०५

पञ्चमः परिच्छेदः

अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते—

टीका

विज्ञप्रिया:

(वि, क) व्यङ्ग्यभेदात् काव्यभेदस्य उक्तत्वाद् व्यङ्ग्यस्य च व्यञ्जनावृत्तिगम्यत्वाद् व्यञ्जनां पृच्छति—अथ केयमिति ।
अभिनवेति ।
आलङ्कारिकैरेवस्वीकृतत्वेन अभिनवत्वम् ।

लोचना:

(लो, अ) इदानीं समनन्तरोक्तकाव्यभेदद्वयस्य व्यञ्जनाव्यापारसिद्ध्यधीनत्वेन तत्र विप्रतिपत्तिं निराचिकीर्षुः प्रथमं परिच्छेदमारभमाणः प्रथममभिधादिप्राचीनवृत्तिवेद्यत्वनिरासिकां प्रथमकारिकामवतारयति–अथेति ।
का–किं प्रमाणा ।
इयं समनन्तरोक्ता काव्यभेदद्वयस्य साधिका ।
अभिनावा—अशिलशास्त्रार्थतत्त्ववेदिनः काव्यपुरुषस्यावतारात् श्रीमदानन्दवर्धनाचार्यात् प्राचीनैराचार्यैरप्रदर्शिता ।

वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ॥ विस्स्द्_५।१ ॥

टीका

विज्ञप्रिया:

(वि, ख) वृत्तीनामिति—अभिधालक्षणातात्पर्याख्यानां तिसृणां वृत्तीनाम् ।
विक्षान्तेरिति—स्वबोध्यार्थं बोधयतित्वा विरतेरित्यर्थः ।
तुर्या चतुर्थीं ।

लोचना:

(लो, आ) वृत्तिनामिति—तुर्या वृत्तिर्व्यञ्जनध्वननगमनप्रत्ययनादिव्यपदेशविषया ।
रसशब्देनात्रास्वाद्यमात्रस्य ग्रहणम् ।
आदिशब्देन वस्त्वलङ्कारयोः ।
रसस्य प्राधान्यात् प्रथमं निर्देशः ।

अभिधायाः सङ्केतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् ।
न च सङ्केतितो रसादिः ।
नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् ।
यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः ।
क्वचिच्च “शृङ्गाररसो ऽयम्” इत्यादौ स्वशब्देनाभिधाने ऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् ।
अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्घ्यबोधिनी ।

टीका

विज्ञप्रिया:

(वि, ग) व्याचष्टे—अभिधाया इति ।
ननु रसादिरभिधयैव बोध्यताम् इत्यत आहन च सङ्केतित इति ।
ननु विभावादिभिरेव रसादिभावादिः सङ्केतित एव इत्यत्राहन हीति ।
तदैक्यरूप्यं तत्स्वरूपता, विभावादिर्हि नायकादिः, रसश्च तद्व्यक्तेरत्यादिः ।
रसस्याभिधा गम्यत्वे बाधकान्तरमाह—यत्र चेति ।
काव्यान्तर्गतरसादिशब्देनाभिधाने तु न रसादिप्रतीतिरित्याह—क्वचिच्चेति ।
ननु रसादिर्नाभिधया बोध्यताम्, नैयायिकस्वीकृतया तात्पर्याख्यया वृत्त्या बोध्यतामित्यत आह—अभिहितान्वयेति ।

लोचना:

(लो, इ) सङ्केतितो वाच्यार्ऽथः ।
रसादिरपि कथं न सङ्केतित इत्याशङ्क्याह—न चेति ।
कुत इत्याह—न हीति ।
यदि स्यादयमर्थः ।
यदि रसादेः सङ्केतितत्वमुच्यते तत् किं विभावादिवाचकेन शब्देन ? किं स्वशब्देना वा ? नाद्यः, तस्य विभावादिभिर्व्यञ्जनीयत्वात् ।
स्वशब्दाभिधाने च न तस्य प्रतीतिः किन्तु दोष एव ।
स्वशब्दो हि रसशब्दः, शृङ्गारादिशब्दो वा इत्यर्थः ।
“शृङ्गारः सखि ! मूर्तिमानिव मधौ मुग्धो हरिः कीडती"त्यादौ च विभावादिसामग्रयादेव तद्व्यञ्जकत्वम् न तु शृङ्गारादिशब्दस्य ।
संसर्गमात्रेण प्रत्येकं पदैरभिहितान्नामर्थानामित्यर्थः ।

यच्च केचिदाहुः—“सो ऽयमिषोरिव दीर्घदीर्घतरो ऽभिधाव्यापरः” इति ।

टीका

विज्ञप्रिया:

(वि, घ) उभयसिद्धवाच्यार्थस्य बोधिका शक्तिरूपा वृत्तिरेव व्यङ्ग्यबोधिका, यथा धनुर्धरमुक्तेन इषुणा प्रतिसंहितमेकं लक्ष्यं दीर्घेण वेगरूपव्यापारेण भित्त्वा अप्रतिसंहितं लक्ष्यान्तरमपि दीर्गतरीभूतेन तेनैव वेगरूपव्यापारेण भिद्यत इति यत् केषाञ्चिमतम्, यच्च तात्पर्यवृत्तिरेव व्यङ्ग्यबोधिका इति ध्वनिकस्य मतम्, दूषयितुं कदुभयमुत्थापयति—यच्च केचिद् इति ।
सो ऽयमित्यभिधैव व्यङ्ग्यबोधिकेति यत् कैश्चिदुक्तं तत्र सो ऽयमित्यभिधानरूपेषोर्व्यापार इवेत्यर्थः ।

लोचना:

(लो, ई) यच्चेति ।
अयमर्थः–यथा खलु धनुष्मता मुक्तो बाण एकेनैव वेगरूपव्यापारेण शत्रोः कवचादिकमनेकं भिनत्ति, तथैक एव शब्दस्य व्यापारो यावदुद्देश्यं बोधयति ।

यच्चधनिकेनोक्तम्—
“तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः ।
यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, ङ) यच्च ध्वनिकेति—तात्पर्यव्यतिरेकादिति—व्यञ्जकत्वस्य व्यञ्जनायास्तात्पर्याततिरिक्तत्वाद् असौ नं ध्वनिर्न व्यञ्जना, किन्तु तात्पर्यमेवेत्यर्थः ।
यावत्कार्मं यावदर्थबोधनरूपं कार्यम्, तत्रप्रसारित्वात्तात्पर्यम्, न तुलाधारणेन नियमितमित्यर्थः ।

लोचना:

(लो, उ) ध्वनिको दशरूपकर्ता ।
तात्पर्यकार्यमुद्देश्यम्, यदर्थं शब्दप्रयोग इति भावः ।
न तुलया धृतम्; क्वचिन्निरूद्धप्रसरीकृत्य वाक्यार्थबोधनमात्रे व्यवस्थापितम् ।

तयोरुपरि “शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः” इति वादिभिरेव पातनीयो दण्डः ।

टीका

विज्ञप्रिया:

(वि, च) तयोरुपरीति ।
इषुव्यापारवादितात्पर्यवादिनोरुपरीत्यर्थः ।
वाच्यव्यङ्ग्ययोर्युगपद्बोधने तात्पर्यसत्त्वे क्रमशो बोधनानुपपत्तिः, क्रमशो बोधे च तत्सत्त्वे विरम्य व्यापारभाव इत्यर्थः ।
इदं च दूषणं न रुचिरम्; व्यञ्जनावादिनापि क्रमशो बोधाङ्गीकारेण विरम्य व्यापारस्वीकारात् ।
तात्पर्यसत्त्वे वृत्तिभेद एव विरम्य व्यापारः स्वीक्रियते, न तु एकया वृत्त्या इति चेन्न ।
तात्पर्यस्यैव नियामकत्वेन वृत्तिभेदस्याकिञ्चित्करत्वात्; शब्दविरतेश्चोभयत्र साम्यात् ।
तस्मात् क्रमशो बोधेन तात्पर्यग्राहकाभाव एव तयोरुपरि दोषः ।
न च फलमेव तद्ग्राहकमिति वाच्यम्; फलस्य तात्पर्योत्तरभावित्वात् ।
क्रमशो व्यञ्जनया बोधने तु वक्तृबोद्धवायदिवैशिष्ट्यमेव तात्पर्यग्राहकम् ।
न चैवं तद्ग्राहितं तदेवं तात्पर्यं ध्वनिकमते वृत्तिरस्तु, न व्यञ्जनेति वाच्यम् “इत्यत्रातात्पर्यविषयस्य व्यङ्ग्यशृङ्गारस्य अपराङ्गम्, यथा वा “सुरभिमांसं भुङ्क्ष्व “इति सुगन्धिमांसतात्पर्यके वाक्ये धेनुमांसव्यञ्जना ।
दीर्घदीर्घतराभिधावादिमते तु तदभिधाग्राहककोषाद्यभाव एव दोषः, अगृहीतथैवाभिधया व्यङ्ग्यबोधनोक्तिस्तत्प्रमाणाभावेनैव निरसनीया ।

लोचना:

(लो, ऊ) विरम्य व्यापाराभाववादिभिः–अभिहितान्वयवादिभिः ।
किमस्माकमार्द्रकवणिजां वहित्रचिन्तया इत्यर्थः ।

एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः ।

टीका

विज्ञप्रिया:

(वि, छ) अभिधारूपाया वाच्यार्थबोधकवृत्तेर्व्यङ्ग्यबोधकत्वे दोषान्तरमाह–एचञ्चेति ।

लोचना:

(लो, ऋ) एवं च यदि शब्दश्रुतेरनन्तरं यावानर्थो ऽवगम्यते तावति शब्दस्याभिधा एव वायपार इति भावः ।
“लक्षणाऽ; इत्यनन्तरं पृथगिति शेषः ।
तदर्थो लक्षणीयः ।

किमिति च “ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी” इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् ।

टीका

विज्ञप्रिया:

(वि, ज) ननु न अङ्गीकार्यैव लक्षणा इत्यत आह—किमिति चेति ।
कन्येति—अत्र कन्या अदत्ता; तस्या एव गर्भे पितुः शोकात् ।
अत्र हि सम्बोध्यव्राह्मणसन्निहितापरजनस्य तादृशशब्दश्रवणानन्तरं व्राह्मणस्य हर्षशोकावगमात् तच्छब्दीयदीर्घतराभिधयैव तद्वोधसम्भवेन तयोर्वाच्यतापत्तिरित्यर्थः ।

लोचना:

(लो, ॠ) अनुपपत्त्यन्तरमाह–किमिति चेति ।
अयमर्थः–हर्षादयो हि न केनापि वाच्यत्वेनाभ्युपगम्यन्ते, यतो ऽमी वाच्यार्थप्रतीत्या न कियन्ते ।
न खलु शब्दस्य कारकत्वम्, ज्ञापकत्वात्तस्य ।

यत्पुनरूक्तं “पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वे ऽनुपादेयत्वादुन्मत्तवाक्यवत् ।
ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते ।
“यत्परः शब्दः स शब्दार्थः” इति न्यायात्” इति ।

टीका

विज्ञप्रिया:

(वि, झ) यत्परः शब्दः स शब्दार्थः “इति जैमिनिवाक्यमेव व्यङ्ग्यबोधने तात्पर्याख्यवृत्तौ प्रमाणमिति मतं दूषयितुमुत्थापयति—यत्पुनरिति ।
पौरुषेयं लौकिकवाक्यम्, अपौरुषेयं वैदिकवाक्यम् ।
कार्यपरम्—साध्यतात्पर्यकम् ।
ननु कार्यपरत्वे प्रकृते किमायातमित्यत आह—ततश्चेति ।
निरतिशयसुखास्वाद एव कार्यत्वेनानुभूयत इति ।
तथा च सुखास्वादकारणता काव्यवाक्यस्य व्यङ्ग्यबोधद्वारेणैव एतद्वाक्यस्य व्यङ्ग्यतात्पर्यकत्वात् ।
स शब्दार्थ इति ।
जैमिनिवाक्यस्य सशब्दस्य तात्पर्यवृत्तिलभ्योर्ऽथ इतियर्थः ।
काव्यप्रकाशे तु अस्य वाक्यस्य भिन्न एवार्थः कृतः ।
तथा हि–“यत्परो यत्साध्यतात्पर्यकः शब्दः स शब्दस्य प्रामाण्यनियामकोर्ऽथः न तु सिद्धंशे तस्य शब्दस्य प्रामाण्यम्"इति ।
यथा,“गामभ्याज"इत्यत्र साध्यांशो ऽभ्याजनं प्रामाण्यनियामकोर्ऽथो न तु सिद्धगवांशः; यथा वा, “दध्ना जुहोति"इत्यत्र दध्नः करणत्वं पाध्यांशस्तु तथा; न तु वाक्यान्तरतः सिद्धहोमाम्श इति ।

लोचना:

(लो, ऌ) सम्प्रति गुरुमतैकदेशीयस्य, “यत्परः शब्दः स शब्दार्थः “इति वादिनो मतमाशङ्क्य दूषयति—यत्पुनर इति ।
पौरुषेयमित्यादिन्यायादित्यन्तः शङ्कग्रन्थः ।
तत्रेत्यादिना सिद्धान्तः ।
पौरुषेयं लौकिकम् अपौरुषेयो वैदिकम् ।
कार्यमुद्देश्यम् ।
ततश्च यस्मादेवमनुमानमित्यर्थः ।
प्रतिपाद्यो यं प्रति वाक्यं श्राव्यते; प्रतिपादकस्तस्य श्रावयिता ।
कार्यत्वेनावधार्यते इत्यर्थः ।
तस्मान्निरतिशयसुखास्वादरूपो रसादिरूपोर्ऽथः शब्दस्य तात्पर्यविषयो जातः किं वृत्त्यन्तरकल्पनयेति ।
यत्पसे यदुद्देश्यप्रयुक्तः; स शब्दार्थः शब्देनावश्यं बोद्धव्यः ।

तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वे ऽपि तदर्थतानपायात् ।
द्वितीये तु–केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् ।
द्वितीये तु—नाममात्रे विवादः, तन्मते ऽपि तुरीयवृत्तिसिद्धेः ।

टीका

विज्ञप्रिया:

(वि ञ) स्वयं कल्पितार्थे वितर्कयति—तत्र प्रष्टव्यमिति ।
स शब्दार्थ इत्यस्य वाक्यस्य तत्परत्वमर्थः तदेव तत्परत्वं पृच्छति—किमिदमिति ।
तदर्थत्वन्तत्प्रतीतिप्रयोजनकत्वम् ।
तदर्थत्वानपायात्—तत्प्रतीतिप्रयोजनकत्वानपायात् ।
दत्तमेवोत्तरमिति—संसर्गमात्र एव तैस्तात्पर्याख्यवृत्त्यभ्युपगमादित्यर्थः ।
तदन्या वा इति तात्पर्याख्या वृत्तिः संसर्गं बोधयित्वा व्यङ्ग्यार्थमपि बोधयतीति ध्वनिकेन यदुक्तं तच्च प्रागेव दूषितम् ।
ततो ऽन्या वेत्यस्य तात्पर्यभिन्नो ऽतिरिक्तपदार्थ इत्येवार्थः ।
नाममात्रेति—अङ्गीकृतायां तुरीयवृत्तौ, “व्यञ्जना वा तात्पर्यं वा तन्नामऽ; इत्येव विवाद इत्यर्थः ।

लोचना:

(लो, ए) तत्रेति—यदुक्तं पौरुषेयमित्यादि तत्र प्रष्टव्यमित्यर्थः ।
तदर्थत्वं तस्य शब्दस्यार्थत्वम् ।
दत्तमेवोत्तरं तयोरुपरीत्यादिना ।

नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत् ? न, तयोर्हेतुफलभावाङ्गीकारात् ।
यदाह मुनिः–“विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः” इति ।
सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् ।

टीका

विज्ञप्रिया:

(वि, ट) ननु अतिरिक्तपदार्थरूपा तुरीया वूत्तिर्ध्वनिकेन नोच्यते, किन्तु कॢप्ततात्पर्यमेव व्यङ्ग्यबोधकम् ।
तेन च क्रमशो बोधन एव, “शबादबुद्धिकर्मणाम् “इत्याद्युक्तं दूषणं युगपदेव तेन बोध्यतामित्याशङ्कते—नन्विति ।
तात्पर्यशक्त्या तात्पर्यरूपतया वृत्त्या ।
तयोः विभावादिसंसर्गप्रकाशनरसादिप्रकाशनयोरित्यर्थः ।
रसनिष्पत्तिरित्यत्र रसस्य ज्ञाननिष्पत्तिरेव निष्पत्तिः स्वप्रकाशस्य स्वज्ञानाभिन्नत्वात् ।
पञ्चम्या च विभावादिसंसर्गज्ञानस्य कारणताप्रदर्शनात् ।
सहभावेनोत्पत्तौ तद्दर्शितकारणतानुत्पत्तिं दर्शयति—सहभावे चेति ।
सव्येत्ररविषाणे वामदभिणगावादिशृङ्गे ।

लोचना:

(लो, ऐ) नन्विति ।
प्रकाशनमित्यनन्तरं,“तथा सति विरम्यव्यापारो न भविष्यति"इति शेषः ।
अनयैव दिशा प्रतीयमानयोर्वस्त्वलङ्कारयोरपि,“यत्परः शब्दः स शब्दार्थः"इतिन्यायाश्रयेण व्यञ्जनाङ्गीकारो ऽनुपपन्न एव ।
किञ्च, “यत्परः शब्दः स शब्दार्थः"इति न्यायमङ्गीकुर्वतां व्यञ्जनानङ्गीकारे वानीरकुञ्ज इत्यादौ गुणीभूतः प्रतीयमानोर्ऽथः प्रथममवतरन् शब्दस्य तत्परत्वाभावात् कस्य व्यापारस्य विषयतामवलम्बताम् ? ननु तर्हि भट्टनयवत्, “पीनो देवदत्तो दिवा न भुङ्क्ते ।
ऽ; इत्यादौ, “रात्रौ भुङ्क्तेऽ; इत्यादिवदत्रापि व्यङ्ग्यार्थप्रतीतौ वाक्यशेषं कल्पतामिति चेन्न ।
“धर्मिकल्पनातो वरं धर्मकल्पना"इति न्यायाद् व्यापारन्तरकल्पनस्यैव न्याय्यत्वात् ।

“गङ्गायां घोषः” इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता ।
तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् ।

टीका

विज्ञप्रिया:

(वि, ठ) ननु लक्षणामूलव्यञ्जना नाद्रियताम्, एकयैव लक्षणया लक्षयव्यङ्ग्यार्थद्वयं बोध्यतामित्यत आह—गङ्गायामिति ।

लोचना:

(लो, ओ) एवं पूर्वोक्तव्यङ्ग्यानामभिधातात्पर्यावेद्यत्वं निरस्य लक्षणावेद्यत्वं दूषयति—गङ्गायामिति ।
उपसंहरति—तेनेति ।
तेन हेतुना ।

किञ्च—

बोद्धृस्वरूपसङ्ख्यानिमित्तकार्यप्रतीतिकालानाम् ।
आश्रयविषयादीनां भेदाद्भिन्नो ऽभिधेयतो व्यङ्ग्यः ॥ विस्स्द्_५।२ ॥

टीका

विज्ञप्रिया:

(वि, ड) ननु अभिधा लक्षणा च दीर्घतरीभूतैव व्यङ्ग्यार्थं बोधयतु, कुतस्तयोर्विरामः? शब्दस्य विरम्यव्यापारस्तु भवन्मते व्यङ्ग्यबोधन इव स्वीकार्य इत्यतो वैधर्म्यादेव वाच्यव्यङ्ग्यबोधकव्यापारयोर्भेदं साधयति ।
किञ्च—बोद्धृस्वरूपेति—बोद्धा, स्वरूपम्, सङ्ख्या, निमित्तम्, कार्यम्, प्रतीतिः, कालः, आश्रयः, विषयश्चेत्यादीनां च भेदादित्यर्थः ।
एषां भेदं स्वयमेव दर्शयिष्यति ।
भिन्नो ऽभिधेयतो व्यङ्ग्य इति—यद्यपि अभिधाव्यञ्जनयोरेव भेदः प्रदर्शनीयः, तथापि तद्भेदप्रदर्शनेनैव तद्वोधकस्यापि भेदः प्रदर्शित इत्याशयेन इत्थमुक्तम् ।

लोचना:

(लो, औ) व्यङ्ग्यस्याभिधेयत्वे दूषणान्तरमवतारयति—किञ्चेति ।
भेदादित्यस्य बोद्ध्रित्यादौ प्रत्येकमन्वयः ।
तेन बोद्धृभेदात्, स्वरूपभेदात्, सङ्ख्याभेदादित्यादि बोद्धव्यम् ।

वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः ।

टीका

विज्ञप्रिया:

(वि, ढ) तत्र बोद्धृभेदं दर्शयति—वाच्यार्थव्यङ्ग्यार्थयोरिति ।
वाच्यार्थस्य वैयाकरणैर्वेद्यतया, व्यङ्ग्यार्थस्य च सहृदयैरित्येवं यथासङ्ख्यमन्वयः ।
वैयाकरण हि पदस्य पदवाच्यार्थस्य ज्ञानमात्रे निपुणाः, न तु व्यङ्ग्यार्थज्ञाने ।

“भम धम्मिअ–” (२४२ पृ।) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित् “निः शेषच्युतचन्दनम्-” (६२ पृ।) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः ।

टीका

विज्ञप्रिया:

(वि, ण) स्वरूपभेदं दर्शयति—भमेति ।
अत्र भ्रमणविधिर्वाच्योर्ऽथः ।
अभ्रमणं निषेधो व्यङ्गयः ।
निषेधरूपे इति—तदन्तिके ऽगमनं निषेधो वाच्यः ।
तदन्तिके गमनविधिर्व्यङ्ग्य इत्यर्थः ।
विधिरूपे वाच्ये ज्ञाते सति निषेधिरूपतया व्यङ्ग्यो ज्ञायत इत्यर्थः ।
एवमुत्तरत्रापि ।

लोचना:

(लो, अ) “निः शेषच्युतचन्तनम् ऽ; इत्यादौ “गतासीत्"इत्यर्थस्य व्यङ्ग्यत्वमङ्गीकृत्य विधिरूपत्वोक्तिः ।

“गतो ऽस्तकर्कः” इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते ।
व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात् क्वचित् “कान्तमभिसर” इति, “गावो निरुध्यन्ताम्” इति, “नायकस्यायमागमनावसरः” इति, “सन्तापो ऽधुना नास्ति” इत्यादिरूपेणानेक इति सङ्ख्याभेदः ।

लोचना:

(लो, आ) बोद्ध्रादीत्यादिशब्देन वक्तृप्रकरणादयः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः ।
प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः ।

टीका

विज्ञप्रिया:

(वि, त) सङ्ख्याभेदं दर्शयति—वाच्यार्ऽथः इति ।
एष इति—व्यङ्ग्यैत्यर्थः ।
कार्यभदं दर्शयति—प्रतीतिमात्रेति—अभिधाया अभिधेयप्रतीतिमात्रं कार्यम्, व्यञ्जनायास्तु चमत्कारो ऽपि कार्यम् ।

केवलरूपतया चमत्कारितया च प्रतीतिभेदः ।
पूर्वपश्चाद्भावेन च कालभेदः ।
शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसङ्घटनाश्रयत्वेन चाश्रयभेदः ।

टीका

विज्ञप्रिया:

(वि, थ) कालभेदं दर्शयति—पूर्वपश्चादिति ।
आश्रयभेदं दर्शयति—शब्दाश्रयत्वेनेति ।
अभिधायाः शब्दमात्रामाश्रयः ।
व्यञ्जनायास्तु शब्दतदेकदेशवर्णादिः ।

“कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरं ।
सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिम्” ॥
इति सखीतत्कान्तविषयत्वेन विषयभेदः ।
तस्मान्नाभिधेय एव व्यङ्ग्यः ।

टीका

विज्ञप्रिया:

(वि, द) विषयभेदं दर्शयति—“कस्स वा ण होइऽ; इति ।
कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ? सभ्रमरपद्माघ्रायिणि ! वारितवामे ! सहस्वेदानीम् ।
“इति संस्कृतम् ।
उपनायकदष्टाधरां पत्नीं तर्जयन्तं प्रति नायिकासख्याः प्रतारणोक्तिरियम् ।
हे वारितवामे ! वारिते सभ्रमरपद्माघ्राणे वामे प्रतिकूले इत्यापाततः ।
“वारितायामधरदंशपर्यन्तायां रतौ वामेऽ; इति तु गूढम् ।
सहस्वेत्यत्र पत्युस्तर्जनकर्म बोध्यम् ।
सखीतत्कान्तेति—वक्तर्याः सखी नायिका, तत्कान्तस्तत्पतिः ।
तद्विषयत्वेनतज्ज्ञानविषयत्वेन ।
नायिकया हि प्रतीयते इयं प्रतारयतीत्येवं व्यङ्ग्यार्थः ।
तस्मादिति—व्यङ्ग्यार्थो नाभिधागम्य इत्यर्थः ।

लोचना:

(लो, इ) कस्स वा णेति—वारितादर्थाद् वामे प्रतिकूलकारिणि ।
तत्र वाच्यं सखीविषयम्, “भ्रमरेण दष्टधरेयम्, न पुनः परकामुकेनऽ; इति व्यङ्ग्यं तु कान्तविषयम् ।
एवं बोद्धृस्वरूपादिभेदे ऽपि यदि वाच्यव्यङ्ग्ययोरेकत्वं तदा क्वचिदपि नीलपीतादौ नरपुङ्गवादौ भेदो न स्यादित्याशयः ।
ननु गतो ऽस्तमर्क इत्यादिवाक्ये प्रकरणादिरूपज्ञापकान्तरसहायेनैव बोधितस्य कान्तमभिसरेत्यादिव्यङ्ग्यार्थस्य कथं शब्दप्रमाणबोध्यत्वम्, शब्दैकसमधिगम्यत्वाभावाद्, इति चेदत्र केचिदाहुः-यथा शब्दबोधितस्य क्वचिद् वाच्यस्यार्थस्य सत्यासत्यत्वजिज्ञासायां सत्यत्वमनुमानविषय इति शब्दानुमानप्रमाणयोर्भिन्नविषयत्वम् ।
व्यङ्ग्यस्तु एव एव शब्दप्रमाणेन प्रकरणादिबोध्य इति दृष्टान्तदार्ष्टान्ति कयोर्वैषम्यम् ।
तत्र का गतिरिति चेत्—तत्रैवं सङ्गतिः ।
यथा प्रकरणादेर्विष्ण्वाद्यनेकाभिधेयस्यापि हर्याद्यभिधेयावच्छेदकत्वं तथानेकव्यञ्जकस्यापि शब्दस्य एकव्यङ्ग्ये प्रकरणदिसाहाय्यस्येति कर्तव्यतारूपतया शब्दस्याङ्गत्वं स्वाङ्गस्य चाव्यवधायकत्वं न्यायसिद्धमेविति न शब्दप्रमाणव्याकोपः ।
इह च यद्यपि वाक्यार्थस्य प्रतीत्यनन्तरं तस्य सत्यासत्यत्वजिज्ञासायां सत्यत्वं प्रमाणान्तरेणानुमानेनैव बोध्यते, तथापि सत्यासत्यत्वजिज्ञासातः पूर्वमुपपन्नाया वाक्यार्थप्रमाया अप्रमाभावात् शब्दैकसमधिगम्यत्वाच्च न शब्दप्रामाण्यव्याकोपः ।
न हि चक्षुरादिना प्रतीतौ सत्यासत्यत्वप्रत्यक्षप्रामाण्यं व्याकुप्येत ।

तथा—

लोचना:

(लो, ई) तथेति ।
न खलु एतावतैव व्यङ्ग्यानामभिधालक्षणाबोध्यत्वं नास्ति, अपि तु इतरधापीत्यर्थः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे ।
किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ॥ विस्स्द्_५।३ ॥

“न बोधिका” इति शेषः ।

टीका

विज्ञप्रिया:

(वि, ध) रसादिबोधिका न लक्षणा नापि अभिधा सम्भवतीत्याह–प्रागसत्त्वादिति ।
तत्काव्यस्थशब्दजन्यो यो रसस्तस्य शब्दबोधानन्तरमेव जन्यमानत्वात् तत्प्राक् तस्यासत्त्वात् तत्र तत्काव्यस्थशब्दस्य शक्तेर्लक्षणाया वा ग्रहीतुमशक्तत्वादित्यर्थः; प्रागुपस्थिते वस्तुन्येव तयोर्ग्रहणसम्भवात् ।
ननु काव्यात् प्रथममनुभूयमानो यो रसस्तन्निष्ठसामान्यधर्मरूपया सामान्यलक्षणया उपस्थिते भाविन्यपि रसे शक्तिग्रहो ऽस्त्विति चेन्न ।
शक्त्या लक्षणया वा प्राथमिकरसबोधस्यैव तत्सम्भवात् प्राक् तस्यानुपस्थितत्वात् विभावादिवाचकशब्दानान्तत्र शक्तिग्रहकत्वाभावाच्चेत्यपि बोध्यम् ।
नापि कोषग्राहितशक्तिकात् काव्यस्थशृङ्गारादिशब्दात्तद्वोधः, अननुभवात् ।
प्रत्युत तत्सत्त्वे रसादेः स्वशब्दवाच्यतादोषस्यैव वक्ष्यमाणत्वात् ।
अतः शृङ्गारादिशब्दाबोध्यत्वे रसत्वानाप्तेः; किन्तु विभावाद्यभिधानद्वारैव तत्प्रतीतेरानुभाविकत्वात् ननु इह काव्यस्थात् शृङ्गारादिशब्दाज्ज्ञातस्य रसस्य प्रागुपस्थितत्वेन विभावादिवाचकशब्दैर्लणया रसादेर्बोधो ऽस्तु इत्यत आह—किञ्च मुख्यार्थेति ।
लक्षणेत्यस्य शेषाञ्चलं पूर्वतो ऽनुषञ्जयति—न बोधिकेति ।

लोचना:

(लो, उ) प्रागिति ।
अयमर्थः–रसभावादेर्व्यङ्ग्यस्य प्रागसत्त्वाल्लक्षणाभिधे न बोधिके ।
त्रयाणामपि व्यङ्ग्यानां मुख्यार्थबाधविरहादपि न लक्षणा बोधिकेति ।
अपिः पूर्वोक्तसमुच्चये ।

नहि को ऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धो ऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् ।
किञ्ञ्च, यत्र"गङ्गायां घोषः” इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयो ऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।

टीका

विज्ञप्रिया:

(वि, न) ननु रसे ऽपि तात्पर्यसत्त्वाल्लक्षणां विना तदनिर्वाह एव मुख्यार्थबाध उच्यत इत्यत आह–न हीति ।
यदि रसादिशब्दात्तस्य प्रागुपस्थितिस्तदैव तस्य लक्षणया बोधार्थमुक्तरूपमुख्यार्थबाधनिर्वचनं सैव तु नेत्यर्थः ।
रसनात्मको व्यञ्जनात्मको व्यापारो यस्य, एतादृशरसाद् भिन्न एव रसादिप्रतिपाद्य इत्यर्थः ।
बुभूषन्–भवितुमिच्चन् ।
प्रवाहादौ घोषाद्यन्वयः ।

लोचना:

(लो, ऊ) प्रमाणासिद्ध इत्यनन्तरम्, “क्वचिद्"इति शेषः ।

यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः—
“श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः” ॥

टीका

विज्ञप्रिया:

(वि, प) अस्मिन्नर्थे संवादं दर्शयति—तदुक्त्म् इति ।
श्रुतान्वयात्–श्रुतपदार्थयोरन्वयसम्भवात्; अबाधितादन्यत्रानाकाङ्क्षं वाक्यमन्यद्धि नेच्छति नाकाङ्क्षति ।
पदार्थान्वयवैधुर्यात्–पदार्थयोरन्वयासम्भवात् ।
तदाक्षिप्तेन–तदुल्लिखितेन ।
सङ्गतिरन्वय इत्यर्थः ।

लोचना:

(लो, ऋ) श्रुतान्वयादिति ।
अन्यत्—पदार्थान्तरम् ।
नेच्छति नापेक्षते ।
यदि तु “गङ्गायां घोषःऽ; इत्यादौ पदार्थानामन्वयकाल एव बाधप्रतिभासाद्यन्वयस्य विधुरीभावस्तदा तेन पदार्थेन जलमयादिना आक्षिप्तो यस्तटादिस्तेन सङ्गतिरन्वय इत्यर्थः ।

न पुनः “शून्यं वासगृहम्–” इत्यादौ (२२ पृ।) मुखायाथबाधः ।

टीका

विज्ञप्रिया:

(वि, फ) एवम्, “शून्यं वासगृहम्ऽ; ।
इत्यादौ शून्यवासगृहादीनां विलोकनाद्यन्वयाबाधात् न रसलक्षणेत्यह–न पुनरिति ।

लोचना:

(लो, ॠ) ततः किमित्यत आह—न पुनरिति ।
तत्कथं रसादिप्रतीतौ लक्षणा इत्यर्थः ।

यदि च “गङ्गायां घोषः” इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् ।
तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।

टीका

विज्ञप्रिया:

(वि, ब) नन्वेवं रसबोधनार्थमेव व्यञ्जना स्वीक्रियताम्; “गङ्गायां घोषःऽ; इत्यादौ यत् शैत्यपावनत्वं च व्यङ्ग्यमुक्तं तीरलक्षणानन्तरं तत्रापि लक्षणैवास्तु; किं व्यञ्जनया ? इत्याह—यदि चेति ।
प्रयोजनं प्रयोजनीभूतज्ञानाविषयः ।
मुख्यार्थत्वं बाधितत्वं च स्यादिति—उभयमेव तु नास्तीति शेषः ।
प्रयोजनस्य लक्ष्यत्वे ऽनवस्था स्यादित्यत आह–तस्यापीति ।
अनवस्थापात् इत्यत्र अनवस्थापातश्चेत्यर्थः ।

लोचना:

(लो, ऌ) नन्वेवं विवक्षितान्यपरवाच्ये ध्वनौ मास्तु लक्षणा; अविवक्षितवाच्ये तु शीतत्वपावनत्वादिरूपं प्रयोजनं लक्षणीयमस्तित्वत्याशङ्क्याह—यदि चेति ।
शब्दो हि प्रथमं मुख्यमर्थं प्रतिपाद्य तस्य वाक्यार्थान्वयानुपपत्तौ तत्सम्बन्धिनमर्थं लक्षयति ।
इह यदि तीरप्रत्ययानन्तरं बोध्यं प्रयोजनं लक्षयति तदा गङ्गाशब्दस्य तीरं मुख्योर्ऽथः स्यात् ।
तस्य च वाक्यार्थान्वयानुपपत्तिः स्यात् इत्यर्थः ।
प्रयोजनलक्ष्यत्वे ऽनवस्थादोषो ऽपीत्याह—तस्यापीति ।
तस्य तया तक्ष्यतया अङ्गीकार्यस्य प्रयोजनान्तरम्, रूढिप्रयोजनाभावे लक्षणासम्भावादित्यर्थः ।
तस्यापि—द्वितीयप्रयोजनस्य ।
“अनवस्था या मूलक्षतिकारिणी"मूलं ह्यत्र तीरनिष्टस्य पावनत्वस्य च पूर्वपक्षेण लक्ष्यत्वेनाङ्गीकारः ।
तस्येवंविधानर्थमूलत्वेन परित्यागो न्याय्य इति भावः ।

न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा ।
विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् ।
नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा सम्भवः ।

टीका

विज्ञप्रिया:

(वि, भ) ननु लक्ष्यार्थबोधानन्तरं यदि प्रयोजने लक्षणा तदैवानवस्था; शीतपावने तीरे घोष इत्येवं प्रयोजनविशिष्ट एव लक्षणास्त्वित्यत आह—न चापीति ।
तत्र गङ्गातीरे घोष इत्यतो ऽधिकार्थस्य प्रतीतिः प्रयोजनमिति काव्यप्रकाशकृदुक्तं प्रयोजनमनुसन्धेयम् ।
समाधत्ते–विषयप्रयोजनयोरिति ।
पावनत्वविशिष्टतीरलक्षणायां हि लक्षणाविषयस्तीरम्, विशेषणं पावनत्वादि ।
प्रयोजनं—प्रयोजनीभूतज्ञानविषयरूपं पावनत्वादि तयोर्युगपत्प्रतीतिः;–लक्षणायन्यैकप्रतीतिः; तदनभ्युपगमादित्यर्थः ।
ननु तदनभ्युपगमे किं बीजम् ? इति चेत्–लक्षणया यत्पावनत्वविशिष्टं ज्ञानं जनयितव्यं तत्प्रयोजनीभूतं ज्ञानं च तदेव पर्यवसितमित्यतः कार्यकारणयोरभेदापत्तिरेव बीजमिति सर्वत्र तु तयोर्भेद एव दृश्यते इत्याह–नीलादीति ।
नीलादिज्ञानं व्यवसायरूपं कारणम्, तत्कार्यं तु ज्ञातता ।
नैयायिकानां मुरारेश्च मते ऽनुव्यवसायः तादृशकार्यकारणयोश्च क्रमोत्पत्तिरेव इत्यर्थः ।
क्रमिकयोश्च भेद इत्यर्थः

लोचना:

(लो, ए) ननु यदि तटाद्यर्थबोधनाय लक्षणावृत्तिराश्रयणीया, इह चैतद्विशिष्टमेव तटं लक्षणा बोधयतु किं वृत्त्यन्तरेण ? तथा हि गङ्गातादात्म्येन तटप्रत्ययस्तावल्लक्ष्यः, गङ्गातादात्म्यप्रतीत्या च तटस्य दैवसिद्धमेव शैत्यादिविशिष्टत्वमित्याशङ्क्याह–न चापीति—प्रयोजनविशिष्टे ऽपि लक्षणैत्यर्थः ।
कुतः ? इत्याह—

नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् ।
आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ॥ विस्स्द्_५।४ ॥

टीका

विज्ञप्रिया:

(वि, म) व्यक्तिविवेककारमते विभावादिभ्यो रत्याद्यनुमितिरेव रस; न रत्यादीनां व्यञ्जना–इति; तद्दूषयति–नानुमानम् इति ।
रसादीनां रत्यादीनां व्यङ्ग्यानां बोधनक्षमं बोधकारणं नानुमानमित्यर्थः ।
कुतः ? इत्यत्राह–आभासत्वेनेति ।
ग्रन्थकृन्मते हि ज्ञायमानविभावादीनां रत्यादिलिङ्गत्वसम्भवे ऽपि, रामः सीताविषयकरतिमान्; सीतादिविभावादिमत्त्वात् इत्यनुमितिर्न रसः तस्यानन्दस्वरूपत्वाभावेन अनास्वाद्यत्वात्; किन्तु शब्दान्वयव्यतिरेकानुविधायत्वेन व्यञ्जनया शाब्दबोधविषयो रत्यादिर्भावुकैर्भाव्यमानः स्वप्रकाशानन्दमयत्वेन परिणत आस्वाद्यमानो रसः ।
तस्य च व्यङ्ग्यत्वं प्रपानकरसन्यायेन, तच्छरीरप्रविष्टरत्यादेर्वा व्यङ्ग्यत्वादिति ।
तथा च तादृशरसस्य हेतूनां रत्यादिकार्यकारणसहकारिरूपाणां विभावादानामाभासत्वेन नानुमानं नानुमितिरित्यर्थः ।
तथा हि विभावादयः सीतादयो हेतवो मुतुबर्थदिदृक्षादिसम्बन्धेन रामादिवृत्तयः ।
साध्यस्तूक्तरूपो रसः काव्यबोद्धनिष्ठ इत्यतो हेतूनां विरुद्धत्वमसिद्धिश्चेति हेत्वाभासता ।
वृत्तावप्ययमर्थो व्यक्तिर्भविषयति ।
रसादिबुद्धिः स्मृतिरूपापि नेत्याह–स्मृतिर्न च रसादिधीः इति ।
संस्कारजन्यत्वेन रसादिबुद्धिः स्मृतिरूपेति केचिदाहुः ।
तच्च संस्कारजन्यप्रत्यभिज्ञायां व्यभिचारादाभासरूपमेवेत्यग्रे वक्ष्यते ।
वस्तुतस्तु स्वप्रकाशानन्दरूपत्वेनैव न स्मृतिः; तस्या एवम्भावाभावात् ।

लोचना:

(लो, ऐ) एवं व्यङ्ग्यस्यास्य प्राचीनवेद्यत्वं निरस्य महिमभट्टेन खलु रसवस्त्वलङ्कारव्यञ्जकानां वाक्यानामन्तर्भावार्थं यदनुमानं दर्शितं तत्तद्धेत्वाभासदोषेण विधुरीकृतम् ।

व्यक्तिविवेककारेण हि–“यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति ।
विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते” ।
ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति ।
त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यम्भावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतो ऽयमद्याप्यभिव्यक्तिक्रमः” इति यदुक्तम् ।

टीका

विज्ञप्रिया:

(वि, य) व्याचष्टे—व्यक्तिविवेककारेणेति ।
रसादिनिष्ठा रसादिविषया ।
क्वचित्तु, “रसादीनाम्ऽ; इति पाठः ।
तादृशी या विभावादिभ्यः प्रतीतिः सिद्धेत्यर्थः ।
तान् रसादीन्निष्पादयन्तीलि निष्पादनप्रकारमाह—त एवेति ।
त एव अनुमीयमाना रत्यादय एव पुनः पुनरनुशीलनादास्वाद्यपदवीं गताः सन्तो ज्ञानसम्बन्धेन सामाजिकनिष्ठरसतामापद्यन्त इत्यर्थः ।
तत्प्रतीतिक्रम इति—विभावादिज्ञानम्, ततो रत्यनुमितिः, ततः पुनः पुनरनुशीलनम्, तत आस्वाद इत्येवं प्रतीतिक्रम इत्यर्थः ।
आशुभावितया इति ।
रत्याद्यनुमितेर्विभावादिज्ञानानन्तर्यस्याशुभावितया व्यापत्याद्युपस्थित्यधीनानुमितिक्रमो न तक्ष्यत इत्यर्थः ।
किन्तु विभावादिभिरेव रत्यादिर्व्यज्यत इत्यवे भ्रमो जायत इत्याह—यतो ऽयमद्यापीति ।

तत्र प्रष्टव्यम्–किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा ।

टीका

विज्ञप्रिया:

(वि, र) शब्दाभिनयेति—शब्दो विभावादिवाचकः शब्दः, अभिनयो नाट्याभिनयः, सर्मणं ज्ञापनम्, रागो ऽनुरागो रतिः ।
तदिति—पूर्वमेवेदं दर्शितम् ।
स्वप्रकाशानन्दो वेत्यत्रानुमिति इति शेषः ।
अनुमितिविषयस्यैव वितर्क्यमाणत्वात् ।

आद्ये न विवादः, किन्तु “रामादिगतरगादिज्ञानं रससञ्ज्ञया नोच्यते ऽस्माभिः” इत्येव विशेषः ।
द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव ।

टीका

विज्ञप्रिया:

(वि, ल) न विवाद इति ।
रत्यादेरनुमानं व्यञ्जना चेति विवादो नापातत इत्यर्थः ।
तदैवात्र विवादः स्याद् यदा रामादिगतरत्यादिव्यञ्जनं मया रसत्वेनोक्तस्यात्, तदेव तु नेत्याह—किन्त्विति ।
मयोच्यते रामादिगतरत्यादेर्व्यञ्जनम्, ततश्च व्यङ्ग्यरत्यादिरेव सामाजिकरत्यादावभेदेनाऽप्यमाणो रसनाख्यव्यापारेणास्वाद्यमानो रस इति रसनिरूपणप्रस्तावोक्तसिद्धान्तः ।
स एव द्वितीयः पक्षः, तस्यानुमेयत्वासम्भव इत्याह—द्वितीयस्त्विति ।
व्याप्तिग्रहणाभावादिति—विरुद्धहेतौ तद्भावनियमादित्यर्थः ।
इदमुपलक्षणं स्वरूपासिद्धेश्चेत्यपिबोध्यम्, सीतादिविभावादिमत्त्वस्य रामादिमात्रवृत्तेर्न तु सामाजिके ।
ईदृशाभासतामाह—हेतोरिति ।
असिद्ध इत्यस्य द्वितीयः पक्षः विशेष्यम् ।
आभासत्वेन हेतूनामित्यस्य व्याख्यानमिदम् ।

लोचना:

(लो, ओ) हेतोराभासतयेति—“आभासत्वेन हेतूनाम्ऽ; इति कारिकापदार्थः ।
कथं हेतोराभासतेत्याह—व्याप्तिग्रहणाभावादिति ।

यच्चोक्तं तेनैव—
“यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः” इति सुग्रहैव व्याप्तिः पक्षधर्मता च ।

टीका

विज्ञप्रिया:

(वि, व) व्यक्तिविवेककारेण सम्बन्धविशेषणविभावादीनां यथोक्तानन्दरूपसव्याप्यता पक्षधर्मता च साध्यते, दूषयितुं तदप्युत्थापयति—यच्चोक्तमिति ।
सात्त्विकसञ्चारिणामिति—शृङ्गाररसानुमित्यभिप्रयेणोक्तम्, तेषां शृङ्गाररसस्यैव व्याप्यत्वात् ।
क्वचित्तु विभावानुभावसञ्चारिणामित्येव पाठो न सात्त्विकेत्यादिः ।
अभिधानं वाचकः शब्दः, अभिधेयो नाट्याम्, तद्व्यञ्जिका क्रिया, तदुभयमपि स्वविषयबोधाश्रयतासम्बन्धेन रसाश्रयसामजिकवृत्तिरिति व्याप्तिः ।
पक्षर्धमता च सुग्रहेत्यर्थः ।

लोचना:

(लो, औ) अत्र महिमभट्टदर्शितां व्याप्तिं दूषयित्वा व्याप्तिग्रहणाभावं द्रढयति–यच्चेत्यादि ।
पक्षधर्मतेत्यन्तेन ।
तस्मादतः शृङ्गाररसाविर्भाव इति रूपः ।

तया–
“यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।
सैवानुमितिपक्षे नो गमकत्वेन सम्मता” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, श) अस्मिन्नेतस्य कारिकामाह–यार्थान्तरेति ।
अर्थान्तरस्य रसस्याभिव्यक्तौ आस्वादने निबन्धनकारणं वो युष्माकं या सामग्रीष्टा सैव विभावादिरूपा सामग्री नो ऽस्माकं मते गमकत्वेन अनुमापकत्वेन सम्मतेर्यर्थः ।

लोचना:

(लो, अ) भवद्भिरेवंविधा व्याप्तिरन्वेष्टव्येत्यत आह–यार्थेति ।
अर्थान्तराभिव्यक्तौ या सामग्री कारणम् इष्टा सैवास्माकमनुमितौ लिङ्गमित्यर्थः ।
सामग्रीभावे ऽपि हि व्यङ्ग्यार्थप्रतिपत्तौ यतः कुतश्चिदपि यदेव तदेव प्रतीयते ।
एवं व्यङ्ग्यस्य प्रकाशने लिङ्गमवश्यमन्वेष्टव्यम् ।
तस्य व्याप्तिग्रहणं विना आभासतैव स्यादिति भवतामपि व्याप्तिग्रहणं विना व्यङ्ग्यज्ञानं न सम्भवतीति भावः ।
सम्मतेत्यत्रेतिपदस्य यच्चोक्तमित्यत्र सम्बन्धः ।

इदमपि नो न विरुद्धम् ।
न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु–स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः ।
तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता ।

टीका

विज्ञप्रिया:

(वि, ष) दूषयति—इदमपीति ।
अनुमितिर्हि न स्वप्रकाशानन्दरूपा इत्यर्थः ।
निर्भरस्तद्रूपः, तादृश एव सिषाधयिषित इत्यर्थः ।
सिषाधयिषितत्वं चात्र इच्छाविषयत्वमात्रम्, न तु अनुमित्सितत्वम्, रसे ऽनुमित्यभावात् ।
आभासता असिद्धसाधनरूपाभासता ।
इदं दूषणं सौलभ्यादेवोक्तम् ।
वस्तुतस्तु सामाजिके सात्रात्क्रियमाणः स्वप्रकाशानन्दो ऽनुमीयत एव न, अनुमित्साभावात्, न हि तस्य नियमतो ऽनुमित्सा भवति, रसबोधस्तु नियमत एव ।
तथा ज्ञातविभावादिरूपा सामग्री रसाबोद्धुर्जनस्याप्यस्तीति व्यभिचारश्चेति बोध्यम् ।

लोचना:

(लो, आ) सिद्धान्तमाह—इदमपीति ।
इदं महिमभट्टस्य समनन्तरोक्तम् ।
सिषाधयिषितोर्ऽथो रसादेरनुमानान्तर्भावः ।
साधितमर्थान्तरम् ।
तत्र काव्ये शृङ्गारादिरस इत्यादिज्ञानस्यानुमेयत्वम् ।

यच्च “मम धम्मिअ–” इत्यादौ (२४२ पृ।) प्रतीयमानं वस्तु ।
“जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः ।
जगदवतु कोकयूनोर्विघटनसङ्घटनकौतुकी कृष्णः” ॥
इत्यादौ च रूपकालङ्कारादयो ऽनुमेया एव ।

टीका

विज्ञप्रिया:

(वि, स) यत्र वस्तुनो ऽलङ्कारस्य वा व्यञ्जना तत्र वस्त्वलङ्कारौ अनुमानगम्यौ एवेति नैयायिकमतं दूषयितुमुत्थामपयति—यच्चेति ।
यच्च पर्यवस्यतीति दूरेन्वयः ।
उक्तमिति तस्य शेषः ।
तथा च यच्च पर्यवस्यतीत्युक्तमित्यर्थः ।
प्रतीयमानं वस्तु, अभ्रमणम् ।
अलङ्कारव्यञ्जनास्थलं दर्शयति–जलकेलीति ।
जलकेलौ श्रीकृष्णेन स्वीयकरदत्तजलेन राधिकामुखचन्द्रं पुनः पुरभिषिच्य स्वीयकरेण पिधीयते च मुच्यते च ।
ततस्तादृशचन्द्रस्य पिधानमोचनाभ्यां कोकमिथुनस्य सङ्घटनविघटने भवतः ।
पिधाने रात्रौ विरहिणस्तस्य प्रातः कालभ्रमात् सङ्घटनम्, मोचने चन्द्रोदयविशिष्टसन्ध्याकालभ्रमाद् विघटनम् ।
कृष्णस्य तादृशकौतुकवर्णनमितम् ।
पिधानमोचने कृष्णस्यैव करेण नतु राधिकायाछ, तत्करस्य जलकेलितरलत्वे कृष्णमुखस्यैव सिच्यमानत्वसम्भवेन स्वमुखस्य पिधानायोगात् ।
यद् वा–राधिकारेण पिधानमोचनयोरपि जलसेकद्वारा कृष्णकरप्रयोज्यत्वात्तद्द्वारा कृष्टकरेणैव पिधानमोचने ।
इत्यादौ रूपकादय इति ।
अत्र श्लोके मुखे चन्द्ररूपणम् आदिपदद्वयात् श्लोकान्तरे अलङ्कारान्तरमित्यर्थः ।

लोचना:

(लो, इ) एवं रसादेरनुमानागोचरत्वं व्यवस्थाप्य वस्त्वलङ्कारयोरपि व्यङ्ग्ययोस्तद्दर्शयति—यच्चेति ।
चः पूर्वोक्तसमुच्चये ।
पर्यवस्यतीत्यत्र दूरस्थितेन इतिशब्देन मम्बन्धः ।
यदुक्तं महिमभट्टेन तदप्ययुक्तमित्यर्थः ।
किमुक्तमित्याह—जलकेलीत्यादि ।
जलकेलीत्यादौ रूपकालङ्कारः ।
राधिकामुखस्य चन्द्रत्वस्य व्यङ्ग्यत्वाच्चन्द्रदर्शनादर्शनाभायां हि रात्रिसद्भावाभावबुद्ध्या चकवाकयोर्विघनसङ्घटने भवतः ।

तथाहि—“अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् ।

टीका

विज्ञप्रिया:

(वि, ह) तत्र वस्तुरूपं व्यङ्ग्यमुपक्रम्य तस्यानुमेयतां घटयति—तथा हीति ।
लिङ्गिनि साध्ये विषये ज्ञानम् ।

लोचना:

(लो, ई) कथमनुमेय इत्याह—तथाहीति ।
नाम प्राकाश्ये ।
पक्षे पर्वतादौ सपक्षे महानसादौ च विपक्षे जलह्रदादौ व्वावृत्तत्वम् ।
लिङ्गाद् व्याप्याद् धूमादेः लिङ्गिनि व्यापके वह्न्यादौ ।

ततश्च वाच्यादसम्बद्धोर्ऽथंस्तावन्न प्रतीयते ।
अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्सम्बन्धो ऽस्त्येव ।

टीका

विज्ञप्रिया:

(वि, क) लिङ्ग्यस्य त्रिरूपता च साध्यव्याप्तिसत्त्वे एव सम्भवतीति ।
अतस्तान् दर्शयति–ततश्चेति ।
असम्बन्धो ऽव्याप्यः ।
अतिप्रसङ्गाव्यापकस्यापि प्रतीत्यापत्तिः ।
कश्चित्सम्बन्धो व्याप्तिरूपः ।

लोचना:

(लो, उ) अत्र प्रकृते, “भ्रम धार्मिकऽ; इत्यादौ बोध्यार्ऽथो व्यङ्ग्यो बोधको वाच्यः ।

ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव ।
सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये ।
तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति” इति ।

टीका

विज्ञप्रिया:

(वि, ख) बोधकस्य चार्थस्य इति ।
गोदावरीतीरदेशे भीरुणा धार्मिकेण न भ्रमणीयम्, तत्र सिंहसत्त्वादित्यनुमानेन बोधकार्थः सिंहसत्त्वम् ।
सामर्थ्यादिति—अव्यभिचारिसहचारादित्यर्थः ।
पर्यवस्यतीति–यच्च पर्यवस्यतीत्युक्तमित्यर्थः प्रागेव व्याख्यातः ।

लोचना:

(लो, ऊ) बोधकस्य चार्थस्य-लिङ्गरूपस्य दृप्तसिंहसद्भावस्य ।
पक्षे गोदावरीतीरनिकुञ्जरूपे आश्रये सामर्थ्यादवसेय इति न खलु सपक्षसत्त्वविपक्षव्यावृत्तत्वाभावः ।
लिङ्गात्साध्यावगमः स्यात्–लिङ्गिनः साध्यस्य भीरोरभ्रमणरूपव्यङ्ग्यस्य ।

तन्न, तथा ह्यत्र “भम अम्मिअ-” इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति” इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः ।

टीका

विज्ञप्रिया:

(वि, ग) दूषयितुं तदभिमतार्थमनुवदति–तन्न तथा हीति ।
सिंहोपलब्धेरिति–कुलटावाक्योपलब्धसिंहादित्यर्थः ।
अनुमापयतीत्यत्र कुलटा कर्त्रो ।
दूषयतितत्रेति ।
अनैकान्तिको व्यभिचारी ।

लोचना:

(लो, ऋ) दूषयति–तन्नेति ।
तन्न युक्तम् ।
कुतो न युक्तमित्याह–तथा हीति अत्र–गृहे इति ।
अयमर्थः–यस्य खलु भीरोर्गृहे श्वनिवृत्त्या भ्रमणं विहितं स कथं संहोपलब्धिस्थाने भ्रमिष्यति ।
अनैकान्तिकः साध्यव्यभिचारी ।

भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य सम्भवात्, पुश्चल्या वचनं प्रामाणिकं न वेति सन्दिग्धासिद्धेश्च ।

टीका

विज्ञप्रिया:

(वि, घ) व्यभिचारं ग्राहयति—भीरोरपीति ।
प्रियानुरागः सिन्दवद्देशं प्रविष्टप्रियानुरागः ।
हेतोः सन्दिग्धासिद्धिमपि दर्शयति–पुंश्चल्या इति ।
पुंश्चलीवाक्ये प्रामाण्यसन्देहात् ।
पक्षे गोदावरीतीरे हेतोः सिंहसत्त्वस्य सन्देहात् सान्दिग्धासिद्धिरित्यर्थः ।

लोचना:

(लो, ॠ) कुतो ऽनैकान्तिक इत्यत आह—भीरोरपीति ।
प्रियानुरगेण चेत्यनन्तरं भयस्थान इति शेषः ।
पुंश्चल्या वचनम्–भ्रम धार्मिकेत्यादिवचनम् ।
किञ्च य खलु वीरः स्पर्शादिशङ्कया शुनो बिभेति स संहसद्भावस्थानं प्रत्युत मृगयादिकुतूहलेन गच्छतीति दर्शनाद्विरुद्धो भ्रमणरूपसाध्यविरुद्धस्य साधनात् ।

“जलकेलि-” इत्यत्र “य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसङ्घटनकारी स चन्द्र एव” इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् ।

टीका

विज्ञप्रिया:

(वि, ङ) “जलकेलिऽ; इत्यादौ अलङ्कारस्यानुमेयतामपि हेतोर्व्यभिचाराद् दूषयति—जलकेलीत्यत्रेति ।
आत्मा दर्शनीयरूपः ।
उत्त्रासकादाविति ।
उत्त्रासको हि आत्मनो दर्शनादर्शनाभ्यां चक्रवाकसङ्घटनविघटनकारी ।
न चासौ चन्द्र इति व्यभिचारः ।
आदिपदात् सूर्यपरिग्रहः ।
सो ऽपि तथाविधो ऽपि न चन्द्रः ।

लोचना:

(लो, ऌ) उत्त्रासकः–यस्य करतालदानादिनोत्रासेन पक्षिणो न घटन्ते, तदभावे च सङ्घटन्ते ।

“एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्” इत्यनुमाने ऽप्याभाससमानयोगक्षेमो हेतुः ।
“एवंविधार्थत्वात्” इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।

टीका

विज्ञप्रिया:

(वि, च) सामान्यसिद्ध्यव्याप्त्या व्यङ्ग्यस्यानुमेयताप्रदर्शनमपि दूषयितुमाहएवंविधेति ।
आभासमान आभासौ हेतोरुपलभ्यमानो व्यभिचारः कोकत्रासकवृत्तिः स्वदर्शनादर्शनरूपः ।
एवंविधार्थत्वादितिहेतुस्तत्तुल्ययोगक्षेमस्तत्तुल्यव्यभिचारः ।
स हेतुः साध्याभावेन सहचरितत्वेन व्यभिचरतीत्यर्थः ।
तद्दर्शयति—एवंविधार्थत्वादिति ।
एवंविधानिष्टार्थस्येति—तथा च एवंविधार्थव्यभिचारी हेतुरित्यर्थः ।

लोचना:

(लो, ए) योगक्षेम इतिकर्तव्यता आभासस्य; यथा इतिकर्तव्यता कार्यनिष्पादनं तथैवेवंविधार्थत्वादितिहेतोरिति भावः ।
कुत इत्याह—एवमिति ।

तथा “दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-” इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते; तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि सम्भवतीत्यनैकान्तिको हेतुः ।

टीका

विज्ञप्रिया:

(वि, छ) श्लोकान्तरेपि व्यङ्ग्यान्तरस्यानुमेयतां हेतोर्व्यभिचारेण दूषयितुमाह–तथा यद्दृष्टिमिति ।
स्त्रोतोगमनमित्यत्र स्त्रोतोगमनकथनं चेत्यर्थः ।
अत्रेत्थमनुमानम्, इयं परकामुकोपभोगेच्छावती नलग्रन्थिना स्तनदारणसम्भावनासत्त्वे ऽपि स्त्रोतोगमने एकाकिप्रवृत्तत्वाद् इति ।
ग्रन्थकृतस्तु स्तनाघातस्त्रोतोगमनयोः पृथक्कथने ऽप न पृथक् हेतुद्वयम् ।
किन्तु हेतुविशेषणमेव तद्द्वयं बोध्यम् ।
हेतोर्व्याभिचारं दर्शयति—स्वकान्तेति ।
अपिकारात् तद्भयेनापीति बोध्यम् ।

लोचना:

(लो, ऐ) इममेवाभिमतमर्थमुदाहरणेष्वपि हेत्वाभासं दर्शयन् द्रढयतितथेति ।
हेतुर्वाच्यार्ऽथः ।

यच्च “निःशेषच्युतचन्दनम्–” इत्यादौ ( ६२ पृ।) दूत्यास्तत्कामुकोपभोगो ऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसन्निहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः ।

टीका

विज्ञप्रिया:

(वि, ज) निः शेषच्युतेत्यादावपि दूत्यास्तत्कामुकोपभोगस्य व्यङ्ग्यस्यानुमेयतां दूषयितुमाह—यच्चेति ।

आद्ययोर्न विवादः ।
तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः ।

टीका

विज्ञप्रिया:

(वि, झ) आद्ययोर्न विवाद इति—दूतिकर्तृकमनुमानं तावन्न सम्भवत्येव, तस्यास्तदुपयोगस्य प्रत्यक्षसिद्धत्वेन सिद्धसाधनात् ।
तत्काले सन्निहतजनस्तु यदि न व्यङ्ग्यबोद्धा तदा तस्यानुमानमपि नास्तीत्यतस्तत्रापि नविवादः ।
यदि तु व्यङ्ग्यबोद्धा तदा तृतीयपक्षे एवान्तर्भाव इत्यर्थः ।
सामाजिकबोधविषयस्यैव तदास्वाद्यस्य मया विचार्यत्वेन तत्रैवानुमेयत्वादनुमेयत्वविवादात् ।
तदनुमेयतां दूषयति—तृतीये त्विति ।
तथाविधाभिप्रायो दूत्यास्तत्कामुकोपभागोभिप्रायः ।
तद्विरहेणेक्तस्य चन्दनच्यवनादेरुपभोगव्याप्यता नास्तीति तत्रैव व्यभिचार इत्यर्थः ।

लोचना:

(लो, ओ) न विवाद इति—न खलु वयं दूत्यास्तत्कलसन्निहितानां वानुमानं निराकुर्मः ।
तथाविधेति—न खलु, “निः शेषच्युतचन्दनम्ऽ; इत्यादिप्रतिपादिकाया अभिप्रायः केनचिन्निश्चिततया विषयीकृतैत्यर्थः ।

ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् ।

टीका

विज्ञप्रिया:

(वि, ञ) स्नानादिव्यावृत्तचन्दवनादेर्विशेषणदानेन व्यभिचाराभावोक्तिं दूषयितुमाह—वक्त्राद्यवस्थेति ।
वक्त्र्यवस्थादिरित्यर्थः ।
आदिपदात् स्तनाकर्षणचुम्बननखक्षतपरिग्रहः ।
अवस्था तु रतिक्तिष्टत्वम् ।
तथा च तादृशावस्थादिसहकृतत्वेन चन्दनच्यवनादिहेतुर्विशेषणीय इत्यर्थः ।

लोचना:

(लो, औ) नन्विति—वक्त्री यादृशीमवस्थां प्राप्य तथोक्तवती सावस्था हेतोर्विशेषणीकर्तव्येत्यर्थः ।

एवंविधव्याप्त्यनुसन्धानस्याभावात् ।

टीका

विज्ञप्रिया:

(वि, ट) समाधत्ते–एवंविधेति ।
एवंविधविशेषणघटितव्याप्त्यनुसन्धानस्येत्यर्थः ।
न हि श्लोके तादृशविशेषणमस्ति ।
व्याप्त्यादिपदादीदृशविशिष्टहेतुपरिग्रहः ।

किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन सन्दिग्धासिद्धत्वं हेतोः ।

टीका

विज्ञप्रिया:

(वि, ठ) तत्रापि हेतोः सन्दग्धत्वमपि दर्शयति—किञ्चेति ।
प्रामाण्यानावश्यकत्वेनेति–वक्त्र्या चन्दनच्यवनाद्यकथने ऽपि सम्भाव्यैव कवेस्तदुक्त्यनुवादसम्भवादित्यर्थः ।
कव्यनूदितवाक्यलब्धचन्दनच्यवनादिना हि सामाजिकैः सम्भोगो ऽनुमातव्यः ।
तच्चन्दनादिकं वक्त्रयुक्तमनुक्तं वेति सन्देहात्सन्दिग्धमित्यर्थः ।

लोचना:

(लो, अ) किञ्चेति—सन्दिग्धासिद्धत्वम्—न खुल कविः सिद्धमेवार्थंवर्णयति ।

व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् ।

टीका

विज्ञप्रिया:

(वि, ड) ननु व्यभिचारिण सन्दिग्धेन वा चन्दनच्यवनादिना कथमुपभोगस्य भवन्मते व्यञ्जनापीत्यत आह—व्यक्तिवादिना चेति ।
व्यञ्जनावादिनेत्यर्थः ।
फलबलेन व्यञ्जकत्वसिद्धेस्तथोक्तमित्यर्थः ।
न ह्यनुमान इव व्यञ्जनायामपि व्यभिचारादिकमङ्गमिति भावः ।
अनुमानपक्षे अधमसनिनहितप्रेषितत्वे सतीति विशेषणदानमपि न सम्भवतीत्याह—तेन चेति ।
तेन अधमपदेन उक्तमधमत्वमित्यर्थः ।
इदमुपलक्षणम् ।
अधमत्वस्य प्रामाणिकत्वेपि तस्य दूतीगमनेच्छारादित्ये सति तावताप्यनुमानासम्भव इत्यपि बोध्यम् ।

लोचना:

(लो, आ) व्यक्तिवादिना व्यञ्जनाव्यापारस्थापनार्थमुद्युक्तेन ।
अधमपदं न पुनस्तस्याधमस्यान्तिकमित्यत्र स्थितम् ।

एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् ।
अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः ।

टीका

विज्ञप्रिया:

(वि, ढ) व्यङ्ग्यानामर्थापत्तिवेद्यत्वमपि खण्डयति—एतेनार्थापत्तिरिति ।
व्याप्तिच्छायां व्याप्तिरीतिमव्यभिचरितसहचारमित्यर्थः ।

लोचना:

(लो, इ) एतेनेति–एतेनानुमानेहत्वाभासदर्शनेन ।
कुतः ? इत्याह— अर्थापत्तेरपीति ।
पूर्वगृहीतां व्याप्तिच्छायाम् ।

यथा “यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः” इत्यादि ।

टीका

विज्ञप्रिया:

(वि, ण) तादृशं सहचारं दर्शयति–यो जीवतीति ।
तमुपजीव्य प्रवृत्तामर्थापत्तिं दर्शयति–जीवति चेति ।
तस्मादेतद्गोष्ठीभिन्नस्थले ऽस्तीत्यर्थापत्तिलभ्योर्ऽथः ।
तथा च दर्शितोदाहरणेषु हेतोर्व्यभिचारेण व्याप्तिच्छायोपजीवनासम्भवान्नार्थापत्तिरिति भावः ।

लोचना:

(लो, ई) यदि खलु पूर्वं जीवतः कुत्रापि स्थानमवगच्छेत् ।
अर्थपत्तिस्वरूपं हि–दृष्टः श्रुतो वा अन्यथा नोपपद्यते इति, तदर्थकल्पनमर्थापत्तिरिति ।
तद्भट्टा विवृण्वते–दृष्ट इति ।
प्रत्यक्षानुमानोपमानार्थापत्त्यभावलक्षणः पञ्चभिः प्रमाणैरुपलब्धः शब्दस्य च प्राधान्यख्यापनार्थं भेदेन निर्दिशति–श्रुत इति ।
श्रुत इति शब्दलक्षणेन ज्ञातोर्ऽथोर्ऽथविशेषो ऽन्यथा नोपपद्यत इति ।
शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यत इति दर्शनात् ।
“पीनो देवदत्तो दिवा न भुङ्क्तेऽ; इत्यत्र रात्रौ भुङ्क्ते इति वाक्यशेषः कल्प्यते ।
प्रभाकरगुरुस्त्वाह–दृष्टः श्रुतो वेति ।
लौकिकीयमनास्थोक्तिः ।
ततो लोकप्रसिद्ध्योपलब्धिमात्रे वर्तते, न तु विकल्पप्रतिपादन इति ।
शब्दो हि कल्प्यतेर्ऽथप्रतीत्यै विप्रकृतसाधनं तद्वरम् अर्थे एव कल्प्यतामिति ।
तेन भट्टमते श्रुतार्थापत्तौ, रात्रौ भुङ्क्ते ।
इति शब्दः कल्पते ।
गुरुमते तु अर्थापत्तौ रात्रिभोजनमर्थ एव ।
एवमत्र वाक्यविशेषः कल्प्यताम्, मैवम् ।
गुरुमते तु अर्थापत्तौ रात्रिभोजनमर्थ एव ।
एवमत्र वाक्यविशेषः कल्प्यताम्, मैवम् ।
पीनो देवदत्त इत्यादौ रात्रिभोजने, जीवंश्चैत्रो ऽत्र गोष्ठ्यां न विद्यत इत्यत्र कुत्राप्यवस्थाने पूर्वानुभव्याप्तिमुपजीव्यैवार्थापत्तेः प्रवृत्तिरिति ।
व्यङ्ग्यानामनुमानाविषयत्वेन नार्थापत्तिविषयत्वमिति भावः ।
व्याप्तिश्च साहचर्यनियमः ।
व्याप्तिशरीरं दर्शयति-यथेति ।

किञ्चि—वस्त्रविक्रयादौ तर्जनीतोलनेन दशसङ्ख्यादिवत्सूचनबुद्धिवेद्यो ऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् ।

टीका

विज्ञप्रिया:

(वि, त) सूचना नाम कश्चिद् व्यापारः कैश्चिदुच्यते तद्गम्य एव व्यङ्ग्यार्थः इति मतं दूषयितुमाह—किञ्चेति ।
दशसङ्क्यादिवदिति—दशसङ्ख्यादिर्यथा तर्जन्यादितोलनाधीनसूचनाबुद्धिगम्यस्तथा व्यङ्ग्यार्थो ऽपीत्यर्थः ।
सूचनाप्यनुमितावन्तर्भवतीति सिद्धान्तयति—सूचनाबुद्धेरपीति ।
अनुमानप्रकारता अनुमितस्वरूपता ।
तथा च यद्यङ्गुलितोलनादौ व्यभिचारशङ्का न भवति तत्रानुमानम् ।
चन्दनच्यवनादौ तु व्यभिचारग्रहात् सम्भोगादिबुद्धिव्यञ्जनाधीनैवेति भावः ।

लोचना:

(लो, उ) अधुना व्यङ्ग्यानामनुमानाविषयत्वेन चेष्टाप्रमाणाविषयत्वमपीत्याह–किञ्चेति ।
अयं —व्यङ्ग्यः ।
सङ्केतादिलौकिकप्रमाणासापेक्षत्वेनेत्यनेन यत्र यत्रां र्ध्वतर्जनी तत्र तत्र दशंसख्येति पुनर्गृहीतव्याप्तिरुरस्कारवचनम् ।

यच्च “संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः” इते केचित् ।
तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।

टीका

विज्ञप्रिया:

(वि, थ) रसादिबुद्धेः स्मृतिरूपत्वं संस्कारजन्यत्वेनानुमन्यमानानां मतं दुषयितुमाह—तत्रापीति ।
इदं चापातत एव; सर्वंशे संस्कारजन्यत्वस्य हेतोख्यभिचारात् ।
किन्तु स्वप्रकाशानन्दस्वरूपस्य रसस्य स्मृतीत्वासम्भव एव दोषः ।

लोचना:

(लो, ऊ) स्मृतिर्न च रसादिधीः इतिकारिकापदार्थं विशदयति–यञ्चेति ।
अनैकान्तिकत्वं सो ऽयं देवदत्त इत्यादिज्ञानरूपायाः प्रत्यभिज्ञाया अपि संस्कारजन्यत्वात्

“दुर्गालङ्घित-” इत्यादौ (५९ पृ।) च द्वितायार्थो नास्त्येव—इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव ।

टीका

विज्ञप्रिया:

(वि, द) द्वितीयार्थो महेशरूपो नास्त्येवेति—बुद्धिविषयो नास्त्येवेत्यर्थः अपलपत इत्यस्य, उपरि, इति शेषः ।
गजनिमीलिकावज्ञा ।

लोचना:

(लो, ऋ) गजनिमीलिकैवेति–पर्यालोचनं विनापि लोकापवादशङ्कया मत्तगजवच्चक्षुषी निमिल्य वचनमित्यर्थः ।

तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् ।

लोचना:

(लो, ॠ) एतद् विविच्योक्तमत्रैव द्वितीयपरिच्छेदे ।
उपसंहरति–तदेवमिति ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।

लोचना:

(लो, ऌ) न च शब्दसमर्पितस्य विभावादेर्ज्ञानस्यैव रसादेर्जनकत्वात् काव्यमत्र साक्षान्न हेतुत्वेन व्याप्रियत इति वाच्यम्; स्वाङ्गमव्यवधायकमितिन्यायेन विभावाद् विभावनस्यावान्तरव्यापारीकारणेन काव्यस्यैवास्वादो भावकत्वात् यथा स्वार्थस्य ज्ञानद्वारेण तत्संसर्गं भावयतां पदानामेव करणत्वाभायुपगमो भट्टनैयायिकादीनाम् ।
किञ्च सद्वारकरणम् इति न्यायेनान्तरालवर्तिव्यापारान्तरविरहादसम्भाव्यं विभावादिसंवलनज्ञानस्यास्वादं प्रति कारणत्वम् ।
नन्वेवं व्याप्त्याद्यनुसन्धानमन्तरेणाकस्माद् वाच्यार्थस्यावगतौ कथं नातिप्रसङ्ग इत्याशङ्क्याह–इयं चेति ।
उत्पत्तिमन्तरेणापि अनुभवसिद्धाया व्यङ्ग्यार्थप्रतीतेरन्यार्थोपपत्त्यैव ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

तत्किन्नामिकेयं वृत्तिरित्युच्यते—

सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः ।
रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ॥ विस्स्द्_५।५ ॥

एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् ।

टीका

विज्ञप्रिया:

(वि, ध) रसव्यञ्जनाया रसनेत्यपि नाम केचिदाहुरित्याह—रसव्यक्तौ पुनरिति ।
रसवृत्तौ रसबोधकवृत्तावित्यर्थः ।
इत्थं व्यङ्ग्यार्थबोधस्य मानसबुद्धिरूपत्वमात्रं न दूषितम् ।
तत्रायमभिप्रायः—मनसस्तावद् बाहः स्वातन्त्र्यमेव नास्ति ।
स्मृत्युपनयसहकारेण बोधनं तु व्यङ्ग्यार्थस्य पूवानुभवाभावेन स्मरणासम्भावनयैव निरस्तम् ।
नह्युक्तानन्दरूपो रसो दूत्यादेः कामुकसम्भोगादिरूपोर्ऽथो वा पूर्वमनुभूतः ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यकृतायां साहित्यदर्पणटीकायां पञ्चमपरिच्छे

लोचना:

(लो, ए) व्यञ्जनाव्यापारकल्पनं श्रीश्रीमदानन्दवर्धनाचार्यस्येतिभावः ।
रसस्य रसनव्यापारप्रकाशत्वं स्मारयति–रसनेति ।
रसनिरुपणप्रस्तावे, सत्त्वोद्रेकाद् इत्यादिकारिकाव्याख्यायाम् ।
सर्वम्–व्यञ्जनाव्यापारस्थापकं प्रमेयजातम् ।

इति साहित्यदर्पणलोचने व्यञ्जनाव्यापारस्थापनो नाम पञ्चमः परिच्छेदः

इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः ।