०१

प्रथमः परिच्छेदः

ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्मयाधिकृततया वाग्देवतायाः साम्मुख्यमाधत्ते–

टीका

विज्ञप्रिया:

(वि, क) वीक्ष्य कौस्तुभगतं निजबिम्बं हृद्रतान्यवनिताजनबुद्ध्या ।
मानमाश्रितवतीं निजकान्तां चिन्तयाम्यनुनयन्तमनन्तम् ॥ १। ॥
दृष्ट्वा भूरितध्वनिप्रभृतिकालङ्कारशास्त्रं मुहु- स्तन्मूलञ्च विसृष्टमर्थमखिलं काव्यप्रकाशस्य च ।
साहित्योत्तरदर्पणं विशदयन्नान्दयन् सज्जनान् भट्टाचार्य्यमहेश्वरो वितनुते विज्ञाप्रियां टिप्पणीम् ॥ २ ॥
शरदिन्द्वित्यादि स्वीयश्लोकं ग्रन्थकृदुत्थापयति–ग्रन्थारम्भ इति ।
ग्रन्थस्य प्रकृतग्रन्थस्य साहित्यदर्पणाख्यस्य, आरम्भे आरम्भकाले, वाग्देवतायाः साम्मुख्यामानुकूल्यमाधत्ते जनयती अर्थः ।
अत्र ग्रन्थकृदेब कर्त्ता बोध्यः ।
आरम्भकालस्य स्थूलत्वाद् योग्यतावशात् तत्पूर्वकाले एव साम्मुख्याधानं बोध्यम् ।
न च श्लोके साम्मुख्याधानबोधकाभावात् कथमिदमाभाषितमिति वाच्यम्, शरदिन्द्वित्यादि तत्सौन्दर्य्यकथनरूपस्तुत्या स्वचेतसि तमोनाशार्ऽथ प्रकाशनप्रार्थनया च तल्लाभात्, स्तुतस्यानुकूलत्वनियमात् तदानुकूल्यं प्रत्येवाभीष्ठप्रार्थनाच्च चेतस्यर्थप्रकाशे सत्यपि विघ्नाद् ग्रन्थस्य समाप्तिर्न भवतीत्यते ।
निर्विघ्नपरिसमाप्तिरपि तत्साम्मुख्यात् कामनीयेत्यत आह- निर्विघ्नेनेति ।
समाप्तिमात्रस्य लौकिकारणाधीनत्वे ऽपि तद्विघ्नविघातो देवतानुकूल्यादेवेति विघ्नाभावविशिष्ठसमाप्ति कामनयापि विघ्नाभावरूपविशेषणांशो विषयीक्रियते अहं सुखी स्यामिति कामनया सुखंशा इव ।
प्रारिप्सितग्रन्थपरिसमाप्तिरूपे फले ऽन्यदेवतापेक्षया तस्याः शीघ्नकारित्वप्रतिपादनाय तद्विशेषणमाह–वाङ्मयेति–स्वार्थे मयट् ।
वागधिकृताया इत्यर्थः ।
वस्तुतस्तु वाङ्मयाधिकृततयेति प्रामाणिकः पाठः ।
तथा च वागात्मकस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिरूपं फलं वागधिकारिण्या शीघ्रं दातुं शक्यमेवेति दर्शितम् ।

लोचना:

(लो, अ) प्रणमामि परां देवीं मूलाधारधृतोदयाम् ।
याद्विवर्त्तमिमं कृत्स्न्नं प्रपञ्चं परिचक्षते ॥ १ ॥
आसीत् कपिञ्जलकुलक्षीराकूपारचन्द्रमाः त्रिकलिङ्गधिपधराधामधीसचिवः कृती ॥ २ ॥
अशेषभाषारमणीभुजङ्गः साहित्यविद्यर्णवकर्णधारः ।
ध्वन्यध्वनिप्रौढधियां पुरोगः श्रीवश्वनाथः कविचकवर्त्तो ॥ ३ ॥
स्वल्पाक्षरः सुबोधार्थः प्रध्वस्ताशेषढूषणः ।
साहित्यदर्पणो नाम ग्रन्थस्तेन विनिर्मितः ॥ ४ ॥
पारं साहित्यविद्याब्धेर्गन्तुं वाञ्छन्ति ये क्षितौ कृतिरेषा तरिस्तेषां विश्वनाथमहाकवेः ॥ ५ ॥
श्रव्याभिनेयालङ्कारतत्त्वं सत्कविसम्मतम् ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ ६ ॥

अस्य सत्कविवाग्गुम्फजीवातोः कृतिनां मुदे ।
मया विधीयते टीका दुर्बोधार्थ-वेबोधैनी ॥ ७ ॥
इह खलु सूत्राणामेवार्थं वृत्त्या विशदीकुर्वन् ग्रन्थादौ विघ्नविघाताय अविगीतसदाचारपरम्पराप्राप्ततया स्वाभीष्टदेवताराधनेन सम्मुखीकरणसूचिकां कारिकामवतारयति-ग्रन्थेति ।
विन्घः प्रतिबन्धकदुरितसद्भावः प्रवर्त्तकसुकृतविरहो वा, तस्य अभावः-निर्विन्घम्, अव्ययीभावः ।
प्रारिप्सितं प्रारब्धुमिष्टं दृश्यश्रव्यकाव्यनिरूपकं प्रमेयजातम्, तस्य परिसमाप्तिर्यावद्विवक्षितार्थस्यास्खलनपूर्वकं समापनम् ।
वाङ्मयेत्यनेन स्वशास्त्रविधेयवग्वैभवदातृतया ह्मादिदेवाराध्यत्वेन भगवत्याः प्रकृतार्थनिर्वाहकत्वं सूचितम् ।

शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः सन्ततमर्थानखिलान्प्रकाशयतु ॥ विस्स्द्_१।१ ॥

टीका

विज्ञप्रिया:

(वि, ख) शरदिन्द्वित्यादि ।
शरदिन्दुवत् सुन्दररुचिः, सा प्रसिद्धागिरां देवी सरस्वती, मे मम चेतसि सन्ततं विस्तृतम्, तमः तमस्तुल्यमज्ञानम्, अपहृत्य, अखिलान् मया वक्ष्यमाणान् अर्थान् प्रकाशयत्वित्यर्थः ।
अत्राद्ये पादे लुप्तोपमामहिम्ना शरदिन्दोरपि सुन्दररुचित्वं सन्ततं तमः पदार्थान्धकारनाशकत्वं घटपटाद्यखिलार्थप्रकाशकत्वं च सिद्ध्यति ।
तथा च एभिः साधर्म्यैः शरदिन्दुगीर्देव्योरुपमानोपमेयभाव इति बोध्यम् ।

लोचना:

(लो, आ) शरदीत्यादि-शरदिन्दुसुन्दररुचेरेव शरदिन्दोः सुन्दररुचिरित्यध्यवसाना ।
सेति तच्छब्दाच्चतुराननादिवाग्वैभवादिदातृतया प्रसिद्धा ।
तमो ऽज्ञानमन्धकारश्च, अर्थान्-विवक्षितप्रमेयान् घटपटांश्च ।

अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह–

चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ विस्स्द्_१।२ ॥

चतुर्वर्गफलप्राप्तिहि कोव्यतो “रामादिवत्प्रवतितव्यं न रावणादिवत्” इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।

टीका

विज्ञप्रिया:

(वि, ग) काव्याङ्गतयेति—काव्यविचारकत्वेन तदङ्गता ।
चतुर्वर्गा धर्मार्थकाममोक्षाः, तद्रूपस्य फलस्य प्राप्तिरित्यर्थः ।
काव्यस्य चतुर्वर्गफलप्रापकत्वं दर्शयति–रामादिवदिति ।
प्रवृत्तिनिवृत्त्युपदेशद्वारेणेति–प्रवृत्त्युपदेशेन प्रवृत्तस्य धर्मोत्पत्तिः साक्षादेव, निवृत्त्युपदेशेन निवृत्तस्य धर्मोत्पत्तिः प्रतिबन्धकदुरितानुत्पत्त्या च, द्वेधापि तेषां प्रापकत्वम् ।
प्रवृत्तिजन्यधर्मात्तु साक्षादेवार्थादयः ।

लोचना:

(लो,इ) “प्रयोजनमनुद्दिश्य न मन्दो ऽपि प्रवर्त्तते"इति निबध्यमानकाव्यपरीक्षाशास्त्रस्य प्रयोजने वत्कव्ये “अङ्गिनः फलेनैवाङ्गस्य फलवत्ता"इति न्यायात् उत्कां काव्यफलप्रतिपादिकां द्वितीयकारिकामवतारयति-अस्येति ।
काव्याङ्गत्वं काव्यपरीक्षाशास्त्रत्वात् ।
चत्वारो वर्गाः धर्मार्थकाममोक्षाः ।
कृत्याकृत्यप्रवृत्तीत्यनेन काव्यस्य शास्त्रत्वं प्रदर्शितम् ।
यदाहुः “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमिति कथ्यते ॥
ननु कथं कविनोप्तादितेतिवृत्तानां मालतीमाधवरत्नावलीमृच्छकटिकादीनां स्वाभिधेयेषु प्रामाण्यम् ? नचाप्रमाणरूपस्य शब्दस्य शास्त्रत्वमिति चेदत्राह— “सुविदग्धप्रमा काव्यं प्रमाणं सर्वभेव नः ।
स्वप्रकाशरसास्वादप्रमितिप्रभवं यतः” ॥
इति ।
नतु प्रकारभेदाः प्रहेलिका व्यह्ग्यार्थविशिष्ठा नीरसा वाक्यविशेषाः ।
यथा- के दारपोषणरताः का शीतलाम्बुवाहिनी गङ्गा ।
कं सञ्जघान कृष्णः कं बलवन्तं न बाधते शीतम् “इति ।
अत्र हि प्रश्नरूपोर्ऽथो वाच्यः, उत्तररूपश्च व्यङ्ग्यः ।
तश्वाविनिबद्धविभावादिज्ञानस्य बाष्पारोपितधूमज्ञानादेस्तात्त्विकधूमध्वजादिज्ञापकत्ववत् रसप्रमित्यबुपपादकत्वमिति चेत्तत्राप्याह—“शरीरादिविवत्कात्मतत्त्वभावनया यथा ।
तत्त्वतो ऽप्रमयास्पष्ट-तत्त्वसाक्षात्कृतिः प्रमा ॥
असत्यमुल्लिखन्त्यापि विभावादिधियामुया ।
तद्वदेव रसादीनां व्यक्तिः प्रकरणादिषु” ॥
इति ।
इह च न्यायो ऽयमन्वाचयः, प्रकरणादि प्रमाणं रसास्वादजनकत्वात् काव्यत्वाद्वा, यदेवं तदेवम्, यथा रामायणादि, तथा चेदम्, तस्मात्तथेति ।
न यदेवं न तदेवं यथा प्रहेलिकेति ।
ननु रसरूपप्रमाणत्वेपि प्रकरणादेः रत्यास्वादानन्तरमसद्भूतत्वेनार्थानर्थोपदर्शनाभावाद्धिताहितप्रवृत्त् इनिवृत्तिकारित्वप्रयोजितं कथं हि शास्त्रत्वमिति न वाच्यम् ।
तथा हि– “लोकप्रसिद्धो व्युत्पादो नाटकाद्यवलोकनात् ।
कार्य्यदर्शनतस्तस्यानुगुणा हेतुकल्पना"इति न्यायेन सत्यासत्यत्वं वर्णनाबलात् ॥
“स्फुरता, तेन वृत्तेन व्युत्पत्तिर्जायते नृणाम् ।
सत्यासत्यत्वजिज्ञासा रसादेश्चरितेष्वपि ॥
व्युत्पत्तिकालेनैवास्ति तया पाश्चात्यया त्वलम् ।
“काको ऽस्ति वाटिकामध्ये"इति बालविभीषिका ॥
स्वार्थम्प्रामारायहीनापि न किं व्युत्पत्तिसाधनम् ।
रसस्य ज्ञानरूपत्वं तादात्म्यादिति वक्ष्यते ॥
नचाप्रमारसज्ञानं शुक्तौ रजतधीरिव ।
तस्मिन् न जायते बाधो यस्मादौत्तरकालिकः,” ॥

उक्तं च (भामहेन)–

“धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्” ॥
इति ।
किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसन्धानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।

टीका

विज्ञप्रिया:

(वि, घ) कला वैदग्धी, वैचक्षण्यं प्रवर्त्तकं ज्ञानं प्रवृत्त्युपदेशात्, एतज्जन्यफलाननुसन्धानादिति–तत्र फलं काशीप्राप्तिर्योगाभ्यासश्च, व्युत्पत्त्याधायकत्वादितिकाव्यस्थसंस्कृतदर्शनाद् व्युत्पत्तेः ।
एतानि च फलानि काव्यविशेषाणामेव ।
तथा च समस्तकाव्यप्रयोजनम्–“काव्यं यशसेर्ऽथकृतेठ इति यत् काव्यप्रकाशकारेणोक्तं तच्च “करोति कीर्त्तिं प्रीतिं च” इत्यत्रैवोक्तम्, समस्तकाव्यफलेन तेनैवास्य फलवत्त्वं बोध्यम्,

लोचना:

(लो,ई) सुप्रयुक्तः व्याकरणाविरोधेनोक्तः ।
मोक्षोपयोगिवाक्यं श्रुत्यादि ।
तत्र व्युत्पत्त्याधायकत्वं पदपदार्थसम्बन्धबोधकत्वात् ।

चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।

टीका

विज्ञप्रिया:

(वि, ङ) ननु चतुर्वर्गफलसाधके वेदशास्त्रे सति किमर्थं लोकः काव्ये प्रवर्त्ततामित्यत आह–चतुर्वर्गफलप्राप्तिरिति ।

लोचना:

(लो, उ) सुखादित्यादि विवृणोति-चतुर्वर्गेति ।
परमानन्दो रसादिरूपः तत्सन्दोहो विगलितवेद्यान्तररसततिस्तज्जनकत्वाद्युपचारात् ।
सुकुमारमतयः सुखैकप्रवणाः राजपुत्रप्रभृतयः ।
परिणतबुद्धयः श्रुत्याद्यभ्यासब्धक्लेशाः ।

ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च काव्यस्योपादेयत्वमग्निपुराणे ऽप्युक्तम्–

“नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा” ॥
इति ।

“त्रिवर्गसाधनं नाट्यम्” इति च ।
विष्णुपुराणे ऽपि–
“काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः” ॥
इति ।
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।
एतेनाभिधेयं च प्रदर्शितम् ।

टीका

विज्ञप्रिया:

(वि, च) एवं चाभिधेयं चेति ।
निरूपणार्थं काव्यस्य एतद्ग्रन्थाभिधेयत्वात् ।

लोचना:

(लो, ऊ) शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात् ।
नाट्यमभिनेयं नाटकादि ।
काव्यपरीक्षणं दिदर्शयिषुः प्राचीनकाव्यलक्षणेषु प्रमेयविरोधं दर्शयन्नाह–तत् किं स्वरूपमित्याह–“तददोषाविति” तदिति काव्यम्, दोषाः श्रुतिकट्वादयः, गुणा माधुर्य्यादयः, क्वाप्यनलङ्कृतीत्यनेन सर्वत्र सालङ्कारौ शब्दार्थौ काव्यम्, क्वचित्तु स्फुटालङ्कारविरहे ऽपि न काव्यत्वहानिरिति ।

तत्किंस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह–
“तददोषौ शब्दार्थौ सगुणावनवालङ्कृती पुनः क्वपि” इति ।
एतच्चिन्त्यम् ।

टीका

विज्ञप्रिया:

(वि, छ) कश्चिदिति काव्यप्रकाशकार इत्यर्थः ।

तथाहि–
यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा–
“न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, ज) न्यक्कारो ह्ययमेवेति–श्रीरामाक्रान्तलङ्कस्य रावणस्य विषादोक्तिरियम्, मे यदरयः अयमेव न्यक्कारः ।
तपस्विभक्षकस्य मम एकस्तापसो ऽरिरिति, अत्यन्तन्यक्कारत्वात्, आस्तां सो ऽपि सिन्धोरुदीचीतीरे खरदूषणादिहन्ता, सो ऽप्यत्रैव निहन्ति राक्षसकुलं नतु द्वित्रिराक्षसान् ।
अहो आश्चर्यमेवं न्यक्कारो ऽपि रावणो जीवतीति ।
भवतु वा मम दैवस्य प्रातिकूल्यादेवम्, शक्रस्य जेतारम् अर्थात् मेघनादं मम पुत्रं धिक् धिक्, तथा प्रबोधितवता प्रबोधितं प्रबोधः तद्वता भावक्तन्तत्वेन प्रबोधवता कुम्भकर्णेन वा किं फलमित्यर्थः ।
नत्वत्र क्तवतुः, तस्य कर्मण्यनभिधानात्, तथा मम भुजैर्वापि किम् ? कीदृशैः, मम विलुण्ठने स्वर्गो ऽपि ग्रामटिका स्वल्पग्रामः, तद्विलुण्ठनेन वृथोच्छूनैः निष्फलमुद्भटैः ।

लोचना:

(लो, ऋ) न्यक्कार इति-एतद्रामभद्रेणाभिभूयमानस्य रावणस्य निर्वेदवाक्यम् ।
क्षुद्रो ग्रामो ग्रामटिका ।
विलुण्ठनं विधूननम् ।

अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।
प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।

टीका

विज्ञप्रिया:

(वि, झ) विधेयाविमर्शेति–विधेयस्य न्यक्कारस्योद्देश्यादरिमत्त्वात् पूर्वनिपातात् “अनुवाद्यमनुक्त्वैन विधेयमुदीरयेत्” इति नियमात् ।
अनुभवबलादेष नियमः ।
काव्यत्वं न स्यादिति–नत्विष्ठापत्तिरित्यत आह–प्रत्युतेति ।
अङ्गीकृतेति सर्वैरिति शेषः ।
न केवलं काव्यप्रकाशकृता, परं सर्वैः ।
काव्यप्रकाशकृता काव्यप्रकाशे, “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः” इत्यनेन लक्षणेन ध्वनियुक्तत्वादस्य उत्तमकाव्यत्वस्वीकारात्, तस्मादव्याप्तिदोष इति—अत्र दोषसामान्याभावो लक्षणघटक इति तदभिप्रायमुन्नीय इदमुक्तम्, तस्य तु शाब्दबोधविघटकदोषसामान्याभाव एवाभिप्रयः ।
अन्यथा “तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम्” इत्यादिश्लेकः काकुसहकृतध्वन्युदाहरणतयोक्त्वा कथं तेनैव न्यूनपदत्वदोषे उदाहृतः ।
कथं वा “कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्” इत्यादिश्लेकः रौद्ररसोदाहरणत्वेनोक्त्वापि पुनरुक्तदोषत्वे उदाहृतः ।
तस्मादव्याप्तिप्रदर्शनं तदभिप्रायानवधानादेव ।

लोचना:

(लो, ॠ) विधेयाविमर्शो ऽविमृष्टविधेयांशः ।
वृथोच्छूनैरित्यत्र भुजामुच्छूनतया बृथात्त्वस्य तत्कालमात्रजातत्वाभिप्रयेण विधेयतां नेतुमुचितस्य तत्पुरुषसमासेन कविना गुणीभावं नीततया पूर्वसिद्धत्वात् अनुवाद्यत्व-प्रतीतिरिति विधेयस्य प्राधान्येनाविमर्शः, अनिर्द्दशः ।
अस्य श्लोकस्याङ्गीकृता पूर्वाचार्य्यैरिति शेषः ।
ध्वनित्वं ह्यत्र प्रतिपदमेवावभासते ।
तथा हि, अयमेवेत्यन्ययोगव्यवच्छेदसूचकस्य एवकारस्य, मे इति काकुपदस्य, अरय इति बहुवचनस्य, अत्रैवेति सर्वनाम्नः, निहन्ति जीवतीति तिङः, अहो इत्यव्ययस्य, रावण इति तत् तत् विशेषार्थान्तरसङ्कमितवाच्यपदस्य, धिक् धिक् इति द्विरुक्तेः, शकजितमिति ताच्छील्यविहितक्किप्प्रत्ययस्य, ग्रामटिकेति करूपतद्वितस्य, विठ्ठुणठनेति व्युपसर्गस्य, भुजैरिति बहुवचनस्य तद्व्यञ्जकविशेषत्वात् असंलक्ष्यकमो ध्वनिश्चात्र स्वामाननान्निर्वेदाख्यःसञ्चारिभावः ।
तस्मादव्याप्तिः ।
ध्वनिकारादिभिः ध्वनित्वेनोत्तमकाव्यत्वस्याङ्गीकारात् समनन्तरश्लेके तददोषविति लक्षणाव्यापनात् ।

ननु कश्चिदेवांशो ऽत्र दुष्टो न पुनः सर्वो ऽपीति चेत्, तर्हि यत्रांशे दोषः सो ऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।
न च कञ्चिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।
तथाहि–
काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।
अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।

टीका

विज्ञप्रिया:

(वि, ञ) स्वदत्तदोषं च स्वोद्भावितसिद्धान्तेन उद्धर्तुमाशङ्कते–नन्विति ।
तद्दूषयति–चेत्तर्हेति ।
नन्वंशविशेषस्थितेन दोषेण अपरांशादूषणात्तदंशे काव्यत्वं दोषवदंशे चाकाव्यत्वं स्यादत आह–नचेति ।
किं तर्हि समस्तमेवेति, समस्तस्यैव दूषणे युक्तिमाह–तथा हि–अन्यथेति ।
काव्यात्मभूतरसाद्यदूषणे ऽपीत्यर्थः ।
नित्यदोषानित्यदोषेति ।
च्युतसंस्कारादयः समस्तरसापकर्षकत्वान्नित्याः, श्रुतिदुष्टत्वं तु कतिपयशृङ्गरादिरसापकर्षत्वादनित्यमित्यभियुक्तकृतां व्यवस्थापि न स्यात्, तन्मते रसापकर्षकत्वस्य दोषत्वप्रयोजकत्वादित्यर्थः ।

लोचना:

(लो, ऌ) कश्चिदेवांशः, वृथोच्छूनैरित्ति भावः ।
इदं पद्यम्, ननु पदैकस्यैव विषयस्य विरुद्धधर्मयोगः स्यात् ।
इह तु दोषस्य यदङ्गस्य दूषकत्वं तस्याकाव्यत्वम्, ध्वनेश्च यस्योत्कर्षकत्वं तस्योत्तमकाव्यत्वमिति द्वयोर्न विरोधः इत्याशङ्क्याह-न चेति ।
कथमङ्गमात्रनिष्ठस्य दोषस्य काव्यापकर्षकतेत्यत आह-तथा हीति ।
रसापकर्षकाणामेव दोषत्वात्, कथमेवेत्याह-अन्यथेति ।
रसापकर्षकत्वे ऽप्यदोषत्वे, नित्यदोषाश्च्युतसंस्कृतप्रभृतयः, तेषां सकलरसापकर्षकत्वात्, अनित्यदोषाः श्रुतिकटुप्रभृतयः तथा हिरौद्रादिरसे प्ररूढश्रुतिकटुत्वस्य गुणत्वम्, यथा मम तातपादानां विजयनरसिंहे— “निःश्वासोद्घातवातप्रसरधुतकुलाहार्य्यमुद्घृष्टदंष्ट्रा- जातज्योतिः स्फुलिङ्गप्रकरविरचितोल्कानिकायाभिशङ्काः ।
अर्द्धेपारीन्द्रमर्द्धेनरमहह महालोकमालोक्य लोकाः स्तोकास्तोकाविशेषाः शरणमुपययुर्वारिधिं वारिधिं वा” ॥

यदुक्तं धवनिकृता–
“श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः” ॥
इति ।
किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसम्भवात् ।

टीका

विज्ञप्रिया:

(वि, ट) ध्वन्यात्मन्येवेति–ध्वनिकाव्यस्यात्मभूते शृङ्गारे इत्यर्थः ।
शृङ्गारपदं चात्र माधुर्य्यवद्रसोपलक्षकम् ।
तेन करुणशान्तरसयोश्च ते हेया इत्यर्थः ।
ननु नित्यत्वानित्यत्वप्रयोजकमेव रसापकर्षकानपकर्षकत्वम्, दोषताप्रयोजकं तु न रसापकर्षकत्वम्, किन्त्वभ्युक्तोक्तित्तत्स्वरूपमेव तत्प्रयोजकमित्यत आह–किञ्चेति ।

लोचना:

(लो, ए) ध्वन्यात्मनि ध्वनिस्वरूप इत्यर्थः ।
ननूत्तमकाव्यत्वेनाङ्गीकृतानामपि सदोषत्वे काव्यत्वं माभूत् इत्याशङ्क्याह–किञ्चेति ।
एवम् अदोषशब्दर्थयोरेकवाक्यत्वे ।

नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि “ईषद्दोषौ शब्दार्थौ काव्यम्” इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।

टीका

विज्ञप्रिया:

(वि, ठ) ईषदर्थे नञ इति—अदोषाविति नञ इत्यर्थः ।
निर्देषयोरिति शब्दार्थयोरित्यर्थः ।
प्रौढदोषयोस्तु काव्यत्वाभावस्य इष्टत्वादिति भावः ।
तथा च न्यक्कार इत्यादावव्याप्तिर्न दोषः ।
तयोः प्रौढदोषवतोः काव्यत्वाभावादिति भावः ।
लक्षणस्य दोषविशेषाभावघटितत्वेन कश्चिद्दोष इत्युक्तमवधेयम् ।

लोचना:

(लो, ऐ) नञः अदोषावितिपदस्थितस्य ।
निर्देषयोः क्वचित् कदाचित् कविनादोषभावेन निर्मितयोः काव्यत्वं न स्यात्, ईषद्दोषत्वकाव्यलक्षणस्य तत्रासम्भवात् ।

सति सम्भवे “ईषद्दोषौ” इति चेत् , एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।
नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।
तद्वदत्र श्रुतिदुष्टादयो ऽपि काव्यस्य ।
उक्तं च–
“कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः” ॥
इति ।

टीका

विज्ञप्रिया:

(वि, ड) सति सम्भव इति—स्फुटदाषरहिते कदाचिदीषद्दोषस्य सम्भवे सतीत्यर्थः ।
उक्तञ्चेति—यत्र रसादीनामसंलक्ष्यक्रमाणाम् अनुगमः स्फुटः तत्र दुष्टेष्वपि कीटानुविद्धरत्नादिसाधारण्येन काव्यता मता इत्यर्थः ।

लोचना:

(ओ) कीटानुविद्धेति-साधारण्येन सामान्येन काव्यतादुष्टेष्वपि मतेति सम्बन्धः ।

किञ्च ।
शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् ।
गुणानां रसैकधर्मत्वस्य “ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः” इत्यादिना तेनैव प्रतिपादितत्वात् ।
रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाप्ययुक्तम् ।

टीका

विज्ञप्रिया:

(वि, ढ) एवमदोषाविति विशेषणं दूषयित्वा सगुणाविति विशेषणं दूषयितुमाह–किञ्चेति ।
तेन गुणाश्रयरसव्यञ्जकत्वरूपपरम्परासम्बन्धेन शब्दार्थयोर्गुणवत्त्वोपचार इत्यर्थः ।
तथाप्युक्तं गुणवत्त्वविशेंषणमित्यर्थः ।

लोचना:

(लो, औ) एवमदोषत्वस्य काव्यलक्षणत्वं दूषयित्वा सगुणत्वस्यापि दूषयति ।
अनुपपन्नम् असम्भवीत्यर्थः ।
रसैकधर्म्मत्वस्य रसभात्रधर्भत्वस्य ।
तेनैव काव्यप्रकाशकारेणैव ।
रसाभिव्यञ्जकत्वेनेति ।
अयमर्थः-शब्दार्थौ खलु प्राचीनोक्तरीत्या निर्भितौ रसाभिव्यञ्जकौ भवतो ऽप्यनुमतौ; तेन रसादिरूपव्यङ्ग्यरूपाणामपि माधुर्य्यार्दानां व्यञ्जकरूपशब्दार्थधर्मत्वेनोपचारः ।
यदाह स एव “गुणवृत्त्या पुनस्तेषां स्थितिः शब्दार्थयोर्मता"इति ।
मैवमित्याह–तथापीति ।
उपचारतः सगुणौ शब्दार्थौ काव्यमिति यदुच्यत इत्यर्थः ।

तथाहि–
तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसो ऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् ।
अस्ति चेत् ? कथं नोक्तं रसवन्ताविति विशेषणम् ।

टीका

लोचना:

(लो, अ) कुतो ऽयुक्तमित्याह–तथा हीति ।
तयोरुपचारतः ।
सगुणयो रसो ऽस्ति नवेति, अयमर्थः–रसस्य सद्भावे एव काव्यत्वं तदभावे वेति ।
आदौ तुच्छतया द्वितीयं निराकरोति–नास्ति चेदिति ।
तदन्वयेति समानधर्मत्वादिति भावः ।
रसो ऽस्तीति प्रथमपक्षं दूषयति–अस्ति चेदिति ।
कथमिति–अयमाशयः, यदि गुणाभिव्यञ्जकयोः शब्दार्थयोः सतोरेव काव्यलक्षणत्वमाभिमतं तदा लक्षणस्य न्यूनपदत्वम् ।

गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत् ? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति ।
नहि प्राणिमन्तो देशाइति केनाप्युच्यते ।

टीका

विज्ञप्रिया:

(वि, ण) चेत्तर्हेत्यत्र चेत्तथपीत्यर्थः ।
नही प्राणिमन्त इति ।
शौर्य्यद्याश्रयप्राण्याश्रये देशे ऽनया शौर्य्यादिमन्तो देशा इति केनापि नोच्यते इत्यर्थः ।
इदं च ग्रन्थकृताऽरोपबीजानवधानादेकोक्तम्; तथा हि परम्पराघटक्य मध्यभूतसम्बन्धिनो बहिरिन्द्रियप्रत्यक्षत्वे सत्येव नैकमारोपः ।
यत्र तु परम्पराघटकमध्यभूतसम्बन्धी न बहीरिन्द्रियप्रतय्क्षस्तत्रत्वेवमारेपो दृश्यत एव ।
यथा शीतो वायुरुष्णं जलं सुगन्धिर्वायुरित्त्र परम्परासम्बन्धघटकानां मध्यभूतजलाग्निपुष्पावयवानां सूक्ष्यमत्वेनाप्रत्यक्षत्वात् तादृश आरोपः ।
प्रकृते ऽपि बहिरिन्द्रियाप्रतय्क्षस्य रसादेश्च परम्परासम्बन्धघटकत्वात् सम्भवत्येव गुणवत्तारोपः शब्दार्थयोरिति ।
अत एव शब्दतारत्ववदाकाशमिति नारोपः ।
तत्र परम्परासम्बन्धघटकस्य शब्दस्य बहिरिन्द्रियप्रत्यक्षत्वात् ।
नचैवं ज्ञानत्ववानात्मा इत्यारोपापत्तिः ।
तत्र परम्परासम्बन्धघटस्य ज्ञानस्य वहिरिन्द्रियाप्रत्यक्षत्वादिति वाच्यम् ।
यदि च तादृशरोपो नास्ति तदा कारणान्तराभावस्यैव तत्र कल्पनीयत्वात् ।
अत एनोदयनाचार्य्यैरुक्तम्, “आरोपे सति निमित्तानुसरणं न तु निमित्तमस्ति इत्यारोपः” इति ।
यस्तु जवाकुसुमस्य वहिरिन्द्रियप्रत्यक्षत्वे ऽपि लोहितः स्फटिक इत्यारोपः तत्र जवाकुसुमं नेदृशपरम्पराघटकं जवाकुसुमस्य स्फटिकावृत्तित्वात् ।
किन्तु जवाकुसुमस्य स्वच्छद्रव्यसान्निध्यमेव तद्रहितं पृथगेवारोपनिमित्तमिति सुधीभिरवधेयम् ।

लोचना:

(लो, आ) गुणवत्त्वेति–सगुणाविति पदेनैव शब्दार्थयोः सरसत्वमुक्तमित्यर्थः, तर्हेति–यदि सरसत्वप्रतिपादनाय सगुणावित्युक्तमित्यर्थः ।
तेन अलङ्काराः कटककुण्डलादिवदिति वचनेन अलङ्कारस्योत्कर्षमात्राधायकत्वात् लक्षणं परास्तमित्यर्थः ।
किञ्चात्र, तददोषाविति लक्षणे शब्दार्थाविति वचनमप्यसमीचीनम्, तथा हि, काव्यत्वसामान्यस्य किं शब्दार्थयोः संयोगादिवद् व्यासज्यवृत्तित्वम् ? उत गोत्वादिवत् प्रत्येकपरिसमाप्तिवृत्तित्वम् ? नाद्यः सामान्यत्वादेव ।
न द्वितीयः शब्दार्थयोः प्रत्येकं काव्यत्व-प्रसङ्गात् ।
एतच्च एतद्ग्रन्थकृता स्वकृतायां काव्यप्रकाशटीकायां लिखितमपि प्राचीनगौरवनियन्त्रितेनात्रोपेक्षितम् ।
अदोषत्वादीनां तु काव्यलक्षणत्वे प्रमेयार्थविरोधप्रसङ्ग इति तन्निराकृतम् ॥

ननु “शब्दार्थौ सगुणौ” इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत् ? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् ।

टीका

विज्ञप्रिया:

(वि, त) इदानीं सगुणत्वविशेषणस्य न लक्षणघटकत्वं किन्तु कव्युपदेशपरत्वमित्याशङ्कते, ननु शब्दार्थाविति दूषयति—चेन्नेति ।
शब्दार्थवत्वस्यापीत्यत्र तादात्म्यैनवतद्वत्ता शब्दार्थात्मक-काव्यस्य बोध्या ।
न तु स्वरूपाधायकत्वमिति स्वरूपं लक्षणम् ।
ने चेदमयुक्तं दूषणं स्वरूपाधायकत्वस्योक्ताशङ्कायामविषयत्वात्, किन्तु कव्युपदेशपरतया एवाशङ्कितत्वादिति वाच्यम् ।
न तु स्वरूपाधायकत्वामित्यस्य स्वरूपे लक्षणे न निवेशौचित्यमित्येव, अर्थात् कव्युपदेशपरविशेषणस्य लक्षणे दानानौचित्यादित्यर्थः ।

उक्तं हि–
“काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्” इति ।
एतेन “अनलङ्कृती पुनः क्वापि” इति यदुक्तम्, तदपि परास्तम् ।
अस्यार्थः- सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति ।
तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् ।
एतेन “वक्रोक्तिः काव्यजीवितम्” इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् ।
वक्रोक्तेरलङ्काररूपत्वात् ।

टीका

विज्ञप्रिया:

(वि, थ) शौर्य्यादिवदिति—रसस्योत्कर्षाधायका इति शेषः ।
कटककुण्डलादिवदिति शब्दार्थयोः शोभका इति शेषः ।
एतेनेति ।
उत्कर्षाधायकविशेषणस्य लक्षणे ऽप्रवेश्यत्वेन इत्यर्थः ।
सालङ्कारशब्दार्थयोरिति—शब्दार्थयोः सालङ्कारत्वस्येति पर्य्यवसितार्थः ।

लोचना:

(लो, इ) एतेनेति अलङ्कारादीनां कटककुण्डलादिसामान्यता उक्ता ।
वक्रीक्तिजीवितकारः, कश्चिदाह–अलङ्काररूपत्वात् ।
तथा ह्युक्तम्— “सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नो ऽस्यां कविना कार्य्यः को ऽलङ्कारो ऽनया विना"इति ।

यच्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्–
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥
इति ।
एतच्चिन्त्यम् ।

टीका

विज्ञप्रिया:

(वि, द) “यः कौमारहरऽ; इत्यादिश्लोकम् अस्फुटालङ्कारोदाहरणतया काव्यप्रकाशकार उदाहृतवान्, तत्र स्फुटालङ्कार एवास्तीत्याह—यच्चेति ।
यः कौमारहर इति ।
रेवातीरे कृतसङ्केतायाः कुलटायाः स्वगृहे इयं भावना ।
उत्कण्ठाकरणं मम यद्यपि नास्ति तथापि तत्र कृतसङ्केते रेवारोधसि रेवातीरे वेतसीनामतरुतले सुरतव्यापाररूपलीलाविधिनिमित्तं चेतः समुत्कण्ठते इत्यर्थः ।
उत्कण्ठाकारणभावं दर्शयति—“यठ कौमारहरऽ; इत्यादिना ।
कौमारं कुमारीत्वम्—अपरिणीतात्वम्, परिणयनेन यस्तद्वरः पतिरित्यर्थः ।
स एव वरः श्रेष्ठः, यथेष्टरतिसमर्थ इत्यर्थः ।
चैत्रक्षपा अपि सङ्केतस्थल इवात्राप्यविशिष्टा इत्याह–“ता एवऽ; इति ।
सुगन्धिवायुरप्यत्राप्यविशिष्ट इत्याह “ते चेतिऽ; ।
कदम्बानिलाः मध्यस्थितकदम्बवनानिला इत्यर्थः ।
अत एव ते प्रौढाः अपि मन्दत्वपर्य्यवसन्नाः वनानिलस्य प्रौढत्वे ऽपि मन्दत्वं वहबहिर्भावेन ।
सौगन्ध्यं तु मालत्यधीनमेव ।
चैत्रे कदम्बपुष्पस्याभाव एव, केचित्तु धूलीकदम्बपुष्पपरतया व्याचक्षते ।
तन्मते वायोः प्रौढत्वविशेषणानौचित्यापत्तेः अन्ये तून्मीलितमालतीनां ते च प्रौढसुरभयो घ्राणतर्पणगन्धाः, इति वायचक्षते ।
तन्न ।
तदा कदम्बानिला इत्यत्र ते च इत्यस्याभावात्, प्रत्यत्रिज्ञानुपपत्तेः ।
ते च इत्यस्यानुषङ्गे प्रकमभङ्गदोषापत्तेः, अनुषङ्गग्राहकाभावाच्च ।
सा चेति अहमपि तदवस्थैव, उभयत्र इत्यर्थः ।
इत्थमुत्कण्ठाकारणं नास्ति, तथापि चित्तस्वभाववैलक्षण्यादुत्कण्ठेत्यर्थः ।

लोचना:

(लो, ई) एवं काव्यलक्षणं दूषयित्वा काव्यप्रकाशकृतः स्फुटालङ्कारविरहोदाहरणे स्फुटालङ्कारं दर्शयन्नाह, यच्चेति—उदाहृतं काव्यप्रकाशकारैरिति शेषः ।
“यः कौमारेतिऽ; कौमारं नवयौवनम्, तदकृतकप्रेमासकृत्तया यो ऽतिवाहितवान् स कौमारहरः वरः स्वयंवृतः, नतु पित्रादिभिर्ग्राहितः ।
चैत्रो वसन्त;, तत्र जातिकदम्बाभावात्, मालती वासन्तिका ।
कदम्बो धूलिकदम्ब इति केचित् ।
सम्प्रदायविदस्तु स एव वसन्तः ता एव वर्षा इति मन्मथोद्दीपकत्वाविशेषाद् ऋतुद्वयस्यापि ग्रह इति व्याचक्षते ।

अत्र हि विभावनाविशेषोक्तमूलस्य सन्देहसङ्करालङ्कारस्यस्फुटत्वम् ।

टीका

विज्ञप्रिया:

(वि, ध) विभावनेति—उत्कण्ठाकारणाभावे ऽपि उत्कण्ठावर्णना विभावना ।
“विभावना विना हेतुं कार्य्योत्पात्तिर्यदुच्यते” इति तल्लक्षणात् ।
तथानुत्कण्ठाकारणपत्यादिसत्त्वे ऽपि उत्कण्ठारूपस्यानुत्कण्ठाभावस्य वर्णनाद् विशेषोक्तिः ।
“सति हेतौ फलाभावे विशेषोक्तिः” इति च लक्षणस्य वक्ष्यमाणत्वात्; तन्मूलसन्देहसङ्करस्य तन्मूलसन्देसङ्करालङ्कारस्य इत्यर्थः ।
तयोर्न सन्देहः ।
अविरोधिनोस्तयोरेकत्र समावेशसम्भवेन सन्देहाभावात् ।
किन्तु तदुत्थापिताद्भुतरसशृङ्गाराभासयोरङ्गङ्गिभावसन्देहेन रसवत् प्रेयो ऽलङ्कारयोरेव सन्देहः ।
तथा हि कारणाभावे फलात् कारणसद्भावे फलाभावाच्च विस्मयस्य उत्थापितत्त्वात्तत् स्थायिभावको ऽद्भुतरसः ।
स किमुपनायकविषयरत्युकण्ठालब्धस्य शृङ्गाराभासस्याङ्गमिति रसवदलङ्कार;? रसस्याङ्गत्वेन रसवदलङ्कारस्य वक्ष्यमाणत्वात् ।
किं वा स एव रसाभासाद्भुतरसस्याङ्गमिति प्रयो ऽलङ्कारछ, आभासस्याङ्गत्वे प्रेयो ऽलङ्गारस्य वक्ष्यमाणत्वात् ।
अङ्गाङ्गिभावं विना स्वातन्त्र्येण रसद्वयप्रतीत्यभावस्य सर्वालङ्कारिकसम्मतत्वात् ।
स्फुटत्वमति—इदं च न रुचिरं दूषणम्, तथा हि स्फुटत्वास्फुटत्वे तावत् शीघ्रप्रतीयमानत्वाप्रतीयमानत्वाभ्यामेव, तथा चात्र कारणभावफलाभावयोर्वाचकस्य नञो ऽभावेन तत् कल्पनाया विलम्बेनास्फुटत्वात् एवं तयोरस्फुटत्वाच्च सुतरां तन्मूलदर्शितालङ्कारयोरस्फुटत्वम् ।

लोचना:

(लो, उ) अत्र हीति कारणाभावे कार्य्योत्पत्तिर्विभावना सा चात्रास्फुटा ।
ये खलु उत्कण्ठायाः कारणानि प्रियसङ्गमाभावादयः, तदभावे ऽप्यत्र उत्कण्ठोत्पन्नेति; तदभावश्च तद्विरोधिप्रियसङ्गमसद्भावमुखेनोपनिबद्ध इति विभावानास्फुटा ।
यदि खलु प्रियसङ्गमाभावादीनां कारणानामसद्भावमुखेन वर्णनं तदेव तस्याः स्फुटत्वम् ।
विशेषोक्तश्च कारणसामग्र्ये कार्य्यानुत्पत्तिरूपा, साप्यत्रास्फुटा, प्रियसन्निधानादयो धृतेः कारणानि ।
अत्र च तेषु सत्खपि धृतिर्नोत्पन्नेत्युत्कण्ठोत्पत्तिमुखेन वर्णितम्, यदिधृतिर्नोत्पन्नेत्युच्यते, तदा कार्य्यानुत्पत्तेः स्फुटतयोक्तत्वात् विशेषोक्तिः स्फुटा स्यात् ।
इह विरुद्धरूपोत्कण्ठोत्पत्तिमुखेन धृतेरनुपपत्तिरुक्ता, अतो विशेषोक्तिरस्फुटा ।
एवमत्र द्वयोर्विभावनाविशेषोक्त्योरस्फुटार्थत्वात् स्फुटालङ्कारविरह इति काव्यप्रकाशकृतो मतम् ।
तत्राह—अत्रहीति, अयमर्थः–अत्र विभावनाविशेषोक्ती अस्फुटे, तथापि तदुभयारब्धसन्देहे सङ्करालङ्कारस्य स्फुटत्वात् कथं स्फुटालङ्कारविरह इति ।
संसृष्टि सङ्करौ च लौकिकमुकुटाद्यलङ्कारमिश्रणेनेव पृथगलङ्कारत्वेनाभ्युपगतौ ।

एतेन–
“अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति” ॥
इत्यादीनामपि काव्यलक्षणत्वमपास्तम् ।

टीका

विज्ञप्रिया:

(वि, न) एतेनेति–अस्मदुक्तदूषणेनेत्यर्थः ।

लोचना:

(लो, ऊ) एतेन-तददोषाविति लक्षणस्य काव्यलक्षणत्वाभावकथनेन ।
अदोषभित्यादि सरस्वतीकण्ठाभरणोक्तलक्षण्म् ।
विशेषश्चात्र सरसाविति वचने श्रुत्यर्थत्वेन सगुणाविति वचनं समनन्तरोक्तरीत्यानर्थकम् ।

यत्तु ध्वनिकारेणोक्तम्–
“काव्यस्यात्मा ध्वनिः”– इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तेः ।
द्वितीयश्चेदोमिति ब्रूमः ।

टीका

विज्ञप्रिया:

(वि, प) ध्वनिरितीति—व्यङ्ग्यार्थ इत्यर्थः ।
नतु ध्वनिकाव्यम् ।
काव्यस्य काव्यात्मत्वासम्भवात् ।
प्रहेलिकादाविति ।
न च तदपि काव्यमेवेति वाच्यं व्यङ्ग्यस्यास्वाद्यत्ववशादेव काव्यात्मत्वकथनात् ।
प्रहेलिकादौ तु व्यङ्ग्यस्याबोध्यतायामेव कवेस्तात्पर्य्यात्, अबोध्यत्वादेव तस्य वैचित्र्यम्, नत्वास्वाद्यव्यङ्ग्यत्वम्, तथा हि– “तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः ।
गुरूणां सन्निधानेपि कः कूजति मुहुर्मुहुः ॥
ऽ; इत्यत्र यः पूर्णकलशो व्यङ्ग्यस्तस्याबोध्यतायामेव कवेस्तात्पर्य्यादत्रैव वैचित्र्येण अलङ्कार एव प्रहेलिका ।
यत्तु अस्फुटाख्ये गुणीभूते व्यङ्ग्ये कृच्छ्रगम्यत्वं तत्र कृच्छ्रगम्यतायां न कवेस्तात्पर्य्यमतस्तस्य नातिकृच्छ्रगम्यत्वम्, आस्वाद्यत्वं चास्त्येव ।
प्रहेलिकादावित्यादिपदात् कर्तृकर्मगुप्त्यादिपरिग्रहः ।
द्वितीयश्चेदिति–स्वीकारे ओङ्कारः ।
मयापि “वाक्यं रसात्मकं काव्यम्ऽ; इति वक्ष्यमाणत्वादिति भावः ।

लोचना:

(लो,ऋ) सम्प्रति रसमात्रध्वनेः काव्यत्वं सिषाधयिषुर्वस्त्वलङ्कारयोस्तन्निरस्यन् आह-यत्त्विति ।
ध्वनिकारः श्रीमदानन्दवर्द्धनाचार्य्यः ।
वस्तु अर्थमात्रम्, अलङ्कारस्तदेव विच्छित्तियुक्तम् ।
रसः शृङ्गारादिः, आदिशब्दात् भावतदाभासादयो ऽसंलक्ष्यकमभेदाः ।
प्रहेलिका-व्यङ्ग्यार्थविशिष्टो नीरसो वाक्यविशेषः ।
यथा—
“के दारपोषणरताः का शीतलाम्बुवाहिनी गङ्गा ।
कं सञ्जघान कृष्णः कं बलवन्तं न बाधते शीतम्” ॥
इत्यत्र प्रश्ररूपोर्ऽथो वाच्यः, उत्तररूपश्च व्यङ्ग्यः ।
तथा हि–दाराणां भार्य्याणां पोषणे रताः के ? शीतम्बुवाहिनी गङ्गा का ? कं कृष्णः सञ्जघान ? बलवन्तं कं न बाधते शीतम् ? इति प्रश्नः ।
उत्तरपक्षे केदाराः क्षेत्राणि ।

ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा,

टीका

विज्ञप्रिया:

(वि, फ) ननु यदि व्यङ्ग्यो रस एव काव्यस्यात्मा तदा वस्तुनो व्यङ्ग्यत्वे कथं काव्यत्वमित्याशङ्कते “ननु रसादिमात्रेति” ।

तदा–
अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥

टीका

विज्ञप्रिया:

(वि, ब) अत्ता एत्थेति— “श्वश्रूरत्र निमज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायामावयोर्मङ्क्ष्यसि ॥
" रात्र्यन्धत्वेन कथितात्मानं स्वगृहे कृतावासं पथिकं प्रति स्वयं दूत्या उक्तिरियम् ।
अत्ता श्वश्रूः वेशी ।
श्वश्रा निमज्जनकथनेन अस्या मृतप्रायत्वं सूचितम् ।

लोचना:

(लो, ॠ) अत्तेति–दिवसकमिति काले कर्म, अत्र पुंश्चलीवचनेन मत् शय्यास्थानम् अभीतं समागच्छेत्यर्थमात्रस्य ध्वनितम् ।
कथमेवमादीनां काव्यत्वाभ्युपगम इति पूर्वपक्षः ।
सिद्धान्तमाह–अत्रापीति, रसाभासवत्तयैव ।
नतु केवलं वस्तुमात्रस्य व्यङ्ग्यत्वेन ।
रसाभासश्चात्र पुंश्चल्याः परनायकविषयाया रतेः प्रकाशनात् ।
अथवा नरिसेष्वपि वस्तुमात्रप्राधान्येन काव्यव्यवहारस्वीकारः ।

इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत् ? न,-अत्रापि रसाभासवत्तैवेति ब्रूमः,

टीका

विज्ञप्रिया:

(वि, भ) वस्तुमात्रस्य व्यङ्ग्यत्व इति ।
मम शय्यायामागमिष्यसीत्येवं वस्तुमात्रस्य इत्यर्थः ।
रसाभासेति ।
उपनायकविषयत्वादाभासः ।
व्यङ्ग्यान्तरसत्त्वे ऽपि रसपर्य्यवसान एव काव्यत्वम् ।
तथात्वाभावे काव्यत्वस्वीकारे त्वतिव्याप्तिरित्याह—अन्यथेति ।

अन्यथा “देवदत्तो ग्रामं याति” इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् ।
अस्त्विति चेत् ? न, रसवत एव काव्यत्वाङ्गीकारात् ।
काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां “रामादिवत्प्रवर्तितव्यं न रावणादिवत्” इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् ।

टीका

विज्ञप्रिया:

(वि, म) रसवत एव काव्यत्वाङ्गीकारे बीजमाह–काव्यस्य प्रयोजनमिति ।
कृत्याकृत्येति रसास्वादमुखपिण्डदानदर्शनात्तादृशमुखपिण्डस्यैव मुख्यप्रयोजनत्वमुक्तम् ।
तादृशोपदेशस्तु यथासम्भवमेवेत्युक्तम् ।
तथा च—“शून्यं वासगृहमित्यादिऽ; “यः कौमारहरऽ; इत्यादिश्लेकेषु तादृशोपदेशाभावे ऽपि काव्यत्वमक्षुण्णम् ।

लोचना:

(लो, ऌ) काव्यस्येति–अयमर्थः, रसास्वाद एव मुखं पिण्डस्य द्वारेण तदुक्तम्— “स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपयुञ्जते ।
ग्रथमालीढमधवः पिबन्ति कटु भेषजम्” ॥
इति ।

तथा चाग्नेयपुराणो ऽप्युक्तम्–
“वाग्वैदग्ध्यप्रधाने ऽपि रस एवात्र जीवितम्” इति ।
व्यक्तिविवेककारेणाप्युक्तम्–
“काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः” इति ।

टीका

विज्ञप्रिया:

(लो, ए) व्यक्तिविवेककारो हि महिमाचार्य्यः ।
आत्मलाभः कविसञ्ज्ञाप्रप्तिः तत्सिद्धेः इतिवृत्तलाभात् ।
आदिशब्देन रसमात्रस्य काव्यजीवात्मत्वाप्रतिपादको वाग्गुम्फः ।
ननु तर्हेति–ननु यदि रसवदेव काव्यमित्यर्थः ।
नीरसानां वर्णिणतपर्वतादिपात्राणाम् ।
सिद्धान्तमाह–प्रबन्धरसो महाकाव्यम् ।
रीतिः पदसङ्घटना, अवयवाः पदानि ।

ध्वनिकारेणाप्युक्तम्–
“नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः” इत्यादि ।
ननु तर्हि प्रबन्धान्तर्वर्तिनां केषाञ्चिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत् ? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् ।
यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव ।
यत्तु वामनेनोक्तम्–
“रीतिरात्मा काव्यस्य” इति, तन्न; रीतेः सङ्घटनाविशेषत्वात् ।
सङ्घटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् ।

टीका

विज्ञप्रिया:

(वि, य) वाग्वैदग्ध्यमलङ्कारः ।
सञ्ज्ञिनि काव्यसञ्ज्ञावति व्यङ्ग्यार्थसाधारणस्यार्थस्य काव्यसञ्ज्ञावत्त्वात् ।
इतिवृत्तं वर्णितार्थः ।
गुणक्रियेति ।
यद्यपि वर्णो गुणस्यैव व्यञ्जको न क्रियायास्तथापि अत्र वर्णपदं वर्णादिपरं बोध्यम् ।

यच्च ध्वनिकारेणोक्तम्–
“अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ” ॥
इति ।
अत्र वाच्यात्मत्वं “काव्यस्यात्माध्वनिः-” इति स्ववचनविरोधादेवापास्तम् ।

टीका

विज्ञप्रिया:

(वि, र) नच्यप्रतीयमानाविति ।
अत्र वाच्यपदं प्रतीयमानपदार्थव्यङ्ग्यभिन्नपरम्, तेन लक्षणार्थस्यापि परिग्रहः ।
स्ववचनेति ।
ध्वनिर्व्यङ्ग्यार्थः ।
तस्यात्मकत्वकथनवाच्यार्थात्मकथनरूपयोः स्ववचनयोर्विरोधादित्यर्थः ।

तत्किं पुनः काव्यमित्युच्यते–

वाक्यं रसात्मकं—

रसस्वरूपं निरूपयिष्यामः ।
रस एवात्मा साररूपतया जीवनाधायको यस्य ।
तेन विना तस्य काव्यत्वानङ्गीकारात् ।
“रस्यते इति रसः” इति व्युत्पत्तियोगाद्भावतदाभासादयो ऽपि गृह्यन्ते तत्र रसो यथा–

टीका

विज्ञप्रिया:

(वि, ल) तत् किं पुनः काव्यमित्यादिप्रश्रः ।
“उच्यतेऽ; इत्यादि समाधानम् ।
प्रतिपादितत्वादिति–“देवदत्तो गच्छतिऽ; इत्यादिनेत्यर्थः ।

लोचना:

(लो, ऐ) एवं प्राक्तनलक्षणानां प्रमेयविरोधं दर्शयित्वा स्वलक्षणामवतारयति ।
तत् किं पुनरिति–यदि नैतानि काव्यलिङ्गलक्षणानीत्यर्थः ।
रसात्मकमित्यत्र रसपदेनासंलक्ष्यकमभेदानां सर्वेषां परिग्रह इत्याह–रस्यत इति ।
रस्यते आस्वाद्यते, स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भव इत्युक्तप्रकारः, कर्मत्वं रसादीनामुपचारात् ।
कर्मकर्त्तरि, वा प्रयोगादिति वक्ष्यते ।
तदाभासाः रसाभासा भावाभासाश्च आदिशब्दात् भावस्य शान्तिरुदयः सन्धिः शबलता च ।

शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ॥

टीका

विज्ञप्रिया:

(वि, व) शून्यं वासगृहमित्यादि ।
किञ्चिदुद्भिन्नयौवनायाः नवोढयाः क्रियावर्णनमिदम् ।
अत्र विलोक्येत्यादिक्रमेणैव सकलक्रियाणां पूर्वापरभावः क्त्वानिर्द्दिष्टो बोध्यः ।
शयनात् किञ्चिदुत्थानं प्रियजागरणे द्रुतं सम्वरणाय ।
शनैस्त्वं तु शब्दानुत्पत्तये ।
पतिमुखचिरनिर्वर्णनं निद्रानिश्चयायानुरागेण च ।
विश्रब्धं निद्रानिश्चयेन जाताश्वासम्, यथा स्यात् तथा चुम्बनक्रियाविशेषणमिदम्, आलोक्य लज्जानम्रमुखी जाता इति शेषः मुखेन बोध्यम् ।
तदैव क्रियाद्वयैककर्त्त्षṬक्येन क्त्वानिर्द्देशोपपत्तेः (?) ।
एतत् पर्य्यन्ताक्रियासु बाला कर्त्त्रे, हासप्रियचुम्बनस्य तु कर्म ।
चुम्बनस्य चिरत्वं नायिकाया भावनिश्चयेन त्रासाशङ्काभावादनुरागाधिक्योत्पत्तेश्च ।
अत्र व्यङ्ग्यौ परस्पररतिसम्भोगशृङ्गारौ ।
शून्यवासगृहविलोकनं रतेरेवोद्दीपनविभावः ।
शय्योत्थानादिमुखनम्रतान्ताः क्रिया नायिकाया रतेरनुभावाः ।
ता एव नायकरतेरुद्दीपनविभावाछ, प्रियेण चुम्बनं तदीयहासश्च तदीयरतेरनुभावौ, तावेव नायिकारतेरुद्दीपनविभावौ, उभयाभिज्ञे सामाजिके रसोत्पत्तिः ।

लोचना:

(लो, ओ) शून्यमिति-शून्यं विविक्तं वासगृहं केलिभवनं विलोक्य, शयनात्, शय्यायाः किञ्चिदुत्थाय उत्थिता भूत्वा शनैर्मन्दं निः शब्दमित्यर्थः ।
बाला निद्राव्याजमुफगतस्य प्रियस्य मुखं सुचिरं निर्वर्ण्य दीर्घकालं विलोक्य सम्यक् परीक्ष्य इत्यर्थः ।
विश्रब्धं निः शङ्कं यथा स्यात्तथा परिचुम्ब्य आस्वाद्य जातपुलका उत्फुल्लरोमाञ्चाङ्कितां गण्डस्थलीं विलोक्य लज्जानम्रमुखी व्रीडावनतवदना सती हसता प्रियेण चिरं चुम्बितेति सम्बन्धः ।
नायिका स्वीया, नायको ऽनुकूलः, अत्र नर्मगर्भजातिरलङ्कारः ।
शून्यभित्यादि, अत्र विलोकनशब्दो ऽन्तर्भूतणिजर्थः, तेनालोकनम्, अनयोरेककर्त्तृकतया पूर्वकालीनक्त्वाप्रत्ययः ।
इह च नायको नायिका चालम्बनविभावौ ।
शून्यवासगृहादिरुद्दीपनविभावः ।
अनुभावा बालागतविलोकनादयः नायकागता व्याजनिद्रादयश्च ।
निद्राया हि व्याजारब्धतया न व्यभिचारित्वम्, व्यभिचारिणश्चनायिकागताः, विलोकनेन शङ्का, उत्थानेन चपलता ।
उत्थानस्य शनैस्त्वेन त्रासः, चिरं निर्वर्णनेन सुप्तो न वेति सन्देहप्रभवो वितर्कः, विश्रब्धमित्यनेन निद्रानिश्चयज्ञानेन हर्षः, परिचुम्बनेनौत्सुक्यम्, आलोकनेन चपलता, विश्रब्धमित्यनेन लज्जा निर्द्दिष्टैव ।
नायकगता च व्याजनिद्राश्रयेण धृतिः, चिरपरिचुम्बनेनौत्सुक्यं हर्षश्च ।
एभिश्च साधारण्येनाभिव्यक्तः सामाजिकरतिभावः शृङ्गारसरूपतां भजते ।
एवं वक्ष्यमाणोदाहरणोष्वपि विभावादिविवेको बोद्धव्यः ।

अत्र हि सम्भोगश्र्टङ्गाराख्यो रसः ।
भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्–
“यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलम्, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी ।
क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलम्, कस्मैचिदस्मै नमः” ॥
अत्र भगवद्विषयारतिर्भावः ।

टीका

विज्ञप्रिया:

(वि, श) यस्यालीयत इति ।
अस्मै यत्पदोपस्थापिताय कस्मैचित् अनिर्वचनीयाय अर्थाद्दशावतारिणे नारायणाय नमः ।
तस्य मत्स्यादिदशावतारभेदेन धर्म्मानाह—यस्येति ।
उलधितो ऽपि मत्स्यस्य प्रौढोक्त्या महत्त्वात् तच्छल्कसीम्नि लयः ।
पृष्ठ इति-इदं कूर्मावतारे ।
अलीयत इति सर्वत्रान्वयः ।
जगन्मण्डलं भूमण्डलं पृष्ठस्य महत्त्वात् ।
दंष्ट्रायामिति वराहावतारे ।
दितिसुताधीशो हिरण्यकशिपुः, इदं नरसिंहावतारे ।
रोदसी द्यावापृथिव्यौ, इदं वामनावतारे ।
क्रोध इति परशुरामावतारे ।
ध्यानम् इति बुद्धावतारे विश्वध्यायित्वात् ।
असाविति कल्क्यवतारे आसिना म्लेच्छच्छेदनात् ।

लोचना:

(लो, औ) यस्यालीयतेति–अत्र भगवतो दशावतारवर्णानम् ।
अत्रालीयतेति कियायाः प्रतिवाक्यमन्वयः ।
शल्कसीन्मि वल्कलप्रदेशे जलधिरलीयतेति, अनेन मत्स्यः ।
पृष्टदेशे जगन्मण्डलमलीयतेति कूर्मः, एवं वराहादयः ।
कस्मैचिद् विशेषतो निर्द्देष्टुमशक्यत्वात् ।

रसाभासो यथा–
मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥

टीका

विज्ञप्रिया:

(वि, ष) मधुद्विरेफ इति—महेशतपोभङ्गायाऽकालिके वसन्ते जाते तिरश्चामपि मान्मथक्रियावर्णनमिदम् ।
अत्र प्रियया साहित्येन मधुपानं प्रियाकण्डूयनं च द्विरेफकृष्णसारयो रतेरनुभावौ ।
तयोः शृङ्गारयोस्तिर्य्यग्गतत्वेन भासः ।
एवमन्यदिति ।
भावाभासादयो ऽप्येवम्, ते चाग्रे प्रदर्शयिष्यन्ते ।

लोचना:

(लो, अ) कुसुमरूपे एकस्मिन् पात्रे ।

अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः ।
एवमन्यत् ।
दोषाः पुनः काव्ये किंस्वरूपा ?

टीका

विज्ञप्रिया:

(लो, आ) दोषाः पुनरिति—येषां सद्भावेन काव्यत्वं खणिडतमित्यर्थः ।
किं स्वरूपाः किमाकारेण वर्त्तन्ते इति पूर्ववद् व्याख्यानम् ।

इत्युच्यन्ते–

—दोषास्तस्यापकर्षकाः ।

श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते ।
एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते–

उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ॥ विस्स्द्_१।३ ॥

गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते ।

टीका

विज्ञप्रिया:
(वि, स) श्रुतीति—श्रुतिदुष्टादयः अपुष्टत्वादयोर्ऽथदोषाः ।
एते च शब्दार्थद्वारेण रसमपकषर्यन्त इत्यन्वयः ।
व्यभिचारिभावादेः स्वशबादवाच्यत्वादयः साक्षादित्यर्थः ।
उत्कर्षहेतव इति—काव्यात्मभूतस्य रसस्य उत्कर्षहेतव इत्यर्थः ।
तद्धेतुता च शब्दार्थद्वारेण इति व्याख्यास्यते ।
शब्दार्थावुत्कुष्य रसमुत्कर्षयन्तीत्यर्थः ।

इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दो ऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते ।
अतश्च “गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः” इत्युक्तं भवतीति प्रागेवोक्तम् ।
एषामपि विशेषोदाहरणानि वक्षयामः ।

टीका

विज्ञप्रिया:

(वि, ह) ननु शब्दार्थद्वारेण रसोत्कर्षकत्वमलङ्काररीतीनां शब्दार्थधर्माणामेव सम्भवति रसमात्रधर्माणामेव गुणानां कथं तद्द्वारकत्वं व्याख्यातमित्यत आह—इहेति ।
गुणाभिव्यञ्जकशब्दार्थयोरिति ।
यद्यपि वर्णा एव गुणाभिव्यञ्जका इति वक्ष्यन्ते तथापि वर्णेन पदन्तेनार्थस्तेन च गुणो व्यज्यते, इत्यभिप्रायेण अर्थस्य गुणाभिव्यञ्जकत्वमुक्तम् ।
तथा च स्वाव्याख्यातार्थ एवानेनोपपादितः स्वयम्, तथा व्याख्याने तु गुणानां साक्षाद्रसोपकारकत्वेनैव कारिकार्थः सङ्गच्छते इति बोध्यम् ।
प्रागेवोक्तमिति—ननु शब्दार्थद्वारा गुणानां रसोत्कर्षकत्वं प्राङ्नैवौक्तम् ।
तत् कथमिदमुक्तमिति चेत्, सत्यम् किन्तूत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतय इत्युक्तौ अलङ्काररीत्योः समभिवायहारेण पाठवशात् तद्रीतिकत्वलाभः ।
अत उक्तमित्यत्र उक्तप्रायमित्येवार्थः ।

लोचना:

(लो, इ) शौर्य्यादिवदिति–शौर्य्यादिव्यञ्जकशरीरिकधर्मविशेषवत् ।
अलङ्गाराश्चानुप्रासोपमादयः, ये च तद्धर्मविशेषान्तः पातित्वादिरूपेण प्रतिपादयिष्यमाणाः प्राचीनोक्ताः श्लेषप्रसादादयः तद्युक्तशब्दः चार्थश्च प्राचीनोक्तश्लेषप्रसादादिगुणयुक्तः तयोः रसादिरूपव्यङ्ग्यानां गुणानां व्यञ्जकत्वेन उपचर्य्यते, तदाह काव्यप्रकाशकार एव, “गुणवृत्त्या पुनस्तेषां स्थितिः शब्दार्थयोर्मता"इति ।
ननु भवन्मते माधुर्य्यादयस्त्रय एव गुणास्ते च रसमात्रनिष्टाः ।
प्राचीनोक्ताः श्लेषप्रसादादयः शब्दार्थनिष्टत्वेन विंसातिप्रकारास्ते च भवद्भिरस्वीकृतत्वेन च निर्द्देष्टव्याः; तत् कथमिदानीं तद्युक्तयोः शब्दार्थयोर्व्यञ्जकत्वम् ? उच्यते न खलु तेषामखीकारः, किन्तु अन्तर्भावित्वादिरूपेण शब्दार्थमात्रनिष्टत्वात् रसमात्रनिष्टगुणवैजात्यात् न पृथगुक्तिः ।
यदाह–“केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः"इति ।
न वयं तेषां यथासम्भवं ससधर्मत्वेनोक्तानां व्यञ्जकत्वं न स्वीकुर्मः, किन्तु रसधर्मत्वम् ।
तदुक्तं ध्वनिकृता, “रौद्रवीररसाविष्टा लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्याक्तिहेतू शब्दार्थवाश्रित्यौजो व्यवस्थितम्” ॥
इति सर्वमतावदातम् ।

इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहत्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।