०३

तृतीयः परिच्छेदः

अथ को ऽयं रस इत्युच्यते–

टीका

विज्ञप्रिया:
(वि, क) वाक्यं रसात्मकभित्युक्तत्वाद्रसं निरूपयितुं पृच्छति–अथेति ।

लोचना:

(लो, अ) रसस्वरूपं निरूपयितुकामस्तस्यावसरप्रप्तत्वं दर्शयन्नाह–अथेति ।
अथ–काव्यस्वरूपनिरूपणानन्तरं कोयं रसो यदात्मकं वाक्यं काव्यमित्यर्थः ।
इत्यपेक्षायामुच्यते–तत्स्वरूपं निरूप्यते ।

विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।

टीका

विज्ञप्रिया:

(ख) विभावो रत्यादेरालम्बनोद्दीपनकारणदूयम् ।
अनुभावस्तस्य कार्यम् ।
सञ्चारी व्यभिचारी, निर्वेदादिरूपः कार्यविशेषः ।
तस्य पृथगुपादानं च गोवृषन्यायात् प्राशस्त्यार्थम्, प्रशस्त्यं च रत्यादेः शीघ्रप्रतिपादकत्वात् ।
यद्यपि विभावादित्रयस्य मिलितस्यैव रसहेतुता वक्ष्यते, तथापि यत्र श्लोके मिलिता न सन्ति तत्रैकेनान्यव्यञ्जने व्यभिचारिणामन्यापेक्षया शीघ्रव्यञ्जकत्वभित्येतद्द्वारा रसस्यापि शीघ्रप्रतिपादकत्वं बोध्यम् ।

रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ॥ विस्स्द्_३।१ ॥

टीका

विज्ञप्रिया:

(ग) रत्यादिः स्थायी भावो रसतामेतीत्यन्वयः ।
ननु रामादिवृत्ती रत्यादिर्विभावादिभिर्व्यज्यते ।
तद्व्यञ्जनावशादेव रसादेरसंलक्ष्यक्रमव्यङ्ग्यपरिभाषा, ततश्च भावनोपनीतः स रत्यादिर्विभावादिनिष्ठेन स्वादनाख्यव्यापारेण सामाजिकरत्याद्यभेदेनारोप्यमाणः स्वप्रकाशानन्दतया तथा परिणमतीति परिणामवादसिद्धान्तेन, तस्य सामाजिके रसताप्राप्तिः ।
एवमेवाग्रे व्यक्तिर्भविष्यति ।

लोचना:

(लो, आ) विभावेनेत्यादि–सचेतसां-सहृदयानां रत्यादिः स्थायीभावः ।
भाव्यते-वास्यते इति व्युत्पत्त्या अनादिवासनान्तर्लोन इत्यर्थः ।
तदुक्तम्—

“वासनानादिकालीना यासौ हृदि सचेतसाम् ।
स्वसामग्रीं समासाद्य व्यक्ता सैति रसात्मताम्” ॥

यद्यपीह मिलितो रत्यादिः प्रपानकरसन्यायेन चर्व्यमाणो ऽखण्डस्वरूपो रसः, तथापि लोकप्रसिद्धिमासाद्य प्रत्यभिज्ञानात् स्थायिभावो रसतामेति ।

विभावादयो वक्ष्यन्ते ।

टीका

लोचना:

(लो, इ) इत्युक्तं विवृणोति-विभावादय इति ।
वक्ष्यते इहैव परिच्छेदे ।
सामान्यतस्तु–

“कारणानि च कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।
विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः” ॥

त्युक्तप्रकाराः ।
दण्ड्याद्यैरुत्कम्—

“विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीय नीतः स्वाद्यत्वं स्थायिभावो रसः स्मृतः” ॥

सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः ।

टीका

विज्ञप्रिया:

(वि, घ) ननु सात्त्विकभावो ऽपि रसादिव्यञ्जकः, स कथं नोक्त इत्यत आह—सात्त्विकाश्चेति ।
ते चाग्रे वक्ष्यन्ते ।

लोचना:

(लो, ई) तत्कथमत्र लक्षणे सात्त्विकानामनुपादानमित्याशङ्क्याह–सात्त्विकाश्चेति ।
सात्त्विकाः स्तम्भस्वेदादयः ।

व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।

टीका

विज्ञप्रिया:

(वि, ङ) परिणामवादसिद्धान्तं दर्शयति—दध्यदिन्यायेनेति ।
दुग्धमेव यथाम्लद्रव्ययोगाद् दध्यादिरूपतया परिणमति; तन्न्यायेन रामादिरत्यादिरेव विभावादिनिष्ठखादनाख्यव्यापारेण सामाजिकरत्यादौ अभेदेनारोप्यमाणः स्वप्रकाशानन्दत्मकज्ञानरूपतया परिणमतीत्यर्थः ।
व्यक्त इत्यस्यार्थं परिणत इत्यन्तेन दर्शयित्वा, तादृगवस्थ एव रसः, नतु अतादृगवस्थ इति प्रतिपादयन् पुनराह—व्यक्तो व्यक्तीकृत एवेति ।
इदं च व्यक्तीकृतरसास्वादाख्येन व्यापारेण विभावादिनिष्ठेन व्यञ्जनाभिन्नव्यापारान्तरेण रामादिरत्याद्यारोपविषयसामाजिकरत्यादेः स्वप्रकाशानन्दरूपतया विषयीकरणमित्यग्रे व्यक्तिर्भविष्यति ।

लोचना:

(लो, उ) दध्यादीति—यथा दुग्धं दधिरूपेण परिणमते इत्यर्थः ।

तदुक्तं लोचनकारैः–
“रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद् व्यवहारः” इति ।

टीका

विज्ञप्रिया:

(वि, च) ओदनं पचतीतिवदिति ।
पाकोत्तरमेवोदनोत्पत्तेस्तण्डुलपाकस्यैव तत्रोपचारः व्यञ्जनया, रत्यादिप्रतीतेरेवं रसे व्यञ्जनया प्रतीत्युपचारः इत्यर्थः ।
अयमुपचारो मानस एव; शाब्दस्तु नोपचारः ।
किन्तु ओदनपदस्य तण्डुले लक्षणेति बोध्यम् ।

लोचना:

(लो, ऊ) ओदनं पचतीतिवत्–न खल्वोदनः पूर्वसिद्धो व्यज्यते, किन्तु पक्वः सन् ओदनो भवतीति तथायमपि व्यक्तः सन् रसो भवतीत्यर्थः ।

अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् ।
ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।
तदुक्तम्–
“रसावस्थः परम्भावः स्थायितां प्रतिपद्यते” इति ।

टीका

विज्ञप्रिया:

(वि, छ) रसतामेति रत्यादिः स्थायीभावः सचेतसाम्"इति यदुक्तं तत्र स्थायीत्यस्य उपादानफलमाह–अत्र रत्यादीति ।
अस्थायित्वप्रतिपादनार्थमिति–किन्तु व्यभिचारिभावत्वप्रतिपादनार्थमिति बोध्यम्, तदाह–ततश्चेति ।
रसान्तरे स्थायित्वाभावे संवादमाह–तदुक्तं रसावस्थ इति ।
रस एव उत्तरकालम् अवस्था यस्य ।
परं केवलं तादृशो हासक्रोधादिभावः स्थायितां प्रतिपद्यते इत्यर्थः ।
अतादृगवस्थस्तु न स्थायित्वं प्रतिपद्यते इत्यर्थः ।

लोचना:

(लो ऋ) कोधादय इत्यादिशब्दात् जुगुप्सादयः ।
रसावस्थः रसरूपताप्रप्तियोग्यः ।

अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते–

सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ विस्स्द्_३।२ ॥

टीका

विज्ञप्रिया:

(वि, ज) सत्त्वोद्रेकादिति कारिकार्थं प्रतिपदं स्वयमेव व्याख्यास्यति ।
चिन्मय इत्यत्र चिद् ज्ञानम् ।
स्वाकारवदभिन्नत्वेनेति—अयं रत्यादिज्ञानरूपो रसः परिणामवशाद्रत्याद्यभिन्नत्वेन विशिष्ट आस्वाद्यते इत्यर्थः ।
नत्वभिन्नत्वं तद्वोधे प्रकारः ।
आरोप्यमाणरामादिरत्याद्यभेदन अधिकरणीभूतसामाजिकरत्यादेरेव यः स्वप्रकाश आस्वादः तस्येव रसत्वात् तत्र चाभिन्नत्वाभावात् ।
तत्रास्वादतद्विषयरत्यादेरमभेदे स्वाकारवादेक्तं दृष्टान्तमाह–स्वाकारवदिति ।
स्वाकारवादे हि विषयो ज्ञानाभिन्नो ज्ञानस्याकार एवेति ।

लोचना:

(लो, ॠ) सम्प्रति कीदृगसावासाद्यते येनैतदास्वादनलम्पटः काव्ये प्रवर्तिष्यते लोकः इत्याशङ्क्योक्तां सत्त्वोद्रेकादिति कारिकामवतारयति–अस्येति ।
आस्वादनप्रकार इति उपचारप्रयोगः; अस्याऽस्वादनातिरिक्तत्वात् ।
सत्त्वोद्रेकादिति—स्वात्मैवाकारः ।
स यथाभिन्नत्वेनानुभूयते उपचारादिति शेषः तथायमास्वाद्यते ।
विवृणोति–

लोकोत्तरचकत्कारप्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥ विस्स्द्_३।३ ॥

“रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते” इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् ।
तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः ।
अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः ।
स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या ।
चिन्मय इति स्वरूपार्थे मयट् ।

टीका

लोचना:

(लो, ऌ) रजस्तमोभ्यामिति—मनो हि सत्वरजस्तमोरूपं त्रिगुणात्मकम् ।
बाह्यमेया घटपटादयः ।
आन्तरो धर्मः सत्त्वमात्रावस्थितिरूपः ।
ननु कथमेवंविधः सत्त्वोद्रेको जायते, ततश्च कथमखण्डस्वप्रकाशानन्दाद् बोधः इत्याशङ्क्याह–तत्र चेति ।
अयमाशयः-“सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च ।
इत्यादि भगवद्वचनात् त्रिगुणात्मके मनसि सत्त्वांशस्य प्रकाशे सुखेत्पत्तिः सत्त्वांशस्य प्रकाशश्च रजस्तमसोरभिभवाद् वैषयिकं सुखं जनयति ।
तथा हि सत्त्वांशप्रकाशतारतम्याद् वैषयिकसुखस्यापि तारतम्यं दृश्यते ।
तच्च सुखतारतम्यं सुखकारणतारतम्यहेतुकमित्यवश्यमभ्युपगन्तव्यम् ।
तच्च सुखकारणं यदि सकललौकिकसुखकारणोत्तरं तेन रजस्तमसोरभिभवः सर्वथा शक्यक्रिय एवेति ।
ततो न्यायात् लोकोत्तरकाव्यार्थश्रवणरूपकारणात् सर्वथा रजस्तमस्यभिभूय मनसः सत्त्वांशस्यैव प्रकाशस्तदा तन्मात्रहेतुको ऽखण्डप्रकाशरूप आत्मावबोधः प्रमाणिक एव ।
अत एवाहुः–“स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः ।
“इत्युक्तप्रकारः ।
स चात्मानन्दाद् बोधो यदि"अन्वयव्यतिरेकाभ्यां निरस्य प्राणतो यतः ।
वीक्ष्यासन्नस्य को ऽस्मीति तत्त्वमित्याह—सौहृदात्"इत्यादि ।
शास्त्रानयनहेतुकः स्यात् तदा निरुपहितं ब्रह्म प्रकाशते ।
यदि पुनर्नाद्यकाव्यदर्शनश्रवणाभ्याम्, तदा विभावादिसम्वलित-रत्याद्यंशकर्बुरितत्वेन किङ्कुर्मः ।
कारणवेचित्र्यस्यैवायं सहृदयानुभवसिद्धो ऽनुभाव इति तस्य च रत्याद्यंशशवलत्वे ऽपि यथा स्वप्रकाशतमोविरुद्धं तथेहग्रे दर्शयिष्यते ।
एतदेवाह—स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्येति ।
रत्याद्यंशशवलत्वादेव चास्य ब्रह्मास्वादस्य सहोदरत्वम्; नतु तत्त्वं सूत्रेणोक्तम् ।
स्वरूपार्थ इत्यनेन मयटः प्रस्तुतार्थस्य निरासः, तेन स्वप्रकाशानन्दचिदभिन्नत्वं रसस्योक्तं भवति ।

चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः ।
तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् ।
तदाह धर्मदत्तः स्वग्रन्थे–

टीका

विज्ञप्रिया:

(वि, झ) तत्र सत्त्वमाचष्टे–रजस्तमोभ्यमिति ।
बाह्यमेयविमुखतासामाजिकस्याविर्भावः उद्बोधः सहकारिप्राप्त्या कार्यजनकतेति यावत् ।
सहकारिप्राप्तिं दर्शयति–तत्र च हेतुरिति ।
एकत्वं ग्राहयति—विभावादीति ।
विभावादिश्च रत्यादिश्च तद्विषयं यत् स्वप्रकाशरूपं सुखं तत्सहितः चमत्कार आत्मा स्वरूपं यस्य तादृशः ।
चमत्कारश्च विस्मय इति वक्ष्यते ।
तादृशसुखचमत्कारयोरेकदा स्थितौ तत्र हेतुं वक्ष्यामः “व्यापारोस्ति विभावादेः"इत्यादिना ।
विभावादेः स्वादनाख्यव्यापारस्य चमत्कारहेतुतायाः सामाजिकानां रामादिनायकाभेदारोपहेतुतायाश्च वक्ष्यमाणत्वात् ।
चिन्मय इतीति—स्वप्रकाशानन्द एव चिद् ज्ञानं तत् स्वरूप इत्यर्थः ।
ज्ञानानन्दयोरभेदस्वीकारात् ।
लोकोत्तरचमत्कारपदार्थं व्याचष्टे—चमत्कार इति ।
चित्तस्य विस्तारः आत्मसंयोगविशेषेण जनितं विलक्षणं ज्ञानम् ।
तदेव दर्शयति—विस्मयेति ।
तत्प्राणत्वं च तत्सहभावेनैव स्थित्या ।
तदाहेत्यादि किमपि नारायणस्यैवोक्तिः ।

रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम्” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, ञ) रसे सार इति रसास्वादहेतुत्वात् सारः ।
तच्चमत्कारसारत्वे इति सति सप्तमीयम् ।
चमत्कारस्य विस्मयरूपत्वात् तेन स्वप्रकाशसुखे ऽतिशयकरणात् तस्य सारत्वं विलक्षणसुखात्मकरसजनकत्वम् ।
तस्मिन् सति शृङ्गारादिरसकाव्येष्वपि अद्भुतो रसः सम्भवति ।
तथा च सामान्यतः शृङ्गारादिरसे जाते ऽद्भुतमुत्पाद्य विलक्षणास्वादरूपः प्रकृष्टशृङ्गारादिरसो जन्यत इत्यर्थः ।
काव्यप्रकाशे तु आस्वाद एव चमत्कारः नतु तद्भिन्नो विस्मयः ।
इत्यद्भुतप्रवेशो न सर्वत्र ।
तस्मादद्भुतमेवेति–अतः शृङ्गारादिकाव्ये प्रकृष्टशृङ्गारादिजनकतया अद्भुतमपि रसमब्रवीदित्यर्थः ।

लोचना:

(लो, ऐ) नारायणदासैरप्युक्तमिति—चमत्कार एव सर्वरसप्रणभूतः ।
तस्य च रत्याद्यंशशवलत्वेन यथायथं शृङ्गारादिव्यपदेशः ।
तद्भावादद्भुतव्यपदेश इति ।

कैश्चिदिति प्राक्तनपुण्यशालिभिः ।
यदुक्तम्–
“पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्” ।
इति ।

टीका

विज्ञप्रिया:

(वि, ट) पुण्यवद्भिरिति–पुण्यशालिभिरिति क्वचित् पाठः ।
वासनायामास्वादनाख्यव्यापारे च पुण्यमेव हेतुरित्यर्थः ।
“न जायते तदास्वादो विना रत्यादिवासनाम्ऽ; इति वक्ष्यमाणत्वात् ।
“विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद् व्यापारऽ; इति वक्ष्यमाणत्वाच्च ।

लोचना:

(लो, ओ) पुण्यवन्त इति ।
प्रमिण्वन्तीत्यत्रापि पूर्ववदुपचारः ।
स्वप्रकाशरूपस्यास्य प्रमाविषयत्वानुपपत्तेः ।
योगिवदिति ।
यथा योगिनः शुद्धं ब्रह्म स्वप्रकाशानन्दचिद्रूपतया साक्षात्कुर्वन्ति रत्याद्यंशकर्बुरितमपि तथा पुण्यवन्त इत्यर्थः ।
तथा चोक्तं “विभावादिसम्भिन्नानुद्रिक्ताङ्गरत्याद्यंशकर्बुरितः स्वप्रकाशानन्दचमत्काररूपो रसःऽ; इति ।
किचित्तु रत्यादिसम्भिन्नानन्दसाक्षात्कारानन्तरं प्रशान्तनिखिलप्रपञ्चचिदानन्दमयब्रह्मतत्त्वाभिव्यक्तिं सुषुप्तिदशावत् समाधिवच्चेच्छन्ति ।
यदाहुः—

पाठ्यादथ ध्रुवाख्यानात्ततः सम्पूरिते रसे ।
तदास्वादभरैकाग्रो हृष्यत्यन्तर्मुखः क्षणम् ॥

ततो निर्विषयस्यास्य स्वभावो ऽवस्थितो निजः ।
व्यज्यते ह्लादनिष्यन्दो येन तृप्यन्ति योगिनः ।

आचार्यास्तु शवलितस्यैवानुभवात् सुखमनुभवामीति प्रतिसन्धानस्य च तावतवोपपत्तेरधिकं नेच्छन्ति ।
रससन्ततिं सन्तन्यमानं रसम् ।
सन्तन्यमानत्वेन व्रह्मास्वादसहोदरस्यास्य निद्ययो ऽविच्छिन्नप्रवाहवाहित्वं सूचितम् ।

यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्,

टीका

विज्ञप्रिया:

(वि, ठ) काव्यार्थसम्भेदात् इति ।
रत्यादिरूपो यः काव्यस्य व्यङ्ग्यार्थस्तत्सम्भेदात्–तत्परिशीलनादित्यर्थः ।
वस्तुतस्तु सम्भेदादिति ल्यब्–गर्भत्वात् पञ्चमी तेन विभावादिशवलित इति ।
आत्मानन्देति—आत्मनि य आनन्दस्तद्रूपेण समुद्भवो यस्य तादृश इत्यर्थः ।
तथा च आनन्दात्मकस्य रसस्य स्वादानतिरिक्तत्वभित्यर्थः ।

लोचना:

(लो, औ) काव्यार्थो विभावादिः ।
तत्सम्भेदादिति ल्यब्लोपे पच्चमी तेन विभावादिशवलित इत्यर्थः ।

तथापि “रसः स्वाद्यते” इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः ।

टीका

विज्ञप्रिया:

(वि, ड) काल्पनिकम्–अभेदे भेदारोपेण भेदम् ।
कर्मकर्तरि वेति–“भिद्यते कुशूलः स्वयमेव"इत्यत्र एकस्यैव कुशूलस्य कर्मत्वकर्त्तृत्वोभयविवक्षया भेदारोपवदत्रापि आस्वाद्यास्वादनयोरभेदेपि भेदविवक्षया कर्मकर्तरि प्रयोगः इत्यर्थः ।
नच आस्वाद्ये आस्वादस्य विषयिताएव, तत्कथं कर्तृत्वमिति वाच्यम्, स्वप्रकाशत्वेन तत्र कर्तृत्वारोपात् ।

तदुक्तम्-“रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रसः” इति ।

टीका

विज्ञप्रिया:

(वि, ढ) रस्यमानतामात्रसारत्वादिति–सारपदमत्र स्वरूपार्थकम् ।
तथा च रस्यमानताया आस्वादकर्मत्वं दर्शितम् ।
प्रकाशशरीरत्वेन आस्वादकर्तृत्वं च दर्शितम् ।
तथा च कर्मकर्तृत्वमुपपादितम् ।
स्वप्रकाशस्य प्रकाशकोभयरूपत्वात् ताभ्यामनन्य एवेत्यर्थः ।

लोचना:

(लो, अ) काल्पनिकमौपचारिकम् ।
कर्मकर्तरि वेति ।
स्वाद्यते-आस्वाद्यते प्रमाणान्तरोपनीतरत्यादितादात्म्येन समुल्लिख्यत इत्यर्थः ।

एवमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति ।

टीका

विज्ञप्रिया:

(वि, ण) एवमन्यत्रापीति–सः प्रतीयत इत्यादावित्यर्थः ।
नन्वेतावतेति–रसस्यास्वादाभिन्नत्वकथनेनेत्यर्थः ।
अज्ञेयत्वं स्वभिन्नज्ञानग्राह्यत्वमित्यर्थः ।
स्वेनैव स्वस्वग्राह्यत्वेन घटादिवत् ज्ञेयत्वासिद्धेरिति भावः ।

व्यञ्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरैक्यमापतितम् ।

टीका

विज्ञप्रिया:

(वि, त) ननु विभावादिजन्येन व्यञ्जनाधीनज्ञानेनैव विषयीकरणात् स्वभिन्नज्ञानग्राह्यत्वमस्त्येवेत्याशङ्कायामाह–अङ्कायामाह—व्यञ्जनायाश्च ज्ञानविशेषत्वादिति ।
व्यञ्जनायाः व्यञ्जनाधीनज्ञानस्य ज्ञानविशेषत्वात् आस्वादरूपज्ञानविशेषत्वात् ।
तथा च तद्दशायां तद्भिन्नज्ञानग्राह्यत्वादज्ञेयत्वमित्यर्थः ।
तथा च रसरूपास्वादव्यञ्जनाधीनज्ञानयोरैक्यमेवापतितमित्याह—द्वयोरैक्यम् इति ।
द्वयोरास्वादाभिन्नरसव्यञ्जनाधीनज्ञानयोरित्यर्थः ।
नन्वेतावता किमनिष्टमित्यतो विभावादेर्व्यञ्जकत्वानुपपत्त्या रसस्य व्यङ्ग्यत्वानुपपत्तिः एवानिष्टमितिवक्तुं प्रथमं विभावादेर्व्यञ्जकत्वानुपपत्तिं घटव्यञ्जकदीपवैलक्षण्येन साधयति—ततश्चेति ।
घटादेर्व्यञ्जको यथा दीपो विभावादेस्तथात्वाभावाद् घटव्यञ्जकदीपतो विभावादेः पार्थक्यं पृथग्भावो वैलक्षण्यमिति समुदायार्थः ।
यथाश्रुताक्षरार्थेन त्वयमर्थो न घटते, स्वविषयज्ञानेन स्वजन्यज्ञानेन वा घटधियो हेतोर्देपस्य घटव्यञ्जकभावप्रसक्त्या “यथा दीपऽ; इति दृष्टान्तानुपपत्तेः ।
अतो ऽत्रज्ञानेनेति ।
तृतीयाभेदे ।
“अर्थेनैव विशेषो हि निराकारतया धियाम्ऽ; इतिवत् ।
तथा च स्वजन्यज्ञानाभिन्नाया अन्यस्य ज्ञानदन्यस्य धियो हेतुर्यः स एव सिद्धे ज्ञानं विनापि सिद्धे अर्थे व्यञ्जको मतो यथा दीप इत्यर्थः विभावादिस्तु स्वजन्यव्यञ्जनाधीनज्ञानभिन्नस्याऽस्वादात्मकरसादेर्जनक एव न दीपवत् व्यञ्जक इत्यर्थः ।
अन्यथाभावे अन्यथात्वे स्वजन्यं प्रत्यपि स्वस्वव्यञ्जकत्वे इत्यर्थः ।
अस्य विभावादेः कारकात् को विशेष इत्यर्थः ।
घटप्रतीपवत् द्वौ यौ व्यङ्ग्यव्यञ्जकौ तयोः सकाशादनयोः रसविभावाद्योः पार्थक्यं वैलक्षण्यमेवेत्यर्थः ।
न तु व्यङ्ग्यव्यञ्जकयोः परस्परं पार्थक्यं भेद इत्यर्थः ।
तदा प्रत्युत रसस्य व्यङ्ग्यत्वस्यैव सिद्धेराशङ्कानुपपत्तेः ।

लोचना:

(लो, आ) एतावतेत्यत्र प्रबन्धेनेति शेषः ।
रसस्य व्यङ्ग्यत्वेन निरूप्यमाणस्यैकं ज्ञानत्वाविशेषादित्यर्थः ।

ततश्च–
“स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।
यथा दीपो ऽन्यथाभावे को विशेषो ऽस्य कारकात्” ॥

टीका

विज्ञप्रिया:

(वि, थ) व्यञ्जनास्वादयोराशङ्कितमैक्यं निरस्य रसावस्थस्य व्यङ्ग्यत्वाभावं सिद्धान्तयन् आह—“चेत् सत्यमिति” ।

लोचना:

(इ) अन्यधीहेतुर्व्यङ्ग्यबुद्धेः कारणम् ।
सिद्धे नतु साध्ये व्यञ्जको मतः शब्द इत्यर्थः ।
यथा दीप इति ।
न खलु दीपो घटादिकं करोति ।
किन्तु स्वप्रकाशेन सिद्धमेव तं प्रकाशयति ।
अन्यथाभावे-असिद्धस्य साधने ।

इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् ।

टीका

लोचना:

(लो, ई) उक्तदिशा ध्वनिकाराद्युक्तमार्गेण व्यङ्ग्यव्यञ्जकयोः पार्थक्यमित्यनेन व्यञ्जनाया व्यङ्ग्यस्य च पार्थक्यं न्यायसिद्धमेव इति भावः ।
न खलु घटस्य दीपप्रकाशेनैक्यम् ।

अत एवाहुः–
“विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः ।

टीका

विज्ञप्रिया:

(वि, द) कृतिज्ञप्तिभेदेभ्य इति–कृतिरुत्पादको व्यापारः दण्डदेर्भ्रम्यादिः ।
ज्ञाप्तिः ज्ञापको व्यापारः, अभिधालक्षणाव्यञ्जनाः; तेभ्यो व्यापारेभ्यो भिन्न इत्यर्थः ।
स्वादनाख्यः आस्वादरूपः स्वप्रकाशज्ञानजनको वृत्तिविशेष इत्यर्थः ।
तथा च तद् विषय एव रसः ।
व्यञ्जनाधीनज्ञानं तु रत्यदिविषयः ततो भिन्नमेव इत्यतो रसव्यञ्जनाधीनज्ञानयोर्नैक्यमित्युक्तम् ।
स च विभावादिर्निष्टो व्यञ्जनाभिन्न इत्यर्थः ।
तथा च व्यञ्जनया रत्यादिज्ञानमेव, स्वादनाख्यव्यापारेण तु रसास्वाद इत्यन्वयः ।
ननु कथं तर्हि रसो व्यङ्ग्य इत्युच्यते इत्यत आह—अभिधादीति ।
विलक्षणो व्यापारो व्यञ्जना रसो व्यङ्ग्य इति व्यह्ग्यरामादिरत्याद्यारोपाधिकरणसामाजिकरत्यादेः रसरूपतया परिणामात् परम्परया व्यङ्ग्य इत्यर्थः ।

लोचना:

(लो, उ) अत एवेति–; आहुरित्यस्य व्यङ्ग्यत्वमुक्तं भवतीत्यत्र दूरस्थेनेतिशब्देनान्वयः ।
अत एव-यतो ज्ञानरूप एव रस इत्यर्थः ।
आहुर्न्यायविदः प्राचीनाचार्या इति शेषः ।
कृतिः करणम्; ज्ञप्तिर्ज्ञानम्; स्वादनं स्वादः"स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भव"इत्युक्तप्रकारः ।
कश्चिदित्यलौकिकः ।
व्यापारः–व्यापारविषयाद्रसादभिन्नः ।
विलक्षणो व्यञ्जकादिति शेषः ।

अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः” इति ।
अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति ।

टीका

लोचना:
(ऊ) व्यङ्ग्यत्वमुक्तम्, प्रकाशनमात्रोपचारादित्यर्थः ।

ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादित्युच्यते–

टीका

विज्ञप्रिया:

(वि, ध) रसत्वं न स्यादिति—स्वप्रकाशानन्दरूपत्वाद्रसस्य इत्यर्थः ।

करुणादावपि रसे जायते यत्परं सुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ विस्स्द्_३।४ ॥

टीका

विज्ञप्रिया:

(वि, न) रसे इति–करुणादौ रस ग्राह्ये करुणादिरसस्वरूपमेव यत् सुखं जायत इत्यर्थः ।
रसातिरिक्तसुखाभावात् ।
सचेतसामनुभव इति ।
रसादीनामेव शोकदुः खं तज्ज्ञातॄणआम्, सामाजिकानां तु सुखमेव जायत इत्यत्र सचेतसामनुभवः प्रमाणमित्यर्थः ।

लोचना:

(ऋ) नन्विति ।
तर्हि यदिदृशानन्दस्वरूपो रस इत्यर्थः ।
रसे सुखमित्युपचारः ।
सचेतसां सहृदयानाम् ।
तेषु करुणादिषु ।

आदिशब्दाद्बीभत्सभयानकादयः ।
तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते–

टीका

विज्ञप्रिया:

(वि, प) असहृदयानामपि परदुः खज्ञानादपि दुः खमेव जायते इत्येवंहृदयानामपीत्यर्थः ।

किञ्च तेषु यदा दुःखं न को ऽपि स्यात्तदुन्मुखः ।

नहि कश्चत् सचेता आत्मनो दुःखाय प्रवर्त्तते ।
करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात् सुखमयत्वमेव ।

टीका

विज्ञप्रिया:

(वि, फ)किञ्च तेष्विति—दुः खहेतुत्वे अनुपपत्त्यन्तरमित्यर्थः ।

लोचना:

(लो, ॠ) साभिनिवेशा, नतु राजादिकारिता ।

अनुपपत्त्यन्तरमाह–

तथा रामायणादीनां भविता दुःखहेतुता ॥ विस्स्द्_३।५ ॥

टीका

विज्ञप्रिया:

(वि, ब) तथा रामायणेति—रामायणमत्र करुणरसविशिष्टतदेकदेशः ।
दुःखहेतुत्व-प्रसङ्ग इति–तथा च तत्–श्रवणे न कोपि प्रवर्तते ।

लोचना:

(लो, ऌ) रामायणं वाल्मीकिमहाकाव्यम् ।

करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् ।
ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह–

टीका

विज्ञप्रिया:

(वि, भ) दुः खहेतुभ्य इति—परशोकादयः स्वदुः खहेतव एव, तेभ्यः कथमित्यर्थः ।

हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् ।
शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥ विस्स्द्_३।६ ॥

टीका

विज्ञप्रिया:

(म) हेतुत्वमिति लोकसंश्रयात्—लोके दृष्टत्वात् स्वीय–शोकहर्षादेर्हेतुत्वगतेभ्यः परशोकादिकारणेभ्यो लौकिकाः शोकहर्षादयो जायन्तां नामेति तुष्यतु दुर्जन इति न्यायेन उक्त्वा आह—अलौकिकेति ।

अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्यो ऽपीति का क्षतिः ॥ विस्स्द्_३।७ ॥

टीका

लोचना:

(लो, ए) हेतुत्वमिति–हेतुत्वं गतेभ्यो रामवनवासादिभ्यो लोकसंश्रयात्; नतु काव्यसंश्रयात् ।
लोके नतु काव्ये; लौकिकाः; नत्वलौकिकाः ।
तेभ्यः— रामवनवासादिभ्यः ।

ये खलु रामवनवासादयो लोके “दुःखारणानि” इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते ।
तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते ।

टीका

लोचना:

(लो, ऐ) अलौकिकविभावनव्यापारवत्तया, नतु पर्यायान्तरत्वमात्रेण ।
विभावनादिस्वरूपं वक्ष्यते ।
सुरते दन्तघातादिभ्य इति ।
अनेन देखकालादिविशेषेणषेण सुखमयस्यापि दुः खमयत्वम्; दुः खमयस्यापि सुखमयत्वम् ।
अत एवाहुः;–“प्रपञ्चस्य सुखदुः खमोहात्मकत्वम्”–साङ्ख्याः

अतश्च “लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते” इति लोक एव प्रतिनियमः ।
काव्ये पुनः

टीका

लोचना:

(ओ) काव्ये अलौकिकार्थे ।

“सर्वेभ्यो ऽपि विभावादिभ्यः सुखमेव जायते” इति नियमान्न कश्चिद्दोषः ।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते–

अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।

टीका

विज्ञप्रिया:

(वि, य) द्रुतत्वाच्चेतस इति–चित्तस्य सदयत्वमेव द्रुतत्वम् ।
सुखसत्त्वेपि तद्दयया अश्रुपता इति भावः ।

लोचना:

(लो, औ) द्रुतत्वात्–द्रवीभावात् रसोद्धोध इति ।

तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह–

न जायते तदास्वादो विना रत्यादिवासनाम् ॥ विस्स्द्_३।८ ॥

टीका

विज्ञप्रिया:

(र) विना रत्यादिवासनामिति–तथा च पुण्यजनितरत्यादिवासनापि रसास्वादहेतुरित्युक्तम् ।

वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् ।

टीका

विज्ञप्रिया:

(ल) यद्याद्येति–इदानीन्तनीत्यर्थः ।
ओत्रियेति–जरन्मीमांसका हि कार्यकारणभावादितर्कमात्रानुशीलनान् न काव्यरसास्वादवन्तः तदनुशीलनाच्च तदानीन्तनवासनावन्त इत्यर्थः ।
नच प्राक्तनवासनाभावादेव तेषां न काव्यरसास्वाद इत्येवमुच्यताम्, किमर्थमिदानीन्तन-वासनाङ्गीकारः इति वाच्यम्, तेषामेव तर्कानुशीलनत्यागेन काव्यानुशीलनाभ्यासे रसोद्वोधेन इदानीन्तन्या अपि अवश्यंवाच्यत्वात् ।

यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् ।

टीका

विज्ञप्रिया:

(व) रागिणामपीति–काव्यरसबोधानुभाववतामपीत्यर्थः तेषामिदानीन्तन-वासनाभावादेव न रसोद्वोध इति वाच्यम् ।
इदानीन्तनवासनाजनकतदनुरागसत्त्वेन तत्सत्त्वावश्यम्भावात् ।
वस्तुतस्तु वासनात्वेनैव कारणत्वमुचितम् ।
नतु तत्र इदानीन्तनत्वादिप्रवेशः जरन् मीमांसकानां तु अत्यन्ततर्कानुराग एव प्रतिबन्ध इत्येवान्वयः ।

उक्तञ्च धर्म्मदत्तेन–
“सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः” ॥
इति ।
ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते–

टीका

विज्ञप्रिया:

(वि, श) ननु कथमिति—नाट्यकाव्यदृष्टश्रुत–सीतादिभ्यः इत्यर्थः

लोचना:

(लो, अ) नन्विति ।
रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधः तन्मते रसतामापद्यमानः ।

व्यापारो ऽस्ति विभावादेर्नाम्ना साधारणीकृतिः ।
तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥ विस्स्द्_३।९ ॥

टीका

विज्ञप्रिया:

(वि, ष) व्यापारोस्ति इति ।
साधारणी कृतिः सामाजिके रामाद्यभेदारोपरूपस्य, रामादिसीतादौ स्वीयत्वारोपरूपस्य, स्वीयरत्यादौ रामादिरत्याद्यभेदारोपरूपस्य च साधारणी सा इति कारिकार्थः ।
कर्तरि अपि क्तिरत एव प्रयोगात् ।
तत्प्रभावेणेति ।
यस्य हनूमदादेः पाथोधिप्लवनादयः आसन् प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यत इत्यर्थः ।
तत्र हेतुमाह—तत्प्रभावेणेति ।
साधारणीकृतिप्रभावेणेत्यर्थः ।
भेदाग्रहे सत्येन अभेदग्रह उपपद्यते इत्यत आह—तदभेदेनेति ।
भेदाग्रहेपि–साधारणीकृतिप्रभावेणेत्यर्थः ।

लोचना:

(लो, आ) साधारणीकृतिः–साधारणीकरणं नाम ।
तत्प्रभावेण–साधारणीकरणव्यापरस्य प्रभावेण ।
तदभेदेन

स्वात्मानं प्रतिपद्यत इति सम्बन्धः ।
यस्यासन्निति ।
विवृणोति–तदभेदेनेति ।
अयमर्थः, सभ्यानां रामाद्यभेदप्रतिपत्तौ नाट्यकाव्ययोः रावणादिदर्शनश्रवणाभ्यां रोषोद्वोधेन सभातः समुत्थाय धनुराकर्षणादिर्भवत् ।
भेदेन प्रतिपत्तौ तु आत्मनिष्टरोषादिस्थायिभावोद्वोधो न स्यात् ।
एवं च यो दोषः समनन्तरमेव दर्शयिष्यते ।
यदुक्तम्—अभेदेन प्रतिपद्यते–अख्यातिवादिनां शुक्तौ रजतप्रत्यये भेदग्रहवत् ।

प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।

ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते–

टीका

विज्ञप्रिया:

(वि, स) इत्थं स्वस्मिन् हनुमदाद्याभेदारोपमुक्त्वा तदुत्साहज्ञानादेव स्वोत्साहोद्वोधमुपपादयितुमाशङ्कते ।

उत्साहादिसमुद्वोधः साधारण्याभिमानतः ॥ विस्स्द्_३।१० ॥

टीका

विज्ञप्रिया:

(ह) ननु कथमिति—साधारण्याभिमानतः–स्वस्मिन् हनुमदाद्यभेदाभिमानतः ।

नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।

टीका

लोचना:

(लो, इ) साधारण्याभिमानतः–उक्तप्रकारेण विभावादीनां साधारणीकरणव्यापारप्रभावेनोत्पन्नस्य स्वात्मनि साधारण्याभिमानबलात् ।
नृणां–सभ्यानाम् ।

रत्यादयो ऽपि साधारण्येनैव प्रतीयान्त इत्याह–

टीका

विज्ञप्रिया:

(क) साधारण्येनेति–उभयसाधारण्येनेत्यर्थः, न त्वात्मगतत्वेनैव नैव रामादिगतत्वेनैवेत्यर्थः ।

साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ॥ विस्स्द्_३।११ ॥

टीका

लोचना:

(लो, ई) रत्यादि; सभ्यानां स्थायिभावः ।
साधारण्येन प्रतीयते ।
विभावादिसाधारणीकरणव्यापारप्रभावादेवेत्यर्थः ।

रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् ।

टीका

विज्ञप्रिया:

(ख) रत्यादेरिति–आत्मगतत्वेन–आत्ममात्रगतत्वेन एवमुत्तरत्रापि मात्रगर्भिता ।

परगतत्वेन त्वरस्यतापातः ।

टीका

लोचना:

(लो, उ) आत्मगतत्वेन प्रतीतावुक्तम्–देवतादिरूपसीतादिहेतुकत्वेनेति शेषः ।
अरस्यता-अनास्वाद्यता ।

विभावादयो ऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह–

परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदो न विद्यते ॥ विस्स्द्_३।१२ ॥

टीका

विज्ञप्रिया:

(ग) परस्य न परस्येति–अत्रापि परस्यैवेत्यादिरर्थः ।

लोचना:

(लो, ऊ) तदास्वादे-तस्य रसस्याऽस्वादे ।
एवं च विभावादयः स्वयं साधारण्येन प्रत्याययन्तीत्यर्थः ।

ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते–

विभावनादिव्यापारमलौकिकमुपेयुषाम् ।
अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥ विस्स्द्_३।१३ ॥

आदिशब्दादनुभावसञ्चारणो ।
तत्र विभावनं रत्यादे

टीका

लोचना:

(लो, ऋ) रत्यादेर्जगतो वासनान्तर्गतवासनान्तर्लोनस्येत्यर्थः ।

विशेषणास्वादाङ्कुरणयौग्यतानयनम् ।

टीका

विज्ञप्रिया:

(वि, घ) आस्वादाङ्कुर इति–व्यञ्जनया रत्याद्युपस्थापनमेव तद्योग्यता ।
अस्य योगार्थस्यानुभावादावपि सत्त्वेति परिभाषाया योगरूढत्वान्न तत्र प्रयोगः ।
एवमग्रे अनुभावव्यभिचारिपरिभाषयोरपि बोध्यम् ।

अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् ।

टीका

विज्ञप्रिया:

(वि, ङ) अनुसञ्ज्ञार्थमाह—समनन्तरत्वमिति ।
एवम्भूतस्य आस्वादाङ्कुरतां प्रापितस्य रत्यादेः स्वनिष्ठस्वादनाख्यव्यापारेण रसरूपतया प्रवेशनमित्यर्थः ।
विभावादिभिरेवं क्रियत इति बोध्यम् ।

सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।
विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते –

कारण-कार्य-सञ्चारिरूपा अपि हि लोकतः ।

टीका

लोचना:

(लो, ॠ) लोकतो-लोके ।

रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥ विस्स्द्_३।१४ ॥

ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते–

टीका

विज्ञप्रिया:

(वि, च) कथं त्रयाणामपीति कार्यस्य कारणत्वाभावादित्यर्थः ।
रसास्वादे एकः प्रतिभास इत्यर्थः ।

प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।
ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ॥ विस्स्द्_३।१५ ॥

प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।

यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव

टीका

लोचना:

(लो, ऌ) अपूर्व इव–तद् भिन्न इव ।

कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः ।
ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत् कथं तेषामेकस्य द्वयोर्वा सद्भावे ऽपि स स्यादित्युच्यते–

सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ॥ विस्स्द्_३।१६ ॥

झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ।

टीका

विज्ञप्रिया:

(वि, छ) झटित्यन्येति—शीघ्रमन्यव्यञ्जके सतीत्यर्थः ।

अन्यसमाक्षेपश्च प्रकरणादिवशात् ।
यथा–
“दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः” ॥

टीका

विज्ञप्रिया:

(वि, ज) दीर्घाक्षमिति—अग्निमित्रनाम्ना राज्ञा मालविकानामराजपुत्र्या रूपवर्णनमिदम् ।
उत्तमनटीं नर्तुयितुर्मनसो यथैवच्छन्द इच्छा तथैवास्या वपुः सृष्टम् (विधात्रा) तदेवाह–दीर्घाक्षमिति–बाहू–अंसयोः स्वमूलयोर्नतौ ।
सङ्क्षिप्तं नातिस्फारम् ।
निबिडौ–अन्योन्यसंसक्तौ उन्नतौ च स्तनौ यत्र तादृशं च उरुः ।
प्रमृष्टे मार्जिते ।
पाणिमितः करतलेन परिमातुं शक्यः ।
जघनोत्तरभागः नितम्बः प्रशस्तः तद् युक्तं जघनम्, उद्ग्रा-उन्नता ।
अत्रेति–अभियं वर्णयतः ।

लोचना:

(लो, ए) दीर्घाक्षमिति ।
छन्दो ऽभिप्रायः ।
सृष्टं विधात्रा इति शेषः नर्तयिता नर्तकीषु दीर्घाक्षत्वाद्यभिनयेन दर्शयितुं शिक्षयति, मालविकायां सहजसौन्दर्यादेव तदस्तीति भावः ।

अत्र मालविकामभिलषतो ऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने ऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः ।
एकमन्याक्षेपे ऽप्यूह्यम् ।

टीका

लोचना:

(लो, ऐ) अन्याक्षेप इति—अन्यत्–एकतमं द्वितयं वा ।

“अनुकार्य्यगतो रसः” इति वदतः प्रत्याह–

टीका

विज्ञप्रिया:

(वि, झ) अनुकार्येति–नाट्ये ऽनुकार्यो रामादिरनुकारको नटः ।

लोचना:

(लो, ओ) अनुकार्यो–रामादिः, अनकर्ता-नटः पाठकश्च ।

पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ॥ विस्स्द्_३।१७ ॥

अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ।

टीका

विज्ञप्रिया:

(वि, ञ) पारिमित्यादिति–सीतादिविषयरतेः रामादिमात्रनिष्ठत्वेन परिमितत्वादित्यर्थः ।
लौकिकत्वादिति–तन्निष्ठरत्यादेस्तत्रैव दृष्टत्वादित्यर्थः ।
काव्यनाट्ययोस्तु तद्रतरत्याद्यभेदेन आरोपविषयस्य सामाजिकरत्यादेरलौकिकत्वमेव ।
सन्तरेति—रामादिरत्यादेरित्यर्थः ।
तदभेदेनारोपविषयः सामाजिकरत्यादिरेव विभावादिनिष्ठस्वादनाख्यव्यापारजन्यास्वादविषयो रसः इत्यर्थः ।

सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपतामियात् ।
(क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् ।
अनुकर्त्तृगतत्वञ्चास्य निरस्यति–

टीका

विज्ञप्रिया:

(वि, ट) अनुकर्तेति–अनुकर्ता नट एव ।

शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥ विस्स्द्_३।१८ ॥

दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् ।

टीका

विज्ञप्रिया:

(वि, ठ) स यदा काव्यार्थभावकः स्यात्तदा सोपि सामाजिको भवेदित्याह—किञ्चेति ।

किञ्च–

काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ॥ विस्स्द्_३।१९ ॥

यदि पुनर्नटो ऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत् तदा सो ऽपि सभ्यमध्य एव गण्यते ।

टीका

लोचना:

(लो, औ) सभ्यमध्य एव गण्यते ।
एतावता सभ्यनिष्ट एव रसः इत्यर्थः ।

नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः ।

टीका

विज्ञप्रिया:

(वि, ड) यद्यप्युक्तरीत्या रसस्य साक्षात् क्रियमाणत्वं कार्यत्वं कादाचित्कत्वेन भविष्यद्वर्तमानत्वं सविकल्पकज्ञानविषयत्वं तज्-ज्ञानस्य साक्षात्कररूपत्वं च तथापि तस्य वैलक्षण्यं साधयितुं साक्षात् क्रियमाण्घटादितो ऽपि वैलक्षण्यसाधनेन कौतुकादसाक्षात् क्रियमाणत्वं कारणविशेषकार्यत्वस्य केनचिदुक्तस्य दूषणेन कौतुकात् सामान्यतो ऽकार्यत्वमेवमभविष्यत्वादिकमपि कौतुकाद् वक्तुं प्रथमं घटादिसाधारणसाक्षात्कारविषयत्वामाह–नायं ज्ञाप्येति–स्वार्थककारितान्तत्वेन (णिजन्तत्वेन) नायं ज्ञेय इत्यर्थः ।
ज्ञाप्यत्व–ज्ञेयत्वयोः समनियतत्वात् यथाश्रुतमेव वा ।
अज्ञेयत्वं चात्र घटादिसाधारणेतरसाक्षात्कारविषयत्वाम् ।
ज्ञेयत्वस्य केवलान्वयित्वेन तदभावासम्भवात् ।
तत्र हेतुमाह–स्वसत्तायामिति ।
प्रतित्यव्यभिचारतः ।
साक्षात्कारं विना असत्त्वात् साक्षात्कारदशायामेव रसः ।
अन्यदा तु रत्यादिरेव ।
घटादिस्त्वसाक्षात्कारदशायामपि घटादिरित्यतस्तद्वैलक्षण्यम् ।
साक्षात्कारहेतुसन्निकर्षार्थं पूर्वसत्त्वस्यावश्यमेवापेक्षणीयत्वात् ।
एतावतैव सामान्यतो ऽज्ञेयत्वमेव अग्रे कौतुकाद् व्यक्तीकरिष्यति ।

लोचना:

(लो, अ) नायं ज्ञाप्य इति–अयं रसः सत्तायां सद्भावे प्रतीतिमन्तरेणाभावात् ।
असंविदितसत्त्वे च प्रमाणाभावात् ।

यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा; प्रतीतिमन्तरेणाभावात् ।

यस्मादेष विभावादिसमूहालम्बनात्मकः ॥ विस्स्द्_३।२० ॥

तस्मान्न कार्यः–

टीका

विज्ञप्रिया:

(वि, ढ) हेतुविशेषकार्यत्वं रसस्य ये वदन्ति तन्मतं निरस्यति—यस्मादेष इत्यादि तस्मान्न कार्य इत्यन्तेन ।
अयमर्थः —“प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेदित्युक्त्या विभावादिरत्यादिसमूहालम्बनात्मको रस इत्युक्तम् ।
तच्च समूहालम्बनं स्वादनाख्यव्यापारजन्यम् ।
केचित्तु तत्समकालोत्पन्नं व्यञ्जनयापि तादृशं समूहालम्बनानन्तरं जायते, तत्कार्य एव रस इत्याहुः, तन्निरस्यति—यस्मादेष इति ।
एष रसो यस्मात् स्वादनाख्यव्यापराधीनसमूहालम्बनात्मकः, अतो न कार्यः, न समूहालम्बनकार्यः स्वस्य स्वकार्यत्वात् स्वकालोत्पत्तिकस्य व्यञ्जनाधीनसमूहालम्बनान्तरस्याभावाच्चेति भावः ।
तत्र स्वस्य स्वकार्यत्वासम्भवस्य स्फुटत्वात् ।

लोचना:

(लो, अ) रसस्येति–नहि विभावादिज्ञानकारणकमित्यनन्तरं ततश्चानुपलभ्यमानकारणान्तरस्य रसस्य न कार्यत्वमिति भावः ।

यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् ।

टीका

विज्ञप्रिया:

(वि, ण) स्वसमकालोत्पत्तिकसमूहालम्बनानन्तरकार्यत्वासम्भवं व्याचष्टे—यदि रसः कार्यः स्यादिति ।
यदि समूहालम्बनकार्यः स्यादित्यर्थः ।
विभावादिज्ञानकारणको विभावादिसमूहाम्बनज्ञानकारणकः स्यादित्यर्थः ।
प्रत्येकं विभावादिज्ञानकारणकत्वे त्विष्टापत्तिरेव ।
“प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते"इत्यनेन प्रत्येकस्य हेतुत्वोक्त्या तत्कार्यत्वे विप्रतिपत्त्यभावात् ।

ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्,

टीका

विज्ञप्रिया:

(वि, त) ननु तादृश्समूहातम्बनकारणत्वे को दोषः इत्याह–ततश्चेति ।
रसप्रतीतिकाले, स्वादनाख्यव्यापारजन्यविभावादिसमूहालम्बनात्मकरसप्रतीत्युत्पत्तिकाले विभावादयो न प्रतीयेरन्; तत्कालोत्पन्नप्रतीतिविषयाः स्युरित्यर्थः ।

कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् ।

टीका

विज्ञप्रिया:

(वि, थ) कारणज्ञानस्य स्थितिः कार्यज्ञानस्योत्पत्तिरिति तु न सम्भवत्येव ।
कार्यकारणयोरुत्पत्तियोगपद्स्यैवाभावात् ।
तदाह–ज्ञानतत्कार्यज्ञानयोरिति ।
अत्र ज्ञानेति प्रकृताभिप्रयेणैव ।
कारणकार्यमात्रयोरेव युगपदुत्पत्त्यभावात् ।
न च पूर्वोत्पन्नमेव व्यञ्जनाधीनसमूहालम्बनमस्त्विति वाच्यम् ।
स्वादनाख्यव्यापाराधीनरसात्मकसमूहालम्बनातिरिक्तसमूहालम्बनस्यानुभावात्, तत्स्वीकारवैफल्याच्च ।

नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति ।

टीका

विज्ञप्रिया:

(वि, द) कारणकार्यज्ञानयोर्युगपदुत्पत्त्यसम्भवं दर्शयति–नहि चन्दनेति ।

रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः ।

टीका

विज्ञप्रिया:

(वि, ध) तस्मात् रसस्य समूहालम्बनात्मकत्वमेव; नतु समूहालम्बनजन्यत्वमित्युपसंहरति–रसस्येति ।
समूहालम्बनात्मकतयैव इत्येवकारात् समूहालम्बनजन्यत्वव्यवच्छेदः ।
तदेवाह–न विभावादीति ।
ज्ञानमत्रापि समूहालम्बनम् ।
एवं रसस्य समूहालम्बनकार्यत्वमेव खण्डितं नतु कार्यत्वम् ।
एतावतैव कार्यत्वसामान्याभावमग्रे कातुकाद् वक्ष्यति ।

लोचना:

(लो, आ) नो नित्य इति–नित्यत्वाभावे हेतुमाह—
पूर्वसंवेदनोज्झित इति ।
पूर्वसम्वेदनाभावादित्यर्थः ।
ननु पूर्वसंवेदनाभावान्नित्यत्वाभावे इतरषामपि नित्यवस्तूनामभावप्रसङ्ग इत्यत आह-असम्वेतनेति ।
अस्य रसस्य ।

– नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले हि न भावो ऽष्यस्य विद्यते (क) ॥ विस्स्द्_३।२१ ॥

टीका

लोचना:

(वि, न) नित्यत्वाभावः स्पष्ट एव, तमाह–नो नित्य इति ।
पूर्वसंवेदनम्, संवेदनात् पूर्वमुज्झितो ऽसन्नित्यर्थः ।
तदेव दर्शयति–असंवेदनकाल इति ।

न खलु नित्यस्य वस्तुनो ऽसंवेदनकाले ऽसम्भवः ।

नापि भविष्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् ।

(लो, इ) नापि भविष्यन्नित्याह–साक्षादनुभूयमानस्य हि कथं भविष्यत्त्म् ।
यस्य खलु वस्तुनो भविष्यत्त्वं सहजो धर्मस्तत् सदा भविष्यदेवेति भावः ।
कार्यज्ञाप्यविलक्षणभावात् समनन्तरोक्तन्यायसिद्धावित्यर्थः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानो ऽपि ॥ विस्स्द्_३।२२ ॥

टीका

विज्ञप्रिया:

(वि, प) नापि भविष्यन्निति यद्यपि संवेदनात् पूर्वम् असत्त्वेनैव भविष्यत्वं दुरपह्नवम् ।
तथापि भविष्यत्पदार्थान्तरस्य साक्षादानन्दमयप्रकाशत्वस्वरूपाभावात् तद्वैलक्षण्यमेव भविष्यत्वाभावः कौतुकादुक्तः ।

विभावादिपरामर्शविषयत्वात् सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥ विस्स्द्_३।२३ ॥

न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते ।

टीका

विज्ञप्रिया:

(वि, फ) वर्तमानत्वाभावमपि कौतुकादाह–कार्यज्ञाप्येति ।
यद्यपि घटादिसाधारणज्ञाप्यत्वस्यैव समूहालम्बनकार्यत्वस्यैव चाभावः प्रग् दर्शितः, तथापि तावतैव कार्यत्वज्ञाप्यत्वाभावं कौतुकादारोप्यैवमुक्तम् ।
तथा च कार्यज्ञाप्यभिन्नस्यालीकत्वान्न वर्तमान इत्यर्थः ।
स्वप्रकाशरूपस्य स्वमेव ग्राहकम्, तत्तु न निर्विकल्पकमित्याह–विभावादीति ।
तत्परामर्शस्तत्समूहालम्बनम्; तद्विषयत्वात् स्वेनैव स्वस्य विषयीकरणात् ।
तत् प्रधानत्वादिति क्वचित् पाठे तत्परामर्शः प्रत्येकं तज् ज्ञानम्, तत् प्रधानत्वात् तज्जन्यत्वादित्यर्थः ।
उभयथापि निर्विकल्पकत्वाभाव एव ।
अद्ये विभावादिसमूहालम्बनस्य सविकल्पकत्वात् ।
अन्त्ये तु ज्ञानजन्यत्वेन निर्विकल्पकत्वाभावात्, ज्ञानजन्यज्ञानस्यैव निर्विकल्पकत्वात् ।
हेत्वन्तरमाह—परानन्देति ।
प्रकारप्रदर्शनात् सप्रकारत्वं प्रदर्शितम् ।
तथा च न निर्विकल्पकं निष्प्रकारकज्ञानस्यैव तथात्वात् ।

लोचना:

(लो, ई) निर्विकल्पकं ज्ञानम्–अस्ति ह्मालोचनमात्रप्रथमं निर्विकल्पकं ज्ञानम्, अमुकासदृशं ज्ञानं शुद्धवस्तुजमित्युक्तप्रकारम्, तस्य ग्राहकमित्युपचारप्रयोगः ।
स एव रसो निर्विकल्पकज्ञानत्वेन गृह्यमाणो न भवतीत्यर्थः ।
तथा निर्विकल्पकस्य ज्ञानविषयोपीति ।
तत्र पक्षे यस्य ग्राहकत्वमिष्यते इत्यत्र नोपचारः ।

तथाभिलापसंसर्गयोग्यत्वविरहान्न च ॥ विस्स्द्_३।२४ ॥

सविकल्पकंसंवेद्यः–

टीका

विज्ञप्रिया:

(वि, ब) सविकल्पकसंवेद्यत्वाभावमपि तस्य कौतुकादाह–तथाभिलापेति ।
यद्यपि तद्ग्राहकस्य निर्विकल्पकत्वाभावयुक्तिप्रदर्शनेनैव सविकल्पकसंवेद्यत्वं सिद्धं तथापि सविकल्पकसंवेद्यान्तरतो वैलक्षण्येन तदवेद्यत्वं कौतुकादुक्तम् ।
वैलक्षण्यमेवाह—तथाभिलापेति ।
तत्काव्यस्थशब्देन तस्याभिलप्यमानत्वाभावादित्यर्थः ।
तस्य विभावाद्यभिधानद्वारेणैव तस्य ज्ञेयत्वम्, नतु काव्यस्थशब्देन ।
प्रत्युत तस्य तत्काव्यस्य शब्दवाच्यत्वे स्वशब्दवाच्यत्वं दोष एव वक्ष्यते ।
अत्र एव काव्यप्रकाशकृताप्युक्तं,“रसादिलक्षणस्त्वर्थः स्वप्रेति न वाच्यऽ; इति ।
अयं रसवानित्यादितत्काव्यस्थेन अशब्देन तु वाच्यम्, सविकल्पकवेद्यं पदार्थान्तरं तत्काव्यस्थशब्देनैव वाच्यमिति ततो वैलक्षण्यमिति वचनम् ।

सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।

टीका

विज्ञप्रिया:

(वि, भ) प्रयोगयोग्यता तत्काव्यस्थशब्देनेति शेषः ।

–साक्षात्कारतया न च ।
परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसम्भवात ॥ विस्स्द्_३।२५ ॥

टीका

विज्ञप्रिया:

(वि, म) तत्प्रकाशस्य परोक्षत्वं नास्तीत्याह—साक्षात्कारतेयेति ।
स्पष्टमिदम् ।
साक्षात्कारानन्तरवैलक्षण्यप्रतिपादनाय साक्षात्काररूपस्यापि तत्प्रकाशस्य साक्षात्कारत्वाभावमपि कौतुकादाह–नापरोक्ष इति ।
न साक्षात्कार इत्यर्थः ।
तत्र हेतुमाह—शब्दसम्भवादिति ।
शब्दसम्भवात्–शाब्दत्वादित्यर्थः ।

लोचना:

(लो, ऋ) तथाभिलापेति–अत्रापि पूर्ववत् रसो न सविकल्पकरूप इति ।
नच तद्विषयोपीतिव्याख्येयम् ।
सविकल्पकस्वरूपं च—“अतः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया ।
बुद्ध्यावसयिते सापि प्रत्यक्षत्वेन सम्मता ।
“प्रत्यक्षमत्र प्रकरणात सविकल्पकम् ।
साविकल्पकत्वेन सम्मतेत्युक्तप्रकारम् ।
अतः परमित्यत्र इदमानुपूर्वोक्तनिर्विकल्पकपरामर्शः शब्दसम्भाव्त शाब्दज्ञानम् परोक्षमिति भावः ।
तत् कथयतितत्त्वं स्वरूपम्, पूर्वं न श्रुतो न दृष्टश्चोक्तस्वरूपो निरूपणप्रकारो यस्य रसस्येत्यर्थः ।

तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह–

तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।

टीका

विज्ञप्रिया:

(वि, य) इत्थं किञ्चित् वस्तुतः किञ्चिच्च कौतुकाद् वैलक्षण्यमुक्त्वा कीदृशं तादृशविलक्षणं वस्तु तत् इति पृच्छति; तत् कथयति ।
तस्यादृष्टचरत्वात् तन्निरूपमसायपि अदृष्टचरत्वं भवतीत्याह—अदृष्टनिरूपणेति ।
विलक्षणं दर्शयति—तस्मादलौकिक इति ।
लोकदृष्टसुखादिपदार्थविलक्षण इत्यर्थः ।
स चान्यलोकैरज्ञेयः ।

लोचना:

(लो, ॠ) अलोकिको लौकिकवस्तुविलक्षणः ।
यदाह एतन्निरूपणप्रस्ताव एव काव्यप्रकाशकारः—अलौकिकसिद्धेर्भूषणं नतु दूषणम् ।
न खल्वदर्शनमात्रेणानुभूयमानवस्तुस्वरूपापह्निवः शक्यकिय एवेति भावः ।
कथमीदृशो ऽसावस्माभिरनुभूयत इत्याह–वेद्य इति ।
प्राचीनवासनासम्वलिता विद्यानिपुणतोपस्कृता बुद्धिरत्र हृदयम् ।
तद्वद्भिः सहृदयैः; नतुं वैयाकरणमीमांसकदर्दुरकैर्युष्माभिरिति भावः ।

तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह–

प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥ विस्स्द्_३।२६ ॥

टीका

विज्ञप्रिया:

(वि, र) तत्संवेद्यत्वे एव किं प्रमाणमित्यत्राह—प्रमाणमिति ।
तदीयसाक्षात्कार एव प्रमाणमित्यर्थः ।
स्वप्रकाशत्वेन साक्षात्कार्यसाक्षात्कारयोरभेदादिदं विदुषां मतमित्यर्थः ।

लोचना:

(लो, ऌ) अत्रैवमुक्तरूपे रसे स्वस्याश्चर्वणाया एवाभिन्ने ।
एवं च सहृदयानुभव एवात्र प्रमाणमिति पर्यवस्यति ।

तथाच नात्माश्रयदोषः ।

चर्वणा आस्वादनम् ।
तच्च “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तप्रकारम् ।

टीका

विज्ञप्रिया:

(वि, ल) स्वादः काव्यार्थेति–स्वादः–साक्षात्कारः ।
काव्यार्थसम्भदात् काव्यस्य वाच्य इत्यर्थः ।
लक्ष्यव्यङ्ग्यवस्तूनां सम्भेदात् ज्ञानात् आत्मनो रसस्यानन्दरूपेण समुद्भवः ।
कृदभिहितभावत्वात् समुद्भूत आनन्द इत्यर्थः ।

ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इति लक्षणं कृतमित्युच्यते–

निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।

यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं

टीका

विज्ञप्रिया:

(वि, व) रामादिरत्यादेः सामाजिकरत्यादेर्वो उद्दीपनविभावानुभावव्यभिचारिजन्यत्वं नास्त्येव, ततस्तदात्मकस्य रसस्य तत्साक्षात्कारांशमात्रजन्यत्वं सिद्धान्तयितुं कौतुकोक्तमपि तस्याकार्यत्वमुक्त्वा आशङ्कते–ननु यदि रसो न कार्य इति ।

वस्तुतस्तु समूहालम्बनाकार्यस्यैव उक्तत्वात् निष्पत्रिरुपचारत इति ।
विभावादितो निष्पत्तिरित्यर्थः ।
स्वकारणाधीननिष्पत्तिकस्य रत्यादेर्निष्पत्तेर्वास्तवत्वेन निष्पत्तेरुपचाराभावात् ।
इत्थं विभावादितश्चर्वणाया निष्पत्तिरेव वास्तविकरत्याद्यंशस्य ततो निष्पत्तिरुपचरितेत्युक्त्या चर्वणांशस्यापि निष्पत्तिरुपचरितैवेति वक्तुमाह—यद्यपीति ।
अयमर्थः–रत्यादयस्तावदुद्दीपनविभावानुभावव्यभिचारिणामकार्यमित्युक्तमेव ।
अत एव रत्यादयश्चर्वणात्मकसाक्षात्काररूपतया परिणमन्तीति सिद्धान्तितम् ।
ततश्च रत्यादिरूपरसाभिन्न एव चर्वणात्मकः साक्षात्कारस्तथा रत्यादेः विभावाद्यकार्यतयैव चर्वणस्यापि विभावाद्यकार्यत्वमर्थसिद्धमिति यद्यपि रत्यादेरर्थः ।

तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते ।

टीका

विज्ञप्रिया:

(वि, श) समाधाने तथापीति ।
परिणामरसास्वादचर्वणादिभावाद्यभिन्नतया निष्पन्ना ।
सा विभावादिज्ञानात् पूर्वं नास्तीति ।
किन्तु विभावादिज्ञानेत्तरमेव निष्पन्नेत्येवं कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते इत्यर्थ ।
नचैवमन्यथासिद्धविभावादिज्ञानोत्तरभावित्वेन तत्कार्यत्वं चर्वणायाम् अवास्तवमेव तत् कथमुपचार इति वाच्यम् ।
रत्याद्यभिन्नतया कार्यत्वस्यैव वास्तवत्वात्, शुद्धायास्तस्या अवास्तवत्वमित्यभिप्रायात् ।

लोचना:

(लो, ए) यद्यपीत्यादि—अयमर्थः समनन्तरोक्तप्रकारेण रसाभिन्ने चर्वणे कादाचित्कत्वाद् वस्तुनि व्यभिचारेण तस्य कार्यत्वं कादाचित्कत्वादेवोपचर्यते ।
तेन चर्वणस्यापरिचितेन कार्यत्वेन तदभिन्ने रसेपि कार्यत्वमुपचारादिति भावः ।
अस्य कादाचित्कत्वेपि न कार्यत्वमिति समनन्तरमेवोक्तम् ।
व्यञ्जननिरूपणे पञ्चमपरिच्छेदे ।

अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥ विस्स्द्_३।२७ ॥

तस्य रसस्य ।
आदिशब्दादलक्ष्यत्वादि ।

टीका

विज्ञप्रिया:

(वि, ष)“तथाभिलापसंसर्गयोग्यत्वविरहान्नचे"त्यादिना यत्तत् काव्यस्थशब्दावाच्यत्वमुक्तं तदुपात्तमग्रे करिष्यत इत्याह—अवाच्यत्वादिकमिति ।
आदिशब्दा दलक्ष्यत्वादि इत्यत्र आदिपदादननुमेयत्वपरिग्रहः ।

ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह–

टीका

विज्ञप्रिया:

(स) मिलिता इति ।
विभावादिसाहित्येन समूहालम्बनविषया इत्यर्थः ।
तत् कथमस्य स्वप्रकाशत्वमिति—रत्यादेर्ज्ञानरूपत्वाभावात् ज्ञानस्यैव स्वप्रकाशत्वात् ।
मिलनकथम्न च स्वरूपाख्यानमात्रम् एकैकत्राप्येवमाशङ्कासम्भवात् ।

लोचना:

(लो, ऐ) ननु यदीति ।
कथं स्वप्रकाशत्वं रत्यादीनां जडत्वादित्यर्थः ।

रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् ।
अतो ऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥ विस्स्द्_३।२८ ॥

टीका

विज्ञप्रिया:

(वि, ह) ज्ञानतादात्म्यादिति ।
ज्ञानरूपतया परिणामादित्यर्थः ।

लोचना:

(लो, ओ) रत्यादिरिति–अस्य रत्याद्यंशस्य यस्याहुः"आत्मभूतसुखाकारप्रकाशप्रतिमानतः ।
ज्ञानाकारावलम्बित्वे सिद्धा स्यात् स्वप्रकाशताऽ; इति ।
अस्यार्थः–ज्ञानकारावलम्बित्वे नात्मभूतः सुखाकारो ऽपि प्रकाशते ।
तस्य प्रतिमानतः सत्सादृश्यात् इत्याद्यंशोपि स्वप्रकाश इति ।
ननु यदि चैतन्यस्य सज्ञानत्वेन जडस्य स्वप्रकाशता तदा प्रमातृभावमापन्नस्यान्तः करणस्यापि स्वप्रकाशत्वं स्यादिति चेन्मैवम् ।
तत्र हि त्रिगुणात्मके मनसि सत्त्वांशस्य रजस्तमोभ्यामस्पृष्टत्वम् ।
येनात्मानन्दस्वप्रकाशकारा वृत्तिरुत्पद्यते ।
नच तयोः शवलत्वमपि तात्त्विकम्, कुतो तादात्म्यमिति, किमार्द्रकवणिजां नो वहित्रचिन्तयाऽ; ।

यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् ।
यदुक्तम्–
“यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावे ऽपि व्यवहार इति भावः” इति ।
“सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः” इति च ।
“अभिन्नो ऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः” इति च ।

टीका

विज्ञप्रिया:

(वि, क) यद्यपीति उक्ताशङ्कासमाधानयोः प्राक्-कृतयोः सम्वादमाह—यदुक्तमिति ।
प्रागेव कृतव्याख्यानमिदम् ।
अनादिवासनेति—अनादिवासना प्राक्तनी तत्त्वादिशून्या ।
तया रसादिरूपा परिणतिर्यस्य तादृशरूपे रत्यादिभागे विभावादिकार्यत्वव्यवहारः इत्यर्थः ।
द्वितीय इति चेति पर्यन्तं सम्वादवाक्यत्वं बोध्यम् ।
तत्राभिन्नोपीत्यादिकं स्वप्रकाशनप्रदर्शनम् ।
रत्यादय इत्यादिपदात् विभावादिपरिग्रहः ।
तत्र विभावादेः शब्दशक्त्यैव प्रतीतिः ।

लोचना:

(लो, औ) तादात्म्यानङ्गीकारे प्राचीनाचार्याणामति शेषः ।
यद्यपीत्यादौ तदेकात्मनीति पदं तादात्म्यसूचकम् ।
गेचरीकृत इति चिदानन्दमयोयं पुरुष इति वदुपचारः ।

ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः ।
तादात्म्यादेवास्याखण्डत्वम् ।
रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वे ऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते ।
तदुक्तम् –
“विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।
प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, ख) सात्त्विका व्यभिचारिण इति ।
व्यभिचारिण एव सात्त्विका इत्यभेदेनान्वयः ।

लोचना:

(लो, अ) अखण्ण्डत्वे सम्मतिं दर्शयति–तदुक्तमित्यादि ।
विभावा इत्यादि कारिकायां रत्यादिप्रकाशसुखचमत्कारा अकण्ठोक्ता अपि प्रकरणदवसेयाः ।

“परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः” इति च ।

टीका

विज्ञप्रिया:

(वि, ग) अखण्डताप्राप्तौ विमतिं निरस्यति—परमार्थतस्त्विति ।
नतु पूर्वोक्तपरिच्छेदेन परमार्थताप्रदर्शनम् ।
ब्रह्मतत्त्ववदिति—खण्डाखणअडनानापदार्थानाम् अद्वैतभावानया अखण्डस्वरूपत्वात् ब्रह्मतत्त्वस्य इतिच इत्यन्तं सम्वादवाक्यम् ।

लोचना:

(लो, आ)
[तेxत् ओफ़् चोम्म्। wअन्तिन्ग् इन् बोथ् प्रिन्तेद् एद्। अन्द् सन्स्क्नेत् ए-तेxत्!]

अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह–

रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः ।

लोचना:

(लो, इ) रत्यादीति—अनादिवासनान्तर्लोनस्य रत्यादेः प्रकाशकाः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः “विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः” इति विभावा उच्यन्ते ।

टीका

विज्ञप्रिया:

(वि, घ) विभाव्यन्ते इति ।
रसप्रतीत्यर्थं विशेषेण भाव्यन्त इत्यर्थः ।
नतु प्रतीत्यर्थं कथं विशेषेण भाव्यन्तेतत्प्रतिपादनसामर्थ्य एव तथात्वौचित्यादित्यत आहआस्वादाङ्कुरेति ।
यत एभिर्विभावादिभिः सामाजिकरत्यादिभावा आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते, अतो विशेषेण भाव्यन्त इत्यर्थः ।
अतो विभावा उच्यन्ते इत्यर्थः सामाजिकरत्यादिभावानां तथात्वकरणं रामादिरत्यादीनां च तत्रारोपात् बोध्यम् ।
स चारोपो वासनासहकृतैर्विभावादिभिर्व्यञ्जनयेति बोध्यम् ।
अत एवोक्तं—वासनोपनीतरत्यादितादात्म्येनेति ।
अस्या परिभाषायायोगारूढत्वादेतद्योगार्थस्यानुभावादौ सत्त्वेपि न तत्र प्रयोग इति प्रागप्युक्तम् ।

तदुक्तं भर्त्तृहरिणा–
“शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् ।
प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते” ॥

टीका

विज्ञप्रिया:

(वि, ङ) शब्दोपहितेति–तान् प्रसिद्धान् कंसादीन् श्रीकृष्णादिक्रोधस्य रौद्ररसस्थायिभावस्थालम्बनविभावान् शब्दोपहितरूपान् शब्दोपस्थाप्यात् प्रत्यक्षानिव सामाजिका मन्यन्ते ।
मन्यत इति पाठे तु सामाजिकः ।
केन हेतुनेत्यत्राह—साधनत्वेनेति ।
शब्दोपहितत्वरूपेण प्रत्यक्षसाधनत्वेनेत्यर्थः ।
इदमेव विशेषणभावनं सम्वादेन प्रदर्शितम् ।

लोचना:

(लो, ई) शब्देति—शब्दोपहितरूपान् काव्यरूपशब्दोपाधिना श्रवणात् तद्वुद्धिविषयतामापन्नानां साधनत्वेन सोत्साहाद्युदबोधे मन्यन्ते सभ्या इति शेषः ।

इति ।
तद्भेदावाह–

आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।

स्पष्टम् ।
तत्र–

आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ॥ विस्स्द्_३।२९ ॥

आदिशब्दान्नायिकाप्रतिनायिकादयः ।
अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते ।

टीका

विज्ञप्रिया:

(वि, च) आलम्बनं नायकादिरिति नायिकाशृङ्गारे बोध्यम् ।
नायिका प्रतिनायकादय इति नायकशृङ्गारे बोध्यम् ।
प्रतिनायिका चोपनायिका, सा च शृङ्गाराभासे ।
एवं नायिकाशृङ्गाराभासे उपनायकोपि बोध्यः ।

लोचना:

(लो, उ) प्रतिनायकादीत्यादिशब्देन विकृतवेशा व्याघ्रादयः ।
वक्ष्यत इति ।
इहैव परिच्छेदे ।

तत्र नायकः–

टीका

विज्ञप्रिया:

(वि, छ) तत्र नायको—नायकलक्षणमाहेति शेषः ।

त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही ।
दक्षो ऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ॥ विस्स्द्_३।३० ॥

दक्षः क्षिप्रकारी ।
शीलं सद्वृतम् ।
एवमादिगुणसम्पन्नो नेता नायको भवति ।
तद्भेदानाह–

धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ विस्स्द्_३।३१ ॥

टीका

विज्ञप्रिया:

(वि, ज) प्रथमं चतुर्भेद इति—पश्चात्तु धीरोदात्तादीनाम् अपि दक्षिणधृष्टत्वादिभेदस्य वक्ष्यमाणत्वात् ।

स्पष्टम् ।
तत्र धीरोदात्तः–

अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः ।
स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ विस्स्द्_३।३२ ॥

लोचना:

(लो, ऊ) स्थेयान्-स्थिरतरः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अविकत्थनो ऽनात्मश्लाघाकरः ।
महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः ।
निगूढमानो विनयच्छन्नगर्वः ।
दृढव्रतो ऽङ्गीकृतनिर्वाहकः ।
यथा–रामयुधिष्टिरादिः ।
अथ धीरोद्धतः–

मायापरः प्रचण्डश्चपलो ऽहङ्कारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ॥ विस्स्द्_३।३३ ॥

यथा–भीमसेनादिः। अथ धीरललितः–

निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।

कला नृत्यादिका ।
यथा–सत्नवाल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः–

सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ॥ विस्स्द्_३।३४ ॥

टीका

विज्ञप्रिया:

(वि, झ) सामान्यगुणैरिति—धीरोदात्तादित्रयसाधारणगुणैर्भूयान् महानित्यर्थः ।

लोचना:

(लो, ऋ) सामान्यगुणा–मन्वाद्युक्तधृतिक्षमादयः

यथा–मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह–

एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।

टीका

विज्ञप्रिया:

(वि, ञ) षोडशधेति—धीरोदात्तादीनां चतुर्णा दक्षिणत्वादिचातुर्गुण्येन षोडशत्वम् ।

तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः ।

एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥ विस्स्द्_३।३५ ॥

टीका

विज्ञप्रिया:

(वि, ट) अनेकमहिला–इति व्याचष्टे द्वयोस्त्रिचतुरिति ।

लोचना:

(लो, ॠ) एषु—दक्षिणादिषु नायकमध्ये ।

द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा–
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारो ऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च ।
इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥

टीका

विज्ञप्रिया:

(वि, ठ) स्नाता तिष्ठतीति—अन्तः पुरचरजनस्य कस्मिंश्चिदियमुक्तिः ।
अनेकपत्नीसम्भोगार्हा इयं रात्रिरिति तत्कर्मनियुक्तस्य राज्ञि निवेदनम् ।
श्लोकार्थः–स्नाता, ऋतुस्नाता ।
वारः तत्सम्भोगनियतवासरः ।
कमलया तन्नाम्न्या देव्या ।
देवीकृताभिषेका ।
मानिन्यास्तस्या अद्यावश्यं प्रसादनम् ।
द्वित्रा इति ।
सर्वासु अनुरागसाम्येन कस्याप्युपेक्षानर्हत्वात् अप्रतिपत्त्या कर्तव्यनिर्णयाभावेन मूढमनस्कत्वेन द्वित्रादिदण्डस्थितिः ।

कृतागा अपि निःशङ्कस्तर्जितो ऽपि न लज्जितः ।
दृष्टदोषो ऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ विस्स्द्_३।३६ ॥

टीका

विज्ञप्रिया:

(वि, ड) कृतागा अपीति–आगोपराधः ।
मिथ्यावाक् कृतस्यापि मिथ्यात्ववादी ।

यथा मम–
शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपो ऽपि वामभ्रुवः ॥

टीका

विज्ञप्रिया:

(वि, ढ) शोणं वीक्ष्येति—रोषारुणमुखीं प्रियां चुम्बितुं गतस्य तया प्रहर्तुमुद्यतं पादं धृत्वा किञ्चित् कर्तुमक्षमीकृतां रुदतीं तां दृष्ट्वा हसितवतो नायकस्य सख्यौ वृत्तान्तकथनमिदम् ।
अत्र नायिकाक्रोधवशात् नायकस्य कृतागस्त्वसिद्धिः ।

लोचना:

(लो, ऌ) शोणमिति–विचुम्बितुं समीपं यातो ऽनुनयादिकमकृत्वापीति भावः ।

अनुकूल एकनिरतः–

एकस्यामेव नायिकायामासक्तो ऽनुकूलनायकः ।
यथा–
अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलम्, नो वक्रा गातिरुद्धतं न हसितम्, नैवास्ति, कश्चिन्मदः ।
किन्त्वन्ये ऽपि जना वदन्ति सुभगो ऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥

टीका

विज्ञप्रिया:

(वि, ण) अस्माकं सखीति–पष्यौ सुभगाया सख्या उक्तिरियम् ।
वस्त्रौज्ज्वल्यादिकं सौभाग्यहेतुर्मम नास्ति ।
किन्तु न केवलमहमन्येपि जना वदन्ति अस्याः पतिरन्यतो ऽन्यस्यां नायिकायां दृष्टिं न निक्षिपतीति ।
विश्वम्—एतद् विश्ववर्ति स्त्रीजनं दुः स्थितम्, मयि असूयया मदपेक्षया सौभाग्याल्पत्वेन वा दुः स्थितं वयं मन्यामहे ।
पतिः-कीदृशः, सुभगोपि सौन्दर्येणान्यनायिकाभिलषणीयत्वरूपसौभाग्यवानपि इत्यर्थः ।

लोचना:

(लो, ए) अन्यतः अन्यस्यां विनेत्यर्थः ।
विश्वं दुः स्थितं मन्यामहे ।
किन्तु मामेव सुंस्थितामिति भावः ।
ग्रैवेयकम्, कण्ठाभरणम्, मदोपि यौवनाद्यहङ्कारजनितः गर्वोपि नैवास्ति ।

शठो ऽयमेकत्र बद्धभावो यः ।
दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ विस्स्द्_३।३७ ॥

यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागो ऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः ।
यथा–
“शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति” ॥

टीका

विज्ञप्रिया:

(वि, त) शठान्यस्या इति—नायिकाया विप्रियकारिणं नायकं भर्त्सयन्त्या सख्या उक्तिरियम् ।
हे शठ ! मम सखीम् आश्लिष्यन्नेव त्वं यदन्यस्या नायिकायाः काञ्चीमणिरणितशब्दमाकर्ण्य सहसा प्रशिथिलभुजग्रन्थिः (वाहुवेष्टनम्) अभवः तदेतत् क्व जने आचक्षे ।
अतो मे सखी घृतमधुमयेन मिश्रितघृतमधुरूपेण त्वदीयबहुचाटुवचोविषेणाघूर्णन्ती किमपि कर्तव्यं न गणयतीत्यर्थः ।
मिश्रितघृतमधुनी हि आपातमधुरेपि विषत्वं प्राप्नुतः ।

एषां च त्रैविध्यादुत्तममध्याधमत्वेन ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ॥ विस्स्द्_३।३८ ॥

टीका

विज्ञप्रिया:

(वि, थ) एषां चेति—एषामुत्तममध्यमाधमत्वेन त्रौविध्यादित्यन्वयः ।
चत्वारिंशदिति षोडश त्रैगुण्येन अष्टचत्वारिशत् ।

एषामुक्तषोडशभेदानाम् ।
अथ प्रसङ्गादेतेषां सहायानाह–

टीका

विज्ञप्रिया:

(वि, द) अथ प्रसङ्गादिति—अत्र एषामित्यनेन नायकमात्रस्यैव परामर्शो नतु प्रकान्त शृङ्गारीयाष्टचत्वारिंशत एव ।
अत एव रामस्य सुग्रीवः सहायो दर्शयिष्यते ।

लोचना:

(लो, ऐ) प्रसङ्गादिति ।
एषां हि सहाययुक्तत्वेन कार्यकारित्वे ऽधिकरसपरिपोषः ।
एवमन्यत्र ।

दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु ।
किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ॥ विस्स्द्_३।३९ ॥

तस्य नायकस्य बहुव्यापिनि प्रसङ्गसङ्गते इतिवृत्ते ऽनन्तरोक्तैर्नायकसामान्यगुणैः

लोचना:

(वि, ओ) नायकसामान्यगुणैस्त्यागादिभिः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

किञ्चिदूनः पीठमर्द्दनामासहायो भवति ।
यथा-रामचन्द्रादीनां सुग्रीवादयः ।

टीका

विज्ञप्रिया:

(वि, ध) दूरानुवर्तिनीति व्याचष्टे—तस्येति दूरानुवर्तिनि इत्यस्य व्याख्या बहुव्यापिनीति बहुदेशव्याप्यसाध्ये इत्यर्थः ।
प्रसङ्गसङ्गते–दैवत उपस्थित इतिवृत्ते वृत्तान्ते ।
किञ्चित् तद्गुणहीन इत्यस्यार्थमाह—अनन्तरेति—अनन्तरोक्तैः पूर्वोक्तैः ।

अथ शृङ्गारसहायाः–

शृङ्गारे ऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥ विस्स्द्_३।४० ॥

आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः ।
तत्र विटः–

सम्भोगहीनसम्पद्विटस्तु धूर्त्तः कलैकदेशज्ञः ।
वेशोपचारकुशलो वाग्ग्मी मधुरो ऽथ बहुमतो गोष्ठ्याम् ॥ विस्स्द्_३।४१ ॥

टीका

विज्ञप्रिया:

(वि, न) नायकसामान्यगुणैस्त्यागादिभिः ।

चेटः प्रसिद्ध एव ।

टीका

विज्ञप्रिया:

(वि, प) चेटः प्रसिद्ध इति—चेटीपुत्र इत्यर्थः ।

कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥ विस्स्द्_३।४२ ॥

टीका

विज्ञप्रिया:

(वि, फ) विदूषकमाह—कुसुमेति ।
कर्मादिभिर्हास्यकरः इत्यन्वयः ।
कर्मणा, वपुषा, वेशेन, वासनदिना भाषाद्यैः सर्वेषां हास्यं जनयति ।

लोचना:

(लो, औ) कुसुमेति—कुसुमाभिधो विदूषको रसालकादिः ।
वसन्ताभिधावसन्तकमाधवादिः ।

स्वकर्म हास्यादि ।
अर्थचिन्तने सहायमाह–

टीका

विज्ञप्रिया:

(वि, ब) रसीयनायकसहायकथनप्रसङ्गादन्यत्रापि सहायमाह—अर्थचिन्तनेति ।

मन्त्रीस्यादर्थानां चिन्तायां–

अर्थास्तन्त्रावापादयः ।

टीका

विज्ञप्रिया:

(वि, भ) तन्त्रावापेति ।
तन्त्रं राजकृत्यं तस्य आवापो योग्यायोग्यानुष्ठानम् ।
तस्मिन् अर्थे मन्त्री सहाय इत्यर्थः ।

यत्त्वत्र सहायकथनप्रस्तावे–
“मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने” इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो ।
“नायकस्यार्थचिन्तने मन्त्री सहायः” इत्युक्ते ऽपि नायकस्यार्थत एव सिद्धत्वात् ।

टीका

विज्ञप्रिया:

(वि, म) स्वं चेति–स्वं राजा तस्य राज्ञः ।
केनचिदिति लक्षणं सहायज्ञापनम् ।
अत्र स्वस्यापि सहायत्वेन कथनात् पूर्वस्माद् भेदः ।
सहायकथनप्रकरणे इति—स्वस्य स्वसहायत्वात् सहायताया भेदघटीतत्वात् ।
नन्वेवं तेन चिन्ता न क्रियतामित्याह—नायकस्येति ।

यदप्युक्तम्–
“मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः” इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् ।
न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव सम्पादकः; तस्यार्थचिन्तनाद्यभावात् ।

टीका

विज्ञप्रिया:

(वि, य) मन्त्रिणेति—ललितो धीरललितस्तादृशो राजा मन्त्रिणैवार्थसाधकः इति शेषः, स्वस्य शृङ्गारनिरतत्वात् ।
शेषाः धीरोदात्तधीरोद्धतादयः ।
स्वलक्षणकथनेनेति ।
धीरललितलक्षणकथनेनेत्यर्थः ।
“निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यादिति धीरललितलक्षणे निश्चिन्तेत्वैनार्थचिन्तनस्य मन्त्रिमात्रनिष्ठत्वसिद्धेस्तस्य मन्त्रिणः सहायताकथनं गतार्थमित्यर्थः ।
धीरललितस्य यो मन्त्री तस्य स्वयमेवार्थचिन्तकत्वम् ।
नतु स्वचिन्तने तस्य सहायत्वम् ।
स्फुटमेवाह—नचार्थचिन्तनमिति—तस्यार्थचिन्तनाद्यभावादित्यत्र तस्य धीरललितस्य ।
अयं मन्त्री स्यादर्थानां चिन्तायामिति सूत्रस्य परभागः ।

लोचना:

(लो, अ) यत्त्वत्रेति–यत्त्वत्रेत्यादेर्गतार्थत्वमित्यनेनान्वयः ।
तस्य ग्रन्थस्यायमर्थः ।
सहायकथनप्रस्तावे मन्त्रिण एव सहायत्वकथनं युक्तम्; नतु आत्मन उभयस्य वा ।
आत्मन एव आत्मसहायत्वं विरुद्धम् ।
किन्तु राजा केनार्थचिन्तनं कुर्यादित्यपेक्षायामेव क्वचिन् मन्त्रिणा क्वचिदात्मना, क्वचिदुभयेनेति वक्तुं युक्तम् ।
धीरललितस्य निश्चिन्तत्वादिरूपकथनेन मन्त्रिमात्रायत्तार्थचिन्तनमुपपद्यते ।
किञ्च तदप्यर्थचिन्तनोपायप्रकरण एव लक्षितव्यम्; नतु सहायकथनप्रकरणे ।
तस्य धीरललितस्य नच सहायः सः ।
मन्त्रिणः सहायत्वे धीरललितस्याप्यर्थचिन्तनप्रसङ्गात् ।

अथान्तः पुरसहायाः–

–तद्वदवरोधे ।
वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ॥ विस्स्द्_३।४३ ॥

मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सो ऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ विस्स्द्_३।४४ ॥

टीका

विज्ञप्रिया:

(वि, र) शकारलक्षणमाह—मदेति ।
दुष्कुलता ऐश्वर्यं च ताभ्यां संयुक्तोपि मदमूर्खताभ्यामभिमानीत्यर्थः ।

लोचना:

(लो, आ) शकारस्वरूपमाह—मदेति–मदो गर्वः, मद्यविकारो वा ।

आद्यशब्दान्मूकादयः ।
तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्–
नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥

टीका

विज्ञप्रिया:

(वि, ल) नष्टं वर्षवरैरिति—राज्ञो वाजिशालात आगतमेकं महावनरं दृष्ट्वा अन्तः पुरस्थनपुंसकादीनां भीतिक्रियावर्णनमिदम् ।
कञ्चुकस्य सर्वाङ्गव्यापकलम्बमानवस्त्रस्यान्तरित्यर्थः ।
निजस्य नाम्न इति कृ वेक्षेप इति धातुना किरातपदस्य साधितत्वात् स्वस्य पर्यन्तविशीर्णत्वं कृतमित्यर्थः ।
कुब्जा न पलायिताः ।
किन्तु नीचतयैव वानरकर्तृके आत्मकर्मके ईक्षणे अशङ्किनः शङ्कारहिताः सन्तः शनकैर्यान्तीत्यर्थः ।

लोचना:

(लो, इ) निजस्य नाम्नः अन्तेवासित्वस्य ।

शकारो मृच्छकटिकादिषु प्रसिद्धः ।

टीका

विज्ञप्रिया:

(वि, व) मृच्छकटिकं नाटकविशेषः ।

अन्ये ऽपि यथादर्शनं ज्ञातव्याः ।
अथ दण्डसहायाः–

दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।

टीका

विज्ञप्रिया:

(वि, श) आटविकानां दण्डसहायत्वम् ।
दण्डनीयस्य अटव्यां पलायितस्य प्रदर्शकत्वाद्दण्डनीयविपक्षराज्याटव्यां स्थितत्वात्तद्वृत्तान्तज्ञातत्वाच्च ।
सामन्तः सेनापतिः ।

दुष्टनिग्रहो दण्डः ।
स्पष्टम् ।

ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥ विस्स्द्_३।४५ ॥

ब्रह्मविदो वेदविदः, आत्मविदो वा ।
अत्र च–

उत्तमाः पीठमर्दाद्याः–

आद्यशब्दान्मन्त्रिपुरोहितादयः ।

–मध्यौ विटविदूषकौ ।
तथा शकारचेटाद्या अधमाः परिकीर्तिताः ॥ विस्स्द्_३।४६ ॥

आद्यशब्दात्ताम्बूलिकगान्धिकादयः ।
अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह–

लोचना:

(लो, ई) विभागगर्भम्–विभागस्य गर्भे स्थितम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः ।
कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ॥ विस्स्द्_३।४७ ॥

तत्र कार्यप्रेष्यो दूत इति लक्षणम् ।
तत्र–

उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ॥ विस्स्द्_३।४८ ॥

लोचना:

(लो, उ) भावमभिप्रयम् ।
सुश्लिष्टं सुशोभनम् ।
उन्नीय ऊहित्वा ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।

मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।
यावद्भाषितसन्देशहारः सन्देशहारकः ॥ विस्स्द्_३।४९ ॥

लोचना:

(लो, ऊ) मितार्थमाषी अल्पभाषी ।
यावदिति प्रेरकेण यावद भाषितस्य सन्देशस हारः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अथ सात्त्विकनायकगुणाः–

टीका

विज्ञप्रिया:

(वि, ष) सात्त्विका नायकगुणा इति ।
सत्त्वं बलं बलवन्नायकगुणा इत्यर्थः ।

शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ विस्स्द्_३।५० ॥

लोचना:

(लो, ऋ) सत्त्वं गुणविशेषः ।
सत्त्वजाः तदुद्भवाः सत्त्ववतां नायकाना गुणा इत्यर्थः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

तत्र–

शूरता तक्षता सत्यं महोत्साहो ऽनुरागिता ।
नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥ विस्स्द्_३।५१ ॥

तत्रानुरागिता यथा–

टीका

विज्ञप्रिया:

(वि, स) यतः शोभेति–यतो बलात् शोभालक्षणेन अनुरागितोक्ता ।
तामुदाहरति—अहमेवेति ।

अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥
एवमन्यदपि ।
अथ विलासः–

टीका

विज्ञप्रिया:

(वि, ह) रघौ अजवर्णनमिदम् ।
प्रकृतिषु अमात्येषु मध्ये सर्व एव इत्यचिन्तयत् किं तत् इत्यत्राह–अहमेवेति ।
मतः सम्मतः ।
अस्य अजस्य ।
विमानना अवज्ञा अपमानम् ।
निम्नगा नद्यः तासां सर्वासामेवोदधिना जलग्रहणेन कृतादरत्वात् ।

धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।

टीका

विज्ञप्रिया:

(वि, क) धीरेति—विलासे सात्त्विके गुणे सति धीरेत्यादिकं भवतीत्यर्थः ।

यथा–
दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारके ऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥

टीका

विज्ञप्रिया:

(वि, ख) दृष्टिस्तृणीकृतेति—कुशमवलोक्य रामचन्द्रेण वर्णनमिदम् ।
तृणीकृतो जगत्त्रयस्य सत्त्वानां बलानां सारः प्रकृष्टो भागो यथा ।
अस्य कुशस्य दृष्टिस्तादृशी ।
स्फुटमन्यत् ।

सङ्क्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ विस्स्द्_३।५२ ॥

ऊह्यमुदाहरणम् ।

टीका

विज्ञप्रिया:

(वि, ग) ऊह्यमुदाहरणमिति— “त्यजतो मङ्गलक्षौमे चीरे च प्रतिगृह्णतः ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥
ऽ; इत्युदाहरणम् ।
अत्र हि मङ्गलक्षौमे गृह्णतः चीरे प्रतीलक्षीकृत्य त्यजतश्च रामस्य मुखरागं विस्मिता जनाः समानं ददृशुः इत्यनेन वनवासार्थं चीरग्रहणसङ्क्षोभेपि मङ्गलक्षौमग्रहणवद् अनुद्वेगः ।

भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।

टीका

विज्ञप्रिया:

(वि, घ) भीशोकेति ।
अत्र भयशोकयोः प्रवेशात् माधुर्यतः कियान् भेदः ।
आहूतस्येत्यादिकं तु माधुर्यस्याप्युदाहरणं सम्भवतीति बोध्यम् ।
गाम्भीर्यस्य माधुर्यासङ्कीर्णमुदाहरणं तु — यो ऽविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवद्वपुः ।
आत्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥
इति ।
इयं हि तपस्यतः परमेश्वरेण भीषितस्य कस्यचिदुक्तिः ।
अविकल्पं निः संशयम् ।
निखिलमर्थमण्डलं यो भगवद्वपुः स्वरूपं पश्यति ।
आत्मपक्षेण भवता परिपूरिते जगति अस्य कुतो भयमित्यर्थः ।
यथा वा"न खल्वनिर्जित्य रघुं कृती भवान्"इति इन्द्रेण भीषितस्य रघोरुक्तिः ।

यथा–
आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः ॥

व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ विस्स्द्_३।५३ ॥

यथा-श्रुताप्सरोगीतिरप क्षणो ऽस्मिन् हरः प्रसङ्ख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥

टीका

विज्ञप्रिया:

(वि, ङ) श्रुताप्सरोगीतिरिति—हरस्य समाधिभङ्गार्थमप्सरेभिर्गोयमानेपि तस्य समाधिभङ्गो माभूदिति पूर्वार्द्धार्थः ।
तत्र प्रसङ्ख्यानां समाधिः ।
अत्रार्थन्तरन्यासमाह—आत्मश्वराणामिति ।
आत्मा धृतिस्तदीश्वराणां स्वायत्तधृतीनामित्यर्थः ।
“आत्मा यत्नो धृतिर्वृद्धिः स्वभावो ब्रह्मवर्ष्म चऽ; इति कोषः ।
जातु कदाचित् ।

अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्यये ऽप्यसहनं तत्तेजः समुदाहृतम् ॥ विस्स्द्_३।५४ ॥

वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ॥ विस्स्द्_३।५५ ॥

एषामुदाहरणान्यूह्यानि ।

टीका

विज्ञप्रिया:

(वि, च) एषामप्युदाहरणन्यूह्यानि–तत्र तेजस उदाहरणं यथा— “पुरोजन्मा नाद्यप्रभृति मम रामः पुनरहं न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् ।
अधीरं धीरं वा कलयतु जनो मामयमहो मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥
इयं परशुरामेणाधिक्षिप्तस्य लक्ष्मणस्य उक्तिः ।
ललितोदाहरणं यथा— “प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम् प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥
“इति ।
अत्र हि कामिनो वाङ्मधुरता शृङ्गारचेष्टा च ।
औदार्योदाहरणं यथा—“एते वयममी दाराः कन्येयं कुलभूषणा ।
ब्रूत केनार्थिनो यूयमनास्था बाह्यवस्तुषु ।
“इति सप्तर्षोन् इति हिमालयस्योक्तिः ।

अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति ।
नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता ॥ विस्स्द्_३।५६ ॥

टीका

विज्ञप्रिया:

(वि, छ) नायिकाप्रभेदामाह–अथेति–स्वान्ययोरपि स्त्री इत्यस्यान्वयः ।

नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति ।
सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वस्त्री–

विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।

टीका

विज्ञप्रिया:

(वि, ज) विनयार्जवादीति ।
एतादृशगुणरहिता तु स्वस्त्री अपि नोपक्रान्तशृङ्गारविभावः; किन्तु तदाभासविभाव एवेति बोध्यम् ।

यथा–
“लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंइं ।
अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइं ॥

टीका

विज्ञप्रिया:

(वि, झ) लज्जाप इति–“लज्जापर्याप्तप्रसाधनानि परचिन्तानिष्पपासानि ।
अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि ।
ऽ; इति संस्कृतम् ।
पर्याप्तप्रसाधनं पर्यवसितालङ्कारः ।
परचिन्ता–परपुरुषचिन्ता, तत्र तृष्णारहितानि ।
तन्त्रचिन्तायां देशी ।
अविन्यदुर्मेधांसि–अविनयाद् दूरीकृतबुद्धीनि ।
सपीति–सा स्वीया ।

लोचना:

(लो, ॠ) लज्जा एव पर्याप्तं पूर्वं प्रसाधनं भूषणं येषाम् ।
निष्पिपासानि–निः स्पृहाणि ।
दुर्मेधांसि अनभिज्ञानि ।

सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥ विस्स्द्_३।५७ ॥

टीका

विज्ञप्रिया:

(वि, ञ) प्रथमेति–प्रथमावतीर्णयौवना, प्रथमावतीर्णमदनविकारेति द्विधा ।
एतानि विशेषणानि एकाकान्येव मुग्धाया बोध्यानि ।

लोचना:

(लो, ऌ) सा स्वस्त्री ।

तत्र–

प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥ विस्स्द्_३।५८ ॥

टीका

विज्ञप्रिया:

(वि, ट) मध्यस्य प्रथिमानमिति–नूतनं यदस्या मनोराज्यं मनस्याधिपत्यं तत्राभिषिक्तं कन्दर्पं परिवीक्ष्य सुभ्रुवः अङ्गानि परस्परं निर्ल्लुण्ठनं विदधते इत्यर्थः ।
राज्ञः प्रथमाधिपत्यदिने ऽराजके राज्ये परस्परनिर्लुण्ठनस्य लोकसिद्धत्वात्, तद्दर्शयति–मध्यस्येति ।
शैशवे मध्यस्य प्रथिमा पृथुत्वमासीत् ।
यौवने च मध्यं क्षीणं जघनं च पृथु बभूव इत्यर्थः ।
वक्षोजयोर्मन्दता तनुत्वं दूरमतिशयमुदर यातीत्यर्थः ।
नेत्रस्य आर्जवं रोमलतिका धावति प्रप्रोतीत्यर्थः, यौवनारम्भे नेत्रयो रक्तत्वात् रोमलतिकाया ऋजुभावेन उत्थितत्वात् ।

तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्–

लोचना:

(लो, ए) तत्र-तासु मध्ये ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति ।
कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥

लोचना:

(लो, ऐ) प्रथिमानं पृथुत्वमेति गृहणाति ।
मन्दतां च यादि गृहणातीत्यर्थः ।
निर्लुण्ठनं परस्परवित्तविग्रहणम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये–
दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किञ्चिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ॥

टीका

विज्ञप्रिया:

(वि, ठ) दत्ते सालसेति—प्रियस्य कथां प्रसङ्गमुल्लासयन्तीं प्रस्तुवन्तीं सभ्रूभङ्गमुदीक्षते–पश्यति ।
गभीरो दुरवगाहो यो वक्रिमः वक्रताया लवो ऽल्पत्वम् ।
तेन स्पृष्टं यथा स्यात्तथा ।
मनाक् शनैः किञ्चिदल्पं भाषते ।
सालसपददानं शुश्रूषया ।
कामपि अनिर्वचनीयां ह्रीयन्त्रणां लज्जाकृतपीडां कलयते अनुभवति ।

रतौ वामा यथा–
“दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया” ॥

टीका

विज्ञप्रिया:

(वि, ड) दृष्टा दृष्टिमिति—नवोढाया वृत्तं सख्ये कथयत उक्तिरियम् ।
श्लोकार्थः स्पष्टः ।

माने मृदुर्यथा–
“सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥

टीका

विज्ञप्रिया:

(वि, ढ) माने मृदुरल्पमाना ।
सा पत्युरिति—अल्पमानायाः क्रियां सख्यां कथयन्त्याः सख्या उक्तिरियम् ।
सख्या उपदेशं सखीकर्तृकमुपदेशं विना सा पत्युरुपनायिकासम्भोगरूपप्रथमापराधसमये सविभ्रमयोरङ्गभङ्गीवक्रोक्त्योः संसूचनं प्रकाशं नो जानाति ।
ततः किं कुरुते इत्यत्राह–स्वच्छैरिति ।
विरहात् पाण्डुत्वेन कपोलस्याच्छता ।
अञ्जनत्यागादश्रुणः स्वच्छता ।
नेत्रोत्पलस्य पर्य्यासः परेण तद् दर्शने लज्जया ।

लोचना:

(लो, ओ) सा पत्युरिति—सख्योपदेशं सख्येन सौहार्द्देन कृतमुपदेशम् ।
अथवा सख्येति हेत्वर्थतृतीयान्तं पदम् ।
तेन सख्या कृतमुपदेशमित्यर्थः ।
सविलासाङ्गपेरिवर्तना सती पराङ्मुखीत्यर्थः ।
वकोक्तिभिः कुटिलभाषितैः संसूचनमपराधज्ञापनं यतो नो जानाति नो वेत्ति ।
ततः स्वच्छैः अकलुषैः अच्छकपोलमूलगलितैः नर्मलगण्डप्रान्तनिः सृतैः ।
लुठल्लोलालकैः लुठन्तः परिवर्तमानाः लोलाश्चञ्चला अलकाः चूर्णकुन्तला येषु तानि तैः ।
अश्रुभिर्बाष्पैः पर्य्यस्तनेत्रोत्पला-पर्य्यस्ते नेत्रोत्पले यस्याः तथा भूत्वा केवलं रोदित्येव-रोदनमेव करोति ।
न किञ्चिदुपायं जानातीत्यर्थः ।
अत्र सविभ्रमाङ्गवलनेत्यनेन शय्याविरहो बोध्यते ।
एकशय्या शयनेनैवालकानामश्रुलुण्ठनं सम्भवति ।
मुग्धा तूषदेशं विना न किञ्चिज्जानाति ।
नायिका स्वीया मुग्धा च ।
नायकः शठः ।
प्रतीयमानकृतो विप्रलम्भशृङ्गारः ।
अश्रुभिः पर्य्यस्तनेत्रोत्पलेतिसम्बन्धः ।

समधिकलज्जावती यथा–
“दत्ते सालसमन्थरम्–ऽइत्यत्र (११३ पृ-) श्लोके ।
अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् ।
अथ मध्या–

मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥ विस्स्द्_३।५९ ॥

टीका

विज्ञप्रिया:

(वि, ण) विचित्रसुरतादिकम् अप्येकैकमेव मध्याया विशेषणम् ।
प्ररूढस्मरा प्ररूढयौवनेति विशेषणद्वयम् ।

विचित्रसुरता यथा–
“कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः” ॥

टीका

विज्ञप्रिया:

(वि, त) कान्ते तथेति—सुरते नायिकया नानाविधं चातुर्य्यं कृतम् ।
तत्र च कण्ठे नायिकया पारावतवद् ध्वनयः उच्चरिताः ।
पारावतैश्च तदनुवादः कृत इति समुच्चयार्थः ।

प्ररूढस्मरा यथात्रैवोदाहरणो ।

टीका

विज्ञप्रिया:

(वि, थ) अत्रैवोदाहरणे इति–किन्तु सुरतवैचित्र्याभावे प्ररूढस्मराया असङ्कीर्णमुदाहरणं बोध्यम्; यथा— निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं प्रयाते ।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतो ऽङ्गना सा ॥
इति ।
भुजङ्गे कामुके ।

प्ररूढयोवना यथा मम–
“नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयम्, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः ।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा” ॥

टीका

विज्ञप्रिया:

(वि, द) नेत्रे खञ्जनेति ।
नेत्रे इत्यादिषु सवत्र तस्या इति सम्बन्धः ।
प्रत्यर्थि प्रतिद्वन्दि ।
विभ्रमकरी विशेषभ्रान्तिजनिका ।
सोदरं तुल्यम् ।
छटा कान्तिः ।
अत्र स्मरक्रियानुक्त्या यौवनस्यैव प्ररूढत्वम् ।
एवमन्यत्रापीति ।
“दीर्घाक्षं शरदिन्दु"इत्यादौबोध्यम् ।

एवमन्यत्रापि ।
अथ प्रगल्भा–

स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥ विस्स्द्_३।६० ॥

टीका

विज्ञप्रिया:

(वि, ध) स्मरान्धेत्यादिकमपि प्रत्येकमेव विशेषणम् ।
दरव्रीडेति–समधिकलजाजाभिन्ना इत्येवार्थः ।
तेन स्वल्पव्रीडत्वे व्रीडाभावे वा दरक्रीडत्वं बोध्यमिति ग्रन्थकृतो ऽभिप्रायः ।
आक्रान्तनायका इत्यर्थः ।

स्मरान्धा यथा–
“धन्यासि या कथयसि प्रियसङ्गमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चदपि स्मरामि(क)” ॥

टीका

विज्ञप्रिया:

(वि, न) सखिषु मध्ये एकया नायिकया कथितम्–“मया रतिकाले बहूनि चाटुवचांसि पत्यौ कथ्यन्ते"तां रसानिविष्टां प्रतिपादयितुं तत्काले ऽत्यन्तरसाविष्टत्वमात्मन सूचयन्ती कचित् सोल्लुण्ठमाह–धन्यासीति ।
रतान्तरेषु अत्यन्तरसावेशयोग्येषु रतमध्येषु स्वीयोत्कर्षकथने बह्वीनामवधानाय सख्य इति बह्वीनां सम्बोधनम् ।
शपामि शपथं करोमि ।

गाढतारुण्या यथा–
“अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितराम्, वचनं ततो ऽपि ।
मध्यो ऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः” ॥

टीका

विज्ञप्रिया:

(वि, प) अत्युन्नतस्तनमिति–अत्र अद्भुतयौवनाया इति सर्वत्रान्वयः ।
किमपीत्यत्र किं पदमव्ययम् ।
कापि गतिर्मन्ये इत्यर्थः ।

लोचना:

(लो, औ) अनूनगुरुः–अत्यन्तगुरुः ।

समस्तरतकोविदा यथा–
“क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः” ॥

टीका

विज्ञप्रिया:

(वि, फ) क्वचित् ताम्बूलाक्त इति ।
प्रच्छदपटः-शय्याच्छादनपटः स्त्रियाः सर्वावस्थं न्युब्जोत्तानान्यावस्थीयं रतं कथयतीत्यर्थः ।
पटः कीदृशः ? क्वचित् ताम्बूलाक्तः इदं न्युब्जरते ।
क्वचिदगुरुपङ्केति–इदं पार्श्वरते ।
क्वचित् चूर्णेति–चूर्णक्षेपपूर्वकरते ।
क्वचिदपि सालक्तकेति–पदमत्र पदचिह्नम्, इदमुत्थैतावस्थारते ।
वलीभङ्गः प्रच्छदपटस्य वलनेन भङ्गः सङ्कोचः तस्य आभोगैः तत्परिपूर्णिताभिरपि कथयतीत्यर्थः ।
इदमलकपतितेत्यादिकं च विमर्दरते ।
विचित्रसुरतायास्त्वेतादृशविमर्दाभावादस्याः ततो भेदः ।

लोचना:

(लो, अ) यूर्णानि कर्पूरादीनाम् ।
वलिभङ्गाभोगैरिति त्रयाणां विशेषणे तृतीया ।
तैरेव कथयतीति कथनकरणत्वं वा ।
सर्वावस्थं बहुप्रकारम् ।

भावोन्नता यथा–
“मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै- रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै- स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्” ॥

टीका

विज्ञप्रिया:

(वि, ब) मधुरवचनैरिति—नायिका सा मधुरवचनादिभिः पञ्चेषोः त्रिभुवनजये सहायतां करोति इत्यन्वयः ।
मधुरवचनादिकं सर्वं नायके कदाचित् मधुरवचन कदाचित् सभ्रूभङ्गेत्यादिकं बोध्यम् ।
रभसः - सहसा ।
मबोत्सवस्य बन्धुभिः सहायैः यूनामानन्दकरैः रङ्गाभ्यासैः स्फारैः स्फारिरतिदीर्घैः ।

स्वल्पब्रीडा यथा–
“धन्यासि या कथयसि”–
इत्यत्रैव (११६ पृ दृ)

टीका

विज्ञप्रिया:

(वि, भ) धन्यासि येत्यादिकं स्वल्पव्रीडोदाहरणमुक्तम्, तन्न युक्तम्–अत्राल्पाया अपि व्रीडाया अप्रतीतेः ।
किन्तु–
“वनकोलि हिअनिअं सनकवलि सनअअवहुलम् ।
यन युअन स्मरुन्मत्त इअ गअणं पवि उपरि चुम्बि अञ्ज” ॥
इत्येव स्वल्पव्रीडोदाहरणम् ।
यथा वा"शूलिनः करतलद्वयेन सासन्निरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥
“इति ।
अत्र पार्वतीशूलिनोर्नयने इत्यन्वयः ।

आक्रान्तनायका यथा–
स्वामिन् भङ्गुरयालकम्, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्” ॥

टीका

विज्ञप्रिया:

(वि, म) स्वामिनित्यादि—सम्पूर्णचन्द्रानना सुरतावसानसमये स्वामिन्नित्यादिकमुक्त्वा तेन स्पृष्टा सती पुनर्मोहनं याता इत्यन्वयः ।
भङ्गुराणामलकानां विकीर्णत्वात् पुनर्भङ्गुरीकरणाय प्रेरणा ।
अत्र स्वामिन्नित्याज्ञाकरणात् नायिकाक्रान्तः ।

मध्याप्रगल्भयोर्भेदान्तराण्याह–

ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे ।

लोचना:

(लो, आ) षड्विधे प्रत्येकं त्रिविधत्वात् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

ते मध्याप्रगल्भे ।
तत्र–

प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ॥ विस्स्द्_३।६१ ॥

धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।

टीका

विज्ञप्रिया:

(वि, य) प्रियं सोत्प्रसेति—उत्प्रासः समनाक् स्मितम् ।

लोचना:

(लो, इ) प्रियं दहेदित्यस्य रुदितैः परुषोक्तिभिरित्याभ्यां सम्बन्धः ।

तत्र मध्या धीरा यथा–
“तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्रीर्- व्रजति हि सफलत्वं वल्लभालोकनेन” ॥

टीका

विज्ञप्रिया:

(वि, र) तदवितथमित्यादि–त्वं मम प्रियेति यदवादीस्तदवितथं सत्यम् ।
यद् यस्मात् प्रियजनेन उपनायिकया सपत्न्या वा परिभुक्तं दुकूलं वस्त्रं वसानः दधानः सन् मदधिवसतिं मम गृहमागाः आगतो ऽसि ।
ननु एतावता कथं प्रियेत्युक्तेः सत्यत्वमित्यत आह–कामिनामिति ।
वल्लभाया आलोकनेनेत्यर्थः ।
प्रियजनपरिभुक्तवस्त्रधारणमेवात्र मण्डनश्रीः सफलत्वं व्रजति ।
सेयं सोत्प्रसवक्रोक्तिः ।

मध्यैव धीराधीरा यथा–
“बाले ! नाथ ! विमुञ्च मानिनि ! रुषम्, रोषान्मया किं कृतम्, खेदो ऽस्मासु, न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि ।
तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते” ॥

टीका

विज्ञप्रिया:

(वि, ल) बाले इति—कामुकस्य मानिन्याश्च इमे उक्तिप्रत्युक्ती न मे ऽपराध्यतीत्यादि ममेत्यन्तं नायिकया उक्तिः, नन्वेतन्मे इत्यत्रापि अग्रत इत्यस्याप्यनुषङ्गः ।
दयिता पत्नी ।
नायिकोक्तौ दयिताविषयः ।

लोचना:

(लो, ई) बाले अज्ञे ।
धीरमध्याया वक्रोक्त्या प्रियतापनम् धीराधीरायास्तु सोपहासवचनेनेति भावः ।
सर्वत्र मध्याप्रगल्भयोः समनन्तरोक्तेषु भेदेषु ।

इयमेवाधीरा यथा–
“सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या ।
अस्माकमस्ति नहिं कश्चिदिहावकाश- रस्तस्मात्कृतं चरणणतविडम्बनाभिः” ॥

टीका

विज्ञप्रिया:

(वि, व) इयमेवेति मध्यैव इत्यर्थः ।
सार्द्धं मनोरथेति–चरणपतितं कामुकं प्रति मानिन्या अधीरमध्यमाया उक्तिरियम् ।
धूर्तेति कान्तसम्बोधनम् ।
सैव उपनायिकैव कृत्रिमभावः परस्त्रीत्वेन मिथ्यानुरागः ।
इह मनसि ।
कृतं व्यर्थम्, कृतंशब्दयोगे स्वार्थे तृतीया ।
विडम्बनाभिः प्रतारणाभिः इत्यर्थः ।

प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥ विस्स्द्_३।६२ ॥

उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।

टीका

विज्ञप्रिया:

(वि, श) तत्रेत्यस्य व्याख्या दर्शयन्त्यादरमिति ।
बहिरादरं दर्शयन्तीत्यर्थः ।

तत्र प्रिये ।
यथा–
“एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषो ऽपि संविघ्नितः ।
आलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः” ॥

टीका

विज्ञप्रिया:

(वि, ष) एकत्रासनेति—चतुरया नायिकया उपचारतो ऽथवार्थक्रियातः कान्तं प्रति कोपः कृतार्थोकृतः, सम्वरणेन तद्वञ्चनात् सार्थोकृत इत्यर्थः ।
कोपसम्वरणहेतून् उपचारान् दर्शयति–एकत्रेति–एकत्र देशे आसनसंस्थितिरित्यर्थः ।
रभसाश्लेषः, कान्तेन सहसालिङ्गनम् ।
अन्तिके परिजनमर्थात् तदुपचारार्थं गृहकार्यार्थं व्यापारयन्त्येत्यर्थः ।

धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुम् ॥ विस्स्द्_३।६३ ॥

अमुं नायकम् ।
यथा मम–
“अनलङ्कृतो ऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् ।
किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः” ॥

टीका

विज्ञप्रिया:

(वि, स) सोल्लुण्ठेति–सोल्लुण्ठभाषितम् आपतमधुरकटुवचनम् ।
अनलङ्कृतोपीति ।
यतस्त्वमनलङ्कृतोपि मम मनः प्रसभं सहसा हरसि ।
अतः किं पनरित्यन्वयः ।
तस्या उपनायिकाया अत्र नखक्षतानामलङ्कारत्वासम्भवात् एतदुक्तेः कटुत्वस्य अतिस्फुटत्वात् तदवितथमवादीरित्यादि धीरमध्योदाहरणादस्य विशेषः, तत्र दुकूलस्यालङ्कारताया अपि सम्भवात् ।
कटुत्वस्फुटत्वादेव चास्याः प्रगल्भत्वम्, न मध्यत्वम् ।

तर्जयेत्ताडयेदन्या–

अन्या अधीरा ।
यथा-“शोणं वीक्ष्य मुखं-” इत्यत्र ।
अत्र च सर्वत्र “रुषा” इत्यनुवर्तते ।

–प्रत्येकं ता अपि द्विधा ।
कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ विस्स्द्_३।६४ ॥

टीका

विज्ञप्रिया:

(वि, ह) शोणं वीक्ष्येत्यादि व्याख्यात्म् ।
तत्र पादप्रहरकथन्त्ताडनम् ।
कनिष्ठज्येष्ठेति–नायकस्य यः कपटप्रणयस्तं प्रति न्यूनाधिक्यादित्यर्थः ।
षड्विधा इति ।
धीरा अधीरा धीराधीरा चेति त्रैविध्यात् मध्याप्रगल्भयोः षट्त्वम् ।

ता अनन्तरोक्ताः षड्भेदा नायिकाः ।
यथा–
“दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति” ॥

टीका

विज्ञप्रिया:

(वि, क्ष) दृष्ट्वैकेति—एकासनसंस्थितं पत्निद्वयं दृष्ट्वा विहितक्रीडानुबन्धच्छलः कृतकौतुकोत्पत्तिः धूर्तो नायकः आदरात् तयोः पश्चात् पृष्ठत उपेत्य गत्वा एकस्या पत्न्या नयेन पिधाय ईषद् वक्रितकन्धरः सन् अपरां चुम्बति ।
अपरां कीदृशीं सपुलकं यथा स्यात्तथा प्रेम्णा उल्लसन्मानसां हृष्यन्मनस्कां पुनः कीदृशीं अन्तर्हासेन लसती कपोलफलके गण्डयुगलं यस्यास्ताम् ।
अत्र नायिकानुरागस्य न्यूनाधिकत्वं स्फुटमेव ।

मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिन्ताः ।
मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥ विस्स्द्_३।६५ ॥

परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।

टीका

विज्ञप्रिया:

(वि, क) द्वादशेति–षट्द्वैगुण्यात् ।
मुग्घा त्वेकैवेति ।
तस्याः प्रथमावतीर्णमदनविकाराद्यभावादेकत्वम् ।
इत्थं स्वीयास्त्रयोदशेति उक्त्वा अन्या इत्युक्ताम् अन्यां विभजति ।
परकीयेति–तत्र परकीयामाह ।

तत्र–

यात्रादिनिरतान्योढा कुलटा गलितत्रपा ॥ विस्स्द्_३।६६ ॥

टीका

विज्ञप्रिया:

(वि, ख) यात्रादीति–या परोढा कुलटा भवति सा गलितत्रपा सती यात्रादिनिरता भवतीत्यर्थः ।
यात्रा अभिसारः ।
आदिना दूतीप्रेषणात् नायकानयनपरिग्रहः

यथा–
“स्वामी निः श्वसिते ऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः ।
तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थो ऽयमत्र श्रमः” ॥

लोचना:

(लो, उ) निः श्वसिते ऽपि–चेष्टायामपीत्यर्थः ।
मनोजिघ्रः भनसा घृतमप्यनायासादनुमिनोति, इङ्गितदैवतम् इङ्गितज्ञानं तस्या एव आयत्तम् ।
यः खलु यत्राधिष्टानं तस्य तदभिज्ञानं सुकरमेव ।
ईहालिहः अत्रैव चेष्टग्रहणशीलाः ।
वैदग्ध्या चातुर्य्येण मधुरो मनोहरो यः प्रबन्धो व्यापारस्तत्र रसिकेत्यनेन चातुर्य्येण निर्वाह्यो यो मदभिगमनार्थं प्रबन्धस्तमाचरेति भावः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः ।
त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभो ऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते ।

टीका

विज्ञप्रिया:

(वि, ग) स्वामीति–उपनायकं प्रति नायिकाया उक्तिरियम् ।
दीर्घनिःश्वासेन विरहाशङ्काया असूया ।
जिघ्रः घ्राता ।
ईषल्लिङ्गेनापि परनायकविषयमनो ऽनुमापक इत्यर्थः ।
इङ्गितदैवतमिति दैवतत्वेन अत्यन्तं तद् बोद्धी ।
नयनयोरिति–लेहनात् सामस्त्येन तद् बोद्ध्रीत्यर्थः ।
यातरः पतिभ्रातृपत्न्यः ।
वल्लभो ऽसीत्यादि–इत्यत्र आदिपदात् अञ्जलिकरणादपीत्यर्थः ।
रतिः प्रतीयते इति तत्प्रतीतिवशाच्चास्या निरतत्वसिद्धिः ।

कन्या त्वजातोपयमा सलज्जानवयौवना ।

अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् ।
यथा मालतीमाधवादौ मालत्यादिः ।

धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥ विस्स्द्_३।६७ ॥

निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ॥ विस्स्द्_३।६८ ॥

काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निः सारयेदेषा पुनः सन्धानकाङ्क्षया ॥ विस्स्द्_३।६९ ॥

तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा ।
लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ॥ विस्स्द्_३।७० ॥

एषापि मदनायत्ता क्वापि सत्यानुरागिणि ।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥ विस्स्द्_३।७१ ॥

टीका

विज्ञप्रिया:

(वि, घ) सान्या साधारणीत्युक्तां साधारणीमाह–धीरेति ।
सामान्यनायिको साधारणी नायिका, सा च वेश्या इत्यर्थः ।
सैव च धीरा, कलाप्रगल्भा च इत्यर्थः, कला विलासकला विलासः विव्वोकादयः ।
मात्रा मातृद्वारा ।
इदमुपलक्षणम्; अन्यद्वारापि इति बोध्यम् ।
तस्करादिप्रच्छन्नकामाद्यन्ता प्रायेण सुखप्राप्तधनाः ।
अत एव तासां वल्लभा इत्यर्थः ।
एषापीति–एषा साधारणी मदनायत्ता चेत् तदा क्वाप्यनुरागिणी भवति ।
तथापि धनमात्रसाध्यत्वाद्रक्तायां विरक्तायां वा अस्यां स्तं धनं विना सुदुर्ल्लभमित्यर्थः ।
वातपण्ड्रो रतिप्रतिबन्धकव्याधिविशेषः ।

लोचना:

(लो, ऊ) सामान्येति ।
सामान्यनायिका साधारणी स्त्रीत्युद्दिष्टा वेश्या ।
साच धीरा चतुरा ।
न रज्यति बहिर्दर्शयते, नत्वन्तर्वहति ।
मात्रेति-मात्रा निष्कासयेत्, पत्वात्मना, पुनर्धनयोगे सति मातरि दोषं दत्त्वा परिग्राहयितुम् ।
सुखेति–सुखप्राप्तधनं पित्राद्यर्जितधनम्, दुः खार्जितस्य व्ययितुमशक्यत्वात् ।
लिङ्गिनः तपस्विभगवत्प्रभृतयः ।
मदनायत्तेति—अयमर्थः ।
मदनपरवशत्वस्य स्त्रीपुरुषसाधारणत्वात् तदुद्भवस्तस्यां न दण्डकारिति इति ।
प्रच्छन्नं गुप्तम् ।
वातपण्ड्रो रोगविशेषः ।

पण्डको वातपाण्ड्वादिः ।
छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः ।
तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः ।
रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः ।
पुनश्च–

अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।

टीका

विज्ञप्रिया:

(वि, ङ) विरक्तायां वेत्युक्तां रागहीनां दर्शयति–तत्रेति ।
अवस्थाभिरितिस्वास्त्रयोदश, परकीये द्वे ।
साधारणी चैका ।
एवं षोडश नायिका ।
अवस्थाभिरष्टगिर्विशेषणैरष्टौ अष्टगुणा भवन्ति ।

लोचना:

(लो, ऋ) अवस्थाभिरष्टौ प्रत्येकमित्यर्थः ।

स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ विस्स्द्_३।७२ ॥

कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ॥ विस्स्द्_३।७३ ॥

टीका

विज्ञप्रिया:

(वि, च) आसामष्टावस्थारूपविशेषणवौशिष्ट्यं दर्शयति–स्वाधीनेति ।

तत्र–

कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ विस्स्द्_३।७४ ॥

टीका

विज्ञप्रिया:

(वि, छ) स्वाधीनभर्तृकालक्षणमाह—कान्तो रतीति ।
कन्यकायास्तु उपनायक एव कान्तो भर्ता च बोध्यः ।
तदनूढत्वमेव चास्याः ।
परोढत्वमुपनायकानेकहेतुसाधारणत्वमस्याः ।
अन्तिकात्यागो ऽन्यस्थले न स्थितिः ।
वेश्यायास्तु निजपतेरेवं भावः ।

लोचना:

(लो, ॠ) तत्र तासु मध्ये ।
गुणे रतेर्विचित्रसुरतादिः सुश्रूषादिर्वा ।

यथा–
“अस्माकं सखि वाससी–ऽइत्यादि ।

पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ विस्स्द्_३।७५ ॥

टीका

विज्ञप्रिया:

(वि, ज) खण्डितालक्षणमाह—पार्श्वमेतीति—कन्यकायास्तु उपनायक एव प्रियः ।
एवं साधारण्या अपि ।

यथा–
“तदवितथमवादीः–” इत्यादि ।

अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ विस्स्द्_३।७६ ॥

क्रमाद्यथा–

टीका

विज्ञप्रिया:

(वि, झ) अभिसारिकालक्षणमाह—अभिसारयते इति ।
नच स्वीयायाः कथमभिसारः ।
उपनायकाभिसारे परोढत्वमिति वाच्यम् ।
पितृगृहस्थायाः स्वस्वामिन्यपि अभिसारसम्भवात् ।
क्रमात् यथेति ।
प्रथमं कान्तमभिसारयन्त्या ततः कान्तमभिसारन्त्या उदाहरणमिति ब्रूमः ।

न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति सन्दिदिशे ॥

टीका

विज्ञप्रिया:

(वि, ञ) नच मे इति ।
अभिदूति दूत्यां काचिन्नायिका इति सन्दिदिशे ।
सन्देशमाह—नच मे इति ।
एवं नायकमभिगम्य निपुणं प्रकृष्टं वदेः इत्यन्वयः ।

“उत्क्षिप्तं करकङ्कणद्वयमिदम्, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।
आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः” ॥

टीका

विज्ञप्रिया:

(वि, ट) कान्तमभिसरन्तीमुदाहरति—उत्क्षिप्तमिति ।
तमस्विन्यां चन्द्रोदयात् पथि स्वस्या अभिसारभङ्ग सख्यां कथयन्त्या उक्तिरियम् ।
अवगुण्ठनामाच्छादनम्, तस्य क्षेपमपसारणं विधत्ते इति अतीतसामीप्ये वर्तमानं व्यधादित्यर्थः ।

संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ विस्स्द्_३।७७ ॥

विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा ।
प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ॥ विस्स्द्_३।७८ ॥

मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसञ्चारा स्यात्प्रेष्याभिसरेद्यदि ॥ विस्स्द्_३।७९ ॥

टीका

विज्ञप्रिया:

(वि, ठ) आविद्धगतिसञ्चारेति—आविद्धः सभङ्गीका पितृगृहगत्यर्थं सञ्चारो यस्यास्तादृशी ।

तत्राद्ये “उत्क्षिप्तम्” इत्यादि ।
अन्ययोः ऊह्यमुदाहरणम् ।

टीका

विज्ञप्रिया:

(वि, ड) अनयोरूह्यमिति—आद्ये ।
“अनणुरणन्मणिनूपुरमविरतशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥
“इति इयं हि अभिसरन्तीं वेश्यां प्रति शान्तस्य कस्यचिदुक्तिः ।
रणरणकं कामचिन्ताम् ।
प्रेष्यायास्तु"निः शङ्कच्युत"इत्यादिकमुदाहरणम् ।
मदस्खलितादिविशेषणान्यस्यां चन्दनादिवेशादूह्यानि ।

लोचना:

(लो, ऌ) प्रेष्याभिसारिका यथा–
ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी
घोटी ह्रेषाद् विकृतरुदितं हेतुहीनं हसन्ती ।
स्थानास्थानस्खलितपदविन्यासमाभाषमाणा
यूनामग्रे सरति कुटिलं नर्तितोच्चैर्नितम्बम् ।

प्रसङ्गादभिसारस्थानानि कथ्यन्ते–

लोचना:

(लो, ए) स्थानानीति–अष्टानां स्थानानां महर्षिणोक्तत्वात् भिन्ननिर्देशः ।
यदाह–

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ॥ विस्स्द्_३।८० ॥

एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ॥ विस्स्द्_३।८१ ॥

टीका

विज्ञप्रिया:

(वि, ढ) मालामञ्चमुद्यानम्, कुत्रचिदाश्रय इत्यत्र विनोद इति शेषः ।

चाटुकारमपि प्राणनाथं राषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ विस्स्द्_३।८२ ॥

टीका

विज्ञप्रिया:

(वि, ण) कलहान्तरितालश्रणमाह–चाटुकारमपीति ।
कन्यकासाधारण्योरुपनायक एव प्राणनाथः ।

यथा मम तातपादानाम्–
“नो चाटुश्रवणं कृतम्, न च दृशा हारो ऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचो ऽपि दूरीकृताः ।
पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः” ॥

टीका

विज्ञप्रिया:

(वि, त) नो चाटुश्रवण् इति ।
हारस्तत् प्रीत्यर्थं कान्तेन दत्तः ।
विनिपत्येत्यनन्तरं मया निराकृत इति पूरणीयम् ।

प्रियः कृत्वापि सङ्केतं यस्या नायाति सन्निधिम् ।
विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥ विस्स्द्_३।८३ ॥

यथा–
“उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः” ॥

टीका

विज्ञप्रिया:

(वि, थ) विप्रलब्धालक्षणमाह–प्रियः कृत्वेति ।
उत्तिष्ठ इति ।
यामोमदागमनावधिप्रहरो यात इत्यर्थः ।
या नायिका अतः परमपि जीवेत् तस्या एवासौ जीवितनाथो भवेत्; भविष्यतीत्यर्थः, नतु ममेति भावः ।

नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ॥
सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ॥ विस्स्द्_३।८४ ॥

यथा–
“तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्” ॥

टीका

विज्ञप्रिया:

(वि, ञ) प्रोषितभर्तृकालक्षणमाह नानाकार्य्येति ।
अत्रापि कन्यापरोढयोरुपनायक एव पतिः ।
तां जानीया इति—शापप्रतिरुद्धप्रियासन्निधगमनस्य यक्षस्य मेघं सम्बोध्य प्रियावस्थाकथनमिदम् ।
जीनीयाः जानीहि ।
एषु गुरुषु दिवसेषु गच्छत्सुगाढोत्कण्ठामत एव शिशिरमथितां पद्मिनीमिवान्यरूपां जातामहम् इत्यर्थः ।
वाशब्द इवार्थे ।

कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।
सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥ विस्स्द्_३।८५ ॥

यथा राघवानन्दानां नाटके–
“विदूरे केयूरे कुरु, करयुगे रत्नवलयैर् अलम्, गुर्वो ग्रीवाभरणलतिकेयं किमनया ।
नवामेकामेकावलिमयि मयि त्वं विरचयेर् न नेपथ्यं बहुतरमनङ्गोत्सवविधौ” ॥

टीका

विज्ञप्रिया:

(वि, ट) वासकसज्जालक्षणमाह—कुरुत इति ।
सज्जिते केलियोग्यतया सज्जीकृते वासवेश्मनि यस्या मण्डनं सखी कुरुत इत्यर्थः ।
विदितप्रियसङ्गमा निश्चितप्रियसङ्गमा ।
स्वीयाकन्ययोस्तु पितृगृहस्थयोरेवम्भावो बोध्यः ।
विदूरे इति ।
वासगृहे नायकसंयोगार्थम् अल्पभूषणरचनार्थं सखीं प्रेरयन्त्यास्तां प्रत्युक्तिरियम् ।
अयि सखि त्वं नवीनाम् एकामेकावलीं हारं मयि विरचयेः ।
यतो ऽनङ्गोत्सवविधौ बहुतरं नेपथ्यं वेशः न पथ्यं न हितम्; कठिनसंयोगत्वेन आलिङ्गने दुः खदायककृत् अतोलङ्कारान्तरं निषेधति ।

लोचना:

(लो, ऐ) नवामिति ।
एकावली एकगुणमुक्ताहारः ।

आगन्तुं कृतचित्तो ऽपि दैवान्नायाति यत्प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ विस्स्द्_३।८६ ॥

यथा–
“किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितम्, चिरं च रुदितम्, क्षिप्ताश्च पुष्पस्त्रजः” ॥

टीका

विज्ञप्रिया:

(वि, ठ) विरहोत्कण्ठितालक्षणम्—आगन्तुमिति ।
अत्रापि कन्यकापरोढयोरुपनायक एव पातिः ।
किं रुद्ध इति—परोढाकन्यकयोरुपनायकस्य स्वीयायाश्च सपत्निगृहं गतस्य नायकस्यानागमनेनोत्कण्ठितया इति पूर्वार्द्धेक्तिमालोच्य वक्त्राम्बुजं करतले विन्यस्य दीर्घं निश्वसितमित्यादि ।
सख्या मया प्रेषितया ।

इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण ।
चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ॥ विस्स्द्_३।८७ ॥

टीका

विज्ञप्रिया:

(वि, ड) इति साष्टाविंशतीति षोडशानामष्टगुणेन साष्टाविंशतिशतम् ।
तच्च उत्तममध्यमाधमस्वरूपं सत् चतुरधिकाशीतियुतं शतत्रयम् ।
नायिकाभिधानम्–नायिकेति अभिधानं यस्य साष्टाविंशतिनायिकाशतस्य तादृशमित्यर्थः ।
कुलटानां पापित्वे ऽपि उत्तमत्वादिकामकलाकौशलतारतम्यात् ।
यद्वा–ब्राह्मणदिजातितारतम्यात् तथात्वम् ।
साष्टविंशतिशतत्नैगुण्यादुक्तसङ्ख्या ।

इह च “परस्त्रियौ कन्यकान्योढे सङ्केतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतो ऽपि सङ्केतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधीन्नप्रिययोरवस्थान्तरायोगात्” ।
इति कश्चित् ।

टीका

विज्ञप्रिया:

(वि, ढ) अत्र परस्त्रियोः कन्यकोढयोरवस्थात्रयस्य एवासम्भवात् अष्टगुणत्वाभावेन उक्तसङ्ख्यान भविष्यतीति कश्चिदाह–तदृर्शयति ।
इह चेति ।
सङ्केतात् पूर्वमिति सङ्केतात् हेतोः पूर्वं विलहोत्कण्ठिते पश्चात् विदूषकेत्याद्यन्वयः ।
अवस्थान्तरायोगादिति—तथाहि स्वापीनभर्तृकात्वखण्डितात्वकलहान्तरितात्वप्रोषितभर्तृकात्ववासकसज्जात्वरूपाः पञ्चावस्थाः भर्तृघटिताः, कन्यकापरोढयोस्तादृशावस्थाभावादित्यर्थः ।
कश्चिदित्यस्वरससूचनस्यायभिप्रायः—सर्वत्र भर्तृपतिपदानि उत्कटानुरागविषयकामुकपराणि स्वभर्त्रुपनायकसाधारणनि ।
अतस्तद्धटिताः स्वाधीनभर्तृकदिचतुरवस्थआः सम्भवन्त्येव ।
वासकसज्जात्वावस्था तु पतिघटितैव न भवति इत्यतः कन्यकापरोढयोरपि ताः पञ्चावस्थाः सम्भवन्त्येव ।
एवं च स्वस्त्रिया अपि पितृगृहस्थायाः पित्रधीनत्वेन पत्या सह स्वच्छन्दसम्भोगासम्भवात् ।
पत्यौ अभिसारविरहोकण्ठाविप्रलम्भा भवन्त्येव इति यथोक्तसङ्ख्याः ।

लोचना:

(लो, ओ) अष्टेति—अष्टाविंशतिशतं षोडशानां प्रत्येकमष्टधा गुणनात् ।
पुनश्च उत्तममध्यमाधमभेदात् तत् त्निगुणितम् ।
चतुरशीत्यधिकं शतत्रयमित्यर्थः ।
कश्चिदित्यसन्तोषोक्तिः, तथा हि जयदेवकृतगीतगोविन्दे मम पितॄणां कंसवधे परस्त्रिया राधिकाया
अष्टावप्यवस्थाः स्पष्टमेव प्रकाशिताः, अन्यस्याप्यात्मीयत्वेन परिगृहीतस्य
परयोषिदुपभोगेष्ववस्थोचिता ।
मृदुरान्तरो मानः ।
तथापि मानेन कथञ्चिद् विभावदर्शनार्थमभिमुखं नायके गते कलहान्तरितात्वम् ।
तस्यैव प्रवासे प्रोषितभर्तृकात्वम् ।
एकमन्यदपि सुबुद्धिभिरूह्यम् ।

क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते ।

टीका

विज्ञप्रिया:

(वि, ण) क्वचिदन्यो ऽन्यसाङ्कर्य्यमिति—आसां धीराधीराधीरणाम् ।

यथा–
“न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः ।

टीका

विज्ञप्रिया:

(वि, त) न खलु वयमिति—कुसुमितविटपं दित्सुं स्वनायकं प्रति कोपनाया उक्तिरियम् “हे विट ! धूर्त्त !अमुष्य विटपस्य दानयोग्या न खलु वयम् ।
किन्तु असकौ असौ या उपनायिका त्वां चक्षुषा पिबति सुरते प्रीतिजननात् प्रतिपालयति च तस्यै अमु विटपं ददस्व यतः सदृशोर्योगशचिराय भवति ।
असदृशोस्तु क्षणिककृत् निष्फल इत्यर्थः, सदृशत्वं च दर्शितयोगार्थवशात् ।
सापि विटपी अयं च विटप इति सादृश्यम् ।

लोचना:

(लो, औ) न खल्विति–पिबति सर्वतो निरुद्धप्रसरीकृत्य स्वामत्रायत्ततायां प्रवेशयति उपभुङ्क्तेवा ।
मदनशरपातकातरं पाति रक्षति ।
असकाविति करूपतद्धितत्वेन तस्याः कुत्सितत्वं प्रकाश्यते ।
विटपे ऽपि विटं पाति रक्षतीति व्युत्पत्तियोगः ।
तस्यामप्युक्तप्रकारेण तथात्वमिति द्वयोः सादृश्यम् ।
एवञ्चानयोर्विटपत्वेन सदृशयोर्विटपयुवयोर्वा गर्हितत्वेन सदृशयोर्वा उचितो योगो यतः तस्यैव विटपप्रदानेन भवतीति उभयथा सम्बन्धः ।

तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्” ॥

टीका

विज्ञप्रिया:

(वि, थ) तव कितवेति—वृक्षपल्लवं कर्णपूरं ददानं नायकं प्रति कोपनायाः नायिकाया उक्तिरियम् ।
हे कितव ! धूर्त ! आहतैः दत्तैः क्षितिरुहाणां वृक्षाणां पल्लवरूपैः कर्णपूरैः मम किं प्रयोजनमित्यर्थः ।
ननु भोः जनविदितैः भवद्व्यलीकैः भवदपकर्मभिः मम कर्णयुग्मं चिरपरिपूरितमेव ।
तथा च योगार्थवशात् भवद्व्यलीकमेव मे कर्णपूर इत्यर्थः ।

मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः” ॥
“इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च” ॥

टीका

विज्ञप्रिया:

(वि, द) इति गदितेति—पूर्वर्णितनायिकातो ऽन्या नायिका इति गदितवती सती रुषा अम्बुरुहेण चक्षुषा च तं नायकं जघान ।
कषयितचक्षुषा दर्शनमेव हननम् अम्बुरुहचक्षुषोर्द्वयोः विशेषणमाह—स्फुरितेति—स्फुरितं मनोहरं पक्ष्मैव केशरवत् यस्य तादृशेन चक्षुषा ।
स्फुरितोमनोहरपक्ष्मवत् केशरो यस्य तादृशेन अम्बुरुहेण, तथा श्रवणपर्यन्तनियमितेन चक्षुषा श्रवणे नियमितेन अम्बुरुहेण उभयत्र स्थापनमेव नियमनम् ।

इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः सङ्कीर्णा ।
एकमन्यत्राप्यूह्यम् ।

इतरा अप्यसङ्ख्यास्ता नोक्ता विस्तरशङ्कया ॥ विस्स्द्_३।८८ ॥

लोचना:

(लो, अ) इतरा इति असङ्ख्याः पद्मिनीमृग्यादिभेदात् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

ता नायिकाः ।
अथासामलङ्काराः–

यौवने सत्त्वजास्तासामष्टाविंशतिसङ्ख्यकाः ।

लोचना:

(लो, आ) अथेति ।
अलङ्क्रियते भूष्यते एभिरित्यलङ्काराः ।
सत्त्वं गुणविशेष ।
तासां नायिकानमीरिता उक्ताः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अलङ्कारास्तत्र भावहावहेलास्त्रयो ऽङ्गजाः ॥ विस्स्द्_३।८९ ॥

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ विस्स्द्_३।९० ॥

लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ विस्स्द्_३।९१ ॥

विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।
हसितं चकितं केलिरित्यष्टादशसङ्ख्यकाः ॥ विस्स्द्_३।९२ ॥

स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ।

पूर्वे भावादयो धैर्यान्ता दश नायकानामपि सम्भवन्ति ।
किन्तु सर्वे ऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति ।

टीका

विज्ञप्रिया:

(वि, ध) अलङ्कारा इति ।
शोभका धर्मा इत्यर्थः ।
अङ्गजत्वायत्नजत्वस्वभावजत्वानि परिभाषामात्राणि नतु एषां परस्परवैलक्षण्यमस्ति ।
अत्र भावाद्यास्त्रयः शोभाद्याः सप्त लीलाद्या अष्टादश इति अष्टाविंशतिः ।
विच्छित्तिविशेषं भङ्गीविशेषम् ।

तत्र भावः–

निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ विस्स्द्_३।९३ ॥

लोचना:

(लो, इ) निर्विकारेति–विकारो मदनविकारः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः ।
यथा–
“स एव सुरभिः कालः स एव मलयानिलः ।
सैवेयमबला किन्तु मनो ऽन्यदिव दृश्यते” ॥
अथ हावः–

भ्रूनेत्रादिविकारैस्तु सम्भोगेञ्छाप्रकाशकः ।
भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ॥ विस्स्द्_३।९४ ॥

यथा–
“विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन” ॥

टीका

विज्ञप्रिया:

(वि, न) विवृण्वती शैलसुतापीति–तपस्यतो महेशस्य समीपे कामेन धनुषि आरोपिते पार्वला हाववर्णनमिदम्, क्वचित् तस्थावित्यन्वयः ।
अङ्गैर्भावं विवृण्वतीत्यन्वयः ।
बालकदम्बपुष्पतुल्यताम् अङ्गानां पुलकेन मुखेन साचीकृता वक्रीकृता; वक्रमुखवैशिष्ट्यात् तस्या वक्रता ।

लोचना:

(लो, ई) विवृण्वतीति अत्न हावे ऽपि भावविशेषत्वात् भावशब्दप्रयोगः मुखेन साचीकृता न सम्मुखीभूतेत्यर्थः ।
पर्य्यस्तं समन्ततः क्षिप्तम् ।

अथ हेला–

हलात्यन्तसमालक्ष्यविकारः स्यात् स एव तु ।

स एव भाव एव ।
यथा–
“तह ते झत्ति पौत्ता वहुए सव्वङ्गविब्भमा सअला ।
संसै अमुद्धभावा होइ चिरं जै सहीणं पि” ॥

टीका

विज्ञप्रिया:

(वि, प) तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्गविभ्रमाः सकलाः ।
संशयितमुग्धभावा भवन्ति चिरं यथा सखीनामपि ॥
इति संस्कृतम् ।
नायकं प्रति नायिकायाः विभ्रमोन्मेषवर्णनमिदम् ।
मुग्धभावो बाल्यात् मूढभावः ।

अथ शोभा–

रूपयौवनलालित्यभोगाधैरङ्गभूषणम् ॥ विस्स्द्_३।९५ ॥

शोभा प्रोक्ता–

तत्र यौवनशोभा यथा–
“असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे” ॥

टीका

विज्ञप्रिया:

(वि, फ)रूपयौवनेति—रूपातिचतुर्भिरङ्गभूषणम् अङ्गशोभा ।
असम्भृतं मण्डनमिति–सा पार्वती अथ अनन्तरं बाल्यात् परं वयः यौवनं प्रपेदे ।
वयसि रूपकाण्याह–असम्भृतम् इति हरितालादि सम्भारजनितम् अङ्गयष्टेर्मण्डनम् ।
मदस्य मत्ततायाः कारणं हेतुः ।
अनासवाख्यम् आसवस्य मदिराया या आख्या सञ्ज्ञा तद्रहितमासवभिन्नमितियावत् ।
पुष्पभिन्नं कामस्य अस्त्रम् अङ्गभूषणम् अङ्गशोभा असम्भृतमण्डनमिति ।
अथानन्तरम् ।

एव मन्यत्रापि ।
अथ कान्तिः–

सैव कान्तिर्मन्यथाष्यायितद्युतिः ।

मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते ।
यथा–
“नेत्रे खञ्जनगञ्जने–” इत्यत्र ।

टीका

विज्ञप्रिया:

(वि, ब) नेत्रे खञ्जनेति ।
इदमुदाहरण प्ररूढयौवनायाः प्रगुक्तम् ।

अथ दीप्तिः–

कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ विस्स्द्_३।९६ ॥

यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्–
“तारुण्यस्य विलासः समधिकलावण्यसम्पदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम्” ॥

टीका

विज्ञप्रिया:

(वि, भ) तारुण्यस्येति ।
एतदादीनि चन्द्रकलाया विशेषणानि ।
विलासहासयोर्जनिका इत्यर्थः ।
शुद्धसारोपा इयं लक्षणा ।

अथ माधुर्यम्–

सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ।

यथा–
“सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्” ॥

टीका

विज्ञप्रिया:

(वि, म) सरसिजमिति–इयं शकुन्तला वल्कलेनापि अधिकमनोज्ञा ।
अतो मधुराणामाकृतीनां किमिव मण्डनम्, तत्र दृष्टान्तमाह—सरसिजमिति–अनुविद्धं सम्बद्धम् ।
लक्ष्म कलङ्कः ।
लक्ष्मीं शोभाम् ।

अथ प्रगल्भता–

निःसाध्वसत्वं प्रागलभ्यम्–

यथा–
“समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि ।
दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः” ॥
अथौदार्यम्–

–औदार्यं विनयः सदा ॥ विस्स्द्_३।९७ ॥

यथा–
“न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरम्, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटे ऽप्यागसि ।
कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने” ॥

टीका

विज्ञप्रिया:

(वि, य) न ब्रूते इति ।
प्रयायाश्चरितं सख्यौ कथयत उत्किरियम् ।
मे मम स्फुटे ऽप्यागसि अपराधे स् कान्ता सख्या वक्त्रमभि सख्या वक्त्रे पर्य्यश्रुणी लोचने प्रयच्छति ।
सख्याः कीदृशयाः सागसं मां द्रष्टुं गवाक्षविवरव्यापारिताक्ष्याः ।
मन्तु परुषं रुषा न ब्रूते इत्यादि स्पष्टम् ।
क्षितौ श्रवणतः उत्तंसं क्षिपतीत्यन्वयः ।

अथ धैर्यम्–

मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला ।

यथा–ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति ।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्” ॥

टीका

विज्ञप्रिया:

(वि, र) मुक्तात्मश्लाघनेति—अचञ्चला मनोवृत्तिर्या मुक्तात्मश्लाघना सा धैर्य्यमिति भावः ।
ज्वलतु इति गौरिकाविवाहे उद्वेजमानायास्तत्र सम्मितायाः मालत्या उक्तिरियम् ।
मम विरहोद्दीपनाय रात्रौ अखण्डकलः शशी ज्वलतु ।
मदनो ऽपि मां दहतु ।
मृत्योः परेण कर्मणा किंवा तेन विधास्यते ।
वरं मृत्युरेव विधीयते; तथापि पितृमातृकुलकलङ्कं न जनयिष्यामि इत्यभिप्रायेणाह—मम त्विति ।
अतस्तु मयि मम दयितः द्रयायोग्यो यतः ख्लाघ्यः निष्कलङ्कः ।
अतस्तत्कलङ्कं न जनयिष्यामीत्यर्थः ।
एवममलान्वया मम जनन्यपि दयितेत्यर्थः ।
नत्वेवायं जनो माधवः दयितो जीवितञ्च न दयितमित्यर्थः ।

अथ लीला–

अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ॥ विस्स्द्_३।९८ ॥

प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः ।

यथा–मृणालव्यालवलया वेणीबन्धकपर्दिनी ।
हारनुकारिणी पातु लीलया पार्वती जगत् ॥

टीका

विज्ञप्रिया:

(वि, ल) अङ्गैर्वेषैरिति ।
प्रीतिप्रयोजितैरङ्गादिभिः प्रयस्यानुकृतिं सदृशाचरणं लीलां विदुरित्यर्थः ।
मृणालेति ।
मृणालात्मकसर्पवलया ।
वेणीबन्धात्मककपर्दिनी पार्वती सर्पवलयस्य जटावतो हरस्यानुकारिणी जगत् पात्वित्यन्वयः ।

अथ विलासः–

यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ विस्स्द्_३।९९ ॥

विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना ।

यथा–
“अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्” ॥

टीका

विज्ञप्रिया:

(वि, व) यानासनेति ।
इष्टसन्दर्शनादिना यानादीनां विशेष इत्यन्वयः ।
यानम् गमनम् ।
विशेषो हर्षसूचकं वैलक्षण्यम् ।
अत्रान्तर इति—वकुलवीथ्याम् उपविष्टं माधवं विलोक्य गजेन यान्त्या मालत्या हर्षक्रियां मकरन्दे कथयतः माधवस्योक्तिरियम् ।
अत्रान्तरे पूर्वकथितवृत्तान्तमध्ये आयताक्ष्या मालत्यास्तन्मयानुभूतम्; मान्मथमाचार्य्यकं मन्मथाचार्य्योपदिष्टक्रियाऽविरासीदित्यर्थः ।
कीदृशं वाग् विभवातिक्रान्तवैचित्र्यं स्पष्टमन्यत् ।

लोचना:

(लो, उ) अत्रान्तरे इति ।
मन्मथस्याचार्यकमाचार्यकत्वं भावशिक्षाविशेषः ।
मन्मथदेवाराधनेन यं यं भावविशेषमधिगतवती तं तं तत्र प्रकाशितवतीत्यर्थः ।

अथ विच्छत्तिः–

स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।

यथा–
“स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः” ॥

टीका

विज्ञप्रिया:

(वि, श) स्तोकापीति ।
कान्तिपोषिका स्तोकापि आकल्परचना अल्पापि वेशरचनेत्यर्थः ।
स्वच्छाम्भ इति–विलासिनीनामाकल्पो वेशः कुसुमेषुणा यदि न शून्यः तदा इयानप्यस्तु ।
स क इत्यत्राह–स्वच्छेति–स्वच्छाम्भसि स्नपनेन विधौतं विक्षालितमङ्गम् ।
ओष्ठश्च ताम्बूलद्युतिविशदः ।
प्रतनु सूक्ष्मं विविक्तं परिच्छिन्नं वासश्चेति ।

अथ विव्वोकः–

विव्वोकस्त्वतिगर्वेण वस्तुनीष्टे ऽप्यनादरः ॥ विस्स्द्_३।१०० ॥

यथा–
“यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते ऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते” ॥

टीका

विज्ञप्रिया:

(वि, ष) यासामिति—सत्यपि भावे वामाचरणशीलासु नायिकासु अनुरागिणः कस्यचिदुक्तिरियम् ।
दोषानुवृत्तिः दोषार्पणम् ।
तच्च गर्वात् चाटुं कारयितुं प्रियेपरं केवलं प्राणान् अर्पयन्तीति अन्वयः ।
न सम्पूर्णदृष्टिं गर्वात् कटाक्षमात्रम् ।
अत्यन्ताभिमते वस्तुनि सुरते ।

लोचना:

(लो, ऊ) अत्यन्ताभिमते इति–निषधात्मको विधिः किमनेनास्माकम् इत्याद्यनादरयुक्तमेवाभिमतवस्तुनः अपरिग्रह इत्यर्थः ।

अथ किलकिञ्चितम्–

स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ विस्स्द्_३।१०१ ॥

यथा–
“पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखे ऽपि” ॥

टीका

विज्ञप्रिया:

(वि, स) पाणिरोधमिति ।
करभोरूः कामिनः पाणिरोधादिकमविरोधितेत्यादि विशिष्टं यथा स्यात् तथा कुरुते स्म ।
स्पष्टमन्यत् ।

अथ मोट्टायितम्–

तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।
मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ विस्स्द्_३।१०२ ॥

यथा–
“सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा ।
उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना” ॥

टीका

विज्ञप्रिया:

(वि, ह) तद् भाव इति ।
वल्लभस्य कथादिषु प्रसङ्गेषु केनाप्यारभ्यमाणेषु तद्भावभाविते तदनुरागनिषोविते चित्ते सति कर्णकणअडूयनादिकं मोट्टायितमिति प्राहुः इत्यर्थः ।
कथासु इत्यादिपदादिङ्गितपरिग्रहः ।
कण्डूयनादिकमित्यादिपदादङ्गभङ्गीचरणभूमिलिखनपरिग्रहः ।
सुभगेत्यादि स्पष्टम् ।

अथ कुट्टमितम्–

केशस्तनाधरादीनां ग्रहे हर्षे ऽपि सम्भ्रमात् ।
आहुः कुट्टमितं नाम शिरः करविधूननम् ॥ विस्स्द्_३।१०३ ॥

यथा–
“पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण” ॥

टीका

विज्ञप्रिया:

(वि, क्ष) पल्लवोपमिति इति—अभीष्टे प्रिये ऽधरबिम्बं दष्टवति सति अर्थात् निषेधार्थं धूयमानेन करेण पर्य्यकूजीत्यन्वयः ।
कीदृशेन करेण तारस्वरलोलबलयेन ।
तदुत्प्रेक्षते–सरुजेवेति ।
धर्मिणो ऽधरक्षतमेव तदवयवस्यापि करस्य रुक् इतिभावः ।
अधरबिम्बं कीदृशाम् ? उपमित्यर्थेन साम्येन पल्लवसपक्षम् ।

लोचना:

(लो, ऋ) पल्लवेति ।
पल्लवस्य उपमित्या साम्येन सपक्षम् ।
द्वयोरपि कराधरयोः पल्लवस्तु उपमानत्वेन निर्दिश्यते ।

अथ विभ्रमः–

त्वरया हर्षरागादेर्दयितागमनादिषु ।
अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥ विस्स्द्_३।१०४ ॥

यथा–
“श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया ।
भले ऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः” ॥
अथ ललितम्–

सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।

टीका

विज्ञप्रिया:

(वि, क) सुकुमारतयेति—अङ्गानां विन्यासो विलक्षणन्यासः सुकुमारतया कोमलतया ।

यथा–
“गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा ।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम” ॥

टीका

विज्ञप्रिया:

(वि, ख) गुरुतरेत्यादिकं नर्त्तनक्रियाविशेषणम् ।
ललितं सुन्दरम्, नतु प्रकृतललितभावम्, नर्तनस्यैव तत्त्वात् ।
इतरत् पदम् ।

अथ मदः–

मदो विकारः सौभग्ययौवनाद्यवलेपजः ॥ विस्स्द्_३।१०५ ॥

यथा–
“मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः” ॥

टीका

विज्ञप्रिया:
(वि, ग) मदो विकार इति ।
अवलेपो गर्वः ।
मा गर्वमिति–अन्यनायिकायाः पतिसौभग्याधीनगर्वं सूचयन्त्याः तत्सख्याः तत् सपत्न्यामुक्तिरियम् ।
हे साखि ! मम कपोलतले कान्तस्वहस्तलिखिता मञ्जरी पुष्पकलिका चकास्ति शोभते इति गर्व मा उद्वहं ।
कथमित्यत आह–अन्यापीति ।
अन्या तव सपत्नी मम सखी किं कपोले तन्न लिखतीत्यत्राह ।
वैरीति–वेपथुरत्र मञ्जरीलिखनाधिकारणमलाभो नायिकाया एव पत्युर्भावातिशयदर्शनेन भावोदयात्–नतु लेखकस्य पत्युः पाणेः, तस्य गर्वितनायिकाविकारत्वाभावात् ।

लोचना:

(लो, ॠ) मा गर्वमिति ।
वेपथुः कान्तस्य हस्तसम्बन्धी ।

अथ विहृतम्–

वक्तव्यकाले ऽप्यवचो व्रीडया विहृतं मतम् ।

यथा–
“दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् ।
पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्” ॥

टीका

विज्ञप्रिया:

(वि, घ) दूरागतेनेति ।
सख्यौ सख्युरुक्तिरियम् ।
मया कुशलं पृष्टेत्यन्वयः सर्वमितिविरहाधीनं तत् तद्दुः खमित्यर्थः ।

अथ तपनम्–

तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितम् ॥ विस्स्द्_३।१०६ ॥

यथा मम–
“श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् ।
किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्ने ऽपि ते सङ्गमम्, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि” ॥

टीका

विज्ञप्रिया:

(वि ङ) श्वासान् मुञ्चति इति ।
इयं विरहण्याश्चेष्टां नायके कथयत्या उक्तिः ।
हे तस्याः प्राणसमान ! तव विरहे तव प्रिया श्वासान् मुञ्चतीत्यादि ।
क्षामां क्षीणआम् चेष्टान्तरकथनार्थमाह—किञ्चेति ।
तामपि निद्रामपि ।

लोचना:

(लो, ऌ) किञ्चेति ।
प्रणसमानेति प्रियस्य सम्बोधनम् ।

अथ मौग्ध्यम्–

अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ।
वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ विस्स्द्_३।१०७ ॥

यथा–
के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः ।
नाथ ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्” ॥

टीका

विज्ञप्रिया:

(वि, च) अज्ञानादिवेति—प्रतीतस्यापि वस्तुनः अज्ञानादिव या वल्लभस्य पुरः पृच्छा इत्यर्थः ।
के द्रुमा इति ।
येषां फलं मुक्ताफलमित्यन्वयः ।

अथ विक्षेपः–

भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् ।
रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ विस्स्द्_३।१०८ ॥

यथा–
“धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् ।
किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ॥

टीका

विज्ञप्रिया:

(वि, छ) भूषाणामिति—विष्वक् सर्वतो वृथान्वेक्षणमित्यन्वयः ।
दयिकान्तिके इति सर्वत्रान्वयः ।
धम्मिल्लमिति–संयतकेशम्, अर्द्धमुक्तम् ।
तिलकमसकलञ्च तन्वी कलयते कुरुते इत्यर्थः ।
अत्र पूर्वार्द्धं नायकानुरागोद्दीपकम्, परार्द्धं लज्जया ।

अथ कुतूहलम्–

रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।

यथा–
“प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान” ॥

टीका

विज्ञप्रिया:

(वि, ज) प्रसाधिकालम्बितमिति—इन्दुमत्या स्वयं वृतस्य अजस्य पुरीप्रवेशे दिदृक्षोः स्त्रियाः क्रियावर्णनमिदम् ।
प्रसाधिकया स्त्रिया आलम्बितम् अग्रपादं पदाग्रम् द्रवरागमशुष्कालक्तकमेव काचित् पुरस्त्री आक्षिप्य आकृष्य उत्सृष्टलीलागतिः त्यक्तलीलागतिः सती पदवीमागवाक्षात् गवाक्षपर्य्यन्तम् अलक्तकाङ्कां ततानेत्यन्वयः ।

अथ हसितम्–

हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ॥ विस्स्द्_३।१०९ ॥

यथा–
“अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
नूनं प्रसूनवाणो ऽस्यां स्वराज्यमधितिष्ठति ॥

टीका

विज्ञप्रिया:

(वि, झ) अवस्मादेवेति—इयं तन्वी यत् पुनरकस्मादेव जहास तेन इति पूरणादुत्तरार्द्धान्वयः ।
स्वाराज्यं स्वर्गराजत्वम् इयमेव स्वर्ग इति भावः ।

अथ चकितम्–

कुतो ऽपि दयितस्याग्रे चकतं भयसम्भ्रमः ।

यथा–
“त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणो तरुण्यः ॥

टीका

विज्ञप्रिया:

(वि, ञ) कुतो ऽपीति—दयितस्याग्रे कुतो ऽपि हेतोः भयसम्भ्रमः व्याकुलता इत्यर्थः ।
अस्यन्तीति–दयितेन सह जलक्रीढायां नायिकायाभयविभ्रमवर्णनमिदम् ।
वामोरूः चलशफरीभिर्विघट्टितोरूः सती त्रस्यन्ती विभ्रमस्य विलासस्यातिशयमाप इत्यन्वयः ।
अर्थान्तरन्यासमाह क्षुभ्यन्तीति ।
अहो तरुण्यः हेतोर्विनापि लीलाभिः प्रततमतिशयं क्षुभ्यन्ति सञ्चलन्ति कारणे तु सति किमु इत्यर्थः ।

अथ केलिः–

विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ॥ विस्स्द्_३।११० ॥

यथा–
“व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी” ॥

टीका

विज्ञप्रिया:

(वि, ट) व्यपोहितुमिति—काचिदुन्नतपीवरस्तनी उन्मनाः कामोद्विग्नमनाः प्रियमुरसि पीवरस्तनेन जघान ।
कीदृसं प्रियम् पुष्पजं रजः तस्या लोचनतो मुखनिलैर्व्यपोहितुम् अपाकर्त्तुम् अपारयन्तम् ।

अथ मुग्धाकन्ययोरनुरागेङ्गितानि–

दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥ विस्स्द्_३।१११ ॥

बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।
सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ॥ विस्स्द्_३।११२ ॥

अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् ।
शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥ विस्स्द्_३।११३ ॥

टीका

विज्ञप्रिया:

(वि, ठ) मुग्धाकन्ययोरनुरागेङ्गितानि स्पष्टानि ।
अथ मकलनायिकानुरागेङ्गितान्याह ।
संव्यानं वस्त्रम् (उत्तरीयम्)

अथ सकलानामपि नायिकानामनुरागेङ्गितानि–

चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचनपथं चास्य न गच्छत्यनलङ्कृता ॥ विस्स्द्_३।११४ ॥

क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः ।

टीका

विज्ञप्रिया:

(वि, ड) वागाद्यैरित्यादिपदात् ताम्बूलदानादिपरिग्रहः ।

बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥ विस्स्द्_३।११५ ॥

आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।
विश्वसित्यस्य मित्रेषु बहुमानं करोति च ॥ विस्स्द्_३।११६ ॥

सखीमघ्ये गुणान् ब्रूते स्वधनं प्रददाति च ।

टीका

विज्ञप्रिया:

(वि, ढ) स्वधनं ददाति च इत्यत्र याचकाय भत्ते इति शेषः ।

सुप्ते स्वपिति दुःखे ऽस्य दुःखं धत्ते सुखे सुखम् ॥ विस्स्द्_३।११७ ॥

स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः ।

टीका

विज्ञप्रिया:

(वि, ण) प्रिये दूरतः पश्यति सति इति शश्वत् वारम्वारम् अस्य दृष्टिपथे स्थिता भवतीति शेषः ।

लोचना:

(लो, ए) स्थितेति ।
प्रियस्य दृष्टिपथे स्थिता तस्मिन् दूरतः पश्यति सति ।
मुग्धस्वरविकारादियुक्तपरिजनाभाषणादीनि स्वाधरदशनपर्य्यन्तानि कर्म्माणि करोति इत्यर्थः ।
यदि च प्रियस्य कथां कथयति तदाधोमुखी सती कथयति ।

आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ॥ विस्स्द्_३।११८ ॥
यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।

टीका

विज्ञप्रिया:

(वि, त) समुग्धस्वरविक्रियं मधुरस्वरविकारं यथा स्यात्तथा ।

कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ॥ विस्स्द्_३।११९ ॥

जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।

टीका

विज्ञप्रिया:

(वि, थ) स्फोटयति लीलया भङ्गुरयति ।
बालचुम्बनं पतिसम्मुखे ।

भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥ विस्स्द्_३।१२० ॥

अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।

टीका

विज्ञप्रिया:

(वि, द) सकटाक्षमिति ।
पूर्वं कटाक्षपूर्वकहासोक्तिः; इदानीं कटाक्षमत्रस्य इति भेद्रः ।

दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ विस्स्द्_३।१२१ ॥

न मुञ्चति च तं देशं नायको यत्र दृश्यते ।

टीका

विज्ञप्रिया:

(वि, ध) अधरदंशनमपि लीलाविशेषः ।

आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ विस्स्द्_३।१२२ ॥

टीका

विज्ञप्रिया:

(वि, न) आगच्छति गृहं तस्येति भिन्नगृहस्थितस्य इत्यर्थः ।

दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।

लोचना:

(लो, ऐ) दत्तमिति ।
किमपि तुच्छमपि वस्तु ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ॥ विस्स्द्_३।१२३ ॥

मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् ।
प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥ विस्स्द्_३।१२४ ॥

टीका

विज्ञप्रिया:

(वि, प) प्रार्थयत्यल्पमूलानीति–बहुमूल्यप्रार्थने तदप्रीतिभयमित्यर्थः ।

विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति ।

टीका

विज्ञप्रिया:

(वि, फ) सम्मुखं नाधिगच्छति किन्तु पार्श्वस्था एव इत्यर्थः ।

भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ॥ विस्स्द्_३।१२५ ॥

एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।

लोचना:

(लो, ओ) एतेषु अनुरागेङ्गितेषु मध्ये ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ॥ विस्स्द्_३।१२६ ॥

आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ।

दिङ्मात्रं यथा–
“अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि ।
सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्” ॥

टीका

विज्ञप्रिया:

(वि, ब) अन्तिकगतमपीति ।
सख्यौ सक्युरुक्तिरियम् ।
हन्त हर्षे दृष्ट्वापि इयं प्रियान्तिकगतमपि माम् अलोकयन्तीव अपश्यन्तीव सरसनखक्षतेन लक्षितं चिह्नितं भुजामूलं बाहुमूलम् आविष्कुरुत इत्यर्थः ।

तथा–

लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ॥ विस्स्द्_३।१२७ ॥

दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते ।

दूत्यश्च–

दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥ विस्स्द्_३।१२८ ॥

बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा ।
कारू रजकीप्रभृतिः ।
शिल्पिनी चित्रकारादिस्त्री ।
आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः ।
तत्र सखी यथा–
“श्वासान्मुञ्चति–” इत्यादि ।
स्वयन्दूती यथा मम–
“पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो ।
ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणम्” ॥

टीका

विज्ञप्रिया:

(वि, भ) स्वयं तथेति स्वयमपि दूती ।
पन्थिअ इति ।
पथिक ! पिपासुरिव लक्ष्यसे यासि तत् किमन्यत्र ।
न मनागपि वारक इहास्ति गृहे घनरसं पिबताम् ॥
इति संस्कृतम् मनाक् अल्पः ।
घनरसम् जलम् ।
व्यङ्ग्यार्थस्तु त्वं पिपासू रसस्वादेच्छुः ।
घनरसं सुखेन निहितं शृङ्गाररसं पिबताम् आस्वादयताम् ।
वारको ऽल्पो ऽपि नास्तीत्यर्थः ।

लोचना:

(लो, औ) पन्थिअ इति ।
पथिक ! पिपासुरिव लक्ष्यसे यासि तत् किमन्यत्र ।
न मनागपि वारक इहास्ति गृहे घनरसं पिबताम् ॥
घनरसं जलम् ।
व्यङ्ग्यार्थश्च घनरसां मामनिबारितमुपभुङ्क्ष्व ।

एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति ।

दूतीगुणानाह–

कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥ विस्स्द्_३।१२९ ॥

माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः ।
एत अपि यथैचित्यादुत्तमाधममध्यमाः ॥ विस्स्द्_३।१३० ॥

एतादूत्यः ।
अथ प्रतिनायकः–

धीरोद्धतः पापकारी व्यसनी प्रतिनायकः ।

टीका

विज्ञप्रिया:

(वि, म) प्रतिनायक इति वीररौद्ररसयोरित्यर्थः ।

यथा रामस्य रावणः ।
अथेद्दीपनविभावाः–

टीका

विज्ञप्रिया:

(वि, य) इत्थमालम्बनविभावप्रदर्शनं समाप्य उद्दीपनविभावमाह–अथेति ।

लोचना:

(लो, अ) एवं सपरिकरं विभावस्य आलम्बनाख्यं भेदं निरूप्य उद्दीपनाख्यं भेदं निरूपयन्नाह–अथोर्द्दापनेत्यादि ।

उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥ विस्स्द्_३।१३१ ॥

ते च–

आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ।

चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः ।
कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरझङ्कारादयः ।
तत्र चन्द्रोदयो यथा मम–
“करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः” ॥

टीका

विज्ञप्रिया:

(वि, र) करमुदयमहीधरेति—अयं सुधांशुः अमरेशस्य इन्द्रस्य दिशः प्राच्याः मुखं विचुम्बति ।
किं कृत्वा गलितं तमः पटलरूपम् अंशुकं यस्मात् तादृशे उदयमहीधररूपस्य स्तनस्याग्रे करं रश्मिमेव करं निवेश्य ।
यद्यप्यत्र चन्द्रो नायक एव न उद्दीपनविभावः ।
तथापि चन्द्रदिशोर्नायकनायिकयोर्वृत्तान्तदर्शनात् उद्दीप्तस्य वक्तृशृङ्गारस्य चन्द्र उद्दृपकः ।
स्फुटमुदाहरणन्तु— कर्पूरधूलधवलद्युतिपूरधौत– दिङ्मण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरोंऽशुकनिवेशविशेषकॢप्ति– व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥
इति

लोचना:

(लो, आ) करमुदयेति-करं किरणं हस्तश्च कुमुदानाम् ईक्षणं दर्शनं पक्षे कुमुदमेव ईक्षणं चक्षुर्यत्र ।
एवंविधः चन्द्रः प्रकरणस्थं शृङ्गारादिरसमुद्दीपयति ।

यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते ।
अथानुभावाः–
उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ॥ विस्स्द्_३।१३२ ॥

लोके यः कार्यरूपः सो ऽनुभावः काव्यनाट्ययोः ।

टीका

विज्ञप्रिया:

(वि, ल) इत्थं विभावान् समाप्य अनुभावानाह ।
अथ अनुभावा इति ।
उद्बुद्धमिति ।
स्वैः स्वैः कारणैः उद्बुद्धं भावं रत्यादिकं बहिः प्रकाशयन् इत्यर्थः ।
बहिर्दृष्टः सन् रत्यादिभावं सामाजिके प्रकाशयन्नित्यर्थः ।

लोचना:

(लो, इ) उद्देशकमप्राप्तमनुभावं निरूपयितुमवतारयति ।
अथेति—उद्बुद्धमिति रामादेर्वासनान्तर्लोनस्य रत्यादिभावनस्य उद्वोधं बहिः प्रकटयन्नित्यर्थः ।

यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः ।
कः पुनरसावित्याह–

उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ॥ विस्स्द्_३।१३३ ॥

तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि ।

टीका

विज्ञप्रिया:

(वि, व) उक्ताः स्त्रीणमिति—अङ्गजाः स्वाभाविकाश्च ये स्त्रीणामष्टाविंशतिरलङ्काराः सात्त्विका उक्ताः तथा अपरा अपि तासां पुंसां वा याः चेष्टाः वक्ष्यमाणास्ताः सर्वाः सात्त्विकास्तद्रूपा अनुभावरूपा इत्यर्थः ।

लोचना:

तद्रूपा अनुभावस्वरूपाः ।
तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र सात्त्विकाः–

विकाराः सत्त्वसम्भूताः सात्त्विकाः परिकीर्तिताः ॥ विस्स्द्_३।१३४ ॥

सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः ।

टीका

विज्ञप्रिया:

(वि, श) आत्मविश्रमेति—रजस्तमो ऽधीनविकारराहित्येन आत्मनः स्थितिः विश्रामः ।
तत् प्रकाशः तदुत्पत्तिस्तत्कारीत्यर्थः ।

लोचना:

(लो, ई) कश्चनान्तरो धर्म्मः सच परगतदुः खहर्षादिभावनायामत्यन्तानुकूलान्तः करणत्वम् ।
तस्य च समाहितमनस्त्वेन राघवादि समानदान्तरत्वम् ।

सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः ।

“गोबलीवर्द्दन्ययेन” इति शेषः ।
के त इत्याह–

स्तम्भः स्वेदो ऽथ लोमाञ्चः स्वरभङ्गो ऽथ वेपथुः ॥ विस्स्द्_३।१३५ ॥

वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।

टीका

विज्ञप्रिया:

(वि, ष) ते भिन्ना इति—लोके यः कार्यरूपः सो ऽनुभाव इत्यनेन रत्यादेः कार्यमात्रस्यैवानुभावत्वभुक्तम् ।
उक्तसात्विकभावानामपि तत्कार्यकृत् अनुभावतो भिन्ना इत्यर्थः ।
ननु किं तर्हि सात्त्विकेन पृथगुपादानमित्यत आह—गोबलीवर्देति ।
गोत्वेन प्राप्तस्यापि बलीवर्दस्यैव कार्यत्वेन प्राप्तनामिपि सात्त्विकानां प्राशस्त्यार्थं पृथगुपादानमित्यर्थः ।
प्रशास्त्यञ्च अन्यकार्यापेक्षया रत्यादिप्रकर्षबोधकत्वरूपं प्राधान्यम् ।
तथा अपरा अपि सात्त्विका इति यदुक्तं तान् पृच्छति ।
के ते इत्यष्टाविति—इत्यष्टावपीत्यर्थः ।

लोचना:

(लो, उ) गोबलीवर्द्दन्यायेन तु स्वरूपेण ।

तत्र–

स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ॥ विस्स्द्_३।१३६ ॥

वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः ।
हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥ विस्स्द्_३।१३७ ॥

मदसम्मदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः ।
रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ॥ विस्स्द्_३।१३८ ॥

विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता ।
अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजम् ॥ विस्स्द्_३।१३९ ॥

प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ।

टीका

विज्ञप्रिया:

(वि, स) आमयादिभिरित्यत्र आमयो रोगः आदिपदात् शोकपरिग्रहः ।
इतिधर्म्मेत्यत्र घर्म्म आतपः, आदिपदात् ज्वरपरिग्रहः भयादिभ्य इत्यत्र आदिपदात् शीतपरिग्रहः ।
मदसम्मदेत्यत्र मदो मत्तता सम्मदो हर्षः ।
पीडाद्यैरित्यादिपदात् अत्यन्तरुदितपरिग्रहः ।
चेष्टाज्ञानयोर्निराकृतिरनुत्पादः ।

लोचना:

(लो, ऊ) सम्मदो हर्षः ।
चेष्टाज्ञानयोर्निराकृतिरभावः ।

यथा मम–तनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् ।
कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्” ॥

टीका

विज्ञप्रिया:

(वि, ह) तनुस्पर्शादस्या इति ।
अस्या नायिकायास्तनुस्पर्शान्नयनमुकुलादिकपोलघर्म्मान्ता जाता इत्यर्थः ।
अतो ध्रुवं निश्चितम् उपरताशेषविषयं त्यक्तसमस्तविषयं मनः परमं ब्रह्म झटिति स्पृशतीत्यर्थः ।
अत्र पुसो रोमाञ्चादयस्त्रयः सात्त्विकाः ।

एवमन्यत् ।
अथ व्यभिचारिणः–

विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥ विस्स्द्_३।१४० ॥

टीका

विज्ञप्रिया:

(वि, क्ष) स्थायिन्युन्मग्न इति—स्थायिनि रत्यादौ आभिमुख्येन इत्यन्वयः आभिमुख्यञ्च आस्वादविशेषव्यञ्जने सहायत्वम् ।
केचित्तु चित्तपरं स्थायिपदम् ।
तत्र उन्मग्नेत्यादिरर्थ इत्याहुः ।

लोचना:

(लो, ऋ) अथ व्यभिचारिणः उद्देशकमप्रप्त्या इति शेषः ।
इत्यादौ तु लवणाकरप्राये निर्वेदादयो बुद्बुद्प्रायाः ।
ते त्र्यधिकत्निंशत्प्रकारा व्यभिचारिण इत्यर्थः ।

स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद् व्यभिचारिणः कथ्यन्ते ।
के त इत्याह–

टीका

विज्ञप्रिया:

(वि, क) उन्मग्नेत्यादयो व्याख्यायन्ते—स्थिरतयेति ।
प्रादुर्भावेत्युन्मग्नतायास्तिरोभावेति निर्मग्नतायाः व्याख्या ।
प्रादुर्भावतिरोभावौ चोत्पत्तिविनाशौ एव; न तु प्रकाशाप्रकाशौ ।
मरणादेस्तथात्वाभावात् ।

निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ॥ विस्स्द्_३।१४१ ॥

टीका

विज्ञप्रिया:

(वि, ख) स्मृतिमतिसहिता इत्यस्य विषादा इत्यस्यान्वयः ।
साहित्यञ्च उक्तावेव नतु एषां परस्परसाहित्यम् ।
एकैकस्य तथात्वात् ।

लोचना:

(लो, ॠ) के किमाख्याः ? एते च निर्वेदादयो वितर्कान्ता भावा उद्देशतस्त्रयत्रिंशदुक्ताः ।
अन्याः चित्तस्य वृत्तय एषामेव वक्ष्यमाणविभावानुभावरूपतया एष्वेवान्तर्भवितुमर्हन्तील्यर्थः ।

तत्र निर्वेदः–

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।
दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ॥ विस्स्द्_३।१४२ ॥

टीका

विज्ञप्रिया:

(वि, ग) तत्त्वज्ञानेति—तत्त्वज्ञानापदीर्ष्यादेरिति आदिपदात् योगाभ्यासप्रवृत्तेश्च स्वस्यावमाननमित्यर्थः ।

तत्त्वज्ञानान्निर्वेदो यथा–

लोचना:

(लो, ऌ) तत्त्वेति—अयमर्थः ।
निर्वेदाख्यसञ्चारिभावस्य स्वस्यात्मनो ऽवमानस्वरूपम् ।
सच तत्वज्ञानादेर्विभावादुत्पद्यते ।
दैन्यादिकमनुभावं करोति ।
उच्छ्वासो निश्वास एव मुहुरुत्कटतया उपलब्धः ।
एवमेषाञ्च सर्वेषामपि व्यभिचारिणां स्वरूपकथनप्रस्तावे विभावानुभावयोः कथनं वक्ष्यमाणस्वशब्दवाच्यत्वदोषरीत्या महाकविभिस्तद्रद्वारेण निर्देशेनापि महाकाव्येषु स्वप्रतिपत्त्यर्थम् ।
किञ्चैवं स्वरूपप्रितिज्ञानमपि अतिसुगमं भवतीत्याशयः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

“मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना ।
दक्षिणावर्तशङ्खो ऽयं हन्त ! चूर्णोकृतो मया” ॥

टीका

विज्ञप्रिया:

(वि, घ) मृत्कुम्भेति सुगमम् ।
अनेनान्यापदेशेन ऐहिकस्वल्पदुः खनिवारणाय कुकर्म कुर्वता मयाधमेन पारत्रिकात्यन्तसुखं विनाशितमिति लभ्यते ।
अत्र च स्वस्य कुकर्मकारित्वेन निन्दा स्वावमाननमेव ।

लोचना:
(लो, ए) मृत्कुम्भेति ।
अत्र तुच्छसंसारभोगप्रवणतया निः श्रेयससाधनसमर्थो ऽयं देहो मया नाशितः ।
तन् मां धिगिति स्वावमाननम् ।

अथावेगः–

आवेगः सम्भ्रमस्तत्र वर्षजे पिण्डिताङ्गता ।
उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ॥ विस्स्द्_३।१४३ ॥

राजविद्रवजादेस्तु शस्त्रनागादियोजनम् ।
गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ॥ विस्स्द्_३।१४४ ॥

इष्टाद्धर्षाः, शुचो ऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् ।

टीका

विज्ञप्रिया:

(वि, ङ) आवेग इति ।
अतर्कितवस्तूपस्थित्या व्याकुलता सम्भ्रमः ।
विभिन्नकारणजन्यस्य तस्य कार्याणि विभिन्नान्याह ।
वर्षजेति ।
वर्षजे तस्मिन् सति पिण्डिताङ्गता भवतीत्यर्थः ।

लोचना:

(लो, ऐ) वर्षजे वृष्टिभवे स्त्रस्तता अनायत्ततया स्तब्धता ।
शस्त्रैः शरादिभिः, नागैर्गजैश्चमियोजनं समन्तादाक्रमणम् ।
अन्ये एतज्जनिता लोकप्रसिद्धाः श्रेष्टा इत्यर्थः ।

तत्र शत्रुजो यथा–
“अर्घ्यमर्घ्यमिति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्” ॥

टीका

विज्ञप्रिया:

(वि, च) अर्य्यमर्घ्यमिति रामस्य शत्रुभावेन उपस्थितं परशुरामं दृष्टवा दशरथस्य सम्भ्रमादुक्तिः ।
प्रथमचरणं कथयन्तं दशरथमनादृत्य भताग्रजो रामः यतो यस्यां दिशि वर्त्तते तत्रोदग्रतारकां दृशं सन्दधे सन्निहितवान् ।
कीदृशीं दृश क्षत्रकोपदहनस्यार्च्चिः स्वरूपाम् ।
अत्र विद्रावणादेरित्यादिपदग्राह्यमुनिजन्ये सम्भ्रमे सति अर्घ्यानयनादित्वम् ।

लोचना:

(लो, ओ) अर्ध्यमित्यत्र प्रथमपादे एवावेगः ।

एवमन्यदूह्यम् ।
अथ दैन्यम्–

दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥ विस्स्द्_३।१४५ ॥

लोचना:

(लो, औ) दैर्गत्यं दारिद्र्यम् ।
अनौजस्यम् ओजो हानिः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

यथा–
“वृद्धो ऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहम्, कालो ऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति” ॥

टीका

विज्ञप्रिया:

(वि, छ) दौर्गत्याद्यैरित्यादि ।
आद्यपदात् इष्टालाभेन चिन्तया च ।
अनौजस्यं दुर्बलता ।
वृद्धो ऽन्ध इति—वृद्धान्धदरिद्रभर्त्तृकायाः प्रोषितपुत्रायाः तैलघटिकाभङ्गेन रोदनस्य वर्णनमिदम् ।
स्थूणास्तम्भः उपरिपटलभङ्गेन तदवशेषता ।
वत्सस्य पुत्रस्य प्रोषितस्य ।
तैलबिन्दुर्नतु बहुतैलम्, तच्च वधूप्रसवार्थं सञ्चितम् ।

अथ श्रमः–

खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।

यथा–
“सद्यः पुरीपरिसरे ऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा ।

लोचना:

(लो, अ) त्रीणि च चतुराणि च त्रिचतुराणि ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्” ॥

टीका

विज्ञप्रिया:

(वि, ज) सद्यः पुरीति—वनवासे चलितायाः सीतायाः पुरीवहिरेव वर्णनमिदम् ।
परिसरेषु समीपेषु ।
प्रथमावतारमिति ।
सीताहरणे तूत्तरोत्तरं बह्वश्रुपातः स्यात् ।

अथ मदः–

सम्मोहानन्दसम्भेदो मदो मद्योपयोगजः ॥ विस्स्द्_३।१४६ ॥

अमुना चोत्तमः शेते मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ विस्स्द्_३।१४७ ॥

यथा–
“प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः” ॥

टीका

विज्ञप्रिया:

(वि, झ) सम्मोहानन्देति—प्रकृतबुद्धितो ऽन्यादृशबुद्धिः सम्मोहः ।
सम्भेदो मिलनम् ।
अमुनेति—अमुना मदेन उत्तमादयो मद्यपातारः ।
प्रातिभमिति त्रिसरकं मधुमदिरा तेन प्रतिभं प्रतिभासमूहं गतानां सुभ्रुवां परिहासः प्रववृते ।
गूढसूचितरहस्यवृत्तान्तश्चासौ सहसश्च इति विग्रहः ।
अत्र प्रतिभासमूहप्राप्त्या वक्रवाक्येन मधुमद्योपयोगवशात् प्रकृतबुद्ध्यादृशबुद्धिः परिहासहासाभ्यां चानन्दः ।

लोचना:

(लो, आ) सम्मोहानन्दयोः सम्भेदो मिश्रणः ।
प्रतिभा एव प्रातिभम् ।
त्रिविधः सरको मधु “गौडी माध्वी पैष्टीऽ; च ।

अथ जडता–

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णीम्भावादयस्तत्र ॥ विस्स्द्_३।१४८ ॥

यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये–
“णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिण्ठ ।
आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ सण्ट्ठिअं मुअसण्णाम्” ॥

टीका

विज्ञप्रिया:

(वि, ञ) णवरि तमिति— केवलं तद्युवयुगलमन्यो ऽन्यनिहितसजलमन्थरदृष्टि ।
आलेख्यार्पितमिव क्षणमात्रं तत्र स्थितमासन्नकम् ॥
इति संस्कृतम् ।
चिरप्रवासागतपतिगृहस्थितपत्नीरूपं तद्युवयुगलं च केवलमालेख्यार्पितभिव क्षणमात्रमासन्नकं तत्र स्थितमित्यर्थः ।
चिरप्रवासागतपतिगृहस्थितपत्निरूपं तत् युवयुगलम् ।
नवरिशब्दः केवले देशी ।
कीदृशम् अन्यो ऽन्यनिहितसजलमन्थरदृष्टि ।
अत्रेष्टदर्शनाज्जडता ।

लोचना:

(लो, इ) णवरीति–अनन्तरं तत् युवयुगलमन्योन्यनिक्षिप्तसजलमन्थरदृष्टि ।
आलेख्यार्पितभिव क्षणमात्रं स्थितम उक्तसञ्ज्ञम् ।
युवा च युवतिश्च युवानौ तयोर्युगलम् ।
अत्रेष्टदर्शनात् जडता ।
एवम

अथोग्रता–

शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ॥ विस्स्द्_३।१४९ ॥

यथा–
“प्रणयिसखीसलीलपरिहासरसाधिगत- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः” ॥

टीका

विज्ञप्रिया:

(वि, ट) मालतीं छेत्तुमुद्यतमघोरघण्टं प्रति माधवस्योक्तिरियम् ।
यदस्या मालत्या वपुः प्रणयिनीनां सखीनां सीलपारहासरसेनाधिगतैर्ललितशिरीषपुष्पहननैरपि ताम्यति ।
अत्र वपुषि वधाय शस्त्रमुपक्षिपतस्तव शिरसि मम एष भुजो ऽकाण्डयमदण्ड इव पततु इत्यर्थः ।
अकाण्ड आकस्मिकः ।
अत्र माधवस्य शौर्यम् अघोरघण्टस्यापराधः ।
चण्डत्वं माधवस्य ।

अथ मोहः–

मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः ।
मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ विस्स्द्_३।१५० ॥

यथा–
“तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव” ॥

टीका

विज्ञप्रिया:

(वि, ठ) मोह इति ।
विचित्तता विषयात् विगतचित्तता ज्ञानलोप इति यावत् ।
तीव्राभिषङ्गेति–हरेण दग्धे कामदेवे रतिर्मोहेन ज्ञानलोपात् क्षणं कृतो

पकारेव बभुव ।
उपकारं दर्शयति—उज्ञानेति ।
मोहेन कीदृशेन तीव्रेणाभिषङ्गेण आपदा (पतिमृन्युना ) जानितेन ।
पुनः कीदृशेन ।
इन्द्रियाणां वृत्तिं ग्राहकतां संस्तम्भयता प्रतिबघ्नता ।

लोचना:

(लो, ई) तीव्रति ।
अभैषङ्गः पराभवः ।

अथ विबोधः–

निद्रापगमहेतुभ्यो विबोधश्चेतनागमः ।
जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ॥ विस्स्द्_३।१५१ ॥
यथा–
“चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः” ॥

टीका

विज्ञप्रिया:

(वि, ड) चिररतिपरिखेदेति ।
तरुण्यः चरमं नायकशयनतः पश्चाद् शयित्वा तज्जागरणात् पूर्वमेव प्रबुद्धाप्यपरिचलितगात्राः सत्यः प्रियाणामशिथिलभुजचक्रस्य आश्लेषभङ्गं न कुर्वते इत्यर्थः ।
अत्र विबोधः वाच्य एव ।

अथ स्वप्नः–

स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः ।
कोपावेगभयग्लानिसुखदुः खादिकारकः ॥ विस्स्द्_३।१५२ ॥

यथा–
“मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्- लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति” ॥

टीका

विज्ञप्रिया:

(वि, ढ) मामाकाशेति ।
मेघद्वारा यक्षस्य प्रियायां स्वप्रवृत्तिनिवेदनमिदम् ।
वप्नसन्दर्शनेषु तव निर्दयाश्लेषहेतोराकाशप्रणिहितभुजं मां पश्यन्तीनां स्थलीदेवतानां मुक्तातुल्यस्थूला अश्रुबिन्दवो बहशः तरुकिसलयेषु न पतन्ति न ।
अपि तु पतन्त्येव इत्यर्थः ।

अथापस्मारः–

मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः ।
भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ विस्स्द्_३।१५३ ॥

“आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के” ॥

टीका

विज्ञप्रिया:

(वि, ण) आश्लिष्टभूमिमिति–असौ कृष्ण आपगानां नदीनां पतिं समुद्रम् अपस्मारिणम् आशशङ्के ।
अपस्मारिधर्म्मानाह—आश्लिष्टेत्यादि ।
अपस्मारी अपि भूमौ पतति ।
अत्र समुद्रे आरोप्यमाणः पुरुषे स्मर्य्यमाणः अपस्मारः ।

अथ गर्वः–

गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः ।
अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥ विस्स्द्_३।१५४ ॥

तत्र शौर्यगर्वो यथा–
“धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्” ॥

टीका

विज्ञप्रिया:

(वि, त) गर्व इति ।
अवज्ञा परस्मिन् सविलासाङ्गमात्मनः ।
धृतेत्यादिकंस्पष्टम् ।

अथ मरणम्–

शराद्यैर्मरणं जीवत्यागो ऽङ्गपतनादिकृत् ।

यथा–
“राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” ॥

टीका

विज्ञप्रिया:

(वि, थ) शराद्यैरिति ।
ईदृशं मरणं न व्यभिचारिभावः ।
किन्तु मरणमात्रकथनमिदम् ।
राममन्मथेत्यादिकमपि मरणमात्रस्यैव उदाहरणम् ।
व्यभिचारिभावरूपमरणन्तु जातप्रायमेव वर्णनीयम्, नतु जातमित्यग्रे वक्ष्यते ।
राममन्मथेति–सा निशाचरी ताडकैव निशाचरी अभिसारिका जीवितेशस्य यमस्य जीवितेशस्य प्राणनाथस्य उपनायकस्य वसतिं जगाम ।
कीदृशी राम एव मन्मथस्तस्य मारकः तस्य शर एव कामोद्दीपकः शरः तेन हृदयेन ताडिता ।
पुनः कीदृशी दुर्गन्धवत् रुधिरमेव सुगन्धिद्रव्यविशिष्टं रक्तचन्दनं तेन उक्षिता ।

लोचना:

(लो, उ) रामेति ।
जीवितेशो यमः प्राणेश्वरश्च ।

अथालस्यम् –

आलस्यं श्रमगर्भाद्यैर् जाड्यं जम्भासितादिकृत् ॥ विस्स्द्_३।१५५ ॥

यथा–
“न तथा भूषयत्यङ्ग न तथा भाषते सखीम् ।
जृम्भते मुहुरासीना बाला गर्भभरालसा” ॥

टीका

विज्ञप्रिया:

(वि, द) जृम्भास्मितं जृम्भायुक्तहासः ।
न तथेत्यादि सुगमम् ।

अथामर्षः–

निन्दाक्षेपापमानादेरमर्षो ऽभिनिविष्टता ।
नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥ विस्स्द्_३।१५६ ॥

यथा–प्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥
अथ निद्रा–

चेतः सम्मीलनं निद्रा श्रमल्कममदादिजा ।
जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ॥ विस्स्द्_३।१५७ ॥

यथा–
“सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् ।
निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि” ॥

टीका

विज्ञप्रिया:

(वि, ध) सार्थकेति ।
काञ्चित् निद्राणां प्रियां स्मरत उक्तिरियम् ।

अथावहित्था–

भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।
व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ॥ विस्स्द्_३।१५८ ॥

यथा–
“एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती” ॥

टीका

विज्ञप्रिया:

(वि, न) व्यापारान्तरासक्तिः कर्म्मान्तरसङ्गः ।
अन्यथाभाषणम् अन्यथालोकनञ्च हर्षजन्यक्रियातो ऽन्यरूपम् ।
एवं वादिनीति ।
महेशेन पार्वतीपरिणयघटनावाक्यवादिनि सतीत्यर्थः ।
अत्र पद्मपत्रगणनमन्यथा क्रिया ।

श्रथौत्सुक्यम्–

इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ॥ विस्स्द्_३।१५९ ॥

यथा–
“यः कौमारहरः स एव हि वरः –” इत्यादौ
(१५ पृदृ)

अत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् ।

टीका

विज्ञप्रिया:

(वि, प) यः कौमारहर इत्यादि व्याख्यातं प्राक् ।
अत्र उत्कण्ठापदार्थे एवमौत्सुक्यम् ।
रसनधर्मयोगित्वादिति–असंलक्ष्यक्रमत्वं रसधर्म्मः व्यभिचारिभावे ऽप्यस्तीत्यर्थः ।
एतन्मते शृङ्गाराभासो नात्र प्रधानम्, किन्तु तथापि चेतः समुत्कण्ठते इत्यनेन व्यङ्ग्ये विस्मय एव प्रधानतय् भासते ।
स चाद्भुतरसस्य स्थायिभावो ऽपि शृङ्गाराभासीयश्लेके व्यभिचारिभाव इत्यभिप्रायेण तस्य व्यभिचारिभावत्वं युक्तम् ।
तस्य चात्र निराकाङ्क्ष्यवाक्यव्यङ्ग्यत्वेन शृङ्गाराभासापेक्षया प्राधान्यम् ।
नचैवमद्भुत एव तदात्र रस इति वाच्यम्, लोकविलक्षणगुणबन्धतुल्यविषयत्वे एव विस्मयस्याद्भुतरसत्वप्राप्तिर्नान्यविषयत्वे अद्भुतालम्बनतया ।
वक्ष्यते हि “वस्तुलोकातिगम् आलम्बनं मतम्"इति ।
“गुणानां तस्य महिमा भवेदुद्दीपनं पुनः"इति च ।
अत्र च उत्कण्ठाया अहेतुरेव विस्मयस्य विषयः ।
गतार्थमिति अवगतार्थमित्यर्थः ।
व्यभिचारिभाव एव तत्र रसशब्दार्थ इत्यर्थः ।

अथोन्मादः–

चित्तसम्मोह उन्मादः कामशोकभयादिभिः ।
अस्थानहासरुदितगीतप्रलपनादिकृत् ॥ विस्स्द्_३।१६० ॥

यथा मम–
“भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? ।
(झङ्कारमनुभूय सानन्दम् । ) “ब्रषे किमोमिति सखे ! कथयाशु तन्मे
किं किं व्यवस्यति कुतो ऽस्ति च कीदृशीयम्” ॥

टीका

विज्ञप्रिया:

(वि, फ) भ्रतर्द्विरेफ इति ।
द्विरेफं सम्बोध्य विरहोन्मत्तस्य उक्तिरियम् ।
झङ्कार इत्यादि मध्ये चूर्णकम् ।
ब्रूषे किमोमिति इति झङ्कारस्यैव स्वीकारार्थम् ।
ओमिति शब्दत्वेनावगतत्वात् ।
इयं मम नायिका किं किं व्यवस्यति कीदृशी च इति कथम इत्यर्थः ।

अथ शङ्का–

परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् ।
वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ॥ विस्स्द्_३।१६१ ॥

यथा मम–
“प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि ।
धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती” ॥

टीका

विज्ञप्रिया:

(वि, ब) परक्रौर्य्यैति ।
परस्य क्रूरतया आत्मदोषादिनानर्थस्य चिन्तनं शङ्केत्यर्थः ।
प्राणेशेनेति–क्षामाङ्गी कृशाङ्गीयम् ।
चकितमभितश्चक्षुषी निक्षिपन्ती सखीभ्यो जाताशङ्का सती प्राणेशेनार्पितनखरेष्वङ्गकेषु चन्दनालेपनानि रचयति दत्तदन्तावघाते ऽधरे लाक्षामलक्तकम् असकृत्धत्ते चेत्यर्थः ।
अत्र सखीनामुपदेश एव आनन्दः ।
उपहासादिहेतुनखक्षतादित्वमेव चात्मदोषः ।

लोचना:

(लो, ऊ) प्राणेशेनेति ।
अङ्गकेष्वत्र स्वार्थे कः ।

अथ स्मृतिः–

सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् ।
स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ विस्स्द्_३।१६२ ॥
यथा मम–
“मयि सकपटं किञ्चित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् ।
स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्” ॥

टीका

विज्ञप्रिया:

(वि, भ) मयि सकपटमिति ।
सकपटं यथा स्यात्तथा क्वापि किञ्चित् प्रणीतविलोचने निभिप्तचक्षुषि सति मयि नयनं नयनपथं प्राप्ते तिर्य्यक् विजृम्भित (प्रेरित) तारकम् ।
स्मेरं तदाननं स्मरमि ।
पुनः कीदृशं स्मितमुपगतां सखीं दृष्ट्वा सलज्जमवञ्चितं नमितम् ।
नायिकामुखस्य सकक्षस्मेरतया नायको धूर्त इति बुद्ध्वा एवं सख्याः स्मितमपि तत् बुद्ध्वैव ।
नायिकामुखनमनं तु स्वानादरस्य सख्या दर्शनात् लज्जया ।

लोचना:

(लो, ऋ) मयीति—एवं सति स मां पश्यतु इति सकपटं नतु तां विनान्यत्र प्रहितलोचनत्वं मम कदाचिदभिलषितमिति भावः ।
अवाञ्चितमवनतम् ।

अथ मतिः–

नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः ।
स्मेरता धृतिसन्तोषौ बहुमानश्च तद्भवाः ॥ विस्स्द्_३।१६३ ॥

यथा–
“असंशयं क्षअपरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः” ॥

टीका

विज्ञप्रिया:

(वि, म) असंशयं क्षत्त्रपरिग्रहेति–शकुन्तलां दृष्ट्वा ब्राह्मणकन्यकाबुद्ध्यनन्तरं प्राप्ताश्वासस्य दुष्यन्तस्य उक्तिरियम् ।
इयम् असंशयं क्षत्त्रेण परिग्रहस्य क्षमा योग्या ब्राह्मणकन्या नैवेत्यर्थः ।
कुत इत्याह—यदार्य्य्मिति ।
आर्यमनुचितानभिलाषित्वेन उत्त्मं मम मनो यदस्याम् अभिलाषि कृताभिलाषम् ।
अत्रार्थान्तरन्यासमाह—सतां हीति ।
सन्देहपदेषु वस्तुषु सतामन्तः करणप्रवृत्तयो हि प्रसाणम् सन्देहनिरासकम् ।
अत्र स्वीयमनसो विशेषस्य निश्चायकत्वस्य सतां सामान्यानां मनोभिः सामान्यैः समर्पितत्वादर्थान्तरन्यासः ।

अथ व्याधिः–

व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् ।

तत्र दाहमयत्वे भूमीच्छादयः ।
शैत्यमयत्वे उत्कम्पनादयः ।
स्पष्टमुदाहरणम् ।

टीका

विज्ञप्रिया:

(वि, य) स्पष्टमुदाहरणमिति—“भूमौ पतति तापार्त्ता विप्रयुक्ता वधूरिव ।
कदलीवानिलोद्धूता ज्वरार्त्ता कम्पते प्रियाऽ; ॥
इति

अथ त्रासः–

निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ विस्स्द्_३।१६४ ॥

यथा–
“परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्” ॥

टीका

विज्ञप्रिया:

(वि, र) परिस्फुरदिति—जलक्रिडायामूरुप्रविष्टमीनकदर्थितानामप्सरसां त्रासवर्णनमिदम् ।
सखीजनस्यापि विलोकनीयतामुपाययुरित्यन्वयः ।
मीनघट्टितोरुत्वमजानतो ऽन्यजनस्य विलोकनीयता तावदस्तु; दिनान्तरे ऽपि तया त्वं जानतः सखीजनस्यापि इत्यर्थः ।
तच्चातित्रासात्सर्पदंशादिसम्भावनयेति भावः ।

अथ व्रीडा–

धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् ।

यथा–
“मयि सकपटम्–” इत्यादि ( १७३ पृदृ) ।

टीका

विज्ञप्रिया:

(वि, ल) धार्ष्ट्याभाव इति—धार्ष्ट्यमलज्जत्वम् ।
मयि सकपटमित्यादिकं स्मृतेरुदाहरणम् ।
यत्तत्र सलज्जमवाञिचितमित्यनेन लज्जा ।

अथ हर्षः–

हर्षस्त्विष्टावाप्तेर्मनः प्रसादो ऽश्रुगद्गदादिकरः ॥ विस्स्द्_३।१६५ ॥

यथा–
“समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः ।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा” ॥

टीका

विज्ञप्रिया:

(वि, व) समीक्ष्येति—रघोर्मुखं वीक्ष्य दिलीपस्य वर्णनमिदम्—निधानकुम्भस्य निधकुम्भस्य ।
मूर्च्छितो वर्द्धितः ।

अथासूया–

असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता ।
दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ॥ विस्स्द्_३।१६६ ॥

यथा–
“अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्” ॥

टीका

विज्ञप्रिया:

(वि, श) असूयान्येति—औद्धत्यादहङ्काराद् अन्यगुणस्य ऋद्धीनामाधिक्यानाम् असहिष्णुतेत्यन्वयः ।
अथ तत्रेति—अर्थानन्तरं तत्र समायां पाण्डुतनयेन युधिष्ठिरेण विहितं सुरद्विषः श्रीकृष्णस्य मानं पूजां चेदिपतिः शिशुपालः नासहत ।
तत्रार्थान्तरन्यासमाह–परवृद्धीति ।
मत्सरि असहिष्णुः ।

अथ विषादः–

उपायाभावजन्मा तु विषादः सत्त्वसङ्क्षयः ।
निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ॥ विस्स्द्_३।१६७ ॥

यथा मम–एसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी ।
मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिअअं ॥

टीका

विज्ञप्रिया:

(वि, ष) सत्वसङ्क्षयो बलहानिः ।
उपायाभावजन्मत्वेनास्य दैन्याद्भेदः ।
एषा कुडिलेति—“एषा कुटिलघनेन चिकुरकलापेन तव निबद्धा वेणी ।
मम सखि ! दारयति दशति आयासयाष्टिरिव कालोरगीव हृदयम्ऽ; ॥
इति संस्कृतम् ।
बद्धवेणिकां प्रोषितभर्तृकां दृष्ट्वा सख्या विषादोक्तिरियम् ।
दारणे आयासयष्टिर्दृष्टन्तः, दंशने च कालोरगी ।

लोचना:

(लो, ॠ) एषेत्ति—एषा कुटिलघनेन चिकुरकलापेन तव निबद्धा वेणी मम सखि ! दारयति दशति आयसयष्टिरिव कालोरगीव हृदयम् ।

अथ धृतिः–

ज्ञानाभीष्टागमाद्यैस्तु सम्पूर्णस्पृहता धतिः ।
सौहित्यवचनोल्लाससहासप्रतिभादिकत् ॥ विस्स्द्_३।१६८ ॥

लोचना:

(लो, ऌ) ज्ञानेति—सौहित्यं तृप्तिः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

यथा मम–
“कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः ।
द्रव्यौघाः परिसञ्चिताः खलु मया यस्याः कृते साम्प्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः” ॥

टीका

विज्ञप्रिया:

(वि, स) कृत्वा दीनेति—संसारविरक्तस्य तपोवनस्थस्य उक्तिरियम् ।
यसायास्तनोः कृते दीननिपीडनादिकं कृत्वा मया द्रव्यौघाः सञ्चिताः सेयं तनुः साम्प्रतं नीवाराञ्जलिनापि खलु कृतार्था इत्यन्वयः ।
निजजने इष्टजने वचोविग्रहं वाक्कलहम् ।
आमुष्मकीः पारलौकिकीः ।
चिराच्चिरकालीनाः ।

अथ चपलता–

मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ विस्स्द्_३।१६९ ॥

यथा–
“अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु ।
मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः” ॥

टीका

विज्ञप्रिया:

(वि, ह) अन्यास्विति—हे भृङ्ग ! उपमर्दसहासु अन्यासु सुमनोलतासु पुष्पलतासु लोलं मनो विनोदय ।
नवमालिकायाः कलिकामकाले किं व्यर्थं कदर्थयासि कीदृशीं मुग्धां मूढां विमर्दसहामित्यर्थः ।
अजातरजसम् आजातोपारगाञ्च ।
समासोक्तिवशाच्च नवोढाकदर्थकनायकप्रतीतिः ।
अत्र अजातरजसम् अजातरजोयोगामित्यर्थः ।
अत्र वाच्यभृङ्गस्य व्यङ्गग्यनायकस्य च चपलता ।

अथ ग्लानिः–

रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा ।
ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ॥ विस्स्द्_३।१७० ॥

यथा–
“किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्” ॥

टीका

विज्ञप्रिया:

(वि, क्ष) रत्यायासेति—निष्प्राणता बलहानिः ।
हेतुविशेषाधनित्वेन दैन्यविषादयो भेदः ।
किसलयमिवेति ।
दारुणो दीर्घशोकः अस्याः क्षामं क्षीणं परिपाण्डु च शरीरं ग्लपयति ।
तत्रोपमामाह ।
किसलयमिवेति—बन्धनात् वृन्तात् ।

लोचना:

(लो, ए) किसयमिवेति—शरदिज इत्यलुक् समासः ।

अथ चिन्ता–

ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।

यथा मम–
“कमलेण विअसिएणं सञ्जोएन्ती विरोहिणं ससिबिम्बं ।
करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ” ॥

टीका

विज्ञप्रिया:

(वि, क) कमलेणेति ।
“कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिविम्बम् ।
करतलपर्यस्तमुखी किं चिन्तयसि सुमुखै ! अन्तराहितहृदयाऽ; ॥
इति संस्कृतम् ।
अत्र करतलं विकसितकमलं मुखं शशिबिम्बम् ।
नायिकायाश्चिन्ता ।

लोचना:

(लो, ऐ) कमलेणेति—“कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिबिम्बम् ।
करतलपर्यस्तमुखी किं चिन्तयसि सुमुखै ! अन्तराहितहृदया” ॥

अथ तर्कः–

तर्का विचारः सन्देहाद्भ्रूशिरो ऽङ्गुलिनर्तकः ॥ विस्स्द्_३।१७१ ॥

यथा–
“किं रुद्धः प्रियया–” इत्यादि ।

टीका

विज्ञप्रिया:

(वि, ख) किं रुद्ध इति—विरहोत्कण्ठिताया उदाहरणम् ।

एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह–

लोचना:

(लो, ओ) एते चेति—एतानि च उदाहरणानि व्यभिचारिस्वरूपसद्भावदर्शनमात्रपराणि ।
तेषां क्वचित् प्राधान्ये क्वचित् अप्राधान्ये न काचित प्रतीतिक्षतिः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

रत्यादयो ऽप्यनियते रसे स्युर्व्यभिचारिणः ।

तथाहि–शृङ्गारे ऽनुच्छिद्यमानतयावस्थानाद् रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव ।
व्यभिचारिलक्षणायोगात् ।
तदुक्तम्–
“रसावस्थः परं भावः स्थायितां प्रतिपद्यते” ।
इति ।

टीका

विज्ञप्रिया:

(वि, ग) रत्यादयो ऽपीति–स्थायिभावानां ये रसा नियतास्तद्भिन्ने ऽनियते ।
व्यभिचारिलक्षणेति—उन्मग्ननिर्मग्नतारूपस्य कादाचित्कत्वस्य तल्लक्षणत्वात् ।
स्थायिभावो ऽपि व्यभिचारिभावो भवत्यत्र संवादं दर्शयति–रसावस्थ इति ।
रस एव उत्तरकालम् अवस्था यस्य परं केवलं तादृश एव भावः रत्यादिस्थायित्वम् प्रतिपद्यते ।
अतादृघवस्थस्तु न स्थायितां प्रतिपद्यते इति पहं पदाल्लभ्यते ।
उतादृगवस्थस्तु रसान्तर एव सम्भवति ।
स च यदि तत्र उपकारको भवति तदा तदीयस्थायिनि आभिमुख्येन चरणाद् व्यभिचारिलक्षणाक्रान्तत्वेन तत्रापि व्यभिचारिपदस्य योगरूढत्वात्सो ऽपि व्यभिचारी भवति, अर्थवशलभ्यमिममर्थमभिप्रेत्य सम्बन्धो दर्शित इति बोध्यम् ।

तत्कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह–
शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ॥ विस्स्द्_३।१७२ ॥

शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ विस्स्द्_३।१७३ ॥

टीका

विज्ञप्रिया:

(वि, घ) इत्याद्यन्यत्समुन्नेयमिति—अत एव यः कौमारहर इत्यत्राद्भुतरसस्थायिभावस्य विस्मयस्य व्यभिचारिभावत्वम् ।
ग्रन्थकृन्मते तु स श्लेकः व्यभिचारिभावध्वनेरेवोदाहरणमिति ।
रसस्यैव हि प्राधान्यात् इति काव्यप्रकाशलिखने रसपदस्य व्यभिचारिभावपरत्वं व्याख्यानादवसीयते ।

अथ स्थायिभावः–

अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दो ऽसौ भावः स्थायीति सम्मतः ॥ विस्स्द्_३।१७४ ॥

टीका

विज्ञप्रिया:

(वि, ङ) अविरुद्धा विरुद्धा वेति–स्थायिभावस्य अविरुद्धा विरुद्धा वाव्यभिचारिभावा इत्यर्थः ।
तिरोधातुं बुद्ध्यविषयीकर्त्तुम् ।

यदुक्तम्–
“स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।
न तिरोधीयते स्थायी तैरसौ पुष्यते परम्” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, च) स्त्रक्सूत्रवृत्त्येति ।
भावानां व्यभिचारिभावानाम् अनुगामुकः सम्बद्धः स्थायी तैर्भावैर्न तिरोधीयते न बुद्ध्यविषयीक्रियते इत्यर्थः ।
अनुगामित्वे दृष्टान्तमाहस्त्रक्सूत्रेति ।
वृत्त्यारीत्या स्त्रजिमालायां यथासूत्रमवश्यं सम्बद्धं भवतीत्यर्थः ।
स्वसम्बद्धैः तैः कीदृशः क्रियते इत्यत्राह–तैरसाविति ।
पुष्यते आस्वादाङ्कुरीक्रियते इत्यर्थः ।

लोचना:

(लो, औ) अथेति ।
स्थायीभाव उद्देशक्रमप्राप्तः ।
अविरुद्धेति ।
विरुद्धैरपि स्थायिनो ऽतिरोधानं महाकविकाव्येष्वभिव्यरक्तमेव ।
स्त्रगिति ।
स्त्रवसूत्रं सर्वेषां पुष्पाणां मुक्तानां वा यथा अनुगतं तिष्टति तथेत्यर्थः ।
तैर्भावैः ।

तद्भेदानाह–

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमो ऽपि च ॥ विस्स्द्_३।१७५ ॥

लोचना:

(लो, अ) शान्तिरसस्थायिभावस्य शमस्य निराकरिष्यमाणविवादस्य नवत्वे नवमतया पृथङ् निर्देशः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

तत्र–

रतिर्मनो ऽनुकूलेर्ऽथे मनसः प्रवणायितम् ।
वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥ विस्स्द्_३।१७६ ॥

इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् ।
प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ॥ विस्स्द्_३।१७७ ॥

कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयम् ॥ विस्स्द्_३।१७८ ॥

दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा ।
विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ॥ विस्स्द्_३।१७९ ॥

विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ।
शमो निरीहास्थायां स्वात्मविश्रामजं सुखम् ॥ विस्स्द्_३।१८० ॥

यथा मालतीमाधवे रतिः ।
लटकमेलके हासः ।
रामायणो शोकः ।
महाभारते शमः ।
एवमन्यत्रापि ।
एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः ।

टीका

विज्ञप्रिया:

(वि, छ) रतिरित्यादि ।
प्रवणायितम् उत्कट आवेशः ।
स चानुरागे एव पर्य्यवस्यति ।
वागादीत्यादिपदात् वेशपरिग्रहः ।
चेतोविकाशो विलक्षणचित्तसंयोगजन्यं ज्ञानमुपहास्यताज्ञानपर्य्यवसन्नं यतो मुखविकाशरूपं स्मितं जायते ।
वैक्लव्यं दुः खविशेषः ।
संरम्भः सहर्षत्वरा ।
स्थेयान् स्थायी ।
तैक्ष्ण्यस्य उत्कटापचिकीर्षयावबोधः ।
रौद्रो ऽपकर्त्तुं क्षमः; तस्य शक्त्या सामर्थ्येन वैकल्यं भाविदुः खज्ञानपलायनहेतुः ।
दोषेक्षणादिभिरिति–दोषः विकृतशब्दादिः ईक्षणादिभिरित्यादिपदात् घ्राणपरिग्रहः ।
गार्हा निन्दा ।
विस्मयोद्भवेति ।
कथमस्य एतादृशो दोष इत्येवं विस्मयेन जनिता ।
चेतोविस्तारो दृष्टहेतुभ्यो ऽसम्भव्यत्वज्ञानेन हेत्वनुसन्धानम् ।
आत्मविश्रान्तिरात्ममात्रविषयं ज्ञानम् ।
एतेष्विति ।
एतेषु रत्यादिषु सत्सु इत्यर्थः ।
स्थायिभावव्यभिचारिभावादीनां भावसञ्ज्ञाव्युत्पत्तिमाह—

लोचना:

(लो, आ) रतिरित्यादि ।
प्रवणायितं प्रवणीभावः ।
इयं रतिर्मदनाविष्टा ।
स्त्रीपुंसानिष्टैव ।
शृङ्गारस्य स्थायी नत्वान्यथा स्थायिलक्षणायेगात् ।
एतेषु समनन्तरोक्तग्रन्थेषु ।

किं च–

नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसञ्चारिसात्त्विकाः ॥ विस्स्द्_३।१८१ ॥

यदुक्तम्–
“सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्”

टीका

विज्ञप्रिया:

(वि, ज) किञ्चेति ।
भावयन्ति ज्ञापयन्ति ।
सुखदुः खादिभिरिति ।
सुखदुः खादिभावैस्तद्भावस्य रत्यादिसत्तायाः भावनम् उद्वोधनम् अतो रत्यादिको भाव इत्यर्थः ।

लोचना:

(लो, इ) सुखेति ।
भावैरात्मनिष्टैः काव्यनिष्टैर्वा तस्य रामादेरनुकार्य्यस्य यो भावः स्वरूपं तस्य भावनं श्रवणं दर्शनं वा ।

अथ रसस्य भेदानाह–

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सो ऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ विस्स्द्_३।१८२ ॥

लोचना:
(लो, ई) एवं सपरिकरस्य रसस्य स्वरूपमुक्तदिशा निरूपयितुमुद्दिशति ।
अथेति ।
सात्त्विकबहुलगीतवाद्यादिपूर्वकपुराणवृत्तानुकाराभिनयाश्रयत्वेन महर्षिणा कण्ठोक्ता अष्टौ ।
श्रव्ये महाकाव्यादौ शान्तो ऽपि नवमो रसो ऽस्तीति तस्य पृथङ् निर्देशः न सम्यङ् नाट्योपयोगित्वाभावात् ।
यदाह धनिकः"पुष्टिर्नाट्येषुनैतस्येति” ।
एवञ्च निरतिशयसुखास्वादनलक्षणत्वात् एक एव रसो न विशेषाः सन्ति इति वादिनां मतमप्यपास्तम् ।
अत एवोक्तम्"यक्तारणं च कार्य्यञ्च ये च स्युर्व्यभिचारिणः ।
स्वरूपं यच्च तद्भावात् शृङ्गारादिभिदाः स्मृताः ।
इति”

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

तत्र शृङ्गारः–

शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ विस्स्द्_३।१८३ ॥

परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥ विस्स्द्_३।१८४ ॥

चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतम् ।
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥ विस्स्द्_३।१८५ ॥

त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः ।
स्थायिभावो रतिः श्यामवर्णो ऽयं विष्णुदैवतः ।

टीका

विज्ञप्रिया:

(वि, झ) तदागमनेहेतुक इति ।
मन्मथस्यागमनं प्राप्तिः तदेव हेतुर्यस्य तादृशः, कामिन एव शृङ्गाररसोद्वोधात् ।
वेश्यां चेति ।
वेश्यानूढा; ऊढायाः परोढत्वेन एव प्राप्तेः ।
एवमनुरागिणी स्वस्त्री कन्यका च ।
दक्षिणाद्या इति ।
दक्षिणधृष्टानुकूलशठा इत्यर्थः ।
ते च स्वनायका एव परनायकस्य तु परोढावत् शृङ्गारभासालम्बनमेव ।
रोलम्बा भ्रमराः ।
औग्र्यां शस्य त्यागः ।
सम्भोग एव मरणस्य जातप्रायमात्रस्यैव वर्णनीयत्वात् वास्तवमरणस्यैव त्यागः ।

लोचना:

(लो, उ) शृङ्गमिति—मन्मथोद्भेदस्य शृङ्गमिति नामन्तरम् ।
तस्यागमनं रमादिष्वाविर्भावः ।
आङ्पूर्वात् ऋगतौ इत्यस्य धातोः घञन्तात् आरशब्दस्य व्युत्पादितत्वात् तत्र मन्मथोद्भेदस्य विशेषनिर्द्देशादुभयोरप्येतद्रसप्रकृतिभूतयोः स्त्रीपुंसयोः परस्परं प्रौढतरानुरागहेतुकत्वमस्य सूचितम् ।
अनुरागस्य एकनिष्टत्वे हि रसाभासो वक्ष्यते ।
दक्षिणाद्याश्चत्वारः ।
एषां रसानां वर्णदैवतकथनं नाटकादिषु विधेयाविघ्नहेतुकेषु नटसम्पाद्यपूजादिषु प्रत्यूह्यते ।
विवृणोति—अत्र इत्यादि ।
इहोद्दीपनविभावाद् एकदेशतो दर्शितम् ।
विस्तरतः प्रथमपरिच्छेदतो बोद्धव्यम् ।

यथा–
“शून्यं वासगृहम्–” इत्यादि ।
अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ ।
शून्यं वासगृहमुद्दीपनविभावः ।
चुम्बनमनुभावः ।
लज्जाहासौ व्यभिचारिणौ ।
एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते ।
तद्भेदावाह-

विप्रलम्भो ऽथ सम्भोग इत्येष द्विविधो मतः ॥ विस्स्द्_३।१८६ ॥

तत्र–

यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भो ऽसा ।

अभीष्टं नायकं नायिकां वा ।

टीका

विज्ञप्रिया:

(वि, ञ) नाभीष्टमुपैतीति—नायकस्य नायिका ।
नायिकायाश्च नायको ऽभीष्टः ।
अभीष्टता च अनुकूलतया ।
तेन मानिन्यामनुकूलतायां प्राप्तायामपि नायकस्य विप्रलम्भ एव ।

लोचना:

(लो, ऊ) यत्र त्विति—रतिरुक्तण्ठा प्रकृष्टा प्रकृष्टतां यातिरतिप्रकर्षस्य नायिकानिष्टत्वे नायकं नायकपक्षे च नायिकां नोपैति न प्राप्तोतीत्यर्थः ।
स च विप्रलम्भः—

स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ॥ विस्स्द्_३।१८७ ॥

तत्र–

श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।
दशाविशेषो यो ऽप्राप्तौ पूर्वरागः स उच्यते ॥ विस्स्द्_३।१८८ ॥

टीका

विज्ञप्रिया:

(वि, ट) दशाविशेषो यज्जन्य इति शेषः ।
दशाविशेषो विरहकालीनदशदशाः ।
विशेष इत्येकवचनं विशेषत्वैक्यमाश्रित्य ।
पूर्वरागो ऽभीष्टप्राप्तेः पूर्वं रागः ।
स च श्रवणात् दर्शनात् वा भवतीत्युक्तत्वात् श्रवणदर्शनयोरुपायमाह—

श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ॥ विस्स्द्_३।१८९ ॥

टीका

विज्ञप्रिया:

(वि, ठ) श्रवणं त्विति—दूतादिमुखात् श्रवणम् इन्द्रजालस्वप्राभ्यां चक्षुषा वा दर्शनमित्यर्थः ।
साक्षात्पदमत्र तद्धेतुचक्षुः परम् ।

अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसम्प्रलापाश्च ।
उन्मादो ऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ॥ विस्स्द्_३।१९० ॥

अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ विस्स्द्_३।१९१ ॥

अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् ।
व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ॥ विस्स्द्_३।१९२ ॥

जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।

टीका

विज्ञप्रिया:

(वि, ड) अपरिच्छेदः चेतनाचेतनेष्वपीति—चेतनत्वाद्यपरिच्छेद इत्यर्थः ।
तेन वृक्षादावचेतनत्वाप्रतिसन्धान्त् कातरोक्तिः ।
संलापस्य प्रलापपर्य्यायत्वात् प्रलापलक्षणमाह—अलक्ष्येति ।
अलक्ष्ये ऽनाश्रये आकाशादौ वाक् ।
इदमुपलक्षणमनर्थकवाचापि ।
दीर्घनिश्वासेति ।
तथा च व्याधिज्वरादिति यदुक्तं प्राक् तदीयादिपदग्राह्यमिदं मुक्तमिति बोध्यम् ।

शेषं स्पष्टम् ।
क्रमेणोदाहरणानि–
“प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः” ॥

टीका

विज्ञप्रिया:

(वि, ढ) प्रेमार्द्रा इति—माधवस्य वचनमिदम् ।
मुखदृशो मालत्यास्तास्ताः अन्यादृशः चेष्टा मयि भवेयुः ।
चेष्टविशेषणानि—प्रेमार्द्रा इत्यादीनि ।
आर्द्रत्वं निस्पन्दत्वेन सजलत्वम् ।
प्रणयो वात्सल्यम् ।
तत्सूचिका इत्यर्थः ।
परिचयो वारं वारं दर्शनम् ।
यासु चेष्टासु आशंसायामिच्छायां परिकल्पितास्वपि अन्तः करणस्य आनन्देन सान्द्रो व्याप्तो लयः लीनता क्षणाद्भवति ।
अन्तः करणमानन्दव्याप्तं भवतीत्यर्थः ।
लयः कीदृशः—बाह्यकरणस्य व्यापारस्य रोधी प्रतिबन्धकः ।
अत्र दृक्चेष्टाऽशंसाद्वारा मालत्यामेवाभिलाषः ।

लोचना:

(लो, ऋ) प्रेमार्द्रा इति—दर्शनादिगतो भावव्यञ्जकः कश्चन चित्तवृत्तिविशेषः प्रेम तत्पूर्वको वशीकारः प्रणयः ।
रहस्यसम्वेदनम् परिचयः ।
लयः तन्मयत्वमेव ।

अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः ।
“कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः ।
इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्” ॥

टीका

विज्ञप्रिया:

(वि, ण) कथमीक्षे इत्यादिकं स्पष्टम् ।
निशीथिनीं व्याप्य नैति प्राप्नोति ।

अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता ।
इदं मम ।
“मयि सकपटम्ऽ–इत्यादौ नायकस्य स्मृतिः ।
नेत्रे खञ्जनगञ्जनेऽ–इत्यादौ गुणकथनम् ।

टीका

विज्ञप्रिया:

(वि, त) नेत्रे इत्यादौ सौन्दर्यमेव गुणः ।

“श्वासान्मुञ्चतिऽ–इत्यादौ उद्वेगः ।
“त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन ।
क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना” ॥

टीका

विज्ञप्रिया:

(वि, थ) त्रिभागशेषासु इति ।
पार्वतीसख्या विजयाया जटिलवेशप्रच्छन्नं महेश प्रति उक्तिरियम् ।
भागत्रये जागरितत्वात् शेषावशिष्टासु निशासु नेत्रे निमील्य मीलयित्वा इयं सहसा व्यबुध्यत ।
कीदृशी असत्ये हरस्य कण्ठे ऽर्पितबाहुबन्धना सती हे नीलकण्ठ ! क्व व्रजसि इत्येवम् अलक्ष्यवाक् अनाश्रयवाक् ।

अत्र प्रलापः ।
“भ्रातर्द्विरेफऽ–इत्यादौ उन्मादः ।
“पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः” ॥

लोचना:

(लो, ॠ) पाणिड्वति—परक्षेत्रे न छेदनीयो रोगः क्षेत्रियरोगः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अत्र व्याधिः ।

टीका

विज्ञप्रिया:

(वि, द) पाण्डुक्षामामिति—मालत्यां तद्विरहावस्थां पृच्छन्त्या लवङ्गिकाया उक्तिरियम् ।
हे सखि ! तव हृदन्तः क्षेत्रियरोगम् अस्मिन् क्षेत्रे शरीरे अचिकित्स्यं रोगं पाण्डुक्षामवदनादिकं कर्त्तृ आवेदयतीत्यन्वयः ।
क्षामं क्षीणम् ।
सरसं स्त्रहार्द्रम् ।

“भिसणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गं ।
दीहो णीसासहरो एसो साहेइ जीऐत्ति परम्” ॥

टीका

विज्ञप्रिया:

(वि, ध) भिसिणीति—“बिसिनीदलशयनीये निहितं सर्वमपि निश्चलमङ्गम् ।
दीर्घो निः श्वासभर एष साधयति जीवतीति परम् ।
ऽ; इति संस्कृतम् ।
सर्वमप्यङ्गं निश्चलम् ।
अतो दीर्घनिश्वास एव इयं जीवति साधयति इत्यर्थः ।

अत्र जडता ।
इदं मम ।

रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ॥ विस्स्द्_३।१९३ ॥

जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा ।
वर्ण्यते ऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ॥ विस्स्द्_३।१९४ ॥

टीका

विज्ञप्रिया:

(वि, न) चेतसाकाङ्क्षितमिति—मरणाकाङ्क्षा एव वर्णनीया न मरणमित्यर्थः ।
वर्ण्यते ऽपीति ।
पुनरव्यवहिते जीवने सति मरणमपि वर्णनीयमित्यर्थः ।

तत्राद्यं यथा–
“शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथञ्चिदपि धारयितुं प्रभूता ।
आकर्ण्य सम्प्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा” ॥

टीका

विज्ञप्रिया:

(वि, प) शेफालिकामिति—विदलितां पतितकुसुमां किञ्चिदवशिष्टायां रात्रौ तद्विदलनात्, कदाचित्तदानीमपि नायकागमनसम्भावनया प्राणधारणम् ।
चारणायुधानां कुक्कुटानां रुतम् ।
प्रातः काल एवेति तत्र मरणसम्भावनया सख्या विषादोक्तिरियम् ।
तपस्विनी दुः खिता ।

लोचना:

(लो, ऌ) शेफालिकामिति—शेफालिकाविदलनेन निशीथकालः सूचितः तपस्विनी शोच्या ।

द्वितीयं यथा–
“रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलैर् मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि ।
माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी” ॥

टीका

विज्ञप्रिया:

(वि, फ) रोलम्बा इति ।
अप्राप्तनायकदर्शनाया नायिकाया उक्तिरियम् ।
परिपूरयन्तु इत्यस्य हरितः इति कर्म्म ।
हरितो दिशः ।
नभस्वान् पवनः ।
केलीपिकाः ।
पालितकोकिलाः ।
भ्रमरझङ्कारादयः तावदुद्दीपकाः सन्तु ।
कठिनाः प्राणा अपि यान्तु इत्यर्थः ।
कलयन्तु गायन्तु ।

लोचना:

(लो, ए) रोलम्बाः भ्रमराः ।

ममैतौ ।
तृतीयं यथा–
कादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते ।

टीका

विज्ञप्रिया:

(वि, ब) तृतीयमिति—तृतीयं मरणोत्तरं जीवनम् ।

एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः ।

लोचना:

(लो, ऐ) महाश्वेतापुण्डरीकवृत्तान्ते पुण्डरीकस्त्यक्तप्राणः पुनर्जोवनमल भत ।
करुणविप्रलम्भस्य विषयः, नतु पूर्वरागप्रवासयोः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

केचित्तु–
“नयनप्रीतिः प्रथमं चित्तासङ्गस्ततो ऽथ सङ्कल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु” ।
इत्याहुः ।
तत्र च–

आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः ।

लोचना:

(लो, ओ) आदाविति—तदिङ्गितैः तदिङ्गितानि दृष्ट्वा इत्यर्थः ।
इङ्गितानि अनुरागचेष्टितानि ।
अक्तान्यत्रैव"दृष्टा दर्शयति व्रीडाम्"इत्यादिना ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

इङ्गितान्युक्तनि ।
यथा रत्नाववल्यां सागरिकावत्सराजयोः ।
आदौ पुरुषानुरोगे सम्भवत्यप्येवमधिकं हृदयङ्गमं भवति ।

टीका

विज्ञप्रिया:

(वि, भ) इङ्गितान्युक्तानीति–अनुरागकथनमेव तदुक्तिः ।
आदौ स्त्र्यनुरागं दर्शयति—रत्नावल्यामिति–अत्र सागरिकायाः प्रगनुरागः ।

नीली कुसुम्भं मञ्जिष्ठा पूर्वरागो ऽपि च त्रिधा ॥ विस्स्द्_३।१९५ ॥

लोचना:

(लो, औ) नीली नीलिरागः “कुसुम्भरागःऽ; मञ्जिष्टारागश्चेत्यर्थः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

तत्र–

न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥ विस्स्द्_३।१९६ ॥

कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते ।
मञ्जिष्ठारागमाहुस्तद् यन्नापैत्यतिशोभते ॥ विस्स्द्_३।१९७ ॥

टीका

विज्ञप्रिया:

(वि, म) न चातिशोभते इति—अविस्पष्टत्वात् न चातिशोभते इत्यर्थः ।
श्रीरामसीतयोरिति—श्रीरामस्य धीरोदात्तत्वात् पुरूवस इवात्यन्तप्रलापाभावेन नातिशोभते इत्यर्थः ।

अथ मानः–

मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः ।

टीका

विज्ञप्रिया:

(वि, य) पूर्वरागानन्तरं मानमाह–अथेति—प्रणयेर्ष्येति ।
प्रणयेन ईर्ष्यया वा समुद्भवो यस्य तादृश इत्यर्थः ।

द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥ विस्स्द्_३।१९८ ॥

प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना ।

द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः ।
उदाहरणम् ।
तत्र नायकस्य यथा–
“अलिअपसुत्तअ णिमिलिअच्छ देसु सुहअ मज्झ ओआसं ।
गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सम्” ॥

टीका

विज्ञप्रिया:

(वि, र) अलीअपसुत्तअ इति ।
अलीकप्रसुप्त विनिमीलताक्ष ते सुभग ममावकाशः ।
गण्डपरिचुम्बनात् पुलकितमङ्गं न पुनश्चिरयिष्यामि ॥
इति संस्कृतम् ।
प्रणयमानेन अलीकप्रसुप्तं नायकं चुम्बित्वा तेनाश्लाधिताया नायिकायास्तं प्रत्युक्तिरियम् ।
हे अलीकप्रसुप्त ! हे विनिमीलिताक्ष ! हे सुभग ! मया ते तव गण्डपरिचुम्बनया पुलकितमर्थात् तवाङ्गमेव ममावकाशो मम स्थित्यवकाशः ।
इदानीमपि उन्मीलनाभावेन तदभावनिश्चयात् ।
अतो न चिरयिष्यामीत्यर्थः ।
अत्र च"प्रागामन्त्रितमसकृदि"ति सूत्रेण ते इत्यस्य असम्भवो नाशङ्कनीयः ।
अव्यवहितपूर्वस्य आमन्त्रणपदस्यैवासत्तायास्तदर्थत्वात् ।
उपपूर्वामन्त्रणपदोत्तरं तु भवत्येव ते इत्यादेशः ।

लोचना:

(लो, अ) मानः उद्देशकमप्राप्त इत्यर्थः ।
प्रणयः प्रेम ।
अलिअ इति ।
अलीकप्रसुत ! निमीलताक्ष ! देहि सुभग ! मह्यवकाशम् ।
गण्डपिरचुम्बनात्पुलकिताङ्ग ! न पुनाश्चिरायिष्ये ॥
एतच्चिरायितायां नायिकायां सकलामपि शय्यामावृत्य मिथ्याप्रसुप्तस्य नायकस्य गण्डं परिचुम्ब्य तस्या वचनम् ।

नायिकाया यथा कुमारसम्भवे सन्ध्यावर्णनावसरे ।

टीका

विज्ञप्रिया:

(वि, ल) कुमारसम्भव इति ।
अत्र पार्वतीं त्यक्त्वा सन्ध्यावन्दनाय गते महेशे पार्वत्या माने तस्य तद्भङ्गप्रवृत्तौ तत्र हि “सन्ध्यया कमलयोनिकन्यया या तनुः सुतनु ! पूर्वमुज्झिता ।
सेयमस्तमुदयञ्च सेवते तेन मानिनि ! ममात्र गौरवम् ॥
ऽ; इत्यादि महेशोक्तौ ।

उभयोर्यथा–
“पणअकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणं ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो” ॥

टीका

विज्ञप्रिया:

(वि, व) पणअकुविदेति—“प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानविज्ञयोः ।
निश्चलनिरुद्धनिः श्वासदत्तकर्णयोः को मल्लः ॥
“इति संस्कृतम् को मल्लः को मानरक्षणसमर्थः ।

लोचना:

(लो, आ) पणत्र इति—
“प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानवतोः ।
निश्चलनिरुद्धनिः श्वासदत्तकर्णयोः को मल्लः” ॥
अत्र को मल्लः कश्चिरं सोढुं समर्थः न ज्ञायते इति भावः ।

अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु सम्भोगसञ्चार्याख्यभावत्वम् ।

टीका

विज्ञप्रिया:

(वि, श) न विप्रलम्भभेदता न विप्रलम्भप्रभेदता ।
भ्रूभङ्गे इति मानरक्षणासमर्थाया नायिकायाः सख्यामुक्तिरियम् ।

यथा–
“भ्रूभङ्गे रचिते ऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने” ॥

टीका

विज्ञप्रिया:

(वि, ष) मया भ्रूभङ्गे रचिते ऽपि मम दृष्टिस्तं प्रियं सोत्कण्ठमुद्वीक्षते ।
इत्यादिरीत्या तस्मिन् जने प्रियतमे दृष्टे सति कथं मानस्य निर्वहणं निर्वाहो भविष्यतीत्यन्वयः ।
दग्धाननं गर्हितं ममाननम् ।

यथा वा–
“एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थिते ऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः” ॥

प्रत्युरन्यप्रियासङ्गे दृष्टे ऽथानुमिते श्रुते ॥ विस्स्द्_३।१९९ ॥

ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ।
उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसम्म्भवा ॥ विस्स्द्_३।२०० ॥

लोचना:

(लो, इ) ईर्ष्येति—ईर्ष्याख्यभावत्वं सञ्चारिलक्षणयोगात् ।
उत्स्वन्पायितमिति—उत्स्वप्रायितं स्वप्रे चेष्टा ।
स्वप्रस्योद्रमनकाल एव तत्कथनाय उत्थानम् ।
गोत्रस्खलनं सम्बोधने तन्नामग्रहणम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

तत्र दृष्टे यथा–
“विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे” ॥

टीका

विज्ञप्रिया:

(वि, स) उत्स्वप्रायितं पत्युरन्यनायिकासङ्गस्य स्वप्ने दर्शनम् ।
यथा मम—“सखि ! त्वं किं ब्रूषे न भवति मदन्यत्र निरतः पतिर्मे धूर्त्तो ऽसावृजुरसि न जानासि तमिमम् ।
समुद्रत्यागारादपरयुवतीसङ्गनिरतो मया दृष्टः स्वप्ने तदलमिह सम्प्रीतिकथया ॥
“पत्युरन्यप्रियासङ्गे दृष्टे उदाहरति—विनयतीति ।
सपत्नीरूपायाः सुदृशो दृशः ।
ईर्ष्यामानः ।

सम्भोगचिह्नेनानुमिते यथा–
“नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्” ॥
एवमन्यदपि ।

टीका

विज्ञप्रिया:

(वि, ह) नवनखेति—अन्यनायिकासङ्गचिह्नखपदादिमंशुकादिना यद्यपि गोपायितुं शक्नोषि तथापि विमर्देत्थाङ्गरागगन्धः केन प्रकारेण वारयितुं शक्य इति वाक्यार्थः ।
एवमन्यत्रेति ।
उत्स्वप्नायिते उदाहृतमेव ।
गोत्रस्खलिते यथा—“एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमः तूष्णीं स्थितः तत् क्षणाद् माभूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वोक्षितः ॥
“यथा वा मम ।
“परसक्तासक्तः सखि ! मम स यत् चाटु कुरुते समस्तो ऽसौ व्याजप्रणय इति जानीहि नियतम् ।
तदा तां तु ध्यायन् स खलु कितवः केलिसमये मुहुस्तस्य नाम्ना ननु रहसि सम्बोधयति माम् ॥
“इति ।

साम भेदो ऽथ दानं च नत्युपेक्षे रसान्तरम् ।
तद्भङ्गाय पतिः कुर्यात् षडुपायानिति क्रमात् ॥ विस्स्द्_३।२०१ ॥

तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ विस्स्द्_३।२०२ ॥

सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ विस्स्द्_३।२०३ ॥

टीका

विज्ञप्रिया:

(वि, क्ष) नत्युपेक्षे ।
नतिश्च उपेक्षा च इति ।
तत् सक्युपार्जनमिति ।
तस्याः मानिन्याः सख्या उपार्जनमाप्तीकरणमित्यर्थः ।
व्याजेन भूषादेर्दानं दानमित्यर्थः ।
एकमेवात्र दानपदमुद्दिश्य विधेयोभयात्मकम् ।
रभसत्रास् आकस्मिकत्रासः हर्षादेरित्यादिपदात् उत्कटकार्ययतिपातपरिग्रहः ।

लोचना:

(लो, ई) प्रसङ्गात् मानभङ्गोपायानाह ।
सामेति ।
प्रवास उद्वेशकमप्राप्त ।

यथा–
“नो चाटुश्रवणं कृतम्ऽ–इत्यादि (१२९ पृदृ) ।
अत्र सामादयः पञ्च सूचिताः ।
रसान्तरमूह्यम् ॥

टीका

विज्ञप्रिया:

(वि, क) नो चाट्विति ।
कलहान्तरितोदाहरणम् ।
अत्र नोचाट्वित्यत्र साम ।
नच दृशेत्यत्र दानम् ।
निजसखीवाच इत्यत्र भेदः सखीनामाप्तिकरणरूपः ।
आप्तिभावादेव कान्तस्य प्रयहेतुवाक्यकथनात् ।
पादान्त इत्यत्र नतिः ।
गच्छन्नित्यत्र उपेक्षा एताः पञ्च सूचिता इत्यर्थः ।
एभिरुपायैरस्य मानभङ्गाभावे ऽपि न तदुपायहीनिः तस्यामजातोद्वेगरूपसहकारिविरहेण फलानुत्पादनात् ।
पश्चात्तु तत्प्राप्त्यां भग्न एव मानः ।
रसान्तरन्तूह्यमिति–हर्षाद् यथा—“चिरप्रवासात् सुहृदि प्रयाते यस्तत्र हर्षो मिथुनस्य जातः ।
तन्मानिमीमानविघातहेतुः स एव यातः चटुलाविमानी ॥
“अत्र तन्मानिनी तन्मिथुनीयमानिनी ।
अत्र हर्ष एव व्यभिचारिभावो रसान्तरम् ।
भयाद् यथा—“प्रवृत्ते मानभङ्गाय पत्यौ नाग उपागतः ।
तं दृष्ट्वा सहसा कण्ठे पतिं जग्राह मानिनी ॥
“इति ।
अत्र भयानको रसान्तरम् ।

अथ प्रवासः–

प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च सम्भ्रमात् ।
तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ॥ विस्स्द्_३।२०४ ॥

निः श्वासोच्छ्वासरुदितभूमिपातादि जायते ।

टीका

विज्ञप्रिया:

(वि, ख) विप्रलम्भस्य पूर्वरागमानप्रवासकरुणरूपचातुर्विध्यस्य उक्तत्वात् पूर्वरागं मान्ञ्च समाप्य प्रवासमाह—अथ प्रवास इति ।

किञ्च–

अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ॥ विस्स्द्_३।२०५ ॥

अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः ।
मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ॥ विस्स्द्_३।२०६ ॥

असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः ।

टीका

विज्ञप्रिया:

(वि, ग) अङ्गासौष्ठवादेर्लक्षणमाह—असौष्ठवमनायत्तिरिति ।
अनायत्तिरस्वाधीनता ।

अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ॥ विस्स्द्_३।२०७ ॥

अनालम्बनता चापि शून्यता मनसः स्मृता ।
तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा ।

शेषं स्पष्टम् ।
एकदेशतो यथा मम तातपादानाम् –
“चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नो ऽधरः ।
अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमम्, को ऽस्याः प्रार्थितदुर्लभो ऽस्ति सहते दीनां दशामीदृशीम्” ॥

टीका

विज्ञप्रिया:

(वि, घ) चिन्ताभिः स्तिमितमिति ।
पत्यौ प्रवासस्थे करतले गण्डं कृत्वा चिन्तयन्तीं प्रति कस्यचिदुक्तिरियम् ।

भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ॥ विस्स्द्_३।२०८ ॥

कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् ।
तत्र भावी यथा मम–

टीका

विज्ञप्रिया:

(वि, ङ) प्रवासस्य कार्य्यात् शापात् इत्यादि त्रैविध्यस्योक्तत्वात् कार्य्यजमेव त्रिविधमाह–भावीति ।
कार्य्यानुरोधेन प्रवासस्त्रिविध इत्यर्थः ।
तस्य बुद्धीति ।
बुद्धिः कार्य्यज्ञानम् ।

“यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि ।
शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे सम्भ्रमः” ॥

टीका

विज्ञप्रिया:

(वि, च) यामः सुन्दरीति ।
द्वयोरुक्तिप्रत्युक्ती इमे ।
तत्र सुन्दरीत्यन्तं पत्युः ।
याहि पान्थेति प्रियायाः ।
मा कृथा इत्यन्तं पत्युः ।
शोक इत्यादिकं ममेत्यन्तं प्रियायाः ।
तत इत्यादि मुञ्चसीत्यन्तं पत्युः ।
शीघ्रं न व्रजसीत्यन्तं प्रियायाः ।
त्वरेत्यन्तं पत्युः ।
भूयानित्यादि प्रियायाः ।
त्वया सह जिगमिषोः अस्य मे जीवस्य भूयान् सम्भ्रमस्त्वरेत्यर्थः ।

लोचना:

(लो, उ) याम इति ।
तव गमने मम कुतः शोकः जीवनाभावादिति भावः ।
शीघ्रनं न व्रजसीति ।
त्वामग्रे पश्यन्त्या मम तवागमनस्यप्यशङ्का ।
तया धारयन्त्या नास्य मोचनमित्याशयः ।
मयि कृतकप्रेमकवस्तब न खलु कदाचिद् गमनम् ।
ततश्च दुराशयान्दोलितत्वेन प्राणानामाकुलीभावो ऽयमसहनीय इति ।
तत्रावश्यम्भाविनि

गमने हससोत्पन्ने एषामपि निर्याण आकुलीभावो निवर्त्ततामिति ।

भवन् यथा–
“प्रस्थानं वबयैः कृतम्, प्रियसखैरस्त्रैजस्त्रं गतम्, धृत्या न क्षणमासितम्, व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते” ॥

टीका

विज्ञप्रिया:

(वि, छ) प्रस्थानं वलयैः कृतमिति ।
स्वजीवितं सम्बोध्य प्रियाया उक्तिरियम् ।
हे जीवित ! प्रियतमे यातुं निश्चितचेतसि सति तवापि गन्तव्ये गतत्वे सति वलयादिप्रियसुहृत्सार्थः ।
किमु त्यज्यते तेनैव सह गम्यतामित्यर्थः ।
वलयादयः सर्वे ऽपि समं प्रस्थिताश्चलिताः ।
तेषां प्रस्थानमाह—प्रस्थानमिति ।
प्रस्थानं यात्रा बहुदिनव्यापकतद्वार्त्तया कार्श्येन वलयभ्रंशः गतं चलितम् ।
अत्र पृथक् प्रियसुहृत्त्वोपादानम् अत्यन्तप्रियत्वप्रतिपादनाय ।
तच्च मरणहेतुशोकादिदुः खे ऽप्यश्रुपातेन तद्दुः खस्य किञ्चिदुपशमात् ।
जीवनरक्षा भवत्यतः स्वरक्षाकरित्वेनात्यन्तं प्रियत्वम् ।

भूतो यथा–
“चिन्ताभिः स्तिमितम्-ऽइत्यादि (२०० पृदृ) शापद्यथा–
“तां जानीयाः–ऽइत्यादि (१३० पृदृ) सम्भ्रमो दिव्यमानुषनिर्घातोत्पातादिजः ।
यथा–विक्रमोर्वश्यामुर्वशीपुरूरवसोः ।
अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवे ऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् ।
अथ करुणविप्रलम्भः–

टीका

विज्ञप्रिया:

(वि, ज) उर्वशीपुरूरवसोरिति ।
तयोर्वृत्तान्ते इत्यर्थः ।
पुरूरवस एव विप्रलम्भात् ।
तत्र च देवेन उर्वश्या हरणमेव दैव उत्पातः ।

यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये ।
विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः ॥ विस्स्द्_३।२०९ ॥

यथा–कादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते ।

टीका

विज्ञप्रिया:

(वि, झ) पुण्डरीकेति ।
तत्र महाश्वेताया मरणे आकाशसरस्वत्याः पुनर्लभ्यत्वमुक्तम् ।
तथा च तत्र विप्रलम्भ एव इत्युक्त्वा प्रथमं करुणः पश्चात्तु विप्रलम्भ इत्यभियुक्तानां मतं दर्शयितुमाह–किञ्चेति ।
मरणविशेषसम्भवादिति ।
यथा पूर्वरागमानप्रवासरूपा विशेषास्तथा मरणस्यापि विशेषस्य सम्भवादेतद्भेदेन प्रवासभिन्नमपीत्यर्थः ।

लोचना:

(लो, ऊ) करुणविप्रलम्भाख्यः करुणाख्यो विप्रलम्भः ।
कादम्बर्यां पुण्डरीके मृते महाश्वेताया विलापः ।
एतद्ग्रन्थकृतः कुवलयाश्वचरिते च युवतेर्मदालसायस्तथाभावे कुवलयाश्वस्य शरीरान्तरेण लभ्ये अजेन्दुमतीवृत्तान्तवत् ।
आकाशसरस्वतीभाषान्तरे त्वयासौ पुनर्लभ्ये इति ।

पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः ।
किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् ।
प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते ।
यच्चात्र “सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव” इति केचिदाहुः, तदन्ये “मरणरूपविशेषसम्भवात्तद्भिन्नमेव” इति मन्यन्ते ।

लोचना:

(लो, ऋ) यच्चात्रेत्यादि ।
अयमाशयः—यथा भवद्भिरेकदेशस्थयोर्वियोगो विरहाख्यः विदेशस्थयोः प्रवासाख्य इति ईषद्भिन्नधर्मयोगे ऽपि भेदः स्वीकृतः ।
अस्माभिस्तस्मिन्नेव शरीरे वियोगः–प्रवासाख्यः, शरीरान्तरे तु करुण इति बहुतरभिन्नयोगे इति का क्षतिः ।
यत्तु कैश्चिद् अभिलाषप्रवासेर्ष्याविरहशापहेतुकत्वेन पञ्चधा विप्रलम्भैत्युक्तम् तत्र सङ्गमप्रागभावरूपो ऽभिलाषः पूर्वराग एव ।
एकदेशस्थयोरपि गुर्वादिवशाद् सङ्गमोपरोधस्वरूपः विरहश्च; यदि कन्याविषयस्तदा पूर्वराग एव ।
यदा तु परोढाविषयः तदा रसाभावसत्त्वात् न शृङ्गररसभेदः, यदि तूपभुक्तनायिकाविषयस्तदास प्रावासाख्यभेदान्तः पातः ।
एवमेव च शापतो ऽप्यन्तराये स्वदेशस्थयोरपि प्रवासाख्यभेदमेवाचख्यते ।
अत्र एव महर्षिणा प्रवासदशदशालक्षणे"पूर्वानुभव जा ज्ञेया दश स्मरदशा इह"इति पूर्वानुभवत्वमुक्तम् ।
पूर्वानुभावः पूर्वोपभोगानुभवः ।
एवं च पूर्वरागो ऽनुपभुक्त इति विषयः ।
तथा च एकदेशस्थयोर्भिन्नदेशस्थयोर्वा पूर्वरागप्रवासौ भवतः ।
यत्तु प्रवासलक्षणे भिन्नदेशत्वमुक्तं तद्व्यवहितत्वमात्रविषयम् ।
यदि चैकदेशस्थयोर्न प्रवासस्तत् कथय कियति योजने कियति वा कोशे ऽसौ महर्षिभिर्निरूपितः ।
कथं वा दूरदेशस्थयोर्नलदमयन्त्योः प्रद्युम्नप्रभावत्योर्हंसमुखा गुणश्रवणानन्तरं पुर्वंरागस्तया चकवाकयोस्तृणमात्रव्यवधाने ऽपि शाप्रवासा ख्यशृङ्गाराभास इति सर्वं सुस्थम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अथ सम्भोगः–

दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं सम्भोगो ऽयमुदाहृतः ॥ विस्स्द्_३।२१० ॥

लोचना:

(लो, ॠ) सम्भोग इति—सम्भोगः सम्भोगाख्यो भेदः ।
विलासी चावालासिनी च विलासिनौ ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

आदिशब्दादन्योन्याधरपानचुम्बनादयः ।
यथा–
“शून्यं वासगृहम्–” (२२ पृदृ) इत्यादौ ।

टीका

विज्ञप्रिया:

(वि, ञ) दर्शनस्पर्शनादीनीति—अन्यो ऽन्यमित्यस्यायमर्थः ।
कदाचित् एकैकेन कदाचित्तूभयेन नापि दर्शनादिकं क्रियत इत्यर्थः ।
तेन एकैकस्य दर्शनादौ अपि सम्भोगो बोद्ध्यः ।
“शून्यं वासगृहऽ; मित्यादौ उभयोरेव ।
“यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥
“इत्यत्र गजोपरि स्थिताया मालत्या दर्शनम् ।
माधवस्य तु विप्रलम्भ एव ।

सङ्ख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् ।
अयमेक एव धीरैः कथितः सम्भोगशृङ्गारः ॥ विस्स्द्_३।२११ ॥

तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥ विस्स्द्_३।२१२ ॥

अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च ।

तथा च भरतः–
“यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)” इति ।

टीका

विज्ञप्रिया:

(वि, ट) वाच्यं शुचिमेध्यमिति—शुचि शुद्धं वस्त्रादि, मेध्यं पवित्रम् अन्यद् वा यत् तदुद्दीपनविभावरूपतया वाच्यमित्यर्थः ।
शृङ्गारेणोपमीयते इति ।
शृङ्गारेण हेतुना उपमीयते तदुद्दीपनतया उपमीयते उपस्थाप्यते इत्यर्थः ।
वर्ण्यते इति यावत् ।
युज्यते इति श्रृङ्गारे तदुपयोगात् ।

लोचना:

(लो, ऌ) सङ्ख्यातुमिति—परिरम्भणादित्यादिशब्दात् विभावानुभाववैचित्र्यम् ।
तत्र स्यादित्यनन्तरं यथासम्भवं विभावादिरूपेणेति बोद्धव्यम् ।
यत् किञ्चित् दर्शनीयं शय्यागृहादि ।

किञ्च–

कथितश्चतुर्विधो ऽसावानन्तर्यात्तु पूर्वरागादेः ॥ विस्स्द्_३।२१३ ॥

यदुक्तम्–
“न बिना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते” ॥
इति ।
तत्र पूर्वरागानन्तरं सम्भोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः ।

टीका

विज्ञप्रिया:

(वि, ठ) सम्भोगशृङ्गारस्य एवविधत्वमुक्त्वा पूर्वरागाद्यानन्तर्येण तस्य चातुर्विध्यं वक्तुमाह–किञ्चेति ।
कषायिते प्रथमं किञ्चिद्रक्तीकृते ।
पार्वतीपरमेश्वरयोरिति—अत्रापि तयोर्वृत्तान्ते इत्यर्थः ।
पूर्वरागसम्भोगो मदनदाहानन्तरं विवाहे सति पार्वतीपरमेश्वरयोः ।
एवं मालतीमाधवयोरपि बोध्यम् ।

प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्–
“क्षेमं ते ननु पक्ष्मलाक्षि !- किसअं खेमं महङ्गं दिढम्, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो ।
केनाहं पृथुलः प्रये !- पणैणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि” ॥

लोचना:

(लो, ए) किसअमिति—कृशकं क्षेमं ममाङ्गं दृढम् ।
तुहेति–तव पुनः पुष्टं शरीरं यतः ।
पणैणीति—प्रणयिनीदहस्य सम्भिश्रणात् ।
जै इति— यदि इदं क्षेमं कुतः पृच्छसि ।
अयमर्थः—यदाहमेव प्रणयिनी किमिति मां परिहृत्य दूरं गतो ऽसि यद्धेतुकस्तवायं प्रश्रः ।
सम्भोगः संयुक्तनायकविषयः ।
संयोगवियोगौ च परस्परायत्ततारूपौ तेन दूतिप्रषणादेः सम्भोगविषयत्वम् ।
ईर्ष्यामानादेश्च विप्रलम्भविषयत्वमविरुद्धम् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

एवमन्यत्राप्यूह्यम् ।

टीका

विज्ञप्रिया:

(वि, ड) क्षेमं ते ननु इत्यादि—इमे दम्पत्योरुक्तिप्रत्युक्ती ।
तत्र प्रवासादगतस्य पत्युः संस्कृतोक्तिः; तत् पत्न्याः प्राकृतोक्तिः ।
प्रथमसंस्कृतेन पृच्छा नायकस्य; प्राकृतेनोत्तरं प्रियायाः ।
एवमुत्तरोत्तरम् ।
कीदृशम् क्षेमं ममाङ्गं दृढमित्यर्थः ।
पुट्ठमिति—तव पुनः शरीरं पुष्टं यत इत्यर्थः ।
पणैणीति—प्रणयिन्या मम देहस्य सम्भिश्रणात् सङ्कोचात् कृशीकरणादित्यर्थः ।
एतावत् कालं तव वैदेश्यात्, निश्चितेन तवानुरागेण यतो ऽहं कृशा; अतो मां कृशां कृत्वा मन्मासेन तव शरीरं पुष्टमित्यर्थः ।
त्वत्त इति ।
हे सुभ्रु ! त्वत्तः कापि न मे कापि पुष्टिः इत्यर्थः ।
जै इदमिति यदीदं तदा क्षेमं कुतः पृच्छसि ।
स्वानुरागविषयस्यैव क्षेमपृच्छा ।
मत्कार्श्ये ऽपि तव पष्ट्या च मयि तवानुरागाभावेनैव पुष्टिः ।
अनुरागसत्त्वे तु मद्विरहात् कार्श्यं स्यादिति भावः ।
एवमन्यत्रेति—करुणविप्रलम्भानन्तरं सम्भोग इत्यर्थः ।
तत्र च मरणानन्तरं जीवने महाश्वेतापुण्डरीकयोः सम्भोगे ।

अथ हास्यः–

विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् ।
हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ॥ विस्स्द्_३।२१४ ॥

विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः ।
तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥ विस्स्द्_३।२१५ ॥
अनुभावो ऽक्षसङ्कोचवदनस्मेरतादयः ।
निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ विस्स्द्_३।२१६ ॥

ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च ।
नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ॥ विस्स्द्_३।२१७ ॥

टीका

विज्ञप्रिया:

(वि, ढ) ज्येष्ठानामिति—उत्तमानां नायकानामित्यर्थः ।
स्मितहसित इति—कस्याचिदुत्तमनायकस्य स्मितं कस्यचित्तु हसितम् इत्यर्थः ।
एवमुत्तरोत्तरमपि एकैकस्य एकैकमिति षड्भेदा ।

लोचना:

(लो, ऐ) हास्य इति—विकृताद् विकियायुक्ताद वाग्वेशचेष्टादेः कुहकाख्यवञ्चनाप्रयोगाच्च हास्यरसो भवेदिति सम्बन्धः ।
प्रमथाः शिवगणविशेषाः ।
यद्वस्तु ।
ज्येष्टानामुत्तमप्रकृतीनाम् ।

ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् ।
किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ विस्स्द्_३।२१८ ॥

मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् ।
अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितम् ॥ विस्स्द्_३।२१९ ॥

यथा–
“गुरोगिरः पञ्चदिनान् अधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।
अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः” ॥

टीका

विज्ञप्रिया:

(वि, ण) स्मितादिलक्षणमाह ।
ईषदिति ।
गुरोर्गिर इति—कुक्कुटमिश्रपादोपहासः ।

अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।

लोचना:

(लो, ओ) अत्र कुक्कुटमिश्रपादा आलम्बनम् ।
तेषां च पञ्चदिनाध्ययनादय उद्दीपनानि ।
कायोच्छ्वसनदृष्टिसङ्कोचादयो हर्षावहित्थादयश्च अनुभावव्यभिचारिणः अनुक्ता अपि सामर्थ्याल्लभ्याः ।
एवमन्यत्रापि ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

अत्र च–

यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते ।
तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ॥ विस्स्द्_३।२२० ॥

अभेदेन विभावादिसाधारण्यात्प्रतीयते ।
सामाजिकैस्ततो हास्यरसो ऽयमनुभूयते ॥ विस्स्द्_३।२२१ ॥

टीका

विज्ञप्रिया:

(वि, त) अत्र चोत्तमादिषु य उपहासकस्तस्य स्मितादिकमुन्नेयम् ।
साक्षान्नेव निबध्यत इति ।
नशब्देन वाच्य इत्यर्थः ।
अभेदेनेति—स उपहासकः सामाजिकैः विभावादिसाधारण्यात् यतः अभेदेन प्रतीयते ततो हास्यरसो ऽयमनुमीयत इत्यर्थः ।
विभावादिसाधारण्यञ्च उपहासकस्य यो विभावादिरूपो हसनीयवैकृत्यादिः, तत्र सामाजिकस्यापि स्वोपहसनीयत्वाद्यारोप्यः ।
स च स्वात्मनि उपहासकाभेदारेपात् ।
ततश्च स्वनिष्ठहासे उपहासकहासाभेदारोपः विभावादीनां साधारणीकरणव्यापारात् ।
ततश्च स्वादनाख्येन व्यापारेण हास्यरस आस्वाद्यत इति पूर्वापरग्रन्थनिष्कर्षः ।
एवमेव रसान्तरे ऽपि रीतिः ।

एवमन्येष्वपि रसेषु बोद्धव्यम् ।
अथ करुणः–

इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णो ऽयं कथितो यमदैवतः ॥ विस्स्द्_३।२२२ ॥

शोको ऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् ।
तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ विस्स्द्_३।२२३ ॥

अनुभावा दैवनिन्दाभूपातक्रन्दितादयः ।
वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ॥ विस्स्द्_३।२२४ ॥

निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ विस्स्द्_३।२२५ ॥

शोच्यं विनष्टबन्धुप्रभृति ।
यथा मम राघवविलासे–
“विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्” ॥
अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा ।
एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् ।
परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः ।

टीका

विज्ञप्रिया:

(वि, थ) विपिने क्वेति स्पष्टम् ।
एवं बन्धुवियोगेति ।
तत्र बन्धुवियोगे यथा—“हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः धिक् प्राणान् पतितो ऽशनिर्हुतवहस्ते ऽङ्गेषु दग्धे दृशौ ।
इत्थं घर्घरमध्यरुद्धकरुणापौराङ्गनानां गिरः चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥
“इदं मदालसायां मृतायां पुरस्त्रीणां रोदनस्य केनापि कथनम् ।
वित्तनाशे यथा-“किं करोमि क्क गच्छामि शरणं क्क व्रजाम्यहम् ।
चिरेणोपर्ज्जितं वित्तं दस्युनापहृतं मम” ॥
इति ।

अस्य करुणविप्रलम्भाद् भेदमाह–

शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः सम्भोगहेतुकः ॥ विस्स्द्_३।२२६ ॥

टीका

विज्ञप्रिया:

(वि, द) पुनः सम्भोगहेतुक इति ।
पूर्वरागमानप्रवासहेतुकत्वे करुणसाङ्कर्य्यशङ्कैव नास्ति ।
मरणे सत्येव तत्साङ्कर्यसम्भावना ।
तत्र पुनः सम्भोगसम्भावनासत्त्वे विप्रलम्भः ।
पुनः सम्भोगहेतुकः पुनः सम्भोगसम्भावनाहेतुक इत्यर्थः ।

अथ रौद्रः–

रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतम् ॥ विस्स्द्_३।२२७ ॥

मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
सङ्ग्रामसम्भ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥ विस्स्द्_३।२२८ ॥

भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ विस्स्द्_३।२२९ ॥

अनुभावास्तथाक्षेपक्रूरसन्दर्शनादयः ।
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ॥ विस्स्द्_३।२३० ॥

मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः ।

यथा–
“कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्” ॥

टीका

विज्ञप्रिया:

(वि, ध) कृतमनुमतमिति ।
अर्जुनं सम्बोध्य क्रुद्धस्य अश्वत्थाम्न उक्तिरियम् ।
इदं स्वयं मृतस्य मम पितुः शिरच्छेदरूपं गुरुपातकं यैरुदायुधैर्मनुजपशुभिर्निर्मयादैर्भवद्धिः कृतमनुमतं दृष्टं वा नरकासुरस्य रिपुणा श्रीकृष्णेन सार्द्धं सभीमकिरीटिनां तेषां मेदोमांसैः दिशां दिक्स्थितभूतानां बलिमयमहम् एतत्क्षणवर्त्तो अहं करोमीत्यर्थः ।
किरीटी अर्जुनः ।
मेदस्तैलम् ।
नरकरिपुपदोपादानात् नरकहेतुपातकहन्तारं गुरुपातककारिणञ्च हनिष्यामीति सूचनात् मत्क्रोधे जगदेव नङ्क्ष्यति इति सूचितम् ।

लोचना:

(लो, औ) कृतमनुमतमिति ।
तेषां भवताम् ।

अस्य युद्धवीराद्भेदमाह–

रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ॥ विस्स्द्_३।२३१ ॥

अथ वीरः–

उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेमवर्णो ऽयं समुदाहृतः ॥ विस्स्द्_३।२३२ ॥

आलम्बनविभावास्तु विजेतव्यादयो मताः ।

टीका

विज्ञप्रिया:

(वि, न) धर्मवीरदानवीरयुद्धवीरदयावीररूपतया वीररसस्य चातुर्विध्यं वक्ष्यते ।
तेषामालम्बनादिभेदो विजेतव्यादय इत्यादि सर्वग्रहार्थमादिपदम् ।

विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः ।
अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥ विस्स्द्_३।२३३ ॥

सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः ।
स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ॥ विस्स्द्_३।२३४ ॥

स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः ।
तत्र दानवीरो यथा परशुरामः–
“त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः” इति ।
अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, सम्प्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः सञ्चारिभिः पुष्टिं नीतो दानवीरतां भजते ।

टीका

विज्ञप्रिया:

(वि, प) त्यागः सप्तसमुद्रेति—सप्तसमुद्रावृत्तया मह्या निर्व्याजदानपर्य्यन्तः त्याग इत्यर्थः ।
सत्त्वाध्यवसायः सात्विकक्रियाभावितः ।
पूर्वोक्तप्रकारेण ज्ञापितः ।

धर्मवीरो यथा युधिष्ठिरः–
“राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये ।
यच्च लोके ममायत्तं तद् धर्माय सदोद्यतम्” ॥
युद्धवीरो यथा श्रीरामचन्द्रः–
भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते को ऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किञ्चिद्रतम् ।
नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः” ॥

टीका

विज्ञप्रिया:

(वि, फ) भो लङ्केश्वर इति ।
रामो रामनाम्ना ख्यातो वालिहन्ता स्वयं याचते ।
नयं नीतिं स्मर ।
नाद्यापीति ।
मया सह सन्धेरुपायः को ऽपि न गत इत्यर्थः ।
नैवं चेत् सीता न दीयते चेत् तदा मम धनुः ज्याबन्धस्य बन्धूकृत एष पत्री वाणो न सहिष्यते ।
कीदृशः खरादीनामसृजा रक्तेन पङ्किलः ।

दयावीरो यथा जीमूतवाहनः–
“शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन् ! ।
एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः ।

टीका

विज्ञप्रिया:
(वि, ब) शिरामुखैरिति ।
गरुडेन भक्ष्यमाणं नागं परित्रातुं तद्भक्षणाय आत्मदेहमर्पितवतस्तद्भक्षितबहुमांसस्य जीमूतवाहनस्यातृप्तं प्रत्युक्तिरियम् ।
हे गरुत्मन् ! अद्यापि मम देहे मांसमस्ति ।
अत्र हेतुमाह—मम कीदृशस्य शिरामुखें रक्तं स्यन्दत एव ।
अतो यद्यपि बहूनि मांसानि भक्षितानि तथापि तृप्तिमात्मनि न पश्यामि ।
अतस्त्वं किं भक्षणाद् विरतोसीत्यर्थः ।

अथ भयानकः–
भयानको भयस्थायिभावो भूताधिदैवतः” ।
स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ विस्स्द्_३।२३५ ॥

यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् ।
चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ विस्स्द्_३।२३६ ॥

अनुभावो ऽत्र वैवर्ण्यगद्रदस्वरभाषणम् ।
प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ विस्स्द्_३।२३७ ॥

टीका

विज्ञप्रिया:

(वि, भ) भयानकानुभावेषु पुलकः किञ्चिद् अङ्गेषु रोमाञ्चः ।
रोमाञ्चस्तु सर्वाङ्गेषु इति भेदः ।

जुगुष्सावेगसम्मोहसन्त्रासग्लानिदीनताः ।
शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ॥ विस्स्द्_३।२३८ ॥

यथा–
“नष्टं वर्षवरैः–” इत्यादि (१०५ पृदृ) अथ बीभत्सः–

जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः ।
नीलवर्णो महाकालदैवतो ऽयमुदाहृतः ॥ विस्स्द्_३।२३९ ॥

दुर्गन्धमांसरुन्धिरमेदां स्यालम्बनं मतम् ।
तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ विस्स्द्_३।२४० ॥

निष्ठीवनास्यवलननेत्रसङ्कोचनादयः ।
अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥ विस्स्द्_३।२४१ ॥

मोहो ऽपस्मार आवेगो व्याधिश्च मरणादयः ।

यथा–
“उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसान्य् अंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति” ॥

टीका

विज्ञप्रिया:

(वि, म) तद्व्यभिचारिभावेषु–जुगुप्साभयहेतुप्रेतादिदर्शनात् ।
सन्त्रासश्च भयाद्भिन्नः ।
उत्कृत्येति—करालाराधनाय गतस्य माधवस्य शवं भुञ्जानं प्रेतं दृष्ट्वा उक्तिरियम् ।
अयं प्रेतरङ्गः ।
प्रेतेषु दरिद्रः ।
अङ्कस्थात् शवात् अस्थिसंस्थं स्थपुटगतमपि क्रव्यम्मांसं प्रकटितदशनः सन्नव्यग्रं यथा स्यात्तथात्ति ।
किं कृत्वा प्रथमं कृत्तिं चर्म्म उत्कृत्योकृत्य ।
अथानन्तरं अंसे भुजमूले स्फिचि नितम्बे पृष्टे च ।
आदिना उरौ च ।
पिण्डे ऽवयवे सुलभानि मांसानि जग्ध्वा भक्षयित्वा ।
ईदृशक्रमेण भक्षणाद् अव्यग्रता ।
मांसानि कीदृशानि पृथुना उच्छोथेन तत्फुल्लतया भूयांसि बहूनि तथा अतिदुर्गन्धीनि ।

लोचना:

(लो, अ) उत्कृत्येति-उच्छोथ उच्छूनता ।
पिण्डो जङ्घोर्द्ध्वभागः ।
रङ्कश्चिरदुर्लभाहारः ।
करङ्को ऽस्थिशेषं शिरः ।
स्थपुटं विकटगभीरभागः ।

अथाद्भुतः–

अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥ विस्स्द्_३।२४२ ॥

पीतवर्णो वस्तु लोकातिगामालम्बनं मतम् ।
गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥ विस्स्द्_३।२४३ ॥

स्तम्भः स्वेदो ऽथ रोमाञ्चगद्रदस्वरसम्भ्रमः ।
तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ॥ विस्स्द्_३।२४४ ॥

वितर्कावेगसम्भ्रान्तिहर्षाद्या व्यभिचारिणः ।

यथा–
“दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत–
ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसम्पुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति” ॥

टीका

विज्ञप्रिया:

(वि, य) अद्भुतव्यभिचारिभावेषु सम्भ्रान्तिः; भ्रमणं चपलता ।
तेनानुभावत्वेन उक्तसम्भ्रमाद्भेदः ।
दोर्दण्डेति–रामेण धनुषि भग्ने तच्छब्दं श्रुत्वा लक्ष्मणस्य उक्तिरियम् ।
दोर्दण्डेनाञ्चितस्य उत्क्षिप्तस्य चन्द्रशेखरधनुर्दण्डस्यावभङ्गेन उद्गतो झङ्कारध्वनिः अहो ऽद्यापि न विश्राम्यति ।
कीदृशः ।
आर्य्यस्य रामस्य बालचरितानां प्रस्तावनायाः प्रख्यापनायाः डिण्डिमो वाद्यविशेषः ।
पुनः कीदृशः–द्राक्सहसा पर्य्यस्ताभ्यामुत्क्षिप्ताभ्यां कपालसम्पुटाभ्यां पुनर्मिलितो ब्रह्माण्डभाण्डस्य चण्डशब्दात् उत्फुल्य पुनर्मिलितं ब्रह्माण्डकपालद्वयं तदुदरे भ्राम्यन् इत्यर्थः ।
अत्र रामो लोकातिगं वस्तु ।
धनुर्भङ्गे गुणः ।

लोचना:

(लो, आ) दोर्दण्डेति ।
आर्य्योरामः द्राक्झटिति ।
पर्य्याप्तौ सम्पूर्णो कपालसम्पुटौ यस्य ।
एवं विशेषणविशिष्टतया मिलति जायमाने ब्रह्मण्डभाण्डोदरे भ्राम्यन् पिण्डितः पिण्डीभूतः चण्डिमा चण्डत्वं यस्येति झङ्कारध्वनोर्विशेषणम् ।

अथ शान्तः–

शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ॥ विस्स्द्_३।२४५ ॥

लोचना:

(लो, इ) उक्तरूपः शमः स्थायिभावो यस्य ।
यत्तु निर्वेदस्य स्थायिभावतावलम्बनेन शान्तरसस्वीकारः गृतस्तदयुक्तम् , तस्य स्वाद्यमानरूपत्वात् सञ्चारिभावस्यैव नाट्यत्वात् ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ।
अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ॥ विस्स्द्_३।२४६ ॥

टीका

विज्ञप्रिया:

(वि, र) अनित्यत्वादिना इत्यत्र आदिपदात् इष्टवियोगादिना वैराग्यपरिग्रहः ।

परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ।
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥ विस्स्द्_३।२४७ ॥

महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ।
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ॥ विस्स्द्_३।२४८ ॥

निर्वेदहर्षस्मरणमतिभूतदयादयः ।

यथा–
“रथ्यान्तश्चरतस्तथा धृतजरत् कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः ।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति” ॥

टीका

विज्ञप्रिया:

(वि, ल) रथ्यान्त इति ।
संसारविरक्तस्योक्तिरियम् ।
निर्बोजीकृतया चित्सुधारसमुदा ज्ञानामृतहर्षेण निद्रायमाणस्य मे कदा करपुटीभिक्षां करटः काको विलुण्ठिष्यति ।
कामनाभावात् निर्बोजता ।
मम कीदृशस्य, भिक्षाविलुण्ठनादिभयाभावात् निः शङ्कं चरतः रथ्यान्तः नगरराजमार्गमध्ये चरतः ।
धृतजरत्कन्थालवस्य ।
अतः तैः रथ्यास्थैः अध्वगैर्नागरैः कन्थादिविपरीतदर्शनात् सत्रासञ्च सकौतुकञ्च दरिद्रावस्थादर्शनात् सदयञ्च दृष्टस्य ।
अत्र समस्तसुखहेतूपक्षेपणात् लब्धाशेषवस्तुनिः सारता आलम्बनम् ।
नागरैरुक्तरूपेण दर्शनानि उद्दीपनानि ।
भिक्षाविलुण्ठनाशंसालभ्यौ रोमाञ्चहर्षावनुभावव्यभिचारिणौ ।

लोचना:

(लो, ई) रथ्येतिं—लवो लेशः ।
छिद्रमयत्वात् विकृताकारत्वात्सत्रासम् ।
तथाद्भुतस्यादृष्टपूर्वकत्वात्सकौतुकम् ।
अकिञ्चनत्वात् सदयम् ।
निर्बोजीकृतो यो ऽसौ चित्ज्ञानमेव सुधारसः तेन प्रकाशेन या मुत् प्रीतिः सुखैकमयता तया निद्रायमाणस्य पश्यतो ऽपि प्रमेयजातमपश्यतः चित्सुधारसस्य ।

निर्बोजीकृतस्यायमर्थः– निर्गतं बीजं संसारकारणम् अविद्याख्यं यस्मात् प्रकाशादित्यर्थः ।
निर्गतं बीजम् आत्मप्रकाशज्ञानकारणं मनो यत्र स निर्बोजः ।
ब्रह्माकारं वृत्तिमुत्पाद्य मनसः सत्त्वांशस्यापि विनाशाभ्युपगमात् ।

पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
अस्य दयावीरादेः सकाशाद् भेदमाह–

निरहङ्काररूपत्वाद् दयावीरादिरेष नो ॥ विस्स्द्_३।२४९ ॥

दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते ।
शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रान्न्तर्भावमर्हति ।
ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् ।
ननु–
“न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा ।
रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः” ॥

टीका

विज्ञप्रिया:

(वि, व) दयावीरस्य भेदमाह—निरहङ्कारेति ।
नागानन्देति—जीमूतवाहननायके नागानन्दे नाटके काव्यप्रकाशे शान्तस्य जीमूतवाहनस्य युक्तिमाक्षिपतिअतश्च इति ।
सर्वेषु भावेष्विति—सर्वेषु कान्तादिसकलपदार्थेषु सत्स्वपीत्यर्थः ।
अत्र च इति—मोक्षावस्थीयशान्तः स एवयतो रसतामेतीति काव्यनाट्यसमर्पितः सन्निति शेषः ।

लोचना:

(लो, उ) निरहमिति—दयावीरादीत्यादिशब्दात् धर्मवीरादिः ।
नागानन्दाख्यं नाम नाटकम् ।
सर्वेषु लोष्ट्राश्मकाञ्चनादिषु भावेषु पदार्थेषु गमं तुल्यं प्रमाणं ज्ञानं यत्र ।

इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात् कथं रसत्वमित्युच्यते–

लोचना:

(लो, ऊ) आत्मेति—आत्मस्वरूपस्य आपत्तिः प्राप्तिः लक्षणं स्वरूपं यस्याः ।

********** एन्द् ओफ़् चोम्मेन्तर्य् **********

युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥ विस्स्द्_३।२५० ॥

यश्चास्मिन्सुखाभावो ऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः ।
उक्तं हि-

टीका

विज्ञप्रिया:

(वि, श) न विरुद्धेति—निर्वेदरूपसञ्चारिस्थितिः अत्रास्त्येव इत्यर्थः ।
वैषयिकसुखपरत्वादिति ।
तेन शान्तस्य वैषयिकसुखभिन्नं तृष्णाक्षयाधीनं सुखमस्त्येव इत्युक्तम् ।

लोचना:

(लो, ऋ) युक्तेति—तत्र विषयेभ्यः परावृत्य साक्षात् कर्तव्ये ब्रह्मणि मनो निधाय वर्त्तमानत्वचिन्तासन्तानवान् युक्तः, यस्य च योगजधर्मसहकृतेन मनसा, जिज्ञासितवस्तुसाक्षात्कारो जायते, यश्च भूत्वेन्द्रियजयी अणिमाद्यः कायसिद्धीर्दूरश्रणाद्या ह्यतीन्द्रियाणि स्वे स्वे विषये सहत्त्वसन्निकर्षादिसहकारनिरपेक्षाणि वर्त्तन्ते, एवं युक्तवियुक्तावस्थायामित्यर्थः ।

“यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्” ॥
“सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा” ॥

टीका

विज्ञप्रिया:

(वि, ष) तत्र च सम्वादमाह ।
उत्कं हीति—एते कामसुखदिव्यसुखे ।

लोचना:

(लो, ॠ) अत्रेति—अत्र महाविषये दयावीरादयः स्वल्पविषयाः ।

आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः ।
तत्र देवताविषया रतिर्यथा–
कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानो ऽञ्जलिपुटम् ।
अये गौरीनाथ ! त्रिपुरहर ! शम्भो ! त्रिनयन ! प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान्” ॥

टीका

विज्ञप्रिया:

(वि, स) देवताविषयरतिर्यथेति—शान्तान्तर्भावमापन्ना देवताविषयरतिर्यथेत्यर्थः ।
कदा वाराणस्यामिति–इह वाराणस्यां सुरधुन्या गङ्गाया रोधसि तीरे पुलिन् वा वसन् अहं कौपीनद्वयञ्च वसानः शिरस्यञ्जलिपुटं दधानश्च अये गौरीनाथेत्यादिनाऽक्रोशन् च कदा दिवसान् निमेषमिव नेष्यामीत्यर्थः ।
अत्र कौपीनादिविशेषणैः सुखादिराहित्यप्राप्त्या सर्वाहङ्कारराहित्यलाभाद् देवविषयरतेरपि शान्तरसत्वप्राप्तिः ।

अथ मुनीन्द्रसम्मतो वत्सलः–

स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ विस्स्द्_३।२५१ ॥

टीका

विज्ञप्रिया:

(वि, ह) वत्सलतास्नेह इति—न चैवं दयावीरत्वप्रसक्तिरिति वाच्यम् , आत्मापकारेणापि परोपचिकीर्षाप्रयोजकधर्मविशेषस्य दयात्वात् सुखसम्बन्धिनि अनुरागविशेषस्य च स्नेहत्वात् इति अनयोर्भेदात् ।

लोचना:

(लो, ऌ) स्फुटमिति—चकत्कारस्यात्रोक्तप्रकारेण रसे सारत्वान्नर्देशः ।
तस्य च विभावादिशवालितस्वप्रकाशानन्द्रमयत्वं दैवसिद्धमित्युक्तम् ।
चमत्कारि तयेति ।
वत्सलतारूपः स्त्रेहः ।

उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः ।
आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् ॥ विस्स्द्_३।२५२ ॥

पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः ।
सञ्चारिणो ऽनिष्टशङ्काहर्षगर्वादयो मताः ॥ विस्स्द्_३।२५३ ॥

पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः ।

यथा–
“यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः” ॥

टीका

विज्ञप्रिया:

(वि, क्ष) यदाह धात्र्येति—उदितस्य उच्चारितस्य प्रथमं प्रथमोदितमिति"राजदन्तादिसमासात्” ।
दात्र्या उदितश्च नारायणेत्यादिशब्दश्च प्रथमं"ना"इत्यादि यद्वचः रघुराह तदीयां धात्रीयाम् अङ्गुलिमवलम्ब्य यच्च ययौ प्रणिपातशिक्षया यच्च नम्नो ऽभूत्, तेन कर्मणा पितुर्दिलीपस्य मुदं ततान इत्यर्थः ।

एतेषां च रसानां परस्परविरोधमाह–

आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥ विस्स्द्_३।२५४ ॥

भयानकेन करुणोनापि हास्यो विरोधभाक् ।
करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ॥ विस्स्द्_३।२५५ ॥

रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि ।
भयानकेन शान्तेन तथा वीररसः स्मृतः ॥ विस्स्द्_३।२५६ ॥

शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः ।
शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ॥ विस्स्द्_३।२५७ ॥

शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता ।

आद्यः शृङ्गारः ।
एषां च समावेशप्रकारा वक्ष्यन्ते ।

कुतो ऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ॥ विस्स्द्_३।२५८ ॥

उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् ।

टीका

विज्ञप्रिया:

(वि, क) पात्रे न—स्वभावत इति शेषः ।

लोचना:

(लो, ए) ननून्मादानां स्थायित्वमवलम्ब्य कथमन्ये ऽपि रसा नोक्ताः इत्याशङ्क्याह–कुतो ऽपीति ।

यथा विक्रमोर्वश्यां चतुर्थे ऽङ्के पुरूरवस उन्मादः ।

रसभावौ तदाभासौ भावस्य प्रशमोदयौ ॥ विस्स्द्_३।२५९ ॥

सन्धिः शबालता चेति सर्वे ऽपि रसनाद्रसाः ।

रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः ।
भावादय उच्यन्ते–

टीका

विज्ञप्रिया:

(वि, ख) प्रशमोदयो नाशोत्पत्ती ।
रसनाद्रसा इति—रसनम् आस्वादनं तद्रूपसादृश्यात् गौण्या लक्षणया रसपदार्थ इत्यर्थः ।
तस्य रसस्य सादृश्यं व्याचष्टे–रसनधर्म्मेति–

लोचना:

(लो, ऐ) ननु यदि रसात्मकं वाक्यमेव काव्यं ताह भावादिप्रधानमकाव्य स्यादित्यशङ्क्याह—रसाभावादिति ।
तदाभासौ रसाभासो भावाभासश्च ।
रसनं स्वादनमुक्तप्रकारम् ।

सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥ विस्स्द्_३।२६० ॥

उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते ।

“न भावहीनो ऽस्ति रसो न भावो रसवजितः ।
परस्परकृता सिद्धिरनयो रसभावयोः” ॥

टीका

विज्ञप्रिया:

(वि, ग) प्रधानानीति ।
निराकाङ्क्षवाक्यव्यङ्ग्यत्वमेव प्राधान्यम् ।
प्रधानभूता देवादिविषया रतिश्चेति चार्थो बोध्यः ।
उद्वुद्धमात्रः ज्ञातमात्रः; नतु विशिष्य निश्चित इत्यर्थः ।
स्थायी स्थायिभाववद् वाच्यो नतु स्थिरतामापन्न इत्यर्थः ।
ननु सञ्चारिणस्तावद्रसनधर्मसम्बन्धिन एव, ततश्च सञ्चारिसत्त्वे ऽवश्यं रससत्त्वम् ।
तथा च ध्वनिरेव रस इत्यतः कथं तत्र भावध्वनित्वमित्यत आह—न भावो रसेति ।
अत्र भावपदं सञ्चारिपरम्, देवादिरतिभावस्य रसहीनत्वाद् ।
तत्र यथाप्रधानतया रसस्तिष्ठति एवं रसे ऽपि अप्रधानतया भावस्तिष्ठतीत्याह—न भावहीन इति ।

इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः ।

टीका

विज्ञप्रिया:

(वि, घ) राजानुगतेति ।
स्वविवाहदिने भृत्य एव प्रधानम् ।
राजा च तदनुगः ।
एवं प्रधानमपि रसो निराकाङ्क्षवाक्यव्यङ्ग्यस्य भावस्य प्रधानस्य अनुग इत्यर्थः ।
उद्वुद्धमात्रा इत्यादिकं स्थायिनो भावा इत्यस्य विशेषणम् ।
तेषां रसतानाप्तौ हेतुः विभावादिरिति, तैरपरिपोषश्च तस्य विशिष्यानिश्चितत्वात् ।
तच्चग्रे उदाहरणे दर्शयिष्यते ।

तत्र व्यभिचारी यथा–
“एवंवादिनि देवर्षौ–ऽइत्यादि(१७० पृ।) ।
अत्रावहित्था ।

टीका

विज्ञप्रिया:

(वि, ङ) एवं वादिनीति ।
देवर्षो हरेण पार्वतीघटनार्थवाक्यवादिनि सति इत्यर्थः ।
अधोमुखत्वं लज्जया ।
कमलपत्रगणनमनवधानसूचनाद् हर्षाकारगोपनाय ।
अवहित्था आकारगुप्तिः ।

देवविषया रतिर्यथा मुकुन्दमालायाम्–
“दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणो ऽपि चिन्तयामि” ॥

टीका

विज्ञप्रिया:

(वि, च) दिवि वा भुवि वेति—हे नरकासुरान्तक मरणे जाते मम दिवि भुवि वा नरके वा वासो ऽस्तु ।
तथापि तव चरणौ स्मरामि इत्यार्थः ।
मरणकाले ऽपि स्मरामीति बहवः ।
तदा च दिवि वा इत्यादिकम् असम्बद्धं स्यात् ।
नहि त्वच्चारणस्मरणात् नरकवासप्रसक्तिः; येन तत्सहितोक्तिः ।
चरणौ कीदृशौ शोभयावधीरितशरत्कालपद्मौ ।

मुनिविषया रतिर्यथा–
“विलोकनेनैव तवामुना मुने ? कृतः कृतार्थो ऽस्मि निबर्हितांहसा ।
तथापि शुश्रषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन तृप्यते” ॥

टीका

विज्ञप्रिया:

(वि, छ) विलोकनेनैवेति ।
नारदं प्रति श्रीकृष्णस्योक्तिरियम् ।
हे मुने तव अमुना विलोकनेनैव कृतार्थः कतो ऽस्मि ।
कृतार्थतां दर्शयति–निबर्हितेति ।
नबर्हितं नाशितम् अंहः पापं येन तादृशेन ।
तथापि तव गरीयसीः गिरः शुश्रूषुः श्रोतु मिच्थुरम्मि ।
हेतुं विनैव श्रवणेच्छामुक्त्वा हेतुमपि वक्तुमाह—अथवेति ।
केन जनेन श्रेयसि मङ्गले तृप्यते; अपि तु न केनापीत्यर्थः ।

राजविषया रतिर्यथा मम–
“त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः” ॥

टीका

विज्ञप्रिया:

(वि, ज) त्वद्वाजिराजीति ।
तव वाजिराज्या निर्धूतं यद् धूलिपटलं तेन पङ्किलाम् ।
पङ्किलत्वात् पङ्कजलाभ्यां भूरिर्भारः ।
भियेति—वोढुमसामर्थ्येन उत्तरोत्रं भाविदुः खद्वेषरूपेण भयेनेत्यर्थः ।

एवमन्यत् ।
उद्बुद्धमात्रस्थायिभावो यथा–
“हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ॥
अत्र पार्वतीविषया भगवतो रतिः ।

टीका

विज्ञप्रिया:
(वि, झ) स्थायिन इति ।
स्थायिभावस्य भावत्वप्रप्तेर्यथा इत्यर्थः ।
क्वचित्तु स्थायी यथेत्येव पाठः ।
हरस्त्विति ।
कन्दर्पेण धनुषि आरोपिते आकालिके वसन्ते जाते तपस्यतो महेशस्य पार्वतीं दृष्ट्वा किञ्चिद् धैर्य्यपरावृत्तिवर्णनमिदम् ।
चन्द्रोदयस्यारम्भे प्राथमिकदशायां तदानीमेव तस्य धैर्य्यपरावृत्तेः ।
किञ्चित्त्वात् भगवतो रतिरत्रभवतां प्राप्ता इत्यर्थः ।
धैर्य्यपरावृत्तेः किञ्चिद् उद्भावेन रसतामनाप्तत्वेन भावत्वस्यैव प्राप्तेरित्यर्थः ।

लोचना:

(लो, ओ) रतिरित्यनन्तरं परिपोषं न नीतेति शेषः ।

ननूक्तं प्रपाणकरसवद्विभावादीनामेको ऽत्राभासो रस इति ।
तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते–

टीका

विज्ञप्रिया:

(वि, ञ) सञ्चारिणः प्रधानानि इत्यनेन प्रधानीभूतस्यैव व्यभिचारिभावस्य भावत्वप्राप्तिरुक्ता ।
विभावादीनां सर्वेषामेव रसादिबोधे एकीभावेन विषयतोक्ता ।
ननु तत्र व्यभिचारिभावस्य पार्थक्येन प्राधान्यमवगम्यते ।
अत्र एव कथमेवंवादिनीत्यत्रावहित्थायाः प्राधान्यमेवाशङ्कते–ननूक्तमिति ।
रस इत्यत्र भाव एव रसः ।
भावस्यैवाप्राधान्यशङ्कया भावत्वाभावस्यैव शङ्कितत्वात्, पार्थक्याभावात् पृथक् प्राधान्याभावात् ।

यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥ विस्स्द्_३।२६१ ॥

उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे ।

टीका

विज्ञप्रिया:

(वि, ट) तथा सञ्चारिण इति ।
उद्रेक इति अनुषङ्गः ।
रसो भाव उद्रेकनियमश्च निराकाङ्क्षवाक्यव्यङ्ग्यत्वेन ।

लोचना:

(लो, औ) रसास्वादनन्तरं विकारेणानुभूयमानः ।

अथ रसाभासभावाभासौ–

अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥ विस्स्द्_३।२६२ ॥

अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् ।
तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते–

टीका

विज्ञप्रिया:

(वि, ठ) अनौचित्यप्रवृत्तेति ।
रसानामनौचित्यप्रवृत्तत्वे इत्यन्वयः ।
भरतादिप्रणीतेति ।
भरतादिमुनिप्रणीतानि यानि लक्षणानि तेषां सामग्रीसमग्रत्वम् ।
तद्राहित्ये सति तदेकदेशयोगित्वोपलक्षणमनौचित्यमित्यर्थः ।
तल्लक्षणाक्तें यत् किञ्चिद् सत्त्वे एकदेशयोगिता इत्यर्थः ।
भरताद्युक्तलक्षणं वक्ष्यमाणानौचित्यमालायां यद् यदालम्बनादिकमुक्तं तद्रसादेर्बोध्यम् ।

लोचना:

(लो, अ) सामग्रीति ।
न खलु सामग्री सर्वथा नास्ति ।
किन्त्वेकदेशयोगित्वे सति आभासत्वमित्यर्थः ।

उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च ।
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥ विस्स्द्_३।२६३ ॥

प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते ।
शृङ्गारे ऽनौचित्यं रौद्रे गुर्वादिगतकोपे ॥ विस्स्द्_३।२६४ ॥

शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये ।
व्रह्मवधाद्युत्साहे ऽधमपात्रगते तथा वारे ॥ विस्स्द्_३।२६५ ॥

उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र ।

टीका

विज्ञप्रिया:

(वि, ड) उपनायकेति ।
उपनायकविषयायामित्यर्थः ।
इदं प्रियारतौ ।
मुनिगुर्विति ।
इदं मुनिगुर्वोरेव स्वपत्न्यां रतौ ।
अन्यस्यां तु परोढावर्जनादेव आभासस्यासिद्धिः ।
बहुनायकेति ।
अनूढवेश्याया रतौ तस्या उपनायकाभावात् ।
अनुभावनिष्ठायामिति ।
नायकनायिकयोरेकतरमात्रनिष्ठत्वे इत्यर्थः ।
प्रतिनायकेति ।
इदं वीररसे; तत्र जतव्यः प्रतिनायकः ।
तन्निष्ठत्वे गुर्वादिगते गुर्वादिविषये ।
एवमुत्तरोत्तरं गतपरं क्वचित् तद्विषयपरं क्वचित् तद्विशिष्टपरं योग्यतया बोध्यम् ।

तत्र रतेरुपनायकनिष्ठत्वे यथा मम–
“स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः ।
तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः” ॥

टीका

विज्ञप्रिया:

(वि, ढ) सन्ध्याकाले पन्थानमावृत्य तिष्ठन्तं श्रीकृष्णं प्रति गोप्या उक्तिरियम् ।
मुग्धतरो भद्रानभिज्ञः, अविचारेणैव क्रोधकारीत्यर्थः ।
अत्रं कृष्णविषया गोप्या रतिः ।
तथा हि मुग्धतरो मूढतरो मम तव आसङ्गं तर्कयितुमसमर्थः ।
घनवनादिकं रतिहेतुः ।
मुनिगुरुपत्नीगतत्वेनोदाहृतम् ।
तत्र गुरुपत्नीगतत्वे यथा— मधौ प्रभूते पिकनाददूते मन्दानिलोद्धूतविकाशिचूते ।
प्रियामुखालोकनमात्रकर्म्मा गुरुर्न धर्म्माय न पाठनाय ॥
मुनिपत्नीगतत्वे यथा— तपोविभावसम्भवातुलविभूतिकः सौभरि- र्मुनिर्नृपतिकन्यकाशतपरिग्रहः कामतः ।
प्रचुम्बति मुहुर्मुहुः कुचनिपीडमालिङ्गति स्मितोत्तरमुदीक्षते परिहसत्यजस्त्रं प्रियाम् ॥

लोचना:

(लो, आ) स्वामीति ।
इह हि स्वामीति मुघ्धतर इति च पदाभ्यां भयदत्वं पक्षे प्रियत्वाभावो रतिनागरत्वाभावश्च, वनस्य घनत्वे गृहगमनदुर्घटत्वम् , बाल्ये भयं योवनं च, यौवनेन यौवनेन च एतादृशि वयसि अनुरूपपतिर्नास्ति, एकाकिनीत्यनेन अन्धकारावराणकथनेन च स्वैरयानासहत्वं गोप्यरसप्रकाशाभावश्च, सुन्दरेति सम्बोधने परित्यागर्थं चाटुः, स्वाभिलषणीयत्वञ्च ।
लोचनी समाप्ता ।

बहुनायकनिष्ठत्वे यथा–
“कान्तास्त एव भुवनत्रितये ऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः” ।
अनुभयनिष्ठत्वे यथा–मालतीमाधवे नन्दनस्य मालत्याम् ।
“पश्चादुभयनिष्ठत्वे ऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्” इति श्रीमल्लोचनकाराः ।
तत्रोदाहरणं यथा–रत्नावल्यां सागरिकाया अन्योन्यसन्दर्शनात्प्राग्वत्सराजे रतिः ।

टीका

विज्ञप्रिया:

(वि, ण) कान्तास्त एव इति ।
कान्ताः कमनीयपुरुषाः ।
अत्र वहुवचनादनूढनायिकाया वेश्याया नायकबहुत्वलाभः ।
वत्सराज इति ।
अत्र वत्सराजस्येति क्वचिद् अप्रामाणिकः पाठः ।

प्रतिनायकनिष्ठत्वे यथा–इयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने ।
अधमपात्रगतत्वे यथा–
“जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली ।
अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा” ॥

टीका

विज्ञप्रिया:

(वि, त) जघनस्थलेति—कापि भिल्ली किराती जघनस्थले नद्धा धृता पत्रवल्लिः पत्रलता यथा सा तथा ।
गिरिमल्लीकुसुमानि कुटजपुष्पाणि अवचित्य गिरौ पुरो निषण्णा सती भर्त्रा स्वप्रयोज्येन स्वकचान् अर्थादवचितकुसुमैः उत्कचयाञ्चकार उद्दीप्तांश्चकारेत्यर्थः ।
दीप्त्यर्थकचधातोः इदं रूपम् ।
अत्र च वल्लि इत्यत्र ह्रस्वान्तवल्लिशब्दस्य रूपम् ।
दीर्घान्तत्वे कप्रत्ययप्रसङ्गात् ।
अत्राधमस्य भर्त्तूरतिः ।

तिर्यगादिगतत्वे यथा–
“मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती ।
चञ्चद्विपञ्चीकलनादभङ्गीसङ्गीतमङ्गीकुरुते स्म भृङ्गी” ॥

टीका

विज्ञप्रिया:

(वि, थ) मल्लीमतल्लीष्विति ।
मतल्ली पुष्पविशेषः ।
वल्यन्तरे स्थित्वेत्यर्थः ।
चञ्चद्विपञ्चीकलनादभङ्गीसङ्गीतं चञ्चन्त्या विपञ्च्या वीणायाः कलनादभङ्ग्या सङ्गीतम् ।

आदिशब्दत्तापसादयः ।
रौद्राभासो यथा–
“रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्- मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः ।
आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय- न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः” ॥

टीका

विज्ञप्रिया:

(वि, द) तापसादय इति ।
अत्र च तापसस्य जीमूतवाहनस्य नृपस्य मलयवत्यां रतौ बोध्यम् ।
रक्तोत्फुल्लेति ।
कर्णात् प्राप्तापमानस्य युधिष्ठिरस्य कटुकोक्तिभिराध्मातः कुपितोर्ऽजुनः युध्यमानं कर्णं त्यक्त्वा युधिष्ठिरं हन्तुं प्रवृत्तः ।
अपेतभीर्गुरुहननभयरहितो हरेः कृष्णस्य पश्यतः इति—पश्यन्तं हरिमनादृत्य इत्यत्रानादरे षष्ठी ।
स्वं स्वीयम् ।
अंसो भुजमूलम्, तस्य आस्फोटे पटुः ।
हीननिष्ठे शान्ते गुर्वाद्यालम्बने हास्ये ब्रह्मवधाद्युत्साहे ऽधमपात्रगते वीरे च नोदाहृतम् ।
क्रमेण यथा चण्डालयोनाविह जन्म लब्धं द्विजातिजन्मापि न काङ्क्षितं मे ।
पुण्ये वने क्कापि वपुर्विहास्यन् पुनर्भवच्छेदमहं समीहे ॥ १ ॥
अपानवायुं सततं विमुञ्चन् असंयमव्यग्रकपूर्वकेशः ।
अध्यापयत्वेष गुरुः सदा मे लालाक्तवक्त्रो मलदिग्धवासाः ॥ २ ॥
अनिवृत्तपिपासा हि क्षुद्रवीरजशोणितैः ।
द्रोणस्य रुधिरेणाद्य तृप्यन्तु मम सायकाः ॥ ३ ॥
नरेद्रपुत्रान् मृगया प्रवृत्तान् विद्धं मृगं नेतुमुपात्तवेगाः ।
अमी किराताः शरपूर्णचापा धावन्ति मत्वा तृणवत्तमेव ॥ ४ ॥

भयानकाभासो यथा–
“अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः” ॥

टीका

विज्ञप्रिया:

(वि, ध) अशक्नुवन्निति—कौशिको वासवो यस्यासुरस्य सहस्त्रश्मेरिव दर्शन सोढुमशक्नुवन् बिभ्यत् हेमाद्रिगुहां प्रविश्य दिनानि निनाय ।
अधीरलोचनः कातरात् चञ्चललोचनः ।
शब्दशक्तिमूल उपमाध्वनिरियम् ।
तथा हि कौशिकः पेचकः सहस्त्ररश्मेर्दर्शनं सोढुमशक्नुवन् अद्रिगुहां प्रविश्य यथा दिनानि नयति, अधीरबुद्धिरलोचनो दिवान्धत्वात्, तथा च पेचक इव इन्द्र इत्युपमाध्वनिः ।
अत्र इदमवधेयम् ।
रसभावतदाभासादीनामसंलक्ष्यक्रमव्यङ्ग्यत्वं वक्ष्यते ।
तच्च स्थायिभावस्य व्यङ्ग्यस्य बोधक्रमापरिचयादेव ।
अत्र श्लोके भयस्य स्थायिभावस्य बिभ्यदियेतद्वाच्यत्वात् व्यङ्ग्यत्वमेव नास्ति, कथं व्यङ्ग्यक्रमापरिचयाधीनमसंलक्ष्यकमव्यङ्ग्यत्वम् अतोयं न रसाभासध्वनिः, किन्तूपमाध्वनिरेव ।
तदुदाहरणं तु जातिदुष्टो ऽपि संश्लाघ्यः स कालयवनो नृपः ।
युद्धोद्युक्तं यमालोक्य श्रीकृष्णो ऽपि पलायितः ॥

स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः ।
एवमन्यत्र ।

भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ॥ विस्स्द्_३।२६६ ॥

टीका

विज्ञप्रिया:

(वि, न) वेश्यादिविषये ।
वेश्यादिनिष्ठे यथा— लीलानम्रमुखी शिरोंऽशुकमवाकृष्यानयन्ती पुरो नेत्रोपान्तविलोकनेन परितो यूनां धयन्ती मनः ।
दृष्टा वारविलासिनी ननु सखे ! कस्यापि पुण्यात्मनः पुण्यौघं परिपाकमाशमयितुं लीलोत्तरं गच्छति ॥
अत्र वेश्यालज्जामिश्रितत्वम् ।

स्पष्टम् ।

भावस्य शान्तावुदये सन्धिमिश्रितयोः क्रमात् ।

टीका

विज्ञप्रिया:

(वि, प) सन्धिरुत्तरोत्तरविरुद्धभावमिश्रणम् ।
सैव शबलता ।
तत्र उत्तरोत्तरभावस्य पूर्वपूर्वापेक्षया बलवत्त्वात् ।
सन्धिस्तु द्वयोस्तुल्यकक्षत्वे ।
सुतन्विति स्पष्टम् ।

भावस्य शान्तिरुदयः सन्धिः शबलता मता ॥ विस्स्द्_३।२६७ ॥

क्रमेण यथा–
“सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधो ऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्” ॥
अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः ।
“चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।
व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता” ॥

टीका

विज्ञप्रिया:

(वि, फ)“हे निभृत ! कितवाचार !“इत्युक्त्वा इत्यर्थः ।
स्तनास्थितहस्तया मानिन्या इत्यर्थः ।

अत्र विषादस्योदयः ।
“नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे” ॥
अत्र हर्षविषादयोः सन्धिः ।
“क्वाकार्यं , शशलक्ष्मणः क्व च कुलम्, भूयो ऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्यो ऽधरं धास्यति” ॥

टीका

विज्ञप्रिया:

(वि, ब) क्वाकार्य्यमिति—उर्वशीविरहे मरणे प्रवृत्य निवृत्तस्य पुरूरवस उक्तिरियम् ।
अत्र कुलमित्यन्ते वितर्कः ।
सेत्यन्ते औत्सुक्यम् ।
श्रुतमित्यन्ते अर्थनिर्द्धारणरूपा मतिः ।
मुखमित्यन्ते स्मरणम् ।
कृतधिय इत्यन्ते शङ्का ।
दुर्लभेत्यन्ते दैन्यम् ।
उपैहिइत्यन्ते धृतिः ।
कः खलु इत्यादौ चिन्ता ।
एतेषां व्यभिचारिभावानां पूर्वपूर्वापेक्षया बलवत्ता ।
इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यविरचितायां साहित्यदर्पणटीकायां तृतीयपरिच्छेदविवरणम् ।

अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता ।

इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।