०८

अष्टमः परिच्छेदः

गुणानाह—

रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा ।

टीका

विज्ञप्रिया:

(वि, क) गुणनिरूपणमारभते—गुणानाहेति ।
अङ्गित्वमाप्तस्येति ।
एतच्च काव्यम् अङ्गम् रसो ऽङ्गी इत्येतत्प्रदर्शनपरमेव, नत्वङ्गिपदादङ्गरसस्य व्यवृत्तिस्तत्रपि माधुर्य्याद्यनुभवात् रसपदं चासंलक्ष्यक्रमपरं भावादावपि गुणाङ्गीकारात् ।

लोचना:

(लो, अ) एवं दोषान्निरूप्य गुणनिरूपणमवतारयति ।
अङ्गित्वमाप्तस्य काव्यात्मभूततया ।

गुणाः—
यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्ये ऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयो ऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः ।
यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव ।

टीका

विज्ञप्रिया:

(वि, ख) अङ्गित्वमाप्तस्येत्यनेन शरीरिण आत्मन उपस्थितत्वात् तं दृष्टान्तयति–यथा खल्विति ।
स्वरूपविशेषा इति ।
वैलक्षण्यरूपत्वेन इतरव्यावर्त्तकविशेषा इत्यर्थः ।
स्वसमर्पकेति—स्वस्य गुणस्य समर्पको बोधको यः पदसमूहस्तस्य काव्यव्यपदेशस्यौपयिकं यदानुगुण्यं स्वाश्रयिणा रसेन सह काव्ये स्थितिरूपं तद्भाज इत्यर्थः ।
नीरसस्य काव्यशब्दवाच्यत्वाभावात् किन्तु तत्र लाक्षणिकमेव काव्यपदमित्यर्थः ।
यद्यपि वर्णैरेव गुणा व्यडज्यन्ते न पदैरिति पदसमूहस्य गुणसमर्पकता नास्ति तथापि पदसमूहघटकवर्णैस्तत्समर्पणात् ; पदसमूहस्यापि तत्समर्पकत्वं युक्तम् ।
आनुगुण्यप्रधर्शनेन गुणपदार्थो विवृतः ।
रसमात्रधर्मत्वं दर्शितमिति ।
शौर्य्यदृष्टान्तेन दरिशतमित्यर्थः ।
मात्रपदात् वर्णधर्मत्वव्यवच्छेदः ।

लोचना:

(लो, आ) यथा खल्वित्यतो ऽनन्तरं लोके इति शेषः ।
स्वस्यात्मनो माधुर्य्यादेरेव समर्पकः अर्थात् सहृदयहृदयेषु निवेशयिता यः पदसमुदायः यदनुगुणत्वमिति; यद्यपि माधुर्य्यादीनां रसस्यात्मस्वरूपविशेषात्मकत्वात् उत्कर्षहेतुत्वं नास्ति, तथापि पदसन्दर्भस्य तन्मुखप्रेक्षितयैव तथाविधव्यञ्जकत्वौचित्यानुसारेण “मूद्र्ध्नि वर्गान्त्यगाः स्पर्शा इत्याद्युक्तप्रकारकविनिर्माणात् तत्कारणकत्वम् ।
तेन पदसन्दर्भेणनुकूल्यत्तस्य रसोत्कर्षकत्वं माधुर्य्यादिगुणेषु उपचर्य्यत इति दर्शितं प्रथमपरिच्छेदे ।

माधुर्यमोजो ऽथ प्रसाद इति ते त्रिधा ॥ विस्स्द्_८।१ ॥

लोचना:

(लो, इ) त्रिधा प्राचीनोक्तस्य प्रत्येकं दशप्रकारस्य निराकरिष्यमाणत्वात् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

ते गुणाः ।
तत्र—

चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते ।

टीका

विज्ञप्रिया:

(वि, ग) माधुर्य्यलक्षणमाह—चित्तद्रवीति–मयट्प्रत्ययो ऽत्र स्वार्थे आह्लाद इत्यत्र आह्लादविशेषवृत्तिः ।
स च आह्लादविशेषे रत्यादिज्ञानानन्दजातः स्वादनाख्यव्यापारग्रह्यो रसस्वरूपः तद्वृत्तिः न तु तादृशाह्लाद एव माधुर्य्यम्, तदा तस्य रसधर्मत्वानुपपत्तेः तथा च चित्तद्रवीभावस्वरूपाह्लादवृत्तिः तादृशाह्लादतावच्छेदको धर्मो माधुर्य्यमित्यर्थः ।

लोचना:

(लो, ई) ह्लादो ह्लादस्वरूपः तस्य तद्भिन्नत्वस्योक्तत्वात् ।
इह चास्वादस्य आनन्दपरपर्य्यायत्वेन स्वादसाधारणत्वात् चित्तद्रवीभावमय इत्यनेनाव्याप्तिपरिहारः ।

यत्तु–केनचिदुक्तम्–“माधुर्यं द्रुतिकारणम्” इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् ।

टीका

विज्ञप्रिया:

(वि, घ) काव्यप्रकाशकृदुक्तं दूषयितुमाह—यत्त्विति ।
आह्लादकत्वं माधुर्य्यं शृङ्गारे द्रुतिकारणमिति तल्लक्षणम् ।
स च रसस्वरूपाह्लादजनकतावच्छेदको रत्यादिनिष्ठो धर्म इत्यर्थः ।
रत्यादेरेव रसताप्राप्त्या तस्य रसवृत्तित्वमपि; स एव धर्मो मनसो द्रुतिकारणमित्यर्थः ।
तद्दषूयति–तन्नेति ।
द्रवीभावस्येति—स्वेन स्वाश्रयाजननादिभावः ।
एतच्च द्रवीभावाह्लादयोरभेदं स्वयमभ्युपेत्य दूषितं च ।
तन्मते तु द्रवीभावश्चित्तवृत्तिराह्लाद आत्मवृत्तिरित्यनयोरभेद एव नास्ति ।
किन्तु आह्लादस्थेन माधुर्य्येण चित्तस्य द्रवीभावो जन्यत एव रागमाधुर्य्येणैवेति

द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् ।

टीका

विज्ञप्रिया:

(वि, ङ) आस्वादरूपाह्लादाभिन्नत्वेन उक्तं द्रवीभावं दर्शयति—द्रवीभावश्चेति ।
चित्तस्याविष्टत्वमेव हि द्रवीभावः ।
अनाविष्टता तु तस्य स्वाभाविकी तदात्मकं यत्काठिन्यं तज्जन्यौ यौ शत्रुमारणोत्साहरूपमन्युक्रोधौ तदादिकृत्वा ये उष्णप्रायत्वरूपदीप्तत्वविस्मयहासास्तदाद्युपहितो यश्चित्तस्य विक्षेपश्चाञ्चल्यं तत्परित्यागेन अर्थात् चित्तस्याविष्टत्वेन यो रत्याद्याकारानुविद्धो रत्यादिविषयपारणिमेव ज्ञानरूपानन्दस्तदुद्धोधेन सहृदयचित्तस्यार्द्रप्रायत्वं द्रवीभाव इत्यर्थः ।
एतत्सिद्धान्तस्तु आह्लादस्य मनोवृत्तित्वस्वीकारे एव सम्भवतीत्यवधेयम् ।
अन्यथा द्रुत्याह्लादयोरभेदोक्त्यनुपपत्तेः ।
रत्याद्याकारेत्यत्र आदिपदात् माधुर्य्याश्रययोः करुणशान्तयोः स्थायिभावस्यापि परिग्रहः ।
एवं च रत्यादिज्ञानानन्दजन्याह्लादविशेष एव रसः ।
स एव स्वादनाख्यव्यापारगम्यः प्रागुक्तो रस इत्युक्तम्, तद्वृत्तिधर्मविशेषो माधुर्य्यमिति सिद्धान्तसिद्धः ।

लोचना:

(लो, उ) स्वाभाविकेति—स्वाभाविकं सहजम् अनाविष्टत्वमनावेशोर्ऽथात् चित्तस्य एव तत्स्वरूपं काठिन्यम्, तथा वीरादाविव मन्युकोधादिजन्यं यद्दीप्तत्वम्, एवं अद्भुतादाविव विस्मयहासयुक्तो यो विक्षेपस्तेषां परित्यागेन परिहारेण ।
एतस्य माधुर्याख्यगुणस्य ।

तच्च—

सम्भोगे करुणो विप्रलम्भे शान्ते ऽधिकं क्रमात् ॥ विस्स्द्_८।२ ॥

टीका

विज्ञप्रिया:

(वि, च) तच्चेति—तच्च माधुर्य्यमित्यर्थः ।
क्रमात्तदाधिक्यं सम्भोगादौ क्रमशश्चित्तद्रुत्याधिक्यात् ।

लोचना:

(लो, ऊ) शान्ते ऽधिकमिति ।
तस्य सहजानन्दसुन्दरतया माधुर्य्यं प्रायेणेति प्रकृष्टमेव ।
क्वचित्तु विषयजुगुप्साद्यनुगमे भेदः ।

सम्भोगादिशब्दा उपलक्षणानि ।
तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया ।

मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना ।
रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ॥ विस्स्द्_८।३ ॥

अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।

टीका

विज्ञप्रिया:

(वि, छ) तद्व्यञ्जकान् वर्णानाह—मूद्र्ध्निति ।
वर्गान्त्यवर्णेन पञ्चमेन युक्ता इत्यन्वयः ।
तत्रैव टठडढान् पर्य्युदस्यति ।
तकारस्तु तन्मूद्र्ध्नि अपर्य्युदस्तः ।
तद्व्यक्तौ माधुर्य्यस्य व्यञ्जने कारणतामित्यन्वयः ।
अवृत्तिरसमासः ।
रचना सन्धिः तस्य च तदुत्पन्नवर्णमाधुर्य्यवशादेव माधुर्य्यवर्णत्वेन प्राप्तावपि सन्धौ अपि तादृशा वर्णः न ऊहाद्या इति कव्युपदेशार्थं पृथगुक्तम् ।

लोचना:

(लो, ऋ) मूद्र्ध्नि इति वर्गा कादयो मावसानाः पञ्च पञ्च भूत्वा पञ्चवार्गाः तेषामन्त्याः ङञणनमाः तैर्मूद्र्ध्नि स्थितैर्युक्ता अर्थात् निजवर्गोया एव ।
ट ठ ड ढाः न तु अन्तिमवर्णेन युक्ताः न च स्वरूपावास्थिता अपि ।
रणौ लघुह्रस्वान्तरितौ, तस्य माधुर्य्यस्य व्यक्तौ, एवमसमासा मन्दसमासाश्च ।
मधुरा पदान्तरयोगे माधुर्य्यवती ।

यथा—
“अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।
जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्” ॥

टीका

विज्ञप्रिया:

(वि, ज) अनेङ्गेत्यादि उदाहरणे सन्ध्युत्पन्नतादृशवर्णौ, सन्तापसन्ततिमित्यत्र उपसर्गधात्वोः सन्धौ द्वावेव ।

यथा वा मम—
“लताकुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् ।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि” ॥

टीका

विज्ञप्रिया:

(वि, झ) अतो बहून् तादृशान् वर्णान् दर्शयितुमाह—यथा वेति ।
मरुत् दिशि दिशि मकरन्दं किरति, कीदृशः, गुञ्जतां मदवतामलीनां पुञ्जो यत्र तादृशं लताकुञ्जं मन्दं मन्दं चपलयन् ।
अङ्गम् अर्थात् नृणां समालिङ्गन् ।
अनङ्गं च द्रुततरं प्रवलयन् प्रकृष्टं बलवन्तं कुर्वन् ।
स्वेनैव दलितं विकासितमरविन्दं तरलयन् ।
रजोवृन्दम् अर्थात् विकसितारविन्दानां परागसमूहं विन्दन् लभमानः (विदॢ लाभे ) अत्र सन्धावपि बहवो वर्णा उक्तरूपाः ।

लोचना:

(लो,ऋ) लताकुञ्जमित्यादौ विधानमात्रवर्णने ऽपि शृङ्गारः प्रकारणात् ।

ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ॥ विस्स्द्_८।४ ॥

वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु ।

टीका

विज्ञप्रिया:

(वि, ञ) ओजोलक्षणमाह—ओजश्चित्तस्येति ।
अत्रापि दीप्तत्वजनकमित्येवार्थः ।
आयुर्घृतमितिवत्, तथा च रसवृत्तिना ओजसा चित्तस्य विस्ताररूपं दीप्तत्वं जन्य इत्यर्थः ।
अत्र एव चित्तस्य विस्ताररूपदीप्तत्वजनकमोज इति काव्यप्रकाशकृताप्युक्तम् ।
विस्तारस्तु चित्तस्य उष्णप्रायत्वकारक आत्मसंयोगविशेषः ।
यथाश्रुते तु चित्तवृत्तेः दीप्तत्वस्य रसवृत्तित्वानुपपत्तेः ।
क्रमेणाधिक्यमिति दीप्तत्वरूपफलाधिक्याद् आधिक्यम् ।

अस्यौजसः ।
अत्रापि वीरादिशब्दा उपलक्षणानि ।
तेन वीराभासादावप्यस्यावस्थितिः ।

लोचना:

(लो, ॠ) इह चानुक्तमपि औचित्यादेव ।
हास्ये विकाशधर्मकत्वात् ओजश्च प्रायः शृङ्गारनिष्ठतया च माधुर्यस्योत्कृष्टत्वम् ।
भयानके चित्तवृत्तेर्विकाशाभावात् यद्यपि माधुर्यम्, तथापि विभावौचित्यादोजः समावेशः ।
अद्भुते शृङ्गारिगते द्वयोः साम्यम् ।
अत्र प्रकृष्टमोजः ।
यद्यपि बीभत्से प्रकृष्टतममोजस्तथापि माधुर्यमप्रकृष्टतरम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ॥ विस्स्द्_८।५ ॥

उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह ।
शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ॥ विस्स्द्_८।६ ॥

तथा समासो बहुलो घटनौद्धत्यशालिनी ।

लोचना:

(लो, ऌ) अयमर्थः–कचटतपैः खछठथफाः, गजडदबैः घझढधभाः युक्ताः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

यथा—“चञ्चद्भुज–” इत्यादि ।

टीका

विज्ञप्रिया:

(वि, ट) तद्व्यञ्जकानाह—वर्गस्येति ।
तदन्तिमौ इति ।
आद्यतृतीययोरन्तिमौ द्वितीयचतुर्थौ इत्यर्थः ।
तथा चाद्येन युक्तः द्वितीयः ।
तृतीयेन युक्तश्चतुर्थौ वर्ण इत्यर्थः ।
आद्यतृतीययोस्तदन्तिमयोश्च नैकवर्गोयत्वनियमः ।
किन्तु भिन्नवर्गोययोरपि तथात्वं बोध्यम् ।
तेन कख्ख इव केच्चछापि गघ्घ इव घेच्छापि तथा बोध्या कटुत्वसाम्यात् ।
अत्र चानुक्ते ऽपि तुल्ययोर्योगो ऽपि काव्यप्रकाशकृदुक्तो ग्राह्यः कटुत्वाविशेषात् ।
तेन क्क ग्ग ज्ज इत्यादयो ऽपि बोध्याः ।
उपर्यध इत्यादि ।
तर्क इत्यादौ उपरि ।
तक्रचक्रादौ अधः आर्द्रकम् इत्यादौ द्वयोः रेफौ बोध्यौ ।
टठडढैः सहेति ।
साहित्यं व्यञ्जकत्वकथनेन व्यञ्जनपरस्परसहितैरपि व्यञ्जनात् ।
समासबहुला घटना इत्यत्र घटनापदं विन्यासमात्रपरं सन्धिपरं च ।
तेन समासबहुला दीर्घसमासवान् विन्यासः, औद्धत्येन कटुत्वेन युक्तः सन्धिश्चेत्यर्थः ।
चञ्जद्भुजेत्यादिकं नाट्यपरिच्छेदे व्याख्यातम् ।
अत्र दीर्घसमासः कतिपये यथोक्ता वर्णाः ।

चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ॥ विस्स्द्_८।७ ॥

स प्रसादः समस्तेषु रसेषु रचनासु च ।

टीका

विज्ञप्रिया:

(वि, ठ) प्रसादगुणलक्षणमाह—चित्तमिति ।
अत्र चित्तपदं ज्ञानपरम् ।
तथा च यो गुणः क्षिप्रं श्लोकार्थज्ञानं व्याप्नोति आविष्करोति जनयतीति यावत् ।
अत एवाविष्करोतीति व्याख्यास्यति ।
स गुणः प्रसाद इत्यर्थः ।
अत्र दृष्टान्तमाह शुष्केति ।
अनलः शुष्केन्धनं यथा क्षिप्रं सुविशिष्टतयाऽविष्करोतीत्यर्थः ।
समस्तेषु रसेषु इति ।
रचनासु इति ।
सप्तम्यधिकरणतायाम्, रचना शब्दप्रथना तत्र सप्तमी च व्यञ्जकतायाम् ।
तथा च सर्वरचनाव्यङ्ग्यश्चेत्यर्थः ।
न चैवं प्रसादरहितः को ऽपि अलोको न स्यादिति वाच्यम् ।
सर्वजातीयासु रचनासु, न तु सर्वरचनाव्यक्तिषु इत्यर्थः ।

लोचना:

(लो, ए) चित्तं प्रतिपत्तॄणामित्यर्थः ।

व्याप्नोति आविष्करोति ।

शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ॥ विस्स्द्_८।८ ॥

टीका

विज्ञप्रिया:

(वि, ड) तद्व्यञ्जकरचनाव्यक्तिं दर्शयति—शब्दा इति ।
श्रुतिमात्रतोर्ऽथबोधकाः शब्दास्तद्व्यञ्जका इत्यर्थः ।

लोचना:

(लो, ऐ) इह च प्रसादगुणस्य झटित्यर्थप्रकाशनेन उक्तरूपरसनिष्ठप्रसादगुणाभिव्यञ्जनादौ परिचारिकमपि रचनानिष्ठत्वं प्रयत्नविधेयत्वेन रससादचर्येण उक्तिं प्रसादातिक्रमेषु सामान्यमपि सङ्घटना करुणविप्रलम्भशृङ्गारौ व्यनाक्ति ।
तदपि परित्यागे मध्यमसमासापि प्रकाशयतिति ।

यथा—
“सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः ।
बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्ने ऽपि तां कथमहं न विलोकयामि” ॥

टीका

विज्ञप्रिया:

(वि, ढ) सूचिमुखेनेति—प्रियायाः स्तनन्यस्तं मुक्ताहारं परोक्षमपि भावोपनीतं सम्बोध्य विरहिण उक्तिरियम् ।
श्लोकार्थस्तु प्रसादात् स्पष्ट एव ।

एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः ।

शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।

लोचना:

(लो, ओ) यत् पुनरेषां शब्दवृत्तित्वमुच्यते तत्र हेतुमाह—एषामिति ।
गुणवृत्त्या पूर्वोक्तरीत्या उपचारेण ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ॥ विस्स्द्_८।९ ॥

गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते ।

ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे ।

टीका

विज्ञप्रिया:

(वि, ण) रसवृत्तीनामप्येषां शब्दगुणत्वव्यवहारमुपपादयति—एषामिति ।
गुणवृत्त्या परम्परावृत्त्या गुणाश्रयरसव्यञ्जकत्वं परम्पराशब्दगुणत्वमित्युपलक्षणम् ।
अर्थगुणत्वमप्येवं बोध्यम् ।
इत्थं रसवृत्तय एव त्रय एव गुणाः परम्परया शब्दार्थवृत्तयः ।
चिरन्तनैरुक्तानां"श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिमुदारत्वमोजः कान्तिः समाधयः “इति दशगुणानां मध्ये श्लेषादिगुणचतुष्टयमोजस्यन्तर्भवतीत्याह—श्लेष इत्यादि ।
ओजस्यन्तर्भावे प्रकारमाह—भक्त्येति ।
अस्मदुक्तौजोगुणव्यञ्जकवर्णेष्वेव हि ते चत्वारा गुणा वर्त्तन्ते इति तैरुच्यते ।
तथा च परम्परया शब्दवृत्तेरस्मदुक्तौजोगुणसमाधानाधिकरणा एव ते तन्मते पर्य्यवस्यन्ति ।
तथा तेषां तद्भिन्नत्वोक्तौ गौरवं तदात्मकत्वमेवोचितमित्येतदेवाह—भक्त्येति ।
आजः पदवाच्ये रसगुणविशेषे भक्त्या परम्परारूपया भक्त्या शब्दधर्मे ऽन्तर्भवन्तीत्यर्थः ।
तदभिन्ना एते इत्यर्थः ।

तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा ।

लोचना:

(लो, औ) कथं त्रय एव गुणा इत्यत्राह—श्लेष इति ।
भक्त्या उपचारेण ।
पदानां बहूनामेकपदवद्भासनम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

यथा—
“उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः ।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेङ्खदसङ्ख्यशङ्खधवला वेलेयमुद्रच्छति” ॥
अयं बन्धवैकट्यात्मकत्वादोज एव ।

टीका

विज्ञप्रिया:

(वि, त) तत्र तैरुक्तस्य श्लेषस्य लक्षणमाह—श्लेषो बहूनामिति ।
एकपदवद्भासनं दीर्घसमासेन ।
उन्मज्जदिति—उन्मज्जतो जलकुञ्जरेन्द्रस्य रभसा स्फालनानुबन्धेन सहसा स्फालनक्रियया उद्धतः इत्यतः अयं ध्वनिः यथा उच्चैरुच्चरति, प्रायः सम्भावने, तथा वेला समुद्रस्य नीरम् उद्रच्छति; कुञ्जरास्फालनेन तीरं प्लावयतीत्यर्थः ।
वेला कीदृशी—प्रेङ्कद्भिश्चलद्भिरसङ्ख्यशङ्खैः धवला ।
ध्वनिः कीदृशः ?श्रुतिपथोन्माथी ।
सर्वाः पर्वतकन्तरोदरभुवश्च प्रतिध्वानिनीः कुर्वंश्च ।
अयमिति ।
बन्धवैकट्यमुद्धतबलविशिष्टशब्दत्वम् ।
तच्च तादृशशब्दवृत्तित्वात् परम्परया शब्दवृत्त्योजोगुण एव इत्यर्थः ।
समानाधिकरणधर्मद्वयकल्पने गौरवादिति भावः ।

लोचना:

(लो, अ) उच्चैरुच्चरति ध्वनिरित्यादौ सुव्यक्तम् ।
जलकुञ्जरो हस्त्याकारमुखो जलजन्तुविशेषः ।
तस्य रभसेन आस्फालः अर्द्दनम् अर्थात् जलस्यैव ।
प्रेङ्खन्तः वल्गन्तः ।
वेला समुद्रवीचिः ।

समाधिरारोहावरोहक्रमः ।
आरोह उत्कर्षः, अवरोहो ऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः ।
यथा—“चञ्चद्भुज–” इत्यादि ।
अत्र पदात्रये क्रमेण बन्धस्य गाढता ।
चतुर्थपादे त्वपकर्षः ।
तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता ।

टीका

विज्ञप्रिया:

(वि, थ) समाधिकरणलक्षणमाह—समाधिरिति ।
उत्कर्षः समासाधीनः अपकर्षस्तदभावादीनः ।
तयोः क्रम इति ।
क्रमो यथोच्तस्थाने विन्यासाद् वैरस्यानधानम्, तदाह–वैरस्यानावह इति ।
चञ्चद्भुजेत्यादि इति ।
व्याख्यातमिदं प्राक् ।
बन्धगाढतेति–दीर्घसमासात् स एव चोत्कर्षः ।
चतुर्थपाद इति ।
“उत्तंसयिष्यति कचांस्तव देवि भीम “इत्यत्र दीर्घसमासाभावो ऽपकर्षः स चात्र द्रौपदायश्वासनरूपेण क्रोधाभावेन दीर्घसमासाभावः योग्यस्थाने विन्यासाद् वैरस्यानाधायकः ।
अत एवात्र पतत्प्रकर्षत्वमपि गुणः ।
अस्याप्योजस्यन्तर्भावं दर्शयति—अस्यापीति ।
तथा च पादत्रयवशादोजस्यान्तर्भाव इति भावः ।

उदारता विकटत्वलक्षणा ।
विकटत्वं पदानां नृत्यत्प्रायत्वम् ।

लोचना:

(लो, आ) नृत्यत्प्रायत्वमिति ।
पदानि नर्त्तकीकृत्य दर्शितानीवानुभूयन्ते यत्र ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

यथा—
सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च ।
अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः ।

टीका

विज्ञप्रिया:

(वि, द) औदार्य्यलक्षणमाह—उदाहता चेति ।
नृत्यत्प्रायता च अनुभवैकगम्या वक्तुमशक्या उदाहरणे बोध्या ।
स्वचरणेति ।
अयं शृङ्गरीयः श्लोकः ।
लघुरेफशकारल्पसमासाश्च तदीयमाधुर्य्यव्यञ्जकाः ।
तथापि तन्मते तादृशरसानुसन्धानात् प्रागेव शब्दानां नृत्यत्प्रायत्वरूपप्रौढौक्तिमात्रज्ञानात् औजोगुणानुभाव इत्याह—अत्र तन्मते इति ।
तथा चात्र सृङ्गारनुगुणे ऽप्येतादृशप्रौढ्या व्यज्यमाने औजस्य स्मदुक्ते औदार्य्यस्यान्तभार्व इति भावः ।

प्रसाद ओजोमिश्रितशौथिल्यात्मा ।
यथा—
“यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात् पाण्डवीनां चमूनाम्” इति ।

टीका

विज्ञप्रिया:

(वि, ध) प्रसादगुणलक्षणमाह—प्रसाद इति ।
कठिनकोमलवर्णमिश्रणमित्यर्थः ।
यो य इति प्राग् व्याख्यातम् ।
अत्र कठिनवर्णानामपि मिश्रणादोजस्विता ।

माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ॥ विस्स्द्_८।१० ॥

पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः ।

टीका

विज्ञप्रिया:

(वि, न) माधुर्य्यलक्षणं पृथक्पदत्वं तच्चास्माकं माधुर्य्यव्यञ्जको ऽसमासेनाङ्गीकृतमित्याह—माधुर्य्येति ।
श्वासान् मुञ्चतीत्यादावसमासः ।

लोचना:

(लो, इ) असमासस्य वर्णितम्—अवृत्तिरल्पवृत्तिर्वेत्यनेन ।

यथा—“श्वासान्मुञ्चति-” इत्यादि ।

अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ॥ विस्स्द्_८।११ ॥

अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् ।

स्पष्टमुदाहरणम् ।

ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ॥ विस्स्द्_८।१२ ॥

अङ्गीकृतेति सम्बन्धः ।
तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् ।
सुकुमारता अपारुष्यम् ।
अनयोरुदाहरणे स्पष्टे ।

टीका

विज्ञप्रिया:

(वि, प) स्पष्टमुदाहरणमिति ।
सूचिमुखेनेत्यादि प्रसादगुणोदाहरणस्यान्येषां च बहूनां तदुदाहरणत्वात् ।
अपारुष्यम् अदुः श्रवत्वम् ।
अनयोरुदाहरणे इति ।
एतद्दोषद्वयरहिताः श्लोका एवेत्यर्थः ।

लोचना:

(लो, ई) कान्तिर्यथा मम— नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थिपाणिद्वयं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः ।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्द्धिनी स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ॥

क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी ।
अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथम् ॥ विस्स्द्_८।१३ ॥

मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः ।
स च क्वचिद्दोषः ।
तथाहि—
“अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता ।
उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव- स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते” ॥
अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव ।
अनेवंविधस्थाने माधुर्यादावेवान्तः पातः ।
यथा—“लताकुञ्जं गुञ्जन्-” इत्यादि ।

टीका

विज्ञप्रिया:

(वि, फ) क्वचिदिति ।
मार्गाभेदप्रदर्शनी समता क्वचिद्दोषः ।
अन्यथेति ।
अत्र तादृशस्थले तु समता माधुर्य्यौजोगुणयोरन्यतरगुण इत्यर्थः ।
व्याचष्टे—मसृणेनेति ।
अव्यूढाङ्गमिति ।
शिसुरेषः पारीन्द्रः सिंहः अव्यूढाङ्गम् अप्रौढावयवं पाणिजठराणामाभोगेन परिपूर्णतया रहितं त वपुः दधत्, क्षुद्रतया पाणिपुटके सम्मातु ।
एतावता किम् इतो दृश्यमानात् प्रोद्यतां दुर्द्धरगन्धानां सिन्धुरशतस्य हस्तिशतस्य प्रोद्दामदानार्णवानां शोषणात् पुनः कल्पाग्निरल्पायते ।
अनेवंविधेति ।
अनुद्धते वाच्ये इत्यर्थः ।
दोषस्तु प्रकृतिविपर्य्ययरूपोबोध्यः ।

ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता ।
तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ॥ विस्स्द्_८।१४ ॥

टीका

विज्ञप्रिया:

(वि, ब) इदानीम् उक्तनाम्नां भिन्नलक्षणानां परोक्तदशार्थगुणानामप्यनङ्गीकारबीजमाह—ओजः प्रसाद इत्यादि ।
ओज आदि उदाहान्ताः पञ्चार्थगुणाः तदभावस्य दोषत्वादेव स्वीकृता इत्यर्थः ।
तथा च दोषाभाव एव एते पञ्चगुणा इत्यर्थः ।

ओजः साभिप्रायत्वरूपम् ।
प्रसादोर्ऽथवैमल्यम् ।
माधुर्यमुक्तिवैचित्र्यम् सौकुमार्यमपारुष्यम् ।
उदारता अग्रम्यत्वम् ।
एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणान्निराकरणेनैवाङ्गीकारः ।
स्पष्टान्युदाहरणानि ।

टीका

विज्ञप्रिया:

(वि, भ) ओज आदिपञ्चगुणानां लक्षणान्याह—ओज इति ।
विशेष्यपुष्ट्यभिप्रायकविशेषणत्वं साभिप्रायत्वम् ।
तच्चापुष्टार्थत्वदोषाभावत्वेन स्वीकृतम् ।
अर्थवैमल्यमधिकपदेनाकलुषीकरणम् ।
तच्चाधिकपदत्वदोषाभावत्वेन उक्तिवैचित्र्यम् अनेकवारप्रतिपादनीयस्यार्थस्य भङ्ग्यन्तरेण कथनम्, तच्च अनवीकृत्वादोषाभावत्वेन ।
अपारुष्यममङ्गलरूपपारुष्यविरहः, ।
तच्चामङ्गलाश्लीलत्वदोषाभावत्वेन, अग्रम्यतावैदग्ध्यप्रतिपादकार्थभिन्नत्वम्; तच्च ग्राम्यत्वदोषाभावत्वेन स्वीकृतमित्यर्थः ।
स्पष्टानीति—एतद्दोषपञ्चकरहितश्लोका एवेत्यर्थः ।

अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः ।
रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ॥ विस्स्द्_८।१५ ॥

टीका

विज्ञप्रिया:

(वि, म) रसध्वनिः शून्यं वासगृहमित्यादि ।
रसगुणीभूतव्यङ्ग्यः ।
“अयं स रसनोत्कर्षो” त्यादि अपराङ्गम् ।

अङ्गीकृत इति सम्बन्धः ।
अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् ।

लोचना:

(लो, उ) उद्धतार्थः प्रोद्यद्दुर्द्धरेत्यादौ ।
अर्थव्यक्तिर्ययो– लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विकमेण ।
स्फूर्जत्फुत्कारघोरः प्रतिदिशमखिलान् वारयन्नेष जन्तून् कोपाविष्टः प्रविष्टः प्रतिवनमरूणोच्छूनचक्षुस्तरक्षुः ॥

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

कान्तिर्देप्तरसत्वम् ।
स्पष्टे उदाहरणे ।

श्लेषो विचित्रतामात्रमदोषः समता परम् ।

टीका

विज्ञप्रिया:

(वि, य) विचित्रतामात्रमिति—तथा च वैचित्र्यमलङ्कार इत्यलङ्कारसामान्यलक्षणाक्रान्तत्वादलङ्कार एवैसौ न गुण इत्यर्थः ।
समतेति ।
समता परमदोषो दोषाभावमात्रमित्यर्थः ।

श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा ।
तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहो ऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् ।
अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः ।

टीका

विज्ञप्रिया:

(वि, र) तत्र श्लेषलक्षणमाह—श्लेषक्रमेति ।
क्रमादीन् व्याचष्टे-क्रमः क्रियते—साकाङ्क्षाक्रियाबाहुल्यमित्यर्थः ।
क्रमकौटिल्येत्यादि बहुव्रीहिसमासं विवृणोतिस एव रूपं यस्या इति ।
स एव एषां योग एव इत्यर्थः ।
तद्रूप इत्यत्र रूपपदमात्मपदार्थविवरणम् ।
अनन्येति ।
माधुर्य्यादयस्तदन्तर्भूतं गुणान्तरं वा यथा विलक्षणरसोपकारातिशयहेतुरस्य, तथात्वविरहान्न गुणत्वभित्यर्थः ।

यथा—
“दृष्ट्वैकानसांस्थिते प्रियतमे-” इत्यादि ।
अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्,

टीका

विज्ञप्रिया:

(वि, ल) दृष्ट्वैकेति—प्रियतमे प्रियतमाद्वयम् एकासनसंस्थित तद् द्वयं दृष्ट्वा धूर्त्तो नायकः पश्चात् पृष्ठतः उपेत्य विहितक्रीडानुबन्धच्छलः सन् एकस्या नयने नयनद्वयं पिधाय ईषद्वक्रितकन्धरः सपुलकः सन् आदरादपरां चुम्बति ।
अपरां कीदृशी, प्रेम्णा उल्लसन्मनसाम् अन्तर्हासेन लसत्कपोले पुलको यस्यास्तादृशी च ।
उभयसमर्थनेति—पिहितनयनायाः क्रोधः, चुम्बितायाः प्रीतिश्चेत्युमयं पृष्टतो गमनेन नयनपिधानेन च विदग्धचेष्टितरूपकौटिल्येन तत्समर्थनं समर्थनरूपमित्यत्र करणे ल्युट् ।

लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, “पश्चादुपेत्य” “नयने पिधाय” “ईषद्वक्त्रितकन्धरः” इति चोपपादकानि, एषां योगः ।
अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता ।
समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः ।
स च प्रक्रमभङ्गरूपविरह एव ।
स्पष्टमुदाहरणम् ।

टीका

विज्ञप्रिया:

(वि, व) लोकव्यवहारेति—अन्यलोकैरप्येवं करणात् ।
उपपादकानीति—सपत्न्यादृश्यमानचुम्बनोपपादकानीत्यर्थः ।
अस्य गुणत्वाभावं दर्शयति—अनेन चेति ।
वाच्यं यच्चुम्बनं पश्चाद्गमनादिना तदुपपत्तेर्ग्रहणनिष्पादने धूर्त्तस्य व्यग्रतया तद्वोधात् बोद्धॄणां रसास्वादो व्यवहितप्राय इत्यर्थः ।
किञ्जिद्धिलम्बनादितिभावः ।
प्रक्रान्तेति—प्रक्रान्तयोः प्रक्रम्यमाणयोः प्रकृतिप्रत्यययोः साम्यमित्यर्थः ।
स्पष्टमिति ।
प्रक्रमभङ्गदोषरहितश्लोक एवेत्यर्थः ।

न गुणत्वं समाधेश्च—

समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः ।
तत्रायोनिरर्थो यथा—
“सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।
अन्यच्छायायोनिर्यथा—
“निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले ऽपि विमृशति करमर्पयितुं कुसुमलावी” ॥
अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् ।
अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् ।

टीका

विज्ञप्रिया:

(वि, श) अयोनिरन्यैरवर्णितार्थः ।
अन्यच्छायायोनिरन्यवर्णितार्थानुसारी, सद्य इति ।
हूणः पाश्चात्यदेशविशेषीययवनः, स च ताम्रवर्णः ।
मत्तत्वेन चातिताम्रः , नारङ्गकं नारङ्गफलम् आतिताम्रम् ।
अन्यैरवर्णितो ऽयमर्थः ।
निजनयनेति—कापि कुसुमलावी मालाकारपत्नी जले निजनयनप्रतिबिम्बे नीलोत्पलभ्रमेण तद्धरणे प्रवर्त्त्य तदप्राप्त्या प्रतारिता वास्तवनीलोत्पले ऽपि करमर्पायितुं तद्भवति न वेति विमृशतीत्यर्थः ।
इयमन्यवर्णितार्थच्छाया ।
अस्य चेति—तनुभ्रमेण रसानुपकारादिति भावः ।

लोचना:

(लो, ऊ) अयोनिः पूर्वकविभिरदृष्टोर्ऽथः ।
काव्यशरीरमात्रनिर्वाहकत्वमेतत् प्रकारद्वयव्यतिरेकेण काव्यशरीरानिर्वाहात् ।

क्वचित् “चन्द्रम्” इत्येकस्मिन् पदार्थे वक्तव्ये “अत्रेर्नयनसमुत्थं ज्योतिः” इति वाक्यवचनम् ।

लोचना:

(लो, ऋ) वाक्यवचनमिति पदसमूहाभिधानम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

क्वचित् “निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्” इति वाक्यार्थे वक्तव्ये “वरवणिनी” इति पदाभिधानम् ।

टीका

विज्ञप्रिया:

(वि, ष) प्रौढिरोज इत्यपरः परोक्त ओजोगुणः ।
तत्र च पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा ।
प्रादिर्व्याससमासौ च इति चतुर्विधा प्रौढिः परैरुक्ता ।
तस्य गुणत्वं नोचितम् इति वक्तुं तदीयं पदार्थे वाक्यरचनेत्यादिकं दर्शयति—क्वचिञ्चन्द्र इतीति ।
वाक्यार्थे पदाभिधानं दर्शयति—क्वचिन्निदाघेति ।
शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला ।
सर्वावयवशोभाढ्या सा स्मृता वरवर्णिनी ।
इति वरवर्णिनीलक्षणं व्यासं दर्शयदि ।

क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः ।
क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च,

लोचना:

(लो, ॠ) वाक्यार्थन्यासो यथा— असौ नानाकारो भवति सुखदुः खव्यतिकरः सुखं वा दुःखं वा प्रभवति भवत्येव भवतः ।
जनस्तस्मादूर्द्धं भवति न च दुःखं न च सुखम् ।
इति अस्यैव समासो यथा— श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्य्यताम् ।
आत्मनुः प्रतिकूलानि परेषां न समाचरेति ॥
इति

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्,

लोचना:

(लो, ऌ) न गुणत्वम्—अनन्यसाधारणरसोपकारिताभावादिति भावः ।
इति ।
इति श्रीसाहित्यदर्पणलोचने गुणनिरूपणो नामाष्टमः परिच्छेदः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अपि तु वैचित्र्यमात्रावहत्वम् ।

टीका

विज्ञप्रिया:

(वि, स) क्वचिदेकस्येति—वेशेषात् विच्छेदविशेषात् खण्डखण्डवाक्येन कथनादित्यर्थः ।
यथा नायं पण्डित इत्येकवाक्येन वक्तव्ये नायं व्याकरणं नायं तर्कं वेत्तीत्यादिखण्डखण्डवाक्येन समस्तशास्त्राज्ञानकथनम् ।
समासं दर्शयति—क्वचिदूह्विति ।
बहुप्रतिपाद्यस्य बहुवाक्यप्रतिपाद्यस्य यथा दर्शितव्यासविपर्य्ययः–एवमादीनाम्मिति ।
औजोगुणत्वेन अन्यैरुक्तानां चतुर्विधप्रौढीनामित्यर्थः ।
वैचित्र्यमात्रेति तथा चालङ्कार एवायमित्यर्थः ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्यविरचितायां साहित्यदर्पणटीकायां गुणविवेचनाख्यस्याष्टमपरिच्छेदस्य विवरणम्

—तेन नार्थगुणाः पृथक् ॥ विस्स्द्_८।१६ ॥

तेनोक्तप्रकारेण ।
अर्थगुण ओजः प्रभृतयः प्रोक्ताः ।

इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।