चतुर्थः परिच्छेदः
अथ काव्यभेदमाह–
लोचना:
(लो, अ) एवं काव्यस्य स्वरूपमुक्त्वा विशेषं निरूपयितुमवतारयति–अथेति—भिद्यते अनेनेति भेदः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।
तत्र—
वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ॥ विस्स्द्_४।१ ॥
वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यते ऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।
टीका
विज्ञप्रिया:
(वि, क) काव्यलक्षणे कृते तदेव काव्यं कतिविधमित्याकाङ्क्षायामाह—काव्यं ध्वनिरित्यादि ।
ध्वन्यते ऽस्मिन्निति–ध्वन्यते व्यज्यते व्यङ्ग्यार्थः शब्दादिना अस्मिन् काव्ये इत्यर्थः ।
लोचना:
(लो, आ) वाच्येति—वाच्यादतिशयस्तात्पर्याविषयत्वात् ।
भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्यो ऽन्यो विवक्षितान्यपरवाच्यश्च ॥ विस्स्द्_४।२ ॥
लोचना:
(लो, इ) लक्षणाभिधा च मूले कारणेर्ऽथाद् व्यङ्ग्यात् व्यञ्जने ययोः ।
यस्य ध्वनेः व्यङ्ग्यार्थरूपोपाधिलक्षणाभिधामूलत्वेन द्वैविध्यप्रतिपादनाम् तदुपाधिकस्य काव्यस्य द्वैविध्यम् ।
ध्वनिशब्दो ह्यनेकार्थः, तथा हि ध्वन्यत इति ध्वनिः, शब्दादिगता शक्तिः ।
ध्वननं ध्वनिः रसादिप्रतीतिः ।
ध्वन्यते अस्मिन् इति ध्वनिः काव्यम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।
लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।
विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।
अन्यपरं व्यङ्ग्यनिष्ठम् ।
अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।
यथा—प्रदीपो घटस्य ।
अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।
अविवक्षितवाच्यस्य भेदावाह–
टीका
विज्ञप्रिया:
(वि, ख) लक्षणामूलाभिधामूलयोर्यथासङ्ख्यं स्वरूपमाह—अविवश्रितेति—व्याचष्टे—तत्रेति ।
अविवक्षितमिति—वाच्याविवक्षायां बीजमाह—बाधितस्वरूपमिति—वाच्यतावच्छेदकरूपेण विवक्षाभावात् तेन रूपेण बाधो विशिष्टाभावरूपः ।
तेन अजहत्स्वार्थात्मिकायाम् उपादानलक्षणायां वाच्यस्याबाधे ऽपि वाच्यतावच्छेदकरूपेण तद्वाधःष जहत्स्वार्थायां तु अर्थयोरेव बाधः ।
वाच्यं विवक्षितमिति—वाच्यतावच्छेदकरूपेण बोध्यम् ।
व्यङ्ग्यनिष्ठमिति—व्यङ्ग्यनिष्ठा तात्पर्यपर्याप्तिर्यस्य तादृशम् ।
लोचना:
(लो, ई) अन्यपरमिति कारिकापदार्थो व्यङ्ग्यनिष्टमिति भावः, व्यङ्ग्ये निष्टातात्पर्यं यस्य वाच्यार्थस्य, एतेन गुणीभूतव्यङ्ग्यव्यवच्छेदः ।
अत्र हीति—अयमाशयः, अविवक्षितवाच्ये लक्ष्योर्ऽथः स्वरूपं प्रकाशयन् व्यङ्ग्यार्थं प्रकाशयति, तत्र लक्षणामूला व्यञ्जना ।
इह तु वाच्योर्ऽथः तथा इत्यभिधामूला ।
अर्थन्तरं सङ्क्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्यो ऽपि ध्वनिर्द्वैविध्यमृच्छति ॥ विस्स्द्_४।३ ॥
अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति,
लोचना:
(लो, उ) सङ्कमिति इति — योगकाक्वादिसाहाय्यसूचनं वाच्ये इति काकाक्षिन्यायेनोभयत्र सम्बध्यते ।
अनुपयुज्यमानत्वमर्थात् स्वरूपमात्रेण सङ्कमिते इति कारिकापदार्थः ।
परिणमतीति—परिणामश्च तत्त्वादपरिच्युतस्य धर्मिणो ऽवस्थान्तरगमनम् ।
जाड्याद्यतिशयः स्वशब्दाभिधानालभ्यः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा—
टीका
विज्ञप्रिया:
(वि, ग) भेदावाहेति—वाच्येर्ऽथेर्ऽथान्तरमवच्छेदकान्तरं सङ्क्रमिते प्रापिते अर्थाद्वोद्धुर्ज्ञाने इत्यर्थः ।
अत्यन्तं तिरस्कृत इति—वाच्यार्थस्यावच्छेदकान्तरेणापि अविवक्षणात् अत्यन्तं तिरस्कारः, तत्रार्थान्तरसङ्क्रमितवाच्यं व्याचष्टे—मुख्यार्थस्येति ।
“कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।
भुवत्रितये ऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः” ॥
अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।
जाड्याद्यतिशयश्च व्यङ्ग्यः ।
टीका
विज्ञप्रिया:
(वि, घ) कदली कदलीत्यादि ।
चमूरुदृशः हरिणेक्षणायाः ऊरुयुगं भुवनत्रितये ऽपि कस्यापि तुलां सादृश्यं न बिभर्त्तोत्यर्थः ।
तथा च तेन कस्यापि सादृश्याधारणात् को ऽपि तदुपमानं न अस्तीत्यत्राह—कदलीति ।
कदली रम्भा करभः ऊर्वाकारः पणिपार्श्वभागः"मणिबन्धादाकनिष्ठं करस्य करभो बहिः “इति कोषात् ।
करिराजस्य हस्तिश्रेष्ठस्य करः, सुण्डा, एषु उद्देश्येषु द्वितीयकदल्यादिपदानां पौनरुक्त्यात् तदर्थानां विधेयत्वासम्भवात् तानि पदानि जाड्यादिविशिष्टकदल्यादिपराणि ।
पदेभ्यः कदल्याद्यंशप्राप्तौ जाड्यादिवैशिष्ट्यमात्रे द्वितीयकदल्यादिशब्दानां लक्षणा ।
ततः कदली जाड्या करभो ऽशोभनः करिराजकरः कर्कश इत्यर्थः ।
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
लोचना:
(लो, ऊ) अत्यन्ततिरस्कृत इति कारिकापदार्थं विवृणोति—यत्र पुनरिति–अत्र परिणमतीत्युपचारपदप्रयोगः तेन प्रवर्तते इत्यर्थः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
यथा—
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधिते ऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।
अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसङ्क्रमितवाच्यत्वम् ।
टीका
विज्ञप्रिया:
(वि, ङ) निः श्वासान्ध इति ।
निः श्वासेन अन्धः आदर्श इव चन्द्रमा न प्रकाशते न दीप्यते ।
अत्राचेतनस्य आदर्शस्यान्धत्वबाधात् लक्ष्यार्थमाह–अत्रेति ।
तथा च निः श्वासेन अप्रकाश आदर्श इवेत्यर्थः ।
ननु शक्यतावच्छेदकभिन्नेन अप्रकाशत्वेन रूपेण बोधनात् कथं नेयमर्थान्तरसक्रमितवाच्यलक्षणा इत्यत आह—अन्धत्वाप्रकाशत्वयोरिति—शक्यतावच्छेदकं सामान्यं लक्ष्यतावच्छेदकं यदि तद्विशेषो भवेत् तदा एव अर्थान्तरसङ्क्रमिति वाच्यलक्षणा ।
यथा घटपदस्य नीलघटपदत्वे अत्र तु लक्ष्यतावच्छेदकमप्रकाशत्वमेव सामान्यम् ।
अन्धत्वमेव तद्विशेष इति अतो न तथा इति भावः ।
इदं तु प्रायिकमेव न सार्वत्रिकं “रामो ऽस्मि सर्वं सहे “इत्यत्र दुः खसहिष्णुत्वरामत्वयोः करभः करभः इत्यत्र शोभाराहित्यकरभत्वयोश्च तथात्वाभावात् ।
किन्तु अत्रान्धत्वरूपस्वार्थपरित्यागादेव न तथात्वमिति बोध्यम् ।
लोचना:
(लो, ऋ) अन्धत्वेति—अयमाशयः, न ह्यत्रार्थस्याप्रकाशत्वं विशेषः,
यथा—
भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥
टीका
विज्ञप्रिया:
(वि, च) भम धम्मिअ इत्यत्रापि विपरीलक्षणाभ्रमं केषाञ्चित् निरसयितुमाह—भमेति ।
भ्रम धार्मिक विश्वस्तः स श्वाद्य मारितस्तेन ।
गोदानदीकच्छकुञ्चवासिना दृप्तसिंहेन ॥
इति संस्कृतम् ।
गोदावरी नदी तत्तीरे कुञ्जे कृतङ्केतायाः तत्रैव प्रतिदिनं पुष्पावचयनेन तत्सङ्केतभञ्जकं स्वपोषितकुक्कुरोपद्रवेणापि अनिवृत्तं धार्मिकं प्रति उत्किरयम् ।
स श्वा तव उपद्रावकः कुक्कुरः ।
अत्र “भ्रम धार्मिक–” इत्यतो भ्रमणस्य विधिः प्रकृते ऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।
यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।
टीका
विज्ञप्रिया:
(वि, छ) भ्रमणविधिः प्रकृते अनुपपद्यमानतया इति—सिंहवत्त्वेन कथिते स्वसङ्केतस्थले भ्रमणोपदेशस्य बाधितार्थकत्वात् निवृत्तीच्छया उक्तवाक्यस्य प्रवर्त्तकत्वानुपपत्तेश्च निषेधे पर्यवस्यतीति विपरीतलक्षणयेति शेषः ।
उत्पद्यमानावेवेति—वाक्यार्थबोधोत्पत्तिदशायाम एव इत्यर्थः ।
तद्दशायां क्वचित् विधिः निषेधे क्वचित् निषेधो विधौ पर्यवस्यतीत्यर्थः ।
तत्र तद्दशायां विधेः निषेधे पर्यवसानं यथा— औन्निद्षं दौर्बल्यं चिन्तालसत्वं सनिः श्वसितम् ।
मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥
इत्यत्र नायिकायाः सोल्लुण्ठवाक्ये मम कृते इति विधेः न मम कृते इति लक्षणया पर्यवसानम् ।
निषेधस्य विधौ पर्यवसानं यथा—“मा पथिक रात्र्यन्ध शय्यायामावयोर्निमङ्क्षासि “इति स्वयं दूतिकाया उक्तौ स्वशय्यायां गमननिषेधस्य स्वशय्यायामागमनविधौ लक्षणया पर्यवसानम् ।
यत्तु निः शेषच्युतचन्दनमित्यादावपि तदन्तिकगमननिषेधस्य तदन्तिकगमनविधौ लक्षणया पर्यवसानमिति ग्रन्थकृता पूर्वमुक्तं तन्न रुचिरम्, तत्र भ्रम धार्मिक इत्यादाविव प्रथमं वाच्यनिषेधस्यैव बोधात् उत्तरकालमेवाधमत्वोक्तेश्च्युतनिर्मृष्टपदग्रीष्मकालपुलककथनात् तात्पर्यपर्यालोचनया एव तदन्तिकगमनविधेः व्यञ्जनयैव प्रतीयमानत्वात् ।
अत एव काव्यप्रकाशकृता तत्र तदन्तिकगमनविधेः व्यङ्ग्यत्वमेवोक्तम् ।
लोचना:
(लो, ॠ) उत्पत्स्यमानावेवेति–अनन्तरमनुपपद्यमानान्वयसिद्ध्यर्थमिति शेषः ।
तदवसरस्तस्या विपरीतलक्षणाया अवसरः ।
यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
तदुक्तम् —
टीका
विज्ञप्रिया:
(वि, ज) तत्र ध्वनित्वमेवेति—व्यङ्ग्यत्वमेवेत्यर्थः, न तु लक्ष्यत्वमेवेत्यर्थः ।
ध्वनिकाव्यं तु गमनलक्षणायामपि रमणव्यञ्जनया अविहतमेव ।
तद्वत् इहापि प्रथमं भ्रमणविधिः शक्त्यैव प्रतीयते ।
पश्चादेव तस्याः कुलटात्वस्य प्रकरणादिना प्रतीतौ भ्रमणनिषेधो व्यञ्जनयैव प्रतीयते, इत्यतो ऽत्र विपरीतलक्षणाशङ्का न कार्या इत्यर्थः ।
लोचना:
(लो, ऌ) विधिनिषेधयोरित्यत्र पूर्वमन्वयानुपपत्त्या पर्यवसितयोरिति पूरणीयम् ।
“क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु” ॥
टीका
विज्ञप्रिया:
(वि, झ) क्वचित् बाध्यतयेति—ख्यातिः प्रतीतिः ।
यथा गङ्गायां घोष इत्यादौ घोषनिवासस्य यथा वा “उपकृतं बहु तत्र किमुच्यते “इत्यपकारिणं प्रत्युक्त्वा उपकारस्य च प्रथममेव बाध्यतया ख्यातिः ।
क्वचित् ख्यातस्येति—प्रथमं प्रतीतस्य इत्यर्थः ।
यथात्रैव श्लोके, निः शेषेत्यादौ च ।
उत्तरत्र अभिधैव तु इत्युक्त्या निषेधविध्योस्तु व्यङ्ग्यत्वमेवेति दर्शितम् ।
लोचना:
(लो, ए) क्वचिदिति—अत्रोत्तरम् अभिधेव त्वितिवचनम् ।
यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यार्थस्याप्यभिधाने यत्परत्वेन ख्यातस्य बाधने ऽप्यभिधाव्यापारस्वीकारीत् ।
एतत्त्वग्रे निराकरिष्यते ।
अत्राद्ये मुखायार्थस्यार्थान्तरे सङ्क्रमणं प्रवेशः, न तु तिरोभावः ।
अत एवात्राजहत्स्वार्था लक्षणा ।
द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।
टीका
विज्ञप्रिया:
(वि, ञ) इत्थमविवक्षितवाच्यध्वनेरर्थान्तरसङ्क्रमितवाच्यत्वात्यन्ततिरस्कृतवाच्यत्वेन द्वैविध्यमुक्त्वा तदुदाहृतस्य च आद्यस्यार्थान्तरसङ्क्रमितवाच्यस्य तादृशपरिभाषाया बीजमाह–अत्राद्ये इति ।
अर्थान्तरे शक्यतावच्छेदकार्थान्तरे ऽवच्छेदकान्तरे शक्यतावच्छेदकरूपेण बोधनमित्यर्थः , न तु तिरोभावः नतु अबोधनमित्यर्थः ।
अत एवेति स्वार्थं स्वाश्रयशब्दस्य मुख्यार्थमजहती उपस्थापयन्ती अजहत्स्वार्था (राजदन्तादिसमाससिद्ध) नच कदली कदलीत्यादौ प्रथमकदलीपदेनैव सदल्या उपस्थितौ तत्र लक्ष्यार्थस्य जडताया अभेदान्वयसम्भवे किमर्थं कदल्यंशे लक्षणेति वाच्यम्, लक्ष्यतावच्छेदकजडत्वाश्रयत्वेन तेन रूपेण तदुपस्थापनस्य अनिवार्यत्वात् ।
द्वितीये त्विति–अत्यन्ततिरस्कृतवाच्ये इत्यर्थः ।
अत्यन्ततिरस्कृतत्वात् केनापि रूपेणाबोधितत्वात् जहत्स्वार्था, उक्तरूपं स्वार्थं जहती अनुपस्थापयन्ती ।
विवक्षिताभिधेयो ऽपि द्विभेदः प्रथमं मतः ।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ विस्स्द्_४।४ ॥
टीका
विज्ञप्रिया:
(वि, ट) विवक्षितान्यपरवाच्यस्यापि प्रथमं भेदद्वयमाह—विवक्षिताभिधेयोपीति—विवक्षितवाच्य इत्यर्थः ।
प्रथममिति पश्चात्तूभयोरपि प्रभेदबाहुल्यस्य वक्ष्यमाणत्वात् ।
तद्द्वैविध्यमाह ।
असंलक्ष्येति—व्यङ्ग्यो यत्र असंलक्ष्यक्रमः अपरिचेयज्ञानोत्पत्तिक्रमः, वाच्यज्ञानान्तरं व्यङ्ग्यज्ञानं जायते इति क्रमो यत्र अपरिचेय इति भावः ।
रसभावादीनाम् अत्यन्तास्वाद्यतया शीघ्रबोध्यत्वेन उत्पलपत्रशतभेदनस्येव क्रमापरिचयात् ।
अपरो वस्त्वलङ्काररूपो व्यङ्ग्यस्तु लक्ष्यक्रमः ।
तद्ज्ञानोत्पत्तिक्रमस्य लक्षणीयत्वात् ।
लोचना:
(लो, ऐ) विविक्षिताभिधेय इत्यस्यार्थः विवक्षितान्यपरवाच्यो ध्वनिरिति ।
तत्र च रसवति काव्ये झटित्यास्वादपर्यन्तगमनाद्वस्त्वलङ्काररूपव्यङ्ग्ययोरपि प्रतीतिर्न विलम्बिता, नीरसे तु प्रतीतिविलम्बात्तत्साजात्येन सलक्ष्यक्रमव्यङ्ग्यव्यवहारः ।
विवक्षितान्यपरवाच्यो ऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।
तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एको ऽपि भेदो ऽनन्तत्वात् सङ्ख्येयस्तस्य नैव यत् ॥ विस्स्द्_४।५ ॥
उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।
अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात् क्रमो ऽवश्यमस्ति किन्तूत्पलपत्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।
टीका
विज्ञप्रिया:
(वि, ठ) आद्यः असंलक्ष्यक्रमः ।
विभावादिप्रतीतिकारणकत्वादिति ।
प्रत्येकं तत् प्रतीतिकारणकत्वादित्यर्थः ।
“प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते"इत्युक्तत्वात् ।
“तत् समूहालम्बनप्रतीतिस्तु रस एव"इत्युक्तत्वाच्च ।
लाघवात् शीघ्रप्रतीतिकत्वात् ।
एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्सङ्ख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।
तथाहि—एकस्यैव “शृङ्गारस्यैको ऽपि सम्भोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च निभावादिवैचित्र्यात्सङ्खायतुमश्क्यः, का गणना सर्वेषाम् ।
टीका
विज्ञप्रिया:
(वि, ड) एको ऽपि भेद इत्यादिकं व्याचष्टे–एषु चेति ।
एकभेदमेवेतिअसंलक्ष्यक्रमत्वमेकमुपाधिमाश्रित्य इति शेषः ।
विभावानुभावभेदाभेदगणने अनन्तत्वम्, तद्दर्शयति—तथाहीति ।
विभावादिवैचित्र्यं कन्यामध्याप्रगल्भत्वादिभेदेन उत्तममध्यमाधमत्वभेदेन वैचित्र्यं बोध्यम् ।
शब्दार्थोभयशक्त्युत्थे व्यङ्क्ये ऽनुस्वानसन्निभे ।
ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ॥ विस्स्द्_४।६ ॥
क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।
टीका
विज्ञप्रिया:
(वि, ढ) लक्ष्यक्रमव्यङ्ग्यध्वनिं विभजति—शब्दार्थोभयेति–तत्र अनुस्वानसान्नेभ इति यदुक्तं तद् व्याचष्टे—क्रमलक्ष्यत्वादेवानुरणनरूप इति ।
अनुरणनं प्रतिध्वनिः ।
स हि प्रथमध्वनेरनन्तरं जायते तदुत्पत्तिक्रमश्च लक्ष्यते तत् तुल्यो यो व्यङ्ग्यस्तस्य त्रैविध्यं व्याचष्टे—तस्य शब्दशक्त्युद्भवत्वेन इति ।
शब्दस्य अर्थस्य च शक्तिः सामर्थ्यम् ।
न तु अभिधारूपा वृत्तिः तया व्यङ्ग्याबोधनात् अर्थस्य तदभावाच्च ।
तेन सामर्थ्यैन उद्भव उत्पन्नविषयता यस्य तादृशव्यङ्ग्यस्येत्यर्थः ।
तत् त्रैविध्यात् तत्सम्बन्धेन संलक्ष्यक्रमव्यङ्ग्यनाम्नो ध्वनिकाव्यस्य त्रैविध्यमित्यर्थः ।
लोचना:
(लो, ओ) संलक्ष्यकमव्यङ्ग्यभेदानाह—शब्दार्थेति ।
अनुस्वानेति कारिकापदस्यार्थं विवृणोति—अनुरणनमिति ।
तत्र—
वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।
अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।
लोचना:
( लो, औ) अनलङ्करणं वैचिञ्यमात्रराहितम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा—
टीका
विज्ञप्रिया:
(वि, ण) तत्र काव्यस्य शक्त्युत्थत्वप्रयोजकं शब्दशक्त्युद्भवं व्यङ्ग्यं द्विधा विभजति—तत्र वस्त्वलङ्काररूपत्वादिति ।
पृथक् उपादानादिति वस्तुत्वस्य केवलान्वयित्वेन अलङ्कारस्यापि वस्तुत्वात् ।
तथा च गोवृषन्यायात् वस्तुपदस्यालङ्कारभिन्नवस्तुपरतां व्याचष्टे—अलङ्करणमिति ।
अलङ्कारणमलङ्कारः तद्भिन्नमित्यर्थः ।
अनलङ्कार इति बहुपुस्तकेषु पाठः तल्लोखकप्रमादादेव ।
अलङ्कारशब्दस्य पुंलिङ्गत्वेन तस्य नञ् तत्पुरुषे लिङ्गत्यागाभावात् ।
पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ॥
लोचना:
(लो, अ) स्त्रस्तरं-तृणादिशय्या ।
प्रस्तराः पाषाणाः ।
पयोधरः मेघः ।
व्यङ्ग्यपक्षे स्त्रस्तरं शास्त्रं सत्यनुशासकम् ।
उन्नतपयोधरां मामित्यर्थः ।
न चेह स्त्रस्तरशब्दस्य शास्त्रार्थत्वेन उपमाध्वनिः; सादृश्यस्याविवक्षितत्वात् ।
रहस्यसङ्गोपनार्थमेव हि ह्यर्थप्रयोगः ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमो ऽसि तदास्स्वेति वस्तु व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, त) पन्थिअ ण एत्थेति– “पथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस” ॥
इति संस्कृतम् ।
निवासार्थिनं पथिकं प्रति स्वयं-दूत्या उक्तिरियम् ।
हे पथिक ! प्रस्तरस्थले ऽत्र ग्रामे मनाक् स्वल्पमपि स्त्रस्तरं शयनीयास्तरणं नास्ति ।
प्रस्तर एवं वयं स्वमिप इति भावः ।
मनागित्यत्रापि अर्थो ऽध्याहार्यः ।
उन्नतमुद्भूतं पयोधरं मेघं प्रेक्ष्य गमनप्रतिबन्धात् यदि वस्तुमिच्छसि तदा वस इति आपाततो भावार्थः ।
अत शब्दशक्त्युत्थं गूढं व्यङ्ग्यार्थ दर्शयति—अत्रेति ।
प्राकृतश्लिष्टस्य स्त्रत्थरशब्दस्य शास्त्रमप्यर्थः ।
प्रकरणनियन्त्रणवशात् सोर्ऽथो व्यङ्ग्यस्तथा च “परदारान्न गच्छेदि ति स्मृत्यादिशास्त्रं नास्ति इत्यर्थः ।
इति आदिपदात् प्रस्तरस्थलपयोधरपदयोरपि परिग्रहः ।
तथा हि शय्याविरहात् प्रस्तरस्थं स्त्रीजनं पुरुषो लातिरत्यर्थं गृह्णाति इति प्रस्तरस्थलः तत्र इत्यर्थेन उत्तुङ्गस्तनदर्शनेन च” यद्युपभोगक्षमेत्यादि"व्यञ्जनात् परम्परया शब्दशक्तिमूलता ।
अलङ्काररूपो यथा–“दुर्गालङ्घितविग्रहः” इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
टीका
विज्ञप्रिया:
(वि, थ) शब्दशक्त्युद्भवोपमालङ्कारव्यञ्जनामाह—दुर्गालङ्घितेति ।
व्याख्यातमिदम् ।
द्वितीयार्थः पार्वत्यादिः तेन सूचितं पार्वतीवल्लभस्य वर्ण्णनमित्यर्थः ।
मा प्रसाङ्क्षीदिति–प्रसक्तं माभूदित्यर्थः ।
तत्प्रसक्तौ कवेरुन्मत्ततापत्तेः ।
अतः कवेरीश्वरभानुदवयोरुपमानोपमेयभावे तात्पर्य्यात् उपमानोपमेयभावः कल्प्यते संव्यज्यते इत्यर्थः ।
स एव च उपमालङ्कारः ।
तं व्यङ्ग्यं विशदयित्वा दर्शयतितदत्रेति ।
यथा वा—
“अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।
अहितः सहितः साधु यशोभिरसतामसि” ॥
अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।
टीका
विज्ञप्रिया:
(वि, द) शब्दशक्त्या व्यङ्ग्यविरोधभासालङ्कारमाह–यथा वा—अमित इति ।
हे हर्षद प्रभो ! समितः युद्धात् प्राप्तौरुत्कर्षैरमितः अपरिच्छिन्नोसि, उत्कर्षबाहुल्यात् त्वं कीदृशः असतामहितः शत्रुः साधुयशोभिः सहितः ।
अत्र अमितः परिमाणरहितः समितः परिमाणयुक्तश्चेति ।
अहितो हितशून्यः सहितो हितयुक्तश्चेति विरोधः ।
विरोधस्य वाचकाभावात् व्यङ्ग्यतामाह—अत्रेति ।
लोचना:
(लो, आ) आमिति इति ।
समितः सङ्ग्रमात् प्राप्तौरुत्कर्षैरपरिमितः, असतामहितः शुवुः ।
मानं भितं तेन सहितः ।
हितेन रहितः कथं तेन युक्त इति विरोधः ।
अपिशब्दाभावादिति ।
अपिशब्दसद्भावे"कुपतिमपि कलत्रवल्लभमित्यादौ अपिशब्दबलात् झटिति विरुद्धार्थ एवाभासते ।
अन्यथा अपिशब्दस्य निरर्थकतापत्तेः ।
अमित इत्यादौ तु अपेरभावात् प्राकरणिकतया प्रथमम् अविरुद्धार्थ एव प्रतिभासते ।
अनन्तरम् अमितः सन्कथं समिति इति विरोधप्रतिभासनाद् विरोधाभासो व्यङ्ग्य इति ।
अपिशब्दाभावादित्युपलक्षणमः अन्येषामपि विरोधभिधायि शब्दानामभावे ऽपि विरोधाभासस्य व्यङ्ग्यत्वं बोद्धव्यम् ।
व्यङ्ग्यस्यालङ्कार्यत्वे ऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।
टीका
विज्ञप्रिया:
(वि, ध) ननु व्यङ्ग्यार्थ एव आस्वाद्यः तस्य शोभको यः स एवालङ्कारः ।
तथा च उपमादेर्व्यङ्ग्यत्वे परेण शोभ्यमान एव सः न शोभकः ।
तत्कथमत्र व्यङ्ग्योपमादेरलङ्कारत्वमित्यत आह—व्यङ्ग्यस्येति–अलङ्कार्य्यत्वे वाच्यालङ्कारन्तरेणैव शोभ्यत्वे ऽपि इत्यर्थः ।
श्रमणः सन्यासी तद्दशायां तस्य ब्राह्मण्याभावे ऽपि यथा तस्य दशान्तरीयं ब्राह्मण्यमादाय
ब्राह्मणत्वमुपचर्य्यते तथा वाच्यतादशायामलङ्कारत्वमादाय व्यङ्ग्योपमादेरलङ्कारत्वमुपचर्य्यते इत्यर्थः ।
वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ॥ विस्स्द्_४।७ ॥
कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।
षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ॥ विस्स्द्_४।८ ॥
अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।
लोचना:
(लो, इ) वस्तु वेति—स्वतः सम्भविकविप्रौढोत्कितन्निबद्धवस्तुप्रौढोत्किसिद्धाभिः वस्त्वलङ्काररूपाभैः षङ्विधाभिः व्यञ्जनाभिः व्यङ्ग्ययोर्वस्त्वलङ्कारयोः द्वादश विधत्वेन द्वादशप्रकारमर्थशक्त्युद्भवव्यङ्ग्यध्वनिकाव्यमिति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
स्वतः सम्भवी औचित्याद् बहिरपि सम्भाव्यमानः ।
प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।
टीका
विज्ञप्रिया:
(वि, न) अर्थशक्त्युद्भवं दर्शायितुं व्यञ्जकार्थस्य वस्त्वलङ्काररूपद्विविधस्य स्वतः सम्भवित्वादित्रौविध्येन षड्विधत्वमाह–वस्तु वालङ्कृतिर्वेति ।
षड्विधव्यङ्ग्यानां द्वादशविधत्वमाह—षड्भिस्तैरिति ।
बहिरपीति ।
शब्दप्रमाणात् बहिः ।
प्रमाणेनापि सिद्धत्वात् उचितसम्भावन इत्यर्थः ।
प्रौढोक्त्येति–कवितन्निबद्धयोः प्रतिभामात्राधीनोक्त्या इत्यर्थः ।
नतु औचित्येनेति—तस्यार्ऽथस्यालीकत्वेनौचित्याभावात् ।
विश्वास-प्रस्तुतिः
तत्र क्रमेण यथा–
दृष्टिं हे प्रतिवेशिनि ! क्षणम् इहाप्य् अस्मद्-गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीर् अपः पास्यति ।
एकाकिन्य् अपि यामि सत्वरम् इतः स्रोतस् तमालाकुलं
नीरन्ध्राः तनुम् आलिखन्तु जरठ-च्छेदानल-ग्रन्थयः ॥
मूलम्
तत्र क्रमेण यथा–
दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥
English
hey neighbour,
keep an eye on my house for a bit?
my husband hates
the hard water of our well
I’ll quickly pop down
to the river bank
bristling with reeds
that will scratch me all over
but I don’t mind
टीका
विज्ञप्रिया:
(वि, प) स्वतः सम्भविवस्तुव्यङ्ग्यं वस्त्वाह–दृष्टिं हे इति ।
नदीजलानयनवर्त्मनि वने कृतसङ्केतायाः कुलटायाः तज्जलानयनच्छलेन जिगमिषोर्भाविनखक्षतसम्वरणोक्तिरियम् ।
इहापीति–स्वगृह इव अस्मद्गृहे ऽपीत्यर्थः ।
अस्य मदीयस्य शिशोः पिता कुलटात्वात् स्वपतित्वेनानुक्तिः ।
विरसाः स्वादारहिताः कौपीः कूपसम्बन्धिनीः अपः जलीभिप्रायेण इत्यनेन मम बाध्यादिना अशक्तिदिने पिबतीत्युक्तम् ।
आलिखन्तु इति, तदा लेखनसम्भावनासत्त्वे ऽपि यास्यामीत्यर्थः ।
जरठच्छेदाः कठिनच्छिन्नभागाः नीरन्ध्रा अविरलाः ।
नलग्रन्थयः नलाख्यतृणपर्वदेशाः
अत्र स्वतः सम्भविना वस्तुना
तत् प्रतिपादिकाया भाव-परपुरुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, फ) स्वतः सम्भविनेति—अस्य श्लोकार्थस्यानलीकत्वेन प्रमाणान्तरेणापि गम्यत्वसम्भवात् ।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥
अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापो ऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, ब) स्वतः सम्भविवस्तुव्यङ्ग्यमलङ्कारमाह—दिशीति ।
पाण्ड्याः पाण्ड्यदेशीयाः राजानः ।
व्यतिरेकालङ्कार इति उपमानात् रवितेजसो रघुप्रतापस्याधिकरूपः ।
सच व्यङ्ग्य एव असहनेनैव तत्प्राप्तेः ।
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलो ऽवलोकयामास मातङ्गमिव केसरी ॥
अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, भ) स्तः सम्भव्यलङ्कारव्यङ्ग्यं वस्त्वाह–आपतन्तममुमिति ।
आपतन्तम् आगच्छन्तम् अमुं वेणुदारिनामासुरं रामो बलरामः ।
वेणुदारिणः क्षयमिति बलोपमानस्य सिंहस्य वेणुदार्युपमानमात्रसङ्क्षयकरित्वेन तदुपमानोपमेययोरपि तद्धर्मलाभात् ।
गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ॥
अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।
टीका
विज्ञप्रिया:
(वि, म) स्वतः सम्भव्यलङ्कारव्यङ्ग्यमलङ्कारमाह—गाढकान्तेति ।
यो राजा युधि निजाधरं निर्दशन् अरिवधूजनस्य ओष्ठरूपाणि विद्रुमस्य प्रवालस्य दलानि रतकालीनगाढकान्तदशनक्षतव्यथारूपात् सङ्कटादापदो ऽमोचयत् ।
युधि क्रोधेन स्वाधरं निर्दश्य तत्पतिं हत्वा तथा चकारेत्यर्थः ।
अत्रेति—अधरदंशकत्वाधरदंशमोचकत्वयोः वस्तुगत्या अविरोधे ऽपि आपततो विरोधस्य आभासमानत्वात् विरोधाभासालङ्कारेण इत्यर्थः ।
समुच्चयालङ्कार इति–द्वयोरेककालोत्पत्तिरूप इत्यर्थः ।
चकारद्वयस्य समं शब्दस्य वाभावात् व्यङ्ग्यएव इत्यर्थः ।
लोचना:
(लो, ई) विरोधालङ्कारेणेति—विरोधमूलेन कार्यकारणपोर्वापर्यविपर्ययरूपेणैवातिशयोक्त्यलङ्कारेणेत्यर्थः ।
तथा ह्यत्र स्वाधरनिर्दंशनं कारणभूतं वैरिस्त्रीणाम् ओष्टानां च कान्तदन्तक्षतमोचनं कार्यभूतं समकालतया निर्दिष्टम् ।
किञ्चात्र निर्द्दंशनरूपकरपिशाचो ममाधरं वलिरूपं प्राप्यान्यानधरान् सुखिनः करोत्विति बुद्ध्वैव
निजाधरं दष्टवानिति तस्य राज्ञः वुद्धिमपेक्ष्य उत्प्रेक्षा च ।
ततश्चात्र समुच्चयोत्प्रेक्षयोरेकाश्रयानुप्रवेशः सङ्करश्च ।
“सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे” ॥
लोचना:
(लो, उ) सज्जेति—“सज्जयति सुरभिमासो न चार्पयति युवतिजनलक्ष्यसहान् ।
अभिनवसहकारमुखान् नवपल्लवपत्तलान् अनङ्गस्य शरान्” ॥
इति संस्कृतम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन् मदनविजृम्भणरूपं वस्तु व्यनक्ति ।
टीका
विज्ञप्रिया:
(वि, य) कविप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्तु आह—सज्जेइ इति ।
“सज्जयति सुरभिमासो न चार्पयति युवतिजनलक्ष्यशते ।
अभिनवसकारमुखान् नवपल्लवपत्तलान् अनङ्गस्य शरान् ॥
“इति संस्कृतम् ।
प्रथमप्रवृत्तवसन्तवर्णनमिदम् ।
सुरभिमासो ऽभिनवसहकारमुखान् अभिनवानि सहकाराणि मुखम् आदिर्येषां तादृशान् अनङ्गस्य शरान् सज्जयति ।
युवतिजनरूपे लक्ष्यशते शरव्यशते न चार्पयति ।
शरसज्जनस्य वर्त्तमानत्वात् अनिष्पन्नत्वेन तन्निष्पत्त्यानन्तरमेव तादृशलक्ष्यशते ऽर्पयितुं प्रेरयिष्यति इति भावः ।
शतपदात् द्वित्रियुवत्यां त्वर्पायितुं प्रेरयतीति लभ्यते ।
न चार्पयतीति हेतुकारितान्तम् ।
अनङ्गशरान् कीदृशान्-नवपल्लवपत्तलान् नवपल्लवैः पत्तला पत्ररचना येषां तादृशान् ।
“खराणां पत्ररचना पत्तला परिकीर्त्त्यते"इति कोषः ।
वस्तुप्रकाशीभवदिति– न च सुरभिमासादौ शरकारादिरूपकालङ्कार एव प्रकाशीभवति इत्यतो ऽलङ्कारस्यैव व्यञ्जकत्वमात्रेति वाच्यम् ।
सुरभिमासादौ शरकाराद्यभेदाप्रकाशात् किन्तु सुरभिमासादौ खरसज्जनादेरेव प्रकाशात् ।
“रजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसन्ततिः सतम्” ॥
अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।
टीका
विज्ञप्रिया:
(वि, र) कविप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यमलङ्कारमाह—रजनीष्विति ।
हे वीरविमलभानोः निर्मलकिरणस्य चन्द्रस्य करजालेन भुवनमण्डलं धवलयतीत्यर्थः ।
व्यतिरेकालङ्कार इति—अधिककालं व्याप्य प्रकाशनात् उपमानात् चन्द्रकरात् आधिक्यरूप इत्यर्थः ।
“दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः” ॥
अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, ल) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यं वस्त्वाह—धसाननेति ।
दशाननस्य किरीटेभ्यः मणिव्याजेन मणिपतनच्छलेन राक्षसश्रियः अश्रुबिन्दवः पृथिव्यां पर्यस्ताः पतिताः ।
अपह्नुत्यलङ्कारेणेति—मणिपातापह्नुत्या व्याजपदेन अश्रुबिन्दुसाधनात् ।
“धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एको ऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।
नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे” ॥
अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठो ऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, व) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यमलङ्कारमाह—धम्मिल्ल इति ।
हे त्रिकलिङ्गभूमितिलक ! कलिङ्गदेशभूत्रयातिलक ! एको ऽपि तव कीर्तिराशिः पुरन्दरपुरीवामभ्रुवां सुराङ्गनानां विग्रहे शरीरे नानामण्डनतां ययौ ।
तदेव दर्शयतिधम्मिल्ल इति ।
धमिल्लः संयताः कचाः ।
विभावनेति–स्वर्गस्थितिरेव स्वर्गस्थानामुपकारकारणम् ।
तदभावे ऽपि स्वर्गस्थोपकारकरणरूपकफलव्यक्तिरूपा विभावना, सा च स्वर्गस्थित्यभाववाचकशब्दाभावात् व्यङ्ग्या ।
“शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः” ॥
अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, श) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्त्वाह—शिखरिणि इति ।
असौ शुकशावकः क्क नु शिखरिणि कस्मिन् पर्वते कियच्चिरं किमभिधानं किं नामकं तपः अकरोत् ।
येन हेतुना तव अधरवत् पाटलं बिम्बफलं दशाति ।
तव अधरतुल्यवस्तुदंशनमपि तपः फलमिति श्लोकस्य भावरथः ।
“सुभगे ! कोटिसङ्ख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्” ॥
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसङ्ख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, ष) कविनिबद्धवस्तुप्रौढोक्तिसिद्धवस्तु व्यङ्ग्यमलङ्कारमाह—सुभग इति ।
वसन्ते मदनाशगैः कोटिसङ्ख्यत्वम् उपेत्य लब्ध्वा, पञ्चता पञ्चसङ्ख्यता त्यक्ता, वियोगिनां पञ्चता मरणकालीनपञ्चभूतविश्लेषः ।
आसीत् ।
अत्रति—सुभगे इति ।
सम्बोधनात् कामुक एवात्र वक्ता नतु कविः ।
तत्प्रौढोक्तिसिद्धेन वियोगिनां मरणेन इत्यन्वयः ।
उत्प्रेक्षा व्यज्यत इति–तद्वाचकेवकाराधभावाद् व्यञ्जना ।
“मल्लिकामुकुले चणिड ! भाति गुञ्जन् मधुव्रतः ।
प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव” ॥
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, स) सविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यं वस्त्वाह—मल्लिकेति ।
शङ्खमापूरयन्निवेति ।
मल्लिकामुकुलस्य शङ्खाकारत्वात् भृङ्गगुञ्जनस्य शङ्खशब्दतुल्यत्वात् ।
मानिनी प्रतीयमुक्तिरित्यभिप्रायेण कविनिबद्धवक्तृप्रौढोक्तिसिद्धमुदाहरणमिदम् ।
अत एव कथम्मानं न मुञ्चसि इति व्याख्या ।
“महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ” ॥
लोचना:
(लो, ऊ) महिलासहस्त्रभरिते तव हृदये सुभग सामान्ती ।
अनुदिनमनन्यमना अङ्गं तनुकमपि तनूकरोति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणो ऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।
टीका
विज्ञप्रिया:
(वि, ह) कविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यमलङ्कारमाह—महिलासहस्सेति ।
“महिलासहस्त्रभरिते तव हृदये सुभग ! सामान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥
“इति संस्कृतम् ।
नायकस्य बहुनायिकाभावनादुः खेन कृशाया नायिकाया अवस्थां नायके कथयन्त्यास्तत्सख्या उक्तिरियम् ।
महिला स्त्री तासां सहस्त्रेण भरिते तव हृदये अमान्ती अवकाशमलभमाना सा अनुदिनं दिवसं व्याप्य अनन्यकर्म्मा त्यक्तान्यकार्य्या सती तनु स्वतः कृशं अङ्गं तनयति तनूकरोति कृशतरं करोति ।
नामकारितान्तस्य तनुशब्दस्य रूपमिदम् ।
काव्यलिङ्गेति–काव्यलिङ्गं हेत्वलङ्कारः ।
हृदये स्थानालाभस्य अङ्गतनूकरणहेतुत्वात् ।
हृदये न वर्त्तते इति—तनयतीति वर्त्तमाननिर्द्देशात् अद्यापि हृदये वृत्त्यलाभः ।
विशेषोक्तिरिति अङ्गतनूकरणरूपकारणसत्वे ऽपि हृदये स्थानलाभरूपकार्य्यस्याभावरूपा विशेषोक्तिः ।
लोचना:
(लो, ऋ) अत्रेति—रूपणादयः कवेर्व्यापाराः कवेश्च प्राधान्यव्यङ्ग्यबोधनार्था रूपणादयो व्यापारा यथात्र चमत्कुर्वन्ति न तथा वाच्येषु ।
रूपकाद्यलङ्कारेषु हि वाच्यानां रूप्याणां मुखादीनामेव रूपणादिव्यापाराद् रूपकादिभ्यश्चन्द्रादिभ्यश्च प्राधान्यमित्यर्थः ।
न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता ।
टीका
विज्ञप्रिया:
(वि, क) ननु—प्रौढोक्तिसिद्धत्वेनैव उभयसङ्ग्रहसम्भवे किमर्थं कविनिबद्धवक्तृकत्वेन पृथगुपादानमित्यत आह-न खल्विति ।
कव्यपेक्षया कविनिबद्धस्य रागातिशयात् पृथगुपादानमित्यर्थः ।
[एवं वाच्यार्थस्य व्यञ्चकत्वे उदाहृतम् ।]
टीका
विज्ञप्रिया:
(वि, ख) एवं वाच्यार्थस्येति—इदमत्रावधेयम् ।
गाढकान्तदशनेत्यादौ दर्शितस्य विरोधालङ्कारस्य व्यञ्जकस्य वाचकापिकाराभावाद् व्यङ्ग्यत्वमेव, एवं सज्जयति सुरभिमास इत्यादौ वसन्तादेः शरकरणदिरूपवस्तुनो व्यञ्जकस्य व्यङ्ग्यत्वमेव इत्यतो ऽत्र प्रायश इति पूरणीयम् ।
काव्यप्रकाशकृन्मते तु व्यञ्जकवस्त्वलङ्कारयोः वाच्यत्वाद्यनियम एव ।
अत एव लक्ष्यव्यङ्ग्ययोरपि व्यञ्जकत्वमुदाहार्य्यमिति तेनोक्तम् ननु रूपणमेव रूपकालङ्कारः ।
उत्प्रेक्षणमेव उत्प्रेक्षालङ्कारः, व्यतिरेचनमेव व्यतिरेकालङ्कारः तथा च यत्र रूपकालङ्कारस्य व्यङ्गयत्वम् तत्र किं रूप्यमानवस्तूदाहरणं न स्यात् ।
कारः ।
एवमुत्प्रेक्ष्यमाणव्यतिरिच्यमानवस्तुनोरित्यत आह–एषु चेति–तत्तद् वस्तवपेक्षया तदलङ्कार एव आधिकचमत्कारीति तत्तदुदाहरणमेव तत्तत् इति भावः ।
यद्यपि सुभगे कोटिसङ्ख्यात्वम् इत्यत्र उत्प्रेक्षालङ्कारः, दिशि मन्दायते इत्यत्र व्यतिरेकालङ्कारश्च व्यङ्ग्य उक्तः ।
रूपकालङ्कार व्यङ्ग्यत्वं तु नोक्तं तथापि— चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती ॥
इत्यत्र मधुकरे कामुकरूपणं व्यङ्ग्य बोध्यम् ।
एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् ।
टीका
विज्ञप्रिया:
(वि, ग) लक्ष्यार्थस्य यथेत्यादि-इदमत्रावधेयम्–“भम्म धम्मिअ"इत्यादावप्यभ्रमणं व्यङ्ग्यमुक्तम् ।
तत्तुल्ययुक्तिके निः शेषेत्यादौ तदन्तिकगमनं लक्ष्यमित्युक्तमितीदं स्वोक्तिविरुद्धम् ।
“क्वचिद् बाध्यतया ख्याति “रित्याद्युक्तयुक्तेरुभयत्र समानत्वात् ।
एकः शब्दार्थशक्त्युत्थे–
अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।
यथा—
टीका
विज्ञप्रिया:
(वि, घ) उभयशक्त्युत्थमुदाहरणमाह—एकेति ।
एकः प्रभेद इत्यर्थः ।
शब्दशक्त्युत्थे व्यञ्जने तत्प्रपञ्चस्य अर्थशक्त्युत्थे व्यञ्जने तत्प्रपञ्चस्य दर्शितत्वात् ।
उभयशक्त्युत्थप्रपञ्चस्य तावतैव गतार्थत्वात् एक इत्युक्तम् ।
न तु दर्शयिष्यमाणोदाहरणे ऽलङ्कारस्य व्यङ्ग्यत्वात् अलङ्काररूपतया एक इत्युक्त इति केनचिदुक्तं युक्तम् ।
“क्षणदासावक्षणदावनमवनं व्यसनमव्यसनम् ।
बत वीर ! तव द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम्” ॥
इत्यत्रार्ऽथान्तरन्यासघटकशब्दशक्त्यार्ऽथान्तरन्यासरूपार्ऽथशक्त्या च विधिरपि त्वामनुवर्त्तते इति वस्तुव्यञ्जनाया अपि सम्भवात् स्वतः सम्भव्याद्यर्थव्यङ्ग्यत्वेन भेदान्तरप्रसक्तेर्दुर्वारत्वाच्च ।
“हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः” ॥
टीका
विज्ञप्रिया:
(वि, ङ) हिममुक्तेति—माधवः कृष्णः प्रमदाजनस्य महोत्सवो महोत्सवे हेतुश्चिराय अभवत् ।
अत्र सुद्धसारोपा लक्षणा ।
कीदृशः हिममुक्तचन्द्र इव रुचिरः ।
सपद्मकः पद्मया लक्ष्म्या हस्तपादस्थरेखारूपपद्मेन वा साहितः ।
द्विजान् ब्राह्मणान् मदयन् आनन्दयन् ।
जनितो मीनकेतनः प्रद्युन्मः येन तादृशः ।
प्रसादिताः प्रीणिताः सुरा देवा येन तादृशश्च ।
अत्र माधवो वसन्तो ऽपि शब्दशक्त्या अर्थशक्त्या च व्यज्यते ।
तथा हि माधवशब्दस्य वसन्ते ऽपि शक्त्या सपद्मक इत्यत्र सपद्मकशब्दरूपस्य पद्मसहिते ऽपि शक्त्या, द्विजान् इत्यत्र द्विजशब्दस्य पक्षिष्वपि शक्त्या जनितमीनकेतन इत्यत्र सुराप्रसादने ऽप्यस्य शब्दस्य शक्त्या च वसन्तप्रत्यायने शब्द शक्तिः ।
हिममुक्तेत्यत्र प्रमदाजनस्येत्यत्र श्लिष्टशब्दाभावात् अर्थशाक्तः ।
ततश्च वसन्तस्याप्राकरणिकत्वेन तत्प्रत्यायनस्य प्रकृते ऽनुपयोगाद् वसन्त इव कृष्ण इत्युपमाप्रतीतिः ।
तदाह—उपमालङ्कार इति ।
अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः ।
लोचना:
(लो, ॠ) हिमेति—हिममुक्तचन्द्र इव पक्षे हिममुक्तचन्द्रेण रुचिरः ।
पद्मा लक्ष्मीः पद्मं कमलं च ।
मीनकेतनः प्रद्युम्नावतारः, सामान्यमदनश्च, सुराः त्रिदशाः, मुरा मद्यम् ।
माधवो हरिर्वसन्तश्च ।
अत्र माधवशब्दप्रतिपाद्यतया हरिवसन्तयोः औपम्यप्रतिपादकस्य हिममुक्त इत्यादिशब्दस्य शब्दपरिवृत्तिसहत्वादर्थशक्तेर्दार्ढ्यम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।
तदष्टादशधा ध्वनिः ॥ विस्स्द्_४।९ ॥
अविवक्षितवाच्योर्ऽथान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।
संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः ।
टीका
विज्ञप्रिया:
(वि, च) अष्टादशत्वं दर्शयति—अविवक्षितेति ।
पञ्चदशेति–शब्दशक्त्युत्थौ द्वौ, अर्थशक्त्युत्थश्च द्वादश, उभयशक्त्युत्थे एव इति पञ्चदश ।
एषु च–
वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।
लोचना:
(लो, ऌ) शब्दपरिवृत्तिसहत्वासहत्वाभ्यामेव हि सर्वत्र शब्दार्थशक्तिमूलत्वस्य व्यवस्थापनम् ।
अत एव चास्य भेदस्य बहुपदनिष्टत्वेनैव सम्भवाभिप्रायेण ग्रन्थकृत्पदनिष्टत्वं नास्तीति वक्ष्यति ।
तथैव च प्राचीनैरुक्तम् ।
“पथिअ ण एत्थ"इत्यादौ परिवृत्त्यसह एव स्त्रस्तरपयोधरशब्दयोरेव व्यञ्जकत्वमिति शब्दशक्तिमूलत्वम् ।
व्यञ्जकत्वस्य बहुनिष्टत्वे ऽपि पदसमुदयनिष्टत्वाभिप्रयेण वाक्यनिष्टत्वम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तत्रार्थान्तरसङ्क्रमितवाच्यो ध्वनिः पदगतो यथा—
टीका
विज्ञप्रिया:
(वि, छ) वाक्य इति—उभयशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रव्यङ्ग्य इत्यर्थः ।
व्यञ्जकार्थवाचकश्लिष्टशब्दानां च एकव्यङ्ग्यव्यञ्जने वाक्यत्वनियमात् ।
तदन्ये इति—तदन्ये व्यङ्ग्याः पदेन वाक्येन च व्यङ्ग्या इत्यर्थः ।
तत्रेति—तत्र ध्वनिपद व्यङ्ग्यपरम् ।
पदगतः पदमात्रव्यङ्ग्यः ।
“धन्यः स एव तरुणो नयने तस्यैव नयने च ।
युवजनमोहनविद्य भवितेयं यस्य सम्मुखे सुमुखई” ॥
अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।
टीका
विज्ञप्रिया:
(वि, ज) द्विजीयनयतशब्द इति—अत्र लक्ष्यार्थस्य अतिशयो व्यङ्ग्य इति वक्ष्यति ।
वाक्यगतो यथा—
“त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्” ॥
अत्र प्रतिपाद्यस्य सम्मुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति ।
एवं वच्मीत्यनेनैव कर्तरि लब्धे ऽस्मीति पुनर्वचनम् ।
तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।
एतानि च स्वातिशयं व्यञ्जयन्ति ।
एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः ।
टीका
विज्ञप्रिया:
(वि, झ)त्वामस्मीत्यत्र त्वदाद्यनेकलाक्षणिकपदानां लाक्षणिकत्वं दर्शयति—अत्रेति ।
अन्यव्यावृत्तिविशिष्टमिति—तथा च त्वामेव अहमेव इत्यर्थः ।
एतानि चेति—एतानि लक्ष्यार्थे रूपाणि वस्तूनीत्यर्थः ।
स्वातिशयमिति—स्वापेक्षयाधिकार्थ एव स्वातिशयः ।
तमधिकमर्थमाह—एतेनेति ।
अभिप्रायो अभिप्रायस्थव्यङ्ग्यार्थः ।
तदेवमयं वाक्यगतो ऽपर्थान्तरसङ्क्रमितवाच्यो ध्वनिः ।
अत्यन्ततिरस्कृतवाच्यः पदगतो यथा—“निःश्वासान्ध-” इत्यादि ।
वाक्यवतो यथा-“उपकृतं बहु तत्र-” इत्यादि ।
अन्येषां वाक्यागतत्वे उदाहृतम् ।
पदगतत्वं यथा–
“लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्” ॥
लोचना:
(लो, ए) लावण्यमिति—सर्वावयवगतः को ऽप्यातिशयः लावण्यम् ।
कान्तिरुज्ज्वलता च पृथक् पृथगवयवाश्रिता ।
ज्वरः पीडादायकः ।
लावण्यादीनाम् इत्यतः पूर्वं प्रतीतेर्विभावादिसामग्रीसाध्यत्वे ऽपि पूरणीयम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।
टीका
विज्ञप्रिया:
(वि, ञ) असंलक्ष्यक्रमं पदगतं व्यङ्ग्यमुदाहरति—लावण्यमिति ।
अत्रेति—लावण्यादीनां यदनुभवैकगोचरत्वं तत्तद् व्यञ्जकानामित्यर्थः ।
व्यञ्जकानामित्यत्र ज्ञापकानामित्यर्थः ।
तेन अनुभवैकगोचरत्वं तदादिपदानां वाच्यमेव बोध्यम्, न तु व्यङ्ग्यम् किन्तु विप्रलम्भ एव व्यङ्ग्यः ।
तदाद्यनेकपदानां चात्र न वाक्यत्वं विभिन्नवाक्यस्थत्वेन परस्परानन्वयात् ।
न च तदा सुधास्पदमभूदित्यत्र सर्वेषां तदादिपदार्थानामन्वयात् वाक्यत्वमेवेति वाच्यम् ।
तल्लावण्यमित्यनेनैव विप्रलम्भव्यञ्जनेन तदा सुधास्पदमित्यन्वयापेक्षां विनैव व्यञ्जक्त्वेन पदत्वेनैव व्यञ्जकत्वात् ।
महावाक्यव्यङ्ग्यत्वे ऽपि पदगतव्यङ्ग्यमूलो व्यवहारः ।
तदुक्तं ध्वनिकृता—
“एकावयवसंस्थेन भूषणोनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती” ॥
एवं भावादिष्वप्यूह्यम् ।
टीका
विज्ञप्रिया:
(वि, ट) तन्मुखेनैव काव्यशोभाप्रतीतिरित्यत्र संवादं दर्शयति—तदुक्तमिति ।
ध्वनिना व्यङ्ग्येन भारती वाक्यरूपा ।
पदव्यङ्ग्ये रसादिरूपे ऽसंलक्ष्यक्रमे उदाहृते भावादिरूपासंलक्ष्यक्रमस्यापि पदव्यङ्ग्यत्वमूह्यमित्याह ।
“भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः” ॥
टीका
विज्ञप्रिया:
(वि, ठ) शब्दशक्त्युद्भवं वस्तुपदव्यङ्ग्यमाह—भुक्तिमुक्तिकृदिति—उपनायकागमनं दृष्ट्वा सन्तोषं व्यञ्जयन्त्या उक्तिरियम् ।
वाच्यार्थे सदागमः सच्छास्त्रम् ।
भुक्तिमुक्ती स्वर्गभोगमोक्षौ ।
एकन्तं सम्यगादेशनं तत्त्वज्ञानोपदेशः ।
व्यङ्ग्यार्थे तु सदगमः सत्पुरुषोपनायकागमः ।
भुक्तिमुक्ती सुरतोपयोगगृहकर्मत्यागौ ।
एकन्तस्य समादेशनं रहस्योपदेशः ।
लोचना:
(लो, ऐ) भुक्तीति ।
भुक्तिर्भोगः, सम्भोगश्च ।
मुक्तिः निः श्रेयसम् इतरव्यापारव्यासङ्गपरित्यगसुशं च ।
एकान्तः परमार्थस्वरूपं सङ्केतस्थानं च ।
सदागमः सच्छास्त्रं सतः पुरुषस्यागमनं च ।
अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति ।
टीका
विज्ञप्रिया:
(वि, ड) अत्र श्लिष्टसदागमपदशक्तिमूलकव्यञ्जकत्वमेव अन्यव्यञ्जकपदानामिति तत्पदस्यैव व्यञ्जकत्वं तदाह–अत्रेति—सच्छास्त्रमापाततः प्रकरणगम्यं गामान्यतो ऽभिधाय उपनायकं प्रति सत्पुरुषागमं व्यनक्ति इत्यर्थः ।
ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।
रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् ।
प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।
टीका
विज्ञप्रिया:
(वि, ढ) सत्पुरुषागमसच्छास्त्रयोरुपमाध्वनित्वमाशङ्कते–नन्विति ।
समाधत्ते–नेति ।
उपमाविवक्षावीजमाह–रहस्येति ।
ननु रलस्य सङ्गोपनमुपमा चास्त्वित्यत्र आह–प्रकरणदीति ।
आदिपदात् तात्पर्य्यपरिग्रहः ।
प्रतिसन्धानेन सत्पुरुषागमस्यैव आस्वाद्यत्वेन अप्राकरणिकसच्छास्त्रस्य प्रकृतासम्बन्धत्वात्; तस्या आस्वाद्यत्वाभावात् तदुपमाया अपि अनास्वाद्यत्वेन तावता सम्बन्धीकरणस्यापि अनुपयोगात् ।
“अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।
राजते को ऽपि जगति स राजा पुरुषोत्तमः” ॥
अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः ।
अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।
टीका
विज्ञप्रिया:
(वि, ण) शब्दशक्तिमूलमलङ्कारं पदद्योत्यमाह–अनन्येति ।
धृता पालिता, पक्षे कूर्मानन्तमूर्त्त्या ऊढा ।
अस्य पदस्यापि शक्त्या व्यङ्ग्यत्वे ऽपि न वाक्यव्यङ्ग्यत्वं पुरुषोत्तमपदश्लेषाधीनप्रतीतिकत्वादस्य श्लिष्टार्थस्य ।
उपमाध्वनिरिति–अस्य पुरुषोत्तमपदस्य सङ्गोपनादिप्रयोजनकत्वाभावेन उपमायामेव तात्पर्य्यात्संलक्ष्यक्रमभेदौ वस्त्वलङ्कारौ ।
सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्” ॥
टीका
विज्ञप्रिया:
(वि, त) स्वतः सम्भविवस्तुव्यङ्ग्यं वस्तुपदद्योत्यमाह–सायमिति ।
स्नानवर्त्मनि उपनायकोपभुक्तां स्नातागतां क्लान्तां सशीं प्रति सख्या उपहासोक्तिरियम् ।
अधुना तव सौकुमार्य्यमाश्चर्य्यम् ।
येन सौकुमार्य्येण अभितः सर्वाङ्गं क्लान्तासि ।
ननु वर्त्मनि आतपातीदृशः क्लम इत्यत्राह—सायमिति ।
मलयजेन चन्दनेन इति ।
एतद्द्वयमपि क्लमनिवारकम् ।
ननु स्नानादुत्तरं मुहूर्त्तद्वयात्मकसायङ्काले आतपसत्त्वात् तत एव क्लम इत्यत्राह–यातो ऽस्तेति ।
अम्बरमणिः सूर्य्यः ।
द्रुतगमनात् क्लममपि निरस्यति–विस्त्रब्धमिति—विस्त्रब्धं यथेष्टम्, आगातिक्रियाविशेषणमिदम् ।
विश्रब्धमन्येति क्वचित् पाठः ।
ननु क्लमः कथं जात इत्यत्राह–येनाधुना इति ।
येन क्लमेन तव नेत्रद्वन्द्वम् अमीलनव्यतिकरं मीलनसम्बन्धरहितं यथा स्यात्तथा आसितुं स्थातुं न शक्रोति ।
लोचना:
(लो, ओ) सायमिति—न विद्यते मीलनेन व्यतिकरः सम्पर्को यत्र तत् अमीलनव्यतिकरं यथा स्यात्तथाऽसितुं स्थातुमित्यर्थः ।
अत्र स्वतः सम्भविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते ।
तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतो ऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ॥
चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका” ॥
(युग्मकम्)
टीका
विज्ञप्रिया:
(वि, थ) स्वतः सम्भविवस्तुव्यङ्ग्यमलङ्कारं पदव्यङ्ग्यमाह–तदप्राप्तीत्यादिश्लोकद्वयं पूर्ववर्ण्णितव्यवसायाद् अन्या गोपकन्यका निरुच्छ्वासतया निरुद्धप्रणवायुतया मुक्तिं गता ।
मुक्तिहेतुं श्रीकृष्णचिन्तनमाह–चिन्तयन्तीति ।
जगत्सूतिं जगज्जनकं श्रीकृष्णं तथापि समस्तपापपुण्यक्षये एव मुक्तिरित्यतस्तदुपपादयति–तदप्राप्तीति–तच्चिन्तेति च ।
लोचना:
(लो, औ) तदप्राप्तीति—मुक्तिं गुरुयन्त्रणाया मोक्षम् ।
न तस्य प्राणा उत्कामन्ति तत्रैव समवलीयन्ते; इति श्रुतेः ।
निरुच्छ्वासताया मोक्षे ऽपि सम्बन्धः ।
अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या ।
अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि सम्भवात्स्वतः सम्भविता ।
टीका
विज्ञप्रिया:
(वि, द) अत्रेति—तदप्राप्तिदुः खस्य तच्चिन्ताह्लादस्य चोपभोगेन तज्जनकपापपुण्ययोरेव क्षयः सम्भवति; नतु समस्तपापपुण्ययोः ।
अतः समस्तपापपुण्यनाशकसमस्ततत्फलदुः खसुखेष्वनुक्तेषु उक्तदुः खसुखयोरारोपः ।
अयमेव चात्रातिशयोक्त्यलङ्कारः ।
अतो ऽत्र तदलङ्कारद्वयम् ।
अनुक्ते उपमेये उक्तोपमानारोपस्य तत्त्वात् ।
यथा कमलमनम्भसीत्यत्र अनुक्ते उपमेये मुखे उपमानकमलारोपः ।
प्रकृतानीत्यत्र उपमेयानि अनुक्तानि उक्तसुखदुः खदूयं चाप्रकृतत्वात् उपमानानि अतस्तदारोपादतिशयोक्तिद्वयम् ।
उपमेयस्यानुक्तत्वेन चातिशयोक्त्यलङ्कारो व्यङ्ग्य एव ।
तव्द्ययव्यञ्जकौ चात्राशेषचयशब्दौ पापपुण्ययोः, अशेषचयत्वाभ्यां नाशकयोर्दुः खसुखयोरशेषचयत्वव्यञ्जनात् ।
अत्र अशेषचयपदयोरेकवाक्यस्थत्वे ऽपि द्वाभ्यां व्यङ्ग्यद्वयव्यञ्जनान्नैकवाक्यत्वेन व्यञ्जकत्वमतः पदत्वेनैव व्यञ्जकत्वम्
“पश्यन्त्यसङ्ख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि” ॥
इदं मम ।
अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न के ऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारो ऽसङ्ख्यपदद्योत्यः ।
टीका
विज्ञप्रिया:
(वि, ध) सङ्क्षेपार्थमलङ्कारस्य वस्त्वलङ्कारव्यञ्जनामुपेक्ष्य प्रौढोक्तिसिद्धालङ्कारस्य व्यङ्ग्यमलङ्कारपदद्योत्यमाह–पश्यन्तीति ।
त्वद्दानजलवाहिन्या नद्या असङ्ख्यपथगामित्वदर्शनात् पथत्रयगामिन्या गङ्गाया लज्जया शिवाशिरसि आत्मगोपनम् ।
काव्यलिङ्गेनेति–दर्शनस्य आत्मगोपनहेतुत्वात् हेत्वलङ्कारेण इत्यर्थः ।
एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।
तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः ।
अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।
प्रबन्धे ऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ॥ विस्स्द्_४।१० ॥
प्रबन्धे महावाक्ये ।
टीका
विज्ञप्रिया:
(वि, न) महावाक्यमिति–कुल करूपमाहवाक्यमित्यर्थः ।
तदप्राप्तिमहादुः खेत्यादिश्लोकद्वयस्य महावाक्यत्वे ऽपि तत्र व्यञ्जकपदद्वयसत्त्वात् तद्व्यङ्ग्यस्यैवोदाहरणत्वेन तद्दर्शितम् ।
अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।
यथा महाभारते गृध्रगोमायुसंवादे—
“अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसङ्कुले ।
कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ॥
न चेह जीवितःकश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई” ॥
लोचना:
(लो, अ) अलमिति—कालधर्मो मरणम् ।
अस्य च श्लोकस्य पद्यान्तरसचिवस्यैव महावाक्यतेति स्पष्टार्थम् ।
महावाक्यन्तरमुदाहरति ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।
टीका
विज्ञप्रिया:
(वि, प) अलं स्थित्वेत्यति—श्मशाने मृतबालकम् अत्यजतस्तद्वन्धून् प्रति गृध्रवाक्यमिदं श्लोकद्वयरूपं महावाक्यम् ।
दिवसे शक्तस्य इति–दिवसे एव भक्षणासमर्थस्येत्यर्थः ।
गमनमिष्टमिति–वक्तुर्गृध्रस्य इष्टं मृतबन्धूनां गमनमित्यर्थः ।
तथा च बालकं त्यक्त्वा यूयं गच्छध्वमिति वस्तु स्वतः सम्भविवस्तुनः उक्तप्रबन्धार्थस्य व्यङ्ग्यमित्यर्थः ।
“आदित्यो ऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ॥
अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः” ॥
इति निशि समर्थस्य गोमायोर्दिवसे परित्यागो ऽनभिलषित इति वाक्यसमहेन द्योत्यते ।
अत्र स्वतः सम्भवी व्यञ्जकः ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
टीका
विज्ञप्रिया:
(वि, फ) आदित्यो ऽयम् इत्यादिश्लोकद्वयरूपं महावाक्यं गोमायोरुक्तिः ।
वहुविघ्न इति–तथा च विघ्नशून्यमुहूर्त्तान्तरे जावनसम्भावना दर्शिता ।
एवं कनकवर्ण्णत्वेन रूपविपर्य्ययाभावादप्राप्तयौवनत्वेन च मृत्युहेतुयौवनाधीनाकार्य्याभावाज्जीवनसम्भावना दर्शिता ।
बाला इति–शिशुबुद्धय इत्यर्थः ।
मूढा इति क्वचित् पाठः ।
नाभिलषित इति ।
तथा च आत्रापि स्वतः सम्भविना एतत्प्रबन्धार्थेन वालकपरित्यागानभिलाषरूपं वस्तु व्यज्यते इत्यर्थः ।
एवमन्येष्विति ।
स्वतः सम्भविवस्तुव्यङ्ग्यालङ्काराद्येकादशभेदेष्वित्यर्थः ।
लोचना:
(लो, आ) आदित्य इति–स्त्रेहं जीवनोपायानुसरणबीजम् ।
मुहुर्त्तः सन्ध्याकालः; बहुविन्घः भूताद्यावेशसम्भावनादायित्वाम् ।
अतः स्वतः सम्भविना वस्तुना वसुत व्यज्यते ।
उदाहार्य्यमिति–तथा च रघुवंशे"समयुज्यत भूपतिर्युवा"इत्यादिना"उभयां सिद्धिमुभाववापतुः"इत्यन्ते तुल्ययोगितया काव्यलिङ्गेन वा रघुराघवयोर्व्यतिरेकालङ्कारः प्रतीयते ।
किञ्च कुमारसम्भवे हिमगिरिवर्ण्णनप्रौढोक्त्यप्रौढोक्तिसिद्धालङ्कारसंसृष्टे हिमगिरेरितरोत्कर्षः प्रतीयते ।
अर्थशक्तिभूरित्युपलक्षणम् ।
शब्दशक्त्युद्भवो ऽपि क्वचित् प्रबन्धव्यङ्ग्यो दृश्यते ।
यथा माघकाव्ये शिशुपालदूतोक्तौ सन्धौ काव्ये वस्तुमात्ररूपो विग्रहः उपमाध्वनिरपि तथाविधः सम्भाव्यते ।
एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् ।
लक्ष्यार्थस्य यथा—“निःशेषच्युतचन्दनम्–” इत्यादि (पृदृ ६२) ।
व्यङ्ग्यार्थस्ययथा–“उअ णिच्चल-” इत्यादि (पृदृ ६३) ।
अनयोः स्वतः सम्भविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।
असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ॥
टीका
विज्ञप्रिया:
(वि, ब) पदाम्श इति—अस्फुटपदक्रमस्य अक्रमव्यङ्ग्यध्वनिरर्थ इत्याह–असंलक्ष्येति ।
अत्र ध्वनिपदं काव्यपरम् ।
व्यङ्ग्यपरत्वे व्यङ्ग्यो व्यङ्ग्य इत्यन्वयानुपपत्तेः ।
पदांशादिव्यङ्ग्य इत्यर्थः ।
तत्र पदांशद्योत्यानां बहुविधत्वमाह–तत्रेति ।
यथा—
“चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती” ॥
अत्र “हताः” इति न पुनः “दुःखं प्राप्तवन्तः” इति हन्प्रकृतेः ।
टीका
विज्ञप्रिया:
(वि, भ) चलापाङ्गामितिः शकुन्तलां व्याकुलयन्तं भ्रमरं प्रति दुष्यन्तस्योक्तिरियम् ।
तत्त्वान्वेषात् इति ।
किं ब्राह्मणस्य औरसकन्यात्वेन मत्परिणयायोग्या, किं वा तस्य पुष्टकन्यात्वेन मत्परिणययोग्या इत्येवं तत्त्वस्यान्वेषणादित्यर्थः ।
हन्प्रकृतेरिति ।
हन्धातुरूपप्रकृतेरित्यर्थः ।
अत्र भृत्युकथनात् विप्रलम्भातिशयो व्यङ्ग्यः ।
लोचना:
(लो, इ) पदांशे इति–इह यद्यपि प्रकृत्यादेः केवलस्य न व्यञ्जकत्वम्, तथापि वाचकसमुदायप्रविष्टस्य रसादिषु तदतिशयाधायकत्वं सहृदयानुभवसिद्धम् ।
हता इत्यादि—अत्र इननप्रतीतेरनन्तरं निर्वेदव्यङ्ग्यत्वमिति शोकः ।
तथा ह्यत्र हता इत्यस्य स्थाने क्तप्रत्ययं स्थापयित्वा हनः स्थाने प्रकृत्यन्तरनिवेशने न तथा प्रतीतिः ।
“मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु” ॥
अत्र “तु” इति निपातस्यानुतापव्यञ्जकत्वम् ।
टीका
विज्ञप्रिया:
(वि, म) मुहुरङ्गुलीति—शकुन्तलां प्राप्य तत्सम्भोगविघ्ने सति अनुतप्यसानस्य दुष्यन्तस्य उक्तिरियम् ।
अंसविवर्त्तोति भुजमूले परावर्त्तमानम् ।
अङ्गुलि शकुन्तलायाः ।
अत्रेति—नञा एव चुम्बनाभावलाभे तुशब्देन चुम्बस्य अत्यन्तव्यवच्छेदलाभात् विप्रलम्भानुतापातिशयो व्यङ्ग्यः ।
“न्यक्कारो ह्ययमेव मे यदरः–” इत्यादौ (८ पृ।) “अरयः” इति बहुवचनस्य, “तापसः” इत्येकवचनस्य, “अत्रैव” इति सर्वनाम्नः, “निहन्ति” इति “जीवति इति च तिङः, “अहो” इत्यव्ययस्य, “ग्रामटिका” इति करूपतद्धितस्य, “विलुण्ठन” इति व्युपसर्गस्य, “भुजैः” इति बहुवचनस्य व्यञ्जकत्वम् ।
टीका
विज्ञप्रिया:
(वि, य) न्यक्कार इति—अत्र व्यञ्जकत्वमित्यत्र विषादव्यञ्जकत्वमित्यर्थः ।
बहुवचनस्येति—मम एको ऽप्यरिर्नास्ति बहु तत्सत्त्वे सम्भाविते विषादः ।
एकवचनस्येति—बह्वीभैः पिपील्लिकाभिरप्यपकर्त्तुशक्यत्वे एकस्मिन्नपकारिणि तु अत्यन्तविषादः ।
अत्रैवेति इति—विप्रकृष्टमार्गवर्त्तिखरदूषणाद्यनेकराक्षसवधो ऽपि सह्यः ।
अत्रैव लङ्कायामित्यत्र विषादः ।
तिङ इति—मदनवधाने पूर्वं निहन्तु, वर्त्तमानमपि हननमित्यत्र विषादः ।
अहो इति—अदृश्यविपर्ययदर्शनात् विस्मयेन अत्यन्तविषादः ।
करूपेति कप्रत्ययस्य तद्धितत्वं पाणिनिमते ।
अल्पार्थकस्य तस्य विषादतिशयव्यञ्जकत्वम् ।
तथा हि–यदि लुण्ठने स्वर्गो ऽपि स्वल्पग्रामः कप्रत्ययवशात् चात्यन्तस्वल्पः ।
तद्विलुण्ठनोच्छूनभुजानामिदानीं किमपि कर्त्तुमक्षमत्वेन वैयर्थ्यमित्यन्तविषादः ।
व्युपसर्गस्येति विशेषलुण्ठनबोधनात् ।
भुजैरिति एकद्विक्षिभुजवैयर्थ्यं सह्यं बहूनां वैयर्थ्यादित्यत्यन्तविषादः ।
नरि नरि किरति द्राक् सायकान् पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्च्चा ॥
“अ६ किरतीति वर्त्तमानप्रत्ययेन निवृत्तेत्यत्र क्तप्रत्ययेन कार्यकारणपौर्वापर्यव्यत्ययरूपातिशयोक्तिः प्रतीयते ।
उदाहरिष्यते गुणरीतिनिरूपण इति शेषः ।
लोचना:
(लो, ई) न्यक्कार इत्यादौ उदाहरणद्वये पदांशव्यञ्जकत्वस्य प्रकृतत्वे ऽपि प्रसङ्गात् पदव्यञ्जकत्वकथनम् ।
एवम्—
“रामो ऽसौ भुवनेषु विकमगुणैः प्राप्तः प्रसिद्धिं परामस्मद्भाग्यविपर्ययादिह परं देवो न जानाति तम् ।
वन्दी वैष यशांसि गायति मरुत् यस्यैकबाणाहतश्रेणीभूतविशालशालविवरोक्तीर्णैः स्वरैः सप्तभैः” ॥
अत्रासाविति सर्वनाम्ना साक्षात् कियमाणा तदीयलोकोत्तरप्रसिद्धिर्व्यज्यते ।
भुवनेष्वित्यत्र बहुवचनेन गुणैरित्यत्र प्रकृत्या बहुवचनेन च ।
ते ते विशेषा अस्मद् भाग्यविपर्ययादित्यत्र च न तव न मम किन्त्वस्माकं सर्वेषामपि भाग्यविपर्ययादित्यस्मद्भाग्यविपर्ययादित्यत्र न खल्वभाग्यात् किन्तु भग्यविपर्ययात् ।
एवं हि पूर्वमस्माकं भाग्यमवस्थितम् ।
सम्प्रति तु अनवधानेन तस्य विपर्ययो जात इति प्रतिपादनादात्माना प्रतिपादनेन च ते ते सहृदयसंवेद्या अर्थाः प्रतीयन्ते ।
तथा सक्तोत्फुल्लेत्यादौ हरेः पश्यत इत्यत्रानादरषष्ठ्या किञ्च न केवलं रसादिध्वनेरेव पदांशप्रकाशता, किन्तु वस्त्वलङ्कारयोरपि ।
अत्रालङ्कारस्य यथा—
“पथि पथि सुकचञ्चूचारुराभाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
“आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि” ॥
टीका
विज्ञप्रिया:
(वि, र) आहारे इति–ध्यायन्तीं वियोगिनीं योगधर्मिणीं दृष्ट्वा कस्यचिदियं पृच्छा ।
अत्र नायिकाया विप्रम्भातिशयः समस्तपदव्यङ्ग्यः ।
एकतानमेकमात्रविषयः ।
तव स्थाने यदा विश्वं शून्यमाभाति इत्यन्वयः ।
अत्र तु “आहारे इति विषयसप्तम्याः, “समस्त” इति “परा” इति च विशेषणद्वयस्य, “मौनं चेदम्” इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति” इत्युपसर्गस्य “सखि” इति प्रणयस्मारणस्य “असि भोः” इति सोत्प्रासस्य “किं वा” इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, “असि” इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् ।
टीका
विज्ञप्रिया:
(वि, ल) विषयसप्तम्या इति ।
मनसा अपि आहारविषय इत्यर्थः ।
न तु आहारक्रियायामधिकरणम् इत्यर्थः ।
समस्तेति ।
न तु यत् किञ्चिद्विषये एतद् विशेषणस्य समासपदैकदेशः, किन्तु पदस्यापि पदे व्यञ्जकत्वमस्तीति दर्शितम् ।
प्रत्यक्षपरामर्शिन इति ।
अनुभूयमानत्वपरामर्शिन इत्यर्थः ।
क्वचित्तु प्रत्यक्षपरामर्षिण इति सम्यक् पाठः ।
मौनात् मिथ्यात्वसूचनाच्च तस्य विप्रलम्भव्यञ्जकत्वम् ।
इदमपि पदमेव न पदैकदेशः ।
उपसर्गस्येति ।
आङुपसर्गेण मिथ्यात्वरूपं सम्यक् प्रतिभाति इति भावबोधनात् विप्रलम्भव्यञ्जनम् ।
प्रणयस्मरणस्येति–तेन दृश्यमानो विप्रलम्भो न त्वया गोपनीय इत्यर्थः ।
सोत्प्रासोपहासस्येति—सोत्प्रासः समनाक्स्मितम् ।
वियोगकथनात् मन्दस्मितोपहासः ।
उत्तरपक्षेति—वियोगपक्ष एव दृढ इत्यर्थः ।
वर्त्तमानोपदेशस्येति–विप्रलम्भविशेषः ।
वर्णरचनयोरुदाहरिष्यते ।
प्रबन्धे यथा–महाभारते शान्तः ।
रामायणो करुणः ।
मालतीमाधवरत्नावल्यादौ शृङ्गारः ।
एवमन्यत्र ।
टीका
विज्ञप्रिया:
(वि, व) प्रबन्ध इति ।
प्रबन्धो ऽत्र ग्रन्थरूपः ।
शान्त इति ।
स्वर्गारोहणरूपमहाभारतश्रोतुः युधिष्ठिरशमज्ञातुः शान्तरसो बोध्य इत्यर्थः ।
रामायणेति ।
रामशोकज्ञातुः रामायणश्रोतुः करुणरस इत्यर्थः ।
मालतीति–माधववत्सराजरतिज्ञातुस्तन्नाटकश्रोतुः शृङ्गार इत्यर्थः ।
लोचना:
(लो, उ) प्रबन्ध इत्यादि ।
अयमाशयः–न केवलं वस्त्वलङ्कारध्वनिवदर्थान्तरमाह ।
वाक्यव्यङ्ग्ये ऽपि तत्समुदायभूते महाभारतादिप्रबन्धे ऽपि; अन्यथा काव्यत्वहानेरिति ।
तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ॥ विस्स्द्_४।११ ॥
सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ॥ विस्स्द्_४।१२ ॥
शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।
टीका
विज्ञप्रिया:
(वि, श) एकपञ्चाशदिति—पूर्वदर्शिताः पञ्चत्रिंशत् कुलकरूपमहावक्यव्यङ्ग्याः द्वादशपदैकदेशादिव्यङ्ग्याः चत्वार इत्येकपञ्चाशत् एषां परस्परयोजने सङ्ख्यां दर्शयति—सङ्करेति ।
अङ्गाङ्गित्वरूपेण एकाश्रयानुप्रवेशरूपेण सन्दिग्धरूपेण च त्रिविधेन सङ्करेण योजने तस्य त्रिरूपता ।
किमयम्–अयं वेति संशयास्पदत्वरूपः एकः, तयोः परस्परानुग्राहकानुग्राह्यभावरूपो द्वितीयः, तयोरेकव्यञ्जकेन व्यञ्जनरूपस्तृतीयः ।
संसृष्टिः तु एतत् त्रितयराहित्येनैकपदे स्थितिः ।
एबिर्याः सङ्ख्या भवन्ति ता आहवेदेति—“अङ्कानां वामतः क्रमऽ; इति रीत्यावेदाश्चत्वारः तद्वामे खं शून्यम् ।
तद्वामे ऽग्नयस्त्रयः ।
तद्वामे शराः पञ्च ।
नन्वेवमित्थमेकपञ्चाशत् चतुर्गुणेन चतुरधिकद्विशतमेव भवति ।
तत्कथमेतादृशी सङ्ख्येति चेन्न ।
एकस्यैव स्वजातीयेन एकेन स्वस्वजातीयैः पञ्चाशता च चतुर्गुणने एकस्यैव चतुरधिकद्विशतरूपत्वम् ।
एवं तदुत्तरस्य पूर्वेण सह चातुर्विध्यं पूर्वगणनायां प्रविष्टमित्यतः तस्य चातुर्विध्यस्य अगण्यत्वात् तस्य द्विशतरूपत्वम् ।
एवं तदुत्तरस्य पूर्वद्धाभ्यां चतुश्चतुर्विधत्वस्य अगण्यत्वात् चतुर्न्यूनद्विशतरूपत्वम् ।
एवं रीत्या चरमस्य चतुरूपत्वमात्रं गुण्यमिति भवत्युक्तरूपा सङ्ख्या ।
काव्यप्रकाशे तु दर्शितक्रमेण क्रमशो ह्रसमाविचार्य्य सर्वेषामेव चतुरधिकद्विशतरूपत्वेन एकपञ्चाशत एव तादृशसङ्ख्यात्वेन “वेदखाग्निवियच्चन्द्राःऽ; इत्येवं सङ्ख्या एव उत्सर्गसिद्धा दर्शिताः ।
वस्तुतस्तु अत्यन्तविचारे वेदखाग्निशररूपा या सङ्ख्या ग्रन्थकृता दर्शिता सापि न सम्भवति ।
तथा हि एकपञ्चाशत एव उक्तचातुर्विध्यं न सम्भवति, पदैकदेशपदव्यङ्ग्ययोः पदवाक्यव्यङ्ग्ययोश्च शब्दशक्त्युत्थव्यङ्ग्ययोरर्थान्तरसङ्क्रमितवाच्यात्यन्ततिरस्कृतवाच्यव्यङ्ग्ययोश्च एकव्यञ्जकानुप्रवेशरूपसङ्करासम्भावात् चातुर्विध्याभावात् ।
एषु शुद्धैकपञ्चाशन्मीलनेन सङ्ख्यामाह—शुद्धैरिषुबाणेति ।
व्याचष्टे–शुद्धैरिति ।
योजनेन संस्थातुं योजनेन ।
लोचना:
(लो, ऊ) तदेवमिति—एवं व्यङ्ग्यस्य पदवाक्यगतत्वेङ्गवृत्तौ पञ्चत्रिंशद्भेदाः सङ्ख्याताः ।
तदनन्तरमर्थशक्त्युद्भवस्य प्रबन्धगतत्वेन द्वादश ।
रसस्य पदांशवर्णरचनाप्रबन्धगतत्वेन चत्वार इति मिलित्वा ध्वनिकाव्यस्य एकपञ्चशद्भेदाः शुद्धा इत्यर्थः ।
सङ्करेणेति ।
सङ्करस्याङ्गाङ्गिभावैकव्यञ्जकानुप्रवेशसन्देहभेदात् त्रिभिः प्रकारैः परस्परनिरपेक्षयैकप्रकारया संसृष्ट्या चान्यो ऽन्यमिश्रणे शुद्धभेदानामेव पञ्चाशतः सम्भूय वेदाश्चत्वारः, ख शून्यम्, अग्नयस्त्रयः, शराः पञ्च; एवं"चाङ्कविन्यासे वैलोम्यस्य गणितशास्त्रप्रसिद्धत्वात्"पञ्चसहस्त्राणि; शतत्रयं चत्वारश्च भेदाः"५३०४” ।
तथा हि प्रथमभेदस्य सजातीयमिश्रणे चत्वारो भेदाः; विजातीयैः पञ्चाशता प्रत्येकं ध्वनिना विमश्रणे चत्वारो भेदाः इति मिलित्वा चतुरधिकं भेदशतद्वयं द्वितीयस्य भेदशतद्वयमेव ।
यदि प्रथमभेदस्य द्वितीयभेदेन सह मिश्रयणम्; द्वितीयभेदस्य प्रथमभेदेन सह तत्तदेवेति ।
द्वितीयभेदे प्रथमभेदापेक्षया चत्वारो भेदाः पातनीयाः ।
एवं तृतीये ऽष्टौ चतुर्थे द्वादश इति क्रमेणान्येषामपि स्वकीयाद्यभेदापेक्षया सर्वेषां भेदचतुष्टयपातनम् ।
शुद्धैरिति ।
इषवः पञ्चबाणाः; पञ्च अग्रयः त्रयः सायकाः पञ्च एवं पञ्चसहस्त्राणि शतत्रयं पञ्चाशत् पञ्च च;“५३५५”
ज्रत्र अग्रिमाग्रिमभेदस्य योजने एकैकभेदह्रासात् एवं प्रकारेण एवं योजनं भवति ।
“एको राशिर्द्विधा स्थाप्य एकमेकाधिकं कुरु ।
समार्द्धेनासमो गुण्यः एतत् सङ्कलितं लघु” ॥
इत्युक्तदिशा द्विपञ्चाशदर्द्धेन षड्विंशत्या एकपञ्चाशतं गुणयेत् ।
तथा ( ५१न्२ )
–२उ२६ । ५१न्२६उ१३२६सङ्ख्या जायन्ते ।
तेषु चतुर्भिर्गुणितेषु (१३२६उ४उ५३०४पञ्चसहस्त्राणि चतुरधिकं शतत्रयं सङ्कीर्ण्णभेदाः ।
दिङ्मात्रं दूदाह्रियते—
“अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्त्रक्सम्भारमङ्गलमयत्नकृतं विधत्ते” ॥
टीका
विज्ञप्रिया:
(वि, ष) अत्युन्नतेति—प्रवासादागच्छन्तं पतिं द्वारि स्थित्वा दृष्टवतीं नायिकां कस्मिंश्चिन्निवेदयतः कस्यचिदुक्तिरियम् ।
स्तनयुगं पूर्ण्णकुम्भौ आयतमक्षियुगं नवनीरजतोरणस्त्रक्सम्भारः ।
रसध्वन्योरिति—एतत् वाक्यव्यङ्ग्यत्वात् शृङ्गारस्य ।
व्वनिपदमत्र व्यङ्ग्यरसपरम् ।
एकाश्रय एतत् वाक्यम् ।
अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।
“धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणानि” ॥
टीका
विज्ञप्रिया:
(वि, स) ध्वन्योः संसृष्टिमाह—धिन्वन्त्यमूनि इति ।
अमूनि मधौर्दिनानि धिन्वन्ति लोकान् प्रीणयन्ति ।
कीदृशानि-मदेन मूर्च्छन् वर्द्धमानः अलिध्वनिर्येषु ।
तथा निस्तन्द्र उन्निद्रः चन्द्रः तादृशवदनायाः यद् वदनारविन्दं तस्य सौरभ्यं सौगन्ध्यं तस्य सौहृदेन सम्पर्केण सगर्वाः समीरणा यत्र तादृशानि ।
अत्रेति चन्द्रस्य निद्राभावात् तन्द्रापदस्याप्रकाशे लक्षणा समीरणस्योत्कृष्टत्वं तद्व्यङ्ग्यम्, तथा समीरणस्य गर्वाभावात् उत्कृष्टे लक्षणा सुखस्पर्शत्वं तद्व्यङ्ग्यम् ।
एषां व्यङ्ग्यानां त्रिविधसङ्कराभावात् एकपदसंस्थितिरूपा संसृष्टिः ।
तदाह–निस्तन्द्रेत्यादीति ।
इदमुपलक्षणम् ।
अलिध्वनिचन्द्रसमीरणैः कामोद्दीपकैः व्यङ्ग्यस्य शृङ्गारस्य अप्यत्र प्रतीतिरित्यतस्तस्य चन्द्रोज्ज्वलत्वेन समीरणोत्कृष्टत्वेन तस्य सुखस्पर्शत्वेन च लक्षणामूलकव्यङ्ग्ये न प्रकर्षणादनुग्राह्यानुग्राहकभावरुपसङ्करोप्यत्रैव श्लोके बोध्यः ।
संशयास्पदरूपसङ्कराश्चात्र नोदाहृतः ।
तदुदाहरणं च काव्यप्रकाशकृता दत्तमन्वेष्टव्यम् ।
यथा— खणपाहुणिआ देअर जाआए किं पिदे भाणिआ ।
रुऐ पडाहेपिलहीधरम्मि अणुणिज्वौ वाराई ॥
“इति ।
क्षणप्राघुणिका देवर जायया किमपि ते भणिता ।
रोदिति पश्चाद् भागवलभीगृहे-अनुनीयतां वराकी ॥
इति संस्कृतम् ।
गृहपतिप्रसक्तामुपनायिकामुत्सवे तद्गृहागतां तत्पत्न्या भर्त्सितां पश्चात् गृहे रुदतीमनुनेतुं गृहपतिज्येष्ठभ्रातृपत्न्याः सोपहासोक्तिरियम् ।
अत्र क्षण उत्सवस्तत्र प्राघुणका अभ्यागता उत्सवागतेत्यर्थः ।
तद्देवर सा ते तव जाययाकिमप्यप्रियं भणिता सती पश्चाद्वलभीगृहे रोदितीति ।
तादृशी वराकी दुः खिता अनुनीयतामित्यर्थः ।
भवता इति शेषः ।
अत्र च अनुनयो वाच्यार्थः ।
तद्व्यङ्ग्य उपभोग इति ।
अयं किं स्वतः सम्भविवस्तुव्यङ्ग्यवस्तुध्वनिः किंवा अनुनयपदे उपभोगलक्षणा; तद्व्यङ्ग्य तस्याः दुः खापसारणमित्ययमर्थान्तरसङ्क्रमितवाच्यलक्षणा मूलध्वनिरिति ध्वन्योः संशयास्पदत्वम् ।
एतादृशव्यङ्गयोपयोगाय पश्चाद्गृहमुक्तं निर्जनत्वात् ।
लोचना:
(लो, ऋ) धिन्वन्तीति—धिन्वन्ति प्राणयन्ति ।
अध्वनीनाः पथिकाः नस्तन्द्रसौहृदसगर्वशब्दा निर्मलाद्यभावप्रौढरूपार्थपर्य्यवसानादत्यन्ततिरस्कृतवाच्याः ।
अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।
अथ गुणीभूतव्यङ्ग्यम्—
अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।
अपरं काव्यम् ।
अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति ।
तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ॥ विस्स्द्_४।१३ ॥
सन्दिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् ।
व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥ विस्स्द्_४।१४ ॥
टीका
विज्ञप्रिया:
(वि, ह) गुणी भूतव्यङ्ग्यकाव्यमाह–अथेति ।
काव्यमनुत्तमत्वमिति ।
व्यङ्ग्यानुत्तमत्वेन काव्यानुत्तमत्वम् ।
भेदास्तस्योदिति इति–तस्य गुणीभूतव्यङ्ग्यकाव्यस्य एवमष्टविधव्यङ्ग्यभेदात् तस्याष्टौ भेदा उदिता इत्यर्थः ।
लोचना:
(लो, ॠ) एवं ध्वन्याख्यं काव्यस्य भेदं निरुप्य गुणीभूतव्यङ्ग्यमवतारयति अथेति–तत्र स्यादिति—काक्का आक्षिप्तं वाच्यवत् स्फुटीकृतम् ।
वाच्यसिद्धेरङ्गं कारणम् ।
अस्फुटं सहृदयानामपि क्लेशप्रत्येयम् ।
एवं पूर्वव्यङ्ग्याद्भेदः ।
असुन्दरं वाच्यापकृष्टचमत्कारकम् ।
व्यङ्ग्यमिति प्रतिपदमन्वयः ।
भेदाः विशेषाः ।
इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् ।
यथा–
“अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः” ॥
टीका
विज्ञप्रिया:
(वि, क) रसादेरङ्गं रसादि इत्युभयत्र आदिपदात् भावाद्यङ्गतापि रसादेः, एवं वाच्याङ्गत्वमपि वस्त्वलङ्कारयोरित्युक्तम् ।
अयं स इति—भूरिश्रवसः समरपतितं हस्तमादाय रुदत्यास्तत्पत्न्या उरक्तिरियम् ।
अत्रेति—रसोत्कर्षणादिना व्यङ्ग्यः शृङ्गारः मृतालम्बनकत्वेन रसतामनापन्नो मृतालम्बनकस्य करुणस्याङ्गम् ।
रसतापन्नस्य तस्य शृङ्गारेण प्रकर्षणात् पूर्वानुभूतसुखस्मरणे हि करुणप्रकर्षः ।
लोचना:
(लो, ऌ) यथोद्देशमुदाजिहीर्षुरितराङ्गमिति विवृणोति, इतरस्यार्थात् प्रधानभूतस्य रसादेः, रसशब्देनात्र भावादीनामुपग्रहः आदिशब्देन वाच्यस्याङ्गम् उत्कर्षकारिरसादि अत्रादिशब्दादनुरणनरूपम् । अयं स इति —इदं हि महाभारते, समरच्छिन्नं भूरिश्रवसो हस्तमादाय तत्कान्ताया विलपनम् ।
अत्र शृङ्गारः करुणस्याङ्गम् ।
“मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः ।
हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसन्ततिषु तिष्ठति कामिलोकः ॥
टीका
विज्ञप्रिया:
(वि, ख) भावस्याङ्गं करुणमाह—मानोन्नतामिति ।
उन्नतमानामित्यर्थः ।
हाहेति त्रासविज्ञातुर्वक्तुस्तद्विषयकशोकः ।
भवतो रिपुराजधानीप्रसादसन्ततिषु कथं कमिलोकस्तिष्ठति इति अन्वयः ।
अत्रेति औत्सुक्यं मानिन्यनुनयकामनया व्यङ्ग्यम् ।
तद्विरुद्धः त्रासः यथोक्तकर्णतापपदव्यङ्ग्य इत्यनयोः सिद्धिः ।
तादृशसन्दिविशिष्टानां रिपुराजधानीकामिलोकानां शोच्यावस्थाज्ञातुर्वक्तुः शोकरूपः करुणो राजविषयरतिभावस्याङ्गमित्यर्थः ।
अत्र च हाहाशब्दः क्रोधव्यञ्जकहुङ्कारवन्निरर्थकः ।
शोकव्यञ्जक इति ग्रन्थकृतो ऽभिप्रायः तदैव व्यङ्ग्यभूतस्य हाहाशब्दप्रतिपाद्यस्य शोकरूपकरुणस्य व्यङ्ग्यत्वोपपत्तेः ।
हाहाशब्दस्य वाच्य एव शोरूपः करुणः ।
हाहेत्युक्ते शोचामीति प्रतीत्या तद्वच्यतासिद्धेः ।
अन्यथा गोशब्दस्यापि गैर्न वाच्यः स्यात् ।
अतो ग्रन्थकृतः छिद्रमेवात्र ।
अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।
“जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता” ॥
टीका
विज्ञप्रिया:
(वि, ग) वाच्यार्थस्याङ्गं सादृश्यरूपं वस्त्वाह—जनस्थान इति ।
दरिद्रस्योक्तिरियम् ।
मया रामत्वं प्राप्तं रामसदृशो ऽहं जात इत्यर्थः ।
शब्दात्मकं सादृश्यमाह—जनस्थान इति ।
मया कनकरूपया मृगतृष्णया मरीचिकायान्धितधिया जनानां स्थाने भ्रान्तम् असारे संसारे कनकस्यापि तुच्छत्वेन तस्योपादेत्वभ्रमजनकत्वादुपादेयजलभ्रमकनकमृगृष्णयान्धितधिया भ्रान्तम् ।
मया वै इति सम्बोध्य प्रतिपदं स्थाने देहीति वचः ।
मया भर्त्तुः ईश्वरस्य परिपाटीषु परिचर्य्यासु अंलमित्यर्थका घटना न कृता तद्वत् रामेणापि लङ्काभर्त्तुः रावणस्य वदनानां मुखानां परिपाट्यां परिपाटनस्य निमित्तमिषुघटना कृता ॥
किन्तु कुशलं दारिद्षापनायकं वसु धनं यस्य तादृशता तु मया न प्राप्ता ।
अत्र तुशब्देन रामवाक् छेदात् रामेण तु कुशलवसुता प्राप्ता इत्यर्थः प्रतीयते–तत्र च कुशलवौ सुतौ यस्यास्तादृशी सीतेत्यर्थः ।
लोचना:
(लो, ए) अङ्गपरिपोषकत्वाद् वाच्याङ्गभूतमनुरणनरूपं शब्दशक्तिमूलमुदाहरति-एवं च रसभावादेरङ्गं रसभावादि, वाच्यस्य चानुरणनरूपं व्यड्ग्यमिति द्विधेत्यर्थः ।
जनस्थान इति ।
जनस्थानं-नगरग्रामादि, दण्डकारण्यं च ।
कनकं प्रति मृगतृष्णा विफलाशा, कनकमृगे तृष्णा च वै निश्चितम्; देहि प्रयच्छ; विदेहजा सीता च ।
अलं व्यर्थम् ।
काभर्त्तुः कुत्सितस्वामिनः यद् वदनं तस्य परिपाटीषु परम्परासु लङ्काभर्त्तुः रावणस्य
वदनानां मुखानां परिपाट्यां पङ्क्तौ इषुघटना शरयोगश्च ।
कुशलम् आयतिशुद्धं वसु धनं यस्य एवम्भूतता, कुशलवौ सुतौ यस्याः सा सीता च ।
अत्र रामत्वं प्राप्तमित्यवचने ऽपि शब्दशक्तेरेव रामत्वमवगम्यते ।
वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् ।
तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् ।
टीका
विज्ञप्रिया:
(वि, घ) अत्र विषादाधिक्यव्यञ्जकया कुशलवसुताप्राप्त्या प्राप्ततत्कात् रामात् उपमानाद् वैलक्षण्यरूपो व्यतिरेकालङ्कारः नञो वाच्यः ।
तत्प्रकर्षकतया रामसादृश्यं व्यङ्ग्यम् ।
तदङ्गमिति मनसिकृत्य व्यङ्ग्यस्य सादृश्यस्य अगूढत्वात् गुणीभूतत्वमुपपादयितुमाह–अत्र रामत्वमिति ।
अवचने ऽपीति अनुक्तावपीत्यर्थः ।
वचनेतु इति ।
तदुक्तौ इत्यर्थः ।
तादात्म्यारोपणं रामत्वप्राप्त्या रामतादात्म्यारोपम् ।
तदारोपश्च सादृश्यमूलकः इत्याह—सादृश्यहेतुरिति—आविष्कुर्वाता वक्त्रा तद् गोपनं ध्वनित्वहेतुतद्रूढत्वम् ।
तद्रोपनात् सादृश्यस्य गुणीभूतत्वमुपपादितम् ।
यद्यपि एकशब्दरूपं सादृश्यं श्रोत्रग्राह्यमेव न तु वाक्यम्, व्यङ्ग्यस्यैव च गुणीभूतत्वे गुणीभूतव्यङ्ग्यं भवति ।
तथापि शब्दस्य सादृश्यत्वेन रूपेण व्यङ्ग्यत्वमेव न श्रोत्रग्रह्यत्वम् ।
तथा च तस्यापराङ्गत्वमुपपादयति–तेन वाच्यमिति—व्यङ्ग्यमित्यर्थः ।
न च तद् गोपनात् अगूढरूपगुणीभूतव्यङ्ग्यप्रभेद एवायमिति वाच्यम् ।
तथात्वे ऽपि अपरङ्गतानपायात् ।
वाच्यार्थो रामव्यतिरेको नञो वाच्यः, तत्प्रकर्षान्वयोपपादकतया इत्यर्थः ।
न तु रामव्यतिरेकस्यान्वयनिष्पादकतया अबाधितत्वेन तद् विनापि तन्निष्पत्तेः ।
प्रकर्षद्वारापराङ्गत्वाच्च ।
ननूपमानापेक्षया उपमेयस्याधिकं व्यतिरेकालङ्कारः ।
स च सादृश्यहेतुकोपमानत्वघटित एव ।
तथा च व्यतिरेकालङ्कारशरीरघटकमेव सादृश्यम्; कथं तत्प्रकर्षकमिति चेन्न ।
एकविशेषणेनापि तद् घटनसम्भवे बहुविशेषणसम्भवात्तत्प्रकर्षकत्वमपि लभ्यते तच्च सहृदयैकवेद्यम् ।
लोचना:
(लो, ऐ) अत्रेति वचने तु रामो ऽस्मीत्युक्त्वा पुनः सादृश्यहेतुकतादात्म्यरोपणं जनस्थान इत्यादि वचनप्रतिपादनेनापि लभ्यम् ।
तद्गोपनं व्यङ्ग्यभूतरामतादात्म्यारोपस्य गोपनम् ।
वाच्यं मयाप्तं रामत्वमिति पदाभिधेयम् ।
सादृश्यस्य व्यङ्ग्यतो व्यङ्ग्यत्वे ऽपि स्फुटप्रतिभासने व्च्यत्वमुक्तम् ।
व्यङ्ग्यमिति पाठे तु सुगमा एव व्याख्या ।
सादृश्यं रामेण सहेत्यर्थः ।
वाक्यं जनस्थान इत्यादि ।
एवभर्थशक्तिमूलानुरणनरूपस्य व्यङ्ग्यस्यापि व्यङ्ग्यत्वे उदाहार्य्यम्
काक्वाक्षिप्तं यथा—
“मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन” ॥
अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।
टीका
विज्ञप्रिया:
(वि, ङ) काक्काक्षिप्तमिति—काक्का उच्चारणेन शिरश्चालनसहकृतध्वनिविशेषणाक्षिप्तम् ।
शाब्दबोधस्य प्राक् पदार्थविधया सहसा प्रत्यायितमित्यर्थः ।
मथ्नामीति—दुर्योघनेन सह सन्धिकरणे प्रवृत्तं युधिष्ठिरं श्रुत्वा कुद्धस्य भीमस्य सहदेवं प्रत्युक्तिरियम् ।
भवतामित्यनेन अस्माकम् असमीहितकारित्वात् नास्माकं नृपतिरिति सूचितम् ।
सुयोधनमिति दुर्योधनस्यापरं नाम ।
कृतकौरवशतवधप्रतीज्ञस्य तत्क्रोधसत्त्वेन मथ्नामीत्युक्तिर्बाधितार्था ।
अतो नञः शिरश्चालनसहकृता काकुः प्रतीयते ।
तया व्यञ्जनया अपरनञोर्ऽथोपस्थापनात् न मथ्नामीत्यर्थो लभ्यते ।
तच्च मथनायोगव्यवच्छेदरूपम् ।
तदाह—अत्र मथ्नाम्येवेति ।
आदिपदात् पिबाम्येव इत्यादिकं बोध्यम् ।
इत्यादि व्यङ्ग्यमिति—इत्यादि एकदेशरूपं व्यङ्ग्यमित्येवार्थः ।
एवकारार्थक नञ्द्वये एकनञर्थस्यैव व्यङ्ग्यत्वात् ।
लोचना:
(लो, ओ) सहभावेनैव स्थितमित्यनेन ध्वनित्वनिरासः ।
“दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः ।
प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः” ॥
अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् ।
टीका
विज्ञप्रिया:
(वि, च) वाच्यसिद्ध्यङ्गमुदाहरति—अनुपन्नस्य वाच्यार्थस्य यद् व्यङ्ग्यान्वयेनैव सिद्धिः तादृशं व्यङ्ग्यं वाच्यसिद्ध्यङ्गम् ।
दीपयन्निति—रोपसीरन्ध्रं द्यावापृथिव्योरन्तरालम् ।
अत्रेति ।
अन्वयसाय वैरिकुलस्य वंशपदवाच्यस्य वेणुत्वरोपणरूपो व्यङ्गय इति कुलवेणुद्वयार्थकस्य वंशपदस्य प्रकरणात् कुले नियन्त्रणेन वेणो स्तद् व्यङ्ग्यत्वेन तद्रूपणस्यापि व्यङ्ग्यत्वात् दवानलत्वारोपसिद्ध्यङ्गमिति कुले दवा नलवाधेन वेणावेद तद् बाधात् ।
अत्रेदमवधेयम् ।
यदि प्रकरणवशात् अनेकार्थस्य वंशपदस्य प्रथमं कुलबोधकत्वम्; तदैव वेणुरूपोर्ऽथो व्यङ्ग्यो भवति तदेव तु न; दवानलस्य कुले भाधात् ।
किन्तु कुलवेण्योरुभयोरेकदा एव दवानलान्वयार्थं तात्पर्य्याद् वंशयोरुपस्थित्या अर्थद्वयमेव वाच्यम् ।
नतु वेणुरूपोर्ऽथो व्यङ्ग्यस्तथा च परम्परितरूपमेवेदं वेणुत्वरूपणस्य दवानलरूपणकारणत्वात् तद् वक्ष्यति स्वयमेव— “यत्र कस्यचिदारोपः परारोपस्य कारणम् ।
तत् परम्परितम् ।
इति ।
उदाहरिष्यति च— “आहवे जगदुद्दण्डराजमण्डलराहवे ।
श्रीनृसिंहमहीपाल ! स्वस्त्स्तु तव बाहवे ॥
“इति अत्र हि राजमण्डलस्य ग्रासकरूपसम्बन्धितया राहुवाधात् बाहौ राहुरूपणमनुपपन्नमतो नृपमण्डले चन्द्रमण्डलत्वस्यारोपो बाहौ राहुरुपणकारणमिति ।
अत एव काव्यप्रकाशकृतापि सद्वंशमुक्तामणिरित्यत्र राज्ञो मुक्तामण्यारोपणस्य सत्कुले बाधात् सत्कुले सह वेणुरोपणं तत्कारणमित्युक्तम् ।
अतो दीपयन् रोदसीरन्ध्रमित्यादिकं परम्परितरूपकोदाहरणमेव, न वाच्यसिद्ध्यङ्गोदाहरणम् ।
अन्यथा स्वोक्तेः काव्यप्रकाशकृदुक्तेश्च विरोधापत्तेः ।
न हि दीपयन् इत्यादौ आहवे जगदुद्दण्डेत्यादौ च एकस्य वाच्यसिद्ध्यङ्गत्वमन्यस्य परम्परितरूपकत्वमित्यत्रविनिगमकं नास्ति ।
वाच्यसिद्ध्यङ्गोदाहरणं तु– “गच्छाम्यच्युत ! दर्शनेन भवतः किं तृप्तिरुत्पद्यते किन्त्वेवं विजनस्थग्रेर्हतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदाहसा– माश्लिष्यन् पुलकोत्कराञ्चिततनुगोपी हरिः पातु वाः ॥
“इति काव्यप्रकाशकृद्भिर्दत्तमेवान्वेष्टव्यम् ।
तथा हि इत्यामन्त्रणेत्यादिर्वाच्यार्थः ।
पूर्वार्द्धामन्त्रणेत्यादिवाक्यार्थस्य अप्रतीतिकाले असिद्धेस्तद्-व्यङ्ग्यार्थस्य हे अच्युत ! मद्विधनायिकादर्शनेनापि धैर्य्यच्युतरहित इत्येवंविधायाः भङ्ग्याः प्रतीत्यैव सिद्धयति ।
न च नृपमण्डले चन्द्रमण्डलारोपणमपि व्यङ्ग्यं सदेवालङ्कारः ।
तथा च परम्परितरूपकालङ्कारवाच्यसिद्ध्यङ्गयोः सङ्कर एवेति वाच्यम् ।
व्यङ्ग्यत्वे ऽलङ्कारत्वाभावस्य ब्रह्मणश्रमणेत्यादिना एव उक्तत्वात् ।
प्रथमं नृपमण्डले राहोरन्वयासम्भावेन राजमण्डलपदादेकदैव नृपचन्द्रमणअडलयोः उपस्थित्या द्रयोरपि वाच्यत्वाच्च ।
ननु तत्कथम्— भ्रमिमरतिमलसहृदयतां प्रणयं मूर्च्छां तमः शरीरसादम् ।
मरणं च जलददभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।
“इत्यत्र विशेषजले रूपेतं हलाहलं व्यङ्ग्यं भुजगरुपणसिद्धिकृदित्युक्त्या हलाहलस्य व्यङ्ग्यत्वमुक्त्वा काव्यप्रकाशकृता वाच्यसिद्ध्यङ्गोदाहरणत्वेन तदुक्तमिति चेन्न ।
तत्र उद्दीपकतया प्राकरणिकमनेकार्थस्य विषशब्दस्यार्थो जलम् इत्यतो ऽप्राकरणिकं हलाहलं व्यङ्ग्यमित्युक्तम् ।
न च दीपयन्नित्यत्रापि प्राकरणिकत्वेन वंशपदार्थकुलवाच्यं वेणुस्तु अप्राकरणिको व्यङ्ग्य एवेति वाच्यम् ।
दवानलरूपणस्यापि तात्पर्य्यविषयत्वेन तस्य कुले बाधेन तदुपपादनतया वेणोरपि प्राकरणिकत्वात् ।
अन्यथा “आहवे जगदुद्दण्द"इत्यादावपि परम्परितरूपकं न स्यात् ।
किन्तु वाच्यसिद्ध्यह्गमेव तदपि स्यात् ।
भ्रमिमरतिमित्यादौ तु जलदे भुजगरूपणं श्यामत्वेनापकारित्वेन च जले हलाहलरूपणं विनापि आपाततः सिद्धत्येवेति हलाहलमप्राकरणिकमित्यतो व्यङ्ग्यमेव ।
परन्तु प्रणिधाने सति जलस्य भुजगजन्यत्वासम्भवेन भजगरूपणासिद्ध्या तत्सिद्धिकारित्वेन पश्चाज्जले हलाहलरूपणमिति ।
“हरस्तु किञ्चित्परिवृत्तधैर्यः–” इत्यादौ ((२२।पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये सन्देहः ।
टीका
विज्ञप्रिया:
(वि, छ) सन्दिग्धप्राधान्यमाह—हरस्त्विति ।
प्राधान्यं रसव्यञ्जकतया व्यज्यते रसे ।
किं वाच्यार्थेन किं वा व्यङ्ग्यार्थेन व्यञ्जितो ऽयं इत्येवं सन्देहविषयत्वं तत्त्वम् ।
हलस्त्विति कुमारसम्भवे आकालिके वसन्ते जाते सर्वेषामेव कामोद्रेके सति हलस्यापि किञ्चित् तथात्ववर्णनमिदम् ।
चन्द्रोदयस्यारम्भे नतु चन्द्रस्योदये तदानीमेवाम्बुराशेर्धेर्य्यपरिवृत्तेः किञ्चित्त्वात् ।
अत्रेति—प्राधान्यसन्देहो हरस्य शृङ्गारव्यञ्जकतासन्देहः ।
विलोचनव्यापारो हि वाच्यः ।
चुम्बनाभिलाषस्तु व्यङ्ग्यः तद्द्वयमपि शृङ्गारनुभावस्तत् केन रसो व्यञ्जित इति सन्देहात् ।
न च द्वाभ्यामेव व्यज्यताम्, तथा च तुल्यप्राधान्योदाहरणमेव हदमस्त्विति वाच्यम् ।
धैर्य्यपरिवृत्तेः किञ्चित्त्वेन चुम्बनाभिलाषो जातो न वा; इति सन्देहेन नदीयरसव्यञ्जकताया अपि तदधीनसन्देहात् अत एव वाच्यार्थेन तद्व्यञ्जनमपि सन्दिग्धमेव ।
लोचना:
(लो, औ) सन्देहः–द्वयोरपि रसाभिव्यञ्जकत्वाविशेषात् ।
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते” ॥
अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समम्प्राधान्यम् ।
टीका
विज्ञप्रिया:
(वि, ज) तुल्यप्राधान्यमाह—ब्राह्मणेति—दिग्विजये परशुरामं जिगीषुं रावणं प्रति तदमात्यस्य तत्त्रासकवाक्यमिदम् ।
भवतामेव भूतये न तु स्वार्थ ब्रवीमीत्यर्थः ।
तथेति—ब्राह्मण इत्यर्थः ।
मित्रामित्यत्र चार्थो गम्यः मित्रं चेत्यर्थः ।
अन्यथेति अतिक्रमे इत्यर्थः ।
दुर्मनायत इत्यत्र भविष्यत्सामीप्ये वर्त्तमाना ।
समम्प्राधान्यमिति–यथोक्तव्यङ्ग्यार्थस्याप्यत्र निंश्चितत्वेन द्वयोरपि रावणत्रासरूपव्यभिचारिभावे व्यञ्जकत्वात् ।
वाच्येम्न ब्राह्मणातिक्रमेणापि शापतो भस्मीकरणसम्भावनया त्रासात् ।
लोचना:
(लो, अ) व्राह्मणेति–रावणं प्रति परशुरामदूतस्य वाक्यमिदम् ।
भवतां रक्षसां मित्रे जन्मप्रभृति निखिलरहस्यवेदी ।
अत्रेति–अत्र वाच्यव्यङ्ग्ययोः सामदण्डयोस्तुल्यतयैव वैरमोचने पर्य्याप्तात्वादप्रस्तुतप्रशंसावत् परस्परानपेक्षया चमत्कारास्पदत्वात् द्वयोरपि समं प्राधान्यम् ।
“सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अल्लावदीननृपतौ न सन्धिर्न च विग्रहः” ॥
अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् ।
टीका
विज्ञप्रिया:
(वि, झ) अस्फुटमाह सन्धाविति—विदग्धानामपि कष्टग्म्यं व्यङ्ग्यमस्फुटम् ।
झटित्यस्फुटमिति तत् प्रशमोपायो नास्त्येव इति हि व्यङ्ग्यमापाततः प्रतिभाति ।
यथोक्तं व्यङ्ग्यं तु कृछ्रगम्यम् ।
तद्धि जीवनरक्षार्थं सर्वस्वदानेनापि सन्धिकरणीय इत्येवंरूपम् ।
लोचना:
(लो, आ) पूर्वत्र सन्दहालङ्कारवत् सन्दिग्धत्वम् ।
नान्य उपशमोपाय इति व्यङ्ग्यम् ।
प्राणनिग्रहे प्राप्ते धनत्यागादेः ईषत्करत्वाभिप्रायोणेत्यर्थः ।
“अनेन लोकगुरुणा सतां धर्मोपदेशिना ।
अहं व्रतवती स्वैरमुक्तेन किमतः परम्” ॥
अत्र प्रतीयमानो ऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।
टीका
विज्ञप्रिया:
(वि, ञ) अगूढमाह—अनेनेति ।
शाक्यमुनिना बलादुपभोक्तुमुपक्रम्यमाणायाः तैर्थिकयोषित उक्तिरियम् ।
अहं व्रतवतीति धर्मोपदेशिनः अस्य उपभोगो मम व्रतभङ्गाय नो भविष्यतीत्यतो ऽहं व्रतवत्येव इत्यर्थः ।
स्वैरं स्वच्छन्दम् अतः परम् उक्तेन किं प्रयोजनमित्यर्थः ।
अत्रेति–प्रतीयमानो ऽपि व्यज्यमानो ऽपि ।
प्रतीयमानस्य प्रायशो ऽस्फुटत्वेन स्फुटत्वे तद् विरोधे ऽत्रापिकारः स्फुटतयेति—प्रबन्धश्लोकात्प्रकरणवशाद् बलात्करोपभोगज्ञानात् स्फुटता ।
लोचना:
(लो, इ) अनेनेत्यादौ अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यस्यागूढत्वम् ।
अत्यन्ततिरस्कृतवाच्यस्यागूढत्वं यथा—
“एतद् विभाति चरमाचलचूलचुम्बी हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् ।
प्रज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत् प्रकटलाञ्छनकैतवेन” ।
अत्र चुम्बीति पदे वदनसंसर्गरूपसायर्थस्यासम्भवात् संसर्गमात्रं लक्ष्यन्त तदतिशयश्चाभिधेयवत् स्फुटं प्रतीयते ।
“वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति आङ्गाइम्” ॥
अत्र दत्तसङ्केतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् “सीदन्त्यङ्गनि” इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ।
टीका
विज्ञप्रिया:
(वि, ट) असुन्दरमाह–वाणीरेति ।
वाच्यार्थान्न्यूनचमत्कारिव्यङ्ग्यमसुन्दरम् ।
“वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि” ॥
इति संस्कृतम् ।
वानीरकुञ्जे कृतसङ्केताया गृहकर्मव्यापारात् तत्र गन्तुमशक्ताया वध्वा अङ्गावसादवर्णनमिदम् ।
अत्रेति–प्रविष्ट इत्यन्तमात्रं न व्यङ्ग्यं वध्वास्तत्रागमनस्यापि तदीयपक्षिकोलाहलश्रवणाधीनाङ्गावसादेन व्यङ्ग्यत्वात् ।
तथा चेति–व्यङ्ग्यादित्यत्र इत्यादि व्यङ्ग्यादित्यर्थः वाच्यस्य चमत्कार इति वध्वा विप्रलम्भव्यञ्जकत्वेन ह्यत्र चमत्कारः ।
स चात्रोद्दीपकशकुनिकोलाहलश्रवणाधीनावसादस्य विप्रलम्भं विना अन्यतो ऽसम्भवात् तत्प्रतीत्यवश्यम्भावेन सङ्केतस्थले वध्वा अगमनादुक्ताङ्गावसादसहकारं विना न विप्रलम्भप्रतीत्यवश्यम्भावः ।
वध्वा ईदृशकार्य्यत्यागेनापि तत्रागमनसम्भवादृते वाच्याङ्गावसादमुखप्रेक्षत्वेन तस्य न्यूनचमत्कारितेत्यर्थः ।
लोचना:
(लो, ई) वानीरेति—वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥
वाच्यस्य चमत्कारः प्रधानप्रत्यासत्तेरधिकत्वात् ।
किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव ।
काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।
तदुक्तं ध्वनिकृता–
“अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः” ॥
टीका
विज्ञप्रिया:
(वि, ठ) असुन्दरस्य बहून्युदाहरणानि सम्भवन्तीति दर्शयितुमाह—किञ्च यो दीपकेति ।
बहूपमानानामेकधर्मान्वयो दीपकम् ।
उपमेयोपमानानामेकधर्म्मान्वयस्तुल्ययोगिता ।
सर्वत्रैव व्यञ्जनया उपमा प्रतीयते ।
अस्याश्च गुणीभूतत्वे हेतुमाह—काव्यस्येति ।
अलङ्कारान्तरस्यापि प्रतीतौ सत्यां यच्चालङ्कारान्तरं भसत इत्यर्थः ।
काव्यस्य न तत्परत्वम्, चमत्कारनुत्कटत्वेन तत्तत्तात्पर्य्यकत्वम् ।
अतो भासमानालङ्काररूपोसौ न ध्वनेर्मार्ग इत्यर्थः ।
यत्रेति पाठे तु यत्र काव्ये भासते इत्यलङ्कार इति कर्तृपदमध्याहार्य्यम् ।
लोचना:
(लो, उ) इदानीमन्यत्रापि व्यङ्ग्यस्य गुणीभावस्थले ध्वनिभ्रमं निरस्यन् आह—किञ्चेति ।
अलङ्कारान्तरस्यापीति ।
काव्यस्य च तत्परत्वं न भासत इति सम्बन्धः ।
यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।
टीका
विज्ञप्रिया:
(वि, ड) अन्यमपि गुणीभूतव्यङ्ग्यप्रकारमाह यत्रेति—व्यङ्ग्यार्थस्य गोपनकृतचारुत्वे हि ध्वनित्वं तद् विपर्य्यासो व्यक्तीकारणं यत्र शब्दान्तरादिना क्रियते सो ऽगूढरूपगुणीभूतव्यङ्ग्यप्रभेद इत्यर्थः ।
यथा—
“दृष्ट्या केशव ! गोपरागहृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्” ॥
टीका
विज्ञप्रिया:
(वि, ढ) दृष्ट्येति—केशवं दृष्ट्वा मदनान्धतया गोष्टे पतिताया गोप्याः सलेशं सश्लेषं गदितो हरिश्चिरमवतात् ।
दृष्ट्येत्यादि–सश्लेषोक्तिः तत्र वाच्यार्थो यथा—हे केशव गवां परागेण रजसा हृतया नष्टया दृष्ट्या मया किञ्चित् न दृष्टम् ।
तेन हेतुना अत्र स्खलिता ।
आस्मि पतितास्मि ।
हे नाथ ! पतितां मां किं नालम्बसे ।
कथमालम्बिष्ये इत्यत्राह—एकस्त्वमिति—विषमेषूञ्चनीचेषु वर्त्मसु खिन्नमनसां पत्नेन क्लान्तहृदयानां सर्वाबलानां सकलबलरहितानां स्त्रीणां पुंसां च यतस्त्वं गतिरिति ।
व्यङ्ग्यार्थो यथा-हे केशव गोप गोपालक ।
रागेण त्वय्यनुरागेण हृतया दृष्ट्या मया किञ्चिन्निजतिरोषादिकं न दृष्टम् ।
तेनात्र गोष्ठे स्खलितास्मि आगतास्मि ।
हे नाथ ! पतितां पतिभावं भर्त्तृत्वं किं नाम नालम्बसे नाश्रयसि ।
यतो विषमेषुणा पञ्चेषुणा खिन्नमनसां सर्वासाम् अबलानां त्वमेको गतिरिति ।
लोचना:
(लो, ऊ) दृष्ट्येति—गवां परागेण रजसा हृतया तिरस्कृतया ।
गाः इन्द्रियाणि सम्भागदानादिना पातीति गोपः तस्मिन् गोपे त्वयि, रागेण प्रम्णा हृतया वशीकृतया स्खलिता भ्रष्टपादा गतधैर्य्या च ।
अथ पतितां मार्गपतितां धवत्वं च नावलम्बसे न धारयसि न परिगृहणासि च ।
विषमेषु उच्चनीचस्थानेषु, विषमेषुः कामः तेन च खिन्नमनसाम् ।
अबलानां दुर्बलानां स्त्रीणां च ।
अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः ।
टीका
विज्ञप्रिया:
(वि, ण) स्फुटयेति—श्लेषवशादेव तत्प्रतीतेः सलेशपदेन तत् स्फुटीकरणम् ।
रसाभास इति बोद्धृणामल्पसन्तोष इत्यर्थः ।
न त्वनौचित्यप्रवर्त्तितरूपरसाभासः तद् गोपने ऽपि परनायकविषयत्वेन तदवश्यम्भावात् ।
सलेशमिति पदस्य परित्यागे ध्वनिरेव ।
किञ्च ।
यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।
टीका
विज्ञप्रिया:
(वि, त) क्वचित्तु व्यङ्ग्ये गुणीभूते ऽपि ध्वनिकाव्यव्यवहार एव न गुणीभूतव्यवहार इत्याह—किञ्चात्र यत्र वस्त्विति ।
रसाभ्यान्तरे प्रधानीभूतरसादौ ।
तत्र प्रधानकृत एवेति व्यवहारो ध्वनिव्यवहारः ।
न चेदं कथमुपपद्यते ईदृशस्थले ऽपराङ्गाख्यगुणीभूतव्यङ्ग्यस्यैवोक्तत्वात् इति वाच्यम्, यत्र गुणीभूतानामलङ्कारसादीनामङ्गिजनकत्वमेव नत्वङ्गि प्रकर्षकत्वं तत्रैवाङ्गिनो व्यञ्जकविशेषणत्वेनाङ्गिन एष चमत्कारित्वात् ध्वनिव्यवहारत् ।
यथा च चलापाङ्गां दृष्टिमित्यत्र मधुकरकामुकरूपालङ्कारस्य व्यङ्ग्यस्य हता इति व्यञ्जकविशेषलभ्यव्यङ्ग्यविप्रलम्भप्रतिजनकत्वात् नापराङ्गत्वं किन्तु विप्रलम्भध्वनित्वमेव ।
यथा— “जाने कोपपराङ्मुखी प्रियतमा स्वप्ने ऽद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रतस्तावदहं शठेन विधिना निद्राहरिद्रीकृतः” ॥
इत्यत्र विधिं प्रत्यसूयाध्वनिरेव शठपदेन व्यञ्जकविशेषेण व्यक्तः ।
नो यावदाश्वासयामि इत्यनेन व्यङ्ग्यस्य विप्रलम्भस्य तु असूयाजनकत्वमेव नासूयाप्रकर्षकत्वमित्यतो नापराङ्गत्वमित्यादि स्वयमूह्यम् ।
लोचना:
(लो, ऋ) किञ्चात्रेति ।
प्रधानेन रसेनैव काव्यव्यवहारो न तु गुणीभूतव्यङ्ग्येन ।
तथा च तत्रोत्तमकाव्यत्वमेव इत्यर्थः यथा"अयं स रसनोत्कर्षो"त्यादवेव हि तत्र शृङ्गारस्य गुणीभावे ऽपि तं भागमवलम्ब्य मध्यमकाव्यव्यवहारो ऽपि न कर्त्तव्यः ।
तदुक्तं तेनैव—
“प्रकारो ऽयं गुणीभूतव्यह्ग्यो ऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, थ) प्रकारो ऽयमिति—रसादितात्पर्य्यपर्य्यालोचनमङ्गीभूतरसादेरङ्गादिजन्यत्वादिनो तत्रैव तात्पर्य्यपर्य्यालोचनम् ।
क्वचित्तु प्रकारणग्म्ये वस्तुनि तात्पर्य्यसत्त्वेन अङ्गीभूतरसादौ तात्पर्य्याभावे ऽपि आपाततश्चमत्कारिभिस्तैरङ्गभूतै रसाद्यैरेव पराङ्गव्यवहार इत्याह ।
यत्र तु—“यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।
सन्ध्याभ्रमं प्राप्नुताकाण्डे ऽप्यनङ्गने पथ्यविधिं विधत्ते” ॥
टीका
विज्ञप्रिया:
(वि, द) यत्र तु यत्रोन्मदानामिति—अत्र पुरे ऽभ्रंलिहः मेघस्पर्शो शोणमणीमयूखः पद्मरागमणीनां रश्मिः ।
सन्ध्याभ्रमं तादृशरश्मिसञ्चरणादेव सन्ध्याकाले इति भ्रान्तिं प्राप्नुवतामुन्मदानां मदनमत्तानां प्रमदाजनानामनङ्गनेपथ्यविधिं कामसम्भोगवेशं विधत्त इत्यन्वयः ।
सन्ध्याकाले प्रमदानामनङ्गक्रीडार्थनेपथ्यविधानात् ।
इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वे ऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।
टीका
विज्ञप्रिया:
(वि, ध) अत्र हि प्रकरणात् पुराप्रकर्षे तात्पर्य्यसत्त्वेन अनङ्गनेपथ्यविधानव्यङ्ग्यस्य शृङ्गारस्य तात्पर्य्यविषयत्वाभावे ऽपि आपाततश्चमत्कारित्वलाभेनैवापराङ्गव्यवहारः ।
तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्” इति ।
टीका
विज्ञप्रिया:
(वि, न) काव्यार्थस्याखण्डेति—प्रकृते काव्यार्थः अनङ्गनेपथ्यव्यङ्ग्यः शृङ्गारः ।
तस्य विभावादिनानापदार्थघटितत्वे ऽपि प्रपानकरसन्यायेनाखण्डबुद्धिवेद्यत्वम्; बोद्धुस्तन्मयीभावेनाऽस्वाददशायां शृङ्गारो गुणः ।
पुरीप्रकर्षः प्रधानमित्यवभासस्तावदापाततो नानुभूयत इत्यर्थः ।
तत्र आपाततस्तदननुभवे ऽपि उत्तरकालं प्रकरणादिपर्य्यालोचनया पुरीप्रकर्षप्राधान्यावगमो भवन्नपि काव्यस्य गुणीभूतव्यङ्ग्यव्यपदेशं व्याहन्तुं नेश इत्यर्थः ।
अत्र हेतुमाह—तस्येति ।
अस्य काव्यव्यवहारस्य आस्वादमात्रायत्तत्वादित्यर्थः ।
तथाच अप्रधानेनापि शृङ्गारेणाऽस्वादात् न गुणीभूतव्यङ्ग्यव्यपदेश इत्यर्थः ।
लोचना:
(लो, ॠ) यत्रेति—असौ गुणप्रधानभावाभासः ।
काव्यव्यपदेशं प्राधान्यदर्शनेन मूढमतिभिः अपेक्षणीयम् ।
केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति ।
तदाहुः—
“शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” ।
इति ।
लोचना:
(लो, ऌ) चित्रमिति—गुणालङ्कारयुक्तम् ।
अवरं मध्यमम् ।
********** एन्द् ओफ़् चोम्मेन्तर्य् **********
तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम् ।
टीका
विज्ञप्रिया:
(वि, प) काव्यप्रकाशकृता चित्राख्यं तृतीयं काव्यमुच्यते तद्दूषयितुमाह—केचिदिति ।
तद्दूषयितुं वितर्कयति ।
तन्न यदि हीति, काव्यत्वमपि नास्तीति ।
सगुणाविति तैः काव्यलक्षणे कृते व्यङ्ग्यरसद्वारेणैव च सगुणत्वेन व्यङ्ग्याभावे सगुणत्वाभावात् काव्यत्वं नास्तीत्यर्थः ।
ईषद्व्यङ्ग्यत्वमिति चेत् , किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः ।
द्वितीये त्वकाव्यत्वम् ।
यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।
टीका
विज्ञप्रिया:
(वि, फ) आद्ये आस्वाद्यत्वे प्राचीनभेदयोः ध्वनिगुणीभूतव्यङ्ग्ययोः ।
द्वितीये त्विति—अनास्वाद्यव्यङ्ग्यत्वे इत्यर्थः ।
अकाव्यत्वमिति ।
आस्वाद्यव्यङ्ग्यत्वे एव कावयत्वाङ्गीकारात् इदं च स्वकपोलकल्पितं दूषणम् ।
अनास्वाद्यव्यङ्ग्यत्वे ऽप्यास्वाद्यालङ्कारत्वेन तैः काव्यत्वाङ्गीकारात् ।
ननु आस्वाद्ये एव तारतम्यान्न प्राचीनद्वयान्तर्भाव इत्यत आह—यदि चास्वाद्यत्वमिति—तदा क्षुद्रत्वमेवेति—प्राचीनभेदद्वयात् अस्याल्पत्वमेवेत्यर्थः ।
अस्तु तावत् क्षुद्रत्वं तु काव्यत्वाप्रयोजकत्वेनानुपादेयत्वादनास्वाद्यत्वमेव इत्याह—क्षुद्रतायामिति—तथा च ध्वनिगुणीभूतव्यङ्ग्याख्यं द्वयमेव काव्यम् ।
चित्राख्यं पद्यं न तु काव्यमिति भावः ।
लोचना:
(लो, ए) प्राचीनभेदयोः ध्वनिगुणीभूतव्यङ्ग्ययोरेव ।
तदुक्तं ध्वनिकृता—
“प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
उभे काव्ये ततो ऽन्यद्यत्तच्चित्रमभिधीयते” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, ब) अत एव ध्वनिकारोक्तसंवादमाह—यदुक्तमिति ।
एवमुक्तप्रबन्धेन व्यङ्ग्यस्य प्रधानगुणभावाभ्याम् उभ एव काव्ये व्यवस्थिते ।
ततो ऽन्यत्तु चित्राख्यपद्यमेव न तु काव्यमित्यर्थः ।
तत्र काव्यव्यवहारस्तु साधर्म्याद् गौण इति भावः ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्याविरिचितायां साहित्यदर्पणटीकायां चतुर्थपरिच्छेदविवरणम् ॥
लोचना:
(लो, ऐ) काव्यत्वमाचार्य्यसम्मतमित्याह—तदुक्तमिति ।
चित्रं विचित्रमात्रमास्वादाभावादिति भावः ।
ननु सरसत्वमेव काव्यसामान्यमिति न्यायसहस्त्रैरुक्तम्; उच्यते वक्ष्यते च–तस्य च व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ भेदौ, तयोरपि प्रत्येकं व्यङ्ग्यस्य वस्त्वलङ्कारसरूपत्वेन त्रैविध्यमित्युक्तप्रकारेणात्मना एव आत्मनो भेदः प्रभेदश्च ।
इति दुरुपपादः सामान्यलश्रणश्च व्याप्तेः इति चेत्; अत्रोच्यते-यदि वयं रसवत्त्वाख्यस्य काव्यसामान्यलक्षणस्य वस्त्वलङ्कारव्यङ्ग्ययोः काव्यभेदयोरभावं ब्रूमः तदैष
दोषो, न तथा ।
“गतो ऽस्तमर्कऽ; इत्यादिवाक्यानां “गावो निरुध्यन्ताऽ; मित्यादिव्यङ्ग्येषु तात्पर्य्ये ऽपिन काव्यत्म् ।
किन्तु गुणीभूतयोर्वस्त्वलङ्काररूपयोः रपसवत्त्वादेव काव्यत्वमित्युक्तत्वात् ।
रसवत एव काव्यत्वादित्युक्तत्वात्तथा चेयमत्र व्यवस्था ।
रसवदेव काव्यम्; तच्च क्वचित् वस्तुध्वनिना शवलं क्वचिदलङ्कारध्वनिना; क्वचिच्छुद्धञ्चेति त्रिविधम् ।
एवं गुणीभूतव्यङ्ग्ये ऽपि त्रैविध्यं बोद्धव्यम् ।
अत एवाहुः—रसाद्यपेक्षया तु सर्वगुणाभावव्यभिचार एव इति ।
ननु तर्हि कथं निःशेषच्युतचन्दनमित्यादौ वस्तुध्वनेः प्राधान्यम्, तत्र हि दौत्यकर्मजीविकायां कृतघ्नायां त्वयि तस्मिन् अधमे शठे च मम नासूया, किन्तु यदेवंविधायां त्वयि विश्वसिमि, तथाविधे च तस्मिन् अनुरक्तास्मि, तदेवंवञ्चनासहस्त्रजनितप्रौढपरितापायास्तु मम युक्तमेवेति विप्रलम्भप्रभेदेर्ष्यामानव्यभिचारनिर्वेदध्वनिः प्रधानम् ।
तदङ्गस्तु लक्षणामूलध्वनिरिति चेत्, मैवम् ।
वाच्यतः प्राधान्याप्राधान्यमात्रेण वस्तुध्वनिगुणीभूतव्यङ्ग्याभ्युपगमात् ।
“प्राधान्याप्राधान्ये च प्रधानभूतास्वादप्रत्यासक्तयप्रत्यासक्त्यपेक्षे एव” इति न्यायविदामभ्युपगमात् ।
नन्वेवमलं यथाकथञ्चित् प्राधान्यमुपकल्प्य वस्त्वलङ्काररूपयोर्ध्वनिगुणीभूतव्यङ्ग्योः काव्यव्यवहारप्रवर्त्तकोक्त्या रसध्वनिनापि स निवर्त्ततामिति चेत्, अत्राह काव्यप्रकाशकारः—“समनन्तरोक्तं यद्यपि स नास्ति कश्चिद्विषय इति ।
प्रधानं चापातमात्रेण आपर्यन्तं प्रधानेन रसेन एव व्यपदेशः” ।
तथा तेनैवोक्तमलङ्कारप्रस्तावे—“रसादिरूपस्तद्व्यङ्ग्योर्ऽथोलङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वा एव तदलङ्कारा उदाहृताः” ।
इति ।
नन्वेवमलं ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदकल्पनया ।
तयोरलङ्कारेभ्यः पृथगप्रतीतेरिति चेत्, मैवम् ।
यत्र खलु समासोक्त्याद्यलङ्कारेषु व्यङ्ग्यस्य वैषद्येनापि प्रतीतिः, न तेषु ध्वनेरन्तर्भावः ।
वाच्यापेक्षया व्यङ्ग्यस्य प्राधान्याभावात् ।
यदुक्तं ध्वनिकृता—
“काव्यस्य यत्राप्रधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः” ॥
इति
किञ्च क्वचित् कदाचित् यत्रालङ्कारे व्यङ्ग्यस्यास्वादप्रकर्षकत्वेन प्राधान्यमपि यथाप्रस्तुतप्रशंसायां—
“जं वेल्लिहिण म असि जं चासि परविरं पिलघेमं ।
तमण्डे कोहलि अज्जं वलं पिफुलि हंसि” ॥
इत्यादावचमत्कारैणः कुण्डाकर्षणार्थात् प्रस्तुतात् गृहकर्मरत्या युवानं प्रति नायिकाया अप्रसङ्गनिषेधाय प्रस्तुतस्य बालाया यौवनोद्भेदकथनस्य तस्य ध्वनौ अन्तर्भावो ऽस्तु, उक्तरीत्या तस्य महाविषयत्वात् ।
एवं चालङ्कारेषु गुणीभूतव्यङ्ग्यस्यान्तर्भावे एष एव न्यायः ।
किञ्च दीपकतुल्ययोगितादौ येयमुपपाद्यालङ्काण्णां प्रतीतिर्न तत्र गुणीभूतव्यङ्ग्याख्याकाव्यभेदान्तः पातो ऽनास्वाद्यत्वात् व्यङ्ग्यस्य, सिं त्ववर्जनीयसन्निधित्वमात्रेणावस्थितेः ।
अत एव कविप्रतिभासंरम्भगोचरत्वं तेषु नास्तीति वाच्यम् ।
वानीरकुञ्जे इत्यादौ व्यङ्ग्यस्य नानास्वाद्यत्वम्, किन्तु वाच्यापेक्षया आस्वादपकर्ष इति तेषु उचितो गुणीभूतव्यङ्ग्याख्यकाव्यव्यवहारः ।
कथं च ध्वनिगुणीभूतव्यङ्ग्ययोरलङ्कारेष्वन्तर्भावः, तयोरङ्गित्वात् ।
अलङ्कारणां च तदङ्गभूतशब्दार्थाश्रितत्वात् ।
तदुक्तं ध्वनिकृता एव—
“अङ्गाश्रितास्त्वलङ्काराः मन्तव्याः कटकादिवत्” ॥
इत्यलं बहुना ।
इति श्रीसाहित्यदर्पणलोचने चतुर्थः परिच्छेदः ।
इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।