द्वितीयः परिच्छेदः
वाक्यस्वरूपमाह–
टीका
लोचना:
(लो, अ) सम्प्रति काव्यलक्षणयोर्वाक्यरसयोः स्वरूपजिज्ञासायां प्रथमोद्दिष्टं वाक्यं द्वितीयपरिच्छेदेन सपरिकरं निरूपयितुकामः तत् सामान्यतक्षणप्रतिपादिकां कारिकामवतारयति–वाक्यस्वरूपमिति ।
स्वमसाधारणं रूपं स्वरूपम्; इतरव्यावर्तको धर्मः ।
वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।
योग्यता पदार्थानां परस्परसम्बन्धे बाधाभावः ।
पदोच्चयस्यैतदभावे ऽपि वाक्यत्वे “वह्निना सिञ्चिति” इत्याद्यपि वाक्यं स्यात् ।
टीका
विज्ञप्रिया:
(वि, क) वाक्यं रसात्मकं काव्यमित्युक्तत्वात् वाक्यलक्षणं वक्तुमाह—वाक्यस्वरूपमिति ।
बाधाभावो बाधमात्राभावत्वे बाधज्ञानाभावः, तु बाधिते बाधाज्ञाने शाब्दबोधानुपपत्तेः ।
वह्निना सिञ्चतीत्यन्वयबोधनकस्यैव वाक्यत्वम्, सेकं प्रति वन्हेः करणतान्वयबाधान्नान्वयबोधः ।
नन्वेवमन्वयबोधजनकत्वमेव लक्षणमिति वाच्यम् ? अन्वयबोधजनकसामग्रीप्रदर्शनार्थं तद्घटितलक्षणकरणात् ।
आकाङ्क्षा प्रतीतिपर्यवसानविरहः ।
स च श्रोतुर्जिज्ञासारूपः ।
टीका
विज्ञप्रिया:
(वि, ख) आकङ्क्षेति—प्रतीतिपर्य्यवसानविरहमेव व्याचष्ठे सचेति ।
जिज्ञासा च प्रतीतपदार्थातिरक्तपदार्थः; सा च प्रथमप्रतीतपदार्थान्वयबाधार्थमुत्थिता बोध्या, तेन गौरश्व इत्यादौ दैवादश्वेति जिज्ञासासत्त्वे ऽपि नाकाङ्क्षा ।
चैत्रस्य भ्राता गृहं गच्छतीत्यादौ चैत्रस्य न गृहे आकाङ्क्षा उदेति भ्रातरि जनितान्वयबोधात् ।
तेन चैत्रस्य गृहमिति न बोधः ।
“विमलं जलं नद्याः कच्छे महिषश्चरति"इत्य; विमलजले ऽन्विताया अपि नद्याः कच्छस्य सम्बन्धिकत्वेनोपस्थितेः नदीरूपे सम्बन्धिनि तात्पर्य्यशात् कच्छान्वयार्थमपि कच्छे जिज्ञास उदेति इति न तत्राव्याप्तिः ।
वह्निना सिञ्चतीत्यत्र तु करणतायाः कार्यं विता अनुपपत्त्या सेके तत् कार्य्ये उदेति एव आकाङ्क्षा इति बोध्यम् ।
एवं चाकाङ्क्षितपरस्परसम्बन्धे बाधविरह एव योग्यता, अन्यथा अनाकाङ्क्षितस्य कालिकसम्बन्धस्य वह्निकरणतासेकयोरपि सत्त्वाद् योग्यता स्यात् ।
लोचना:
(लो, आ) वाक्यं स्यादिति ।
एतद् विवृणोति ।
योग्यतेति ।
पदार्थानामिति ।
पदानां गौरित्यादीनामर्थाः पदार्थः ।
एतदभावे योग्यताया अभावे ऽपि गौरित्यादीनां परस्परमाकाङ्क्षाविरहिणां पदानां प्रतीतिपर्य्यवसानविरह इत्येव विशादयतिश्रोतुर्जिज्ञासा इति ।
आकाङ्क्षा आत्मधर्मः श्रोतुर्जिज्ञासारूपत्वेन इच्छास्मत्वात् ।
योग्यतार्ऽथधर्मः स्फुट एव ।
एतदभावात् गौरश्वः पुरुषो हस्तीत्यत्र च नान्वयबोधः ।
साकाङ्क्षावाक्ये ऽपि अन्वयबोधानन्तरं निराकाङ्क्षत्वव्यवहारात् ।
प्रकृतान्वयबोधसमानाकारशाब्दबोधाभावो ऽपि आकाङ्क्षान्तरम् ।
अतो “घटमानयऽ; इति वाक्यम् एकदा अन्वयबोधेजनिते न अन्वयबोधान्तरजनकम् (का-प्र-टीदृविश्वनाथ) ।
प्रतीतीति-प्रतीतेः पर्य्यवसानम् (समाप्तिः) तस्यः विरहः (अभावः) केवलं क्रियाश्रवणे बोधाभावोच्च कारकस्य (प्रथमं कर्त्तुः ततः कर्मप्रभृतीनाम्) जिज्ञासा स्वत एवोदेति ।
निराकाङ्क्षस्य वाक्यत्वे “गौरश्वः पुरुषो इस्ती” इत्यादीनामप वाक्यत्वं स्यात् ।
टीका
विज्ञप्रिया:
(वि, ग) गौरश्व इत्यादि ।
अत्र चाकाङ्क्षाभावादेव आकाङ्क्षितसम्बन्धे बाधविरहरूपा योग्यतैव नास्ति; इत्याकाङ्क्षाया एवाभावान्न वाक्यत्वम् ।
आकाङ्क्षाभावश्च प्रथमान्तपदार्थस्य प्रथमान्तपदार्थान्तरे भेदेनान्वयार्थं जिज्ञासानुदयस्यानुभाविकत्वादेव; अभेदान्वयेतु, बाध एव
आसत्तिर्बुद्ध्यविच्छेदः ।
बुद्धिविच्छेदे ऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् ।
टीका
विज्ञप्रिया:
(वि, घ) आसत्तिलक्षणमाह–यत् पदबुव्द्यव्यवधानेन यत् पदबुद्धिस्तेनैव सह तस्यासत्तिरित्यर्थः ।
अव्यवधानं च तदन्वयानुपयुक्तार्थकसार्थकपदान्तरेण, चिरकालेन वा बोध्यम् ।
तेन काष्ठैः स्थाल्यादिपदार्थानां तदन्वयोपयोगित्वात् ।
निरर्थकेन व्यवधाने तु अस्त्येवाऽसत्तिः–यथा"स वै गच्छति"इत्यत्र वैकारस्तु निरर्थको ऽपि प्रामाणिकप्रयुक्त एव बोध्यः ।
नतु चकारादिः ।
तेन तदन्वयानुपयुक्तार्थकेन प्रामाणिकाप्रयुक्तनिरर्थकेन चाव्यवधानमर्थः ।
गिरिर्भुक्तमाग्निमान् देवदत्तेन इत्यत्र तु गिर्य्यग्निमत्पदयोर्नासत्तः ।
तिदन्वयानुपयुक्तभुक्तपदेन व्यवधानात् ।
कालव्यवधाने तु कालस्य चिरत्वम्, तत्पदबुद्धिधारालोपाधिकरणत्वमेव ।
तत्रासत्त्यभावं दर्शयति–बुद्धिविच्छेदे ऽपीति–नच तत्र पूर्वोच्चारितपदार्थस्मृतिर्यद्यस्ति तदेष्वत एव तत्र वाक्यत्वम्, नचैतदभावादेव शाब्दबोधानुत्पत्त्या वाक्यत्वाभाव इति वाच्यम्, शब्दबोधजनकत्वस्यासत्तिलक्षणे ऽप्रवेशेन तत्पदस्मृत्यभावेन शाब्दबोधाजनकतया वाक्ये तत्रातिव्याप्तिप्रदर्शनस्य औचित्यादेव ।
अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वे ऽपि पदोच्चयधर्मत्वमपचारात् ।
टीका
विज्ञप्रिया:
(वि, ङ) ननु बाधज्ञानाभावरूपाया योग्यताया जिज्ञासारूपाया आकाङ्क्षायाश्चात्मार्थवृत्तित्वात् कथं पदोच्चयस्य तद्युक्तत्वम् इत्यत आह–आकाङ्क्षायोग्यतयोरिति—उपचारो विषयतासम्बन्धेन वृत्तिः ।
सा च बाधविरहस्य प्रतियोगिनो बाघज्ञानस्य विषये पदोच्चये तद् विषयता साक्षादेव ।
वाक्योच्चयो महावाक्यम्
योग्यताकाङ्क्षासत्तियुक्त इत्येव ।
इत्थं वाक्यं द्विधा मतम् ॥ विस्स्द्_२।१ ॥
इत्थमिति वाक्यत्वेन महावाक्यत्वेन च ।
उक्तं च तन्त्रवार्तिके–
“स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते” ॥
इति ।
टीका
लोचना:
(लो, इ) महावाक्यस्यापि काव्यत्वे आचार्य्यसम्पतिं दर्शयति—तदुक्तमिति ।
अङ्गङ्गित्वेन प्रबन्धेषु विशकलितान्यपि वाक्यानि, अन्यो ऽन्यमङ्गाङ्गिभावं विना तु वातुलप्रलापवदसम्बन्धतां भजन्ते ।
संहत्य समेत्य वाक्यमहावाक्ययोरित्यादिषु प्रत्येकं व्यवच्छेद इत्यन्वयः ।
साकाङ्क्षानि अनेकपदानि, यथा देवदत्तो दण्डेन गाम् ।
अनेकवाक्यानि च संहत्य समुदितार्थबोधानार्थम् इतरवाक्यसापेक्षाणि प्रबन्धेषु प्रसिद्धनि ।
तथाभूतानां हि पदानां वाक्यानां च विशकलितानेकार्थबोधन एव भट्टमते सामर्थ्यं नत्वेकार्थबोधने ।
तत्र वाक्यं यथा–“शून्यं वासगृहम्-ऽइत्यादि (२२ पृ।) ।
टीका
विज्ञप्रिया:
(वि, च) वाक्यस्य द्वैविध्यमाह—वाक्योच्चय इति ।
क्वचित् वाक्यमात्रस्य क्वचिच्च महावाक्यस्य वाक्यत्वेन, द्वयोरपि लक्षणकथने आकाङ्क्षासत्त्वात् महावाक्यलक्षणे ऽपि योग्यतादिकं विशेषणमित्याह—योग्यताकाङ्क्षेति ।
तत्रार्द्रकाष्ठे वह्निर्ज्वलति तेन सिञ्चितीत्यत्र महावाक्यत्वापत्त्या तद्वारणाय योग्यतायाः, चैत्रः पचति, मैत्रौ गच्छति, इत्येतद् वारणायाकाङ्क्षायाः, दिनान्तरोच्चारितवाक्यद्वयस्य विरोधिवाक्यव्यवहितयोः साकाङ्क्षयोग्यवाक्ययोर्वारणायाऽसत्तेरुपादानम् ।
सून्यं वासगृहमित्यादि—अत्र सर्वपदार्थानामेव उत्तरत्र साकाङ्क्षत्वेन कस्यापि स्वार्थबोधसमाप्त्यभावात् न महावाक्यत्वम् ।
महावाक्यं यथा–
रामायण-महाभारत-रघुवंशादि ।
पदोच्चयो वाक्यमित्युक्तम् ।
तत्र किं पदलक्षणमित्यत आह–
वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः ।
टीका
विज्ञप्रिया:
(वि, छ)—वर्ण्णाः पदमिति—प्रयोगार्हाश्च ते ऽनन्वितैकार्थबोधकाश्चेति कर्मधारयः ।
एकार्थबोधका इत्यत्र एकैकार्थबोधका इत्यर्थः ।
तेन वाक्यस्थपदेषु मिलनेन अनेकार्थबोधकेषु नाव्याप्तिः ।
एकैकार्थवत्त्वं हि स्वसमसङ्ख्यार्थत्वम्; अर्थस्य एकैकत्वस्य वक्तुमशक्यत्वात् ।
न त्रिविधा सुरा इत्यत्र एकसुराशब्दस्य गौडीपैष्ठीमाध्वीत्रयबोधकत्वात्तत्राव्याप्तिरिति वाच्यम्, तत्र गौडी सुरा पैष्ठी सुरामाध्वी सुरा इत्येवमावृत्त्यैवान्वयबोधस्वीकरणे सुरापदत्रयस्य स्वसमसङ्ख्यार्थबोधकत्वेनाव्यप्त्यभावात् ।
न च तैत्र-मैत्र-देवदत्ताः सुन्दरा इत्यत्र एकसुन्दरपदेन सुन्दरत्रितयाबोधनात् तत्राव्याप्तिरिति वाच्यम्; अर्थपदस्यार्थतावच्छेदेकपरत्वेन सौन्दर्य्यस्यैकत्वादेव ।
न च तथापि त्रिविधा सुरा इत्यत्राव्याप्तिरिति वाच्यम् अर्थतावच्छेदकानेकत्वे आवृत्तेरेव स्वीकारात् ।
यथा–घट। ।
प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः ।
टीका
विज्ञप्रिया:
(वि, ज) प्रतिपदिकस्येति—तन्मात्रसायेत्यर्थः ।
विभक्त्यन्तस्यैव पदत्वस्वीकारात्, नहि विभक्तिं विना सुद्धप्रतिपदिकस्य प्रयोगार्हता ।
नचानन्वितैकार्थपदे नैव पद्वारणमिति वाच्यम्; अभिहितान्वयवादे तस्यानन्विताभिधायित्वादेव ।
अनन्वितेति वाक्यमहावाक्ययोः ।
टीका
विज्ञप्रिया:
(वि, झ) वाक्यमहावाक्ययोरिति—व्यवच्छेद इत्यत्रान्वयः ।
तयोः परस्परमन्वितार्थबोधकत्वादेव ।
अत्र च वाक्यस्याश्वितानेकार्थबोधकत्वादेकार्थबोधकत्वेनैव तद्वारणसम्भवे ऽपि तद् विशेषणदानमन्विताभिधानवादो ऽस्मभिर्नाद्रियते इत्यभिप्रयसूचनायैव इत्यवधेयम् ।
एकेति साकाङ्क्षानेकपदवाक्यानाम् ।
टीका
विज्ञप्रिया:
(वि, ञ) साकाङ्क्षानेकेति—साकाङ्क्षानि अनेकानि पदानि यत्र तादृशवाक्यानां व्यवच्छेद इत्यर्थः ।
अत्र च वाक्यानामित्येव विवक्षितम्; वाक्यत्वेनैवानेकपदत्वपरस्परसाकाङ्क्षत्वयोः प्राप्तेः ।
स्वरूपाख्यानपरत्वादेव तयोरुपादनस्य, न चानन्वितार्थबोधकत्वविशेषणादेवान्वितार्थबोधकवाक्यावृत्तिरिति वाच्यम्; परस्परन्वितार्थकवाक्यद्वयस्य मिलित्वा पदत्वापत्तिवारणपरत्वादेव वाक्यानामित्युक्तेः ।
अनन्वितार्थेत्यादिना तु एकैकवाक्यस्यैव वारणम् ।
अर्थबोधका इति कचटतपेत्यादीनाम् ।
वर्णा इति बहुवचनमविवक्षितम् ।
टीका
विज्ञप्रिया:
(वि, ट) क-च-ट-त-पेत्यादीनामिति—ननु प्रयोगार्हेत्यत्र प्रयोगो नोच्चरणमात्रम्, तदा प्रतिपदिकवारणापत्तेः ।
किन्तु अर्थबोधनार्थमुच्चारणमेवावश्यं वाच्यम् ।
प्रतिपदिकमात्रस्य तदर्थमनुच्चारणात् ।
तथा च प्रयोगार्हपदादेव निरर्थक-क-च-ट-त-पादीनां वारणं सायदिति चेत्, सत्यम् ।
अर्थबोधकत्वानुपादानेर्ऽथविशेषणस्यानन्वितेत्यस्यानुपादानमनायत्यैव पर्य्यवस्यति ।
ततश्च तदनुपादाने वाक्यमहावाक्ययोरतिव्याप्त्यापत्त्या तद्वारणायानन्वितेत्यस्य दानावश्म्यभावे तदनुरोधेन तद्विशेषस्यार्थस्य बोधकत्वमुपादेयम् ।
अत एव क-च-ट-त-पित्यादेरपि वारणमित्यभिप्रायात् ।
कचटतपदायश्च पदैकदेशवर्ण्णा इत्यत्र बहुत्वाविवक्षामाह—वर्ण्णा इति ।
लोचना:
(लो, ई) वर्णा इति ।
बहुवचनमविवक्षितं तेनैकस्य वर्णास्य द्वयोरपि च परिग्रहः एवं च मयि सानुग्रहो भवेत्यत्र अकारस्य एकवर्णस्य वासुदेवसम्बन्धोक्तस्य न पदत्वहानिः ।
तत्रेति–यथासम्भवं पदवाक्ययोः ।
अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ॥ विस्स्द्_२।२ ॥
एषां स्वरूपमाह–
वाच्योर्ऽथो ऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ॥ विस्स्द्_२।३ ॥
टीका
विज्ञप्रिया:
(वि, ठ) योग्यताकाङ्क्षयोरर्थघटितत्वेन अर्थस्य प्रभेदमाह—अर्थ इत्यादि ।
स्वरूपं लक्षणम् ।
शक्तयो वृत्तयः ।
लोचना:
(लो, उ) तत्राभिहितान्वयवादिनां मते वाक्यार्थो ऽपि पदभिधेय इति वक्ष्येत ।
आन्वताभिधानवादिनां मते च वाक्याभिधेयः, लक्ष्यश्च पदमात्रस्यार्थः ।
व्यङ्ग्यश्च वर्णपदवाक्यादीनाम् ।
ये चान्वितादयो लक्ष्ये वाक्यार्थे इति ऊचुः तन्मते तत्पर्य्यवृत्तिरेव वाक्यार्थबोधिका, द्वितीयलक्षणेत्यपरं नाम ।
ननु तत्र गङ्गायां घोष इत्यादौ तटार्थबोधिका वक्ष्यमाणलक्षणा वृत्तिः ।
गौण्याश्च लक्षणायामन्तर्भावनीयत्वादेव गौणार्थस्य न पृथङ्निर्देशः ।
इह व्यञ्जनाया अभिधालक्षणयोः साहचर्य्यकथनप्रस्तावात् शब्दमात्रशक्तित्ववचनमुपलक्षणम् ।
व्यञ्जनाप्रस्तावे लक्षणाप्रस्तावे तु भट्टमते “सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य चऽ; इति वक्ष्यति ।
ता अभिधाद्याः ।
तत्र सङ्केतितार्थस्य बोधनादग्रिमाभिधा ।
टीका
विज्ञप्रिया:
(वि, ड) तत्राभिधालक्षणमाह–तत्र सङ्केतितार्थस्येति ।
अभिधेति अभिधीयते बोध्यते इति योगार्थ एव लक्षणम्; तत्र कस्यार्थस्य बोधनात्तादृशो योगार्थ इत्यत्राह सङ्केतितेति ।
सङ्केतो वृत्तिर्न त्वभिधा, आत्माश्रयापत्तेः ।
ततस्तद् ग्रहार्थे कारितम् ।
तत्र कर्मणि क्तप्रत्ययेन गृहीतवृत्तिकस्यार्थस्येत्यर्थः ।
एवं चागृहीतवृत्तिकार्थबोधिका व्यञ्जना कथं वारितेति वाच्यम् ।
गृहीततद्वृत्तिकस्योत्यर्थातः ततश्च लक्षणायमतिव्याप्तिः स्यादित्यत आह—अग्निमेति ।
प्रथमगृहीतेत्यर्थः ।
लक्षणा तु शक्तिग्रहोत्तरं बाधावतारे सत्येव गृह्यते ।
अत एव व्याख्यास्यति–शत्त्यन्तरानन्तरितेति ।
केचित्तु तिसॄणां वृत्तीनाम् अग्रोक्तेत्यग्रिमपदार्थं व्याचक्षते ।
तन्न ।
तद्भङ्ग्याभिधाभिधेत्येवमनन्वयापत्तेः; शक्त्यन्तरानन्तरितेति व्याख्यानुपपत्तेश्च ।
उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य “गामानय” इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालो ऽस्य वाक्यस्य “सास्नादिमत्पिण्डानयनमर्थः” इति प्रथमं प्रतिपद्यते, अनन्तरं च “गां बधान” “अश्वमानय” इत्यादावावापोद्वापाभ्यां गोशब्दस्य “सास्नादिमानर्थः” आनयनपदस्य च “आहरणमर्थः” इति सङ्केतमवधारयति ।
टीका
विज्ञप्रिया:
(वि, ढ) तत्र वृद्धव्यवहारदर्शनार्थः सङ्केतग्रहः; तत् प्रकारं दर्शयति–उत्तमेति ।
मतमाश्रित्य व्याचष्ठे–उत्तमेति ।
णध्यमं वृद्धम् ।
बालो व्युत्पिसुः ।
वाक्यस्याखण्डस्येत्यर्थः ।
सास्त्रादिमत् पिण्डानयनमस्य खण्डार्थः ।
नतु प्रत्येकं गोशब्दस्य सास्त्रादिमान्, पिण्डः ।
आनयनस्य आहरणमिति प्रतिपद्यते जानाति ।
अस्य वाक्यस्येति ।
अनेन प्रथमं वाक्यवाक्यार्थयोः शक्तिग्रहो दर्शितः ।
आवापः प्रतिज्ञा, उद्वापः उद्धारः ।
आवापोद्वापौ श्रुतपदत्यागेन तत्स्थाने पदान्तरश्रुतिः ।
लोचना:
(लो, ऊ) क्रमेणाभिधादीनां स्वरूपमाह-तत्रपि एतत् कारिकार्थमन्विताभिधानअयमर्थः-शब्दतदर्थयोर्वाच्यवाचकत्वे व्युत्पन्नानामेव वाक्यार्थप्रतीतिः, व्युत्पत्तिश्च वृद्धप्रयोगादेव, स च वाक्यरूप एव, वाक्यं चान्वितबोधनियतम् ।
ततश्चोपदेशकले ऽन्वित एव सम्बन्धग्रहणमिति ।
ननु तर्हि वाक्यभागरूपेषु पदेषु पदार्थबोधव्यतिरेकेण भिन्नवाक्यनिष्टेषु पदेषु कथमर्थावबोध इत्यत आह—अनन्तरं चेति ।
अयमाशयः—यद्यपि वृद्धव्यवहारपूर्विकैव सर्वा व्युत्पत्तिः, वृद्धव्यवहारश्च वाक्येनैव, तथापि यस्य पदरूपस्य वाक्यभागस्य बोधे यस्यार्थभागस्यावापः, यदुद्धारे चोद्धारस्तस्मेन् पदार्थे तस्य पदस्य शक्तिरावापोद्धरदर्शनेनैवानुगृहीततयार्ऽथापत्त्यावगम्यत इति ।
एवं चात्र पक्षे प्रत्ययानुमानार्थापत्तिभिः प्रमाणैः सङ्केतग्रह इति सूचितम् ।
यदाहुः—
“शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥
अन्यथानुपपत्त्या च बोधच्छक्तिं द्वयात्मिकाम् ।
अर्थापत्त्या च बुध्येत सम्बन्धं त्रिप्रमाणकम्” ॥
इति ।
अस्य ह्यर्थः–शब्दो गामानय इत्यादिवाक्यम्, वृद्धौ प्रयोजकप्रयोज्यौ, अभिधेयो गवानयनादिः ।
तान् श्रोता प्रत्यक्षेण पश्यति जानाति ।
अनुमिति शरीरं च-येयं प्रयोज्य वृद्धस्य प्रवृत्तिः सा एतदनुगुणबुद्धि पूर्विका; प्रवृत्तित्वात्; मदीयैवंविधप्रवृत्तिवत् ।
सा च प्रवृत्तिरेतत्प्रयोगजन्या; एतदन्वयव्यतिरेकानुविधानादिति द्वयमाश्रयभूतस्य वाक्यस्य वाचकत्वनियमनम्, विषयभूतस्य वाच्यत्वनियमनम् आत्मा-स्वरूपं यस्याः तथाभूतां
शक्तिं वाचकवाच्यत्वरूपं सम्बन्धम् अन्यथानुपपत्त्या अर्थात् प्रयोजकवृद्धप्रवृत्तेर्जानाति ।
नन्वेवं भिन्नवाक्ययोगात् प्रतिवाक्यं व्युत्पत्तिरेवेक्षणीया, सावाच्या दुरुपपाद्येति शब्दव्यवहारेच्छेदे इत्यत आह–अर्थापत्त्या च इति ।
अत्र चकारेण बोधे तु शक्तिं दूयात्मिकामित्यस्या परामर्शः ।
अवबुध्यते इति पाठे त्वर्थत एव तत् परामर्शः ।
एवं चायमर्थः; गृहीतसङ्केतवाक्यभागरूपस्य तदर्थद्वयात्मिकां शक्तिं वाच्यवाचकसम्बद्धाम् अवापोद्धारदर्शनानुगृहीततया अर्थापत्त्या जानातीति ।
अर्थस्तु वाक्यवाक्यार्थयोः वाच्यवाचकत्वसम्बन्धिनि बोधने एकार्थापत्तिः ।
पदतदर्थयोश्चापरेति द्वयोरप्यर्थापत्त्योः सामान्यत एकतयागणनम् ।
क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा–
“इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति” इत्यत्र ।
क्वचिदाप्तोपदेशात्, यथा–
“अयमश्वशब्दवाच्यः” इत्यत्र ।
टीका
विज्ञप्रिया:
(लो, ऋ) क्वचिदेकेनैवोपमानेन प्रमाणेन सङ्केतग्रहं दर्शयति-क्वचिच्चेति ।
अयमर्थः–त्रिधा खलु उपमानप्रमाणव्यवस्थितिः; यदाहुः–“सादृश्यं धर्ममात्रं च वैसादृश्यं च भेदतः"इति; तत्र सादृश्ये गोसदृशो गवयः ।
वैसादृश्ये काकविसदृशः कोकिलः ।
धर्ममात्रे प्रकृतमेव ।
उपादेयाद्युदाहरणम्–अत्र हि प्रभिन्नकमलोदरे मधुपातृत्वधर्मप्रतिपादकैः पूर्वावधारितसङ्केततया प्रसिद्धैः पदैः समभिव्याहारत् मधुकरपदार्थो भ्रमर इति सङ्केतमवधारयति ।
एतच्च उपलक्षणम्; तेन गोसदृशो गवयः काकविसदृशः कोकिल इत्यनयोरुपमानप्रमाणेन सङ्केतग्रहः सूचितः क्वचित् शब्दप्रमाण इत्यत आह—क्वचिदिति ।
आप्तो विश्वस्तः, स च निर्द्धारितवचनः ।
तेनायमश्वशब्दवाच्य इत्युक्तो ऽप्यश्वार्थं सङ्केतं गृह्णाति ।
तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता
टीका
विज्ञप्रिया:
(लो, ॠ) अग्रिमेति–कारिकापदार्थः शक्त्यन्तरानन्तरितेति ।
तेन लक्षणाव्यञ्जनयोरस्य वैपरीत्यं सूचितम् ।
लक्षणा हि अभिधान्तरितैव; व्यञ्जना यत्र लक्षणा नास्ति तत्राभिधान्तरिता ।
तद्द्वितीयान्तरिता, यद् वा, अग्रिमेत्यनेन यन्नामा यत्र चैत्रादिः तन्नामाविषयतयापि स इत्युक्तप्रकारादाश्रित चैत्रेत्यादिनान्ना विषयोदेरिव सान्तरायसङ्केतिताद्वैतलक्षणं सूचितम् ।
शक्तिरभिधा नाम ।
टीका
विज्ञप्रिया:
(वि, ण) क्वचिच्चेति—समभिव्याहारो ऽन्वयित्वेनैकवाक्ये निर्द्देशः ।
प्रभिन्नेति– अत्र मधुपदं पिबतिपदं च प्रसिद्धम् ।
केनापि कृतोप्यगृहीतशक्तिकस्य मधुकरपदस्यसमभिव्याहृतमधुपानान्वयित्वात् भ्रमरे शक्तिर्गृह्यते ।
तं च सङ्केतितमिति–तत्तद्ग्राहकगृहीतवृत्तिकमित्यर्थः ।
शक्त्यन्तरानन्तरितेति–शक्तिवृत्तिस्तद्ग्रहानन्तरितेत्यर्थः ।
इयम् आग्रिमपदव्याख्या ।
सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ॥ विस्स्द्_२।४ ॥
जातिर्गोपिण्डादिषु गोत्वादिका ।
गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः ।
शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति ।
द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहर-डित्थडवित्थादयः ।
क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः ।
एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः ।
एष्वेव हि व्यक्तेरुपाधिषु सङ्केतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् ।
टीका
विज्ञप्रिया:
(वि, त) ननु सङ्केतितोर्ऽथः किं धर्मो धर्मो वा इत्यत्राह–सङ्केतितेति ।
शब्दभेदेन सङ्केतग्रहविषयोर्ऽथो भिन्न इत्युक्तक्रमेण ।
विशेषाधानमितरतो वैलक्षण्यबोधजनकम्; एतद् रूपो यो वस्तुधर्मः स सिद्धो नित्य इत्याह–सिद्धो वस्तुधर्म इति—एतन्मेत गुणा अपि नित्या एव—उत्पत्तिविनाशप्रतीतिस्त्वाविर्भावतिरोभावरूपैव ।
गुणानां विशेषाधानं ग्राहयति–सुक्लादयोहि इति–व्यावर्त्तयन्ति विलक्षणतया बोधयन्ति हरिहरेति ।
इदं च बाल्याद्यवस्थाभेदेन व्यक्तिभेदानङ्गीकारे ।
तदङ्गीकर्त्तॄणां मते तु अयमपि जातिशब्द एव ।
आकाशविन्ध्यमन्दरादिशब्दा एकैकव्यक्तिद्रव्यवाचका बोध्याः ।
क्रिया इति–साध्यरूपाः जन्यरूपा महाप्रलये परमाणूनामपि निष्क्रियत्वेन क्रियाया न नित्यत्वम्, अतस्तस्या जन्यत्वमेवेत्यतस्तस्यानाविर्भावतिरोभावकल्पना ।
अपाकजरूपाणि परमाणुवृत्तीनि–नित्यान्येव इत्यतस्तद्वृत्तिपदार्थविभाजकोपाधिकत्त्वरूपं नित्यत्वं सर्वगुणानामेवेत्यभिप्रायः ।
एष्वेवेति–एषु क्रियारूपवस्तुधर्मेषु बोध्येषु पाकादिशब्दवाच्यो ऽधिश्रयणावश्रयणान्तादिक्रियाकलाप इत्यर्थः ।
अन्यथानेकक्रियाघटितपाके का क्रियापदधात्वर्थः स्यादिति भावः ।
एष्वेवेति–द्रव्यंविना एषु व्यक्तेरुपाधिषुइत्यर्थः ।
आनन्त्येति—गवादिव्यक्तीनाम् आनन्त्येन तत्र सर्वत्र शक्तिग्रहासम्भवादित्यर्थः ।
यदि च एकव्यक्तावेव सङ्केतग्रह इत्युच्यते तदाह—व्यभिचारेति ।
यद्व्यक्तौ सङ्केतो गृहीतस्ततभिन्नस्तत्सजातीयव्यक्तावपि स्वरूपोद्बोधात् कारणं शक्तिग्रहं विनापि कार्य्यबोधाद् व्यभिचारजोष इत्यर्थः ।
लोचना:
(लो, ऌ) इह केचिदाहुः; जातिरेव पदार्थः, केचित् जातिव्यक्ती, केचिद् व्यक्त्याकृतिजातय इत्यादीनि मतान्तराणि परिहृत्य सर्वेषां वाङ्मयाना व्याकरणमूलत्वात् अलङ्कारप्रन्थेषु च प्रायेण तदनुगतत्वेनैव व्यवहाराच्च महाभाष्यकारमतमाश्रित्याह—सङ्केत इति ।
गुणपदार्थं विवृणोति–गुण इति ।
विशेषाधानहेतुरिति जातेर्व्यवच्छेदः ।
सिद्ध इति क्रियायाः ।
गुणानां विशेषाधानहेतुत्वोपपत्तिमाह–शुक्लादय इति ।
गवादिकं जात्या लब्धगोव्यवहारयोग्यताकम् ।
द्रव्येत्यादि ।
हेतुं विनापि अयं डित्थः डवित्थ इत्यादिरूपेणं शृङ्गग्राहिकया वक्तृसङ्केतेन व्यक्तिषु सान्निवेशितः ।
सजातीयशून्ये डित्थाद्यर्थोपस्थापकः शब्दः सङ्केतस्य विषय इति ।
पूर्वापरीभूतः प्रधानक्रियाया अवयवरूपतया कार्य्यकारणभूतेन सन्तानीभूतः ।
एष्वेवेति—एषु जात्यादिषु ।
इह च द्रव्यस्योपाधिविषयत्वासम्भवे ऽपि तत्सञ्ज्ञायाः उपाधित्वेन तत्त्वमुपचारात् ।
डित्थाद्यर्थे चानन्त्यव्यभिचाराभावात् उपाधिं विनैव सम्भवति वाच्यवाचकसम्बन्धसमयग्रह इति नोपाधिरपेक्ष्यते ।
वक्तृस्वेच्छाकल्पितस्य सञ्ज्ञाशब्दस्य स्वप्रवृत्तावुपाध्युपगमे पुनरात्माश्रयदोषः ।
तथापि द्रव्यसञ्ज्ञाया अप्युपाधित्वं प्रतीत्यनुरोधेनोक्तम् ।
अत एव गुणद्रव्यकियासु चेति द्रव्यकियासु चेति द्रव्यस्य सङ्केतविषयत्वमुक्तम्, तत्रानन्त्यव्यबिचारदोषापाताभावात् ।
आनन्त्येति-व्यक्तीनामनन्तत्वात् प्रत्येकं च रेखोपरेखादिसंस्थानविशेषस्य च भिन्नत्वात् तत्राशक्यः सभयग्रह इति ।
नन्वेवं गवादिपदेन सङ्केतितत्वात् जातावन्तर्हितायां कथं व्यक्तिप्रतीतिः ।
अविनाभावस्यानुसन्धानमन्तरेणाक्षेपकत्वाभावात् ।
यथा वा धूमादिगतस्य वह्न्यादेरविनाभावानुसन्धानं चात्रानुपलब्धिबाधितम्; तत्रानुपयोगितया व्यक्तेः शब्दबोधितत्वं विना शाब्दे ऽन्वये प्रवेशासम्भव इति जात्यभिधायके शब्दे तद्बोनार्थं व्यञ्जनैव वृत्तिरूपासितुमुचितेति रहस्यम् ।
एवं च जातिमात्रसङ्केतपक्षे च निर्विवादम् ।
किं च संशयापगमार्थम् उपात्तानि पदानि संसर्गस्य मुख्याङ्गं संसृज्यमानं व्यक्तिरूपं साक्षान्न बोधयन्ति, बहिरङ्गन्तु तदुपाधिभूतं सामान्यमेव बोधयन्ति, इत्यसङ्गतम् ।
ये त्वाहुः, “व्यक्तिसध्रीचीनायामेव जातौ सङ्केतऽ; इति तैरपि प्रकृतस्य लक्षणस्यासङ्केतितत्वात् सङ्केतितभेदानामभावात्, प्रकृतसंसर्गयोग्यव्यक्तिप्रतीतौ शक्त्यन्तरमवश्यमभ्युपेयम् ।
सामान्यस्य सर्वविशेषत्वाङ्गीकारात् सङ्केतेन सर्वविशेष्यज्ञाने तु सर्वस्यापि सर्वज्ञत्वापत्तिः ।
प्रथमोद्देशकाले तु सर्वव्यक्तीनां साम्मुख्याङ्गीकारतया सामान्यलिङ्गितया प्रत्यङ्गीकारे पुनराधुनिकस्यापि स्वलक्षणस्य प्रथमोपदेशकालवत् सम्मुखीकारेणैव प्रतीतिः स्यात् ।
ततश्चान्वयोपपादिकायाः साक्षात् प्रतीतेः पदस्य शक्त्यन्तरं विना किं बीजभित्यलं बहुना ।
अथ लक्षणा–
मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ विस्स्द्_२।५ ॥
टीका
विज्ञप्रिया:
(वि, थ) लक्ष्यो लक्षणया ग्राह्यः इत्युक्तत्वाल्लक्षणाया लक्षणमाह—मुख्यार्थेति ।
मुख्यार्थः शक्यार्थः, तत्रापरपदार्थस्यान्वयबाधे ज्ञाते सतीत्यर्थः ।
गङ्गायां घोष इत्यादौ मुख्यार्थस्य गङ्गाया अबाधात्; किन्तु अपरपदार्थस्य घोषान्वयस्यैव बाधात् ।
तद्युक्तोमुख्यार्थसम्बद्धः अन्यो मुख्यार्थादन्यः ।
यथा वृत्या ज्ञातया इति शेषः ।
न केवलं मुख्यार्थबाधज्ञानाधीनं तज्ज्ञानम्, अपि तु रूढेः प्रयोजनाद् वापीति ।
—रूढिः भूरिकालप्रयोगः ।
तथा च एतत्त्रितयज्ञापितया या वृत्त्या मुख्यार्थादन्यो मुख्यार्थसम्बद्धोर्ऽथः प्रतीयते असौ शक्तिर्वृत्तिर्लक्षणेत्यर्थः ।
सा चार्पिता वक्तृपुरुषेण लक्ष्यार्थविषयतया-जनितेत्यर्थः, तथा च वक्तृतात्पर्य्यत्मिकैव सा बोध्या ।
नतु नैयायिकोक्तशक्यसम्बन्धरूपा; तस्या ववत्रान्येन वार्पितत्वाभावात् ।
या तु व्यङ्ग्यार्थे तात्पर्य्यख्या वृत्तिर्ध्वनिकेनोक्ता या च पदार्थद्वयसंसर्गे तात्पर्य्याख्या वृत्तिः प्राचीवनैयायिकैरुक्ता सा नैतात्त्रितय-ज्ञापिता; इत्यतो भिन्नैव सा ।
मुख्यार्थे ऽपरपदार्थान्वयबोधे ऽपि तात्पर्य्यविषयस्य तादृशान्वयस्य मुख्यतावच्छेदकरूपेण बोधानुपपत्तिरेव; तेन छत्रिणो गच्छन्ति कुन्ताः प्रविशन्तीत्यत्र मुख्यार्थयोः छत्रिकुन्तयोः गमनप्रवेशान्वयसत्त्वे ऽपि निरुक्तमुख्यार्थबाधसत्त्वान्नाव्याप्तिः ।
छत्रिसार्थवाहित्वेन किन्तित्वेन च रूपेणान्वयस्य तात्पर्य्यविषयस्य मुख्यतावच्छेदकच्छत्रित्वकुन्तत्वाभ्यामनुपपत्तेः ।
अत्र च तात्पर्य्यविषयत्वानुपादाने तु छत्रिकुन्तयोर्गमनप्रवेशान्वयस्य मुख्यतावच्छेदकच्छ त्रित्वकुन्ताभ्यामुत्पद्यमानत्वात्–तत्राव्याप्त्यापत्तेः ।
एवं मुख्यतावच्छेद्रकरूपेण इत्यनुपादाने ऽपि तयोरेवाव्याप्तिः स्यात् ।
तात्पर्य्यविषयस्य छत्रिसार्थवाहिनो गमनान्वयस्य कुन्तिनः प्रवेशान्वयस्य च लक्षतावच्छेदकच्छत्रिसार्थवाहित्वकुन्तित्वाभ्यामुपपत्तेः ।
अन्योर्ऽथ इत्यत्रापि मुख्यतावच्छेदकान्यधर्मावाच्छिन्न इत्यर्थः ।
तेन घटपदस्य नीलघटे लक्षणायां तस्य घटन्यत्वाभावे ऽपि नाव्याप्तिः ।
मुख्यतावच्छेदकघटत्वान्यनीलघटत्वावच्छिन्नत्वात् ।
लोचना:
(लो, ए) अथेति-अथाभिधानन्तरं लक्षणोद्देशक्रमप्राप्ता लक्षणा निरूण्यत इति शेषः ।
मुख्यार्थेति—मुख्यार्थो गङ्गादिशब्दस्य जलमयादिः तस्य च आधेयपदार्थान्तरे ऽन्वयानुपपत्तौ, न च यतः कुतश्चित् यदेव तदेव लक्ष्यते-अतिप्रसङ्गादित्यत आह—तद्युक्त इति ।
तेन मुख्यार्थेन येन केनचित् सम्बन्धेन सम्बद्धः अन्योर्ऽथः तटादिः यया शब्दशक्त्या प्रतीयते बोध्यते; न च सम्बन्धमात्रादपि लक्ष्यार्थप्रतीतिः अपि प्रसङ्गादेव इत्याह–रूढेः प्रयोजनाद् वा ।
क्वचिद् रूढेः अनादिवृद्धव्यवहारप्रसिद्धेः क्वचित् पावनत्वाद्यतिशयं प्रयोजनमुद्दिश्य ।
अर्पितपदार्थश्च वृत्तावेव सुव्यक्तः ।
एवं चात्र लक्षणायां हेतुत्रयं मुख्यार्थबादः; च तत् सम्बन्धः, क्वचित् रूढिः क्वचित् प्रयोजनं चेति ।
“कलिङ्गः साहसिकः” इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे ।
ञसम्भवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च “गङ्गायां घोषः” इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृते ऽसम्भवन् स्वस्य सामीप्यादिसम्बन्धसम्बन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम ।
पूर्वत्र हेतू रूढिः प्रसिद्धिरेव ।
उत्तरत्र “गङ्गातटे घोषः” इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् ।
हेतुं विनापि यस्य कस्यचित्सम्बन्धिनो लक्षणो ऽतिप्रसङ्गः स्यात्, इत्युक्तम्–
“रूढेः प्रयोजनाद्वासौ” इति ।
टीका
विज्ञप्रिया:
(वि, द) व्याचष्टे—कलिङ्ग इति ।
स्वाभाविकेतरेति ।
गवादिशब्दस्य स्वभावसिद्धा वृत्तिः शक्तिस्तद्भिन्ना ।
स्वाभाविकस्यापि पुनरुक्तत्वगौरवादाह—ईश्वरमात्रनियमितेतरेत्यर्थः ।
मात्रगर्भत्वाकरणे वक्तृतात्पर्य्ययापि ईश्वरनियतत्वात्तस्य च तद्भिन्नत्वानुपपत्तेः ।
ईश्वरानङ्गीकर्त्तृमीमांसकमते तु शक्तिरूपादतिरिक्तपदार्थान्तरादितरेत्यर्थः ।
शक्तिर्वृत्तिः ।
पूर्वत्रेति–कलिङ्गः साहस्क इत्यत्रेत्यर्थः ।
प्रसिद्धिरति भूरिकालप्रयोग इत्यर्थः ।
अतिप्रसङ्ग इति-इयं कविप्रयोगार्हा लक्षणा व्युत्पाद्यते ।
रूढिप्रयोजनशून्या, लक्षणा तु नेयार्थ इति वक्ष्यते, सा च काव्ये दोष एव ।
तत्राति प्रसङ्गः स्यादित्यर्थः ।
लोचना:
(लो, ऐ) उदाहरणदर्शनपूर्वकं कारिकार्थं वृत्त्या विशदयति–कलिङ्ग इति ।
स्वार्थे वाच्यरूपे ऽसम्भवन् देशविशेषादिरूपार्थस्याचेतनतया साहसिकाद्यर्थेनान्वयानुपपत्त्यानुपपद्यमानप्रयोगः कुत इत्याह–जलमयादिरूपार्थस्य वाचकत्वात् ।
अयमर्थः–गङ्गदिशब्दो यस्मात् जलमयादिरूपमेवार्थं समयस्मरणाकातरः सन् स्मारयति, तस्माद् वाच्यरूपस्य जलाद्यर्थस्य घोषाद्यर्थेन सहान्वयानुपपत्त्या प्रकृते वाचकत्वेन तस्य प्रयोगो न घटत इति ।
स्वस्यात्मीयस्य वाक्याद्यर्थस्य जलमयादेः, तस्याक्षेपमाकृष्योपनयनम् ।
सम्बन्धस्यान्वयस्य, तद्धि तटशब्दार्थं यया बोधयतीति सम्बन्धः ।
भट्टमते स्वाभाविकी अभिधा, तदन्या पदस्य शक्तिर्व्यापारः, तेषामीश्वरानादरात् सङ्केतस्यानादिव्यवहारप्रवृत्तिस्वीकारात् ।
ईश्वरानुद्भावितेति नैयायिकमतम् ।
तदनयोरेकतरा स्वाभाविकी, इतरा ईश्वरानुद्भावितेति द्विधा व्याख्यातम् ।
पूर्वत्र कलिङ्गः साहसिक इत्यत्र, उत्तरत्र गङ्गायां घोष इत्यादौ ।
गङ्गातट इत्यादौ तटस्य गङ्गाशब्देन प्रतिपादनात् गङ्गातादात्म्यप्रतीतेः गङ्गार्थनिष्टानां नटार्थनिष्ठातिशयितानां शीतत्वपावनत्वादीनां प्रतीतिर्लक्षणायाः फलमित्यर्थः ।
केचित्तु “कर्मणि कुशलः” इति रूढावुदाहरन्ति ।
तेषामयमभिप्रायः–
कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृते ऽसम्भवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति ।
तदन्ये न मन्यन्ते ।
कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वे ऽपि दक्षरूपस्यैव मुख्यार्थत्वात् ।
अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् ।
व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे “गौः शेते” इत्यत्रापि लक्षणा स्यात् ।
“गमेर्डेः” (उणादि–२-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ।
टीका
विज्ञप्रिया:
(वि, ध) काव्यप्रकाशकृदुक्तं रूढिलक्षणोदाहरणं दूषयितुमुत्थापयति–केचित्तु इति ।
प्रकृते असम्भवन्निति–कर्मणीत्यस्य लौकिककर्मपरत्वेन तन्निमित्तं कुशग्रहणमसम्भवदित्यर्थः ।
दक्षस्यैव मुख्यार्थत्वादिति—भूरिप्रयोगेण दक्षत्वस्य लघुत्वेन च तदच्छिन्नस्यैव शक्यत्वेन मुख्यत्वादित्यर्थः ।
अन्यद्धि इति—व्युत्पत्तिर्योगार्थबाधः ।
प्रवृत्तिः प्रयोगः ।
तथा च तेनैव निमित्तेन शब्दस्य प्रवृत्तेस्तदवच्छिन्न एव मुख्यार्थ इत्यर्थः ।
लक्ष्यार्थे क्वचित् प्रयोगस्तु तात्पर्य्यविशेषसत्वे एव; यथा दक्षे शक्तस्य कुशलपदस्य गृहविशेषे शक्तस्य मण्डपपदस्य च दैवकर्मणि कुशल इति रोगी मण्डप इति च तयोदवकर्मरोगिपदसमभिव्याहरस्य तात्पर्य्यग्राहकत्वात् ।
गौः शेते इत्यत्र शेते इति सुप्तगोः- प्रदर्शनार्थमेव ।
गौरस्तीति सुप्तगवि प्रयोगे ऽपि लक्षणा स्यादिति बोध्यम् ।
अयं च प्रतिबन्धः न सर्वसम्मतः ।
उणादिप्रत्ययानां व्युत्पत्तेः प्रायिकत्वेन तया प्रयोगाभावात् ।
अत एव चिन्तामणिकृतोक्तं “पञ्चपादिकालभ्यान् उणादिप्रत्ययान्"एकेनैव “उणादयो बहुलम्ऽ; इति सूत्रेण वदतः पाणिनेः अयमभिप्रायो यदुणादिप्रत्ययानां प्रायिक्येव व्युत्पत्तिरिति, तथा च न तया प्रयोगः ।
तथा च गोत्वेनैव रूपेण रूढिशक्त्या गोपदं स्वपदगच्छद् गोसाधारण्येन प्रयुज्यते, न उणादि-प्रत्ययव्युत्पत्त्या इति ।
तद्भेदानाह–
टीका
लोचना:
(लो, ओ) केचित्त्विति—प्रकृते कर्मणि कुशल इत्यनेनापि अर्थतयासम्भवन् अनुपपत्तिर्बाधितः ।
विवेचकरूपस्य मुख्यार्थत्वादित्यनेन मुख्यार्थबाधाभावादत्र कथं लक्षणेत्यर्थः ।
गोशब्दो यद्यपि गमनार्थो व्युत्पत्तिनिमित्तं तथापि गोत्वापत्तिकियैव प्रवृत्तिनिमित्तम् अत एव गच्छत्यागच्छति गवि गोशब्दप्रयोगः ।
यदाह, घटशब्दप्रसङ्गे"घटम्न च तदात्मत्वापत्तिरूपा किया मताऽ; इति ।
तद्भेदानिति;–तयोः रूढिप्रयोजनाभ्यां द्विधोक्तयोर्लक्षणयोर्भेदान् विशेषान् भिद्यते ऽनेन इति भेद इति व्युत्पत्त्या ।
मुख्यार्थस्येतराक्षेपो वाक्यार्थे ऽन्वयसिद्धये ।
स्यादात्मनो ऽप्युपादानादेषोपादानलक्षणा ॥ विस्स्द्_२।६ ॥
टीका
विज्ञप्रिया:
(वि, न) तद्भेदानाह—मुख्यार्थस्येति ।
वाक्यार्थे बोध्ये, मुख्यार्थस्य तात्पर्य्यविषयान्वयसिद्धये इतरस्य अमुख्यार्थस्याक्षेपः प्रत्यायनमित्यर्थः ।
अन्वयवाक्यार्थयोरभेदात् वाक्यार्थे मुख्यार्थस्यान्वयसिद्धये इति नान्वयः ।
अत्रापि ययैति शेषः ।
अस्या उपादानसञ्ज्ञाव्युत्पत्तिमाह—स्यादात्मनो ऽपीति ।
आत्मनो मुख्यार्थस्यापि ।
अत्र तात्पर्य्यविषयत्वं यदि अन्वयविशेषणं न क्रियते तदा छत्रिणे गच्छन्ति कुन्ताः प्रविशन्ति इत्यादिषु अव्याप्तिः स्यात्; अत्र तात्पर्य्याविषयस्य शुद्धशक्यार्थस्यान्वयसिद्धिसम्भवेन तदर्थमितिरेषामच्छत्रिकुन्तादीनामनाक्षेपात् ।
इतरसाहित्येनान्वये तात्पर्य्यवशादेव शुद्धमुख्यान्वयस्य बाधो ऽवधेयः ।
तद्बाधो ऽपि मुख्यतावच्छेदकरूपेणासम्भवरूप एव; लक्षतावच्छेदकरूपेण तु नासम्भव इति बोध्यम् ।
रूढावुपादानलक्षणा यथा–
“श्वेतो धावति” ।
प्रयोजने यथा–
“कुन्ताः प्रविशन्ति” ।
अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनो ऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते ।
टीका
विज्ञप्रिया:
(वि, प) लक्षणसामान्यलक्षणोक्तं रूढिप्रयोजनान्यतरहेतुकत्वमत्र घटयन्नुदाहरति—रूढावुपादानेति ।
श्वेतः श्वेतगुणवान् ।
कुन्ता इति कुन्तवन्त इत्यर्थः अनयोर्मुख्यार्थान्वयबाधं दर्शयति ।
अनयोरिति ।
श्वेतादिभिरित्यादिपदात् नीलादिगुणानां कुन्तादिभिरित्यादि पदात् अस्त्रान्तराणां च परिग्रहः ।
अचेतनतयेति ।
इदमेतदुदाहरणाभिप्रायेणैवोक्तम् ।
वस्तुतस्तु छत्रिणो गच्छन्ति इत्यत्र छत्रिणश्चेतनत्वे ऽपि तात्पर्य्यविषयच्छत्र्यन्वयत्त्यालाभ एव सर्वसाधारणो मुख्यार्थबाधो बोध्यः ।
अश्वादय इत्यादिपदच्छ्वेतगवादेः, पुरुषादयः इत्यादिपदात् कुन्तधारिवत् इतरस्य परिग्रहः ।
पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् ।
अत्र च मुख्यार्थस्यात्मनो ऽप्युपादानम् ।
लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।
इयमेवाजहत्स्वार्थेत्युच्यते ।
टीका
विज्ञप्रिया:
(वि, फ) प्रयोजनाभावादिति–रूढिसत्त्वादेन प्रयोजनाननुसन्धानात् तदभावः ।
प्रयोजनं प्रयोजनीभूतज्ञानविषयः ।
एवं रीत्यैव पावनत्वादिरपि प्योजनपदार्थो बोध्यः ।
लक्षणलक्षणायामिति—वक्ष्यमाणायामिति शेषः ।
परस्यैवेति एवकारान्मुख्यार्थव्यवच्छेदः ।
उपलक्षणमुपस्थापनम् ।
लोचना:
(लो, औ) मुख्यार्थेति—मुख्याभिधेयोर्ऽथः तस्य इतरः प्रकृतनिर्वाहौपायिकः, तस्याक्षेपः आकृष्य उपनयनम् ।
अन्वयसम्बन्धस्य सिद्धये निर्वाहाय ।
आत्मनो ऽप्युपादानात्, अयमर्थः, इह खल्वभिधया बोधितस्यापि श्वेतकुन्ताद्यर्थस्य पुनः पुरुषादेर्विशेषणतया लक्षणीयत्वेन उपादानमिति ।
अतिगहनत्वं-कुन्तयुक्ताः पुरुषाः प्रविशन्तीति अभिधानालभ्यम् ।
उच्यते-परैरिति शेषः ।
अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥ विस्स्द्_२।७ ॥
टीका
विज्ञप्रिया:
(वि, ब) लक्षणलक्षणामाह–अर्पणमिति ।
अत्र अर्पणमित्यत्र परत्रैवेति शेषः, स्वस्य परमात्रविषयता इत्यर्थः ।
नतु मुख्यार्थविषयतापीत्यर्थः ।
उपादानलक्षणायां तु मुख्यार्थस्यापि विषयता इति भेदः ।
स्वस्येत्यत्र यस्या इति शेषः ।
तथा च वाक्यार्थे बोध्ये परस्य अमुख्यार्थस्य अन्वयसिद्धये अन्वयबोधाय यस्या लक्षणायाः स्वस्य अर्पणं परमात्रविषयता; एषा लक्षणलक्षणेत्यर्थः ।
वाक्यार्थन्वययोरभेदाद्वाक्यार्थे परस्यान्वयसिद्धये इति तु नान्वयः ।
तादृशसञ्ज्ञाव्युत्पत्तिमाह—उपलक्षणेति ।
मुख्यार्थं विहायामुख्यार्थमात्रबोधनम् उपलक्षणं स्वस्य तद्धेतुत्वादित्यर्थः ।
रूढिप्रयोजनयोर्लक्षणलक्षणा यथा–
“कलिङ्गः साहसिकः” “गङ्गायां घोषः” इति च ।
अनयोर्हि पुरुषतटयोर्वाक्यार्थे ऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
टीका
विज्ञप्रिया:
(वि, भ) अत्र रूढिप्रयोजनहेतुकत्वे यथासङ्ख्यमुदाहरणद्वयमाह—कलिङ्ग इत्यादि ।
अत्र कलिङ्गः साहसिक इति न पाठः ।
किन्तु कलिङ्गः साहसं करोति इत्येव पाठः ।
साध्यवसानालक्षणाया उदाहरणप्रसङ्गे व्यक्तिर्भाविष्यतीत्यर्थः ।
उभयत्रैव मुख्यार्थं कलिङ्गरूपं देशं प्रवाहरूपां सङ्गा च विहाय तद्देशस्थपुरुषतत्तीरयोः परयोरन्वयप्रबोधाय पुरुषतरि-रूप-मात्र-विषयता लक्षणायाः ।
तद्दर्शयति—अनयोर्हेति ।
वाक्यार्थ बोध्ये पुरुषतटयोरन्वयसिद्धये इत्यन्वयः ।
समर्पयत इत्यत्र परमात्र इति शेषः ।
परमात्रं —विषयीकुरुत इत्यर्थः ।
कलिङ्गगङ्गाशब्दौ इत्यत्र कलिङ्गगङ्गाशबादपदं तन्निष्ठलक्षणाद्वयपरं यथा व्याख्यातार्थनुसारेण बोध्यम् ।
एवमुत्तरत्रपि व्याख्येयम् ।
लोचना:
(लो, अ) अर्पणं स्वस्य गङ्गादेः ।
परस्याङ्गस्य तटादिरूपलक्षणहेतुत्वात् सम्बन्धमात्रस्य इत्यर्थः ।
यथा वा–
“अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्” ॥
अत्रापकारादीनां वाक्यार्थे ऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति ।
अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः ।
इयमेव जहत्स्वार्थेत्युच्यते ।
टीका
विज्ञप्रिया:
(वि, म) प्रयोजनहेतुकत्वे उदाहरणान्तरमाह-यथा वा-उपकृतमिति ।
अपकारित्वेन अन्यतो ज्ञातं प्रतीयमुक्तिः ।
त्वया बहु उपकृतं तत्र किमुच्यत इत्यर्थः ।
यत्रेति पाठे तु तत्रेति पूरणीयम् ।
अपकारादीनामिति–अत्रादिपदाद् दुर्जनतादुः खितयोः परिग्रहः ।
फलम् अपकारद्यतिशय इति फलीभूतज्ञानविषय इत्यर्थः ।
एवमुत्तरोत्तरमपि बोध्यम् ।
इदं च न रुचिरमुक्तम् ।
लक्ष्यार्थातिशयस्य प्रयोजनत्वे रूढिलक्षणायामपि तत्सम्भवात् विशेषाभावापत्तेः ।
किन्तु अपकारदुर्जनत्वलक्षणयोः फलं सम्बोध्यस्य कौटिल्यं दुः खितलक्षणायास्तु कौटिल्यफलत्वम् ।
लोचना:
(लो, आ) अपकारार्दानामित्यादिशब्देन दुर्जनत्वदुः खितत्वे उपकृतादयं इत्यादिशब्देन सुजनत्वसुखितत्वे ।
अपकाराद्यतिशयः-स्वशब्दाभिधानालभ्यः ।
आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।
टीका
विज्ञप्रिया:
(वि, य) उपादानलक्षणलक्षणाद्वयं रूढिप्रयोजनद्वयहेतुकत्वेन चतुर्विधमुक्तम् ।
अधुनातच्चतुष्टयस्य द्वैगुण्येनाष्टविधमाह—आरोपेति ।
लक्ष्यार्थे प्रथमतः शक्यार्थाभेदारोप आरोपः ।
तस्यारोपस्य उत्कटत्वमध्यवसानम् ।
ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।
विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ॥ विस्स्द्_२।८ ॥
सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।
विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा ।
इयमेव रूपकालङ्कारस्य बीजम् ।
टीका
विज्ञप्रिया:
(वि, र) ते कीदृशत्वे भवत इत्यत्राह—विषयस्येति ।
विषय आरोपाधिकरणं लक्ष्यार्थः ।
तस्य अनिगार्ण्णस्य अनाच्छादितस्य अर्थात् स्ववाचकनामपदेन उक्तस्य अन्यतादात्म्यं शक्यार्थाभेदः ।
तत्प्रतीतिकृल्लक्षण सारोपा स्यादित्यर्थः ।
निगीर्ण्णस्य विशिष्य स्वावाचक-नामपदेन अनुक्तस्य तु साध्यवसानिका मतेत्यर्थः ।
अन्यतादात्म्यप्रतीतिश्च लक्षणज्ञानतः पूर्वं बोध्या ।
तत्प्रतीतिकृच्च यद्यपि समानविभक्तिकपदद्वयमेव, न तु लक्षणा; तथाप्यन्यतादात्म्यप्रतीतिपूर्वकप्रतितिकृदित्येवान्यतादात्म्यप्रतीतिकृद् इत्यस्यार्थः ।
न च साध्यवसानायां स्वावाचकनामपदेनानिर्द्देशे समानविभक्त्यन्तपदाभावात्, कथं तादात्म्यप्रतीतिकृदिति वाच्यम्, आख्यातेन लक्ष्यार्थस्योक्तौ तत् प्रतीतेः; तच्चाग्रे दर्शयिष्यते ।
लोचना:
(लो, इ) एवं चतुर्विधापि लक्षणा प्रत्येकं सारोपा साध्यवसाना इत्यष्टविधेत्याह–आरोपेति ।
अनिगीरार्णस्वरूपसामान्यतादात्म्यप्रतीतिरारोपः ।
विषयनिगरणे ऽभेदप्रतिपत्तिर्विषयिणो ऽध्यवसानम् ।
एवं स्वशब्दार्थनाम्ना गतार्थे ऽपि स्फुटीकरणाय लक्षणेन निर्द्दिशति–विषयस्येति ।
रूढावुपादानलक्षणा सारोपा यथा–
“अश्वः श्वेतो धावति” ।
अत्र हि श्वेतगुणवानश्वो ऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते ।
प्रयोजने यथा–
“एते कुन्ताः प्रविशन्ति” ।
अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् ।
टीका
विज्ञप्रिया:
(वि, ल) अश्वःश्वेत इति—अत्र श्वेतगुणवानश्वः लक्ष्यार्ऽथो ऽनिगार्ण्णो ऽश्वशब्देनैवोक्तत्वात् ।
श्वेतगुणश्वयोः समानविभक्त्या तादात्म्यप्रतीतिः ।
प्रयोजने यथा–इति उपदानलक्षणेति शेषः ।
एते कुन्ता इति; कुन्तानामविरलत्वमत्र प्रयोजनम् ।
कुन्तवान् लक्ष्यार्थः ।
एतत् पदेनोक्तत्वात् अनिगीर्ण्णः ।
अत्र सर्वनाम्नेति—काव्यप्रकाशे तु सर्वनाम्ना लक्ष्यार्थनिर्द्देशे विशिष्य स्वावाचककुन्तादिपदेनानुपादानात् साध्यवसानैव सेत्युक्तम् ।
विशिष्य स्वावाचकपदनिर्द्देश एव सारोपत्वात् ।
लोचना:
(लो, ई) अश्व आरोपविषयः ।
स्वसमवेत इत्यनेन समवायरूपस्य लक्षणाहेतोः स्वसम्बन्धस्य निगरणं श्वेतगुण आरोप्यमाणः ।
प्रयोजन इत्यनन्तरं पूर्वोक्ता उपादानलक्षणा सारोपेति अनुषज्यते ।
एवमुत्तरोदाहरणेष्वपि ।
सर्वनाम्ना एतत्
रूढौ लक्षणलक्षणा सारोपा यथा–
“कलिङ्गः पुरुषो युध्यते” ।
अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः ।
प्रयोजने यथा–
“आयुर्घृतम्” ।
अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते ।
अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् ।
यथा वा–
राजकीये पुरुषे गच्छति “राजासौ गच्छति” इति ।
अत्र स्वस्वामिभावलक्षणः सम्बन्धः ।
यथा वा–
अग्रमात्रे ऽवयवभागे “हस्तो ऽयम्” ।
अत्रावयवावयवि भावलक्षणसम्बन्धः ।
“ब्राह्मणो ऽपि तक्षासौ” ।
अत्र तात्कर्म्यलक्षणः ।
इन्द्रार्थासु स्थूणासु “अमी इन्द्राः” ।
अत्र तादर्थ्यलक्षणः सम्बन्धः ।
एवमन्यत्रापि ।
टीका
विज्ञप्रिया:
(वि, व) कलिङ्गः पुरुष इति—अत्र पुरुषपदेन लक्ष्यार्थोपादानात् अनिगीर्ण्णत्वम् ।
कलिङ्गत्वेन लक्षणा ।
प्रयोजने यथेति—लक्षणलक्षणेति शेषः ।
अन्यवैलक्षण्येनाव्यभिचारेणेति, अव्यभिचारः अन्यवेलक्षण्यं च हेतुरुक्तः ।
काव्यप्रकाशे तु आयुर्घृतमिति सारोपायमन्यवैलक्षण्यम् ।
आयुरिदमिति साध्यवसानायमव्यभिचार इति द्वयोः पृथक् प्रयोजनद्वयमुक्तम् ।
कार्य्यकारणभावरूपसम्बन्धेन सारोपां लक्षणामुक्त्वा सम्बन्धान्तरैरपि तां दर्शयति—राजर्कायेतीति ।
अत्र असावितिपदेन लक्ष्यार्थे पुरुषे निर्द्दिष्टे राज्ञो ऽभेदारोपात् सारोपा ।
एवमुभयत्रापि सर्वनाम्ना लक्ष्यार्थनिर्द्दशे तथात्वां बोध्यम् ।
स्थूणाः स्तम्भा इन्द्रध्वजरूपाः तादर्थ्यलक्षणः तत्पूजार्थतालक्षणः, अत्र इन्द्रवत् पूज्यत्वं प्रयोजनम् ।
निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना ।
अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ।
तदेवमष्टप्रकारा लक्षणा ।
टीका
विज्ञप्रिया:
(वि, श) इत्थं सारोपामुक्त्वा “निगीर्ण्णस्य मता साध्यवसानिकाऽ; इति कारिकाञ्चलं व्याचष्टे-निगीर्ण्णस्य पुनरिति ।
अस्याश्चतुर्ष्विति रूढिप्रयोजनद्वये उपादानलक्षणाद्वयं तद्द्वये लक्षणलक्षणाद्वयं चेति साध्यवसानायश्चत्वारोभेदाः ।
पूर्वोदाहरणान्येवेति रूढावुपादानलक्षणायाः—“श्वेतो धावतिऽ; इति प्रयोजने उपादानलक्षणायाः “कुन्ताः प्रविशन्तिऽ; इति यद्द्वयमुदाहृतं रूढौ लक्षणलक्षणायाः “कलिङ्गः साहसं करोतिऽ; इति प्रयोजने लक्षणलक्षणायां तु राजकीये पुरुषे गच्छति “राजासौ गच्छतिऽ; इति यदुदाहृतं तत्र इदं पदत्यागेन उदाहरणमित्यत एतानि चत्वारि साध्यवसानाया उदाहरणानीत्यर्थः ।
राजा गच्छतीत्यत्र राजवत् परिचारकवेष्टितत्वं प्रयोजनम् ।
एतेषु चतुर्षु हि कर्त्र्या ख्यातेनैव कर्तृलक्ष्यार्थस्य उपस्थापनात् नामपदेन तु अनुपस्थानान्निगीर्ण्णता ।
तस्मिंश्च प्रथमं शक्यार्थतादम्यारोपात् साध्यवसानत्वमिति बोध्यम् ।
प्रथमान्तोक्तकारके प्रथमान्तपदार्थस्याभेदान्वयत्युत्पत्तेः ।
गङ्गायां घोष इति तु लक्षणलक्षणोदाहरणं यद्दर्शेतं तत्तु न साध्यवसानोदाहरणम् ।
तत्र लक्ष्यार्थे तीरे प्रवाहतादात्म्यानारोपात् ।
एवं च रूढौ लक्षणलक्षणेदाहरणं कलिङ्ग इत्यादिकं यदुक्तं तत्र साहसिक इति प्रामादिकः पाठः ।
नामपदेन साहसिक इत्यनेन लक्ष्यार्थस्य पुरुषस्योपादानात् सारोपत्वेन साध्यवसानत्वाभावात् ।
किन्तु कलिङ्गः साहसं करोति इत्येव तत्र पाठः ।
इत्थमुपादानलक्षणालक्षणलक्षणयोः रूढिप्रयोजनहेतुकत्वेन चतुर्विधयोः सारोपासाध्यवसानिकारूपत्वेन द्वैगुण्यात् अष्टविधत्वम् ।
लोचना:
(लो, उ) एवमारोपे रूढिप्रयोजनयोरुदाहरणे चतुष्टयं दर्शयित्वा विषयव्याप्त्यर्थं सम्बन्धभेदेन उदाहरणान्याह–यथा वेत्यादि—राजासौ इत्यत्र पूर्ववत् अदः शब्देन विषयप्रकटनम् ।
अग्रेति ।
अत्र हस्तावयवे ऽग्रे ऽपि हस्तशब्दप्रयोगः, एकदेशदाहे ऽपि ग्रामो दग्ध इति वत् ।
अत्र इदंशब्दो राजा असौ इत्यत्र च अदः शब्दवत् ।
साध्यवसानालक्षणं विवृणोति–निगीरार्णस्येति–पूर्वोदाहरणानि श्वेतोधावति, कुन्ताः प्रविशन्ति, कलिङ्गः
साहसिकः, गङ्गयां घोषः ।
सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ॥ विस्स्द्_२।९ ॥
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।
टीका
विज्ञप्रिया:
(वि, ष) षोडशभेदानाह—सादृश्येतरेति ।
सादृश्येतरसम्बन्धाः कार्य्यकारणभावादिरूपाः पूर्वदर्शिताः सकला अष्टविधा अपि सुद्धाः शुद्धपरिभाषिताः ।
सादृश्यसम्बन्धात्तु ता अष्टविधा गौण्यः सादृश्यघटकरूपशक्यगुणयोगरूपयोगार्थेन गौण्यो गौणीपरिभाषिता इत्यर्थः ।
षोडशभेदिता अष्टद्वैगुण्यात् ।
लोचना:
(लो ऊ) एवमष्टविधापि लक्षणा प्रत्येकं शुद्धा गौणी चेति षोडशप्रकारेति दर्शयति—सादृश्येतरेति ।
वृत्तौ स्पष्टो लक्षणार्थः ।
ताः पूर्वोक्ता अष्टभेदा लक्षणाः ।
सादृश्येतरसम्बन्धाः कार्यकारणभावादयः ।
अत्र शुद्धानां पूर्वोदाहरणान्येव ।
टीका
विज्ञप्रिया:
(वि, स) पूर्वोक्तोदाहरणान्येव इति—श्वेतो धावतीत्यादीनि, इन्द्रार्था स्थूणा इत्यन्तानि सकलानि एव ।
तेषु एकत्रापि सादृश्यसम्बन्धाभावात् ।
रूढावुपादानलक्षणा सारेपा गौणी यथा–
एतानि तैलानि हेमन्ते सुखानि” ।
अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते ।
टीका
लोचना:
(लो, ऋ) एतानीति—अत्र तैलशब्दस्य तिलभवस्त्रेहमात्रवाचकत्वात् प्रकृते तस्य केवलस्य सुखमयत्वादिविवक्षणत् मुख्यार्थबादः; प्रयोजनाभावात् रूडिः उपादानलक्षणात्वं मुख्यार्थमुपादायैव इति वृत्त्या स्मारितम् ।
स्त्रेहेषु वर्त्तत इत्यनेन उभयोः स्त्रेहरूपत्वात् सादृश्यलक्षणः सम्बन्धः ।
एतानीति सर्वानम्ना सारोपात्वम्, एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् ।
प्रयोजने यथा–
राजकुमारेषु तत्सदृशेषु च गच्छत्सु"एते राजकुमारा गच्छन्ति” ।
टीका
विज्ञप्रिया:
(वि, ह) तिलभवस्नेहरूपं मुख्यार्थमिति ।
तिलस्येदमिति योगार्थवशात्तस्य मुख्यार्थत्वम्, तस्य चिक्कणताकारित्वेन सादृश्याश्रयं शक्यलक्ष्योभयमेवात्र तैल शब्दार्थ इत्यतो मुख्योपादानम् ।
एते राजकुमारा इति ।
अत्र राजकुमारतुल्यशोभावत्त्वं प्रयोजनम्–तुल्यवयस्कत्वंसादृश्यम् ।
उभयत्रैव एतानि एते इति सर्वनामपदेन लक्ष्यार्थोपादानात् तत्र शक्यार्थतादात्म्यारोपाच्च सारोपा लक्षणा ।
रूढावुपादानलक्षणा साध्यवसाना गौणी यथा–
“तैलानि हेमन्ते सुखानि” ।
प्रयोजने यथा–
“राजकुमारा गच्छन्ति”
टीका
विज्ञप्रिया:
(वि, क्ष) सादृश्यात् साध्यवसानामाह—तैलानीति ।
अत्र सर्वनामपदेन लक्ष्यार्थानुपस्थापनान्न सारोपा, किन्तु शक्यार्थाव्यावर्त्तकेन शक्यलक्ष्यसाधारण्येन सुखपदेन लक्ष्यार्थोपस्थापनात्तस्याच्छादनरूपा निगीर्ण्णता ।
ततः शक्यार्थतादात्म्यारोपात् साध्यवसाना ।
राजकुमार इति ।
अत्राख्यातेनैव कर्त्तॄणां लक्ष्यार्थाना मुपस्थापनात्तेषां निगीर्ण्णता ।
तत्र शक्यराजकुमारतादात्म्यारोपश्चेति साध्यवसाना ।
तुल्यशोभावत्त्वं प्रयोजनम्, तुल्यवयस्कत्वं सान्दृश्यम् ।
रूढौ लक्षणलक्षणा सारेपा गौणी यथा–
“राजा गौडेन्द्रं कण्टकं शोधयति” ।
टीका
विज्ञप्रिया:
(वि, क) राजा गौडेन्द्रमिति ।
अत्र दुः खदायित्वेन कण्टकसदृशः गौडेन्द्रो लक्ष्यार्थः स्वशब्देनैवोपात्तः ।
अत्र कण्टकतादात्म्यारोपात् सारोपा ।
प्रयोजने यथा–
“गौर्वाहीकः” रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा–
“राजा कण्टकं शोधयति” ।
प्रयोजने यथा–गौर्जल्पति” ।
टीका
विज्ञप्रिया:
(वि, ख) गौर्वाहीक इति ।
वाहीको हलावाहकः ।
स च स्वशब्देनैवोपात्तः ।
अज्ञत्वधर्मेण सादृश्यम् ।
जाड्यमान्द्यादिकम् अवैदग्ध्यं वा प्रयोजनम् ।
राजा कण्टकमित्यर्थपरम्परालिखितः प्रामादिक एव पाठः ।
तक्ष्यार्थस्य केनापि पदेन अनुपस्थापनात्, प्रथमं तत्र शक्यतादात्म्यारोपानुपपत्तेः ।
किन्तु राज्ञा कण्टकं शोध्यते, इत्येव पाठः ।
तत्र कर्माख्यातेनोपस्थापिते शोध्ये कर्मणि वौरीणि प्रथमान्तकण्टपदशक्यार्थस्य तादात्म्यारोपात् ।
गौर्जल्पतीत्यत्रापि गौर्जल्पकत्वासम्भवादाख्यातेनोपस्थापिते जल्पके निगीर्ण्णे गोतादात्म्यारोपात् साध्यवसाना ।
गोवद् वैदग्ध्यं प्रयोजनम्, जडत्वादिना सादृश्यम् ।
लोचना:
(लो, ॠ) प्रयोजन इत्यनन्तरम् उपादानलक्षणा सारोपा गौणीत्यनुषज्यते, एवमुत्तरत्राप्युदाहरणे पूर्वोक्ता वृत्तिः ।
एते इति ।
अत्र राजकुमारसदृशेषु राजकुमारप्रयोगात् मुख्यार्थबादः ।
शौर्य्यसौन्दर्य्यपरिच्छदादिभिः सादृश्यं सम्बन्धः ।
प्रयोजनमेषामतिशयः ।
लाजेति–गौडेन्द्रे कण्टकशब्दस्य प्रयोगे प्रयोजनाभावाद्रूढिः ।
क्षुद्रदुः खदायित्वं सादृश्यं सम्बन्धः ।
कण्टकशब्दस्य प्रकृते स्वार्थपरित्यागात् लक्षणलक्षणा, गौडेन्द्रस्य विषयस्यानिगरणात् सारोपात्वम् ।
गौर्वाहीक इत्यादिएतस्मिन् उदाहरणे यथा प्रयोजने लक्षणलक्षणा सारोपा गौणी ।
तथा वृत्तावेवाग्रे स्फुटीभविष्यति ।
एवं गौर्जल्पतीत्यत्रापि प्रयोजने लक्षणलक्षणा साध्यवसाना गौणी ।
अत्र केचिदाहुः–गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते ।
ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति ।
तदयुक्तम्–
गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्रबोधनाच्च ।
अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् ।
टीका
विज्ञप्रिया:
(वि, ग) अत्र केचिदिति—स्वार्थो गोत्वं तत्सहचारिण इत्यर्थः ।
वाहीकार्थाभिधाने इति—अभिधया प्रतिपादने इत्यर्थः ।
निमित्तीभवन्तीति—शक्यताव्च्छेदकीभवन्तीत्यर्थः ।
तथा च जडत्वेन रूपेण वाहीकः शक्त्यैव, जडो वाहीक इति प्रतीतिरिति तत्सिद्धान्तः ।
तदयुक्तमिति ।
अयं च दोषः तत् सिद्धान्तानवकलेनादेव धर्मे लक्षणया एव धर्मिणि शक्तिग्राहकत्वस्य तैः सिद्धान्तितत्वात् ।
गोशब्दार्थेति—सकृदुच्चारितस्य शब्दस्य सकृदर्थबोधनेन शब्दविरित्या अभिधाया अपि विरतेरिति भावः ।
लोचना:
(लो, ऌ) सम्प्रति पूर्वपक्षनिरासपूर्वकं गौण्या वृत्तेर्लक्षणायामन्तर्भावं दर्शयन् एकत्रापि उदाहरणे विप्रतिपत्तिनिरासेन सर्वमपि सामञ्जस्यं भविष्यतीत्याह–अत्रेति ।
गौर्वाहीक इत्यत्र स्वार्थो गौः; लक्ष्यन्ते लक्षणया बोध्यन्ते ते तत्र लक्षिता गुणाः; चकारेण न खलु तेषां लक्षितत्वमात्रेण विश्रन्तिरिति, वाहीकार्थस्याभिधाने ऽभिधया बोदने निमित्तीभवन्ति ।
पुनरुत्थानाभावात् शब्दबुद्धिकर्म्मणां विरम्य व्यापाराभाव इति न्यायात्, अभिधान्तरकल्पने कल्पनागौरवमित्याशयः ।
अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते ।
तदप्यन्ये न मन्यन्ते ।
टीका
विज्ञप्रिया:
(वि, घ) गुणा एव लक्ष्यन्त इति—वाहीकप्रतीतिस्त्वाक्षेपादिति भावः ।
लोचना:
(लो, ए) मतान्तरमाह–अन्य इति ।
नाभिधीयते उक्तादेव न्यायात् ।
स्वार्थो गौः ।
साजात्येन सम्बन्धेन वाहीकगता गुणा जाड्यमान्द्यादय एव ; अत्रैवकारेण गुणिनो व्यवच्छेदः ।
लक्ष्यन्ते लक्षणया बोध्यन्ते तत् समनन्तरोक्तं मतान्तरमपि ।
तथाहि–
अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद् ? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थे ऽस्यासङ्केतित्वात् ।
टीका
लोचना:
(लो, ऐ) अत्र पक्षे आद्ये प्रतीतिपक्षे ।
लक्षितात् गुणात् स्वनिष्टजाड्यमान्द्यादेः ।
अविनाभावो ऽव्यभिचारसम्बन्धः तद्द्रारा तद्वलेनाक्षेपादिभावः ।
प्रथमः गौशब्दमात्रात् वाहीकस्य प्रतीतिपक्षेः ।
प्रतीतिश्चाभिधया बोधिता ।
न द्वितीयः,–
अविनाभावलभ्यस्यार्थस्य शाब्दे ऽन्वये प्रवेशासम्भवात् ।
शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते ।
न द्वितीयः,–
यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।
टीका
विज्ञप्रिया:
(वि, ङ) आद्ये ऽपीति–गोशब्दाद् वाहीकप्रतीतिपक्षे इत्यर्थः ।
न प्रथमैत्यनेन तद्दूषणम् ।
असङ्केतितत्वादिति—एतदुद्धारश्च तन्मते दर्शित एव, इत्यवधेयम् ।
न द्वितीयो–लक्षितगुणाविनाभावेनाक्षेपात् प्रतीतिपक्षः ।
शाब्दे ऽन्वये प्रवेशासम्भवादिति–इदं च स्वसिद्धान्ताभिप्रायेणैवोक्तम् ।
वस्तुतस्तु जातिशक्तिवादे जात्यविनाभावलभ्याया व्यक्तेः शाब्दबोधप्रवेशवदत्रापि तथात्वे बाधकाभावात् ।
न तृतीय इति–गोशब्दात् वाहीकप्रतीत्यभावपक्षे ।
सामानाधिकरण्यमिति—स्वार्थयोरभेदबोधकत्वनियतं समानविभक्तिकत्वमित्यर्थः ।
लोचना:
(लो, ओ) अविनाभावलभ्यस्य न तु शब्दबोधितस्येत्यर्थः ।
आचार्य्यसम्मतिमाह–शाब्दीत्यादि–हि यस्मात् शब्देनैव न त्वाविनाभावादिलभ्यार्थेन ।
तृतीयो न प्रतीतेपक्षः ।
तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानो ऽज्ञत्वादिसाधर्म्यसम्बन्धाद्वाहीकार्थं लक्षयति ।
वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् ।
टीका
विज्ञप्रिया:
(वि, च) तथा हि गोशब्दस्य वाहीकगतजाड्यमान्द्यादि गुणोर्ऽथः ।
वाहीकशब्दस्य हलवाहिकोर्ऽथः ।
वाहीकार्थं लक्षयतीति–गोसदृशत्वेन रूपेणेति शेषः ।
लोचना:
(लो, औ) तत् का गतिरित्याकाङ्क्षायां स्वमतमाह-तस्मादिति ।
यस्मादेवमन्या गतिर्नास्ति इत्यर्थः ।
गोशब्दो गोशब्दार्थः ।
शब्दतदर्थयोरभेदोपचारात् ।
एवमन्यत्राप्येवंविधस्थले बोद्धव्यम् ।
मुख्या वृत्तिरभिधाप्रयोजनम् ।
वाहीको ऽज्ञ इति स्वशब्दप्रतिपादनालभ्यम्, एतस्या गौण्याख्याया वृत्तेर्मुख्यार्थबाधादित्रितयहेतुकत्वात् लक्षणायामन्तर्भावः स्फुट एव इत्याशयः ।
इह च गङ्गतटयोस्तादात्म्यप्रतीत्या तटे शीतत्वाद्यतिशयः ।
गौर्वाहीक इत्यत्र गोवाहीकशब्दयोस्तादात्म्यप्रतीत्या वाहीके जाड्याद्यतिशयः प्रतीयते इति व्यर्थो ऽयमुपचारो लक्षणायासः काव्यप्रकाशकारस्येति चण्डीदासपण्डितानामविचारिताभिधानम् ।
तथाहि सादृश्यसम्बन्धिनोरिव तदितरसम्बन्धिनोर्न सम्बन्धौदासीन्येन वृत्तिः; अत एवान्यैरुक्तसम्बन्धान्तरं लक्ष्यलक्ष्यकयोः साक्षात् सम्बन्धेन, सादृश्यं तु गौर्वाहीकादितद्धर्मसाजात्यरूपम्, न तथेति, अत एव क्वचित् तटादौ गङ्गदिसम्बन्धात् किञ्चित् शेत्यादिकमस्त्वेवम्, किन्तु गङ्गाशब्देन प्रतिपादने गङ्गात्वप्रतीतौ तत्शैत्यादिकमाधिकं प्रतीयते ।
वाहीके पुनर्गोनिष्टानां गुणानां कदाचिन्न सम्भवः, किन्तु तत्सजातीयानाम् ।
किञ्च गौर्वाहीक इत्युक्ते ऽपि प्रतिपत्तुः सर्वथा नाभेदप्रतिपत्तिः, किन्तु सामानाधिकरण्यप्रयोगात् तस्याः स्थगनमात्रम् ।
तदुक्तं शारीरिकमीमांसाव्याख्याने वाचस्पतिमिश्रैः—“अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्त्ततऽ; इति यत्र प्रयोक्तृप्रतिपत्त्रोः सम्प्रतिपत्तिः स गौणः, सच भेदप्रत्ययपुरः सर इति ।
इयं च गुणयोगाद्रौणीत्युच्यते ।
पूर्वा तूपचारामिश्रणाच्छुद्धा ।
उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् ।
यथा–अग्रिमाणवकयोः” ।
शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।
टीका
विज्ञप्रिया:
(वि, छ) गुणयोगादिति—शक्यगोनिष्ठजाङ्यादिगुणसजातीयजाड्यादिगुणयोगादित्यर्थः ।
पूर्वा त्विति–सुक्लपटः, आयुर्घृतमित्यादिकेत्यर्थः ।
ननु तत्रापि समानविभक्तिकत्ववशादायुर्घृतयोः प्रथमभेदोपचारो ऽस्तेयेव इत्यत आह—उपचारो हीति ।
समानविभक्तिकत्वाभिधानेन उपचारेणामिश्रणं न शौद्धत्वप्रयोजकम्, किन्तु तत्रैव सादृश्यसत्त्वे एवेति भावः ।
शुक्लपटयोस्त्विति–आयुर्घृतयोश्चेत्यपि बोध्यम् ।
लोचना:
(लो, अ) एतदभिप्रेत्य उक्तप्रकारेण लक्षणाविशेषणयोर्गौणशुद्धयोर्भेदं दर्शयतिइयं चेति ।
इयं सादृश्यसम्बन्धहेतुका गुणयोगात् नतु साक्षात्सम्बन्धात् ।
उपचारो नाम अत्यन्तं विशकलितयोरित्यनेन सम्बन्धस्य
साक्षात्त्वं दर्शितम् ।
स्थगनमात्रं नतु सर्वथाभावः ।
नात्यन्तं भेदप्रतीतः उक्तनयेन सम्बन्धस्य साक्षात्त्वात् ।
व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ॥ विस्स्द्_२।१० ॥
प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः ।
तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः ।
यथा–
“उपकृतं बहु तत्र-” इति ।
अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः ।
यथा–
उपदिशतिं कामिनीनां यौवनमद एव ललितानि” ॥
अत्र"उपदिशति” इत्यनेन “आविष्करोति” इति लक्ष्यते ।
आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते ।
टीका
विज्ञप्रिया:
(वि, ज) फललक्षणाः प्रयोजनवत्यो लक्षणाः ।
प्रयोजने या अष्टभेदा दर्शिता इति षोडशसु रूढावष्टौ प्रयोजने त्वष्टाविति दर्शतत्वात् ।
परिपक्वबुद्धैः दृढसंस्कारजा बुद्धिः ।
उपकृतमिति—अत्र ग्रन्थकृन्मते ऽपकारद्यतिशयः, अन्यमते त्वपकारिणः कौटिल्यादिकं प्रयोजनम्, व्यङ्ग्यविदग्धैकगमम् ।
सोल्लुण्ठनार्थस्याविदग्धावेद्यत्वात् ।
आविष्करोतीति–उपदेशकत्वस्य गुरुधर्मत्वेन यौवनमदे तद्बाधात् इति भावः ।
आविष्कारातिशयश्चेति–इदं तु नानुभाविकमुक्तम् ।
काव्यप्रकाशे तु शिक्षादानमेव लक्ष्यार्थस्तत्रानायास एव प्रयोजनमभिधेयवत् सर्वजनवेद्यम् ।
तद्धि प्रयोनजमुपदेशस्य वाक्यार्थस्य धर्मो लक्ष्यार्थे शिक्षादाने प्रतीयते—उपदेशात् शिक्षायां चानायासः सर्वजनवेद्य एव इति तदभिप्रायः ।
लोचना:
(लो, आ) सम्प्रति व्यङ्ग्यवैचित्र्यैणैव लक्षणाभेदान् दर्शयति, व्यङ्गयस्येतिफलं प्रयोजनम्, तद्युक्ता लक्षणा ।
ललितानि चेष्टितानि ।
आभ्यामेव व्यङ्ग्यस्य गूढागूढत्वाभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ काव्यप्रकारविशेषौ वक्ष्येते ।
धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।
एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः ।
दिङ्मात्रं यथा–
“स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव” ॥
टीका
विज्ञप्रिया:
(वि, झ) षोडशभेदा इति—गूढागूढप्रयोजनरूपा इत्यर्थः ।
धर्मिधमर्गतत्वेनेति; धर्मो लक्ष्यार्थः ।
धर्मस्तु लक्ष्यार्थनिष्ठपदार्थः स्त्रिग्धश्यामलेति—प्रावृट्काले उपस्थिते सीताविरहिणो रामस्येयमुक्तिः ।
वेल्लन्ती चञ्चला वलाका यत्र तादृशाः ।
पयोदसुहृदाम्मयूराणाम् एते विरहोद्दीपकाः कामं स्वाच्छन्द्येन सन्तु तथापि मां मारयितुं न शक्ता इत्यर्थः ।
यतो रामो ऽस्मि, दुः खसहिष्णुरस्मि, तथात्वे हेतुमाहकठोरेति ।
अत उक्तं घनादिकं सर्वमहं सहे इत्यर्थः ।
वैदेही तु अनीदृशी ।
कथं भविष्यति, किप्रकारा भविष्यतीत्यर्थः ।
हाहा खेदे ।
तस्माद्देवि वैदेहि ! धीरा भव—दुः खसहिष्णुर्भवेत्यर्थः ।
अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् ।
“गङ्गायां घोषः” इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् ।
टीका
विज्ञप्रिया:
(वि, ञ) रामे लक्ष्ये इति—घनाद्युद्दीपकसहरामत्वस्य प्रयोजकत्वाद्दुः खसहिष्णुत्वरूपेण रामो लक्ष्यत इत्यर्थः ।
तस्यैवातिशय इति तस्यैव दुः खसहिष्णो रामस्यातिशयः विप्रलम्भरूपः, नचात्र दुः खसहिष्णुत्वस्याप्यतिशयः प्रतीयत एव ।
तत् कथमिदं धर्मगतस्योदाहरणं न दर्शितमिति वाच्यम् ।
विवक्षितार्थाविवेकेन तस्यापि धर्मिगत्वादेव; तथाहि दुः खसहिष्णुत्वं तावद्दुः खद्वेषाभावस्तस्य चाभावरूपस्यातिशयान्तराभावद्वेषसामान्याभावरूपत्वमेवतिशयः ।
स च नातिरिक्तपदार्थः ।
किन्तु अभावस्वरूप एव ।
तस्य च रामरूपधर्मिगतत्वादेव ।
शीतत्वपावनत्वातिशयस्येति—अतिशयस्यातिशयान्तराभावादतिशयितशीतत्वपावनत्वयोरित्यर्थः ।
अत्र चातिशयितांशो नातिप्रयोजनः सम्पातायात एव बोध्यः नन्वत्र धर्मिगते शीतत्वपावनत्वे एव प्रयोजने किं न स्यादितिचेन्न ।
गङ्गसम्बन्धवशात्तटस्य शीकत्वपावनत्वे वास्तवे एव ।
ततश्च लक्षणया तटप्रतीतौ तत्सम्बन्धिनोः तयोः स्मरणस्यैवं सम्भवेन व्यङ्ग्यत्वनियमरहितयोस्तयोरतिशय एव प्रयोजनमित्यभिप्रायात् ।
लोचना:
(लो, इ) स्निग्धेति–वेल्लनं चलनम्; पयोदसुहृदां मयूराणाम्; आनन्देन केकाः ध्वनयः कला मधुरास्फुटाः ।
अत्रेति–अयमर्थः; रामो ऽहं सर्वं सह इत्यत्र रामस्य सर्वंसहत्वस्याप्रसिद्धेः; मुख्यार्थबाधात् रामस्यात्यन्तदुः खसहिष्णुत्वरूपोविशेषो लक्ष्यते ।
तेन फलात् अत्यन्तदुः खसहिष्णू रामो ऽस्मि इति शब्दाभिधानालभ्यं तथाभूतरामविशेषस्य एवातिशयस्तन्निष्टमेव प्रयोजनमिति ।
तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥ विस्स्द्_२।११ ॥
रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः ।
किञ्च–
पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।
ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः ।
तत्र पदगतत्वे यथा–
“गङ्गायां घोषः” ।
वाक्यगतत्वे यथा–
“उपकृतं बहु तत्रऽइति ।
एवमशीतिप्रकारा लक्षणा ।
टीका
विज्ञप्रिया:
(वि, ट) फले द्वात्रिंशदिति–पूर्वोक्ताष्टविधप्रयोजनस्य गूढागूढत्वाभ्यां द्रैगुण्येन षोडशविधस्य धर्मिधर्मगतत्वेन द्वैगुण्याद् द्वात्रिंशदित्यर्थः ।
पदवाक्यगतत्वेन व्यङ्ग्यत्वेन ।
गङ्गायामिति–नन्विदमपि घोषन्वयवशात् वाक्यमेव यदि च वाक्यस्थैकपदस्यैव लाक्षणिकत्वात्तद्व्यङ्ग्यस्य पदगतत्वं तदा उपकृतं बह्वित्यत्रापि न वाक्यगतत्वम् ।
उपकृतं बहु तत्र किमुच्यते इति वाक्यस्थस्योपकृतपदस्य एकस्यैव लक्षणिकत्वादिति चेन्न ।
वाक्यगतपदद्वयस्य लाभणिकत्वे तयोः पदयोर्वाक्यत्वेन वाक्यगतत्वात् ।
भवति हि उपकृतमित्यत्र उपकृतमित्यत्र उपकृतसुजनतापदयोर्वाक्यस्थयोर्लाक्षणिकत्वम् ।
नच किमुच्यते इत्यन्तस्य भिन्नवाक्यत्वात् कथं तयोरेकवाक्यत्वमिति वाक्यम्, “किमुच्यते अतः सुजनता प्रथिता"इत्येवमेकवाक्यत्वात् ।
लोचना:
(लो, ई) तस्मात् एवमुक्तप्रकारेण"उपकृतं बहु तत्र"इत्यत्र बहुपदनिष्टत्वाभिप्रायेण वाक्यगतत्वम् ।
एवमेव हि ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां वाक्यनिष्टत्वम् प्राचीनालङ्कारग्रन्थष्वपि प्रयशो दृश्यते ।
तथाहि काव्यप्रकाशकृतो हि निहतार्थत्वे उदाहरणम् ।
“सायकसहायवाहोर्मकरध्वजनियमितक्षमाधिपतेः ।
अब्जरुचिभास्वरस्ते भातितरामवनिपश्लोक।” ॥
इति ।
अथ व्यञ्जना–
विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ॥ विस्स्द्_२।१२ ॥
सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।
“शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः” इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरो ऽन्यो ऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
टीका
विज्ञप्रिया:
(वि, ठ) व्यङ्ग्यो व्यञ्जनयेत्युक्तत्वात् व्यञ्जनालक्षणं वक्तुमाह—अथेति ।
नयेनेति ।
एतन्न्यायात् शब्दस्येव तन्निष्ठवृत्तेरपि विरतिः सिद्ध्यति इत्यर्थः ।
उपक्षीणास्विति ।
अर्थान्तरबोधने क्षीणसमर्थ्यासु ।
लोचना:
(लो, उ)–उद्देशकमप्राप्तां व्यञ्जनां निरूपयति–अथेति ।
परोभिधेयादिव्यतिरिक्तो व्यङ्ग्यत्वेन निरूपयिष्यमाणो वस्त्वलङ्काररसलक्षणः ।
तिसृष्विति—अभिहितान्वयवादिमतमाश्रित्य अन्विताभिधानमते तु द्वयोः ।
तत्रापि लक्षणाया अभावे तु प्रथममते तु द्वयोः द्वितीयमते त्वेकस्याः ।
ध्वननादयो व्यञ्जनस्य पर्यायान्तरणि ।
तत्र–
अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥ विस्स्द्_२।१३ ॥
अभिधामूलामाह–
अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थे ऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥ विस्स्द्_२।१४ ॥
आदिशब्दाद्विप्रयोगादयः ।
टीका
विज्ञप्रिया:
(वि, ड) अनेकार्थस्येति—संयोगादीन् वक्ष्यति, तैरनेकार्थस्य शब्दस्य एकार्थे नियन्त्रिते अर्थान्तरबोधं प्रतिरुध्य बोधिते सति अन्यस्य प्रतिरुद्धार्थस्य धियो हेतुर्या वृत्तिः सा व्यञ्जनाभिधाश्रया इत्यर्थः ।
आद्यशब्दादिति संयोगाद्यैरित्याद्यशब्दादित्यर्थः ।
लोचना:
(लो, ऊ) अनेकार्थस्य विष्णुसिंहाद्यनेकाभिधेयशब्दस्य हर्य्यादेः एकार्थे नियन्त्रिते इत्यन्वयः ।
अर्थे वाच्यरूपे नियन्त्रिते अर्थान्तरनिरुद्धप्रसरतया व्यवस्थापिते ।
अन्यस्य संयोगादिसाचिव्याभावात् अभिधाया अविषयस्य बुद्धिहेतुः व्यञ्जना ।
उक्तं हि–
“संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य सन्निधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” ॥
इति ।
टीका
विज्ञप्रिया:
(वि, ढ) संयोगः, समभिव्याहृतापरपदार्थस्य ।
विप्रयोगः—त्यागः, सो ऽपि तस्यैव ।
साहचर्य्यं-समभिव्याहृतपदार्थेन सह सर्वदा स्थितिः विरोधिता वैरिता सापि तादृशापरपदार्थेन सह ।
अर्थः प्रयोजनं तच्च समभिव्याहृतम् ।
प्रकरणमुपक्रमः ।
लिङ्गं चिह्नं तदपि समभिव्याहृतम् ।
सामर्थ्यं समभिवायाहृतपदार्थजनने ।
औचिती तात्पर्य्यम् ।
तेशकालावपि समभिव्याहृतौ ।
व्यक्तिः शब्दस्य पुंस्त्वादिलिङ्गानि ।
स्वरः उदात्तादिः ।
अनवच्छेदे ऽनेकत्वे ।
विशेषस्यैकस्यैवार्थस्य स्मरणहेतवः संयोगादय इत्यर्थः ।
नैयायिकमते सर्वेषामेव पदार्थनां स्मरणमन्वयबोधस्त्वेकमेव पदार्थमादाय ।
एतन्मते तु यस्य पदार्थस्यान्वयबोधस्तस्यैव विशेषस्य स्मरणमिति ।
लोचना:
(लो, ऋ) उक्तं हि भर्तृहरिणा इति शेषः ।
संयोग इति ।
विलोधो वध्यघातकादिः ।
अर्थः फलम्, प्रकरणं प्रस्तावः ।
लिङ्गम्, विषयव्यावृत्तो धर्मः ।
सन्निधिः सामानाधिकरण्यम् ।
सामर्थ्यं तत् कारणनियमः ।
देशस्तद् विशेषः ।
कालस्तद्विशेषः ।
व्यक्तिः पुंस्त्वादिः स्वरा उदात्तादयः ।
अनवच्छेदे एकवाक्यनियमे ।
विशेष एकवाक्यरूपः ।
“सशङ्ख्चक्रो हरिः” इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते ।
“अशङ्खचक्रो हरिः” इति तद्वियोगेन तमेव ।
“भीमार्जुनौ” इति अर्जुनः पार्थः ।
“कर्णार्जुनौ” इति कर्णः सूतपुत्रः ।
“स्थाणुं वन्दे” इति स्थाणुः शिवः ।
“सर्वं जानाति देवः” इति देवो भवान् ।
“कुपितो मकरध्वजः” इति मकरध्वजः कामः ।
“देवः पुरारिः” इति पुरारिः शिवः ।
“मधुना मत्तः पिकः” इति मधुर्वसन्तः ।
“यातु वो दयितामुखम्” इति मुखं साम्मुख्यम् ।
“विभाति गगने चन्द्रः, इति चन्द्रः शशी ।
“निशि चित्रभानुः” इति चित्रभानुर्वाह्निः ।
“भाति रथाङ्गम्” रथाङ्गम्” इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः ।
टीका
विज्ञप्रिया:
(वि, ण) तदवियोगेनेति—शङ्खचक्रत्यागेनेत्यर्थः ।
नञो ऽत्र त्यागार्थकत्वात् ।
भीमार्जुनाविति साहचर्य्ये ।
अत्र अर्जुनपदं पार्थकार्त्तवीर्य्ययोः ।
भीमपदं महेशपार्थयोरनेकार्थम् ।
कर्णार्जुनाविति विरोधितायाम् ।
अत्र द्वयमपि पदमनेकार्थम् ।
प्रयोजने स्थाणुमिति ।
अत्र राज्ञ उपक्रमो वाक्यान्तराल्लभ्यः ।
चिह्ने-कुपित इति कोपस्य कामचिह्नत्वात् ।
समुद्रो ऽपि मकरध्वजः ।
नच कामदेवस्यापि कोप इति वाच्यम्, विरहिण्यां कुपति इत्यर्थात् ।
अन्यशब्दसन्निधौ स देव इति–अत्र देवशब्दो ऽनेकार्थः ।
तुल्यविभाक्तिकपुरारातिशब्दस्य सान्निध्यम् ।
सामर्थ्ये मधुनेति—अत्र मधुर्दैत्यविशेषे ऽपि, कोकिलमादने वसन्तस्यैव सामर्थ्यम् ।
औचित्यां “पातु वऽ; इति–अत्र मुखपदं प्रभृत्यादावनेकार्थम् ।
मानिन्याः साम्मुख्ये वक्तुस्तात्पर्य्यम् ।
देशे भावीति–अत्र चन्द्रपदं कर्पूरे ऽपि ।
देशोगमनम् ।
काले निशीति–चित्रभानुः सूर्य्यो ऽपि ।
व्यक्तौ–रथाङ्गमिति, चक्रवाकस्तु रथाङ्गः ।
लोचना:
(लो, ॠ) एषां नियन्त्रणस्वरूपं क्रमादुदाहरणैर्दर्शयति—सशङ्खेत्यादि ।
विष्णुमेवेत्येवकारेण शकसिंहाश्वादेर्व्यवच्छेदः ।
तयोः शङ्वचक्रयोर्वियोगे ऽभावे ऽपि तमेव हरिमेवाभिधत्ते इत्यनुषज्यते, प्रतिषेधस्य प्रसक्तिपूर्वकत्वात् ।
पार्थो नतु वृक्षविशेषः ।
सूतपपुत्रो नतु श्रवणम् ।
अत्र वध्यघातको विरोधः, सहानवस्थाने तु छायातपाविति ।
स्थाणुशब्दस्य शङ्कुवाचकत्वे लब्धच्छेदाख्यं न घटते ।
भवान् प्रकृतो राजा ।
कामो न तु मकराकारो ध्वजः, तस्य कोपरूपधर्माभावात् ।
शिवो न मुररिपुः ।
वसन्तो न तु मद्यम् ।
सान्निध्यं न तु वदनम्, तस्य कामकातरतायोग्यत्वाभावात् शशी न तु कर्पूरम् ।
वह्निर्न तु रविः ।
चकं न तु चक्रवाकः ।
वेद एव विशेषप्रतीतिकृत् इति अनेकार्थवाचकशब्दस्य एकार्थवाचकत्वे नियन्त्रणरूपः, तत्प्रत्ययं च स्वरो वेदे एव करोति ।
यथा इन्द्रशत्रुरित्यादौ षष्टीतत्पुरुषे समासान्तोदात्तसूचिते इन्द्रस्य शमीयता वा दैत्यो ऽरिरेवाभिधीयते ।
बहुव्रीहौ तु पूर्वपदान्तोदात्तनिर्णोते इन्द्र एव शमयिता शातयिता चेति ।
इदं हि काव्यप्रकाशकारस्य उदाहरणम् ।
इदं च के ऽप्यसहमाना आहुः–
स्वरो ऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव ।
उदात्तादिरूपो ऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव” इति एतद्विषये उदाहरणमुचितमेव इति, तन्न; तथाहि–
स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् ।
टीका
लोचना:
(लो, ऌ) के ऽपीति–श्रीचण्डीदासराघवानन्दप्रभृतयः ।
असहमाना इति ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव इत्यत्र विशेषपदस्यार्ऽथानवबोधने इति शेषः ।
आहुः–स्वरो ऽपि इत्यादि उचितमेवेत्यन्तम् ।
तत्र काव्यादीनां विशेषप्रतीतिकृदेव नियन्त्रणरूपः ।
उदाहरणं तैरेव दर्शितम् ।
यथा “मथ्नामीत्यनेन काकुवचनेन मथ्नाम्येव इति विशेषप्रतीतिकृदिति ।
मुनेः पाठगुणोक्तमार्गश्च तैरेव दर्शितो यथा—“यथाह मुनिर्भरतः—-“हस्यशृङ्गरयोः स्वरीतोदात्तम्, वीररौद्राद्भुतेषु उदात्तकम्पितम्, करुणबीभन्त्सभयानकेषु अनुदात्तकम्पितम् उत्पादयेदिति ।
तन्न, तत् तेषां वचनमयुक्तम्, कथमित्याह–तथाहीति ।
व्यङ्ग्यरूपमेव भवद्दर्शितम्, मथ्नम्येवेतिरूपं शृङ्गारसरूपं च ।
प्रकृतोक्तं “संयोगो विप्रयोगश्चऽ; इत्यादिना भर्त्तृहरिणा उक्तं दर्शितम् ।
अनेकार्थे इत्यादौ अर्थशब्दो वाच्यपरः, विशेष इत्यनन्तरं संयोगादिप्रयोगादिति शेषः ।
किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यम्, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः;
टीका
विज्ञप्रिया:
(वि, त) मुनेः पाठोक्तदिशेति–मुनिना वेदस्य स्वरविशेषेणैव पठनात् ।
द्वयोरर्थयोरनुरूपेति–द्वयोर्र्थयोर्मध्ये एकस्यानुरूपस्वरवशेनेत्यर्थः ।
एकोच्चारणे द्वयोरनुरूपस्वरासम्भवात् ।
तथात्वे एकत्र नियमनासम्भवाच्च ।
तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्ग इत्यर्थः ।
एकार्थनियमने ऽन्यार्थस्य व्यङ्ग्यत्वेन तस्योपमानत्वात् उपमाध्वनित्वस्यैव प्रसक्तेर्नतु श्लेषस्य ।
यथा वक्ष्यमाणे दुर्गालङ्घितविग्रहे इत्यादौ प्रकरणादुमामहादेवीवल्लभभानुदेवराजनियमने पार्वतीवल्लभस्य व्यङ्ग्यत्वेन राज्ञः तदुपमाध्वनिरेव ।
न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे–
“काव्यमार्गे स्वरो न गण्यते” इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
आदिशब्दात् “एतावन्मात्रस्तनी” इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।
टीका
लोचना:
(लो ए) एवं प्रचीनोक्तं दूषयित्वा स्वयमेव पूर्वपक्षमुत्पाद्य निराचष्टे-किञ्चेति ।
यत्र क्वचित्—
“येन ध्वस्तमनोभवेन वलिजित्कायः पुरा स्त्रीकृतो
यश्चोद्वृत्तभुजङ्गहारवलयोगङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमत् शिरो हर इति स्तुत्यं च नामामराः
पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः” ॥
इत्यादौ द्वयोरप्यर्थयोर्हरिहरस्तुतिपरयोरनुरूपः स्वर उदात्तादिरेकत्र हरौ हरे वा ।
नच तथा श्लेषाङ्गीकारः ।
अत्राचार्य्यसम्मति दर्शयति–अत एवेत्यादि ।
नये नीत्यां लोकप्रसिद्धायाम् ।
तेषामुपजीव्यत्वं-तद्ग्रन्थनिष्टया स्वव्युत्पत्त्या विशेषसम्पादनात् ।
आदिशब्दः, कालो व्यक्तिः स्वरदय इत्यत्र ।
चेष्टादीत्यादिशब्देन—“इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्ऽ; इत्यादौ आत्मनिर्द्देशादयः ।
एवमेकस्मिन्नर्थे ऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना ।
टीका
विज्ञप्रिया:
(वि, थ) न च तथेति–तथात्वे पृथुकार्त्तस्वरपात्रमित्यादिश्लेषालङ्कारोच्छेदप्रसङ्गादिति भावः ।
अत एवाहुरिति काव्यप्रकाशकारादय आहुरित्यर्थः ।
उपज्ञीव्यानामिति काव्यमार्गे ऽपि स्वरगणयितृणां प्राचीनानामुपरीत्यर्थः ।
आदिशब्दादिति—स्वरादय इत्यादिशब्दादित्यर्थः ।
हस्तेति—हस्तचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वं स्मार्य्यत इत्यर्थः ।
“एद्दहमेत्तथिणिआ एद्दहमेत्तेहि आच्छिवत्तेहि ।
एद्दमेत्तावत्था एद्दहमेत्तेहिं दिम्अ एहि” ॥
इत्यादि प्राकृतश्लोकस्य हि— “एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपत्तैः ।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैःऽ; ॥
इति संस्कृतम् ।
स्तनादीनामिति—कमलकोरकादित्यादिपदद्वयात् चक्षुरादीनां पद्मपलाशाद्याकारपरिग्रहः ।
अत्र एतत्पदं नानाकारबोधकत्वेनानेकार्थम् ।
चेष्टाविशेषस्त्वाकारविशेषस्मारकः ।
शक्तिः वृत्तिः ।
यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसन्धिविग्रहिकाणाम्–
“दुर्गालङ्घितविग्रहो मनसिजं सम्मीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः ।
नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः” ॥
अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते ।
एवमन्यत् ।
टीका
विज्ञप्रिया:
(वि, द) दुर्गालङ्घितेति ।
अत्र उमा नाम महादेवी तस्या वल्लभो भानुदेवनृपतिः ।
प्राकरणिको राजति ।
कीदृशः शत्रुदुर्गेणावारितयुद्धः ।
तेजसा देहकान्त्या मनसिजं सम्मीलयन् सान्दैर्य्यगवार्त सङ्कोचयन् ।
प्रोद्यन्ती राजकला नृपतिचातुर्य्यं यस्य तादृशः ।
गरिमा, वपुः पुष्टिः, गृहीततत्त्वः ।
भोगिभिर्नाम भोगवद्भिः अमात्यैर्विष्वक् सर्वतो वृतः ।
क्षत्रैशेषु क्षत्रियेश्वरेषु राजसु अवज्ञया न कृतेक्षणो अकृतदृक्पातः ।
गुरौ महत्यां गिरि वाचि, गाढां रुचिं प्रीतिं धारयन् गामाक्रम्य पृथिवीमधिकृत्य, विभूत्या ऐश्वर्य्येण भूषिततनुः ।
अत्र दुर्गादिपदान्यनेकार्थानि प्रकरणवशाद्दर्शितार्थे नियन्त्रिते वाचकानि (शब्दाः) अर्थान्तरं तु व्यञ्जनया बोधयन्ति ।
तथा हि–उमायाः पार्वत्या वल्लभो महेशो राजति ।
कीदृशः–दुर्गया, पार्वत्या, लङ्घितविग्रहः आश्लेषेण आक्रान्तशरीरः ।
तेजसा नेत्रज्योतिषा, मनसिजं सम्मीलयन् निघ्नन् ।
राजकला चन्द्रकला, शिरसि प्रद्योत्तत्कः गृहीतगरिमा गृहीतजगद्गुरुभारः ।
भोगिभिः सर्पैः सर्वतो वृतः ।
क्षत्रेशेन चन्द्रेण घटितलोचनः सूर्य्यचन्द्राग्निमयलोचनत्वात् ।
गिरीणां गुरौ हिमालये गाढां रुचिं धारयन् श्वशुरत्वात् स्वीयतपोनिलयत्वाच्च ।
गां वृषम् आक्रम्यारुह्य राजतीत्यन्वयः ।
विभूतिभिर्भस्मभिर्भूषिततनुश्च ।
इत्थमत्राप्राकरणिके महेशे व्यञ्जिते प्रकृते सङ्गमनाय महेश इव राजेत्युपमाव्यञ्जनादुपमाध्वनिरयम् ।
लोचना:
(लो, ऐ) दुर्गालङ्घितेति—दुर्गाणि वनगिरिजलमयस्थानानि दुर्गा पार्वती च, अलङ्घितो लङ्घितश्च, विग्रहो युद्धं देहश्च, सम्मीलनं तिरस्कारो दहनं च, तेजः कान्ति। नयनाग्निश्च ।
राजा पार्थिवश्चन्द्रश्च ।
कला कलनां अंशश्च, गरिमा महिमा ऐश्वर्य्यविशेषश्च ।
भोगिनः स्त्रक्चन्दनादिभोगवन्तः सर्पाश्च ।
क्षत्रेश्वरेषु अकृतदृष्टिः क्षत्रेशेन चन्द्रेण कृतनयनश्च ।
गुरौ महत्याम् ।
गिरि वाचि ।
गिरीणां गुरौ, श्रेष्टे च गां पृथिवीं वृषभं च ।
विभूतिः सम्पत् भस्म च ।
उमावल्लभो भानुदेव ईश्वरश्च ।
प्रकरणेन वर्णनीयत्वात् ।
इह च उमावल्लभशब्देन यो ऽयमप्रकृतो महेश्वरार्थः प्रतीयते तस्यासम्बद्धत्वमासीदिति महेश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते ।
तेन उमावल्लभैवेत्युपमाध्वनिः व्यञ्जनयैव बोध्यते ।
इत्यत्रै वकारस्यायमाशयः-इह खलूमावल्लभशब्दे येयं द्वितीयार्थप्रतीतिः तत्राभिधाया प्रकृतार्थमात्रबोधने विरमात् लक्षणायाश्च मुख्यार्थबोधहेतुकत्वात् ।
तात्पर्य्यस्य शक्त्यभिहितलक्षितसंसर्गमात्रबोधननैयत्यात् व्यञ्जनाख्या तुरीया वृत्तिरुपास्यैवेति ।
नन्वत्राप्यर्थभेदेन शब्दभेद इति दर्शनात् शब्दभेदद्वयमस्ति ।
तच्च साजात्यदैक्यभ्रमहेतुः ।
अतश्च प्रथममुमावल्लभादिशब्देन राजार्थबोधनाद् विरतायां प्रथमाभिधायां द्वितीयः शब्दः तन्निष्टाभिधाशक्त्या द्वितीयार्थं बोधयतु किं वृत्त्यन्तरकल्पनया इति चेन्न ।
अत्र हि शब्दद्वयकल्पने कथं प्रकृतार्थस्य प्रथमं प्रतीतिरनुभूयते, द्वयोरभिधेयत्वेन पूर्वपश्चाद्भावनैयत्यासम्भवात् ।
एवं"भ्रमिमरतिम्"इत्यादावपि विषशब्दस्य गरलार्थत्वे भुजङ्गादिपदसाचिव्यात् न पनरभिधाया उज्जीवनम्, किन्तु व्यञ्जनैव व्यापारः ।
किन्त्वत्र द्वितीयार्थबोधे हेतुर्भुजङ्गादिरूपः शाब्दः ।
दुर्गालङ्घितेत्यादावार्थः ।
“येन ध्वस्तम्” इत्यादौ तु नियामकाभावात् अनेकार्थविषयः सन्देहः"व्यथां द्वयेषामपि मेदिनीभृताम्"इत्यादौ चोभयाभिधानमपीति चण्डीदासपण्डिताः ।
एतन्निराकरिष्यामहे श्लेषालङ्कारव्याख्यानावसरे ।
दुर्गालङ्घितेत्यादौ च द्वितीयार्थस्यानुभवसिद्धस्याभावं वदतो महिमाचार्य्यस्य गजनिमीलिकैव दुर्व्याख्यातृदुरुपदेशपरम्परयैव द्वितीयार्थप्रत्याख्याने व्यासवाल्मीकिप्रभृतिमहाकवीनां तादृशकाव्यनिबन्धस्य निष्फलताप्रसङ्गः ।
अर्थद्वयस्यापि प्रतीयमानत्वविशेषाद् व्याख्याविशेषनिगमनायां प्रामाण्याभावश्च ।
किञ्च द्वितीयार्थबोधने धर्मिकल्पनातो वरं धर्मकल्पनेति भिन्नशब्दकल्पनात् भिन्ना एव व्यञ्जनाख्या वृत्तिरङ्गीकर्त्तुमुचिता ; तस्यास्तु यत्र तत्र प्रसरे ऽतिप्रसङ्गभीत्या सम्बन्धत्वेन सैवाभिधाश्रीयत इति सर्वमवदातम् ।
लक्षणामूलामाह–
लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥ विस्स्द्_२।१५ ॥
टीका
लोचना:
(लो, ओ) लक्षणामूलामुद्देशकमप्राप्तामिति शेषः ।
उपास्यते आद्रियते, यस्य कृते यन्निमित्तम् यथा शब्दशक्त्या ।
“गङ्गायां घोषः” इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना ।
एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह–
वक्तृबोद्धव्यवाक्यानामन्यसन्निधिवाच्ययोः ।
प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ॥ विस्स्द्_२।१६ ॥
व्यञ्जनेति सम्बध्यते ।
टीका
विज्ञप्रिया:
(वि, ध) यस्य कृते इति ।
यत्प्रतीतेर्निमित्तमित्यर्थः ।
वैशिष्ट्यात् वैलक्षण्यात् ।
लोचना:
(लो, औ) प्रकरणसङ्गतिमाह एवमिति–बोध्यते यः स बोद्धव्यः ।
शब्दप्रयोगस्य परार्थत्वात्, यत्समवेता प्रतीतिरुपपद्यते स इत्यर्थः ।
उच्यते शब्देन प्रतिपाद्यते यः स वाच्यः ।
तेन वाच्य-लक्ष्य-व्यङ्ग्यात्मनस्त्रिविधस्यार्थस्य परिग्रहः ।
प्रस्तावः प्रकरणम्, काकुः ध्वनेर्विकारः, वैशिष्ट्यात् वैलक्षण्यादिति वक्त्रादिषु प्रत्येकमन्वयः ।
अन्यं प्राचीनाभिधेयादिवैलक्षण्यम् ।
तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम–
“कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्- दूरे पतिः कथय किं करणीयमद्य” ॥
अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते ।
टीका
विज्ञप्रिया:
(लो, अ) काल इति ।
एष इत्यनेन तत्कालानुभूयमानोन्न्मादकत्वं कामस्य सूचितम् ।
पतिरिति–पतिर्भर्त्ता न तु प्रियः ।
अत्र वक्त्र्या मदनविह्वलतादिना वैशिष्ट्यम्, वाक्यस्य तथाभूतानुभूयमानविच्छित्तियुक्तत्वेन ।
प्रस्तावस्य पतिदूरस्थित्यादिना; देशस्य च कीडावनरूपस्य वकुलकुञ्जादिना; कालस्य वसन्तवत्त्वेन; एवमेषां
वैशिष्ट्येन वक्रोक्त्या व्यङ्ग्यार्थप्रकाशनं स्फुटमेव ।
(वि, न) कालो मधुरिति–सखीं प्रति प्रोषितभर्त्तृकाया उक्तिरियम् ।
स्पष्टोर्ऽथः ।
अत्रेति–एतं देशं केलीवनीरूपम् ।
ईदृशव्यङ्ग्यबोधे केलीवनीरूपस्य तत्प्रदर्शनेन करणीयाजज्ञासार्थकवाक्यस्य तत् वक्त्र्या उद्दीपकप्रदर्शनलब्धशृङ्गारप्रकरणस्य मधुरूपकालस्य च वैलक्षण्यं हेतुः ।
लोचना:
बोद्धव्यवैशिष्ट्ये यथा–
“निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो ऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्” ॥
टीका
विज्ञप्रिया:
(वि, प) निः शेषेति–उपनायकमानेतुं प्रेषितां युवतिं तेनैव उपभुक्तामागत्यासौ मत्प्रार्थनयापि नायात इति प्रतारयन्तीं दूतीं प्रति नायिकायाः सोल्लुण्ठनोक्तिरियम् ।
हे मत्प्रार्थनयापि नायात इति मिथ्यावादिनि ! दूति ! बान्धवजनस्य मम अज्ञातकामपीडागमे इतः स्त्रातुं वापीं गतासि न पुनस्तस्याधमस्यान्तिकं गतासि ।
वापीं स्त्रातुमिति नान्वयः, स्त्राधातोरकर्मकत्वात् ।
आपाततः स्त्रानकार्य्याणि दर्शयति—निः शेषेति ।
यतस्ते स्तनतटं स्तनपार्श्वभागो निः शेषच्युतचन्दनम् ।
अधरश्च निर्मृष्टरागः ।
नेत्रे च दूरमतिशयं यथा स्यात्तथानञ्जने जाते इति शेषः ।
तत् क्रियाविशेषणं च दूरमिति ।
तथा इयं तन्वी कृशा तव तनुः पुलकिता; स्त्रानशैत्यात् जातपुलका इत्यर्थः ।
तथेति विशेषणसमुच्चये ।
लोचना:
( लो, आ) निः शेषेति–तटं समीपम्, स च समप्रयो देशः ।
तत्र चन्दनं निः शेषच्युतम्; चूचुकादिषु च शेषम्; अधरो निर्मृष्टरागः; दूरभनञ्जने निकटे तु साञ्जने; अञ्जनस्य क्वचित् क्वचिदवशेषः सूचितः ।
इयं तनुः चिरकाले ऽपि स्त्राने इदानीं पुलकिता; तन्वी क्षामा च ।
अधमस्य प्रागपि लक्षितनिकृष्टपरिग्रहस्य ।
अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् ।
तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते ।
टीका
विज्ञप्रिया:
(वि, फ) गतासि इति लक्ष्यमिति ।
चन्दनच्यवनादीनां रतिकार्य्यत्वेनैव प्रतीत्या तदीन्तके ऽगमनबोधात्, तद्विपरीतं गमनं लक्षणयार्थः ।
तेषां रतिकार्य्यत्वेनैत प्रतीतिर्हि-चन्दनाधररगयोश्च्युतिमार्जनाभ्याम्, स्त्राने त्वनयोः क्षालनमेवोक्तं स्यात् ।
तथा दूरं चुम्बनस्पृष्टं नेत्रप्रान्तभागं प्राप्य अनञ्जने स्त्राने तु समस्तनेत्रस्यैवानञ्जनत्वमुक्तं स्यात् ।
तथा चन्दनच्युतिमहिन्मा ग्रीष्मकालप्राप्तौ पुलकेन च तदानीं स्नानेन पुलकाभावात् ।
तता तदन्तिकागमने तस्य दोषाभावात् अधमत्वोक्त्यनौचित्यम्, दूतिरन्तृत्वेनैवाधमत्वोपपत्तेश्च ।
अत्र गमनं लक्षणयेति यदुक्तं तत् काव्यप्रकाशकारस्यासम्मतम् ।
रन्तुं तदन्तिकगमनस्यैव तन्मते व्यङ्ग्यत्वात् ।
तथा हि न गतासीत्यस्य काव्यत्वेन तत्र लक्षणाया एवाभावात् ।
तदुक्तं “वाक्ये न शक्तिर्नवा लक्षणेतिऽ; पदलक्षणा तु न सम्भवत्येव गमनस्य गमधातुवाच्यत्वादेव ।
नञर्थस्य तु वापीगमनान्वयेनैव तदुपपत्तेः ।
यदि च वाक्ये ऽपि लक्षणा स्वीक्रियते तथापि न लक्षणा ।
रन्तुं तदन्तिकस्यैव तन्मते प्रथमं व्यङ्ग्यत्वादेव ।
तथा हि चन्दनच्यवनादीनां प्रथमं स्नानकार्य्यत्वेनैव प्रतीत्या बाधानवतारात् ।
प्रतिसन्धानविशेषण उत्तरकालमेव बाधावतारात् ।
अत्र च व्यञ्जनायाः प्रवृत्तेर्नतु लक्षणाया एव ।
प्रथमं बाधावतार एव लक्षणायाः प्रवृत्तेः ।
तदुक्तम् ।
“क्वचित् बाध्यतया ख्यतिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु” ॥
इति ।
पूर्वत्र प्रथमं बाध्यतया ख्यातौ प्रतीतौ अभिधैव त्वित्यनेन तत्र लक्षणाया अभावात् ।
तदुत्तरं रन्तुं तदन्तिकगमनं व्यञ्जनैवेत्युक्तम् ।
अत्र चन्दनच्युतादिसत्त्वं बोद्धव्याया दूत्या वैलक्षण्यम् ।
लोचना:
(लो, इ) एषां च पदार्थानां वापीस्नानविरुद्धानामनुसन्धानादेव वापीस्नानाभावमात्रस्य प्ररोहाभावेन तदन्तिकं न गतासीत्यत्र विपरीतलक्षणया गतासीति लक्ष्यते न्तुमित्यतः पूर्वं तेन सहेति शेषः ।
अन्यसन्निधिवैशिष्ट्ये यथा–
“उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व” ॥
अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः सङ्केतस्थानमेतदिति कयापि सन्निहितं प्रच्छन्नकामुकं प्रत्युच्यते ।
अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् ।
टीका
विज्ञप्रिया:
(वि, ब) सङ्केतस्थानमुपनायके दर्शयन्त्या दूत्या उक्तिरियम्–उअ इति ।
जानीहीत्यर्थः पश्येति यावत् ।
निश्चलेति सम्बोधनम् ।
अथवा निश्चलनिष्पन्देत्येकं वा पदम् ।
तदा निश्चलादपि निष्पन्देत्यर्थः ।
शङ्खशुक्तिः शच्च्यकपालम् ।
उच्यमानस्य नायकस्य सान्निध्यात्–सङ्केतस्थलप्रदर्शनं सामाजिकैर्व्यञ्जनयावगम्यते इत्यर्थः ।
तथा च द्योत्यत इत्यत्र द्योतनं सामाजिकैर्व्यञ्जनया बुध्यत इति शेषः ।
नायकेन तु बलाकाप्रदर्शनरूपात् वक्त्र्या वैलक्षण्यात् सङ्केतस्थलं व्यञ्जनया बुध्यते ।
लोचना:
(लो, ई) उस णिच्चेति—
पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका ।
निर्मलमरकतभाजनप्रतिष्टिता शङ्खसुक्तिरिव ॥
निश्चलेति—निरुद्यमेति विटसम्बोधनम् ।
शङ्खशुक्तिः सङ्खपात्री ।
भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते ।
इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः ।
टीका
लोचना:
(लो, उ) भिन्नेति–भेदाः तत्तत्सहकारिभेदाः स्वरूपभेदान्ताः ।
एतद्वैशिष्ट्ये यथा–
“गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमये ऽसौ” ॥
अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते–
टीका
विज्ञप्रिया:
(वि, भ) आकरेभ्य इति—भिन्नकण्ठध्वनिरित्यादिकाकुविवेचकग्रन्थ आकरः ।
स्वाभाविककण्ठध्वनितो भिन्नः कण्ठध्वनिरित्यर्थः ।
गुरुपरतन्त्रतयेति–दूरतरदेशगतं पतिं शोचयन्त्या नायिकाया उक्तिः प्रथमार्द्धम् ।
तामाश्वासयन्त्याः सख्या उक्तिः परार्द्धम् ।
नैष्यतीति—अपि त्वेष्यत्येवेत्यर्थः काक्का व्यज्यते इति–काक्काः परं नञर्थोपस्थापनान्न एष्यति एष्यत्येवेत्येवंरूपः ।
अत्र शिरश्चालनसहोत्पन्नत्वं काकोर्वैलक्षण्यम् ।
चेष्टावैशिष्ट्ये यथा–
“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्” ॥
टीका
लोचना:
(लो, ऊ) सङ्केतेति–हसता विकशता नेत्रेण अर्पितमाकूतमभिप्रयोयेन इति विटविशेषणम् ।
एषां चोक्तोदाहरणानां ध्वनिगुणीभूत-व्यङ्ग्यत्वे तान्निरूपणे अग्रेस्फुटीभविष्यति, किन्तु व्यञ्जनाया आर्थत्वमात्रेणोदाहरणम् ।
चेष्टादीत्यादिशब्देन वरर्णनीयनायकादिगतसात्त्विकादिपरिग्रहः ।
अत्र सन्ध्या सङ्केतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते ।
टीका
विज्ञप्रिया:
(वि, म) सङ्केतकालेति—विटं धूर्त्तम् उपनायकं सङ्केतकालमनसं तज्जिज्ञासार्थं तन्मनस्कं ज्ञात्वेत्यर्थः ।
हसता नेत्रेणार्पितं स्थापितम् आकूतं भावो यत्र तादृशं यथा स्यात्तथा लीलापद्मं निमीलितमित्यर्थः ।
द्योत्यत इति विटं प्रतीत्यर्थः ।
सामाजिकैस्तु तद्द्योतनमपि बुध्यते इति बोध्यम् ॥
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।
त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ विस्स्द्_२।१७ ॥
“अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः ।
तत्र वाच्यार्थस्य व्यञ्जना यथा-“कालो मधुः-” इत्यादि ।
लक्ष्यार्थस्य यथा–“निः शेषच्युतचन्दनम्ऽ–इत्यादि ।
व्यङ्ग्यार्थस्य यथा–“उअ णिच्चल-” इत्यादि ।
प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते ।
शब्दबोध्यो व्यनक्त्यर्थः शब्दो ऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ विस्स्द्_२।१८ ॥
टीका
लोचना:
(लो, ऋ) शब्दबोध्य इत्यर्थान्तरमपेक्षते, नत्वेकार्थमात्रप्रतिपादको व्यञ्जकः यथा–दुर्गालङ्घितेत्यादौ ।
अर्थो ऽपि शब्दमपेक्षते यथा कालो मधुरित्यादौ ।
एकस्येत्यादेरयमर्थः ।
शब्दार्थयोरेकस्य व्यञ्जकत्वे तदितरः सहकारी सतु अवर्जनीयसान्निधिमात्रेणावस्थितः ।
किन्तु यत्र यच्छक्तिरुत्कटा तत्र तन्मूलो व्यञ्जकत्वव्यपदेशः ।
यतः शब्दो व्यञ्जकत्वे ऽप्यर्थान्तरमपेक्षते, अर्थो ऽपि शब्दम्, तदेकस्य व्यञ्जकत्वे ऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।
अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः ।
शब्दो ऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ विस्स्द्_२।१९ ॥
टीका
विज्ञप्रिया:
(वि, य) वक्तृबोद्धव्यादिदशवैशिष्ट्यात् यार्ऽथो व्यञ्जनोक्ता, सा व्यञ्जकार्थत्रौविध्यात् त्रिविधेत्याह–अर्थानां व्यञ्जकार्थानाम् ।
इयं दशविधा व्यञ्जना ।
निः शेषेत्यादौ लक्ष्यार्थस्य व्यञ्जकत्वं स्वमताभिप्रायेणैवोक्तम् ।
उक्तशब्दार्थव्यञ्जकार्थत्रैविध्यस्यैवोक्तत्वात् इदानीं व्यञ्जकशब्दस्यापि त्रैविध्यमाह–अभिधादित्रयेति ।
अभिधोपाधिको वाचकः ।
लक्षणोपाधिको लक्षकः ।
व्यञ्जनोपाधिको व्ययञ्जकः ।
किञ्च–
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ॥ विस्स्द्_२।२० ॥
टीका
विज्ञप्रिया:
(वि, र) न केवलं वाच्यादित्रिविध एव शब्दस्यार्थो ऽपि तु वाच्यादित्रयभिन्नः पदार्थसंसर्गो ऽपि शब्दार्थस्तद्बोधकं च वाक्यमित्याह–किं चेत्यादिना ।
पदार्थान्वयबोधने तदन्वयबोधनिमित्तम् ।
परे नैयायिकास्तात्पर्य्याख्यां वृत्तिमाहुः ।
तदर्थं तस्या वृत्तेर्विषयरूपमर्थं तात्पर्य्यार्थं संसर्गरूपं तद्वोधकं च वाक्यमित्याहुः ।
अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः ।
तदर्थश्च तात्पर्यार्थः ।
तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ।
टीका
विज्ञप्रिया:
(वि, ल) अभिधायाः संसर्गबोधने ऽसामर्थ्यं दर्शयन् व्याचष्टे–अभिधाया इति ।
तदर्थश्चेति संसर्गरूप इत्यर्थः ।
अभिहितान्वयवादिनां नैयायिकानां पदेन पदार्थे ऽभिहिते स्मारिते तदन्वयबोधो वाक्यादेव ॥
इति ।
इति श्रीसाहित्यदर्पणटीकायां द्वितीयपरिच्छेदविवरणम्
इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।