सप्तमः परिच्छेदः
इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, सम्प्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह—
टीका
विज्ञप्रिया:
(वि, क) इह हि प्रथमतः प्रथमपरिच्छेदे दोषानामवस्थितिक्रमो ऽवस्थितिप्रकारो दर्शित इत्यर्थः ।
ते दोषाः ।
“दोषास्तस्यापकर्षकाऽ; इत्युक्त्या अपकर्षकत्वेन दोषाणां प्रकारो दर्शितः ।
“उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयःऽ; इत्युक्त्या च गुणादीनामुत्कर्षकत्वेनावस्थितिप्रकारो दर्शित इति ।
अत्र च रीत्यलङ्काराणामिति पाठस्तु उद्देशव्युत्क्रमेण लेखकप्रमादपरम्परयैवेति लक्ष्यते ।
तत एव उद्देशक्रमप्राप्तानामित्युक्तम् ।
लोचना:
(लो, अ) काव्यस्वरूपं निरूप्य दोषान् निरूपयितुकामः तत्प्रस्तावं दर्शयति ।
इह हि इति ।
स्वरूपं स्वमसाधारणं रूपम् इतरव्यावर्त्तको धर्म्मः ।
रसापकर्षका दोषाः,—
अस्यार्थः प्रगेव स्फुटीकृतः ।
तद्विशेषानाह—
टीका
विज्ञप्रिया:
(वि, ख) प्रागेव स्फुटीकृत इति ।
श्रुतिदुष्टत्वादीनां शब्दद्वारा, अपुष्टार्थत्वादीनाम्, अर्थद्वारा, व्यभिचारिभावादिशब्दवाच्यत्वादीनां च साक्षात् रसापकर्षकत्वमित्यर्थः ।
प्रागेव स्फुटीकृत इत्यर्थः ।
तद्विशेषान् दोषविशेषान् ।
ते पुनरिति ते दोषाः ।
लोचना:
(लो, आ) रसेति–रसापकर्षका आस्वादविन्घहेतवः ।
प्रगेवेति—प्राकप्रथमपरिच्छेदे ।
—ते पुनः पञ्चधा मताः ।
पदे तदंशे वाक्येर्ऽथे सम्भवन्ति रसे ऽपि यत् ॥ विस्स्द्_७।१ ॥
लोचना:
(लो, इ) ते पुनरिति–ते दोषाः पदतदंशादिपञ्चके स्थिता यस्मात् वाक्यार्थभूतस्यास्वादस्यापकर्षकारणानि तस्मात् पञ्च प्रकाराः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः ।
ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ॥ विस्स्द्_७।२ ॥
अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता ।
अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ विस्स्द्_७।३ ॥
दोषाः केचिद्भवन्त्येषु पदांशे ऽपि पदे परे ।
निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ॥ विस्स्द्_७।४ ॥
टीका
विज्ञप्रिया:
(वि, ग) दुः श्रव इत्यादि ।
अप्रयुक्तता इत्यत्र द्वन्द्वोत्तरस्य भावप्रत्ययस्य प्रत्येकमभिसम्बन्धात् दुः श्रवत्वादय एव दोषाः ।
एतदाद्यविमृष्टविधेयाशभावान्ताः त्रयोदश दोषाः पदवाक्ययोः पदे वाक्ये ऽपि सम्भवन्ति इत्यर्थः ।
एषां मध्ये केचिद्दोषाः पदांशे ऽपीत्यर्थः ।
पदे परम् इति ।
निरर्थकत्वमसमर्थत्वं च्युतसंस्कारता चेति दोषत्रयं परं केवलं पदे नतु वाक्ये इत्यर्थः ।
तद् बीजं तत्तद्दोषप्रस्ताबे वक्ष्यामः ।
लोचना:
(लो, ई) तत्र के दोषाः किनिष्टा इत्यत आह–दुः श्रवेति ।
तल्प्रत्ययस्य दुः श्रवादिषु प्रत्येकं सम्बन्धः ।
सन्दिग्धं सन्देहः ।
अथ भवेत् क्लिष्टम् अविमृष्टविधेयांशं विरुद्धमतिकृत्समासपदमेव ।
सर्वे दोषां पदवाक्ययोः ।
एषु दुः श्रवादिषु मध्ये ।
परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् ।
यथा—
टीका
विज्ञप्रिया:
(वि, घ) तत्र दुः श्रवत्वलक्षणमाह–परुषेति ।
एतच्च वीरबीभत्सरौद्रान् रसान् विहाय इति बोध्यम्, तेषु तस्यानुगुणत्वादेव ।
तथा प्रादेशिकत्वे एवाय दोषः ।
समग्रपदव्यापकत्वे तु प्रतिकूलवर्णत्वदोष एव इत्यदि बोद्धव्यम् ।
“कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा” ।
टीका
विज्ञप्रिया:
(वि, ङ) कार्त्तार्थ्यमिति ।
स्पष्टम् ।
रेफयुक्तवर्णं श्रुतिदुः खदायि ।
लोचना:
(लो, उ) परुषवर्णं परुषाक्षरम् ।
कार्त्तर्थ्यं कृतार्थतां–कृतार्थस्य भावम् ।
अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् ।
टीका
विज्ञप्रिया:
(वि, च) व्रीडाजुगुप्सामङ्गलत्वादिति ।
एतत्त्रयहेतुत्वादित्यर्थः ।
हेतुत्वं ज्ञापकत्वं कारकत्वं च ।
तत्र व्रीडाजुगुप्सयोः कारकत्वं मङ्गलस्य च ज्ञापकत्वं बोध्यम् ।
क्रमेणोदाहरणम्—
“तृप्तारिविजये राजन् ! साधनं सुमहत्तव” ।
टीका
विज्ञप्रिया:
(वि, छ) दृप्तारीति—साधनं सेना च चार्थः प्राकरणिकत्वात् अनेकार्थस्य साधनशब्दस्य वाच्यः ।
पुंव्यञ्जनरूपस्त्वर्थो व्यङ्ग्यः श्रोतॄणां व्रीडाजनकः; नतु व्रीडाव्यञ्जकः तदप्रतीतेः ।
“प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा” ।
टीका
विज्ञप्रिया:
(वि, ज) प्रससारेति–विरहोत्तरं नायकां प्राप्य नायकस्योक्तिरियम् ।
हे तन्वि ! तव विनाशे अदर्शने सति तदा मम दुः खोत्पादनाय वायुः शनैः मन्दं प्रससार इत्यर्थः ।
अत्र अनेकार्थस्य विनाशशब्दस्य व्यङ्ग्यो मरणरूपोर्ऽथो ऽमङ्गलव्यञ्जकः ।
वायुशब्दस्तु अपानवायुव्यञ्जनया घृणारूपजुगुप्साजनकः ।
दुः खकाले शनैः प्रसृतवायोरपानवायुत्वप्रतीतेः ।
अनुचितार्थत्वमिति–अपश्लोक्यस्य निन्दाव्यञ्जकत्वं तत्त्वम् ।
लोचना:
(लो, ऊ) दृप्तेति–अत्र साधनशब्दो हस्त्यश्वादिसाधनार्थे प्रयुक्तः पुन्ध्वजस्य, वायुशब्दः पवनमात्रार्थे अपानपवनविशेषस्य, विनाशशब्दश्च अदर्शनार्थे मरणस्य च स्मारणात् कमेण व्रीडादिव्यञ्जकाः ।
अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।
“शूरा अमरतां यान्ति पशुभूता रणाध्वरे ।
अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् ।
टीका
विज्ञप्रिया:
(वि, झ) दृप्तेति–अत्र साधनशब्दो हस्त्यश्वादिसाधनार्थे प्रयुक्तः पुन्ध्वजस्य, वायुशब्दः पनवमात्रार्थे अपानपवनविशेषस्य, विनाशशब्दश्च अदर्शनार्थे मरणस्य च स्मारणात् क्रमेण व्रीडादिव्यञ्जकाः ।
लोचना:
(लो, ऋ) पशुपदं तथाविधसमये प्रयुक्तम् ।
अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् ।
यथा—
“भाति पद्मः सरोवरे” ॥
अत्र पद्मशब्दः पुंल्लिङ्गः ।
टीका
विज्ञप्रिया:
(वि, ञ) तथा प्रसिद्धावपि इति ।
अनुशासने तल्लिङ्गकत्वेन उक्तावपीत्यर्थः ।
कविभिरित बहुवचनात् प्राचीनानेककविभिरित्यर्थः ।
तेन इदानीन्तनानेककविभिः प्राचीनैककविना वास्याऽदरे ऽपि दोष एव ।
एवञ्च “पद्मान् हि मे प्रावृषि खञ्जरीटान् “इति नैषधकृता प्राचीनैककविना आदरे ऽपि दोष एव ।
काव्यव्यतिरिक्ते भाषामात्रे तदादरे तु अदोष एव, इत्यतः नानुशासनप्रामाण्यम् ।
ग्राम्यत्वं यथा—
“कटिस्ते हरते मनः” ॥
अत्र कटिशब्दो ग्राम्यः ।
टीका
विज्ञप्रिया:
(वि, ट) ग्राम्यो यथेति—ग्राम्यः शब्द इत्यर्थः ।
तस्य तथात्वं च विदग्धाप्रयोज्यत्वात् ।
काव्यकविसाधारणविदग्धानादरादप्रयुक्तत्वादस्य भेदः ।
अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् ।
यथा—
योगेन दलिताशयः” ॥
अत्र योगशास्त्र एव वासनार्थ आशयशब्दः ।
टीका
विज्ञप्रिया:
(वि, ठ) एकदर्शने, एकशास्त्रमात्रे ।
लोचना:
(लो, ॠ) आशय इति ।
योगशस्त्र एव न तु लोके अर्थशास्त्रे वा ।
तथा हि पातञ्जलसूत्रं,“क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः"इति ।
क्लेशा अविद्याकर्माणि, दुष्कृतसुकृतादि तत्फलं विपाकः ।
तदनुगुणा वासना आशयाः ।
ते च मनसि वर्त्तमानाः पुरुषे अपदिश्यन्ते इति ।
किञ्चैवं वक्तृबोद्धव्ययोः शास्त्रानभिज्ञत्वबोधादिं विना दोष इति ।
ततश्च अप्रयुक्तत्वाद् भिद्यते ।
“आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु” ।
अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति सन्देहः ।
टीका
विज्ञप्रिया:
(वि, ड) सन्दिग्धमिति ।
किमिदं वा पदमिति पदस्यैवं सन्दिग्धत्वम् ।
कर्णे कृत्वा इति श्रुत्वा इत्यर्थः ।
वन्दीभूतायाम् इति, बलात् वन्दीकृतशत्रुनार्यामित्यर्थः ।
अत्र वन्दीवन्द्याशब्दयोः सन्देहः ।
लोचना:
(लो, ऌ) वन्द्यामिति–अस्य सप्तम्यन्तत्वेन द्वितीयान्तत्वेन च सम्भवात् प्रकरणाभावेन विनिगमनाभावात् सन्देहः ।
नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् ।
टीका
विज्ञप्रिया:
(वि, ढ) नेयार्थत्वमिते ।
अशक्तिकृतं कवेरसामर्थ्यमात्रेण कृतं न तु रूढिप्रयोजनयोः अन्यतरेण कृतमित्यर्थः ।
कमले इति ।
मुखं कर्त्तृ ।
चरणाघातं कर्म ।
अत्र चरणाघातेन इति ।
चरणाघातपदेन इत्यर्थः ।
वाक्ये ऽपि लक्षणास्वीकारात् निर्जितत्वं लक्ष्यते ।
तथा च कमले निर्जितत्वम् अकरोदित्यर्थः ।
नन्वत्र निर्जितत्वातिशयः कथं न प्रयोजनम् ।
दर्शितं हि स्थाने स्थाने लक्ष्यार्थातेशयः प्रयोजनमिति चेत्, न ।
कविप्रयोगार्हलक्षणाया मुख्यार्थबाधावगम इव विवक्षितमुख्यार्थयोगावगमो ऽपि हेतुः ।
न तु विवक्षितप्रमेयत्वाद्येकथर्मवत्त्वप्रयोगावगमो ऽपि अव्यावर्त्तकत्वात् ।
प्रकृते निर्जितत्वे लक्ष्यार्थे मुखनिष्ठशोभाजन्यत्वमेव विवक्षितो योगश्चरणाघाते मुख्यार्थे चालीके तच्छोभाभावात् तज्जन्यत्वनिर्जितत्वं न प्रतीयत एव ।
ततश्च तदप्रतीत्या अस्या लक्षणायाः कविप्रयोगानर्हत्वज्ञानेन अश्रद्धेयत्वात् लक्ष्यार्थतिशयः प्रयोजनं न प्रतीयते एव इति भावः ।
यथा—
“कमले चरणाघातं मुखं सुमुखि ! ते ऽकरेत् ।
अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् ।
निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः ।
यथा—
“यमुनाशम्बरमम्बरं व्यतानीत्” ।
शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः ।
टीका
विज्ञप्रिया:
(वि, ण) निहतेति ।
यमुनायाः शम्बरं जलम् अम्बरम् आकाशं व्यतानीत् व्याप्तमित्यर्थः “अम्बु शम्बुम्” इति कोषः ।
अत्रेति—नच नपुंसकलिङ्गरूपव्यक्तिविशेषात् जलस्यैव उपस्थितिरिति वाच्यम्, तुल्यप्रसिद्धिकस्थले एव तस्य नियन्त्रितत्वात् ।
अत्र तु प्रसिद्धिवशात् लिङ्गाननुसन्धाने ऽपि पदमात्रेणैव प्रथमतः तदुपस्थित्यवलम्बनात् लिङ्गस्यान्वयस्य च बोधात्तु पश्चादेव जलप्रतीतेः ।
“गीतेषु कर्णमादत्ते” ।
अत्राङ्–पूर्वो दाञ्-धातुर्दानार्थे ऽवाचकः ।
टीका
विज्ञप्रिया:
(वि, त) अवाचकेति ।
शक्तिभ्रमप्रयुक्तत्वमवाचकत्वम् ।
आदत्ते ददाति ।
अत्रेति न च घधातोर्नानार्थत्वेन दाने ग्रहणे ऽपि शक्तिरस्त्येव, आङुपसर्गेण तु दानबोधप्रतिबन्ध एवेत्यतः शक्यार्थे कथं शक्तिभ्रम इति वाच्यम् ।
उपसर्गस्य प्रतिबन्धकत्वकल्पने कारणीभूताभावप्रतियोगित्वप्रवेशेन गौरवात्, तदपेक्ष्या आडुपसर्गरहितस्यैव दाञः दाने शक्तिरित्यस्यैव युक्तत्वात् ।
डुदाञ् दाने इति सामान्यतः शक्तिदर्शनात्तु शक्तिभ्रमः ।
नेयार्थे तु भ्रमबीजाभावात् न भ्रम इति विशेषः ।
अतो नेयार्थत्वलक्षणे शक्तिभ्रमाभावे सति इति विशेषणादानादसाङ्कर्यम् ।
अवाचके च शक्तिभ्रमात् विवक्षितार्थे तात्पर्यसत्त्वात् तात्पर्यरूपाया लक्षणाया विवक्षितार्थत्वबोधकत्वमस्त्येव इति ।
अतो वाक्यार्थबोधकत्वेन निरर्थकासमर्थत्वच्युतसंस्कारणामिव नास्य वाक्यार्थदोषतापास्या ।
एतद्युतपदसमूहे वाक्यार्थबोधजननात् लक्षणया स्ववाक्यार्थबोधजनकद्वारा वाक्यार्थबोधजननात् ।
परन्तु इयं लक्षणा न नेयार्थो, नापि कविप्रयोगार्हेति बोध्यम् ।
निर्थकादिदोषपत्रयस्य तु वाक्यदोषत्वं न सम्भवतीति तदपास्यम् ।
लोचना:
(लो, ए) दानार्थे अवाचकः, ग्रहणार्थत्वात् ।
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते"इति न्यायात् ।
यथा वा—
“जिनं मे त्वयि सम्प्राप्ते ध्वान्तच्छन्नापि यामिनी” ।
अत्र दिनमिति प्रकाशमयार्थे ऽवाचकम् ।
टीका
विज्ञप्रिया:
(वि, थ) यथा वा–“दिनं मे त्वयि सम्प्राप्ते ध्वान्तच्छन्नापि यामिनी ।
“मे मम दिनं प्रकाशमयमित्यर्थः ।
ध्वान्तच्छन्नापीति अपिकारेण ध्वान्तच्छन्नत्वविपरीतबोधनात् प्रकाशमयत्वस्यैव तद्विपरीतबोधात् न तु दिनत्वस्य ।
मेघाच्छन्नदिनस्य तद्विपरीतत्वाभावात् ।
अत्रापिदिनस्य प्रायशः प्रकाशमयत्वदर्शनात् तथात्वेनैव शक्तिभ्रमः ।
लोचना:
(लो, ऐ) दिनमिति ।
सूर्यस्यास्तमयनपर्यन्तम्, तद्रत्यवच्छिन्नः कालविशेष एव दिनशब्दवाच्यः ।
न तदविनाभूतं प्रकाशमयत्वमपीति भावः ।
क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा—
“क्षीरोदजावसतिजन्मभुवः प्रसन्नाः” ।
टीका
विज्ञप्रिया:
(वि, द) क्लिष्टत्वमिति—व्यवधानं च द्विधा, क्वचिदन्वितान्वयवशेन विशेषाप्रतीतौ कालिकव्यवधानम् ।
क्वचित्तु अनासत्तिरूपं व्यवधानम् ।
तत्राद्यं पदगतमुदाहरति–“क्षीरोदजावसतिजन्मभुवः” ।
अस्य व्याख्या वृत्तावेव ।
अनासत्तिरूयं व्यवधानं तु वाक्यदोषे उदाहरिष्यति ।
अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि ।
लोचना:
(लो, ओ) क्षीरोदजेत्यादि पादो ऽपि पदम्, समस्तत्वात् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“भूतये ऽस्तु भवानीशः” ।
अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् ।
टीका
विज्ञप्रिया:
(वि, ध) विरुद्धमतीति ।
अन्यान्वयवशेन उपश्लोक्यस्य निन्दाव्यञ्जकत्वं तत्त्वम् ।
अनुचितार्थस्य तु अन्यान्वयं विनेति भेदः ।
अत्रेति—भवस्य पत्नीत्यर्थे साधितस्य भवानीशब्दस्य अर्थेन पतिशब्दार्थस्य अन्वयवशात् चैत्रस्य भार्यायाः पतिरित्यत्र इव उपपतिप्रतीत्यानिन्दा ।
लोचना:
(लो, औ) भवानीशब्दो भवस्य पत्नीत्यर्थे नदादौ आनप्रत्ययान्तः ।
विधेयस्य विमर्शाभावेन गुणीभूतत्वम् अविमृष्टविधेयांशत्वम् ।
यथा—
“स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” ।
अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् ।
टीका
विज्ञप्रिया:
(वि, न) अविमृष्टेति—समभिव्याहारविशेषवशाद् विधेयस्य विधेयत्वप्रतीत्यजनकत्वं तत्त्वम् ।
स च समभिव्याहारप्रतीतिसाक्षिको न तु गत एव ।
तथा हि प्राङ्निर्द्दिष्टविधेयकं बहुव्रीहिं विना समासान्तरे विधेयस्य पाते, असमासे तु उद्देश्यात् पूर्वविधेयस्य पाते तथात्वम् ।
तत्र कर्मधारयसमासगतविधेयस्याविमर्शमुदाहरति—स्वर्गेति ।
रामसैन्यवेष्टितलङ्कस्य रावणस्य विषादोक्तिरियम् ।
विलुण्ठनेनेत्यर्थः ।
अत्र भुजानामुच्छूनत्वं सिद्धमेव ।
तस्येदानीं वृथात्वमित्यतः उच्छूनत्वे उद्देश्ये वृथात्व विधेयम् ।
तच्चात्र कर्मधारयसमासगतत्वेनाविमृष्टमित्यर्थः बहुव्रीहिसमासे प्राङ्निर्द्दिष्टं विधेयं तु विधेयतयैव प्रतीयते ।
यथा “वपुर्विरूपाक्ष"मित्यत्र अक्षिण वैरूप्यस्य,“निर्मृष्टरागो ऽधर"इत्यत्र रागे निर्मृष्टत्वस्य चित्रगुरित्यत्र गविचित्रत्वस्य च विधेयस्य विधेयतयैव सार्वलौकिकी प्रतीतिः ।
न तु कर्मधारये विधेयपाते तदविमर्श इति सत्यम् ।
किन्तु यदि विधेयमुद्देश्यान्वयि भवति ।
यथा— अग्रे उदाहरिष्यणामे,“षष्ठबाण इव पञ्चशरस्य"इत्यत्र बाणे उद्देश्ये ऽन्वयि षष्ठत्वं विधेयमविमृष्टम् ।
यत्र तूद्देश्यतावच्छेदके विधेयमन्वेति तत्र विधेयतयैव प्रतीतेः आनुभाविकत्वान्न दोषः ।
यथा"एष्वयमत्यन्वपण्डित"इत्यत्र अत्यन्तस्य विधेयस्य उद्देश्यतावच्छेदके पाण्डित्ये एवान्वयो विधेयतयैव प्रतीतिः ।
एवं"नितान्तसुन्दरीकान्ता"इत्यत्रापि सौन्दर्ये ऽन्वितस्य नितान्तत्वस्य एव—“अनिर्द्दयोपभोगस्य रूपस्य मृदुनः कथं ।
कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥
“इत्यत्र उपभोग उद्देश्यतावच्छेदके ऽन्वितस्यानिर्द्दयत्वस्य विधेयतयेव प्रतीतिरानुभाविकी ।
तथा च प्रकृते ऽपि उच्छूनत्वेन उद्देश्यतावच्छेदकेनान्वितस्य वृथात्वस्य कथमविमृष्टत्वम्। उच्छूनभुजे वृथात्वस्य तु किम्पदेनैव उक्तत्वात् ।
यत्तु काव्यप्रकाशकृता अस्यैव श्लोकस्य प्रथमचरणे"न्यक्कारो ह्ययमेव मे यदहयःऽ; इत्यत्र वाक्यगतं विधेयाविमर्शमुदाहरति ।
अत्र चरणे उच्छूनत्वमात्रं चानुवाद्यं नतु वृथात्वविशेषितम्"इत्युक्तम्, तेन विधेयाविमर्शदोषो विधेये दर्शितः ।
वाक्ये दोषप्रदर्शनप्रस्तावे समासगतदोषप्रदर्शनानुपयोगात्समासगतस्य तदुदाहरणस्य"मूर्द्ध्रामुद्वृत्तकृत्ता"इत्यादेरेव दर्शितत्वात् ।
किन्तु प्रसङ्गात् अभवन्मतयोगदोष एव दर्शितः ।
तथा हि स्वर्गविलुण्ठने उच्छूनत्वमेव जन्यते नतु तद् वृथात्वं वृथात्वविशेषितमुच्छूनत्वं वा ।
उच्छूनत्ववृथात्वस्य रामेण लङ्कावेष्टनाद् एव जातत्वात् ।
अतो विलुण्ठनस्य जनकतासम्बन्धेन वृथोच्छूनत्वे ऽनन्वयादभवन्मतयोगदोष एव दर्शितः न चाभवन्मतदोषस्य वाक्यमात्रगामित्वमेव तेनोक्तं कथं,“समासैकपदे तत्सम्भव"मिति वाच्यम् ।
समासस्य पदत्ववाक्यत्वोभयसत्त्वादसमस्तपदगामित्वाभावस्य तदभिप्रतेत्वात् ।
तथा चात्र अविमृष्टत्वं नास्त्येव इत्यतो ऽन्यदुदाहरति ।
लोचना:
(लो, अ) अत्र वृथात्वमिति ।
समासे तत्पुरुषसमासे गुणीभावात् ।
अयमाशयः– तत्पुरुषसमासे उत्तरपदस्यैव प्राधान्यात् वृथेति पूर्वपदस्य विधेयस्य प्राधान्येनानिर्द्देशादविमृष्टविधेयांशो दोषः ।
अविमर्शो हि प्राधान्येनानिर्द्देशः ।
इह वक्तुर्दशमुखस्यायमाशयः–पुरा मम भुजानां यद् उच्छूनत्वं स्थितं तदितानीं वृथाभूतमिति ।
एवं विधेयत्वेन विवभितस्य वृथात्वस्य समासे गुणीभावादनुवाद्यत्वप्रत्ययः ।
तेन च पूर्वतो भुजानामुच्छूनत्वस्य वृथात्वाभावाद् भुजानामपकर्ष एव प्रतीयते न भुजविक्षेपणोत्कर्षः ।
एवमुपरितनोदाहरणेष्वपि बोद्धव्यम् ।
यथा वा—
“रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे” ।
अत्र रामस्येति वाच्यम् ।
टीका
विज्ञप्रिया:
(वि, प) यथा वा—रक्षांस्यपि इति ।
अत्र शिरश्चालनकाक्का पुरः स्थातुं नालमेवेत्यर्थः ।
अत्र रामसम्बन्धादेवायमहङ्कार इत्यतो रामसम्बन्धबोधिकायाः षष्ठ्याः तत्पुरुषे लोपात् रामसम्बन्धस्य विधेयसाविमर्शः ।
षष्ठीसत्त्वे तु अदोष इत्याह—अत्रेति ।
लोचना:
(लो, आ) विषयव्याप्तये उदाहरणान्तराणी दर्शयति–रक्षांसीति ।
इदं लक्ष्मणवचनम् ।
रामस्येति ।
न खलु तस्य केवलस्य मुख्यता किन्तु रामसम्बन्धिन इत्यर्थः ।
यथा वा—
“आसमुद्रक्षितीशानाम्” ।
अत्रासमुद्रमिति वाच्यम् ।
यथा वा—
“यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य” ।
अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् ।
टीका
विज्ञप्रिया:
(वि, फ) यथा वेति—अत्र समुद्रपर्य्यन्तत्वस्य विधेयस्य समासे ऽविमर्शः ।
कर्म्मधारये उद्देश्यान्वितविधेयस्याविमर्शमुदाहरति—यथा वा यत्र ते इति ।
उत्प्रेक्ष्यम् उत्प्रेक्षया विधेयम् ।
लोचना:
(लो, इ) षष्ठ इति–अत्र उत्प्रेक्षाविषयत्वेन विवक्षितस्य षष्टपदस्य तत्पुरुषसमासे पूर्वानिक्षेपो न युक्त इत्यर्थः ।
विधेयत्वमेवोचितं नतु तत्पुरुषसमासेन गुणीवृत्त्यानुवाद्यत्वप्रत्यायनमिति भावः ।
यथा वा—
“अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा” ।
अत्रामुक्तेत्यत्र “नञः प्रसज्यप्रतिषेधत्व” मिति विधेयत्वमेवोचितम् ।
टीका
विज्ञप्रिया:
(वि, ब) नञ्समासे ऽप्युदाहरति—अमुक्तेति ।
प्रसज्यप्रतिषेधत्वमिति—प्रतियोगिनमसमासेन प्रसज्य प्रसक्तीकृत्य प्रतिषेधत्वमत्यन्ताभावत्वमित्यर्थः ।
तथा च मोचनाभावस्य एवात्र विधेयत्वात् असमासेनैव तथात्वं बोधयितुमुचितमित्याह—विधेयत्वमेवोचितमिति ।
समासे तु तद्भन्नत्वस्य एव प्रतीत्या पर्य्युदासत्वमेव तत्र तु विधेयस्य प्रतीषेधो न प्रतीयते इतद्यतस्तस्याविमर्श इति भावः ।
यदाहुः—
“अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधो ऽसौ क्रियया सह यत्र नञ्” ॥
लोचना:
(लो, ई) को ऽसौ प्रसज्यप्रतिषेध इत्यत आह–अप्राधान्यमिति ।
जुगोपात्मानमत्रस्त इत्यादौ इव विधेः प्राधान्य यत्र नास्ति ।
नवजलधर इत्यादिसमनन्तरोक्तोदाहरणवत् यत्र प्रतिषेधस्य प्राधान्यं कियया कण्ठोक्तया अध्याहार्य्यया वा अस्तिभवत्यादिरूपया पर्य्युदासतापातात्पर्य्युदासयोगक्षेमापत्तेः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा—
“नवजलधरः सन्नद्धो ऽयं न दृप्तनिशाचरः” ।
उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः ।
टीका
विज्ञप्रिया:
(वि, भ) असमासे एव नञर्थस्य विधेयत्वरूपं प्राधान्यम्, प्रतियोगिनस्त्वप्राधान्यं तादृशस्थले नञः प्रसज्यप्रतिषेधत्वम् इत्यत्र सम्वादमाह—अप्राधान्यमिति ।
विधेः भावस्य प्रतियोगिन इत्यर्थः ।
प्रतिषेधे नञर्थे ऽसमासवशात् प्रधानता, विधेयता प्रतीयते इति शेषः ।
तथात्वं कीदृशप्रयोगमित्यत्राह—क्रिययेति—न पचतीत्यादौ आख्यातक्रियया सह समासाभावात् ; क्रिययेत्यनेन असमास एव लक्ष्यते ।
तथा च असमासे यत्र नञ् इत्यर्थः ।
अत एवात्र मुक्तक्रियया नञः साहित्ये ऽपि असमासाभावात् न प्रसज्यप्रतिषेधता ।
एवं नवजलधर इत्यत्रापि नञःक्रियासाहित्याभावे ऽप्यसमासात् प्रसज्यप्रतिषेधता ।
अमुक्तेत्यत्र तु समासात् न तथात्वमित्याह—उक्तोदाहरणे त्विति ।
समासवशात् तथात्वनवगमेन पर्य्युदासत्वमेव ।
यदाहुः—
“प्रधानत्वं विधेर्यत्र प्रतिषेधे ऽप्रधानता ।
पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्” ॥
टीका
विज्ञप्रिया:
(वि, म) इत्यत्र सम्वादमाह—यदाहुरिति ।
प्रधानत्वमुत्तरपदप्रधानतत्पुरुषवशाद् विशेष्पत्वम् ।
विधेयप्रतियोगिभूताभावस्य प्रतिषेधे नञो ऽप्रधानता समासवशात् अप्रतीयमानविधेयतारूपाप्रधानता इत्यर्थः ।
तादृशस्थलं दर्शयति—यत्रेत्तरपदे इति ।
पदं चात्र स्थानपरम् ।
प्रतियोगिपदोत्तरस्थाने यत्र नञ इत्यर्थे यत्रोत्तरपदे, अर्थात् असमासेन पर्य्युदासो ज्ञेय इत्यर्थः ।
न पचतीत्यत्र उत्तरत्र नञ्सत्त्वात्तु न पर्य्युदास इत्यर्थः ।
इदमत्रावधेयम्—प्रतियोगिपदोत्तरनञ्सत्त्वे समासासम्भवात् यत्रोत्तरेत्यादिना समासस्थ एव पर्य्युदास इत्यर्थः ।
अन्यथा न पचतीत्यत्र, न दृप्तनिशाचर इत्यत्र पूर्वपतितस्यापि नञः पर्य्युदासत्वात् यत्रोत्तरेत्यादेः प्रलापत्वापत्तेः ।
यद्यप्यसमासस्थस्यापि घटो नेत्यत्र पर्य्युदासत्वम् असमासस्थस्य क्रियान्वयिनः प्रसज्यप्रतिषेधत्वमिति तु नियतं बोध्यम् ।
समासे कृदन्तक्रियान्वयिनो ऽपि पर्य्युदासत्वात् असमस्तेति क्रियाविशेषणं समासे पर्य्युदासत्वमेव ।
तत्र च विवेकेन तदुत्तरं साकाङ्क्षतैव ।
तेन—“जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्” ॥
अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः ।
टीका
विज्ञप्रिया:
(वि, य) इत्यस्य उदाहरणं दर्शयति–जुगोपेति–एवं च नञः पर्य्युदासत्वे तदर्थस्य समासे विधेयत्वाप्रतीतेः इत्याह ।
युक्त इत्यत्र विधयस्य नञर्थस्य अविमर्श एवेति साधितम् ।
लोचना:
(लो, उ) प्रधानत्वमिति–प्रधानत्वं जुगोपात्मानमित्यादाविव अप्रधानता अत्रैवोदाहरणे ।
अत्र, अत्रस्ततादौ इत्यर्थः ।
नोत्तरपदे किन्तु पूर्वपदे ।
अमुक्तेत्यत्रापि अनन्तरं नञः समासान्तरप्रवेशेषऽपीति शेषः ।
ननु “अश्राद्धभोजी ब्राह्मणः” “असूर्यम्पश्या राजदाराः” इत्यादिवत् “अमुक्ता” इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद् ? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ; विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् ।
लोचना:
(लो, ऊ) भोजनदर्शनरूपकियांशे ।
कर्त्रंशेनेति ।
भुजिदृशोः कर्तर्थविहितणिनिप्रत्ययान्तत्वागतेन ।
यदि क्रियांशे नञः सम्बन्धः स्यात् तदैव प्रसज्यप्रतिषेधः स्यात् “कियया सह यत्र नञ"इति वचनात् ।
इह तु श्राद्धबोजनशीलादयमन्य इति कर्त्रंशेनैव सम्बन्धात् नञः पर्य्युदासत्वमेवेति ।
तदभोज्यर्थेनेत्युपलक्षणं तददर्श्यर्थेनेत्यपि बोद्धव्यम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यदाहुः—
“श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते ।
न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, र) अश्राद्धभोजी, असूर्य्यम्पश्या इत्यत्र समासे ऽपि प्रसज्यप्रतिषेधरूपयोः श्राद्धभोजनाभावसूर्य्यदर्शनाभावयोः प्रतीतिदर्शनात् तद् दृष्टान्तेन अमुक्तेत्यत्रापि मोचनाभावरूपस्य प्रतिषेधस्य विधेयस्य विधेयत्वापत्तिमाशङ्कते—नन्विति ।
समाधत्ते, चेन्नेति ।
क्रियान्वयिन एव प्रसज्यप्रतिषेधत्वनियमः ।
अक्षोद्धेत्यनयोरपि यदि भजनदर्शनक्रिययोर्नञर्थस्यान्वयः स्यात् तदैव तथात्वापादनं सम्भवति ।
तयोरन्वय एव तत्र नेत्याह— न च तथेति ।
तर्हि कुत्रान्वयः इत्यत्राह—विशेष्यतयेति ।
कर्त्तरि विहिताभ्यां कृत्प्रत्ययाभ्यामुपस्थापितेन भोजिरूपकर्त्रंशेन च सहैव नञो नञर्थस्य सम्बन्धात् इत्यर्थः ।
कुत इत्यत्राह—कर्त्तर णिनेरिति ।
भोज्यार्थेन इत्यस्य उपलक्षणतया दर्शनकर्त्रंशेनेत्यपि बोध्यम् ।
कृत्प्रत्ययेन कर्त्रुपस्थानात् श्राद्धभोजी इत्यत्र भोजनकर्त्तैव प्रतीयते इत्यत्र सम्वादमाह–यदाहुः–श्राद्धभोजनेति ।
अत्र कृत्प्रत्ययादेवं दर्शनकर्त्तारो राजदारा अपि प्रतीयन्ते इत्यपि बोध्यम् ।
तथा च तयोरपि श्राद्धभोजिभिन्नसूर्य्यदर्शकभिन्नत्वम् इत्येवं पर्य्युदास एव प्रतीयते इत्यर्थः ।
तथा च समासस्थतन्नञ्–दृष्टान्तेनाप्यमुक्ता इत्यत्र समासस्थनञः पर्य्युदासत्वमेव सिध्यतीति मनसिकृत्य अमुक्तेत्यत्र भोजीत्यतः किञ्चिन्मात्रं वलक्षण्यं दर्शयति ।
लोचना:
(लो, ऋ) अत्रार्थे आचार्य्यसम्मतिमाह—यदाहुरिति ।
अत्राश्राद्धभोजीत्यत्र तद्भोजनमात्रम् ।
अश्राद्धभोजनमात्रम् ।
सम्बन्ध इत्यनन्तरम् अभिमत इति शेषः ।
इह तु भाष्यकारादिमतमाश्रित्य कियान्वयांशापेक्षया प्रसज्यप्रतिषेधार्थस्वीकारे ऽपि अमुक्तेत्यादौ ।
कियामात्रप्राधान्यात् समासो नोपपद्यत एव ।
“अमुक्ता” इत्यत्र तु क्रिययैव सह सम्बन्ध इति दोष एव ।
टीका
विज्ञप्रिया:
(वि, ल) अमुक्तेत्यत्र त्विति ।
अभोजीत्यत्र समासस्थकर्त्रन्वयः ।
अमुक्तेत्यत्र तु समासस्थक्रियायामेवान्व इत्येतन्मात्रं विशेषः ।
उभयत्रापि पर्य्युदासत्वमेवेति भावः ।
न पचति न निद्राति इत्यन्वये कर्त्तुरुपस्थाने ऽपि निद्रापाककृत्योरेवान्वयात् अथ नियमाभावे ऽपि तात्पर्य्यवशात् तत्र कर्त्तर्य्येव नञर्थान्वय इति चेन्न ।
तादृशतात्पर्य्यस्य एव तत्राभावात् ।
श्राद्धाभोजनशीलान्वये तु श्राद्धभोजनशीलभिन्न इति प्रतीतौ न कदचित् भोजनकृत् अपि प्रतीयते इत्यतो ग्रन्थकृतानवधानादेव इत्थं समाधानं कृतम् ।
वयं तु तात्पर्य्यवशात् श्राद्धपदं श्राद्धमात्रपरम्, तत्रेव च नञर्थान्वयः, तथा च श्राद्धमात्रभोजीत्यर्थलाभे मात्रार्थवशात् श्राद्धभोजनशीललाभ इति ब्रूमः ।
एते च क्लिष्टत्वादयः समासगता एव पददोषाः ।
टीका
विज्ञप्रिया:
(वि, व) एते चेति ।
क्लिष्टत्वविरुद्धमतिकृत्त्वाविमृष्टविधेयांशभावास्त्रय इत्यर्थः ।
समासगता एवेति नतु असमासे ऽपि पददोषा इत्यर्थः ।
अन्वितान्वयाधीनक्लिष्टत्वस्य समासं विना पदगतत्वासम्भवात् ।
अनासत्त्यधीनक्लिष्टत्वे तु समासस्य एवासम्भवात् पदगतत्वं नास्ति ।
विरुद्धमतिकृतः पदार्थन्तरान्वयेनैव दुष्टत्वात् अविमृष्टविधेयांशस्य चानुवाद्यविधेयार्थकपदद्वयघटितत्वात् वा समासं विना पदत्वासम्भवात् ।
वाक्ये दुः श्रवत्वं यथा—
टीका
विज्ञप्रिया:
(वि, श) एषां त्रयोदशानां पदगतत्वं दर्शयित्वा वाक्यगतं तु दर्शयितुमारभते ।
वाक्ये दुः श्रवत्वं यथेति ।
एवम् एकवाक्ये पदद्वयावलम्बित्वेन वाक्यदोषत्वम् ।
लोचना:
(लो, ॠ) क्लिष्टत्वादय इत्यादिशब्दाद विरुद्धमतिकृत्त्वमविमृष्टविधेयांशत्वं च ।
अतः श्रुतिकट्वादीनां क्वचित् पदांशनिष्टत्वे ऽपि बहुव्यापित्वेन वाक्यगतत्वं बोद्धव्यम् ।
“स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव” ॥
टीका
विज्ञप्रिया:
(वि, ष) स्मरार्त्त्येति—स्मरार्त्त्यान्धो ऽहमित्यर्थः ।
अत्र आर्त्त्येति कार्त्तार्थ्यमिति पदद्वयगामित्वाद् वाक्यदोषता ।
कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ॥
लोचना:
(लो, ऌ) प्रवृत्तिः, प्रसहणम्, पुरीषोत्सर्गश्च ।
वान्तं कथितम्, भक्षितोद्रीर्णं च ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र जुगुप्साव्यञ्जिकाश्लीलता ।
टीका
विज्ञप्रिया:
(वि, स) जुगुप्साश्लीलमाह—कृतप्रवृत्तिरिति ।
अन्यार्थे अन्यकविनिबद्धार्थे कृतयत्नः ।
अत्र प्रवृत्तिशब्दस्य पुरीषव्यञ्जनया, वान्तशब्दस्य च उद्रीर्णवाचकतया जुगुप्सा ।
व्यञ्जनेन इत्यत्र जननेन इत्यर्थः ।
“उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः” ॥
अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता ।
टीका
विज्ञप्रिया:
(वि, ह) सङ्क्षेपायान्यान् दोषानुपेक्ष्य वाक्ये नेयार्थदोषमाह—उद्यदिति ।
उद्यद्भिर्देप्यमानैः कमललौहित्यैः पद्मरागमणिभिः करणभूतैः, वक्राभिः वामाभिः स्त्रीभिः कर्त्त्त्रोभिस्तनुर्भूषिता इत्यर्थः ।
अत्रेति ।
कमललौहित्ये तनुभूषणस्य बाधितत्वात्तत्तुल्यपर्य्यायार्थकं पद्मारगपदमत्र लक्ष्यते ।
लक्षितेन पदेन च पद्मरागमणिरुच्यते इत्यर्थः न च प्रत्ययानां कृत्यर्थान्वितस्वार्थबोधकत्वात् कथमत्र तृतीयया पद्मारगे करणता बोध्यते इति वाच्यम् , ईदृशस्थले प्रकृत्यर्थे ऽपि तत् स्वीकारात् ।
वक्रभिरित्यत्र च वामापदे लक्षणा ।
तेन च स्त्रीरूपार्थ उपस्थाप्यते ।
वस्तुतस्तु वामावक्रापदयोः पर्य्यायैक्यदर्शनस्य शक्तिभ्रमबीजस्य सत्त्वात् अत्र अवाचकत्वमेव युक्तम् ।
“धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्” ॥
अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति सम्बन्धः क्लिष्टः ।
टीका
विज्ञप्रिया:
(वि, क) क्लिष्टत्वमाह—धम्मिल्लस्य इति ।
“धम्मिल्लः संयताः कचाः “निक्रमम् अतिशयं रज्यतीति अन्यः ।
बन्धव्युत्पत्तिः बन्धविन्यासः ।
शेषं वृत्तावेव व्याख्यातम् ।
“न्यक्कारो ह्ययमेव मे यदरयः” इति ।
अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् ।
तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् ।
रचना च पदद्वयस्य विपरीतेति वाक्यदोषः ।
टीका
विज्ञप्रिया:
(वि, ख) अविमृष्टविधेयांशभावमाह—न्यक्कार इति ।
शब्दरचनेति ।
विधेयवाचकपदस्य उद्देश्यवाचकपदात् पूर्वनिर्द्देशेन इत्यर्थः ।
अनुवाद्यमनुक्त्वैव न विधयमुदीरयेत् इति नियमादिति भावः ।
अत एव वह्निमान् पर्वत इति न प्रयुज्यते ।
ननु विधेयपदस्य पूर्वनिपातेन दोषे पददोषत्वमेव उचितमित्यत आह—रचना चेति
लोचना:
(लो, ए) न्यक्कार इति–अयमाशयः, तत्र धर्म्मिणमुद्दिश्य साद्यधर्म्मोविधीयते इत्यनुसारेण प्रथममनूद्य विधेयो न्यक्कारः पश्चान्निर्द्दिष्टुमुचितः ।
अन्वयवैपरीत्येनाविमृष्टविधेयांशो दोषः ।
अत एव शब्दो ऽनित्य इति वक्तव्ये ऽनित्यः शब्द इति वचनेन च प्राप्तं निग्रहस्थानमाहुः ।
तथा हि कथमत्र वाक्यदोष इत्यत आह—रचनेति ।
पदद्वयस्य विपरीततायामेवेति पदं निर्द्दिश्य पश्चान्न्यक्कार इति पदस्य च पश्चान्निर्द्देश्यस्य प्रथमनिर्द्देशात् ।
किञ्च दोषस्यास्य बहुव्यापित्वेन वाक्यदोषत्वम् ।
वृथोच्छूनैरित्यत्रापि अवस्थानसत्त्वे पूर्वमत्र पददोषत्वमुदाहृतं तत्र न्यक्कार इत्याद्यनपेक्षा ग्रन्थगौरवभयात् ।
“आनन्दयति ते नेत्रे यो ऽसौ सुभ्रु ! समागतः” ।
इत्यादिषु “यत्तदोनित्यसम्बन्धः” इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः ।
लोचना:
(लो, ऐ) आनन्दयतीति ।
य आनन्दयति असौ समागत इति सम्बन्धः ।
नित्यसम्बन्धः एवं विना अपरस्य साकाङ्क्षत्वात् ।
यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये प्रतिपद्यमाना इदमेतददः शब्दाः इत्यनेन तेषां सर्वत्र तच्छब्दाभिधानमिति शेषः ।
तथाहि—“असावन्तश्चञ्चत्पिकवचननीलाब्जयुगल- स्थलस्फूर्जत्कम्बुविलसदलिसम्पात उपरि ।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखै ! ते” ॥
अत्र हि अदस् शब्दस्तच्छब्दार्थमाह ।
एवमिदमेतदावपि ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् ।
तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् ।
लोचना:
(लो, ओ) अत्र त्विति ।
यो ऽसावित्यत्रानुवाद्यत्वप्रतीतिकृददः शब्दः प्रसिद्धिपरामर्शित्वादित्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा—
“यः स ते नयनानन्दकरः सुभ्रु ! स आगतः” ।
टीका
विज्ञप्रिया:
(वि, ग) विधेयार्थकस्यादः शब्दस्य उद्देश्यार्थकात् यच्छब्दात् परनिपाते ऽपि सान्निध्यवशात् विधेयत्वाप्रतीत्या एतद्देषमुदाहरति—आवन्दयतीति ।
अत्र यस्ते नेत्रे आनन्दयति असौ समागत इति बोधे यच्छब्दार्थे ऽनुवाद्यो ऽदः शब्दार्थो विधेयः, तस्याविमर्शं ग्राहयितुम् अदः शब्दस्य विधेयतौचित्यं दर्शयति—यत्तदोरिति ।
उपक्रान्तस्येति ।
प्रथमोद्दिष्टस्येत्यर्थः ।
तस्य आकाङ्क्षायाः पूरकत्वादेव तदस्तत्र नित्यसम्बन्धः ।
आकाङ्क्षापूरणरूपबीजसत्त्वात् ।
इदमदसोरपि तत्र नित्यसम्बन्ध इत्याह—तच्छब्दसमानेति ।
तथा च तच्छब्द इव इदमेतददः शब्दा अपि आकाङ्क्षापूरकत्वेन विधेयार्थकतयौव विधेया भवितुं युक्ता इत्यर्थः ।
ततश्चादस् शब्दार्थो ऽत्र विधेयो ऽप्यविमृष्ट इत्याह—अत्र इति ।
अनुवाद्यत्वस्य प्रतीतेरेवाविमर्शः ।
न केवलमेवम्भूतो ऽदः शब्द एव ईदृशः ।
अपि तच्छब्दो ऽपि इत्याह—तच्छब्दस्यापि ।
हिशब्द एवार्थे ।
प्रसिद्धपरामर्शकत्वमात्रमेवेत्यर्थः ।
यः स ते इति यः प्रसिद्ध इत्यर्थः ।
यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति ।
लोचना:
(लो, औ) निराकाङ्क्षत्वमवगमयति इति ।
तथा सति तेषां विधेयत्वं स्फुटमवगम्यत इति भावः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा—
“आनन्दयति ते नेत्रे यो ऽधुनासौ समागतः” ।
एवमिदमादिशब्दोपादाने ऽपि ।
टीका
विज्ञप्रिया:
(वि, घ) निराकाङ्क्षत्वमिति ।
निराकाङ्क्षत्वगमकस्यैव च विधेयत्वाप्रतीतिविषयत्वमित्यतस्ततो नाविमर्श इति भावः ।
आनन्दयतीति अत्र अधुनापदेन वायवधानान्नाविमर्शः ।
यत्र च यत्तदोरेकस्यार्थत्वं सम्भवति, तत्रैकस्योपादाने ऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः ।
तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्यार्थत्वम् ।
यथा—
“आत्मा जानाति यत्पापम्” ।
एवम्—
लोचना:
(लो, अ) उपादाने साक्षादुक्तौ सामर्थ्यात् तच्छब्दस्यार्थतयाक्षेपक्षमत्वात् ।
आत्मेति ।
तदात्मा जानातीत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च—” इत्यादावपि ।
टीका
विज्ञप्रिया:
(वि, ङ) द्वयोरुपादाने एव एष विचारः ।
एकस्यैवोपादाने तु नायं विचार इत्याह—यत्र च यत्तदोरिति ।
आर्थत्वं पदानुपादाने ऽपि तस्यार्थवशाल्लभ्यत्वमित्यर्थः ।
न क्षतिरिति ।
विधेयत्वाप्रतीतिरूपा क्षतिः नास्ति इत्यर्थः ।
आत्मेति ।
यत्पापमर्थात् स्वनिष्टं तदात्मा जानाति इत्यर्थः–एवं यं सर्वेति ।
अत्र सो ऽस्तीति बोधः ।
न चात्र कथमुत्तरस्थत्वम् इति वाच्यम्, कुलकत्वेन तत्पूर्ववाक्यार्थतत्पदेन साहऽस्यान्वयात् तद्वाक्योत्तरवाक्यस्थत्वात् ।
तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् ।
क्रमेण यथा—
“स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत्” ॥
“स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्” ।
“तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि” ।
टीका
विज्ञप्रिया:
(वि, च) यत्तदोर्नित्यसाकाङ्श्रत्वेन तच्छब्दमात्रोपादाने यच्छब्दस्यार्थत्वं प्रसङ्गाद्दर्शयति—तच्छब्दस्य इति ।
स हत्वेति —स प्रकान्तो रामस्तत्पदे तत्स्थाने ।
धातोरिति बोधनम् ।
धातोः कार्यं यथा आदेशेन ।
क्रियते तथा वालिकार्यम् अपि सुग्रीवेण कर्त्तव्यमित्यर्थः ।
स वः शशिकलेति ।
स प्रसिद्धः ।
तामिन्द्विति ।
तामनुभूताम् ।
लोचना:
(लो, आ) सहत्वेति ।
स इत्यनेन यः प्रकृतो रामचन्द्रः स इति ।
तत्र स इत्यनेन यः सकललोकप्रसिद्धः सर्वज्ञात्वादिगुणाविशिष्टः तादात्म्यायात्मन एकाभावापत्तये ।
तां या तद्गुणविशिष्टतया अनुभूतेत्यादिषु यद आर्थत्वम् ।
यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव ।
क्रमेण यथा–
“विभाति मृगशावाक्षी येदं भुवनभूषणम्” ।
“इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः” ।
टीका
विज्ञप्रिया:
(वि, छ) विभातीति, या भुवनभूषणमित्यर्थः ।
यत्र य आधारस्तदधिकारणमित्यत्र इव इदं पदे विधेयस्य भू,णस्य लिङ्गम् ।
विभक्तिभेदे उदाहरति—इन्दुरिति ।
यः इन्दुर्विभाति तेन पथिकयोषितो दग्धा इत्यर्थः ।
एवमपिकारान्वितस्यापि तदादेर्निराकाङ्क्षत्वमेव ।
यथा"शीतांशुरपि यः सो ऽपि दग्धवान् पथिकाङ्गनाः ।
“इति ।
क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः ।
यथा—
लोचना:
(लो, इ) द्वयोः उपात्तवस्तुविषयत्वेनोपकल्पितयोर्यत्तदोः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“न मे शमयिता को ऽपि मारस्येत्युवि ! मा शुचः ।
नन्दस्य भवने को ऽपि बालो ऽस्त्यद्भुतपौरुषः” ॥
अत्र यो ऽस्ति, स ते भारस्य शमयितेति बुध्यते ।
टीका
विज्ञप्रिया:
(वि, ज) अनुपात्तयोर्द्वयोरिति ।
क्षत्रियभारादूनामुर्वो प्रति वाक्यमिदम् ।
हे उर्वि ! मे भारस्य शमयिता को ऽपि न, एवं मा शुचः ।
यतो नन्दस्येत्यादि ।
अत्रेति ।
इदं च द्वयोरनुपादानोदाहरणतया न युक्तमुदाहृतम् ।
व्याख्यातं च तच्छब्दार्थावगमं विनापि यथोक्तबालकसत्त्वस्य यत इति उत्तरवाक्यगततया कारणहेतुत्वावगमाद् उत्तरवाक्यगतयच्छब्दस्य तच्छब्दानपेक्षणात् ।
किन्तु— “ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यते ऽस्ति मम को ऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥
इति यो भवभूतेरहङ्कारश्लोकः काव्यप्रकाशकृता यत्तदोर्द्वयोरनुपादानोदाहरणं दर्शितं तदेवोदाहरणं बोध्यम् ।
तत्र उत्पत्स्यमानस्य धर्मिणो विशेष्यानिश्चितत्वात् यत्तद्भ्यां सामान्यत एव य उत्पत्स्यते तं प्रति यत्न इत्युक्तौचित्यात् ।
“यद्यद्विरहदुःखं मे तत्को वापहरिष्यति” ।
इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि—यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् ।
तथाभूतस्य तस्य तच्छब्देन परामर्शः ।
टीका
विज्ञप्रिया:
(वि, झ) यच्छब्दस्योत्तरवाक्यगतत्वे एव तच्छब्दस्य निराकाङ्क्षत्वं दर्शितम् ।
पूर्ववाक्यगतत्वे उत्तरवाक्यगतं तच्छब्दं विना साकाङ्क्षमित्यनुभवसिद्धम् ।
तथापि वीप्सितयच्छब्दस्थले एकयत्पदाकाङ्क्षैव एकतत्पदेन निवर्त्तताम् अन्यद् यत्पदं तु साकाङ्क्षमेवस्यात् ।
तथा च—यद् यद् विरहदुः खं मे तदित्यत्र एकं यत्पदं साकाङ्क्षंस्यात् इत्याशङ्क्य समाधत्ते–इति न वाच्यमिति ।
तथा हि इति ।
येन केनचित् इत्यस्यायमभिप्रायो वीप्सया तावत् समस्ता व्यक्तय उपस्थाप्यन्ते ।
ता व्यक्तय एव तत्पदेन च परामर्श यदि वक्तुस्तात्पर्य्यं तदा एकतत्पदेनैव समस्तव्यक्तिपारमर्शात् यत्पदद्वयाकाङ् क्षापूरणात् न तत्पदे वीप्सा ।
यथा दर्शितोदाहरणे ।
तदाह–येन केनचिदिति ।
तथाभूतं दुः खत्वसामान्यावच्छिन्नम् ।
यदि वीप्सितयत्पदद्वयेन तद्व्यक्तित्वेन एव उपस्थापयितुं वकातुस्तात्पर्य्यं तदा भवत्येव तत्पदे ऽपि वीप्सा ।
यथा “यं यं व्यतीयाय पतिं वरा सा विवर्णभावं स स भूमिपालः ।
“इत्यत्र “यां यां प्रियः प्रैक्षत कातरक्षीं सा सा ह्रिया नम्रम्मुकी बभूत ।
“यो यः पाञ्चालगोत्रे॥॥॥तस्य तस्यान्तको ऽहम् ॥
“इत्यत्र च ।
एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् ।
लोचना:
(लो, ई) अन्येषाम् अनुचितार्थत्वादीनाम् ।
तत्र अप्रयुक्तस्य वाक्यगतत्वे यथा–“स पातु वो दुश्च्यवनो भावुकानां परम्पराम् ।
" अत्र दुश्च्यवन इन्द्रः ।
ग्राम्यत्वस्य यथा—“ताम्बूलभृतगल्लो ऽयं भल्लं जल्पति मानुषः ।
“निहतार्थस्य यथा—सायकसहायवाहोरित्यादि ।
एवमन्यदपि ।
अत्र पददोषानन्तरं पदांशदोषाणाम् उद्देश्यकमप्राप्तत्वे येषां वाक्यदोषाणां पददोषसजातीयत्वेन प्रथमं कथनम्, “न्यक्कारो ह्ययमेव"इत्यादेश्च पददोषजातीयत्वे ऽपि अविमृष्टविधेयांशस्य विशेषत्वेनैतत् प्रस्ताव एवोदाहरणम् ।
एवं धम्मिल्लस्येत्यादेरपि क्लिष्टविशेषत्वेन क्लिष्टप्रस्तावः ।
निरर्थकत्वादीनाञ्च पदमात्रनिष्टत्वेन पञ्चान्निर्देशः सूत्रस्य सूगमप्रतिपत्तये ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
पदांशे दुः श्रवत्वं यथा—
“तद्गच्छ सिद्धयै कुरु देवकार्यम्” ।
टीका
विज्ञप्रिया:
(वि, ञ) तद्गच्छ सिद्ध्यै कुरु देवकार्य्यमित्यत्र इति श्रुतिकटुः ।
“धातुमत्तां गिरिर्धत्ते” ।
अत्र मत्ताशब्दः क्षीबार्थे निहतः ।
“वर्ण्यते किं महासेनो विजेयो यस्य तारकः” ।
अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः ।
टीका
विज्ञप्रिया:
(वि, ट) क्लप्रत्ययार्थे अवाचक इति ।
न चात्र च्युतसंस्कारता इति वाच्यम् ।
अनिर्द्दिष्टकालकाः प्रत्ययाः त्रिष्वपि कालेषु भवन्तीत्यनुसासनात् त्रैकालिकक्रियास्वेव तस्य साधुत्वात् ।
परन्तु कालस्तस्य न वाच्यः ।
किन्तु लक्षणीय एव सा लक्षणा न नेयार्था ।
अनिर्द्दिष्टेत्याद्यनुशासनेन कालत्रयवाचकत्वभ्रमप्रयुक्तत्वेनावाचकत्वमेव ।
लोचना:
(लो, उ) विजेय इत्यनेन विजेतुं शक्य एव प्रतिपाद्यते नतु विजितत्वम् ।
“पाणिः पल्लवपेल्लत्रः” ।
पेलवशब्दस्याद्याक्षरे अश्लीले ।
लोचना:
(लो, ऊ) पेलवशब्दे ह्याद्यक्षरे उत्कलभाषायां पुंव्यञ्जकस्मारके ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“सङ्ग्रामे निहताः शूरा वचो बाणत्वमागताः” ।
अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् ।
टीका
विज्ञप्रिया:
(वि, ठ) सङ्ग्रामे इति— वचोबाणत्वं गीर्वाणत्वम् ।
गीः शब्दवाचकत्व इति ।
गीः शब्दबोधकल्पे इत्यर्थः ।
न गीर्वचः शब्दयोर्द्वयोरपि वाच्यवाचकत्वेन वाक्यबाणत्वरूपयोगार्थेन देवार्थे कथं शब्दलक्षणेति वाच्यम् ।
बाणशब्दपूर्ववर्त्तिनो गीः शब्दस्य परिवृत्त्यक्षमत्वात् वचोबाणशब्देन देवाबोधनात् ।
यौगिकशक्तिसत्त्वे ऽपि आनुपूर्वोविशेषस्य बोधप्रतिबन्धकत्वात् ।
शक्तिसत्त्वादेव नच देवे लक्षणा किन्तु गीः शब्दबोधस्य आनुभविकत्वात्, गीः शब्दे एव लक्षणेत्यर्थः ।
न चैवं गीः शब्दो वाणत्वमेव प्रत्येतुमुचितम्, न वाक्यबाणत्वमिति वाच्यम् ।
लक्षितगीः शब्देनैकवाक्यबोधनात् तथा प्रतीतिरिति प्रपञ्चितमिदमस्मत्कृतकाव्यप्रकाशटीकायां वस्त्रवैदूर्यचरणैरिति नेयार्थोदाहरणे ।
तथा तत्रैव बाणस्थाने शरेति पाठे ।
अत्र पदद्वयमपि न परिवृत्तिसहम् ।
जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् ।
टीका
विज्ञप्रिया:
(वि, ड) शरेति पाठ इति—तथा च गीः शर इति न भवति ।
तथा पाठे ऽपि नेयार्थता इत्यर्थः ।
जलध्यादौतु इति ।
उत्तरपदं न परिवृत्तिसमित्यर्थः ।
एवमुत्तरत्रापि ।
तथा च जलाशय इति समुद्रत्वेन रूपएमाबोधकम् ।
योगार्थेनैव बोधकम् ।
जलनिधिरित्यत्र तु उपसर्गमात्रमबोधकम् ।
पदं तु तदेव ।
पूर्वपदं तु परिवृत्तिसहम् ।
तेन वारिधिरित्यादयो भवन्ति ।
बडवेति तेनाश्वानल इति न भवति बडवाग्निरिति तु भवति ।
लोचना:
(लो, ऋ) वचऋ शब्दस्येति—अत्र वचोबाणशब्देन गीर्वाणो विवक्षितः उत्तरपदमेव परिवृत्तिं न सहत इत्यर्थः ।
जलस्थाने सलिलादिपदप्रयोगे न काचित्क्षतिः ।
यथा—सलिलनिधिः पयोनिधिरित्यादि ।
एवमन्ये ऽपि यथासम्भवं पदांशदोषा ज्ञेयाः ।
निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये सम्भवः ।
लोचना:
(लो, ॠ) निरर्थकत्वादीनामिति ।
पदमात्रगतत्वेनैव वाक्यगतत्वेनापि लक्ष्ये ऽसम्भवः ।
तथाविधदोषावहं हि को नाम मूढः पुनः पुनरभिदध्यात् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
क्रमतो यथा—
“मुञ्च मानं हि मानिनि !” ॥
अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः ।
कुञ्जं हन्ति कृशोदरी ।
अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् ।
टीका
विज्ञप्रिया:
(वि, ढ) न तत्र सामर्थ्यमिति ।
शक्तिसत्त्वे ऽपि जङ्घापद्धतिरित्यादौ प्रत्ययविशेषोपपदविशेषसहकारेणैव गतिस्मारणसमर्थं न स्वत इत्यर्थः ।
पुनः पुनः गम्यते, पद्भ्यां गम्यते, इति हि जङ्घापद्धतिपदयोर्व्युत्पत्तिः ।
“गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः” ।
“आङो यमहनःऽ, “स्वाङ्गकर्मकाच्च” इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् ।
इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात् च्युतसंस्कारत्वम् ।
टीका
विज्ञप्रिया:
(वि, ण) च्युतसंस्कारत्वमाह—गाण्डीवीति ।
गाण्डीवी अर्जुनः ।
कनकशिलानिभं किरातमूर्त्तेस्त्रिलोचनस्य वक्षो भुजाभ्याम् आजघ्ने इत्यर्थः ।
अत्र संस्कृतच्युतिर्वृत्तौ एव दर्शिता ।
लोचना:
(लो, ऌ) गाण्डीवी-अर्जुनः ।
तल्लङ्गितापराङ्गकर्मकस्य तस्यात्मनेपदप्रयोगादित्यर्थः ।
नन्वत्र “आजध्ने” इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम् ।
टीका
विज्ञप्रिया:
(वि, त) तत्रास्य वाक्यदोषत्वमाशङ्कते—नन्विति ।
न स्वत इति ।
स्वाङ्गकर्मकत्वे ऽदृष्टत्वात् ।
पदान्तरेति—पराङ्गकर्मवाचकपदान्तरमित्यर्थः ।
संस्कृतच्युतेः पदमात्रदोषत्वम् ।
तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः ।
इह तु दोषस्य “आजघ्ने” इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तने ऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव ।
तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः ।
लोचना:
(लो, ए) आजघ्न इत्यत्र न सकलस्य पदस्य परिवृत्त्यसहनम् ।
किन्तु प्रत्ययमात्रस्य ।
तथा हि आजघान इत्युक्ते हनप्रकृतिसद्भावे ऽपि दोषस्याभाव इत्याशङ्क्य आह—यथाहेति ।
अयमर्थः–यथेह प्रकृत्यंशमवस्थाप्य प्रत्ययांशपरित्यागे दोषाभावः ।
तथा प्रत्ययांशमवस्थाप्य प्रकृत्यंशपरित्यागे ऽपीत्युभयान्वयव्यतिरेकानुविधायित्वात् पददोषताभ्युपगमः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एवं “पद्मः” इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् ।
एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् ।
टीका
विज्ञप्रिया:
(वि, थ) न वाक्यदोषत्वमिति साधयितुमाह—गुणदोषेति ।
श्लेषप्रसादादयो दशगुणाः परोक्तास्तेषामेव शब्दार्थगतत्वात् ।
स्वमते तु माधुर्यौजः प्रसादाख्यास्त्रय एव गुणाः ।
ते तु रसवृत्तय एव ।
आजघ्ने इति पदस्य दोषश्व पदमात्रगामीति दर्शयति—इह त्विति ।
तस्यान्वयवायतिरेकानुविधायित्वं तु तदर्थकस्य आजघान इत्यस्य प्रजहारेत्यस्य च दानेन दोषाभावात् ।
पदान्तराणआं त्विति–विषमविलोचनादिपदानामित्यर्थः ।
तस्य तादवस्थ्यादिति ।
अजघ्ने इति पदस्य दुष्टतातादवस्थ्यादित्यर्थः ।
एवं हन्धातूत्तरात्मनेपदस्य दोषताप्रयोजकान्वयाद्यनुविधानं दर्शयित्वा तस्य पदैकदोषताप्रसक्तिवारणाय आत्मनेपदपूर्ववर्त्तिहन्धातोरपि तथात्वमाह—यथेहेत्यादि न पददोष इति ।
प्रकृतिप्रत्ययमेलनेन दोषत्वात् पददोष एव ।
न पदांशदोष इत्यर्थः ।
उक्तन्यायादप्रयुक्तत्वस्यापि पदमात्रगतत्वं दर्शयति ।
एवं पद्म इत्यत्रापि इति ।
“भाति पद्मः सरोवर” इत्यत्रोक्तः पुंलिङ्गः पद्मशब्दो ऽप्रयुक्त इत्यर्थः ।
इदमुपलक्षणम् ।
आदत्ते इति अवाचकपदस्य श्रुतिकटुपदादेरपि एवं न्यायात् पददोषतेत्यर्थः ।
इदमत्रावधेयम् ।
तथाहि—-यदि उक्तन्यायात् अप्रयुक्तत्वाद्यनेकदोषाणामपि पदमात्रदोषत्वमुक्तं तत्कथं स्मारार्त्त्यन्धः इत्यादिषु तेषां वाक्यगतत्वमुदाहृतम् ।
कथं वा निरर्थकत्वच्युतसंस्कृतत्वासमर्थत्वानामेव वाक्यदोषतो बहिर्भावः कृतः ।
अप्रयुक्तत्वावाचकत्वादीनामपि तद्वद् बहिर्भावौचित्यात् ।
अथ तेषामेकवाक्यस्थानेकपदावलम्बित्वाद् वाक्यदोषता उदाहृता इति चेत् तदा पदमात्रदोषताप्रयोजकतया दर्शितन्यायकथनस्य प्रमत्तगीततैव ।
किञ्च निरर्थकत्वादित्रयस्यापि एकवाक्यस्थानैकपदावलम्बित्वं न सम्भवति ।
यथा “शोभनपथा गच्छते ।
स पुनातु हि हरिश्च वः ।
हन्तीत्यर्थान्तरे—हन्ति गङ्गां सम्प्रति धार्मिकः ।
इति तस्मादेतद्दोषत्रयविशिष्टपदघटितपदसमूहस्य शब्दबोधाजनकत्वाद् वाक्यत्वासम्भव एव ।
एतत्त्रयस्य वाक्यदोषतो बहिर्भावे ऽवाचकत्वदोषव्याख्याप्रसङ्गेन अस्माभिर्दर्शितो हेतुर्बोध्यः ।
लोचना:
(लो, ऐ) प्राकृतादीति—संस्कारो ऽत्र सूत्रव्याकरणमात्रलक्षणः ।
संस्कियते ऽनेन इति व्युत्पत्तियोगात् ।
देषाः केचित् इत्यादिकारिकावाक्यस्य काकाक्षि(गोलक) न्यायेन निरर्थक इत्यादिवाक्ये सम्बन्धः ।
तेन निरर्थकत्व यथा— “पयसां प्रवाह इव सौरसैन्धवः"अत्र सुरसिन्धोरित्येतावतापि गतार्थत्वे अण् प्रत्ययो निरर्थकः ।
एवं वनकरिणामित्येतावतैव गतार्थत्वे वन्यकरिणामित्यत्र यप्रत्ययः ।
तथा—“तदीयमातङ्गघटाविघच्चितै"रित्यत्रेयप्रत्ययः ।
एवं “बिसकिसलयच्छेदपाथेयवन्त"इत्यत्र वतुपप्रत्ययः ।
तेन पदपरमित्यत्र परमित्यनेन वाक्यमात्रव्यवच्छेदः ।
ननु “कुञ्जं हन्ति कृशोदरी"इत्यत्र हन् प्रकृतेरेव परिवृत्तयसहत्वादसगर्थस्य पदांशनिष्टत्वमेव कथं पदनिष्टत्वमिति चेत् ।
अत्रोच्यते असमर्थत्वस्य पृथक् पदनिष्टत्वस्य प्रायेणादर्शनात् प्रकृतिप्रत्ययौ हि स्वार्थबोधकौ ।
इत्यनादृत्य समुदितं पदं वाचकमिति मतमालम्ब्य इन्तीत्यत्र पदनिष्टत्वमेवोक्तम् ।
अत एव काव्यप्रकाशकृतापि– अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन ॥
इति सूत्रं पदांशदोषोदाहरणप्रस्तावे ऽसमर्थत्वे ऽप्युक्तम् ।
दिनशोणितादिपदेषौ परिवृत्तिसहत्वे ऽपि मुख्यतरधर्मिरूपप्रतिपादकप्रतिपादिकानां तथाविधत्वाभावाद् अवाचकत्वादीनां पदगतत्वामुक्तम् ।
अत एवालङ्कारे “सुनयने ! नयने विधेही"त्यस्यापौनरुक्त्ये ऽपि लाटानुप्रास उक्तः ।
इह तु शब्दानां सर्वथा प्रयोगाभावे ऽसमर्थत्वम् ।
विरलप्रयोगे निहतार्थत्वम् ।
निहतार्थत्वमनेकार्थशब्दविषयम् ।
टीका
विज्ञप्रिया:
(वि, द) इदानीं दर्शितस्वस्वलक्षणानुसारेणैव उक्तदोषाणां परस्परभेदसम्भवे ऽपि भेदान्तरमाह–इव शब्दानामिति ।
शब्दानामसमर्थादिशब्दानां परस्परभेद इत्यन्वयः ।
शब्दानामित्यत्र दुष्टशब्दानामित्यर्थः ।
सर्वथा प्रयोगाभाव इति जङ्घापद्धतिरित्येतन्निष्ठसहकारिविशेषणं विनेति शेषः ।
विरलेति—प्रसिद्धाप्रसिद्धानेकार्थविषयम् ।
निहतार्थत्वं विरलप्रयोगे इत्यर्थः ।
लोचना:
(लो, ओ) सर्वथा प्रयोगाभावः अत एव वाक्यदोषमध्ये ऽगणनम् ।
एवंविधस्खलनस्य कादाचित्कस्यापि दुर्ल्लभत्वात् विरलप्रयोगे निहतार्थत्वम् ।
अत एवाहुः- अप्रयुक्तनिहतार्थो श्लेषादावदुष्टाविति ।
अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः ।
अप्रयुक्तत्वमेकार्थशब्दविषयम् ।
टीका
विज्ञप्रिया:
(वि, ध) असमर्थत्वाप्रयुक्तयोर्भेदमाह—अप्रयुक्तत्वमिति ।
अनेकार्थशब्देति, शब्दो ऽत्र धातुः ।
असमर्थत्वमनेकार्थशब्दविषयम् ।
असमर्थत्वे हन्त्यादयो ऽपि गमनार्थे पठिताः ।
अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः ।
टीका
विज्ञप्रिया:
(वि, न) असमर्थत्वावाचकत्वायोर्भेदमाह—असमर्थेति ।
अस्यानेकार्थत्वं ग्राहयति—हन्त्यादय इति ।
लोचना:
(लो, औ) सार्वत्रिकप्रयोगविरहः, किञ्च निहतार्थत्वेर्ऽथदक्षमपि लौकिकम् ।
अप्रतीतहेतुस्त्वेकोर्ऽथः शस्त्रीय एव ।
द्वितीयस्तु सम्भवन्नपि लौकिकः ।
तथानुचितार्थमपि लौकिकम् अपश्वादिपदानामारोपितत्वात् तदभेदः ।
एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते—
टीका
विज्ञप्रिया:
(वि, प) इदानीमुक्तषोडशदोषभिन्नान् त्रयोविंशतिवाक्यदोषान् वक्तुमाह—एवं पदेति ।
पदे यो दोषः वाक्ये ऽपि तादृशदोषस्य सत्त्वात्—तत्सजातीयता; तदवृत्तेस्तद्विजातीयता ।
लोचना:
(लो, अ) सम्प्रति वक्ष्यमाणानां वाक्यदोषाणां समनन्तरेभ्यो भेददर्शिकां कारिकामाह–एवमिति ।
पददोषाणां सजातीयाः श्रुतिकट्वादय उभयत्र वर्त्तमानत्वाद् वाक्यमात्रगाः न पुनः श्रुतिकट्वादिवत् पदतदंशवाक्यगाः ।
“वर्णानां प्रतिकूलत्वम्, लुप्ताऽहतविसर्गते ।
अधिकन्यूनकथितपदताहतवृत्तता ॥ विस्स्द्_७।५ ॥
पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः ।
अर्धान्तरैकपदता समाप्तपुनरात्तता ॥ विस्स्द्_७।६ ॥
अभवन्मतसम्बन्धाक्रमामतपरार्थताः ।
वाच्यस्यानभिधानं च भग्नप्रकमता तथा ॥ विस्स्द्_७।७ ॥
त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः ।
सङ्कीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ॥ विस्स्द्_७।८ ॥
टीका
विज्ञप्रिया:
(वि, फ) लुप्ताहतेति—लुप्तविसर्गता आहतविसर्गता चेति दोषद्वयम् ।
अधिकपदता न्यूनपदता कथितपदता चेति दोषत्रयम् ।
विश्लेषताश्लिलता कष्टता च सन्धौ दोषत्रयम् ।
अभवन्म–सम्बन्धता अक्रमता अमतपरार्थता चेति दोषत्रयम् ।
पदसमासयोरस्थाने न्यास इति दोषद्वयम् ।
वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् ।
यथा मम—
“ओवट्टै उल्लट्टै सअणो कहिम्पि मोट्टाऐ णो परिहट्टै ।
हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा” ॥
अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः ।
एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः ।
टीका
विज्ञप्रिया:
(वि, ब) ओवट्ट इति—अवलुठति उल्लुठति, लुठति, शयने कदापि ।
मुञ्चति नो परिहसति हृदये एनं पश्यति, लज्जया खिद्यति ।
विरहिण्याः क्रियावर्णनमिदम् ।
अवलुठति अवाङ्मुखीभवति, उल्लुठति उत्ताना भवति ।
लुठति पार्श्वं बहुशः परावर्त्तयति ।
शयने शय्यायाम् ।
हृदये एनं मुञ्चति परिहसति ।
लज्जया पश्यति च दिशि दिशि खिद्यति च इत्यर्थः ।
न दोष इति ।
न प्रतिकूलवर्णत्वदोष इत्यर्थः ।
दुः श्रवत्वदोषस्तु तदा भवत्येव ।
लोचना:
(लो, आ) रसानुगुण्यं गुणप्रस्तावे वक्ष्यमाणम् ।
ओवट्टै इति—संस्कृतच्छाया—“अपवर्त्तत उद्वर्त्तते परिवर्त्तते शयने कस्मिन्नपि ।
रमते नो विलुलितहृदये भ्रश्यति लज्जया त्रुट्यति धृतौ सा” ॥
इति ।
एषां तु इत्यादिनास्यवाक्यगतश्रुतिकट्वादेर्विजातीयत्वं सूचितम् ।
विकटवर्णादीनां पदपदांशनिष्ठत्वे ऽपि दुष्टत्वम् ।
किन्तु तथासति तेषां पदपदांशदोषत्वम् ।
अत एव तथाविधानां बहुवारप्रयोगे पददोषसजातीयो वाक्यदोषः ।
टकारदीनां तु एकपदनिष्ठत्वे नायं दोषः ।
वर्णवाक्यव्यपित्वे एवेत्यत्र पददोषसजातीयो वाक्यदोषः ।
“गता निशा इमा बाले !” ।
अत्र लुप्तविसर्गाः ।
आहता ओत्वं प्राप्ता विसर्गा यत्र ।
यथा—
“धीरो वरो नरो याति” ।
टीका
विज्ञप्रिया:
(वि, भ) लुप्तविसर्गत्वमाह–गता निशा इमा बाले ।
गता निशा इति ।
अत्र घोषवति स्वरे च विसर्गत्रयलोपः ।
बन्धशैथिल्यकारित्वमत्र दोषताबीजम् ।
एकद्विलोपे तु तदभावान्न दोषः ।
आहतेति—अस्य तु बहुशः पात एव दोषः ।
लोचना:
(लो, इ) एवं ऌउप्ताहतप्रयोगयोरपि सकृदेव प्रयोगे न दोषः ।
“पल्लवाकृतिरक्तोष्ठी” ।
अत्राकृतिपदमधिकम् ।
एवम्—“सदाशिवं नौमि पिनाकपाणिम्” ।
इति विशेषणमधिकम् ।
“कुर्यां हरस्यापि पिनाकपाणोःऽइति ।
अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव ।
यथा वा—
“वाचमुवाच कौत्सः” ।
अत्र वाचमित्यधिकम् ।
उवाचेत्यनेनैव गतार्थत्वात् ।
टीका
विज्ञप्रिया:
(वि, म) पल्लवेति—पल्लवरक्तेत्युक्त्यैव विवक्षितसिद्धेः ।
विशेषणमधिकमिति ।
अपुष्टार्थदोषसङ्कीर्णमिदम् ।
विशेषप्रतिपत्त्यर्थमिति—धनुर्धरणादप्यसौ न मां वारयितुं शक्त इत्यर्थो विशेषः ।
क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते ।
यथा—
“उवाच मधुरा वाचम्” इति ।
केचित्त्वाहुः—यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते ।
यथा—
“उवाच मधुरं धीमान्” इति ।
टीका
विज्ञप्रिया:
(वि, य) क्वचित्तु इति—क्वचित् स्थल इत्यर्थः ।
तत्प्रयोगो वाचमित्यस्य प्रयोगः ।
एतच्च काव्यप्रकाशकृता दूषितम् ।
तदाह—केचित्त्विति—अत्रापि न युज्यत इति प्रकाशाभिप्रायमबुद्ध्वा लिखितं वाच्प्रयोगस्तु उपपत्त्यन्तरासत्त्वाद् युज्यत एव ।
किन्तु विशेषणदानार्थं तत्प्रयोग इत्युक्तिरेव विशेषणस्य क्रियाविशेषणसम्भवोक्त्या दूषिता न तु वाचमित्यस्य प्रयोगः ।
“ऊचे वचस्तापसकुञ्जरेण” “नृपमूचे वचनं वृकोदरः ।
“सम्प्रस्थितो वाचमुवाच कौत्सः” ।
“जगाद वाक्यं गिरिराजपुत्री” ।
इत्यादिबहुप्रयोगदर्शनात्तत्प्रयोगस्य तत्सम्मतत्वादेव ।
तदुपपत्तिस्तु यथा—वचेर्द्विधा वुयत्पत्तिः कण्ठताल्वाद्यभिघातः तज्जन्यं वचनं चार्थः ।
तत्र वचनार्थकतया प्रयोगे वाचमिति न प्रयुज्यते ।
कण्ठताल्वाद्यभिघातार्थकतया प्रयोगे तु तत्कर्मभूतस्य वाचमित्यस्य युज्यत एव प्रयोग इति ।
यच्च वाचमित्यधिकमित्युक्तं तदपि युक्तम् ।
वच् धातोर्वचनार्थकत्वे वाचमित्यस्य पुनरुक्तत्वादेव ।
पुनरुक्तभाव एव अधिकपदत्वदोषप्रसक्तेः ।
यथा—पल्लवाकृतिरक्तेत्यत्र ।
लोचना:
(लो, ई) अधिकं सदाशिवमित्यतो विशेषप्रतिपत्त्यभावात् ।
उपात्तस्यापि पिनाकीति पदेन विशेषप्रतिपत्तेरिवेत्यर्थः ।
“यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा” ।
अत्र प्रथमे त्वयेति पदं न्यूनम् ।
टीका
विज्ञप्रिया:
(वि, र) न्यूनपदत्वमाह—यदि मयीति—मम इन्द्रतया इन्द्रत्वेन तदा किमित्यर्थः ।
लोचना:
(लो, उ) त्वयेति ।
नूनं प्रस्तुतकाव्यप्रतिपादकस्य चासम्मुखीनस्य महात्मन एवेति दृष्टिपातेन वक्तुरभिष्टपूरणमिति ।
तस्यानिर्द्देशेन यस्य कस्यचिदपि दृष्टपातसूचनेन तत्प्रत्यायनमन्थरमिति भावः ।
“रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्” ।
अत्र लीलाशब्दः पुनरुक्तः ।
एवम्—“जक्षुर्विसं धृतविकासिविसप्रसूनाः” ।
अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः ।
टीका
विज्ञप्रिया:
(वि, ल) कथितपदत्वमाह—रतिलीलेति ।
लीलाशब्द इति सलीलभित्यत्र लीलाशब्द इत्यर्थः ।
पुनरुक्त इति ।
पुनः कथित इत्यर्थः ।
नतु पुनरुक्तदोषः ।
शब्दार्थयोरन्वयभेदेन पुनरुक्त्यभावात् तस्यार्थदोषत्वात् ।
न्यूनपदोत्तरं कथितपदस्यैव क्रमप्राप्तत्वाच्च ।
चक्षुरिति ।
बिसप्रसूनं पद्मम् ।
धृतविकाशितत्काः सैन्याः सेनासमवेतजनाः विसं मृणालं जक्षुः बुभुजिरे ।
अत्र बिसशब्दस्येति कथितपदत्वमिति शेषः ।
पाठान्तरेण कथितपदत्वोद्धारौचित्यं दर्शयति—धृतपरिस्फुटेति ।
हतवृत्तम्—लक्षणानुसरणो ऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च ।
क्रमेण यथा—
“हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः” ।
“अयि ! मयि मानिनि ! मा कुरु मानम्” ।
इदं वृत्तं हास्यरसस्यैवानुकूलम् ।
टीका
विज्ञप्रिया:
(वि, व) हतपदार्थत्रैविध्येन त्रिविधं हतवृत्तमाह—हतवृत्तमिति ।
अप्राप्तगुरुभावः, अन्तलघुः पादान्तलघुर्यस्य तादृशवाक्यमित्यर्थः ।
अत्र पदमध्ययतिवशादश्रव्यवृत्तमाह—हन्त सततमेतस्या इति ।
अत्र सततमेतस्य इत्यत्र पदमध्ये यतिरश्रव्या ।
पढमं वारदमत्तेति गाहाच्छन्दोलक्षणानुसरणमस्त्येव ।
रसाननुगुणवृत्तमाह—अयि मयि मानिनि इति ।
इदं वृत्तमिति दोधकं नाम वृत्तं छन्द इत्यर्थः ।
लोचना:
(लो, ऊ) हन्तेति–हन्त सततमेतस्या इति ।
एतत् द्वितीयार्य्यालक्षणानुगमे ऽपि श्रुतिवैरस्यजा ।
इदमिति ।
अयमाशयः–सामान्यतो हासस्य शृङ्गाररसप्रतिकूल्याभावे ऽपि तथाविधमानस्थले स्मरशरविषार्द्दितस्य नायकस्योक्तौ प्रतिकूलतेति
“विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः” ।
यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् ।
प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव ।
अत्र"प्रमुदितसौरभ आगतो वसन्तः” इति पाठो युक्तः ।
टीका
विज्ञप्रिया:
(वि, श) अप्राप्तगुरुभावान्तलघु आह—विकसितेति–एष वसन्तः समागतः ।
कीदृशः विकसितसहकारभारस्य हारी मनोहारी परिमोल यत्र तादृशः ।
अत्र हारीति पादान्तलघोर्गुरुर्भावाप्राप्तिः ।
पादान्तलघोर्गुरुभावप्राप्तेः विषयं दर्शयतियत्पादान्त इति, वसन्ततिलकादावेवेति ।
नह्यत्र पुष्पिताग्रा छन्दसीत्यर्थः ।
पाठं परिष्कारोति—अत्रेति—प्रमुदितं प्रमोदविषयः ।
यथा वा—
“अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां निग्तबस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च” ॥
टीका
विज्ञप्रिया:
(वि, ष) शार्द्दूलविक्रीडितेति दर्शयति—अन्यास्ता इति ।
रत्नरोहणभुवः प्रसिद्धा एव, गुणरत्नरोहणभुवस्त्वन्या विलक्षणा एव ।
एवं धन्या मृदन्यैव, एवं सम्भारा अपि खल्वन्ये ।
एवं यैरर्थात् यद्गुणरत्नमृद्विशेषसहितैः सम्भारैरेष युवा विधिना सृष्टः ।
यत्र यूनि दृष्टे सति मूढमनसां द्विषां करतलादस्त्राणि मूढमनसां स्त्रीणां नितम्बस्थलाद् वस्त्राणि च पतन्ति इत्यर्थः ।
श्रीमदित्यादि द्वयोर्विशेषणम् ।
द्विषां मोहो भयेन ।
स्त्रीणां मोहः कामेन ।
अत्र “वस्त्राणि च” इति बन्धस्य श्लथत्वश्रुतिः ।
लोचना:
(लो, ऋ) रोहणो माणिक्याद्रिः ।
अथवा गुणरत्नस्य रोहणमुत्पत्तिर्यासु ता भुवः ।
सम्भार उपकारणम् ।
मृत्समवायिकारणरूपः पार्थिवो भागः ।
अत्र चकारस्य अतीव्रप्रयत्नोच्चार्य्यतया बन्धशोथिल्यम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“वस्त्राण्यपि” इति पाठे तु दार्ढ्यमिति न दोषः ।
“इदमप्राप्तगुरुभावान्तलघु” इति काव्यप्रकाशकारः ।
वस्तुतस्तु “लक्षणानुसरणो ऽप्यश्रव्यम्” इत्यन्ये ।
टीका
विज्ञप्रिया:
(वि, स) अत्र चतुर्थपादान्तलघोर्बन्धशौथिल्यकारित्वेन गुरुकार्य्यबन्धदार्ढ्यकारित्वाभावादश्रव्यवृत्तदोष इत्याह—अत्रेति ।
बन्धदार्ढ्यमिति न दोष इति ।
तखत्वकरणान्न दोष इत्यर्थः ।
काव्यप्रकाशकारमते द्वयमप्यप्राप्तगुरुभावान्तलघुभूतापहतवृत्तदोष एवेत्याह—इदमपीति ।
अन्यमते तु, अश्रव्यवृत्तरूपहतवृत्तमेवेदमित्याह—वस्तुतस्तु इति ।
अत्र स्वमतानुसारिण एवान्ये इत्यनेनोक्ताः ।
लोचना:
(लो, ॠ) लक्षणानुसरणे ऽप्यत्र द्वितीयचतुर्थपादान्तलघोरप्राप्तगुरुभावादित्यर्थः ।
प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः ।
लोचना:
(लो, ऌ) ग्रीवागतोद्दामकेसरकलापः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
श्वासक्षिप्तकुलक्ष्माभृत् पातु वो नरकेशरी ॥
अत्र क्रमेणानुप्रासप्रकर्षः पतितः ।
टीका
विज्ञप्रिया:
(वि, ह) पतत्प्रकर्षमाह—प्रोज्ज्वलदिति—नरकेसरी वः पातु ।
कीदृशः ।
प्रोज्ज्वलतः ज्वलनस्य ज्वालावत् विकटा सुन्दरी उरुसटानां छटा कान्तिर्यस्य तादृशः ।
श्वासेनाक्षिप्ताः पातिताः कुलक्ष्माभृतः कुलाचला येन तादृशः ।
पातो न्यूनता ।
“दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते” ।
एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः ।
लोचना:
(लो, ए) असकृत्प्रयोग एव सकृत्प्रयोगे तथाविधारुचिदायित्वाभावात् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि ।
यथा—
“वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्” ।
लोचना:
(लो, ऐ) भातीन्दुरित्यनयोर्वृत्तोपगतत्वेन सन्धैर्न कृतः, तच्च महाकविसमयविरुद्धम् ।
आद्यन्तरगतयोरेवेत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“चलण्डामरचेष्टितः” इति ।
अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् ।
“उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः” ।
टीका
विज्ञप्रिया:
(वि, क) विश्लेषसन्धिमाह–दलितेति ।
दलिते वृन्तादाकृष्टे एवंविधे व्याकरणनिषिद्धसन्धौ ।
वासवाशा ऐन्द्री दिक् ।
अश्लीलसन्धिमाह—चलण्डामरचेष्टितेति ।
अत्र सन्धौ लण्डाशब्दोत्पत्त्यापभ्रंशलण्डाशब्दार्थस्य दीर्घपुरीषव्यञ्जनया जुगुप्सा ।
मौलिः श्रेणीः ।
चारुरवस्थितिर्यस्यास्तादृशीत्यर्थः ।
अत्र सन्ध्युत्पन्ना वर्णाः कटवः ।
लोचना:
(लो, ओ) मर्वन्ते–मरोरन्ते असौ उर्वो इति सम्बन्धः ।
“अत्र सन्धौ कष्टत्वम् ।
“इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः ।
जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये” ॥
अत्र जगदिति प्रथमार्द्धे पठितमुचितम् ।
“नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः ।
पतन्ति शशिनः पदा भासयन्तः क्षमातलम्” ॥
अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः ।
टीका
विज्ञप्रिया:
(वि, ख) समाप्तपुनरात्ततामाह—नाशयन्त इति ।
अत्रेति ।
तृतीयपादे विशेषस्य क्रियान्वयेन वाक्यार्थसमाप्तावपि अनाकङ्क्षितविशेषणान्वयार्थं विशेषस्यावृत्तिरूपो ऽत्र दोषः ।
अत्र हि ध्वान्तनाशनेनैव क्षमातलभासनप्राप्तौ तद्विशेषणम् अनाकङ्क्षितम् ।
यत्र तु विशेषणे आकाङ्क्षा तिष्ठति तत्र नायं दोषः ।
तथा—“अद्यापि स्तनेपथुं जनयति श्वासः प्रमाणाधिकः ।
ऽ; इत्यत्र प्रमाणाधिकत्वविशेषणं विना प्रकृतश्वासेन स्तनेवपथ्वजननात् श्वासस्य प्रमाणाधिकत्व आकाङ्क्षा ।
एवं “उअ णिच्चल” इत्यादानप्युपमानालङ्काररूपप्रकर्षप्राप्त्यर्थमाकाङ्क्षा ।
एवमेवान्यत्रापि विचार्यम् ।
अभवन्मतसम्बन्धो यथा—
“या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् ।
यामेणाक्षीं विना प्राणा विफला मे कुतो ऽद्य सा” ॥
अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात् तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव ।
टीका
विज्ञप्रिया:
(वि, ग) अभवन्निति ।
असम्भवन् असम्भवी कवेरभिमतसम्बन्धो यत्रेत्यर्थः ।
असम्भवश्च शाब्दव्युत्पत्तिराहित्यात् ।
तच्चोदाहरणे दर्शयिष्यते ।
या जयश्रीरिति—अत्र या एणाक्षी ।
यया एणाक्ष्या इत्येवमेणाक्षीविशेष्यको ऽन्वयः कवेरभिप्रेतः स च न सम्भवति ।
द्वितीयान्तपदार्थस्य, या, ययेति प्रथमान्ततृतीयान्तयत्पदार्थयोः अभेदेन विशेष्यभावाप्युत्पत्तेरिति प्रतिपादयितुमाह—अत्रेति ।
ननु या ययेत्यनयोर्न एणाक्ष्यामन्वयः ।
किन्तु या ययेत्यनयोरेव परस्परमन्वय इत्यत्राह—यच्छब्दनिर्द्दिष्टानामिति ।
निरपेक्षत्वादन्वयित्वान्निराकाङ्क्षत्वेन तथात्वं बोध्यम् ।
तथा च एणाक्ष्यामेव साकाङ्क्षत्वात् तद्विशेष्यक एव ।
या ययेत्यानयोरर्थान्वयः कवेरभिमतः स च न सम्भवतीत्याह—एकान्तः पातिनेति ।
यां विनेति ।
एकं यत्पदं तदन्तः पातिना तदर्थान्वयिना एणाक्षीशब्देन एणाक्षीशब्दार्थेन इत्यर्थः ।
अन्येषां या ययेति यच्छब्दार्थानां द्वयोरप्यत्र बहुत्वारोपाद् बहुवचनम् ।
न चात्र एणाक्षीमितिपदस्य विभक्तिव्यत्ययेन या ययेत्यनयोरन्वय इति बाच्यम्, अव्यत्ययेन प्रथममन्वितस्यैव व्यत्ययव्युत्पत्तेः ।
अत्र तु पश्चादेव याम् इत्यस्याव्यत्ययेनान्वयः ।
लोचना:
(लो, औ) समाप्तपुनरात्तत्वे उदाहरति ।
अभवन्, मतम्, इष्टम्, अर्थात् कवेः योगः सम्बन्धो यत्र ।
परस्परनिरपेक्षत्वादनुवाद्यत्वेन तच्छब्दनिर्द्दिष्टविधेयवाक्यस्य गुणभूत्वेन तुल्यतयासमवायात् ।
यदाहुः–“गुणानां च परार्थत्वात् असम्बन्धः, सन्त्वात् स्यादिति"तदेकान्तः पातिनां तेषां-वाक्यानामेकवाक्यान्तः पातिनाम् ।
“यां विनामी वृथा प्राणा एणाक्षी सा कृतो ऽद्य मे” ।
इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वे ऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते ।
टीका
विज्ञप्रिया:
(वि, घ) यदि तु तच्छब्दार्थस्य विशेष्यतया एणाक्षीशब्दः प्रयुज्यते तदादोष इत्याह—यां विना मे वृथा इति ।
सा एणाक्षीति तच्छब्दविशेष्यतयैव प्रयोगः ।
सर्वैरपीति ।
न च तथापिं भिन्नविभक्तिकयत्तत्पदार्थयोः कथमभेदान्वय इति वाच्यम् ।
तत्पदार्थान्वितविशेष्यस्य यत्पदार्थे ऽन्वये समानविभक्तिकत्वनियमाभावात् ।
यथा यत्र धूमः स देशो वाह्निमान् इत्यत्र तत्पदार्थान्वितस्य प्रथमान्तपदार्थस्य देशस्य सप्तम्यन्तयत्पदार्थे ऽन्वयः ।
लोचना:
(लो, अ) यथा तद्धटते तदाह ।
यां विनेत्यादिः ।
तच्छब्दनिर्द्दिष्टं वेधेयं वाक्यम् ।
सम्बन्ध एणाक्षीशब्दस्य इत्यर्थः ।
यथा वा—
“ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः” ।
अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते ।
“ईक्षसे चेत्” इति तु युक्तः पाठः ।
टीका
विज्ञप्रिया:
(वि, ङ) अत्र प्रथममपि व्यत्ययमङ्गीकुर्वतः प्रत्युदाहरणान्तरमाह—ईक्षसे यदिति ।
यतो हेतोरित्यर्थः ।
अत्रेति—यदितिपदेन कटाक्षेक्ष्णस्योपस्थानम् ।
तदेत्यनेन तु कालस्योपस्थानम् इत्येकार्थानुपस्थानात्तयोर्नाभेदान्वयः इत्यर्थः ।
ईक्षसे चेदिति ।
तथा च यदि कटाक्षेण ईक्षसे तदा तेन कटाक्षेण मनोभवः धन्वी इत्यर्थः ।
यथा वा—
“ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च ।
राजति व्योमकासारराजहंसः सुधाकरः” ॥
अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः ।
टीका
विज्ञप्रिया:
(वि, च) इत्थमभेदान्वयसम्भवं दर्शयित्वा भेदान्वयासम्भवमाह—ज्योत्स्नाचय इति ।
कासारः सरः ।
व्योमरूपे ऽस्मिन् ज्योत्स्नाचयादिरूपपयः पूरादय इत्यर्थः ।
अत्रेति—कासारे राजहम्स इत्येवंशमासे तत्पुरुषे उत्तरपदार्थस्य विशेष्यत्वात् कासारशब्दार्थस्य विशेषणीभाव एव गुणीभावः ।
तादृशगुणीभूतस्य च विशेष्यान्तरे ऽपि गुणीभावो ऽव्युत्पन्नो निराकाड्क्षत्वात्, तथा च तस्य पयः पूरादौ विशेषणीभावेन अन्वयासम्भव इत्यर्थः ।
तादृशविशेषणस्य अन्यत्र विशेष्याभावेनान्वये तु निराकाङ्क्षत्वम् ।
अत एव चैत्रस्य दासभार्य्या इत्यत्र भार्य्यायं विशेषणस्य दासस्य चैत्रविशेष्याभावेनान्वये साकाङ्क्षतैव ।
लोचना:
(लो, आ) सर्वैः पयः पूरादिपदार्थैः ।
विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् ।
इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वो ऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः ।
टीका
विज्ञप्रिया:
(वि, छ) अभवन्मतयोगविधेयाविमर्शयोर्भेदमाह—विधेयाविमर्श इति ।
विधेयाविमर्शे ऽन्वयबोधो जायत एव ।
किन्तु विधेयस्य विधेयत्वाप्रतीत्या यदेव विधेयमविमृष्टं तदेव दुष्टमित्यर्थः ।
न चैवं तस्य वाक्यदोषत्वभावापत्तिरिति वाच्यम् ।
उद्देश्यसम्बन्धितया विधेयत्वाप्रतीत्या उद्देश्यघटितवाक्यस्यान्वयव्यतिरेकाद् वाक्यदोषत्वाद् दुष्टं तु विधेयपदमेवेत्यर्थः ।
प्रकृते तु निराकाङ्क्षत्वेनान्वयासम्भवादन्वयप्रतियोगिसमस्तमेव दुष्टमित्याह—इह त्विति ।
प्रधानस्येति—पयः पूरादिसमस्तान्वयित्वेन प्रधानस्येत्यर्थः ।
प्राधान्येनेति समस्तान्वयित्वेनेत्यर्थः ।
तदङ्गतयेति तदन्वयित्वेनेत्यर्थः ।
तिरोभाव इतीति ।
बोधानुपपत्तिरित्यर्थः ।
लोचना:
(लो, इ) यदेवोच्छूनत्वादेर्वृथात्वं तदेव दुष्टम् ।
न तु सर्ववाक्यानां तिरोभावः ।
एवं कल्पोपपदाः द्रुमाः ।
कल्पोपपदत्वं द्रुमस्य नतु द्रुमार्थस्य ।
इत्येवमादिषु अभवन्मतयोगो बोद्धव्यः ।
“अनेन च्छिन्दता मातुः कण्ठं पशुना तव ।
बद्धस्पर्द्धः कृपाणो ऽयं लज्जते मम भार्गव !” ॥
अत्र “भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः” इति प्राच्याः ।
“परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति " इत्याधुनिकाः ।
टीका
विज्ञप्रिया:
(वि, ज) वाच्यार्थे विवक्षितस्य व्यङ्ग्यार्थयोगस्यासम्भवे ऽपि क्वचिदयं दोष इति काव्यप्रकाशकृन्मतं दूषयितुमाह—अनेनेति ।
तव मातुः कण्ठं छिन्दता इत्यन्वयः ।
मम कृपाण इत्यन्वयः ।
प्राच्याः काव्यप्रकाशकृदादयो दूषयन्ति ।
परश्विति ।
भार्गवस्याधिकनिन्दा कर्तरो अधिकं वैदग्ध्यं द्योतयति इत्यन्वयः ।
अक्रमता यथा—
समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ॥
अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु “प्रणिगदन्त” इत्यनन्तरम् ।
एवम् —-
टीका
विज्ञप्रिया:
(वि, झ) अक्रमतेति–अव्यवधानेन तदुत्तरपातनियमेनैव तत्परामर्शकस्य शब्दस्य तत्परामर्शार्थमन्योत्तरपातस्तत्त्वम् ।
समय एवेति ।
परुषीकृताः दुः श्रवीकृताः स्वरा येषां तादृश मयूरा यत्र क्रियायां तादृशं यथा स्यात्तथा शरदिं हंसरवा रमणीयताम् अयुः प्राप्तवन्तः ।
कीदृशाः ? शरीरिणां बलाबलं समय एव करोतीति विनिगदन्तः कथयन्त इति ।
मयूररवापेक्षया हंसरवाणामपकृष्टत्वे ऽपि शरदिं हंसरवाणां परुषीकरणात् समयेन स्वराणां बलाबलकरणात् शरीरिणामपि बलाबललाभ इति भावः ।
अत्रेति—परामृश्यवाक्यं बलावलमित्युक्तम् ।
अत्र च शरीरिणामपिबलाबलम् इति अन्वये क्लिष्टतापि बोध्या ।
लोचना:
(लो, ई) नतु प्रणिगदन्त इत्यनन्तरम् ।
एवं सति प्रणिगदन्त इति पदस्यापि अनुवाद्यवाक्यप्रवेशशङ्केत्यर्थः ।
“द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी” ॥
अत्र त्वमित्यनन्तरमेव चकारो युक्तः ।
टीका
विज्ञप्रिया:
(वि, ञ) दूयं गतं सम्प्रति शोचनीयतामिति—तपस्यन्तीं पार्वतीं प्रतिजटिलवेशस्य शिवस्य स्वनिन्दावाक्यमिदम् ।
चन्द्रकला एव प्राक् शोचनीया आसीत् सम्प्रति तु तवापि तथात्वाद् द्वयमिति ।
निन्द्राप्रतिपादनार्थं कपालवत्त्वकथनं कलायाः प्रार्थना च तत्समागमादनुमेया ।
अमतपरार्थता यथा—
“राममन्मथशरेण ताडिता-” इत्यादि ।
अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः ।
टीका
विज्ञप्रिया:
(वि, ट) अमतेति—परार्थो ऽप्रकृतार्थो रूप्यमाणस्वरूपो ऽमतः प्रकृतरसविरोधरसव्यञ्जकत्वेनानुचितः यत्र तादृशं वाक्यमित्यर्थः ।
राममन्मथेति–सा निशाचरी राक्षसी ताडका एव निशाचरी अभिसारिका रामस्य एव मन्मथस्य कन्दर्पस्यैव दुः सहेन शरेण हृदये ताडिता सती दुर्गन्धवद् रुधिरणैव गन्धद्रव्ययुक्तरक्तचन्दनैव उक्षिता जीवितेशस्य यमस्यैव जीवितेशस्य प्राणेशस्य उपनायकस्य वसतिं गता इत्यर्थः ।
अत्रेति—द्वितीयोर्ऽथो रूप्यमाणः मन्मथाभिसारिकादिरूपः अनिष्टः अनुचितः प्रकृतवीभत्सविरोधिशृङ्गारव्यञ्जकत्वात् ।
लोचना:
(लो, उ) जीवितेशो यमः प्राणेशश्च प्रकृतो रसः बीभत्सः ।
वाच्यस्यानिभिधानं यथा—
“व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि” ।
अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः ।
टीका
विज्ञप्रिया:
(वि, ठ) वाच्यस्यानभिधानमिति—वाच्यम् अवश्यं वक्तव्यं तस्योच्चारणेनाध्याहारेण च अनभिधानमित्यर्थः ।
न्यूनपदे तु अध्याहारेणाभिधानमिति भेदो वक्ष्यते ।
व्यतिक्रमलवमिति—प्रीतिहेतुक्रियाव्यतिक्रमस्याल्पभावमपीत्यर्थः ।
अत्रेतिस्थूलास्थूलव्यतिक्रमसामान्यादर्शनार्थं व्यतिक्रमस्य लवं कथमपीति वाच्यमित्यर्थः ।
अत्र तु व्यतिक्रमलवमपीति अपिकाराध्याहरेणापि न विवक्षितसिद्धिः ।
व्यतिक्रमस्येत्येव समासेन षष्ठीसत्त्व एव व्यतिक्रमसम्बन्धिस्थूलभागप्रतीतिसम्भवान्नतु व्यतिक्रमलवमपीति ।
समासे तदा व्यतिक्रमलवं पदार्थन्तरमपीत्येवम्व बोधोदयादतो ऽत्रोच्चारणेनाध्याहारेणावश्यं वाच्यस्यानभिधानम् ।
न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः ।
टीका
विज्ञप्रिया:
(वि, ड) न्यूनपदत्वादस्य भेदमाह—न्यूनेति—वाचकपदस्यैव नत्वध्याहारस्यपि न्यूनपदत्वमित्यर्थः ।
तत्र अध्याहारसम्भवादिति भावः ।
अत्र तु न तथा अध्याहारसम्भव इत्यर्थः ।
एवमन्यत्रापि ।
यथा वा—
“चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते” ॥
अत्र चरणानतकान्तासीति वाच्यम् ।
टीका
विज्ञप्रिया:
(वि, ढ) चरणनतेति—हे चण्डि ! कोपने ! चरणे आनतः कान्तः यस्यास्तस्यास्तव तथापि कोप इत्यर्थः ।
अत्र काकुवशात्कथं कोप इत्यर्थः ।
अत्रेतितथापीत्यनेन यद्यपि इति आकाङ्क्षते ।
यद्यपीति निराकाङ्क्षम् एव सम्बद्धं भवति तथापीति तत्र द्वितीयवाक्यगतत्वे एव उपपद्यते इत्यर्थः ।
अत्रापि अध्याहारासम्भवः ।
लोचना:
(लो, ऊ) न्यूनपदत्वे न्यूनपदसद्भावमात्रेण दोषाभावः ।
इह तु ङसन्तं पदं विहायासीति पदनिवेशनेन इत्यनयोर्भेदः ।
भग्नप्रक्रमता यथा—
“एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत” ।
अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् ।
तेन “रावणः प्रत्यवोचत” इति पाठो युक्तः ।
एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् ।
इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् ।
टीका
विज्ञप्रिया:
(वि, ण) भग्नप्रक्रमतेति—प्रथमोपक्रान्तरूपेणाकाङ्क्षितं यादृशं रूपं तादृशरूपेणानुक्तिः तत्त्वम् ।
एवमुक्त इति–स्पष्टम् ।
अत्र वच्धातुना उद्देश्ये प्रतिवचने ऽपि वच्धातुनापि आकाङ्क्षा इति दर्शयति—प्रत्यवोचतेति ।
तथा च कथितपदत्वदोषप्रसक्तिं निरस्यतिएवमिति—तस्योद्देश्येति–उद्देश्ये प्रतिनिर्देश्यता अनेकविधाः तत्र विध्यतया निर्देश्यस्य धर्मस्यैव पुनर्विधेयतया आकाङ्क्षितस्य प्रतिनिर्देशः ।
यथत्रैव श्लोके रावणे विधेयतया निर्दिष्टस्य वचनस्य प्रतिवचनत्वेन विधेयतया प्रतिनिर्देशः ।
यथा वा— उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
सम्पत्तौ च विपत्तौ महतामेकरूपता ॥
इत्यत्र एकरूपताकथनाद् उद्यत्सवितरि विधेयतया निर्दिष्टस्य ताम्रत्वस्य अस्तसवितर्य्यपि विधयतया प्रतिनिर्देशः ।
(२) एकोद्देशेन विध्यस्य विधेयान्तरे उद्देश्यतया प्रतिनिर्देश इत्यपरा ।
यथा—“जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यतेऽ; इत्यत्र जितेन्द्रियत्वेन विधेयस्य विनयकारणत्वस्य शरीरप्रविष्टतया विधेयस्य विनयस्य गुणप्रकर्षविधौ उद्देश्यतया प्रतिनिर्देशः ।
(३) एकविधौ उद्दिष्टस्य विधेयान्तरे ऽप्युदेस्यतया प्रतिनिर्देश इत्यपरा ।
यथा–ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मैनिवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ।
इत्यत्र सिद्धार्थनिवेदनविधौ उद्दिष्टस्य तत्रैव विधेये उद्देश्यतया पुनः प्रतिनिर्देश इत्यपरा ।
एतदुदाहरणं च—यशो ऽधिगन्तुम् इत्यादिकं दर्शयिष्यते ।
तच्च तत्रैव दर्शयिष्यामि ।
लोचना:
(लो, ॠ) तेनैव वक्तुमुचितं नतु भाषिधातुना ।
तस्य कथितपदत्वस्य उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात् ।
अयमाशयः—यदेवोद्दिष्टं तदेव प्रतिनिर्देष्टुमिष्टम् ।
तत्पूर्वोद्दिष्टशब्दत्वेन सर्वनाम्ना वा प्रतीनिर्देष्टव्यम् ।
एतदेवोदाहरणदर्शनेन द्रढयति ।
यथा—
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” ।
इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति ।
टीका
विज्ञप्रिया:
(वि, त) इत्थमेवमुक्त इत्यत्र प्रक्रमभङ्गमुदाहृत्य प्रक्रमाभङ्गमुदाहरति ।
यथा– उदेतीति ।
अन्योर्ऽथ इवेति नाविशिष्टस्यैव नामिनो बोध इति मते ताम्ररक्तशब्दद्वरूपविशेषणभेदाद् भेदावभास इत्यर्थः ।
प्रतीतिम् अभेदप्रतीतिम् ।
लोचना:
(लो, ऌ) उदेतीति—प्रतीतिं स्थगयति ।
तथा च सति रसानुभवविघ्न इति भावः ।
यथा वा—
“ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” ॥
अत्र “अस्मै” इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन ।
टीका
विज्ञप्रिया:
(वि, थ) एकविधौ उद्दिष्टस्य विधेयान्तरे ऽप्युद्देश्यतया प्रतिनिर्देशे प्रक्रमभङ्गमुदाहरति—ते हिमालयमिति ।
ते सप्तर्षयः सिद्धमर्थं पार्वतीपरिणयघटनारूपम् ।
तद्विसृष्टाः शूलिना विसृष्टः ।
तत्समानार्थभ्यामिति ।
नच तत्समानार्थकपदभेदाद् भेदावभास इति वाच्यम् ।
सर्वनाम्ना प्रथमोक्तनामविशिष्टस्यैव परामर्शात् नत्वविशिष्टस्य ।
न चैवं तत्पदेनापि सर्वनाम्ना तथैव परामर्शाददोष इति वाच्यम् ।
तत्तु अत्र अस्मैव इति इदम् शब्देन बुद्धिस्थपुरोवर्त्तितया महादेवः परामृष्टः ।
तच्छब्देन विप्रकृष्टपरामर्शितया तस्य परामर्शः कर्तुं न शक्यते इति भावः ।
यथा वा—
“उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्” ।
अत्र “मिता भूः पत्यापां स च पतिरपाम्” इति युक्तः पाठः ।
टीका
विज्ञप्रिया:
(वि, द) धर्मिभेदभासकत्वेन भेदावभासादेकोद्देशेन विधेयस्य विधेयान्तरोद्देश्यरूपेण प्रतिनिर्देशे ऽपि तद्दोषमुदाहरति—उदन्वदिति ।
भूः उदन्वच्छिन्ना स चापां पतिः योजनशतं व्याप्य तिष्ठतीति शेषः ।
अत्र भुवमुद्दिश्य उदन्वच्छिन्नत्वे विधेये उदन्वानपि विधेयः ।
तस्य योजनशतव्याप्तिविधौ उद्देश्यतया अपाम्पतिशब्देन प्रतिनिर्देशः कृत इति दोषः ।
पाठन्तरेण दोषं परिहरति—मिति भूरिति ।
अयां पत्या मिता परिच्छिन्ना इत्यर्थः ।
एवम्—
“यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः” ॥
अत्र “सुखमीहितुम्” इत्युचितम् ।
टीका
विज्ञप्रिया:
(वि, ध) एवविधेये उद्दिष्टस्य तत्रैव विधेये उद्देश्यतया प्रतिनिर्देशस्य प्रत्ययार्थस्य क्रमभङ्गमुदाहरति—यशो ऽधिगन्तुमिति ।
योद्धुम् उद्वेजन्तीं द्रौपदीं प्रति युधिष्ठिरस्योक्तिरियम् ।
यशो ऽधिगमनस्य सुखलाभस्य मनुष्यगणनायाम् आधिक्यरूपस्य मनुष्यसङ्ख्यातिवर्त्तनस्य वेच्छया निरुत्सुकानामुत्कण्ठारहितानामथ च तदनुकूलचेष्टारूपाभियोगभाजामङ्कं सिद्धिः समुत्सुकेव उत्कण्ठितेव उपैतीत्यर्थः ।
अत्र निरुसुकविधावुद्दिष्टाया इच्छायास्तत्रैव निरुत्सुकत्वविधौ उद्देश्यतया प्रतिनिर्देशः ।
तत्क्रमश्च तुमुन्प्रत्ययभेदेनोद्देशकथनात् भग्न इत्यर्थः ।
अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः ।
तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः ।
टीका
विज्ञप्रिया:
(वि, न) अत्राद्ययोरति ।
एवमुक्तो मन्त्रिमुख्यैरित्यत्र"ते हिमालयमामन्त्र्य"इत्यत्र चेत्यर्थः ।
तृतीये उदन्वच्छिन्ना इत्यत्र चतुर्थे यशो ऽधिगन्तुमित्यत्र ।
एवमन्यत्रापि ।
प्रसिद्धत्यागो यथा—
“घोरो वारिमुचां रवः” ।
अत्र मेघानां गर्जितमेव प्रसिद्धम् ।
यदाहुः—
“मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्” ॥
इत्यादि ।
टीका
विज्ञप्रिया:
(वि, प) प्रसिद्धीति ।
सम्बन्धिविशेषे प्रसिद्धार्थकस्य शब्दस्य तादृशसम्बन्धिनि अप्रयोगस्तत्त्वम् ।
घोर इति—सम्बन्धैविशेषे एव शब्दविशेषाणां प्रयोग इत्यत्र काव्यप्रकाशकृदुक्तिसम्वादमाह–मञ्जीरादिष्विति ।
मञ्जीरादिषु सम्बन्धिषु इत्यर्थः ।
एवमुत्तरत्रापि ।
अस्थानस्थपदता यथा—
“तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतो ऽस्य गङ्गाम् ।
अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः” ॥
अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः ।
टीका
विज्ञप्रिया:
(वि, फ) अस्थानस्थेति—यादृशस्थानसत्त्व एव यत्पदस्य बोधकता तद्भिन्नस्थानस्थत्वं तत्त्वम् ।
त्वमस्य लोकस्य च इत्यत्र तु उत्तरपठितनियतपदस्य तथात्वमत्र तु तन्नियमरहितपदस्येति भेदः ।
तीर्थे तदीये इति—अस्य राज्ञो गजैः सेतुबन्धात् प्रतीपगां गङ्गम् उत्तरतो तदीये गाङ्गीये तीर्थे उत्तरदिशि नभोलङ्घनलोलपक्षा हंसा अयत्नबालव्यजनीबभूवुरित्यर्थः ।
सेतुबन्धेन जलवृद्ध्या प्रावृट्कालबुद्ध्या उत्तरदिशि मानसरोवरगमनार्थं हंसा उड्डीना इति भावः ।
अत्रेति ।
गङ्गायाः ।
प्रथमज्ञाने तत्पदेन तत्परामर्शसम्भवात् ।
लोचना:
(लो, ए) तदीय इत्यस्य पूर्वं गङ्गामित्यस्य पाठो युक्तः ।
तच्छब्दपरामृष्ट्यनन्तरमेव वक्तुमुचितत्वात् ।
एवम् —
“हितान्न यः संशृणुते स किं प्रभुः” ॥
अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता ।
अत्र च पदमात्रस्यास्थाने निवेशे ऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता ।
एवमन्यत्रापि ।
इह के ऽप्याहु–“पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्” इति ।
यथा—“द्वयं गतम्-” इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति ।
टीका
विज्ञप्रिया:
(वि, ब) हितान्न य इति—हितात् जनात् ।
हितमिति क्वचित्पाठः ।
अत्रेति—क्रियान्वयिनो नञः क्रियासन्निहितपाठस्यैवौचित्यात् ।
अत्र वाक्यदोषतामुपपादयति ।
अत्र चेति—मन्थरम् असमर्थम् ।
हितान्न य इति अक्रमदोषोदाहरणमिति केषाञ्चिन्मतं दर्शयति–इह के ऽपीति ।
पदशब्देनेति ।
अपदस्थपदेत्यत्र द्वितीयपदशब्देन इत्यर्थः ।
वाचकमेवेति पदान्तरे योगं विना प्रयोगाभावेन पञ्चपदं त्रिपदमिति यथा न प्रयोगः तथा नञो ऽपि प्रतियोगिपदयोगं विनाप्रयोगात् न तत्र वाचकता, नियतपदत्वं निर्विवादमित्यर्थः ।
घटादिपदस्य तु स्वतः प्रयोगात् तत्र पदत्वं निर्विवादमित्यर्थः ।
शक्तिमद्वर्णमात्रस्यैव नैयायिकैः पदव्यवहारात् प्रायश इत्युक्तम् ।
यथा द्वयमित्यादाविति ।
तत्तदत्राक्रमत्वदोष एवेत्यर्थः ।
तथा च अस्थानस्थपदत्वोदाहरणं तीर्थे तदीये इत्येवेत्यर्थः ।
अस्थनस्थसमासता यथा—
“अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी” ॥
अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः ।
टीका
विज्ञप्रिया:
(वि, भ) अस्थानस्थेति—यद्रसीयव्यञ्जको यः समासस्तद्रसव्यञ्जकस्थानमुपेक्ष्यस्थानान्तरे तत्समासपातस्तत्त्वम् ।
अद्यापीति–सन्ध्याकाले पर्य्युषितकुमुदकुड्मलान्निः सरतां श्रेणीभूतालीनां वर्णनमिदम् ।
अद्यापीत्याद्युक्तक्रोधादालोहितः प्रोद्यन् असौशशी फुल्लतःकैरवकुड्मलादिव खड्गपिधानरूपात्कोषात् निः सरताम् अलीनां श्रेणीभूतं कृपाणां दूरतरं प्रसारितः करो रश्मिरेव तादृशो हस्तो येन तादृशः सन् तत्क्षणात् कर्षणे ऽपि हस्तस्य दूरे प्रसारणात् ।
क्रोधबीजमाह—अद्यापीति ।
सीमन्तिनीनां मानस्तावत् स्तनरूपेणैव दुर्गमाश्रित्यान्यदा तिष्ठतु, अद्यापि ममोदये ऽपीति तन्मां धिगिति क्रोधः ।
अत्रेति कोपिनश्चन्द्रस्य समासो दीर्घसमासः ।
लोचना:
(लो, ऐ) कोषः कुड्मलम् खड्गपिधानं च ।
वाक्यान्तरपदानां वाक्यान्तरे ऽनुप्रवेशः सङ्कीर्णात्वम् ।
यथा—
“चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभो ऽङ्गने” ।
अत्र नभो ऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् ।
“क्लिष्टत्वमेकवाक्यविषयम्” इत्यस्माद्भिन्नम् ।
वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता ।
यथा—
“रमणे चरणप्रान्ते प्रणतिप्रवणे ऽधुना ।
वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः” ॥
टीका
विज्ञप्रिया:
(वि, म) सङ्कीर्णमाह—वाक्यान्तरेति ।
मुञ्च मानमिति ।
वृत्तावेव अस्यान्वयः स्पष्टः ।
अस्य क्लिष्टत्वे भेदमाह—क्लिष्टत्वमेवेति ।
गर्भितत्वमाह—वाक्यान्तरेति ।
रमणे इति—अत्र रमणे चरणप्रान्तपतिते सत्यधुना क्रोधो नोचित इति वाक्यस्य मध्ये वदामि सखि ते तत्त्वमिति वाक्यमनुप्रविष्टम् ।
अर्थदोषानाह—
अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः ।
अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ॥ विस्स्द्_७।९ ॥
सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते ।
साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ॥ विस्स्द्_७।१० ॥
अविशेषे विशेषश्चानियमे नियमस्तथा ।
तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ॥ विस्स्द्_७।११ ॥
निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः ।
टीका
विज्ञप्रिया:
(वि, य) इदानीं त्रयोविंशतिमर्थदोषानाह—अर्थदोषानिति ।
ख्यातेति ।
ख्यातविरुद्धता विद्याविरुद्धतेति दोषद्वयम् ।
तयो विपर्य्ययाविति ।
अविशेषे विशेषोक्तेर्विपर्य्ययो विशेषे ऽविशेषोक्तिः ।
अनियमे नियमोक्तेर्विपर्य्ययश्च नियमे ऽनियमोक्तरित्यर्थः ।
विध्ययुक्तताऽनुवादायुक्तता चेति दोषद्वयम् ।
लोचना:
(लो, ओ) अर्थदोषानुद्देश्यकमप्राप्तान् ।
ताप्रत्ययस्यापुष्टादिप्रत्येकमन्वयः ।
तद्विपर्ययो विशेषे ऽविशेषो नियमे ऽनियमः ।
अत्रापुष्टत्वं मुख्यानुपकारित्वम् ।
यथा—
“विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !” अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते ।
अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः ।
टीका
विज्ञप्रिया:
(वि, र) मुख्येति—मुख्यो विधेयरूपः ।
अन्यत् स्पष्टम् ।
अधिकपदादस्य भेदमाह—अधिकेति ।
पल्लवाकृतिरक्तोष्ठीत्यत्र ह्याकृतिशब्दस्य निष्प्रयोजनत्वरूपो बाधो ऽन्वयबोधसमकालमेव प्रतिभासत इत्यर्थः ।
लोचना:
(लो, औ) मुख्यं प्रकृतप्रतिपाद्यम् ।
समकालमेवं बोधप्रतिभासः, अत एव वाक्यदोषता ।
इह अर्थप्रत्ययानन्तरम्, अत एव अस्यार्थदोषत्वम् ।
विवरं छिद्रं स्त्रीवराङ्गं वा अश्लीलम् ।
पुन्ध्वजस्मारकत्वात् ।
दुष्क्रमता यथा—
“देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्” ।
अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् ।
टीका
विज्ञप्रिया:
(वि, ल) दुष्क्रमतामाह—देहीति ।
अत्रेति—अधिकमूल्यवस्तुप्रर्थने सति तत्रासम्मतिसम्भावनयैव न्यूनमूल्यप्रार्थनौचित्यात् ।
“स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !” ।
अत्रार्थो ग्राम्यः ।
टीका
विज्ञप्रिया:
(वि, व) स्वपिहीति—नायकं प्रति नायिकाया उक्तिरियम् ।
हे प्रिय ! एषा अहं स्वपिमि ।
त्वमपि समीपे स्वपिहीत्यर्थः ।
ग्राम्य इति वैदग्धीराहित्येनोक्त इत्यर्थः ।
कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् ।
यथा—“हरन्ति हृदयं यूनां न नवेन्दुकलादयः ।
वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका” ॥
अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः ।
टीका
विज्ञप्रिया:
(वि, श) व्याहतत्वलक्षणमाह—कस्यचिदिति—तदन्यथात्वमुत्कर्षान्यथात्वमपकर्षः ।
अपकर्षान्यथात्वमुपकर्षस्तत्प्रतिपादनमित्यर्थः ।
तत्र प्रगपकर्षे उदाहरति हरन्तीति–इयं लोकलोचनचन्द्रिकासुरूपा तन्वी यौर्युवभिर्वोक्षते तेषां यूनां हृदयं नवेन्दुकलादयो न हरन्तीत्यर्थः ।
अत्र आदिपदाच्चन्द्रिकापि निन्दिता, तन्व्यां तदारोपादुत्कर्षः प्रतिपादितस्तदाह—अत्रेति ।
प्रागुत्कर्षे तु यथा—“तव कर्णन्दुना तन्वि ! नभसीन्दुस्तिरस्कृतः” ।
इति ।
“हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथाशु जायते पातो न तथा पुनरुन्नतिः” ॥
अत्रार्थो ऽश्लीलः ।
टीका
विज्ञप्रिया:
(वि, ष) हन्तुमेवेति ।
अप्रणिधानेन युद्धप्रवृत्तपुरुषवर्णनमिदम् ।
स्तब्धस्य भद्राभद्राविवेचिनः विवरं परस्य च्छिद्रं तत्र इच्छामात्रं नतु प्रवृत्तौ तदपेक्षा स्तब्धत्वात् ।
अत्र पुंसो लिङ्गस्य प्रतीतिः ।
“वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः ।
व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः” ॥
टीका
विज्ञप्रिया:
(वि, स)क्लिष्टत्वाद्यभावे ऽपि कष्टगम्यार्थत्वं तत्त्वम् ।
वर्षतीति–कस्याश्चित् कामिन्याः कान्तदूतीः प्रति अन्यापदेशेन सोत्कण्ठवचनमिदम्—अहः पतिः सूर्य्यो धामस्थं स्वीयरश्मिस्थम् एतद् दृश्यामानं पयो वर्षति नतु घनो वर्षति घनस्य सूर्य्यहस्तस्थानीयत्वात् ।
तथा यया सुरसरितो गङ्गायाः पूरः प्रवाहः प्लावितः सा अर्थात् यमुनासवितुः सूर्य्यस्य सत्यं सुता ।
कथमेतन्निश्चितम् इत्यत्राह—व्यासस्येति—वृष्टियमुनयोः सूर्य्यप्रभवत्वं न खलु केनचिदनाप्तेनोक्तम्, किन्तु व्यासेन श्रुत्या वेदापरपर्य्यायनाम्ना चेति ।
अपि जिज्ञासायाम् ।
“आदित्याज्जायते वृष्टिस्ततश्चान्नं ततः प्रजाः"इति ।
एवंरूपासु कालिन्द्याः सूर्य्यकन्यात्वबोधिकासु च व्यासोक्तिषु को जनो न विश्वसिति कस्य जनस्या वा एवमर्थिकायां श्रुतौ वेदे न श्रद्धा ? अपि पु सर्व एव विश्वसिति सर्वस्य च श्रद्धा; तथा च हरिण्या अपि तत्र विश्वासश्रद्धौचित्यमेव ।
तथापि मुग्धा मूढा हरिणी भास्वन्मरीचिषु अधिकरणेषु जलं न प्रत्येति ।
धामस्थमच्छं पय इत्यनेन पयसः सूर्य्यमरीचिवृत्तितया व्यासश्रुतिभ्यां बोधितत्वेन तथा प्रत्ययोचित्यात् ।
लोचना:
(लो, अ) वर्षतीति यमुना व्यासेनेति ।
वृष्टियमुनयोः सूर्य्यप्रभवत्वं न खलु केनानाप्तेनोक्तम्, किन्तु व्यासेन श्रुत्या वेदाचारचर्य्यया चेति ।
श्रद्धा सम्प्रत्ययः ।
कस्याश्चित् कामिन्याः कान्तदूतीच्छलापदेशेन सोल्लुण्टनवचनमिदम् ।
अत्र प्रकृष्टतरः प्रकृतोयमर्थः-स नागरः सत्यवागिति प्रामाणिकमेवेदम् ।
तस्य दूतीनां भवतीनां वाचि सत्यप्रत्ययो युज्यते ।
किन्त्वहमेव मुग्धा मिथ्याप्रत्ययमेव करोमीति ।
कृगीणां मरुमरीचिकासु जलप्रत्ययो यथा, ममापि भवतीषु सम्प्रत्ययस्तथैव ।
अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् ।
ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति ।
अयमप्रस्तुतो ऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् ।
टीका
विज्ञप्रिया:
(वि, ह) अत्र विविक्षितार्थस्य कष्टबोधत्वं दर्शयति—अत्रेति ।
प्रभवो जनकम्, तयोर्जलमपीति वृष्टेर्यमुनायाश्च इत्यर्थः ।
सूर्य्यजन्यवृष्टिलेनैव नदीपूरणात् यमुनायाश्च वृष्टिजनकप्रत्ययहेतुत्वमुचितमित्यर्थः ।
जलस्य तद्धामस्थत्वेनोक्तत्वात् ।
भ्रान्तत्वात् तत्रेति ।
तत्र मरीचिष्वधिकरणेषु यमुनाजलस्य सूर्य्यप्रभवत्वप्रदर्शनात् पिपासया यमुनायामेव प्रवर्त्तते तत्र न जलाप्रत्ययः ।
मरीचिषु त्तुल्याम्बुभ्रमान्न प्रत्येति इत्येतत्प्रदर्शनार्थमयमप्रस्तुतोर्ऽथ इति ।
अत्र हि अप्रस्तुतप्रशंसानामालङ्कारः ।
अप्राकरणिककथनात् प्राकरणिकप्रत्यायनरूपः ।
प्राकरणिकश्चात्र नायायसिद्धे ऽप्यर्थे भ्रान्तानां जनानां प्रत्ययाभाव इत्येवंरूपः ।
अप्राकरणिकस्तु मृग्या जलप्रत्ययरूपः ।
“सदा चरति खे भानुः सदा वहति मारुतः ।
सदा धत्ते भुवं शेषः सदा धीरो ऽविकत्थनः” ॥
टीका
विज्ञप्रिया:
(वि, क) अनवीकृतमाह सदेति—धीरो ऽविकत्थनः ।
नञः प्रश्लेषः ।
कथितपदादस्य भेदमाह—अत्रेति ।
पर्यायान्तरेण समानार्थकेन विच्छित्त्यनन्तरं प्रकारकृतो भङ्गीभेदः ।
तथापीति—प्रकारकृतभङ्गीभेदाभावादनवीकृतत्वमेवेत्यर्थः यथा—“सदा चरति खे भानुर्नित्यं वहति मारुतः ।
धत्ते क्ष्मां सर्वदा शेषो ऽजस्त्रं धीरो ऽविकत्थनः ॥
“अत्र सदानित्यसर्वदाजस्त्रपदानां रामानार्थता समानप्रकारता च ।
भानुः सदेति— षष्ठांशवृत्ते राज्ञो ऽपि षष्ठांशग्रहणं प्रजापालनरूपो धर्म एषः सदैवेत्यर्थः ।
अत्र सदासततशब्दयोः समानप्रकारकत्वसमानार्थकत्वे ऽपि रात्रिन्दिवमित्यत्रार्थस्यैव साम्यं रात्रित्वदिवात्व प्रकारभेदः
अत्र सदेत्यनवीकृतत्वम् ।
अत्रास्य पदस्य पर्यायान्तरणोपादाने ऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः ।
लोचना:
(लो, आ) अस्येत्यनन्तरं सदेति शेषः ।
पर्यायान्तरेण सर्वदेत्यादिना ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
नवीकृतत्वं यथा—
“भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति ।
विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ॥
ऽइति ।
“गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते” ॥
अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् ।
टीका
विज्ञप्रिया:
(वि, ख) निर्हेतुमाह–गृहीतमिति—हेत्वाकाङ्क्षासत्त्वे ऽपि हेत्वनुक्तिस्तत्त्वम् ।
कर्णक्रोधात् त्यज्यमानमस्त्रं सम्बोध्य अश्वत्थाम्न उक्तिरियम् ।
हे शस्त्र ! त्वं येन मम पित्रा ब्राह्मणजातेर्नोचितमनुचितमपि परिभवभयाद् द्रुपदनृपतितः परिभवभयाद् गृहीतमासीः, तथा यस्य मम पितुः प्रभावात् तव खलु न विषयो न कश्चिद् अभूदिन्दो ऽपि त्वद्विषय आसीदित्यर्थः ।
तेन मम पित्रा सुतस्य हतत्वेन श्रुतस्य मम शोकात् नतु भयात् परित्यक्तमसि अहमपि यतस्त्वां विमोक्षेये, अतः स्वस्ति भवते इत्यर्थः ।
अत्रेति—द्वितीयमश्वत्थाम्नाः शस्त्रमोचनम् ।
तत्र चाहमपि इत्यपिकार एव हेत्वाकाङ्क्षोत्थापकः ।
लोचना:
(लो, इ) शस्त्रमोचन इत्यत्र अश्वत्थाम्न इति शेषः ।
“कुमारस्ते नराधीश ! श्रियं समधिगच्छतु” ।
अत्र “त्वं म्रियस्व” इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् ।
टीका
विज्ञप्रिया:
(वि, ग) प्रकशितविरुद्धार्थमाह—कुमारस्ते इति ।
कुमारः पुत्रः ।
अत्रेति पितृमरणानन्तरमेव पुत्रस्य श्रीलाभः प्रायश इति भावः ।
“अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?” ।
अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् ।
टीका
विज्ञप्रिया:
(वि, घ) सन्दिग्धमर्थमाह—अचला इति ।
अत्रेति—उक्तिनिश्चयाभावात् अचला एव अबला एव वा सेव्या इति निश्चयाभावात् सन्देह इत्यर्थः ।
“सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः” ॥
अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता ।
टीका
विज्ञप्रिया:
(वि, ङ) पुनरुक्तमर्थमाह—सहसेति—अविवेको ऽविमृश्यकारिता स तु आपदां पदम् आपज्जनक इत्यर्थः ।
अनेककारणस्य कार्यव्यापकत्वादविमृश्यकारिताया आपद्व्यापकत्वं दर्शितम् ।
ईदृशान्वयवायाप्त्या लभ्यां व्यतिरेकव्याप्तिमाह– वृणुते हि इति ।
विमृश्यकारिता अविमृश्यकारितारूपसाय वायपकस्य व्यतिरेकस्तस्यापद्रूपव्याप्याभावरूपाणां सम्पदां व्याप्यतामाह—गुणलुब्धा इति ।
यत्र विमृश्यकारिता तत्र सम्पद इत्यर्थः ।
अत्रेति—द्वितीयार्द्धव्यतिरेकेण द्वितीयार्द्धलब्धव्यतिरेकव्याप्त्या द्वितीयस्यैव द्वितीयपादलब्धान्वयव्याप्तेरेवेत्यर्थः ।
अन्वयव्याप्तेरेव पर्यवसितोर्ऽथो व्यतिरेकव्याप्तिः ।
सोर्ऽथः द्वितीयार्द्धेक्तव्यतिरेकव्याप्त्या उक्त इत्यतः पुनरुक्त इत्यर्थः ।
प्रसिद्धिविरुद्धता यथा—
“ततश्चार समरे शितशूलधरो हरिः” ।
अत्र हरेः शूलं लोके ऽप्रसिद्धम् ।
यथा वा—
“पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः” ।
अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता ।
“अधरे करजक्षतं मृगाक्ष्याः” ।
अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता ।
एवमन्यशास्त्रविरुद्धत्वमपि ।
टीका
विज्ञप्रिया:
(वि, च) प्रसिद्धिविरुद्धमाह—प्रसिद्धीति ।
कविप्रसिद्धिविरुद्धत्वं तत्त्वम् ।
कीर्त्तिधावल्यवर्णनादावन्यलोकप्रसिद्धिविरोधस्तु न दोषः ।
तत्र इति ।
शीतेति—शीत शिलाघर्षणेन तनूकृतम् ।
हरिः कृष्णः ।
अत्रेति—लोके कविलोके ।
पादाघातादिति ।
ते पाताघातादिति अन्वयः ।
अत्रेति—नत्वङ्कुर इति ।
न च कुसुमं कृतदोहदं त्वया इति कालिदासकाव्ये दोहदस्यापि वर्णनात् कथमङ्कुरो न प्रसिद्ध इति वाच्यम् ? “कवीनां सत्यर्थे ऽपि अप्रसिद्धिरसत्ये ऽपि प्रसिद्धिः"इति अङ्कुरस्य केनापि कविना अवर्णनाद् दोष इत्यर्थः ।
अप्रयुक्तत्वं तु पदस्य नार्थस्, इति अतो ऽत्र न तत् प्रसक्तिः ।
विद्याविरुद्धमाह—अधरे इति ।
विद्याशास्त्रम् ।
एवमन्यति—“स्नाति रात्रौ बुधः सदाऽ; इति धर्मशास्त्रस्य, “शूरो नीतिं विना जयीऽति नीतिशास्त्रस्य, “ज्वरवान् स्नातुमर्हतिऽ; इति वैद्यशास्त्रस्य विरुद्धम् ।
“ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् ।
स्त्रीरत्नं च कथं नाम मृष्यते भार्गवो ऽधुना” ॥
अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता ।
टीका
विज्ञप्रिया:
(वि, छ) साकाङ्क्षतामाह—ऐशस्येति ।
उपात्तपदार्थान्वयभ्रमविषयत्वे सति अनुपात्तपदार्थसाकाङ्क्षत्वं तत्त्वम् ।
न्यूनपदत्वे तु न तादृशो भ्रम इति भेदः ।
ऐशस्येति ।
कथं मृष्यते कथं सहते कथं न द्वेष्टि इत्यर्थः ।
इयमुक्तिश्च द्वेष्यवस्तुन्येव घटते स्त्रीरत्नं न द्वेषयोग्यमित्यतः स्त्रीरत्नोपेक्षा एव द्वेषयोग्या इत्यत उपेक्षितुमित्याकाङ्क्षति इत्याह—अत्रेति ।
अत्र कर्मपदोत्तरचकारस्य कर्मान्यरेण सहैकक्रियान्वयित्वं प्रत्याय्यते इत्यतः स्त्रीरत्नस्यापि मृष्यतिक्रियान्वयित्वभ्रमः ।
अत्र च रावण इत्येव पाठो युक्तो न भार्गव इति तस्य जितेन्द्रियस्य स्त्रीरन्तोपेक्षायां द्वेषाभावेन मृष्यते तदाकाङ्क्षत्वाभावात् ।
“सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी ।
खलः पूज्यः समज्यायां तापाय मम चेतसः” ॥
टीका
विज्ञप्रिया:
(वि, ज) सहचरभिन्नत्वमाह—सज्जन इति ।
समज्यायां समाजे ।
उत्कृष्टनिकृष्टयोरेकक्रियान्वयित्वेन कथनं तत्त्वम् ।
अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलो ऽशोभन इति सहचरभिन्नत्वम् ।
“आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः” ॥
अत्र न रावण इत्येतावतैव समाप्यम् ।
टीका
विज्ञप्रिया:
(वि, झ) अस्थानमुक्ततामाह—अस्थाने समापनायोग्यस्थाने मुक्तता समाप्ताता तत्त्वम् ।
आज्ञेति—सीतापरिणयप्रार्थनाय रावणेन प्रेषितं तत्पुरोहितं शौष्कलं प्रतिजनकपुरोहितस्य शतानन्दस्य रावणप्रशंसापूर्वकोपेक्षावाक्यमिदम् ।
अहो आश्चार्य्यमीदृग् वरो न लभ्यते ।
यतस्तस्य आज्ञा शक्रिशिखामणेः प्रणयिनी, मणिरिव तदाज्ञआपि शिखायां शक्रेण धार्य्यत इत्यर्थः ।
तथा शास्त्राण्येव नवं नवीनं चक्षुः शास्त्रदृष्ट्यैव कर्मकरणात् ।
तथा भूतानां प्राणिनां पत्यौ पिनाकिनि महेशे भक्तिः ।
तथा लङ्केति दिव्यापुरी पदं निवासस्थानम् ।
तथा द्रुहिणस्य ब्रह्मणे ऽन्वये कुले उत्पत्तिः ।
एतानि सर्वण्येव उत्कर्षहेतवः सन्ति एव चेत् यदि एष रावणोन स्यात् दुर्वृत्तत्वेन ख्यातनामा लोकनामपकारकत्वेन आर्त्तरवकारकश्च यदि न स्यात्तदा ईदृग्वरो न लभ्यते इत्यर्थः ।
तस्मादयं त्याज्य एव इति भावः ।
पुनराह—क्व पुनरिति ।
सर्वत्र जने सर्वे धर्म्माः क्व नु गुणाः ? कश्चिद्धर्मो दोषो ऽपीत्यर्थः ।
तथा च सर्वेषां दोषमिश्रिता एव गुणा इत्यर्थः ।
नतु क्व नु सर्वे गुणा इत्यर्थः ।
सर्वगुणासत्त्वस्यानुक्तत्वात्तत्समर्थनाननौचित्यात् सर्वगुणसत्त्वमुक्त्वा किञ्चिद्दोषसत्त्वस्यैवोक्तत्वात् ।
अत्रेति ।
न रावण इत्यन्तस्यैव रावणत्यागार्हत्वात् ।
क्व नु पुनरित्यादेः तत्परिग्रहार्हत्वादेव ।
लोचना:
(लो, ई) आज्ञा शकेति—द्रुहिणोब्रह्मा ।
ईदृगुक्तप्रकारगुणाविशिष्टो वरो जामाता श्रेष्टो वा ।
रावणः जगदाकन्दकारी ।
अयमर्थः–अस्मिन् दशमुखे सर्वे गुणाः सन्ति ।
जगदाक्रन्दकारित्वं दोषः ।
अतश्च रावणपदस्यार्थान्तरसङ्कमणाद् वाच्यत्वेनैव दोषास्पदत्वम् ।
एतावतैववाक्यं समापयितुमुचितम् ।
यत् पुनरुक्तं क्व नु पुनरित्यादि तेन पूर्वस्थानेर्ऽथप्रतिपादनं न त्यक्तमित्यपदमुक्ततेयं दोषः ।
ननु क्व पुनरित्यादिसमर्थकवाक्यत्वेन पुनरुक्तमिति वाच्यम् ? रावणस्यार्थस्य अयुक्ततापादनार्थमेव वक्तुम् इत्यस्य वाक्यस्य तथाप्रयुक्तत्वेन समर्थनस्यानौचित्यात् ।
तथा सति युक्तवेन वक्तुमिष्टं वाक्यं युक्तमुक्तं स्यात् ।
“हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे” ।
अत्र रत्नानां निधेरित्यविशेष एव वाच्यः ।
टीका
विज्ञप्रिया:
(वि, ञ) अविशेषे विशेषोक्तिमाह—हीरकाणामिति–अत्रेति ।
अत्कर्षापर्य्याप्त्या ह्यवर्णनीयत्वं वक्तुमुचितम् ।
रत्नान्तरासत्त्वे तु हीरकमात्रार्थेत्कर्षापर्य्याप्तिबोध इति भावः ।
“आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका” ॥
अत्रावर्त एकेति नियमो न वाच्यः ।
टीका
विज्ञप्रिया:
(वि, ट) अनियमे नियमोक्तिमाह—आवर्त एवेति ।
वलयः स्त्रीवलयः ।
अत्र नाभ्यादिषु आवर्त्तादयो रूप्यत्वेन विधेयास्तत्र नाभिरेवावर्त्त इति करणे आवर्त्तरूपणयोग्यस्य अन्यतरस्य व्यावर्त्तनार्थमेवकारो दातव्यः ।
एवम् “आवर्त्त एव ऽ; इति करणे तु नाभायां रूपणयोग्यवापीधर्मान्तरभावेन व्यावर्त्तनीयाभावात्तादृशनियमार्थक एवकारो न युक्त इत्याह—अत्रेति—नाभिरेवेत्येवं नाभिपदोत्तरमुचितस्यैवकारस्यावर्त्तोत्तरपातदास्थानस्थपदत्वं नाशङ्कनीयम् ।
नियमोक्तित्वेन विशेषात् तद्भेदस्य तत्र प्रवेशनीयत्वात् ।
“यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः” ।
अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः ।
टीका
विज्ञप्रिया:
(वि, ठ) विशेषविपर्य्योक्तिमाह—यान्तीति—निचोलो वस्त्रम् ।
अत्रेति—तमिस्त्रायामेव नीलवस्त्रौचित्याद्रजनीविशेषरूपायास्तमिस्त्राया एवं वक्तुमौचित्येन ज्योत्स्त्रासाधारणरजन्युक्त्यानौचित्यमित्यर्थः ।
“आपातसुरसे भोगे निमग्नाः किं न कुर्वते” ।
अत्र आपात एवेति नियमो वाच्यः ।
टीका
विज्ञप्रिया:
(वि, ड) नियमविपर्ययोक्तिमाह—आपातेति—ननु भोः किं न कुर्वते—अकार्यमेव कुर्वत एवेत्यर्थः ।
अत्रेति–सर्वकालसुरसत्वे तन्निमज्जनं नाकार्यम्, अतः सर्वकालव्यावर्त्तनाय आपातत एवेति नियमो वाच्य इत्यर्थः ।
ननु वाच्यस्यानिभिधाने “व्यतिक्रमलवम्” इत्यादावपेरभावः, इह चैवकारस्येति को ऽनयेर्भेदः ।
अत्राह—“नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः” इति, तन्न
लोचना:
(लो, उ) नियमस्यावचनमेवापवादरूपमित्यर्थः ।
गमकाभावादेकजातित्वादिति भावः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् ।
तत्का गतिरिति चेत् ? “व्यतिक्रमलवम्” इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः ।
टीका
विज्ञप्रिया:
(वि, ढ) अस्य वाच्यानभिधानाद् भेदमाशङ्कते—नन्विति—इह त्वेकारस्येत्यत्राभाव इत्यन्वयः ।
अत्र समाधानसम्भवं दर्शयित्वा दोषान्तरं दर्शयितुमाह–अत्र नियमस्येति–अत्र नियमस्यावचनमेव पृथग् भूतं विशेषभूतं नियमपरिवृत्तेर्विषय इत्यर्थः ।
तथा च विशेषविषयपरिहारेणैव सामान्यं प्रवर्त्तते इति न्यायान्नित्यमभिन्नवाच्यानभिधानं तदर्थ इत्यर्थः ।
एतत्समाधानस्य सोढव्यत्वेन दोषान्तरमाह—इति चेदिति–द्वयोः शब्दार्थेति–एकः शब्ददोषो ऽन्योर्ऽथदोष इत्यत्रेत्यर्थः ।
नियामकाभावादित्यत्र नियामकाभाव एव दोषः इति पूरणीयम् ।
तत्का गतिरिति तस्मात्क उपाय इत्यर्थः ।
समाधत्ते—व्यतिक्रमलवमित्यादाविति ।
शब्दोच्चारणानन्तरमेवेति ।
व्यतिक्रमस्य लवमपि इत्येवमाकाङ्क्षया उच्चारणानन्तरमेव उदयति इति भावः ।
इह त्विति ।
अपातसुरस इत्यादिनियमविपर्योक्तावित्यर्थः ।
अर्थप्रत्ययोनन्तरमिति ।
आपातसुरसत्वं प्रथमं प्रतीयते एव तदनन्तरमेव सर्वदा सुरसत्वव्यावृत्तिरित्यर्थप्रतिसङ्घानमित्यर्थः ।
एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतो ऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति–यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव ।
यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सो ऽपि शब्ददोषः ।
यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति ।
एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः ।
अमतपरार्थत्वे तु “राममन्मथशरेण-” इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता ।
अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् ।
टीका
विज्ञप्रिया:
(वि, ण) इदं चानुभवादुक्तम् ।
वस्तुतस्तु क्वचित्कचिच्छब्दार्थदोषतायां शास्त्रकर्त्तुरिच्छैव नियामिकान्याथा वाक्यगताविमृष्टविधेयांशे दुष्कमे च द्वयोरपि शब्दरचनावैपरीत्याधीनत्वे ऽपि एकः शब्ददोषो ऽन्योर्ऽथदोष इत्यत्र का विनिगमना ?इत्थं स्वयमुक्तः शब्दार्थदोषतानियामको ऽपि क्वचित् व्यभिचरति ।
अप्रयुक्तत्वादिशब्ददोषाणामर्थप्रतीत्यनन्तरमेव बोधात्, कष्टार्थत्वरूपार्थदोषस्य प्रथममर्थाप्रत्ययाच्छब्द एवार्थप्रत्यायक इति ज्ञानोदयाच्छब्द प्रतीत्यनन्तरमेव बोधाच्च ।
अतः प्राचीनैरुक्तो नियामकः क्वचिच्चास्मदुक्तौ नियामक इति द्विविध एव नियामक इति वक्तुमाह—एवञ्चेति ।
पूर्वैरादृतस्य नियामकस्य पर्य्यवसाने एवं पर्य्यवस्यतीति ।
वक्ष्यमाणं तदेवाह—शब्दवृत्तिसह इति ।
अत्रार्थसाम्ये इति शेषः ।
यथा “पल्लवाकृतिरक्तोष्टीऽ; इत्यत्र पल्लवाकारेति करणे ऽपि शब्ददोष एव ।
निरर्थकश्रुतिकट्वादिवर्णानां त्वर्थसाम्याभावान्नैतन्नियमविषयत्वम्, किन्तु शब्दोच्चारणानन्तरप्रतीयमानरूपस्योक्तनियमविषयत्वमेव ।
एवं हन्तीत्यस्यासमर्थे ऽप्येष एव नियमः तमेव स्वोक्तनियमं दर्शयति—यश्चार्थप्रतीत्यनन्तरमिति ।
अनियमपरिवृत्त्यादेरर्थदोषताधिकपदत्वादेः शब्दोषता ।
इत्यत्राप्यस्मदुक्तभेदकादेव देवभेदो बोध्य इत्याह—एवञ्चेति ।
अमतपदार्थत्वस्य वाक्यदोषतानियामकमन्यदेवाह—अमतेति ।
वाक्यव्यापित्वं समस्तपद्यरूपवाक्यव्यप्तित्वम् ।
अश्लीलार्थत्वे तु वाक्यव्यापित्वे ऽप्यर्थान्वयव्यतिरेकानुविधानादर्थदोषत्वमिति हृदयेन वाक्यव्यापित्वं दर्शयति—अश्लीलत्वादाविति ।
अर्थाश्लीलत्वादावित्यर्थः ।
लोचना:
(लो, ऊ) सहत्वासहत्वाभ्यामित्यनन्तरमेवेति शेषः ।
शब्दपरिवृत्तिसहत्वे यथा श्रुतिकटुन्यूनत्व-प्रतिकूलवर्णत्वादिः ।
पदार्थान्वयप्रतीतिपूर्वबोध्यो यथा न्यूनाधिकपदत्वादिः ।
राममन्मथशरेण, इत्यादावित्यनन्तरमर्थप्रतीत्यनन्तरबोद्ध्यत्वे ऽपि इति शेषः ।
अश्लीलत्वादाविति–हन्तुमेवेत्यादौ क्वचिद् वाक्यव्यापित्वे ऽपि क्वचिद् विवरैषिण इत्यादौ पदनिष्टत्वे ऽपि सम्भवान्न वाक्यदोषतेत्यर्थः ।
“आनन्दितस्वपक्षो ऽसौ परपक्षान् हनिष्यति” ।
अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति विधेयम् ।
टीका
विज्ञप्रिया:
(वि, त) विध्ययुक्तत्वमाह—आनन्दितेति ।
विधेयतात्पर्य्याप्त्ययोग्ये तात्पर्य्यार्पणं तत्त्वम् ।
अत्र परपक्षहननानन्तरमेव स्वपक्षानन्ददानविधावेव विधेयतात्पर्य्याप्त्यौचित्यं नतु परपक्षहननविधौ इत्यर्थः ।
न चात्र विधेयाविमर्श इति वाच्यम् ।
तत्र विधेयता न प्रतीयते अत्र तु प्रतीतिविधेयताके, तात्पर्य्याप्त्यनौचित्यमिति भेदात् ।
“चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! ।
विरहिप्राणहरण ! कदर्थय न मां वृथा” ॥
अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः ।
टीका
विज्ञप्रिया:
(वि, थ) अनुवादायुक्ततामाह—चण्डीशेति ।
अनुवाद्यविशेषणस्य विधिविरोधित्वं तत्त्वम् ।
चन्द्रं प्रती विरहिण्या उक्तिरियम् ।
हे चन्द्र मां वृथा न कदर्थय इत्यन्वयः ।
चण्डीशेत्यादिकमपि सम्बोधनत्रयं तदीयैककालायास्तथात्वात् स एव तथात्वेन सम्बोधितः ।
प्रथमविशेषणद्वयं तस्य महत्त्वप्रतिपादनाय ।
प्राणेत्यादितृतीयपदार्थस्तदनुपकारकरूपो ऽयुक्त इत्यर्थः ।
“लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्रणयति विदितं ते ऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ॥
अत्र विदितं ते ऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् ।
अथ रसदोषानाह—
टीका
विज्ञप्रिया:
(वि, द) निर्मुक्तपुनरुक्तत्वमाह—लग्नमिति–निर्मुक्तस्य समापितस्य कारकस्य पुनरुक्तिस्तत्त्वम् ।
समाप्तपुनरात्तता तु विशेषणस्याऽवृत्तिरूपैवेति भावः ।
लग्नमित्यादि ।
यस्य राज्ञः कीर्त्तिरम्वुधिं गता तत्पर्यन्तगामिनी तस्य कीर्त्तिरित्यर्थः ।
अत्रोत्प्रेक्ष्यते—श्रीनियोगादिति ।
गदितुमिवेति समुद्रपुत्र्याः श्रियः स्वपितरिस्वभर्त्तुरपचारं गदितुं प्रेष्यायां कीर्त्तौ नियोगः ।
नियोगमाह—लग्नमिति ।
ययसियष्ट्या स्त्रीलिङ्गशब्दार्थत्वेन उपस्त्रीत्वेनाध्यासितया अरिकण्ठ एव लग्नं कीदृश्या ? रागो रक्तिमाह एवअनुरागस्तयाऽवृताङ्ग्या, तथा यासियष्टिरिह जगति मातङ्गानां हस्तिनामेव मातङ्गानां षिड्गानां उपरि पतन्ती परपुरुषैः शत्रुपुरुषैरेव प्रकृष्टपुरुषैर्दृष्टा ।
अनेन साक्षित्वं दर्शितम् ।
तत्सक्तस्तादृश्यामसन्नायिकायां सक्तो ऽयं मम भर्त्ता राज्ञा न किञ्चिद्भद्राभद्रं गणयति इति मे मम पितुः समुद्रस्य विदितमस्तु ।
तेन भद्राभद्रागणनेन भृत्येभ्यो ऽहं दत्तास्मीति गदितुमिवेत्यर्थः ।
असियष्टिसाहाय्येन शत्रुभ्यो भीत्यगणनेनाश्रितत्वाद् भृत्या अपि श्रीमन्तः कृता इति स्तुतिः ।
अत्रेतिवचनं कर्मकारकवचनं न किञ्चिद्रणयति इत्यन्तं हि वेदनीयं कर्मकारकम् ।
तच्च विदितं ते ऽस्तु इत्यनेन समापितम् ।
तेनास्मि दत्ता इत्यपि वेदनीयकर्मकारकं पुनरुपात्तम् ।
लोचना:
(लो, ऋ) लग्नमिति—रागो रक्तः शोणिमा, अनुरागश्च ।
मातङ्गा गजाश्चाण्डालाश्च ।
पर उत्कृष्टः अन्य इति ।
रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणोरपि ॥ विस्स्द्_७।१२ ॥
परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः ।
आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ॥ विस्स्द्_७।१३ ॥
अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः ।
अङ्गिनो ऽननुसन्धानमनङ्गस्य च कीर्तनम् ॥ विस्स्द्_७।१४ ॥
अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः ।
अर्थानौचित्यमन्यच्च दोषा रसगता मताः ।
टीका
विज्ञप्रिया:
(वि, ध) रसदोषानाह—रसस्येति ।
स्थायिसञ्चारिणोरपीत्यत्रापि स्वशब्देन उक्तिरित्यस्यान्वयः ।
परिपन्थीति—प्रतिकूलरसङ्गविभावाद्युक्तिरित्यर्थः ।
आक्षेप इति ।
अनुभावविभावयोः कृस्त्रादत्यन्तप्रणिधानाद् आक्षेपः प्रत्ययनं दोषः कथित इत्यर्थः ।
अकाण्डे अनुचितकाले प्रथनच्छेदौ विस्तारत्यागौ रसस्य इति शेषः ।
अनङ्गस्य प्रकृतरसस्यानुपकारकस्य ।
अर्थानौचित्यमिति—अन्यद्वा उक्तादन्यद्वा अर्थानौचित्यमित्यर्थः ।
रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च ।
क्रमेण यथा—
“तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः को ऽप्यजायत” ।
“चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्” ।
स्थायिभावस्य स्वशब्दवाच्यं यथा—
“अजायत रतिस्तस्यास्त्वयि लोचनगोचरे” ।
टीका
विज्ञप्रिया:
(वि, न) तामुदीक्ष्येति—अत्र पूर्वार्द्धे रसशब्दः परार्द्धे शृङ्गारशब्दो वाचकः ।
ननु श्रोतुरेव काव्यश्रवणाद् रसो जायते न तु स्वीयरत्वादिवक्तुः तत्कथमत्र स्यीयरतिवक्तूरसो वाच्य इति चेन्न ।
रसस्य इत्यत्र स्थायिभावस्येत्यर्थात् ।
न चैवं स्थायिनः स्वशब्दवाच्यतायाः पृथगुक्त्यनुपपत्तिरिति वाच्यम् ।
स्थायिभावस्यैव रसादिवाचकरसशब्देन स्थायिभावशब्देन उक्तिरित्येवं वाचकशब्दभेदादेव पृथगुक्तेः ।
अत एव रसशब्देनात्र स्थायिभाव एव उक्त इति ।
“रसादिलक्षणस्त्वर्थः स्वप्रे ऽपि न वाच्यःइति च काव्यप्रकाशकृता लिखितम् ।
स्थायिभाववाचकशब्देन वाच्यतामाह—अजायतेति ।
व्यभिचारिणः स्वशब्दवाच्यत्वं यथा—
“जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने” ।
अत्र प्रथमे पादे “आसीन्मुकुलिताक्षी सा” इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः ।
टीका
विज्ञप्रिया:
(वि, प) व्यभिचारिण इति—भावताप्राप्तियोग्यस्येति शेषः ।
तत्प्राप्तिश्च निराकाङ्क्षावाक्यव्यङ्ग्यत्वे सत्येव जायते ।
अत्र लज्जावत्त्वस्य विधेयस्य निराकाङ्क्षवाक्यबोध्यत्वेन भावताप्राप्तियोग्यता अस्त्येव ।
तस्य स्वशब्दवाच्यत्वात्तु दोषः ।
साकङ्क्षवाक्यबोध्यत्वे भावताप्राप्तियोग्यतामनापन्नस्य तस्य स्वशब्दवाच्यत्वं न दोषः ।
यथा—“लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बने विधेये ऽनुवाद्यविशेषणस्य लज्जाया भावताप्राप्तियोग्यतामनापन्नायाः स्वशब्देननोक्तिर्न दोषः ।
लोचना:
(लो, ॠ) अनुभावमुखेन कथन इति—व्यभिचारिणो हि स्वस्वानुभाव व्यक्ता एव सहृदयानामास्वाद्याः ।
इह च यत्रैकत्र व्यभिचारिणामनुभावमुखेन वर्णनं स्वशब्देन त्वभिधानम्; तत्र न रसादिमात्रदोषः ।
किन्तु अधिकपदाख्यो वाक्यदोषो ऽपि ।
यथा—“लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता"इति ।
“मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्” ।
अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः ।
टीका
विज्ञप्रिया:
(वि, फ) परिपन्थिरसाङ्गविभावपरिग्रहमाह—मानमिति ।
यन्निष्ठः स्थायिभावः सामाजिके रसतामापद्यते प्रकृतरसपरिपन्थिरसविभावस्य तदुक्त्यैव प्रत्यायनं दोष इत्यर्थः ।
मानं मा कुरु इति—अत्र सामाजिके रसतामापद्यमाना रतिः स्थायिभावो वक्तृनिष्ठस्तप्रतिकूलशान्तरसविभावो यौनवास्थैर्यमिदं तेनैवोक्तमित्याह–अत्रेति ।
एवं च “त्यजतमानमलं बल विग्रहैर्न पुनरेति गतं च तुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते ऽरमतेष्टसखीजनः " ।
इति रघौ यौवनास्थैर्यकथनं न दोषः ।
अत्रेष्टसखजनिष्ठरतिभाव एव सामाजिके रसतामापद्यते ।
नत्विष्टसखजनेन यौवनास्थैर्यमुक्तं किन्तु परभृताभिरित्यदोषः अत्रैव यौवनास्थैर्योक्तिरेव परिपन्थ्यनुभावो ग्रन्थकृदनुक्तो ऽपि बोध्यः ।
लोचना:
(लो, ऌ) शृङ्गारे प्रतिकूल इत्यर्थः ।
विभावादेरित्यादिशब्दादनुभावसञ्चारिणौ ।
तत्र प्रतिकूलानुभावपरिग्रहो यथा— “सुरतोत्सुकमालोक्य मृगाक्षी पथिकं पथि ।
निर्मुक्तसर्वविषया प्रययौ विपिनान्तरम्” ॥
अत्र निर्मुक्तसर्वविषयतया वनगमनं शान्तरसानुभावः ।
अन्यथा तु वनगमनं क्वचित् क्वचिदभिसारादिना गुणः ।
एवं व्यभिचारिणो ऽपि ।
“धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी” ॥
अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना ।
टीका
विज्ञप्रिया:
(वि, ब) अनुभावस्य कष्टकल्पनयाप्रकाशमाह—धवलयतीति ।
निरीक्षितेति ।
अर्थात् पुंसा ।
उद्दीपनं चन्द्रः ।
आलम्बनं नायिका ।
अनुभावस्य सहर्षचक्षुः प्रसारणस्य पर्यवसायिनौ प्रणिधानातिशयेनैव बोधकौ इत्यर्थः ।
द्रष्टुः शान्तत्वे वैराग्येण चक्षुर्निमीलनस्यापि सम्भवात् ।
प्रकरणप्रतिसन्धानवृच्छ्रेण तु उक्तानुभावप्रकाशः ।
लोचना:
(लो, ए) अनुभावपर्यवसायिनौ इति ।
रसपर्यवसायित्वे कटाक्षक्षेपणादेरनुभावत्वं सुव्यक्तं भवेत् ।
इह च कटाक्षक्षेपणादीनि तस्या नायकविषयत्वरत्युद्धोधकार्याणि अत्रान्येन केन सहोपपन्नानि झटित्यनिश्चितप्रतीतिकारणत्वात् ।
यद्वा कस्यचिन्नायकस्या निरीक्ष्यमाणो रूपानुभावः तस्या रत्युद्वोधको न जात इति कटाक्षाक्षेपविक्षेपविभावयोः शृङ्गाररसपर्यवसानाभावादित्यर्थः ।
“परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः” ॥
अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः ।
टीका
विज्ञप्रिया:
(वि, भ) विभावस्य कृच्छ्रात् कल्पनमाह—परिहरतीति ।
परिहरतीत्यादौ सर्वत्र मुमान् कर्त्ता ।
बत खेदे इत्यस्य विषमा तशा अस्य देहमित्यन्वयः ।
प्रसभं बलात् ।
अत्रेति—अत्रापि प्रकरणप्रतिसन्धानकृच्छ्रगम्यम् ।
अकाण्डे प्रथनं यथा—वेणीसंहारे द्वितीये ऽङ्के प्रवर्तमानानेकवीरसङ्क्षये ऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् ।
छेदो यथा–वीरचरिते राघवभार्गवयोर्धाराधिरूढे ऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः ।
टीका
विज्ञप्रिया:
(वि, म) कङ्कणमोचनं विवाहोत्तरमाङ्गल्यक्रियाविशेषः ।
पुनः पुनर्देप्तिर्यथा–कुमारसम्भवे रतिविलापे ।
टीका
विज्ञप्रिया:
(वि, य) रतिविलाप इति— “अथ सा पुनरे विह्वला वसुधालिङ्गनधूसरस्तनी ।
विललाप विकीर्णमूर्द्धजा समदुः खामिव कुर्वती स्थलीम् ॥
“इत्युपक्रम्य प्रवर्त्तिते धारावाहिके करुणरसे मधौ दृष्टे— “तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च ।
“इति विशिप्य पुनर्देप्तिः ।
लोचना:
(लो, ऐ) रतिविलापेति—अथ मोहपरायणा सतीत्यादिना परिपुष्टिमागतस्यापि करुणस्य"अथ सा पुनरेव विह्वला"इत्यनेन कण्ठपरिपूर्णभोज्यस्य पुनर्भोज्यदानेन वैरस्यम् ।
अङ्गिनो ऽननुसन्धानां यथा–रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।
टीका
विज्ञप्रिया:
(वि, र) सागरिकाया विस्मृतिरिति—सागरिका रत्नावली ।
तन्नाटके ऽङ्गिनी ।
अनङ्गस्य कीर्तनं यथा–कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् ।
अङ्गस्यातिविस्तृतिर्यथा—किराते सुराङ्गनाविलासादिः ।
टीका
विज्ञप्रिया:
(वि, ल) अनङ्गस्येति—प्रक्रान्तरसानुपकारकस्येत्यर्थः ।
वन्दिवर्णितस्येति ।
राज्ञा इति शेषः ।
किरातार्जुनीये भारवौ ।
प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति ।
तेषां धीरोदात्तादिता ।
तेषामप्युत्तमाधममध्यमत्वम् ।
लोचना:
(लो, ओ) प्रकृतिविपर्ययाख्यं दोषं च व्याचष्टे—प्रकृतय इत्यादि ।
दिव्या महेन्द्रादयः श्रीकृष्णादयश्च ।
अदिव्या दुष्म (ष्य) न्तादयः ।
दिव्यादिव्याः श्रीरामचन्द्रादयः इत्यादि प्रागेव उक्तम् ।
धीरोदात्तादीनाम् अन्यतमाश्रयत्वस्य सम्भवे ऽपि प्रायेण वीरादिप्रधानत्वमेव ।
तेषां लक्षणानि उक्तानि ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः ।
यथा–धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः ।
यथा वा—कुमारसम्भवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः सम्भोगशृङ्गारवर्णनम् ।
“इदं पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम्” इत्याहुः ।
टीका
विज्ञप्रिया:
(वि, व) दिव्या इत्यादिषु दिव्यादिनायिकाया इत्यर्थः ।
दिव्या–देवाः अदिव्या मनुष्याः ।
दिव्यादिव्या देवावतारा मानुषाः तदीयाः प्रकृतय इत्यर्थः ।
अर्थानौचित्यमन्यद्वेति यदुक्तं तदृर्शयति–
लोचना:
(लो, औ) उत्तमदेवतयोः शृङ्गाररसवर्णनमनुचितमिति यदुक्तं तत्रायमेवाशयः ।
ये ये शृङ्गारव्यञ्जकाः रहस्यार्थाः पित्रोर्वर्णयितुमनुचितास्ते उत्तमदेवतानिष्टा न वर्णनीयाः अन्यथा रघुवंशे रावणवधानन्तरं स्वराज्यमभिनिवृत्तस्य रामचन्द्रस्य सीतासम्वादवर्णनं तादृशंवान्यन्महाकविनिष्टत्वमनुचितं स्यात् ।
अनुचितमेव सकलमहाकवीनां प्रबन्धेषु तथा तथा वर्णनमसमञ्जसं स्यात् ।
एवमदिव्यानां स्वः- पातालगमनसमुद्रलङ्घनादिः ।
एतद्वस्तु महानुभावकुवलयाश्वादेर्यद् वृत्तमितिहासादिप्रसिद्धं वर्णनीयमेव ।
अन्यथा वर्णनस्यैव दोषावहत्वात् ।
एवमन्यस्यापि कृत्यानौचित्यस्य वर्णन प्रकृतिविपर्य्ययाख्यो दोषो बोद्धव्यः ।
अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् ।
तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासम्भवः ।
टीका
विज्ञप्रिया:
(वि, श) अन्यदनौचित्यमिति—देशकालेति ।
दिवि मानुषभाषावर्णनं देशानुचितम् ।
एकर्तौ अन्यर्तुधर्मवर्णनं कालानुचितम् ।
लोचना:
(लो, अ) अन्यदनौचित्यं दर्शयति–अन्यदिति–देशकालादिरित्यादिशब्देन नायिकायाः पादप्रहारादिः ।
नायकस्य कोपः ।
बालाया धर्ष्ट्यम् ।
प्रौढाया वेश्यायाश्चातिलज्जा ।
प्रतिनायकस्य अन्वयत्वम् ।
तथा चाह— वंशवीर्य्यश्रुतादीनि वर्णयित्वा रिपोरपि ।
तज्जयान्नायकोत्कर्षकथनं हि धिनोति नः ॥
इति ।
एवं देवतानामवयवानां शिर आरभ्य वर्णनम् ।
तेषां शिर आराध्यत्वे पादारब्धवर्णनम् एव इष्यते ।
मनुष्याणां न पादारब्धवर्णनं तेषां शिर आरभ्य वर्णनस्यैव इष्टेः ।
एवमनयैव दिशा सकलमनौचित्यं रसभङ्गकारणं प्रयत्नेन सुकविभैः परिहार्य्यम् ।
यदुक्तं ध्वनिकृता— अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ।
एभ्यः पृथगलङ्कारदोषाणां नैव सम्भवः ॥ विस्स्द्_७।१५ ॥
एभ्य उक्तदोषेभ्यः ।
टीका
विज्ञप्रिया:
(वि, ष) इति दोषानुक्त्वालङ्कारदोषा अपि एष्वेवान्तर्भवन्ति इत्याह–एभ्यः पृथगिति ।
लोचना:
(लो, आ) ननु यद्येत एव दोषास्तदा प्राचीनोक्ताः पुनरलङ्कारदोषा इत्याह ।
एभ्यः इत्यादिभ्य इति ।
कथं तेभ्यो ऽपृथगित्याह—
तथाहि–उपमायामसादृश्यासम्भवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् ।
टीका
विज्ञप्रिया:
(वि, स) अत्र यो यदलङ्कारदोषो यत्रान्तर्भवति तदाह—उपमायामिति ।
असादृश्यम्—उपमानोपमेययोः सादृश्याभावः ।
असम्भवश्चोपमानाप्रसिद्धिः ।
जातिप्रमाणेति ।
प्रमाणं परिमाणम् ।
उपमेयजात्यपेक्षया उपमानजातेरुपमेयपरिमाणापेक्षयोपमानपरिमाणस्य चात्यन्तन्यूनाधिकत्वयोरनुचितार्थत्वमित्यर्थः ।
एवमुत्प्रेक्षितार्थस्यार्थान्तरन्यासेन समर्थेन च तदैव दोषस्तस्यानुचितार्थत्वमित्यर्थः ।
ननु पशुभूता रणाध्वरे इत्यत्र शूराणां कातरत्वव्यञ्जनया तेषां निन्दाव्यञ्जनमेवानुचितार्थत्वं दर्शितम् ।
असादृश्यासम्भवयोरुप्रेक्षितार्थसमर्थने नएतादृशमनौचित्यं किन्तु प्रतिपाद्यमानार्थालीकत्वमेवानौचित्यं वाच्यं तथा च कथमुभयसाधारणमनौचित्यम् ।
यदि च औचित्याभाव एव तर्हि इत्युच्यते तदा समस्तदोषाणामेव अनुचितत्वेनैतस्य दोषविशेषत्वानुपपत्तिरिति चेत्सत्यम् ।
दोषान्तरलक्षणानाघ्रातत्वे सति औचित्याभाव एव तल्लक्षणम् ।
क्रमेण यथा—
“ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्” ।
लोचना:
(लो, इ) तथा हीति–अत्र काव्यस्य शशिना न सादृश्यम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“प्रज्वलज्जलधारावान्नपतन्ति शरास्तव” ।
टीका
विज्ञप्रिया:
(वि, ह) क्रमेणेति—ग्रथ्नामीत्यत्र असादृश्यम् ।
काव्यं शशीव इत्युपमा ।
अत्र रूपकत्वे ऽपि स एव दोषस्तस्यपि सादृश्यमूलत्वाद् उपमानासम्भवे—प्रज्वलदिति – प्रज्वलन्त्यो जलधारा ह्मप्रसिद्धाः ।
नन्वत्राभूतोपमा स्यादिति चेन्न, सम्भावनयापि यत्रोपमानप्रसिद्धिस्तत्रैवाभूतोपमात्वात् ।
यथा— सर्वपद्मप्रभासारः समाहृत इव क्वचित् ।
त्वदाननं विभावीति तामभूतोपमां विदुः ॥
इत्यत्र दण्डिं ना क्वचित्पदेन स्त्रष्टुर्विधेः क्वचित् सर्वपद्मप्रभाहरणसम्भावनां प्रदर्श्य तादृशोपमानेनाभूतोपमा दर्शिता ।
अत एव बालप्रवावलविटपप्रभाव लतेव इत्यत्रापि वटादिविटमे लतादर्शनात् प्रवालविटपे लतां सम्भाव्य तदुपमा कृता ।
प्रकृते तु जले ज्वलनस्य सर्वथा बाधात् प्रज्वलज्जलधारायाः सम्भावनाशक्यत्वात् ।
लोचना:
(लो, ई) जलधाराणां प्रज्वलनम् असम्भवि ।
“चण्डाल इव राजासौ सङ्ग्रामे ऽधिकसाहसः” ।
“कर्पूरखण्ड इव राजति चन्द्रबिम्बम्” ।
टीका
विज्ञप्रिया:
(वि, क) उपमेयजात्यपेक्षयोपमानजातेरत्यन्तन्यूनत्वमाह—चण्डाल इवेति ।
अत्र राजजात्यपेक्षया चण्डालजातेरत्यन्तन्यूनत्वम् ।
उपमानपरिमाणोपेक्षयोपमानपरिमाणस्यात्यन्तन्यूनत्वमुदाहरति—कर्पूर इति ।
“हरवन्नीलकण्ठो ऽयं विराजति शिखावलः” ।
“स्तनावद्रिसमानौ ते” ।
टीका
विज्ञप्रिया:
(वि, ख) एवं जातिपरिमाणयोराधिक्यमप्याह—हरवदिति ।
स्तनाविति च ।
शिखाबलो मयूरः ।
अवस्थाभेदेन हरशरीरस्यानेकव्यक्तित्वात् हरत्वमपि जातिः शिखाभलत्वापेक्षयाधिका ।
लोचना:
(लो, उ) राज्ञश्चण्डालेन, चन्द्रस्य कर्पूरखण्डेन, हरस्य नीलकण्ठेन, स्तनयोश्चाद्रिणा च साम्यम् ।
“दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव” ॥
एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् ।
टीका
विज्ञप्रिया:
(वि, ग) अर्थान्तरन्यासेनोत्प्रेक्षितार्थसमर्थनमाह—दिवाकरादिति ।
यो हिमालयो गुहासु लीनमन्धकारं दिवाकराद् रक्षति ।
अत्रोत्प्रेक्षते—भीतमिवेति ।
अत्रार्थान्तरन्यासमाह—क्षुद्रो ऽपीति ।
उच्चैः शिरसां महिम्ना उच्चमौलीनामर्थान्महताम् उच्चैः शिखराणां च ।
अत्र दोषं दर्शयति—एवमादिष्विति ।
समर्थनम्—सत्यत्वेन प्रतिपादनम् ।
तमसो भयं च सर्वथैवालीकमुत्प्रेक्षितम् ।
कथं तस्यार्थन्तरन्यासेन सत्यतया प्रतिपादनमित्यर्थः ।
लोचना:
(लो, ऊ) दिवाकरादौ चोत्प्रेक्षितार्थस्य समर्थने ऽनौचित्यं दर्शयति—उत्प्रेक्षितार्थस्येत्यादि ।
असद्भूततयैव प्रतिभासनम्, सम्भावनविषयत्वादित्यर्थः ।
दिवाभीत उल्लूकः ।
अथ वा–दिवा दिवसाद्भीतमित्यन्धकारविशेषणम् ।
यो हिमालयः, शिरः शृङ्गं मूर्धा वा ।
यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः ।
यथा—
“सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् ।
उदिते रजनीनाथे सहतायाति सुन्दरी” ॥
टीका
विज्ञप्रिया:
(वि, घ) सहसेति—सा सुन्दरी नायिका स्त्रिग्धैरालिजनैः सह सहसा सस्मिता उदिते रजनीनाथे सहसा तत्क्षणं कुञ्जमन्दिरं यातीत्यर्थः ।
लोचना:
(लो, ऋ) आलिजनैः सह सार्धं सहसा वेगेन सहसा हसेन सह वर्तमाना ।
उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यन्तकत्वे ऽवाचकत्वम् ।
लोचना:
(लो, ॠ) यथाशब्दो हि इवादिशब्दवन्नोत्प्रेक्षाया वाचकः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा—
“एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्” ।
टीका
विज्ञप्रिया:
(वि, ङ) उत्प्रेक्षाद्योतकत्व इति—उत्प्रेक्षाभिधानार्थं प्रयुक्तत्व इत्यर्थः ।
एष इति ।
धर्मः पुण्यं तस्य मूर्त्यभावात्तदुत्प्रेक्षा न तु धर्मरूपदेवतोपमा, तदा मूर्तित्वविशेषणवैयर्थ्यापातात् ।
एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् ।
यथा—
“ओवट्टै उल्लट्टै–
इत्यादौ ।
टीका
विज्ञप्रिया:
(वि, च) एवमिति ।
वृत्तिविरोधस्तद्रसप्रतिकूलवर्णानां स्थितिः ।
“ओवट्टऽ; इत्यादिकं प्राग् व्याख्यातम् ।
लोचना:
(लो, ऌ) वृत्तिः नियतवर्णगतो यो रसविषयो व्यापारः ।
उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च ।
टीका
विज्ञप्रिया:
(वि, छ) साधारणधर्मस्येति ।
उपमेये ऽनिर्दिष्टधर्मसमानधर्मस्योपमाने निर्देशो ऽधिकत्वम् ।
उपमेये निर्दिष्टधर्मसमानधर्मस्योपमानेनुपादानं न्यूनत्वम् ।
क्रमेणोदाहरणम्—
“नयनज्योतिषा भाति शम्भुमूतिसितद्युतिः ।
विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्” ॥
अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादो ऽधिकः ।
टीका
विज्ञप्रिया:
(वि, ज) नयनज्योतिषेति—अत्र शम्भुरुपमेयः ।
शरन्मेघ उपमानम्, नयनज्योतिर्विद्युत् ।
भूतिसितत्वशारदीयलब्धशुभ्रत्वयोश्च समानधर्मयोरस्त्येव निर्देशः ।
किन्तु शम्भोरुपमेयस्य नीलकण्ठत्वानुपादानात्तत्समानधर्मनीलवारिद्योत्यादेरुपमाने शरन्मेघे आधिक्यमाह—अत्रेति ।
समानधर्म एवायं नियमः ।
वर्मान्तरोपादाने तु वाधिक्यम्; यथात्रैव नभोमण्डलमध्यम इति वतुर्थपादकरणे ।
लोचना:
(लो, ए) सबलाकत्वं वाच्यम् ।
“कमलालिङ्गितस्तारहारहारी मुरं द्विषन् ।
विद्युद्वभूषितो नीलजीमूत इव राजते” ॥
अत्रोपमानस्य सबलाकत्वं वाच्यम् ।
टीका
विज्ञप्रिया:
(वि, झ) न्यूनत्वमाह—कमलेति ।
कमलया लक्ष्म्या आलिङ्गितः, उज्ज्वलहारवांश्च मुरं द्विषन् मुरारी राजते ।
विद्युद्विभूषितो नीलजीमूत इव इत्यर्थः ।
अत्र लक्ष्मीस्थानीया विद्युत् हारस्थानीयाया बालाकाया न्यूनत्वमिति भङ्ग्या प्रतिपादयति—अत्रेति ।
लोचना:
(लो, ऐ) उपमेयस्य तारहारत्वस्य वचनात् ।
अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् ।
क्रमेणोदाहरणम्—
“सुधेव विमलश्चन्द्रः” ।
“ज्योत्स्ना इव सिता कीर्तिः” ।
टीका
विज्ञप्रिया:
(वि, ञ) अस्यामेवेति ।
उपमायामेवेत्यर्थः ।
भग्रनप्रक्रमत्वमिति ।
यल्लिङ्गेन एकद्व्यादियद्वचनेन चोपमेयोक्त्युपक्रम उपमानस्यापि तल्लिङ्गकत्वेन तद्वचनेन चोक्तिराकाङ्क्षिता तथात्वानुक्तौ क्रमभङ्ग इत्यर्थः ।
एवं वर्त्तमानादिकालभेदस्य च भग्नप्रक्रमत्वमित्यर्थः ।
आकाङ्क्षितरूपेणानभिधानात् ।
सुधेव इत्यत्र स्त्रीपुलिङ्गभेदः ।
ज्योत्स्त्रा इव इत्यत्र वचनभेदः ।
“काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव” ॥
अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् ।
अपि तु सर्वदापि भवति ।
लोचना:
(लो, ओ) अस्यामुपमायां सर्वदापि भवतीत्यनेन उपमानोपमेययोः कालभेदः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“लतेव राजसे तन्वि !” अत्र लता राजते, त्वं तु राजसे ।
टीका
विज्ञप्रिया:
(वि, ट) कालभेद त्वाह—काप्यभिख्येति ।
तयोर्दिलीपसुदक्षिणयोरभिख्या शोभआ चित्राचन्द्रमसोः चैत्रे योगः ।
न खलु आसीत् इति सार्वदिक्शोभासत्त्वे अतीत्वेन तद्विवक्षाभावात् ।
अतेवेत्यत्र पुरुषभेदः, लता राजते इत्येव सम्भवात् ।
“चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा” ।
अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य “जीवतु” इत्यनेन विधेयम् ।
टीका
विज्ञप्रिया:
(वि, ठ) चिरं जीवत्वित्यत्र विधिभेदः ।
अयं च स्वल्प एव दोषः व्यत्ययेन अन्वयसम्भवात् ।
अत एव सर्वत्र काव्ये ईदृश एव प्रयोगः ।
इह तु यत्र लिङ्गवचनभेदे ऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः ।
क्रमेणोदाहरणम्—
“मुखं चन्द्र इवाभाति” ।
लोचना:
(लो, औ) इह त्विति—अयमर्थः–यत्र लिङ्गादिभेदे हि साधारणधर्णो ऽभिन्नौपमानोपमेययोर्द्वयोरपि सम्बन्धमापाद्यते तत्र न प्रतीति स्थगयति ।
मुखमिति—अत्र भातीति साधारणमुखचन्द्ररूपोर्ऽथः साध्यः ।
एतमुत्तरत्रापि ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“तद्वेशो ऽसदृशो ऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव” ॥
टीका
विज्ञप्रिया:
(वि, ड) लिङ्गवचनभेदे साधारणधर्मस्य निर्दिष्टरूपेणोभयत्रानन्वयो दोषबीजम् ।
यदि तु निर्दिष्टरूपेणैवोभयत्रान्वयसम्भवस्तदा न दोष इत्याह—अत्र च लिङ्गवचनेति ।
मुखं चन्द्र इवेति ।
अत्राभातिसाधारणधर्म उभयत्रैकरूप एव लिङ्गद्वयं तु भिन्नम् ।
वचनभेदे त्वाह—तद्वेश इति ।
मधुरतया रम्यतया भृतः पूर्णस्तस्यावेशः परां शोभां दधते धत्त इत्यर्थः ।
तध धारणे इत्यस्यैकवचने रूपम् ।
कीदृशः अन्याभिः स्त्रीभिरसदृशः अन्यस्त्र्यसाधारणः ।
टक्प्रत्ययान्तस्य दृशो रूपमिदम् ।
तदीया विभ्रमा इव–ते ऽपि हि परां शोभां दधते ।
धाङो बहुवचने रूपमिदम् ।
एवं मधुरताभृतः मधुरतां बिभ्रतः ।
भृञः क्किपि रूपमिदम् ।
एवमसदृश इत्यत्रापि क्किपि रूपम् ।
लिङ्गादिभेदेषु प्रक्रमभङ्गं दोषान्तर्भाव उक्तस्तं ग्राहयति—पूर्वोदाहरणेष्विति ।
सुधेव विमलश्चन्द्र इत्यादिष्वित्यर्थः ।
लोचना:
(लो, अ) सदृश इत्यस्योद्देश्यविशेषणत्वे एकवचनान्तः सदृशशब्दः ।
पक्षे मधुरतया भृत इति एकवचनम् ।
विभ्रमविशेषणत्वे बहुवचनान्तः सदृकशब्दः ।
दधतीति दधधातोरेकवचनान्तम्, धाधातोर्बहुवचनान्तं च तिङ्न्तं च पदम् ।
पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटो ऽनिर्वाहः ।
टीका
विज्ञप्रिया:
(वि, ढ) एकस्यैवेति ।
साधारणधर्म्मेण विमलत्वादिना एकस्यौपमेयस्यैव समानलिङ्गत्वादिनान्वयसिद्धेरसमानलिङ्गकेनोपमानेनान्वयासिद्धोरि त्यर्थः ।
प्रक्रान्तस्येति—उभयान्वयिकत्वाकाङ्क्षया उपक्रान्तस्येत्यर्थः ।
एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् ।
यथा–
“अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते” ॥
टीका
विज्ञप्रिया:
(वि, ण) एवमिति—वैफल्यस्यानुप्रासार्थमुपात्तस्य विशेषणस्य यद्वैफल्यं तस्येत्यर्थः ।
अनु इति ।
सविलासं गच्छन्तीं वेश्यां दृष्ट्वा शान्तस्य पुरुषस्योक्तिरियम् ।
हे अरुणचरणे ! तव परिसरणं गमनं कर्त्तृ ।
अकारणम् अर्थात् पुंसां रणरणकं कामचिन्तां कुरुते जनयतीत्यर्थः ।
परिसरणं कीदृशम् ? अनणु अनल्पं रणन्ती मणियुक्ता मेखला यत्र तादृशम् ।
अविरतंशिञ्जनं मञ्जु मञ्जीरं नूपुरं यत्र तादृशम् ।
अत्र वक्तुः शान्तत्वेन कामोद्दीपकपरिसरणविशेषणानामपुष्टार्थत्वं केवलमनुप्रासार्थमेव तदुपादानम् ।
अत्र च वैयर्थ्यप्रतियोगिकामचिन्तोपयोगित्वे ऽपि तद्विशेषणानां प्रकृतशान्तरसानुपयोगित्वादपुष्टार्थता ।
लोचना:
(लो, आ) वैफल्यस्यापुष्टार्थत्वं च चित्रवर्णारब्धत्वभावेन प्रकृतानुपयोगादित्यर्थः ।
एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् ।
टीका
विज्ञप्रिया:
(वि, त) एवं समासोक्ताविति ।
प्राकरणिककथनेनाप्राकरणिकव्यञ्जनं समासोक्तिः ।
अप्राकरणिककथनेन प्राकरणिकव्यञ्जनमप्रस्तुतप्रशंसा ।
अस्मिन्नलङ्कारद्वये ऽप्राकरणिकप्राकरणिकार्थयोः व्यङ्ग्यत्वे ऽपि शब्देन तदुपादानं पुनरुक्तत्वमेवेत्यर्थः ।
क्रमेणोदाहरणम्—
“अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका” ॥
अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, थ) तत्र समासोक्तौ पुनरुक्तत्वमाह—अनुरागेति ।
अपरदिक् पाश्चिमदिगेन गणिका वेश्या वियद्रूपादालयाद् आश्रयात् रविं निरकासयत् निष्कासयामास ।
किम्भूतम् अपेतवसुम् अपगतराशिमम् ।
अनिष्कासनोपयोगिविशेषणसत्त्वे ऽपि अपेतरश्मित्वा निरकासयादित्याह—अनुरागेति ।
अनु दिवसस्य पश्चाद् रागवन्तं रक्तिमावन्तमपि अत एव लोचनयोः सुखं सुखजनकम् अतापकं च वपुर्दधतमपीत्यर्थः ।
अत्र श्लिष्टविरोषणवशादनुरागवतो लोचनसुखजनकसुशीतलवपुष्मतो नायकस्य वसुना धनेन रहितत्वात् स्वगृहरूपादालयात् वेश्यया निष्कासनं व्यञ्जनया प्रतीयते ।
तत्र च निर्धननायकस्य यथाश्लिष्टविशेषणमहिम्ना व्यङ्ग्यत्वम्, तथा वेश्यायाअपि व्यङ्ग्यत्वमेवोचितम् ।
वाच्यत्वे तु पुनरुक्तिरित्याह—अत्रापरदिगेवेति ।
लोचना:
(लो, इ) अनुगतो रागः शोणिमा, प्रेमा च ।
वसुपदेन रश्मयः धनानि च ।
आलयः आश्रयः गृहं च ।
गणिकात्वं प्रतीयते ।
पुनः स्वशब्देनोपादानेन च पुनरुक्तत्वमावहति इत्यर्थः ।
“आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् ।
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्” ॥
लोचना:
(लो, ई) तृणमणिः तृणापकर्षको मणिविशेषः ।
अनामृष्टं तत्त्वान्तरं येन महीयसामल्पीयसां च पदार्थानां भेदो न प्रकाश्यते ।
सामान्यं जातिः सामान्यस्य सर्वासु विभक्तिषु एकरूपेणैवावस्थितेरित्यर्थः ।
अनुचितं च व्यञ्जनयैव प्रत्युत चमत्कारातिशयदायित्वेन गतार्थत्वात् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्राचेतसः प्रभोरभिधानमनुचितम् ।
टीका
विज्ञप्रिया:
(वि, द) अप्रस्तुतप्रशंसायाः पुनरुक्तिमाह—आहूतेष्विति–सामान्यं जनं धिक् ।
यतो ऽचेतनं भद्राभद्रादिचेतनरहितम् ।
अनामृष्टम् अपरिभावितं तत्त्वं येन तादृशमन्तरं मनो यस्य तादृशं प्रभुमिव ।
सामान्यस्य अचेतनत्वं दर्शयति—आहूतेषु विहङ्गमेषु विहायसा गच्छत्सु जनेषु प्रणिषु आहतेषु विहायोगामित्वात् पुर आयान् आगच्छन् मशको ऽपि न वार्यते, वारणा एव निवर्त्तते ।
गमनमेवात्र विधेयं बोध्यं तदेव सामान्ये चेतनत्वप्रतिपादनसम्भवात् ।
तथा तृणमणिस्तु तृणाकर्षको ऽल्पमूल्यो मणिः धुरि वा मध्ये वा वसन् रथशोभाकारकमहामूल्यमणीनां धुरं रथशोभाकरणरूपं धुरं भारं विधत्ते ।
“धूः स्त्री क्लीबे यानमुखम् “इति कोषः ।
यानं रथम् ।
मध्ये इत्यत्रोपस्थितत्वात् यानस्येति लभ्यते ।
मध्ये वसन् इत्यत्र मध्येवारिधि वा वसन् इति क्वचित् पाठः ।
तदा च मध्ये वारिधेः मध्ये वा वसन् पुनः पुनर्वसन्नित्यर्थः ।
मणीनां वारिध्वाससाधर्म्यान्महामूल्यमणीनां धुरं मणित्वेन गण्यत्वरूपां धुरं भारम् इत्यर्थः ।
मध्ये ऽपि इति अपिकारस्य तेजस्विषु अन्वयः ।
अत एतादृशायुक्तकारित्वात्सामान्यं धिक् इत्यर्थः ।
अत्रेति ।
अचेताः प्रभुः प्राकरणिकः ।
मशकादयो ऽप्राकरणिकाः ।
तेषाम् अभिधानवशादेव अचेचसः प्रभोः व्यञ्जनया लाभे तदभिधानं पुनरुक्तमित्यर्थः ।
एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् ।
यथा—
“चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् ।
वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः” ॥
टीका
विज्ञप्रिया:
(वि, ध) प्रसिद्ध्यभावस्येति—अनुप्रासितपदार्थस्य निर्दिष्टकर्मणि प्रसिद्ध्यभाव इत्यर्थः ।
चक्रेति ।
अस्य भूभुजः चक्राधिष्ठिततां राजमण्डलाक्रमणं चक्री विष्णुः प्रयच्छत् दत्तवान् ।
एवम् उच्छ्रितं गोत्रं गोत्रभित इन्द्रः, वृषं धर्मं वृषभकेतुः महेशः ।
अत्रैष्टकर्मसु एषां कर्त्तृत्वप्रसिद्धिर्नास्ति किन्तु अनुप्रासार्थमेव तथोक्तम् ।
लोचना:
(लो, उ) चकेति—अयमाशयः, चकप्रभृतीनां च चक्रधिष्टिततादिमात्रेण प्रशंसनं न खलु प्रसिद्धम् ।
किन्त्वनुप्रासार्थमेवोपनिबद्धम् ।
उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह—
टीका
विज्ञप्रिया:
(वि, न) उक्तदोषाणामिति दुः श्रवत्वप्रभृतीनाम् इत्यर्थः ।
वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते ।
रौद्रादौ तु रसे ऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ॥ विस्स्द्_७।१६ ॥
लोचना:
(लो, ऊ) अधुना पदनिष्टत्वेन पञ्चधा विभक्तानामेषां दोषाणां क्वचित् केषाञ्चिदन्यथात्वमित्याह ।
कोधो ऽत्र रौद्ररसतामनापद्यमानो विवक्षितः, तस्य पृथगुक्तत्वात् ।
समुद्धते सम्यगौद्धत्यगुणयुक्ते वस्तुनि ।
आदिशब्देन बीभत्सः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः ।
टीका
विज्ञप्रिया:
(वि, प) वक्तरीति—समुद्धते प्रचण्डे भीषणे इति यावत् ।
रौद्रादौ रसे अत्यन्तं गुण इत्यन्वयः ।
ननु माधुर्यादय एव गुणास्तत्कथं दुः श्रवत्वादेर्गुणत्वम् इत्यत्राह—एषु चेति ।
माधुर्यादय आस्वादस्वरूपविशेषत्मका गुणा मुख्याः ।
तेषां प्रकर्षरूपो य उपचारः तत्कारित्वाद् औपचारिको गुणव्यपदेशो युक्त इत्यर्थः ।
लोचना:
(लो, ऋ) मुख्यो गुणो यदादित्यस्वरूपात्मको माधुर्यादिः ।
भाक्तः औपचारिकः ।
क्रमेण यथा—
“तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् ।
शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना” ॥
अत्र शृङ्गारे कुपितो वक्ता ।
टीका
विज्ञप्रिया:
(वि, फ) अत्र क्रोधसंयुक्ते वक्तरि दुः श्रवत्वगुणमाह—तद्विच्छेदेति ।
तस्या विच्छेदेन कृशस्य कण्ठलुलितप्राणस्य च मे मनः, क्रूरः पञ्चशरः अतिशितैः शरैर्निर्दयं भिन्दन्, शम्भोः प्रोद्दामनेत्रानलज्वालेन समस्तात्मना करालित आस्ताम् ।
शम्भुः कथमिदं करिष्यतीत्यत्राह—भूतकृपेति ।
भूते प्रार्थिनि मयि कृपया एवं करिष्यति ।
अन्नेति ।
विच्छेदकण्ठलुठितादौ छकारठकारादयो वर्णा दुः श्रवाः कुपतवक्तृका गुणाः ।
“मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् ।
ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग- भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः” ॥
अत्रोद्धतताण्डवं वाच्यम् ।
इमे पद्ये मम ।
रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः ।
यथा–
“उत्कृत्योत्कृत्य कृत्तिम–” इत्यादि ।
अत्र बीभत्सो रसः ।
टीका
विज्ञप्रिया:
(वि, ब) उद्धते वाच्ये चाह—मूर्द्ध इति ।
शाम्भवं ताण्डवं नृत्यं वो युष्माकं शुभं प्रवितरतु ।
ताण्डवं कीदृशम् ।
मूर्द्धव्याधूयमानाया ध्वनन्त्या अमरधुन्या गङ्गाया लोलेन कल्लोलजालेन तरङ्गसमूहेन उद्धूतानां क्षिप्तानाम् अम्भः क्षोदानां जलकणानां दम्भात् छलात् प्रसभं सहसा अभिनभो नभसि क्षिप्तनि नक्षत्राणां लक्षाणि—तादृशम् ।
पुनः कीदृशम् ।
ऊर्द्ध्वन्यस्तयोरङ्घ्रिदण्डयोर्भ्रमिभरेण भ्रम्याधिक्येन रभसोद्यतः सहसोद्रच्छतः नभस्वतः वयोः प्रवेगेण भ्रान्तं ब्रह्मण्डखण्डं यत्र तादृशम् ।
अत्रेति ।
उद्धतं भीषणं उत्कृत्य इत्यादौ बीभत्सो रसः ।
लोचना:
(लो, ॠ) उद्धतं हरताणडवम् ।
रौद्रे दुः श्रवत्वं यथा मम तातपादानां— स्फुटविकटचपेटाघातनेनायमष्टौ सपदि कुलगिरीन् वा खण्डशश्चूर्णयित्वा ।
प्रलयमरूदुदारस्फीत्कृतो धूतवातः प्रसृतिभिरथ पारावारमुत्क्षेपयामि ॥
सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः ।
तथा पुनरिति गुण एव ।
यथा—
“करिहस्तेन सम्बाधे प्रविश्यान्तविलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते” ॥
अत्र हि सुरतारम्भगोष्ठ्याम्—
“ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु” इति कामशास्त्रस्थितिः ।
आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् ।
टीका
विज्ञप्रिया:
(वि, भ) सुरतेति—सुरतस्यारम्भो यस्यां तादृशगोष्ठ्यादौ इत्यर्थः ।
करिहस्तेनेति ।
बालिकायाः सुरतोपायस्य द्वयर्थपदेन सूचनमिदम् ।
तथाहि पुंसो ध्वजः पताका साधनस्य सैन्यस्यान्तर्मध्ये प्रविश्योपसर्पन् गच्छन् विराजते ।
साधनान्तः कीदृशं सम्बाधे निबिडत्वादावृते ।
तर्हि कथं प्रवेश इत्यत्राह—करिहस्तेनेति ।
करिणां हस्तिनां हस्तेन शुण्डया विलोडिते ।
बालिकासुरतोपायस्यात्र द्व्यर्थपदेन सूचनम् ।
तथाहि सम्बाधे सङ्कुचिते साधनस्य योनेरन्तः प्रविश्य उपसर्पन् गतागतं कुर्वन् पुंसो ध्वजः लिङ्गं विराजते ।
प्रवेशोपायमाह—करिहस्तेनेति ।
“तर्जन्यनामिकायुक्ते मध्यमा स्याद्वहिर्यदि ।
करिहस्त इति ख्यातः कामशास्त्रविशारदैः ॥
“इति ।
तादृशाङ्गुलित्रयेण विलोडिते इत्यर्थः ।
अत्रेति ।
रहस्यवस्तु गोप्यवस्तु तत् पिशुनयेत् सूचयेदित्यर्थः ।
गोष्ट्यादावित्यादि पदग्राह्यमाह—शमकथेति ।
यथा–
“उत्तानोच्छूनमण्डूकपटितोदरसन्निभे ।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥
“अत्र जुगुप्साश्लीलम् ।
प्रभृतिपदग्रह्यञ्चामङ्गलाभिप्रयवद्वक्तृबोध्यम् ।
यथा— निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥
अत्र कुरूणां भाव्यमङ्गलकाश्लीलसूचनम् ।
लोचना:
(लो, ऌ) करिणो गजस्य हस्तः श्थूलहस्तः ।
“तर्ज्जन्यनामिके श्लिष्टे मध्यमा स्याद्वहिर्यदि ।
ऽ; इति शृङ्गारशास्त्रप्रसिद्धरूपः स्त्रीयोनिविद्रावणः पुन्ध्वजास्याकारः करिकराख्यश्च ।
सम्बाधे सङ्कटे ।
ध्वजश्च साधनम् अश्वादि स्त्रीवराङ्गं च पिशुनयेत् सूचयेत् शमकथायामश्लीलो यथा— “लत्तानोच्छूनमण्डूकपाटितोदरसन्निभे ।
क्लेदिनि स्त्रीव्रणं सक्तिरकृमेः कस्य जायते” ॥
इति ।
स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥ विस्स्द्_७।१७ ॥
यथा—“पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् ।
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत” ॥
अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः ।
सिंहपक्षे मतङ्गशब्दो मातङ्गर्थे ऽप्रयुक्तः ।
टीका
विज्ञप्रिया:
(वि, म) स्यातामिति—आदिपदात् यमकचित्रपरिग्रहः ।
तत्र निहतार्थाप्रयुक्तत्वयोर्द्वयोरदोषत्वे श्लेषे एकमुदाहरणमाह—पर्वतभेद पवित्रम् इति ।
पतत् प्रवहत् सुरसरितो गङ्गाया अम्भो नमत् ।
तत्र विशेषणभेदात् दृष्टान्तत्रयं ददद् विशेषणान्याह–पर्वतेति ।
अम्भः कीदृशं पर्वतभेदि पवित्रं च ।
अत्र हरिमिन्द्रमिवेति दृष्टान्तः ।
सो ऽपि हि पर्वतभोदिना पविना वज्रेण त्रायते अर्थात् देवान् ।
अम्भः कीदृशं नरङ्कस्य पापजन्ययातनाया जैत्रं नाशकमित्यर्थः ।
अत्र हरिं श्रीकृष्णरूपं विष्णुमिवेति दृष्टान्तः सो ऽपि नरकस्य नरकासुरस्य जैत्रः ।
अम्भः कीदृशम्—बहुमतं बहुजनसम्मतं गहनं निबिडं च प्रवाहातिशयाद् अत्र हरिं सिंहमिवेति दृष्टान्तः ।
सो ऽपि बहूनां मतहगानां हन्ता ।
दोषद्वयं दर्शयति—अत्रेति ।
न चात्र हरिमेवेत्यत्रानवीकृतत्वं कथितपदत्वं वा दोष इति वाच्यम् ।
एकपदवाच्यानेकेषां दृष्टन्तकरणस्य वैचित्र्यविशेषत्वेन तदाधायकत्वेनादोषत्वात् ।
लोचना:
(लो, ए) पर्वतेति–गङ्गाजलपक्षे पर्वतं भेत्तुं शीलं यस्य ।
वपित्रं पूतं चेति पदद्वयम् ।
इन्द्रपक्षे पर्वतभोदिना पविना वज्रेण त्रायत इति ।
जलपक्षे बहूनां मतं सम्मतम् ।
गहनं चेति पदद्वयम् ।
सिंहपक्षे बहूनां मातङ्गानां हन्तराम् इत्येकपदम् ।
गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः ।
यथा—
“त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् ।
मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः” ॥
टीका
विज्ञप्रिया:
(वि, य) गुणः स्यादिति ।
ज्ञत्वं पण्डितत्वम् ।
त्वामामनन्तीत—त्वां व्रह्माणं पुरुषार्थानां धर्म्मार्थकाममोक्षाणां प्रवर्त्तिनीं प्रवर्त्तिकां प्रकृतिमामनन्ति वदन्ति सत्त्वरजस्तमसां सम्यावस्था प्रकृतिः तत एव समस्तपदार्थोत्पत्तिरिति साङ्ख्यसिद्धान्तात् ।
तादृशावस्थास्वरूपं त्वामित्यर्थः ।
तथा च त्वामेव पुरुषं सर्वकर्त्तृपुरुषं विदुः ।
तत्र किं प्रमाणमित्यत आह—तद्दर्शिनमिति—तत एव दर्शनं ज्ञानं यस्य तादृशम् ।
तत्प्रणीतवेदेन तन्निर्मितगिरिसागरादिभ्यो ऽनुमानेन च तज्ज्ञानात् ।
उदासीनं समस्तकार्य्योत्पदाने स्वार्थत्वाभावात् ।
अत्र ब्रह्मा वाच्यः, वक्तार इन्द्रादयः ।
सर्व एव पण्डिताः ।
प्रकृत्यादयो ऽप्रतीताः पाण्डित्यप्रकाशनाद् गुणत्वम् ।
लोचना:
(लो, ऐ) त्वां तदेकदर्शनमात्रप्रतीतरूपां प्रतीतशब्दाभिव्यञ्जकत्वम् ।
सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः ।
कूटस्थः चित्स्वरूपः पुरुषः ।
तदर्थे प्रवर्त्तयितुं शीलं यस्याः ।
यदुक्तम्— प्रकृतेः कियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥
तस्या दर्शनं प्रकाशनं–प्रकृतेर्जडरूपायाश्चित्सङ्कमणादेव कार्य्यकारित्वात् ।
अत्र प्रकृत्यादिशब्दः साङ्ख्यशास्त्रप्रसिद्धः ।
स्वयं वापि परामर्शे—
अप्रतीतत्वं गुण इत्यनुषज्यते ।
यथा—“युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् ।
शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि” ॥
टीका
विज्ञप्रिया:
(वि, र) स्वयं वापि परामर्शे इति कारिकापादस्तत्राप्रतीतत्वं गुण इति पूर्वोक्तमनुसञ्जयति—अप्रतीतत्वमिति ।
युक्तः कलाभिरिति–तं परमात्मस्वरूपं चन्द्रं परिशीलयामि सततं भावयामि इत्यर्थः ।
विलक्षणचन्द्रत्वादिति भावः ।
अन्यचन्द्रतो वैलक्षण्यमाह–युक्त इति ।
कालाभैः शरीरपरिग्रहेच्छारूपाभिः कलाभिः धर्मैः विशिष्टः सन् यस्तमसां शरीरात्मनोरभेदाबोधरूपाणां मोहानां विवृद्ध्यै भवति यथा रामशरीरपरिग्रहे ।
अन्यचन्द्रस्तु स्वीयषोडशांशरूपाभिः कलाभिर्युक्तः सन् तमसामन्धकारणां क्षतये एव भवति ।
तथा ताभिः कलाभैः हीनः सन्नेषां तमसां क्षतये भवति ।
अगृहीतशरीरत्वेन तादृशमोहाभावात्, अन्यचन्द्रस्तु कलाहीनः सन् तमोविवृद्ध्ये एव भवति ।
तमोनाशककलाभावेन तस्य तमो वृद्धीं प्रति यत्सत्त्वे ऽग्रिमक्षणे यस्य सत्त्वं यदसत्त्वे ऽग्रिमक्षणे यदसत्त्वं तत्तस्य कारणमित्येवंरूपकारणत्वात् ।
तथातं कीदृशं शुद्धम्, चन्द्रस्तु कलङ्गी ।
तथा निरालम्बशून्ये पदे ऽवलम्बमानं चन्द्रस्तु ज्योतिश्चक्रावलम्बी ।
अत्र कलातमः पदार्थौ अप्रतीतावपि स्वयं परामर्शे गुणौ पराप्रतीतेरुद्देश्यत्वात् ।
लोचना:
(लो, ओ) कलाभिः षोडशभिः, ताश्च एकादशेन्द्रियाणि, पञ्च तन्माभाणि ।
चन्द्रपक्षे–कला अवयवाः ।
तमांसि अज्ञानानि, अन्धकाराणि च ।
ताभिः कलाभिरेषां तमसाम् ।
निरालम्बपदम् आत्मपक्षे एतस्याश्रयाभावात् ।
चन्द्रपक्षे गगनम् ।
अत्र कलाशब्दार्थः योगशास्त्रमात्रप्रसिद्धः यदुक्तं–“षोडशकलः पुरुष"इति ।
—कथितं च पदं पुनः ॥ विस्स्द्_७।१८ ॥
विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।
दैन्ये ऽथ लाटानुप्रासे ऽनुकम्पायां प्रसादने ॥ विस्स्द्_७।१९ ॥
अर्थान्तरसङ्क्रमितवाच्ये हर्षे ऽवधारणो ।
गुण इत्येव ।
यथा—
“उदेति सविता ताम्रः—” इत्यादि ।
अत्र विहितानुवादः ।
टीका
विज्ञप्रिया:
(वि, ल) विहितस्येति ।
तत्र विहितानुवादे उदाहरति—उदेतीति ।
अत्रेति ।
उदयसवितुरुद्देशे विहितस्य ताम्रत्वस्य अस्तमयसवितुरुद्देशेनापि विधेयतया प्रतिनिर्देशरूपो ऽनुवाद इत्यर्थः ।
“हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः” ।
अत्र विषादः ।
“चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः” ।
अत्र विस्मयः ।
लोचना:
(वि, व) अनाकाश इति—आकाशभिन्नायां त्वयि इत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
“सुनयने नयने निधोहि” इति ।
अत्र लाटानुप्रासः ।
“नयने तस्यैव नयने च” ।
इत्यादावर्थान्तरसङ्क्रमितवाच्यो ध्वनिः ।
एवमन्यत्रापि ।
टीका
विज्ञप्रिया:
(वि, श) लाटानुप्रासः समासासमासगतः ।
एकार्थत्वेन यमकम् ।
नयने तस्यैवेति–अत्र द्वितीयनयनपदमुत्कृष्टरूपार्थान्तरे सङ्क्रमितवाच्यम् ।
एवमन्यदिति—तत्र “गच्छ गच्छ न तिष्ठात्र"इति क्रुधि ।
“हा हतो ऽस्मि"इति दैन्ये ।
“एहि एहि वत्स !“इत्यनुकम्पायाम् ।
“मुञ्च मुञ्च रुषम्"इति प्रसादने ।
“कथय कथय वार्ताम्"इति हर्षे ।
“अयमयं वीर” इत्यवधारणे ।
सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ॥ विस्स्द्_७।२० ॥
गुण इत्येव यथा—
“पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्” ॥
टीका
विज्ञप्रिया:
(वि, ष) सन्दिग्धत्वमिति—सन्देयोग्यमित्यर्थः ।
द्व्यर्थत्वेन तद्योग्यता–विशेष्यद्वयेर्ऽथद्वयात्तु निश्चय एव तथा पदार्थमाह—गुण एवेति ।
निश्चयवशात् गुणैत्यर्थः ।
पृथुकार्त्तेति—राज्ञि दरिद्रस्योक्तिरियम् ।
आवयोः सदनं सम्प्रति समम्, त्वत्तो धनलाभे तुपश्चात् समं न भविष्यति इति भावः ।
पृथूनि कार्त्तस्वरस्य सुवर्णस्य पात्राणि यत्र राजसदनं तादृशम् ।
पृथुकानां शिशूनाम् आर्त्तस्वरस्य पात्रं दरिद्रसदनं भक्ष्याभावात् ।
भूषिताः सुवर्णदिमाण्डिताः निः शेषपरिजनाः यत्र राजसदनं तादृशम् ।
भुवि उषिताः सुप्ताः निः शेषपरिजना यत्र दरिद्रसदनं तादृशं शय्याविरहात् ।
बिलसद्धिः करेणुभिः हस्तिभिर्गहनं व्याप्तं राजसदनम्; विलसत्का बिले तिष्ठन्तो मूषिकपिपील्लिकादयस्तेषां रेणुभिः गहनं दरिद्रसदनम् ।
अत्र स्वगृहसाम्यव्याजेन राज्ञः सम्पदाधिक्यकथनात् व्याजस्तुतिः ।
व्याजस्तुतीत्युपलक्षणम् ।
पर्वतभेदि पवित्रमित्यादौ उपमाश्लेषादावपि तथात्वं बोध्यम् ।
लोचना:
(लो, औ) पृथ्विति—पृथुकानां बलानाम् आर्त्तस्वरस्य पात्रं स्थानम् ।
पृथु बहुलं कार्त्तस्वरपात्रं सुवर्णभाजनं यत्र ।
भूषिताः भुवि पृथिव्याम् उषिता मण्डिताश्च ।
विलसन्तः तिष्ठन्त एव विलसत्का रेणवो धूलयः ।
विलसन्तः करेणवो गजाश्च ।
वैयाकरणमुख्ये तु प्रतिपाद्ये ऽथ वक्तरि ।
कष्टत्वं दुः श्रवत्वं वा—
गुण इत्येव ।
यथा—
“दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते” ॥
अत्रार्थः कष्टः ।
वैयाकरणश्च वक्ता ।
टीका
विज्ञप्रिया:
(वि, स) वैयाकरणमुख्य इति ।
अतिशयवैयाकरणमित्यर्थः ।
कष्टत्वं कष्टार्थत्वम् ।
दीधीवेवीङ् इति कश्चिज्जनो गुणवृद्ध्योरभाजनं गुणवृद्ध्या च हीन इत्यर्थः ।
दीधीवेवीङ् धात्वोरिडागमस्य च समस्तयोरपि गुणस्य तद्वाधिकाया वृद्धेश्चाभावात् ।
तथा कश्चिज्जनः क्विप् प्रत्ययनिभः, यत्र जने सन्निहिते सति तत्सन्निहितस्यापि न ते गुणवृद्धी, क्विप्प्रत्ययसन्निहितधातोरपि गुणवृद्ध्यभावात् ।
लोचना:
(लो, अ) दीधीवेवीङ् इति ।
कश्चिद्रिपुः ।
गुणः शौर्य्यादिः ।
पक्षे ईका रादीनामेत्वादिः ।
वृद्धिः समृद्धिः ।
पक्षे ईकारादीनामैत्वादिश्च दीधीवेवीधात्त्वेर्गुणवृद्धिनिषेधात् ।
क्विप्प्रत्ययनिभः क्विपः सर्वापहारीति लोपाद् रिपोः सर्वनाशः ।
अत्र न केवलं दुः श्रवत्वं कष्टत्वं च ।
एवमस्य प्रतिपाद्यत्वे ऽपि ।
“अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन” ।
अत्र दुः श्रवत्वम् ।
वैयाकरणो वाच्यः ।
एवमस्य वक्तृत्वे ऽपि ।
टीका
विज्ञप्रिया:
(वि, ह) एवमिति ।
अस्य वैयाकरणस्य तद्दर्शयति—अत्रेति ।
हे उपाध्याय ! अत्र लोके त्वामहं कदाचन न अतार्प्सम् ।
एवमिति ।
अस्य वैयाकरणस्य वक्तृत्वे कष्टत्वं दुः श्रवत्वमपि गुण इत्यर्थः ।
तस्य वक्तृत्वे कष्टत्वस्य च उदाहृतत्वात् ।
—ग्रम्यत्वमधमोक्तिपु ॥ विस्स्द्_७।२१ ॥
गुण इत्येव ।
यथा मम—
“एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व ।
एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व” ॥
इयं विदूषकोक्तिः ।
टीका
विज्ञप्रिया:
(वि, क) अदमोक्तिष्विति ।
गुण इत्यनुषङ्गः ।
एसो इति ।
“एष शशधरविम्बो दृश्यते हैयङ्गवीनपिण्ड इव ।
एते चास्य मयूखाः पतीन्ति आशासु दुग्धधारा इव ॥
" (इति संस्कृतानुवादः)
(वि, क) ह्यो गोदोहोद्भवं घृतं हैयङ्गवीन भक्ष्यलम्पटस्योक्तौ भक्ष्यद्रव्यदृष्टान्तो ऽत्र ग्रम्यो गुणः ।
लोचना:
(लो, आ) अधमा विदूषकादयः ।
एसो इति— “एषः शशधरबिम्बो दृश्यते हैयङ्गवीनपिण्ड इव ।
एते चास्य मयूखाः पतन्त्याशासु दुग्धधारा इव” ॥
निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति ।
यथा—“सप्रति सन्ध्यासमयश्चक्रद्वन्द्वानि विघटयति” ।
कवीनां समये ख्याते गुणः ख्यातविरुद्धता ॥ विस्स्द्_७।२२ ॥
कविसमयख्यातानि च—
मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः रक्तौ च क्रोधरागौ; सरिदुदधिगतं पङ्कजेन्दीवरादि ।
तोयाधारे ऽखिले ऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ विस्स्द्_७।२३ ॥
टीका
विज्ञप्रिया:
(वि, ख) सम्प्रतीति—सन्ध्यासमयस्य चक्रवाकद्वन्द्वविघटकत्वे तेषां ख्यातिसत्त्वान्नात्र हेत्वाकाङ्क्षा ।
कविसमयख्यातादिं दर्शयति—मालिन्यमिति ।
पापे इत्यर्थः ।
सत्कर्मणा कीर्तिः, दाने च यश इति यशकीर्त्त्योर्भेदः, मरालो हंसः ।
पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्- यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः ।
मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो- र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ विस्स्द्_७।२४ ॥
टीका
विज्ञप्रिया:
(वि, ग) योषितामास्यमद्यैर्वकुलं विकसतीत्यन्वयः ।
लोचना:
(लो, इ) हारो हृदयं च स्फुटतीति सम्बन्धः ।
युवजना युवानो युवतयश्च ।
स्त्रीकटाक्षैर्यून एव ।
अह्न्यम्भोजम्, निशायां विकसति कुमुदम्, चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् ।
न स्याज्जाती वसन्ते; न च कुसुमफले गन्धसारद्रुमाणा- मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ॥ विस्स्द्_७।२५ ॥
एषामुदाहरणान्याकरेषु स्पष्टानि ।
धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः ।
आरूढत्वादिबोधाय—
यथा—“पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः” ।
अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते ।
आदिशब्दात्—
“भाति कर्णावतंसस्ते” ।
अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः ।
लोचना:
(लो, ई) एष्ववतंसादिपदप्रतिपादनेनापि कर्णार्थप्रतिपत्तेः पौनरुक्त्यम् ।
तथा हि—कर्णपदान्यन्यकर्णादिव्यवच्छेदेन प्रकृतस्यैव कर्णादीन् बोधयन्ति ।
तेश्च तेषां शोभादिः स्वहेतुकः ।
किन्तु प्रकृतनायिकाहेतुक एव पर्यवस्यतीति भावः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः ।
टीका
विज्ञप्रिया:
(वि, घ) धनुरिति ।
आरूढत्वेति ।
तद्वोधश्च धनुः शब्दादौ धनुरारूढत्वं लक्षणया रूढिहेतुकया लुप्तषष्ट्यर्थो वा आरूढत्वम् ।
गतार्थत्वेपीति–न च ज्याशब्दार्थः कथं धनुर्ज्यात्वस्य संस्थानविशेषव्यङ्ग्यजातिविशेष इति वाच्यम् ।
ज्यात्वस्य जातित्वे ऽपि तत्सम्बन्धिनो धनुषो नमयतः स्मारकत्वेन तद्वशादेव धनुर्लाभे, धनुः पदस्याधिक्यप्रसक्तेरारूढत्वप्रतिपादनेन निरवसितत्वात्, यत्र कर्णस्थितत्वे ऽपिअत्र पुनरुक्तिप्रसाक्तिवारणमेव कर्णावतंस्यापि सवतंसपदार्थत्वात् न चैवं कर्णस्थैतलक्षणायामपि कर्णस्थितकर्णभूषा इति बोधनेनैव पुनरुक्तिरिति वाच्यम् ।
अवतंसपदस्य कर्णयोग्यभूषार्थकत्वेन कर्णस्थितकर्णयोग्यभूषा इति पुनरुक्त्यभावात् ।
एवं श्रवणेति–एतद्द्वये पदाधिक्यस्यैव प्रसाक्तिः कुण्डलत्वकिरीटत्वयोः संस्थानव्यङ्ग्यजातित्वादेव ।
एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि “पुष्पमालाविभाति ते” ।
अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै ।
एवं “मुक्ताहार” इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् ।
टीका
विज्ञप्रिया:
(वि, ङ) पुष्पस्त्रजमेवाभिधत्ते इति ।
तथा चात्रापि पुनरुक्तेरेव प्रसक्तिः ।
उत्कृष्टपुष्पप्रसिद्ध्यै इति पुष्पांशो मालाशब्दार्थ एव पुष्पशब्दस्य तु उत्कृष्टे लक्षणेत्यर्थः ।
एवं मुक्ताहार इत्यत्रेति ।
मुक्तग्रैवेयकं हार इति कोशात् ।
मुक्तांशो ऽपि हारशब्दार्थ एव इत्यतो ऽत्रापि पुनरुक्तेरेव प्रसिक्तिः ।
अन्यरत्नामिश्रितत्वं तु मुक्ताशब्दलक्षणागम्यम् ।
—प्रयोक्तव्याः स्थिता अमी ॥ विस्स्द्_७।२६ ॥
धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः ।
टीका
विज्ञप्रिया:
(वि, च) सत्काव्यस्थिता एवेति—यतः सत्काव्ये स्थिता अतो निबद्धव्या एवेत्यन्वयः ।
तथा चात्र लक्षणाया रूढिहेतुकत्वं दर्शितम् ।
जघनकाञ्च्यादौ तु न रूढिरिति भावः ।
उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः ।
यथा—
“गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा ।
मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्” ॥
टीका
विज्ञप्रिया:
(वि, छ) उक्तविति—आनन्दमग्नादेर्वचनस्योक्तावित्यर्थः ।
गाठालिङ्गनेति—सख्यौ सख्युरुक्तिरियम् ।
गाठालिङ्गनेन वामनीकृतकुचा चासौ प्रोद्भिन्नरोमोद्रमा चेति समासः ।
कुचे रोमवर्णनानौचित्यान्नास्य समासः ।
सान्द्रस्नेहरसातिरेकेण विगलत् श्रीमतो नितम्बादम्बरं यस्यास्तादृशविशेषणद्वयवती सा मम नायिका पीडयेत्यनुक्तिवशात्, हे मानद ! मां मा मा मा इत्यलिमित्येवमलक्षरोल्लापिनी सती सुप्तेत्यादिवितर्कचतुष्टयविषयो ऽभूदित्यर्थः ।
सुप्ता निद्रिता निष्पन्दत्वात् अतिनिष्यन्दत्वेन मरणवितर्कः ।
मनोगतत्वेन मनसि लयवितर्कः मनसोरद्यापि अबहिर्भावात् अत्यन्तलयरूपस्य विलयस्य वितर्कः ।
लोचना:
(लो, उ) गाढेति–अत्र सुप्तेत्यादिना उत्तरोत्तरं निश्चलाधिक्यम् ।
किम् ? उक्तरूपा प्रिया मम मनसि सुप्ता नु ! स्थिरतया वर्त्तमानत्वात् ।
सुप्तापि पुनरुत्थाय पातीत्याशङ्क्याह मृता नु किम् ? सापि परैर्बहिष्कर्तुं शक्या इत्यत आह—लीनेति ।
जतुकाष्टादिवदिति विशेषः ।
तथाभूतापि केनचिद् व्यावर्त्तयितुं शक्येतेत्यत आहविलीनेति–दुग्ध्रे जलवत् सर्वथा भेदोपलम्भाभाव इति भावः ।
ततोमामेति सामान्यतः प्रकृतनिराकरणम् ।
माति मामित्यत्र पडियेति कियापदं न्यूनम् ।
एतत्प्रतिपादिकाया नायिकायाः सान्द्रानन्दजडीभूततया सङ्कीर्णवाक्योच्चारणे ऽप्यसामर्थ्यं व्यनक्तीति न्यूनपदत्वं गुणः ।
अत्र पीडयेति न्यूनम् ।
क्वचिन्न दोषो न गुणः—
न्यूनपदत्वमित्येव ।
यथा—
“तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति को ऽयं विधिः” ॥
टीका
विज्ञप्रिया:
(वि, ज) तिष्ठेत्कोपेति—उर्वशीमनासाद्य पुरुरवसो ऽयं वितर्कः ।
सा उर्वशी स्वप्रभावेन पिहिता अदृश्या तिष्ठदिति वितर्क्याह–दीर्घं न सा इति एवं स्वर्गाय इति वितर्क्याह—मयि पुनरिति ।
अस्या असुरेण हरणकोटिस्तु असम्भव्या इत्याह—तां हर्तुमिति ।
मे पुरोवर्ततिनीम् इति तत्र हेतुः ।
अतो ऽदर्शने हेत्वभावान विस्मयादाह—सा चेति—अगोचरम् अगोचरत्वं याता प्राप्ता ।
अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं “नैतद्यतः” इति पदानि न्यूनानि ।
एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः ।
“दीर्घं न से” त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः ।
टीका
विज्ञप्रिया:
(वि, झ) अत्रेति—पूर्वोक्तस्य निषेधं प्रत्येव दीर्घं न सा इत्यनयोः हेतुत्वात् नतु पूर्वप्रतीतिं प्रति इति भावः ।
ननूत्कर्षस्याकरणात् मा भवतु गुणत्वम्, दोषत्वं तु स्यादित्यत आह–दीर्घं न सेत्यादीति ।
बाधः स्फुटमेवेति—विरोधिनः परवाक्यस्य तथात्वनियमात् ।
तथा च “नैतद्यतः"इत्यस्याकाङ्क्षावशादध्याहारो ऽपि न दोषाय इति भावः ।
लोचना:
(लो, ऊ) तिष्ठेदित्यादि ।
प्रभावेन दिव्येन पिहिता, अदृश्या सा उर्वशी ।
प्रतिपत्त्या ज्ञानेन ।
उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते ।
—गुणः क्वाष्यधिकं पदम् ॥ विस्स्द्_७।२७ ॥
यथा—
“आचरिति दुर्जनो यत्सहसा मनसो ऽप्यगोचरानर्थान् ।
तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्” ॥
अत्र “न न जान” इत्ययोगव्यवच्छेदे ।
लोचना:
(लो, ऋ) अयोगव्यवच्छेदो ऽहं जानामीत्येवंरूपः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
द्वितीये “जान” इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः ।
टीका
विज्ञप्रिया:
(वि, ञ) गुणः क्वापीति—यत्राधिकपदस्य रूढिलक्षणया अर्थान्तरं तत्रेत्यर्थः ।
आचारतीति—मनसो ऽप्यगोचरानर्थात् असदर्थान् सहसा यत् दुर्जन आचरति तदहं न न जाने ।
अपि त्वहमेव जाने इत्यर्थः, किन्तु मम भनः निष्ठुरतां नैव स्पृशति इत्यर्थः ।
विच्छित्तिर्बोधविशेषरूपा भङ्गिः ।
अत्रेति—आकाङ्क्षोत्थानानुत्थानद्वयमत्र अदोषदोषतयोर्बोजम् ।
समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् ।
यथा—“अन्यास्ता गुणरत्न-” इत्यादि ।
अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् ।
एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् ।
टीका
विज्ञप्रिया:
(वि, ट) अन्यस्ता इत्यत्र पूर्वार्द्धेन वाक्यसमाप्तावपि कथमत्र निष्पादकगुणरत्नादीनां वैलक्षण्यमित्याकाङ्क्षोत्थानाददोषता ।
समाप्तपुनरात्तत्वस्य दोषत्वादोषत्वे विनिगमयति—एवञ्चेति ।
विशेषणमात्रस्य इत्यत्रापि अनाकाङ्क्षितस्येति बोध्यम्, विशेषणे आकाङ्क्षासत्त्वे तु न दोष इति प्रागेव दर्शितम् ।
तथा चाकाङ्क्षाया एव नियामकत्वम्; न वाक्यत्वविशेषणत्वयोरिति स्थितेन वाक्यान्तरस्येति यदुक्तं तद्वाक्यान्तरे आकाङ्क्षा अवश्यं तिष्ठतीत्यभिप्रायेणैव ।
लोचना:
(लो, ॠ) द्वितीयार्द्धवाक्यं श्रीमत्कान्तीत्यादि ।
एवञ्चेति–विशेषणमात्रस्येत्युपलक्षणम् ।
तेन कर्त्तृकर्मादीनामन्येषां पदानामपि वाक्यसमाप्तावुक्तौ ।
यथोदाहृतं दिवाकरो हरिरित्यादिः ।
गर्भितत्वं गुणः क्वापि—
यथा—
“दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्” ॥
अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति ।
टीका
विज्ञप्रिया:
(वि, ठ) दिङ्मातङ्गघटेति ।
आघाटः पर्यन्तः ।
तथा च दिङ्मातङ्गघटाभिर्विभक्ताश्चत्वारः पर्यन्ताः यस्याः तादृशी मही येन रामेण साध्यते ।
सिद्धा व्याघातशून्यसाधनेन स्ववशीकृता सापि मही विप्राय प्रतिपाद्यते ।
किमपरं ब्रूम इति शेषः ।
तस्मै रामाय नम इदं काथाद्भुतं यस्मात् प्रादुरभूत् अन्यैरतथाकारणात् यस्मादेव प्रादुरभूदित्यर्थः ।
यत्रैव चास्तं गतम्, केनाप्युत्रकालं तथाकरणादस्तं गतमित्येवं वदन्त एव वयं रोमाञ्चिता एव इदं पश्यतेत्यर्थः ।
हिरवधारणे ।
अत्रेति ।
चमत्कारस्य वाक्यऽसमाप्तावेव विस्मयोद्वोधात् ।
लोचना:
(लो, ऌ) दिङ्भातङ्गेत्यादिपदस्य चतुः समुद्रसीमा इत्यर्थः ।
—पतत्प्रकर्षता तथा ॥ विस्स्द्_७।२८ ॥
तथेति क्वचित् गुणः ।
यथा—“चञ्चद्भुज-” इत्यादि ।
अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।
टीका
विज्ञप्रिया:
(वि, ड) अत्र चतुर्थपाद इति ।
उत्तंसयिष्यति कचांस्तव देवि ! भीम इत्यत्र सुकुमारतया वर्णानामसमासेन च सुकुमारतयेत्यर्थः ।
क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।
अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ विस्स्द्_७।२९ ॥
टीका
विज्ञप्रिया:
(वि, ढ) क्वचिदुक्ताविति ।
व्यभिचारणः स्वशब्देनोक्तौ क्वचिन्न दोष इत्यर्थः ।
कुत्र न दोष इत्यत्राह—अनुभावेति ।
रचना प्रतिपादनम् ।
अनौचित्यमेव द्विविधं तद्द्वयं व्याचष्टे यत्रेत्यादिभ्याम् ।
यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं
टीका
विज्ञप्रिया:
(वि, ण) विभावानुभावकृतेति—व्यभिचारिभावस्य यौ विभावानुभावौ ताभ्यां व्यङ्ग्यत्वरूपाया व्यभिचारिभावस्य पुष्टिस्तद्राहित्यमेवेत्यर्थः ।
तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः ।
यथा—
“औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः” ॥
टीका
विज्ञप्रिया:
(वि, त) द्वयोरेकमेवोदहरणमाह—औत्सुक्येन इति ।
गौरी नवे सङ्गमे प्रथमदिने हरसान्निध्यनिमित्तमौत्सुक्येन कृतत्वारानन्तरं च सहभुवा साहजिकया ह्रिया व्यावर्त्तमाना ततश्च तैस्तैरित्यादि ।
ततश्च वरं स्वामिनं हरम् अग्रे दृष्ट्वा आत्तसाध्वसरूपरसा, ततश्च हसता हरेणश्लिष्टा सती संरोहत्पुलका ईदृशी वः शिवायास्तु ।
लोचना:
(लो, ए) कुतो न दोष इत्याह—अनुभावेति ।
औत्सुक्येनेति ।
सहभुवा त्वरासमनन्तरकालोत्पन्नया त्वरयेति ।
भयेन त्वरां कृतवतीति सम्भ्रान्तिसम्भावनत्वादित्यर्थः ।
एवमन्यत्र एषामौत्सुक्यादीनां “दूरादुत्सुकमागते विवलितम्"इत्यादौ विवलनादिरूपानुभावमुखेन यथा लज्जादिप्रतिपाद्रनं तथा सहसा प्रसारणरूपानुभावमुखेन औत्सुक्यस्य प्रतिपादने न विशदप्रतीतिरिति व्यभिचारिणः स्वशब्दप्रतिपादनमेवोचितमिति भावः ।
अत्रौत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न झटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् ।
ह्रियो ऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् ।
साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् ।
टीका
विज्ञप्रिया:
(वि, थ) अत्रेति ।
औत्सुक्यस्य त्वरारूपो यो ऽनुभावस्तुन्मुखेनेत्यर्थः ।
झटित्यप्रतीतौ बीजमाह—त्वराया भयादिनापीति ।
एवं ह्रियो ऽप्यनुभावव्यावर्त्तनात् न झटिति तत्प्रतीतिः इत्यतः तस्यापि ह्रियेति शब्दस्य वाच्यत्वं न दोष इत्याह—ह्रियो ऽनुभावस्य चेति ।
विभावानुभावकृतपुष्टिराहित्यं दर्शयति—साध्वसहासयोस्तु इति ।
साध्वसं भयं हासश्च हास्यहेतुश्चेतोविकासः स्थायिभावलक्षणे दर्शितः ।
तद्द्वयं च भयानकहास्यरसयोः स्थायिभावावपि गौरमहेशयोः शृङ्गरे ऽत्र व्यभिचारभावौ ।
तयोः स्वस्वविभावादिना परिपोषस्य प्रकृतशृङ्गाररसप्रतिकूलप्रायत्वात् इत्यर्थः ।
विभावादीत्यादिपदात् अनुभावपरिग्रहः ।
तथा हि कम्पस्तावद् गौरी साध्वसस्यानुभावः ।
महेशहासश्चोद्दीपनविभावस्ततश्च साध्वसहासावनुपादाय यदि सकम्पा इति क्रियेत तदा तदङ्गसर्पदर्शनात् भयेन आर्द्रगजचर्मकपालदर्शनात् जुगुप्सया च शृङ्गारप्रतिकूलाभ्यां तत्कम्पसम्भवात् न शृङ्गारव्यभिचारिणोः साध्वसहासयोरेव व्यञ्जना स्यात्, भयजुत्पसोश्च व्यञ्जनासम्भवादित्यत एषाम् औत्सुक्यह्रीसाध्वसहासानां स्वशब्देनाभिधानिमित्यर्थः ।
साध्वसहासयोरपि व्यञ्जनसम्भवात् नात्यन्तं प्रातिकूल्यमित्यतः प्रायत्वादित्युक्तम् ।
सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः ।
लोचना:
(लो, ऐ) विरुद्धस्य प्रकृतरसादिप्रतिकूलस्य ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा–“क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-” इत्यादि ।
अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति ।
टीका
विज्ञप्रिया:
(वि, द) सञ्चार्य्यादेरिति—सञ्चारी व्यभिचारी ।
आदिपदादनुभावविभावौ च ।
विरुद्धरसीयस्यापि तस्य बलवता बाध्यस्य बाध्यत्वेन कथनं विरोधिनो जये यथातथा गुणः ।
प्रशमाङ्गानामिति ।
शान्तरसस्थाभीभावः प्रशमः ।
तदङ्गानां तदीयानामित्यर्थः ।
अभिलाषाङ्गेति ।
अभिलाषो रतिस्तदीयौत्सुक्यादिभिरित्यर्थः ।
पर्य्यन्त इति ।
कः खलु युवा धन्यो ऽधरं पास्यत्यनेन व्यङ्ग्येत्यर्थः ।
विराधिनो ऽपि स्मरणो साम्येन वचने ऽपि वा ॥ विस्स्द्_७।३० ॥
भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः ।
टीका
विज्ञप्रिया:
(वि, ध) विरोधिनो ऽपि इति—विरोधिरसस्यापि सञ्चार्य्यादेः स्मरणि स्मर्य्यमाणत्वेन व्यञ्जितस्य वचने साम्येन वथने ऽपि प्रकृतरसेन सह न विरोधो भवेत् ।
एवकङ्गिन्यङ्गत्वमाप्तयोश्च नान्योन्यविरोध इत्यर्थः ।
अङ्गिन्यङ्गत्वमाप्तयोरित्यत्र चार्थः पूरणीयः ।
क्रमेण यथा—“अयं स रसनोत्कर्षो-” इत्यादि ।
अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता ।
टीका
विज्ञप्रिया:
(वि, न) अयं स इत्यादिकं स्पष्टम् ।
अत्र रसनोत्कर्षणादयः उद्दीपनविभावाः स्मर्य्यमाणास्तद्व्यङ्ग्याः ।
शृङ्गारो ऽपि स्मर्य्यमाणो व्यङ्ग्यस्यापि अतीतत्वेन स्मर्य्यमाणता ।
लोचना:
(लो, ओ) आलम्बनम्, सङ्ग्रामनिग्रहः ।
“सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे” ॥
टीका
विज्ञप्रिया:
(वि, प) साम्येन वचने आह—सरागयेति ।
पीठोपविष्टानां राज्ञां युद्धोद्यमार्थं क्रोधस्य वर्णनमिदम् ।
नृपा रुषा भेजिरे प्रपेदिरे प्रियतमया इव ।
अर्थात् क्रुद्धाया रुषः क्रुद्धिप्रियतमायाः विशेषणान्याह—सरागयेति ।
रुषो रक्तवर्णनं कविसम्प्रदायसिद्धम्, पक्षे तु प्रियतमत्वेन अनुरागयुक्तया; क्रोधाधीनलौहित्यभाजा ।
स्त्रुतं क्षरितं घनं घर्मतोयं राज्ञां यतः, रुषा तादृश्या, स्त्रुतं निः सृतं घनं घर्मतोयं गात्रात् यस्यास्तादृश्या प्रियतमया ।
कराहतीति ।
राज्ञां कराहत्या पीठध्वननं रुषा प्रयुक्तम् ।
पीठस्य पृथुत्वं विस्तारः, उरुत्वं उच्चत्वम्, प्रियतमया तु स्वीयकराहत्या पृथोः स्वोरुदेशरूपस्य पीठस्य ध्वननम् ।
मुहुरिति ।
दशनोष्ठलङ्घनं नृपकर्त्तृकं रुषा प्रयुक्तम् ।
प्रियतमायास्तु स्वकर्त्तृकम् ।
लोचना:
(लो, औ) रागो लौहित्यं प्रेमा च ।
अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः ।
टीका
विज्ञप्रिया:
(वि, फ) अत्रेति ।
एकसस्थायिभावो ऽपि अन्यरसे व्यभिचारिभाव इत्यतो रौद्रसस्थायिभावः क्रोधो ऽत्र प्रक्रान्तवीररसस्य व्यभिचारिभावस्तद्व्यङ्ग्यस्य प्रकृतबीररसस्य साम्येनात्र सरागत्वादिव्यङ्ग्यः सम्भोगशृङ्गारो विवक्षित इत्यर्थः ।
ननु प्रियतमया इव इत्युक्त्या प्रियतमैव साम्येन विवक्षिता, न तु शृङ्गार इत्यत आह—अनुभावसाम्येनेति ।
वीरशृङ्गारयोर्द्वयोरपि सरागत्वादयो ऽनुभावाः ।
तेषामेकशब्दवाच्यत्वरूपरससाम्ये तु तद्व्यङ्ग्ययोर्वोरशृङ्गारयोरपि साम्यमित्यर्थः ।
यद्यपि “अनुकूलौ निषेवेति यत्रान्यो ऽन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि स सम्भोग उदाहृतः ॥
“इत्येवं सम्भोगलक्षणमुक्तम् ।
तथापि प्रमाधीनक्रोधदर्शनादावानुकूल्यमस्त्येव, इत्यतो ऽयं सम्भोगशृङ्गार एव ।
“एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् ।
अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः” ॥
अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः ।
टीका
विज्ञप्रिया:
(वि, ब) अङ्गिनि अङ्गत्वमाप्तयोरविरोधमाह—एकमिति ।
समाधिसमये विभिन्नरसं शम्भोः नेत्रत्रयं वः पातु ।
तत्र भिन्नरसत्वं दर्शयति—ध्याननिमीलनेन मुकुलप्रायमिति ।
क्वचित्तु ध्याननिमीलनात् मुकुलतप्रायमिति पाठः, तदा मुकुलितं मुकुलशब्दात् क्तप्रत्ययेन मुकुलतुल्यम् ।
प्रायः पदात्तु अल्पमुकुलम् ।
अयं शान्तानुभावः ।
द्वितीयमिति ।
वदनाम्भुजस्तनभरे इत्यत्र प्राण्यङ्गत्वात् समाहारद्वन्द्वः ।
अयं शृङ्गारानुभावः ।
अन्यदिति ।
दूरे विकृष्टचापो यो मदनः तद्विषये क्रोधानलेनोद्दीपितमित्यर्थः ।
अत्र रौद्ररसस्थायिभावस्य क्रोधस्य वाच्यत्वे ऽप्युद्दीपनेन तदनुभावेन पुनर्व्यञ्जना अपराङ्गतेत्याह—अत्रेति ।
शान्तादिपदमत्र स्थायिपरम् ।
तेषां विरोधिनामुक्तानुभावैर्व्यङ्ग्यानामपराङ्गत्वेनाविरोध इत्याह—अत्रेति ।
लोचना:
(लो, अ) अत्र शान्तेति—अङ्गिनो भगवद्विषयरतिभावस्य अङ्गभावेन विरुद्धानामपि शान्तादीनां नान्यो ऽन्यविरोध इति भावः ।
यथा वा—
“क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः” ॥
टीका
विज्ञप्रिया:
(वि, भ) इत्थमङ्गिनि विरोधिनां साक्षादविरोधं दर्शयित्वा साक्षात् परम्पराभ्यां तादृशानामविरोधमाह—यथा वा—क्षिप्त इति ।
त्रिपुरुदाहे स प्रसिद्धः शाम्भवः शराग्निर्वो दुरितं दहतु ।
कीदृशः हस्तावलग्नः सन् साश्रुनेत्रोत्पलाभिस्त्रिपुरयुवतिभिरार्द्रपराधः कामीव क्षिप्तः एवमंशुकस्यान्तमाददानो ऽपि अभिहतः ।
अपिकारो ह्यत्र भिन्नक्रमे ।
तथा केशेषु गृह्णन् अपास्तः ।
कामिपक्षे—चुम्बनार्थं केशग्रहणं तथा चरणनिपाततो ऽग्निः सम्भ्रमेण भयेन नेक्षितः ।
कामी तु चरणनिपतितः सम्भ्रमेणादरेण यत् ईक्षणं तद्विषयो न कृतः ।
आलिङ्गन् इति स्पष्टम् ।
अग्निपक्षे—भयात् कामिपक्षे क्रोधादश्रु ।
अत्र कविगता भगवद्विषया रतिः प्रधानम् ।
तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणो ऽङ्गम् ।
तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः ।
एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः ।
टीका
विज्ञप्रिया:
(वि, म) कविगता कविनिष्ठा प्रधानम्, स दहतु इत्यादि निराकाङ्क्षवाक्यव्यङ्ग्यत्वात् ष तस्याश्चेति ।
तस्याः प्रधानस्य भगवदुत्साहस्त्रिपुरं प्रत्याग्नेयास्त्रप्रयोगाद व्यङ्ग्यः ।
स च तन्महत्त्वसूचकत्वेन तद्विषयरतिभावस्याधिक्यरूपपुष्टिकारक इत्याह—परिपोषकतयेति ।
उत्साहो रतिभावस्याङ्गमित्यर्थः ।
तस्योत्साहस्य करुणो ऽङ्गमित्यन्वयः ।
ननु उत्साहो वीररसस्थायिभावः ।
स चात्र व्यङ्ग्य इत्यतो वीररस एवात्र प्रधानम् ।
तत् कथं रतिभावस्य प्राधान्यमुक्तम् इत्यत आह—तस्य चापरिपुष्टतया इति ।
तस्योत्साहस्य साकाङ्क्षवाक्यव्यङ्ग्यत्वेन दहत्विति निराकाङ्क्षवाक्यव्यङ्ग्यकविभावाङ्गत्वेनाप्राधान्यरूपया अपरिपुष्टतया रसपदवीमनाप्ततया भावमात्रस्य स्थायिभावस्येत्यर्थः ।
करुण इति ।
त्रिपुरयुवतीनां शोच्यावस्थाव्यङ्ग्यः करुणः तत्पुष्टिकारको ऽङ्गमित्यर्थः ।
तस्य चेति ।
अस्य करुणस्य इत्यर्थः ।
शृङ्गारो ऽङ्गमित्यन्वयः ।
तस्याङ्गता च उपमानोपमेयप्रकर्षणात् ।
इत्थं भगवदुत्साहपुष्टस्य भगवद्विषयकविभावस्य साक्षात्परम्पराभ्यामङ्गभूतौ करणशृङ्गारौ विरोधिस्वरूपौ अपि अविरुद्धौ इति दर्शयति—एवं चाविश्रान्तीति ।
अविश्रान्तिधामतया साकाङ्क्षताऽश्रयतया, अङ्गिसाकाङ्क्षतयेति यावत् ।
भगवदुत्साहस्तु अङ्गमपि भावस्याविरोधित्वात् तद्विरोधो न दर्शितः ।
ननु स्मर्य्यमाणविभावादिव्यङ्ग्यस्य रसस्यापि, स्मर्य्यमाणस्य विभावादिसाम्यस्य विवक्षाधीनविवक्षितसाम्यस्य अङ्गिरसेन सह विरोधप्रसक्तावपि न विरोधैत्युक्तम्, अङ्गिरसेन सह विरोधप्रसक्तिरेव नास्तीत्याशङ्कते—
लोचना:
(लो, आ) अपरिपुष्टतया विभावादिभिरित्यर्थः ।
भावमात्रस्य इत्यत्र हेतुः ।
रसपदवीमप्राप्तत्वमङ्गत्वादित्यर्थः ।
साम्यबलादायातः सदृशविशेषणमहिम्ना प्राप्तः ।
करुणस्येति ।
करुणस्य शृङ्गरापेक्षयो ऽङ्गित्वे ऽपि भगवद्रत्युत्साहस्याङ्गत्वादेवेत्यर्थःकिञ्चात्र शृङगाररसस्य “अयं स रसनोत्कर्षो"त्यादिपूर्वोक्तदिशा स्मर्य्यमाणतयांशभूतत्वेनापि व्यक्तीकरणेन न विरोधः ।
तथा हि यासां त्रिपुरयुवतीनां प्रणयरोषनिवारणार्थं कामी निराकृतहस्तग्रहणानि कृतवान् ।
तास्वेव निष्करुणासु शाम्भवः शराग्निस्तथा चेष्टितवानिति सादृश्यसन्दर्शनात् स्मर्य्यमाणेनेर्ष्यविप्रलम्भेन करुणः प्रत्युत पुष्टं नीतः ।
तेन च त्रिपुररिपुप्रभावातिशयपरिपुष्टस्तद्विषयरतिभावः परिषोषं नीयते ।
ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः ।
टीका
विज्ञप्रिया:
(वि, य) ननु इति ।
समूहालम्बनेति—प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेदित्यनेनोक्तस्य विभावादिसमूहालम्बनात्मकस्य निराकाङ्क्षवाक्यव्यङ्ग्यत्वेनाकाङ्क्षापूर्त्त्या पूर्णस्य घनस्य विषयान्तराग्रहणे निबिडस्याऽनन्दरूपस्य रसस्य अङ्गिरसस्य तादृशेन स्मर्यमाणेन विवक्षितसाम्येन वा रसेन सह कथं विरोधः सम्भावनीय इत्यर्थः ।
असम्भावनायां हेतुमाह—एकवाक्ये इति ।
अङ्गिरसस्तावन्निराकाङ्क्षविधेयवाक्यात् प्रादुर्भवति ।
स्मर्यमाणोपमानयोस्तु साकाङ्क्षोद्देश्यवाक्ययोरेव प्रादुर्भावेण एकवाक्यप्रादुर्भवरूपयौगपद्यविरहेणपरस्परोपमर्द्दकत्वानुपपत्तेरित्यर्थः ।
तुल्यबलत्वाभावेन प्रधानभूतेन निराकाङ्क्षविधेयवाक्येन व्यङ्ग्यतया प्रधानेन अङ्हिरसेन बलवता स्मर्यमाणोपमानयोरेव उपमर्दनादिति भावः ।
न चायं स रसनोत्कर्षोत्यादौ निराकाङ्क्षवाक्यैरेव स्मर्यमाणशृङ्गार इति वाच्यम् ।
रसनोत्कर्ष्यादिकरो ऽयं हस्तः पतित इत्येवं विधेयपातित्यसाकाङ्क्षत्वादेव ।
तेषां विधेयपातित्यं तु करुणव्यञ्जकमेव शृङ्गारस्य व्यङ्ग्यत्वे ऽपि परोक्षत्वादेव स्मर्यमाणतोपचार इति बोध्यम् ।
नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः ।
टीका
विज्ञप्रिया:
(वि, र) इत्थं स्मर्यमाणोपमानयोर्विरोधाप्रसक्तिं दर्शयित्वा अङ्गिन्यङ्गत्वमाप्तयोरङ्गाङ्गिभावासम्भवमेवाशह्कते—नाप्यङ्गङ्गिभाव इति ।
द्वयोरपि इति ।
शृङ्गारकरुणयोर्विरोधिनोरित्यर्थः ।
स्वातन्त्र्येणेति ।
क्षिप्त इत्यादिवाक्यानां कामीव इत्यादिवाक्यस्य चनिराकाङ्क्षत्वेन तद्व्यङ्ग्यत्वादित्यर्थः ।
स्वातन्त्र्यमेव च पूर्णता, आकाङ्क्षायाः पूर्णत्वात्
लोचना:
(लो, इ) ननु समूहेत्यादि–यदि रसयोर्विरोधः स्यात्, यदि वा अङ्गाङ्गि भावः स्यात् ।
नत्वेतत्प्रकारद्वितयमपि रसयोः सम्भवति ।
कथं विरोधो न सम्भवतीत्याह—परस्परोपमर्दकत्वानुपपत्तेः ।
परस्परोपमर्दकत्वं कथमनुपपन्नमित्याह—एकवाक्येति—एकवाक्यनिर्देशे च प्रादुर्भावस्यैकवाक्यनिर्देशहेतुकस्य यौगपद्यस्य विरहात् ।
अयमर्थः–यौगपद्यं हि एकवाक्यनिर्देशेनैव सम्भवति ।
स तु रसयोर्नसम्भवति, अत्र हेतुः—समूहेति ।
अयमर्थः द्विरुक्तप्रकारेण विभावादिसमूहालम्बनत्वात् ।
विभावादिसामग्री खलु एकवाक्यस्यार्थः ।
एका च सामग्री कथंविरोधिनोर्द्वयोरपि स्यात् ।
कथमेकवाक्यहेतुकं परिपूर्णत्वं स्यात् ।
घनशब्दो हि विजातीयानवच्छिन्नप्रवाहत्वम् ।
अङ्गाङ्गिभावासम्भवे हेतुमाह–नापीति ।
अङ्गाङ्गिभाव उपकार्योपकारित्वम् ।
सत्यमुक्तम् ।
अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया सञ्चारिरसनाम्ना व्यपदेशः प्राच्यानाम् ।
अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना ।
टीका
विज्ञप्रिया:
(वि, ल) समाधत्ते—सत्यमिति ।
एकवाक्यव्यङ्ग्यत्वाभावे ऽपि द्वयोर्निराकङ्क्षवाक्यव्यङ्ग्यत्वे ऽपि च शृङ्गारवति करुणाप्रतीत्या विरोधाप्रसक्तिरस्त्येव ।
किन्तु स्मर्यमाणशृङ्गारपेक्षया अनुभूयमानस्योपमानशृङ्गारापेक्षया उपमेयस्य च करुणस्य पर्यन्तिकप्रतीतिविषयतया प्राधान्यम् ।
एवं करुणापेक्षया भगवति कविभावस्य च पार्यन्तिकप्रतीतिविषयत्वेन प्राधान्यम् ।
इत्यतः तादृशप्रधानेतरेषु करुणेतरत्र शृङ्गारे भावेतरत्र करुणे श्लोकान्तरे चान्येतरत्र अन्यस्मिन् रसे च पार्यन्तिकप्रतीतिविषयतारूपस्वतन्त्रविश्रान्तिराहित्यात् तद्वशेन पूर्णरसभावमात्रान्मुख्यरसात् विलक्षणतया व्यपदेशविशेष इत्यर्थः ।
खण्डरसनाम्नेत्यत्रापि व्यपदेश इत्यन्वयः ।
लोचना:
(लो, ई) सिद्धान्तमाह—सत्यमुक्तमिति ।
अत एव विरोधस्य अङ्गाङ्गिभावस्य चासम्भवात् ।
भावमात्रवैलक्षण्यं चापाततः स्वसामग्रीपरिपुष्टतया ।
यदाहुः—
“अङ्गं बाध्यो ऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे ।
नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, व) चण्डीदासोक्ते खण्डरसव्यपदेशे योगार्थवशात् संवादमाह—अङ्गमिति ।
बाध्यो यो रसः सो ऽङ्गबाध्यत्वमेव ।
कीदृशमित्यत्राह—अथ संसर्गादिति ।
अथ सम्बोधने ।
एकपद्यबोध्यतारूपात् संसर्गात् यदि रसान्तरे अङ्गप्रकर्षकं स्यात्तदा बाध्य इत्यर्थः ।
योगार्थविशेषवशात् खण्डरसव्यपदेश इत्याह—नास्वाद्यत इति ।
पार्यन्तिकप्रतीतिविषये एव समग्नास्वाद इति भावः ।
इत्थं पार्यन्तिकप्रतीतिविषयस्य बाधकत्वम् ।
अतथाभूतस्य च बाध्यत्वं स्वण्डरसत्वं च इत्युक्तम् ।
लोचना:
(लो, उ) यद्यङ्गी रसः अपरिपुष्टतया भावमात्रवैलक्षण्येनापाततमात्रतः प्राधान्येनाभिव्यक्तः समग्रं नास्वाद्यत इति पस्तन्त्रत्वात्, न्यूनाङ्गसमग्रीकत्वात्, समग्रापुष्टत्वाच्च ।
ननु “आद्यः करुणवीभत्सरौद्रवीरभयानकैः” इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र—
टीका
विज्ञप्रिया:
(वि, श) यत्र तु कपोले जानक्या इत्यत्र विलोधिनोः शृङ्गारवीररसयोर्नेदृशो बाध्यबाधकभावस्तत्र तयोः कथं सन्निवेश इत्याशङ्क्य तु वीरशृङ्गारयोर्विरोधं परोक्तं दर्शयति—नन्वाद्य इति ।
आद्यः शृङ्गारः करुणादिभयानकान्तैर्विरुध्यते इति वाक्यान्तरे ।
इत्युक्तनयेन विरुद्धयोः कथमेकत्र वीरशृङ्गारयोः सन्निवेश इत्यन्वयः ।
लोचना:
(लो, ऊ) आद्यः शृङ्गारः ।
कथमेकत्रेत्यस्य उपरिततेनेत्यादौ सन्निवेश इत्यनेन सम्बन्धः ।
“कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः” ॥
इत्यादौ समवेशः ।
टीका
विज्ञप्रिया:
(वि, ष) कपोल इत्यादि ।
श्लोकार्थस्तु रघूणां परिवृढः प्रभुः रामः जानक्या वक्त्रकमलं मुहुः पश्यन् खरदूषणादिरजनिचरसेनाकलकलं शृण्वान् जटाजूटस्य जटासमूहस्य ग्रन्थिं द्रढयति ।
वक्त्रकमलं कीदृशं करिकलभदन्तद्युतिमुषि कपोले स्मरेणजानकीनिष्ठेन रामविषयकस्मरेण स्मेरः हर्षप्रायः स्फारी विस्तृतः उड्डामरो बाहुल्यात् उद्भटः पुलको यस्य तादृशं वक्त्रकमलम् इत्यर्थः ।
अत्र जानकीमुखदर्शनव्यङ्ग्यः शृङ्गारः ।
जटाजुटद्रढनव्यङ्ग्यो वीररसश्च परस्परमबाध्यतम् अनङ्गतां चापन्नौ स्वातन्त्र्येण उपलभ्येति ।
तत् कथमनयोरेकत्र समावेश इत्यन्वयः ।
अत्रोच्यते—इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था ।
कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति ।
तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः ।
तथा हास्यरौद्रबीभत्सैः सम्भोगस्य ।
वीरकरुणरौद्रादिभिर्विप्रलम्भस्य ।
(आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः ।
नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः ।
त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् ।
शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति ।
तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः ।
लोचना:
(लो, ऋ) स्फारो बहुलः उड्डामर उत्कटः ।
परिवृढः प्रभुः ।
त्रिधाप्यालम्बनेत्यादिना कपोले जानक्या इत्यादौ भिन्ने आलम्बने वीरस्य रजनीचरसेना, शृङ्गारस्यजानकीति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः ।
टीका
विज्ञप्रिया:
(वि, स) स्वतन्त्रयोरनेकयोरेकावलम्बनकत्वे एव विरोधः ।
प्रकृते तु जानक्यालम्बनकः शृङ्गारो, रजनीचरालम्बनकस्तु वीररस इत्यविरोध इति समाधास्यन् आह—अत्रेच्यते ।
इह खल्विति ।
नैरन्तर्य्येण अव्यवधानेन ।
तत्र यस्य येन सह विलोधस्तं दर्शयति—तत्र वीरशृङ्गारयोरिति ।
एतानि स्पष्टानि ।
लोचना:
(लो, ॠ) नायकनिष्ठत्वं भयानकस्य प्रतिनायकनिष्ठत्वम् ।
यथा मम—प्रौढामादाय भीतिं मनसि सरभसं प्राप्य लोकापकीर्तिं नैव स्तोकाप्यपेक्षाक्रियत पथि पथि प्राक्तनासु प्रियासु ।
श्रीमन्निः शङ्कभानोः समरपरिसरद्भीम्मनिः सीमसेना- निः शाणस्वानशङ्काकुलमपसरतां पञ्चगौडेश्वेरेण ।
अत्र वीरभयानकयोरेकाश्रयाभावान्न विरोधः ।
यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र “अहो गीतमहो वादित्रम्” इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः ।
एकमन्यदपि ज्ञेयम् ।
टीका
विज्ञप्रिया:
(वि, ह) ननु शान्तशृङ्गारयोर्नैरन्तर्य्ये विरोधश्चेत् कथं नागानन्दे न तथा निबद्धमित्यत आह—यत्त्विति ।
अद्भुतस्येति ।
रसनामनापन्नो ऽद्भुतो अहोशब्दवाच्यो ऽपि अन्तरास्थितो नैरन्तर्य्यविघटक् इत्यर्थः ।
लोचना:
(लो, ऌ) शान्तशृङ्गारयोर्नैरन्तर्य्यविरोधिनोर्न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये विराधः ।
यथा— भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ।
सशोणितैः कव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ।
विमानपर्य्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् निर्द्दिश्यमानान् ललनाङ्गुलिभिर्वोराः स्वदेहान् पतितानपश्यन् ।
अत्र बीभत्सशृङ्गारयोर्वोररसस्यान्तरा निवेशनान्न विरोधः ।
एवमन्येषामपि रसानां परिहारप्रकाराः सत्कविकाव्येषु अनुसर्त्तव्याः ।
“पाण्डुक्षामं वदनम्-” इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भे ऽपीति न विरोधः ।
टीका
विज्ञप्रिया:
(वि, क) ननु परिपन्थिरसाङ्गस्य विभावादेः परिग्रहो दोष इत्युक्तम्, तत्कथम् “पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥
“इत्यादौ शृङ्गारसीये मालतीमाधवीये श्लोके शृङ्गारपरिपन्थिकरुणानुभावस्य वदनपाण्डुतादेः सत्त्वे ऽपि अदुष्टतानुभव इत्यत आह—पाण्डु क्षामम् इति ।
मालतीं प्रति लवङ्गिकाया इयं पृच्छा ।
हे सखि ! तव पाण्डुक्षामवदनादिकं तव हृदन्तः क्षेत्रियरोगम् अस्मिन् क्षेत्रे शरीरे ऽचिकित्स्यं रोगमावेदयतीत्यर्थः ।
क्षामं क्षीणम्, सरसं सस्वेदद्रवम् ।
समाधत्ते—पाण्डुतादीनामिति ।
परिपन्थिमात्रईयत्वे एव दोषः ।
उभयीयत्वे तु प्रकरणसाचिव्यात् प्रकृतसबोधात् न दोष इति भावः ।
लोचना:
(लो, ए) अङ्गभावो ऽनुभावतयेत्यर्थः ।
यदि खलु पाण्डुत्वादीनां विप्रलम्भापेक्षयाधिका करुणाङ्गता भवेत् तदैव दोषः स्यादित्यर्थः ।
इति उक्तप्रकारात् ।
अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥ विस्स्द्_७।३१ ॥
सर्वेषां दुः श्रवत्वप्रभृतीनाम् ।
यथा—
“एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन” ।
अत्र दुश्च्यवनशब्दो ऽप्रयुक्तः ।
टीका
विज्ञप्रिया:
(वि, ख) अनुकारे अनुकरणे ।
एष इति ।
एष कश्चन इत्यन्वयः ।
अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।
अदोषता च गुणता ज्ञेया चानुभयात्मता ॥ विस्स्द्_७।३२ ॥
अनुभयात्मता अदोषगुणता ।
टीका
विज्ञप्रिया:
(वि, ग) इत्यौचित्यात् एवम् औचित्यात्, अदोषता गुणता इति ।
तथादोषतामात्रं पर्यवस्याति ।
अनुभयात्मतां व्याचष्टे—अदोषगुणेति ।
अदोषता अगुणता च इत्यर्थः ।
दोषतागुणतयोर्व्यातिरेको हि न दोषता न गुणता ।
दोषतासहितगुणत्वसत्त्वे ऽपि उभयाभावसत्त्वात् यथा—प्रहेलिकाक्रियाकर्मकर्तृगुप्त्यादौ कष्टार्थतायाः ।
इति श्रीमहेश्वरतर्कालङ्कारभट्टाचार्यकृतायां साहित्यदर्पणटीकायां दोष- निरूपणाख्यसप्तमपरिच्छेदस्य विवरणम् ।
लोचना:
(लो, ऐ) अदोषता “औत्सुक्येन कृतत्वरा"इत्यादिवद् ।
गुणता “क्वाकार्य-“मित्यादिवत् ।
अदोषगुणात्मता “तिष्ठेत् कोपवशा"दित्यादिवत् ।
इति साहित्यदर्पणलोचने दोषनिरूपणो नाम सप्तमपरिच्छेदः ।
इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।