।
टीका
विज्ञप्रिया:
(वि, ज) एवमनुशासनेनापि यत्रोपमासमासो निषिद्धस्तत्राप नोपमत्याहएवमिति ।
सुन्दरं वदनाम्बुजमित्यादौ साधारणधर्मप्रयोगे उपमासमासो न सम्भवतीत्यत्र उपमाया बाधक इत्यन्वयः ।
स च धर्मोत्र सुन्दरत्वम्, तस्य उपमाबाधकताग्राहकपाणिन्यनुशासनं दर्शयति—उपमितमिति ।
अनेन पाणिनिसूत्रेण साधारणधर्माप्रयोग एव पुरुषव्याघ्राद्युपमासमासः ।
एवं बोधनात्साधारणधर्मप्रयोग एव तत्समासो निषिद्धः ।
अत्रहीति वचनात् सुन्दरं वहनाम्बुजमिति प्रयोगे उपमासमासे सति न सम्भवतीत्यतः सुन्दरत्वरूपसाधारणधर्माप्रयोगे उपमाया बोध इत्यर्थः ।
ननु “मयूरैव पुरुषो व्यंसको विगतभुजमूलऽ; इत्याद्यार्थे व्यंसकत्वादिभावाद् यत्रोपमानस्य पूर्वनिर्देशस्तत्रैव मयूरव्यंसकदित्वमुपमानस्य परनिर्देशे तु नेत्यर्थः ।
एकाश्रयानुप्रवेशो यथा मम–
“कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः ।
सरोमाञ्चोदञ्चत्कुचकलशनिभिन्नवसयः परीरम्भारम्भः क इव भविताम्भोरुहदृशः” ॥
टीका
विज्ञप्रिया:
(वि, झ) एकाश्रयस्थितिरूपाणामलङ्कारणां सङ्करमाह—कटाक्षेणेति ।
एकाश्रयश्च क्वचिदेकं वाक्यं क्वचिदेकं पदम् ।
नचैकवाक्यस्थत्वे संसृष्टिरेवेति वाच्यम्, अङ्गाङ्गिभावे अतथात्वात् ।
नच तदा अङ्गाङ्गिभावसङ्कर इति वाच्यम् ।
तदाप्येकाश्रयानुप्रवेशानपायात् ।
कटाक्षेणेति ।
सा नायिका क्षणमर्थान्मामीषदल्पं यदि निरीक्षेत तदा पिहिताशेषविषयः सान्द्र आनन्दः स्फुरति ।
तदा तस्या अम्बुजाक्ष्याः परीरम्भारम्भः क इव भविता, कटाक्षेणैव कृतार्थो ऽहं तत्परिरम्भं नोपेक्ष इत्यर्थः ।
यद्वा कटाक्षपातनतो ऽधिकतरः परिरम्भारम्भः कैव भविता, अनिर्वचनीय एव भविता इत्यर्थः ।
कीदृशः परिरम्भारम्भः ।
सरोमाञ्चाभ्यामत एवोदञ्चद्भ्यां कुचकलशाभ्यां निर्भिन्नं परिभ्रष्टं वसनं यत्र तादृशः ।
अत्र कटाक्षेणापीषत्क्षणमपीत्यत्रच्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्यचैकाश्रये ऽनुप्रवेशः ।
एवं चात्रैवानुप्रसार्थापत्त्यलङ्कारयोः ।
टीका
विज्ञप्रिया:
(वि, ञ) अत्र वाक्यारूपैकाश्रयसत्त्वं द्विविधानुप्रासयोर्दर्शयति—अत्रेति छेकातुप्रासो ऽनेकस्य व्यञ्जनस्य स्वरूपतः साम्ये सति तच्छेकानुप्रासोक्तत्वात् ।
संयुक्तानेवर्णस्य तु आनुपूर्व्यसम्भवात्तादृशे ऽनेकस्य क्षकारमात्रस्य सकृच्छेकानुप्रास इत्यर्थः ।
तादृशस्यैव क्षकारान्तरसाहित्यादनेकधात्वे वृत्त्यनुप्रास इत्याह—निरीक्षेतित्यत्रेति ।
अनेकस्यासकृत्त्वे वृत्त्यनुप्रसस्योक्तत्वात् ।
एकाश्रयानुप्रवेश एकवाक्यप्रवेशः ।
एवं च क्षकारद्वयघटितच्छेकानुप्रासेन क्षकारान्तरसाहित्यवशाद् वृत्त्यनुप्रासजननादङ्गाङ्गिभावसङ्करो ऽप्यत्रास्तीत्यतः समासैकपदारूपाश्रये ऽसङ्कीर्णमुदाहरति—आपाततस्तत्रैवानुप्रासार्थापत्त्यलङ्कारयोरेकाश्रयानुप्रवेशं दर्शयति—एवं चात्रैवेति ।
कटाक्षपातेनापि सान्द्रन्दस्फुरणाद् दण्डापूपिकया सिद्धे स्तनपरिरम्भे ऽनिर्वचनीयानन्द इत्येवमर्थापत्त्यलङ्कार इत्यर्थः ।
यथा वा–
“संसारध्वान्तविध्वंस–” इत्यत्र रूपकानुप्रासयोः ।
यथा वा–“कुरबकारवकारणतां ययुः” इत्यत्र रबका रवका इत्येकं बकारवकार इत्येकमिति यमकयोः ।
टीका
विज्ञप्रिया:
(वि, ट) समास एकपदे ऽङ्गाङ्गिभावसङ्कररहितमेकाश्रयानुप्रवेशसङ्करमाह–यथा वेति ।
रूपकानुप्रासयोरिति ।
कंसनिषूदने सूर्यतारोपणआत् ।
कुरुबका इत्यादि ।
अत्र एकवाक्यगतं यमकद्वयम् ।
नचात्र पूर्वयमकेनोत्तरयमकनिर्वाहादनुग्राह्यानुग्राहकतासङ्करोपीति वाच्यम् ।
कारणतामित्येतदीयरेफपर्यन्तस्योत्तरयमकस्य पूर्वयमकेनापि निर्वाह्यात्वात् ।
एवं “कलकलोलकलोलदृशेऽ; त्यत्रापि लकलो लकलो कलोल कलोल इति यमकद्वयम् ।
यथा वा–
“अहिणअपओअरसिएसु पहिअसामाहएसु दिअहेसु ।
रहसपसारिअगीआणं णच्चिजं मोरविन्दाणम्” ॥
टीका
विज्ञप्रिया:
(वि, ठ) उपमारूपकयोरप्येकाश्रयानुप्रवेशं दर्शयति—अहिणअ इति ।
“अभिनवपयोदरसिकेषु पथिकसामाजिकेषु दिवसेषु ।
महति प्रसारितगीतानर्तितकं मयूरवृन्दानाम् ॥
“इति संस्कृतम् ।
प्रसारितं गीतं यत्रेति तादृशं मयूरवृन्दानामानर्तितकं नृत्ययुक्तविशेषणकेषु दिवसेषु महति पूज्यं भवति शोभते इत्यर्थः ।
मह पूजायामिति धातुः ।
नृत्योचितं दिवसविशेषणमाह—अभिनवेति ।
अभिनवपयोद एव रसिका रसवन्त एक नृत्यदर्शनार्थं रसवन्तो यत्र तादृशेषु ।
तथा पथिकाः सामाजिका इव नृत्यादिदिदृक्षिसमाजप्रधानानीव यत्र तादृशेषु ।
अत्र रसिकसामाजिकानां समाजप्रधानतुल्यानां च तृत्यदर्शिनामाश्रयत्वेन दिवसानां नृत्यसत्तारूपकं व्यङ्ग्यमवधेयम् ।
अत्र “पहिअसामाइएसु” इत्येकाश्रये पथिकशयामायितेत्युपमा, पथिकसामाजिकेष्वितिरूपकं प्रविष्टमिति ।
टीका
विज्ञप्रिया:
(वि, ड) अत्रोपमारूपकयोरेकाश्रयानुप्रवेशं दर्शयति—अत्रेति ।
पथिकाश्यामायिता यत्रेत्युपमेत्यर्थः ।
पथिकमासाजिकेषु इत्यत्रैव दिवसेषु व्यङ्ग्यरूपकं दर्शयति ।
पथिकाः सामाजिका येषु इति ।
सामाजिका एव येष्वित्यर्थः ।
प्रविष्टमिति—व्यङ्ग्यसत्तारूपकमित्यर्थः ।
श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ विस्स्द्_१०।९९ ॥
टीका
विज्ञप्रिया:
(वि, ढ) श्रीचन्द्रेति ।
अत्र मुधिय इति सम्बोधनम् ।
क्वचित् कव्य इति पाठः ।
हे सुधियः, श्रीचन्द्रेत्यादिकृतममुं साहित्यदर्पणं पुस्तकं विलोक्य अखिलं साहित्यतत्त्वं सुखमेव सुखविशिष्टमेव यथा स्यात्तथा वित्त जानीतेत्यर्थः ।
लोचना:
(लो, ऊ) श्रीचन्द्रशेखरेति ।
महाकविचन्द्रेत्यत्र चन्द्रशब्दः श्रेष्ठार्थः ।
विश्वनाथनामा कविराजः यस्येमां प्रशस्तिमाचक्षते विचक्षणाः ।
“आः किं कम्पमुरीकरोषि वसुधे धूरर्दिते वा भव- द्रोविन्देन तु नन्दमन्दिरकृतक्रीडावतारेण ते ।
विख्यातः कविराजिराज इति यः श्रीविश्वनाथः कृती तस्याकर्ण्य गिरः शिरांसि भुजगाधीशो धुनीते ऽधुना” ॥
तेन कृतं साहित्यदर्पणाख्यं ग्रन्थमवलोक्येति सम्बन्धः ।
यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलङ्करोति ।
तावन्मनः सम्मदयन् कवीनामेष प्रबन्धः प्रथितो ऽस्तु लोके ॥ विस्स्द्_१०।१०० ॥
टीका
विज्ञप्रिया:
(वि, ण) यावदिति ।
प्रसन्नेन्दुनिभानना श्रीर्यावन्नारायणस्याङ्गमलङ्करोति, तावत्कवीनां मनः सम्मदयन्नयं प्रबन्धो लोके प्रथितोस्तु इत्यर्थः ।
लोचना:
(लो, ऋ) सम्प्रति ग्रन्थस्य समाप्तौ स्वाभीष्टपूर्वकं शुभाशंसनं करोति— यावदिति ।
सम्मदयन् सम्यक् प्रीणयन्— आस्तामनन्तकृतिना कृत एष धीरे- णासाद्य तातशरणाम्बुरुहप्रसादम् ।
आचन्द्रमातरणिकोविदवृन्दवन्द्यः साहित्यदर्पणविवेकवचः प्रपञ्चः ॥
इत्यालङ्कारिकचक्रवर्तिसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः ।
टीका
विज्ञप्रिया:
(वि, त) इतीत्यादि ।
अखिलभाषैव विलासिनी नायिका तस्याः भुजङ्गः कामुकस्तदनुशीलकत्वात् ।
इति महेश्वरतर्कालङ्कारविरचितायां साहित्यदर्पणटीकायां दशमपरिच्छेदविवरणम् सुश्लिष्टसंस्कृतवशेन सुखाधिरोहा वैषम्यदुस्तरतरङ्गविभेददक्षा ।
साहित्यदर्पणमहार्णवमुत्तरीतुं टीकेयमस्तितरणिर्न बिभीत धीराः ॥ १ ॥
दर्पणे प्रतिबिम्बन्ते पदार्था इति नाद्भुतम् ।
चित्रं ममैतद् व्याख्याने दर्पणः प्रतिबिम्बिते ॥ २ ॥
अवधानकृतामोदा टीकेयं नावधीर्यताम् ।
धीराः कषायताम्बूले स्वाद्यन्ते हि क्रमाद्रसाः ॥