विस्तारः (द्रष्टुं नोद्यम्)
Vidyanatha: Prataparudriya, or Prataparudrayasobhusana,
with Kumarasvamin’s Ratnapana commentary
(Source of electronic text unknown)
श्रीमद्विद्यानाथप्रणीतं प्रतापरुद्रीयम्
श्रीमत्कुमारस्वामिकृतरत्नापणसहितम्
अथ नायकप्रकरणम् ।
विद्याकैरवकौमुदीं श्रुतिशिरः सीमन्तमुक्तामणिं दारान् पद्मभुवस्त्रिलोकजननीं वन्दे गिरां देवताम् ।
यत्पादाब्जनमस्क्रियाः सुकृतिनां सारस्वतप्रक्रियाबीजन्यासभुवो भवन्ति कवितानाट्यैकजीवातवः ॥ १,१ ॥
पूर्वेभ्यो भामहादिभ्यः सादरं विहताञ्जलिः ।
वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसङ्ग्रहम् ॥ १,२ ॥
चिरेण चरितार्थो ऽभूत् काव्यालङ्कारसङ्ग्रहः ।
प्रतापरुद्रदेवस्य कीर्तिर्येन प्रकाश्यते ॥ १,३ ॥
रसप्रधानाः शब्दार्था गुणालङ्कारवृत्तयः ।
रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः ॥ विप्रुद्_१।४ ॥
यद्यप्यसौ प्रबन्धेषु प्राचां साधु निरूपिता ।
तथाप्यस्याः समं नेतुर्नोदाहरणमादृतम् ॥ विप्रुद्_१।५ ॥
पुण्यश्लोकस्य चरितमुदाहरणमर्हति ।
न कश्चित् तादृशः पूर्वैः प्रबन्धाभरणीकृतः ॥ विप्रुद्_१।६ ॥
प्रबन्धानां प्रबन्धॄणामपि कीर्त्तिप्रतिष्ठयोः ।
मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥ विप्रुद्_१।७ ॥
यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणम्, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः ।
यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात् काव्यादपि ।
इयान् विशेषः—काव्यात् कर्तव्यताधीः सरसा, अन्यत्र न तथा ।
तथा हि—
यद्वेदात् प्रभुसम्मितादधिगतं शब्दप्रधानाच्चिरं यच्चार्थप्रवणात् पुराणवचनादिष्टं सुहृत्सम्मितात् ।
कान्तासम्मितया यया सरसतामापाद्य काव्यश्रिया कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे ॥ विप्रुद्_१।८ ॥
ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् ।
तच्चोक्तं काव्यप्रकाशे—
“काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे” ॥
इति ।
प्रसिद्धं चैतन्महाप्रबन्धेषु—
“परिवड्ढै विण्णाणं सम्भाविज्जै जसो विडप्पन्दि गुणा ।
सुत्रै सुपुरुसचरिअं किं तज्जेण ण हरन्ति कव्वाठ्ठावा” ॥
(परिवर्धते विज्ञानं सम्भाव्यते यशो ऽर्ज्यन्ते गुणाः ।
श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति काव्यालापाः) ॥
यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत् काव्यं परित्याज्यमेव ।
तन्मूला चेयं
स्मृतिः—“काव्यालापांश्च वर्जयेत्ऽ; इति ।
न केवलं काव्यस्यायं पन्थाः ।
किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः ।
तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता ।
तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् ।
किं बहुना? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते ।
ऽअथातो धर्मजिज्ञासाऽ; इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् ।
तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः ।
अतश्च,
प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः ।
अलङ्कारप्रबन्धो ऽयं सन्तः कर्णोत्सवो ऽस्तु वः ॥ विप्रुद्_१।९ ॥
काकतीयनरेन्द्रस्य यशो भूषयितुं कृता ।
विद्यानाथकृतिश्चेयं स्वयं तेन विभूष्यते ॥ विप्रुद्_१।१० ॥
तदुक्तं दण्डिना—
“आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् ।
तेषामसन्निधाने ऽपि न स्वयं पश्य नश्यति” ॥
इति ।
सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता ।
तदुक्तं प्राचा भामहेन—
“उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसम्पदः” ।
इति ।
प्रतिपादितं ऽचोद्भटेनऽ—
“गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् ।
काव्यमाश्रयसम्पत्त्या मेरुणेवामरद्रुमः” ॥
इति ।
रुद्रभट्टेनापि कथितम्—“उदारचरितनिबन्धना प्रबन्धप्रतिष्ठाऽ; इति ।
प्रपञ्चितं च साहित्यमीमांसायाम्—“नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्तिऽ; इति ।
निरूपितं च ऽभोजराजेनऽ—
“कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति ।
नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः” ॥
इति ।
॥ महाकुलीनत्वादिनायकगुणाः ॥
अत्रैते नायकगुणाः ।
महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता ।
तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः ॥ विप्रुद्_१।११ ॥
पूर्वशास्त्रानुसारेण कतिचित् कथिता इमे ।
प्रतापरुद्रदेवस्य गुणा वाचामगोचराः ॥ विप्रुद्_१।१२ ॥
अथैतेषां स्वरूपमुदाहरणं च ।
तत्र
[१।१।१ महाकुलीनता]
महाकुलीनता नाम कुले महति सम्भवः ।
यथा—
तादृङ्मध्यमलोकभाग्यविभवादिन्द्रादिबृन्दारकैः क्षोण्यां क्रीडितुमिच्छुभिश्चिरतरं सम्प्रार्थितः पद्मभूः ।
अत्यर्केन्दुकुलप्रशस्तिमसृजद् यं काकतीयान्वयं तस्मिन् सम्प्रति वीररुद्रवपुषा जागर्ति लक्ष्मीपतिः ॥ विप्रुद्_१।१३ ॥
[१।१।२ औज्ज्वल्यम्]
अथौज्ज्वल्यम्—
रूपसम्पन्नदेहत्वमौज्ज्वल्यं परिकीर्त्यते ॥ विप्रुद्_१।१४ ॥
यथा—
मुरारेर्यः पूर्वं जलनिधिसुतायामुदभवन्महादेवाज्जातः स पुनरवनीभृद्दुहितरि ।
वपुष्मान् कामो ऽयं जयति जगतीभाग्यविभवैः प्रतापश्रीरुद्रः स्वयमिति मनीषा मृगादृशाम् ॥ विप्रुद्_१।१५ ॥
[१।१।३ महाभाग्यम्]
अथ महाभाग्यम्—
विश्वम्भराधिपत्यं यत् तन्महाभाग्यमुच्यते ।
यथा—
सेवानम्रनरेन्द्रमौलिविलसद्रत्नंशुनीराजितं राज्यश्रीप्रथमावतारपदवीमारुह्य सिंहासनम् ।
क्षोणीं रक्षति विक्रमैरनुपमैः प्रत्यर्थिपृथ्वीपतिश्लाघालङ्घनजाङ्घिकैर्गुणनिधिः श्रीवीररुद्रो नृपः ॥ विप्रुद्_१।१६ ॥
[१।१।४ औदार्यम्]
अथौदार्यम्—
यद् विश्राणनताच्छील्यमौदार्यं तन्निगद्यते ॥ विप्रुद्_१।१७ ॥
यथा—
वदान्यो नान्यो ऽस्ति त्रिजगति समो रुद्रनृपतेर्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ विप्रुद्_१।१८ ॥
[१।१।५ तेजस्विताः]
अथ तेजस्विता—
जगत्प्रकाशकत्वं यत् तेजस्वित्वं तदुच्यते ।
यथा—
सदा तेजोभानौ स्फुरति जयिनः काकतिविभोररिक्ष्माभृत्कान्ताचिकुरतिमिराहङ्कृतिमुषि ।
प्रकाशव्युत्पत्तिर्भवति जरदुद्दामतमसामसूर्यम्पश्यानामवधिगिरिपाश्चात्त्यदृषदाम् ॥ विप्रुद्_१।१९ ॥
[१।१।६ वैदग्ध्यम्]
अथ वैदग्ध्यम्—
कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्त्यते ॥ विप्रुद्_१।२० ॥
यथा—
चातुर्यं किमु वर्ण्यते गुणनिधेः श्रीवीररुद्रप्रभोर्यत्रान्योन्यविरुद्धयोरपि महद्वाणीश्रियोरार्जवम् ।
किं चाभ्यां सदृशोपचारललितां तत्तादृशैरुत्सवैर्निः सापत्न्यमिमां भुवं स नृपतिर्धत्ते दिशां जित्वरः ॥ विप्रुद्_१।२१ ॥
[१।१।७ धार्मिकत्वम्]
अथ धार्मिकत्वम्—
धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते ।
यथा—
परिहासे ऽप्यनौचित्यं स्वप्ने ऽप्यन्यवधूकथाम् ।
शत्रावप्यगुणारोपं काकतीन्द्रो न मृष्यति ॥ विप्रुद्_१।२२ ॥
आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः ।
तन्महामहिमत्वं स्याद् या पुनर्देवतात्मता ॥ विप्रुद्_१।२३ ॥
[१।१।८ महामहीतात्मता]
यथा—
कौसल्याऽसीत् प्रथमजननी, देवकी च द्वितीया विष्णोर्माता तदनु महिता मुम्मडाम्बा तृतीया ।
यस्त्रेतायां रघुपतिरभूद् द्वापरे शौरिरासीत् त्रातुं क्षोणीं स जयति कलौ वीररुद्रावतारः ॥ विप्रुद्_१।२४ ॥
अत्र गरुडध्वजात्मकतया महामहिमतोक्ता ।
[१।१।९ पाण्डित्यम्]
अथ पाण्डित्यम्—
सर्वविद्याधिकत्वं यत् पाण्डित्यं तदुदाहृतम् ।
यथा—
गोष्ठीभिः परितोषयन् बुधगणान् षड्दर्शनीसीमभिः सत्सारस्वतमार्गदर्शनचणैः सूक्तैः कवीन् प्रीणयन् ।
सङ्गीतोपनिषद्रहस्यपिशुनैरातोद्ययोग्यक्रमैर्धिन्वन् संसदि वैणिकान् विहरते श्रीकाकतीन्द्रो नृपः ॥ विप्रुद्_१।२५ ॥
अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते ।
यशः प्रतापसुभगो धर्मकामार्थतत्परः ।
धुरन्धरो गुणाढ्यश्च नायकः परिकीर्त्तितः ॥ विप्रुद्_१।२६ ॥
यशः प्रतापाभ्यां
[१।२।१ सुभगत्वम्ः]
सुभगत्वं यथा—
धर्मालम्बसमुच्छ्रितां त्रिभुवनस्यैकातपत्रश्रियं धत्ते काकतिवीररुद्रनृपतेः स्फारं यशोमण्डलम् ।
छायेवास्य नभः स्थली कुवलयश्यामेयमालोक्यते तन्मन्ये नियतं प्रतापतपनस्तस्योपरि द्योतते ॥ विप्रुद्_१।२७ ॥
[१।२।२ धर्मकामार्थतत्परत्वम्]
धर्मकामार्थतत्परत्वं यथा—
धर्मो ऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ विप्रुद्_१।२८ ॥
[१।२।३ धरीणका]
धुरीणता यथा—
गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्लक्ष्मीं प्रीणयते ऽद्य कच्छपपतिर्वक्षः स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वम्भरां बिभ्रति ॥ विप्रुद्_१।२९ ॥
[१।२।४ गुणाढ्यत्वम्]
गुणाढ्यत्वं यथा—
मुखैः सहस्त्रेण फणी वदेच्चेत् करैः सहस्रेण लिखेद्विवस्वान् ।
नेत्रैः सहस्रेण हरिश्च पश्येत् स्थाने गुणान् काकतिवीरभुर्तुः ॥ विप्रुद्_१।३० ॥
अथ नायकविशेषा निरूप्यन्ते ।
उदात्त उद्धतश्चैव ललितः शान्त इत्यपि ।
धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥ विप्रुद्_१।३१ ॥
तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः ।
एतेषां स्वरूपमुदाहरणं च ।
[१।३।१ धीरोदात्तः]
महासत्त्वो ऽतिगम्भीरः कृपावानविकत्थनः ।
प्रतापरुद्रवद धीरो धीरोदात्तः स सम्मतः ॥ विप्रुद्_१।३२ ॥
यथा—
सन्दिग्धे कृपया मृदुः क्षणमरीन् हन्तुं धृतासिः पुरः शौर्यश्रीप्रणयप्रशंसिषु नमद्भ्रूर्लज्जते वन्दिषु ।
आकारान् सुखरोषहर्षपिशुनान् वक्त्रे न धत्ते मनाक् त्रैलोक्यातिशयालुकीर्त्तिसुभगः श्रीवीररुद्रो नृपः ॥ विप्रुद्_१।३३ ॥
दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः ।
मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥ विप्रुद्_१।३४ ॥
[१।३।२ धीरोध्दतः]
यथा—
रे रे घूर्जर जर्झरो ऽसि समरे लम्पाक किं कम्पसे वङ्ग त्वङ्गसि किं मुधा बलरजः काणो ऽसि किं कोङ्कण ।
हूण प्राणपरायणो भव महाराष्ट्रापराष्ट्रो ऽस्यमी योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ विप्रुद्_१।३५ ॥
अत्र भटानां धीरोद्धतत्वम् ।
[१।३।३ धीरललितः]
ऽसुरवैकभूःऽ; इति पाठान्तरम् ।
निश्चिन्तो धीरललितः कलासक्तः ।
सुखी मृदुः ।
इ ।
सुखैकभूः इति पाठान्तरम्]
यथा—
शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वे ऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयम्भूः शिवः ।
धीरो ऽयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ विप्रुद्_१।३६ ॥
[१।३।४ धीरशान्तः]
धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः ॥ विप्रुद्_१।३७ ॥
यथा—
वीरं रुद्रनृपालरत्नमभितः प्राप्तोदयं मोदते सङ्ख्यावदरण एष पूषणमिव प्रत्यग्रमब्जाकरः ।
उन्मीलत्कमलाविहारवसतिर्भूत्वा विकासैर्निजैर्विश्वामोदमुदञ्चयन्नविरतं दोषावसानोत्सुकः ॥ विप्रुद्_१।३८ ॥
अत्र विप्राणां धीरशान्तत्वम् ।
॥ शृङ्गारनायका निरूप्यन्ते ।
अथ शृङ्गारविषयाश्चत्वारो नायका इमे ।
अनुकूलो दक्षिणश्च धृष्टः शठ इति स्मृताः ॥ विप्रुद्_१।३९ ॥
एषां स्वरूपमुदाहरणं च ।
[१।४।१अनुकूलः]
एकायत्तो ऽनुकूलः स्यात्
एकस्यां नायिकायां विशेषानुरक्तो ऽनुकूलो नायकः ।
यथा—
किं नामाचरितं तपः सखि ! भुवा यस्याः पतिर्गीयते वीरो रुद्रनृपः क्व तत् सुचरितं तस्य प्रिया स्यां यतः ।
जाने मानिनि मा विषीद पुरतः प्रख्याप्य नाम स्थिरां त्वां रत्नाकरमेखलां त्वयि सदा सक्तं विधास्ये नृपम् ॥ विप्रुद्_१।४० ॥
अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते ।
[१।४।२ दक्षिणः]
तुल्यो ऽनेकत्र दक्षिणः ।
अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः ।
यथा—
नर्मोक्त्यैव नियन्त्रिता स्मरकलाकेलीषु काचिन्मया साकूतेन विलोकनेन हृदयं कस्यैचिदाविष्कृतम् ।
कस्याश्चित् प्रहितः प्रसाधननिधिर्दूतीकरेण, क्व वा गन्तास्मीत्यनुचिन्तयैव नृपतेरासीत् प्रभाता निशा ॥ विप्रुद्_१।४१ ॥
तथा च —
वाणीं मुखेन, नेत्राभ्यां श्रियम्, दोष्णा च मेदिनीम् ।
मानयंस्तुल्यतां धत्ते तासु रुद्रनरेश्वरः ॥ विप्रुद्_१।४२ ॥
[१।४।३ धृष्टः]
व्यक्तागा गतभीर्धृष्टः
यथा—
राज्यश्रीपरिभोगशंसि भवतः सर्वाङ्गमालोक्यते कस्तत्राविनयो ऽस्ति साहसमिदं तन्नाम मय्यर्पितम् ।
जाने त्वां बहुवल्लभं किमपरं वक्तव्यमल्पा वयं तस्यां प्रेम तवाधिकं वसुमती या नाम किं जल्पितैः ॥ विप्रुद्_१।४३ ॥
[१।४।४ शठः]
गूढविप्रियकृच्छठः ॥ विप्रुद्_१।४४ ॥
नायिकामात्रविदितविप्रियकारी शठः ।
यथा—
दृष्ट्या पश्यसि केवलं न मनसा वाचा प्रियं भाषसे नो भावेन भुजान्तरं प्रकटयस्यग्रे न चाभ्यन्तरम् ।
ज्ञातं काकतिनाथ ! भूस्तव परं प्राणेश्वरी ध्यायतो मादृक्षेषु विडम्बनैव ; तदलं व्यर्थैर्बहिस्सम्भ्रमैः ॥ विप्रुद्_१।४५ ॥
अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् ।
एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः ।
तेषां स्वरूपं निरूप्यते ।
किञ्चिदूनः पीठमर्द एकविद्यो विटः स्मृतः ।
सन्धानकुशलश्चेटो हास्यप्रायो विदूषकः ॥ विप्रुद्_१।४६ ॥
स्पष्टमेषामुदाहरणम् ।
अथाष्टविधाः शृङ्गारनायिकाः ।
स्वाधीनपतिका चैव तथा वासकसज्जिका ।
विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता ॥ विप्रुद्_१।४७ ॥
कलहान्तरिता चैव तथा प्रोषितभर्तृका ।
तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥ विप्रुद्_१।४८ ॥
प्रियोपलालिता नित्यं स्वाधीनपतिका मता ।
[१।५।१ स्वधीनपतिका]
यथा—
प्रियां सर्वंसहां तैस्तैर्विशेषैरुपलालयन् ।
प्रतापरुद्रनृपतिः प्रतिक्षणमवेक्षते ॥ विप्रुद्_१।४९ ॥
प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः ।
केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥ विप्रुद्_१।५० ॥
[१।५।२ वासकासज्निका]
यथा—
स्वतेजसा परिष्कृत्य प्रधानागारमुत्कया ।
श्रियाभिषेकवेलायां वीररुद्रः प्रतीक्षितः ॥ विप्रुद्_१।५१ ॥
चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ॥ विप्रुद्_१।५२ ॥
[१।५।३ विरहोत्कण्ठिता]
यथा—
न शङ्कान्या तादृग्गुणपरिमले रुद्रनृपतौ कया वा गोष्ठ्यासौ चिरयति सखीभिर्न सुलभः ।
समानेतुं कान्तं व्रज मदन बद्धो ऽञ्जलिरयं यतो विष्वद्रीचः किरति किरणांस्त्वत्प्रियसखः ॥ विप्रुद्_१।५३ ॥
क्वचित् सङ्केतमावेद्य दयितेनाथ वञ्चिता ।
स्मरार्ता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते ॥ विप्रुद्_१।५४ ॥
[१।५।४ विप्रलब्धा]
यथा—
गच्छाग्रे सखि ! का प्रियागमकथा प्राप्तो निशीथः परं सङ्केतालय ! मोक्ष्यसे मम वृथा जातो ऽश्रुभिः पङ्किलः ।
यद्वा रुद्रनरेश्वरे प्रियतमे राज्यश्रियो वल्लभे भारत्या दयिते भुवः कृतपदाः प्रायो वयं वञ्चिताः ॥ विप्रुद्_१।५५ ॥
नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे ।
अन्यासम्भोगचिह्नैस्तु कुपिता खण्डिता मता ॥ विप्रुद्_१।५६ ॥
[१।५।५ खण्डिता]
यथा—
रात्रिर्यामत्रयपरिमिता वल्लभास्ते सहस्रं मार्गासक्त्या मम गृहमपि प्रातरेवागतो ऽसि ।
किं कर्तव्यं वद नृपतिभिर्वीक्षणीया हि सर्वाः को वा दोषस्तव पुनरहं काममायासयित्री ॥ विप्रुद्_१।५७ ॥
कोपात् प्रियं पराणुद्य पश्चात्तापसमन्विता ।
कलहान्तरिता नाम सूरिभिः परिकीर्तिता ॥ विप्रुद्_१।५८ ॥
[१।५।६ कलहान्तरिता]
यथा—
तह तह अणुणअन्तो पिओ तुए हिअअ रोसकलुसेण ।
अवहीरिदो ण मुणिअं राएति विओअवेअणं सहसु ॥ विप्रुद्_१।५९ ॥
(तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण ।
अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व) ॥ ॥
देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका ।
[१।५।७ प्रोषितभर्तृका]
यथा—
त्रैलोक्यप्रथमानकीर्त्तिमहसः श्रीवीररुद्रप्रभोः सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारासक्तदृशो नयन्ति दिवसान् व्युष्टाशया च क्षपास्तद्ध्यानप्रतिबद्धसान्द्रपुलकव्याकीर्णकामेषवः ॥ विप्रुद्_१।६० ॥
कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका ॥ विप्रुद्_१।६१ ॥
[१।५।८ अभिसारिका]
यथा—
सम्भ्रमैरलमल्पज्ञे ! प्रेयानस्तु महीपतिः ।
करेणुस्थां न पश्यामि न शृणोम्यभिसारिकाम् ॥ विप्रुद्_१।६२ ॥
॥ आसां नायिकानुकूलने सहायाः ॥
दूत्यो दासी सखी कारूर्धात्रेयी प्रातिवेशिनी ।
लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥ विप्रुद्_१।६३ ॥
एतासां स्वरूपमुदाहरणं च स्पष्टम् ।
कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः ।
सङ्क्षेपेण नायिका त्रिविधा—मुग्धा मध्या प्रौढा चेति ।
उदयद्यौवना मुग्धा लजाविजितमन्मथा ।
लजामन्मथमध्यस्था मध्यमोदितयौवना ।
स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना ॥ विप्रुद्_१।६४ ॥
यथाक्रममुदाहरणानि ।
मुग्धा यथा—
मुग्धे ! यन्मनसो ऽपि गोप्यमखिलं तन्मह्यमावेद्यते किं या काचिदहं तव प्रियसखि प्रच्छाद्य किं ताम्यसि ।
आसक्तिस्तव रुद्रदेवनृपतावाशास्यते किं भवेदित्याल्यां प्रणयैकवाचि सुतनुर्दत्तोत्तरा व्रीडया ॥ विप्रुद्_१।६५ ॥
मध्या यथा—
लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपानेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः को ऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥ विप्रुद्_१।६६ ॥
प्रौढा यथा—
सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद् युगपदुदयत्सात्त्विकमहो मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ विप्रुद्_१।६७ ॥
भेदान्तरं यथासम्भवमुदाहार्यम् ।
गुणालङ्काराणां रसमहति काव्ये विलसितं स्फुरच्छब्दार्थाभ्यां तदपि हृदयानन्दि भवति ।
तयोरप्युन्मेषः स्रवदमृतमाधुर्यसुभगः परं पुण्यश्लोकं चरितमनुबध्नन् विजयते ॥ विप्रुद्_१।६८ ॥
एष सङ्ग्रहश्लोकः ।
उपस्कारहेतूनां गुणालङ्काराणां सदृऽशेङार्ये सति चरितार्थत्वम् ।
यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् ।
तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् ।
रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् ।
जीवितभूतत्वाद्रसादेः काव्यात्मता ।
क्वचिद्रसस्य प्राधान्यम् ।
क्वचिदलङअकारस्य प्राधान्यम् ।
क्वचिद्वस्तुनः प्राधान्यं च ।
(उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना) ।
रसप्राधान्यं यथा—
ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः ।
यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः ॥ विप्रुद्_१।६९ ॥
एतत् काञ्चिद्बालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् ।
अत्र शृङ्गाररसो व्यज्यते ॥
अलङ्कारप्राधान्यं यथा—
कीर्त्तौ प्रतापरुद्रस्य विहरन्त्यां दिगन्तरे ।
लोकालोकतटाः शश्वद्द्रवच्चन्द्रोपलाङ्किताः ॥ विप्रुद्_१।७० ॥
अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत् द्रवो ऽभूदिति भ्रान्तिमदलङारो व्यज्यते ।
व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥
वस्तुप्राधान्यं यथा—
अवतरति वीररुद्रे काकतिवंशे त्रिलोकमहनीये ।
त्यक्त्वा दुग्धपयोधिं तल्पफणीशः स्वमन्दिरं प्राप्तः ॥ विप्रुद्_१।७१ ॥
अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते ।
अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुले ऽवततारेति वस्तु व्यज्यते ।
इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥
काव्यमाश्रित्य गुणालङ्काराणां विलासः ।
तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥
[१।६।१ शब्दस्पुरणम्]
शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः ।
यो बन्धाडम्बर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् ।
यथा—
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ विप्रुद्_१।७२ ॥
[१।६।२ अर्थस्पुरणम्]
अचुम्बितार्थसम्पत्तिरर्थस्फुरणमिष्यते ॥ विप्रुद्_१।७३ ॥
यथा—
खग्गे जुज्ज्ञविजिम्भिए रिवुमहीणाहञ्जलिं बिम्बिअं पेक्खन्तो जअलच्छिवासकमलं मण्णन्ति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिठ्ठीए रिपुजीविआइ विहिणो पत्तस्स पीढम्बुअम् ॥ विप्रुद्_१।७४ ॥
(खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम्) ॥ ॥
[१।६।३ उभयस्पुरणम्]
उभयस्फुरणं यथा—
उद्यद्बृंहितगर्जितैः करिघटाकादम्बिनीडम्बरैः क्षोणीभृत्कटकोपरोधपटुभिः सद्यः स्फुर(ट?) द्दिक्तटैः ।
प्रावृटसम्भ्रमशंसिनो रिपुवधूबाष्पोद्गमैर्दुर्दिनं कुर्वन्तश्चलमर्तिगण्डनृपतेर्जैत्रप्रयाणोद्यमाः ॥ विप्रुद्_१।७५ ॥
एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् ।
शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् ।
अतो नायकस्यैव काव्ये प्राधान्यम् ।
[१।६।४ नायकप्रधान्यम्]
कुलाचारयशः शौर्यश्रुतशीलादिवर्णनम् ।
क्रियते नेतुरेवं यत्तदेव बहुसम्मतम् ॥ विप्रुद्_१।७६ ॥
अथवा प्रतिपक्षस्य वर्णयित्वा गुणान् बहून् ।
तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित् ॥ विप्रुद्_१।७७ ॥
यथाक्रममुदाहरणम्—
तत्त्वं यस्स परः पुमानवतरो यस्यान्वये काकतिक्ष्मापानां चरितं च यस्य भुवनक्षेमङ्करप्रक्रमम् ।
श्लघा यस्य लघूकृतामरतरुस्वर्धेनुचिन्तामणिः सो ऽयं विश्वधुरन्धरो विजयते श्रीवीररुद्रो नृपः ॥ विप्रुद्_१।७८ ॥
यत्तेजः प्रतिपक्षभूपविहरद्गर्वान्धकारातपो यद्दोरर्गलविक्रमस्त्रिजगतीशुद्धान्तदौवारिकः ।
सो ऽप्यासीद् युधि सेवणक्षितिपतिः सन्नाहभेरीध्वनिं श्रुत्वा रुद्रनरेश्वरस्य महतो भीतः पलाय्याकुलः ॥ विप्रुद्_१।७९ ॥
एवंविधवर्णनमुत्पाद्ये नायके न घटते ।
तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः ।
स्वतः सिद्धे तु नायके द्वैविध्यमपि सम्भवति ।
तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात् कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् ।
एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् ।
तत्र च-
[१।६।५ नायक-गुणयोर्वर्गीकरणम्]
धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसम्भ्रमः ।
यथा च धीरललिते शृङ्गारो बहुभावकृत् ॥ विप्रुद्_१।८० ॥
न धीरोदात्तविषये तथा वर्णनमिष्यते ।
कार्यतो रससम्पूर्तिस्तस्मिन्नप्युचितक्रमा ॥ विप्रुद्_१।८१ ॥
हास्यादीनां तथान्येषां रसानामपि कीर्तनम् ।
मन्दोद्यमानुभावं स्याद्धीरोदात्ते तु नेतरि ॥ विप्रुद्_१।८२ ॥
सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणे ऽलङ्कारशास्त्रे
नायकप्रकरणं समाप्तम् ॥
इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥
[इइ।१। अथ काव्यप्रकरणम्]
॥ अथ काव्यस्वरूपनिरूपणम् ॥
[इइ।१ काव्यस्वरूरपम्]
गुणालङ्कारसहितौ शब्दार्थौ दोषवर्जितौ ।
गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥ विप्रुद्_२।१ ॥
[इइ।२ काव्यसामान्यलक्षणम्]
“अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम्"इति काव्यसामान्यलक्षणम् ।
शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलङ्कारास्तत्र स्युरुपमादयः ॥ विप्रुद्_२।२ ॥
श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ विप्रुद्_२।३ ॥
शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव सम्मता ॥ विप्रुद्_२।४ ॥
रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसम्पदः ॥ विप्रुद्_२।५ ॥
[इइ।३ वाचक-लक्षक-व्यञ्जकरूपेण शब्दत्रैविध्यम्]
वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् ।
वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् ।
तात्पर्यार्थो ऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः ।
[इइ।४ वृत्तित्रैविध्यम्]
अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः ।
[इइ।५ लक्षणायाश्चातुर्विध्यम्]
गौणवृत्तिरपि लक्षणाप्रभेद एव, सम्बन्धानुपपत्तिमूलकत्वात् ।
यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासम्बन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता ।
गङ्गासम्बन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः ।
अत एव सादृश्यनिबन्धना सम्बन्धनिबन्धना चेति द्विविधा लक्षणा ।
सम्बन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा ।
सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा ।
एवं लक्षणा चतुर्विधा ।
[इइ।६ काशिक्यादित्तयस्त्वन्या]
कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः ।
तथा चोक्तं ऽदशरूपकेऽ—
“कैशिक्यारभटी चैव सात्त्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥
ऽ; इति ।
रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् ।
रसाननुगुणवर्णरचनाया दोषत्वमुक्तम् ।
वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः ।
[इइ।७ अभिधानिरूपणम्]
तत्र सङ्केतितार्थगोचरः शब्दव्यापारो ऽभिधा ।
सा द्विविधा—रूढिपूर्विका योगपूर्विका चेति ।
रूढिपूर्विका यथा—
तपोविशेषैः प्रथितैः प्रजानां शुभैश्चरित्रैर्जगतीमहिष्याः ।
भाग्यैः प्रभूतैर्भुवनस्य चास्य बिभर्ति राज्यं वरवीररुद्रः ॥ विप्रुद्_२।६ ॥
अत्र सर्वे शब्दा रूढाः ।
योगपूर्विका यथा—
राज्ञि रुद्रनराधीशे रञ्जयत्यखिलाः प्रजाः ।
भूरन्वर्था वसुमती रत्नगर्भा स्थिरेति च ॥ विप्रुद्_२।७ ॥
अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः ।
[इइ।८ लक्षणनिरूपणम्]
वाच्यार्थानुपपत्त्या तत्सम्बन्धिन्यारोपितः शब्दव्यापारो लक्षणा ।
[इइ।९जहल्लक्षणानिरूपणम्]
तत्र जहल्लक्षणा यथा—
जेतुः काकतिभूभर्तुराकर्ण्य पटहध्वनिम् ।
सामन्तनगराण्युच्चैराक्रोशन्ति समन्ततः ॥ विप्रुद्_२।८ ॥
अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः ।
अचेतनानामाक्रोशस्यासम्भवात् तत्रत्या जना लक्ष्यन्ते ।
[इइ।१०अजहल्लक्षणानिरूपणम्]
अजहल्लक्षणा यथा—
पत्युः काकतिनाथस्य पादपीठीमनारतम् ।
स्फुरद्रत्नप्रभाजालैरलङ्कुर्वन्ति मौलयः ॥ विप्रुद्_२।९ ॥
अत्रालङ्कारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते ।
[इइ।११सरोपलक्षणानिरूपणम्]
सारोपलक्षणा यथा—
मन्थानाचलमूलमेचकशिलासङ्घट्टनश्यामिका-
कारं यत्तुहिनद्युतौ स्फुरति तत् सारङ्गमाचक्षते ।
मन्ये नन्विह वीररुद्रनृपतेः कीर्त्तिश्रिया निर्जित-
स्तन्मुद्राङ्कवराहमिन्दुरुरसा बिभ्रत् समुज्जृम्भते ॥ विप्रुद्_२।१० ॥
अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते ।
विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः ।
विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः ।
[इइ।१२ साध्यवसानलक्षणानिरूपणम्]
साध्यवसायलक्षणा यथा—
काकतीयकुलाम्भोधेः प्रभवत्येष चन्द्रमाः ।
कृतः कुवलयोल्लासो येनोदयमुपेयुषा ॥ विप्रुद्_२।११ ॥
अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते ।
काकतीयकुलाम्भोधेरित्यत्रारोपः ॥
[इइ।१३ व्यञ्जनावृत्ति]
अथ व्यञ्जनावृत्तिः
अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः ।
सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन ।
[इइ।१४ शब्दशक्तिमूलाव्यञ्जना]
तत्र शब्दशक्तिमूला यथा—
वाहिन्यः काकतीन्द्रस्य सर्वतोमुखसम्भ्रमाः ।
कुर्वन्त्युद्यत्कबन्धाढ्यं प्रतिपक्षबलार्णवम् ॥ विप्रुद्_२।१२ ॥
अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रिते ऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः ।
प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् ।
अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् ।
अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते ।
नात्र लक्षणावृत्तिः सम्भवति, वाच्यानुपपत्त्यभावात् ।
नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥
[इइ।१५अर्थशवतिमूलाव्यञ्जना]
अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा—
श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् ।
अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः ॥ विप्रुद्_२।१३ ॥
अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते ।
न चार्थशक्तिमूले व्यञ्जने ऽनुमानशङ्का ।
व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् ।
नम्राननत्वादिकार्यस्यानेककारणकत्वात् ।
नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव ।
किञ्चैकस्मादेव व्यञ्जकात् तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा ।
न चाभिधावृत्तिः ।
सङ्केतितार्थ एव तस्याः परिचय इतीयती गमनिका ।
[इइ।१६उभयशक्तिमूलाव्यञ्जना]
उभयशक्तिमूला यथा—
विजितारिपुरो मूर्तौ विलसत्सर्वमड्गलः ।
राजमौलिरसौ भाति रुद्रदेवो जगत्पतिः ॥ विप्रुद्_२।१४ ॥
अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वम्, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् ।
अत्र प्रतापरुद्रशङ्करयोरुपमालङ्कारध्वनिः ॥
[इइ।१७कैशिक्यादिस्वरूपनिरूपणम्]
अथ कैशिक्यादीनां स्वरूपं निरूप्यते ।
अत्यर्थसुकुमारार्थसन्दर्भा कैशिकी मता ।
अत्युद्धातार्थसन्दर्भा वृत्तिरारभटी स्मृतार् ॥ विप्रुद्_२।१५ ॥
ईषन्मृद्वर्थसन्दर्भा भारती वृत्तिरिष्यतेर् ।
ईषत्प्रौढार्थसन्दर्भा सात्त्वती वृत्तिरिष्यते ॥ विप्रुद्_२।१६ ॥
तत्र
अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ मतौ ।
अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्त्तितौ ॥ विप्रुद्_२।१७ ॥
हास्यशान्ताद्भुताः किञ्चित्सुकुमाराः प्रकीर्त्तितार्ः ।
ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥ विप्रुद्_२।१८ ॥
यत्र शृङ्गारकरुणावतिकोमलेन सन्दर्भेण वर्ण्येते तत्र कैशिकी ।
यत्र रौद्रबीभत्सावतिप्रौढेन सन्दर्भेण प्रतिपाद्येते तत्रारभटी ।
यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण सन्दर्भेण सङ्ग्रथ्यन्ते तत्र भारती ।
यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन सन्दर्भेण निर्वाह्येते तत्र सात्त्वती ।
[इइ।१८कौशिक्युदाहरणम्]
कैशिकी यथा—
जितमदनविलासं काकतीयान्वयेन्दु
नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् ।
सपदि विरचिताऽसीदङ्गनानामपाङ्गैर्
दिव कुवलयदामश्यामला तोरणश्रीः ॥ विप्रुद्_२।१९ ॥
[इइ।१९ आरभट्युदाहरणम्]
आरभटी यथा-
खड्गाघातनिकृत्तशात्रवशिरोनिष्ठ्यूतरक्तच्छटा-
ज्वालैरुद्भटशस्त्रघट्टनभवत्स्फारस्फुलिङ्गोत्करैः ।
स्त्यानासृक्पिशितास्थिखण्डविकटस्थूलोज्ज्वलाङ्गारकै-
रुच्चण्डश्चलमर्तिगण्डनृपतेः क्रोधाग्निरायोधने ॥ विप्रुद्_२।२० ॥
[इइ।२० भारत्युदाहरणम्]
भारती यथा—
औन्नत्यं महदन्यदेव, महितः को ऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक् क्व वा कल्पिता ॥ विप्रुद्_२।२१ ॥
[इइ।२१ सात्त्वत्युदाहरणम्]
सात्त्वती यथा—
दूरादाकर्ण्य विश्वप्रसृमरमहसौ वीररुद्रस्य जैत्र-
प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशा-
स्त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ विप्रुद्_२।२२ ॥
मध्यमारभटी त्वन्या तथा मध्यमकैशिकी ।
वृत्ती इमे उभे सर्वरससाधारणे मते ॥ विप्रुद्_२।२३ ॥
अनयोः स्वरूपम्—
मृद्वर्थे ऽप्यनतिप्रौढबन्धा मध्यमकैशिकी ॥ विप्रुद्_२।२४अब् ॥
शृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते ।
किं त्वतिप्रौढसन्दर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥
मध्यमारभटी प्रौढे ऽप्यर्थे नातिमृदुक्रमा ॥ विप्रुद्_२।२४च्द् ॥
अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते ।
अतिमृदुसन्दर्भस्तु विरुद्धः ।
[इइ।२२ मध्यमकैशिकी]
मध्यमकैशिकी यथा—
आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजेर्
धिक् धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ विप्रुद्_२।२५ ॥
[इइ।२३मध्यमारभटि]
मध्यमारभटी यथा—
मांसकीकससङ्कीर्णाः प्रसरद्रुधिरापगाः ।
वसाकर्दमिता युद्धे भुवो ऽन्ध्रसुभटैः कृताः ॥ विप्रुद्_२।२६ ॥
एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥
वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसन्दर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः ।
सन्दर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् ।
अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् ।
संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् ।
अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥
रीतयः
अथ रीतीनां स्वरूपमुदाहरणं च ।
रीतिर्नाम गुणाश्लिष्टपदसङ्घटना मता ।
सा त्रिधा—वैदर्भी, गौडी, पाञ्चाली चेति ।
[इइ।२।१ वैदर्भी]
बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता ।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ विप्रुद्_२।२७ ॥
यथा—
काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ विप्रुद्_२।२८ ॥
यथा वा—
वितरणगुणलीलातोषिताशेषलोके
विभवति नरनाथे काकतीयान्वयेन्दौ ।
सुरतरुगणनायां कामधेनुप्रसङ्गे
क्षितिसुरजनतेयं वीतकौतूहलाऽसीत् ॥ विप्रुद्_२।२९ ॥
[इइ।२।२गौडी]
ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते ।
यथा—
प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः ।
विभर्त्यर्वीधुरां गुर्वीं प्रभवन्नन्ध्रभूपतिः ॥ विप्रुद्_२।३० ॥
यथा वा —
उद्यद्दोः स्तम्भखड्गत्रुटदरिमुकुटाटोपसञ्जातराहु-
भ्रान्तिभ्रश्यत्पतङ्गाभयकरणचणस्फारनासीररेणुः ।
अन्ध्रक्ष्माभर्तुरासीदधिकरणधरा भिन्नमत्तेभकुम्भ-
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ विप्रुद्_२।३१ ॥
[इइ।२।३ पाञ्चाली]
पाञ्चालरीतिर्वैदर्भीगौडी इत्युभयात्मिका ॥
यथा—
जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं मूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्घिका
गाढं गूडतमा च गौतमनदी पातालगङ्गायते ॥ विप्रुद्_२।३२ ॥
यथा च—
स्थाने तच्चलमर्तिगण्डनृपते त्वत्खङ्गभोगी द्विषत्-
प्राणैर्यत् परितोषमेति सततम्, किं त्वेतदत्यद्भुतम् ।
पीतेन प्रतिपक्षपार्थिवयशः क्षीरेण गौरत्विषं
यत् संवर्धयति त्रिलोकभरितां त्वत्कीर्त्तिलक्ष्मीसुधाम् ॥ विप्रुद्_२।३३ ॥
शय्या
अथ शय्या ।
या पदानां परान्योन्यमैत्री शय्येति कथ्यते ।
यथा—
दातुः काकतिवंशमण्डनमणेर्निस्सीमविश्राणन-
श्लाघालङिघेतकल्पपादपगुणप्रौढेरगाधौजसः ।
बिभ्रच्छारदकौमुदीपरिमलं सामन्तसीमन्तिनी-
गण्डाभोगनिरूढपाण्डिमधुरां धत्ते यशः प्रायशः ॥ विप्रुद्_२।३४ ॥
अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥
पाकाः
अथ द्राक्षादिपाकाः ।
अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥ विप्रुद्_२।३५ ॥
यथाक्रमं स्वरूपमुदाहरणं च ।
[इइ।४।१ द्राक्षापाक]
द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः ।
यथा—
स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ विप्रुद्_२।३६ ॥
[इइ।४।२नारिकेलपाकः]
सा नारिकेलपाकः स्यादन्तर्गूढरसोदयः ॥
यथा—
लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा-
नेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः
को ऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥ विप्रुद्_२।३७ ॥
अत्र न द्रागर्थप्रतीतिः ।
एवं वस्त्वलङ्कारप्रतीतावपि द्रष्टव्यम् ।
पाकान्तराणि मधुक्षीरादीनि यथासम्भवमूह्यानि ॥
काव्यविशेषाः
अथ काव्यविशेषाः ।
व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् ।
व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते ।
अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते ।
व्यङ्ग्यस्यास्फुटत्वे ऽधमं काव्यं चित्रमिति गीयते ।
[इइ।५।१ध्वनिः]
ध्वनिर्यथा—
स्वामिन् गोत्रमहीधरान् किमधुना नीचैर्विधत्से, कुतो
गाधानम्बुनिधीन् करोषि, कुरुषे किं दिक्पतीनल्पकान् ।
इत्थं पार्श्वचरानुलापमखिलं न्यक्कृत्य धर्मैषिणा
सृष्टः पद्मभुवा गुणैकवसतिः श्रीवीररुद्रो नृपः ॥ विप्रुद्_२।३८ ॥
अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते ।
तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवम् इति च व्यज्यते ॥
[इइ।५।२गुणीभूतव्यङयम्]
गुणीभूतव्यङ्ग्यं यथा—
प्रत्यग्रप्रसरत्प्रतापविभवव्याप्ताखिलाशान्तरे
विश्वत्रातरि वीररुद्रनृपतौ सिंहासनाध्यासिनि ।
आस्थानीं समुपागतैर्नृपवरैस्तास्तास्तथा दर्शिता-
श्चेष्टा याभिरमुष्य काकतिविभोर्दृष्टिः कृपार्द्रीकृता ॥ विप्रुद्_२।३९ ॥
अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता ।
चित्रं त्रिविधम्—शब्दचित्रमर्थचित्रमुभयचित्रं चेति ।
[इइ।५।३ शब्दचित्रम्]
तत्र शब्दचित्रं यथा—
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्-
गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ विप्रुद्_२।४० ॥
[इइ।५।४अर्थचित्रम्]
अर्थचित्रं यथा—
खग्गे जुज्झविजिम्भिए रिवुमहीणाहञ्जलिं बिम्बिअं
पेक्खन्तो जअऌअच्छिवासकमलं मण्णन्ति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो
सिट्ठीए रिवुजीविआइ विहिणो जत्तस्स पीढम्बुअं ॥ विप्रुद्_२।४१ ॥
(खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं
पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः
सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥)
[इइ।५।५ उभयचित्रम्]
उभयचित्रं यथा—
विद्यासमुद्रे भुवनैकभद्रे प्रतापरुद्रे जितवैरिभद्रे ।
रक्षाविनिद्रे धृतशौर्यमुद्रे कान्तेव पृथ्वी रमते गुणार्द्रे ॥ विप्रुद्_२।४२ ॥
अत्रानुप्रासोपमाभ्यां चित्रता ॥
[इइ।५।६ ध्वनिविशेषाः]
॥ अथ ध्वनिविशेषाः ॥
अथ ध्वनिविशेषा निरूप्यन्ते ।
अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ ।
अविवक्षितवाच्यस्यार्थान्तरसङ्क्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् ।
विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ ।
संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् ।
अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्ये ऽर्थस्य स्वतः सम्भवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् ।
त्रिविधस्य वस्त्वलङ्काररूपतया द्वैविध्ये षड्विधत्वम् ।
षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् ।
द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारो ऽर्थशक्तिमूलो ऽनुरणनध्वनिः ।
उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव ।
एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः ।
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः ।
एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः ।
अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद् भेदाः ।
तेषां प्रत्येकमेकैकस्यैकैकेन सम्बन्धे प्रथमभेदस्यैकपञ्चाशद् भेदाः ।
द्वितीयस्य पञ्चाशद् भेदाः ।
तृतीयस्यैकोनपञ्चाशद् भेदाः ।
अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसङ्ख्याकाः (१३२६) मिश्रभेदाः ।
अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसम्बन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसम्बन्धे भेदो न पृथग्भूतः ।
अनेनैव क्रमेण वस्तुध्वनेरलङ्कारध्वनिसम्बन्धभेदो ऽप्यलङ्कारध्वनेर्वस्तुध्वनिसम्बन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसम्बन्धे एकैकभेदन्यूनता ज्ञेया ।
तस्यापि मिश्रणस्य त्रिरूपेण सङ्करेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने
चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (५३०४) भेदाः ।
शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः ।
संसृष्टिसङ्करायातास्त्वब्धिखाग्निशराभिधाः ॥ विप्रुद्_२।४३ ॥
तत्र
शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते ।
पदगतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_२।४३*१ ॥
वाक्यगतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_२।४३*२ ॥
पदगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_२।४३*३ ॥
वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_२।४३*४ ॥
पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ विप्रुद्_२।४३*५ ॥
पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालङ्कारध्वनिः ॥ विप्रुद्_२।४३*६ ॥
वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ विप्रुद्_२।४३*७ ॥
वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालङ्कारध्वनिः ॥ विप्रुद्_२।४३*८ ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*९ ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*१० ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*११ ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*१२ ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*१३ ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*१४ ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*१५ ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*१६ ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*१७ ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*१८ ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*१९ ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*२० ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*२१ ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*२२ ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*२३ ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*२४ ॥
वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*२५ ॥
वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*२६ ॥
वाक्यगतकविप्रौढोत्किसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*२७ ॥
वाक्यगतक्रविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*२८॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*२९ ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*३०॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*३१ ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*३२॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*३३ ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*३४ ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वनिः ॥ विप्रुद्_२।४३*३५ ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*३६ ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*३७ ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*३८ ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण अलङ्कारध्वनिः ॥ विप्रुद्_२।४३*३९॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*४० ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_२।४३*४१॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_२।४३*४२॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वमिः ॥ विप्रुद्_२।४३*४३ ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_२।४३*४४ ॥
प्रबन्धगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_२।४३*४५ ॥
वाक्यगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_२।४३*४६ ॥
पदगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_२।४३*४७ ॥
पदैकदेशगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_२।४३*४८ ॥
रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_२।४३*४९ ॥
वर्णगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_२।४३*५० ॥
वाक्यगतोभयशक्तिमूलो रसादिध्वनिः ॥ विप्रुद्_२।४३*५१ ॥
तत्र दिङ्मात्रमुदाह्रियते ।
[इइ।५।७अर्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिः]
अर्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिर्यथा—
मूर्धानो यूयमास्माकाः किमित्यौन्नत्यमिच्छथ ।
इति प्रतापरुद्रस्य प्रणताः प्रतिपार्थिवाः ॥ विप्रुद्_२।४४ ॥
अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं सम्बन्धिनो यूयमित्यर्थान्तरसङ्क्रमिताविवक्षितवाच्यता ।
[इइ।५।८अत्यन्ततिरस्कृतवात्यध्वनिः]
अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा—
विशदिमविलिप्तवियतो धवलिमपरिपूरिताखिलाशान्ताः ।
विहरन्ति यशः पूरा गौराः श्रीकाकतीन्द्रस्य ॥ विप्रुद्_२।४५ ॥
अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् ।
अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् ।
[इइ।५।९वस्तुनावस्तुध्वनिः]
अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा–
अब्दानृतून् विना मासान् शुक्लपक्षान् विना तिथीन् ।
रात्रीर्विनापि काङ्क्षन्ति काकतीयरिपुस्त्रियः ॥ विप्रुद्_२।४६ ॥
अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात् तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते ।
तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते ।
अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः ।
तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं वाञ्छन्ति ।
अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं वाञ्छन्ति ।
अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते ।
[इइ।५।१०वस्तुनालङकारध्वनिः]
वस्तुनालङकारध्वनिर्यथा—
दृष्ट्वा काकतिवीररुद्रनृपतेः कीर्त्तिं जगद्व्यापिनीं वस्तुं वाञ्छति शम्भुरत्र शयितुं लक्ष्मीपतिः काङ्क्षति ।
स्नातुं धावति दिव्यतापसगणः संवर्धितुं वार्धयश्चेष्टन्ते सविलासमभ्रमुरपि स्प्रष्टुं शनैरीहते ॥ विप्रुद्_२।४७ ॥
अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥
अलङ्कारेण वस्तुध्वनिर्यथा—
[इइ।५।११अलङ्कारेणवस्तुध्वनिः]
प्रतापरुद्रस्य रणे कृपाणः सद्यः समुद्यद्रुधिरारुणश्रीः ।
आलम्बते रोषकषायितस्य कालीकटाक्षस्य विजृम्भितानि ॥ विप्रुद्_२।४८ ॥
अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात् कृत इति वस्तु व्यज्यते ॥
[इइ।५।१२अलङ्कारेणालङ्कारध्वनिः]
अलङ्कारेणालङ्कारध्वनिर्यथा—
काकतीयविभोः कीर्त्तिपुण्डरीके विजृम्भिते ।
धत्ते मधुकरक्रीडां तमालश्यामलं नभः ॥ विप्रुद्_२।४९ ॥
अत्र कीर्त्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालङ्कारेणाश्रयाश्रयिणोरनानुगुण्यरूपो ऽधिकालङ्कारो व्यज्यते ।
आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते ।
एषु स्वतः सिद्धार्थशक्तिमूलत्वम् ।
अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा—
श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजातच्-
छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः ।
शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं
कौञ्चक्ष्माभृद् भवति महतो विस्मयान्निश्चलाङ्गः ॥ विप्रुद्_२।५० ॥
अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥
[इइ।५।१३वस्तुनालङ्कारध्वनिः]
वस्तुनालङ्कारध्वनिर्यथा—
वीररुद्रभटान् दृष्ट्वा जयलक्ष्मीवृतान् रणे ।
कर्षन्त्यरिवधूकेशान् कानने कण्टकिद्रुमाः ॥ विप्रुद्_२।५१ ॥
अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते ।
[इइ।५।१४अलङकारेणवस्तुध्वनिः।
अलङ्कारेण वस्तुध्वनिर्यथा—
ओसरै सहीहि समं लज्जा वहुआए सिढिलमाणाए ।
अप्पग्गहणभयेण व्व सविहगए मणोहरे दैए ॥ विप्रुद्_२।५२ ॥
(अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः ।
आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते) ॥
अत्रोत्प्रेक्षयाऽलिङ्गनरूपं वस्तु व्यज्यते ॥
[इइ।५।१५अलङ्कारेणालङारध्वनिः]
अलङ्कारेणालङ्कारध्वनिर्यथा—
अभयं याचमानानां काकतीयेन्द्रविद्विषाम् ।
रक्षां नाङ्गीकरोतीव वनं शाखाग्रकम्पनैः ॥ विप्रुद्_२।५३ ॥
अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते ।
कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा—
अजह तह व होदु अज्जा णरणाह करेहि रक्खणं ससिणो ।
जं ताए कडखुक्का आणत्ता तं मसीकादुं ॥ विप्रुद्_२।५४ ॥
(अयथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः ।
यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्) ॥
अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥
[इइ।५।१६वस्तुवालङ्कारध्वनिः]
वस्तुनालङ्कारध्वनिर्यथा—
कस्त्वं शुभ्राखिलाङ्गश्चरसि, ननु यशो वीररुद्रस्य वर्त्ते को ऽयं ते दिव्यदेहः स्फुरति परिसरे, मत्सुहृत् तत्प्रतापः ।
प्रच्छाद्यालं स्फुरद्भिः कुमुदसरसिजैः ख्यापितं वः स्वरूपं सोमाकारै स्वागतं वामवधिगिरिरहं कल्पितो निस्तमस्कः ॥ विप्रुद्_२।५५ ॥
अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते ।
[इइ।५।१७अलङ्कारेणालङ्कारध्वनिः]
अलङ्कारेणालङ्कारध्वनिर्यथा—
उवह हऌआ वहुआए तह आरूढो वि णिभ्भरो माणो ।
णिवैसमाअमलम्भमसञ्जाअभओ व्व ओसरै ॥ विप्रुद्_२।५६ ॥
(पश्यत हला वध्वास्तथा रूढो ऽपि निर्भरो मानः ।
नृपतिसमागमसम्भ्रमसञ्जातभय इवापसरति) ॥
अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनालङ्कारो व्यज्यते ॥
[इइ।५।१८अलङारेणवस्तुध्वनिः]
अलङ्कारेण वस्तुध्वनिर्यथा—
अप्राप्य सेवावसरं नाथ कान्तावृतस्य ते ।
त्वत्कीर्त्तिं सेवमानेव श्यामा सर्वाङ्गपाण्डुरा ॥ विप्रुद्_२।५७ ॥
अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥
एवं प्रबन्धादिगतत्वेन यथासम्भवमुदाहरणानि द्रष्टव्यानि ; विस्तरभयादिह नोक्तानि ॥
अथ शब्दशक्तिमूलध्वनिः ।
स च वस्त्वलङ्कारगतत्वेन द्विविधः ।
तथा चोक्तम्—
“अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥
ऽ; इति ।
[इइ।५।१९ अलङ्कारध्वनिः]
तत्रालङ्ङ्कारध्वनिर्यथा—
एसो सच्चं राओ सामा खु तुमं समाअमो दोण्णं ।
किं उण ण पदोसकहा दीसः एदं खु अच्चरिअं ॥ विप्रुद्_२।५८ ॥
(एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः ।
किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्) ॥
अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥
[इइ।५।२०वस्तुध्वनिः]
वस्तुध्वनिर्यथा—
कान्तारवाससन्तप्ताः संशृणुध्वं हितादितः ।
कुरुध्वमधुना राजपादसेवां नरेश्वराः ॥ विप्रुद्_२।५९ ॥
अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते ।
अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन सन्तप्ता इति वस्तु व्यज्यते ॥
[इइ।५।२१उभयशक्तिमूलध्वनिः]
उभयशक्तिमूलध्वनिर्यथा—
जिष्णुरेष भुजस्तम्भजृम्भमाणाद्भुतायुधः ।
मुञ्चन्तु क्ष्माभृतः सर्वे निजपक्षविजृम्भितम् ॥ विप्रुद्_२।६० ॥
अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता ।
भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ।
तथा चोक्तं शृङ्गारतिलके—
“रसभावतदाभासभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥
ऽ; इति ।
रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥
गुणीभूतव्यङ्ग्यम् अष्टविधं निरूप्यते ।
गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् ।
तथा चोक्तं काव्यप्रकाशे—
“अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥
ऽ; इति ।
[इइ।५।२२ अगूढम्]
कामिनीकुचकलशवद् गूढस्यैव चमत्कारकारित्वादगूढव्यङ्ग्यं मध्यमं काव्यम् ।
यथा—
औन्नत्यं यदि वर्ण्यते शिखरिणः क्रध्यन्ति नीचैः कृता गाम्भीर्यं यदि कीर्त्त्यते जलधयः क्षुभ्यन्ति गाधीकृताः ।
तत् त्वां वर्णयितुं बिभेमि यदि वा जातो ऽस्म्यगस्त्यः स्थितस्त्वत्पार्श्वे गुणरत्नरोहणगिरे श्रीवीररुद्रप्रभो ॥ विप्रुद्_२।६१ ॥
अत्र “यदि वा जातो ऽस्म्यगस्त्यः स्थितःऽ; इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति व्यङ्ग्यमगूढम् ॥
[इइ।५।२३ अपरस्याङ्गम्]
अपरस्याङ्गम्, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव ।
यथा—
वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
सञ्जातप्रलयं च काकतिमहीनाथ ! स्मरोद्वेजिता भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ विप्रुद्_२।६२ ॥
अत्र शृङ्गारस्य भयरसाङ्गत्वम् ।
[इइ।५।२४ वाच्यसिध्यङ्गम्]
वाच्यसिद्ध्यङ्गं यथा—
करालः काकतीन्द्रस्य करवालनवाम्बुदः ।
धारया शमयत्युग्रं प्रतापज्वलनं द्विषाम् ॥ विप्रुद्_२।६३ ॥
अत्र जलधारा व्यङ्ग्या ।
सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥
[इइ।५।२५ अस्फुठम्]
अस्फुटं यथा—
वीररुद्रकृपाणस्य महिमा को ऽप्यनङ्कुशः ।
प्रसूते कीर्त्तिगङ्गां यः पीत्वा द्विषदसृङ्नदीम् ॥ विप्रुद्_२।६४ ॥
अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद् व्यतिरेकः परमस्फुटः प्रतीयते ॥
[इइ।५।२६ सन्दिग्धप्राधान्यम्]
सन्दिग्धप्रधान्यं यथा—
काकतिक्ष्मापतेर्दृष्टिरनुरागतरङ्गिता ।
लग्ना कल्हारमालेव वध्वास्तुङ्गे कुचद्वये ॥ विप्रुद्_२।६५ ॥
अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति सन्देहः ॥
[इइ।५।२७ तुल्यप्राधान्यम्]
तुल्यप्राधान्यं यथा—
नृपाः प्रतापरुद्रस्य निषेवध्वं पदाम्बुजे ।
अन्यथास्य मनस्तादृक्प्रसादं कलुषायते ॥ विप्रुद्_२।६६ ॥
अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥
[इइ।५।२८ अनुसन्धानम्]
असुन्दरं यथा—
एअसिलामहिलाणं सोऊण णरेन्ददस्सणामोअं ।
गुरुअणणिअन्तिआए वहुआए सामलं वअणं ॥ विप्रुद्_२।६७ ॥
(एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् ।
गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम्) ॥
अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् ।
गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥
[इइ।५।२८ कावाक्षिप्तम्]
यत्र काक्वार्ऽथान्तरमाक्षिप्यते, तदपि गुणीभूतव्यङ्ग्यमेव ।
यथा—
पिअसहि कहेहि अहिआ खोणी लच्छी सरस्सई मज्झा ।
जां बहु मण्णै सोअं णरणाहो गुणविसेसण्णो ॥ विप्रुद्_२।६८ ॥
(प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः ।
यां बहु मन्यते सो ऽयं नरनाथो गुणविशेषज्ञः) ॥
अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते ॥
चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् ।
तत्प्रपञ्चो ऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥
इइ।६ ॥
महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥
अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते ।
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् ।
उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ विप्रुद्_२।६९ ॥
विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदया अपि ॥ विप्रुद्_२।७० ॥
एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।
एषामष्टादशानां यैः कौश्चिदूनमपीष्यते ॥ विप्रुद्_२।७१ ॥
तत्त्रिविधम् ।
गद्यमयं पद्यमयमुभयमयं चेति ॥ विप्रुद्_२।७२अब् ॥
अपादः पदसङ्घातो गद्यं ; पद्यं चतुष्पदम् ।
गद्यकाव्यं कादम्बर्यादि ।
पद्यकाव्यं रघुवंशादि ।
असर्गबन्धमपि यदुपकाव्यमुदीर्यते ॥ विप्रुद्_२।७२च्द् ॥
असर्गबन्धं सूर्यशतकादि ।
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ॥ विप्रुद्_२।७३ ॥
वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ।
यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽख्यायिका हर्षचरितादि ।
(कोशान्तरे वाक्यमिदं नोपलभ्यते । )
इइ।७ क्षुद्रप्रबन्धनिरूपणम् ॥
अथ क्षुद्राः प्रबन्धा निरूप्यन्ते ।
[इइ।७।१ उदाहरणम्]
येन केनापि तालेन गद्यपद्यसमन्वितम् ॥ विप्रुद्_२।७४ ॥
जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम विभक्त्यष्टकसंयुतम् ॥ विप्रुद्_२।७५ ॥
यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् “अपि चऽ; इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, तत् उदाहरणम् ।
[इइ।७।२ चक्रवालकम्]
सम्बोधनविभक्त्या यत् प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥ विप्रुद्_२।७६ ॥
आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ विप्रुद्_२।७७ ॥
[इइ।७।३ भोगावली]
प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेषा भोगावली मता ॥ विप्रुद्_२।७८ ॥
[इइ।७।४ बिरुदावलि]
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ।
वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥ विप्रुद्_२।७९ ॥
[इइ।७।५ तरावलि]
ताराणां सङ्ख्यया पद्यैर्युक्ता तारावली मता ।
एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासम्भवमूह्याः ।
अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥
इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणे ऽलङ्कारशास्त्रे काव्यप्रकरणं समाप्तम् ॥
॥ अथ नाटकप्रकरणम् ॥
॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥
[इइइ।१।१ नाट्यस्वरूपम्]
तत्र नाट्यस्वरूपं निरूप्यते ।
चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् ॥ विप्रुद्_३।०।१ ॥
भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् ।
एषा दशरूपकोक्ता प्रक्रिया ।
नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् ।
तथोक्तं ऽदशरूपकेऽ—
“मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥
ऽ; इति ।
तेन नाट्येन दश रूपकाणि भवन्ति ।
[इइइ।१।२ दशविधरूपकनिर्देशाः]
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥ विप्रुद्_३।०।२ ॥
नाट्याश्रयत्वेनाभेद इति शङ्का न युज्यते ।
वस्तुनेतृरसास्तेषां रूपकाणां हि भेदकाः ॥ विप्रुद्_३।०।३ ॥
वस्तु त्रिविधम्—प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति ।
तथोक्तं ऽदशरूपकेऽ—
“प्रख्यातोत्पाद्यमिश्रत्वभेदात् तत्त्रिविधं मतम् ऽ; इति ।
[इइइ।१।३ दशविधरूपरकाण्णां इतिवृत्तादयः]
इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, सङ्करायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात् रूपकाणां परस्परं भेदः ।
तथा हि—नाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः ।
प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररसस्यैव प्राधान्यम् ।
भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, शृङ्गारवीरयोः सूचनामात्रसारता ।
प्रहसने कल्प्यमितिवृत्तम्, पाषण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम् ।
डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः ।
व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् ।
समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा ।
वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्य सूचनामात्रसारता ।
अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम् ।
[इइइ।१।४ द।रू। सामग्री]
अथ तेषां सामग्री निरूप्यते ।
तत्र पञ्च सन्धयः ।
तथा चोक्तं दशरूपके—
“मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिःऽ; इति ।
[इइइ।१।५। सन्धिपञ्चकविवेचनम्]
सन्धिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसम्बन्धः ।
तत्रारम्भबीजसम्बन्धो मुखसन्धिः ।
प्रयत्नबिन्दुसम्बन्धः प्रतिमुखसन्न्धिः ।
प्राप्त्याशापताकयोः सम्बन्धो गर्भसन्धिः ।
नियताप्तिप्रकर्योः सम्बन्धो विमर्शसन्धिः ।
फलागमकार्ययोः सम्बन्धो निर्वहणसन्धिः ।
तथा चोक्तं दशरूपके—
“बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ॥
ऽ; इति ।
अथारम्भादीनां लक्षणं निरूप्यते—
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु फलप्राप्तौ व्यापारो ऽतित्वरान्वितः ॥ विप्रुद्_३।०।४ ॥
उपायापायङ्काभ्यां प्राप्त्याशा कार्यसम्भवः ।
अपायाभावतः कार्यनिश्चयो नियताप्तिका ॥ विप्रुद्_३।०।५ ॥
समग्रफलसम्पत्तिः फलागम उदाहृतः ।
अथ बीजादिपञ्चकं निरूप्यते—
स्तोकोद्दिष्टः कार्यहेतुर्बीञ्जं विस्तार्यनेकधा ॥ विप्रुद्_३।०।६ ॥
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।
प्रतिपाद्यकथाङ्गं स्यात् पताका व्यापिनी कथा ॥ विप्रुद्_३।०।७ ॥
अव्यापिनी प्रकरिका कार्यं निर्वाहकृत् फले ॥ विप्रुद्_३।०।८अब् ॥
[इइइ।२ मुखसन्धिः]
अथ मुखं निरूप्यते—
मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ॥ विप्रुद्_३।०।८च्द् ॥
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ विप्रुद्_३।०।९अब् ॥
बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि ।
उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ विप्रुद्_३।०।९च्द् ॥
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम् ॥ विप्रुद्_३।०।१० ॥
यथाक्रममेषां स्वरूपं निरूप्यते—
बीजन्यास उपक्षेपः ।
बीजस्य बहूकरणं परिकरः ।
बीजनिष्पत्तिः परिन्यासः ।
बीजगुणवर्णनं विलोभनम् ।
बीजानुकूलसङ्घटनप्रयोजनविचारो युक्तिः ।
बीजसुखागमः प्राप्तिः ।
बीजसन्निधानं समाधानम् ।
बीजसुखदुः खहेतुर्विधानम् ।
बीजविषयाश्चर्यावेशः परिभावना ।
गूढबीजप्रकाशनमुद्भेदः ।
बीजानुगुणप्रोत्साहनं भेदः ।
बीजानुगुणप्रस्तुतकार्यारम्भः करणम् ।
एतानि द्वादश मुखसन्धेरङ्गानि ।
एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् ।
[इइइ।३ प्रतिमुखसन्धिः]
अथ प्रतिमुखसन्धिः—
लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ विप्रुद्_३।०।११ ॥
बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि ।
विलासः परिसर्पश्च विधूतं शमनर्मणी ।
नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥ विप्रुद्_३।०।१२ ॥
वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ॥ विप्रुद्_३।०।१३अब् ॥
एषां स्वरूपं निरूप्यते—
सम्भोगविषयमनोरथो विलासः ।
दृष्टनष्टपदार्थानुसरणं परिसर्पः ।
अनिष्टवस्तुविक्षेपो विधूतम् ।
अरत्युपशमनं शमः ।
परिहासवचनं नर्म ।
अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः ।
उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् ।
छद्मना हितागमननिरोधनं निरोधः ।
इष्टजनानुनयः पर्युपासनम् ।
प्रमुखनिष्ठुरवचनं वज्रम् ।
अनुरागप्रकाशनविशिष्टवचनं पुष्पम् ।
अनुरागहेतुवाक्यरचनोपन्यासः ।
चतुर्वर्णनिर्वर्णतं वर्णसंहारः ।
एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् ।
[इइइ।४ गर्भसन्धिः]
अथ गर्भसन्धिः—
गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ॥ विप्रुद्_३।०।१३च्द् ॥
अस्याप्त्याशापताकानुगुण्येनाङ्गोपकल्पनम् ॥ विप्रुद्_३।०।१४अब् ॥
पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि ।
अभूताहरणं मार्गो रूपोदाहरणक्रमाः ॥ विप्रुद्_३।०।१४च्द् ॥
सङ्ग्रहश्चानुमानं च तोटकाधिबधे तथा ।
उद्वेगसम्भ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥ विप्रुद्_३।०।१५ ॥
एषां स्वरूपं निरूप्यते—
प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् ।
तत्त्वार्थानुकीर्तनं मार्गः ।
वितर्कप्रतिपादनावाक्यं रूपम् ।
प्रस्तुतोत्कर्षाभिधानमुदाहृतिः ।
सञ्चिन्तितार्थप्राप्तिः क्रमः ॥
प्रस्तुतोपयोगिसामदानवचनं सङ्ग्रहः ।
(प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥)॥
लिङ्गादभ्यूहनमनुमानम् ।
रोषसम्भ्रमवचनं तोटकम् ।
इष्टजनातिसन्धानमधिबलम् ।
अपकारिजनाद् भयमुद्वेगः ।
शङ्कात्रासौ च सम्भ्रमः ।
इष्टार्थोपायानुसरणमाक्षेपः ।
एतेषां मध्ये ऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् ।
[इइइ।५ विमर्शसन्धिः]
अथ विमर्शसन्धिः—
गर्भसन्धौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् ।
हेतुना येन केनापि विमर्शः सन्धिरिष्यते ॥ विप्रुद्_३।०।१६ ॥
नियताप्तिप्रकर्युक्तेरङ्गान्यत्र त्रयोदश ॥ विप्रुद्_३।०।१७अब् ॥
नियताप्तिप्रकर्यानुगुण्येन विमर्शसन्धेरङ्गानि प्रयोक्तव्यानि ।
तत्रापवादः सम्फेटो विद्रवद्रवशक्तयः ॥ विप्रुद्_३।०।१७च्द् ॥
द्युतिः प्रसङ्गश्चलनं व्यवसायो निरोधनम् ।
प्ररोचनं विचलनमादानं तु त्रयोदश ॥ विप्रुद्_३।०।१८ ॥
एतेषां स्वरूपं निरूप्यते—
दोषप्रख्यापनमपवादः ।
रोषसम्भाषणं सम्फेटः ।
वधबन्धादिकं विद्रवः ।
गुरुतिरस्कृतिर्द्रवः ।
विरोधशमनं शक्तिः ।
तर्जनोद्वेजने द्युतिः ।
गुरुकीर्तनं प्रसङ्गः ।
उपमानं चलनम् ।
स्वशक्तिप्रशंसनं व्यवसायः ।
क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् ।
सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् ।
स्वगुणाऽविष्करणं विचलनम् ।
कार्यसङ्ग्रह आदानम् ।
एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥
[इइइ।६निर्वहरणसन्धिः]
अथ निर्वहणसन्धिः—
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ विप्रुद्_३।०।१९ ॥
फलाप्तिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश ॥ विप्रुद्_३।०।२०अब् ॥
फलाप्तिकार्यानुगुण्येन निर्वहणसन्धेरङ्गानि चतुर्दश प्रतिपादनीयानि ।
सन्धिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ॥ विप्रुद्_३।०।२०च्द् ॥
प्रसादानन्दसमयाः कृत्याभाषोपगूहनम् ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ विप्रुद्_३।०।२१ ॥
एतेषां स्वरूपं निरूप्यते—
बीजोपशमनं सन्धिः ।
कार्यमार्गणं विरोधः ।
कार्योपक्षेपणं ग्रथनम् ।
बीजानुगुणकार्यप्रख्यापनं निर्णयः ।
मिथो जल्पनं परिभाषा ।
पर्युपासनं प्रसादः ।
वाञ्छितार्थप्राप्तिरानन्दः ।
दुः खप्रशमनं समयः ।
लब्धस्थिरीकरणं
कृतिः ।
प्राप्तकार्यानुमोदनम् आभाषणम् ।
अद्भुतार्थप्राप्तिः उपगूहनम् ।
इष्टकार्यदर्शनं पूर्वभावः ।
कार्यार्थोपसंहृतिः संहारः ।
शुभशंसनं प्रशस्तिः ।
एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः ।
[इइइ।६।१सन्धिनाम्प्रयोजनानि]एतेषां षट् प्रयोजनानि सम्भवन्ति—विवक्षितार्थप्रतिपादनम्, गोप्यार्थगोपनम्, प्रकाश्यार्थप्रकाशनम्, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति ।
तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् ।
असूच्यमपि द्विविधं—दृश्यं श्राव्यं च ।
तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः ।
तथोक्तं ऽदशरूपकेऽ—
“विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारणैःऽइति ।
एतेषां स्वरूपं निरूप्यते—
[इइइ।६।२विष्कम्भिका]
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ विप्रुद्_३।०।२२ ॥
स द्विविधः-शुद्धः सङ्कीर्णश्चेति ।
केवलसंस्कृतप्रायः शुद्धः ।
संस्कृतप्राकृतमिश्रितः सङ्कीर्णः ।
[इइइ।६।३चूलिका]
अथ चूलिका—
अन्तर्यवनिकासंस्थैश्चूलिकार्ऽथस्य सूचना ॥ विप्रुद्_३।०।२३अब् ॥
यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका ।
[इइइ।६।४अङ्कास्यम्]
अथाङ्कास्यम्—
अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना ॥ विप्रुद्_३।०।२३च्द् ॥
यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् ।
[इइइ।६।५प्रवेशकः]
अथ प्रवेशकः—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
प्रवेशकस्तु नाद्ये ऽङ्के नीचपात्रप्रयोजितः ॥ विप्रुद्_३।०।२४ ॥
नीचपात्रप्रयुक्तः प्रवेशकः आद्ये ऽङ्के न प्रयोक्तव्यः ।
[इइइ।६।६अङ्कावतारः]
अथाङ्कावतारः—
यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसङ्गतः ॥ विप्रुद्_३।०।२५अब् ॥
असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥
एभिः सूच्यं सूचयित्वा दृश्यमङ्कैः प्रदर्शयेत् ॥ विप्रुद्_३।०।२५च्द् ॥
[इइइ।६।७अङ्कास्वरूपम्]
तत्राङ्कस्वरूपं निरूप्यते—
प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ विप्रुद्_३।०।२६ ॥
इइइ।७।अथामुखं निरूप्यते—
सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ।
स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ॥ विप्रुद्_३।०।२७ ॥
प्रस्तावना वा तत्र स्यात् कथोद्घातः प्रवर्तकम् ।
प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य तु ॥ विप्रुद्_३।०।२८ ॥
एषामङ्गानां स्वरूपं निरूप्यते—
स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ।
गृहीत्वा प्रविशेत् पात्रं कथोद्धातो द्विधैव सः ॥ विप्रुद्_३।०।२९ ॥
प्रस्तूयमानकालस्य गुणवर्णनया स्वतः ।
प्रविशेत् सूचितं पात्रं यत्र तत्स्यात् प्रवर्तकम् ॥ विप्रुद्_३।०।३० ॥
एषो ऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥ विप्रुद्_३।०।३१ ॥
इइइ।८
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्ते ऽत्र स्वभावतः ।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ विप्रुद्_३।०।३२ ॥
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ विप्रुद्_३।०।३३ ॥
एषां स्वरूपं निरूप्यते—
गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् ।
अवलगितमपि द्विविधम् ।
यत्रैकत्र समावेशात् कार्यमन्यत्र सिद्ध्यति ।
वस्तुनो ऽन्यत्र वा यत्स्यात् द्विधावलगितं मतम् ॥ विप्रुद्_३।०।३४ ॥
अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात् प्रकृतकार्यसिद्धिश्च ।
असद्भूतं मिथः ।
स्तोत्रं प्रपञ्चः ।
त्रिगतं द्विविधं—पूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति ।
पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् ।
प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् ।
साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा ।
स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् ।
सहसोदितं प्रस्तुतविरोधि गण्डम् ।
रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् ।
सोपहासनिगूढार्थप्रहेलिका नालिका ।
असम्बन्धकथाप्रायः प्रलोपो ऽसत्प्रलापः ।
अन्यार्थं हास्यलोभकरं वचनं व्याहारः ।
दोषाणां गुणत्वप्रतिपादनं मृदवम् ।
एतेषां मध्ये यथासम्भवं कानिचित् प्रस्तावनायां प्रयोक्तव्यानि ।
इइइ।९अथ दशरूपकाणां स्वरूपं निरूप्यते ।
तत्र
[इइइ।९नाटकलक्षणम्]
साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहृतैः ।
पूर्णं प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ विप्रुद्_३।०।३५ ॥
वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते ।
प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ विप्रुद्_३।०।३६ ॥
[इइइ।९।१नान्दीस्वरूपम्]
तत्र नान्दीस्वरूपं निरूप्यते—
अर्थतः शब्दतो वापि मनाक् काव्यार्थसूचनम् ॥ विप्रुद्_३।०।३७अब् ॥
यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ॥
द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ॥ विप्रुद्_३।०।३७च्द् ॥
नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते ।
वेणीसंहारे ऽष्टपदा नान्दी ।
अनर्घराघवे द्वादशपदा ।
बालरामायणे द्वाविंशतिपदा ।
कैश्चित् नान्द्यां पदनियमो नाभ्युपगतः ।
नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः ।
तथोक्तं ऽदशरूपकेऽ—
“रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥
ऽ; इति ।
एषा प्रक्रिया नाटकस्यैव मुख्या ।
[इइइ।९।२-प्रकतणम्]
अथ प्रकरणम्—
उत्पाद्येनेतिवृत्तेन धीरशान्तप्रधानकम् ।
शेषं नाटकतुल्याङ्गं भवेत् प्रकरणं हि तत् ॥ विप्रुद्_३।०।३८ ॥
[इइइ।९।३-भाणः]
अथ भाणः—
भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः ।
सूच्येते वीरशृङ्गारौ विटेन निपुणोक्तिना ॥ विप्रुद्_३।०।३९ ॥
कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् ।
एको ऽङ्को मुखनिर्वाहौ यत्र भाणः स सम्मतः ॥ विप्रुद्_३।०।४० ॥
[इइइ।९।४-प्रहसनम्]
अथ प्रहसनम्—
यत्र सन्ध्यङ्गवृत्त्यङ्गवर्णनं भाणवन्मतम् ।
हास्यो रसः प्रधानं स्याद्भवेत् प्रहसनं हि तत् ॥ विप्रुद्_३।०।४१ ॥
तच्च त्रिविधम्—शुद्धं वैकृतं सङ्कीर्णं चेति ।
तत्र शुद्धम्—
पाषण्डविप्रप्रभृतिचेटीचेटसमाकुलम् ।
वेषभाषादिसहितं शुद्धं हास्यवचो ऽन्वितम् ॥ विप्रुद्_३।०।४२ ॥
अथ वैकृतम्—
कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः ।
प्रहासाभिनयप्रायं वैकृतं तत् प्रकीर्त्यते ॥ विप्रुद्_३।०।४३ ॥
अथ सङ्कीर्णम्—
यद् वीथ्यङ्गैः समाकीर्णं सङ्कीर्णं धूर्तसङ्कुलम् ॥ विप्रुद्_३।०।४४ ॥
[इइइ।९।५-डिमः]
अथ डिमः—
यत्र वस्तु प्रसिद्धं स्याद् वृत्तयः वैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ विप्रुद्_३।०।४५ ॥
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः ॥ विप्रुद्_३।०।४६ ॥
चत्वारो ऽङ्काः सन्धयश्च चत्वारो मर्शवर्जिताः ।
मायेन्द्रजालसङ्ग्रामसूर्यचन्द्रग्रहादयः ॥
शेषं नाटकवत् सर्वं स डिमः परिकीर्त्यते ॥ विप्रुद्_३।०।४७ ॥
[इइइ।९।६-व्यायोगः]
अथ व्यायोगः—
यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः ।
गर्भावमर्शराहित्यं डिमवद् रसपोषणम् ।
एकवासरकार्यं च स व्यायोगो महारणः ॥ विप्रुद्_३।०।४८ ॥
[इइइ।९।७-समवकारः]
अथ समवकारः—
यत्रामुखं नाटकवत् सन्धयो मर्शवर्जिताः ।
नेतारो द्वादश पृथक्फला देवासुरादयः ॥ विप्रुद्_३।०।४९ ॥
वीरप्रधानाश्च रसास्त्रयो ऽङ्कास्तेषु च क्रमात् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ विप्रुद्_३।०।५० ॥
पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः ।
धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ॥ विप्रुद्_३।०।५१ ॥
प्रथमे ऽङ्के निबद्धव्या कथा यामत्रयावधिः ।
यामावधिर्द्वितीये ऽङ्के तृतीये ऽङ्के ऽर्धयामिका ॥ विप्रुद्_३।०।५२ ॥
असौ समवकारः स्याद् वीथ्यङ्गैः कैश्चिदन्वितः ॥ विप्रुद्_३।०।५३अब् ॥
[इइइ।९।८-वीथी]
अथ वीथी—
यत्र भाणवदङ्गानां कॢप्तिर्वृत्तिस्तु कैशिकी ॥ विप्रुद्_३।०।५३च्द् ॥
शृङ्गारः परिपूर्णत्वात् सूचनीयो ऽतिभूयसा ।
उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ विप्रुद्_३।०।५४ ॥
[इइइ।९।९-अङ्कः]
अथाङ्कः—
यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः ।
स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः ॥
भाणवत् सन्धिवृत्त्यादि स उत्सृष्टो ऽङ्कसञ्ज्ञकः ॥ विप्रुद्_३।०।५५ ॥
[इइइ।९।१०-ईहामृगः]
अथेहामृगः—
मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसन्धिकम् ।
मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ ॥ विप्रुद्_३।०।५६ ॥
धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकौ ।
अवधं युद्धमन्योन्यमाभासरसयोस्तयोः ॥ विप्रुद्_३।०।५७ ॥
एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण ।
[इइइ।१०-नाटकोदाहरणम्]
नाटकोदाहरणप्रारम्भः ।
तत्र साङ्गं नाटकमुदाह्रियते ।
भद्रां कौतुकवेदिमागतवतोरन्योन्यमासेदुषोः
शैलैर्मेरुहिमाचलप्रभृतिर्भिर्देवैर्हरीन्द्रादिभिः ।
व्याप्तां पार्श्वयुगे पुरो ऽम्बुजभुवा पश्चाच्च मेनादिभिः
साध्वीभिः शिवयोरपाङ्गसरणिर्वैवाहिकी पातु वः ॥ विप्रुद्_३।१।१ ॥
एषा द्वाविंशतिपदा नान्दी ।
अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किञ्चिदर्थशक्त्या सूच्यते ।
देयात् सिद्धिं महालक्ष्मीर्जगद्रक्षाधुरन्धरा ।
विष्णुवक्षः स्फुरन्मालाविहितालयतोरणा ॥ विप्रुद्_३।१।२ ॥
एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा ।
नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्)—
कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः !
तथाहि—
आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् ।
सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥ विप्रुद्_३।१।३ ॥
एतद्रङ्गप्रसाधनम् ।
(सप्रहर्षम्)—
भूभृत्सुतामहादेवौ पितरौ यस्य विश्रुतौ ।
नरनागाकृतिः श्रीमान् स देवः श्रेयसे ऽस्तु वः ॥ विप्रुद्_३।१।४ ॥
(ऊर्ध्वमवलोक्य)—चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि ।
यतः—
विहरद्राजहंसश्रीर्विलसन्मित्रमण्डलः ।
प्रसाधयति सन्मार्गं प्रसन्नः शरदागमः ॥ विप्रुद्_३।१।५ ॥
काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता ।
(सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा)
भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत ।
(आकाशे कर्णं दत्त्वा) किं ब्रूथ ?
“यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयम्भूः स्पृहयत्यजस्रम् ।
तच्छ्रोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु ॥ विप्रुद्_३।१।६ ॥
ऽ; इति ।
(सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः ।
यत् प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते ।
अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः
सभा स्वयम्भूपरमेश्वरस्य प्रतापरुद्रस्य गुणा महार्घाः ।
अहं च नाट्यश्रुतिपारदृश्वा सुधामुचस्तस्य कवेश्च वाचः ॥ विप्रुद्_३।१।७ ॥
एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना ।
(सविमर्शम्) कथमस्मत्प्रेयसी सङ्गीतशारिका चिरयति ?
(प्रविश्य) नटी—(पुरो ऽवलोक्य सस्पृहम्)—
किं भारईए सुव्वै मञ्जीररवो सहाए विहरन्तीए ।
अह सङ्गीअसुइ व्वा विण्णादं णट्टप्पमुहतूरणिणाओ ॥ विप्रुद्_३।१।८ ॥
( ।किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः ।
अथ सङ्गीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)॥
(अपसृत्य)—अअज्ज इअम्हि ।
आणवेदु को णिओओ अणुट्ठीअदु त्ति ।
(अआर्य इयमस्मि ।
आज्ञापयतु को नियोगो ऽनुष्ठीयतामिति । )
सूत्रधारः—आर्ये,
यद् गेहे कलकण्ठनादमधुरं गास्यामि गीतिं ध्रुवां
लास्यं चारुभिरङ्गहारललितैराविष्करिष्यामि यत् ।
रम्यं यत् किल रङ्गमङ्गलविधिं सम्पादयिष्याम्यहं
प्रागित्युक्तवती तदद्य निपुणे निर्व्यूढमेवं त्वया ॥ विप्रुद्_३।१।९ ॥
एतत् प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् ।
नटी—(सभयम्)अअणट्टसामग्गिं सज्जीकादुं विलम्बिअं ।
सज्जीकिआ क्खु एसा ।
केण उण रुव्वएण पओओ उअक्कमीअदु ।
(अअनाट्यसामग्रीं सज्जीकर्तुं विलम्बितम् ।
सज्जीकृता खल्वेषा ।
केन पुना रूपकेण प्रयोग उपक्रम्यताम् । )
सूत्रधारः—नन्विदमेव रूपयतु ।
(इति पत्रिकां ददाति । )
नटी—(गृहीत्वा संस्कृतमाश्रित्य वाच्यति । )
तेजः पर्यायहरयोः किं किं सम्बोधनं मतम् ।
किमाशीर्वादविषयो विद्यानाथकृतिश्च का ॥ विप्रुद्_३।१।१० ॥
समन्दस्मितं)अणिगूढत्थं खु एदं छेआणं वअणं पडिभादि ।
कीरिसं उत्तरं ? णिरूवेदु अज्जो ।
(अनिगूढार्थं खल्वेतच्छेकानां वचनं प्रतिभाति ।
कीदृशमुत्तरम् ? निरूपयत्वार्यः । )
सूत्रधारः—अयि सुव्यक्तमेतत् ।
प्रतापरुद्रकल्याणमिति प्रतीयत एव
एषा निगूढार्था नालिका ।
नटी— ।
कहं कहाणाअअणआमहेआणुबन्धमणोहरं क्खु नाडअम् ।
पआवोववदङ्किअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि ।
( ।कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् ।
प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते । )
सूत्रधारः—प्रिये श्रूयताम् ।
तं सुजातं समुद्वीक्ष्य क्षोण्यां रविमिवोदितम् ।
प्रतापरुद्र इत्याख्यामकरोत् काकतीश्वरः ॥ विप्रुद्_३।१।११ ॥
अन्यच्च—
विष्णोर्विश्वैकवीरस्य काकतीयकुले स्थितम् ।
अवतारममुं ज्ञात्वा वीररुद्रं प्रचक्षते ॥ विप्रुद्_३।१।१२ ॥
नटी—अलोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि ।
चिरस्स णट्टविज्जणुवट्टणं फलिअम्, जेण लोअमङ्गलं काकैमरिन्दचरिअं अभिणिज्जै ।
(अलोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते ।
चिरस्य नाट्यविद्यानुवर्तनं फलितम्, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)॥
एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् ।
सूत्रधारः—अहो प्रज्ञासंवादो ऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका ।
यथा किल—
किं लोकश्रवसोर्भाग्यं मङ्गलश्रवणं मुहुः ।
किं मङ्गलं प्रतापाङ्करुद्रस्य चरिताद्भुतम् ॥ विप्रुद्_३।१।१३ ॥
एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् ।
नटी— ।
अय्यपरिअणेण सव्वं सम्पद्दीअदि ।
( ।
आर्यपरिजनेन सर्वं सम्पाद्यते । )
सूत्रधारः—आर्ये,
त्वया दारैरुदारश्रीर्नाट्यसम्पदियं मम ।
प्रबन्धलक्ष्मी रीत्येव विदर्भफणितिस्पृशा ॥ विप्रुद्_३।१।१४ ॥
एष मिथः स्तोत्ररूपः प्रपञ्चः ।
नटी— ॥
एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअन्तो तस्स कैणो सम्पुण्णो सरस्सईपसादो ।
( ॥ एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः सम्पूर्णः सरस्वतीप्रसादः । )
सूत्रधारः—आर्ये, एवमेव ।
नन्वेषा कविभारत्योर्वाक्केलिः ।
यथा
किल—
मातर्भारति ! वत्स ! किं ? तव कृपां याचे ऽद्य किं प्रस्तुतं ?
जिह्वा काकतिवीररुद्रनृपतेः स्तोत्राय सन्नह्यति ।
ज्ञातं ते विहरन्तु वाग्लहरयः सन्ध्यानटद्धूर्जटि-
त्वङ्गन्मौलितरङ्गिणीकलकलारम्भप्रियम्भावुकाः ॥ विप्रुद्_३।१।१५ ॥
एषान्योन्यसंलापरूपा वाक्केलिः ।
नटी— ।
अम्हाणं ईरिमणरिन्दचरिआणुऊलो णट्टाडम्बरो होइ ण वे त्ति सज्झसेण वेवै मे हिअअम् ।
( ।
अस्माकमीदृशनरेन्द्रचरितानुकूलो नाट्याडम्बरो भवति न वेति साध्वसेन वेपते मे हृदयम् । )
सूत्रधारः—(किञ्चित् सासूयम्) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री ।
कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ?
नटी—असङ्गीदसारस्स महण्णवो उव्वेल्लिज्जदि ।
अवहाणजाणपत्तं आरूहदु अज्जो ।
(असङ्गीतसारस्य महार्णव उद्वेल्यते ।
अवधानयानपात्रमारोहत्वार्यः । )
एतदन्योन्यवाक्याधिक्यादधिबलम् ।
सूत्रधारः—चिरमवहित एवास्मि ।
नन्वियमुपक्रम्यते ध्रुवा—
नटकृतध्रुवागानप्रतिज्ञावचनं सम्भ्रमोदितमिति गण्डम् ।
नटी—(सस्मितम्) ।
कहं अज्जो धुवं गाऐ !
( । कथमार्यो ध्रुवां गायति !)
सूत्रधारः—अयि कथमर्धोक्त एव त्वरा, “नाट्यविद्याऽ; इति शेषं न जिघ्रति ।
एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् ।
आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः ।
नटी—(तथा करोति । )
लच्छी सरई अ इमा धवलिअभुवणन्तरा विराअन्ती ।
विलसन्तकुवलअसिरी राअस्स पसाहणं कुणै ॥ विप्रुद्_३।१।१६ ॥
(लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती ।
विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)॥
सूत्रधारः—(आकर्ण्य सरसावेशम्)
गाढालिङ्गनसम्मर्दप्रत्यक्षरगलत्सुधाम् ।
ध्रुवां करोमि सर्वाङ्गे श्रोत्रैकामृतवर्षिणीम् ॥ विप्रुद्_३।१।१७ ॥
एष रसवशादसङ्गतार्थव्याहाररूपो ऽसत्प्रलापः ।
नटी—(सोपहासं)असुउमारा क्खु एसा अय्यस्स णिद्दआलिङ्गणवेल्लणं ण सहै ।
(असुकुमारा खल्वेषार्ऽऽयस्य निर्दयालिङ्गनक्षेपणं न सहते । )
एष हास्यलोभकरो व्याहारः ।
सूत्रधारः—(सव्रीडम्)
रसास्वादेन तरला ये माद्यन्ति विपश्चितः ।
त एव भावुक्ता लोके भवन्ति हृदयालवः ॥ विप्रुद्_३।१।१८ ॥
एतद्दोषस्य गुणत्वारोपान्मृदवम् ।
नटी— ॥
अय्यो अणन्तरकरणिज्जं णिरूवेदु ।
( ॥ आर्यः अनन्तरकरणीयं निरूपयतु । )
सूत्रधारः—नन्वयमिदानीं सभापतिर्देवः स्वयम्भूरुपश्लोक्यते ।
सर्वाङ्गविलस्तसर्वमङ्गलालङ्कृताकृतेः ।
रुद्रस्य महिमा भाति विश्वानुग्रहकारिणः ॥ विप्रुद्_३।१।१९ ॥
नेपथ्ये ।
भोः ! सत्यं सत्यम् ।
सर्वाङ्गविलसत्सर्वमङ्गलालङ्कृताकृतिरेवायं रुद्र इति ।
सूत्रधारः—(सहर्षम्) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते ।
अयं कथोद्धातः ।
इदमेव गुणवर्णनात् प्रवर्तकं च ।
(पुरो ऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते ।
एषो ऽयमित्युपक्षेपात् प्रयोगातिशयः प्रस्तावनाङ्गम् ।
तदेहि ।
आवामप्यनन्तरकरणीयाय सज्जीभवावः ।
(इति निष्क्रान्तौ । )
इति समग्राङ्गा प्रस्तावना ।
(ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ । )
प्रथमः—(सहर्षम्)
यो ऽयं जातस्त्रिलोकीप्रथितसुचरिते काकतीयान्ववाये
यस्मै श्रेयांस्यजस्रं वितरति भगवान् देवदेवः स्वयम्भूः ।
यस्याज्ञा सर्वपृथ्वीपतिमणिमुकुटश्रेणिकेलीवयस्या
सो ऽयं भूपालमौलिर्जयति गुणमहान् रुद्रदेवो नरेन्द्रः ॥ विप्रुद्_३।१।२० ॥
स्वयम्भूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपो ऽङ्गम् ।
द्वितीयः—सखे ! किमुच्यते,
यो रुद्रो रजताचले स्थितिमगादर्धाङ्गनारिः पुरा
सो ऽयं सम्प्रति काकतीश्वरकुले सर्वाङ्गनारी स्थितः ।
स्थाने यद्विषमावलोकनकलामात्रेण भस्मीकृता-
न्यासन् वैरिपुराणि चित्रमधुना खड्गे विषं धार्यते ॥ विप्रुद्_३।१।२१ ॥
प्रथमः—सखे साधु समर्थितम् ।
अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयम्भूदेवस्तादृशीं श्रेयः सङ्ग्रहकारिकामुपदिष्टवान् ।
स्वयम्भूदेवप्रसादरूपस्य बीजस्य बहूकरणात् परिकरः ।
द्वितीयः—(सविमर्शाश्चर्यम्) कथमवगतं राजरहस्यं वयस्येन ?
प्रथमः—सखे, कस्य वा न विदितमिदम् ।
यत् सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव ।
कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः ।
द्वितीयः—अहो निरन्तरप्रसादोन्मुखता देवस्य ।
यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते ।
एतत् बीजस्य श्रेयो ऽनुबन्धरूपगुणख्यापनाद् विलोभनम् ।
तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः ।
तदेहि राजकुलं प्रविशावः ।
प्रथमः—वयस्य, साम्प्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति ।
तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे ।
(इति परिक्रम्य निष्क्रान्तौ । )
अयं शुद्धविष्कम्भः
अङ्कारम्भः ॥
(ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च । )
राजा—(सहर्षातिशयम्) अहो प्रसादातिशयः परमेश्वरस्य !
सोमार्काभिजनं तमद्य जयति श्रीकाकतीयान्वयः
पातिव्रत्यमुपैति साम्प्रतममीष्वस्मासु विश्वम्भरा ।
अस्माभिर्निजदोः प्रसूतिमधुना धन्यामजो मन्यते
यत्कर्तव्यमुपादिशत् कुलपतिर्देवः स्वयम्भूः स्वयम् ॥ विप्रुद्_३।१।२२ ॥
पुरोधसः—महाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् ।
अथवा किमत्राभिनवम् ।
पुत्राणां हितोपदेशाधिकारः पितुरेव ।
यदित्थं कथयन्ति तद्विदः ।
सैवोमा चेति निर्दिष्टा सोमा चेति प्रथामगात् ।
तव माता शिवा साक्षाद्देवो गणपतिः पिता ॥ विप्रुद्_३।१।२३ ॥
मन्त्रिणः—एवमेवैतत् ।
अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् ।
एवं मानुषशम्भुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः ।
तदनुगुणा च रुद्र इत्याख्या ।
पुरोधसः—(सकौतुकम्) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ?
राजा—(सादारम्) इदं निवेद्यते ।
कदाचित् कल्याणे रजनीसमये स्मेरवदनं
पुरः प्रादुर्भूतं सयुवतिवपुः साक्षनिटिलम् ।
स्रवन्तीचन्द्राभ्यां महितमुकुटं प्रेक्ष्य किमपि
स्वयम्भूदेवो ऽसावयमिति हठोत्थानमभजम् ॥ विप्रुद्_३।१।२४ ॥
अनन्तरं स्वप्न एव
वपुषा तं नमस्कृत्य स्तुवन् सूनृतया गिरा ।
स्वामिने काकतीयानां रत्नासनमुपाहरम् ॥ विप्रुद्_३।१।२५ ॥
चामरग्राहिणी— ।
अहो देवस्स अणुसन्धाणं जं सिविणे वि कुलसामिणो समाराहणम् ।
( । अहो देवस्यानुसन्धानं यत् स्वप्ने ऽपि कुलस्वामिनः समाराधनम् । )
पुरोधसः—किमुच्यते ।
आविष्टभक्तयः खलु स्वयम्भूदेवे काकतीयनरदेवाः ।
ततः ।
राजा—
शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् ।
अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम् ॥ विप्रुद्_३।१।२६ ॥
अथ च
विभुः स्वयम्भूरवदच्छुचिस्मितां गिरं स्ववामार्धवधूपलालिताम् ।
स्पृशन् करेणाभयदानशालिना कृताञ्जलिं मां विनयानताननम् ॥ विप्रुद्_३।१।२७ ॥
यत् किल
उन्मस्तकैर्मध्यमलोकभाग्यैस्तपोविशेषैरनघैः पृथिव्याः ।
सम्यक्फलैः सच्चरितैः प्रजानां प्रतापरुद्रो ऽयमिहावतीर्णः ॥ विप्रुद्_३।१।२८ ॥
वत्स काकतीयकुलप्रदीप !
स्वीकृते पुत्रभावेन दौहित्रे प्राङ्ममाज्ञया ।
अस्मिन् निधेहि धौरेये गुर्वीमुर्वीधुरामिति ॥ विप्रुद्_३।१।२९ ॥
पुरोधसः—(सप्रमोदम्) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् ।
तवाप्ययमेव मनोरथः ।
प्रियङ्करश्चायं महोत्सवः प्रजानाम् ।
तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला ।
ततस्ततः ।
इयं प्रयोजननिर्धारणरूपा युक्तिः ।
राजा—तद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा ।
चामरग्राहिणी— ।
महाराअस्स हिअअं अणुवट्टमाणाए वसुन्धराए उइदो ख्खु हरिसाविभ्भावो ।
एषा स्वयम्भूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः ।
( । महाराजस्य हृदयमनुवर्तमानाया वसुन्धराया उचितः खलु हर्षाविर्भावः । )
राजा—काकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता ।
देवो ऽपि सप्रसादातिशयमवलोक्यान्तर्हितो ऽभूत् ।
इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयम्भूदेवोपदेशस्याङ्गीकरणात् समाधानम् ।
मन्त्रिणः—विश्वप्रियङ्करः स्वप्नप्रत्ययः ।
किन्तु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरन्धरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च
विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः ।
एतत्सुखदुः खहेतुभूतं विधानम् ।
चामरग्राहिणी— ।
अच्चरिअं अच्चरिअं ।
कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् ।
( ।
आश्चर्यमाश्चर्यम् ।
कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् । )
इयं बीजविषयाऽश्चर्यरूपा परिभावना ।
राजा—(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः-
कल्पलताप्ररोहः स्वयम्भूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् ।
एष बीजप्रकाशनादुद्भेदः ।
मन्त्रिणः—यदाज्ञापयति काकतीयपरमेश्वरः ।
राजा—किमिदानीं कर्तव्यम् ?
पुरोधसः—महाराज ! किमन्यत् ? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसम्भारः ।
एष बीजानुगुणप्रोत्साहनरूपो भेदः ।
मन्त्रिणः—दिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयम्भूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः ।
पुरोधसः—उचितमनुमन्त्रितं मन्त्रिभिः ।
राजा—तर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि ।
अहमपि सज्जो भवामि ।
एष आरम्भः ।
इदं बीजानुगुणारम्भरूपं करणम् ।
एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः ।
(नेपथ्ये) वैतालिकौ—सुखाय माध्यन्दिनी सन्ध्या भवतु देवस्य ।
यदिदानीम्—
लोकालोकगिरीन्द्रकन्दरतमः सन्दोहदर्पापहं
त्वत्तेजः पटलं कियन्ति भुवनान्याक्रम्य सङ्क्रीडते ।
इत्यालोकनकौतुकीव शिथिलस्वीयाधिकारश्रमो
भास्वानेष समग्रदीप्तिरधुना व्योमाग्रमारोहति ॥ विप्रुद्_३।१।३० ॥
अपि च—
उद्गायन्ति शरन्निशाकरकरस्तोमत्विषस्त्वद्गुणान्
क्रीडन्त्यो मलयाद्रिचन्दनलताकुञ्जे भुजङ्गाङ्गनाः ।
पीत्वा तत्तदुदीर्णवर्णगलितां प्रत्यग्रधारां सुधां
वाताहारतया प्रभूतमयशः प्रक्षालयन्त्यो निजम् ॥ विप्रुद्_३।१।३१ ॥
इदानीं खलु—
आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् ।
यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम् ॥ विप्रुद्_३।१।३२ ॥
राजा—(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय ।
अहमपि तावदभ्यन्तरं प्रविशामि ।
(इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे)
इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥
(अथ द्वितीयो ऽङ्कः)
नेपथ्ये)— ।
इदो इदो अज्जो ।
( ।
इत इत आर्यः । )
(ततः प्रविशति वृद्धकञ्चुकी)
कञ्चुकी—(सहर्षम्) चिराय यौवनमतिशयानया चरितार्थया जरयानया सञ्चरे ।
यया दीर्घायुषा
प्रतापरुद्रमहाभिषेकमनुभवितास्मि ।
एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः ।
अपि च—
पदे पदे स्खलन्तं मां वाचा गत्याथ चेष्टया ।
अवलोक्य हसन्नास्ते स्वामी रुद्रनरेश्वरः ॥ विप्रुद्_३।२।१ ॥
(सविमर्शाश्चर्यम्)
काकतीयनरेन्द्रस्य राज्यश्रीर्मूलवेश्मनः ।
युवराजगृहानद्य गवाक्षैः स्वैरमीक्षते ॥ विप्रुद्_३।२।२ ॥
एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः ।
(पुरो ऽवलोक्य)
कथमयं राजपुत्रपरिचारको दारकः ससम्भ्रमं मामभिवर्तते ।
(प्रविश्य) दारकः— ।
अय्य पणमामि ।
( ।
आर्थ प्रणमामि । )
कञ्चुकी—भद्र कल्याणास्पदं भूयाः ।
किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण ।
दारकः—अकहं कहं वि अणुभदम् ।
(अकथं कथमपि अनुमतम् । )
कञ्चुकी—स्वनामानुगुणमिदं राजपुत्रस्य यत् सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते ।
दारकः—अअअय्य अणणुहूदजुझ्झपरिस्समो जुवराओ ।
दुक्खरो खु दिअन्तजओ कहं भविस्सै ।
(अअआर्य, अननुभूतयुद्धपरिश्रमो युवराजः ।
दुष्करः खुलु दिगन्तजयः कथं भविष्यति । )
कञ्चुकी—भद्र, निरङ्कुशाः स्वयम्भूदेवप्रवृत्तयः ।
विष्णोरवतारः खल्वयं वीररुद्रो ऽपि अचिन्त्यमहिमा ।
एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः ।
अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसन्धिरयम् ।
दारकः— ।
एव्वं एदम् ।
अमाणुसो खु सो पहावो ।
( ।
एवमेतत् ।
अमानुषः खलु स प्रभावः । )
कञ्चुकी—कुत्रेदानीं राजपुत्रः ?
दारकः—अकाअईअकुलदुग्गादेवीसमाराहणेण विअअपत्थाणमङ्गलं काऊण तत्थ हणुमदअलपेरन्तबहिरुज्जाणे णिवेसिअखन्धावारो अमच्चपरिवुदो जुवराओ चिट्ठई ।
ता अणुजाणीहि मम तत्थ पत्थाणं ।
(अकाकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति ।
तदनुजानीहि मम तत्र प्रस्थानम् । )
कञ्चुकी—भद्र ! साधय ।
अहमपि राजकुलं प्रविशामि ।
(इति यथोचितं परिक्रम्य निष्क्रान्तौ । )
इयं चूलिका ।
(ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च । )
प्रतापरुद्रः—
किं राज्येन शमोन्मुखं रचयता तातं कुलालम्बनं
किं चास्मिन् समुदाहरन्ति महतो दोषान् बहून् सूरयः ।
धर्माध्वा च खिलीकृतो ऽयमधुना कः सञ्चरेदस्खलंस्
तन्नेष्टं किल यौवराज्यमपि मे बाल्योत्सवे क्रीडतः ॥ विप्रुद्_३।२।३ ॥
तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे ।
एतद्राज्ये ऽनिच्छाभिधानाद्विधूतम् ।
मन्त्रिणः—राजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसम्पदा त्वां धुरन्धुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति ।
आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् ।
कुलस्वामिना स्वयम्भुवाप्येवमेवानुशिष्टम् ।
अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा ।
कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न साम्प्रतं प्रत्याख्यातुम् ।
प्रतापरुद्रः—(सानुरोधम्)
स्वयम्भूस्तात इत्येतावीश्वरौ दिव्यमानुषौ ।
तयोरन्यतरो राजा युवराजो ऽस्मि सर्वथा ॥ विप्रुद्_३।२।४ ॥
मन्त्रिणः—राजपुत्र ! साधारणो ऽयं विनयः काकतीश्वराणां स्वयम्भुवि महाराजे च ।
एष प्रकृतविषयारत्युपशमाच्छमः ।
परिजनः— ।
काअईअकुलट्ठविरो तत्तभवन्तो सअम्भूदेवो धुरं धारेदु ।
राऔत्तो उण रज्जसिरिअं अङ्के आरोवेदु ।
(काकतीयकुलस्थविरस्तत्रभवान् स्वयम्भूदेवो धुरं धारयतु ।
राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु । )
(प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति । )
एतत् परिहासवचोरूपं नर्म ।
परिजनः—अचिरेण चरिअत्था मेइणी संवुत्ता ।
(अचिरेण चरितार्था मेदिनी संवृत्ता ।
गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः ।
क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)॥
गोत्तगिरिसिहराणिठ्ठुरविअडसिलावसैबब्बरङ्गीए ।
खोणीए होदु वासो बाहुम्मि पआवरुद्दस्स ॥ विप्रुद्_३।२।५ ॥
अजह हरिचन्दस्स भुए जह रहुणाहस्स बाहुफलअम्मि ।
काऐलच्छीपैणो बाहुम्मि तहा मही रमदु ॥ विप्रुद्_३।२।६ ॥
(अयथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके ।
काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)॥
(प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति । )
एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः ।
मन्त्रिणः—राजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते ।
परिजनः— ।
विज्जावहूणं अहिअं दठ्ठूण पैम्मि पणअविस्सम्भं ।
खोणी लच्छी अ कहं विलम्बिअं सहौ जुवराए ॥ विप्रुद्_३।२।७ ॥
(विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् ।
क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराजे) ॥ ॥
मन्त्रिणः—इत्थमेव ।
स्वतेजसा परिष्कृत्य प्रधानागारमुत्सुका ।
प्रतीक्षते ऽद्य राज्यश्रीर्युवराजसमागमम् ॥ विप्रुद्_३।२।८ ॥
एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात् प्रगमः ।
परिदृ— ॥
कहं अन्दरिओ खु एसो महूसओ दिसाविजअजत्ताए ।
( ॥
कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया । )
एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः ।
मन्त्रिणः—(सावज्ञम्) कथं चिरयन्त्यन्ध्रचमूपतयः ।
अथवा किं तैः ; वयमपि न केवलं मन्त्रशस्त्राः, किन्तु बहुशः समरापदानाराधितस्वामिन एव ।
एतन्निष्ठुरवचनरूपं वज्रम् ।
(प्रविश्य) दौवारिकः— ।
जेदु जेदु जुअरोओ ।
एदे खु चमूपैणो पडिहारभूमिभाअम्मि सज्जीकिअचौरङ्गबला वट्टन्ति ।
( ।
जयतु जयतु युवराजः ।
एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते । )
मन्त्रिणः—अचिरं भोः प्रवेशय ।
दौवारिकः—तथा ।
(इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः । )
सेनापतयः—(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव ।
तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् ।
एतदनुनयवचनरूपं पर्युपासनम् ।
मन्त्रिणः—राजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः ।
आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः ।
प्रस्तूयतां सेनापुरः-सराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् ।
प्रतापरुद्रः—यथाभिरुचितममात्येभ्यः ।
(इति गन्धगजाधिरोहणं नाटयति । )
मन्त्रिणः—
करोदग्रेण महसा विष्वगाक्रमितुं दिशः ।
आरोहति गजं वीररुद्रो भास्वानिवोदयम् ॥ विप्रुद्_३।२।९ ॥
एतत् प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् ।
(सर्वे युवराजहस्तिनं पुरस्कृत्य ससम्बाधं किञ्चित् परिक्रामन्ति । )
सेनापतयः—(सोत्साहप्रणामम्) स्वामिन्नितो दीयतां दृष्टिः ।
धावत्पादातपादाहतिदलितमहीरन्ध्रनीरन्ध्रनिर्यद्-
धूलीजालाम्बुदान्तर्विलसदसिलताविद्युदुद्दामदीप्ताः ।
उद्यन्निस्साणराणस्तनितपटपटद्दिक्तटाः प्रारभन्ते
प्रावृट्लक्ष्मीं ध्वजिन्यः करिकरटतटस्यन्दिदानाम्बुधाराः ॥ विप्रुद्_३।२।१० ॥
(अन्यतो निरूप्य)
बले चलति सम्भ्रमप्रतिभये विजेतुं दिशः
पुरन्दरहरिज्जयव्यवसिताः सहायोद्धताः ।
चलन्ति चिरमत्सराः शिखरिणो यथा दन्तिनो
भरावनमदुन्नमद्भुजगराजफक्कत्फणाः ॥ विप्रुद्_३।२।११ ॥
परिजनः—(विलोक्य साश्चर्यम्) ।
महन्तो खु एसो तिलिङ्गसुभडाणं उस्साहो ।
( ।
महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः । )
(संस्कृतमाश्रित्य)
उद्यत्तोमरडामराः प्रतिपदप्रोत्क्षिप्तकौक्षेयकाः
स्वैरोद्गीर्णभुसुण्ढयः पटुतराकृष्टध्वनत्कार्मुकाः ।
भ्राम्यद्भीमगदाः समग्रविहरत्प्रासाः स्फुरत्पट्टसाः
खेलन्त्यन्ध्रचमूभटाः सवपुषो रौद्रप्रकारा इव ॥ विप्रुद्_३।२।१२ ॥
मन्त्रिणः—अहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः ।
उत्क्षिप्योत्क्षिप्य पादौ रवितुरगशिरस्ताडनायेव पूर्वौ
पाश्चात्त्याभ्यां पदाभ्यामपि धरणिमवष्टभ्य संरब्धनुन्नाम् ।
वालैर्व्याधूयमानैः प्रतिनृपतिहयोत्साहमुन्मार्जयन्तः
क्रामन्त्यश्वाः सहेलक्रमणपरिणमत्पञ्चधाराप्रपञ्चाः ॥ विप्रुद्_३।२।१३ ॥
(विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रम्मः ।
तथा हि—
रथाः सरभसं भ्रमन्निबिडहेमनेमिक्षत-
क्षमातलसमुच्चलद्बहुलधूलिजालाम्बुदैः ।
तिरोहितमसूयया सपदि भानवीयं रथं
विधाय मुखरीभवन्त्यनिभृताक्षधूर्निस्वनाः ॥ विप्रुद्_३।२।१४ ॥
प्रतापरुद्रः—(सर्वतो ऽवलोक्य सप्रमोदम्) कथं समग्रसाधनानि सैन्यानि ।
बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुलाः ।
सङ्क्रीडत्स्यन्दनाः क्ष्वेडसुभटाः सैन्यसम्पदः ॥ विप्रुद्_३।२।१५ ॥
मन्त्रिणः—युवराजालोकनादुद्वेलः सैन्यसागरो वर्तते ।
अभ्यापतन्तीरभितो महीभृद्वाहिनीर्बहूः ।
काकतीयबलाम्भोधिरेष स्वैरं ग्रसिष्यते ॥ विप्रुद्_३।२।१६ ॥
सेनापतयः—यदादिशन्त्यमात्याः ।
(इति सप्रणामम्) विजययात्राकुतूहलिन्यो ध्वजिन्यः साम्प्रतं युवराजस्याज्ञां प्रतिपालयन्ति ।
(प्रतापरुद्रः सप्रसादममात्यानालोकयति । )
मन्त्रिणः—(सोत्साहम्) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि ।
सेनापतयः—यथाऽदिशन्त्यमात्याः ।
(इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्)
पवनेनानुकूलेन प्रसारितपटाञ्चलाः ।
उद्युञ्जन्त इवाक्रष्टुं ध्वजाः सौत्रामणीं दिशम् ॥ विप्रुद्_३।२।१७ ॥
(सर्वे शकुनमभिनन्दन्ति । )
एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः ।
प्रतापरुद्रः—(पुरो ऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः ।
विप्रः—(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः ।
राजपुत्र ! स्वयम्भूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः ।
प्रतापदृ—(सप्रणामादरं गृहीत्वा तान् निजोत्तमाङ्गे गजमूर्धनि च निधाय)
अमूलात् फलिता प्रसत्तिलतिका पत्युः स्वयम्भूप्रभोर्
आज्ञा क्षत्रियमौलिमण्डनमणेस्तातस्य सानुग्रहा ।
विप्राशीर्वचनानि मन्त्रसुरभीण्याकाङ्क्षितान्यन्वहं
पौराणां च जयोत्तराणि तदमूरीषज्जयाः स्युर्दिशः ॥ विप्रुद्_३।२।१८ ॥
एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः ।
मन्त्रिणः—राजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना ।
परिजनः— ।
विअअलच्छीपाणिग्गहणसमअदिण्णा विअ मङ्गलख्खदा जुवराअस्स सीसे दीसन्दि ।
( । विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते । )
विप्रः—राजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा ।
प्रतापरुद्रः—शिरसि कृतस्तातस्य नियोगः ।
(अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् ।
कतिपये विजययात्रापराः प्रवर्तध्वम् ।
अमात्याः—(सप्रणामम्) यदाज्ञापयति युवराजः ।
विप्रः—स्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय ।
प्रतापरुद्रः—(सप्रश्रयम्) भगवन्ननुजानीहि ।
वयमितः प्रतिष्ठामहे ।
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । )
॥ इति विजययात्राविलासो नाम द्वितीयो ऽङ्कः ॥
(अथ तृतीयो ऽङ्कः)
(ततः प्रविशतो लेखहस्तौ जाङ्घिकौ । )
एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् ।
प्रथमः—(सानुसन्धानाश्चर्यम्) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासम्भ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि ।
द्वितीयः—वयस्य, किमुच्यते—
काकतीयप्रदीपो ऽयमंशश्चातुर्भुजः स्वयम् ।
यद्वज्रकवचायन्ते प्रसादाश्च स्वयम्भुवः ॥ विप्रुद्_३।३।१ ॥
एष स्वयम्भूदेवप्रसादरूपस्य बीजस्यान्वेषणाद् गर्भसन्धिः ।
प्रथमः—(अध्वक्लममभिनीय पुरो ऽवलोक्य) प्राप्तेयमन्ध्रनगरी ।
(किञ्चित् प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य ।
यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः ।
द्वितीयः—(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽश्चर्यमपवार्य) सखे ! पश्य पश्य ।
सम्यङ्मागधवेषधारणतिरोभूता अपि क्षमाभुजः
सूच्यन्ते प्रभुतारहस्यपिशुनैराविष्कृतैलक्षणैः ।
हस्ताग्रैर्ध्वजचक्रलाञ्छिनतलैर्वक्षः स्थलैर्विस्तृतैर्
आकाररैमनुष्यमात्रसुलभैर्वृत्तैरनीचैरपि ॥ विप्रुद्_३।३।२ ॥
प्रथमः—नूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि ।
एतत् प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् ।
जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च ।
द्वितीयः—अहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया ।
तत् सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् ।
प्रथमः—(किञ्चिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः ।
जेत्रा काकतिवीररुद्रविभुना सर्वा दिशो निर्जिताः
क्ष्मापालाः करदीकृताः कृतमिदं निर्वीरमुर्वीतलम् ।
यस्योद्यद्भुजवैभवं सरभसारोहद्द्विषत्कामिनी-
मञ्जीरध्वनिपूर्णकन्दरमुखैर्व्याकुर्वते पर्वताः ॥ विप्रुद्_३।३।३ ॥
एष तत्त्वानुकीर्तनरूपो मार्गः ।
द्वितीयः—सखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि ।
प्रथमः—उचितमनुचिन्तितं वयस्येन ।
द्वितीयः—(पुरो ऽवलोक्य सहर्षम्) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसम्भ्रमं राजकुलाभ्यन्तरं प्रविशति ।
तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः ।
(इति
परिक्रामतः । )
एतद् वितर्कप्रतिपादनाद्रूपम् ।
(ततः प्रविशत्यमात्यपुत्रः । )
अमात्यपुत्रः—(सप्रमोदम्) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः ।
यन्मया विज्ञापितैः श्रवणप्रियङ्करणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयम्भूदेवप्रसादात् प्रमोदयिष्यते काकतीयवृषा ।
एषोत्कर्षवचनरूपोदाहृतिः ।
(पुरो ऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति ।
तदहमुपसर्पामि ।
(इति परिक्रामति । )
(ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च । )
राजा—(सविमर्शाश्चर्यममात्यान् प्रति)—अहो शैशवे ऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य ।
यदस्मदनुरोधार्थमिमानमात्यान् निवर्त्य स्वयमेव जिगीषुः प्रस्थितः ।
मन्त्रिणः—(सबहुमानम्) महाराज ! भवता खलु पितृमान् कुमारः ।
पुरोधसः—विजयप्रस्थानात्प्रभृति नक्तन्दिवमुन्मिषन्ति कल्याणानि ।
तद्विजिता एव दिशो राजपुत्रेण ।
राजा—भवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते ।
परिजनः— ।
काअईअकुलस्स किं णु ण सम्पुण्णं पुण्णेण, जस्सिं अवैण्णो भुवणेक्कभद्दो पआवरुद्दो ।
(काकतीयकुलस्य किं नु सम्पूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः । )
राजा—(सौत्सुक्यम्) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ?
अमात्यपुत्रः—(सविनयसम्भ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः ।
एष सञ्चिन्त्यमानार्थप्राप्तिरूपः क्रमः ।
(सर्वे सहर्षातिशयं निरूपयन्ति । )
मन्त्रिणः–भद्र ! शीघ्रं प्रवेशय ।
अमात्यपुत्रः—यदादिशन्ति महामन्त्रिणः ।
(इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः । )
पुरुषौ—(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे ।
बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवे ऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः ।
राजा—(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् ।
द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् ।
मन्त्रिणः—यदाज्ञापयति देवः ।
(इति भौरिकमुखात् तथा कुर्वन्ति)
एष सामदानाचरणरूपः सङ्ग्रहः ।
(पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः । )
मन्त्रिणः—भद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् ।
पुरुषौ—सावधानमवधारयतु महाराजः ।
प्रथमः—देव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने,
यात्रारम्भमहेष्वहम्प्रथमिकानिर्यच्चमूडम्बर-
क्षुण्णक्षोणितलोत्थिते ऽतिबहुले पांसौ वियद्व्यापिनि ।
जेतव्याः सकला दिशः स्वविभुतामन्तः पिधायाधिक-
त्रासात् क्वापि पलायिता इव दृशां नैवाभवन् गोचराः ॥ विप्रुद्_३।३।४ ॥
अनन्तरं च—
उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्याटोपपटीयसीषु परितो धाटीषु भारानम-
च्छेषाशेषफणासु विस्मितमथ त्रस्तं दिगीशैरपि ॥ विप्रुद्_३।३।५ ॥
पुरोधसः—अहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् ।
द्वितीयः—अथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि ।
रथेनाभिमुख्यातं वीररुद्रो विलोक्य माम् ।
मृष्यते नायमित्यर्कः सैन्यरेणौ तिरोहितः ॥ विप्रुद्_३।३।६ ॥
मन्त्रिणः—ततस्ततः ।
द्वितीयः—अनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन् महति बले प्रचलति,
युद्धाय समनह्यन्त कलिङ्गाः स्फुटपौरुषाः ।
माद्यद्द्विपघटोद्दामसम्भ्रमाडम्बरोद्धताः ॥ विप्रुद्_३।३।७ ॥
तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने,
पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः सृष्टदंष्ट्रः ।
बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
सङ्ग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्गः ॥ विप्रुद्_३।३।८ ॥
पुरोधसः—मानुषवेषतिरोहितेनापि काकतीयविष्णुना किञ्चिदाविष्कृतो निजप्रभावः ।
मन्त्रिणः—(सहर्षातिशयाद्भुतम्) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य ।
परिजनः— ।
सरिसं खु एदम्, जं महाराअरुद्दणरेसरणन्दणेण कादव्वम्, जं काऐकुलप्पसवाणं खमम्, जं कुलदेवदाए सअम्भूदेवस्स प्पसत्तिविसेसाणं जुत्तम्, तं खु किअं जुवराएण ।
( ।
सदृशं खल्वेतत्—यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यम्, यत् काकतिकुलप्रसवानां क्षमम्, यत् कुलदेवतायाः स्वयम्भूदेवस्य प्रसत्तिविशेषाणां युक्तम्, तत् खलु कृतं युवराजेन । )
राजा—(सप्रमोदगद्गदम्) ततस्ततः ।
प्रथमः—अनन्तरम्-
छिन्नोद्यद्वैरिवीरप्रतिभयमुकुटाटोपसञ्जातराहु-
भ्रान्तिभ्रश्यत्पतङ्गाभयकरपृतनारेणुबद्धान्धकारा ।
आसीत् सङ्ग्रामवेला विहरदसिलतोद्भिन्नमत्तेभकुम्भ-
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ विप्रुद्_३।३।९ ॥
अनन्तरं युवराजाज्ञया
वृत्रारातिदिगन्तरालविजयप्रख्यातविक्रान्तयः
पारेपूर्वपयोधि कल्पितजयस्तम्भाः स्फुरत्तेजसः ।
वेलाकाननवासिगीतविभवं देवस्य दोर्विक्रमं
शृण्वन्तो मुहुरन्ध्रसैन्यपतयः प्राप्ता दिशं दक्षिणाम् ॥ विप्रुद्_३।३।१० ॥
तत्र च
मुनौ लोपामुद्रासुहृदि निकटस्थे ऽपि महता
भवन्त्येता नद्यः कलुषपयसः सैन्यरजसा ।
इतीव व्योमाग्रे कलयपवनान्दोलितशिखाः
पताकाः सोत्प्रासाः प्रतिपदमनृत्यन्नतितराम् ॥ विप्रुद्_३।३।११ ॥
अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं सम्भाव्य तैः सह प्रतीचीं दिशं प्रचलितः ।
मन्त्रिणः—साधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत् पूर्वमेव देवस्य चरणमूलं प्राप्ताः ।
ततस्ततः ।
द्वितीयः—तत्र च
पाश्चात्त्यानां ध्वजेषु स्थितमधिकभरस्रस्तदण्डेषु गृध्र-
व्रातैर्यच्चण्डतुण्डाहतिविहतपटेष्वाहतक्षिप्तपक्षैः ।
अस्त्रं गारुत्मतं तत् समजनि विजयप्रार्थिनामन्ध्रसैन्य-
प्रष्ठानां जन्यमन्यन्निजनिबिडभुजादण्डकण्डूविडम्बः ॥ विप्रुद्_३।३।१२ ॥
अनन्तरं—
जित्वा प्रतीचीमथ वीररुद्रः प्रत्यर्थिनारीनयनाम्बुपूर्णाम् ।
रेवां समुत्तीर्य गजानुबद्धसेतुं विजेतुं गतवानुदीचीम् ॥ विप्रुद्_३।३।१३ ॥
तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् ।
मन्त्रिणः—अहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति ।
राजा—ततस्ततः ।
प्रथमः—अनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः—
रे रे घूर्जर जर्जरो ऽसि समरे लम्पाक ! किं कम्पसे
वङ्ग ! त्वङ्गसि किं मुधा बलरजः काणो ऽसि किं कोङ्कण ! ।
प्राणत्राणपरायणो भव महाराष्ट्रापराष्ट्रो ऽस्यमी
योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ विप्रुद्_३।३।१४ ॥
(।‘वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाःऽ; इति पाठान्तरम् ॥)॥
एतद्रोषसंरब्धवचनरूपं तोटकम् ।
परिजनः— ॥
साहु साहु चमूवरिणं वअणं ।
एव्वं फणिआ उण कीरिसं उवक्कन्दं तेहिं ।
(॥साधु साधु चमूपतीनां वचनम् ।
एतत् भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः ।)
प्रथमः—
किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः ।
यस्तत्राभवदाहवस्तमखिलं जानाति भागीरथी
यात्याक्षीत् सुरभूयकारणनिजाहङ्कारमुच्छृङ्खलम् ।
आराद्वीक्ष्य समग्रमन्ध्रसुभटप्रोद्घूर्णखड्रगावली-
धारातीर्थमुपेत्य दिव्यनगरीमारोहतो भूपतीन् ॥ विप्रुद्_३।३।१५ ॥
अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षमूलानन्वेष्टुकामास्त्रिलिङ्गसैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म ।
जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् ।
मन्त्रिणः—साधीयान् खलु सैनिकानामुद्यमः ।
एतत् प्रकृतोपयोगित्वेन वञ्चनादधिबलम् ।
राजा—ततस्ततः ।
द्वितीयः—अनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः ।
परिजनः— ।
अहो णरवरिणं जुज्झकाअरत्तणं ।
( । अहो नरपतीनां युद्धकातरत्वम् । )
एष भयप्रतिपादनादुद्वेगः ।
प्रथमः—किमुच्यते कातर्यमिति ।
अङ्गाः सङ्गरभीरवः समभवंश्चोलाः पलायाकुलाः
काश्मीराः स्मरणीयविक्रमकथा हूणा निरीणश्रियः ।
लम्पाका भयकम्पमानवपुषो वङ्गा निरङ्गीकृता
नेपालाः परिपालनव्यसनिनः सुह्माश्च नीरंहसः ॥ विप्रुद्_३।३।१६ ॥
(अ:‘प्रलापाकुलाःऽ; इति पाठान्तरम् ॥)
अपि च
काम्भोजाः क्षतकुम्भिनीपरिचयाः प्राप्तव्रणाः सेवणाः
गौडाः पीडितविग्रहाः श्रितकुलग्रावाङ्कणाः कोङ्कणाः ।
लाटाः पाटितमूर्तयः परिलस(गल) द्भीविह्वलाः सिंहलाः
कर्णाटाः परिपूर्णवेपथुभृतस्तन्द्रालवो मालवाः ॥ विप्रुद्_३।३।१७ ॥
किं च
भोजा व्यर्थभुजायुधाः क्षतनिजस्त्रीकेलयः केरलाः
पाण्ड्याः खण्डितविक्रमाः प्रकटितह्रीजर्जरा घूर्जराः ।
पाञ्चालाः प्रणतिप्रपञ्चितभियश्चाटूत्कटाः कीकटाः
काम्पिल्याः श्रितपल्लयः कृतयशोभङ्गाः कलिङ्गा अपि ॥ विप्रुद्_३।३।१८ ॥
(सर्वे हर्षातिशयं नाटयन्ति ।)
परिजनः—(साश्चर्यम्) ।
अहो वीररुद्दस्स ऐसैदतिहुवणाइ जुज्झावदाणाइ ।
(। अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि ।)
राजा—(सहर्षम्) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन ।
पुरोधसः—आमूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् ।
राजा—ततस्ततः ।
प्रथमः—अनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः ।
मन्त्रिणः—(सहर्षम्) कुत्रेदानीं राजपुत्रः ? द्वितीयः—साम्प्रतं किङ्कुर्वाणराजलोकः सर्वानपि सेनापतीन् नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते ।
मन्त्रिणः—(सविमर्शम्) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः ।
एषा प्राप्त्याशा ।
दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात् पताका निरूपिता ।
राजा—तदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय ।
मन्त्रिणः—यदाज्ञापयति देवः ।
(इति निष्क्रान्ताः । ) नेपथ्ये—(ससम्भ्रमम्) भो भो नागरिकाः ! सत्वरमपसरत दूरम् ।
यदिदानीम्-
आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो
वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः ।
भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं
विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥ विप्रुद्_३।३।१९ ॥
एष शङ्कात्रासरूपः सम्भ्रमः ।
राजा—(आकर्ण्य सस्मितम्) कथं व्याकुलयति कटकं करीन्द्रः ।
पुरुषः—महाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय सङ्क्रु ध्यन् निरर्गलो जातः प्रधानहस्ती ।
पुरोधसः—
पित्रा स्वयम्भूपतिनोपदिष्टं प्रतापरुद्रस्य महाभिषेकम् ।
निर्विघ्नमापादयितुं गजास्यः करेणुराजाकृतिरभ्युपैति ॥ विप्रुद्_३।३।२० ॥
एष गर्भबीजोद्भेदनादाक्षेपः ।
राजा—(सहर्षम्) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः ।
(इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥
इति वीररुद्रविजयो नाम तृतीयो ऽङ्कः ॥
॥ अथ चतुर्थो ऽङ्कः ॥
(ततः प्रविशति धात्री चेटी च । ) धात्री—(सरोषम्) ।
हञ्जे एआरिससहस्सकज्जपज्जाउले राऔलमहूसवे वि सअला वि रअणी केण सम तुए णीदार् ।
इरिसमहग्घाइ भूसणाइ कुदो चोरिआइ ।
कहं ण विण्णादं तुए दासीएउत्तीए—सअला दिसो जेऊण चौरन्तसामन्तपरिवारो पआवरुद्दो णअरं पविठ्ठो ।
कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स सुकअपरिपाएण अब्भुपगअमहारज्जाहिसेओ जुवराओ सञ्जाओ ।
एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा ।
( ।हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवे ऽपि सकलापि रजनी केन समं त्वया नीतार् ? इदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्या—सकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः ।
कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः सञ्जातः ।
एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?) अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः ।
चेटीगतदोषप्रख्यापनादपवादो ऽङ्गम् ।
चेटी— ॥
सामिणि ! अवराहं सहस्स ।
(इति पादयोः पतति । )
( ॥ स्वामिनि ! अपराधं सहस्व ।)
धात्री—(सभ्रूभङ्गम्) अ दासीएउत्ति, पटञ्चलेण सप्पदंसणं पडिमज्जेसि जं पणामेणर् इरिसापराहं सिढिलेसि ।
(अ दास्याः पुत्रि ! पटाञ्चलेन सर्पदंशनं परिमर्जयसि-यत्प्रणामेनेदृशापराधं शिथिलयसि ।
एष रोषसम्भाषणरूपः सम्फेटः ।
चेटीर्— ।
इरिससहावा एव्व तुमं ।
ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्तार् ।
( । इदृशस्वभावैव त्वम् ।
तत् निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता ।)
धात्री—(सरोषशिरः कम्पम्) ॥
वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि ।
( ॥ वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)॥
(इति बाहुबन्धनं नाट्यति । ) एष बन्धनरूपो विद्रवः ।
चेटी—(सभयकम्पम्) अ सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणं ।
तुह अत्तिआए हिडिम्बस्समं गच्छतीए अहं बलक्कारेण णीदा ।
तद्ध पडिऊलं देव्वं पसादअन्तीए विलम्बिदं ।
किं करेमि ।
(अ स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् ।
तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याहं बलात्कारेण नीता ।
तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् ।
किं करोमि ?)
धात्री—(सरोषहुङ्कारम्)
अअ एआरिसं राऔलमहूसवं उज्झिअ हिडिम्बालअगण्डसेलेसु किं त्ति मत्तअं ताडिस्सै मन्दभाइणी ?
(अअ एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं ताडयिष्यति मन्दभागिनी । )
एष गुरुतिरस्कृतिरूपो द्रवः ।
चेटी—दृ सामिणि ! सहेहि विलम्बिअं ।
तुए कादव्वं मङ्गलोवआरं सिग्घं णिव्वट्टेमि ।
(इति वपुषा प्रणमति । ) (दृ स्वामिनि ! सहस्व विलम्बितम् ।
त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि । ) धात्री—(सप्रसादम्) ।
हञ्जे ! उठ्ठेहि उट्ठेहि ।
( । सखि ! उत्तिष्ठ उत्तिष्ठ । )
एषा विरोधशमनरूपा शक्तिः ।
चेटी—(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) अ इदो इदो तत्तहोदी ।
(अ इत इतस्तत्रभवती । )
धात्री—(किञ्चित् परिक्रम्य पुरो ऽवलोक्य च) अअ कहं एसो पडिहारप्पवरो ससम्भमं णिग्गओ ।
ता पच्चासण्णो विअ महाहिसेअसमओ ।
तेण राऔत्तस्स मङ्गलणीराअणदीवरिञ्छ्छोलिं णिव्वट्टेदुं अब्भन्तरं पविसह्म ।
(अअ कथमेष प्रतीहारप्रवरः ससम्भ्रमं निर्गतः ।
तत् प्रत्यासन्न इव महाभिषेकसमयः ।
तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः । ) (इति निष्क्रान्ते । ) प्रवेशकः ।
(ततः प्रविशति प्रतीहारः । ) प्रतीहारः—(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः !
दन्तिव्यूहमुपायतीकृतममुं कुर्वन्तु पुर्या बहिर्-
यस्योद्यद्घनबृंहितैर्न घटिकाघण्टाध्वनिः श्रूयते ।
दूरे चास्तु रथाश्वमेतदखिलं यस्यातिसन्दर्दतो
निष्क्रामत् प्रविशच्च नागरकुलं न स्वैरमाचेष्टते ॥ विप्रुद्_३।४।१ ॥
एषा तर्जनोद्वेजनरूपा द्युतिः ।
(किञ्चिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संशृणुध्वम् ।
एषा रुद्रदेवस्याज्ञा ।
यथा किल—
पूर्वैः काकतिवंशजैर्नृपतिभिः सम्यग्धृता या चिरं
यस्या मानुषशम्भुना गणपतिक्षोणीभुजाभूत् प्रथा ।
येयं मद्भुजया कुलाद्रिवसतिं विस्मारिता मेदिनी
सेयं सम्प्रति वीररुद्रभुजयोर्यातु प्रतिष्ठां स्थिराम् ॥ विप्रुद्_३।४।२ ॥
एषा स्ववंशजानां कीर्तनाद् गुरुकीर्तनरूपः प्रसङ्गः ।
(पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे ।
किमुपक्रान्तः स्वयम्भूदेवसमाराधनविधिः ।
कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित् प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलङ्कृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते ।
तत् त्वरध्वम् ।
(अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति ।
(किञ्चिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् ।
सज्जीकुरुध्वमुपायनजातम् ।
न वृया सम्मर्दं सहते मम वेत्रयष्टिः ।
एतदवमानरूपं छलनम् ।
(समन्तादवलोक्य सगर्वा तिशयम्) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं सम्मर्दं निवारयतो मम प्रभावः ।
अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् ।
एष स्वशक्त्याविष्करणरूपो व्यवसायः ।
(प्रविश्य पटाक्षेपेण दौवारिकः । ) दौवारिकः—(साक्षेपम्) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु ।
प्रथमः—(सरोषम्) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि ।
द्वितीयः—भवतु यो वा को वा भवान् ।
प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा ।
एतत् प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् ।
प्रथमः—किमनेन समं शुष्ककलहेन ।
यावत् प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि ।
(इति परिक्रामति । ) द्वितीयः—अहमपि यथानिर्दिष्टमनुतिष्ठामि ।
(इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च । ) पुरोधसः—काकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् ।
किं च–
अद्यान्वयः काकतिभूपतीनां प्राप्तस्त्रिलोकीप्रथितां प्रतिष्ठाम् ।
राजन्वती भूरियमद्य जाता वीतोपसर्गाः सकलाः प्रजाश्च ॥ विप्रुद्_३।४।३ ॥
एषा सिद्धवद्भाविश्रेयः कथनात् प्ररोचना ।
मन्त्रिणः—
सूर्यसोमान्वयामात्यमहत्ताद्याधरीकृता ।
अस्माभिरधिकुर्वाणैः काकतीयकुलस्थितिम् ॥ विप्रुद्_३।४।४ ॥
एतत् प्रकृतानुगुणप्रशंसनाद् विचलनम् ।
पुरोधसः—राजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री ।
काकतीयनरेश्वरक्रमाधिष्ठिन्त भद्रासनं भवदधिरोहणं प्रतीक्षते ।
तत् परिपालय स्वयम्भूदेवानुगृहीतां महाराजस्याज्ञाम् ।
एतत् कार्यसङ्ग्रहरूपमादानम् ।
प्रतापरुद्रः—तर्हि कुलदेवतां स्वयम्भूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि ।
पुरोधसः—सदृशो ऽयमाचारः काकतीयकुलप्रदीपस्य भवतः ।
किं तु प्रत्यासीदति महाभिषेकसमयः ।
तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् ।
वयमितः करणीयशेषं प्रति (परि) पालयामः ।
प्रतापरुद्रः—यदादिशन्ति काकतीयान्वयप्रत्याययितारः ।
(इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति त्वरितमहोत्सवो नाम चतुर्थो ऽङ्कः ॥)॥
॥ अथ पञ्चमो ऽङ्कः ॥
(ततः प्रविशन्ति ज्योतिर्विदः । ) ज्योतिर्विदः—(ससम्भ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् ।
कुत्र पुरोधसः ।
कुत्र वा मन्त्रियाः ? समानीयतां स्वयम्भूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः ।
येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः ।
एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसङ्गत्वादङ्कावतरणम् ।
(सविमर्शाश्चर्यम्) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा ।
यतः—
आदेष्टा कुलदेवता स भगवान् यस्य स्वयम्भूः
शिवो यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः ।
यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृतेर्
विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः ॥ विप्रुद्_३।५।१ ॥
एष स्वयम्भूदेवोपदेशनरेश्वरविजयप्रमुखमुखसन्ध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसन्धिः ।
(सोल्लासम्) नूनमिदानीं
स्वप्ने ऽप्यासूत्रितामाज्ञां पालयन्तं कुलोद्वहम् ।
न मान्त्यन्तर्मुदः शम्भोर्विभोरप्यभिनन्दतः ॥ विप्रुद्_३।५।२ ॥
एष मुखसन्धौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात् सन्धिः ।
(किञ्चिदुच्चैः)
कल्याणी सकलापि भूतसरणिः क्षेमप्रदा देवताः
श्रेयः प्रस्रवनिर्भरा द्विजनुषामाशीर्गिरो जाग्रति ।
आरूढा पदमुन्नतं ग्रहगणाः श्रेयान् मुहूर्तः शुभैः
नक्षत्राणि शिवङ्कराणि शुभदाश्चान्ये निमित्तोदयाः ॥ विप्रुद्_३।५।३ ॥
तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे ।
एष प्रकृतकार्यमार्गणाद्विरोधः ।
(सत्वरं परिक्रम्य पुरो ऽवलोक्य च सहर्षसम्भ्रम्) नन्वागत एव प्रतापरुद्रः !
विप्रैर्मङ्गलसूक्तिपाठमुखरैरालोकशब्दोद्यतैर्
भूपालैः करसम्भृतोपकरणैराप्तैरमात्यात्मजैः ।
श्लाघ्यैर्वन्दिजनैर्दिगन्तविजयश्लाघासमुद्घोषणैः
स्त्रीवर्गैश्च यथोचितं परिवृतो नीराजनोद्योगिभिः ॥ विप्रुद्_३।५।४ ॥
तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः ।
(इति परिक्रामन्ति ।) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च । ) मन्त्रिणः—(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः ।
इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी ।
न विलम्बार्हाः कुलदेवताया मनोरथाः ।
एतत् पट्टबन्धरूपकार्यस्योपक्षेपणाद् ग्रथनम् ।
ज्योतिर्विदः—(किञ्चिदुच्चैः) भोः भोः कुलामात्याः !
सन्नह्यध्वमुपाहरध्वमुचितद्रव्याण्युपाध्वं सुरान्
सम्प्राप्तः सुमुहूर्त एष विजयी कल्याणसम्पत्खनिः ।
यस्मिन् प्राप्य महाभिषेकविभवं क्षोणीं प्रलीनाखिल-
क्ष्मापालां चिरमन्वशाद्गणपतिर्भूभृत्कुलग्रामणीः ॥ विप्रुद्_३।५।५ ॥
एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः ।
परिजनः—(श्रुत्वा) ।
पच्चासण्णे वि मुहूते किं विलम्बिअदि महामच्चेहिं ।
( । प्रत्यासन्ने ऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः । )
मन्त्रिणः—(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा ।
नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य ।
महास्थान्यामेवानुगृह्यन्ताममी ।
प्रतापरुद्रः—शिरसि धृतैव खलु तातस्याज्ञा ।
किं तु नोपदिश्यते पुनरनन्तरकरणीयम् ।
एतत् प्रकृतानुगुण्येनान्योन्यपरिभाषणात् परिभाषणम् ।
पुरोधसः—(सविनयसम्भ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः ।
नृपाः—देव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी ।
प्रतापरुद्रः—तथा भवतु ।
(इति वेदिकामारोहति । ) नृपाः—(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी ।
एष नरेश्वरपर्युपासनात् प्रसादः ।
परिजयः—(विलोक्य सामोदकौतुकम्) अ पुव्वपव्वअकणअसाणुं सहस्सरस्सी विअ सुमेरुकणअतडं महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ कणअवेदिं आरूढो पआवरुद्दो ।
(अ पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, कनकवेदिमारूढः प्रतापरुद्रः । ) मन्त्रिणः—काकतीश्वर ! समारुह्यतामिदं भद्रासनम् ।
अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति ।
प्रतापरुद्रः—तथा भवतु ।
(इति स्वयम्भूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति । ) पुरोधसः—(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् )
प्रतापरुद्रनृपते ! काकतीयकुलोचितैः ।
प्रजानुरञ्जनैः क्षोणीं पालयाचन्द्रतारकम् ॥ विप्रुद्_३।५।६ ॥
(इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयम्भूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः प्रस्तावनाडिण्डिमं चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसन्दधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति । ) एष वाञ्छितार्थप्राप्तिरानन्दः ।
एकतो वैतालिकाः—(सहर्षातिशयमुच्चैः)
हे लोकाः ! पिबत श्रवः प्रसृतिभिः कल्याणवार्तामृतं
जातः काकतिवीररुद्रनृपते राज्याभिषेकोत्सवः ।
अद्यारभ्य कलिः कृतः कृतयुगं राजन्वती मेदिनी
देवाः पूर्णहविर्भुजस्तदधुना यूयं कृतार्थीकृताः ॥ विप्रुद्_३।५।७ ॥
अन्यतो वैतालिकाः—
आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं
तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति ।
लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठाद्
आरोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः ॥ विप्रुद्_३।५।८ ॥
दक्षिणतो वैतालिकाः—
गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्
लक्ष्मीं प्रीणयते ऽद्य कच्छपपतिर्वक्षस्स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया
दोष्णा काकतिवीररुद्रनृपतौ विश्वम्भरां बिभ्रति ॥ विप्रुद्_३।५।९ ॥
उत्तरतो वैतालिकाः—
प्रस्थेभ्यः कुलभूभृतामपि हरिद्दन्तावलानां महा-
कुम्भेभ्यो ऽपि फणाभृतामधिपतेर्मूर्ध्नां सहस्रादपि ।
कूर्मेन्द्रस्य च कर्परादपि जगद्विख्यातसारोन्नतौ
बाहौ सम्प्रति वीररुद्रनृपतेः प्राप्तप्रतिष्ठा मही ॥ विप्रुद्_३।५।१० ॥
एष सर्वदुः खशमनात् समयः ।
मन्त्रिणः—अहो ! प्रभावः काकतीयान्वयस्य ।
यदिदानीं—
प्रतापरुद्रस्य महाभिषेकपयः कणा ये निपतन्ति राज्ञाम् ।
प्रणामनम्रेषु शिरस्सु तेषां तैः कल्पितः स्वस्वपदाभिषेकः ॥ विप्रुद्_३।५।११ ॥
पुरोधसः—काकतीयकुलोत्तम्स ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् ।
(इति पट्टबन्धमाचरन्ति । ) सर्वे—(सप्रमोदातिशयम्) प्रियं नः प्रियं नः ।
एषा प्रकृतकार्यस्थिरीकरणात् कृतिः ।
मन्त्रिणः—(सर्वतो ऽवलोक्य) कस्को ऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च ।
(प्रविश्य प्रधानप्रतीहारः) प्रतीहारः—यदाज्ञापयन्ति महामात्याः ।
(इति परिक्रम्य तान्युपानयति । ) (प्रान्तवर्तिनो नरपतयो ऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति । ) पुरोधसः—(सहर्षातिशयम्)
श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमैर्
ईदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले ।
बाल्यक्रीडितदिग्जयस्त्रिभुवनक्षेमङ्करप्रक्रियः
किङ्कुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ विप्रुद्_३।५।१२ ॥
एतदखिलातिशायित्वकथनमुखेन प्रकृतकार्यानुमोदनादाभाषणम् ।
तदिदानीं खलु—
यत् काकतीयनृपराज्यविलासचिह्नं यच्छायया वसुमती विजहाति तापम् ।
छत्रेण तेन कृतलक्ष्मणि वीररुद्रे मुक्तातपत्रविभवाः सुहृदो द्विषश्च ॥ विप्रुद्_३।५।१३ ॥
एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात् पूर्वभावः ।
मन्त्रिणः—(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते ।
तत् साम्प्रतं महास्थानीं प्रसाधयतु देवः ।
पुरोधसः—आचारो ऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम् ।
राजा—यदाज्ञापयन्ति धर्मविदः ।
(इत्युत्तिष्ठति । ) काकतीयकुलवृद्धाः (ससम्भ्रममुच्चैः)
प्रक्रान्तमुर्वीश्चरमौलिरत्नैः कुर्वन्ति नीराजनमम्बुजाक्ष्यः ।
प्रतापरुद्रस्य लसत्प्रतापप्रदीपनीराजितदिङ्मुखस्य ॥ विप्रुद्_३।५।१४ ॥
नृपतयः—(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था साम्प्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते ।
यतः
नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ विप्रुद्_३।५।१५ ॥
(सर्वे जयशब्दं कुर्वन्ति । ) मन्त्रिणः—महाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् ।
प्रतीहारः—(ससम्भ्रमं पुरो भूत्वा) देव ! इत इतः ।
(राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति । ) (सर्वे प्रणम्य यथार्हमुपविशन्ति । ) प्रतीहारः—(समयोचितं परिक्रम्य वन्दमानान् मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्)
कालिङ्गात्र निषीद, कोङ्कणपते ! दूरे भवाङ्गेश्वर !
प्रान्तं संश्रय, मालवेन्द्र, शनकैः स्वोपायनं प्रापय ।
पाण्ड्याग्रे भव, सेवणक्षितिपते ! पश्चाद्भवाद्यैव वः
स्वामी काकतिवीररुद्रनृपतिः सर्वान् क्रमादीक्षते ॥ विप्रुद्_३।५।१६ ॥
(नृपतयः प्रणम्य यथार्हमुपविशन्ति । ) पुरोधसः—स्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति ।
शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति ।
मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता ॥ विप्रुद्_३।५।१७ ॥
राजा—(सविनयम्) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते ।
मन्त्रिणः—राजन् ! प्रतापरुद्र !
सर्वेषां काकतीयानां भागधेयविभूतयः ।
एवंरूपा विवर्तन्ते यत्कुलप्रभवो भवान् ॥ विप्रुद्_३।५।१८ ॥
(। ‘यत्कुलालम्बनं भवान्ऽ; इति पाठान्तरम् । ) पुरोधसः—न केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् ।
(प्रविश्य प्रतीहारः) प्रतिहारः—देव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते ।
मन्त्रिणः—शीघ्रं प्रवेश्यन्ताम् ।
प्रतीहारः—यदाज्ञापयन्त्यमात्याः ।
(इति निष्क्रम्य ताभिः सह पुनः प्रविशति । ) (ततः प्रविशन्ति वर्णवृद्धाः । ) वर्णवृद्धाः—(सहर्षं राजानमवलोक्य)
वरः प्रतापरुद्रो ऽयं वधूरेषा वसुन्धरा ।
तयोर्घटयिता देवः स्वयम्भूः सदृशः क्रमः ॥ विप्रुद्_३।५।१९ ॥
एतत् स्वयम्भूदेवस्य स्वयं सन्धातृत्वादद्भुतप्राप्तेरुपगूहनम् ।
(सविनयमुपसृत्य) स्वामिन् विश्वम्भरावल्लभ प्रतापरुद्र !
सर्वाशीः फलविश्रमैकवसतेः किं वा तवाशास्महे
यद्वा विश्वविभौ स्वयम्भुवि शिवे नस्तन्वतामाशिषः ।
किं चित्रं स विभुर्भवानपि समो गौरीश्रियोर्वल्लभा
वाचन्द्रार्कमिमां क्षमां कृतयशोरक्षौ युवां रक्षतम् ॥ विप्रुद्_३।५।२० ॥
मन्त्रिणः—स्वामिन्नेते स्वायम्भुवाः सुधियः ।
(राजा सादरं प्रणमति । ) अन्ये—(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर !
यस्त्वद्गोत्रमहत्तरस्य जगतां त्रातुः स्वयम्भूविभोस् तत्तादृक्चरिताद्भुतैर्महिमभिः स्वीयैर्द्वितीयो ऽभवत् ।
देवो ऽसौ गणपेश्वरः प्रतिकलं स्फारप्रसादोन्मुखो
नुप्तुस्ते कुलमण्डनस्य महतीं पुष्णातु राज्यश्रियम् ॥ विप्रुद्_३।५।२१ ॥
पुरोधसः—राजन्नेते गाणपेतश्वराः सूरयः ।
(राजा सादरं नमस्करोति । ) अपरे—(सप्रश्रयप्रमोदम्)
स्वामिंस्त्रिलिङ्गदेशपरमेश्वर !
यैर्देशस्त्रिभिरेष याति महतीं ख्यातिं त्रिलिङ्गाख्यया
येषां काकतिराजकीर्त्तिविभवैः कैलासशैलाः कृताः ।
ते देवाः प्रसरत्प्रसादमधुराः श्रीशैलकालेश्वर-
द्राक्षारामनिवासिनः प्रतिदिनं त्वच्छ्रेयसे जाग्रतु ॥ विप्रुद्_३।५।२२ ॥
पुरोधसः—(सोल्लासम्) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते ।
(राजा यथोचितं वन्दते । ) मन्त्रिणः—साधीयान् आशीर्वादक्रमः ।
(इति यथोचितं सर्वानुपवेशयन्ति । ) पुरोधसः—(सोल्लासम्) राजन्नेकशिलानगरीवल्लभ !
साहस्रांशवमैन्दवं च महती ये द्वे कुले निर्मिते
ते जाते लघुनी गुणैर्विजयिनि श्रीकाकतीयान्वये ।
भूपालेषु भवत्प्रतापयशसोः पूर्णार्कचन्द्रश्रियोः
प्राप्यानुग्रहमूर्जितेषु पुनरप्येते लभेते स्थितिम् ॥ विप्रुद्_३।५।२३ ॥
(राजा सर्वान् पश्यति ।
पुरोधसो यथार्हं सर्वानुपवेशयन्ति । ) प्रकृतयः—विजयतां विजयतां प्रतापरुद्रमहाराजः ।
भूपाः सन्तु चिराय संशृणुमहे भास्वत्कुलालङ्कृती
रामो ऽयं न जगाम लोचनपथं तेनैव खिन्ना वयम् ।
अद्य त्वां वरवीररुद्रनृपते ! तस्यावतारान्तरं
वीक्ष्यैवं चरितार्थतां सुमहतीमह्नाय गाहामहे ॥ विप्रुद्_३।५।२४ ॥
मन्त्रिणः—स्वामिन् साम्प्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः ।
राजा—(सानन्दौदार्यम्)
जागर्तु राजशब्दो ऽयं ममैवाज्ञाफलैकभूः ।
राज्योपभोगविभवः सर्वसाधारणो हि नः ॥ विप्रुद्_३।५।२५ ॥
सर्वे—(सप्रमोदम्) सदृशो ऽयं प्रसादः काकतीयकुलतिलकस्य भवतः ।
राजा—प्रसीदतु भगवान् स्वयम्भूदेवः ।
(इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात् करोति ।
अन्येषामपि नगरवासिनां यथाप्रधानं सम्भावनामाचरति । ) नृपतयः—(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय विरचिताञ्जलयः) स्वामिन् काकतीयमहाराज !
त्रायस्वेत्यनुवाद एव भुवनत्राणैकबद्धव्रते
त्वद्भृत्या इति सिद्धसादनमिदं विश्वैकनाथे त्वयि ।
त्वद्गर्भे वसतिं गताः स्म इति च स्पष्टार्थमंशे हरेः
कुक्षिस्थाखिलविष्टपस्य सदृशं किं वात्र विज्ञाप्यते ॥ विप्रुद्_३।५।२६ ॥
(राजा सप्रसादममात्यानवलोकयति । ) मन्त्रिणः—स्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति ।
तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च ।
राजा—तथा ।
(इति नरपतीन् यथोचितं सम्भाव्य प्रस्थानमादिशति । ) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः । ) प्रकृतयः—चिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन ।
(इति निष्क्रान्ताः । ) पुरोधसः—(साश्चर्यप्रत्यभिज्ञानम्)
चिह्नान्यस्य पदाब्जयोः पिशुनयन्त्युर्वीश्वरोपास्यतां
पाणी सूचयतः सचापकुलिशावुद्वाहलीलां भुवः ।
नेत्रे शारदपुण्डरीकरुचिनी लीलावतारं हरेर्
आख्यातस्तदितीह सिद्धवचनं प्रत्यक्षमीक्षामहे ॥ विप्रुद्_३।५।२७ ॥
राजा—(सविनयव्रीडम्) किमसाध्यं स्वयम्भूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य ।
पुरोधसः—(सादरम्) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयम्भूनाथः किं ते भूयः प्रियमुपकरोतु ।
एषा वाक्यार्थसमाप्तिरूपा संहृतिः ।
राजा—(सप्रणामादरम्) काकतीयराज्यधुरायामवहितमेव स्वयम्भूदेवेन; तथापीदमस्तु ।
भूरस्तु सम्पन्नसमस्तसस्या भूदेवताः पूर्णमनोरथाश्च ।
भूपाश्च धर्मप्रवणैकचित्ताः सर्वे जनाः सन्तु निरामयाश्च ॥ विप्रुद्_३।५।२८ ॥
एषां शुभाशंसनरूपा प्रशस्तिः ।
(इति निष्क्रान्ताः सर्वे । ) इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमो ऽङ्कः ॥
एवं साङ्गं नाटकमुदाहृतम् ।
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कारशास्त्रे नाटकप्रकरणं समाप्तम्
॥ अथ रसप्रकरणम् ॥
इव्।१।अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते ।
[इव्।१।१-रसस्वरूपम्]
विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः ।
तथा चोक्तं ऽदशरूपकेऽ—
“विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः” ॥
इति ।
भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् ।
तथा चोक्तं ऽदशरूपकेऽ—
“सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायी भाव उदाहृतः” ॥
[इव्।१।२-रसविशेषः]
अथ रसविशेषाः—
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥
[इव्।१।३-स्थायीभावः]
एषां स्थायिभावाः—
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावा नव क्रमात् ॥ विप्रुद्_४।१ ॥
[इव्।१।४-विभावः]
अथ विभावः—
विभावः कथ्यते तत्र रसोत्पादनकारणम् ।
आलम्बनोद्दीपनात्मा स द्विधा परिकीर्त्यते ॥ विप्रुद्_४।२ ॥
रससमवायिकारणमालम्बनविभावः । इतरत् कारणजातमुद्दीपनविभावः ।
स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके—
“आलम्बनगुणश्चैव तच्चेष्टा तदलङ्कृतिः ।
तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥
आलम्बनगुणो रूपयौवनादिरुदाहृतः ।
तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥
नूपुराङ्गदहारादि तदलङ्करणं मतम् ।
मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥
[इव्।१।५-अनुभावः]
अथानुभावः–
कार्यभूतो ऽनुभावः स्यात् कटाक्षादिः शरीरजः ॥ विप्रुद्_४।३ ॥
[इव्।१।६-सात्त्विकभावाः]
अथ सात्त्विकभावाः—
परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः ।
स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू ।
अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥ विप्रुद्_४।४ ॥
अथ व्यभिचारिभावाः—
निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ विप्रुद्_४।५ ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ विप्रुद्_४।६ ॥
सुप्तिर्विबोधो ऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ विप्रुद्_४।७ ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः ॥ विप्रुद्_४।८ ॥
तथा चोक्तं काव्यप्रकाशे—
“कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।
विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः” ॥
इति।
लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम्—
“एकत्रैवानुरागश्चेत् तिर्यङ्म्लेच्छगतो ऽपि वा ।
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः” ॥
इति।
व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया सम्बन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके—
“भावस्य शान्तिरुदयः सन्धिः शबलता तथाऽ; ।
इति ।
॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥
अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च ।
[इव्।१।८-रतिः]
तत्र सम्भोगविषय इच्छाविशेषो रतिः ।
यथा—
शृङ्गारैकरसः स्मरो ऽस्तु जगदानन्दैकनिष्यन्दभू-
रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः ।
सन्त्वन्ये ऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो
जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ॥ विप्रुद्_४।९ ॥
[इव्।१।९-हासः]
विकृतिदर्शनादिजन्यो मनोविकारो हासः ।
यथा—
बिभ्राणान् कबरीर्धृताञ्जनदृशः कृत्वा कुचौ कृत्रिमौ
स्त्रीवेषान् निशि काकतीन्द्रनगरे प्रच्छन्नरूपान् नृपान् ।
दृष्ट्वा क्षौममपास्य वक्षसि कुचावाकृष्य नीवीस्पृशो
ही ही कष्टमिति त्यजन्ति विपणिश्रेणीषु धूर्ता विटाः ॥ विप्रुद्_४।१० ॥
[इव्।१।१०-शोकः]
इष्टजनवियोगादिनाऽत्मनि दुः खातिभूमिः शोकः ।
यथा—
धातर्निष्करुणो ऽसि शिक्षयसि किं वन्यां शरीरस्थितिं
तत्तादृग्विभवा गृहाः क्व नु गताः स्थानं मरुः कल्पितम् ।
हा नाथाः पतिताः प्रतापनृपतेः क्रोधार्चिषीति द्विषद्-
योषाणां तदनूपमश्रुभिरहो जातं स्थलं मारवम् ॥ विप्रुद्_४।११ ॥
[इव्।१।११-क्रोधः]
शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः ।
यथा—
रे रे सेवण ! कस्तवायमनिदम्पूर्वो ऽद्य गर्वो महान्
उत्तीर्णा किल येन गौतमनदी प्राप्तो ऽसि मृत्योर्मुखम् ।
एषा काकतिवीररुद्र इति किं नाश्रावि सप्ताक्षरी
प्रक्षुभ्यत्प्रतिपक्षपार्थिवमहाभूतग्रहोच्चाटनी ॥ विप्रुद्_४।१२ ॥
[इव्।१।१२-उत्साहः]
लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः ।
यथा—
क्षुब्धेष्वब्धिषु सम्भ्रमात् त्रिभुवनग्रासेच्छया सर्वतः
सन्नद्धेष्वपि पर्वतेषु परितो गण्डोपलान् वर्षितुम् ।
शक्ता एव वयं निवारणविधौ क्षुद्रक्षमाभृज्जये
श्लाघा नः कियतीति काकतिविभोर्गर्जन्ति सैन्ये भटाः ॥ विप्रुद्_४।१३ ॥
[इव्।१।१३-भयम्]
रौद्रसन्दर्शनादिभिरनर्थाशङ्कनं भयम् ।
यथा—
दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र-
प्रस्थानारनमेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत् कण्टकाकृष्टकेशास्
त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ विप्रुद्_४।१४ ॥
[इव्।१।१४-जुगिप्सा]
अर्थानां दोषसन्दर्शनादिभिर्गर्हणा जुगुप्सा ।
यथा—
विष्वङ्मस्तिष्कपङ्के महति निपतितोच्छूनमातङ्गदेह-
श्रेणीलब्धप्रचाराः प्रवहदुरुवसामज्जरक्तप्रवाहाः ।
राशीभूतास्थिकूटस्थपुटितनिकटा निस्सरद्विस्रगन्धाः
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतां वीररुद्रेण सृष्टाः ॥ विप्रुद्_४।१५ ॥
[इव्।१५-विस्मयः]
अपूर्वार्थसन्दर्शनाच्चित्तविस्तारो विस्मयः ।
यथा—
औन्नत्यं महदन्यदेव महितः को ऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ विप्रुद्_४।१६ ॥
[इव्।१६।-शमः]
शमो वैराग्यादिना निर्विकारचित्तत्वम् ।
यथा—
किं लब्धं चतुराननेन महतीमायुष्प्रथां गच्छता
लब्ध्वा सम्पदमप्यनन्यसुगमामिन्द्रेण किं वा कृतम् ।
इत्यस्तान्तरुपप्लवाः सुकृतिनो नो जानते बाह्यम्
अप्यद्योपप्लवमन्ध्रनाथतिलके विश्वम्भरां बिभ्रति ॥ विप्रुद्_४।१७ ॥
अथ शृङ्गारस्यालम्बनविभावो यथा—
लावण्यैकखनिर्विधातृरचनाशिल्पप्रतिज्ञावधिः
शृङ्गारप्रतिभूर्विलासविपणिः कन्दर्पघण्टापथः ।
नारीणाम्मधिदेवता च तरुणी सेयं किमन्यैर्गुणैर्
अस्या मन्मथमन्मथः प्रियतमः श्रीवीररुद्रो नृपः ॥ विप्रुद्_४।१८ ॥
उद्दीपनविभावो यथा—
उरोमात्रोत्सेधं भवदपि विलासैरभिनवै-
मृगाक्ष्यास्तरुण्यं त्रिभुवनमिदं व्याकुलयति ।
स्तनाभोगस्फीतं यदि किल भवेत् का खलु कथा
भवित्री किं वान्यद्विजितमखिलं पुष्पधनुषा ॥ विप्रुद्_४।१९ ॥
अनुभावो यथा—
स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ विप्रुद्_४।२० ॥
॥ सात्त्विकानां स्वरूपोदाहरणानि ॥
[इव्।२]अथ सात्त्विकानां स्वरूपमुदाहरणं च ।
[इव्।२।१-स्तम्भः]
स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसम्भवम् ।
यथा—
काऐपुरेत्थिआओ पेख्खन्तीओ णरेन्दकन्दप्पं ।
मअणसरुक्किणणाओ विअ ट्ठिआ णिच्चऌअङ्गीओ ॥ विप्रुद्_४।२१ ॥
(काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् ।
मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥)
[इव्।२।२-प्रलयः]
प्रलयः सुखदुःखाद्यैर्गाढमिन्द्रियमूर्च्छनम् ॥ विप्रुद्_४।२२ ॥
यथा—
जिअमअणरूवसारो सहि एसो वीररुद्दणिवचन्दो ।
जं दठ्ठूण णिमज्जै मुच्छाए इन्दिअग्गामो ॥ विप्रुद्_४।२३ ॥
(जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः ।
यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥)
[इव्।२।३-रोमाञ्चः वेपथुश्च]
सुखाद्यतिशयाञ्जाता रोमाञ्चो रोमविक्रिया ।
रागरोषभयादिभ्यो वेपथुर्गात्रकम्पनम् ॥ विप्रुद्_४।२४ ॥
द्वयोरुदाहरणं यथा—
अदैआलिङ्गणणिभ्भकम्पा अ वहू विओअजिण्णङ्गी ।
उग्गिरै अन्तरट्ठिदमअणसरे पुलअचम्मेण ॥ विप्रुद्_४।२५ ॥
(अदयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी ।
उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥)
[इव्।२।४-स्वेदः]
वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः ।
यथा—
शृण्वती प्रियसन्देशं प्रेयसः काकतीशितुः ।
स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना ॥ विप्रुद्_४।२६ ॥
[इव्।२।५-विवर्णाता]
विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ विप्रुद्_४।२७ ॥
यथा—
णरणाह चन्दधवले तुज्झ गुणे साहु सह्मरन्तीए ।
अङ्गाइ पाण्डुराइं एह्णिं जाआइ सामाए ॥ विप्रुद्_४।२८ ॥
(नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः ।
अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥)
[इव्।२।६-अशृः]
अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् ।
यथा—
वीररुद्रनृपाद्भीतं पाण्ड्यं मग्नं पयोनिधौ ।
अन्वेष्टुमिव तद्योषिदश्रुधाराऽपगायते ॥ विप्रुद्_४।२९ ॥
[इव्।२।७-वेश्वर्यम्]
मतं गद्गदभाषित्वं वैस्वर्यं प्रमदादिजम् ॥ विप्रुद्_४।३० ॥
यथा–
अविअणम्मि पिएण समं खामक्खामक्खरं भणन्तीए ।
एक्को मुणै अणङ्गो अत्थं बहुआए भणिआणं ॥ विप्रुद्_४।३१ ॥
(अविजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः ।
एको जानात्यनङ्गो ऽर्थं वध्वा भणितानाम् ॥)
इव्।३।॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥
अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च ।
[इव्।३।१-निवेदः]
दुः खेर्ष्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः ।
तत्र चिन्ताश्रुनिः श्वासदीनताः सम्भवन्ति च ॥ विप्रुद्_४।३२ ॥
यथा—
सहि कप्पूरेण किअं किं कत्थूरीए मलअजो ठाउ ।
गुणसिसिरं जससुरहिं आणेहिअपआवरुद्दं अ ॥ विप्रुद्_४।३३ ॥
(सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु ।
गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥)
(अ ठपआवरुद्दणिवचन्दंऽ—प्रतापरुद्रनृपचन्द्रम् इति पाठान्तरम् ।)
[इव्।३।२-ग्लानिः]
ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् ।
यथा—
अअतेऌऌओक्कं वहै मही तं धरै भुओ पआवरुद्दस्स ।
तं हिअएण धरन्ती साहसिई दुब्बलङ्गि म्हि ॥ विप्रुद्_४।३४ ॥
(अअत्रैलोक्यं वहति मही तां धरति भुजः प्रतापरुद्रस्य ।
तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥)
[इव्।३।३-शङका]
अथ शङ्का ।
अनिष्टाभ्यागमोत्प्रेक्षा शङ्का रोषादिकारणम् ॥ विप्रुद्_४।३५ ॥
यथा—
ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो ।
किं पअढ म्हि जणाणं सव्वङ्गीणेहिं पुलएहिं ॥ विप्रुद्_४।३६ ॥
(न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः ।
किं प्रकटास्मि जनानां सर्वाङ्गीणैः पुलकैः ॥)
[इव्।३।४-असुया]
अथासूया ।
परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता ।
यथा—
अअहिआईए गुणेहिं रूवेण अ मज्झ किं मही अहिआ ।
जं तं पआवरुद्दो बहुमण्णै भाअहेअं तं ॥ विप्रुद्_४।३७ ॥
(अअभिजात्य गुणै रूपेण च मत्तः किं मही अधिका ?।
यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥)
[इव्।३।५-मदः]
अथ मदः ।
मदिरादिकृतो मोहहर्षव्यतिकरो मदः ॥ विप्रुद्_४।३८ ॥
यथा—
अअभणै अ असङ्गअत्थं हसै अमन्दं अ राअभरिअच्छी ।
पिअचिन्तामैराए परवसा उवै सामङ्गी ॥ विप्रुद्_४।३९ ॥
(अअभणति चासङ्गतार्थं हसत्यमन्दं च रागभरिताक्षी ।
प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥)
[इव्।३।६-श्रमः]
अथ श्रमः ।
श्रमः खेदो ऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् ।
यथा—
आअच्छै एव्व पिए कीस करेन्ती गआगआआसं ।
तम्मसि सेदजलेहिं सुन्दरि लुलिअङ्गराआसि ॥ विप्रुद्_४।४० ॥
(आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् ।
ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥)
[इव्।३।७-आलस्यम्]
अथालस्यम् ।
मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते ॥ विप्रुद्_४।४१ ॥
यथा—
आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् ।
कर्तव्यमग्रे दयितस्य यत् स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ विप्रुद्_४।४२ ॥
[इव्।३।८-दैन्यम्]
अथ दैन्यम् ।
सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसम्भवम् ।
यथा—
आणेदुं णरणाहं गदो क्खु सहीजणो विलम्बेइ ।
मम्मह णमामि चन्दं सिक्खअ चिरेह ईसि त्ति ॥ विप्रुद्_४।४३ ॥
(आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते ।
मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥)
[इव्।३।९-चिन्ता]
अथ चिन्ता ।
इष्टानभिगमात् ध्यानं चिन्ता शून्यत्वतापकृत् ॥ विप्रुद्_४।४४ ॥
यथा—
असण्णिहिअं वि गुरुअणं ण अ पेख्खै पुच्छिआ वि णआऌअवै ।
एसा वि मग्गै गैं हिअअस्स पिआणुबन्धस्स ॥ विप्रुद्_४।४५ ॥
(असन्निहितमपि गुरुजनं न च प्रेक्षते पृष्टापि नालपति ।
एषापि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥)
[इव्।३।१०-मोहः]
अथ मोहः ।
मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः ।
यथा—
कथमपि गमयित्वा वासरं दीर्घदीर्घं
विरचितनववेषा प्रेषयित्वाथ दूतीः ।
चिरयति हृदयेशे प्रांशुभिश्चन्द्रपादैर्
अभिहतसकलाङ्गी मूर्च्छिता कोमलाङ्गी ॥ विप्रुद्_४।४६ ॥
[इव्।३।११-स्मृतिः]
अथ स्मृतिः ।
पूर्वानुभूतविषयं ज्ञानं स्मृतिरुदाहृता ॥ विप्रुद्_४।४७ ॥
यथा—
प्रतापरुद्रस्य भुजे वसन्त्या क्षोण्यातपः कीदृशमार्जितं स्यात् ।
स्पृष्टं सकृद् येन मदीयमङ्गं प्राप्नोति विष्वक् सुखवज्रलेपम् ॥ विप्रुद्_४।४८ ॥
[इव्।४।१२-धृतिः]
अथ धृतिः ।
धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः ।
यथा—
वीररुद्रनृपतौ हृदय ! त्वद्वल्लभे त्रिभुवनैकधुरीणे ।
साधु साधु कृतकृत्यमसि त्वं मन्यसे जगदशेषमसारम् ॥ विप्रुद्_४।४९ ॥
[इव्।४।१३-व्रीङा]
अथ व्रीडा ।
चेतः सङ्कोचनं व्रीडानङ्गरागस्तवादिभिः ॥ विप्रुद्_४।५० ॥
यथा—
तथा समालोकनकौतुकानां मनोरथैरन्ध्रपुराङ्गनानाम् ।
विलोकिते रुद्रनृपे भवन्ति पर्यस्तपक्ष्माणि विलोचनानि ॥ विप्रुद्_४।५१ ॥
[इव्।४।१४-चपलता]
अथ चपलता ।
चापलं त्वनवस्थानं रागद्वेषादिसम्भवम् ।
यथा—
दृष्ट्वा रुद्रनरेन्द्रं तरलतराक्षी विलासमृदुहासा ।
कलयति मौक्तिमहारं स्पृशति च कर्णोत्पलं बाला ॥ विप्रुद्_४।५२ ॥
[इव्।४।१५-हर्षः]
अथ हर्षः ।
प्रसत्तिरुत्सवादिभ्यो हर्षः स्वेदाश्रुकम्पकृत् ॥ विप्रुद्_४।५३ ॥
यथा—
यत् पूर्वं सरसीषु पद्ममुकुलव्याजात् तपः सञ्चितं
वक्षोजौ युवयोस्तदद्य फलितं जातौ कृतार्थौ युवाम् ।
दत्ता काकतिवल्लभेन भवतोरेषा स्ववक्षः स्थली-
कस्तूरीद्विगुणभवत्परिमला कल्हारमाला यतः ॥ विप्रुद्_४।५४ ॥
[इव्।४।१६-आवेगः]
अथावेगः ।
इष्टानिष्टागमाञ्जात आवेगश्चित्तसम्भ्रमः ।
यथा—
निस्साणध्वनिमाकलय्य सहसा हेलाविहारोद्यतं
द्रष्टुं काकतिवीररुद्रनृपतिं प्रत्यग्रकौतूहलाः ।
अर्धालम्बितमण्डनाः प्रतिपदं व्यत्यस्तभूषा जवाद्
आरोहन्ति सुवर्णसौधवलभीशृङ्गाणि पौरस्त्रियः ॥ विप्रुद्_४।५५ ॥
[इव्।४।१७-जडता]
अथ जडता ।
जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा ॥ विप्रुद्_४।५६ ॥
यथा—
समायाते नाथे प्रमहसि गृहान् रुद्रनृपतौ
वपुः सौन्दर्यश्रीविजितमदनोदारयशसि ।
वधूरन्तस्तोषव्यतिकरवशान्नोपचरितुं
पुरस्तादालीनां न चलति तथा नो विरमति ॥ विप्रुद्_४।५७ ॥
[इव्।४।१८-गर्वः]
अथ गर्वः ।
अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः ।
यथा—
को वा शस्त्रग्रहणसमयो मादृशामीदृशानां
कीदृग्वैरं प्रतिधरणिभृत्खेटकीटेष्वमीषु ।
इत्यावेशप्रतिभयभुजाटोपदुर्वारगर्वाः
सङ्क्रीडन्ते रणभुवि भटाः काकतीन्द्रस्य जेतुः ॥ विप्रुद्_४।५८ ॥
[इव्।४।१९।विषादः]
अथ विषादः ।
विषादश्चेतसो भङ्ग उपायापायचिन्तनैः ॥ विप्रुद्_४।५९ ॥
यथा—
पेसेमि मण त्ति मुहा तं मं मोक्खूण वल्लहे लग्गं ।
मं उज्झिअ णो गच्छै मअणो सहि किं णु कादव्वं ॥ विप्रुद्_४।६० ॥
(प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् ।
मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥)
[इव्।४।२०-औत्सुक्यम्]
अथौत्सुक्यम् ।
कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।
यथा—
अअन्धवुरभामिणिजणो अङ्गाइ पसाहिऊण तुवरन्तो ।
रुद्दणरेन्दागमणे विलम्बिअं सहै किच्छेण ॥ विप्रुद्_४।६१ ॥
(अअन्ध्रपुरभामिनीजनो ऽङ्गानि प्रसाध्य त्वरमाणः ।
रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥)
[इव्।४।२१-निद्रा]
अथ निद्रा ।
निद्रा चित्तनिमीलनम् ।
यथा—
सिविणे दिट्ठं दैअं वहुआ आलिङ्गिदुं किदोज्जोआ ।
उवह दरमीलिअच्छी गअणम्मि करे पसारेइ ॥ विप्रुद्_४।६२ ॥
(।स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा ।
पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥)
[इव्।४।२२-अपस्मारः]
अथापस्मारः ।
आवेशो मोहदुः खाद्यैरपस्मारो ऽङ्गतापकृत् ॥ विप्रुद्_४।६३ ॥
यथा—
दृष्ट्वा स्वप्ने कुपितवदनं काकतीयक्षितीन्द्रं
हा हा रक्षेत्यसकलगिरः सम्भ्रमोत्थानभाजः ।
धावन्त्यन्तर्वर्णभुवि लुठन्त्याह्वयन्त्यात्मबन्धून्
आराद्भूतानपि रिपुगणा व्यस्तनामग्रहेण ॥ विप्रुद्_४।६४ ॥
[इव्।४।२३-सामृतिः]
अथ सुप्तिः ।
सुप्तिर्निद्रासमुद्रेकः ।
यथा—
विश्वैकरक्षाजुषि काकतीन्द्रे निश्चिन्ततां प्राप्तवतो मुरारेः ।
तत्कीर्त्तिचन्द्रातपवर्धितो ऽपि दुग्धाम्बुधिर्नैव भिनत्ति निद्राम् ॥ विप्रुद्_४।६५ ॥
[इव्।४।२४-विबोधः]
अथ विबोधः ।
विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् ।
यथा—
प्रतापरुद्रे नृपमौलिरत्ने विश्वम्भरां रक्षति शिक्षितारौ ।
विजृम्भमाणाः परितः प्रजानां भाग्यश्रियस्तत्क्षणमुन्मिषन्ति ॥ विप्रुद्_४।६६ ॥
[इव्।इव्।४।२५-अनर्षः]
अथामर्षः ।
अमर्षः सापराधेषु चेतः प्रज्वलनं मतम् ॥ विप्रुद्_४।६७ ॥
यथा—
अरे ! भूपाश्चापान् नमयत शिरांस्युन्नमयत
प्रवृत्ताः स्वस्त्रीणामहमहमिका वीरवरणे ।
त्वरन्ते नः खङ्गाः प्रविदलनकेल्यामिति भटा
रणाग्रे गर्जन्ति प्रकटितरुषो रुद्रनृपतेः ॥ विप्रुद्_४।६८ ॥
[इव्।४।२६-अविहित्या]
अथावहित्था ।
हर्षाद्याकारसङ्गुप्तिरवहित्थेति कथ्यते ।
यथा—
गोट्ठीए महिलाणं सोऊण पआवरुद्दचरिआइ ।
आलिहै ओणअमुही मुद्धा चलणेण महिपट्ठं ॥ विप्रुद्_४।६९ ॥
(गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि ।
आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥)
[इव्।४।२७-उग्रता]
अथोग्रता ।
दृष्टे ऽपराधे चण्डत्वमुग्रता तर्जनादिकृत् ॥ विप्रुद्_४।७० ॥
यथा—
प्रियमानीय मानिन्या विरहार्तिर्निवार्यताम् ।
यदेतस्याः कटाक्षोल्कापातैरिन्दुर्मषीकृतः ॥ विप्रुद्_४।७१ ॥
[इव्।४।२८-मतिः]
अथ मतिः ।
तत्त्वमार्गानुसन्धानादर्थनिर्धारणं मतिः ।
यथा—
को संसओ महिअलं चन्दो एव्व वीररुद्दणरणाहो ।
जस्स (खु) करप्पस्सादो अङ्गाइ मिअङ्करअणन्ति ॥ विप्रुद्_४।७२ ॥
(कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः ।
यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥)
[इव्।४।२९-व्याधिः]
अथ व्याधिः ।
मनस्तापाद्यभिभवाज्ज्वरादिर्व्याधिरिष्यते ॥ विप्रुद्_४।७३ ॥
यथा—
प्रतापरुद्रस्य दिशां जिगीषोः प्रत्यर्थिनारीजनदेहजन्मा ।
स्मरज्वरोष्मा हिमवत्प्रदेशान् स्मर्तव्यनीहारकथान् करोति ॥ विप्रुद्_४।७४ ॥
[इव्।४।३०-उन्मादः]
अथोन्मादः ।
उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि ।
यथा—
प्रतापरुद्रस्य जयप्रयाणभेरीध्वनौ मूर्च्छति दिङ्मुखेषु ।
त्रासाकुला भ्रान्तिमुपेत्य वृक्षान् पृच्छन्ति मार्गं रिपुभूमिपालाः ॥ विप्रुद्_४।७५ ॥
[इव्।४।३१-मरणम्]
अथ मरणम् ।
मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः ॥ विप्रुद्_४।७६ ॥
यथा–
पिअविरहं असहन्ती वहुआ णिअजीविअं उवेक्खन्ती ।
सेव्वै जोह्णं दख्खिणपवणस्स तणुं समप्पेइ ॥ विप्रुद्_४।७७ ॥
(।प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा ।
सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥)
साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् ।
[इव्।४।३२-त्रासः]
अथ त्रासः ।
आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते ।
यथा—
अपणअकुविआ चिरेण वि वहुआ सोऊण घणघणत्थणिअं ।
दैअं सरहसवलिआ आलिङ्गै वेवमाणङ्गी ॥ विप्रुद्_४।७८ ॥
(अप्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् ।
दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥)
[इव्।४।३३-वितर्कः]
अथ वितर्कः ।
सन्देहात् कल्पनाऽनन्त्यं वितर्कः परिकीर्तितः ॥ विप्रुद्_४।७९ ॥
यथा—
गुणैस्तत्रासक्तं मम हृदयमन्यन्न गणितं
सखीभिर्नालोचि क्षितिपतिरसौ दुर्लभ इति ।
उपायः को वा स्यात् तदभिगमने मुह्यति मनः
कियान् को ऽयं कीदृक् कियदवधिरन्तर्व्यतिकरः ॥ विप्रुद्_४।८० ॥
तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि शृह्गारे सर्वेषामनुप्रवेशः सम्भवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां सम्भवः । करुणे मदधृतिव्रीडाहर्षगर्वौत्सुक्योग्रताभिर्विनान्ये सम्भवन्ति । रौद्रे ग्लानिशङ्काऽलस्यदैन्यचिन्ताव्रीडावेगजडताविषादसुप्तिनिद्रापस्मारावहित्थाव्याध्युन्मादशमत्रासाः न सम्भवन्ति । वीरे रौद्रान्निर्वेदो ऽधिकः । भयानके ऽसूयामदधृतिव्रीडाहर्षगर्वनिद्रासुप्त्यमर्षावहित्थोग्रतामतिभिर्विनान्ये सम्भवन्ति । बीभत्से ऽद्भुते च चिन्तात्रासादयो यथासम्भवमूह्याः । शान्ते निर्वेदधृती सम्भवतः ।
शृङ्गारचेष्टाः
इव्।५अथ शृङ्गारचेष्टा निरूप्यन्ते ।
भावो हावश्च हेला च माधुर्यं धैर्यमित्यपि ।
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ॥ विप्रुद्_४।८१ ॥
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
कुतूहलं च चकितं विहृतं हास इत्यपि ॥ विप्रुद्_४।८२ ॥
एवं शृङ्गारचेष्टाः स्युरष्टादशविधा मताः ।
तत्रासां स्वरूपमुदाहरणं च ।
[इव्।५।१-भावःग]
भावः ।
रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते ॥ विप्रुद्_४।८३ ॥
यथा—
रुद्दणरेन्दस्य गुणे गाऐ बालत्तणम्मि विस्सद्धं ।
लज्जै दरपुलैओ जुवैजणो जोव्वणे गाउं ॥ विप्रुद्_४।८४ ॥
(।रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् ।
लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥)
[इव्।५।२-हावः]
अथ हावः ।
ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते ।
यथा—
अत्रैवेषत्पुलकित इति ।
[इव्।५।३-हेला]
अथ हेला ।
सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ॥ विप्रुद्_४।८५ ॥
यथा—
मा होदु कस्स वि फ्फुडं इअ मुद्धे कुणसि वल्लहं हिअए ।
घोसिज्जै तुह भाओ सव्वङ्गीणेहि पुलएहिं ॥ विप्रुद्_४।८६ ॥
(मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये ।
घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥)
[इव्।५।४-माधुर्यम्]
अथ माधुर्यम् ।
अभूषणे ऽपि रम्यत्वं माधुर्यमिति कथ्यते ।
यथा—
जितत्रैलोक्यलावण्या प्रकृत्या हरिणेक्षणा ।
किं तु भूषयितुं धत्ते भूषणानीति मे मतिः ॥ विप्रुद्_४।८७ ॥
[इव्।५।५-धैर्यम्]
अथ धैर्यम् ।
शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते ॥ विप्रुद्_४।८८ ॥
यथा—
अकुलवहुआणं ण जुज्जै मज्जाआलङ्घणं खु विसमे वि ।
रुद्दणरिन्दगुणा उण हिअअहरा किं णु कादव्वं ॥ विप्रुद्_४।८९ ॥
(अकुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमे ऽपि ।
रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥)
[इव्।५।६-लीला]
अथ लीला ।
प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः ।
यथा—
अअपेछ्छह सहिओ एसा लच्छी रण्णो पआवरुद्दस्स ।
चरिआइ अणुकुणन्ती रण्णीसु पैव्वआ जाआ ॥ विप्रुद्_४।९० ॥
(अअप्रेक्षध्वं सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य ।
चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥)
[इव्।५।७-विलासः]
अथ विलासः ।
तात्कालिको विकारः स्याद्विलासो दयितेक्षणे ॥ विप्रुद्_४।९१ ॥
यथा—
सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं
तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद् युगपदुदयत्सात्त्विकमहो
मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ विप्रुद्_४।९२ ॥
[इव्।५।८-विच्छित्तिः]
अथ विच्छित्तिः ।
विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः ।
यथा—
कस्स किए केण किअं काऐपुरैत्थिआण सुन्देरं ।
साहारणभूसाए जं सहि तेऌऌओक्करमणिज्जं ॥ विप्रुद्_४।९३ ॥
(कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् ।
साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥)
[इव्।५।९-विभ्रमः]
अथ विभ्रमः ।
विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ विप्रुद्_४।९४ ॥
यथा—
असोऊण सहिमुहादो दिअहो विरतो त्ति सम्भमेण वहू ।
हत्थेसु णोउराइं चरणेसु अ कुणै वलआइं ॥ विप्रुद्_४।९५ ॥
(अश्रुत्वा सखीमुखाद्दिवसो विरत इति सम्भ्रमेण वधूः ।
हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥)
[इव्।५।१०-किलकिञचितम्]
अथ किलकिञ्चितम् ।
रोषाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम् ।
यथा—
गेह्णै काऐणाहे विअणम्मि पडञ्चलं मिअछ्छीए ।
वेवै तणू वि णच्चै भिउडी अवि गग्गआ वाआ ॥ विप्रुद्_४।९६ ॥
(गृह्णति काकतिनाथे विजने पटाञ्चलं मृगाक्ष्याः ।
वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥)
[इव्।५।११-मोट्टायितम्]
अथ मोट्टायितम् ।
मोट्टायितं स्यादिष्टस्य कथादौ भावसूचनम् ॥ विप्रुद्_४।९७ ॥
यथा—
अमहुराइ रुद्दणरवैचरिआइ वहूए णं सुणन्तीए ।
तणुगोवणएण पअडो जह भाओ ण तह पुलएहिं ॥ विप्रुद्_४।९८ ॥
(अमधुराणि रुद्रनरपतिचरितानि वध्वा ननु शृण्वत्याः ।
तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥)
[इव्।५।१२-कुटट्टमितम्]
अथ कुट्टमितम् ।
सम्मर्दे ऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ।
यथा—
निर्मर्यादमनोभवोत्सवकथाविस्रम्भकर्णेजपै-
रङ्गेर्विस्मितमानसां प्रियसखीमालोक्य जातत्रपा ।
वैयात्यं निजमात्मवल्लभकृतां रागान्धतां जानती
सद्यो नम्रमुखेन्दुरिन्दुवदना क्षोणीं लिखन्ती स्थिता ॥ विप्रुद्_४।९९ ॥
[इव्।५।१३-बिब्बोकः]
अथ बिब्बोकः ।
मनाक् प्रियकथालापे बिब्बोको ऽनादरक्रिया ॥ विप्रुद्_४।१०० ॥
यथा—
लक्ष्मीः सद्मनि निर्भरं विहरताम्, क्षोणी भुजालम्बन-
क्रीडां नैव जहातु, किं च सततं वाणी मुखे तिष्ठतु ।
ज्ञातं रुद्रनरेश्वरस्य बहुभिर्विज्ञातपूर्वैः प्रिय-
व्याहारैः कृतमेव दूति ! मदनश्चापाय सन्नह्यतु ॥ विप्रुद्_४।१०१ ॥
[इव्।५।१४-ललितम्]
अथ ललितम् ।
सुकुमारो ऽङ्गविन्यासो ललितं परिकीर्त्यते ।
यथा—
पदन्यासक्रीडारणितमणिमञ्जीररशनं
सहेलं व्यावल्गत्करवलयनिक्वाणसुभगम् ।
स्मितज्योत्स्नावीचीतरलवचनं रुद्रनृपतेः
पुरन्ध्रीणामासीदनुरहससेवाविलसितम् ॥ विप्रुद्_४।१०२ ॥
[इव्।५।१५-कुतूहलम्]
अथ कुतूहलम् ।
कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते ॥ विप्रुद्_४।१०३ ॥
यथा—
वीररुद्रमधिरूढसिन्धुरं द्रष्टुमन्ध्रनगरीपुरन्ध्रयः ।
कुर्वते रचितसङ्क्रमत्वरास्तुङ्गसद्मशिखराधिरोहणम् ॥ विप्रुद्_४।१०४ ॥
[इव्।५।१६-चकितम्]
अथ चकितम् ।
चकितं भयसम्भ्रमः ।
यथा—
अविज्ञातायातं स्वमकथितमाल्यापि हसितुं
हठादुत्पश्यन्त्याश्चकितचकितोदञ्चितदृशः ।
विलासानुद्वेलानुदितमदनान् वीक्ष्य सुतनोस्
तथैव प्रत्येतुं पुनरवनिपालः स्पृहयति ॥ विप्रुद्_४।१०५ ॥
[इव्।५।१७-विहृतम्]
अथ विहृतम् ।
विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया ।
यथा—
प्रतापरुद्रस्य भुजान्तरस्थां कल्हारमालाममुना स्पृशेति ।
स्तनद्वये पत्रलिपिं लिखन्तीं सखीं वधूः पश्यति साभिमानम् ॥ विप्रुद्_४।१०६ ॥
[इव्।५।१८-हसितम्]
अथ हसितम् ।
आकस्मिकं तु हसितं यौवनादिविकारजम् ॥ विप्रुद्_४।१०७ ॥
जह जह हसै मिअच्छी जोव्वणलच्छीए सिख्खिआ महुरं ।
तह तह कुसुमेसुसरा विअसन्ति पिअस्स आसा अ ॥ विप्रुद्_४।१०८ ॥
(यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् ।
तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥)
मन्मथावस्थाः
इव्।६।॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥
अथ शृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते ।
चक्षुः प्रीतिर्मनः सङ्गः सङ्कल्पो ऽथ प्रलापिता ।
जागरः कार्श्यमरतिर्लज्जात्यागो ऽथ सञ्ज्वरः ॥ विप्रुद्_४।१०९ ॥
उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ।
अवस्था द्वादश मताः कामशास्त्रानुसारतः ॥ विप्रुद्_४।११० ॥
केचित्तु दशावस्था इति कथयन्ति ।
आसां स्वरूपमुदाहरणं च ।
[इव्।६।१-चक्षुः प्रीतिः]
आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते ।
यथा—
सहि एसो रुद्दणिओ णअणाण अतक्किओस्सओ जाओ ।
मअणो व मुत्तिमन्तो चन्दो विअ मुक्कलञ्छणो पुण्णो ॥ विप्रुद्_४।१११ ॥
(सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः ।
मदन इव मूर्तिमान् चन्द्र इव मुक्तलाञ्छनः पूर्णः ॥)
[इव्।६।२-मनः सङः]
अथ मनः सङ्गः ।
मनः सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः ॥ विप्रुद्_४।११२ ॥
यथा—
सह मह मणो विलग्गै रुद्दणरेन्दम्मि कीस कुविआओ ।
तेणाहं वि विमुक्का सहिओ तुह्मेसु का वत्ता ॥ विप्रुद्_४।११३ ॥
(सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात् कुपिताः ।
तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥)
[इव्।६।३-सङ्कल्पः]
अथ सङ्कल्पः ।
सङ्कल्पो नाथविषयो मनोरथ उदाहृतः ।
यथा—
अदरहसिअगब्भिणाइं सिणेहसिणिद्धाइ राअभरिआइ ।
रुद्दणिवविलोइआइं काहे णु मम्मि णिवदन्ति ॥ विप्रुद्_४।११४ ॥
(अदरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि ।
रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥)
[इव्।६।४-प्रलापः]
अथ प्रलापः ।
प्रालपः प्रियसंश्लिष्टगुणालाप उदाहृतः ॥ विप्रुद्_४।११५ ॥
यथा—
तह णिउणो तह महुरो तह सुहओ तह अ सोम्मसब्भाओ ।
एक्को रुद्दणिवो विअ इदि गोट्ठी पोढमहिलाणं ॥ विप्रुद्_४।११६ ॥
(तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः ।
एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥)
[इव्।६।५-जागरः]
अथ जागरः ।
जागरस्तु विनिद्रत्वम् ।
यथा—
अगमिअं कह कह वि दिणं चन्दादवदूसहा णिसा दीहा ।
मअणो वि पुङ्खिअसरो णिद्दा वि णिवो वि णोवेइ ॥ विप्रुद्_४।११७ ॥
(अगमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा ।
मदनो ऽपि पुङ्खितशरो निद्रापि नृपो ऽपि नोपैति ॥)
[इव्।६।६-कार्श्यम्]
अथ कार्श्यम् ।
कार्श्यमङ्गस्य तानवम् ।
यथा—
चन्द्रास्ये ! कथमङ्गुलीयकमिदं केयूरितं ते सखि !
प्रेम्णां प्रेयसि वैभवैः स खलु को भूमेः सपत्नी यतः ।
ज्ञातं मानिनि ! काकतीयनृपतौ सक्ताऽलि ! सत्यं शुभे !
श्यामाङ्गीं स खलु स्थिरां रमयते त्वां तां च शैलस्तनीम् ॥ विप्रुद्_४।११८ ॥
[इव्।६।७-अरतिः]
अथारतिः ।
अन्यत्राप्रीतिररतिः ।
यथा—
दूसेइ चन्दसिट्टिं णिन्दै मलआणिलस्स माहप्पं ।
ऊसवपरम्मुही सा सुहअ ! तुमं किं णु मन्तेसि ॥ विप्रुद्_४।११९ ॥
(दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् ।
उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे ।)
[इव्।६।८-लज्जात्यागः]
अथ लज्जात्यागः ।
यथा–
अलङ्घिअमहिलासमअं तह भणिअं मअणदुव्विणीदाए ।
जह सोऊण गुरुअणो ओसरै विलज्जिओ दूरं ॥ विप्रुद्_४।१२० ॥
(अलङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया ।
यथा श्रुत्वा गुरुजनो ऽपसरति विलज्जितो दूरम् ॥)
[इव्।६।९-ज्वरः]
अथ ज्वरः ।
तापाधिक्यं ज्वरो मतः ॥ विप्रुद्_४।१२१ ॥
यथा—
अमोहसिसिरोवआरा वहुआ विरहज्जरेण गुरुएण ।
दाणिं रुद्दणरेसर ! काङ्खै तुह दंसणामिअअं ॥ विप्रुद्_४।१२२ ॥
(अमोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा ।
इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥)
उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् ।
[इव्।६।१०-मूर्च्छा]
अथ मूर्च्छा ।
मूर्च्छा त्वभ्यन्तरे ऽवृत्तिर्बाह्येन्द्रियनिमीलनात् ।
यथा—
अअचिन्तन्तीए णरेन्दं दट्ठुं हिअअठ्ठिदं मिअच्छीए ।
करणाइ बाहिराइं विसन्ति अब्भन्तरं वि सुण्णाए ॥ विप्रुद्_४।१२३ ॥
(अअचिन्तयन्त्या नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः ।
करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥)
अथ शृङ्गारः । स द्विविधः । सम्भोगो विप्रलम्भश्चेति । “संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ऽ; इति ऽशृङ्गारतिलकेऽ; । सम्भोगस्य परस्परावलोकनसम्भाषणाऽलिङ्गनचुम्बनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता ।
यथा–
रहः प्रत्यासन्ने हृदयदयिते रुद्रनृपतौ
निवृत्ता मानाज्ञा विरलमपि लज्जाविलसितम् ।
किमन्यत् ते गोप्यं बहिरबहिरानन्दमसृणः
स्मरावेशः को ऽपि प्रियसखि ! नृपेणैकयति माम् ॥ विप्रुद्_४।१२४ ॥
विप्रलम्भः पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः ।
[इव्।६।११-सम्भोगशृङ्गारः]
अभिलाषो नाम सम्भोगात् प्रागनुरागः ।
यथा—
अन्योन्यभाषणमनङ्गविलासगोष्ठी
शय्या च सार्धमपदानि मनोरथानाम् ।
प्रेमानुविद्धमुदयद्बहुलानुरागं
लभ्यते रुद्रनृपतेरवलोकितं वा ॥ विप्रुद्_४।१२५ ॥
[इव्।६।१२-ईर्ष्याशृङ्गारः]
ईर्ष्या नाम नायकस्यान्यासक्तभावात् चित्तविक्रिया ।
[इव्।६।१३-विप्रलम्भशृङ्गारः]
तया विप्रलम्भो यथा—
लक्ष्मीरस्य विलोचनाब्जवसतिः सोर्ष्या त्वदालोकने
वक्त्रस्था च सस्स्वती न सहते साकं त्वया भाषणम् ।
लीलाकर्षणविघ्नकृत् त्वयि मही बाहुस्थिता काकति-
क्षोणीन्द्रे न हि कैतवानि सुभगे मानेन किं ताम्यसि ॥ विप्रुद्_४।१२६ ॥
[इव्।६।१४-विरहविप्रलम्भशृङ्गारः]
विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित् कारणेन पुनः समागमकालातिक्षेपः ।
यथा—
अङ्गेषु जीर्णेषु विभूषणानां व्यत्यासमार्गो ऽपि मुहूर्तशोभी ।
सख्यस्तदास्तां परिकर्मरीतिरानीयतां रुद्रनृपः किमन्यत् ॥ विप्रुद्_४।१२७ ॥
[इव्।६।१५-प्रवासविप्रलम्भः]
यूनोर्देशान्तरवृत्तित्वं प्रवासः ।
तेन विप्रलम्भो यथा—
सेव्यो ऽस्तु रुद्रनृपतिर्निखिलैर्नृपालै-
रभ्युत्सवेषु सुलभा न हि वल्लभा नः ।
इत्थं कलिङ्गसुदृशां विरहार्तितापा-
दङ्गानि यान्ति तनुतां दिवसा युगन्ति ॥ विप्रुद्_४।१२८ ॥
[इव्।६।१६-रसाभासः]
रसाभासो यथा—
प्रासादगर्भवलभीषु कपोतपाल्यां
पारावतीं रमणचुम्बितचञ्चुकोटिम् ।
आविर्भवत्सुरतकूजितरक्तकण्ठी-
मालोक्य काकतिविभुः स्मितमातनोति ॥ विप्रुद्_४।१२९ ॥
[इव्।६।१७-भावोदयः]
भावोदयो यथा—
मुग्धे ! कस्तव वर्तते हृदि मनोजन्मैव नान्यः शपे
सख्येतस्य किमत्र कार्यमपरं किं जन्मसद्मादरात् ।
को ऽन्यस्तत्प्रतिबिम्ब एव निपुणे ! जानासि कामाधिकः
प्रेयान् रुद्रनृपस्तवेति कथिता नम्राननाभूद् वधूः ॥ विप्रुद्_४।१३० ॥
अत्र लज्जाया उदयः ।
[इव्।६।१८-भावशमः]
भावशमो यथा—
लक्ष्मीस्त्वं पुरुषोत्तमस्तव पतिः श्रीवीररुद्रो नृपः
सृष्ट्यामम्बुजविष्टरस्य सदृशोर्योगश्चि रात् सम्भृतः ।
तस्मात् कृत्रिममप्यसाम्प्रतिमिदं वां वैमनस्यं मना-
गित्यालिं प्रणतां विलोक्य विकसद्वक्त्राम्बुजा मानिनी ॥ विप्रुद्_४।१३१ ॥
अत्र कोपस्य प्रशमः ।
[इव्।६।१९-भावसन्धिः]
भावसन्धिर्यथा—
प्रतापरुद्रस्य दिगन्तजैत्रयात्राप्रभूतैः पटहप्रणादैः ।
प्रियानुलापैश्च तथा भटानां रौमाञ्चवर्मावृतमङ्गमासीत् ॥ विप्रुद्_४।१३२ ॥
अत्र वीरशृङ्गारकृतयोर्हर्षयोः सन्धिः ।
[इव्।६।२०-भावशबलता]
भावशबलता यथा—
निन्दन्त्वद्य कुलस्त्रियः प्रियतमो लभ्यः सुखं केन वा
भाग्येनानुमतं न किं गुरुजनैः का वा सखी प्रेष्यते ।
किं लोकस्य भवेत् प्रसिद्धमचिरात् स्वच्छन्दमङ्कं कदा-
रोक्ष्यामि स्थिरता कदा हृदि भवेद् यातव्य एव प्रियः ॥ विप्रुद्_४।१३३ ॥
अत्रौत्सुक्यादीनां शबलता ।
अथ रससङ्करस्योदाहरणम् ।
[इव्।६।२१-श्रुङ्गारकरुणयोः सङ्करः]
तत्र शृङ्गारकरुणयोः सङ्करो यथा—
आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे-
र्धिगू धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः ॥ विप्रुद्_४।१३४ ॥
अथ रौद्रबीभत्सयोः सङ्करो यथा—
[इव्।६।२२-रौद्रबीभत्सयोः सङ्करः]
पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः स्पष्टदंष्ट्रः ।
बिभ्रद् रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
सङ्ग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद् वीररुद्रस्य खड्गः ॥ विप्रुद्_४।१३५ ॥
एवमन्यदपि यथासम्भवमुदाहार्यम् ।
अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद् भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) स्मृत्यारूढेन तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमे ऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधे ऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमः ऽशृङ्गारतिलकेऽ; कथितः—
“शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।
रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः” ॥
इति।
रसाद् रसोत्पत्तिरपि मता । तथा चोक्तं ऽशृङ्गारतिलकेऽ—
“हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मणः ।
अद्भुतश्च तथा वीराद् बीभत्साच्च भयानकः” ॥
व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितं ऽशृङ्गारतिलकेऽ; । तथा हि—
“शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यविस्मयावेगा व्रीडोन्मादौ मदस्तथा ॥
विषादो जडता निद्रावहित्थं चापलं मृतिः ।
इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥
श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च ।
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥
सन्त्रासो मरणं दैन्यं ग्लानिश्चैव भयानके ।
अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥
उन्मादश्चेति विज्ञेया भावा बीभत्ससम्भवाः ।
आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥
इति भावा निबद्धव्या रसज्ञैरद्भुते रसे ।
दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥
व्याधिश्च करुणे वाच्या भावा भावविशारदैः ।
हर्षो ऽसूया तथा गर्व उत्साहो मद एव च ॥
चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः ।
अमर्षः प्रतिबोधश्च वितर्को ऽथ मतिर्धृतिः ॥
क्रोधो ऽसूयाथ सम्मोह आवेगश्चोपहर्षणम् ।
गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी” ॥
इति।
“रसः सर्वो ऽपि सम्पूर्णस्तिरोधत्ते रसान्तरम् ॥ः
इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते ।
तत्र रसादेरप्राधान्ये रसवदाद्यलङ्कारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलङ्कारः । भावनिबन्धने प्रेयो ऽलङ्कारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलङ्कारः । भावशान्तिनिबन्धने समाहितालङ्कारः । तथा भावोदयादयो ऽपि ।
एतद् अलङ्कारसर्वस्वे प्रपञ्चेनोक्तम्—
“रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलङ्काराः ऽइति । एतेषामुदाहरणमलङ्करणे भविष्यति ।
गुणालङ्कारश्रीकृतपरिकरो भावविभवः
स्फुरत्प्रादुर्भावः क्रमगलितवेद्यान्तरमतिः ।
सुखं वा दुः खं वा निबिडयतु यूनोः सहृदये
त्वमन्दानन्दात्मा परिणमति पूर्णो रसभरः ॥ विप्रुद्_४।१३६ ॥
रसो वाक्यार्थः सन् विलसति पदार्थाः पुनरमी
विभावाद्या यस्मिन् किल दधति विश्रान्तिमुचिताम् ।
अतो भावा एव क्रमसमुदितान्योन्यविभवा
रसीभावं बिभ्रत्यथ च पटतां तन्तव इव ॥ विप्रुद्_४।१३७ ॥
भावे स्थायिनि वर्धमानविभवे रत्यादिके सिन्धुवत्
कल्लोला इव सम्भवन्ति विलयं चायान्ति भावा मुहुः ।
निर्वेदाद्युपभोगभावितनिजास्वादातिरेको रसो
लोके स्यादनुकार्य एव कथितो नाट्ये तु सामाजिके ॥ विप्रुद्_४।१३८ ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कारशास्त्रे रसप्रकरणं समाप्तम् ।
व्।१
॥ अथ दोषप्रकरणम् ॥
अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते ।
[व्।१।१-दोषसामान्यलक्षणम्]
तत्र दोषसामान्यलक्षणम्—
दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः ।
शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् ।
शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् ।
इपदगतदोषः]
तत्र पदगतदोषाः कथ्यन्ते ।
अप्रयुक्तमपुष्टार्थमसमर्थं निरर्थकम् ।
नेयार्थं च्युतसंस्कारं सन्दिग्धं चाप्रयोजकम् ॥ विप्रुद्_५।१ ॥
क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थं चाप्रतीतिकम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत् तथा ।
अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥ विप्रुद्_५।२ ॥
एषां स्वरूपं निरूप्यते ।
यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते ।
प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ विप्रुद्_५।३ ॥
योगमात्रप्रसिद्धं यदसमर्थं तदुच्यते ।
पादपूरणमात्रं यत् तन्निरर्थकमुच्यते ॥ विप्रुद्_५।४ ॥
स्वसङ्केतप्रसिद्धार्थं नेयार्थं परिकीर्त्यते ।
शब्दशास्त्रविरुद्धं यत् च्युतसंस्कारमुच्यते ॥ विप्रुद्_५।५ ॥
सन्दिग्धं तन्मतं यत् स्यात् सन्दिग्धार्थप्रतीतिकृत् ।
तदप्रयोजकं यत् स्यादविशेषविधायकम् ॥ विप्रुद्_५।६ ॥
क्लिष्टं तदर्थावगतिर्दूरदूरा यतो भवेत् ।
प्रयुक्तमप्रसिद्धार्थे गूढार्थं परिकीर्त्यते ॥ विप्रुद्_५।७ ॥
पामरव्यवहारैकप्रसिध्दं ग्राम्यमुच्यते ।
यद्रूढिप्रच्युतं नाम तदन्यार्थमुदाहृतम् ॥ विप्रुद्_५।८ ॥
शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते ।
अविमृष्टविधेयांशं गुणीभूतविधेयकम् ॥ विप्रुद्_५।९ ॥
विपरीतार्थधीर्यस्माद् विरुद्धमतिकृन्मतम् ।
अश्लीलं यदमाङ्गल्यजुगुप्साव्रीडधीकरम् ॥ विप्रुद्_५।१० ॥
परुषं नाम तद् यत् स्याद्विहितं परुषाक्षरैः ॥
अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते ।
[व्।२।१-अप्रयुक्तम्]
अप्रयुक्तं यथा—
विमुखा दैवताः सर्वे ते नो दुश्च्यवनादयः ।
अरण्यगृहमेधिन्यो यैर्वयं हन्त कल्पिताः ॥ विप्रुद्_५।११ ॥
अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ; दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः ।
[व्।२।२-अपुष्टार्थम्]
अपुष्टार्थं यथा—
व्यर्थाष्टार्धार्धबाहूनाममीषामीदृशां दशाम् ।
कथं सहामहे धिग्धिक् कठिनं हन्त जीवितम् ॥ विप्रुद्_५।१२ ॥
अत्र व्यर्थबाहुद्वयानामिति विवक्षिते ऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् ।
एतदेवाविमृष्टविधेयांशस्योदाहरणम् ।
बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते ।
[व्।२।३-असमर्थम्]
असमर्थं यथा—
विहाय वसुधामेनां चतुरम्बुधरावृताम् ।
क नु गन्तव्यमस्माकमरण्ये ऽप्यसुखा स्थितिः ॥ विप्रुद्_५।१३ ॥
अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् ।
[व्।२।३-अनर्थकनेयार्थच्चतसंस्कारसन्दिग्धानि]
अनर्थकनेयार्थच्युतसंस्कारसन्दिग्धानि यथा—
विहाय च गृहांस्तान् वै व्यत्यस्तनववृत्तयः ।
कदा भविष्यते वासः कटकेषु महीभृतान् ॥ विप्रुद्_५।१४ ॥
अत्र वै इति निरर्थकम् ।
व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसङ्केतमात्रायतेति नेयार्थकम् ।
भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् ।
महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति सन्देहात् सन्दिग्धम् ।
[व्।२।४-अप्रयोजकक्लिष्टे]
अप्रयोजकक्लिष्टे यथा—
हन्त वर्तामहे वज्रघट्टनात् प्राक् चलात्मसु ।
नभस्वदशनारातिध्वजाग्रजविरोधिषु ॥ विप्रुद्_५।१५ ॥
अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात् क्लिष्टम् ।
पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात् प्राक् चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् ।
[व्।२।५-गूडार्थान्यार्थग्राम्यर्थानि]
गूढार्थग्राम्यार्थान्यार्थानि यथा—
शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः ।
विदग्धहृदयाः शोकवह्निना राजकन्यकाः ॥ विप्रुद्_५।१६ ॥
अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद् गूढार्थम् ।
गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ ।
विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् ।
[व्।२।६-अप्रतीतिकरम्]
अप्रतीतिकं यथा—
मनूपदेशाः क्व गताः कुलाचार्यैरुदीरिताः ॥ विप्रुद्_५।१७ ॥
अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् ।
[व्।२।७-विरुध्दमतिकृत्]
विरुद्धमतिकृद्यथा—
अम्बिकारमणस्याङ्घ्रिसेवा व्यर्था कथं भवेत् ।
राज्ञामकार्यमित्राणां विनाशं समुपेयुषाम् ॥ विप्रुद्_५।१८ ॥
अत्राम्बिकारमणशब्दान्मातृसम्भोगकारिणः प्रतीतिः ।
अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः ।
वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् ।
[व्।२।८-त्रिविधाश्लीलम्]
अमङ्गलव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्लीलं यथा—
अभिप्रेतपदावासः कदा नः सम्भविष्यति ।
नीचं साधनमेतेषां परोत्सर्गैकजीविनाम् ॥ विप्रुद्_५।१९ ॥
अत्राभिप्रेतपदावासशब्दात् प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् ।
नीचं साधनमित्यनेन तुच्छमोहनप्रतीतेर्व्रीडाकरत्वम् ।
परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् ।
[व्।२।९-पुरुषम्]
परुषं यथा—
कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः ।
अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् ।
व्।३
॥ अथ वाक्यदोषाः ॥
शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत् ।
व्याकीर्णं वाक्यसङ्कीर्णमपूर्णं वाक्यगर्भितम् ॥ विप्रुद्_५।२० ॥
द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ विप्रुद्_५।२१ ॥
विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् ।
समाप्तपुनरात्तं च तथा सम्बन्धवर्जितम् ॥ विप्रुद्_५।२२ ॥
पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् ।
चतुर्विंशतिरुच्यन्ते दोषा वाक्यसमाश्रिताः ॥ विप्रुद्_५।२३ ॥
एषां स्वरूपमुदाहरणं च ।
[व्।३।१-शब्दहीनम्]
शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते ।
यथा शत्रुवाक्येषु—
न संशृणुमहे हन्त हितमाप्तैर्निमन्त्रितम् ।
येन काकतिभूभर्तुः सेवां हित्वा हता वयम् ॥ विप्रुद्_५।२४ ॥
अत्र हितं न संशृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का ।
सम्पूर्वस्य शृणोतेरात्मनेपदित्वे कर्मणो ऽनुपादाननियमात् ।
अथ क्रमभ्रष्टम् ।
क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः ॥ विप्रुद्_५।२५ ॥
[व्।३।२-क्रमभ्रष्टम्]
यथा—
प्रभवे काकतीन्द्राय तुरगान् करिणो ऽथवा ।
उपायनमकुर्वाणा वयं दैवेन वञ्चिताः ॥ विप्रुद्_५।२६ ॥
अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् ।
अथवा करिण इत्यर्थक्रमभङ्गः ।
शब्दक्रमभङ्गो यथा—
का नाम गणनास्मासु काकतीयस्य भूपतेः ।
यशः प्रतापयोर्मग्नौ सूर्याचन्द्रमसावपि ॥ विप्रुद्_५।२७ ॥
अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् ।
यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः ।
अपि तु शब्दप्रयोग एव क्रमभङ्गः ।
[व्।३।३-विसन्धि]
अथ विसन्धि ।
विसंहितो विरूपो वा यस्य सन्धिर्विसन्धि तत् ।
यथा—
शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् ।
अत्र शौर्याणि ईदृशानीति विसन्धि ।
पृथ्वैश्वर्यमिति सन्धिवैरूप्यम् ।
अथ पुनरुक्तिमत् ।
शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत् ॥ विप्रुद्_५।२८ ॥
[व्।३।४-पुनरुक्तिम्]
यथा—
जीर्णकाननसङ्कीर्णे विन्ध्ये काननवृत्तयः ॥ विप्रुद्_५।२९ ॥
अत्र काननसङ्कीर्णे काननवृत्तय इति पुनरुक्तिमत् ।
[व्।३।५-व्याकीर्णम्]
अथ व्याकीर्णम् ।
व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथो ऽन्वये ।
यथा—
सुखार्थिनो महीपाला वर्तध्वं काकतीशितुः ।
आज्ञामुरसि बिभ्राणाः शिरसि क्रोडमुद्रिकाम् ॥ विप्रुद्_५।३० ॥
अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति सम्बन्धः ।
[व्।३।६-वाक्यसङ्कीर्णम्]
अथ वाक्यसङ्कीर्णम् ।
वाक्यान्तरपदैः कीर्णं वाक्यसङ्कीर्णमुच्यते ॥ विप्रुद्_५।३१ ॥
यथा—
मानेन महतास्माभिर्वने वक्त्रे न तिष्ठताम् ।
विन्धयस्य जीवितं तन्नो जातमद्य तृणं कृतम् ॥ विप्रुद्_५।३२ ॥
अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसङ्कीर्णता ।
[व्।३।७-अपूर्णम्]
अथापूर्णम्—
अपूर्णं तद्भवेद् यत्र न सम्पूर्णः क्रियान्वयः ।
यथा—
शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् ।
मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम् ॥ विप्रुद्_५।३३ ॥
अत्र शैलवासान् वन्यवृत्तीन् मृगबान्धवान् पश्यन्निति विवक्षितसम्बन्धौ न सम्पूर्णः ।
[व्।३।८-वाक्यगर्भतम्]
अथ वाक्यगर्भितम् ।
तद् वाक्यगर्भि तं यस्य मध्ये वाक्यान्तरं भवेत् ॥ विप्रुद्_५।३४ ॥
यथा—
ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य क्रोधाग्निमतिदुः सहम् ।
यद्वा न लङ्घ्यते दैवं तस्मिन्निपतिता वयम् ॥ विप्रुद्_५।३५ ॥
अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् ।
[व्।३।९-भिन्नलिङ्गवचने]
अथ भिन्नलिङ्गवचने ।
यत्रोपमा भवेद् भिन्नवचना भिन्नलिङ्गका ।
तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ विप्रुद्_५।३६ ॥
द्वयोरुदाहरणं यथा—
समुद्रा इव गम्भीरं मनो यादवभूभुजः ।
गिरिणेवान्ध्रनृपतिध्वजिन्या कलुषीकृतम् ॥ विप्रुद्_५।३७ ॥
अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम् ।
गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् ।
अथाधिकन्यूनोपमे ।
[व्।३।१०-अधिकन्यूनोपमे]
यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः ।
तत्राधिकोपमं पूर्वं न्यूनोपममतः परम् ॥ विप्रुद्_५।३८ ॥
द्वयोः यथाक्रममुदाहरणम् ।
क्षामक्षाममुखाः कान्ताः कानने मालवेशितुः ।
ग्रीष्मे नद्य इव ग्लानपद्मोत्पलबिसाविलाः ॥ विप्रुद्_५।३९ ॥
अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् ।
म्लानोत्पलबिसाविला इत्यधिकम् ।
न्यूनोपमं यथा—
हाराङ्गरागसुभगा नगरेषु यथा वयम् ।
तथैव निर्झराकीर्णा विभान्ति धरणीभृतः ॥ विप्रुद्_५।४० ॥
अत्र हारस्थाने निर्झरा उक्ताः ।
अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् ।
[व्।३।११-भग्नछन्दोकयतिभ्रष्टे]
अथ भग्नच्छन्दोयतिभ्रष्टे ।
छन्दोभग्नं वचो यत्र तद्भग्नच्छन्द उच्यते ।
यत्र स्थाने यतिभ्रंशस्तद् यतिभ्रष्टमुच्यते ॥ विप्रुद्_५।४१ ॥
यथा—
विन्ध्यारण्यकृतकुटुम्बरक्षणस्य किं भद्रं भवति जनस्य मादृशस्य ॥ विप्रुद्_५।४२ ॥
अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः ।
पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः ।
[व्।३।१२-अशरीररम्]
अथाशरीरम् ।
क्रियापदेन रहितमशरीरं प्रकीर्त्यते ।
यथा—
हन्त निष्करुणो धाता क्रीडतो मणिकुट्टिमे ।
कानने कण्टकाकीर्णे स्थितान् पाण्ड्यशिशूनिमान् ॥ विप्रुद्_५।४३ ॥
अत्र क्रियापदं न विहितम् ।
एतदेवानन्वयाख्यं दूषणम् ।
[व्।३।१३-अरीतिकम्]
अथारीतिकम् ।
रसाननुगुणा रीतिर्यत्रारीति तदुच्यते ॥ विप्रुद्_५।४४ ॥
यथा—
अखर्वगर्वदुर्वारदोरर्गलनिरर्गलाः ।
हा बन्धुवर्गाः सर्वे ऽपि कृतान्तातिथयः कृताः ॥ विप्रुद्_५।४५ ॥
अत्र करुणे ऽनुचितो वर्णाडम्बरः ।
अथ विसर्गलुप्तम् ।
ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् ।
[व्।३।१४-विसर्गलुणतम्]
यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् ।
यथा—
व्यर्थो मनोरथो यातो जातो वासो ध्रुवो मरौ ।
म्लाना दीना हता जीर्णा वनान्तेष्वीदृशा वयम् ॥ विप्रुद्_५।४६ ॥
[व्।३।१५-अस्थानसमारस्यम्]
अथास्थानसमासम् ।
अपदस्थसमासं तत् समासो यत्र नोचितः ॥ विप्रुद्_५।४७ ॥
यथा—
कुतो वैमुख्यमस्मासु ब्रह्मणः परुषात्मनः ।
इत्युदग्रतरभ्राम्यद्भृकुटीकुटिलाननाः ॥ विप्रुद्_५।४८ ॥
अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः ।
किं तु कविवचने समास इत्यपदस्थसमासः ।
[व्।३।१६-वाच्चवर्जितम्]
अथ वाच्यवर्जितम् ।
नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् ।
यथा—
दुर्दशां प्रतिपन्नानामस्माकं जीवितं मतम् ॥ विप्रुद्_५।४९ ॥
अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः ।
[व्।३।१७-समाप्तपुनरान्तकं,पतत्प्रकर्षं च]
अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च ।
समाप्य पुनरादाने समाप्तपुनरात्तकम् ।
पतत्प्रकर्षं तत्प्राहुः प्रकर्षो यत्र विश्लथः ॥ विप्रुद्_५।५० ॥
द्वयोरुदाहरणं यथा—
धावन्मृगेषु सम्भ्राम्यत्करिषूद्यत्तरक्षुषु ।
विन्ध्यारण्येषु तिष्ठामः क्षुभ्यद्भल्लूकपङ्क्तिषु ॥ विप्रुद्_५।५१ ॥
अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात् समाप्तपुनरात्तकम् ।
अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता ।
[व्।३।१७-सम्बन्धवर्जितम्]
अथ सम्बन्धवर्जितम् ।
सम्बन्धवर्जितं तत् स्याद् यत्रेष्टेनान्वयो हतः ।
यथा—
भद्रासनानि दृषदः छत्राणि च महीरुहः ।
दुर्दशाराज्यमूर्धाभिषिक्ताः पुनरहो वयम् ॥ विप्रुद्_५।५२ ॥
अत्र राज्ये भद्रासनानि दृषद इत्यादिसम्बन्धो नोक्तः ।
[व्।३।१८-अधिकपदम्]
अथाधिकपदम् ।
यत्राधिकपदोक्तिः स्यात् तत्राधिकपदं मतम् ॥ विप्रुद्_५।५३ ॥
यथा—
विमुक्ता वल्लभैरेता वनान्ते घूर्जरस्त्रियः ।
सुधांशुमण्डलाकाररूपक्रमविपाण्डुराः ॥ विप्रुद्_५।५४ ॥
अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् ।
[व्।३।१९-भग्नप्रक्रमम्]
अथ भग्नप्रक्रमम् ।
प्रक्रान्तनियमत्यागे भग्नक्रममिहोच्यते ॥ विप्रुद्_५।५५ ॥
यथा—
गुहा गृहाणि शबरा बान्धवा विन्ध्यभूः पुरी ।
सरितो दीर्घिकाः कष्टमाक्रीडाः काननानि नः ॥ विप्रुद्_५।५६ ॥
अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् ।
व्।४ ॥
अथार्थदोषाः ॥
अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
भिन्नं चैवातिमात्रं च परुषं विरसं तथा ॥ विप्रुद्_५।५७ ॥
हीनाधिकोपमे स्यातामसदृक्षोपमं तथा ।
अप्रसिद्धोपमं हेतुशून्यं च निरलङ्कृति ॥ विप्रुद्_५।५८ ॥
अश्लीलं च विरुद्धं च तथा सहचरच्युतम् ।
एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः ॥ विप्रुद्_५।५९ ॥
एषां स्वरूपमुदाहरणं च ।
[व्।४।१-अपार्थम्]
समुदायार्थशून्यं यदपार्थं तत् प्रकीर्त्यते ।
यथा—
कुतः शुष्यदपा नद्यः का वार्ता चोलमण्डले ।
फणाः सहस्रं शेषस्य भारः कति कुलाचलाः ॥ विप्रुद्_५।६० ॥
अत्र न कश्चिद्वाक्यार्थः प्रतीयते ।
[व्।४।२व्यर्थम्]
अथ व्यर्थम् ।
यत् प्रयोजनशून्यं स्यात् तद् व्यर्थं परिकीर्त्यते ॥ विप्रुद्_५।६१ ॥
यथा—
निर्मलं कुलमुद्वेलं शौर्यं वः प्रथितं यशः ।
किमित्यन्ध्रपतेः पादपीठं पाण्ड्यैर्न सेव्यते ॥ विप्रुद्_५।६२ ॥
अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते ।
[व्।४।३-एकार्थम्]
अथैकार्थम् ।
उक्ताभिन्नार्थकं यत् स्यादेकार्थं तन्निगद्यते ।
यथा—
विशीर्णं शतधा चेतो मूर्च्छितान् वीक्ष्य बालकान् ।
शिशून् निश्चेतनान् दृष्ट्वा खण्डितं शतशो मनः ॥ विप्रुद्_५।६३ ॥
अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् ।
[व्।४।४-ससंशयम्]
अथ ससंशयम् ।
वाक्यार्थसंशयो यत्र तत् ससंशयमिष्यते ॥ विप्रुद्_५।६४ ॥
यथा—
करिकुम्भौ स्तनावद्य जयतां क्षामतां गतौ ।
लता वपुः श्रियः स्त्रीणां हसन्तु म्लानतां गताः ॥ विप्रुद्_५।६५ ॥
अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः ।
[व्।४।५-अपक्मम्]
अथापक्रमम् ।
यत्र पूर्वापरीभावविहतिस्तदपक्रमम् ।
यथा—
हन्त व्यादाय वक्त्राणि निद्रान्त्यन्तर्वणं स्त्रियः ।
तृणैस्तत्पतितैरस्मान् शिक्षयन्त्यस्तथाक्रमम् ॥ विप्रुद्_५।६६ ॥
अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् ।
[व्।४।६-भिन्नम्]
अथ भिन्नम् ।
सम्बन्धवर्जितं यत् स्यात् तद्भिन्नं परिकीर्त्यते ॥ विप्रुद्_५।६७ ॥
यथा—
नूनं फालेषु लाटानां न धात्रा लिखिता लिपिः ।
यदस्माकं कुटुम्बानि विषीदन्ति मरुस्थले ॥ विप्रुद्_५।६८ ॥
अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न सम्बन्धः ।
[व्।४।७-अतिमात्रम्]
अथातिमात्रम् ।
यत् सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते ।
यथा—
मा भूदेकार्णवं विश्वमिति सङ्कोचिताश्रुभिः ।
अरण्ये लाटनारीभिरसङ्ख्या निम्नगाः कृताः ॥ विप्रुद्_५।६९ ॥
अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः ।
[व्।४।८-पुरुषम्]
अथ परुषम् ।
अतिक्रूरार्थसहितं परुषं परिकीर्त्यते ॥ विप्रुद्_५।७० ॥
यथा—
दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे ॥ विप्रुद्_५।७१ ॥
अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः ।
[व्।४।९-विरसम्]
अथ विरसम् ।
अप्रस्तुतरसं यत् तद्विरसं परिकीर्त्यते ।
यथा—
चन्द्राननाः कटाक्षैर्नः पश्यतामृतवर्षिभिः ।
शोचित्वालमिति क्लिष्टाः किरातैश्चोलसुभ्रुवः ॥ विप्रुद्_५।७२ ॥
अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः सम्भोगप्रार्थनं विरसम् ।
[व्।४।१०-हिनोपमम्]
अथ हीनोपमम् ।
हीनं यत्रोपमानं स्यात् तद्धि हीनोपमं मतम् ॥ विप्रुद्_५।७३ ॥
यथा—
शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः ।
क्व गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ विप्रुद्_५।७४ ॥
अत्र शुनकैरिव भवद्भिरिति हीनोपमम् ।
[व्।४।११-अधिकोपमम्]
अथाधिकोपमम् ।
यत्रोपमानमधिकं तद् भवेदधिकोपमम् ।
यथा—
अमी पारेसरस्तीरं बका निश्चलमूर्तयः ।
महर्षय इवास्माभिरद्य सोपद्रवाः कृताः ॥ विप्रुद्_५।७५ ॥
अत्र बका महर्षय इवेत्यधिकोपमम् ।
[व्।४।१२-असदृशोपमम्]
अथासदृशोपमम् ।
यदतुल्योपमानं तद् भवेदसदृशोपमम् ॥ विप्रुद्_५।७६ ॥
यथा—
एष विन्ध्याचलः सान्द्रकुञ्जोच्चलितनिर्झरः ।
फालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ॥ विप्रुद्_५।७७ ॥
अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् ।
[व्।४।१३-अप्रसिध्दोपमम्]
अथाप्रसिद्धोपमम् ।
अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् ।
यथा—
बाष्पाम्बुक्लिन्ननेत्राणि मुखान्यङ्गमृगीदृशाम् ।
हिमदूषितपत्राणि कुमुदानीव निर्मुदाम् ॥ विप्रुद्_५।७८ ॥
अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि ।
[व्।४।१४-हेतुषून्यम्]
अथ हेतुशून्यम् ।
हेतोर्विनार्थकथनं हेतुशून्यं प्रचक्षते ॥ विप्रुद्_५।७९ ॥
यथा—
मुधानुधावनं जातं मार्गे ऽस्मिन् मौक्तिकाङ्किते ।
अन्वेष्टुमन्यतो यामि पदवीयं न सुभ्रुवः ॥ विप्रुद्_५।८० ॥
अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः ।
[व्।४।१५-निरलङ्कृति]
अथ निरलङ्कृति ।
अलङ्कारेण रहितं निरलङ्कारमुच्यते ।
यथा—
आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः ।
महोक्षेर्लम्बमानाण्डैर्विष्वग् व्याकुलितं वनम् ॥ विप्रुद्_५।८१ ॥
[व्।४।१६-अश्लीलम्]
अत्र न कश्चिदलङ्कारः ।
श्लाध्यविशेषणाभावात् न स्वाभावोक्तिः ।
अथाश्लीलम् ।
अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते ॥ विप्रुद्_५।८२ ॥
अस्यापि पूर्वमेवोदाहरणम् ।
[व्।४।१७-विरुध्दम्]
अथ विरुद्धम् ।
विरुद्धं देशकालादिविरुद्धं बहुधोच्यते ।
यथा–
दिश्युत्तरस्यां नेदीयानुद्वेलो लवणार्णवः ।
मरुदेशे ऽपि गङ्गा नः पिपासां शामयिष्यति ॥ विप्रुद्_५।८३ ॥
अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः ।
मरौ गङ्गेति देशविरोधः ।
अरण्यमहिषोदग्रविषाणोदरजन्मनाम् ।
महत्यर्घे ऽपि मुक्तानां स्त्रियो मुक्ताविभूषणाः ॥ विप्रुद्_५।८४ ॥
अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः ।
एवं विरुद्धान्तरमप्युदाहार्यम् ।
[व्।४।१८-सहचरभ्रष्चम्]
अथ सहचरभ्रष्टम् ।
मतं सहचरभ्रष्टमतुल्यानां निबन्धने ॥ विप्रुद्_५।८५ ॥
यथा—
शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः ।
श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः ॥ विप्रुद्_५।८६ ॥
अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात् सहचरभ्रष्टम् ।
एवं दोषान्तराणि यथासम्भवमूह्यानि ।
रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कारशास्त्रे
दोषप्रकरणं समाप्तम् ।
वि।
॥ अथ गुणप्रकरणम् ॥
अथ गुणा निरूप्यन्ते ।
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ॥ विप्रुद्_६।१ ॥
ओजः सुशब्दता प्रेयानौर्जित्यमथ विस्तरः ।
समाधिः सौक्ष्म्यगाम्भीर्ये सङ्क्षेपो भाविकं तथा ॥ विप्रुद्_६।२ ॥
सम्मितत्वं तथा प्रौढी रीतिरुक्तिर्गतिस्तथा ।
चतुर्विंशतिरेते स्युर्गुणाः काव्यप्रकाशकाः ॥ विप्रुद्_६।३ ॥
[वि।१-गुणानामुदेशः]
एषां मध्ये केषाञ्चिद् दोषपरिहारकत्वेन गुणत्वम् । केषाञ्चित् स्वत एवोत्कर्षहेतुत्वाद् गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसम्मतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन सम्मताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं सम्मतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय सम्मितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसन्धिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान् मतः । एवं यथासम्भवं केषाञ्चिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च ।
[वि।२-श्लेवः]
मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते ।
बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् ।
यथा—
श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर-
न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् ।
विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत-
व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥ विप्रुद्_६।४ ॥
अत्र पाठसमये पदानामेकवदवभासमानत्वात् श्लेषः ।
[वि।३-प्रसादः]
अथ प्रसादः ।
प्रसिद्धार्थपदत्वं यत् स प्रसादो निगद्यते ॥ विप्रुद्_६।५ ॥
यथा—
प्रतापरुद्रदेवो ऽयं भाति लक्ष्मीपतिः स्वयम् ।
येनाम्य लोचने फुल्लपुण्डरीकमनोहरे ॥ विप्रुद्_६।६ ॥
अत्र झटित्यर्थसमर्पकपदत्वात् प्रसादः ।
[वि।४-समता]
अथ समता ।
अवैषम्येण भणनं समता सा निगद्यते ।
यथा—
वदान्यतरुमञ्जरीसुरभ्यः श्रवः पारणं
गुणा विदधते सतां जगति वीररुद्रप्रभोः ।
सुधामधुरिमाधरीकरणचातुरीचुञ्चवो
वियच्चरतरङ्गिणीविहरदूर्मिमर्मस्पृशः ॥ विप्रुद्_६।७ ॥
अत्र पादचतुष्ट्ये ऽपि तुल्यवद्भणनात् समत्वम् ।
[वि।५-माधुर्यम्]
अथ माधुर्यम् ।
या पृथक्पदता वाक्ये तन्माधुर्यं प्रकीर्त्यते ॥ विप्रुद्_६।८ ॥
यथा—
यशः श्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः ।
उरोजयोर्मौक्तिकहारविभ्रमाः शिरस्सु जातीकुसुमस्रगुज्ज्वलाः ॥ विप्रुद्_६।९ ॥
अत्र वाक्ये पाठसमये ऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् ।
[वि।६-सुकुमारत्वम्]
अथ सुकुमारत्वम् ।
सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते ।
सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् ।
यथा—
अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः ।
नगरे काकतीन्द्रस्य दिवाप्याभाति चन्द्रिका ॥ विप्रुद्_६।१० ॥
[वि।७-अर्थव्यक्तिः]
अथार्थव्यक्तिः ।
यत्तु सम्पूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ॥ विप्रुद्_६।११ ॥
यथा—
भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता
जातः खेलति वीररुद्रनृपतिर्निः सीमशौर्योदयः ।
यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरेर्-
यत् साक्षादवतीर्य काकतिकुले स्वैरं समुज्जृम्भते ॥ विप्रुद्_६।१२ ॥
अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः ।
[वि।८-कान्तिः]
अथ कान्तिः—
अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ।
यथा—
जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका
गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥ विप्रुद्_६।१३ ॥
[वि।९-औदार्यम्]
अथौदार्यम् ।
विकटाक्षरबन्धत्वमार्यैरौदार्यमिष्यते ॥ विप्रुद्_६।१४ ॥
यथा—
जग्ध्वा भूयांसि मांसान्यहमहमिकया बद्धागार्ध्यान् सपीत्या-
मस्रस्योच्चैस्तरास्थ्युत्कषणभवकटत्काररौद्राग्रदंष्ट्रान् ।
सम्बिभ्राणाः क्षपाटान् द्विपगलितवसानिर्झरान्तर्नदीष्णान्
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतामन्ध्रसैन्येन सृष्टाः ॥ विप्रुद्_६।१५ ॥
[वि।१०-उदात्तता]
अथोदात्तता ।
श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ।
यथा—
बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुला ।
सङ्क्रीडत्स्यन्दना क्ष्वेडभटा रुद्रविभोश्चमूः ॥ विप्रुद्_६।१६ ॥
[वि।११-औजः]
अथौजः ।
ओजः समासभूयस्त्वम् ॥ विप्रुद्_६।१७ ॥
यथा—
उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद्-
भृङ्गश्रेणिनिबद्धझङ्कृतिकलावाचालितप्राङ्गणाः ।
निः सीमप्रथमानभूमविभवारम्भप्रियम्भावुका
मोदन्ते भुवि वीररुद्रनृपतेर्विद्वद्गृहश्रेणयः ॥ विप्रुद्_६।१८ ॥
[वि।१२-सुशब्दाता]
अथ सुशब्दता ।
सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते ।
यथा—
आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै
रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः ।
दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यम्भविष्णुर्गुणैर्-
भूम्ना सञ्चरते ऽद्य काकतिकुले रुद्रावतारो हरिः ॥ विप्रुद्_६।१९ ॥
[वि।१३-प्रेयः]
अथ प्रेयः ।
प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ॥ विप्रुद्_६।२० ॥
यथा—
दाक्षिण्यं त्वयि, दक्षता त्वयि, दया त्वय्युन्नतत्वं त्वयि
प्रागल्भ्यं त्वयि, पौरुषं त्वयि, कलासम्पत्त्वयि, श्रीस्त्वयि ।
औदार्यं त्वयि, धीरता त्वयि, जगद्धौरेयता च त्वयि
श्रीमत्काकतिनाथ ! पालय भुवं वैरिञ्चकल्पान् शतम् ॥ विप्रुद्_६।२१ ॥
[वि।१४-और्जित्यम्]
अथैर्जित्यम् ।
और्जित्वं गाढबन्धत्वम् ।
यथा—
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्-
गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ विप्रुद्_६।२२ ॥
इक्ष्ज्।१५समाधिः]
अथ समाधिः ।
समाधिरन्यधर्माणां यदन्यत्राधिरोपणम् ॥ विप्रुद्_६।२३ ॥
यथा—
पृच्छन्ती दुग्धसिन्धुं कुशलमनुसरन्त्यादराच्छङ्कराद्रिं
चाटूक्त्या मानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
लोकेषु त्रिष्वमीषु प्रभवति महती वीररुद्रस्य कीर्त्तिः ॥ विप्रुद्_६।२४ ॥
[वि।१६-विस्तरः]
अथ विस्तरः ।
समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः ।
यथा—
लोकेषु त्रिषु काकतीश्वरगुणान् स्तोतुं मुहुर्वीक्षितुं
श्रोतुं बह्वभिनन्दितुं च फणिनामेकः क्षमो नायकः ।
यद्वक्त्राणि सहस्रमस्य कृतिनो यद् द्वे सहस्रे दृश-
स्ता एव श्रुतयः फणा दशशतान्यत्यद्भुतान्दोलने ॥ विप्रुद्_६।२५ ॥
[वि।१७-सम्मितत्वम्]
अथ सम्मितत्वम् ।
यावदर्थपदत्वं तु सम्मितत्वमुदाहृतम् ॥ विप्रुद्_६।२६ ॥
यथा—-
काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ विप्रुद्_६।२७ ॥
[वि।१८-गाम्भीर्यम्]
अथ गाम्भीर्यम् ।
ध्वनिमत्ता तु गाम्भीर्यम् ।
यथा—
विषं कौक्षेयके गङ्गा कीर्त्तौ दिग्वसनं रिपौ ।
इन्दुर्मुखे च रुद्रस्य काकतीयस्य दृश्यते ॥ विप्रुद्_६।२८ ॥
अत्र शङ्करस्य कण्ठे विषम्, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रम्, शिरसि चन्द्र इति ध्वन्यते ।
[वि।१९-सङ्क्षेपः]
अथ सङ्क्षेपः ।
सङ्क्षिप्तार्थाभिधानं यत् तत् सङ्क्षेपः प्रकीर्त्यते ॥ विप्रुद्_६।२९ ॥
यथा—
वंशो ऽस्ति काकतीयानां तत्रासन् बहवो नृपाः ।
तेषां भाग्यविवर्तो ऽयं वीररुद्रो नरेश्वरः ॥ विप्रुद्_६।३० ॥
अत्रातिविस्तरकथनयोग्यार्थस्य सङ्क्षेपोक्तेः सङ्क्षेपः ।
[वि।२०-सौक्ष्म्यम्]
अथ सौक्ष्म्यम् ।
अन्तः सञ्जल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।
यथा—
अध्यधः परिसंश्लिष्टाः ष्ठाकृञ्भूधातवः सदा ।
वर्तन्ते काकतीयेन्द्रे कर्तर्यन्यत्र कर्मणि ॥ विप्रुद्_६।३१ ॥
अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः सञ्जल्परूपत्वात् सौक्ष्म्यं भवति ।
[वि।२१-प्रौढः]
अथ प्रौढिः ।
प्रौढिरुक्तेः परीपाक इति काव्यविदो विदुः ॥ विप्रुद्_६।३२ ॥
यथा—
वीप्सा पद्मभवस्य चन्द्रमुकुटस्यावृत्तिराम्रेडितं
दैत्यारेः प्रतिबिम्बनं सुरगिरेरिन्दोः समुत्तेजनम् ।
कर्णादेः पुनरुद्भवः सुरतरोः सर्वस्वमाविष्क्रिया
स्वर्धेनोरिति तर्कयन्ति कवयः श्रीवीररुद्रप्रभुम् ॥ विप्रुद्_६।३३ ॥
[वि।२२।-उक्तिः]
अथोक्तिः ।
विदग्धभणितिर्या
स्यादुक्तिं तां कवयो विदुः ।
यथा—
दिट्ठा कमलासत्ती रण्णो तुह सुहअ चित्तचरिअत्स ।
भासन्तो वि तुमं तं कुवलअलच्छिं पसाहेसि ॥ विप्रुद्_६।३४ ॥
(।दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य ।
भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥)
[वि।२३-रीतिः]
अथ रीतिः ।
यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते ॥ विप्रुद्_६।३५ ॥
यथा—
षड् गुणान् सेवते राजा षड् रिपूनवमन्यते ।
षड् दर्शनान्युपादत्ते षड् बलानि च वीक्षते ॥ विप्रुद्_६।३६ ॥
[वि।२४-भाविकम्]
अथ भाविकम् ।
भवतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ॥ विप्रुद्_६।३७ ॥
यथा—
स्वामिंस्तात कुलोत्तम्स वीररुद्र जगत्प्रभो ।
पुत्रिणां धुरमेषो ऽहं पुत्रेणारोपितस्त्वया ॥ विप्रुद्_६।३८ ॥
अत्र प्रेमरूपभाववशात् स्वमिंस्तातेति वाक्यवृत्तिः ।
[वि।२५-गतिः]
अथ गतिः ।
गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥ विप्रुद्_६।३९ ॥
यथा—
प्रकाश्ये त्रैलोक्ये सततमतुलैः काकतिविभोर्-
महोभिर्निः सीमैर्दिनकरकराटोपपटुभिः ।
तमः कृत्स्नं शोकज्वलदनलरोचिः परिचयं
दधत्स्वप्युद्वेलत्यरिनृपमनस्स्वेव सततम् ॥ विप्रुद्_६।४० ॥
अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात् स्वरस्यारोहः । उत्तरार्धे ऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन सङ्घटनाश्रयत्वमेव गुणानाम् । तदुक्तमलङ्कारसर्वस्वे—“सङ्घटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालङ्काराणां व्यवस्थानम्ऽ; इति । अनयैव भङ्ग्या गुणालङ्काराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालङ्कारस्वरूपत्वम् । तदुक्तं रुद्ऽरभट्टेनऽ—
“यो हेतुः काव्यशोभायाः सो ऽलङ्कारः प्रकीर्त्यते ।
गुणो ऽपि तादृशो ज्ञेयो दोषः स्यात् तद्विपर्ययः ॥ ऽ; इति ।
अतो गुणानां सङ्घटनाश्रयत्वमेव युक्तम् ।
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कारशास्त्रे
गुणप्रकरणं समाप्तम् ।
विइ।
॥ अथ शब्दालङ्कारप्रकरणम् ॥
अलङ्कारस्वरूपनिरूपणम् ।
अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते ।
अलङ्क्रियते ऽनेनेति चारुत्वहेतुरलङ्कारः ।
तथा चोक्तं ऽकाव्यप्रकाशेऽ—
“उपस्कुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण संश्रिताः ।
हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयः ॥
ऽ; इति ।
यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलङ्कारतया प्रसिद्धैरवयव्येवालङ्क्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलङ्कारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते ।
आश्रयाश्रयिभावेनालङ्कार्यालङ्कारभावो लोकवत् काव्ये ऽपि सम्मतः ।
चारुत्वहेतुत्वे ऽपि गुणानामलङ्काराणां चाश्रयभेदाद्भेदव्यपदेशः ।
सङ्घटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलङ्काराः ।
तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलङ्कारवर्गस्य ।
अर्थालङ्काराणां चातुर्विध्यम्; केचित् प्रतीयमानवस्तवः ; केचित् प्रतीयमानौपम्याः केचित् प्रतीयमानरसभावादयः; केचिदस्फुटप्रतीयमाना इति ।
समासोक्तिपर्यायोक्त्याऽक्षेपव्याजस्तुत्युपमेयोपमानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति ।
रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते ।
रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसन्धिभावशबलतासु रसभावादिर्व्यज्यते ।
उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासङ्ख्यार्थापत्तिपर्यायपरिवृत्तिपरिसङ्ख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रती
पविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति ।
॥ अत्रेत्थमलङ्कारकक्ष्याविभागः ॥
साधर्म्यं त्रिविधम्—भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति ।
उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् ।
रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् ।
दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः ।
उपमानन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता ।
उत्प्रेक्षातिशयोक्ती अध्यवसायमूले ।
विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता ।
यथासङ्ख्यपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता ।
परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः ।
काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता ।
कारणमालैकावलीमालादीपकसाराः शृङ्ग्लावैचित्र्यमूलाः ।
व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि ।
समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ ।
॥ अथालङ्काराणां परस्परवैलक्षण्य निरूप्यते ॥
आरोपगर्भत्वे ऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः ।
आरोपविषयस्यारोप्यमाणरूपसम्भवासम्भवाभ्यामुल्लेखरूपकयोर्भेदः ।
आरोपविषयस्य सन्देहभ्रान्त् यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः ।
साधर्म्यमूलत्वे ऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयोपमा भिद्यन्ते ।
साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः ।
वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः ।
प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः ॥
उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः ।
अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः ।
उपमानोपमेययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः ।
उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः ।
अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः ।
वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वे ऽप्रस्तुतप्रशंसा ।
व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः ।
साधारणगुणयोगाद् भेदानुपलब्धौ सामान्यम् ।
उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् ।
अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालङ्कारस्य परिसङ्ख्यातो भेदः ।
काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः ।
अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः ।
निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः ।
अन्येषां भेदः स्पष्ट एव ।
यद्यपि व्याजोक्तिमीलसामान्येषु कथञ्चित् सादृश्यमस्ति ; तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना ।
शब्दालङ्कारा निरूप्यन्ते ।
अथालङ्कारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात् प्रथमं शब्दालङ्कारा निरूप्यन्ते ।
[विइ।१-छेकानुप्रासः]:
छेकानुप्रासः
भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र स बुधैश्छेकानुप्रास इष्यते ॥ विप्रुद्_७।१ ॥
यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः ।
यथा—
महीमहीनविभवे धत्ते क्षेमङ्करे करे ।
राजन्यजन्यविजयी राजा राजद्गुणोदयः ॥ विप्रुद्_७।२ ॥
[विइ।२-वृत्यानुप्रासः]
वृत्त्यनुप्रासः ।
एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत् ।
पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते ॥ विप्रुद्_७।३ ॥
यथा—
रे रे क्षुद्रमहीक्षितः ! क्षणमितः श्रीकाकतिक्ष्मापतेर्- वीक्षध्वं ध्वजिनीं दुरीक्षसुभटां प्रोत्क्षिप्तकौक्षेयकैः ।
योत्स्यध्वे यदि लभ्यमक्षयपदं कान्तारपक्षो वृथा क्ष्माभृत्कुक्षिचरत्तरक्षुनिकरात् तत्रात्मरक्षा कुतः ॥ विप्रुद्_७।४ ॥
[विइ।३-यमकम्]
यमकम् ।
यमकं पौनरुक्त्ये तु स्वरव्यञ्जनयुग्मयोः ॥ विप्रुद्_७।५ ॥
छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् ।
यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः ।
तस्यादिमध्यान्तगतत्वेन बहवो भेदाः ।
अत्र दिङ्मात्रमुदाह्रियते ।
प्रतापः काकतीन्द्रस्य महामहिमतेजसः ।
श्रियं दधाति पद्मेष्टमहामहिमतेजसः ॥ विप्रुद्_७।६ ॥
यत्रार्थः प्रमुखे किञ्चित् भासते पुनरुक्तवत् ।
पुनरुक्तवदाभासो ऽलङ्कारः स सतां मतः ॥ विप्रुद्_७।७ ॥
[विइ।४-पुनरीक्तवदाभासः]
यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासो ऽलङ्कारः ।
अर्थालङ्कारत्वे ऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालङ्कारप्रस्तावे लक्षणं कृतम् ।
यथा—
जिष्णुरिन्द्रः क्षितिभुजां श्रीपतिः पुरुषोत्तमः ।
भास्वान् सूर्यस्फुरत्तेजाः काकतीन्द्रो विराजते ॥ विप्रुद्_७।८ ॥
अथोभयपौनरुक्त्यालङ्कारः कथ्यते ।
[विइ।५-लराटानुप्रासः]
लाटानुप्रासः ।
शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् ।
स काव्यतात्पर्यविदां लाटानुप्रास इष्यते ॥ विप्रुद्_७।९ ॥
यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः ।
यथा—
गुणा गुणास्ते गण्यन्ते ये रुद्रनृपमाश्रिताः ।
नीतिर्नीतिरसौ तस्य लक्ष्मीर्लङ्क्ष्मीश्च कथ्यते ॥ विप्रुद्_७।१० ॥
[विइ।६-पद्मबन्धादिः]
चित्रालङ्कारः पद्मबन्धादिः ।
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
आदिग्रहणाच्चक्रबन्धादयः ।
तत्राष्टदलपद्मबन्धो यथा—
याता यस्यासमग्रानतिमिह कनकास्थानसक्तासनाया
यानासक्तासनस्था सुखयतु कमलाभ्याससुज्ञानमाया ।
या मानज्ञा सुसभ्या क्षितिपतितिलकं ज्ञातिरक्ता सगेया
यागे सक्ता रतिज्ञा सुकृतिषु फलितग्रामसस्यायताया ॥ विप्रुद्_७।११ ॥
[विइ।७-चक्रबन्धः]
चक्रबन्धो यथा—
लक्ष्मीवीक्षितवैभवस्य जगतां नाथस्य भद्रश्रियो
दिक्ष्वारब्धनिजप्रतापजनितां भाकृद्धुरां यच्छतः ।
नित्यं रुद्रजनाधिपस्य जयिनो भाति प्रिकाशं स्थिरा
राजत्पालनमोदितात्मनि भुजे योग्याश्रितत्वाद् धरा ॥ विप्रुद्_७।१२ ॥
अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते ।
[विइ।८-नागबन्धः]
नागबन्धो यथा—
ओजस्ये रुद्रदेवे विभवति महिमत्याजितान्यप्रतापे
विद्यावर्ये ऽभिनेतर्युरुहरिचरितं विश्वविस्तारभाजि ।
वैरिव्राता भजन्ते वनमतिमलिनख्यातयो देवविद्धा
वन्यैरध्वन्यवारि क्षतिमति विविधे जन्तुभिः स्थानभाजः ॥ विप्रुद्_७।१३ ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कारशास्त्रे
शब्दालङ्कारप्रकरणं समाप्तम् ।
विइइ। ॥ अथ अर्थालङ्काराः ॥
तत्र प्रथममनेकालङ्कारबीजभूतत्वादुपमा निरूप्यते ।
[विइइ।१।उपमाविभागः]
स्वतः सिद्धेन भिन्नेन सम्मतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ विप्रुद्_८।१ ॥
यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसम्मतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद् भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसम्भवात् ।
यथा—
कीर्त्तिः काकतिवीरुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भुमीभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
रैलोक्याट्टहासप्रभवे ककुभां प्रान्तेषु विद्योतते ॥ विप्रुद्_८।२ ॥
अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसम्भवात् । तथा हि—
सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रो ऽयं वीररुद्र इव स्वयम् ॥ विप्रुद्_८।३ ॥
सम्मतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा—
उदन्वानिव गम्भीरः सुवर्णाद्रिरिवोन्नतः ।
दिङ्महेभ इव क्षोणीधौरेयः काकतीश्वरः ॥ विप्रुद्_८।४ ॥
अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालङ्कारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि —
नीराजयन्त्यध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ विप्रुद्_८।५ ॥
अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् ।
गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालङ्कारो व्यावर्त्यते । तथा हि—
लोको ऽयमविशेषज्ञः किं कुर्मः कस्य कथ्यते ।
यत् काकतिनरेन्द्रेण सुमेरुरुपमीयते ॥ विप्रुद्_८।६ ॥
अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालङ्कारो नोपमा ।
एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् ।
धर्मो ऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ विप्रुद्_८।७ ॥
अत्र धर्मो ऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसन्देहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि—
प्रतापरुद्रनृपतेर्मण्डलाग्रविधुन्तुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ विप्रुद्_८।८ ॥
अत्र मण्डलाग्रविधुन्तुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ; किं तु रूपकालङ्कारः ।
[विइइ।२-रीपकालरङ्कारः]
किमेष नवमो हरित्पतिरमन्दसम्पत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेष हरिरुर्वरोद्धरणचुञ्चुरेकादशश्
चिरादिति वितर्क्यते जगति काकतीन्द्रो जनैः ॥ विप्रुद्_८।९ ॥
अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः सन्देहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते; ततः सन्देहालङ्कारः ।
काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि ।
दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ विप्रुद्_८।१० ॥
अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न सम्भवतीति सादृश्याक्षेपात् भ्रान्तिमदलङ्कारः ।
[विइइ।३-भ्रान्तिमदलङ्कारः]
लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ विप्रुद्_८।११ ॥
अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न सम्भवतीति सादृश्यकल्पनादुल्लेखालङ्कारः ।
वीररुद्रस्य भूपालजयहोमं वितन्वतः ।
धूमरजिरियं भाति न चमूरेणुरुत्थिता ॥ विप्रुद्_८।१२ ॥
अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा ।
सा प्रथमं द्विधा - पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधा—श्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां
सदृशसङ्काशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं
पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । “तेन तुल्यं क्रिया चेद् वतिःऽ; इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । “तत्र तस्येवऽ; इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा—
उद्दामोद्यतविक्रमे कृतयुगे बाहौ ययातेर्यथा
त्रेतायां रघुनायकस्य महितख्यातौ भुजायां यथा ।
दोर्दण्डे च युधिष्ठिरस्य विलसच्छौर्ये यथा द्वापरे
विस्रब्धाद्य कलौ तथैव रमते क्षोण्यन्ध्रभर्तुर्भुजे ॥ विप्रुद्_८।१३ ॥
समासगा पूर्णा श्रौती यथा—
भास्वानिवोद्यन्नुदयाद्रिलम्बी भद्रासनस्थो वरवीररुद्रः ।
उत्पश्यतामन्ध्रपुरीजनानां नेत्राब्जजाड्यं शमयत्यशेषम् ॥ विप्रुद्_८।१४ ॥
अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा—
कूर्मवच्छेषवद् गोत्रगिरिवद्दिङ्महेभवत् ।
भुजे प्रतापरुद्रस्य धुरीणे भाति मेदिनी ॥ विप्रुद्_८।१५ ॥
वाक्यगा पूर्णार्ऽऽथी यथा—
तैस्तैर्महीपालनसंविधानैस्तैस्तैः प्रजारञ्जनवैभवैश्च ।
विराजते सम्प्रति काकतीयलक्ष्मीपतिर्दाशरथेः समानः ॥ विप्रुद्_८।१६ ॥
समासगा पूर्णार्थी यथा—
तादृक्पालनसामर्थ्यसम्पदा काकतीश्वरः ।
हरिदीश्वरसङ्काशः शास्ति मध्यमविष्टपम् ॥ विप्रुद्_८।१७ ॥
तद्धितगा पूर्णार्थी यथा—
हेमाचलवदौन्नत्ये गाम्भीर्ये क्षीरसिन्धुवत् ।
प्रतापे भानुवद् भाति वीररुद्रनरेश्वरः ॥ विप्रुद्_८।१८ ॥
एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् ।
अथ लुप्तोपमाया उदाहरणानि ।
अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा—
यथा रुचां स्वामिनि चक्रवाक्यो यथा च नीहाररुचौ चकोर्यः ।
यथा प्रसूनस्तबके भ्रमर्यस्तथा प्रजाः काकतिवीररुद्रे ॥ विप्रुद्_८।१९ ॥
अनुक्तधर्मा समासगा श्रौती लुप्ता यथा—
प्रतापरुद्रदेवस्य पादपीठीमनारतम् ।
आराधयन्ति भूपालाः प्रणता देवतामिव ॥ विप्रुद्_८।२० ॥
अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा—
काकतिक्ष्मापतेर्जैत्रप्रस्थानपटहध्वनिम् ।
तुल्यं दम्भोलिनिर्घोषैः शृण्वन्त्यरिमहीभृतः ॥ विप्रुद्_८।२१ ॥
अनुक्तधर्मा समासगा आर्थी लुप्ता यथा—
शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य ।
नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः ॥ विप्रुद्_८।२२ ॥
अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा—
प्रतापरुद्रनृपतेर्जगन्महिततेजसः ।
कन्दर्पकल्पमाकारं पश्यन्त्यन्ध्रपुरन्ध्रयः ॥ विप्रुद्_८।२३ ॥
एषूदाहरणेषु धर्मस्यानुपादानम् ।
अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा—
दुग्धार्णवीयत्वम्भोधीन् कैलासीयति भूधरान् ।
प्रतापरुद्रदेवस्य यशोवैशद्यवैभवम् ॥ विप्रुद्_८।२४ ॥
अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा—
क्रीडाद्रीयति गोत्रशैलशिखरेष्वास्थानसद्मीयति
द्वीपेष्वब्धिषु दीर्घिकीयति हरित्स्वेकान्तगेहीयति ।
उद्यानीयति सीमपर्वततटारण्ये सुपर्वाचले
प्रासादीयति वीररुद्रनृपतेः स्फारः प्रतापोदयः ॥ विप्रुद्_८।२५ ॥
अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा—
पश्यन्त्यात्मजदर्शमिन्दुममरस्रोतस्विनीं सत्सवी-
दर्शं क्षीरपयोनिधिं प्रियसुहृद्दर्शं गिरिं राजतम् ।
लीलादर्पणदर्शमन्यदमलं तारादि हारावली-
दर्शं खेलति वीररुद्रनृपतेः कीर्त्तिर्जगद्व्यापिनी ॥ विप्रुद्_८।२६ ॥
अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा—
नृपेषु शिक्षाविधिदण्डचारं कान्तासु पुष्पायुधधन्वचारम् ।
प्रजासु चालम्बनयष्टिचारं चरत्ययं रुद्रनरेन्द्रखड्गः ॥ विप्रुद्_८।२७ ॥
अनुक्तधर्मेवादिः क्विपा लुप्ता यथा—
सुधाप्रवाहति सतामसतां कालकूटति ।
वीररुद्रनरेन्द्रस्य गुणज्योत्स्नाविजृम्भितम् ॥ विप्रुद्_८।२८ ॥
एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्याधारक्यचि क्रीडाद्रीष्विव वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दो ऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा—
ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः ।
प्रतापरुद्रनृपतेः शुभ्राः कीर्त्तेर्महोर्मयः ॥ विप्रुद्_८।२९ ॥
अत्र कीर्त्तीनां स्वरूपमुपमेयम् ।
अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा—
शेषायते महीं वोढुं कल्पशाखायते ऽर्थिनाम् ।
प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ विप्रुद्_८।३० ॥
अनुक्तोपमाना वाक्यगा लुप्ता यथा—
वदान्यो नान्यो ऽस्ति त्रिजगति समो रुद्रनृपतेर्-
गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः
क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ विप्रुद्_८।३१ ॥
अनुक्तोपमाना समासगा लुप्ता यथा—
वीररुद्रसमो राजा नास्ति नास्त्येव भूतले ।
यस्य धर्मानुबन्धेन कलिः कृतयुगीकृतः ॥ विप्रुद्_८।३२ ॥
अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा—
लोके काकतिवीररुद्रनृपतेरुद्दामभूमश्रियः
कीर्त्त्या कार्त्तिककौमुदीधवलया तुल्यं न किञ्चित् क्वचित् ।
यन्माधुर्यविजृम्भितक्षतविषां ग्रीवां विलोक्याधुना
कण्ठालिङ्गनमीशितुर्वितनुते नीरन्ध्रमद्रेः सुता ॥ विप्रुद्_८।३३ ॥
अनुक्तधर्मोपमाना समासगा लुप्ता यथा—
प्रतापश्रीतुल्यं क्वचिदपि न भूतं न च भवेत्
न भावि त्रैलोक्ये किमपि जयिनः काकतिविभोः ।
यथा लोकालोकक्षितिधरतटेष्वर्कदृषदः
प्रकाशन्ते नक्तन्दिवमुदितरोचिः परिचयाः ॥ विप्रुद्_८।३४ ॥
पूर्वोदाहरणद्वये वदान्यो नान्यो ऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालङ्कारशङ्का । उपमानस्याक्षेपाभावात् ; उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालङ्कारः । अनुक्तेवादिः समासगा लुप्ता यथा—
असतामुष्णभानूष्णं सतां शीतांशुशीतलम् ।
प्रतापरुद्रदेवस्य चरितं विश्वमङ्गऌअम् ॥ विप्रुद्_८।३५ ॥
अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा—
काकतीन्द्रो रणे भाति भीमसेनपराक्रमः ।
किन्त्वदुः शासनाः सर्वे यस्य प्रत्यर्थिपार्थिवाः ॥ विप्रुद्_८।३६ ॥
अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः ।
अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा—
नृपाः प्रणतमूर्धानः सेवन्ते काकतीश्वरम् ।
असाधूनां विनेतारं गुरुं शिष्या इवाभितः ॥ विप्रुद्_८।३७ ॥
अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा—
वंशो ऽयं काकतीयानां वीररुद्रेण भूषितः ।
अन्ववायः ककुत्स्थानां रामेणेव परिष्कृतः ॥ विप्रुद्_८।३८ ॥
अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः ।
बिम्बप्रतिबिम्बभावो यथा—
स्फुरच्छ्रवेतातपत्रश्रीः काकतीयनरेश्वरः ।
हाटकाद्रिरिवाभाति शृङ्गसङ्गीन्दुमण्डलः ॥ विप्रुद्_८।३९ ॥
अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः ।
अपरमपि द्वैविध्यमस्यालङ्कारस्य—समस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम्—
विभाति भूर्द्यैरिव काकतीन्द्रपुरी विराजत्यमरावतीव ।
पौराः प्रथन्ते त्रिदशा इवर्द्धि धत्ते मरुत्वानिव वीररुद्रः ॥ विप्रुद्_८।४० ॥
एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा—
द्विपैश्चरद्भिर्धरणीधरैर्वा तुरङ्गमश्रेणिभिरूर्मिभर्वा ।
नानायुधैर्व्यालजलग्रहैर्वा बलं त्रिलिङ्गाधिपतेर्दुरापम् ॥ विप्रुद्_८।४१ ॥
अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात् प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलङ्कारो दृश्यते । यथा—
कुन्दति कुमुदति हंसति हारति हरति क्षपाकरति ।
कैलासति च यशः श्रीवैशद्यं वीररुद्रस्य ॥ विप्रुद्_८।४२ ॥
अत्रैकस्योपमेयस्यानेकोपमानदर्शनात् मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासम्भवमुदाहार्यम् ॥
अनन्वयालङ्कारः ।
एकस्यैवोपमानोपमेयत्वे ऽनन्वयो मतः ॥ विप्रुद्_८।४३ ॥
यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालङ्कारः । यथा—
सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रो ऽयं वीररुद्र इव स्वयम् ॥ विप्रुद्_८।४४ ॥
[विइइ।४-उपमेयापमालङ्कारः]
उपमेयोपमालङ्कारः ।
पर्यायेण द्वयोस्तस्मिन्नुपमेयोपमा मता ॥ विप्रुद्_८।४५ ॥
तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा—
धर्मो ऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ विप्रुद्_८।४६ ॥
[विइइ।५-स्मरणालङ्कारः]
स्मरणालङ्कारः ।
सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ॥ विप्रुद्_८।४७ ॥
यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालङ्कारः । यथा—
राज्ञा प्रतापरुद्रेण पालितेयं वसुन्धरा ।
हरिश्चन्द्रनलादीनां प्राचां स्मरति भूभुजाम् ॥ विप्रुद्_८।४८ ॥
अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं
प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् ।
भेदाभेदसाधारणसाधर्म्यनिबन्धनालङ्काराः प्रदर्शिताः । सम्प्रत्यारोपगर्भालङ्कारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकं निरूप्यते ।
[विइइ।६-रूपकालङ्कारः]
रूपकालङ्कारः ।
आरोपविषयस्य स्यादतिरोहितरूपिणः ।
उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ विप्रुद्_८।४९ ॥
अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन सन्देहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । सन्देहालङ्कारे विषयस्य सन्दिह्यमानतया तिरोधानम् । भ्रान्तिमदलङ्कारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलङ्कारे ऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालङ्कारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् ।
तस्य प्रथमं त्रैविध्यम्—सावयवम्, निरवयवं परम्परितं चेति । सावयवं द्विविधम्—समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्—केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालङ्कारः । अथोदाहरणानि ।
यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत् समस्तवस्तुविषयं रूपकम् ।
यथा—
यात्राप्रावृषि वीररुद्रनृपतेर्निस्साणधाराधरे
वैरिक्ष्मापतिगर्वपर्वतभिदाभीमं मुहुर्गर्जति ।
शत्रुस्त्रीनयनाम्बुवृष्टिरसकृज्जातानया सर्वतो
वर्धन्ते हरिदन्तरेषु जगदानन्दा यशः कन्दलाः ॥ विप्रुद्_८।५० ॥
यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् ।
यथा—
प्रसाधिताशावलयान्तरालः शौर्याकरः काकतिवीररुद्रः ।
विकस्वरैर्वासनया त्रिलोकीं गुणप्रसूनैः सुरभीकरोति ॥ विप्रुद्_८।५१ ॥
अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा—
मथिताद् वैरिवारशेर्भुजामन्दरभूभृता ।
जाता प्रतापरुद्रस्य कीर्त्तिर्लोकान् धिनोत्यमून् ॥ विप्रुद्_८।५२ ॥
अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् ।
यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रे ऽपि तदेव ।
तत्र केवलं यथा—
यात्रारम्भविजृम्भमाणसुभटप्रक्ष्वेडिताम्रेडितैर्
निस्साणध्वनिभिः स्फुटं प्रतिदलद्रोदः कटाहान्तरैः ।
क्षुब्धेष्वब्धिषु कम्पितेषु गिरिषु श्रुत्यैव मुञ्चन्त्यसून्
भीताः काकतिवीररुद्रनृपतेः प्रत्यर्थिनः पार्थिवाः ॥ विप्रुद्_८।५३ ॥
अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा—
राज्ञां मौलिविभूषणस्रगमला दिक्कुञ्जरश्रोत्रयोः
स्फारं चामरभूषणं धरणिभृच्छृङ्गेषु गङ्गासरित् ।
व्योम्नः क्षौमवितानमुज्ज्वलतरं मुक्ताकलापो भुवः
स्फारः काकतिवीररुद्रयशसां जागर्ति विस्फूर्जितम् ॥ विप्रुद्_८।५४ ॥
रूपकहेतुरूपकं परम्परितरूपकम् ।
रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषये ऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा—
प्रतापरुद्रदेवस्य मण्डलाग्रविधुन्तुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ विप्रुद्_८।५५ ॥
श्लिष्टमालापरम्परितं यथा—
पद्मोल्लाससहस्रभानुरसकृत्सन्मार्गचर्याबुधः
क्ष्माभृत्पक्षभिदाशनिः कुवलयालङ्कारराकाशशी ।
नित्योद्यत्सुमनोविकाससुरभिः कल्याणसम्पत्सुर-
क्षोणीभृद्भुवनाश्रयाम्बुधिरयं श्रीवीररुद्रो नृपः ॥ विप्रुद्_८।५६ ॥
अश्लिष्टकेवलपरम्परितं यथा—
काकतीयस्य दुग्धाब्धेर्यशोलीलामहोर्मयः ।
दिक्कूलमुद्रुजाटोपाः खेलन्त्यब्भ्रङ्कषोच्छ्रयाः ॥ विप्रुद्_८।५७ ॥
अश्लिष्टमालापरम्परितं यथा—
दोराशीविषजिह्वया रिपुवनश्रेणीमहावात्यया
शौर्योग्रानलधूम्यया जयरमायोषाविलासभ्रुवा ।
संहृष्यद्धरणीविलासशिखिनीसंवासयष्ट्या जगत्-
प्रसादार्गलया कृपाणलतया रुद्रो नृपः क्रीडति ॥ विप्रुद्_८।५८ ॥
अश्लिष्टमालापरम्परितं वैधर्म्येणापि सम्भवति । यथा—
त्रासान्धकारमध्याह्नाः कैतवातपरात्रयः ।
जयन्ति वीररुद्रस्य रणप्राङ्गणकेलयः ॥ विप्रुद्_८।५९ ॥
एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः सम्भवन्ति ॥
[विइइ।७-परिणामालङ्कारः]
परिणामालङ्कारः ।
आरोप्यमाणमारोपविषयात्मतया स्थितम् ।
प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ॥ विप्रुद्_८।६० ॥
आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य
सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा—
शश्वत् प्रसाधनविधानकृताभिलाषा
नम्रैर्भजन्ति मकुटैरवनीपवर्गाः ।
श्रीवीररुद्रनृपतेः ककुभां विजेतु-
राज्ञामयीं स्रजममन्दविलासलक्ष्मीम् ॥ विप्रुद्_८।६१ ॥
वैयधिकरण्येन परिणामो यथा—
किरीटमाणिक्यमयूखजालैर्विधाय पुष्पाञ्जलिमर्चयन्ते ।
फलार्थिनो रुद्रनरेन्द्रपादपीठान्तसीमानमरिक्षितीन्द्राः ॥ विप्रुद्_८।६२ ॥
समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वे ऽप्यवाच्यत्वान्न परिणामे ऽन्तर्भावः ।
[विइइ।८-सन्देहालङ्कारः]
सन्देहालङ्कारः ।
विषयो विषयी यत्र सादृश्यात् कविसम्मतात् ।
सन्देहगोचरौ स्यातां सन्देहालङ्कृतिश्च सा ॥ विप्रुद्_८।६३ ॥
सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति ।
सन्देहमात्रपर्यवसायिनी शुद्धा यथा—
किमेष नवमो हरित्पतिरमन्दसम्पत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेव हरिरुर्वरोद्धरणचुञ्चुरेकादश-
श्चिरादिति विलोक्यते जगति वीररुद्रो जनैः ॥ विप्रुद्_८।६४ ॥
निश्चयगर्भो यथा—
कालाहिः किमयं मृणालमृदुलं भोगं स धत्ते पुनः
कालभ्रूकुटिरेष किं नु मुख एवोज्जृम्भते सा पुनः ।
कालोग्रानलधूमपद्धतिरसौ किं सा पुनर्धूयते
वातेनेति विकल्प्यते प्रतिभटै रुद्रस्य कौक्षेयकः ॥ विप्रुद्_८।६५ ॥
निश्चयपर्यवसाना यथा—
किं कल्पद्रुममञ्जरीस्रज इमे किं वा पयोराशयः
स्वर्धेनोरथवा किमुज्ज्वलतराश्चिन्तामणेः स्फूर्तयः ।
किं वा सिद्धरसोर्मयश्चिरमिति व्यामृश्य निश्चिन्वते
सन्तः काकतिवीररुद्रनृपतेः स्मेराः कटाक्षा इति ॥ विप्रुद्_८।६६ ॥
[विइइ।९-भ्रान्तिमदलङ्कारः]
भ्रान्तिमदलङ्कारः ।
कविसम्मतासादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥ विप्रुद्_८।६७ ॥
यथा—
काकतीयविभोः
कीर्त्तिविभवे व्याप्तरोदसि ।
दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ विप्रुद्_८।६८ ॥
[विइइ।१०-अपह्नवालङ्कारः]
अपह्नवालङ्कारः ।
निषिध्य विषयं साम्यादन्यारोपे ह्यपह्नुतिः ॥ विप्रुद्_८।६९ ॥
तस्यास्त्रैविध्यम्—अपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम्—
उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्थं रुद्रनरेन्द्रधाटिषु महीभारावनम्रीभव-
च्छेषाशेषशिरस्सु विस्मितमथ भ्रष्टं दिगीशैरपि ॥ विप्रुद्_८।७० ॥
छलादिशब्दैरसत्यत्वप्रतिपादनं यथा—
सर्वां काकतिवीररुद्रधरणीनाथच्छलेन क्षितिं
पातुं मध्यमलोकपालपदवीं प्राप्तः स्वयम्भूः शिवः ।
नैवं चेद् विषमावलोकनकलामात्रेण भस्मीकृतैर्-
जातं वैरिपुरैः कथं कथमवाग्भूतं च भूभृद्गणैः ॥ विप्रुद्_८।७१ ॥
अर्थयोगरुचिश्लेषैरुल्लेखनमनेकधा ।
ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ विप्रुद्_८।७२ ॥
रुच्यर्थयोगाभ्यां यथा—
लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ विप्रुद्_८।७३ ॥
श्लेषेण यथा—
उग्रः सपत्नेषु, गुणेषु भास्वान्, रामः प्रतीकेषु, रणेषु भीमः ।
लीलासु लक्ष्म्याः पुरुषोत्तमश्चेत्याचक्षते रुद्रनृपं कवीन्द्राः ॥ विप्रुद्_८।७४ ॥
[विइइ।११-उत्प्रेक्षालङ्कारः]
उत्प्रेक्षालङ्कारः ।
अथाध्यवसायगर्भालङ्कारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधः—विषयिनिगरणेन विषयनिगरणेन च ।
यत्रान्यधर्मसम्बन्धादन्यत्वेनोपतर्कितम् ।
प्रकृतं हि भवेत् प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ विप्रुद्_८।७५ ॥
यत्राप्रकृतगुणक्रियासम्बन्धादप्रकृतत्वेन प्रकृतस्य सम्भावनम् उत्प्रेक्षा । सा द्विविधा—वाच्या, प्रतीयमाना च ।
सम्भावनाप्रतिपादकानां “नूनं (ध्रुवम्) प्रायऽ; इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां
चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ; प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्ये ऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हि—यथा साध्ये ऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधने ऽनुपात्ते साध्यत्वेन निर्देशो ऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन सङ्घटते । तथाहि—
प्रतापरुद्रनृपतेरपारे कीर्त्तिसागरे ।
मग्ना दुरीशदुष्कीर्त्तिसङ्गादिव जगन्त्रयी ॥ विप्रुद्_८।७६ ॥
अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा—
जयश्रीवासपद्मस्य विकासायेव भानुमान् ।
प्रतिबिम्बमिषात् खड्गं प्रविशत्यन्ध्रभूभुजः ॥ विप्रुद्_८।७७ ॥
अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना ।
उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । १ ।
उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । २ ।
उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ३ ।
उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । ४ ।
अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ५ ।
अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । ६ ।
उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । ७ ।
उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । ८ ।
उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । ९ ।
उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । १० ।
उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । ११ ।
उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । १२ ।
उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । १३ ।
एवं चतुर्दशभेदा जात्युत्प्रेक्षा ।
अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया ।
एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद् भेदाः ।
प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद् भेदाः ।
अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते ।
गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं
चाभ्युपगतम् ।
प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् ।
चारुत्वातिशयस्तु षट्पञ्चाशत् एव भेदानाम् ।
तत्र यथासम्भवमुदाहरणानि ।
उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा—
कीर्त्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भूमिभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
त्रैलोक्याट्टहसप्रभेव ककुभां प्रान्तेषु विद्योतते ॥ विप्रुद्_८।७८ ॥
अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः ।
उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा—
वीरस्य रुद्रनृपतेः प्रियवल्लभस्य
राज्याभिषेकसलिलैः सरसीकृतायाः ।
सद्यः समुच्छ्वसितसान्द्रपरागरेखाः
क्षोण्याः प्रमोदपुलकाङ्कुरमञ्जरीव ॥ विप्रुद्_८।७९ ॥
अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् ।
अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा—
प्रतापरुद्रस्य नखेन्दुकान्तिः प्रणामभाजां पदयोर्नृपाणाम् ।
ललाटलग्ना विधिनिर्मिताया वर्णावलेर्वाचनदीपिकेव ॥ विप्रुद्_८।८० ॥
अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते ।
उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा—
प्रतापरुद्रस्य गुणामृतोर्मिधौता विराजन्त्यमलीकृताङ्गाः ।
प्रक्षालितात्युद्धतभूमिपालाः खड्गाम्बुभिः स्वच्छतरा भवन्ति ॥ विप्रुद्_८।८१ ॥
अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा—
दिशां जेतुर्विश्वप्रसृतमहसो रुद्रनृपतेर्-
जयप्रस्थानोद्यत्करितुरगसम्मर्दजनितम् ।
रजः कृत्वा ग्रस्तप्रतिबलमसूर्यामिव दिवं
प्रतापाख्यान् अन्यान् दिशि दिशि विधत्ते दिनकरान् ॥ विप्रुद्_८।८२ ॥
अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा—
उदाररीत्या भुजया प्रतापरुद्रस्य विश्वैकदुरन्धरस्य ।
विश्वम्भरा कोमलशय्ययेव विस्मारिता गोत्रमहीध्रवासम् ॥ विप्रुद्_८।८३ ॥
अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा—
भूमेरकल्पवृक्षत्वादिति धाता विचिन्तयन् ।
सृष्टवान् काकतीशानं निर्व्याजत्यागवैभवम् ॥ विप्रुद्_८।८४ ॥
अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् ।
जातिफलोत्प्रेक्षा यथा—
नूनं विश्वम्भराधारस्तम्भीभवितुमायतौ ।
वीररुद्रनरेन्द्रस्य भुजावाजानुलम्बिनौ ॥ विप्रुद्_८।८५ ॥
अत्र स्तम्भीभवितुमिति जातेः फलत्वम् ।
जात्यभावफलोत्प्रेक्षा यथा—
पशूनवध्यानालोक्य शत्रवः काकतीशितुः ।
प्रायेणामानुषत्वाय तृणवृत्तिं समाश्रिताः ॥ विप्रुद्_८।८६ ॥
अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् ।
क्रियास्वरूपोत्प्रेक्षा यथा—
श्रीकाकतीयनृपतेर्द्विषदङ्गनानां
श्वासोर्मिभिः सपदि मर्मरितान्तरालाः ।
तासां निवासविषये कृतयाचनानां
प्रत्युत्तराणि ददतीव मरौ वनान्ताः ॥ विप्रुद्_८।८७ ॥
क्रियास्वरूपाभावोत्प्रेक्षा यथा—
विमुखे सति काकतिक्षितीन्द्रे वनसीमापि कठोरकण्टकाग्रा ।
चिकुरेषु विकर्षति प्रतीशान् अददानेव निजान्तरप्रवेशम् ॥ विप्रुद्_८।८८ ॥
अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा—
राज्ञां गर्वाङ्कुरोद्भेदाः परिम्लाना दिने दिने ।
काकतीन्द्रप्रतापार्कतीव्रोष्माभिभवादिव ॥ विप्रुद्_८।८९ ॥
अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा—
कपोलफलकावस्याः कथं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृशीं क्षामतां गतौ ॥ विप्रुद्_८।९० ॥
क्रियाफलोत्प्रेक्षा यथा—
दम्भोलिसंरम्भमहाजिगोपः प्रस्थानभेरीनिनदो ऽन्ध्रभर्तुः ।
लीनानिवान्वेष्टुमरातिवर्गान् विगाहते शैलगुहान्तराणि ॥ विप्रुद्_८।९१ ॥
क्रियाभावफलोत्प्रेक्षा यथा—
सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गना कल्पितचन्द्रिकार्धान् ।
श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रष्टुमिवान्धकारम् ॥ विप्रुद्_८।९२ ॥
अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् ।
गुणस्वरूपोत्प्रेक्षा यथा—
चकास्ति काकतीन्द्रस्य कृपालोकनविभ्रमः ।
प्रकृतिष्वपि सर्वासु प्रसाद इव मूर्तिमान् ॥ विप्रुद्_८।९३ ॥
गुणाभावस्वरूपोत्प्रेक्षा यथा—
प्रतापरुद्रस्य महाभिषेकपयः कणैः शीतलिताखिलाङ्गा ।
प्रशान्तभारार्तफणीन्द्रगाढश्वासानिलोष्मेव विभाति पृथ्वी ॥ विप्रुद्_८।९४ ॥
अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा—
जयश्रियामाश्रयतामुपेतः (ति) श्रीवीररुद्रस्य रणे कृपाणः ।
जयश्रियं वैरिमहीपतीनां समुत्सुको हर्तुमसूययेव ॥ विप्रुद्_८।९५ ॥
अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा—
जाता वयं सम्प्रति वीररुद्रनरेन्द्रगम्भीरिमगुल्फदन्घाः ।
इत्यप्रमोदादिव जीवनेषु मालिन्यमम्भोनिधयो भजन्ति ॥ विप्रुद्_८।९६ ॥
अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा—
आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः ।
भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः ॥ विप्रुद्_८।९७ ॥
अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा—
अरण्यवासार्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः ।
त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ॥ विप्रुद्_८।९८ ॥
अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा—
न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः ।
आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥ विप्रुद्_८।९९ ॥
द्रव्यस्वरूपाभावोत्प्रेक्षा यथा—
अनन्यसाधारणदानशौण्डे सद्यः कृतार्थीभवदर्थिसार्थे ।
श्रीकाकतीन्द्रे भुवि राजमाने द्यौः पारिजातेन विनाकृतेव ॥ विप्रुद्_८।१०० ॥
अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा—
प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् ।
समुन्मूलितमामूलादपरेणेव वज्रिणा ॥ विप्रुद्_८।१०१ ॥
द्रव्यहेत्वभावोत्प्रेक्षा यथा—
काकतीयप्रतापोष्मविलीनाङ्गेन मेरुणा ।
असुवर्णाचलेनेव विरिञ्चिर्व्याकुलीकृतः ॥ विप्रुद्_८।१०२ ॥
अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा—
दुग्घार्णवशतायेव कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥ विप्रुद्_८।१०३ ॥
अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् ।
द्रव्याभावफलोत्प्रेक्षा यथा—
वीररुद्रनरेन्द्रस्य जयप्रस्थानसम्भवम् ।
रजः पिहितदिग्गोलं निराकाशमिव स्थितम् ॥ विप्रुद्_८।१०४ ॥
अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासम्भवमुदाहार्यम् ।
इत्यौपम्यगर्भालङ्कारविवेचनम् ।
[विइइ।१२-अतिशयौक्त्यलङ्कारः]
अतिशयोक्त्यलङ्कारः ।
विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता ॥ विप्रुद्_८।१०५ ॥
यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते सातिशयोक्तिः । तस्याश्चातुर्विध्यम्—भेदे ऽभेदः, अभेदे भेदः, सम्बन्धे ऽसम्बन्धः, असम्बन्धे सम्बन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद् व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदे ऽभेदो यथा—
स्थाने कल्पतरुर्जातः काकतीयकुलोदधेः ।
लक्ष्मीपतिरसौ चित्रं मर्त्यलोकमहोत्सवः ॥ विप्रुद्_८।१०६ ॥
अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा—
औन्नत्यं महदन्यदेव महितः को ऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ विप्रुद्_८।१०७ ॥
अत्रौन्नत्यादेर्वास्तवाभेदे ऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदे ऽपि अभेदाध्यवसायः ।
सम्बन्धे ऽसम्बन्धो यथा—
शिला चिन्तारत्नम्, तरुरमरशाखी, पशुरसौ
वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् ।
न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं
स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ॥ विप्रुद्_८।१०८ ॥
अत्र विधातृसृष्टिसम्बन्धे ऽप्यसम्बन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असम्बन्धे सम्बन्धो यथा—
ब्रह्मन् ! मेरुगिरौ कृते ऽपि किमिदं नैवंविधास्ते मुदः
स्वामिन् ! सत्यमधिक्रियाद्य फलिता यद्वीररुद्रः कृतः ।
मिथ्या किं नु विकत्थसे त्रिजगतस्त्राणाय मत्प्रार्थितः
शम्भुः क्ष्मामवतीर्णवानिति कथा जाता हरिब्रह्मणोः ॥ विप्रुद्_८।१०९ ॥
अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसम्बन्धे ऽपि सम्बन्ध उक्तः । शम्भुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा—
मातः ! कथं काकतिनाथदृष्टेरग्रेसराः कामशराः पतन्ति ।
तद्रूपलावण्यजितः स्मरो ऽपि नूनं गतः किङ्करताममुष्य ॥ विप्रुद्_८।११० ॥
अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात् प्रियदृष्टिपातात् पूर्वकालत्वमुक्तम् ।
[विइइ।१३-सहोक्त्यलङ्कारः]
सहोक्त्यलङ्कारः ।
अथोक्तिसाम्यालङ्कारनिरूपणे ऽतिशयोक्तिहेतुका
सहोक्तिर्निरूप्यते ।
सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥ विप्रुद्_८।१११ ॥
यत्र भेदे ऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिशयोक्त्या एकस्य प्राधान्येनान्वये ऽपरस्य सहार्थेन
सम्बन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसम्बन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता ।
कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा-
अन्ध्रक्षमाभृत्सुभटासिधारा रणेषु नीलोत्पलपत्रभासः ।
पतन्ति कण्ठेष्वरिभूपतीनां साकं सुरस्त्रीजनमुक्तमाल्यैः ॥ विप्रुद्_८।११२ ॥
अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदे ऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा—
दिने दिने रुद्रनराधिपस्य प्रतापलक्ष्मीरुदयं प्रयाति ।
प्रकाशिताशेषदिगन्तराला विवस्वता सार्धमनिन्द्यभासा ॥ विप्रुद्_८।११३ ॥
अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः ।
[विइइ।१४-विनोक्त्यलङ्कारः]
विनोक्त्यलङ्कारः ।
अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते ।
विना सम्बन्धि यत्किञ्चिद्यत्रान्यस्य पराभवेत् ।
अरम्यता रम्यता वा सा विनोक्तिरिति स्मृता ॥ विप्रुद्_८।११४ ॥
यत्र कस्यचिदसन्निधानाद्वस्तु रम्यमरम्यं वा भवेत् सा विनोक्तिः । सा द्विविधा—अरम्यता, रम्यता चेति । अरम्यता यथा—
प्रतापरुद्रदेवस्य गुणवर्णनया विना ।
कीदृशी काव्यरचना संशृणुध्वं कवीश्वराः ॥ विप्रुद्_८।११५ ॥
अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियो ऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा—
कलापूर्णे नित्यं जयति जगतीन्दौ त्रिजगतो
वपुष्मत्यानन्दे विमलविभवे रुद्रनृपतौ ।
विना लक्ष्म प्राप्य प्रतिदिवसपूर्णां निजतनुं
प्रकाशः स्यादिन्दुर्यदि दिवि भवेत् सो ऽपि सुभगः ॥ विप्रुद्_८।११६ ॥
अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात् तादृशगुणवत्तयैव रम्यता, नान्यथेति ।
[विइइ।१५-समासोक्त्यलङ्कारः]
समासोक्त्यलङ्कारः ।
विशेषणानां
तौल्येन यत्र प्रस्तुतवर्तिनाम् ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥ विप्रुद्_८।११७ ॥
यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत् त्रिविधम्—श्लिष्टविशेषणसाम्यम्, साधारणम्, औपम्यगर्भं चेति ।
श्लिष्टविशेषणसाम्यं यथा—
सद्यो विश्लथमेखलां पुलकितामृज्वीं तनुं बिभ्रती
रागादन्ध्रपतेः कृपाणलतिका गृह्णाति कण्ठेष्वरीन् ।
तद्योगादनुरक्तभावविवशाः सम्मीलिताक्षाश्चिरं
शून्यान्तः करणा भजन्ति खलु ते भावस्थितिं कामपि ॥ विप्रुद्_८।११८ ॥
अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा—
वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्-
स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
सञ्जातप्रलयं च काकतिममीनाथ ! स्मरोद्वेजिता
भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ विप्रुद्_८।११९ ॥
अत्र शृङ्गारभयानकसाधारणविशेषबलाद् भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा—
भृतात्मा गुणरत्नौघैः पूर्णः सौजन्यवारिणा ।
प्रतापरुद्रनृपतिर्धत्ते विश्वम्भराश्रियम् ॥ विप्रुद्_८।१२० ॥
अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ; तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि ।
सप्ताङ्गस्फुरदुद्दामदानलक्ष्मीविराजितः ।
प्रतापरुद्रो भद्रात्मा तनुते सार्वभौमताम् ॥ विप्रुद्_८।१२१ ॥
अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा—
गुरुप्रमाणेन निजेन सद्यस्तिरस्कृतोद्यत्प्रतिपक्षहेतौ ।
प्रतापरुद्रस्य समित्युदग्रे खड्गे महत्खण्डनपण्डितत्वम् ॥ विप्रुद्_८।१२२ ॥
अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः ।
तथा—
अपूर्वार्थश्लाघागुरुभणितसारस्यपदवी
श्रुतिग्राह्यं तत्त्वं किमपि कलयन्ती प्रतिपदम् ।
प्रबन्धश्रीर्वीरक्षितिभुजि कवीनां विजयते
बुधश्रेणी यस्यां निपुणमधिकर्तुं प्रभवति ॥ विप्रुद्_८।१२३ ॥
अत्रालङ्कारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः ।
तथा—
सालङ्कारा
लसद्वर्णा सगुणा रसनिर्भरा ।
भावानुबन्धिनी भाति भारती काकतीश्वरे ॥ विप्रुद्_८।१२४ ॥
अत्रालङ्कारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः ।
[विइइ।१६-वक्रोक्त्यलङ्कारः]
वक्रोक्त्यलङ्कारः ।
अन्येषामप्यलङ्काराणामुक्तिसाम्ये ऽपि श्लेषगर्भत्वविशेषात् वक्रोक्तिरुच्यते—
अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् ।
अन्यथा योजनं यत्र सा वक्रोक्तिर्निगद्यते ॥ विप्रुद्_८।१२५ ॥
यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथञ्चित् सम्भवत्यप्येवंविधलक्षणाभावात् सर्वालङ्कारेभ्यो भिद्यते । काक्वा यथा—
बहुवऌऌअहो खु राआ सहि तस्स सिरिम्मि णिभ्भरासत्ती ।
णूणा सिरिए वि तुमं अप्पाणं किं णु ऌअहुवसि ॥ विप्रुद्_८।१२६ ॥
(।बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः ।
न्यूना श्रियो ऽपि त्वमात्मानं किं नु लघयसि ॥)
अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा
प्रतीयते । श्लेषेण यथा—
कस्ते सुन्दरि वर्तते हृदि सदा ? किमिन्दुर्न हि
क्षोणीभृत्तिलकः; सुमेरुरयि किं ? नो रुद्रदेवो विभुः ।
ईशः किं सखि ! सत्यमात्थ सुभगे ! त्वं गोत्रसारोद्भवे-
त्याल्यां खल्वपहासवाचि विरहं किञ्चिद्वधूर्व्यस्मरत् ॥ विप्रुद्_८।१२७ ॥
[विइइ।१७-स्वभावोक्तिः]
अथ स्वभावोक्तिः ।
स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ॥ विप्रुद्_८।१२८ ॥
यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः ।
यथा—
मदश्च्युता नर्तितकर्णतालमुद्धूतमूर्ध्ना त्रिपदस्थितेन ।
लोलाग्रहस्तेन गजेन जातो नित्योत्सवः काकतिवीररुद्रः ॥ विप्रुद्_८।१२९ ॥
[विइइ।१८-व्याजोक्त्यलङ्कारः]
व्याजोक्त्यलङ्कारः ।
अथोक्तिसाम्याद् व्याजोक्तिरुच्यते ।
व्याजोक्तिः सा समुद्भूतं वस्तु यत्र निगूह्यते ॥ विप्रुद्_८।१३० ॥
यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात् केनचित् व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा—
क्षोणीपाणिग्रहणसमये सम्मदाद्रोमहर्षे
सर्वाङ्गीणे नृपतितिलकः काकतीयान्वयेन्दुः ।
धीरोदात्तः शिशिरसलिलैः किं नु राज्याभिषेकः
कर्तव्यः स्यादिति मृदु हसन् वीक्षते मन्त्रिवृद्धान् ॥ विप्रुद्_८।१३१ ॥
अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते ।
[विइइ।१९-मीलनालङ्कारः]
मीलनालङ्कारः ।
व्याजोक्त्युत्तरं किञ्चित्साम्यान्मीलनमुच्यते ।
मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ॥ विप्रुद्_८।१३२ ॥
यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालङ्कारः । स द्विविधः—सहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे—
उग्रैः काकतिवीररुद्रनृपतेर्देर्दण्डविस्फूर्जितैर्-
युद्धप्राङ्गणवर्जितेषु पतिषु क्वापि प्रलीनात्मसु ।
विष्वक्तीव्रतरस्मरज्वरजुषामङ्गे द्विषद्योषितां
सङ्क्रान्तो ऽपि न लक्ष्यते पथि महानूष्मा चिरं मारवः ॥ विप्रुद्_८।१३३ ॥
अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा—
प्रतापरुद्रस्य भुजप्रभावादन्तर्भयाद् भूमिभुजामजस्रम् ।
स्वेदाश्रुकम्पाद्युदये ऽप्यनङ्गगोष्ठ्यां स्त्रियः प्रेम्णि न विश्वसन्ति ॥ विप्रुद्_८।१३४ ॥
अत्र भयजनितेन कम्पादिनाऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् ।
[विइइ।२०-सामान्यालङ्कारः]
सामान्यालङ्कारः ।
सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता ॥ विप्रुद्_८।१३५ ॥
यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालङ्कारः । यथा–
कैलासदुग्धार्णवयानहंसेष्वलक्षितेष्वन्ध्रनरेन्द्रकीर्त्तौ ।
त्रयः पुमांसः प्रथमे स्मयन्ते स्वसेवकान् सम्भ्रमतो विलोक्य ॥ विप्रुद्_८।१३६ ॥
अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् ।
[विइइ।२१-तद्गुणालङ्कारः]
तद्गुणालङ्कारः ।
इतरगुणसन्निधानातिशयसाम्यात् तद्गुण उच्यते ।
तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः ॥ विप्रुद्_८।१३७ ॥
यत्र न्यूनं
स्वगुणं विहाय सन्निहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा—
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नाविजृम्भितैः ।
नमन्नृपतिमाणिक्यमौलयः शुचयः कृताः ॥ विप्रुद्_८।१३८ ॥
अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म ।
[विइइ।२२-अतद्गुणालङ्कारः]
अतद्गुणालङ्कारः ।
तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते ।
सति हेतावन्यगुणास्वीकारः स्यादतद्गुणः ॥ विप्रुद्_८।१३९ ॥
यत्र सन्निधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालङ्कारः । यथा—
ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले
दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते ।
ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे
पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम् ॥ विप्रुद्_८।१४० ॥
अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिम् विजृम्भते ।
[विइइ।२३-विरोधालङ्कारः]
विरोधालङ्कारः ।
अतद्गुणे किञ्चित्प्रक्रान्तत्वाद् विरोधस्य विरोधालङ्कारो निरूप्यते ।
आभासत्वे विरोधस्य विरोधालङ्कृतिर्मता ॥ विप्रुद्_८।१४१ ॥
यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालङ्कारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा—
पद्माकरो ऽपि विलसति नितरामजडाशयो ऽयमुर्वीशः ।
विमलतरवारिधाराप्यासीद्वैरिक्षितीशतापकरी ॥ विप्रुद्_८।१४२ ॥
अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरो ऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः सन्तापकरणविरोधात् । अत्र श्लेषमूलो विरोधः ।
जातेर्गुणद्रव्याभ्यां विरोधो यथा—
अमदः सार्वभौमो ऽपि भास्वानपि कलानिधिः ।
वीररुद्रनरेन्द्रो ऽयमद्भुतानां विहारभूः ॥ विप्रुद्_८।१४३ ॥
अत्र सार्वभौमो ऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात् द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा—
धर्मद्विषामर्थमुषां च भङ्गमुत्पादयन् काकतिवीररुद्रः ।
त्रिवर्गसाधारणगोचरो ऽपि करोति कामद्विषि भावमार्द्रम् ॥ विप्रुद्_८।१४४ ॥
अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा—
एष जिष्णुविहारो ऽपि गोत्रवात्सल्यलालसः ।
करोति कमलोल्लासं राजाप्यन्ध्रनरेश्वरः ॥ विप्रुद्_८।१४५ ॥
अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा—
रज्जन्तो भुवणमिअं राएत्ति जए सलाहणिज्जो सि ।
रुद्दणरिन्द ! कहं सा रत्ता वि अ पण्डुरा जाआ ॥ विप्रुद्_८।१४६ ॥
(रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयो ऽसि ।
रुद्रनरेन्द्र ! कथं सा रक्तापि च पुण्डुरा जाता ॥)
अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा—
ज्वलत्प्रतापरौद्रो ऽपि काकतीयनरेश्वरः ।
भूत्वा जैवातृको भाति शश्वद्विश्वप्रियङ्करः ॥ विप्रुद्_८।१४७ ॥
अत्र प्रतापरौद्रो ऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः ।
द्रव्यस्य द्रव्येण विरोधो यथा—
विभाति काकतीन्द्रो ऽयं रुद्रो ऽपि चतुराननः ।
तथा च जिष्णुरित्येष कथ्यते पुरुषोत्तमः ॥ विप्रुद्_८।१४८ ॥
एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा—
स्वभावशिशिरा दृष्टिरपि काकतिभूभुजः ।
सर्वाङ्गतापिनी जाता प्रतिपक्षमहीभृताम् ॥ विप्रुद्_८।१४९ ॥
अत्र स्वभावशिशिरापि तापिनीति विरोधः ।
[विइइ।२४-विशेषालङ्कारः]
विशेषालङ्कारः ।
अथ विरोधगर्भालङ्कारा निरूप्यन्ते ।
आधाररहिताधेयमेकं चानेकगोचरम् ।
अशक्यवस्तुकरणं विशेषालङ्कृतिस्त्रिधा ॥ विप्रुद्_८।१५० ॥
यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि–
नलनहुषदिलीपधर्मपुत्रप्रभृतिनरेश्वरसंश्रिता यशः श्रीः ।
अनुदिनमधुनाभ्युपेत्य मैत्रीं विलसति काकतिवीररुद्रकीर्त्त्या ॥ विप्रुद्_८।१५१ ॥
अत्र प्राचां भूपतीनामाधारभूतानां तिरोधाने ऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च—
पश्यन्तो भयविह्वलाः प्रतिनृपाः पश्चात् पुरः पार्श्वयोर्
रप्यन्तर्बहिरन्ध्रपार्थिवपतिं प्रोत्क्षिप्तकौक्षेयकम् ।
निः सीनोत्बणधावनव्यतिकरप्रभ्रष्टदोरायुधाः
शैलाच्छेलमटन्ति कम्पविलसद्गाम्भीर्यशौर्यश्रियः ॥ विप्रुद्_८।१५२ ॥
अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेको ऽप्यनेकत्र प्रतीयते । तथा च—
अपारकरुणानिधेः सदसि वीररुद्रप्रभोः
प्रसादमधुरक्रमा लगति यत्र दृष्टिर्जने ।
अतीन्द्रमतिकिन्नराधिपमशेषलोकोन्नतं
न किं मिमधितिष्ठति त्रिभुवने स सर्वाधिकः ॥ विप्रुद्_८।१५३ ॥
अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् ।
[विइइ।२५-अधिकालङ्कारः]
अधिकालङ्कारः ।
आधाराधेयवैचित्र्यादधिकालङ्कारो निरूप्यते ।
आधाराधेययोरानुरूप्याभावो ऽधिको मतः ॥ विप्रुद्_८।१५४ ॥
यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सो ऽधिकालङ्कारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् ।
स्तोके ब्रह्माण्डरन्ध्रे विपुलतरतया स्वैरसञ्चारहेला-
सङ्कोचादेकराशीभवदतनुरुचौ काकतीन्द्रस्य कीर्त्तौ ।
एतैः प्रालेयपृथ्वीधररजतगिरिस्वर्णदीशीतभानु-
क्षीरम्भोराशिमुख्यैः प्रकटितमधुना तद्धनीभावरूपम् ॥ विप्रुद्_८।१५५ ॥
अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा—
क्वापि क्वापि कलिङ्गमालवमहाराष्ट्राङ्गवङ्गादयो
भूपास्तादृशसैन्यवैभवसमाक्रान्ताखिलाशान्तराः ।
लीनाः काकतिवीररुद्रनृपतेर्व्यूहप्रपञ्चश्रिया
निः सीमे बलवारिधौ विदधते पूर्तिं न कोणे ऽप्यहो ॥ विप्रुद्_८।१५६ ॥
अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् ।
अथ विभावना विशेषोक्तिश्च ।
कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना ।
तत्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ॥ विप्रुद्_८।१५७ ॥
यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः ।
यथा—
प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम् ।
तमांस्यरात्रीणि समुद्भवन्ति तेजांसि धस्रेष्वपि नोद्भवन्ति ॥ विप्रुद्_८।१५८ ॥
अत्र तमः
प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसो ऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव ।
[विइइ।२६-असङ्गत्यलङ्कारः]
असङ्गत्यलङ्कारः ।
कार्यकारणविरोधप्रस्तावाद् असङ्गतिरुच्यते ।
कार्यकारणयोर्भिन्नदेशत्वे सत्यसङ्गतिः ॥ विप्रुद्_८।१५९ ॥
यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यते ऽसावसङ्गत्यलङ्कारः । यथा—
बिभ्रत्युर्वीधुरां गुर्वी वीररुद्रनरेश्वरे ।
भवन्त्यतितरां शश्वन्नम्राः सामन्तमौलयः ॥ विप्रुद्_८।१६० ॥
अत्र राज्ञि भूभारः शत्रुषु नमनमिति ।
[विइइ।२७-विचित्रालङ्कारः]
विचित्रालङ्कारः ।
विरोधप्रस्तावाद्विचित्रं निरूप्यते ।
विचित्रं स्वविरुद्धस्य फलप्राप्त्यर्थमुद्यमः ॥ विप्रुद्_८।१६१ ॥
यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालङ्कारः ।
यथा—
प्रतापरुद्रनृपतेरग्रे दूरान्नरेश्वराः ।
अवरोहन्ति हस्तिभ्यस्तानारोढुमनर्गलम् ॥ विप्रुद्_८।१६२ ॥
अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः ।
अन्योन्यालङ्कारः ।
अथान्योन्यं निरूप्यते ।
अस्यापि विरोधमूलता ।
तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् ॥ विप्रुद्_८।१६३ ॥
यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालङ्कारः ।
यथा—
आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् ।
आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति ॥ विप्रुद्_८।१६४ ॥
अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालङ्कार्यत्वम् ।
विषमालङ्कारः ।
अथ विरोधमूलो विषमालङ्कारः कथ्यते ।
विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपघटना चासौ विषमालङ्कृतिस्त्रिधा ॥ विप्रुद्_८।१६५ ॥
यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः सङ्घटने तृतीयम् । तत्र प्रथमं यथा—
राज्ञः काकतिवीररुद्रनृपतेः खड्गात् तमालप्रभाद्
उद्भूतां शरदिन्दुकान्तिधवलां कीर्त्तिश्रियं पश्यताम् ।
लोकानां मुरवैरिपादकमलाज्जातां वियन्निम्नगां
श्रुत्वा सम्प्रति विस्मयाद्विरमति प्राप्तानुभावं मनः ॥ विप्रुद्_८।१६६ ॥
अत्र नीलवर्णात् खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः ।
द्वितीयं यथा—
आस्तां जयाशा रिपुभूपतीनां सङ्ग्रामसीमाममुपागतानाम् ।
प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ विप्रुद्_८।१६७ ॥
अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा—
क्व भूपालास्तादृग्विभवमहनीयप्रकृतयः
क्व चेयं कान्तारस्थितिरशिववृत्त्येकनिलया ।
इति प्रेक्षम्प्रेक्षं वनभुवि रिपून् रुद्रनृपतेः
प्रतापं श्लाघन्ते शबरपुरवीराः प्रतिदिशम् ॥ विप्रुद्_८।१६८ ॥
अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां सङ्घटनम् ।
एवं विरोधगर्भालङ्कारा निर्णीताः ।
[विइइ।२८-समालङ्कारः]
समालङ्कारः ।
अधुना विषमवैधर्म्यात् समालङ्कारो निरूप्यते ।
सा समालङ्कृतिर्योगे वस्तुनोरनुरूपयोः ॥ विप्रुद्_८।१६९ ॥
यत्रान्योन्यानुरूपपदार्थसङ्घटना क्रियते स समालङ्कारः । यथा—
विज्जाओ सकलाओ लच्छीए समं पआवरुद्दम्मि ।
सङ्घटिऊण सुसरिसं होइ कअच्छो सअं बह्मा ॥ विप्रुद्_८।१७० ॥
(विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे ।
सङ्घटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥)
अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः ।
[विइइ।२९-तुल्ययोगितालङ्कारः]
तुल्ययोगितालङ्कारः ।
अथ गम्यमानोपम्यालङ्कारवर्गप्रस्तावः ।
प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः ।
औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ विप्रुद्_८।१७१ ॥
यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसम्बन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा—
भद्रासनाध्यासिनि रुद्रदेवे तत्कीर्त्तयस्तद्द्विषदङ्गनाश्च ।
अनारतं भ्रान्तिविशेषभाजः प्रतिक्षणं पाण्डुरतां भजन्ते ॥ विप्रुद्_८।१७२ ॥
अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा—
कूर्मेन्द्रपन्नगाधीशहरित्करिकुलाद्रयः ।
मिथो निः सारतां प्राप्ताः काकतीन्द्रे महीभृति ॥ विप्रुद्_८।१७३ ॥
अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ; किं तु वैवक्षिकम् ।
[विइइ।३०-दीपकालङ्कारः]
दीपकालङ्कारः ।
प्रसुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ विप्रुद्_८।१७४ ॥
यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसम्बन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा—
भाइ णलेण किअजुअं रहुउलदीवेण सोरिणा तेता ।
दावारो तवजणिणा कलीजुअं वीरुद्देण ॥ विप्रुद्_८।१७५ ॥
(भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता ।
द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥)
अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा—
भाईरहिए जलणिही राअई जोण्हाए पुण्णिमाचन्दो ।
सुत्तीए कमलहवो कित्तीए पआवरुद्दो वि ॥ विप्रुद्_८।१७६ ॥
(भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥
श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रो ऽपि ॥)
अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा—
असुरलोअं सुरणाहो णरलोअं वीररुद्दणरणाहो ।
फणिलोअं फणिणाहो रक्खै णिरुपद्दवोज्जेअं ॥ विप्रुद्_८।१७७ ॥
(असुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥
फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥)
अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते ।
अथ पदार्थगतालङ्कारद्वयानन्तरं वाक्यार्थगतमलङ्कारद्वयं निरूप्यते ।
प्रतीवस्तूपमालङ्कारः ।
यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि ।
गम्यौपम्याश्रिता सा स्यात् प्रतिवस्तूपमा मता ॥ विप्रुद्_८।१७८ ॥
यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा ।
प्रथमा यथा—
मन्थानाचल एवैकः क्षमः सिन्धुविलोडने ।
प्रतापरुद्र एवैकः शक्तः शत्रुविलोडने ॥ विप्रुद्_८।१७९ ॥
अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा—
प्रतापरुद्र एवैकः पटीयान् जनरञ्जने ।
चन्द्रादृते क्षमो नान्यश्चकोरपरितोषणे ॥ विप्रुद्_८।१८० ॥
अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते ।
अथ दृष्टान्तः ।
[विइइ।३१-दृष्टान्तालरङ्कारः]
दृष्टान्तालङ्कारः ।
यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते ।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥ विप्रुद्_८।१८१ ॥
यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालङ्कारः । सो ऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा—
क्षोणीं बिभ्रतु भूभृतः कतिपये कापि प्रतिष्ठा पुनः
स्वर्णाद्रेर्दिगधीशवासनगरीसन्दिग्धकुञ्जश्रियः ।
राजानौ जनरञ्जनं विदधतां श्रीवीररुद्रप्रभोः
को ऽप्यन्यो महिमा जगत्त्रयधुराधौरेयदोः शालिनः ॥ विप्रुद्_८।१८२ ॥
अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा–
काकतीन्द्रकृपादृष्टिमात्राज्जाग्रति सम्पदः ।
तावदब्जानि निद्रान्ति यावन्नोदेति भानुमान् ॥ विप्रुद्_८।१८३ ॥
अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण सम्पदः सम्भवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् ।
[विइइ।३२-निदर्शनालङ्कारः]
निदर्शनालङ्कारः ।
अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालङ्कारो निरूप्यते ।
असम्भवद्धर्मयोगादुपमानोपमेययोः ।
प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥ विप्रुद्_८।१८४ ॥
यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासम्भवात् तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा—
रिपुतिमिरमुदस्यन् रत्नसिंहासनस्थ-
स्त्रिभुवनमहनीयः काकतीयक्षितीशः ।
वहति महितविश्वोल्लासिलीलामभिख्या-
मुदयशिखरिचूडाचुम्बिनस्तीव्रभानोः ॥ विप्रुद्_८।१८५ ॥
अत्र तीव्रभानोरभिख्यायाः प्रकृते ऽसम्भवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमाने ऽसम्भवाद् यथा—
वीररुद्रनरेन्द्रस्य यशोवैशद्यसम्पदः ।
लक्ष्यन्ते क्षीरवाराशिलीलादर्पणमण्डले ॥ विप्रुद्_८।१८६ ॥
अत्र यशोवैशद्यस्य दुग्घार्णवादौ असम्भवात् सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा—
यथा—
काकतीन्द्रद्विषत्कान्ता धावन्त्यः प्रतिकाननम् ।
पद्भ्यां मुञ्चन्त्यलाक्षाभ्यां स्थले रक्तोत्पलश्रियम् ॥ विप्रुद्_८।१८७ ॥
अत्र मुञ्चन्तीति निषेधात् पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता ।
[विइइ।३३-व्यतिरेकालङ्कारः]
व्यतिरेकालङ्कारः
अथ व्यतिरेकः ।
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
आधिक्याल्पत्वकथनाद् व्यतिरेकः स उच्यते ॥ विप्रुद्_८।१८८ ॥
यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालङ्कारः । यथा—
दिनकृति कुमुदैर्धृतो न रागः शशिनि पराञ्चि परं सरोरुहाणि ।
कुवलयकमलादृतप्रकाशः प्रभवति विश्वसुहृत् प्रतापरुद्रः ॥ विप्रुद्_८।१८९ ॥
अत्र रविशशिनोरसम्भवेन सर्वप्रियङ्करत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः ।
अथ श्लेषालङ्कारो निरूप्यते ।
प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् ।
श्लेषो ऽयं श्लिष्टत्वं सर्वत्राद्यद्वये नान्त्ये ॥ विप्रुद्_८।१९० ॥
यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते; तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषये ऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादने ऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे—
“अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥ऽ; इति ।
तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा—
राज्ञः पूजाविधिं धत्ते सकलोमाधवे तिथिः ।
नीलकण्ठकलापाङ्के स्फुरदब्जमणित्विषि ॥ विप्रुद्_८।१९१ ॥
अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा—
सदृशः काकतीन्द्रो ऽयं महाकुलमहीभृताम् ।
शिरोगृहीतसन्मार्गस्फुरत्कटकसम्पदाम् ॥ विप्रुद्_८।१९२ ॥
अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा—
विजितारिपुरो
मूर्तौ विलसत्सर्वमङ्गलः ।
राजमौलिः प्रतापाङ्करुद्रो रुद्र इव स्थितः ॥ विप्रुद्_८।१९३ ॥
अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् ।
[विइइ।३४-परिकरालङ्कारः]
परिकरालङ्कारः ।
विशेषणवैचित्र्यमूलत्वात् परिकर उच्यते ।
यत्राभिप्रायगर्भा स्याद् विशेषणपरम्परा ।
तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ विप्रुद्_८।१९४ ॥
यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालङ्कारः । यथा—
राज्ञो यादववंशपार्थिवमणेः प्रख्यातशौर्यश्रियस्
त्वङ्गत्तुङ्गतुरङ्गसैन्यमहतो मानैकवित्तस्य च ।
सद्यो रुद्रनरेन्द्रनायकचमूनाथेन केनाप्यधि-
क्षिप्तस्याचरितानि सेवणपतेर्जानाति सा गौतमी ॥ विप्रुद्_८।१९५ ॥
अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि ।
[विइइ।३५-आक्षेपालङ्कारः]
आक्षेपालङ्कारः ।
अथाक्षेपालङ्कारः
विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ विप्रुद्_८।१९६ ॥
यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालङ्कारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधो ऽयमाक्षेपः । क्रमेणैषामुदाहरणानि ।
नरेन्द्रमौले ! न वयं तव सन्देशहारिणः ।
जगत्कुटुम्बिनः कश्चिन्न शत्रुरिति कथ्यते ॥ विप्रुद्_८।१९७ ॥
अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं सन्देशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः सन्धिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा—
वयमशरणा इत्येषोक्तिः कथं घटते जगत्-
त्रितयशरणे त्रायस्वास्मानिति स्फुटमज्ञता ।
सकलजनतारक्षादक्षे त्वयि प्रणता इति
त्रिभुवननमस्कार्ये सिद्धं प्रतापमहीपते ॥ विप्रुद्_८।१९८ ॥
अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा—
विज्ञापयामस्ते किञ्चित् काकतीयकुलोद्वह ।
विज्ञाप्यते किमथवा सर्वज्ञे रक्षके त्वयि ॥ विप्रुद्_८।१९९ ॥
अत्र विज्ञापयाम
इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात् सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा—
प्रतापरुद्रः स्वयमिद्धतेजा दैवं च तद्विक्रमदत्तहस्तम् ।
यूयं च तूलोपमसारभाजस्तद् युक्तमेवं यदि वा किमुक्तैः ॥ विप्रुद्_८।२०० ॥
अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयो ऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते ।
समानार्थतयानिष्टविध्याभासो ऽप्याक्षेप इत्यभ्युपगम्यते ॥ विप्रुद्_८।२०१ ॥
यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा—
नाथ ! प्रतापरुद्रस्य सेवां त्यजसि चेत् त्यज ।
अरण्यगृहमेधिन्या रीतिरभ्यस्यते मया ॥ विप्रुद्_८।२०२ ॥
अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः ।
[विइइ।३६-व्याजस्तुत्यलङ्कारः]
व्याजस्तुत्यलङ्कारः ।
अथ गम्यप्रस्तावात् व्याजस्तुतिरुच्यते ।
निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते ।
स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता ॥ विप्रुद्_८।२०३ ॥
यत्र निन्दाकथनमुखेन स्तुतिर्गम्यते—एका सा । यत्र स्तुतिमुखेन निन्दा गम्यते—सा द्वितीया व्याजस्तुतिः । क्रमेण यथा—
काकतीयविभोः कीर्त्त्या किं वाद्य धवलीकृतम् ।
यत्तदीयारिवक्त्रेषु दृश्यते कालिमा महान् ॥ विप्रुद्_८।२०४ ॥
स्तुत्या निन्दा यथा—
प्रतापरुद्रनृपतेरहो साहसिका द्विषः ।
यद्विशन्त्युदधीन् शैलानारोहन्ति समन्ततः ॥ विप्रुद्_८।२०५ ॥
[विइइ।३७-अप्रस्तुतप्रशंसालङ्कारः]
अप्रस्तुतप्रशंसालङ्कारः ।
अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते ।
अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ विप्रुद्_८।२०६ ॥
यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात् प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात् प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात् कारणप्रतीतावनुमानाविर्भावशङ्का ; अनुमानालङ्कारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा—
आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः ।
पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ विप्रुद्_८।२०७ ॥
अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वान् असम्पूर्णविभवान् उर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा—
यशस्विनी पद्मभवस्य सृष्टिरुत्पादयित्री नृपशेखराणाम् ।
तत्पालनाल्लालनभाग्ययोग्यो जातश्चिरान्मध्यमलोक एषः ॥ विप्रुद्_८।२०८ ॥
अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात् सामान्यप्रतिपत्तिर्यथा—
दट्ठुमणा वि ण पेक्खै ण भणै वत्तुं सकोदुहलआ वि ।
परिसासआ वि ण प्पसै वणिआए कीरिसी सिट्टी ॥ विप्रुद्_८।२०९ ॥
(द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि ।
स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥)
अत्र मुग्धानां नवसङ्गमे महती लज्जेति सामान्ये प्रस्तुते विशेषो ऽभिहितः । कार्यात् कारणप्रतीतिर्यथा—
गाधा इवार्णवा जाता नीचा इव महाद्रयः ।
महीमवतरत्यस्मिन् काकतीयकुलेश्वरे ॥ विप्रुद्_८।२१० ॥
अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात् कार्यप्रतीतिर्यथा—
प्रतापरुद्रनृपतेर्धरित्रीकल्पशाखिनः ।
जाता मयि कृपादृष्टिः किं वा विस्मयसे सखे ॥ विप्रुद्_८।२११ ॥
अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता ।
वाच्यसम्भावसम्भवोभयरूपतया यथासम्भवं भेदाः स्वयं द्रष्टव्याः ।
[विइइ।३८-पर्यायोक्तालङ्कारः]
पर्यायोक्तालङ्कारः ।
गम्यत्वप्रस्तावात् पर्यायोक्तमुच्यते ।
कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् ।
प्रस्तुतत्वेन सम्बद्धं तत् पर्यायोक्तमुच्यते ॥ विप्रुद्_८।२१२ ॥
यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात् प्रस्तुतमेव कारणं गम्यते, तत् पर्यायोक्तम् । यथा—
प्रतिभूपालशुद्धान्तदीर्घिकास्वाजिधूसरः ।
प्रक्षालयन्ति गात्राणि काकतीयचमूचराः ॥ विप्रुद्_८।२१३ ॥
अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते ।
[विइइ।३९-प्रतिपालङ्कारः]
प्रतीपालङ्कारः
।
अथ प्रतीपम् ।
आक्षेप उपमानस्य कैमर्थक्येन कथ्यते ।
यद्वोपमेयभावः स्यात् तत्प्रतीपमुदाहृतम् ॥ विप्रुद्_८।२१४ ॥
यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत् द्वितीयम् । आद्यं यथा—
कीर्त्तौ प्रतापरुद्रस्य विलसन्त्यां दिगन्तरे ।
किमर्थमुदयत्येष निर्लज्जः शशलाञ्छनः ॥ विप्रुद्_८।२१५ ॥
द्वितीयं यथा—
काकतीयकुले लक्ष्मीपतिरेष न संशयः ।
अनेन कथमल्पज्ञैः सुमेरुरुपमीयते ॥ विप्रुद्_८।२१६ ॥
[विइइ।४०-अनुमानालङ्कारः]
अनुमानालङ्कारः ।
अथ तर्कन्यायमूलालङ्कारा निरूप्यन्ते ।
साध्यसाधननिर्देशे त्वनुमानमुदीर्यते ॥ विप्रुद्_८।२१७ ॥
रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा—
रजोधूमः सेनाव्यतिकरभवो यत् प्रसरति
स्फुलिङ्गा दृश्यन्ते भटघटितकौक्षेयकभुवः ।
ततो मन्ये यात्राशुचिसमयजो रुद्रनृपतेः
प्रभूतः कोपाग्निर्दहति रिपुभूपालनगरीः ॥ विप्रुद्_८।२१८ ॥
काव्यलिङ्गालङ्कारः ।
अथ काव्यलिङ्गम् ।
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥ विप्रुद्_८।२१९ ॥
यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत् काव्यलिङ्गम् ।
यथा—
प्रतापरुद्र इत्येषा कापि पञ्चाक्षरी शुभा ।
हृदि यां बिभ्रतो भूपा वशीकुर्वन्ति सम्पदः ॥ विप्रुद्_८।२२० ॥
अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा—
म्लानापि भूभृतां फाललिपिरुच्छ्वसिता पुनः ।
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नामृतोक्षिता ॥ विप्रुद्_८।२२१ ॥
अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात् पदार्थगतत्वोक्तिः ।
अर्थान्तरन्यासालङ्कारः ।
अथार्थान्तरन्यासः ।
कार्यकारणसामान्यविशेषाणां परस्परम् ।
समर्थनं यत्र सो ऽर्थान्तरन्यास उदाहृतः ॥ विप्रुद्_८।२२२ ॥
यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सो ऽर्थान्तरन्यासः । कार्यकारणभावेन यथा—
भूपाः ! प्रतापरुद्रस्य नता भवत, नोन्नताः ।
उन्नतान् नमयत्येष नतानुन्नमयत्यपि ॥ विप्रुद्_८।२२३ ॥
अत्र फलरूपेणौन्नत्येन नम्रत्वकारणं समर्थितम् ।
सामान्याद्विशेषसमर्थनं यथा—
उद्वेजिता रुद्रनरेश्वरस्य रणापदानैः प्रतिपक्षभूपाः ।
बिभ्रत्यमी चित्रमचेतनेभ्यो भीतस्य सर्वं भयकारि नूनम् ॥ विप्रुद्_८।२२४ ॥
अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात् सामान्यसमर्थनं यथा—
दुष्टो ऽपि महतां सङ्गाद्भवत्येव हि सज्जनः ।
प्रतापरुद्रमभ्येत्य कलिः कृतयुगायते ॥ विप्रुद्_८।२२५ ॥
अत्र प्रतापरुद्रसङ्गतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावे ऽपि कारणात् कार्यसमर्थनं काव्यलिङ्गे ऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य ।
[विइइ।४१-यथासङ्ख्यालङ्कारः]
यथासङ्ख्यालङ्कारः ।
तर्कन्यायमूलालङ्कारानन्तरं वाक्यन्यायमूलालङ्कारा निरूप्यन्ते ।
उद्दिष्टानां पदार्थानां पूर्वं पश्चाद् यथाक्रमम् ।
अनूद्देशो भवेद् यत्र तद्यथासङ्ख्यमिष्यते ॥ विप्रुद्_८।२२६ ॥
यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ; तत्र यथासङ्ख्यालङ्कारः । यथा—
गाम्भीर्यमौन्नन्त्यमनर्गलत्वं प्रतापरुद्रे समवेक्ष्य धाता ।
अम्भोनिधिष्वद्रिषु दिग्गजेषु सृष्टिं प्रयासैकफलाममंस्त ॥ विप्रुद्_८।२२७ ॥
[विइइ।४२-अर्थाप्यलङ्कारः]
अर्थापत्त्यलङ्कारः ।
एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यद् आपतेत् ।
कैमुत्यन्यायतः सा स्यादर्थापत्तिरलङ्क्रिया ॥ विप्रुद्_८।२२८ ॥
यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात् कैमुत्येनार्थान्तरमापतति सो ऽर्थापत्तिरलङ्कारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसम्बन्धरूपत्वात् । यथा—
समन्तादुद्वेलैर्वि विधहयधाटीकलकलैर्-
जगत्यां क्रामन्नप्यजनि विधुरः सेवणपतिः ।
मनाक् क्रोधोदञ्चद्भ्रुकुटिकुटिले रुद्रनृपतौ
नृपाणामन्येषां विफलितरुषां कैव गणना ॥ विप्रुद्_८।२२९ ॥
अपि च—
त्रैलोक्यसारो ऽपि सुवर्णशैलः प्रतापरुद्रेण नृपेण तुल्यम् ।
तुलां समारोढुमपूर्ण एव महीभृतां का गणनेतरेषाम् ॥ विप्रुद्_८।२३० ॥
अत्र प्रतापरुद्रापेक्षया मेरावप्यसारे ऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति ।
परिसङ्ख्यालङ्कारः ।
अथ परिसङ्ख्या ।
एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि ।
एकत्र नियमः सा हि परिसङ्ख्या निगद्यते ॥ विप्रुद्_८।२३१ ॥
यत्रैक वस्तु युगपदनेकत्र सम्भाव्यमानमेकत्रैव नियम्यते, सा परिसङ्ख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा—
किं मण्डनं त्रिलोक्याः काकतितिलको न हाटकक्षितिभृत् ।
स्तोतव्यः कः सुधियां रुद्रनरेन्द्रो न मन्दरः क्षितिभृत् ॥ विप्रुद्_८।२३२ ॥
आर्थवर्जनीया प्रश्नपूर्विका यथा—
किं वा क्षौमवितानं लोकानां ? काकतीयकुलकीर्त्तिः ।
किं सौख्यं वसुमत्या ? रुद्रनरेन्द्रस्य भुजवासः ॥ विप्रुद्_८।२३३ ॥
शाब्दवर्जनीया अप्रश्नपूर्विका यथा—
रागो धर्मे न विषयसुखे, सङ्गतिः सत्सभायां
न स्त्रीगोष्ठ्याम्, व्यसनमनिशं नीतिशास्त्रे न चाक्षे ।
कीर्त्त्यां नित्यार्जनचतुरता नार्थजाते, विनोदो
विद्याभ्यासे न च परिजने रुद्रदेवस्य राज्ञः ॥ विप्रुद्_८।२३४ ॥
आर्थवर्जनीया अप्रश्नपूर्विका यथा—
भूरेव भुवनं देवः स्वयम्भूरेव पार्थिवः ।
प्रतापरुद्र एवैकशिलैव नगरी शुभा ॥ विप्रुद्_८।२३५ ॥
क्षोणीं रुद्रनराधीशे रक्षति क्षतविद्विषि ।
बलिसद्मन्यहिभयं त्रिदिवे गोत्रभित्कथा ॥ विप्रुद्_८।२३६ ॥
अलङ्कारस्य श्लेषेण चारुत्वातिशयः ।
[विइइ।४२-उत्तरालङ्कारः]
उत्तरालङ्कारः ।
उत्तरात् प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा ।
बहुधा च निबध्येते तदुत्तरमुदीर्यते ॥ विप्रुद्_८।२३७ ॥
यत्रोत्तरान्निबध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा—
किमद्य व्युत्पत्तिस्तव सुजनलोकव्यवहृतौ
यदद्य ज्ञातव्यं प्रभवति यदा रुद्रनृपतिः ।
तदारभ्योन्मूर्धा जयति विशदो धर्मविभवो
महीदेवाश्चोद्यद्विविधविभवारम्भमुदिताः ॥ विप्रुद्_८।२३८ ॥
अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसन्तोषभाजः । किमधुना पृच्छसीत्युत्तरात् किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा—
किं णु धणं ? कुलविज्जा ; को लोहो ? सज्जणेण सहवासो ।
का णअरी ? एअसिला ; को राआ ? वीररुद्दणरणाहो ॥ विप्रुद्_८।२३९ ॥
(कि नु धनं ? कुलविद्या ; को लाभः ? सज्जनेन सहवासः ।
का नगरी ?
एकशिला ; को राजा ? वीररुद्रनरनाथः ॥)
[विइइ।४३-विकल्पालङ्कारः]
विकल्पालङ्कारः ।
वाक्यन्यायमूलालङ्कारप्रस्तावाद्विकल्प उच्यते ।
विरोधे तुल्यबलयोर्विकल्पालङ्कृतिर्मता ॥ विप्रुद्_८।२४० ॥
यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासम्भवस्तत्र विकल्पः ।
औपम्यगर्भत्वाच्चारुत्वम् । यथा—
भूपालाः क्रियतां मूर्ध्नां धनुषां वा विनम्रता ।
पादच्छायान्ध्रनाथस्य विन्ध्याद्रेर्या निषेव्यताम् ॥ विप्रुद्_८।२४१ ॥
अत्र प्रतापरुद्रे प्रभवति राज्ञां सन्धिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासम्भवे विकल्पः ।
समुच्चयालङ्कारः ।
विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते ।
गुणक्रियायौगपद्यं समुच्चय उदाहृतः ॥ विप्रुद्_८।२४२ ॥
यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालङ्कारः । यथा—
प्रतापरुद्रनृपतौ भद्रासनमुपेयुषि ।
सतां प्रसन्नं हृदयमसतां कलुषं मनः ॥ विप्रुद्_८।२४३ ॥
क्रियासमुच्चयो यथा—
पेच्छै इमं णरिन्दो पविसै मअणो अ गलै माणो अ ।
घुण्णै मणो अ सुण्णं किं एदं उवह सहिआओ ॥ विप्रुद्_८।२४४ ॥
(प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च ।
घूर्णते मनश्च शून्यं किमेतत् पश्यत सख्यः ॥)
एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा—
त्रैलोक्यप्रथमानकीर्त्तिमहितश्रीवीररुद्रप्रभोः
सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारं यान्ति विलोकयन्ति पुरतो निः श्वासमातन्वते
शुष्यन्ति प्रलपन्ति यान्ति तनुतां मुह्यन्ति मूर्च्छन्ति च ॥ विप्रुद्_८।२४५ ॥
गुणक्रियासामस्त्येन यथा—
देवे काकतिवीररुद्रनृपतौ जैत्रप्रयाणोन्मुखे
माद्यद्दन्ति चलत्पदाति विचलद्वाजि प्रधावद्रथम् ।
विच्छायाननमाकुलाक्षमुदयत्कार्पण्यमाविर्भवत्
कम्पं भ्राम्यति सर्वतः प्रतिवनं प्रत्यर्थिभूभृद्गणः ॥ विप्रुद्_८।२४६ ॥
द्वितीयः समुच्चयः ।
खलेकपोतन्यायेन बहूनां कार्यसाधने ।
कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ विप्रुद्_८।२४७ ॥
यत्रैकं कार्यं
साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सो ऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् ।
यथा—
शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं च ।
प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति ॥ विप्रुद्_८।२४८ ॥
अत्र यशः प्रभृतीनां लोकोत्तररीतिसम्पादने प्रत्येकं हेतुत्वे ऽपि युगपत्खलेकपोतन्यायेन सम्बन्धः ।
समाध्यलङ्कारः ।
अथ समाधिरुच्यते ।
एकस्मिन् कारणे कार्यसाधने ऽन्यत् परापतेत् ।
काकतालीयनयतः स समाधिरुदीर्यते ॥ विप्रुद्_८।२४९ ॥
यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत् कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः ।[विइइ।४४-समाध्यलङ्कारः]यथा—
रणाङ्गणे रुद्रनरेन्द्ररोषशमाय राज्ञां विहितस्तुतीनाम् ।
वक्त्रेषु यद्वायुवशात् पतन्ति तृणानि देवस्य स पक्षपातः ॥ विप्रुद्_८।२५० ॥
अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात् काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् ।
[विइइ।४५भाविलङ्कारः]
भाविकालङ्कारः ।
अथ लोकन्यायमूलालङ्कारा निरूप्यन्ते ।
अतीतानागते यत्र प्रत्यक्षे इव लक्षिते ।
अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ विप्रुद्_८।२५१ ॥
यत्राद्भुतचरितोपवर्णनाद् भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात् प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ; तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ; तत्र विभावाद्यनुसन्धानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा—
ध्वजाग्रे काकतीन्द्रस्य भाति क्रोडाकृतिर्हरिः ।
मृद्बिन्दुरिव दंष्ट्राग्रे यस्यालक्ष्यत मेदिनी ॥ विप्रुद्_८।२५२ ॥
अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत् प्रतीतिसम्भवः ।
[विइइ।४६-प्रत्यनीकालङ्कारः]
प्रत्यनीकालङ्कारः ।
अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते ।
बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे ।
यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥ विप्रुद्_८।२५३ ॥
यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात् तदीयतिरस्कारो भवति तत् प्रत्यनीकम् । यथा—
काकतीयपतिशौर्यमहोष्मन्यक्कृतस्वमहिमा बडबाग्निः ।
तद्गभीरिमसनाभिमजस्रं बाधते निधिमपां बहिरन्तः ॥ विप्रुद्_८।२५४ ॥
अत्र सादृश्यहेतुकं तदीयत्वमित्यलङ्कारत्वम् ।
[विइइ।४७व्यघातालङ्कारः]
व्याघातालङ्कारः ।
अथ व्याघातः ।
येन यत् साधितं वस्तु तेनैव क्रियते ऽन्यथा ।
अन्येन तदलङ्कारो व्याघाता इति कथ्यते ॥ विप्रुद्_८।२५५ ॥
यद्वस्तु येन केनचित् कर्त्रा येन साधनेन साधितम्, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा—
काकतीयाभिजातो ऽयं नाभिजाताधिकस्थितिः ।
दोर्भ्यां लब्धोदयान् भूपांस्ताभ्यामनुदयान् सृजन् ॥ विप्रुद्_८।२५६ ॥
[विइइ।४८-पर्यायालङ्कारः]
पर्यायालङ्कारः ।
अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात् पर्यायालङ्कारो निरूप्यते ।
क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि ।
एकस्मिन्नथवानेकं पर्यायालङ्कृतिर्मता ॥ विप्रुद्_८।२५७ ॥
यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालङ्कारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारे ऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालङ्कारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा—
दंष्ट्रायां कुहनाकिटेर्भगवतो देवस्य शौरेः पुरा
पश्चान्मस्तकमण्डले फणभृतः पाताललोकेशितुः ।
अद्योर्वीपतिशेखरस्य महतः श्रीकाकतीयप्रभोर्-
बाहौ सर्वधुरीणसारमहिते बद्धोत्सवा मेदीनी ॥ विप्रुद्_८।२५८ ॥
अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः—
येषां मुखे निजवधूसविधे नृपाणां
शौर्योक्तयः समभवन्नभिमानगर्भाः ।
तेषां प्रतापनृपवीक्षणकातराणां
तत्रैव दीनवचनानि समुद्भवन्ति ॥ विप्रुद्_८।२५९ ॥
[विइइ।४९-सूक्ष्मालङ्कारः]
सूक्ष्मालङ्कारः ।
अथ सूक्ष्मालङ्कारो निरूप्यते ।
असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते ॥ विप्रुद्_८।२६० ॥
विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः ।
यथा—
गुरुअणसविहम्मि वहू दठ्ठूण णरेन्दपेसिआं दूइं ।
सव्वङ्गेशु सहासं कत्थूरिविलेवणं कुणै ॥ विप्रुद्_८।२६१ ॥
(गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् ।
सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥)
अत्र कस्तूरीविलेपनेन तिमिरसमयः सङ्केतकाल इति प्रकाशितम्
[विइइ।५०-उदात्तालङ्कारः]
उदात्तालङ्कारः ।
अथोदात्तालङ्कारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् ।
तदुदात्तं भवेद् यत्र समृद्धं वस्तु वर्ण्यते ॥ विप्रुद्_८।२६२ ॥
यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः ।
यथा—
रम्यामेकशिलाभिदाननगरीमासेदिवांसो बुधाः
सौवर्णेषु गृहेषु रत्नरचितद्वास्तोरणेषु स्थिताः ।
आरुह्याङ्गणमेदिनीषु कलभान् क्रीडोत्सुकानर्भकान्
मोदन्ते यदवेक्ष्य रुद्रनृपतेस्तत्त्यागलीलायितम् ॥ विप्रुद्_८।२६३ ॥
अथ समानन्यायात् परिवृत्तिर्निरूप्यते ।
समन्यूनाधिकानां च यदा विनिमयो भवेत् ।
साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥ विप्रुद्_८।२६४ ॥
समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा—
साधारसमुचो वाचो दत्त्वा काकतिभूभुजे ।
अतो लभन्ते कवयः सहस्रं गन्धसिन्धुरान् ॥ विप्रुद्_८।२६५ ॥
अत्र वचसां गन्धसिन्धुराणां च समत्वम् ।
न्यूनेनाधिकपरिवृत्तिर्यथा—
उपायनं गजाश्वादि कृत्वा सर्वे ऽपि भूभुजः ।
प्रतापरुद्रदेवस्य लभन्ते सुस्थिरां कृपाम् ॥ विप्रुद्_८।२६६ ॥
अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा—
प्रतापरुद्रेण रणे जिताः प्रत्यर्थिभूभुजः ।
दत्त्वा भूषां किरातेभ्यो लभन्ते वल्कलादिकम् ॥ विप्रुद्_८।२६७ ॥
अत्र
त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् ।
[विइइ।५१-कारणमालालङ्कारः]
कारणमालालङ्कारः ।
अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते ।
पूर्वपूर्वं प्रति यदा हेतुः स्यादुत्तरोत्तरम् ।
तदा कारणमालाख्यमलङ्करणमुच्यते ॥ विप्रुद्_८।२६८ ॥
यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्यो ऽलङ्कारः । यथा–
विद्यया विनयोत्कर्षो विनयेन गुणार्जनम् ।
गुणैः प्रजानुरागश्च क्रमो ऽयं काकतीश्वरे ॥ विप्रुद्_८।२६९ ॥
[विइइ।५२-एकावल्यलङ्कारः]
एकावल्यलङ्कारः ।
यत्रोत्तरोत्तरेषां स्यात् पूर्वं पूर्वं प्रति क्रमात् ।
विशेषणत्वकथनमसावेकावली मता ॥ विप्रुद्_८।२७० ॥
यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः ।
यथा—
प्रतापरुद्रनगरी सुजनैरुपशोभिता ।
सुजनाः स्फीतविभवैर्विभवाः स्थैर्यशालिनः ॥ विप्रुद्_८।२७१ ॥
एतत् स्थापनेनोदाहरणम् । अपोहनेनापि भवति ; यथा—
न तद्राज्यं प्रजा यत्र न भवन्त्यूर्जितश्रियः ।
न ताः प्रजाः प्रभुर्यासां न स्वयं काकतीश्वरः ॥ विप्रुद्_८।२७२ ॥
[विइइ।५३-मालादीपकालङ्कारः]
मालादीपकालङ्कारः ।
यदा तु पूर्वपूर्वस्य सम्भवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते ॥ विप्रुद्_८।२७३ ॥
यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः ।
यथा—
भाग्यभूमा महीं प्राप्तः काकतीन्द्रभुजं मही ।
भुजः प्रतापमतुलं प्रतापश्च जगत्त्रयम् ॥ विप्रुद्_८।२७४ ॥
[विइइ।५४-सारालङ्कारः]
सारालङ्कारः ।
उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते ॥ विप्रुद्_८।२७५ ॥
यथा—
जगत्सु वसुधा भाति तस्यामेकशिलापुरी ।
काकतीयान्वयस्तत्र तस्मिन् रुद्रनरेश्वरः ॥ विप्रुद्_८।२७६ ॥
सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार-
शास्त्रे ऽर्थालङ्कारप्रकरणं समाप्तम् ।
॥ अथ मिश्रालङ्कारप्रकरणम् ॥
अथ संसृष्टिसङ्करौ निरूप्येते ।
यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक् सौन्दर्यहेतूनामन्योन्यसम्बन्धेन चारुत्वातिशयो दृश्यते ; तथैव काव्यालङ्काराणां रूपकादीनां मिथः सम्बन्धेन सौन्दर्यातिशयः प्रतीयते । स च सम्बन्धो द्विविधः—संयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये—(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन सम्बन्धे संसृष्टिः । क्षीरनीरन्यायेन सम्बन्धे सङ्करः । अनयोः पृथक् चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ; न तु पूर्वोक्तालङ्कारशेषता ।
संसृष्टिः ।
तत्र प्रथमं संसृष्टिर्निगद्यते ।
तिलतण्डुलसंश्लेषन्यायाद् यत्र परस्परम् ।
संश्लिष्येयुरलङ्काराः सा संसृष्टिर्निगद्यते ॥ विप्रुद्_९।१ ॥
यत्र तिलतण्डुलन्यायेन परस्परसम्बद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधा—शब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च ।
[इX।१।१-शब्दालङ्कारसंसृष्टिः]
शब्दालङ्कारसंसृष्टिर्यथा—
शुम्भत्सम्भ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला-
स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः ।
तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा
निः सीमाः प्रसरन्ति रुद्रनृपतेर्जैत्रप्रयाणोद्यमाः ॥ विप्रुद्_९।२ ॥
अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः ।
[इX।१।२-अर्थालङ्कारसंसृष्टिः]
अर्थालङ्कारसंसृष्टिर्यथा—
काकतीन्द्रचमूर्धत्ते महिमानमुदन्वतः ।
ग्रसते या द्विषद्भूपध्वजिनीस्तटिनीरिव ॥ विप्रुद्_९।३ ॥
अत्र निदर्शनोपमायोः संसृष्टिः ।
[इX।१।३-उभयसंसृष्टिः]
उभयसंसृष्टिर्यथा–
प्रतापरुद्रदोर्दण्डो मण्डलाग्रेण मण्डितः ।
दृश्यते समरे वीरैरुत्फणः फणवानिव ॥ विप्रुद्_९।४ ॥
अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः ।
इX।२सङ्करः ।
अथ सङ्करो निरूप्यते ।
क्षीरनीरनयाद् यत्र सम्बन्धः स्यात् परस्परम् ।
अलङ्कृतीनामेतासां सङ्करः स उदाहृतः ॥ विप्रुद्_९।५ ॥
यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः सम्बन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन सन्देहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा—
उद्यद्बृंहितगर्जितैर्द्विपघटाकादम्बिनीसम्भ्रमैः
क्षोणीभृत्कटकोपरोधपटुभिः प्रावृड्विहारा इव ।
शत्रुस्त्रीबहुलाश्रुवृष्टिशमितक्ष्माचक्रतापोदया
यात्राः काकतिवल्लभस्य जगतामानन्दमातन्वते ॥ विप्रुद्_९।६ ॥
अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ; कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र
श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा—
प्रतापरुद्रस्य कृपाणधारा प्रत्यर्थिफालेषु पतत्यमन्दम् ।
प्रक्षालनायेव कृतस्य धात्रा तद्वर्तिनो दुर्लिपिकल्मषस्य ॥ विप्रुद्_९।७ ॥
अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः ।
एकवाचकानुप्रविष्टसङ्करो यथा—
विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः ।
भुवि शम्भुरिवाभाति काकतीयनरेश्वरः ॥ विप्रुद्_९।८ ॥
अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात् श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्दे ऽनुप्रविष्टौ ।
सन्देहसङ्करो यथा—
जातः प्रतापरुद्रेन्दुः काकतीयान्वयाम्बुधौ ।
धत्ते जनचकोराणां प्रसादज्योत्स्नयामृतम् ॥ विप्रुद्_९।९ ॥
अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः सन्देहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयो ऽम्बुधिरिवेति समासद्वयसम्भवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति सन्देह एव पर्यवस्यति । साधकबाधकप्रमाणसम्भवे तु सन्देहनिवृत्तिः । अत्र साधकं यथा—
प्रतापरुद्रनृपतेः पारिजातात् समुद्भवाः ।
वतंसयन्ति दिङ्नार्यो मधुराः कीर्त्तिमञ्जरीः ॥ विप्रुद्_९।१० ॥
अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्। (अ) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा—
काकतीन्द्रस्य निः साणध्वनौ दिक्षु विजृम्भिते ।
व्याकुलकृतसत्त्वो ऽभूत् प्रतिपक्षबलार्णवः ॥ विप्रुद्_९।११ ॥
अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम् ; “उपमितं व्याघ्रादिभिः सामान्याप्रयोगेऽ; इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात् । अतः पारिशेष्याद्रूपकालङ्कारः । एवं यथासम्भवमन्येषामलङ्काराणां संसृष्टिसङ्करौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥
इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार-
शास्त्रे मिश्रालङ्कारप्रकरणं समाप्तम् । प्रितापरुद्रीयं
नामालङ्कारशास्त्रं समाप्तम् ॥