०९

नवमः परिच्छेदः

अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह—

टीका

विज्ञप्रिया:

(वि, क) उद्देशेति—गुणआलङ्काररीतय इत्युद्देशे ऽलङ्कारस्य प्रागुद्दिष्टत्वेन तदुल्लङ्घयम् इत्यर्थः ।
तदुल्लङ्घने हेतुमाह—बहुवक्तव्यत्वेनेति ।
एतेन सूचीकटाहन्यायो दर्शितः ।

लोचना:

(लो, अ) इदानीं रीतिं निरूपयितुकामः सङ्गति करोति—अथोद्देशेति ।
बहुवक्तव्यत्वेन उल्लङ्घ्यकमं सूचीकटाहन्यायादित्यर्थः ।

पदसङ्घटना रीतिरङ्गसंस्थाविरोषवत् ।
उपकर्त्रो रसादीनां—

टीका

विज्ञप्रिया:

(वि, ख) रसादीनामित्यादिपदात् समस्तासंलक्ष्यक्रमपरिग्रहः ।

रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।

लोचना:

(लो, आ) पदानां सङ्गटना रचना अर्थात् विशिष्टा, विशेषश्च विशेषलक्षणेष्वभिव्यक्तः ।
रसादीनामिति ।
अङ्गसंस्थाविशेषो यथा लोके आत्मानमुपकरोति तथा काव्येषु ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

—सा पुनः स्याच्चतुर्विधा ॥ विस्स्द्_९।१ ॥

वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।

सरीतिः ।
तत्र—

माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ॥ विस्स्द्_९।२ ॥

अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।

यथा—“अनङ्गमङ्गलभुवः–” इत्यादि ।
रुद्रटस्त्वाह—
असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।
वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥
अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।

टीका

विज्ञप्रिया:

(वि, ग) अनङ्गमङ्गलभुव इत्यादि व्याख्यातम् ।
एकपदसमस्ता न त्वनेकपदैर्देर्घसमस्ता ।
स्वल्पप्राणानि अक्षराणि ईषत् प्रयत्नोच्चार्य्यापि ककारहकारादीनि यत्र ।
श्लेषादिर्दशगुणाः ।

लोचना:

(लो, इ) ललितात्मिका सुकुमारस्वरूपा ।
वृत्तिः समासः ।
अत्र रुद्रटाचार्य्यमतप्रकटनम् ।
एकसमस्ता एकपदसमासयुक्ता, स्वल्पप्राणाक्षरा मूर्द्ध्ना मृद्वृत्तेत्यादिवत् न कष्टोच्चारणीयवर्णा ।

ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ॥ विस्स्द्_९।३ ॥

समासबहुला गौडी—

यथा—“चञ्चद्भुज–” इत्यादि ।
पुरुषोत्तमस्त्वाह—
“बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च” ॥

टीका

विज्ञप्रिया:

(वि, घ) आडम्बर उद्दतवर्णघटितः ।
पुरुषोत्तस्त्विति ।
अन्यापेक्षया प्राक्लिखितबन्ध आडम्बरः; एतन्मते उक्तवर्णानामनुप्रसितत्वनियम इति विशेषस्तदाहअनुप्रासमहिमपरतन्त्रेति ।
पारतन्त्र्यं व्याप्तिः ।
अस्तोभवाक्य यतिरहितवाक्या ।

लोचना:

(लो, ई) अनुप्रासमहिमपरतन्त्रानुप्रासबहुला ।

—वर्णैः शेषैः पुनर्द्वयोः ।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ विस्स्द्_९।४ ॥

टीका

विज्ञप्रिया:

(वि, ङ) पाञ्चालिकां रीतिमाह—वर्णैरिति ।
द्वयोः शेषैरवशिष्टैर्वर्णैरित्यर्थः ।
समस्तपञ्चमपद इति अत्र पदपदम् अक्षरम् ।
तेन समासगतपञ्चमाक्षर इत्यर्थः ।

द्वयोर्वैदर्भोगौड्योः ।
यथा—
“मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे” ॥

टीका

विज्ञप्रिया:

(वि, च) मधुरयेति ।
मधुकराङ्गनया भ्रमर्य्या निभृताक्षरं गुप्ताक्षरमस्फुटाक्षरं यथा स्यात्तथा मुहुरुज्जगे ऽगीयत ।
कीदृश्या मधुरया ध्वनिमधुरतयैव तस्या मधुरता, तथा मधुना वसन्तेन बोधिताया उद्वोधिताया माधवीलताया मधुनो मकरन्दस्य समृद्ध्या सम्पत्त्या समेधिता दीप्ता मेधा बुद्धिर्यस्यास्तादृश्या ।
तथोन्मदद्वनिभृता उच्चत्वमेवोन्मदत्वम् ।
अत्र मकारनकारौ पञ्चमवर्णौ समासगतौ ।

भोजस्त्वाह—
“समस्तपञ्चषपदामोजः कान्तिसमन्विताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः” ॥

टीका

विज्ञप्रिया:

(वि, छ) कण्ठारणकृतो भोजस्य सम्पतलक्षणमाह—भोजस्त्विति ।
ओजः कान्तीति ।
साभिप्रायत्वरूपेण ओजसा औज्ज्वल्यरूपया कान्त्वा च समन्वितामित्यर्थः ।
मधुरांसुकुमारां चेति ।
पृथक् पदत्वरूपेण माधुर्य्येण सौकुमार्येण च युक्तामित्यर्थः ।
अनङ्गमङ्गलभुव इति वैदर्भ्युदाहरणे पञ्चममूर्द्धान एव वर्णा इति ।
न तत्र समस्तपञ्चमवर्णघटितपाञ्चालीत्वप्रसक्तिः ।
मधुरयेत्यादिपाञ्चाल्युदाहरणे समासगता एव पञ्चमवर्णा इति न तत्र पञ्चममूर्द्धवर्णघटितवैदर्भोत्वप्रसक्तिः ।
तत्र माधुर्य्यव्यञ्जकैरित्यत्र बहुवचनादत्र मधुकराङ्गनया इत्यत्र तद्व्यञ्जकैकवर्णमात्रसत्त्वेन तत्प्रसक्त्यभावात् ।

लोचना:

(लो, उ) ओजः–कान्ती तन्मतोक्तौ गुणविशेषौ ।

लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।

लोचना:

(लो, ऊ) अन्तरा स्थितेत्यनेन नात्यल्पसमासा न बहुलसमासा, एवमन्यत्र ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

यथा—
“अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि” ॥

टीका

विज्ञप्रिया:

(वि, ज) अयमुदयतीति ।
लाट्युदाहरणे तदुभयमिश्रणं दर्शयिष्यते ।
तदर्थस्तु अयम् अर्थात् सूर्य्य उदयति ।
कीदृशः ।
पद्मिनीनां मुद्रायाः सङ्कोचस्य भञ्जनः तत्पुष्पविकाशकरत्वात् ।
तथा उदयगिरिस्थाया वनश्रेण्या नवीनमन्दारपुष्पस्वरूपः ।
विरहदुः खितस्य चक्रवाकमिथुनस्य बन्धुर्मित्रं तद्विरहनाशकत्वात् ।
तमांसि भिन्दन् च कुपितस्य वानरस्य कपोलक्रोडोभयवत् ताम्रश्च ।
कोपशात् कपोलस्य ताम्रता क्रोडस्य तु स्वाभाविकी ।
अत्र भञ्जनेति, मन्दारेति, द्वन्द्वबन्धुरिति, भिन्दन्निति पञ्चममूर्द्धवर्णानां वैदर्भोघटकत्वं तच्छेषवर्णानाम्बहूनामेवं पाञ्चालीघटकत्वमित्युभयमिश्रणम् ।

कश्चिदाह—
“मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।

लोचना:

(लो, ऋ) युक्तैः संयुक्तैः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी” ॥

टीका

विज्ञप्रिया:

(वि, झ) कश्चिदाहेति—लाटीलक्षणमिति शेषः ।
मृदुपदेति—पदसमासयोरुभयत्र मृदुत्वान्वयः ।
युक्तैः संयुक्तैर्वर्णैर्नचातिभूयिष्ठा, भूयिष्ठसंयुक्तवर्णरहितेत्यर्थः ।
उचितेति—उचितम् उक्तदोषरहितं विशेषणं पूरितम् प्रतिपालितं येन तादृशस्य वस्तुनो न्यासयुक्ता लाटी भवेदित्यर्थः ।
एतदप्युक्तोदाहरणे एव सम्भवति ।
तत्तद्गुणव्यञ्जकानां वर्णादीनां तत्तद्गुणव्यञ्जनार्थमुपादेयत्वेनोक्तत्वात् ।

अन्ये त्वाहुः—
“गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।
पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः” ॥

क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ॥ विस्स्द्_९।५ ॥

टीका

विज्ञप्रिया:

(वि, ञ) क्वचित्तत्तद्रसाभावेन तद्गुणव्यञ्जनार्थमनुपादेयत्वे ऽपि वक्त्राद्यौचित्याद् अन्यथा रचनादय इत्याह—क्वचिद्वक्त्रादीति ।
तद्गुणव्यञ्जनाभावे ऽपि तन्निबन्ध एवान्यथात्वम् ।

लोचना:

(लो, ॠ) इह सङ्घटनादीनां गुणपरतन्त्रत्वे ऽपि विशेषमाह–क्वचिदिति ।
यदाह सर्वत्रैव रसाश्रिता रचनादयो वक्त्राद्यपेक्षायां तु किञ्चित्तरातम्यमिति ।

वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ । रचनादीत्यादिशब्दाद्वृत्तिवर्णौ ।
तत्र वक्त्रौचित्याद्यथा—
“मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।
कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽयम्” ॥
अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वे ऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः ।

टीका

विज्ञप्रिया:

(वि, ट) मन्थायस्तेत्यादि—रणस्थले दुन्दुभिशब्दं श्रुत्वा भीमस्येयं पृच्छा ।
केनायं दुन्दुभिस्ताडितः–ताडनेन जनितः ।
यथा श्रुते विशेषणानां दुन्दुभौ अन्वयः ।
शब्दः कीदृशः ।
मन्थनेन मथनेन आयस्तस्य प्राप्तायासस्यार्णवस्याम्भसापुलुतं व्याप्तं कुहरं गुहा यस्य तादृशस्य चलतः मन्दरस्य ध्वानवत् धीरः ।
कोणस्य वादनदण्डस्याघातेषु ताडनेषु सत्सु ।
गर्ज्जन्त्याः प्रलयघनघटाया अन्यो ऽन्यसङ्घट्टनेन चण्डः ।
यद्वा— ढक्काशतसहस्त्राणि भेरीशतशतानि च ।
एकदा यत्र वाद्यन्ते कोणाघातः स उच्यते ॥
यत्रेति निमित्तसप्तम्यां यादृशशब्दनिमित्तं ढक्कादय एकदा ताड्यन्ते स शब्दः कोणआघात इत्यर्थः ।
तथा च तादृशशब्देषु मध्ये अयं गर्ज्जत् इत्यादि चण्ड इत्यर्थः ।
कृष्णाया द्रौपद्याः क्रोधस्य अग्रदूतः तत्प्रवर्त्तकत्वात् कुरुकुलनिधनसूचक उत्पातभूतो निर्घातवातश्च इत्यर्थः ।
अत्रेति वाच्यपदमत्र प्रतिपाद्यपरं तथा च लक्ष्यस्य दुन्दुभिशब्दस्य इत्यर्थः ।

लोचना:

(लो, ऌ) मन्थायस्तेत्यादौ कोधाव्यञ्जकत्वं वाक्यस्य च नाटकरूपस्याभिनेयदुः- खावहत्वात् ।
अनुचितमपि दीर्घसमासान्तत्वे ऽपि विशेषमाह—धीरोद्धतो भीमसेनो वक्तेति नानौचित्यमिति भावः ।

वाच्यौचित्याद्यथोदाहृते “मूर्धव्याधूयमान—” इत्यादौ ।

लोचना:
(लो, ए) मूर्द्धव्याधूयमानेत्यादौ च न वक्त्रौचित्यम्, नाटकान्तः पातित्वाच्च उक्तप्रकारेण प्रबन्धौचित्यमपि ।
किन्तु काव्यस्य उद्धतार्थप्रकाशकत्वादुद्धतरचना ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

प्रबन्धौचित्याद्यथा नाटकादौ रौद्रे ऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः ।
एवमाख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः ।
कथायां रौद्रे ऽपि नात्यन्तमुद्धताः ।

टीका

विज्ञप्रिया:

(वि, ठ) आख्यायिकाकथे प्रबन्धविशेषौ ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्यकृतायां साहित्यदर्पणटीकायां रीतिनिरूपणख्यस्य नवमपरिच्छेदस्य विवरणम् ।

एवमन्यदपि ज्ञेयम् ।

लोचना:

(लो, ऐ) आख्यायिकादिलक्षणमुक्तमेव ।
आख्यायिकाया गद्यमयप्रबन्धत्वेनगद्यस्य च विकटबन्धदीर्घसमासबहुलप्राचुर्य्यौतित्यात् तत्र शृङ्गारे ऽपि न प्रायेण सुकुमाररचनादिः ।
यदुक्तं ध्वनिकृता— “रसबद्धोक्तमौचित्यं भाति सर्वत्र संश्रिता ।
रचनाविषयापेक्षं तत्तु किञ्चिद् विभेदवत्” ॥
इति कथाप्रबन्धस्य गद्यमयत्वे ऽपि शृङ्गाररसमयत्वाद्रौदादिरसप्रवेशे ऽपि नात्यन्तमुद्धतरचनादयो विधेयाः ।
एवमन्यदपि ।
यदुक्तं ध्वनिकृता—“सन्दानिकादिषु विकटबन्धौचित्याद् मध्यमसमासदीर्घरमासे एव सङ्घटने” ।

इति श्रीसाहित्यदर्पणलोचने रीतिविवेको नाम नवमः परिच्छेदः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः ।