[[प्रतापरुद्रीयम् Source: EB]]
[
श्रीमद्विद्यानाथप्रणीतम्
प्रतापरुद्रीयम्
—- o —-
श्रीमत्कुमारस्वामिकृतरत्नापणसहितम्
अथ नायकप्रकरणम् ।
विद्याकैरवकौमुदीं श्रुतिशिरः सीमन्तमुक्तामणिं
दारान् पद्मभुवस्त्रिलोकजननीं वन्दे गिरां देवताम् ।
यत्पादाब्जनमस्क्रियाः सुकृतिनां सारस्वतप्रक्रिया-
बीजन्यासभुवो भवन्ति कवितानाट्यैकजीवातवः ॥ 1.1 ॥
पूर्वेभ्यो भामहादिभ्यः सादरं विहताञ्जलिः ।
वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसंग्रहम् ॥ 1.2 ॥
चिरेण चरितार्थोऽभूत् काव्यालङ्कारसंग्रहः ।
प्रतापरुद्रदेवस्य कीर्तिर्येन प्रकाश्यते ॥ 1.3 ॥
रसप्रधानाः शब्दार्था गुणालङ्कारवृत्तयः ।
रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः ॥ 1.4 ॥
यद्यप्यसौ प्रबन्धेषु प्राचां साधु निरूपिता ।
तथाप्यस्याः समं नेतुर्नोदाहरणमादृतम् ॥ 1.5 ॥
पुण्यश्लोकस्य चरितमुदाहरणमर्हति ।
न कश्चित् तादृशः पूर्वैः प्रबन्धाभरणीकृतः ॥ 1.6 ॥
प्रबन्धानां प्रबन्धॄणामपि कीर्त्तिप्रतिष्ठयोः ।
मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥ 1.7 ॥
यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः । यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात् काव्यादपि । इयान् विशेषः—काव्यात् कर्तव्यताधीः सरसा, अन्यत्र न तथा । तथा हि—
यद्वेदात् प्रभुसंमितादधिगतं शब्दप्रधानाच्चिरं
यच्चार्थप्रवणात् पुराणवचनादिष्टं सुहृत्संमितात् ।
कान्तासंमितया यया सरसतामापाद्य काव्यश्रिया
कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे ॥ 1.8 ॥
ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् । तच्चोक्तं काव्यप्रकाशे—
`काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥’ इति ।
प्रसिद्धं चैतन्महाप्रबन्धेषु—
`परिवड्ढइ विण्णाणं संभाविज्जइ जसो विडप्पंदि गुणा ।
सुत्रइ सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाठ्ठावा ॥’
(परिवर्धते विज्ञानं संभाव्यते यशोऽर्ज्यन्ते गुणाः ।
श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति काव्यालापाः ॥)
यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत् काव्यं परित्याज्यमेव । तन्मूला चेयं
स्मृतिः—`काव्यालापांश्च वर्जयेत्’ इति । न केवलं काव्यस्यायं पन्थाः । किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः । तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता । तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् ।
किं बहुना ? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते । ‘अथातो धर्मजिज्ञासा’ इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् । तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः । अतश्च,
प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः ।
अलङ्कारप्रबन्धोऽयं सन्तः ! कर्णोत्सवोऽस्तु वः ॥ 1.9 ॥
काकतीयनरेन्द्रस्य यशो भूषयितुं कृता ।
विद्यानाथकृतिश्चेयं स्वयं तेन विभूष्यते ॥ 1.10 ॥
तदुक्तं दण्डिना—
`आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् ।
तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ॥’ इति ।
सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता । तदुक्तं प्राचा भामहेन—
`उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः ।’ इति ।
प्रतिपादितं ‘चोद्भटेन’—
`गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् ।
काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः ॥’ इति ।
रुद्रभट्टेनापि कथितम्—`उदारचरितनिबन्धना प्रबन्धप्रतिष्ठा’ इति । प्रपञ्चितं च साहित्यमीमांसायाम्—`नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्ति’ इति ।निरूपितं च ‘भोजराजेन’—
`कवेरल्पाऽपि वाग्वृत्तिर्विद्वत्कर्णावतंसति ।
नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ॥’ इति ।
॥ महाकुलीनत्वादिनायकगुणाः ॥
अत्रैते नायकगुणाः ।
महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता ।
तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः ॥ 1.11 ॥
पूर्वशास्त्रानुसारेण कतिचित् कथिता इमे ।
प्रतापरुद्रदेवस्य गुणा वाचामगोचराः ॥ 1.12 ॥
अथैतेषां स्वरूपमुदाहरणं च । तत्र
<1.1.1 महाकुलीनता>
महाकुलीनता नाम कुले महति संभवः ।
यथा—तादृङ्मध्यमलोकभाग्यविभवादिन्द्रादिबृन्दारकैः
क्षोण्यां क्रीडितुमिच्छुभिश्चिरतरं संप्रार्थितः पद्मभूः ।
अत्यर्केन्दुकुलप्रशस्तिमसृजद् यं काकतीयान्वयं
तस्मिन् संप्रति वीररुद्रवपुषा जागर्ति लक्ष्मीपतिः ॥ 13 ॥
1.<1.2 औज्ज्वल्यम्>
अथौज्ज्वल्यम्—
रूपसंपन्नदेहत्वमौज्ज्वल्यं परिकीर्त्यते ॥ 14 ॥
यथा—
मुरारेर्यः पूर्वं जलनिधिसुतायामुदभव-
न्महादेवाज्जातः स पुनरवनीभृद्दुहितरि ।
वपुष्मान् कामोऽयं जयति जगतीभाग्यविभवैः
प्रतापश्रीरुद्रः स्वयमिति मनीषा मृगादृशाम् ॥ 15 ॥
<1.1.3 महाभाग्यम्>
अथ महाभाग्यम्—
विश्वंभराधिपत्यं यत् तन्महाभाग्यमुच्यते ।
यथा—
सेवानम्रनरेन्द्रमौलिविलसद्रत्नंशुनीराजितं
राज्यश्रीप्रथमावतारपदवीमारुह्य सिंहासनम् ।
क्षोणीं रक्षति विक्रमैरनुपमैः प्रत्यर्थिपृथ्वीपति-
श्लाघालङ्घनजाङ्घिकैर्गुणनिधिः श्रीवीररुद्रो नृपः ॥ 16 ॥
<1.1.4 औदार्यम्>
अथौदार्यम्—
यद् विश्राणनताच्छील्यमौदार्यं तन्निगद्यते ॥ 17 ॥
यथा—
वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपते-
र्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः
क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ 18 ॥
<1.1.5 तेजस्विता>
अथ तेजस्विता—
जगत्प्रकाशकत्वं यत् तेजस्वित्वं तदुच्यते ।
यथा—
सदा तेजोभानौ स्फुरति जयिनः काकतिविभो-
ररिक्ष्माभृत्कान्ताचिकुरतिमिराहंकृतिमुषि ।
प्रकाशव्युत्पत्तिर्भवति जरदुद्दामतमसा-
मसूर्यंपश्यानामवधिगिरिपाश्चात्त्यदृषदाम् ॥ 19 ॥
<1.1.6 वैदग्ध्यम्>
अथ वैदग्ध्यम्—
कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्त्यते ॥ 1.20 ॥
यथा—
चातुर्यं किमु वर्ण्यते गुणनिधेः श्रीवीररुद्रप्रभो-
र्यत्रान्योन्यविरुद्धयोरपि महद्वाणीश्रियोरार्जवम् ।
किं चाभ्यां सदृशोपचारललितां तत्तादृशैरुत्सवै-
र्निः सापत्न्यमिमां भुवं स नृपतिर्धत्ते दिशां जित्वरः ॥ 21 ॥
<I.1.7 धार्मिकत्वम्>
अथ धार्मिकत्वम्—
धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते ।
यथा—
परिहासेऽप्यनौचित्यं स्वप्नेऽप्यन्यवधूकथाम् ।
शत्रावप्यगुणारोपं काकतीन्द्रो न मृष्यति ॥ 22 ॥
आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः ।
तन्महामहिमत्वं स्याद् या पुनर्देवतात्मता ॥ 1.23 ॥
<I.1.8 महामहीतात्मता>
यथा—
कौसल्याऽऽसीत् प्रथमजननी, देवकी च द्वितीया
विष्णोर्माता तदनु महिता मुम्मडाम्बा तृतीया ।
यस्त्रेतायां रघुपतिरभूद् द्वापरे शौरिरासीत्
त्रातुं क्षोणीं स जयति कलौ वीररुद्रावतारः ॥ 24 ॥
अत्र गरुडध्वजात्मकतया महामहिमतोक्ता ।
<I.1.9 पाण्डित्यम्>
अथ पाण्डित्यम्—
सर्वविद्याधिकत्वं यत् पाण्डित्यं तदुदाहृतम् ।
यथा—
गोष्ठीभिः परितोषयन् बुधगणान् षड्दर्शनीसीमभिः
सत्सारस्वतमार्गदर्शनचणैः सूक्तैः कवीन् प्रीणयन् ।
संगीतोपनिषद्रहस्यपिशुनैरातोद्ययोग्यक्रमै-
र्धिन्वन् संसदि वैणिकान् विहरते श्रीकाकतीन्द्रो नृपः ॥ 25 ॥
अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते ।
यशः प्रतापसुभगो धर्मकामार्थतत्परः ।
धुरंधरो गुणाढ्यश्च नायकः परिकीर्त्तितः ॥ 1.26 ॥
यशः प्रतापाभ्यां<I.2.1 सुभगत्वम्> सुभगत्वं यथा—
धर्मालम्बसमुच्छ्रितां त्रिभुवनस्यैकातपत्रश्रियं
धत्ते काकतिवीररुद्रनृपतेः स्फारं यशोमण्डलम् ।
छायेवास्य नभः स्थली कुवलयश्यामेयमालोक्यते
तन्मन्ये नियतं प्रतापतपनस्तस्योपरि द्योतते ॥ 27 ॥
<I.2.2 धर्मकामार्थतत्परत्वम्>
धर्मकामार्थतत्परत्वं यथा—
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ 28 ॥
<I.2.3 धरीणका>
धुरीणता यथा—
गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनै-
र्लक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षः स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया
दोष्णा काकतिवीररुद्रनृपतौ विश्वम्भरां बिभ्रति ॥ 29 ॥
<I.2.4 गुणाढ्यत्वम्>
गुणाढ्यत्वं यथा—
मुखैः सहस्त्रेण फणी वदेच्चेत्
करैः सहस्रेण लिखेद्विवस्वान् ।
नेत्रैः सहस्रेण हरिश्च पश्येत्
स्थाने गुणान् काकतिवीरभुर्तुः ॥ 30 ॥
अथ नायकविशेषा निरूप्यन्ते ।
उदात्त उद्धतश्चैव ललितः शान्त इत्यपि ।
धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥ 1.31 ॥
तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः । एतेषां स्वरूपमुदाहरणं च ।
<I.3.1 धीरोदात्तः>
महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ।
प्रतापरुद्रवद धीरो धीरोदात्तः स संमतः ॥1.32 ॥
यथा—
संदिग्धे कृपया मृदुः क्षणमरीन् हन्तुं धृतासिः पुरः
शौर्यश्रीप्रणयप्रशंसिषु नमद्भ्रूर्लज्जते वन्दिषु ।
आकारान् सुखरोषहर्षपिशुनान् वक्त्रे न धत्ते मनाक्
त्रैलोक्यातिशयालुकीर्त्तिसुभगः श्रीवीररुद्रो नृपः ॥ 33 ॥
दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः ।
मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥ 1.34 ॥
<I.3.2 धीरोध्दतः>
यथा—
रे रे घूर्जर जर्झरोऽसि समरे लम्पाक किं कम्पसे
वङ्ग त्वङ्गसि किं मुधा बलरजः काणोऽसि किं कोङ्कण ।
हूण प्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी
योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ 35 ॥
अत्र भटानां धीरोद्धतत्वम् ।
<I.3.3 धीरललितः>
‘सुरवैकभूः’ इति पाठान्तरम्।
निश्चिन्तो धीरललितः कलासक्तः *सुखी मृदुः ।
<*सुखैकभूः इति पाठान्तरम्>
यथा—
शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वेऽपि नम्रीकृताः
पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभूः शिवः ।
धीरोऽयं युवराज एव वहति श्रीवीररुद्रो धुरं
सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ 36 ॥
<I.3.4धीरशान्तः>
धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः ॥ 1.37 ॥
यथा—
वीरं रुद्रनृपालरत्नमभितः प्राप्तोदयं मोदते
संख्यावदरण एष पूषणमिव प्रत्यग्रमब्जाकरः ।
उन्मीलत्कमलाविहारवसतिर्भूत्वा विकासैर्निजै-
र्विश्वामोदमुदञ्चयन्नविरतं दोषावसानोत्सुकः ॥ 38 ॥
अत्र विप्राणां धीरशान्तत्वम् ।
॥ श्रृङ्गारनायका निरूप्यन्ते ।
अथ श्रृङ्गारविषयाश्चत्वारो नायका इमे ।
अनुकूलो दक्षिणश्च धृष्टः शठ इति स्मृताः ॥ 1.39 ॥
एषां स्वरूपमुदाहरणं च ।
<I.4.1अनुकूलः>
एकायत्तोऽनुकूलः स्यात्
एकस्यां नायिकायां विशेषानुरक्तोऽनुकूलो नायकः ।
यथा—
किं नामाचरितं तपः सखि ! भुवा यस्याः पतिर्गीयते
वीरो रुद्रनृपः क्व तत् सुचरितं तस्य प्रिया स्यां यतः ।
जाने मानिनि मा विषीद पुरतः प्रख्याप्य नाम स्थिरां
त्वां रत्नाकरमेखलां त्वयि सदा सक्तं विधास्ये नृपम् ॥ 40 ॥
अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते ।
<I.4.2 दक्षिणः>
तुल्योऽनेकत्र दक्षिणः ।
अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः ।
यथा—
नर्मोक्त्यैव नियन्त्रिता स्मरकलाकेलीषु काचिन्मया
साकूतेन विलोकनेन हृदयं कस्यैचिदाविष्कृतम् ।
कस्याश्चित् प्रहितः प्रसाधननिधिर्दूतीकरेण, क्व वा
गन्तास्मीत्यनुचिन्तयैव नृपतेरासीत् प्रभाता निशा ॥ 41 ॥
तथा च —
वाणीं मुखेन, नेत्राभ्यां श्रियं, दोष्णा च मेदिनीम् ।
मानयंस्तुल्यतां धत्ते तासु रुद्रनरेश्वरः ॥ 42 ॥
<I.4.3घृष्टः>
व्यक्तागा गतभीर्धृष्टः
यथा—
राज्यश्रीपरिभोगशंसि भवतः सर्वाङ्गमालोक्यते
कस्तत्राविनयोऽस्ति साहसमिदं तन्नाम मय्यर्पितम् ।
जाने त्वां बहुवल्लभं किमपरं वक्तव्यमल्पा वयं
तस्यां प्रेम तवाधिकं वसुमती या नाम किं जल्पितैः ॥ 43 ॥
<I.4.4शठः>
गूढविप्रियकृच्छठः ॥ 1.44 ॥
नायिकामात्रविदितविप्रियकारी शठः ।
यथा—
दृष्ट्या पश्यसि केवलं न मनसा वाचा प्रियं भाषसे
नो भावेन भुजान्तरं प्रकटयस्यग्रे न चाभ्यन्तरम् ।
ज्ञातं काकतिनाथ ! भूस्तव परं प्राणेश्वरी ध्यायतो
मादृक्षेषु विडम्बनैव ; तदलं व्यर्थैर्बहिस्संभ्रमैः ॥ 45 ॥
अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् ।
एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः । तेषां स्वरूपं निरूप्यते ।
किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः ।
संधानकुशलश्चेटो हास्यप्रायो विदूषकः ॥ 1.46 ॥
स्पष्टमेषामुदाहरणम् ।
अथाष्टविधाः श्रृङ्गारनायिकाः ।
स्वाधीनपतिका चैव तथा वासकसज्जिका ।
विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता ॥ 1.47 ॥
कलहान्तरिता चैव तथा प्रोषितभर्तृका ।
तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥ 1.48 ॥
प्रियोपलालिता नित्यं स्वाधीनपतिका मता ।
<I.5.1 स्वधीनपतिका>
यथा—
प्रियां सर्वंसहां तैस्तैर्विशेषैरुपलालयन् ।
प्रतापरुद्रनृपतिः प्रतिक्षणमवेक्षते ॥ 49 ॥
प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः ।
केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥ 1.50 ॥
<I.5.2 वासकासज्निका>
यथा—
स्वतेजसा परिष्कृत्य प्रधानागारमुत्कया ।
श्रियाभिषेकवेलायां वीररुद्रः प्रतीक्षितः ॥ 51 ॥
चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ।
<I.5.3 विरहोत्कण्ठिता>
यथा—
न शङ्काऽन्या तादृग्गुणपरिमले रुद्रनृपतौ
कया वा गोष्ठ्यासौ चिरयति सखीभिर्न सुलभः ।
समानेतुं कान्तं व्रज मदन बद्धोऽञ्जलिरयं
यतो विष्वद्रीचः किरति किरणांस्त्वत्प्रियसखः ॥ 53 ॥
क्वचित् संकेतमावेद्य दयितेनाथ वञ्चिता ।
स्मरार्ता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते ॥ 1.54 ॥
<I.5.4 विप्रलब्धा>
यथा—
गच्छाग्रे सखि ! का प्रियागमकथा प्राप्तो निशीथः परं
संकेतालय ! मोक्ष्यसे मम वृथा जातोऽश्रुभिः पङ्किलः ।
यद्वा रुद्रनरेश्वरे प्रियतमे राज्यश्रियो वल्लभे
भारत्या दयिते भुवः कृतपदाः प्रायो वयं वञ्चिताः ॥ 55 ॥
नीत्वाऽन्यत्र निशां प्रातरागते प्राणवल्लभे ।
अन्यासंभोगचिह्नैस्तु कुपिता खण्डिता मता ॥ 1.56 ॥
<I.5.5 खण्डिता>
यथा—
रात्रिर्यामत्रयपरिमिता वल्लभास्ते सहस्रं
मार्गासक्त्या मम गृहमपि प्रातरेवागतोऽसि ।
किं कर्तव्यं वद नृपतिभिर्वीक्षणीया हि सर्वाः
को वा दोषस्तव पुनरहं काममायासयित्री ॥ 57 ॥
कोपात् प्रियं पराणुद्य पश्चात्तापसमन्विता ।
कलहान्तरिता नाम सूरिभिः परिकीर्तिता ॥ 1.58 ॥
<I.5.6 कलहान्तरिता>
यथा—
* तह तह अणुणअन्तो पिओ तुए हिअअ रोसकलुसेण ।
अवहीरिदो ण मुणिअं राएति विओअवेअणं सहसु ॥ 59 ॥
(* तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण ।
अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व ॥)
देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका ।
<I.5.7 प्रोषितभर्तृका>
यथा—
त्रैलोक्यप्रथमानकीर्त्तिमहसः श्रीवीररुद्रप्रभोः
सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारासक्तदृशो नयन्ति दिवसान् व्युष्टाशया च क्षपा-
स्तद्ध्यानप्रतिबद्धसान्द्रपुलकव्याकीर्णकामेषवः ॥ 60 ॥
कान्ताभिसरणोद्युक्ता स्मरार्ता साऽभिसारिका ॥ 1.61 ॥
<I.5.8 अभिसारिका>
यथा—
संभ्रमैरलमल्पज्ञे ! प्रेयानस्तु महीपतिः ।
करेणुस्थां न पश्यामि न श्रृणोम्यभिसारिकाम् ॥ 62 ॥
॥ आसां नायिकानुकूलने सहायाः ॥
दूत्यो दासी सखी कारूर्धात्रेयी प्रातिवेशिनी ।
लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥ 1.63 ॥
एतासां स्वरूपमुदाहरणं च स्पष्टम् । कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः ।
संक्षेपेण नायिका त्रिविधा—मुग्धा मध्या प्रौढा चेति ।
उदयद्यौवना मुग्धा लजाविजितमन्मथा ।
लजामन्मथमध्यस्था मध्यमोदितयौवना ॥
स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ॥ 1.64 ॥
यथाक्रममुदाहरणानि । मुग्धा यथा—
मुग्धे ! यन्मनसोऽपि गोप्यमखिलं तन्मह्यमावेद्यते
किं या काचिदहं तव प्रियसखि प्रच्छाद्य किं ताम्यसि ।
आसक्तिस्तव रुद्रदेवनृपतावाशास्यते किं भवे-
दित्याल्यां प्रणयैकवाचि सुतनुर्दत्तोत्तरा व्रीडया ॥ 65 ॥
मध्या यथा—
लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा-
नेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः
कोऽप्यस्यास्तरलभ्रुवो विजयते श्रृङ्गारनाट्यक्रमः ॥ 66 ॥
प्रौढा यथा—
सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं
तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद् युगपदुदयत्सात्त्विकमहो
मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ 67 ॥
भेदान्तरं यथासंभवमुदाहार्यम् ।
गुणालंकाराणां रसमहति काव्ये विलसितं
स्फुरच्छब्दार्थाभ्यां तदपि हृदयानन्दि भवति ।
तयोरप्युन्मेषः स्रवदमृतमाधुर्यसुभगः
परं पुण्यश्लोकं चरितमनुबध्नन् विजयते ॥ 1.68 ॥
एष संग्रहश्लोकः ।
* उपस्कारहेतूनां गुणालङ्काराणां सदृऽशेङार्ये सति चरितार्थत्वम् । यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् । तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् । रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् । जीवितभूतत्वाद्रसादेः काव्यात्मता । क्वचिद्रसस्य प्राधान्यम् । क्वचिदलङअकारस्य प्राधान्यम् । क्वचिद्वस्तुनः प्राधान्यं च ।
( * उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना ।)
रसप्राधान्यं यथा—
ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः ।
यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः ॥ 69 ॥
एतत् काञ्चिद्बालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् । अत्र श्रृङ्गाररसो व्यज्यते ॥
अलङ्कारप्राधान्यं यथा—
कीर्त्तौ प्रतापरुद्रस्य विहरन्त्यां दिगन्तरे ।
लोकालोकतटाः शश्वद्द्रवच्चन्द्रोपलाङ्किताः ॥ 70 ॥
अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत् द्रवोऽभूदिति भ्रान्तिमदलङारो व्यज्यते । व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥
वस्तुप्राधान्यं यथा—
अवतरति वीररुद्रे काकतिवंशे त्रिलोकमहनीये ।
त्यक्त्वा दुग्धपयोधिं तल्पफणीशः स्वमन्दिरं प्राप्तः ॥ 71 ॥
अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते । अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुलेऽवततारेति वस्तु व्यज्यते । इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥
काव्यमाश्रित्य गुणालङ्काराणां विलासः । तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥
<I.6.1 शब्दस्पुरणम्>
शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः ।
यो बन्धाडम्बर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् ।
यथा—
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्दोर्दण्डयोश्चण्डयो-
र्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ 72 ॥
<I.6.2 अर्थस्पुरणम्>
अचुम्बितार्थसंपत्तिरर्थस्फुरणमिष्यते ॥ 1.73 ॥
यथा—
* खग्गे जुज्ज्ञविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं
पेक्खंतो जअलच्छिवासकमलं मण्णंति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो
सिठ्ठीए रिपुजीविआइ विहिणो पत्तस्स पीढंबुअम् ॥ 74 ॥
(*खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं
प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः
सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम् ॥)
<I.6.3 उभयस्पुरणम्>
उभयस्फुरणं यथा—
उद्यद्बृंहितगर्जितैः करिघटाकादम्बिनीडम्बरैः
क्षोणीभृत्कटकोपरोधपटुभिः सद्यः स्फुर(ट?) द्दिक्तटैः ।
प्रावृटसंभ्रमशंसिनो रिपुवधूबाष्पोद्गमैर्दुर्दिनं
कुर्वन्तश्चलमर्तिगण्डनृपतेर्जैत्रप्रयाणोद्यमाः ॥ 75 ॥
एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् । शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् । अतो नायकस्यैव काव्ये प्राधान्यम् ।
<I.6.4 नायकप्रधान्यम्>
कुलाचारयशः शौर्यश्रुतशीलादिवर्णनम् ।
क्रियते नेतुरेवं यत्तदेव बहुसंमतम् ॥ 1.76 ॥
अथवा प्रतिपक्षस्य वर्णयित्वा गुणान् बहून् ।
तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित् ॥ 1.77 ॥
यथाक्रममुदाहरणम्—
तत्त्वं यस्स परः पुमानवतरो यस्यान्वये काकति-
क्ष्मापानां चरितं च यस्य भुवनक्षेमंकरप्रक्रमम् ।
श्लघा यस्य लघूकृतामरतरुस्वर्धेनुचिन्तामणिः
सोऽयं विश्वधुरंधरो विजयते श्रीवीररुद्रो नृपः ॥ 78 ॥
यत्तेजः प्रतिपक्षभूपविहरद्गर्वान्धकारातपो
यद्दोरर्गलविक्रमस्त्रिजगतीशुद्धान्तदौवारिकः ।
सोऽप्यासीद् युधि सेवणक्षितिपतिः सन्नाहभेरीध्वनिं
श्रुत्वा रुद्रनरेश्वरस्य महतो भीतः पलाय्याकुलः ॥ 79 ॥
एवंविधवर्णनमुत्पाद्ये नायके न घटते । तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः । स्वतः सिद्धे तु नायके द्वैविध्यमपि संभवति । तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात् कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् । एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् । तत्र च-
<I.6.5 नायक-गुणयोर्वर्गीकरणम्>
धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसंभ्रमः ।
यथा च धीरललिते श्रृङ्गारो बहुभावकृत् ॥ 1.80 ॥
न धीरोदात्तविषये तथा वर्णनमिष्यते ।
कार्यतो रससंपूर्तिस्तस्मिन्नप्युचितक्रमा ॥ 1.81 ॥
हास्यादीनां तथान्येषां रसानामपि कीर्तनम् ।
मन्दोद्यमानुभावं स्याद्धीरोदात्ते तु नेतरि ॥ 1.82 ॥
सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणेऽलंकारशास्त्रे
नायकप्रकरणं समाप्तम् ॥
इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना
विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना
विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने
नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥
II.1. ॥ अथ काव्यप्रकरणम् ॥
॥ अथ काव्यस्वरूपनिरूपणम् ॥
<II.1 काव्यस्वरूरपम्>
गुणालंकारसहितौ शब्दार्थौ दोषवर्जितौ ।
गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥ 2.1 ॥
<II.2 काव्यसामान्यलक्षणम्>
" अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्" इति काव्यसामान्यलक्षणम् ।
शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ 2.2 ॥
श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ 2.3 ॥
शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥ 2.4 ॥
रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः ॥ 2.5 ॥
<II.3 वाचक-लक्षक-व्यञ्जकरूपेण शब्दत्रैविध्यम्>
वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् । वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् । तात्पर्यार्थोऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः । <II.4 वृत्तित्रैविध्यम्> अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः।<II.5 लक्षणायाश्चातुर्विध्यम्> गौणवृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात् । यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता । गङ्गासंबन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः । अत एव सादृश्यनिबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा । संबन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा । सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा । एवं लक्षणा चतुर्विधा ।
<II.6 काशिक्यादित्तयस्त्वन्याः>
कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः । तथा चोक्तं ‘दशरूपके’—
`कैशिक्यारभटी चैव सात्त्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥’ इति ।
रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् । रसाननुगुणवर्णरचनायाः दोषत्वमुक्तम् । वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः ।
<II.7 अभिधानिरूपणम्>
तत्र संकेतितार्थगोचरः शब्दव्यापारोऽभिधा । सा द्विविधा—रूढिपूर्विका योगपूर्विका चेति । रूढिपूर्विका यथा—
तपोविशेषैः प्रथितैः प्रजानां शुभैश्चरित्रैर्जगतीमहिष्याः ।
भाग्यैः प्रभूतैर्भुवनस्य चास्य बिभर्ति राज्यं वरवीररुद्रः ॥ 6 ॥
अत्र सर्वे शब्दा रूढाः । योगपूर्विका यथा—
राज्ञि रुद्रनराधीशे रञ्जयत्यखिलाः प्रजाः ।
भूरन्वर्था वसुमती रत्नगर्भा स्थिरेति च ॥ 7 ॥
अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः ।
<II.8 लक्षणनिरूपणम्>
वाच्यार्थानुपपत्त्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा ।
<II.9 जहल्लक्षणानिरूपणम्>
तत्र जहल्लक्षणा यथा—
जेतुः काकतिभूभर्तुराकर्ण्य पटहध्वनिम् ।
सामन्तनगराण्युच्चैराक्रोशन्ति समन्ततः ॥ 8 ॥
अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः । अचेतनानामाक्रोशस्यासंभवात् तत्रत्या जना लक्ष्यन्ते ।
<II.10 अजहल्लक्षणानिरूपणम्>
अजहल्लक्षणा यथा—
पत्युः काकतिनाथस्य पादपीठीमनारतम् ।
स्फुरद्रत्नप्रभाजालैरलंकुर्वन्ति मौलयः ॥ 9 ॥
अत्रालंकारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते ।
<II.11 सरोपलक्षणानिरूपणम्>
सारोपलक्षणा यथा—
मन्थानाचलमूलमेचकशिलासंघट्टनश्यामिका-
कारं यत्तुहिनद्युतौ स्फुरति तत् सारङ्गमाचक्षते ।
मन्ये नन्विह वीररुद्रनृपतेः कीर्त्तिश्रिया निर्जित-
स्तन्मुद्राङ्कवराहमिन्दुरुरसा बिभ्रत् समुज्जृम्भते ॥ 10 ॥
अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते ।
विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः ।
विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः ।
<II.12 साध्यवसानलक्षणानिरूपणम्>
साध्यवसायलक्षणा यथा—
काकतीयकुलाम्भोधेः प्रभवत्येष चन्द्रमाः ।
कृतः कुवलयोल्लासो येनोदयमुपेयुषा ॥ 11 ॥
अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते । काकतीयकुलाम्भोधेरित्यत्रारोपः ॥
<II.13 व्यञ्जनावृत्तिः>
अथ व्यञ्जनावृत्तिः
अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः ।
सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन ।
<II.14 शब्दशक्तिमूलाव्यञ्जना>
तत्र शब्दशक्तिमूला यथा—
वाहिन्यः काकतीन्द्रस्य सर्वतोमुखसंभ्रमाः ।
कुर्वन्त्युद्यत्कबन्धाढ्यं प्रतिपक्षबलार्णवम् ॥ 12 ॥
अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रितेऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः । प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् । अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् । अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते । नात्र लक्षणावृत्तिः संभवति, वाच्यानुपपत्त्यभावात् । नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥
<II.15 अर्थशवतिमूलाव्यञ्जना>
अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा—
श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् ।
अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः ॥ 13 ॥
अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते । न चार्थशक्तिमूले व्यञ्जनेऽनुमानशङ्का । व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् । नम्राननत्वादिकार्यस्यानेककारणकत्वात् । नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव । किंचैकस्मादेव व्यञ्जकात् तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा । न चाभिधावृत्तिः । संकेतितार्थ एव तस्याः परिचय इतीयती गमनिका ।
<II.16 उभयशक्तिमूलाव्यञ्जना>
उभयशक्तिमूला यथा—
विजितारिपुरो मूर्तौ विलसत्सर्वमड्गलः ।
राजमौलिरसौ भाति रुद्रदेवो जगत्पतिः ॥ 14 ॥
अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् । अत्र प्रतापरुद्रशङ्करयोरुपमालंकारध्वनिः ॥
<II.17 कैशिक्यादिस्वरूपनिरूपणम्>
अथ कैशिक्यादीनां स्वरूपं निरूप्यते ।
अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता ।
अत्युद्धातार्थसंदर्भा वृत्तिरारभटी स्मृता ॥ 2.15 ॥
ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यते ।
ईषत्प्रौढार्थसंदर्भा सात्त्वती वृत्तिरिष्यते ॥ 2.16 ॥
तत्र अत्यन्तसुकुमारौ द्वौ श्रृङ्गारकरुणौ मतौ ।
अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्त्तितौ ॥ 2.17 ॥
हास्यशान्ताद्भुताः किंचित्सुकुमाराः प्रकीर्त्तिताः ।
ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥ 2.18 ॥
यत्र श्रृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी । यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण संदर्भेण संग्रथ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्येते तत्र सात्त्वती ।
<II.18 कौशिक्युदाहरणम्>
कैशिकी यथा—
जितमदनविलासं काकतीयान्वयेन्दु
नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् ।
सपदि विरचिताऽऽसीदङ्गनानामपाङ्गै-
र्दिव कुवलयदामश्यामला तोरणश्रीः ॥ 19 ॥
<II.19.आरभट्युदाहरणम्>
आरभटी यथा-
खड्गाघातनिकृत्तशात्रवशिरोनिष्ठ्यूतरक्तच्छटा-
ज्वालैरुद्भटशस्त्रघट्टनभवत्स्फारस्फुलिङ्गोत्करैः ।
स्त्यानासृक्पिशितास्थिखण्डविकटस्थूलोज्ज्वलाङ्गारकै-
रुच्चण्डश्चलमर्तिगण्डनृपतेः क्रोधाग्निरायोधने ॥ 20 ॥
<II.20 भारत्युदाहरणम्>
भारती यथा—
औन्नत्यं महदन्यदेव, महितः कोऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक् क्व वा कल्पिता ॥ 21 ॥
<II.21 सात्त्वत्युदाहरणम्>
सात्त्वती यथा—
दूरादाकर्ण्य विश्वप्रसृमरमहसौ वीररुद्रस्य जैत्र-
प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशा-
स्त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ 22 ॥
मध्यमारभटी त्वन्या तथा मध्यमकैशिकी ।
वृत्ती इमे उभे सर्वरससाधारणे मते ॥ 2.23 ॥
अनयोः स्वरूपम्—
मृद्वर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी ।
श्रृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते । किं त्वतिप्रौढसंदर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥
मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ॥ 2.24 ॥
अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते । अतिमृदुसंदर्भस्तु विरुद्धः ।
<II.22 मध्यमकैशिकी>
मध्यमकैशिकी यथा—
आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे-
र्धिक् धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ 25 ॥
<II.23 मध्यमारभटि>
मध्यमारभटी यथा—
मांसकीकससंकीर्णाः प्रसरद्रुधिरापगाः ।
वसाकर्दमिता युद्धे भुवोऽन्ध्रसुभटैः कृताः ॥ 26 ॥
एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥
वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । संदर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् । अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् । संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥
रीतयः
अथ रीतीनां स्वरूपमुदाहरणं च ।
रीतिर्नाम गुणाश्लिष्टपदसंघटना मता ।
सा त्रिधा—वैदर्भी, गौडी, पाञ्चाली चेति ।
<II.2.1 वैदर्भी>
बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता ।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ 2.27 ॥
यथा—
काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ 28 ॥
यथा वा—
वितरणगुणलीलातोषिताशेषलोके
विभवति नरनाथे काकतीयान्वयेन्दौ ।
सुरतरुगणनायां कामधेनुप्रसंगे
क्षितिसुरजनतेयं वीतकौतूहलाऽऽसीत् ॥ 29 ॥
<II.2.2 गौडी>
ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते ।
यथा—
प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः ।
विभर्त्यर्वीधुरां गुर्वीं प्रभवन्नन्ध्रभूपतिः ॥ 30 ॥
यथा वा —
उद्यद्दोः स्तम्भखड्गत्रुटदरिमुकुटाटोपसंजातराहु-
भ्रान्तिभ्रश्यत्पतङ्गाभयकरणचणस्फारनासीररेणुः ।
अन्ध्रक्ष्माभर्तुरासीदधिकरणधरा भिन्नमत्तेभकुम्भ-
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ 31 ॥
<II.2.3 पाञ्चाली>
पाञ्चालरीतिर्वैदर्भीगौडी इत्युभयात्मिका ॥ 2.32 ॥
यथा—
जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं मूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्घिका
गाढं गूडतमा च गौतमनदी पातालगङ्गायते ॥ 33 ॥
यथा च—
स्थाने तच्चलमर्तिगण्डनृपते त्वत्खङ्गभोगी द्विषत्-
प्राणैर्यत् परितोषमेति सततं, किं त्वेतदत्यद्भुतम् ।
पीतेन प्रतिपक्षपार्थिवयशः क्षीरेण गौरत्विषं
यत् संवर्धयति त्रिलोकभरितां त्वत्कीर्त्तिलक्ष्मीसुधाम् ॥ 34 ॥
शय्या
अथ शय्या ।
या पदानां परान्योन्यमैत्री शय्येति कथ्यते ।
यथा—
दातुः काकतिवंशमण्डनमणेर्निस्सीमविश्राणन-
श्लाघालङिघेतकल्पपादपगुणप्रौढेरगाधौजसः ।
बिभ्रच्छारदकौमुदीपरिमलं सामन्तसीमन्तिनी-
गण्डाभोगनिरूढपाण्डिमधुरां धत्ते यशः प्रायशः ॥ 35 ॥
अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥
पाकाः
अथ द्राक्षादिपाकाः ।
अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥ 2.36 ॥
यथाक्रमं स्वरूपमुदाहरणं च ।
<II.4.1 द्राक्षापाकः>
द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः ।
यथा—
स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ 37 ॥
<II.4.2 नारिकेलपाकः>
सा नारिकेलपाकः स्यादन्तर्गूढरसोदयः ॥ 2.38 ॥
यथा—
लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा-
नेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः ! पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः
कोऽप्यस्यास्तरलभ्रुवो विजयते श्रृङ्गारनाट्यक्रमः ॥ 39 ॥
अत्र न द्रागर्थप्रतीतिः । एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् । पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि ॥
काव्यविशेषाः
अथ काव्यविशेषाः ।
व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् । व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते । अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते । व्यङ्ग्यस्यास्फुटत्वेऽधमं काव्यं चित्रमिति गीयते ।
<II.5.1 ध्वनिः>
ध्वनिर्यथा—
स्वामिन् गोत्रमहीधरान् किमधुना नीचैर्विधत्से, कुतो
गाधानम्बुनिधीन् करोषि, कुरुषे किं दिक्पतीनल्पकान् ।
इत्थं पार्श्वचरानुलापमखिलं न्यक्कृत्य धर्मैषिणा
सृष्टः पद्मभुवा गुणैकवसतिः श्रीवीररुद्रो नृपः ॥ 40 ॥
अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते । तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवम्
इति च व्यज्यते ॥
<II.5.2 गुणीभूतव्यङयम्>
गुणीभूतव्यङ्ग्यं यथा—
प्रत्यग्रप्रसरत्प्रतापविभवव्याप्ताखिलाशान्तरे
विश्वत्रातरि वीररुद्रनृपतौ सिंहासनाध्यासिनि ।
आस्थानीं समुपागतैर्नृपवरैस्तास्तास्तथा दर्शिता-
श्चेष्टा याभिरमुष्य काकतिविभोर्दृष्टिः कृपार्द्रीकृता ॥ 41 ॥
अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता ।
चित्रं त्रिविधम्—शब्दचित्रमर्थचित्रमुभयचित्रं चेति ।
<II.5.3 शब्दचित्रम्>
तत्र शब्दचित्रं यथा—
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्दोर्दण्डयोश्चण्डयो-
र्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ 42 ॥
<II.5.4 अर्थचित्रम्>
अर्थचित्रं यथा—
* खग्गे जुज्झविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं
पेक्खन्तो जअलच्छिवासकमलं मण्णंति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो
सिट्ठीए रिवुजीविआइ विहिणो जत्तस्स पीढंबुअं ॥ 43 ॥
(* खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं
पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः
सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥
<II.5.5 उभयचित्रम्>
उभयचित्रं यथा—
विद्यासमुद्रे भुवनैकभद्रे प्रतापरुद्रे जितवैरिभद्रे ।
रक्षाविनिद्रे धृतशौर्यमुद्रे कान्तेव पृथ्वी रमते गुणार्द्रे ॥ 44 ॥
अत्रानुप्रासोपमाभ्यां चित्रता ॥
<II.5.6 ध्वनिविशेषाः>
॥ अथ ध्वनिविशेषाः ॥
अथ ध्वनिविशेषा निरूप्यन्ते । अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ । अविवक्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् । विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ । संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् । अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्येऽर्थस्य स्वतः संभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् । त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षड्विधत्वम् । षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् । द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारोऽर्थशक्तिमूलोऽनुरणनध्वनिः । उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव । एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः । असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः । एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः । अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद् भेदाः । तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्चाशद् भेदाः । द्वितीयस्य पञ्चाशद् भेदाः । तृतीयस्यैकोनपञ्चाशद् भेदाः । अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसंख्याकाः (1326) मिश्रभेदाः । अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः । अनेनैव क्रमेण वस्तुध्वनेरलंकारध्वनिसंबन्धभेदोऽप्यलंकारध्वनेर्वस्तुध्वनिसंबन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया । तस्यापि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (5304) भेदाः ।
शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः ।
संसृष्टिसंकरायातास्त्वब्धिखाग्निशराभिधाः ॥ 45 ॥
तत्र शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते ।
पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ 1 ॥
वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ 2 ॥
पदगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ 3 ॥
वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ 4 ॥
पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ 5 ॥
पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालङ्कारध्वनिः ॥ 6 ॥
वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ 7 ॥
वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकारध्वनिः ॥ 8 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 9 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 10 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ 11 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ 12 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 13 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 14 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ 15 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ 16 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 17 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 18 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ 19 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ 20 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 21 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 22 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ 23 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ 24 ॥
वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 25 ॥
वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 26 ॥
वाक्यगतकविप्रौढोत्किसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ 27 ॥
वाक्यगतक्रविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ 28 ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 29 ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 30 ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ 31 ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ 32 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 33 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 34 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालङ्कारध्वनिः ॥ 35 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ 36 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 37 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ 38 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण अलंकारध्वनिः ॥ 39 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ 40 ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ 41 ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ 42 ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वमिः ॥ 43 ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ 44 ॥
प्रबन्धगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ 45 ॥
वाक्यगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ 46 ॥
पदगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ 47 ॥
पदैकदेशगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ 48 ॥
रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ 49 ॥
वर्णगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ 50 ॥
वाक्यगतोभयशक्तिमूलो रसादिध्वनिः ॥ 51 ॥
तत्र दिङ्मात्रमुदाह्रियते ।
<II.5.7 अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः>
अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा—
मूर्धानो यूयमास्माकाः किमित्यौन्नत्यमिच्छथ ।
इति प्रतापरुद्रस्य प्रणताः प्रतिपार्थिवाः ॥ 46 ॥
अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता ।
<II.5.8 अत्यन्ततिरस्कृतवात्यध्वनिः>
अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा—
विशदिमविलिप्तवियतो धवलिमपरिपूरिताखिलाशान्ताः ।
विहरन्ति यशः पूरा गौराः श्रीकाकतीन्द्रस्य ॥ 47 ॥
अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् । अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् ।
<II.5.9 वस्तुनावस्तुध्वनिः>
अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा—
अब्दानृतून् विना मासान् शुक्लपक्षान् विना तिथीन् ।
रात्रीर्विनापि काङ्क्षन्ति काकतीयरिपुस्त्रियः ॥ 45 ॥
अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात् तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते । तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते । अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः । तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं वाञ्छन्ति । अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं वाञ्छन्ति । अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते ।
<II.5.10 वस्तुनालङकारध्वनिः>
वस्तुनालङकारध्वनिर्यथा—
दृष्ट्वा काकतिवीररुद्रनृपतेः कीर्त्तिं जगद्व्यापिनीं
वस्तुं वाञ्छति शम्भुरत्र शयितुं लक्ष्मीपतिः काङ्क्षति ।
स्नातुं धावति दिव्यतापसगणः संवर्धितुं वार्धय-
श्चेष्टन्ते सविलासमभ्रमुरपि स्प्रष्टुं शनैरीहते ॥ 46 ॥
अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥ अलङ्कारेण वस्तुध्वनिर्यथा—
<II.5.11 अलङ्कारेणवस्तुध्वनिः>
प्रतापरुद्रस्य रणे कृपाणः सद्यः समुद्यद्रुधिरारुणश्रीः ।
आलम्बते रोषकषायितस्य कालीकटाक्षस्य विजृम्भितानि ॥ 47 ॥
अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात् कृत इति वस्तु व्यज्यते ॥
<II.5.12 अलङ्कारेणालङ्कारध्वनिः>
अलङ्कारेणालङ्कारध्वनिर्यथा—
काकतीयविभोः कीर्त्तिपुण्डरीके विजृम्भिते ।
धत्ते मधुकरक्रीडां तमालश्यामलं नभः ॥ 48 ॥
अत्र कीर्त्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालंकारेणाश्रयाश्रयिणोरनानुगुण्यरूपोऽधिकालंकारो व्यज्यते । आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते । एषु स्वतः सिद्धार्थशक्तिमूलत्वम् ।
अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा—
श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजात-
च्छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः ।
शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं
कौञ्चक्ष्माभृद् भवति महतो विस्मयान्निश्चलाङ्गः ॥ 49 ॥
अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥
<II.5.13 वस्तुनाऽलङ्कारध्वनिः>
वस्तुनाऽलंकारध्वनिर्यथा—
वीररुद्रभटान् दृष्ट्वा जयलक्ष्मीवृतान् रणे ।
कर्षन्त्यरिवधूकेशान् कानने कण्टकिद्रुमाः ॥ 50 ॥
अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते ।
<II.5.14 अलङकारेणवस्तुध्वनिः.
अलङ्कारेण वस्तुध्वनिर्यथा—
*ओसरइ सहीहि समं लज्जा वहुआए सिढिलमाणाए ।
अप्पग्गहणभयेण व्व सविहगए मणोहरे दइए ॥ 51 ॥
(*अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः ।
आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते ॥)
अत्रोत्प्रेक्षयाऽऽलिङ्गनरूपं वस्तु व्यज्यते ॥
<II.5.15 अलङ्कारेणालङारध्वनिः>
अलंकारेणालङ्कारध्वनिर्यथा—
अभयं याचमानानां काकतीयेन्द्रविद्विषाम् ।
रक्षां नाङ्गीकरोतीव वनं शाखाग्रकम्पनैः ॥ 52 ॥
अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते ।
कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा—
- जह तह व होदु अज्जा णरणाह करेहि रक्खणं ससिणो ।
जं ताए कडखुक्का आणत्ता तं मसीकादुं ॥ 53 ॥
(+ यथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः ।
यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम् ॥)
अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥
<II.5.16 वस्तुवालङ्कारध्वनिः>
वस्तुनाऽलङ्कारध्वनिर्यथा—
कस्त्वं शुभ्राखिलाङ्गश्चरसि, ननु यशो वीररुद्रस्य वर्त्ते
कोऽयं ते दिव्यदेहः स्फुरति परिसरे, मत्सुहृत् तत्प्रतापः ।
प्रच्छाद्यालं स्फुरद्भिः कुमुदसरसिजैः ख्यापितं वः स्वरूपं
सोमार्कौ स्वागतं वामवधिगिरिरहं कल्पितो निस्तमस्कः ॥ 54 ॥
अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते ।
<II.5.17 अलङ्कारेणालङ्कारध्वनिः>
अलङ्कारेणालङ्कारध्वनिर्यथा—
* उवह हला वहुआए तह आरूढो वि णिभ्भरो माणो ।
णिवइसमाअमलंभमसंजाअभओ व्व ओसरइ ॥ 55 ॥
(* पश्यत हला वध्वास्तथा रूढोऽपि निर्भरो मानः ।
नृपतिसमागमसंभ्रमसंजातभय इवापसरति ॥)
अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनाऽलंकारो व्यज्यते ॥
<II.5.18 अलङारेणवस्तुध्वनिः>
अलङ्कारेण वस्तुध्वनिर्यथा—
अप्राप्य सेवावसरं नाथ कान्तावृतस्य ते ।
त्वत्कीर्त्तिं सेवमानेव श्यामा सर्वाङ्गपाण्डुरा ॥ 56 ॥
अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥
एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि ; विस्तरभयादिह नोक्तानि ॥
अथ शब्दशक्तिमूलध्वनिः । स च वस्त्वलंकारगतत्वेन द्विविधः ।
तथा चोक्तम्—
`अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥’ इति ।
<II.5.19 अलङ्कारध्वनिः>
तत्रालंङ्कारध्वनिर्यथा—
* एसो सच्चं राओ सामा खु तुमं समाअमो दोण्णं ।
किं उण ण पदोसकहा दीसइ एदं खु अच्चरिअं ॥ 57 ॥
(* एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः ।
किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम् ॥)
अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥
<II.5.20 वस्तुध्वनिः>
वस्तुध्वनिर्यथा—
कान्तारवाससंतप्ताः संश्रृणुध्वं हितादितः ।
कुरुध्वमधुना राजपादसेवां नरेश्वराः ॥ 58 ॥
अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते । अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन संतप्ता इति वस्तु व्यज्यते ॥
<II.5.21 उभयशक्तिमूलध्वनिः>
उभयशक्तिमूलध्वनिर्यथा—
जिष्णुरेष भुजस्तम्भजृम्भमाणाद्भुतायुधः ।
मुञ्चन्तु क्ष्माभृतः सर्वे निजपक्षविजृम्भितम् ॥ 59 ॥
अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता । भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः । तथा चोक्तं श्रृङ्गारतिलके—
`रसभावतदाभासभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥’ इति ।
रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥
गुणीभूतव्यङ्ग्यम् अष्टविधं निरूप्यते ।
गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् ।
तथा चोक्तं काव्यप्रकाशे—
`अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥’ इति ।
<II.5.22 अगूढम्>
कामिनीकुचकलशवद् गूढस्यैव चमत्कारकारित्वादगूढव्यङ्ग्यं मध्यमं काव्यम् । यथा—
औन्नत्यं यदि वर्ण्यते शिखरिणः क्रध्यन्ति नीचैः कृता
गाम्भीर्यं यदि कीर्त्त्यते जलधयः क्षुभ्यन्ति गाधीकृताः ।
तत् त्वां वर्णयितुं बिभेमि यदि वा जातोऽस्म्यगस्त्यः स्थित-
स्त्वत्पार्श्वे गुणरत्नरोहणगिरे श्रीवीररुद्रप्रभो ॥ 60 ॥
अत्र `यदि वा जातोऽस्म्यगस्त्यः स्थितः’ इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति व्यङ्ग्यमगूढम् ॥
<II.5.23 अपरस्याङ्गम्>
अपरस्याङ्गं, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव ।
यथा—
वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भव-
त्स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
संजातप्रलयं च काकतिमहीनाथ ! स्मरोद्वेजिता
भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ 61 ॥
अत्र श्रृङ्गारस्य भयरसाङ्गत्वम् ।
<II.5.24 वाच्यसिध्यङ्गम्>
वाच्यसिद्ध्यङ्गं यथा—
करालः काकतीन्द्रस्य करवालनवाम्बुदः ।
धारया शमयत्युग्रं प्रतापज्वलनं द्विषाम् ॥ 62 ॥
अत्र जलधारा व्यङ्ग्या । सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥
<II.5.25 अस्फुठम्>
अस्फुटं यथा—
वीररुद्रकृपाणस्य महिमा कोऽप्यनङ्कुशः ।
प्रसूते कीर्त्तिगङ्गां यः पीत्वा द्विषदसृङ्नदीम् ॥ 63 ॥
अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद् व्यतिरेकः परमस्फुटः प्रतीयते ॥
<II.5.26 संदिग्धप्राधान्यम्>
संदिग्धप्रधान्यं यथा—
काकतिक्ष्मापतेर्दृष्टिरनुरागतरङ्गिता ।
लग्ना कल्हारमालेव वध्वास्तुङ्गे कुचद्वये ॥ 64 ॥
अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥
<II.5.27 तुल्यप्राधान्यम्>
तुल्यप्राधान्यं यथा—
नृपाः प्रतापरुद्रस्य निषेवध्वं पदाम्बुजे ।
अन्यथाऽस्य मनस्तादृक्प्रसादं कलुषायते ॥ 65 ॥
अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥
<II.5.28 अनुसंधानम्>
असुन्दरं यथा—
* एअसिलामहिलाणं सोऊण णरेंददस्सणामोअं ।
गुरुअणणिअंतिआए वहुआए सामलं वअणं ॥ 66 ॥
(* एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् ।
गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम् ॥)
अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् । गुरुजननियन्त्रिताऽहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥
<II.5.28 कावाक्षिप्तम्>
यत्र काक्वाऽर्थान्तरमाक्षिप्यते, तदपि गुणीभूतव्यङ्ग्यमेव ।
यथा—
- पिअसहि कहेहि अहिआ खोणी लच्छी सरस्सई मज्झा ।
जां बहु मण्णइ सोअं णरणाहो गुणविसेसण्णो ॥ 67 ॥
(* प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः ।
यां बहु मन्यते सोऽयं नरनाथो गुणविशेषज्ञः ॥)
अत्र क्षोणी मदधिकेति काकुकल्पनयाऽधिका न भवतीति वस्तु व्यज्यते ॥
चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् । तत्प्रपञ्चोऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥
II.6 ॥ महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥
अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते ।
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् ।
उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ 2.68 ॥
विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदया अपि ॥ 2.69 ॥
एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।
एषामष्टादशानां यैः कौश्चिदूनमपीष्यते ॥ 2.70 ॥
तत्त्रिविधम् । गद्यमयं पद्यमयमुभयमयं चेति ।
अपादः पदसंघातो गद्यं ; पद्यं चतुष्पदम् ।
गद्यकाव्यं कादम्बर्यादि । पद्यकाव्यं रघुवंशादि ।
असर्गबन्धमपि यदुपकाव्यमुदीर्यते ॥ 2.71 ॥
असर्गबन्धं सूर्यशतकादि ।
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ॥ 2.72 ॥
वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ।
* यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽऽख्यायिका हर्षचरितादि ।
(* कोशान्तरे वाक्यमिदं नोपलभ्यते ।)
II.7 ॥ क्षुद्रप्रबन्धनिरूपणम् ॥
अथ क्षुद्राः प्रबन्धा निरूप्यन्ते ।
<II.7.1 उदाहरणम्>
येन केनापि तालेन गद्यपद्यसमन्वितम् ॥ 2.73 ॥
जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम विभक्त्यष्टकसंयुतम् ॥ 2.74 ॥
यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् `अपि च’ इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, तत् उदाहरणम् ।
<II.7.2 चक्रवालकम्>
संबोधनविभक्त्या यत् प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥ 2.75 ॥
आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ 2.76 ॥
<II.7.3 -भोगावली>
प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेषा भोगावली मता ॥ 2.77 ॥
<II.7.4-बिरुदावलि>
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ।
वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥ 2.78 ॥
<II.7.5- तरावलि>
ताराणां संख्यया पद्यैर्युक्ता तारावली मता ।
एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूह्याः । अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥
इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे
काव्यप्रकरणं समाप्तम् ॥
॥ अथ नाटकप्रकरणम् ॥
॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥
<III.1.1 नाट्यस्वरूपम्>
तत्र नाट्यस्वरूपं निरूप्यते ।
चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् ॥ 3.1 ॥
भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् ।
एषा दशरूपकोक्ता प्रक्रिया । नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् ।
तथोक्तं ‘दशरूपके’—
`मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥’ इति ।
तेन नाट्येन दश रूपकाणि भवन्ति ।
<III.1.2 दशविधरूपकनिर्देशाः>
`नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥ 3.2 ॥’ इति
नाट्याश्रयत्वेनाभेद इति शङ्का न युज्यते ।
वस्तुनेतृरसास्तेषां रूपकाणां हि भेदकाः ॥ 3.3 ॥
वस्तु त्रिविधम्—प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति । तथोक्तं ‘दशरूपके’—
`प्रख्यातोत्पाद्यमिश्रत्वभेदात् तत्त्रिविधं मतम् ’ इति ।
<III.1.3 दशविधरूपरकाँणां इतिवृत्तादयः>
इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात् रूपकाणां परस्परं भेदः । तथा हि—नाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, श्रृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः । प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, श्रृङ्गाररसस्यैव प्राधान्यम् । भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, श्रृङ्गारवीरयोः सूचनामात्रसारता । प्रहसने कल्प्यमितिवृत्तम्, पाषण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम् । डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरश्रृङ्गारयोरनुप्रवेशः । व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् । समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा । वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, श्रृङ्गाररसस्य सूचनामात्रसारता । अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, श्रृङ्गाररसस्याभासत्वम् ।
<III.1.4 द.रू. सामग्री>
अथ तेषां सामग्री निरूप्यते । तत्र पञ्च सन्धयः । तथा चोक्तं दशरूपके—
`मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः’ इति ।
<III.1.5. सन्धिपञ्चकविवेचनम्>
संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः । तत्रारम्भबीजसंबन्धो मुखसंधिः । प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंन्धिः । प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः । नियताप्तिप्रकर्योः संबन्धो विमर्शसंधिः । फलागमकार्ययोः संबन्धो निर्वहणसंधिः । तथा चोक्तं दशरूपके—
`बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥’ इति ।
अथारम्भादीनां लक्षणं निरूप्यते—
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु फलप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ 3.4 ॥
उपायापायङ्काभ्यां प्राप्त्याशा कार्यसंभवः ।
अपायाभावतः कार्यनिश्चयो नियताप्तिका ॥ 3.5 ॥
समग्रफलसंपत्तिः फलागम उदाहृतः ।
अथ बीजादिपञ्चकं निरूप्यते—
स्तोकोद्दिष्टः कार्यहेतुर्बींजं विस्तार्यनेकधा ॥ 3.6 ॥
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।
प्रतिपाद्यकथाङ्गं स्यात् पताका व्यापिनी कथा ॥ 3.7 ॥
अव्यापिनी प्रकरिका कार्यं निर्वाहकृत् फले ।
<III.2 मुखसन्धिः>
अथ मुखं निरूप्यते—
मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ 3.8 ॥
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।
बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि ।
उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ 3.9 ॥
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम् ॥ 3.10 ॥
यथाक्रममेषां स्वरूपं निरूप्यते—
बीजन्यास उपक्षेपः । बीजस्य बहूकरणं परिकरः । बीजनिष्पत्तिः परिन्यासः । बीजगुणवर्णनं विलोभनम् । बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः । बीजसुखागमः प्राप्तिः । बीजसंनिधानं समाधानम् । बीजसुखदुः खहेतुर्विधानम् । बीजविषयाश्चर्यावेशः परिभावना । गूढबीजप्रकाशनमुद्भेदः । बीजानुगुणप्रोत्साहनं भेदः । बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । एतानि द्वादश मुखसन्धेरङ्गानि । एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् ।
<III.3 प्रतिमुखसन्धिः>
अथ प्रतिमुखसन्धिः—
लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ 3.11 ॥
बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि ।
विलासः परिसर्पश्च विधूतं शमनर्मणी ।
नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥ 3.12 ॥
वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।
एषां स्वरूपं निरूप्यते—
संभोगविषयमनोरथो विलासः । दृष्टनष्टपदार्थानुसरणं परिसर्पः । अनिष्टवस्तुविक्षेपो विधूतम् । अरत्युपशमनं शमः । परिहासवचनं नर्म । अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः । उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् । छद्मना हितागमननिरोधनं निरोधः । इष्टजनानुनयः पर्युपासनम् । प्रमुखनिष्ठुरवचनं वज्रम् । अनुरागप्रकाशनविशिष्टवचनं पुष्पम् । अनुरागहेतुवाक्यरचनोपन्यासः । चतुर्वर्णनिर्वर्णतं वर्णसंहारः । एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् ।
<III.4 गर्भसन्धिः>
अथ गर्भसंधिः—
गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ॥ 3.13 ॥
अस्याप्त्याशापताकानुगुण्येनाङ्गोपकल्पनम् ।
पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि ।
अभूताहरणं मार्गो रूपोदाहरणक्रमाः ॥ 3.14 ॥
संग्रहश्चानुमानं च तोटकाधिबधे तथा ।
उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥ 3.15 ॥
एषां स्वरूपं निरूप्यते—
प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । तत्त्वार्थानुकीर्तनं मार्गः । वितर्कप्रतिपादनावाक्यं रूपम् । प्रस्तुतोत्कर्षाभिधानमुदाहृतिः । संचिन्तितार्थप्राप्तिः क्रमः । * प्रस्तुतोपयोगिसामदानवचनं संग्रहः । (* प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥) लिङ्गादभ्यूहनमनुमानम् । रोषसंभ्रमवचनं तोटकम् । इष्टजनातिसंधानमधिबलम् । अपकारिजनाद् भयमुद्वेगः । शङ्कात्रासौ च संभ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । एतेषां मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् ।
<III.5 विमर्शसन्धिः>
अथ विमर्शसंधिः—
गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् ।
हेतुना येन केनापि विमर्शः संधिरिष्यते ॥ 3.16 ॥
नियताप्तिप्रकर्युक्तेरङ्गान्यत्र त्रयोदश ।
नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि ।
तत्रापवादः संफेटो विद्रवद्रवशक्तयः ॥ 3.17 ॥
द्युतिः प्रसङ्गश्चलनं व्यवसायो निरोधनम् ।
प्ररोचनं विचलनमादानं तु त्रयोदश ॥ 3.18 ॥
एतेषां स्वरूपं निरूप्यते—
दोषप्रख्यापनमपवादः । रोषसंभाषणं संफेटः । वधबन्धादिकं विद्रवः । गुरुतिरस्कृतिर्द्रवः । विरोधशमनं शक्तिः । तर्जनोद्वेजने द्युतिः । गुरुकीर्तनं प्रसङ्गः । उपमानं चलनम् । स्वशक्तिप्रशंसनं व्यवसायः । क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् । सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् । स्वगुणाऽऽविष्करणं विचलनम् । कार्यसंग्रह आदानम् । एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥
<III.6निर्वहरणसन्धिः>
अथ निर्वहणसंधिः—
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ 3.19 ॥
फलाप्तिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश ।
फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनीयानि ।
संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ॥ 3.20 ॥
प्रसादानन्दसमयाः कृत्याभाषोपगूहनम् ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ 3.21 ॥
एतेषां स्वरूपं निरूप्यते—
बीजोपशमनं संधिः । कार्यमार्गणं विरोधः । कार्योपक्षेपणं ग्रथनम् । बीजानुगुणकार्यप्रख्यापनं निर्णयः । मिथो जल्पनं परिभाषा । पर्युपासनं प्रसादः । वाञ्छितार्थप्राप्तिरानन्दः । दुः खप्रशमनं समयः । लब्धस्थिरीकरणं कृतिः । प्राप्तकार्यानुमोदनम् आभाषणम् । अद्भुतार्थप्राप्तिः उपगूहनम् । इष्टकार्यदर्शनं पूर्वभावः । कार्यार्थोपसंहृतिः संहारः । शुभशंसनं प्रशस्तिः ।
एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः ।<III.6.1 सन्धिनांप्रयोजनानि> एतेषां षट् प्रयोजनानि संभवन्ति—विवक्षितार्थप्रतिपादनं, गोप्यार्थगोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति । तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् । असूच्यमपि द्विविधं—दृश्यं श्राव्यं च । तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः । तथोक्तं ‘दशरूपके’—
`विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारणैः’इति ।
एतेषां स्वरूपं निरूप्यते—
<III.6.2 विष्कम्भिका>
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ 3.22 ॥
स द्विविधः-शुद्धः संकीर्णश्चेति । केवलसंस्कृतप्रायः शुद्धः । संस्कृतप्राकृतमिश्रितः संकीर्णः ।
<III.6.3चूलिका>
अथ चूलिका—
अन्तर्यवनिकासंस्थैश्चूलिकाऽर्थस्य सूचना ।
यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका ।
<III.6.4 अङ्कास्यम्>
अथाङ्कास्यम्—
अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना ॥ 3.23 ॥
यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् ।
<III.6.5 प्रवेशकः>
अथ प्रवेशकः—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
प्रवेशकस्तु नाद्येऽङ्के नीचपात्रप्रयोजितः ॥ 3.24 ॥
नीचपात्रप्रयुक्तः प्रवेशकः आद्येऽङ्के न प्रयोक्तव्यः ।
<III.6.6 अङ्कावतारः>
अथाङ्कावतारः—
यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः ।
असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥
एभिः सूच्यं सूचयित्वा दृश्यमङ्कैः प्रदर्शयेत् ॥ 3.25 ॥
<III.6.7 अङ्कास्वरूपम्>
तत्राङ्कस्वरूपं निरूप्यते—
प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ 3.26 ॥
III.7. अथामुखं निरूप्यते—
सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ।
स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ॥ 3.27 ॥
प्रस्तावना वा तत्र स्यात् कथोद्घातः प्रवर्तकम् ।
प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य तु ॥ 3.28 ॥
एषामङ्गानां स्वरूपं निरूप्यते—
स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ।
गृहीत्वा प्रविशेत् पात्रं कथोद्धातो द्विधैव सः ॥ 3.29 ॥
प्रस्तूयमानकालस्य गुणवर्णनया स्वतः ।
प्रविशेत् सूचितं पात्रं यत्र तत्स्यात् प्रवर्तकम् ॥ 3.30 ॥
एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥ 3.31 ॥
III.8 वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्र स्वभावतः ।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ 3.32 ॥
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ 3.33 ॥
एषां स्वरूपं निरूप्यते—
गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् । अवलगितमपि द्विविधम् ।
यत्रैकत्र समावेशात् कार्यमन्यत्र सिद्ध्यति ।
वस्तुनोऽन्यत्र वा यत्स्यात् द्विधाऽवलगितं मतम् ॥ 3.34 ॥
अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात् प्रकृतकार्यसिद्धिश्च । असद्भूतं मिथः । स्तोत्रं प्रपञ्चः । त्रिगतं द्विविधं—पूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति । पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् । प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् । साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा । स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् । सहसोदितं प्रस्तुतविरोधि गण्डम् । रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् । सोपहासनिगूढार्थप्रहेलिका नालिका । असंबन्धकथाप्रायः प्रलोपोऽसत्प्रलापः । अन्यार्थं हास्यलोभकरं वचनं व्याहारः । दोषाणां गुणत्वप्रतिपादनं मृदवम् । एतेषां मध्ये यथासंभवं कानिचित् प्रस्तावनायां प्रयोक्तव्यानि ।
III.9 अथ दशरूपकाणां स्वरूपं निरूप्यते । तत्र
<III.9 नाटकलक्षणम्>
साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहृतैः ।
पूर्णं प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ 3.35 ॥
वीरश्रृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते ।
प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ 3.36 ॥
<III.9.1 नान्दीस्वरूपम्>
तत्र नान्दीस्वरूपं निरूप्यते—
अर्थतः शब्दतो वापि मनाक् काव्यार्थसूचनम् ।
यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ॥
द्वाविंशत्या पदैर्वाऽपि सा नान्दी परिकीर्तिता ॥ 3.37 ॥
नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते । वेणीसंहारेऽष्टपदा नान्दी । अनर्घराघवे द्वादशपदा । बालरामायणे द्वाविंशतिपदा । कैश्चित् नान्द्यां पदनियमो नाभ्युपगतः ।
नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः । तथोक्तं ‘दशरूपके’—
`रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥’ इति ।
एषा प्रक्रिया नाटकस्यैव मुख्या ।
<III.9.2-प्रकतणम्>
अथ प्रकरणम्—
उत्पाद्येनेतिवृत्तेन धीरशान्तप्रधानकम् ।
शेषं नाटकतुल्याङ्गं भवेत् प्रकरणं हि तत् ॥ 3.38 ॥
<III.9.3-भाणः>
अथ भाणः—
भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः ।
सूच्येते वीरश्रृङ्गारौ विटेन निपुणोक्तिना ॥ 3.39 ॥
कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् ।
एकोऽङ्को मुखनिर्वाहौ यत्र भाणः स संमतः ॥ 3.40 ॥
<III.9.4-प्रहसनम्>
अथ प्रहसनम्—
यत्र सन्ध्यङ्गवृत्त्यङ्गवर्णनं भाणवन्मतम् ।
हास्यो रसः प्रधानं स्याद्भवेत् प्रहसनं हि तत् ॥ 3.41 ॥
तच्च त्रिविधम्—शुद्धं वैकृतं संकीर्णं चेति । तत्र शुद्धम्—
पाषण्डविप्रप्रभृतिचेटीचेटसमाकुलम् ।
वेषभाषादिसहितं शुद्धं हास्यवचोऽन्वितम् ॥ 3.42 ॥
अथ वैकृतम्—
कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः ।
प्रहासाभिनयप्रायं वैकृतं तत् प्रकीर्त्यते ॥ 3.43 ॥
अथ संकीर्णम्—
यद् वीथ्यङ्गैः समाकीर्णं संकीर्णं धूर्तसंकुलम् ॥ 3.44 ॥
<III.9.5-डिमः>
अथ डिमः—
यत्र वस्तु प्रसिद्धं स्याद् वृत्तयः वैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ 3.45 ॥
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
हास्यश्रृङ्गाररहिता रसा रौद्रप्रधानकाः ॥ 3.46 ॥
चत्वारोऽङ्काः संधयश्च चत्वारो मर्शवर्जिताः ।
मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ॥
शेषं नाटकवत् सर्वं स डिमः परिकीर्त्यते ॥ 3.47 ॥
<III.9.6-व्यायोगः>
अथ व्यायोगः—
यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः ।
गर्भावमर्शराहित्यं डिमवद् रसपोषणम् ॥
एकवासरकार्यं च स व्यायोगो महारणः ॥ 3.48 ॥
<III.9.7-समवकारः>
अथ समवकारः—
यत्रामुखं नाटकवत् संधयो मर्शवर्जिताः ।
नेतारो द्वादश पृथक्फला देवासुरादयः ॥ 3.49 ॥
वीरप्रधानाश्च रसास्त्रयोऽङ्कास्तेषु च क्रमात् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ 3.50 ॥
पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः ।
धर्मार्थकामानुगुणास्तिस्रः श्रृङ्गाररीतयः ॥ 3.51 ॥
प्रथमेऽङ्के निबद्धव्या कथा यामत्रयावधिः ।
यामावधिर्द्वितीयेऽङ्के तृतीयेऽङ्केऽर्धयामिका ॥ 3.52 ॥
असौ समवकारः स्याद् वीथ्यङ्गैः कैश्चिदन्वितः ॥
<III.9.8- वीथी>
अथ वीथी—
यत्र भाणवदङ्गानां क्लृप्तिर्वृत्तिस्तु कैशिकी ॥ 3.53 ॥
श्रृङ्गारः परिपूर्णत्वात् सूचनीयोऽतिभूयसा ।
उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ 3.54 ॥
<III.9.9-अङ्कः>
अथाङ्कः—
यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः ।
स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः ॥
भाणवत् संधिवृत्त्यादि स उत्सृष्टोऽङ्कसंज्ञकः ॥ 3.55 ॥
<III.9.10-ईहामृगः>
अथेहामृगः—
मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसन्धिकम् ।
मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ ॥ 3.56 ॥
धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकौ ।
अवधं युद्धमन्योन्यमाभासरसयोस्तयोः ॥ 3.57 ॥
एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण ।
<III.10-नाटकोदाहरणम्>
नाटकोदाहरणप्रारम्भः ।
तत्र साङ्गं नाटकमुदाह्रियते ।
भद्रां कौतुकवेदिमागतवतोरन्योन्यमासेदुषोः
शैलैर्मेरुहिमाचलप्रभृतिर्भिर्देवैर्हरीन्द्रादिभिः ।
व्याप्तां पार्श्वयुगे पुरोऽम्बुजभुवा पश्चाच्च मेनादिभिः
साध्वीभिः शिवयोरपाङ्गसरणिर्वैवाहिकी पातु वः ॥ 1 ॥
एषा द्वाविंशतिपदा नान्दी । अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते ।
देयात् सिद्धिं महालक्ष्मीर्जगद्रक्षाधुरंधरा ।
विष्णुवक्षः स्फुरन्मालाविहितालयतोरणा ॥ 2 ॥
एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा ।
नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्)—
कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः !
तथाहि—
आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् ।
सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥ 3 ॥
एतद्रङ्गप्रसाधनम् ।
(सप्रहर्षम्)—
भूभृत्सुतामहादेवौ पितरौ यस्य विश्रुतौ ।
नरनागाकृतिः श्रीमान् स देवः श्रेयसेऽस्तु वः ॥ 4 ॥
(ऊर्ध्वमवलोक्य)—चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि ।
यतः—
विहरद्राजहंसश्रीर्विलसन्मित्रमण्डलः ।
प्रसाधयति सन्मार्गं प्रसन्नः शरदागमः ॥ 5 ॥
काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता ।
(सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा)
भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत । (आकाशे कर्णं दत्त्वा) किं ब्रूथ ?
`यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृहयत्यजस्रम् ।
तच्छ्रोत्रयोर्लोचनयोः पथां नः श्रृङ्गाटकं नाटकमाविरस्तु ॥ 6 ॥’ इति ।
(सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः । यत् प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते । अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः
सभा स्वयंभूपरमेश्वरस्य प्रतापरुद्रस्य गुणा महार्घाः ।
अहं च नाट्यश्रुतिपारदृश्वा सुधामुचस्तस्य कवेश्च वाचः ॥ 7 ॥
एषा प्रशंसयाऽभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना ।
(सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति ?
(प्रविश्य) नटी—(पुरोऽवलोक्य सस्पृहम्)—
* किं भारईए सुव्वइ मंजीररवो सहाए विहरंतीए ।
अह संगीअसुइ व्वा विण्णादं णट्टप्पमुहतूरणिणाओ ॥ 8 ॥
(* किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः ।
अथ संगीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)
(अपसृत्य)—+ अज्ज इअम्हि । आणवेदु को णिओओ अणुट्ठीअदु त्ति ।
(+ आर्य इयमस्मि । आज्ञापयतु को नियोगोऽनुष्ठीयतामिति ।)
सूत्रधारः—आर्ये,
यद् गेहे कलकण्ठनादमधुरं गास्यामि गीतिं ध्रुवां
लास्यं चारुभिरङ्गहारललितैराविष्करिष्यामि यत् ।
रम्यं यत् किल रङ्गमङ्गलविधिं संपादयिष्याम्यहं
प्रागित्युक्तवती तदद्य निपुणे निर्व्यूढमेवं त्वया ॥ 9 ॥
एतत् प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् ।
नटी—(सभयम्) ++ णट्टसामग्गिं सज्जीकादुं विलंबिअं । सज्जीकिआ क्खु एसा । केण उण रुव्वएण पओओ उअक्कमीअदु ।
(++ नाट्यसामग्रीं सज्जीकर्तुं विलम्बितम् । सज्जीकृता खल्वेषा । केन पुना रूपकेण प्रयोग उपक्रम्यताम् ।)
सूत्रधारः—नन्विदमेव रूपयतु । (इति पत्रिकां ददाति ।)
नटी—(गृहीत्वा संस्कृतमाश्रित्य वाच्यति ।)
तेजः पर्यायहरयोः किं किं संबोधनं मतम् ।
किमाशीर्वादविषयो विद्यानाथकृतिश्च का ॥ 10 ॥
समन्दस्मितं) + णिगूढत्थं खु एदं छेआणं वअणं पडिभादि । कीरिसं उत्तरं ? णिरूवेदु अज्जो ।
(+ निगूढार्थं खल्वेतच्छेकानां वचनं प्रतिभाति । कीदृशमुत्तरम् ? निरूपयत्वार्यः ।)
सूत्रधारः—अयि सुव्यक्तमेतत् । प्रतापरुद्रकल्याणमिति प्रतीयत एव
एषा निगूढार्था नालिका ।
नटी—* कहं कहाणाअअणआमहेआणुबंधमणोहरं क्खु नाडअम् ।
पआवोववदंकिअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि ।
(* कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् । प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते ।)
सूत्रधारः—प्रिये श्रूयताम् ।
तं सुजातं समुद्वीक्ष्य क्षोण्यां रविमिवोदितम् ।
प्रतापरुद्र इत्याख्यामकरोत् काकतीश्वरः ॥ 11 ॥
अन्यच्च—
विष्णोर्विश्वैकवीरस्य काकतीयकुले स्थितम् ।
अवतारममुं ज्ञात्वा वीररुद्रं प्रचक्षते ॥ 12 ॥
नटी—+ लोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि । चिरस्स णट्टविज्जणुवट्टणं फलिअं, जेण लोअमंगलं काकइमरिंदचरिअं अभिणिज्जइ ।
(+ लोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते । चिरस्य नाट्यविद्यानुवर्तनं फलितं, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)
एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् ।
सूत्रधारः—अहो प्रज्ञासंवादोऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका । यथा किल—
किं लोकश्रवसोर्भाग्यं मङ्गलश्रवणं मुहुः ।
किं मङ्गलं प्रतापाङ्करुद्रस्य चरिताद्भुतम् ॥ 13 ॥
एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् ।
नटी—*अय्यपरिअणेण सव्वं संपद्दीअदि ।
(* आर्यपरिजनेन सर्वं संपाद्यते ।)
सूत्रधारः—आर्ये,
त्वया दारैरुदारश्रीर्नाट्यसंपदियं मम ।
प्रबन्धलक्ष्मी रीत्येव विदर्भफणितिस्पृशा ॥ 14 ॥
एष मिथः स्तोत्ररूपः प्रपञ्चः ।
नटी—**एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअंतो तस्स कइणो संपुण्णो सरस्सईपसादो ।
(** एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः संपूर्णः सरस्वतीप्रसादः ।)
सूत्रधारः—आर्ये, एवमेव । नन्वेषा कविभारत्योर्वाक्केलिः । यथा
किल—
मातर्भारति ! वत्स ! किं ? तव कृपां याचेऽद्य किं प्रस्तुतं ?
जिह्वा काकतिवीररुद्रनृपतेः स्तोत्राय संनह्यति ।
ज्ञातं ते विहरन्तु वाग्लहरयः संध्यानटद्धूर्जटि-
त्वङ्गन्मौलितरङ्गिणीकलकलारम्भप्रियंभावुकाः ॥ 15 ॥
एषाऽन्योन्यसंलापरूपा वाक्केलिः ।
नटी—* अम्हाणं ईरिमणरिंदचरिआणुऊलो णट्टाडंबरो होइ ण वे त्ति सज्झसेण वेवइ मे हिअअम् ।
(* अस्माकमीदृशनरेन्द्रचरितानुकूलो नाट्याडम्बरो भवति न वेति साध्वसेन वेपते मे हृदयम् ।)
सूत्रधारः—(किंचित् सासूयं) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री । कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ?
नटी—+ संगीदसारस्स महण्णवो उव्वेल्लिज्जदि । अवहाणजाणपत्तं आरूहदु अज्जो ।
(+ संगीतसारस्य महार्णव उद्वेल्यते । अवधानयानपात्रमारोहत्वार्यः ।)
एतदन्योन्यवाक्याधिक्यादधिबलम् ।
सूत्रधारः—चिरमवहित एवास्मि । नन्वियमुपक्रम्यते ध्रुवा—
नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम् ।
नटी—(सस्मितं) * कहं अज्जो धुवं गाअइ !
(* कथमार्यो ध्रुवां गायति !)
सूत्रधारः—अयि कथमर्धोक्त एव त्वरा, `नाट्यविद्या’ इति शेषं न जिघ्रति ।
एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् ।
आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः ।
नटी—(तथा करोति ।)
** लच्छी सरई अ इमा धवलिअभुवणंतरा विराअंती ।
विलसंतकुवलअसिरी राअस्स पसाहणं कुणइ ॥ 16 ॥
(** लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती ।
विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)
सूत्रधारः—(आकर्ण्य सरसावेशं)
गाढालिङ्गनसंमर्दप्रत्यक्षरगलत्सुधाम् ।
ध्रुवां करोमि सर्वाङ्गे श्रोत्रैकामृतवर्षिणीम् ॥ 17 ॥
एष रसवशादसंगतार्थव्याहाररूपोऽसत्प्रलापः ।
नटी—(सोपहासं) +सुउमारा क्खु एसा अय्यस्स णिद्दआलिंगणवेल्लणं ण सहइ ।
(+ सुकुमारा खल्वेषाऽऽर्यस्य निर्दयालिङ्गनक्षेपणं न सहते ।)
एष हास्यलोभकरो व्याहारः ।
सूत्रधारः—(सव्रीडं)
रसास्वादेन तरला ये माद्यन्ति विपश्चितः ।
त एव भावुक्ता लोके भवन्ति हृदयालवः ॥ 18 ॥
एतद्दोषस्य गुणत्वारोपान्मृदवम् ।
नटी—** अय्यो अणंतरकरणिज्जं णिरूवेदु ।
(** आर्यः अनन्तरकरणीयं निरूपयतु ।)
सूत्रधारः—नन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते ।
सर्वाङ्गविलस्तसर्वमङ्गलालंकृताकृतेः ।
रुद्रस्य महिमा भाति विश्वानुग्रहकारिणः ॥ 19 ॥
नेपथ्ये । भोः ! सत्यं सत्यम् । सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतिरेवायं रुद्र इति ।
सूत्रधारः—(सहर्षं) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते ।
अयं कथोद्धातः । इदमेव गुणवर्णनात् प्रवर्तकं च ।
(पुरोऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते ।
एषोऽयमित्युपक्षेपात् प्रयोगातिशयः प्रस्तावनाङ्गम् ।
तदेहि । आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ ।)
इति समग्राङ्गा प्रस्तावना ।
(ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ ।)
प्रथमः—(सहर्षं)
योऽयं जातस्त्रिलोकीप्रथितसुचरिते काकतीयान्ववाये
यस्मै श्रेयांस्यजस्रं वितरति भगवान् देवदेवः स्वयंभूः ।
यस्याज्ञा सर्वपृथ्वीपतिमणिमुकुटश्रेणिकेलीवयस्या
सोऽयं भूपालमौलिर्जयति गुणमहान् रुद्रदेवो नरेन्द्रः ॥ 20 ॥
स्वयंभूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपोऽङ्गम् ।
द्वितीयः—सखे ! किमुच्यते,
यो रुद्रो रजताचले स्थितिमगादर्धाङ्गनारिः पुरा
सोऽयं संप्रति काकतीश्वरकुले सर्वाङ्गनारी स्थितः ।
स्थाने यद्विषमावलोकनकलामात्रेण भस्मीकृता-
न्यासन् वैरिपुराणि चित्रमधुना खड्गे विषं धार्यते ॥ 21 ॥
प्रथमः—सखे साधु समर्थितम् । अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयंभूदेवस्तादृशीं श्रेयः संग्रहकारिकामुपदिष्टवान् ।
स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात् परिकरः ।
द्वितीयः—(सविमर्शाश्चर्यं) कथमवगतं राजरहस्यं वयस्येन ?
प्रथमः—सखे, कस्य वा न विदितमिदम् । यत् सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव ।
कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः ।
द्वितीयः—अहो निरन्तरप्रसादोन्मुखता देवस्य । यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते ।
एतत् बीजस्य श्रेयोऽनुबन्धरूपगुणख्यापनाद् विलोभनम् ।
तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः । तदेहि राजकुलं प्रविशावः ।
प्रथमः—वयस्य, सांप्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति । तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे ।
(इति परिक्रम्य निष्क्रान्तौ ।)
अयं शुद्धविष्कम्भः
अङ्कारम्भः ॥
(ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च ।)
राजा—(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य !
सोमार्काभिजनं तमद्य जयति श्रीकाकतीयान्वयः
पातिव्रत्यमुपैति सांप्रतममीष्वस्मासु विश्वंभरा ।
अस्माभिर्निजदोः प्रसूतिमधुना धन्यामजो मन्यते
यत्कर्तव्यमुपादिशत् कुलपतिर्देवः स्वयंभूः स्वयम् ॥ 22 ॥
पुरोधसः—महाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् । अथवा किमत्राभिनवम् । पुत्राणां हितोपदेशाधिकारः पितुरेव । यदित्थं कथयन्ति तद्विदः ।
सैवोमा चेति निर्दिष्टा सोमा चेति प्रथामगात् ।
तव माता शिवा साक्षाद्देवो गणपतिः पिता ॥ 23 ॥
मन्त्रिणः—एवमेवैतत् । अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् । एवं मानुषशंभुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः । तदनुगुणा च रुद्र इत्याख्या ।
पुरोधसः—(सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ?
राजा—(सादारं) इदं निवेद्यते ।
कदाचित् कल्याणे रजनीसमये स्मेरवदनं
पुरः प्रादुर्भूतं सयुवतिवपुः साक्षनिटिलम् ।
स्रवन्तीचन्द्राभ्यां महितमुकुटं प्रेक्ष्य किमपि
स्वयंभूदेवोऽसावयमिति हठोत्थानमभजम् ॥ 24 ॥
अनन्तरं स्वप्न एव
वपुषा तं नमस्कृत्य स्तुवन् सूनृतया गिरा ।
स्वामिने काकतीयानां रत्नासनमुपाहरम् ॥ 25 ॥
चामरग्राहिणी—*अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम् ।
(* अहो देवस्यानुसंधानं यत् स्वप्नेऽपि कुलस्वामिनः समाराधनम्। )
पुरोधसः—किमुच्यते । आविष्टभक्तयः खलु स्वयंभूदेवे काकतीयनरदेवाः । ततः ।
राजा—
शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् ।
अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम् । 26 ॥
अथ च
विभुः स्वयंभूरवदच्छुचिस्मितां गिरं स्ववामार्धवधूपलालिताम् ।
स्पृशन् करेणाभयदानशालिना कृताञ्जलिं मां विनयानताननम् ॥ 27 ॥
यत् किल
उन्मस्तकैर्मध्यमलोकभाग्यैस्तपोविशेषैरनघैः पृथिव्याः ।
सम्यक्फलैः सच्चरितैः प्रजानां प्रतापरुद्रोऽयमिहावतीर्णः ॥ 28 ॥
वत्स काकतीयकुलप्रदीप !
स्वीकृते पुत्रभावेन दौहित्रे प्राङ्ममाज्ञया ।
अस्मिन् निधेहि धौरेये गुर्वीमुर्वीधुरामिति ॥ 29 ॥
पुरोधसः—(सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् । तवाप्ययमेव मनोरथः । प्रियंकरश्चायं महोत्सवः प्रजानाम् । तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला । ततस्ततः ।
इयं प्रयोजननिर्धारणरूपा युक्तिः ।
राजा—तद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा ।
चामरग्राहिणी—* महाराअस्स हिअअं अणुवट्टमाणाए वसुंधराए उइदो ख्खु हरिसाविभ्भावो ।
एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः ।
(* महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः ।)
राजा—काकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता । देवोऽपि सप्रसादातिशयमवलोक्यान्तर्हितोऽभूत् ।
इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात् समाधानम् ।
मन्त्रिणः—विश्वप्रियंकरः स्वप्नप्रत्ययः । किंतु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः ।
एतत्सुखदुः खहेतुभूतं विधानम् ।
चामरग्राहिणी—*अच्चरिअं अच्चरिअं । कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् ।
(* आश्चर्यमाश्चर्यम् । कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् ।)
इयं बीजविषयाऽऽश्चर्यरूपा परिभावना ।
राजा—(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः-
कल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् ।
एष बीजप्रकाशनादुद्भेदः ।
मन्त्रिणः—यदाज्ञापयति काकतीयपरमेश्वरः ।
राजा—किमिदानीं कर्तव्यम् ?
पुरोधसः—महाराज ! किमन्यत् ? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभारः ।
एष बीजानुगुणप्रोत्साहनरूपो भेदः ।
मन्त्रिणः—दिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः ।
पुरोधसः—उचितमनुमन्त्रितं मन्त्रिभिः ।
राजा—तर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि ।
अहमपि सज्जो भवामि ।
एष आरम्भः । इदं बीजानुगुणारम्भरूपं करणम् । एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः ।
(नेपथ्ये) वैतालिकौ—सुखाय माध्यन्दिनी संध्या भवतु देवस्य ।
यदिदानीम्—
लोकालोकगिरीन्द्रकन्दरतमः संदोहदर्पापहं
त्वत्तेजः पटलं कियन्ति भुवनान्याक्रम्य संक्रीडते ।
इत्यालोकनकौतुकीव शिथिलस्वीयाधिकारश्रमो
भास्वानेष समग्रदीप्तिरधुना व्योमाग्रमारोहति ॥ 30 ॥
अपि च—
उद्गायन्ति शरन्निशाकरकरस्तोमत्विषस्त्वद्गुणान्
क्रीडन्त्यो मलयाद्रिचन्दनलताकुञ्जे भुजङ्गाङ्गनाः ।
पीत्वा तत्तदुदीर्णवर्णगलितां प्रत्यग्रधारां सुधां
वाताहारतया प्रभूतमयशः प्रक्षालयन्त्यो निजम् ॥ 31 ॥
इदानीं खलु—
आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् ।
यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम् ॥ 32 ॥
राजा—(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय । अहमपि तावदभ्यन्तरं प्रविशामि ।
(इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे)
इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥
(अथ द्वितीयोऽङ्कः)
नेपथ्ये)—*इदो इदो अज्जो ।
(* इत इत आर्यः ।)
(ततः प्रविशति वृद्धकञ्चुकी)
कञ्चुकी—(सहर्षं) चिराय यौवनमतिशयानया चरितार्थया जरयाऽनया संचरे । यया दीर्घायुषा प्रतापरुद्रमहाभिषेकमनुभवितास्मि ।
एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः ।
अपि च—
पदे पदे स्खलन्तं मां वाचा गत्याऽथ चेष्टया ।
अवलोक्य हसन्नास्ते स्वामी रुद्रनरेश्वरः ॥ 1 ॥
(सविमर्शाश्चर्यम्)
काकतीयनरेन्द्रस्य राज्यश्रीर्मूलवेश्मनः ।
युवराजगृहानद्य गवाक्षैः स्वैरमीक्षते ॥ 2 ॥
एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः ।
(पुरोऽवलोक्य)
कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते ।
(प्रविश्य) दारकः—*अय्य पणमामि ।
(*आर्थ प्रणमामि ।)
कञ्चुकी—भद्र कल्याणास्पदं भूयाः । किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण ।
दारकः—+कहं कहं वि अणुभदम् ।
(+ कथं कथमपि अनुमतम् ।)
कञ्चुकी—स्वनामानुगुणमिदं राजपुत्रस्य यत् सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते ।
दारकः—++ अय्य अणणुहूदजुझ्झपरिस्समो जुवराओ । दुक्खरो खु दिअंतजओ कहं भविस्सइ ।
(++ आर्य, अननुभूतयुद्धपरिश्रमो युवराजः । दुष्करः खुलु दिगन्तजयः कथं भविष्यति ।)
कञ्चुकी—भद्र, निरङ्कुशाः स्वयंभूदेवप्रवृत्तयः । विष्णोरवतारः खल्वयं वीररुद्रोऽपि अचिन्त्यमहिमा ।
एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः ।
अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसंधिरयम् ।
दारकः—* एव्वं एदम् । अमाणुसो खु सो पहावो ।
(* एवमेतत् । अमानुषः खलु स प्रभावः ।)
कञ्चुकी—कुत्रेदानीं राजपुत्रः ?
दारकः—+ काअईअकुलदुग्गादेवीसमाराहणेण विअअपत्थाणमंगलं काऊण तत्थ हणुमदअलपेरंतबहिरुज्जाणे णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठई । ता अणुजाणीहि मम तत्थ पत्थाणं।
(+ काकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति । तदनुजानीहि मम तत्र प्रस्थानम् ।)
कञ्चुकी—भद्र ! साधय । अहमपि राजकुलं प्रविशामि ।
(इति यथोचितं परिक्रम्य निष्क्रान्तौ ।)
इयं चूलिका ।
(ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च ।)
प्रतापरुद्रः—
किं राज्येन शमोन्मुखं रचयता तातं कुलालम्बनं
किं चास्मिन् समुदाहरन्ति महतो दोषान् बहून् सूरयः ।
धर्माध्वा च खिलीकृतोऽयमधुना कः संचरेदस्खलं-
स्तन्नेष्टं किल यौवराज्यमपि मे बाल्योत्सवे क्रीडतः ॥ 3 ॥
तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे ।
एतद्राज्येऽनिच्छाभिधानाद्विधूतम् ।
मन्त्रिणः—राजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति । आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् । कुलस्वामिना स्वयंभुवाऽप्येवमेवानुशिष्टम् । अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा । कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् ।
प्रतापरुद्रः—(सानुरोधं)
स्वयंभूस्तात इत्येतावीश्वरौ दिव्यमानुषौ ।
तयोरन्यतरो राजा युवराजोऽस्मि सर्वथा ॥ 4 ॥
मन्त्रिणः—राजपुत्र ! साधारणोऽयं विनयः काकतीश्वराणां स्वयंभुवि महाराजे च ।
एष प्रकृतविषयारत्युपशमाच्छमः ।
परिजनः—* काअईअकुलट्ठविरो तत्तभवंतो सअंभूदेवो धुरं धारेदु ।
राअउत्तो उण रज्जसिरिअं अंके आरोवेदु ।
(* काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु । राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु ।)
(प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति ।)
एतत् परिहासवचोरूपं नर्म ।
परिजनः—+ चिरेण चरिअत्था मेइणी संवुत्ता ।
(+ चिरेण चरितार्था मेदिनी संवृत्ता ।
गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः ।
क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)
गोत्तगिरिसिहराणिठ्ठुरविअडसिलावसइबब्बरंगीए ।
खोणीए होदु वासो बाहुम्मि पआवरुद्दस्स ॥ 5 ॥
- जह हरिचंदस्स भुए जह रहुणाहस्स बाहुफलअम्मि ।
काअइलच्छीपइणो बाहुम्मि तहा मही रमदु ॥ 6 ॥
(+ यथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके ।
काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)
(प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति ।)
एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः ।
मन्त्रिणः—राजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते ।
परिजनः—
* विज्जावहूणं अहिअं दठ्ठूण पइम्मि पणअविस्संभं ।
खोणी लच्छी अ कहं विलंबिअं सहउ जुवराए ॥ 7 ॥
(* विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् ।
क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराए ॥)
मन्त्रिणः—इत्थमेव ।
स्वतेजसा परिष्कृत्य प्रधानागारमुत्सुका ।
प्रतीक्षतेऽद्य राज्यश्रीर्युवराजसमागमम् ॥ 8 ॥
एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात् प्रगमः ।
परिo—** कहं अंदरिओ खु एसो महूसओ दिसाविजअजत्ताए ।
(** कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया ।)
एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः ।
मन्त्रिणः—(सावज्ञं) कथं चिरयन्त्यन्ध्रचमूपतयः । अथवा किं तैः ; वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदानाराधितस्वामिन एव ।
एतन्निष्ठुरवचनरूपं वज्रम् ।
(प्रविश्य) दौवारिकः—* जेदु जेदु जुअरोओ । एदे खु चमूपइणो पडिहारभूमिभाअम्मि सज्जीकिअचउरंगबला वट्टन्ति ।
(* जयतु जयतु युवराजः । एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते ।)
मन्त्रिणः—अचिरं भोः प्रवेशय ।
दौवारिकः—तथा ।
(इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः ।)
सेनापतयः—(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव । तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् ।
एतदनुनयवचनरूपं पर्युपासनम् ।
मन्त्रिणः—राजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः । आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः । प्रस्तूयतां सेनापुरः-सराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् ।
प्रतापरुद्रः—यथाभिरुचितममात्येभ्यः ।
(इति गन्धगजाधिरोहणं नाटयति ।)
मन्त्रिणः—
करोदग्रेण महसा विष्वगाक्रमितुं दिशः ।
आरोहति गजं वीररुद्रो भास्वानिवोदयम् ॥ 9 ॥
एतत् प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् ।
(सर्वे युवराजहस्तिनं पुरस्कृत्य ससंबाधं किंचित् परिक्रामन्ति ।)
सेनापतयः—(सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः ।
धावत्पादातपादाहतिदलितमहीरन्ध्रनीरन्ध्रनिर्यद्-
धूलीजालाम्बुदान्तर्विलसदसिलताविद्युदुद्दामदीप्ताः ।
उद्यन्निस्साणराणस्तनितपटपटद्दिक्तटाः प्रारभन्ते
प्रावृट्लक्ष्मीं ध्वजिन्यः करिकरटतटस्यन्दिदानाम्बुधाराः ॥ 10 ॥
(अन्यतो निरूप्य)
बले चलति संभ्रमप्रतिभये विजेतुं दिशः
पुरन्दरहरिज्जयव्यवसिताः सहायोद्धताः ।
चलन्ति चिरमत्सराः शिखरिणो यथा दन्तिनो
भरावनमदुन्नमद्भुजगराजफक्कत्फणाः ॥ 11 ॥
परिजनः—(विलोक्य साश्चर्यं) * महंतो खु एसो तिलिंगसुभडाणं उस्साहो ।
(* महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः ।)
(संस्कृतमाश्रित्य)
उद्यत्तोमरडामराः प्रतिपदप्रोत्क्षिप्तकौक्षेयकाः
स्वैरोद्गीर्णभुसुण्ढयः पटुतराकृष्टध्वनत्कार्मुकाः ।
भ्राम्यद्भीमगदाः समग्रविहरत्प्रासाः स्फुरत्पट्टसाः
खेलन्त्यन्ध्रचमूभटाः सवपुषो रौद्रप्रकारा इव ॥ 12 ॥
मन्त्रिणः—अहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः ।
उत्क्षिप्योत्क्षिप्य पादौ रवितुरगशिरस्ताडनायेव पूर्वौ
पाश्चात्त्याभ्यां पदाभ्यामपि धरणिमवष्टभ्य संरब्धनुन्नाम् ।
वालैर्व्याधूयमानैः प्रतिनृपतिहयोत्साहमुन्मार्जयन्तः
क्रामन्त्यश्वाः सहेलक्रमणपरिणमत्पञ्चधाराप्रपञ्चाः ॥ 13 ॥
(विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रंमः ।
तथा हि—
रथाः सरभसं भ्रमन्निबिडहेमनेमिक्षत-
क्षमातलसमुच्चलद्बहुलधूलिजालाम्बुदैः ।
तिरोहितमसूयया सपदि भानवीयं रथं
विधाय मुखरीभवन्त्यनिभृताक्षधूर्निस्वनाः ॥ 14 ॥
प्रतापरुद्रः—(सर्वतोऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि ।
बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुलाः ।
संक्रीडत्स्यन्दनाः क्ष्वेडसुभटाः सैन्यसंपदः ॥ 15 ॥
मन्त्रिणः—युवराजालोकनादुद्वेलः सैन्यसागरो वर्तते ।
अभ्यापतन्तीरभितो महीभृद्वाहिनीर्बहूः ।
काकतीयबलाम्भोधिरेष स्वैरं ग्रसिष्यते ॥ 16 ॥
सेनापतयः—यदादिशन्त्यमात्याः । (इति सप्रणामं) विजययात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति ।
(प्रतापरुद्रः सप्रसादममात्यानालोकयति ।)
मन्त्रिणः—(सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि ।
सेनापतयः—यथाऽऽदिशन्त्यमात्याः ।
(इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्)
पवनेनानुकूलेन प्रसारितपटाञ्चलाः ।
उद्युञ्जन्त इवाक्रष्टुं ध्वजाः सौत्रामणीं दिशम् ॥ 17 ॥
(सर्वे शकुनमभिनन्दन्ति ।)
एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः ।
प्रतापरुद्रः—(पुरोऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः ।
विप्रः—(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः । राजपुत्र ! स्वयंभूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः ।
प्रतापo—(सप्रणामादरं गृहीत्वा तान् निजोत्तमाङ्गे गजमूर्धनि च निधाय)
अमूलात् फलिता प्रसत्तिलतिका पत्युः स्वयंभूप्रभो-
राज्ञा क्षत्रियमौलिमण्डनमणेस्तातस्य सानुग्रहा ।
विप्राशीर्वचनानि मन्त्रसुरभीण्याकाङ्क्षितान्यन्वहं
पौराणां च जयोत्तराणि तदमूरीषज्जयाः स्युर्दिशः ॥ 18 ॥
एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः ।
मन्त्रिणः—राजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना ।
परिजनः—* विअअलच्छीपाणिग्गहणसमअदिण्णा विअ मङ्गलख्खदा जुवराअस्स सीसे दीसंदि ।
(* विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते ।)
विप्रः—राजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा ।
प्रतापरुद्रः—शिरसि कृतस्तातस्य नियोगः । (अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् । कतिपये विजययात्रापराः प्रवर्तध्वम् ।
अमात्याः—(सप्रणामं) यदाज्ञापयति युवराजः ।
विप्रः—स्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय ।
प्रतापरुद्रः—(सप्रश्रयं) भगवन्ननुजानीहि । वयमितः प्रतिष्ठामहे ।
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।)
॥ इति विजययात्राविलासो नाम द्वितीयोऽङ्कः ॥
(अथ तृतीयोऽङ्कः)
(ततः प्रविशतो लेखहस्तौ जाङ्घिकौ ।)
एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् ।
प्रथमः—(सानुसंधानाश्चर्यं) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि ।
द्वितीयः—वयस्य, किमुच्यते—
काकतीयप्रदीपोऽयमंशश्चातुर्भुजः स्वयम् ।
यद्वज्रकवचायन्ते प्रसादाश्च स्वयंभुवः ॥ 1 ॥
एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद् गर्भसन्धिः ।
प्रथमः—(अध्वक्लममभिनीय पुरोऽवलोक्य) प्राप्तेयमन्ध्रनगरी । (किंचित् प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य । यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः ।
द्वितीयः—(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽऽश्चर्यमपवार्य) सखे ! पश्य पश्य ।
सम्यङ्मागधवेषधारणतिरोभूता अपि क्षमाभुजः
सूच्यन्ते प्रभुतारहस्यपिशुनैराविष्कृतैलक्षणैः ।
हस्ताग्रैर्ध्वजचक्रलाञ्छिनतलैर्वक्षः स्थलैर्विस्तृतै-
राकाररैमनुष्यमात्रसुलभैर्वृत्तैरनीचैरपि ॥ 2 ॥
प्रथमः—नूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि ।
एतत् प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् । जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च ।
द्वितीयः—अहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया । तत् सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् ।
प्रथमः—(किंचिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः ।
जेत्रा काकतिवीररुद्रविभुना सर्वा दिशो निर्जिताः
क्ष्मापालाः करदीकृताः कृतमिदं निर्वीरमुर्वीतलम् ।
यस्योद्यद्भुजवैभवं सरभसारोहद्द्विषत्कामिनी-
मञ्जीरध्वनिपूर्णकन्दरमुखैर्व्याकुर्वते पर्वताः ॥ 3 ॥
एष तत्त्वानुकीर्तनरूपो मार्गः ।
द्वितीयः—सखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि ।
प्रथमः—उचितमनुचिन्तितं वयस्येन ।
द्वितीयः—(पुरोऽवलोक्य सहर्षं) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसंभ्रमं राजकुलाभ्यन्तरं प्रविशति । तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः । (इति परिक्रामतः ।)
एतद् वितर्कप्रतिपादनाद्रूपम् ।
(ततः प्रविशत्यमात्यपुत्रः ।)
अमात्यपुत्रः—(सप्रमोदं) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः । यन्मया विज्ञापितैः श्रवणप्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात् प्रमोदयिष्यते काकतीयवृषा ।
एषोत्कर्षवचनरूपोदाहृतिः ।
(पुरोऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति । तदहमुपसर्पामि । (इति परिक्रामति ।)
(ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च ।)
राजा—(सविमर्शाश्चर्यममात्यान् प्रति)—अहो शैशवेऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य । यदस्मदनुरोधार्थमिमानमात्यान् निवर्त्य स्वयमेव जिगीषुः प्रस्थितः ।
मन्त्रिणः—(सबहुमानं) महाराज ! भवता खलु पितृमान् कुमारः ।
पुरोधसः—विजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्याणानि । तद्विजिता एव दिशो राजपुत्रेण ।
राजा—भवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते ।
परिजनः—* काअईअकुलस्स किं णु ण संपुण्णं पुण्णेण, जस्सिं अवइण्णो भुवणेक्कभद्दो पआवरुद्दो ।
(* काकतीयकुलस्य किं नु संपूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः ।)
राजा—(सौत्सुक्यं) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ?
अमात्यपुत्रः—(सविनयसंभ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः ।
एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः ।
(सर्वे सहर्षातिशयं निरूपयन्ति ।)
मन्त्रिणः–भद्र ! शीघ्रं प्रवेशय ।
अमात्यपुत्रः—यदादिशन्ति महामन्त्रिणः ।
(इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः ।)
पुरुषौ—(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे । बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवेऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः ।
राजा—(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् । द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् ।
मन्त्रिणः—यदाज्ञापयति देवः । (इति भौरिकमुखात् तथा कुर्वन्ति)
एष सामदानाचरणरूपः संग्रहः ।
(पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः ।)
मन्त्रिणः—भद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् ।
पुरुषौ—सावधानमवधारयतु महाराजः ।
प्रथमः—देव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने,
यात्रारम्भमहेष्वहंप्रथमिकानिर्यच्चमूडम्बर-
क्षुण्णक्षोणितलोत्थितेऽतिबहुले पांसौ वियद्व्यापिनि ।
जेतव्याः सकला दिशः स्वविभुतामन्तः पिधायाधिक-
त्रासात् क्वापि पलायिता इव दृशां नैवाभवन् गोचराः ॥ 4 ॥
अनन्तरं च—
उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्याटोपपटीयसीषु परितो धाटीषु भारानम-
च्छेषाशेषफणासु विस्मितमथ त्रस्तं दिगीशैरपि ॥ 5 ॥
पुरोधसः—अहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् ।
द्वितीयः—अथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि ।
रथेनाभिमुख्यातं वीररुद्रो विलोक्य माम् ।
मृष्यते नायमित्यर्कः सैन्यरेणौ तिरोहितः ॥ 6 ॥
मन्त्रिणः—ततस्ततः ।
द्वितीयः—अनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन् महति बले प्रचलति,
युद्धाय समनह्यन्त कलिङ्गाः स्फुटपौरुषाः ।
माद्यद्द्विपघटोद्दामसंभ्रमाडम्बरोद्धताः ॥ 7 ॥
तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने,
पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः सृष्टदंष्ट्रः ।
बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्गः ॥ 8 ॥
पुरोधसः—मानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदाविष्कृतो निजप्रभावः ।
मन्त्रिणः—(सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य ।
परिजनः—* सरिसं खु एदं, जं महाराअरुद्दणरेसरणंदणेण कादव्वं, जं काअइकुलप्पसवाणं खमं, जं कुलदेवदाए सअंभूदेवस्स प्पसत्तिविसेसाणं जुत्तं, तं खु किअं जुवराएण ।
(* सदृशं खल्वेतत्—यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत् काकतिकुलप्रसवानां क्षमं, यत् कुलदेवतायाः स्वयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत् खलु कृतं युवराजेन ।)
राजा—(सप्रमोदगद्गदं) ततस्ततः ।
प्रथमः—अनन्तरम्-
छिन्नोद्यद्वैरिवीरप्रतिभयमुकुटाटोपसंजातराहु-
भ्रान्तिभ्रश्यत्पतङ्गाभयकरपृतनारेणुबद्धान्धकारा ।
आसीत् संग्रामवेला विहरदसिलतोद्भिन्नमत्तेभकुम्भ-
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ 9 ॥
अनन्तरं युवराजाज्ञया
वृत्रारातिदिगन्तरालविजयप्रख्यातविक्रान्तयः
पारेपूर्वपयोधि कल्पितजयस्तम्भाः स्फुरत्तेजसः ।
वेलाकाननवासिगीतविभवं देवस्य दोर्विक्रमं
श्रृण्वन्तो मुहुरन्ध्रसैन्यपतयः प्राप्ता दिशं दक्षिणाम् ॥ 10 ॥
तत्र च
मुनौ लोपामुद्रासुहृदि निकटस्थेऽपि महता
भवन्त्येता नद्यः कलुषपयसः सैन्यरजसा ।
इतीव व्योमाग्रे कलयपवनान्दोलितशिखाः
पताकाः सोत्प्रासाः प्रतिपदमनृत्यन्नतितराम् ॥ 11 ॥
अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः ।
मन्त्रिणः—साधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत् पूर्वमेव देवस्य चरणमूलं प्राप्ताः । ततस्ततः ।
द्वितीयः—तत्र च
पाश्चात्त्यानां ध्वजेषु स्थितमधिकभरस्रस्तदण्डेषु गृध्र-
व्रातैर्यच्चण्डतुण्डाहतिविहतपटेष्वाहतक्षिप्तपक्षैः ।
अस्त्रं गारुत्मतं तत् समजनि विजयप्रार्थिनामन्ध्रसैन्य-
प्रष्ठानां जन्यमन्यन्निजनिबिडभुजादण्डकण्डूविडम्बः ॥ 12 ॥
अनन्तरं—
जित्वा प्रतीचीमथ वीररुद्रः प्रत्यर्थिनारीनयनाम्बुपूर्णाम् ।
रेवां समुत्तीर्य गजानुबद्धसेतुं विजेतुं गतवानुदीचीम् ॥ 13 ॥
तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् ।
मन्त्रिणः—अहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति ।
राजा—ततस्ततः ।
प्रथमः—अनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः—
रे रे घूर्जर जर्जरोऽसि समरे लम्पाक ! किं कम्पसे
वङ्ग ! त्वङ्गसि किं मुधा बलरजः काणोऽसि किं कोङ्कण ! ।
प्राणत्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी
योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः* ॥ 14 ॥
(* `वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाः’ इति पाठान्तरम् ॥)
एतद्रोषसंरब्धवचनरूपं तोटकम् ।
परिजनः—** साहु साहु चमूवईणं वअणं । एव्वं फणिआ उण कीरिसं उवक्कंदं तेहिं ।
(** साधु साधु चमूपतीनां वचनम् । एतत् भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः ।)
प्रथमः—किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः ।
यस्तत्राभवदाहवस्तमखिलं जानाति भागीरथी
याऽत्याक्षीत् सुरभूयकारणनिजाहंकारमुच्छृङ्खलम् ।
आराद्वीक्ष्य समग्रमन्ध्रसुभटप्रोद्घूर्णखड्रगावली-
धारातीर्थमुपेत्य दिव्यनगरीमारोहतो भूपतीन् ॥ 15 ॥
अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षमूलानन्वेष्टुकामास्त्रिलिङ्गसैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म । जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् ।
मन्त्रिणः—साधीयान् खलु सैनिकानामुद्यमः ।
एतत् प्रकृतोपयोगित्वेन वञ्चनादधिबलम् ।
राजा—ततस्ततः ।
द्वितीयः—अनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः ।
परिजनः—* अहो णरवईणं जुज्झकाअरत्तणं ।
(* अहो नरपतीनां युद्धकातरत्वम् ।)
एष भयप्रतिपादनादुद्वेगः ।
प्रथमः—किमुच्यते कातर्यमिति ।
अङ्गाः संगरभीरवः समभवंश्चोलाः पलायाकुलाः +
(+ `प्रलापाकुलाः’ इति पाठान्तरम् ॥)
काश्मीराः स्मरणीयविक्रमकथा हूणा निरीणश्रियः ।
लम्पाका भयकम्पमानवपुषो वङ्गा निरङ्गीकृता
नेपालाः परिपालनव्यसनिनः सुह्माश्च नीरंहसः ॥ 16 ॥
अपि च
काम्भोजाः क्षतकुम्भिनीपरिचयाः प्राप्तव्रणाः सेवणाः
गौडाः पीडितविग्रहाः श्रितकुलग्रावाङ्कणाः कोङ्कणाः ।
लाटाः पाटितमूर्तयः परिलस(गल) द्भीविह्वलाः सिंहलाः
कर्णाटाः परिपूर्णवेपथुभृतस्तन्द्रालवो मालवाः ॥ 17 ॥
किं च
भोजा व्यर्थभुजायुधाः क्षतनिजस्त्रीकेलयः केरलाः
पाण्ड्याः खण्डितविक्रमाः प्रकटितह्रीजर्जरा घूर्जराः ।
पाञ्चालाः प्रणतिप्रपञ्चितभियश्चाटूत्कटाः कीकटाः
काम्पिल्याः श्रितपल्लयः कृतयशोभङ्गाः कलिङ्गा अपि ॥ 18 ॥
(सर्वे हर्षातिशयं नाटयन्ति ।)
परिजनः—(साश्चर्यं) * अहो वीररुद्दस्स अइसइदतिहुवणाइ जुज्झावदाणाइ ।
(* अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि ।)
राजा—(सहर्षं) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन ।
पुरोधसः—आमूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् ।
राजा—ततस्ततः ।
प्रथमः—अनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः ।
मन्त्रिणः—(सहर्षं) कुत्रेदानीं राजपुत्रः ?
द्वितीयः—साम्प्रतं किंकुर्वाणराजलोकः सर्वानपि सेनापतीन् नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते ।
मन्त्रिणः—(सविमर्शं) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः ।
एषा प्राप्त्याशा । दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात् पताका निरूपिता ।
राजा—तदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय ।
मन्त्रिणः—यदाज्ञापयति देवः । (इति निष्क्रान्ताः ।)
नेपथ्ये—(ससंभ्रमं) भो भो नागरिकाः ! सत्वरमपसरत दूरम् । यदिदानीम्-
आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो
वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः ।
भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं
विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥ 19 ॥
एष शङ्कात्रासरूपः संभ्रमः ।
राजा—(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः ।
पुरुषः—महाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रु ध्यन् निरर्गलो जातः प्रधानहस्ती ।
पुरोधसः—
पित्रा स्वयंभूपतिनोपदिष्टं प्रतापरुद्रस्य महाभिषेकम् ।
निर्विघ्नमापादयितुं गजास्यः करेणुराजाकृतिरभ्युपैति ॥ 20 ॥
एष गर्भबीजोद्भेदनादाक्षेपः ।
राजा—(सहर्षं) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः । (इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे ।)
॥ इति वीररुद्रविजयो नाम तृतीयोऽङ्कः ॥
॥ अथ चतुर्थोऽङ्कः ॥
(ततः प्रविशति धात्री चेटी च ।)
धात्री—(सरोषं) * हंजे एआरिससहस्सकज्जपज्जाउले राअउलमहूसवे वि सअला वि रअणी केण सम तुए णीदा । ईरिसमहग्घाइ भूसणाइ कुदो चोरिआइ । कहं ण विण्णादं तुए दासीएउत्तीए—सअला दिसो जेऊण चउरंतसामंतपरिवारो पआवरुद्दो णअरं पविठ्ठो । कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स सुकअपरिपाएण अब्भुपगअमहारज्जाहिसेओ जुवराओ संजाओ । एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा ।
(* हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवेऽपि सकलाऽपि रजनी केन समं त्वया नीता ? ईदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्या—सकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः । कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः । एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?)
अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः । चेटीगतदोषप्रख्यापनादपवादोऽङ्गम् ।
चेटी—** सामिणि ! अवराहं सहस्स । (इति पादयोः पतति ।)
(** स्वामिनि ! अपराधं सहस्व ।)
धात्री—(सभ्रूभङ्गं) + दासीएउत्ति, पटंचलेण सप्पदंसणं पडिमज्जेसि जं पणामेण ईरिसापराहं सिढिलेसि ।
(+ दास्याः पुत्रि ! पटाञ्चलेन सर्पदंशनं परिमर्जयसि-यत्प्रणामेनेदृशापराधं शिथिलयसि ।
एष रोषसंभाषणरूपः संफेटः ।
चेटी—* ईरिससहावा एव्व तुमं । ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्ता ।
(* ईदृशस्वभावैव त्वम् । तत् निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता ।)
धात्री—(सरोषशिरः कम्पं) ** वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि ।
(** वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)
(इति बाहुबन्धनं नाट्यति ।)
एष बन्धनरूपो विद्रवः ।
चेटी—(सभयकम्पं) + सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणं । तुह अत्तिआए हिडिंबस्समं गच्छतीए अहं बलक्कारेण णीदा । तद्ध पडिऊलं देव्वं पसादअंतीए विलंबिदं । किं करेमि ।
(+ स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् । तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याऽहं बलात्कारेण नीता । तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् । किं करोमि ?)
धात्री—(सरोषहुङ्कारं) ++ एआरिसं राअउलमहूसवं उज्झिअ हिडिंबालअगंडसेलेसु किं त्ति मत्तअं ताडिस्सइ मंदभाइणी ?
(++ एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं ताडयिष्यति मन्दभागिनी ।)
एष गुरुतिरस्कृतिरूपो द्रवः ।
चेटी—o सामिणि ! सहेहि विलंबिअं । तुए कादव्वं मंगलोवआरं सिग्घं णिव्वट्टेमि । (इति वपुषा प्रणमति ।)
(o स्वामिनि ! सहस्व विलम्बितम् । त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि ।)
धात्री—(सप्रसादं) * हंजे ! उठ्ठेहि उट्ठेहि ।
(* सखि ! उत्तिष्ठ उत्तिष्ठ ।)
एषा विरोधशमनरूपा शक्तिः ।
चेटी—(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) + इदो इदो तत्तहोदी ।
(+ इत इतस्तत्रभवती ।)
धात्री—(किंचित् परिक्रम्य पुरोऽवलोक्य च) ++ कहं एसो पडिहारप्पवरो ससंभमं णिग्गओ । ता पच्चासण्णो विअ महाहिसेअसमओ । तेण राअउत्तस्स मंगलणीराअणदीवरिंछ्छोलिं णिव्वट्टेदुं अब्भंतरं पविसह्म ।
(++ कथमेष प्रतीहारप्रवरः ससंभ्रमं निर्गतः । तत् प्रत्यासन्न इव महाभिषेकसमयः । तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः ।)
(इति निष्क्रान्ते ।)
प्रवेशकः ।
(ततः प्रविशति प्रतीहारः ।)
प्रतीहारः—(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य)
रे रे नरेश्वराः !
दन्तिव्यूहमुपायतीकृतममुं कुर्वन्तु पुर्या बहि-
र्यस्योद्यद्घनबृंहितैर्न घटिकाघण्टाध्वनिः श्रूयते ।
दूरे चास्तु रथाश्वमेतदखिलं यस्यातिसंदर्दतो
निष्क्रामत् प्रविशच्च नागरकुलं न स्वैरमाचेष्टते ॥ 1 ॥
एषा तर्जनोद्वेजनरूपा द्युतिः ।
(किंचिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संश्रृणुध्वम् । एषा रुद्रदेवस्याज्ञा । यथा किल—
पूर्वैः काकतिवंशजैर्नृपतिभिः सम्यग्धृता या चिरं
यस्या मानुषशम्भुना गणपतिक्षोणीभुजाऽभूत् प्रथा ।
येयं मद्भुजया कुलाद्रिवसतिं विस्मारिता मेदिनी
सेयं संप्रति वीररुद्रभुजयोर्यातु प्रतिष्ठां स्थिराम् ॥ 2 ॥
एषा स्ववंशजानां कीर्तनाद् गुरुकीर्तनरूपः प्रसङ्गः ।
(पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे । किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः । कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित् प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते । तत् त्वरध्वम् । (अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति । (किंचिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् । सज्जीकुरुध्वमुपायनजातम् । न वृया संमर्दं सहते मम वेत्रयष्टिः ।
एतदवमानरूपं छलनम् ।
(समन्तादवलोक्य सगर्वा तिशयं) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं संमर्दं निवारयतो मम प्रभावः । अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् ।
एष स्वशक्त्याविष्करणरूपो व्यवसायः ।
(प्रविश्य पटाक्षेपेण दौवारिकः ।)
दौवारिकः—(साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु ।
प्रथमः—(सरोषं) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि ।
द्वितीयः—भवतु यो वा को वा भवान् । प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा ।
एतत् प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् ।
प्रथमः—किमनेन समं शुष्ककलहेन । यावत् प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि ।
(इति परिक्रामति ।)
द्वितीयः—अहमपि यथानिर्दिष्टमनुतिष्ठामि ।
(इति परिक्रामति ।)
(ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च ।)
पुरोधसः—काकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् । किं च—
अद्यान्वयः काकतिभूपतीनां प्राप्तस्त्रिलोकीप्रथितां प्रतिष्ठाम् ।
राजन्वती भूरियमद्य जाता वीतोपसर्गाः सकलाः प्रजाश्च ॥ 3 ॥
एषा सिद्धवद्भाविश्रेयः कथनात् प्ररोचना ।
मन्त्रिणः—
सूर्यसोमान्वयामात्यमहत्ताऽद्याधरीकृता ।
अस्माभिरधिकुर्वाणैः काकतीयकुलस्थितिम् ॥ 4 ॥
एतत् प्रकृतानुगुणप्रशंसनाद् विचलनम् ।
पुरोधसः—राजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री । काकतीयनरेश्वरक्रमाधिष्ठिंत भद्रासनं भवदधिरोहणं प्रतीक्षते । तत् परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम् ।
एतत् कार्यसंग्रहरूपमादानम् ।
प्रतापरुद्रः—तर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि ।
पुरोधसः—सदृशोऽयमाचारः काकतीयकुलप्रदीपस्य भवतः । किं तु प्रत्यासीदति महाभिषेकसमयः । तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् । वयमितः करणीयशेषं प्रति (परि) पालयामः ।
प्रतापरुद्रः—यदादिशन्ति काकतीयान्वयप्रत्याययितारः ।
(इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।)
॥ इति त्वरितमहोत्सवो नाम चतुर्थोऽङ्कः ॥)
॥ अथ पञ्चमोऽङ्कः ॥
(ततः प्रविशन्ति ज्योतिर्विदः ।)
ज्योतिर्विदः—(ससंभ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् । कुत्र पुरोधसः । कुत्र वा मन्त्रियाः ? समानीयतां स्वयंभूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः । येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः ।
एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसंगत्वादङ्कावतरणम् ।
(सविमर्शाश्चर्यं)
अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा । यतः—
आदेष्टा कुलदेवता स भगवान् यस्य स्वयंभूः शिवो
यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः ।
यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृते-
र्विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः ॥ 1 ॥
एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसंधिः ।
(सोल्लासं) नूनमिदानीं
स्वप्नेऽप्यासूत्रितामाज्ञां पालयन्तं कुलोद्वहम् ।
न मान्त्यन्तर्मुदः शंभोर्विभोरप्यभिनन्दतः ॥ 2 ॥
एष मुखसंधौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात् संधिः ।
(किंचिदुच्चैः)
कल्याणी सकलापि भूतसरणिः क्षेमप्रदा देवताः
श्रेयः प्रस्रवनिर्भरा द्विजनुषामाशीर्गिरो जाग्रति ।
आरूढा पदमुन्नतं ग्रहगणाः श्रेयान् मुहूर्तः शुभैः
नक्षत्राणि शिवंकराणि शुभदाश्चान्ये निमित्तोदयाः ॥ 3 ॥
तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे ।
एष प्रकृतकार्यमार्गणाद्विरोधः ।
(सत्वरं परिक्रम्य पुरोऽवलोक्य च सहर्षसंभ्रम्)
नन्वागत एव प्रतापरुद्रः !
विप्रैर्मङ्गलसूक्तिपाठमुखरैरालोकशब्दोद्यतैः
भूपालैः करसंभृतोपकरणैराप्तैरमात्यात्मजैः ।
श्लाघ्यैर्वन्दिजनैर्दिगन्तविजयश्लाघासमुद्घोषणैः
स्त्रीवर्गैश्च यथोचितं परिवृतो नीराजनोद्योगिभिः ॥ 4 ॥
तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः ।
(इति परिक्रामन्ति .)
(ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च ।)
मन्त्रिणः—(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः । इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी । न विलम्बार्हाः कुलदेवताया मनोरथाः ।
एतत् पट्टबन्धरूपकार्यस्योपक्षेपणाद् ग्रथनम् ।
ज्योतिर्विदः—(किंचिदुच्चैः) भोः भोः कुलामात्याः !
संनह्यध्वमुपाहरध्वमुचितद्रव्याण्युपाध्वं सुरान्
संप्राप्तः सुमुहूर्त एष विजयी कल्याणसंपत्खनिः ।
यस्मिन् प्राप्य महाभिषेकविभवं क्षोणीं प्रलीनाखिल-
क्ष्मापालां चिरमन्वशाद्गणपतिर्भूभृत्कुलग्रामणीः ॥ 5 ॥
एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः ।
परिजनः—(श्रुत्वा) * पच्चासण्णे वि मुहूते किं विलंबिअदि महामच्चेहिं ।
(* प्रत्यासन्नेऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः ।)
मन्त्रिणः—(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा । नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य । महास्थान्यामेवानुगृह्यन्ताममी ।
प्रतापरुद्रः—शिरसि धृतैव खलु तातस्याज्ञा । किं तु नोपदिश्यते पुनरनन्तरकरणीयम् ।
एतत् प्रकृतानुगुण्येनान्योन्यपरिभाषणात् परिभाषणम् ।
पुरोधसः—(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः ।
नृपाः—देव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी ।
प्रतापरुद्रः—तथा भवतु । (इति वेदिकामारोहति ।)
नृपाः—(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी ।
एष नरेश्वरपर्युपासनात् प्रसादः ।
परिजयः—(विलोक्य सामोदकौतुकम्) + पुव्वपव्वअकणअसाणुं सहस्सरस्सी विअ सुमेरुकणअतडं महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ कणअवेदिं आरूढो पआवरुद्दो ।
(+ पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, कनकवेदिमारूढः प्रतापरुद्रः ।)
मन्त्रिणः—काकतीश्वर ! समारुह्यतामिदं भद्रासनम् । अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति ।
प्रतापरुद्रः—तथा भवतु ।
(इति स्वयंभूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति ।)
पुरोधसः—(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् )
प्रतापरुद्रनृपते ! काकतीयकुलोचितैः ।
प्रजानुरञ्जनैः क्षोणीं पालयाचन्द्रतारकम् ॥ 6 ॥
(इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयंभूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः प्रस्तावनाडिण्डिमं चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसंदधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति ।)
एष वाञ्छितार्थप्राप्तिरानन्दः ।
एकतो वैतालिकाः—(सहर्षातिशयमुच्चैः)
हे लोकाः ! पिबत श्रवः प्रसृतिभिः कल्याणवार्तामृतं
जातः काकतिवीररुद्रनृपते राज्याभिषेकोत्सवः ।
अद्यारभ्य कलिः कृतः कृतयुगं राजन्वती मेदिनी
देवाः पूर्णहविर्भुजस्तदधुना यूयं कृतार्थीकृताः ॥ 7 ॥
अन्यतो वैतालिकाः—
आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं
तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति ।
लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठा-
दारोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः ॥ 8 ॥
दक्षिणतो वैतालिकाः—
गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैः
लक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षस्स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया
दोष्णा काकतिवीररुद्रनृपतौ विश्वंभरां बिभ्रति ॥ 9 ॥
उत्तरतो वैतालिकाः—
प्रस्थेभ्यः कुलभूभृतामपि हरिद्दन्तावलानां महा-
कुम्भेभ्योऽपि फणाभृतामधिपतेर्मूर्ध्नां सहस्रादपि ।
कूर्मेन्द्रस्य च कर्परादपि जगद्विख्यातसारोन्नतौ
बाहौ संप्रति वीररुद्रनृपतेः प्राप्तप्रतिष्ठा मही ॥ 10 ॥
एष सर्वदुः खशमनात् समयः ।
मन्त्रिणः—अहो ! प्रभावः काकतीयान्वयस्य । यदिदानीं—
प्रतापरुद्रस्य महाभिषेकपयः कणा ये निपतन्ति राज्ञाम् ।
प्रणामनम्रेषु शिरस्सु तेषां तैः कल्पितः स्वस्वपदाभिषेकः ॥ 11 ॥
पुरोधसः—काकतीयकुलोत्तंस ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् । (इति पट्टबन्धमाचरन्ति ।)
सर्वे—(सप्रमोदातिशयं) प्रियं नः प्रियं नः ।
एषा प्रकृतकार्यस्थिरीकरणात् कृतिः ।
मन्त्रिणः—(सर्वतोऽवलोक्य) कस्कोऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च ।
(प्रविश्य प्रधानप्रतीहारः)
प्रतीहारः—यदाज्ञापयन्ति महामात्याः ।
(इति परिक्रम्य तान्युपानयति ।)
(प्रान्तवर्तिनो नरपतयोऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति ।)
पुरोधसः—(सहर्षातिशयं)
श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमै-
रीदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले ।
बाल्यक्रीडितदिग्जयस्त्रिभुवनक्षेमंकरप्रक्रियः
किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ 12 ॥
एतदखिलातिशायित्वकथनमुखेन प्रकृतकार्यानुमोदनादाभाषणम् ।
तदिदानीं खलु—
यत् काकतीयनृपराज्यविलासचिह्नं
यच्छायया वसुमती विजहाति तापम् ।
छत्रेण तेन कृतलक्ष्मणि वीररुद्रे
मुक्तातपत्रविभवाः सुहृदो द्विषश्च ॥ 13 ॥
एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात् पूर्वभावः ।
मन्त्रिणः—(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते । तत् सांप्रतं महास्थानीं प्रसाधयतु देवः ।
पुरोधसः—आचारोऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम्।
राजा—यदाज्ञापयन्ति धर्मविदः । (इत्युत्तिष्ठति ।)
काकतीयकुलवृद्धाः (ससंभ्रममुच्चैः)
प्रक्रान्तमुर्वीश्चरमौलिरत्नैः कुर्वन्ति नीराजनमम्बुजाक्ष्यः ।
प्रतापरुद्रस्य लसत्प्रतापप्रदीपनीराजितदिङ्मुखस्य ॥ 14 ॥
नृपतयः—(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था सांप्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते । यतः
नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ 15 ॥
(सर्वे जयशब्दं कुर्वन्ति ।)
मन्त्रिणः—महाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् ।
प्रतीहारः—(ससंभ्रमं पुरो भूत्वा) देव ! इत इतः ।
(राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति ।)
(सर्वे प्रणम्य यथार्हमुपविशन्ति ।)
प्रतीहारः—(समयोचितं परिक्रम्य वन्दमानान् मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्)
कालिङ्गात्र निषीद, कोङ्कणपते ! दूरे भवाङ्गेश्वर !
प्रान्तं संश्रय, मालवेन्द्र, शनकैः स्वोपायनं प्रापय ।
पाण्ड्याग्रे भव, सेवणक्षितिपते ! पश्चाद्भवाद्यैव वः
स्वामी काकतिवीररुद्रनृपतिः सर्वान् क्रमादीक्षते ॥ 16 ॥
(नृपतयः प्रणम्य यथार्हमुपविशन्ति ।)
पुरोधसः—स्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति ।
शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति ।
मध्यस्थताऽस्य लोकस्य चिरेणान्वर्थतां गता ॥ 17 ॥
राजा—(सविनयं) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते ।
मन्त्रिणः—राजन् ! प्रतापरुद्र !
सर्वेषां काकतीयानां भागधेयविभूतयः ।
एवंरूपा विवर्तन्ते यत्कुलप्रभवो भवान् * ॥ 18 ॥
(* `यत्कुलालम्बनं भवान्’ इति पाठान्तरम् ।)
पुरोधसः—न केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् ।
(प्रविश्य प्रतीहारः)
प्रतिहारः—देव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते ।
मन्त्रिणः—शीघ्रं प्रवेश्यन्ताम् ।
प्रतीहारः—यदाज्ञापयन्त्यमात्याः ।
(इति निष्क्रम्य ताभिः सह पुनः प्रविशति ।)
(ततः प्रविशन्ति वर्णवृद्धाः ।)
वर्णवृद्धाः—(सहर्षं राजानमवलोक्य)
वरः प्रतापरुद्रोऽयं वधूरेषा वसुंधरा ।
तयोर्घटयिता देवः स्वयंभूः सदृशः क्रमः ॥ 19 ॥
एतत् स्वयंभूदेवस्य स्वयं संधातृत्वादद्भुतप्राप्तेरुपगूहनम् ।
(सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र !
सर्वाशीः फलविश्रमैकवसतेः किं वा तवाशास्महे
यद्वा विश्वविभौ स्वयंभुवि शिवे नस्तन्वतामाशिषः ।
किं चित्रं स विभुर्भवानपि समो गौरीश्रियोर्वल्लभा-
वाचन्द्रार्कमिमां क्षमां कृतयशोरक्षौ युवां रक्षतम् ॥ 20 ॥
मन्त्रिणः—स्वामिन्नेते स्वायंभुवाः सुधियः ।
(राजा सादरं प्रणमति ।)
अन्ये—(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर !
यस्त्वद्गोत्रमहत्तरस्य जगतां त्रातुः स्वयंभूविभो-
स्तत्तादृक्चरिताद्भुतैर्महिमभिः स्वीयैर्द्वितीयोऽभवत् ।
देवोऽसौ गणपेश्वरः प्रतिकलं स्फारप्रसादोन्मुखो
नुप्तुस्ते कुलमण्डनस्य महतीं पुष्णातु राज्यश्रियम् ॥ 21 ॥
पुरोधसः—राजन्नेते गाणपेतश्वराः सूरयः ।
(राजा सादरं नमस्करोति ।)
अपरे—(सप्रश्रयप्रमोदं) स्वामिंस्त्रिलिङ्गदेशपरमेश्वर !
यैर्देशस्त्रिभिरेष याति महतीं ख्यातिं त्रिलिङ्गाख्यया
येषां काकतिराजकीर्त्तिविभवैः कैलासशैलाः कृताः ।
ते देवाः प्रसरत्प्रसादमधुराः श्रीशैलकालेश्वर-
द्राक्षारामनिवासिनः प्रतिदिनं त्वच्छ्रेयसे जाग्रतु ॥ 22 ॥
पुरोधसः—(सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते ।
(राजा यथोचितं वन्दते ।)
मन्त्रिणः—साधीयान् आशीर्वादक्रमः ।
(इति यथोचितं सर्वानुपवेशयन्ति ।)
पुरोधसः—(सोल्लासं) राजन्नेकशिलानगरीवल्लभ !
साहस्रांशवमैन्दवं च महती ये द्वे कुले निर्मिते
ते जाते लघुनी गुणैर्विजयिनि श्रीकाकतीयान्वये ।
भूपालेषु भवत्प्रतापयशसोः पूर्णार्कचन्द्रश्रियोः
प्राप्यानुग्रहमूर्जितेषु पुनरप्येते लभेते स्थितिम् ॥ 23 ॥
(राजा सर्वान् पश्यति । पुरोधसो यथार्हं सर्वानुपवेशयन्ति ।)
प्रकृतयः—विजयतां विजयतां प्रतापरुद्रमहाराजः ।
भूपाः सन्तु चिराय संश्रृणुमहे भास्वत्कुलालंकृती
रामोऽयं न जगाम लोचनपथं तेनैव खिन्ना वयम् ।
अद्य त्वां वरवीररुद्रनृपते ! तस्यावतारान्तरं
वीक्ष्यैवं चरितार्थतां सुमहतीमह्नाय गाहामहे ॥ 24 ॥
मन्त्रिणः—स्वामिन् सांप्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः ।
राजा—(सानन्दौदार्यं)
जागर्तु राजशब्दोऽयं ममैवाज्ञाफलैकभूः ।
राज्योपभोगविभवः सर्वसाधारणो हि नः ॥ 25 ॥
सर्वे—(सप्रमोदं) सदृशोऽयं प्रसादः काकतीयकुलतिलकस्य भवतः ।
राजा—प्रसीदतु भगवान् स्वयंभूदेवः ।
(इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात् करोति । अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति ।)
नृपतयः—(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय विरचिताञ्जलयः)
स्वामिन् काकतीयमहाराज !
त्रायस्वेत्यनुवाद एव भुवनत्राणैकबद्धव्रते
त्वद्गर्भे वसतिं गताः स्म इति च स्पष्टार्थमंशे हरेः
कुक्षिस्थाखिलविष्टपस्य सदृशं किं वाऽत्र विज्ञाप्यते ॥ 26 ॥
(राजा सप्रसादममात्यानवलोकयति ।)
मन्त्रिणः—स्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति । तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च ।
राजा—तथा । (इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति ।)
(राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः ।)
प्रकृतयः—चिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन । (इति निष्क्रान्ताः ।)
पुरोधसः—(साश्चर्यप्रत्यभिज्ञानं)
चिह्नान्यस्य पदाब्जयोः पिशुनयन्त्युर्वीश्वरोपास्यतां
पाणी सूचयतः सचापकुलिशावुद्वाहलीलां भुवः ।
नेत्रे शारदपुण्डरीकरुचिनी लीलावतारं हरे-
राख्यातस्तदितीह सिद्धवचनं प्रत्यक्षमीक्षामहे ॥ 27 ॥
राजा—(सविनयव्रीडं) किमसाध्यं स्वयंभूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य ।
पुरोधसः—(सादरं) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूयः प्रियमुपकरोतु ।
एषा वाक्यार्थसमाप्तिरूपा संहृतिः ।
राजा—(सप्रणामादरं) काकतीयराज्यधुरायामवहितमेव स्वयंभूदेवेन; तथापीदमस्तु ।
भूरस्तु संपन्नसमस्तसस्या भूदेवताः पूर्णमनोरथाश्च ।
भूपाश्च धर्मप्रवणैकचित्ताः सर्वे जनाः सन्तु निरामयाश्च ॥ 28 ॥
एषां शुभाशंसनरूपा प्रशस्तिः ।
(इति निष्क्रान्ताः सर्वे ।)
इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमोऽङ्कः ॥
एवं साङ्गं नाटकमुदाहृतम् ।
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे
नाटकप्रकरणं समाप्तम् ।
॥ अथ रसप्रकरणम् ॥
IV.1. अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते ।
<IV.1.1-रसस्वरूपम्>
विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः ।
तथा चोक्तं ‘दशरूपके’—
`विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ’ इति ।
भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् ।
तथा चोक्तं ‘दशरूपके’—
`सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायी भाव उदाहृतः ॥
<IV.1.2-रसविशेषः>
अथ रसविशेषाः—
श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥
<IV.1.3-स्थायीभावः>
एषां स्थायिभावाः—
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावा नव क्रमात् ॥
<IV.1.4-विभावः>
अथ विभावः—
विभावः कथ्यते तत्र रसोत्पादनकारणम् ।
आलम्बनोद्दीपनात्मा स द्विधा परिकीर्त्यते ॥
रससमवायिकारणमालम्बनविभावः । इतरत् कारणजातमुद्दीपनविभावः ।
स चतुर्विधः । तथा चोक्तं श्रृङ्गारतिलके—
`आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः ।
तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥
आलम्बनगुणो रूपयौवनादिरुदाहृतः ।
तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥
नूपुराङ्गदहारादि तदलङ्करणं मतम् ।
मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥
<IV.1.5-अनुभावः>
अथानुभावः–
कार्यभूतोऽनुभावः स्यात् कटाक्षादिः शरीरजः ।
<IV.1.6-सात्त्विकभावाः>
अथ सात्त्विकभावाः—
परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः ।
स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू ।
अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥
अथ व्यभिचारिभावाः—
निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥
सुप्तिर्विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः ॥
तथा चोक्तं काव्यप्रकाशे—
`कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥
विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः ॥ ’ इति ।
लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । श्रृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव श्रृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम्—
`एकत्रैवानुरागश्चेत् तिर्यङ्म्लेच्छगतोऽपि वा ।
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥’ इति ।
व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया संबन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके—
`भावस्य शान्तिरुदयः संधिः शबलता तथा’ इति ।
॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥
अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च ।
<IV.1.8-रतिः>
तत्र संभोगविषय इच्छाविशेषो रतिः ।
यथा—
श्रृङ्गारैकरसः स्मरोऽस्तु जगदानन्दैकनिष्यन्दभू-
रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः ।
सन्त्वन्येऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो
जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ॥ 9 ॥
<IV.1.9-हासः>
विकृतिदर्शनादिजन्यो मनोविकारो हासः ।
यथा—
बिभ्राणान् कबरीर्धृताञ्जनदृशः कृत्वा कुचौ कृत्रिमौ
स्त्रीवेषान् निशि काकतीन्द्रनगरे प्रच्छन्नरूपान् नृपान् ।
दृष्ट्वा क्षौममपास्य वक्षसि कुचावाकृष्य नीवीस्पृशो
ही ही कष्टमिति त्यजन्ति विपणिश्रेणीषु धूर्ता विटाः ॥ 10 ॥
<IV.1.10-शोकः>
इष्टजनवियोगादिनाऽऽत्मनि दुः खातिभूमिः शोकः ।
यथा—
धातर्निष्करुणोऽसि शिक्षयसि किं वन्यां शरीरस्थितिं
तत्तादृग्विभवा गृहाः क्व नु गताः स्थानं मरुः कल्पितम् ।
हा नाथाः पतिताः प्रतापनृपतेः क्रोधार्चिषीति द्विषद्-
योषाणां तदनूपमश्रुभिरहो जातं स्थलं मारवम् ॥ 11 ॥
<IV.1.11-क्रोधः>
शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः ।
यथा—
रे रे सेवण ! कस्तवायमनिदंपूर्वोऽद्य गर्वो महा-
नुत्तीर्णा किल येन गौतमनदी प्राप्तोऽसि मृत्योर्मुखम् ।
एषा काकतिवीररुद्र इति किं नाश्रावि सप्ताक्षरी
प्रक्षुभ्यत्प्रतिपक्षपार्थिवमहाभूतग्रहोच्चाटनी ॥ 12 ॥
<IV.1.12-उत्साहः>
लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः ।
यथा—
क्षुब्धेष्वब्धिषु संभ्रमात् त्रिभुवनग्रासेच्छया सर्वतः
संनद्धेष्वपि पर्वतेषु परितो गण्डोपलान् वर्षितुम् ।
शक्ता एव वयं निवारणविधौ क्षुद्रक्षमाभृज्जये
श्लाघा नः कियतीति काकतिविभोर्गर्जन्ति सैन्ये भटाः ॥ 13 ॥
<IV.1.13-भयम्>
रौद्रसंदर्शनादिभिरनर्थाशङ्कनं भयम् ।
यथा—
दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र-
प्रस्थानारनमेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत् कण्टकाकृष्टकेशा-
स्त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ 14 ॥
<IV.1.14-जुगिप्सा>
अर्थानां दोषसंदर्शनादिभिर्गर्हणा जुगुप्सा ।
यथा—
विष्वङ्मस्तिष्कपङ्के महति निपतितोच्छूनमातङ्गदेह-
श्रेणीलब्धप्रचाराः प्रवहदुरुवसामज्जरक्तप्रवाहाः ।
राशीभूतास्थिकूटस्थपुटितनिकटा निस्सरद्विस्रगन्धाः
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतां वीररुद्रेण सृष्टाः ॥ 15 ॥
<IV.15-विस्मयः>
अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः ।
यथा—
औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ 16 ॥
<IV.16.-शमः>
शमो वैराग्यादिना निर्विकारचित्तत्वम् ।
यथा—
किं लब्धं चतुराननेन महतीमायुष्प्रथां गच्छता
लब्ध्वा संपदमप्यनन्यसुगमामिन्द्रेण किं वा कृतम् ।
इत्यस्तान्तरुपप्लवाः सुकृतिनो नो जानते बाह्यम-
प्यद्योपप्लवमन्ध्रनाथतिलके विश्वंभरां बिभ्रति ॥ 17 ॥
अथ श्रृङ्गारस्यालम्बनविभावो यथा—
लावण्यैकखनिर्विधातृरचनाशिल्पप्रतिज्ञावधिः
श्रृङ्गारप्रतिभूर्विलासविपणिः कन्दर्पघण्टापथः ।
नारीणांमधिदेवता च तरुणी सेयं किमन्यैर्गुणै-
रस्या मन्मथमन्मथः प्रियतमः श्रीवीररुद्रो नृपः ॥ 18 ॥
उद्दीपनविभावो यथा—
उरोमात्रोत्सेधं भवदपि विलासैरभिनवै-
मृगाक्ष्यास्तरुण्यं त्रिभुवनमिदं व्याकुलयति ।
स्तनाभोगस्फीतं यदि किल भवेत् का खलु कथा
भवित्री किं वाऽन्यद्विजितमखिलं पुष्पधनुषा ॥ 19 ॥
अनुभावो यथा—
स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ 20 ॥
॥ सात्त्विकानां स्वरूपोदाहरणानि ॥
<IV.2> अथ सात्त्विकानां स्वरूपमुदाहरणं च ।
<IV.2.1-स्तम्भः>
स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् ।
यथा—
* काअइपुरेत्थिआओ पेख्खंतीओ णरेंदकंदप्पं ।
मअणसरुक्किणणाओ विअ ट्ठिआ णिच्चलंगीओ ॥ 21 ॥
(* काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् ।
मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥)
<IV.2.2-प्रलयः>
प्रलयः सुखदुः खाद्यैर्गाढमिन्द्रियमूर्च्छनम् ॥ 22 ॥
यथा—
** जिअमअणरूवसारो सहि एसो वीररुद्दणिवचंदो ।
जं दठ्रठूण णिमज्जइ मुच्छाए इंदिअग्गामो ॥ 23 ॥
(** जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः ।
यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥)
<IV.2.3-रोमाञ्चः वेपथुश्च>
सुखाद्यतिशयाञ्जाता रोमाञ्चो रोमविक्रिया ।
रागरोषभयादिभ्यो वेपथुर्गात्रकम्पनम् ॥ 24 ॥
द्वयोरुदाहरणं यथा—
- दइआलिंगणणिभ्भकंपा अ वहू विओअजिण्णंगी ।
उग्गिरइ अंतरट्ठिदमअणसरे पुलअचम्मेण ॥ 25 ॥
(+ दयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी ।
उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥)
<IV.2.4-स्वेदः>
वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः ।
यथा—
श्रृण्वती प्रियसंदेशं प्रेयसः काकतीशितुः ।
स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना ॥ 26 ॥
<IV.2.5-विवर्णाता>
विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ 27 ॥
यथा—
* णरणाह चंदधवले तुज्झ गुणे साहु सह्मरंतीए ।
अंगाइ पांडुराइं एह्णिं जाआइ सामाए ॥ 28 ॥
(* नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः ।
अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥)
<IV.2.6-अशृः>
अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् ।
यथा—
वीररुद्रनृपाद्भीतं पाण्ड्यं मग्नं पयोनिधौ ।
अन्वेष्टुमिव तद्योषिदश्रुधाराऽऽपगायते ॥ 29 ॥
<IV.2.7-वेश्वर्यम्>
मतं गद्गदभाषित्वं वैस्वर्यं प्रमदादिजम् ॥ 30 ॥
यथा– - विअणम्मि पिएण समं खामक्खामक्खरं भणंतीए ।
एक्को मुणइ अणंगो अत्थं बहुआए भणिआणं ॥ 31 ॥
(+ विजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः ।
एको जानात्यनङ्गोऽर्थं वध्वा भणितानाम् ॥)
IV.3. ॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥
अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च ।
<IV.3.1-निवेदः>
दुः खेर्ष्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः ।
तत्र चिन्ताश्रुनिः श्वासदीनताः संभवन्ति च ॥ 32 ॥
यथा—
* सहि कप्पूरेण किअं किं कत्थूरीए मलअजो ठाउ ।
(* सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु ।
गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥)
गुणसिसिरं जससुरहिं आणेहि + पआवरुद्दं अ ॥ 33 ॥
(+ `पआवरुद्दणिवचंदं’—प्रतापरुद्रनृपचन्द्रम् इति पाठान्तरम् ।)
<IV.3.2-ग्लानिः>
ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् ।
यथा—
++ तेल्लोक्कं वहइ मही तं धरइ भुओ पआवरुद्दस्स ।
तं हिअएण धरंती साहसिई दुब्बलंगि म्हि ॥ 34 ॥
(++ त्रैलोक्यं वहति मही तां धरति भुजः प्रतापरुद्रस्य ।
तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥)
<IV.3.3-शङका>
अथ शङ्का ।
अनिष्टाभ्यागमोत्प्रेक्षा शङ्का रोषादिकारणम् ॥ 35 ॥
यथा—
* ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो ।
किं पअढ म्हि जणाणं सव्वंगीणेहिं पुलएहिं ॥ 36 ॥
(* न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः ।
किं प्रकटाऽस्मि जनानां सर्वाङ्गीणैः पुलकैः ॥)
<IV.3.4-असुया>
अथासूया ।
परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता ।
यथा— - अहिआईए गुणेहिं रूवेण अ मज्झ किं मही अहिआ ।
जं तं पआवरुद्दो बहुमण्णइ भाअहेअं तं ॥ 37 ॥
(+ अभिजात्य गुणै रूपेण च मत्तः किं मही अधिका ?।
यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥)
<IV.3.5-मदः>
अथ मदः ।
मदिरादिकृतो मोहहर्षव्यतिकरो मदः ॥ 38 ॥
यथा—
++ भणइ अ असंगअत्थं हसइ अमंदं अ राअभरिअच्छी ।
(++ भणति चासंगतार्थं हसत्यमन्दं च रागभरिताक्षी ।
प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥)
पिअचिंतामइराए परवसा उवइ सामंगी ॥ 39 ॥
<IV.3.6-श्रमः>
अथ श्रमः ।
श्रमः खेदोऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् ।
यथा—
* आअच्छइ एव्व पिए कीस करेंती गआगआआसं ।
तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि ॥ 40 ॥
(* आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् ।
ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥)
<IV.3.7-आलस्यम्>
अथालस्यम् ।
मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते ॥ 41 ॥
यथा—
आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् ।
कर्तव्यमग्रे दयितस्य यत् स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ 42 ॥
<IV.3.8-दैन्यम्>
अथ दैन्यम् ।
सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् ।
यथा—
* आणेदुं णरणाहं गदो क्खु सहीजणो विलंबेइ ।
मम्मह णमामि चंदं सिक्खअ चिरेह ईसि त्ति ॥ 43 ॥
(* आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते ।
मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥)
<IV.3.9-चिन्ता>
अथ चिन्ता ।
इष्टानभिगमात् ध्यानं चिन्ता शून्यत्वतापकृत् ॥ 44 ॥
यथा— - सण्णिहिअं वि गुरुअणं ण अ पेख्खइ पुच्छिआ वि णआलवइ ।
एसा वि मग्गइ गइं हिअअस्स पिआणुबंधस्स ॥ 45 ॥
(+ संनिहितमपि गुरुजनं न च प्रेक्षते पृष्टाऽपि नालपति ।
एषाऽपि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥)
<IV.3.10-मोहः>
अथ मोहः ।
मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः ।
यथा—
कथमपि गमयित्वा वासरं दीर्घदीर्घं
विरचितनववेषा प्रेषयित्वाऽथ दूतीः ।
चिरयति हृदयेशे प्रांशुभिश्चन्द्रपादै-
रभिहतसकलाङ्गी मूर्च्छिता कोमलाङ्गी ॥ 46 ॥
<IV.3.11-स्मृतिः>
अथ स्मृतिः ।
पूर्वानुभूतविषयं ज्ञानं स्मृतिरुदाहृता ॥ 47 ॥
यथा—
प्रतापरुद्रस्य भुजे वसन्त्या क्षोण्यातपः कीदृशमार्जितं स्यात् ।
स्पृष्टं सकृद् येन मदीयमङ्गं प्राप्नोति विष्वक् सुखवज्रलेपम् ॥ 48 ॥
<IV.4.12-धृतिः>
अथ धृतिः ।
धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः ।
यथा—
वीररुद्रनृपतौ हृदय ! त्वद्वल्लभे त्रिभुवनैकधुरीणे ।
साधु साधु कृतकृत्यमसि त्वं मन्यसे जगदशेषमसारम् ॥ 49 ॥
<IV.4.13-व्रीङा>
अथ व्रीडा ।
चेतः संकोचनं व्रीडाऽनङ्गरागस्तवादिभिः ॥ 50 ॥
यथा—
तथा समालोकनकौतुकानां मनोरथैरन्ध्रपुराङ्गनानाम् ।
विलोकिते रुद्रनृपे भवन्ति पर्यस्तपक्ष्माणि विलोचनानि ॥ 51 ॥
<IV.4.14-चपलता>
अथ चपलता ।
चापलं त्वनवस्थानं रागद्वेषादिसंभवम् ।
यथा—
दृष्ट्वा रुद्रनरेन्द्रं तरलतराक्षी विलासमृदुहासा ।
कलयति मौक्तिमहारं स्पृशति च कर्णोत्पलं बाला ॥ 52 ॥
<IV.4.15-हर्षः>
अथ हर्षः ।
प्रसत्तिरुत्सवादिभ्यो हर्षः स्वेदाश्रुकम्पकृत् ॥ 53 ॥
यथा—
यत् पूर्वं सरसीषु पद्ममुकुलव्याजात् तपः संचितं
वक्षोजौ युवयोस्तदद्य फलितं जातौ कृतार्थौ युवाम् ।
दत्ता काकतिवल्लभेन भवतोरेषा स्ववक्षः स्थली-
कस्तूरीद्विगुणभवत्परिमला कल्हारमाला यतः ॥ 54 ॥
<IV.4.16-आवेगः>
अथावेगः ।
इष्टानिष्टागमाञ्जात आवेगश्चित्तसंभ्रमः ।
यथा—
निस्साणध्वनिमाकलय्य सहसा हेलाविहारोद्यतं
द्रष्टुं काकतिवीररुद्रनृपतिं प्रत्यग्रकौतूहलाः ।
अर्धालम्बितमण्डनाः प्रतिपदं व्यत्यस्तभूषा जवा-
दारोहन्ति सुवर्णसौधवलभीश्रृङ्गाणि पौरस्त्रियः ॥ 55 ॥
<IV.4.17-जडता>
अथ जडता ।
जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा ॥ 56 ॥
यथा—
समायाते नाथे प्रमहसि गृहान् रुद्रनृपतौ
वपुः सौन्दर्यश्रीविजितमदनोदारयशसि ।
वधूरन्तस्तोषव्यतिकरवशान्नोपचरितुं
पुरस्तादालीनां न चलति तथा नो विरमति ॥ 57 ॥
<IV.4.18-गर्वः>
अथ गर्वः ।
अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः ।
यथा—
को वा शस्त्रग्रहणसमयो मादृशामीदृशानां
कीदृग्वैरं प्रतिधरणिभृत्खेटकीटेष्वमीषु ।
इत्यावेशप्रतिभयभुजाटोपदुर्वारगर्वाः
संक्रीडन्ते रणभुवि भटाः काकतीन्द्रस्य जेतुः ॥ 58 ॥
<IV.4.19.विषादः>
अथ विषादः ।
विषादश्चेतसो भङ्ग उपायापायचिन्तनैः ॥ 59 ॥
यथा—
* पेसेमि मण त्ति मुहा तं मं मोक्खूण वल्लहे लग्गं ।
मं उज्झिअ णो गच्छइ मअणो सहि किं णु कादव्वं ॥ 60 ॥
(* प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् ।
मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥)
<IV.4.20-औत्सुक्यम्>
अथौत्सुक्यम् ।
कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।
यथा— - अंधवुरभामिणिजणो अंगाइ पसाहिऊण तुवरंतो ।
रुद्दणरेंदागमणे विलंबिअं सहइ किच्छेण ॥ 61 ॥
(+ अन्ध्रपुरभामिनीजनोऽङ्गानि प्रसाध्य त्वरमाणः ।
रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥)
<IV.4.21-निद्रा>
अथ निद्रा ।
निद्रा चित्तनिमीलनम् ।
यथा—
* सिविणे दिट्ठं दइअं वहुआ आलिंगिदुं किदोज्जोआ ।
उवह दरमीलिअच्छी गअणम्मि करे पसारेइ ॥ 62 ॥
(* स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा ।
पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥)
<IV.4.22-अपस्मारः>
अथापस्मारः ।
आवेशो मोहदुः खाद्यैरपस्मारोऽङ्गतापकृत् ॥ 63 ॥
यथा—
दृष्ट्वा स्वप्ने कुपितवदनं काकतीयक्षितीन्द्रं
हा हा रक्षेत्यसकलगिरः संभ्रमोत्थानभाजः ।
धावन्त्यन्तर्वर्णभुवि लुठन्त्याह्वयन्त्यात्मबन्धून्
आराद्भूतानपि रिपुगणा व्यस्तनामग्रहेण ॥ 64 ॥
<IV.4.23-सामृतिः>
अथ सुप्तिः ।
सुप्तिर्निद्रासमुद्रेकः ।
यथा—
विश्वैकरक्षाजुषि काकतीन्द्रे निश्चिन्ततां प्राप्तवतो मुरारेः ।
तत्कीर्त्तिचन्द्रातपवर्धितोऽपि दुग्धाम्बुधिर्नैव भिनत्ति निद्राम् ॥ 65 ॥
<IV.4.24-विबोधः>
अथ विबोधः ।
विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् ।
यथा—
प्रतापरुद्रे नृपमौलिरत्ने विश्वंभरां रक्षति शिक्षितारौ ।
विजृम्भमाणाः परितः प्रजानां भाग्यश्रियस्तत्क्षणमुन्मिषन्ति ॥ 66 ॥
<IV.IV.4.25-अनर्षः>
अथामर्षः ।
अमर्षः सापराधेषु चेतः प्रज्वलनं मतम् ॥ 67 ॥
यथा—
अरे ! भूपाश्चापान् नमयत शिरांस्युन्नमयत
प्रवृत्ताः स्वस्त्रीणामहमहमिका वीरवरणे ।
त्वरन्ते नः खङ्गाः प्रविदलनकेल्यामिति भटा
रणाग्रे गर्जन्ति प्रकटितरुषो रुद्रनृपतेः ॥ 68 ॥
<IV.4.26-अविहित्या>
अथावहित्था ।
हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते ।
यथा—
* गोट्ठीए महिलाणं सोऊण पआवरुद्दचरिआइ ।
आलिहइ ओणअमुही मुद्धा चलणेण महिपट्ठं ॥ 69 ॥
(* गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि ।
आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥)
<IV.4.27-उग्रता>
अथोग्रता ।
दृष्टेऽपराधे चण्डत्वमुग्रता तर्जनादिकृत् ॥ 70 ॥
यथा—
प्रियमानीय मानिन्या विरहार्तिर्निवार्यताम् ।
यदेतस्याः कटाक्षोल्कापातैरिन्दुर्मषीकृतः ॥ 71 ॥
<IV.4.28-मतिः>
अथ मतिः ।
तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः ।
यथा—
* को संसओ महिअलं चंदो एव्व वीररुद्दणरणाहो ।
जस्स (खु) करप्पस्सादो अंगाइ मिअंकरअणंति ॥ 72 ॥
(* कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः ।
यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥)
<IV.4.29-व्याधिः>
अथ व्याधिः ।
मनस्तापाद्यभिभवाज्ज्वरादिर्व्याधिरिष्यते ॥ 73 ॥
यथा—
प्रतापरुद्रस्य दिशां जिगीषोः प्रत्यर्थिनारीजनदेहजन्मा ।
स्मरज्वरोष्मा हिमवत्प्रदेशान् स्मर्तव्यनीहारकथान् करोति ॥ 74 ॥
<IV.4.30-उन्मादः>
अथोन्मादः ।
उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि ।
यथा—
प्रतापरुद्रस्य जयप्रयाणभेरीध्वनौ मूर्च्छति दिङ्मुखेषु ।
त्रासाकुला भ्रान्तिमुपेत्य वृक्षान् पृच्छन्ति मार्गं रिपुभूमिपालाः ॥ 75 ॥
<IV.4.31-मरणम्>
अथ मरणम् ।
मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः ॥ 76 ॥
यथा–
* पिअविरहं असहंती वहुआ णिअजीविअं उवेक्खंती ।
सेव्वइ जोह्णं दख्खिणपवणस्स तणुं समप्पेइ ॥ 77 ॥
(* प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा ।
सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥)
साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् ।
<IV.4.32-त्रासः>
अथ त्रासः ।
आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते ।
यथा— - पणअकुविआ चिरेण वि वहुआ सोऊण घणघणत्थणिअं ।
दइअं सरहसवलिआ आलिंगइ वेवमाणंगी ॥ 78 ॥
(+ प्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् ।
दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥)
<IV.4.33-वितर्कः>
अथ वितर्कः ।
संदेहात् कल्पनाऽऽनन्त्यं वितर्कः परिकीर्तितः ॥ 79 ॥
यथा—
गुणैस्तत्रासक्तं मम हृदयमन्यन्न गणितं
सखीभिर्नालोचि क्षितिपतिरसौ दुर्लभ इति ।
उपायः को वा स्यात् तदभिगमने मुह्यति मनः
कियान् कोऽयं कीदृक् कियदवधिरन्तर्व्यतिकरः ॥ 80 ॥
तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि श्रृह्गारे सर्वेषामनुप्रवेशः संभवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः । करुणे मदधृतिव्रीडाहर्षगर्वौत्सुक्योग्रताभिर्विनाऽन्ये संभवन्ति । रौद्रे ग्लानिशङ्काऽऽलस्यदैन्यचिन्ताव्रीडावेगजडताविषादसुप्तिनिद्रापस्मारावहित्थाव्याध्युन्मादशमत्रासाः न संभवन्ति । वीरे रौद्रान्निर्वेदोऽधिकः । भयानकेऽसूयामदधृतिव्रीडाहर्षगर्वनिद्रासुप्त्यमर्षावहित्थोग्रतामतिभिर्विनाऽन्ये संभवन्ति । बीभत्सेऽद्भुते च चिन्तात्रासादयो यथासंभवमूह्याः । शान्ते निर्वेदधृती संभवतः ।
श्रृङ्गारचेष्टाः
IV.5 अथ श्रृङ्गारचेष्टा निरूप्यन्ते ।
भावो हावश्च हेला च माधुर्यं धैर्यमित्यपि ।
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ॥ 81 ॥
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
कुतूहलं च चकितं विहृतं हास इत्यपि ॥ 82 ॥
एवं श्रृङ्गारचेष्टाः स्युरष्टादशविधा मताः ।
तत्रासां स्वरूपमुदाहरणं च ।
<IV>5.1-भावःग>
भावः ।
रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते ॥ 83 ॥
यथा—
*रुद्दणरेंदस्य गुणे गाअइ बालत्तणम्मि विस्सद्धं ।
लज्जइ दरपुलइओ जुवइजणो जोव्वणे गाउं ॥ 84 ॥
(* रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् ।
लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥)
<IV.5.2-हावः>
अथ हावः ।
ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते ।
यथा—
अत्रैवेषत्पुलकित इति ।
<IV.5.3-हेला>
अथ हेला ।
सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ॥ 85 ॥
यथा—
* मा होदु कस्स वि फ्फुडं इअ मुद्धे कुणसि वल्लहं हिअए ।
घोसिज्जइ तुह भाओ सव्वंगीणेहि पुलएहिं ॥ 86 ॥
(* मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये ।
घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥)
<IV.5.4-माधुर्यम्>
अथ माधुर्यम् ।
अभूषणेऽपि रम्यत्वं माधुर्यमिति कथ्यते ।
यथा—
जितत्रैलोक्यलावण्या प्रकृत्या हरिणेक्षणा ।
किं तु भूषयितुं धत्ते भूषणानीति मे मतिः ॥ 87 ॥
<IV.5.5-धैर्यम्>
अथ धैर्यम् ।
शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते ॥ 88 ॥
यथा— - कुलवहुआणं ण जुज्जइ मज्जाआलंघणं खु विसमे वि ।
रुद्दणरिंदगुणा उण हिअअहरा किं णु कादव्वं ॥ 89 ॥
(+ कुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमेऽपि ।
रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥)
<IV.5.6-लीला>
अथ लीला ।
प्रियानुकरणं लीला वाग्भिर्गत्याऽथ चेष्टितैः ।
यथा—
++ पेछ्छह सहिओ एसा लच्छी रण्णो पआवरुद्दस्स ।
चरिआइ अणुकुणंती रण्णीसु पइव्वआ जाआ ॥ 90 ॥
(++ प्रेक्षध्वं सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य ।
चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥)
<IV.5.7-विलासः>
अथ विलासः ।
तात्कालिको विकारः स्याद्विलासो दयितेक्षणे ॥ 91 ॥
यथा—
सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं
तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद् युगपदुदयत्सात्त्विकमहो
मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ 92 ॥
<IV.5.8-विच्छित्तिः>
अथ विच्छित्तिः ।
विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः ।
यथा—
* कस्स किए केण किअं काअइपुरइत्थिआण सुंदेरं ।
साहारणभूसाए जं सहि तेल्लोक्करमणिज्जं ॥ 93 ॥
(* कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् ।
साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥)
<IV.5.9-विभ्रमः>
अथ विभ्रमः ।
विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ 94 ॥
यथा— - सोऊण सहिमुहादो दिअहो विरतो त्ति संभमेण वहू ।
हत्थेसु णोउराइं चरणेसु अ कुणइ वलआइं ॥ 95 ॥
(+ श्रुत्वा सखीमुखाद्दिवसो विरत इति संभ्रमेण वधूः ।
हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥)
<IV.5.10-किलकिञचितम्>
अथ किलकिञ्चितम् ।
रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ।
यथा—
* गेह्णइ काअइणाहे विअणंमि पडंचलं मिअछ्छीए ।
वेवइ तणू वि णच्चइ भिउडी अवि गग्गआ वाआ ॥ 96 ॥
(* गृह्णति काकतिनाथे विजने पटाञ्चलं मृगाक्ष्याः ।
वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥)
<IV.5.11-मोट्टायितम्>
अथ मोट्टायितम् ।
मोट्टायितं स्यादिष्टस्य कथादौ भावसूचनम् ॥ 97 ॥
यथा— - महुराइ रुद्दणरवइचरिआइ वहूए णं सुणंतीए ।
तणुगोवणएण पअडो जह भाओ ण तह पुलएहिं ॥ 98 ॥
(+ मधुराणि रुद्रनरपतिचरितानि वध्वा ननु श्रृण्वत्याः ।
तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥)
<IV.5.12-कुटट्टमितम्>
अथ कुट्टमितम् ।
संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ।
यथा—
निर्मर्यादमनोभवोत्सवकथाविस्रम्भकर्णेजपै-
रङ्गेर्विस्मितमानसां प्रियसखीमालोक्य जातत्रपा ।
वैयात्यं निजमात्मवल्लभकृतां रागान्धतां जानती
सद्यो नम्रमुखेन्दुरिन्दुवदना क्षोणीं लिखन्ती स्थिता ॥ 99 ॥
<IV>5.13-बिब्बोकः>
अथ बिब्बोकः ।
मनाक् प्रियकथालापे बिब्बोकोऽनादरक्रिया ॥ 100 ॥
यथा—
लक्ष्मीः सद्मनि निर्भरं विहरतां, क्षोणी भुजालम्बन-
क्रीडां नैव जहातु, किं च सततं वाणी मुखे तिष्ठतु ।
ज्ञातं रुद्रनरेश्वरस्य बहुभिर्विज्ञातपूर्वैः प्रिय-
व्याहारैः कृतमेव दूति ! मदनश्चापाय संनह्यतु ॥ 101 ॥
<IV.5.14-ललितम्>
अथ ललितम् ।
सुकुमारोऽङ्गविन्यासो ललितं परिकीर्त्यते ।
यथा—
पदन्यासक्रीडारणितमणिमञ्जीररशनं
सहेलं व्यावल्गत्करवलयनिक्वाणसुभगम् ।
स्मितज्योत्स्नावीचीतरलवचनं रुद्रनृपतेः
पुरन्ध्रीणामासीदनुरहससेवाविलसितम् ॥ 102 ॥
<IV.5.15-कुतूहलम्>
अथ कुतूहलम् ।
कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते ॥ 103 ॥
यथा—
वीररुद्रमधिरूढसिन्धुरं द्रष्टुमन्ध्रनगरीपुरन्ध्रयः ।
कुर्वते रचितसंक्रमत्वरास्तुङ्गसद्मशिखराधिरोहणम् ॥ 104 ॥
<IV.5.16-चकितम्>
अथ चकितम् ।
चकितं भयसंभ्रमः ।
यथा—
अविज्ञातायातं स्वमकथितमाल्यापि हसितुं
हठादुत्पश्यन्त्याश्चकितचकितोदञ्चितदृशः ।
विलासानुद्वेलानुदितमदनान् वीक्ष्य सुतनो-
स्तथैव प्रत्येतुं पुनरवनिपालः स्पृहयति ॥ 105 ॥
<IV.5.17-विहृतम्>
अथ विहृतम् ।
विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया ।
यथा—
प्रतापरुद्रस्य भुजान्तरस्थां कल्हारमालाममुना स्पृशेति ।
स्तनद्वये पत्रलिपिं लिखन्तीं सखीं वधूः पश्यति साभिमानम् ॥ 106 ॥
<IV.5.18-हसितम्>
अथ हसितम् ।
आकस्मिकं तु हसितं यौवनादिविकारजम् ॥ 107 ॥
* जह जह हसइ मिअच्छी जोव्वणलच्छीए सिख्खिआ महुरं ।
तह तह कुसुमेसुसरा विअसंति पिअस्स आसा अ ॥ 108 ॥
(* यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् ।
तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥)
मन्मथावस्थाः
IV.6. ॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥
अथ श्रृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते ।
चक्षुः प्रीतिर्मनः सङ्गः संकल्पोऽथ प्रलापिता ।
जागरः कार्श्यमरतिर्लज्जात्यागोऽथ संज्वरः ॥ 109 ॥
उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ।
अवस्था द्वादश मताः कामशास्त्रानुसारतः ॥ 110 ॥
केचित्तु दशावस्था इति कथयन्ति ।
आसां स्वरूपमुदाहरणं च ।
<IV.6.1-चक्षुः प्रीतिः>
आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते ।
यथा—
* सहि एसो रुद्दणिओ णअणाण अतक्किओस्सओ जाओ ।
मअणो व मुत्तिमंतो चंदो विअ मुक्कलञ्छणो पुण्णो ॥ 111 ॥
(* सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः ।
मदन इव मूर्तिमान् चन्द्र इव मुक्तलाञ्छनः पूर्णः ॥)
<IV.6.2-मनः सङः>
अथ मनः सङ्गः ।
मनः सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः ॥ 112 ॥
यथा—
* सह मह मणो विलग्गइ रुद्दणरेन्दम्मि कीस कुविआओ ।
तेणाहं वि विमुक्का सहिओ तुह्मेसु का वत्ता ॥ 113 ॥
(* सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात् कुपिताः ।
तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥)
<IV.6.3-संकल्पः>
अथ संकल्पः ।
संकल्पो नाथविषयो मनोरथ उदाहृतः ।
यथा— - दरहसिअगब्भिणाइं सिणेहसिणिद्धाइ राअभरिआइ ।
रुद्दणिवविलोइआइं काहे णु मम्मि णिवदंति ॥ 114 ॥
(+ दरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि ।
रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥)
<IV.6.4-प्रलापः>
अथ प्रलापः ।
प्रालपः प्रियसंश्लिष्टगुणालाप उदाहृतः ॥ 115 ॥
यथा—
* तह णिउणो तह महुरो तह सुहओ तह अ सोम्मसब्भाओ ।
एक्को रुद्दणिवो विअ इदि गोट्ठी पोढमहिलाणं ॥ 116 ॥
(* तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः ।
एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥)
<IV.6.5-जागरः>
अथ जागरः ।
जागरस्तु विनिद्रत्वम् ।
यथा— - गमिअं कह कह वि दिणं चंदादवदूसहा णिसा दीहा ।
मअणो वि पुंखिअसरो णिद्दा वि णिवो वि णोवेइ ॥ 117 ॥
(+ गमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा ।
मदनोऽपि पुङ्खितशरो निद्रापि नृपोऽपि नोपैति ॥)
<IV.6.6-कार्श्यम्>
अथ कार्श्यम् ।
कार्श्यमङ्गस्य तानवम् ।
यथा—
चन्द्रास्ये ! कथमङ्गुलीयकमिदं केयूरितं ते सखि !
प्रेम्णां प्रेयसि वैभवैः स खलु को भूमेः सपत्नी यतः ।
ज्ञातं मानिनि ! काकतीयनृपतौ सक्ताऽऽलि ! सत्यं शुभे !
श्यामाङ्गीं स खलु स्थिरां रमयते त्वां तां च शैलस्तनीम् ॥ 118 ॥
<IV.6.7-अरतिः>
अथारतिः ।
अन्यत्राप्रीतिररतिः ।
यथा—
* दूसेइ चंदसिट्टिं णिंदइ मलआणिलस्स माहप्पं ।
ऊसवपरंमुही सा सुहअ ! तुमं किं णु मंतेसि ॥ 119 ॥
(* दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् ।
उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे ।)
<IV.6.8-लज्जात्यागः>
अथ लज्जात्यागः ।
यथा– - लंघिअमहिलासमअं तह भणिअं मअणदुव्विणीदाए ।
जह सोऊण गुरुअणो ओसरइ विलज्जिओ दूरं ॥ 120 ॥
(+ लङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया ।
यथा श्रुत्वा गुरुजनोऽपसरति विलज्जितो दूरम् ॥)
<IV.6.9-ज्वरः>
अथ ज्वरः ।
तापाधिक्यं ज्वरो मतः ॥ 121 ॥
यथा— - मोहसिसिरोवआरा वहुआ विरहज्जरेण गुरुएण ।
दाणिं रुद्दणरेसर ! कांखइ तुह दंसणामिअअं ॥ 122 ॥
(+ मोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा ।
इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥)
उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् ।
<IV.6.10-मूर्च्छा>
अथ मूर्च्छा ।
मूर्च्छा त्वभ्यन्तरेऽवृत्तिर्बाह्येन्द्रियनिमीलनात् ।
यथा—
++ चिंतंतीए णरेन्दं दट्ठुं हिअअठ्ठिदं मिअच्छीए ।
करणाइ बाहिराइं विसंति अब्भंतरं वि सुण्णाए ॥ 123 ॥
(++ चिन्तयन्त्या नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः ।
करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥)
अथ श्रृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्चेति । `संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ’ इति ‘श्रृङ्गारतिलके’ । संभोगस्य परस्परावलोकनसंभाषणाऽऽलिङ्गनचुम्बनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता ।
यथा–
रहः प्रत्यासन्ने हृदयदयिते रुद्रनृपतौ
निवृत्ता मानाज्ञा विरलमपि लज्जाविलसितम् ।
किमन्यत् ते गोप्यं बहिरबहिरानन्दमसृणः
स्मरावेशः कोऽपि प्रियसखि ! नृपेणैकयति माम् ॥ 124 ॥
विप्रलम्भः पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः ।
<IV.6.11-संभोगश्रृङ्गारः>
अभिलाषो नाम संभोगात् प्रागनुरागः ।
यथा—
अन्योन्यभाषणमनङ्गविलासगोष्ठी
शय्या च सार्धमपदानि मनोरथानाम् ।
प्रेमानुविद्धमुदयद्बहुलानुरागं
लभ्यते रुद्रनृपतेरवलोकितं वा ॥ 125 ॥
<IV>6.12-ईर्ष्याश्रृङ्गारः>
ईर्ष्या नाम नायकस्यान्यासक्तभावात् चित्तविक्रिया ।
<IV.6.13-विप्रलम्भश्रृङ्गारः>
तया विप्रलम्भो यथा—
लक्ष्मीरस्य विलोचनाब्जवसतिः सोर्ष्या त्वदालोकने
वक्त्रस्था च सस्स्वती न सहते साकं त्वया भाषणम् ।
लीलाकर्षणविघ्नकृत् त्वयि मही बाहुस्थिता काकति-
क्षोणीन्द्रे न हि कैतवानि सुभगे मानेन किं ताम्यसि ॥ 126 ॥
<IV.6.14-विरहविप्रलम्भश्रृङ्गारः>
विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित् कारणेन पुनः समागमकालातिक्षेपः ।
यथा—
अङ्गेषु जीर्णेषु विभूषणानां व्यत्यासमार्गोऽपि मुहूर्तशोभी ।
सख्यस्तदास्तां परिकर्मरीतिरानीयतां रुद्रनृपः किमन्यत् ॥ 127 ॥
<IV.6.15-प्रवासविप्रलम्भः>
यूनोर्देशान्तरवृत्तित्वं प्रवासः ।
तेन विप्रलम्भो यथा—
सेव्योऽस्तु रुद्रनृपतिर्निखिलैर्नृपालै-
रभ्युत्सवेषु सुलभा न हि वल्लभा नः ।
इत्थं कलिङ्गसुदृशां विरहार्तितापा-
दङ्गानि यान्ति तनुतां दिवसा युगन्ति ॥ 128 ॥
<IV.6.16-रसाभासः>
रसाभासो यथा—
प्रासादगर्भवलभीषु कपोतपाल्यां
पारावतीं रमणचुम्बितचञ्चुकोटिम् ।
आविर्भवत्सुरतकूजितरक्तकण्ठी-
मालोक्य काकतिविभुः स्मितमातनोति ॥ 129 ॥
<IV.6.17-भावोदयः>
भावोदयो यथा—
मुग्धे ! कस्तव वर्तते हृदि मनोजन्मैव नान्यः शपे
सख्येतस्य किमत्र कार्यमपरं किं जन्मसद्मादरात् ।
कोऽन्यस्तत्प्रतिबिम्ब एव निपुणे ! जानासि कामाधिकः
प्रेयान् रुद्रनृपस्तवेति कथिता नम्राननाऽभूद् वधूः ॥ 130 ॥
अत्र लज्जाया उदयः ।
<IV.6.18-भावशमः>
भावशमो यथा—
लक्ष्मीस्त्वं पुरुषोत्तमस्तव पतिः श्रीवीररुद्रो नृपः
सृष्ट्यामम्बुजविष्टरस्य सदृशोर्योगश्चि रात् संभृतः ।
तस्मात् कृत्रिममप्यसाम्प्रतिमिदं वां वैमनस्यं मना-
गित्यालिं प्रणतां विलोक्य विकसद्वक्त्राम्बुजा मानिनी ॥ 131 ॥
अत्र कोपस्य प्रशमः ।
<IV.6.19-भावसन्धिः>
भावसन्धिर्यथा—
प्रतापरुद्रस्य दिगन्तजैत्रयात्राप्रभूतैः पटहप्रणादैः ।
प्रियानुलापैश्च तथा भटानां रौमाञ्चवर्मावृतमङ्गमासीत् ॥ 132 ॥
अत्र वीरश्रृङ्गारकृतयोर्हर्षयोः सन्धिः ।
<IV.6.20-भावशबलता>
भावशबलता यथा—
निन्दन्त्वद्य कुलस्त्रियः प्रियतमो लभ्यः सुखं केन वा
भाग्येनानुमतं न किं गुरुजनैः का वा सखी प्रेष्यते ।
किं लोकस्य भवेत् प्रसिद्धमचिरात् स्वच्छन्दमङ्कं कदा-
ऽऽरोक्ष्यामि स्थिरता कदा हृदि भवेद् यातव्य एव प्रियः ॥ 133 ॥
अत्रौत्सुक्यादीनां शबलता ।
अथ रससंकरस्योदाहरणम् ।
<IV.6.21-श्रुङ्गारकरुणयोः सङ्करः>
तत्र श्रृङ्गारकरुणयोः संकरो यथा—
आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे-
र्धिगू धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः ॥ 134 ॥
अथ रौद्रबीभत्सयोः संकरो यथा—
<IV.6.22-रौद्रबीभत्सयोः सङ्करः>
पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः स्पष्टदंष्ट्रः ।
बिभ्रद् रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद् वीररुद्रस्य खड्गः ॥ 135 ॥
एवमन्यदपि यथासंभवमुदाहार्यम् ।
अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद् भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) स्मृत्यारूढेन तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमेऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधेऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमः ‘श्रृङ्गारतिलके’ कथितः—
`श्रृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।
रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥’ इति ।
रसाद् रसोत्पत्तिरपि मता । तथा चोक्तं ‘श्रृङ्गारतिलके’—
`हास्यो भवति श्रृङ्गारात् करुणो रौद्रकर्मणः ।
अद्भुतश्च तथा वीराद् बीभत्साच्च भयानकः ॥’
व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितं ‘श्रृङ्गारतिलके’ । तथा हि—
`शङ्काऽसूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यविस्मयावेगा व्रीडोन्मादौ मदस्तथा ॥
विषादो जडता निद्राऽवहित्थं चापलं मृतिः ।
इति भावाः प्रयोक्तव्याः श्रृङ्गारे व्यभिचारिणः ॥
श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च ।
शङ्काऽसूयाऽवहित्थं च हास्ये भावा भवन्त्यमी ॥
संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके ।
अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥
उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ।
आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥
इति भावा निबद्धव्या रसज्ञैरद्भुते रसे ।
दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥
व्याधिश्च करुणे वाच्या भावा भावविशारदैः ।
हर्षोऽसूया तथा गर्व उत्साहो मद एव च ॥
चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः ।
अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः ॥
क्रोधोऽसूयाऽथ संमोह आवेगश्चोपहर्षणम् ।
गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी ॥’ इति ।
`रसः सर्वोऽपि संपूर्णस्तिरोधत्ते रसान्तरम् ॥’ इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते ।
तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयोऽलंकारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भावशान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयोऽपि ।
एतद् अलङ्कारसर्वस्वे प्रपञ्चेनोक्तम्—`रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराः ‘इति । एतेषामुदाहरणमलंकरणे भविष्यति ।
गुणालंकारश्रीकृतपरिकरो भावविभवः
स्फुरत्प्रादुर्भावः क्रमगलितवेद्यान्तरमतिः ।
सुखं वा दुः खं वा निबिडयतु यूनोः सहृदये
त्वमन्दानन्दात्मा परिणमति पूर्णो रसभरः ॥ 136 ॥
रसो वाक्यार्थः सन् विलसति पदार्थाः पुनरमी
विभावाद्या यस्मिन् किल दधति विश्रान्तिमुचिताम् ।
अतो भावा एव क्रमसमुदितान्योन्यविभवा
रसीभावं बिभ्रत्यथ च पटतां तन्तव इव ॥ 137 ॥
भावे स्थायिनि वर्धमानविभवे रत्यादिके सिन्धुवत्
कल्लोला इव संभवन्ति विलयं चायान्ति भावा मुहुः ।
निर्वेदाद्युपभोगभावितनिजास्वादातिरेको रसो
लोके स्यादनुकार्य एव कथितो नाट्ये तु सामाजिके ॥ 138 ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे
रसप्रकरणं समाप्तम् ।
V.1 ॥ अथ दोषप्रकरणम् ॥
अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते । <V.1.1-दोषसामान्यलक्षणम्> तत्र दोषसामान्यलक्षणम्—
दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः ।
शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् । शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् । <पदगतदोषः> तत्र पदगतदोषाः कथ्यन्ते ।
अप्रयुक्तमपुष्टार्थमसमर्थं निरर्थकम् ।
नेयार्थं च्युतसंस्कारं संदिग्धं चाप्रयोजकम् ॥ 5.1 ॥
क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थं चाप्रतीतिकम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत् तथा ।
अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥ 5.2 ॥
एषां स्वरूपं निरूप्यते ।
यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते ।
प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ 5.3 ॥
योगमात्रप्रसिद्धं यदसमर्थं तदुच्यते ।
पादपूरणमात्रं यत् तन्निरर्थकमुच्यते ॥ 5.4 ॥
स्वसंकेतप्रसिद्धार्थं नेयार्थं परिकीर्त्यते ।
शब्दशास्त्रविरुद्धं यत् च्युतसंस्कारमुच्यते ॥ 5.5 ॥
संदिग्धं तन्मतं यत् स्यात् संदिग्धार्थप्रतीतिकृत् ।
तदप्रयोजकं यत् स्यादविशेषविधायकम् ॥ 5.6 ॥
क्लिष्टं तदर्थावगतिर्दूरदूरा यतो भवेत् ।
प्रयुक्तमप्रसिद्धार्थे गूढार्थं परिकीर्त्यते ॥ 5.7 ॥
पामरव्यवहारैकप्रसिध्दं ग्राम्यमुच्यते ।
यद्रूढिप्रच्युतं नाम तदन्यार्थमुदाहृतम् ॥ 5.8 ॥
शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते ।
अविमृष्टविधेयांशं गुणीभूतविधेयकम् ॥ 5.9 ॥
विपरीतार्थधीर्यस्माद् विरुद्धमतिकृन्मतम् ।
अश्लीलं यदमाङ्गल्यजुगुप्साव्रीडधीकरम् ॥ 5.10 ॥
परुषं नाम तद् यत् स्याद्विहितं परुषाक्षरैः ॥
अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते ।
<V.2.1-अप्रयुक्तम्>
अप्रयुक्तं यथा—
विमुखा दैवताः सर्वे ते नो दुश्च्यवनादयः ।
अरण्यगृहमेधिन्यो यैर्वयं हन्त कल्पिताः ॥ 11 ॥
अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ; दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः । <V.2.2-अपुष्टार्थम्> अपुष्टार्थं यथा—
व्यर्थाष्टार्धार्धबाहूनाममीषामीदृशां दशाम् ।
कथं सहामहे धिग्धिक् कठिनं हन्त जीवितम् ॥ 12 ॥
अत्र व्यर्थबाहुद्वयानामिति विवक्षितेऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् । एतदेवाविमृष्टविधेयांशस्योदाहरणम् । बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते । <V.2.3-असमर्थम्> असमर्थं यथा—
विहाय वसुधामेनां चतुरम्बुधरावृताम् ।
क नु गन्तव्यमस्माकमरण्येऽप्यसुखा स्थितिः ॥ 13 ॥
अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् । <V.2.3-अनर्थकनेयार्थच्चतसंस्कारसंदिग्धानि>
अनर्थकनेयार्थच्युतसंस्कारसंदिग्धानि यथा—
विहाय च गृहांस्तान् वै व्यत्यस्तनववृत्तयः ।
कदा भविष्यते वासः कटकेषु महीभृतान् ॥ 14 ॥
अत्र वै इति निरर्थकम् । व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायतेति नेयार्थकम् । भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् । महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति संदेहात् संदिग्धम् । <V.2.4-अप्रयोजकक्लिष्टे> अप्रयोजकक्लिष्टे यथा—
हन्त वर्तामहे वज्रघट्टनात् प्राक् चलात्मसु ।
नभस्वदशनारातिध्वजाग्रजविरोधिषु ॥ 15 ॥
अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात् क्लिष्टम् । पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात् प्राक् चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् ।
<V.2.5-गूडार्थान्यार्थग्राम्यर्थानि>
गूढार्थग्राम्यार्थान्यार्थानि यथा—
शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः ।
विदग्धहृदयाः शोकवह्निना राजकन्यकाः ॥ 16 ॥
अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद् गूढार्थम् । गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ । विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् ।
<V.2.6-अप्रतीतिकरम्>
अप्रतीतिकं यथा—
मनूपदेशाः क्व गताः कुलाचार्यैरुदीरिताः ॥ 17 ॥
अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् ।
<V.2.7-विरुध्दमतिकृत्>
विरुद्धमतिकृद्यथा—
अम्बिकारमणस्याङ्घ्रिसेवा व्यर्था कथं भवेत् ।
राज्ञामकार्यमित्राणां विनाशं समुपेयुषाम् ॥ 18 ॥
अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः । अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः । वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् ।
<V.2.8-त्रिविधाश्लीलम्>
अमङ्गलव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्लीलं यथा—
अभिप्रेतपदावासः कदा नः संभविष्यति ।
नीचं साधनमेतेषां परोत्सर्गैकजीविनाम् ॥ 19 ॥
अत्राभिप्रेतपदावासशब्दात् प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् । नीचं साधनमित्यनेन तुच्छमोहनप्रतीतेर्व्रीडाकरत्वम् । परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् । <V.2.9-पुरुषम्> परुषं यथा—
कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः ।
अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् ।
V.3 ॥ अथ वाक्यदोषाः ॥
शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् ।
व्याकीर्णं वाक्यसंकीर्णमपूर्णं वाक्यगर्भितम् ॥ 5.20 ॥
द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ 5.21 ॥
विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् ।
समाप्तपुनरात्तं च तथा संबन्धवर्जितम् ॥ 5.22 ॥
पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् ।
चतुर्विंशतिरुच्यन्ते दोषा वाक्यसमाश्रिताः ॥ 5.23 ॥
एषां स्वरूपमुदाहरणं च ।
<V.3.1-शब्दहीनम्>
शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते ।
यथा शत्रुवाक्येषु—
न संश्रृणुमहे हन्त हितमाप्तैर्निमन्त्रितम् ।
येन काकतिभूभर्तुः सेवां हित्वा हता वयम् ॥ 24 ॥
अत्र हितं न संश्रृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का । संपूर्वस्य श्रृणोतेरात्मनेपदित्वे कर्मणोऽनुपादाननियमात् । अथ क्रमभ्रष्टम् ।
क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः ॥ 5.25 ॥
<V.3.2-क्रमभ्रष्टम्>
यथा—
प्रभवे काकतीन्द्राय तुरगान् करिणोऽथवा ।
उपायनमकुर्वाणा वयं दैवेन वञ्चिताः ॥ 26 ॥
अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् । अथवा करिण इत्यर्थक्रमभङ्गः । शब्दक्रमभङ्गो यथा—
का नाम गणनाऽस्मासु काकतीयस्य भूपतेः ।
यशः प्रतापयोर्मग्नौ सूर्याचन्द्रमसावपि ॥ 27 ॥
अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् । यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः । अपि तु शब्दप्रयोग एव क्रमभङ्गः । <V.3.3-विसन्धि> अथ विसन्धि ।
विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् ।
यथा—
शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् ।
अत्र शौर्याणि ईदृशानीति विसन्धि । पृथ्वैश्वर्यमिति संधिवैरूप्यम् । अथ पुनरुक्तिमत् ।
शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत् ॥ 5.28 ॥
<V.3.4-पुनरुक्तिम्>
यथा—
जीर्णकाननसंकीर्णे विन्ध्ये काननवृत्तयः ॥ 29 ॥
अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत् ।
<V.3.5-व्याकीर्णम्>
अथ व्याकीर्णम् ।
व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथोऽन्वये ।
यथा—
सुखार्थिनो महीपाला वर्तध्वं काकतीशितुः ।
आज्ञामुरसि बिभ्राणाः शिरसि क्रोडमुद्रिकाम् ॥ 30 ॥
अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः ।
<V.3.6-वाक्यसंकीर्णम्>
अथ वाक्यसंकीर्णम् ।
वाक्यान्तरपदैः कीर्णं वाक्यसंकीर्णमुच्यते ॥ 31 ॥
यथा—
मानेन महताऽस्माभिर्वने वक्त्रे न तिष्ठताम् ।
विन्धयस्य जीवितं तन्नो जातमद्य तृणं कृतम् ॥ 32 ॥
अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता । <V.3.7-अपूर्णम्> अथापूर्णम्—
अपूर्णं तद्भवेद् यत्र न संपूर्णः क्रियान्वयः ।
यथा—
शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् ।
मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम् ॥ 33 ॥
अत्र शैलवासान् वन्यवृत्तीन् मृगबान्धवान् पश्यन्निति विवक्षितसंबन्धौ न संपूर्णः । <V.3.8-वाक्यगर्भतम्> अथ वाक्यगर्भितम् ।
तद् वाक्यगर्भि तं यस्य मध्ये वाक्यान्तरं भवेत् ॥ 5.34 ॥
यथा—
ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य क्रोधाग्निमतिदुः सहम् ।
यद्वा न लङ्घ्यते दैवं तस्मिन्निपतिता वयम् ॥ 35 ॥
अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् । <V.3.9-भिन्नलिङ्गवचने> अथ भिन्नलिङ्गवचने ।
यत्रोपमा भवेद् भिन्नवचना भिन्नलिङ्गका ।
तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ 36 ॥
द्वयोरुदाहरणं यथा—
समुद्रा इव गम्भीरं मनो यादवभूभुजः ।
गिरिणेवान्ध्रनृपतिध्वजिन्या कलुषीकृतम् ॥ 37 ॥
अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम्। गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् । अथाधिकन्यूनोपमे ।
<V.3.10-अधिकन्यूनोपमे>
यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः ।
तत्राधिकोपमं पूर्वं न्यूनोपममतः परम् ॥ 38 ॥
द्वयोः यथाक्रममुदाहरणम् ।
क्षामक्षाममुखाः कान्ताः कानने मालवेशितुः ।
ग्रीष्मे नद्य इव ग्लानपद्मोत्पलबिसाविलाः ॥ 39 ॥
अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् । म्लानोत्पलबिसाविला इत्यधिकम् । न्यूनोपमं यथा—
हाराङ्गरागसुभगा नगरेषु यथा वयम् ।
तथैव निर्झराकीर्णा विभान्ति धरणीभृतः ॥ 40 ॥
अत्र हारस्थाने निर्झरा उक्ताः । अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् । <V.3.11-भग्नछन्दोकयतिभ्रष्टे> अथ भग्नच्छन्दोयतिभ्रष्टे ।
छन्दोभग्नं वचो यत्र तद्भग्नच्छन्द उच्यते ।
यत्र स्थाने यतिभ्रंशस्तद् यतिभ्रष्टमुच्यते ॥ 5.41 ॥
यथा—
विन्ध्यारण्यकृतकुटुम्बरक्षणस्य किं भद्रं भवति जनस्य मादृशस्य ॥ 42 ॥
अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः । पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः । <V.3.12-अशरीररम्> अथाशरीरम् ।
क्रियापदेन रहितमशरीरं प्रकीर्त्यते ।
यथा—
हन्त निष्करुणो धाता क्रीडतो मणिकुट्टिमे ।
कानने कण्टकाकीर्णे स्थितान् पाण्ड्यशिशूनिमान् ॥ 43 ॥
अत्र क्रियापदं न विहितम् । एतदेवानन्वयाख्यं दूषणम् । <V.3.13-अरीतिकम्> अथारीतिकम् ।
रसाननुगुणा रीतिर्यत्रारीति तदुच्यते ॥ 5.44 ॥
यथा—
अखर्वगर्वदुर्वारदोरर्गलनिरर्गलाः ।
हा बन्धुवर्गाः सर्वेऽपि कृतान्तातिथयः कृताः ॥ 45 ॥
अत्र करुणेऽनुचितो वर्णाडम्बरः । अथ विसर्गलुप्तम् ।
ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् ।
<V.3.14-विसर्गलुणतम्>
यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् ।
यथा—
व्यर्थो मनोरथो यातो जातो वासो ध्रुवो मरौ ।
म्लाना दीना हता जीर्णा वनान्तेष्वीदृशा वयम् ॥ 46 ॥
<V.3.15-अस्थानसमारस्यम्>
अथास्थानसमासम् ।
अपदस्थसमासं तत् समासो यत्र नोचितः ॥ 5.47 ॥
यथा—
कुतो वैमुख्यमस्मासु ब्रह्मणः परुषात्मनः ।
इत्युदग्रतरभ्राम्यद्भृकुटीकुटिलाननाः ॥ 48 ॥
अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः । किं तु कविवचने समास इत्यपदस्थसमासः । <V.3.16-वाच्चवर्जितम्> अथ वाच्यवर्जितम् ।
नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् ।
यथा—
दुर्दशां प्रतिपन्नानामस्माकं जीवितं मतम् ॥ 49 ॥
अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः ।
<V.3.17-समाप्तपुनरान्तकं,पतत्प्रकर्षं च>
अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च ।
समाप्य पुनरादाने समाप्तपुनरात्तकम् ।
पतत्प्रकर्षं तत्प्राहुः प्रकर्षो यत्र विश्लथः ॥ 5.50 ॥
द्वयोरुदाहरणं यथा—
धावन्मृगेषु संभ्राम्यत्करिषूद्यत्तरक्षुषु ।
विन्ध्यारण्येषु तिष्ठामः क्षुभ्यद्भल्लूकपङ्क्तिषु ॥ 51 ॥
अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात् समाप्तपुनरात्तकम् । अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता ।
<V.3.17-संबन्धवर्जितम्>
अथ संबन्धवर्जितम् ।
संबन्धवर्जितं तत् स्याद् यत्रेष्टेनान्वयो हतः ।
यथा—
भद्रासनानि दृषदः छत्राणि च महीरुहः ।
दुर्दशाराज्यमूर्धाभिषिक्ताः पुनरहो वयम् ॥ 52 ॥
अत्र राज्ये भद्रासनानि दृषद इत्यादिसंबन्धो नोक्तः ।
<V.3.18-अधिकपदम्>
अथाधिकपदम् ।
यत्राधिकपदोक्तिः स्यात् तत्राधिकपदं मतम् ॥ 5.53 ॥
यथा—
विमुक्ता वल्लभैरेता वनान्ते घूर्जरस्त्रियः ।
सुधांशुमण्डलाकाररूपक्रमविपाण्डुराः ॥ 54 ॥
अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् ।
<V.3.19-भग्नप्रक्रमम्>
अथ भग्नप्रक्रमम् ।
प्रक्रान्तनियमत्यागे भग्नक्रममिहोच्यते ॥ 5.55 ॥
यथा—
गुहा गृहाणि शबरा बान्धवा विन्ध्यभूः पुरी ।
सरितो दीर्घिकाः कष्टमाक्रीडाः काननानि नः ॥ 56 ॥
अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् ।
V.4 ॥ अथार्थदोषाः ॥
अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
भिन्नं चैवातिमात्रं च परुषं विरसं तथा ॥ 5.57 ॥
हीनाधिकोपमे स्यातामसदृक्षोपमं तथा ।
अप्रसिद्धोपमं हेतुशून्यं च निरलंकृति ॥ 5.58 ॥
अश्लीलं च विरुद्धं च तथा सहचरच्युतम् ।
एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः ॥ 5.59 ॥
एषां स्वरूपमुदाहरणं च ।
<V.4.1-अपार्थम्>
समुदायार्थशून्यं यदपार्थं तत् प्रकीर्त्यते ।
यथा—
कुतः शुष्यदपा नद्यः का वार्ता चोलमण्डले ।
फणाः सहस्रं शेषस्य भारः कति कुलाचलाः ॥ 60 ॥
अत्र न कश्चिद्वाक्यार्थः प्रतीयते।<V.4.2व्यर्थम्> अथ व्यर्थम् ।
यत् प्रयोजनशून्यं स्यात् तद् व्यर्थं परिकीर्त्यते ॥ 5.61 ॥
यथा—
निर्मलं कुलमुद्वेलं शौर्यं वः प्रथितं यशः ।
किमित्यन्ध्रपतेः पादपीठं पाण्ड्यैर्न सेव्यते ॥ 62 ॥
अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते ।
<V.4.3-एकार्थम्>
अथैकार्थम् ।
उक्ताभिन्नार्थकं यत् स्यादेकार्थं तन्निगद्यते ।
यथा—
विशीर्णं शतधा चेतो मूर्च्छितान् वीक्ष्य बालकान् ।
शिशून् निश्चेतनान् दृष्ट्वा खण्डितं शतशो मनः ॥ 63 ॥
अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् । <V.4.4-ससंशयम्> अथ ससंशयम् ।
वाक्यार्थसंशयो यत्र तत् ससंशयमिष्यते ॥ 5.64 ॥
यथा—
करिकुम्भौ स्तनावद्य जयतां क्षामतां गतौ ।
लता वपुः श्रियः स्त्रीणां हसन्तु म्लानतां गताः ॥ 65 ॥
अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः । <V.4.5-अपक्मम्> अथापक्रमम् ।
यत्र पूर्वापरीभावविहतिस्तदपक्रमम् ।
यथा—
हन्त व्यादाय वक्त्राणि निद्रान्त्यन्तर्वणं स्त्रियः ।
तृणैस्तत्पतितैरस्मान् शिक्षयन्त्यस्तथाक्रमम् ॥ 66 ॥
अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् । <V.4.6-भिन्नम्> अथ भिन्नम् ।
संबन्धवर्जितं यत् स्यात् तद्भिन्नं परिकीर्त्यते ॥ 5.67 ॥
यथा—
नूनं फालेषु लाटानां न धात्रा लिखिता लिपिः ।
यदस्माकं कुटुम्बानि विषीदन्ति मरुस्थले ॥ 68 ॥
अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः । <V.4.7-अतिमात्रम्> अथातिमात्रम् ।
यत् सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते ।
यथा—
मा भूदेकार्णवं विश्वमिति संकोचिताश्रुभिः ।
अरण्ये लाटनारीभिरसंख्या निम्नगाः कृताः ॥ 69 ॥
अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः । <V.4.8-पुरुषम्> अथ परुषम् ।
अतिक्रूरार्थसहितं परुषं परिकीर्त्यते ॥ 5.70 ॥
यथा—
दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे ॥ 71 ॥
अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः ।
<V.4.9-विरसम्>
अथ विरसम् ।
अप्रस्तुतरसं यत् तद्विरसं परिकीर्त्यते ।
यथा—
चन्द्राननाः कटाक्षैर्नः पश्यतामृतवर्षिभिः ।
शोचित्वाऽलमिति क्लिष्टाः किरातैश्चोलसुभ्रुवः ॥ 72 ॥
अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम् । <V.4.10-हिनोपमम्> अथ हीनोपमम् ।
हीनं यत्रोपमानं स्यात् तद्धि हीनोपमं मतम् ॥ 5.73 ॥
यथा—
शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः ।
क्व गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ 74 ॥
अत्र शुनकैरिव भवद्भिरिति हीनोपमम् । <V.4.11-अधिकोपमम्> अथाधिकोपमम् ।
यत्रोपमानमधिकं तद् भवेदधिकोपमम् ।
यथा—
अमी पारेसरस्तीरं बका निश्चलमूर्तयः ।
महर्षय इवास्माभिरद्य सोपद्रवाः कृताः ॥ 75 ॥
अत्र बका महर्षय इवेत्यधिकोपमम् । <V.4.12-असदृशोपमम्> अथासदृशोपमम् ।
यदतुल्योपमानं तद् भवेदसदृशोपमम् ॥ 5.76 ॥
यथा—
एष विन्ध्याचलः सान्द्रकुञ्जोच्चलितनिर्झरः ।
फालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ॥ 77 ॥
अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् । <V.4.13-अप्रसिध्दोपमम्> अथाप्रसिद्धोपमम् ।
अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् ।
यथा—
बाष्पाम्बुक्लिन्ननेत्राणि मुखान्यङ्गमृगीदृशाम् ।
हिमदूषितपत्राणि कुमुदानीव निर्मुदाम् ॥ 78 ॥
अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि ।
V.4.14-हेतुषून्यम्>
अथ हेतुशून्यम् ।
हेतोर्विनार्थकथनं हेतुशून्यं प्रचक्षते ॥ 79 ॥
यथा—
मुधाऽनुधावनं जातं मार्गेऽस्मिन् मौक्तिकाङ्किते ।
अन्वेष्टुमन्यतो यामि पदवीयं न सुभ्रुवः ॥ 80 ॥
अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः । <V.4.15-निरलंकृति> अथ निरलंकृति ।
अलंकारेण रहितं निरलंकारमुच्यते ।
यथा—
आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः ।
महोक्षेर्लम्बमानाण्डैर्विष्वग् व्याकुलितं वनम् ॥ 81 ॥
<V.4.16-अश्लीलम्>
अत्र न कश्चिदलंकारः । श्लाध्यविशेषणाभावात् न स्वाभावोक्तिः । अथाश्लीलम् ।
अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते ॥ 5.82 ॥
अस्यापि पूर्वमेवोदाहरणम् । <V.4.17-विरुध्दम्> अथ विरुद्धम् ।
विरुद्धं देशकालादिविरुद्धं बहुधोच्यते ।
यथा–
दिश्युत्तरस्यां नेदीयानुद्वेलो लवणार्णवः ।
मरुदेशेऽपि गङ्गा नः पिपासां शामयिष्यति ॥ 83 ॥
अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः । मरौ गङ्गेति देशविरोधः ।
अरण्यमहिषोदग्रविषाणोदरजन्मनाम् ।
महत्यर्घेऽपि मुक्तानां स्त्रियो मुक्ताविभूषणाः ॥ 84 ॥
अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः । एवं विरुद्धान्तरमप्युदाहार्यम् । <V.4.18-सहचरभ्रष्चम्> अथ सहचरभ्रष्टम् ।
मतं सहचरभ्रष्टमतुल्यानां निबन्धने ॥ 5.85 ॥
यथा—
शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः ।
श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः ॥ 86 ॥
अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात् सहचरभ्रष्टम् । एवं दोषान्तराणि यथासंभवमूह्यानि । रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे
दोषप्रकरणं समाप्तम् ।
VI.॥ अथ गुणप्रकरणम् ॥
अथ गुणा निरूप्यन्ते ।
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ॥ 6.1 ॥
ओजः सुशब्दता प्रेयानौर्जित्यमथ विस्तरः ।
समाधिः सौक्ष्म्यगाम्भीर्ये संक्षेपो भाविकं तथा ॥ 6.2 ॥
संमितत्वं तथा प्रौढी रीतिरुक्तिर्गतिस्तथा ।
चतुर्विंशतिरेते स्युर्गुणाः काव्यप्रकाशकाः ॥ 6.3 ॥
<VI.1-गुणानामुदेशः>
एषां मध्ये केषांचिद् दोषपरिहारकत्वेन गुणत्वम् । केषांचित् स्वत एवोत्कर्षहेतुत्वाद् गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं संमतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय संमितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसंधिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान् मतः । एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च ।
<VI.2-श्लेवः>
मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते ।
बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् ।
यथा—
श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर-
न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् ।
विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत-
व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥ 4 ॥
अत्र पाठसमये पदानामेकवदवभासमानत्वात् श्लेषः ।
<VI.3-प्रसादः>
अथ प्रसादः ।
प्रसिद्धार्थपदत्वं यत् स प्रसादो निगद्यते ॥ 6.5 ॥
यथा—
प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपतिः स्वयम् ।
येनाम्य लोचने फुल्लपुण्डरीकमनोहरे ॥ 6 ॥
अत्र झटित्यर्थसमर्पकपदत्वात् प्रसादः । <VI.4-समता> अथ समता ।
अवैषम्येण भणनं समता सा निगद्यते ।
यथा—
वदान्यतरुमञ्जरीसुरभ्यः श्रवः पारणं
गुणा विदधते सतां जगति वीररुद्रप्रभोः ।
सुधामधुरिमाधरीकरणचातुरीचुञ्चवो
वियच्चरतरङ्गिणीविहरदूर्मिमर्मस्पृशः ॥ 7 ॥
अत्र पादचतुष्ट्येऽपि तुल्यवद्भणनात् समत्वम् । <VI.5-माधुर्यम्> अथ माधुर्यम् ।
या पृथक्पदता वाक्ये तन्माधुर्यं प्रकीर्त्यते ॥ 6.8 ॥
यथा—
यशः श्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः ।
उरोजयोर्मौक्तिकहारविभ्रमाः शिरस्सु जातीकुसुमस्रगुज्ज्वलाः ॥ 9 ॥
अत्र वाक्ये पाठसमयेऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् ।
<VI.6-सुकुमारत्वम्>
अथ सुकुमारत्वम् ।
सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते ।
सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् ।
यथा—
अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः ।
नगरे काकतीन्द्रस्य दिवाप्याभाति चन्द्रिका ॥ 10 ॥
<VI.7-अर्थव्यक्तिः>
अथार्थव्यक्तिः ।
यत्तु संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ॥ 6.11 ॥
यथा—
भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता
जातः खेलति वीररुद्रनृपतिर्निः सीमशौर्योदयः ।
यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरे-
र्यत् साक्षादवतीर्य काकतिकुले स्वैरं समुज्जृम्भते ॥ 12 ॥
अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः ।
<VI.8-कान्तिः>
अथ कान्तिः—
अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ।
यथा—
जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका
गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥ 13 ॥
<VI.9-औदार्यम्>
अथौदार्यम् ।
विकटाक्षरबन्धत्वमार्यैरौदार्यमिष्यते ॥ 6.14 ॥
यथा—
जग्ध्वा भूयांसि मांसान्यहमहमिकया बद्धागार्ध्यान् सपीत्या-
मस्रस्योच्चैस्तरास्थ्युत्कषणभवकटत्काररौद्राग्रदंष्ट्रान् ।
संबिभ्राणाः क्षपाटान् द्विपगलितवसानिर्झरान्तर्नदीष्णान्
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतामन्ध्रसैन्येन सृष्टाः ॥ 15 ॥
<VI.10-उदात्तता>
अथोदात्तता ।
श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ।
यथा—
बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुला ।
संक्रीडत्स्यन्दना क्ष्वेडभटा रुद्रविभोश्चमूः ॥ 16 ॥
<VI.11-औजः>
अथौजः ।
ओजः समासभूयस्त्वम् ॥ 6.17 ॥
यथा—
उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद्-
भृङ्गश्रेणिनिबद्धझंकृतिकलावाचालितप्राङ्गणाः ।
निः सीमप्रथमानभूमविभवारम्भप्रियंभावुका
मोदन्ते भुवि वीररुद्रनृपतेर्विद्वद्गृहश्रेणयः ॥ 18 ॥
<VI.12-सुशब्दाता>
अथ सुशब्दता ।
सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते ।
यथा—
आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै
रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः ।
दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यंभविष्णुर्गुणै-
र्भूम्ना संचरतेऽद्य काकतिकुले रुद्रावतारो हरिः ॥ 19 ॥
<VI.13-प्रेयः>
अथ प्रेयः ।
प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ॥ 6.20 ॥
यथा—
दाक्षिण्यं त्वयि, दक्षता त्वयि, दया त्वय्युन्नतत्वं त्वयि
प्रागल्भ्यं त्वयि, पौरुषं त्वयि, कलासंपत्त्वयि, श्रीस्त्वयि ।
औदार्यं त्वयि, धीरता त्वयि, जगद्धौरेयता च त्वयि
श्रीमत्काकतिनाथ ! पालय भुवं वैरिञ्चकल्पान् शतम् ॥ 21 ॥
<VI.14-और्जित्यम्>
अथैर्जित्यम् ।
और्जित्वं गाढबन्धत्वम् ।
यथा—
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्दोर्दण्डयोश्चण्डयो-
र्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ 22 ॥
<IV.15समाधिः>
अथ समाधिः ।
समाधिरन्यधर्माणां यदन्यत्राधिरोपणम् ॥ 6.23 ॥
यथा—
पृच्छन्ती दुग्धसिन्धुं कुशलमनुसरन्त्यादराच्छङ्कराद्रिं
चाटूक्त्या मानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
लोकेषु त्रिष्वमीषु प्रभवति महती वीररुद्रस्य कीर्त्तिः ॥ 24 ॥
<VI.16-विस्तरः>
अथ विस्तरः ।
समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः ।
यथा—
लोकेषु त्रिषु काकतीश्वरगुणान् स्तोतुं मुहुर्वीक्षितुं
श्रोतुं बह्वभिनन्दितुं च फणिनामेकः क्षमो नायकः ।
यद्वक्त्राणि सहस्रमस्य कृतिनो यद् द्वे सहस्रे दृश-
स्ता एव श्रुतयः फणा दशशतान्यत्यद्भुतान्दोलने ॥ 25 ॥
<VI.17-संमितत्वम्>
अथ संमितत्वम् ।
यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ॥ 6.26 ॥
यथा—-
काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ 27 ॥
<VI.18-गाम्भीर्यम्>
अथ गाम्भीर्यम् ।
ध्वनिमत्ता तु गाम्भीर्यम् ।
यथा—
विषं कौक्षेयके गङ्गा कीर्त्तौ दिग्वसनं रिपौ ।
इन्दुर्मुखे च रुद्रस्य काकतीयस्य दृश्यते ॥ 28 ॥
अत्र शङ्करस्य कण्ठे विषं, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रं, शिरसि चन्द्र इति ध्वन्यते । <VI.19-संक्षेपः> अथ संक्षेपः ।
संक्षिप्तार्थाभिधानं यत् तत् संक्षेपः प्रकीर्त्यते ॥ 6.29 ॥
यथा—
वंशोऽस्ति काकतीयानां तत्रासन् बहवो नृपाः ।
तेषां भाग्यविवर्तोऽयं वीररुद्रो नरेश्वरः ॥ 30 ॥
अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्तेः संक्षेपः ।
<VI.20-सौक्ष्म्यम्>
अथ सौक्ष्म्यम् ।
अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।
यथा—
अध्यधः परिसंश्लिष्टाः ष्ठाकृञ्भूधातवः सदा ।
वर्तन्ते काकतीयेन्द्रे कर्तर्यन्यत्र कर्मणि ॥ 31 ॥
अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः संजल्परूपत्वात् सौक्ष्म्यं भवति ।
<VI.21-प्रौढः>
अथ प्रौढिः ।
प्रौढिरुक्तेः परीपाक इति काव्यविदो विदुः ॥ 6.32 ॥
यथा—
वीप्सा पद्मभवस्य चन्द्रमुकुटस्यावृत्तिराम्रेडितं
दैत्यारेः प्रतिबिम्बनं सुरगिरेरिन्दोः समुत्तेजनम् ।
कर्णादेः पुनरुद्भवः सुरतरोः सर्वस्वमाविष्क्रिया
स्वर्धेनोरिति तर्कयन्ति कवयः श्रीवीररुद्रप्रभुम् ॥ 33 ॥
<VI.22.-उक्तिः>
अथोक्तिः ।
विदग्धभणितिर्या स्यादुक्तिं तां कवयो विदुः ।
यथा—
* दिट्ठा कमलासत्ती रण्णो तुह सुहअ चित्तचरिअत्स ।
भासन्तो वि तुमं तं कुवलअलच्छिं पसाहेसि ॥ 34 ॥
(* दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य ।
भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥)
<VI.23-रीतिः>
अथ रीतिः ।
यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते ॥ 6.35 ॥
यथा—
षड् गुणान् सेवते राजा षड् रिपूनवमन्यते ।
षड् दर्शनान्युपादत्ते षड् बलानि च वीक्षते ॥ 36 ॥
<VI.24-भाविकम्>
अथ भाविकम् ।
भवतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ॥ 6.37 ॥
यथा—
स्वामिंस्तात कुलोत्तंस वीररुद्र जगत्प्रभो ।
पुत्रिणां धुरमेषोऽहं पुत्रेणारोपितस्त्वया ॥ 38 ॥
अत्र प्रेमरूपभाववशात् स्वमिंस्तातेति वाक्यवृत्तिः ।
<VI.25-गतिः>
अथ गतिः ।
गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥ 6.39 ॥
यथा—
प्रकाश्ये त्रैलोक्ये सततमतुलैः काकतिविभो-
र्महोभिर्निः सीमैर्दिनकरकराटोपपटुभिः ।
तमः कृत्स्नं शोकज्वलदनलरोचिः परिचयं
दधत्स्वप्युद्वेलत्यरिनृपमनस्स्वेव सततम् ॥ 40 ॥
अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात् स्वरस्यारोहः । उत्तरार्धेऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलंकारसर्वस्वे—`संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्’ इति । अनयैव भङ्ग्या गुणालंकाराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालंकारस्वरूपत्वम् । तदुक्तं रुद्’रभट्टेन’—
`यो हेतुः काव्यशोभायाः सोऽलंकारः प्रकीर्त्यते ।
गुणोऽपि तादृशो ज्ञेयो दोषः स्यात् तद्विपर्ययः ॥ ’ इति ।
अतो गुणानां संघटनाश्रयत्वमेव युक्तम् ।
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे
गुणप्रकरणं समाप्तम् ।
VII.॥ अथ शब्दालंकारप्रकरणम् ॥
अलङ्कारस्वरूपनिरूपणम् ।
अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते । अलंक्रियतेऽनेनेति चारुत्वहेतुरलंकारः । तथा चोक्तं ‘काव्यप्रकाशे’—
`उपस्कुर्वन्ति तं सन्तं येऽङ्गद्वारेण संश्रिताः ।
हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥’ इति ।
यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलंकारतया प्रसिद्धैरवयव्येवालंक्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलंकारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते । आश्रयाश्रयिभावेनालंकार्यालंकारभावो लोकवत् काव्येऽपि संमतः । चारुत्वहेतुत्वेऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः । संघटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः ।
तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य । अर्थालंकाराणां चातुर्विध्यम्; केचित् प्रतीयमानवस्तवः ; केचित् प्रतीयमानौपम्याः केचित् प्रतीयमानरसभावादयः; केचिदस्फुटप्रतीयमाना इति । समासोक्तिपर्यायोक्त्याऽऽक्षेपव्याजस्तुत्युपमेयोपमाऽनन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते । रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते । उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासंख्यार्थापत्तिपर्यायपरिवृत्तिपरिसंख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रतीपविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति ।
॥ अत्रेत्थमलंकारकक्ष्याविभागः ॥
साधर्म्यं त्रिविधम्—भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति । उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् । दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः । उपमाऽनन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता । उत्प्रेक्षातिशयोक्ती अध्यवसायमूले । विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता । यथासंख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता । परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः । काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता । कारणमालैकावलीमालादीपकसाराः श्रृङ्ग्लावैचित्र्यमूलाः । व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि । समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ ।
॥ अथालंकाराणां परस्परवैलक्षण्य निरूप्यते ॥
आरोपगर्भत्वेऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः । आरोपविषयस्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः । आरोपविषयस्य संदेहभ्रान्त् यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः । साधर्म्यमूलत्वेऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमाऽनन्वयोपमेयोपमा भिद्यन्ते । साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः । वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः । प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः । । उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः । अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः । उपमानोपमेययोर्भेदाभेदाभ्यामुपमाऽनन्वययोर्भेदः । उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमाऽनन्वययोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः । वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वेऽप्रस्तुतप्रशंसा । व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः । साधारणगुणयोगाद् भेदानुपलब्धौ सामान्यम् । उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् । अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः । काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः । अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः । निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः । अन्येषां भेदः स्पष्ट एव । यद्यपि व्याजोक्तिमीलसामान्येषु कथंचित् सादृश्यमस्ति ; तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना ।
शब्दालंकारा निरूप्यन्ते ।
अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात् प्रथमं शब्दालंकारा निरूप्यन्ते ।
<VII.1-छेकानुप्रासः>:
छेकानुप्रासः
भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र स बुधैश्छेकानुप्रास इष्यते ॥ 7.1 ॥
यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः ।
यथा—
महीमहीनविभवे धत्ते क्षेमंकरे करे ।
राजन्यजन्यविजयी राजा राजद्गुणोदयः ॥ 2 ॥
<VII.2-वृत्यानुप्रासः>
वृत्त्यनुप्रासः ।
एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत् ।
पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते ॥ 7.3 ॥
यथा—
रे रे क्षुद्रमहीक्षितः ! क्षणमितः श्रीकाकतिक्ष्मापते-
र्वीक्षध्वं ध्वजिनीं दुरीक्षसुभटां प्रोत्क्षिप्तकौक्षेयकैः ।
योत्स्यध्वे यदि लभ्यमक्षयपदं कान्तारपक्षो वृथा
क्ष्माभृत्कुक्षिचरत्तरक्षुनिकरात् तत्रात्मरक्षा कुतः ॥ 4 ॥
<VII.3-यमकम्>
यमकम् ।
यमकं पौनरुक्त्ये तु स्वरव्यञ्जनयुग्मयोः ॥ 7.5 ॥
छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् । यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः । तस्यादिमध्यान्तगतत्वेन बहवो भेदाः । अत्र दिङ्मात्रमुदाह्रियते ।
प्रतापः काकतीन्द्रस्य महामहिमतेजसः ।
श्रियं दधाति पद्मेष्टमहामहिमतेजसः ॥ 6 ॥
यत्रार्थः प्रमुखे किंचित् भासते पुनरुक्तवत् ।
पुनरुक्तवदाभासोऽलंकारः स सतां मतः ॥ 7.7 ॥
<VII.4-पुनरीक्तवदाभासः>
यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासोऽलंकारः । अर्थालङ्कारत्वेऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम् । यथा—
जिष्णुरिन्द्रः क्षितिभुजां श्रीपतिः पुरुषोत्तमः ।
भास्वान् सूर्यस्फुरत्तेजाः काकतीन्द्रो विराजते ॥ 8 ॥
अथोभयपौनरुक्त्यालंकारः कथ्यते ।
<VII.5-लराटानुप्रासः>
लाटानुप्रासः ।
शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् ।
स काव्यतात्पर्यविदां लाटानुप्रास इष्यते ॥ 7.9 ॥
यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः ।
यथा—
गुणा गुणास्ते गण्यन्ते ये रुद्रनृपमाश्रिताः ।
नीतिर्नीतिरसौ तस्य लक्ष्मीर्लंक्ष्मीश्च कथ्यते ॥ 10 ॥
<VII.6-पद्मबन्धादिः>
चित्रालंकारः पद्मबन्धादिः ।
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
आदिग्रहणाच्चक्रबन्धादयः । तत्राष्टदलपद्मबन्धो यथा—
याता यस्यासमग्रानतिमिह कनकास्थानसक्तासनाया
यानासक्तासनस्था सुखयतु कमलाभ्याससुज्ञानमाया ।
या मानज्ञा सुसभ्या क्षितिपतितिलकं ज्ञातिरक्ता सगेया
यागे सक्ता रतिज्ञा सुकृतिषु फलितग्रामसस्यायताया ॥ 11 ॥
<VII.7-चक्रबन्धः>
चक्रबन्धो यथा—
लक्ष्मीवीक्षितवैभवस्य जगतां नाथस्य भद्रश्रियो
दिक्ष्वारब्धनिजप्रतापजनितां भाकृद्धुरां यच्छतः ।
नित्यं रुद्रजनाधिपस्य जयिनो भाति प्रिकाशं स्थिरा
राजत्पालनमोदितात्मनि भुजे योग्याश्रितत्वाद् धरा ॥ 12 ॥
अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते ।
<VII.8-नागबन्धः>
नागबन्धो यथा—
ओजस्ये रुद्रदेवे विभवति महिमत्याजितान्यप्रतापे
विद्यावर्येऽभिनेतर्युरुहरिचरितं विश्वविस्तारभाजि ।
वैरिव्राता भजन्ते वनमतिमलिनख्यातयो देवविद्धा
वन्यैरध्वन्यवारि क्षतिमति विविधे जन्तुभिः स्थानभाजः ॥ 13 ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे
शब्दालंकारप्रकरणं समाप्तम् ।
VIII.॥ अथ अर्थालंकाराः ॥
तत्र प्रथममनेकालंकारबीजभूतत्वादुपमा निरूप्यते ।
<VIII.1.उपमाविभागः>
स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ 8.1 ॥
यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसंमतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद् भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसंभवात् ।
यथा—
कीर्त्तिः काकतिवीरुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भुमीभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
त्रैलोक्याट्टहासप्रभवे ककुभां प्रान्तेषु विद्योतते ॥ 2 ॥
अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसंभवात् । तथा हि—
सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ 3 ॥
संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा—
उदन्वानिव गम्भीरः सुवर्णाद्रिरिवोन्नतः ।
दिङ्महेभ इव क्षोणीधौरेयः काकतीश्वरः ॥ 4 ॥
अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालंकारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि —
नीराजयन्त्यध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ 5 ॥
अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् । गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते । तथा हि—
लोकोऽयमविशेषज्ञः किं कुर्मः कस्य कथ्यते ।
यत् काकतिनरेन्द्रेण सुमेरुरुपमीयते ॥ 6 ॥
अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा । एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् ।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ 7 ॥
अत्र धर्मोऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसंदेहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि—
प्रतापरुद्रनृपतेर्मण्डलाग्रविधुंतुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ 8 ॥
अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ; किं तु रूपकालङ्कारः ।
<VIII.2-रीपकालरङ्कारः>
किमेष नवमो हरित्पतिरमन्दसंपत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेष हरिरुर्वरोद्धरणचुञ्चुरेकादश-
श्चिरादिति वितर्क्यते जगति काकतीन्द्रो जनैः ॥ 9 ॥
अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः संदेहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते; ततः संदेहालंकारः ।
काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि ।
दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ 10 ॥
अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न संभवतीति सादृश्याक्षेपात् भ्रान्तिमदलङ्कारः ।
<VIII.3-भ्रान्तिमदलङ्कारः>
लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ 11 ॥
अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न संभवतीति सादृश्यकल्पनादुल्लेखालंकारः ।
वीररुद्रस्य भूपालजयहोमं वितन्वतः ।
धूमरजिरियं भाति न चमूरेणुरुत्थिता ॥ 12 ॥
अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा ।
सा प्रथमं द्विधा - पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधा—श्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां सदृशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । `तेन तुल्यं क्रिया चेद् वतिः’ इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । `तत्र तस्येव’ इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा—
उद्दामोद्यतविक्रमे कृतयुगे बाहौ ययातेर्यथा
त्रेतायां रघुनायकस्य महितख्यातौ भुजायां यथा ।
दोर्दण्डे च युधिष्ठिरस्य विलसच्छौर्ये यथा द्वापरे
विस्रब्धाऽद्य कलौ तथैव रमते क्षोण्यन्ध्रभर्तुर्भुजे ॥ 13 ॥
समासगा पूर्णा श्रौती यथा—
भास्वानिवोद्यन्नुदयाद्रिलम्बी भद्रासनस्थो वरवीररुद्रः ।
उत्पश्यतामन्ध्रपुरीजनानां नेत्राब्जजाड्यं शमयत्यशेषम् ॥ 14 ॥
अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा—
कूर्मवच्छेषवद् गोत्रगिरिवद्दिङ्महेभवत् ।
भुजे प्रतापरुद्रस्य धुरीणे भाति मेदिनी ॥ 15 ॥
वाक्यगा पूर्णाऽऽर्थी यथा—
तैस्तैर्महीपालनसंविधानैस्तैस्तैः प्रजारञ्जनवैभवैश्च ।
विराजते संप्रति काकतीयलक्ष्मीपतिर्दाशरथेः समानः ॥ 16 ॥
समासगा पूर्णार्थी यथा—
तादृक्पालनसामर्थ्यसंपदा काकतीश्वरः ।
हरिदीश्वरसंकाशः शास्ति मध्यमविष्टपम् ॥ 17 ॥
तद्धितगा पूर्णार्थी यथा—
हेमाचलवदौन्नत्ये गाम्भीर्ये क्षीरसिन्धुवत् ।
प्रतापे भानुवद् भाति वीररुद्रनरेश्वरः ॥ 18 ॥
एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् ।
अथ लुप्तोपमाया उदाहरणानि ।
अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा—
यथा रुचां स्वामिनि चक्रवाक्यो यथा च नीहाररुचौ चकोर्यः ।
यथा प्रसूनस्तबके भ्रमर्यस्तथा प्रजाः काकतिवीररुद्रे ॥ 19 ॥
अनुक्तधर्मा समासगा श्रौती लुप्ता यथा—
प्रतापरुद्रदेवस्य पादपीठीमनारतम् ।
आराधयन्ति भूपालाः प्रणता देवतामिव ॥ 20 ॥
अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा—
काकतिक्ष्मापतेर्जैत्रप्रस्थानपटहध्वनिम् ।
तुल्यं दम्भोलिनिर्घोषैः श्रृण्वन्त्यरिमहीभृतः ॥ 21 ॥
अनुक्तधर्मा समासगा आर्थी लुप्ता यथा—
शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य ।
नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः ॥ 22 ॥
अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा—
प्रतापरुद्रनृपतेर्जगन्महिततेजसः ।
कन्दर्पकल्पमाकारं पश्यन्त्यन्ध्रपुरन्ध्रयः ॥ 23 ॥
एषूदाहरणेषु धर्मस्यानुपादानम् ।
अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा—
दुग्धार्णवीयत्वम्भोधीन् कैलासीयति भूधरान् ।
प्रतापरुद्रदेवस्य यशोवैशद्यवैभवम् ॥ 24 ॥
अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा—
क्रीडाद्रीयति गोत्रशैलशिखरेष्वास्थानसद्मीयति
द्वीपेष्वब्धिषु दीर्घिकीयति हरित्स्वेकान्तगेहीयति ।
उद्यानीयति सीमपर्वततटारण्ये सुपर्वाचले
प्रासादीयति वीररुद्रनृपतेः स्फारः प्रतापोदयः ॥ 25 ॥
अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा—
पश्यन्त्यात्मजदर्शमिन्दुममरस्रोतस्विनीं सत्सवी-
दर्शं क्षीरपयोनिधिं प्रियसुहृद्दर्शं गिरिं राजतम् ।
लीलादर्पणदर्शमन्यदमलं तारादि हारावली-
दर्शं खेलति वीररुद्रनृपतेः कीर्त्तिर्जगद्व्यापिनी ॥ 26 ॥
अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा—
नृपेषु शिक्षाविधिदण्डचारं कान्तासु पुष्पायुधधन्वचारम् ।
प्रजासु चालम्बनयष्टिचारं चरत्ययं रुद्रनरेन्द्रखड्गः ॥ 27 ॥
अनुक्तधर्मेवादिः क्विपा लुप्ता यथा—
सुधाप्रवाहति सतामसतां कालकूटति ।
वीररुद्रनरेन्द्रस्य गुणज्योत्स्नाविजृम्भितम् ॥ 28 ॥
एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्याधारक्यचि क्रीडाद्रीष्विव वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दोऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा—
ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः ।
प्रतापरुद्रनृपतेः शुभ्राः कीर्त्तेर्महोर्मयः ॥ 29 ॥
अत्र कीर्त्तीनां स्वरूपमुपमेयम् ।
अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा—
शेषायते महीं वोढुं कल्पशाखायतेऽर्थिनाम् ।
प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ 30 ॥
अनुक्तोपमाना वाक्यगा लुप्ता यथा—
वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपते-
र्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः
क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ 31 ॥
अनुक्तोपमाना समासगा लुप्ता यथा—
वीररुद्रसमो राजा नास्ति नास्त्येव भूतले ।
यस्य धर्मानुबन्धेन कलिः कृतयुगीकृतः ॥ 32 ॥
अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा—
लोके काकतिवीररुद्रनृपतेरुद्दामभूमश्रियः
कीर्त्त्या कार्त्तिककौमुदीधवलया तुल्यं न किंचित् क्वचित् ।
यन्माधुर्यविजृम्भितक्षतविषां ग्रीवां विलोक्याधुना
कण्ठालिङ्गनमीशितुर्वितनुते नीरन्ध्रमद्रेः सुता ॥ 33 ॥
अनुक्तधर्मोपमाना समासगा लुप्ता यथा—
प्रतापश्रीतुल्यं क्वचिदपि न भूतं न च भवेत्
न भावि त्रैलोक्ये किमपि जयिनः काकतिविभोः ।
यथा लोकालोकक्षितिधरतटेष्वर्कदृषदः
प्रकाशन्ते नक्तंदिवमुदितरोचिः परिचयाः ॥ 34 ॥
पूर्वोदाहरणद्वये वदान्यो नान्योऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालंकारशङ्का । उपमानस्याक्षेपाभावात् ; उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकारः । अनुक्तेवादिः समासगा लुप्ता यथा—
असतामुष्णभानूष्णं सतां शीतांशुशीतलम् ।
प्रतापरुद्रदेवस्य चरितं विश्वमङ्गलम् ॥ 35 ॥
अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा—
काकतीन्द्रो रणे भाति भीमसेनपराक्रमः ।
किंत्वदुः शासनाः सर्वे यस्य प्रत्यर्थिपार्थिवाः ॥ 36 ॥
अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः ।
अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा—
नृपाः प्रणतमूर्धानः सेवन्ते काकतीश्वरम् ।
असाधूनां विनेतारं गुरुं शिष्या इवाभितः ॥ 37 ॥
अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा—
वंशोऽयं काकतीयानां वीररुद्रेण भूषितः ।
अन्ववायः ककुत्स्थानां रामेणेव परिष्कृतः ॥ 38 ॥
अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावो यथा—
स्फुरच्छ्रवेतातपत्रश्रीः काकतीयनरेश्वरः ।
हाटकाद्रिरिवाभाति श्रृङ्गसङ्गीन्दुमण्डलः ॥ 39 ॥
अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः ।
अपरमपि द्वैविध्यमस्यालंकारस्य—समस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम्—
विभाति भूर्द्यौरिव काकतीन्द्रपुरी विराजत्यमरावतीव ।
पौराः प्रथन्ते त्रिदशा इवर्द्धि धत्ते मरुत्वानिव वीररुद्रः ॥ 40 ॥
एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा—
द्विपैश्चरद्भिर्धरणीधरैर्वा तुरङ्गमश्रेणिभिरूर्मिभर्वा ।
नानायुधैर्व्यालजलग्रहैर्वा बलं त्रिलिङ्गाधिपतेर्दुरापम् ॥ 41 ॥
अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात् प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते । यथा—
कुन्दति कुमुदति हंसति हारति हरति क्षपाकरति ।
कैलासति च यशः श्रीवैशद्यं वीररुद्रस्य ॥ 42 ॥
अत्रैकस्योपमेयस्यानेकोपमानदर्शनात् मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥
अनन्वयालंकारः ।
एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः ॥ 8.43 ॥
यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालंकारः । यथा—
सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ 44 ॥
<VIII.4-उपमेयापमालङ्कारः>
उपमेयोपमालङ्कारः ।
पर्यायेण द्वयोस्तस्मिन्नुपमेयोपमा मता ॥ 8.45 ॥
तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा—
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ 46 ॥
<VIII.5-स्मरणालङ्कारः>
स्मरणालंकारः ।
सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ॥ 8.47 ॥
यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालंकारः । यथा—
राज्ञा प्रतापरुद्रेण पालितेयं वसुंधरा ।
हरिश्चन्द्रनलादीनां प्राचां स्मरति भूभुजाम् ॥ 48 ॥
अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् ।
भेदाभेदसाधारणसाधर्म्यनिबन्धनालंकाराः प्रदर्शिताः । संप्रत्यारोपगर्भालंकारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकं निरूप्यते ।
<VIII.6-रूपकालङ्कारः>
रूपकालङ्कारः ।
आरोपविषयस्य स्यादतिरोहितरूपिणः ।
उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ 8.49 ॥
अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम् । भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलंकारेऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् ।
तस्य प्रथमं त्रैविध्यम्—सावयवं, निरवयवं परम्परितं चेति । सावयवं द्विविधम्—समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्—केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालंकारः । अथोदाहरणानि ।
यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत् समस्तवस्तुविषयं रूपकम् ।
यथा—यात्राप्रावृषि वीररुद्रनृपतेर्निस्साणधाराधरे
वैरिक्ष्मापतिगर्वपर्वतभिदाभीमं मुहुर्गर्जति ।
शत्रुस्त्रीनयनाम्बुवृष्टिरसकृज्जाताऽनया सर्वतो
वर्धन्ते हरिदन्तरेषु जगदानन्दा यशः कन्दलाः ॥ 50 ॥
यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् ।
यथा—
प्रसाधिताशावलयान्तरालः शौर्याकरः काकतिवीररुद्रः ।
विकस्वरैर्वासनया त्रिलोकीं गुणप्रसूनैः सुरभीकरोति ॥ 51 ॥
अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा—
मथिताद् वैरिवारशेर्भुजामन्दरभूभृता ।
जाता प्रतापरुद्रस्य कीर्त्तिर्लोकान् धिनोत्यमून् ॥ 52 ॥
अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् ।
यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रेऽपि तदेव ।
तत्र केवलं यथा—
यात्रारम्भविजृम्भमाणसुभटप्रक्ष्वेडिताम्रेडितै-
र्निस्साणध्वनिभिः स्फुटं प्रतिदलद्रोदः कटाहान्तरैः ।
क्षुब्धेष्वब्धिषु कम्पितेषु गिरिषु श्रुत्यैव मुञ्चन्त्यसून्
भीताः काकतिवीररुद्रनृपतेः प्रत्यर्थिनः पार्थिवाः ॥ 53 ॥
अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा—
राज्ञां मौलिविभूषणस्रगमला दिक्कुञ्जरश्रोत्रयोः
स्फारं चामरभूषणं धरणिभृच्छृङ्गेषु गङ्गासरित् ।
व्योम्नः क्षौमवितानमुज्ज्वलतरं मुक्ताकलापो भुवः
स्फारः काकतिवीररुद्रयशसां जागर्ति विस्फूर्जितम् ॥ 54 ॥
रूपकहेतुरूपकं परम्परितरूपकम् ।
रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषयेऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा—
प्रतापरुद्रदेवस्य मण्डलाग्रविधुन्तुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ 55 ॥
श्लिष्टमालापरम्परितं यथा—
पद्मोल्लाससहस्रभानुरसकृत्सन्मार्गचर्याबुधः
क्ष्माभृत्पक्षभिदाशनिः कुवलयालंकारराकाशशी ।
नित्योद्यत्सुमनोविकाससुरभिः कल्याणसंपत्सुर-
क्षोणीभृद्भुवनाश्रयाम्बुधिरयं श्रीवीररुद्रो नृपः ॥ 56 ॥
अश्लिष्टकेवलपरम्परितं यथा—
काकतीयस्य दुग्धाब्धेर्यशोलीलामहोर्मयः ।
दिक्कूलमुद्रुजाटोपाः खेलन्त्यब्भ्रंकषोच्छ्रयाः ॥ 57 ॥
अश्लिष्टमालापरम्परितं यथा—
दोराशीविषजिह्वया रिपुवनश्रेणीमहावात्यया
शौर्योग्रानलधूम्यया जयरमायोषाविलासभ्रुवा ।
संहृष्यद्धरणीविलासशिखिनीसंवासयष्ट्या जगत्-
प्रसादार्गलया कृपाणलतया रुद्रो नृपः क्रीडति ॥ 58 ॥
अश्लिष्टमालापरम्परितं वैधर्म्येणापि संभवति । यथा—
त्रासान्धकारमध्याह्नाः कैतवातपरात्रयः ।
जयन्ति वीररुद्रस्य रणप्राङ्गणकेलयः ॥ 59 ॥
एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः संभवन्ति ॥
<VIII.7-परिणामालङ्कारः>
परिणामालङ्कारः ।
आरोप्यमाणमारोपविषयात्मतया स्थितम् ।
प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ॥ 8.60 ॥
आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा—
शश्वत् प्रसाधनविधानकृताभिलाषा
नम्रैर्भजन्ति मकुटैरवनीपवर्गाः ।
श्रीवीररुद्रनृपतेः ककुभां विजेतु-
राज्ञामयीं स्रजममन्दविलासलक्ष्मीम् ॥ 61 ॥
वैयधिकरण्येन परिणामो यथा—
किरीटमाणिक्यमयूखजालैर्विधाय पुष्पाञ्जलिमर्चयन्ते ।
फलार्थिनो रुद्रनरेन्द्रपादपीठान्तसीमानमरिक्षितीन्द्राः ॥ 62 ॥
समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वेऽप्यवाच्यत्वान्न परिणामेऽन्तर्भावः ।
<VIII.8-सन्देहालङ्कारः>
संदेहालङ्कारः ।
विषयो विषयी यत्र सादृश्यात् कविसंमतात् ।
संदेहगोचरौ स्यातां संदेहालङ्कृतिश्च सा ॥ 8.63 ॥
सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति ।
संदेहमात्रपर्यवसायिनी शुद्धा यथा—
किमेष नवमो हरित्पतिरमन्दसंपत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेव हरिरुर्वरोद्धरणचुञ्चुरेकादश-
श्चिरादिति विलोक्यते जगति वीररुद्रो जनैः ॥ 64 ॥
निश्चयगर्भो यथा—
कालाहिः किमयं मृणालमृदुलं भोगं स धत्ते पुनः
कालभ्रूकुटिरेष किं नु मुख एवोज्जृम्भते सा पुनः ।
कालोग्रानलधूमपद्धतिरसौ किं सा पुनर्धूयते
वातेनेति विकल्प्यते प्रतिभटै रुद्रस्य कौक्षेयकः ॥ 65 ॥
निश्चयपर्यवसाना यथा—
किं कल्पद्रुममञ्जरीस्रज इमे किं वा पयोराशयः
स्वर्धेनोरथवा किमुज्ज्वलतराश्चिन्तामणेः स्फूर्तयः ।
किं वा सिद्धरसोर्मयश्चिरमिति व्यामृश्य निश्चिन्वते
सन्तः काकतिवीररुद्रनृपतेः स्मेराः कटाक्षा इति ॥ 66 ॥
<VIII.9-भ्रान्तिमदलङ्कारः>
भ्रान्तिमदलङ्कारः ।
कविसंमतासादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥ 8.67 ॥
यथा—
काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि ।
दिवाऽपि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ 68 ॥
<VIII.10-अपह्नवालङ्कारः>
अपह्नवालङ्कारः ।
निषिध्य विषयं साम्यादन्यारोपे ह्यपह्नुतिः ॥ 8.69 ॥
तस्यास्त्रैविध्यम्—अपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम्—
उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्थं रुद्रनरेन्द्रधाटिषु महीभारावनम्रीभव-
च्छेषाशेषशिरस्सु विस्मितमथ भ्रष्टं दिगीशैरपि ॥ 70 ॥
छलादिशब्दैरसत्यत्वप्रतिपादनं यथा—
सर्वां काकतिवीररुद्रधरणीनाथच्छलेन क्षितिं
पातुं मध्यमलोकपालपदवीं प्राप्तः स्वयंभूः शिवः ।
नैवं चेद् विषमावलोकनकलामात्रेण भस्मीकृतै-
र्जातं वैरिपुरैः कथं कथमवाग्भूतं च भूभृद्गणैः ॥ 71 ॥
अर्थयोगरुचिश्लेषैरुल्लेखनमनेकधा ।
ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ 8.72 ॥
रुच्यर्थयोगाभ्यां यथा—
लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ 73 ॥
श्लेषेण यथा—
उग्रः सपत्नेषु, गुणेषु भास्वान्, रामः प्रतीकेषु, रणेषु भीमः ।
लीलासु लक्ष्म्याः पुरुषोत्तमश्चेत्याचक्षते रुद्रनृपं कवीन्द्राः ॥ 74 ॥
<VIII.11-उत्प्रेक्षालङ्कारः>
उत्प्रेक्षालङ्कारः ।
अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधः—विषयिनिगरणेन विषयनिगरणेन च ।
यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् ।
प्रकृतं हि भवेत् प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ 8.75 ॥
यत्राप्रकृतगुणक्रियासंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनम् उत्प्रेक्षा । सा द्विविधा—वाच्या, प्रतीयमाना च । संभावनाप्रतिपादकानां `नूनं (ध्रुवं) प्राय’ इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ; प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्येऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हि—यथा साध्येऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधनेऽनुपात्ते साध्यत्वेन निर्देशोऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन संघटते । तथाहि—
प्रतापरुद्रनृपतेरपारे कीर्त्तिसागरे ।
मग्ना दुरीशदुष्कीर्त्तिसङ्गादिव जगन्त्रयी ॥ 76 ॥
अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा—
जयश्रीवासपद्मस्य विकासायेव भानुमान् ।
प्रतिबिम्बमिषात् खड्गं प्रविशत्यन्ध्रभूभुजः ॥ 77 ॥
अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । 1 ।
उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 2 ।
उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 3 ।
उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 4 ।
अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 5 ।
अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । 6 ।
उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । 7 ।
उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । 8 ।
उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । 9 ।
उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । 10 ।
उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । 11 ।
उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । 12 ।
उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । 13 ।
एवं चतुर्दशभेदा जात्युत्प्रेक्षा ।
अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया ।
एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद् भेदाः ।
प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद् भेदाः ।
अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते ।
गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं चाभ्युपगतम् ।
प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् ।
चारुत्वातिशयस्तु षट्पञ्चाशत् एव भेदानाम् ।
तत्र यथासंभवमुदाहरणानि ।
उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा—
कीर्त्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भूमिभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
त्रैलोक्याट्टहसप्रभेव ककुभां प्रान्तेषु विद्योतते ॥ 78 ॥
अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः ।
उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा—
वीरस्य रुद्रनृपतेः प्रियवल्लभस्य
राज्याभिषेकसलिलैः सरसीकृतायाः ।
सद्यः समुच्छ्वसितसान्द्रपरागरेखाः
क्षोण्याः प्रमोदपुलकाङ्कुरमञ्जरीव ॥ 79 ॥
अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् ।
अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा—
प्रतापरुद्रस्य नखेन्दुकान्तिः प्रणामभाजां पदयोर्नृपाणाम् ।
ललाटलग्ना विधिनिर्मिताया वर्णावलेर्वाचनदीपिकेव ॥ 80 ॥
अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते ।
उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा—
प्रतापरुद्रस्य गुणामृतोर्मिधौता विराजन्त्यमलीकृताङ्गाः ।
प्रक्षालितात्युद्धतभूमिपालाः खड्गाम्बुभिः स्वच्छतरा भवन्ति ॥ 81 ॥
अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा—
दिशां जेतुर्विश्वप्रसृतमहसो रुद्रनृपते-
र्जयप्रस्थानोद्यत्करितुरगसंमर्दजनितम् ।
रजः कृत्वा ग्रस्तप्रतिबलमसूर्यामिव दिवं
प्रतापाख्यान् अन्यान् दिशि दिशि विधत्ते दिनकरान् ॥ 82 ॥
अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा—
उदाररीत्या भुजया प्रतापरुद्रस्य विश्वैकदुरन्धरस्य ।
विश्वंभरा कोमलशय्ययेव विस्मारिता गोत्रमहीध्रवासम् ॥ 83 ॥
अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा—
भूमेरकल्पवृक्षत्वादिति धाता विचिन्तयन् ।
सृष्टवान् काकतीशानं निर्व्याजत्यागवैभवम् ॥ 84 ॥
अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् ।
जातिफलोत्प्रेक्षा यथा—
नूनं विश्वंभराधारस्तम्भीभवितुमायतौ ।
वीररुद्रनरेन्द्रस्य भुजावाजानुलम्बिनौ ॥ 85 ॥
अत्र स्तम्भीभवितुमिति जातेः फलत्वम् ।
जात्यभावफलोत्प्रेक्षा यथा—
पशूनवध्यानालोक्य शत्रवः काकतीशितुः ।
प्रायेणामानुषत्वाय तृणवृत्तिं समाश्रिताः ॥ 86 ॥
अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् ।
क्रियास्वरूपोत्प्रेक्षा यथा—
श्रीकाकतीयनृपतेर्द्विषदङ्गनानां
श्वासोर्मिभिः सपदि मर्मरितान्तरालाः ।
तासां निवासविषये कृतयाचनानां
प्रत्युत्तराणि ददतीव मरौ वनान्ताः ॥ 87 ॥
क्रियास्वरूपाभावोत्प्रेक्षा यथा—
विमुखे सति काकतिक्षितीन्द्रे वनसीमापि कठोरकण्टकाग्रा ।
चिकुरेषु विकर्षति प्रतीशान् अददानेव निजान्तरप्रवेशम् ॥ 88 ॥
अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा—
राज्ञां गर्वाङ्कुरोद्भेदाः परिम्लाना दिने दिने ।
काकतीन्द्रप्रतापार्कतीव्रोष्माभिभवादिव ॥ 89 ॥
अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा—
कपोलफलकावस्याः कथं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृशीं क्षामतां गतौ ॥ 90 ॥)
क्रियाफलोत्प्रेक्षा यथा—
दम्भोलिसंरम्भमहाजिगोपः प्रस्थानभेरीनिनदोऽन्ध्रभर्तुः ।
लीनानिवान्वेष्टुमरातिवर्गान् विगाहते शैलगुहान्तराणि ॥ 91 ॥
क्रियाभावफलोत्प्रेक्षा यथा—
सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गना कल्पितचन्द्रिकार्धान् ।
श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रष्टुमिवान्धकारम् ॥ 92 ॥
अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् ।
गुणस्वरूपोत्प्रेक्षा यथा—
चकास्ति काकतीन्द्रस्य कृपालोकनविभ्रमः ।
प्रकृतिष्वपि सर्वासु प्रसाद इव मूर्तिमान् ॥ 93 ॥
गुणाभावस्वरूपोत्प्रेक्षा यथा—
प्रतापरुद्रस्य महाभिषेकपयः कणैः शीतलिताखिलाङ्गा ।
प्रशान्तभारार्तफणीन्द्रगाढश्वासानिलोष्मेव विभाति पृथ्वी ॥ 94 ॥
अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा—
जयश्रियामाश्रयतामुपेतः (ति) श्रीवीररुद्रस्य रणे कृपाणः ।
जयश्रियं वैरिमहीपतीनां समुत्सुको हर्तुमसूययेव ॥ 95 ॥
अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा—
जाता वयं संप्रति वीररुद्रनरेन्द्रगम्भीरिमगुल्फदन्घाः ।
इत्यप्रमोदादिव जीवनेषु मालिन्यमम्भोनिधयो भजन्ति ॥ 96 ॥
अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा—
आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः ।
भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः ॥ 97 ॥
अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा—
अरण्यवासार्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः ।
त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ॥ 98 ॥
अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा—
न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः ।
आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥ 99 ॥
द्रव्यस्वरूपाभावोत्प्रेक्षा यथा—
अनन्यसाधारणदानशौण्डे सद्यः कृतार्थीभवदर्थिसार्थे ।
श्रीकाकतीन्द्रे भुवि राजमाने द्यौः पारिजातेन विनाकृतेव ॥ 100 ॥
अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा—
प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् ।
समुन्मूलितमामूलादपरेणेव वज्रिणा ॥ 101 ॥
द्रव्यहेत्वभावोत्प्रेक्षा यथा—
काकतीयप्रतापोष्मविलीनाङ्गेन मेरुणा ।
असुवर्णाचलेनेव विरिञ्चिर्व्याकुलीकृतः ॥ 102 ॥
अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा—
दुग्घार्णवशतायेव कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥ 103 ॥
अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् ।
द्रव्याभावफलोत्प्रेक्षा यथा—
वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् ।
रजः पिहितदिग्गोलं निराकाशमिव स्थितम् ॥ 104 ॥
अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासंभवमुदाहार्यम् ।
इत्यौपम्यगर्भालंकारविवेचनम् ।
<VIII.12-अतिशयौक्त्यलङ्कारः>
अतिशयोक्त्यलङ्कारः ।
विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र साऽतिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता ॥ 8.105 ॥
यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते साऽतिशयोक्तिः । तस्याश्चातुर्विध्यम्—भेदेऽभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद् व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदेऽभेदो यथा—
स्थाने कल्पतरुर्जातः काकतीयकुलोदधेः ।
लक्ष्मीपतिरसौ चित्रं मर्त्यलोकमहोत्सवः ॥ 106 ॥
अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा—
औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा
काऽप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ 107 ॥
अत्रौन्नत्यादेर्वास्तवाभेदेऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदेऽपि अभेदाध्यवसायः ।
संबन्धेऽसंबन्धो यथा—
शिला चिन्तारत्नं, तरुरमरशाखी, पशुरसौ
वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् ।
न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं
स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ॥ 108 ॥
अत्र विधातृसृष्टिसंबन्धेऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा—
ब्रह्मन् ! मेरुगिरौ कृतेऽपि किमिदं नैवंविधास्ते मुदः
स्वामिन् ! सत्यमधिक्रियाऽद्य फलिता यद्वीररुद्रः कृतः ।
मिथ्या किं नु विकत्थसे त्रिजगतस्त्राणाय मत्प्रार्थितः
शंभुः क्ष्मामवतीर्णवानिति कथा जाता हरिब्रह्मणोः ॥ 109 ॥
अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसंबन्धेऽपि संबन्ध उक्तः । शंभुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा—
मातः ! कथं काकतिनाथदृष्टेरग्रेसराः कामशराः पतन्ति ।
तद्रूपलावण्यजितः स्मरोऽपि नूनं गतः किंकरताममुष्य ॥ 110 ॥
अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात् प्रियदृष्टिपातात् पूर्वकालत्वमुक्तम् ।
<VIII.13-सहोक्त्यलङ्कारः>
सहोक्त्यलङ्कारः ।
अथोक्तिसाम्यालंकारनिरूपणेऽतिशयोक्तिहेतुका सहोक्तिर्निरूप्यते ।
सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥ 9.111 ॥
यत्र भेदेऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वाऽतिशयोक्त्या एकस्य प्राधान्येनान्वयेऽपरस्य सहार्थेन संबन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता ।
कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा-
अन्ध्रक्षमाभृत्सुभटासिधारा रणेषु नीलोत्पलपत्रभासः ।
पतन्ति कण्ठेष्वरिभूपतीनां साकं सुरस्त्रीजनमुक्तमाल्यैः ॥ 112 ॥
अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदेऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा—
दिने दिने रुद्रनराधिपस्य प्रतापलक्ष्मीरुदयं प्रयाति ।
प्रकाशिताशेषदिगन्तराला विवस्वता सार्धमनिन्द्यभासा ॥ 113 ॥
अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः ।
<VIII.14-विनोक्त्यलङ्कारः>
विनोक्त्यलङ्कारः ।
अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते ।
विना संबन्धि यत्किंचिद्यत्रान्यस्य पराभवेत् ।
अरम्यता रम्यता वा सा विनोक्तिरिति स्मृता ॥ 8.114 ॥
यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत् सा विनोक्तिः । सा द्विविधा—अरम्यता, रम्यता चेति । अरम्यता यथा—
प्रतापरुद्रदेवस्य गुणवर्णनया विना ।
कीदृशी काव्यरचना संश्रृणुध्वं कवीश्वराः ॥ 115 ॥
अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियोऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा—
कलापूर्णे नित्यं जयति जगतीन्दौ त्रिजगतो
वपुष्मत्यानन्दे विमलविभवे रुद्रनृपतौ ।
विना लक्ष्म प्राप्य प्रतिदिवसपूर्णां निजतनुं
प्रकाशः स्यादिन्दुर्यदि दिवि भवेत् सोऽपि सुभगः ॥ 116 ॥
अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात् तादृशगुणवत्तयैव रम्यता, नान्यथेति ।
<VIII.15-समासोक्त्यलङ्कारः>
समासोक्त्यलङ्कारः ।
विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥ 8.117 ॥
यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत् त्रिविधम्—श्लिष्टविशेषणसाम्यं, साधारणम्, औपम्यगर्भं चेति ।
श्लिष्टविशेषणसाम्यं यथा—
सद्यो विश्लथमेखलां पुलकितामृज्वीं तनुं बिभ्रती
रागादन्ध्रपतेः कृपाणलतिका गृह्णाति कण्ठेष्वरीन् ।
तद्योगादनुरक्तभावविवशाः संमीलिताक्षाश्चिरं
शून्यान्तः करणा भजन्ति खलु ते भावस्थितिं कामपि ॥ 118 ॥
अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा—
वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भव-
त्स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
संजातप्रलयं च काकतिममीनाथ ! स्मरोद्वेजिता
भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ 119 ॥
अत्र श्रृङ्गारभयानकसाधारणविशेषबलाद् भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा—
भृतात्मा गुणरत्नौघैः पूर्णः सौजन्यवारिणा ।
प्रतापरुद्रनृपतिर्धत्ते विश्वंभराश्रियम् ॥ 120 ॥
अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ; तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि ।
सप्ताङ्गस्फुरदुद्दामदानलक्ष्मीविराजितः ।
प्रतापरुद्रो भद्रात्मा तनुते सार्वभौमताम् ॥ 121 ॥
अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा—
गुरुप्रमाणेन निजेन सद्यस्तिरस्कृतोद्यत्प्रतिपक्षहेतौ ।
प्रतापरुद्रस्य समित्युदग्रे खड्गे महत्खण्डनपण्डितत्वम् ॥ 122 ॥
अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः ।
तथा—
अपूर्वार्थश्लाघागुरुभणितसारस्यपदवी
श्रुतिग्राह्यं तत्त्वं किमपि कलयन्ती प्रतिपदम् ।
प्रबन्धश्रीर्वीरक्षितिभुजि कवीनां विजयते
बुधश्रेणी यस्यां निपुणमधिकर्तुं प्रभवति ॥ 123 ॥
अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः ।
तथा—
सालंकारा लसद्वर्णा सगुणा रसनिर्भरा ।
भावानुबन्धिनी भाति भारती काकतीश्वरे ॥ 124 ॥
अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः ।
<VIII.16-वक्रोक्त्यलङ्कारः>
वक्रोक्त्यलङ्कारः ।
अन्येषामप्यलंकाराणामुक्तिसाम्येऽपि श्लेषगर्भत्वविशेषात् वक्रोक्तिरुच्यते—
अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् ।
अन्यथा योजनं यत्र सा वक्रोक्तिर्निगद्यते ॥ 8.125 ॥
यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथंचित् संभवत्यप्येवंविधलक्षणाभावात् सर्वालंकारेभ्यो भिद्यते । काक्वा यथा—
* बहुवल्लहो खु राआ सहि तस्स सिरिंमि णिभ्भरासत्ती ।
णूणा सिरिए वि तुमं अप्पाणं किं णु लहुवसि ॥ 126 ॥
(* बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः ।
न्यूना श्रियोऽपि त्वमात्मानं किं नु लघयसि ॥)
अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा प्रतीयते । श्लेषेण यथा—
कस्ते सुन्दरि वर्तते हृदि सदा ? किमिन्दुर्न हि
क्षोणीभृत्तिलकः; सुमेरुरयि किं ? नो रुद्रदेवो विभुः ।
ईशः किं सखि ! सत्यमात्थ सुभगे ! त्वं गोत्रसारोद्भवे-
त्याल्यां खल्वपहासवाचि विरहं किंचिद्वधूर्व्यस्मरत् ॥ 127 ॥
<VIII.17-स्वभावोक्तिः>
अथ स्वभावोक्तिः ।
स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ॥ 8.128 ॥
यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः ।
यथा—
मदश्च्युता नर्तितकर्णतालमुद्धूतमूर्ध्ना त्रिपदस्थितेन ।
लोलाग्रहस्तेन गजेन जातो नित्योत्सवः काकतिवीररुद्रः ॥ 129 ॥
<VIII.18-व्याजोक्त्यलङ्कारः>
व्याजोक्त्यलङ्कारः ।
अथोक्तिसाम्याद् व्याजोक्तिरुच्यते ।
व्याजोक्तिः सा समुद्भूतं वस्तु यत्र निगूह्यते ॥ 8.130 ॥
यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात् केनचित् व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा—
क्षोणीपाणिग्रहणसमये संमदाद्रोमहर्षे
सर्वाङ्गीणे नृपतितिलकः काकतीयान्वयेन्दुः ।
धीरोदात्तः शिशिरसलिलैः किं नु राज्याभिषेकः
कर्तव्यः स्यादिति मृदु हसन् वीक्षते मन्त्रिवृद्धान् ॥ 131 ॥
अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते ।
<VIII.19-मीलनालङ्कारः>
मीलनालङ्कारः ।
व्याजोक्त्युत्तरं किंचित्साम्यान्मीलनमुच्यते ।
मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ॥ 8.132 ॥
यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधः—सहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे—
उग्रैः काकतिवीररुद्रनृपतेर्दोर्दण्डविस्फूर्जितै-
र्युद्धप्राङ्गणवर्जितेषु पतिषु क्वापि प्रलीनात्मसु ।
विष्वक्तीव्रतरस्मरज्वरजुषामङ्गे द्विषद्योषितां
संक्रान्तोऽपि न लक्ष्यते पथि महानूष्मा चिरं मारवः ॥ 133 ॥
अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा—
प्रतापरुद्रस्य भुजप्रभावादन्तर्भयाद् भूमिभुजामजस्रम् ।
स्वेदाश्रुकम्पाद्युदयेऽप्यनङ्गगोष्ठ्यां स्त्रियः प्रेम्णि न विश्वसन्ति ॥ 134॥
अत्र भयजनितेन कम्पादिनाऽऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् ।
<VIII.20-सामान्यालङ्कारः>
सामान्यालङ्कारः ।
सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता ॥ 8.135 ॥
यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा–
कैलासदुग्धार्णवयानहंसेष्वलक्षितेष्वन्ध्रनरेन्द्रकीर्त्तौ ।
त्रयः पुमांसः प्रथमे स्मयन्ते स्वसेवकान् संभ्रमतो विलोक्य ॥ 136 ॥
अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् ।
<VIII.21-तद्गुणालङ्कारः>
तद्गुणालङ्कारः ।
इतरगुणसंनिधानातिशयसाम्यात् तद्गुण उच्यते ।
तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः ॥ 8.137 ॥
यत्र न्यूनं स्वगुणं विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा—
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नाविजृम्भितैः ।
नमन्नृपतिमाणिक्यमौलयः शुचयः कृताः ॥ 138 ॥
अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म ।
<VIII.22-अतद्गुणालङ्कारः>
अतद्गुणालङ्कारः ।
तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते ।
सति हेतावन्यगुणास्वीकारः स्यादतद्गुणः ॥ 8.139 ॥
यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालंकारः । यथा—
ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले
दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते ।
ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे
पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम् । 140 ॥
अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिम् विजृम्भते ।
<VIII.23-विरोधालङ्कारः>
विरोधालङ्कारः ।
अतद्गुणे किंचित्प्रक्रान्तत्वाद् विरोधस्य विरोधालंकारो निरूप्यते ।
आभासत्वे विरोधस्य विरोधालंकृतिर्मता ॥ 8.141 ॥
यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा—
पद्माकरोऽपि विलसति नितरामजडाशयोऽयमुर्वीशः ।
विमलतरवारिधाराऽप्यासीद्वैरिक्षितीशतापकरी ॥ 142 ॥
अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरोऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात् । अत्र श्लेषमूलो विरोधः ।
जातेर्गुणद्रव्याभ्यां विरोधो यथा—
अमदः सार्वभौमोऽपि भास्वानपि कलानिधिः ।
वीररुद्रनरेन्द्रोऽयमद्भुतानां विहारभूः ॥ 143 ॥
अत्र सार्वभौमोऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात् द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा—
धर्मद्विषामर्थमुषां च भङ्गमुत्पादयन् काकतिवीररुद्रः ।
त्रिवर्गसाधारणगोचरोऽपि करोति कामद्विषि भावमार्द्रम् ॥ 144 ॥
अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा—
एष जिष्णुविहारोऽपि गोत्रवात्सल्यलालसः ।
करोति कमलोल्लासं राजाऽप्यन्ध्रनरेश्वरः ॥ 145 ॥
अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा—
* रज्जंतो भुवणमिअं राएत्ति जए सलाहणिज्जो सि ।
रुद्दणरिंद ! कहं सा रत्ता वि अ पंडुरा जाआ ॥ 146 ॥
(* रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयोऽसि ।
रुद्रनरेन्द्र ! कथं सा रक्ताऽपि च पुण्डुरा जाता ॥)
अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा—
ज्वलत्प्रतापरौद्रोऽपि काकतीयनरेश्वरः ।
भूत्वा जैवातृको भाति शश्वद्विश्वप्रियंकरः ॥ 147 ॥
अत्र प्रतापरौद्रोऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः ।
द्रव्यस्य द्रव्येण विरोधो यथा—
विभाति काकतीन्द्रोऽयं रुद्रोऽपि चतुराननः ।
तथा च जिष्णुरित्येष कथ्यते पुरुषोत्तमः ॥ 148 ॥
एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा—
स्वभावशिशिरा दृष्टिरपि काकतिभूभुजः ।
सर्वाङ्गतापिनी जाता प्रतिपक्षमहीभृताम् ॥ 149 ॥
अत्र स्वभावशिशिरापि तापिनीति विरोधः ।
<VIII.24-विशेषालङ्कारः>
विशेषालङ्कारः ।
अथ विरोधगर्भालंकारा निरूप्यन्ते ।
आधाररहिताधेयमेकं चानेकगोचरम् ।
अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ 8.150 ॥
यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि–
नलनहुषदिलीपधर्मपुत्रप्रभृतिनरेश्वरसंश्रिता यशः श्रीः ।
अनुदिनमधुनाऽभ्युपेत्य मैत्रीं विलसति काकतिवीररुद्रकीर्त्त्या ॥ 151 ॥
अत्र प्राचां भूपतीनामाधारभूतानां तिरोधानेऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च—
पश्यन्तो भयविह्वलाः प्रतिनृपाः पश्चात् पुरः पार्श्वयो-
रप्यन्तर्बहिरन्ध्रपार्थिवपतिं प्रोत्क्षिप्तकौक्षेयकम् ।
निः सीनोत्बणधावनव्यतिकरप्रभ्रष्टदोरायुधाः
शैलाच्छेलमटन्ति कम्पविलसद्गाम्भीर्यशौर्यश्रियः ॥ 152 ॥
अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेकोऽप्यनेकत्र प्रतीयते । तथा च—
अपारकरुणानिधेः सदसि वीररुद्रप्रभोः
प्रसादमधुरक्रमा लगति यत्र दृष्टिर्जने ।
अतीन्द्रमतिकिंनराधिपमशेषलोकोन्नतं
न किं मिमधितिष्ठति त्रिभुवने स सर्वाधिकः ॥ 153 ॥
अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् ।
<VIII.25-अधिकालङ्कारः>
अधिकालङ्कारः ।
आधाराधेयवैचित्र्यादधिकालंकारो निरूप्यते ।
आधाराधेययोरानुरूप्याभावोऽधिको मतः ॥ 8.154 ॥
यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सोऽधिकालंकारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् ।
स्तोके ब्रह्माण्डरन्ध्रे विपुलतरतया स्वैरसंचारहेला-
संकोचादेकराशीभवदतनुरुचौ काकतीन्द्रस्य कीर्त्तौ ।
एतैः प्रालेयपृथ्वीधररजतगिरिस्वर्णदीशीतभानु-
क्षीरम्भोराशिमुख्यैः प्रकटितमधुना तद्धनीभावरूपम् ॥ 155 ॥
अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा—
क्वापि क्वापि कलिङ्गमालवमहाराष्ट्राङ्गवङ्गादयो
भूपास्तादृशसैन्यवैभवसमाक्रान्ताखिलाशान्तराः ।
लीनाः काकतिवीररुद्रनृपतेर्व्यूहप्रपञ्चश्रिया
निः सीमे बलवारिधौ विदधते पूर्तिं न कोणेऽप्यहो ॥ 156 ॥
अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् ।
अथ विभावना विशेषोक्तिश्च ।
कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना ।
तत्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ॥ 8.157 ॥
यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः ।
यथा—
प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम् ।
तमांस्यरात्रीणि समुद्भवन्ति तेजांसि धस्रेष्वपि नोद्भवन्ति ॥ 158 ॥
अत्र तमः प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसोऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव ।
<VIII.26-असंगत्यलङ्कारः>
असंगत्यलङ्कारः ।
कार्यकारणविरोधप्रस्तावाद् असंगतिरुच्यते ।
कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः ॥ 8.159 ॥
यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यतेऽसावसंगत्यलंकारः । यथा—
बिभ्रत्युर्वीधुरां गुर्वी वीररुद्रनरेश्वरे ।
भवन्त्यतितरां शश्वन्नम्राः सामन्तमौलयः ॥ 160 ॥
अत्र राज्ञि भूभारः शत्रुषु नमनमिति ।
<VIII.27-विचित्रालङ्कारः>
विचित्रालङ्कारः ।
विरोधप्रस्तावाद्विचित्रं निरूप्यते ।
विचित्रं स्वविरुद्धस्य फलप्राप्त्यर्थमुद्यमः ॥ 8.161 ॥
यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः ।
यथा—
प्रतापरुद्रनृपतेरग्रे दूरान्नरेश्वराः ।
अवरोहन्ति हस्तिभ्यस्तानारोढुमनर्गलम् ॥ 162 ॥
अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः ।
अन्योन्यालंकारः ।
अथान्योन्यं निरूप्यते । अस्यापि विरोधमूलता ।
तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् ॥ 8.163 ॥
यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः ।
यथा—
आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् ।
आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति ॥ 164 ॥
अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम् ।
विषमालंकारः ।
अथ विरोधमूलो विषमालंकारः कथ्यते ।
विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपघटना चासौ विषमालंकृतिस्त्रिधा ॥ 165 ॥
यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा—
राज्ञः काकतिवीररुद्रनृपतेः खड्गात् तमालप्रभा-
दुद्भूतां शरदिन्दुकान्तिधवलां कीर्त्तिश्रियं पश्यताम् ।
लोकानां मुरवैरिपादकमलाज्जातां वियन्निम्नगां
श्रुत्वा संप्रति विस्मयाद्विरमति प्राप्तानुभावं मनः ॥ 166 ॥
अत्र नीलवर्णात् खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः ।
द्वितीयं यथा—
आस्तां जयाशा रिपुभूपतीनां संग्रामसीमाममुपागतानाम् ।
प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ 167 ॥
अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा—
क्व भूपालास्तादृग्विभवमहनीयप्रकृतयः
क्व चेयं कान्तारस्थितिरशिववृत्त्येकनिलया ।
इति प्रेक्षंप्रेक्षं वनभुवि रिपून् रुद्रनृपतेः
प्रतापं श्लाघन्ते शबरपुरवीराः प्रतिदिशम् ॥ 168 ॥
अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम् ।
एवं विरोधगर्भालङ्कारा निर्णीताः ।
<VIII.28-समालङ्कारः>
समालङ्कारः ।
अधुना विषमवैधर्म्यात् समालंकारो निरूप्यते ।
सा समालंकृतिर्योगे वस्तुनोरनुरूपयोः ॥ 8.169 ॥
यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालङ्कारः । यथा—
* विज्जाओ सकलाओ लच्छीए समं पआवरुद्दंमि ।
संघटिऊण सुसरिसं होइ कअच्छो सअं बह्मा ॥ 170 ॥
(* विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे ।
संघटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥)
अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः ।
<VIII.29-तुल्ययोगितालङ्कारः>
तुल्ययोगितालङ्कारः ।
अथ गम्यमानोपम्यालंकारवर्गप्रस्तावः ।
प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः ।
औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ 8.171 ॥
यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा—
भद्रासनाध्यासिनि रुद्रदेवे तत्कीर्त्तयस्तद्द्विषदङ्गनाश्च ।
अनारतं भ्रान्तिविशेषभाजः प्रतिक्षणं पाण्डुरतां भजन्ते ॥ 172 ॥
अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा—
कूर्मेन्द्रपन्नगाधीशहरित्करिकुलाद्रयः ।
मिथो निः सारतां प्राप्ताः काकतीन्द्रे महीभृति ॥ 173 ॥
अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ; किं तु वैवक्षिकम् ।
<VIII.30-दीपकालङ्कारः>
दीपकालङ्कारः ।
प्रसुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ 8.174 ॥
यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा—
* भाइ णलेण किअजुअं रहुउलदीवेण सोरिणा तेता ।
दावारो तवजणिणा कलीजुअं वीरुद्देण ॥ 175 ॥
(* भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता ।
द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥)
अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा—
* भाईरहिए जलणिही राअई जोण्हाए पुण्णिमाचंदो ।
सुत्तीए कमलहवो कित्तीए पआवरुद्दो वि ॥ 176 ॥
(* भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥
श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रोऽपि ॥)
अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा—
- सुरलोअं सुरणाहो णरलोअं वीररुद्दणरणाहो ।
फणिलोअं फणिणाहो रक्खइ णिरुपद्दवोज्जेअं ॥ 177 ॥
(+ सुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥
फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥)
अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते ।
अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते ।
प्रतीवस्तूपमालङ्कारः ।
यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि ।
गम्यौपम्याश्रिता सा स्यात् प्रतिवस्तूपमा मता ॥ 8.178 ॥
यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा ।
प्रथमा यथा—
मन्थानाचल एवैकः क्षमः सिन्धुविलोडने ।
प्रतापरुद्र एवैकः शक्तः शत्रुविलोडने ॥ 179 ॥
अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा—
प्रतापरुद्र एवैकः पटीयान् जनरञ्जने ।
चन्द्रादृते क्षमो नान्यश्चकोरपरितोषणे ॥ 180 ॥
अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते ।
अथ दृष्टान्तः ।
<VIII.31-दृष्टान्तालरङ्कारः>
दृष्टान्तालङ्कारः ।
यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते ।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥ 8.181 ॥
यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालंकारः । सोऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा—
क्षोणीं बिभ्रतु भूभृतः कतिपये काऽपि प्रतिष्ठा पुनः
स्वर्णाद्रेर्दिगधीशवासनगरीसंदिग्धकुञ्जश्रियः ।
राजानौ जनरञ्जनं विदधतां श्रीवीररुद्रप्रभोः
कोऽप्यन्यो महिमा जगत्त्रयधुराधौरेयदोः शालिनः ॥ 182 ॥
अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा–
काकतीन्द्रकृपादृष्टिमात्राज्जाग्रति संपदः ।
तावदब्जानि निद्रान्ति यावन्नोदेति भानुमान् ॥ 183 ॥
अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् ।
<VIII.32-निदर्शनालङ्कारः>
निदर्शनालङ्कारः ।
अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते ।
असंभवद्धर्मयोगादुपमानोपमेययोः ।
प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥ 8.184 ॥
यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात् तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा—
रिपुतिमिरमुदस्यन् रत्नसिंहासनस्थ-
स्त्रिभुवनमहनीयः काकतीयक्षितीशः ।
वहति महितविश्वोल्लासिलीलामभिख्या-
मुदयशिखरिचूडाचुम्बिनस्तीव्रभानोः ॥ 185 ॥
अत्र तीव्रभानोरभिख्यायाः प्रकृतेऽसंभवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमानेऽसंभवाद् यथा—
वीररुद्रनरेन्द्रस्य यशोवैशद्यसंपदः ।
लक्ष्यन्ते क्षीरवाराशिलीलादर्पणमण्डले ॥ 186 ॥
अत्र यशोवैशद्यस्य दुग्घार्णवादौ असंभवात् सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा—
यथा—
काकतीन्द्रद्विषत्कान्ता धावन्त्यः प्रतिकाननम् ।
पद्भ्यां मुञ्चन्त्यलाक्षाभ्यां स्थले रक्तोत्पलश्रियम् ॥ 187 ॥
अत्र मुञ्चन्तीति निषेधात् पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता ।
<VIII.33-व्यतिरेकालङ्कारः>
व्यतिरेकालङ्कारः
अथ व्यतिरेकः ।
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
आधिक्याल्पत्वकथनाद् व्यतिरेकः स उच्यते ॥ 8.188 ॥
यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । यथा—
दिनकृति कुमुदैर्धृतो न रागः शशिनि पराञ्चि परं सरोरुहाणि ।
कुवलयकमलादृतप्रकाशः प्रभवति विश्वसुहृत् प्रतापरुद्रः ॥ 189 ॥
अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः ।
अथ श्लेषालङ्कारो निरूप्यते ।
प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् ।
श्लेषोऽयं श्लिष्टत्वं सर्वत्राद्यद्वये नान्त्ये ॥ 8.190 ॥
यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते; तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषयेऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादनेऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे—
`अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥’ इति ।
तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा—
राज्ञः पूजाविधिं धत्ते सकलोमाधवे तिथिः ।
नीलकण्ठकलापाङ्के स्फुरदब्जमणित्विषि ॥ 191 ॥
अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा—
सदृशः काकतीन्द्रोऽयं महाकुलमहीभृताम् ।
शिरोगृहीतसन्मार्गस्फुरत्कटकसंपदाम् ॥ 192 ॥
अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा—
विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः ।
राजमौलिः प्रतापाङ्करुद्रो रुद्र इव स्थितः ॥ 193 ॥
अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् ।
<VIII.34-परिकरालङ्कारः>
परिकरालङ्कारः ।
विशेषणवैचित्र्यमूलत्वात् परिकर उच्यते ।
यत्राभिप्रायगर्भा स्याद् विशेषणपरम्परा ।
तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ 8.194 ॥
यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा—
राज्ञो यादववंशपार्थिवमणेः प्रख्यातशौर्यश्रिय-
स्त्वङ्गत्तुङ्गतुरङ्गसैन्यमहतो मानैकवित्तस्य च ।
सद्यो रुद्रनरेन्द्रनायकचमूनाथेन केनाप्यधि-
क्षिप्तस्याचरितानि सेवणपतेर्जानाति सा गौतमी ॥ 195 ॥
अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि ।
<VIII.35-आक्षेपालङ्कारः>
आक्षेपालङ्कारः ।
अथाक्षेपालंकारः
विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ 196 ॥
यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालंकारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधोऽयमाक्षेपः । क्रमेणैषामुदाहरणानि ।
नरेन्द्रमौले ! न वयं तव संदेशहारिणः ।
जगत्कुटुम्बिनः कश्चिन्न शत्रुरिति कथ्यते ॥ 197 ॥
अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा—
वयमशरणा इत्येषोक्तिः कथं घटते जगत्-
त्रितयशरणे त्रायस्वास्मानिति स्फुटमज्ञता ।
सकलजनतारक्षादक्षे त्वयि प्रणता इति
त्रिभुवननमस्कार्ये सिद्धं प्रतापमहीपते ॥ 198 ॥
अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा—
विज्ञापयामस्ते किंचित् काकतीयकुलोद्वह ।
विज्ञाप्यते किमथवा सर्वज्ञे रक्षके त्वयि ॥ 199 ॥
अत्र विज्ञापयाम इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात् सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा—
प्रतापरुद्रः स्वयमिद्धतेजा दैवं च तद्विक्रमदत्तहस्तम् ।
यूयं च तूलोपमसारभाजस्तद् युक्तमेवं यदि वा किमुक्तैः ॥ 200 ॥
अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयोऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते ।
समानार्थतयाऽनिष्टविध्याभासोऽप्याक्षेप इत्यभ्युपगम्यते ॥ 8.201 ॥
यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा—
नाथ ! प्रतापरुद्रस्य सेवां त्यजसि चेत् त्यज ।
अरण्यगृहमेधिन्या रीतिरभ्यस्यते मया ॥ 202 ॥
अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः ।
<VIII.36-व्याजस्तुत्यलङ्कारः>
व्याजस्तुत्यलङ्कारः ।
अथ गम्यप्रस्तावात् व्याजस्तुतिरुच्यते ।
निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते ।
स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता ॥ 8.203 ॥
यत्र निन्दाकथनमुखेन स्तुतिर्गम्यते—एका सा । यत्र स्तुतिमुखेन निन्दा गम्यते—सा द्वितीया व्याजस्तुतिः । क्रमेण यथा—
काकतीयविभोः कीर्त्त्या किं वाऽद्य धवलीकृतम् ।
यत्तदीयारिवक्त्रेषु दृश्यते कालिमा महान् ॥ 204 ॥
स्तुत्या निन्दा यथा—
प्रतापरुद्रनृपतेरहो साहसिका द्विषः ।
यद्विशन्त्युदधीन् शैलानारोहन्ति समन्ततः ॥ 205 ॥
<VIII.37-अप्रस्तुतप्रशंसालङ्कारः>
अप्रस्तुतप्रशंसालङ्कारः ।
अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते ।
अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ 8.206 ॥
यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात् प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात् प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात् कारणप्रतीतावनुमानाविर्भावशङ्का ; अनुमानालंकारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा—
आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः ।
पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ 207 ॥
अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वान् असंपूर्णविभवान् उर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा—
यशस्विनी पद्मभवस्य सृष्टिरुत्पादयित्री नृपशेखराणाम् ।
तत्पालनाल्लालनभाग्ययोग्यो जातश्चिरान्मध्यमलोक एषः ॥ 208 ॥
अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात् सामान्यप्रतिपत्तिर्यथा—
*दट्ठुमणा वि ण पेक्खइ ण भणइ वत्तुं सकोदुहलआ वि ।
परिसासआ वि ण प्पसइ वणिआए कीरिसी सिट्टी ॥ 209 ॥
(* द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलाऽपि ।
स्पर्शाशयाऽपि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥)
अत्र मुग्धानां नवसंगमे महती लज्जेति सामान्ये प्रस्तुते विशेषोऽभिहितः । कार्यात् कारणप्रतीतिर्यथा—
गाधा इवार्णवा जाता नीचा इव महाद्रयः ।
महीमवतरत्यस्मिन् काकतीयकुलेश्वरे ॥ 210 ॥
अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात् कार्यप्रतीतिर्यथा—
प्रतापरुद्रनृपतेर्धरित्रीकल्पशाखिनः ।
जाता मयि कृपादृष्टिः किं वा विस्मयसे सखे ॥ 211 ॥
अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता ।
वाच्यसंभावसंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः ।
<VIII.38-पर्यायोक्तालङ्कारः>
पर्यायोक्तालङ्कारः ।
गम्यत्वप्रस्तावात् पर्यायोक्तमुच्यते ।
कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् ।
प्रस्तुतत्वेन संबद्धं तत् पर्यायोक्तमुच्यते ॥ 8.212 ॥
यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात् प्रस्तुतमेव कारणं गम्यते, तत् पर्यायोक्तम् । यथा—
प्रतिभूपालशुद्धान्तदीर्घिकास्वाजिधूसरः ।
प्रक्षालयन्ति गात्राणि काकतीयचमूचराः ॥ 213 ॥
अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते ।
<VIII.39-प्रतिपालङ्कारः>
प्रतीपालङ्कारः ।
अथ प्रतीपम् ।
आक्षेप उपमानस्य कैमर्थक्येन कथ्यते ।
यद्वोपमेयभावः स्यात् तत्प्रतीपमुदाहृतम् ॥ 8.214 ॥
यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत् द्वितीयम् । आद्यं यथा—
कीर्त्तौ प्रतापरुद्रस्य विलसन्त्यां दिगन्तरे ।
किमर्थमुदयत्येष निर्लज्जः शशलाञ्छनः ॥ 215 ॥
द्वितीयं यथा—
काकतीयकुले लक्ष्मीपतिरेष न संशयः ।
अनेन कथमल्पज्ञैः सुमेरुरुपमीयते ॥ 216 ॥
<VIII.40-अनुमानालङ्कारः>
अनुमानालङ्कारः ।
अथ तर्कन्यायमूलालंकारा निरूप्यन्ते ।
साध्यसाधननिर्देशे त्वनुमानमुदीर्यते ॥ 8.217 ॥
रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा—
रजोधूमः सेनाव्यतिकरभवो यत् प्रसरति
स्फुलिङ्गा दृश्यन्ते भटघटितकौक्षेयकभुवः ।
ततो मन्ये यात्राशुचिसमयजो रुद्रनृपतेः
प्रभूतः कोपाग्निर्दहति रिपुभूपालनगरीः ॥ 218 ॥
काव्यलिङ्गालंकारः ।
अथ काव्यलिङ्गम् ।
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥ 8.219 ॥
यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत् काव्यलिङ्गम् ।
यथा—प्रतापरुद्र इत्येषा काऽपि पञ्चाक्षरी शुभा ।
हृदि यां बिभ्रतो भूपा वशीकुर्वन्ति संपदः ॥ 220 ॥
अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा—
म्लानाऽपि भूभृतां फाललिपिरुच्छ्वसिता पुनः ।
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नामृतोक्षिता ॥ 221 ॥
अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात् पदार्थगतत्वोक्तिः ।
अर्थान्तरन्यासालङ्कारः ।
अथार्थान्तरन्यासः ।
कार्यकारणसामान्यविशेषाणां परस्परम् ।
समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥ 8.222 ॥
यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सोऽर्थान्तरन्यासः । कार्यकारणभावेन यथा—
भूपाः ! प्रतापरुद्रस्य नता भवत, नोन्नताः ।
उन्नतान् नमयत्येष नतानुन्नमयत्यपि ॥ 223 ॥
अत्र फलरूपेणौन्नत्येन नम्रत्वकारणं समर्थितम् ।
सामान्याद्विशेषसमर्थनं यथा—
उद्वेजिता रुद्रनरेश्वरस्य रणापदानैः प्रतिपक्षभूपाः ।
बिभ्रत्यमी चित्रमचेतनेभ्यो भीतस्य सर्वं भयकारि नूनम् ॥ 224 ॥
अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात् सामान्यसमर्थनं यथा—
दुष्टोऽपि महतां संगाद्भवत्येव हि सज्जनः ।
प्रतापरुद्रमभ्येत्य कलिः कृतयुगायते ॥ 225 ॥
अत्र प्रतापरुद्रसंगतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावेऽपि कारणात् कार्यसमर्थनं काव्यलिङ्गेऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य ।
<VIII.41-यथासंख्यालङ्कारः>
यथासंख्यालङ्कारः ।
तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूप्यन्ते ।
उद्दिष्टानां पदार्थानां पूर्वं पश्चाद् यथाक्रमम् ।
अनूद्देशो भवेद् यत्र तद्यथासंख्यमिष्यते ॥ 8.226 ॥
यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ; तत्र यथासंख्यालंकारः । यथा—
गाम्भीर्यमौन्नंत्यमनर्गलत्वं प्रतापरुद्रे समवेक्ष्य धाता ।
अम्भोनिधिष्वद्रिषु दिग्गजेषु सृष्टिं प्रयासैकफलाममंस्त ॥ 227 ॥
<VIII.42-अर्थाप्यलङ्कारः>
अर्थापत्त्यलङ्कारः ।
एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यद् आपतेत् ।
कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥ 8.228 ॥
यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात् कैमुत्येनार्थान्तरमापतति सोऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसंबन्धरूपत्वात् । यथा—
समन्तादुद्वेलैर्वि विधहयधाटीकलकलै-
र्जगत्यां क्रामन्नप्यजनि विधुरः सेवणपतिः ।
मनाक् क्रोधोदञ्चद्भ्रुकुटिकुटिले रुद्रनृपतौ
नृपाणामन्येषां विफलितरुषां कैव गणना ॥ 229 ॥
अपि च—
त्रैलोक्यसारोऽपि सुवर्णशैलः प्रतापरुद्रेण नृपेण तुल्यम् ।
तुलां समारोढुमपूर्ण एव महीभृतां का गणनेतरेषाम् ॥ 230 ॥
अत्र प्रतापरुद्रापेक्षया मेरावप्यसारेऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति ।
परिसंख्यालङ्कारः ।
अथ परिसंख्या ।
एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि ।
एकत्र नियमः सा हि परिसंख्या निगद्यते ॥ 8.231 ॥
यत्रैक वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते, सा परिसंख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा—
किं मण्डनं त्रिलोक्याः काकतितिलको न हाटकक्षितिभृत् ।
स्तोतव्यः कः सुधियां रुद्रनरेन्द्रो न मन्दरः क्षितिभृत् ॥ 232 ॥
आर्थवर्जनीया प्रश्नपूर्विका यथा—
किं वा क्षौमवितानं लोकानां ? काकतीयकुलकीर्त्तिः ।
किं सौख्यं वसुमत्या ? रुद्रनरेन्द्रस्य भुजवासः ॥ 233 ॥
शाब्दवर्जनीया अप्रश्नपूर्विका यथा—
रागो धर्मे न विषयसुखे, संगतिः सत्सभायां
न स्त्रीगोष्ठ्यां, व्यसनमनिशं नीतिशास्त्रे न चाक्षे ।
कीर्त्त्यां नित्यार्जनचतुरता नार्थजाते, विनोदो
विद्याभ्यासे न च परिजने रुद्रदेवस्य राज्ञः ॥ 234 ॥
आर्थवर्जनीया अप्रश्नपूर्विका यथा—
भूरेव भुवनं देवः स्वयंभूरेव पार्थिवः ।
प्रतापरुद्र एवैकशिलैव नगरी शुभा ॥ 235 ॥
क्षोणीं रुद्रनराधीशे रक्षति क्षतविद्विषि ।
बलिसद्मन्यहिभयं त्रिदिवे गोत्रभित्कथा ॥ 236 ॥
अलङ्कारस्य श्लेषेण चारुत्वातिशयः ।
<VIII.42-उत्तरालङ्कारः>
उत्तरालङ्कारः ।
उत्तरात् प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा ।
बहुधा च निबध्येते तदुत्तरमुदीर्यते ॥ 8.237 ॥
यत्रोत्तरान्निबध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा—
किमद्य व्युत्पत्तिस्तव सुजनलोकव्यवहृतौ
यदद्य ज्ञातव्यं प्रभवति यदा रुद्रनृपतिः ।
तदारभ्योन्मूर्धा जयति विशदो धर्मविभवो
महीदेवाश्चोद्यद्विविधविभवारम्भमुदिताः ॥ 238 ॥
अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसंतोषभाजः । किमधुना पृच्छसीत्युत्तरात् किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा—
* किं णु धणं ? कुलविज्जा ; को लोहो ? सज्जणेण सहवासो ।
का णअरी ? एअसिला ; को राआ ? वीररुद्दणरणाहो ॥ 239 ॥
(* कि नु धनं ? कुलविद्या ; को लाभः ? सज्जनेन सहवासः ।
का नगरी ? एकशिला ; को राजा ? वीररुद्रनरनाथः ॥)
<VIII.43-विकल्पालङ्कारः>
विकल्पालङ्कारः ।
वाक्यन्यायमूलालङ्कारप्रस्तावाद्विकल्प उच्यते ।
विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता ॥ 8.240 ॥
यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासंभवस्तत्र विकल्पः ।
औपम्यगर्भत्वाच्चारुत्वम् । यथा—
भूपालाः क्रियतां मूर्ध्नां धनुषां वा विनम्रता ।
पादच्छायाऽन्ध्रनाथस्य विन्ध्याद्रेर्या निषेव्यताम् ॥ 241 ॥
अत्र प्रतापरुद्रे प्रभवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासंभवे विकल्पः ।
समुच्चयालङ्कारः ।
विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते ।
गुणक्रियायौगपद्यं समुच्चय उदाहृतः ॥ 8.242 ॥
यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालंकारः । यथा—
प्रतापरुद्रनृपतौ भद्रासनमुपेयुषि ।
सतां प्रसन्नं हृदयमसतां कलुषं मनः ॥ 243 ॥
क्रियासमुच्चयो यथा—
* पेच्छइ इमं णरिन्दो पविसइ मअणो अ गलइ माणो अ ।
घुण्णइ मणो अ सुण्णं किं एदं उवह सहिआओ ॥ 244 ॥
(* प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च ।
घूर्णते मनश्च शून्यं किमेतत् पश्यत सख्यः ॥
एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा—
त्रैलोक्यप्रथमानकीर्त्तिमहितश्रीवीररुद्रप्रभोः
सेवार्थँ चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारं यान्ति विलोकयन्ति पुरतो निः श्वासमातन्वते
शुष्यन्ति प्रलपन्ति यान्ति तनुतां मुह्यन्ति मूर्च्छन्ति च ॥ 245 ॥
गुणक्रियासामस्त्येन यथा—
देवे काकतिवीररुद्रनृपतौ जैत्रप्रयाणोन्मुखे
माद्यद्दन्ति चलत्पदाति विचलद्वाजि प्रधावद्रथम् ।
विच्छायाननमाकुलाक्षमुदयत्कार्पण्यमाविर्भव-
त्कम्पं भ्राम्यति सर्वतः प्रतिवनं प्रत्यर्थिभूभृद्गणः ॥ 246 ॥
द्वितीयः समुच्चयः ।
खलेकपोतन्यायेन बहूनां कार्यसाधने ।
कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ 8.247 ॥
यत्रैकं कार्यं साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सोऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् ।
यथा—
शुभ्रं यशः शौर्यमहच्च वृत्तं विद्याऽनवद्या विमलं कुलं च ।
प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति ॥ 248 ॥
अत्र यशः प्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वेऽपि युगपत्खलेकपोतन्यायेन संबन्धः ।
समाध्यलङ्कारः ।
अथ समाधिरुच्यते ।
एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत् ।
काकतालीयनयतः स समाधिरुदीर्यते ॥ 8.249 ॥
यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयाऽन्यत् कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः । <VIII.44-समाध्यलङ्कारः> यथा—
रणाङ्गणे रुद्रनरेन्द्ररोषशमाय राज्ञां विहितस्तुतीनाम् ।
वक्त्रेषु यद्वायुवशात् पतन्ति तृणानि देवस्य स पक्षपातः ॥ 250 ॥
अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात् काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् ।
<VIII.45भाविलङ्कारः>
भाविकालङ्कारः ।
अथ लोकन्यायमूलालंकारा निरूप्यन्ते ।
अतीतानागते यत्र प्रत्यक्षे इव लक्षिते ।
अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ 8.251 ॥
यत्राद्भुतचरितोपवर्णनाद् भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात् प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ; तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ; तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा—
ध्वजाग्रे काकतीन्द्रस्य भाति क्रोडाकृतिर्हरिः ।
मृद्बिन्दुरिव दंष्ट्राग्रे यस्यालक्ष्यत मेदिनी ॥ 252 ॥
अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत् प्रतीतिसंभवः ।
<VIII.46-प्रत्यनीकालङ्कारः>
प्रत्यनीकालङ्कारः ।
अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते ।
बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे ।
यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥ 8.253 ॥
यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात् तदीयतिरस्कारो भवति तत् प्रत्यनीकम् । यथा—
काकतीयपतिशौर्यमहोष्मन्यक्कृतस्वमहिमा बडबाग्निः ।
तद्गभीरिमसनाभिमजस्रं बाधते निधिमपां बहिरन्तः ॥ 254 ॥
अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम् ।
<VIII.47व्यघातालङ्कारः>
व्याघातालङ्कारः ।
अथ व्याघातः ।
येन यत् साधितं वस्तु तेनैव क्रियतेऽन्यथा ।
अन्येन तदलंकारो व्याघाता इति कथ्यते ॥ 8.255 ॥
यद्वस्तु येन केनचित् कर्त्रा येन साधनेन साधितं, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा—
काकतीयाभिजातोऽयं नाभिजाताधिकस्थितिः ।
दोर्भ्यां लब्धोदयान् भूपांस्ताभ्यामनुदयान् सृजन् ॥ 256 ॥
<VIII.48-पर्यायालङ्कारः>
पर्यायालङ्कारः ।
अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात् पर्यायालंकारो निरूप्यते ।
क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि ।
एकस्मिन्नथवाऽनेकं पर्यायालङ्कृतिर्मता ॥ 8.257 ॥
यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालंकारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारेऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा—
दंष्ट्रायां कुहनाकिटेर्भगवतो देवस्य शौरेः पुरा
पश्चान्मस्तकमण्डले फणभृतः पाताललोकेशितुः ।
अद्योर्वीपतिशेखरस्य महतः श्रीकाकतीयप्रभो-
र्बाहौ सर्वधुरीणसारमहिते बद्धोत्सवा मेदीनी ॥ 258 ॥
अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः—
येषां मुखे निजवधूसविधे नृपाणां
शौर्योक्तयः समभवन्नभिमानगर्भाः ।
तेषां प्रतापनृपवीक्षणकातराणां
तत्रैव दीनवचनानि समुद्भवन्ति ॥ 259 ॥
<VIII.49-सूक्ष्मालङ्कारः>
सूक्ष्मालङ्कारः ।
अथ सूक्ष्मालङ्कारो निरूप्यते ।
असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते ॥ 8.260 ॥
विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः ।
यथा—
*गुरुअणसविहम्मि वहू दठ्ठूण णरेंदपेसिआं दूइं ।
सव्वंगेशु सहासं कत्थूरिविलेवणं कुणइ ॥ 261 ॥
(* गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् ।
सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥)
अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रकाशितम्
<VIII.50-उदात्तालङ्कारः>
उदात्तालंकारः ।
अथोदात्तालंकारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् ।
तदुदात्तं भवेद् यत्र समृद्धं वस्तु वर्ण्यते ॥ 8.262 ॥
यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः ।
यथा—
रम्यामेकशिलाभिदाननगरीमासेदिवांसो बुधाः
सौवर्णेषु गृहेषु रत्नरचितद्वास्तोरणेषु स्थिताः ।
आरुह्याङ्गणमेदिनीषु कलभान् क्रीडोत्सुकानर्भकान्
मोदन्ते यदवेक्ष्य रुद्रनृपतेस्तत्त्यागलीलायितम् ॥ 263 ॥
अथ समानन्यायात् परिवृत्तिर्निरूप्यते ।
समन्यूनाधिकानां च यदा विनिमयो भवेत् ।
साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥ 8.264 ॥
समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा—
साधारसमुचो वाचो दत्त्वा काकतिभूभुजे ।
अतो लभन्ते कवयः सहस्रं गन्धसिन्धुरान् ॥ 265 ॥
अत्र वचसां गन्धसिन्धुराणां च समत्वम् ।
न्यूनेनाधिकपरिवृत्तिर्यथा—
उपायनं गजाश्वादि कृत्वा सर्वेऽपि भूभुजः ।
प्रतापरुद्रदेवस्य लभन्ते सुस्थिरां कृपाम् ॥ 266 ॥
अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा—
प्रतापरुद्रेण रणे जिताः प्रत्यर्थिभूभुजः ।
दत्त्वा भूषां किरातेभ्यो लभन्ते वल्कलादिकम् ॥ 267 ॥
अत्र त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् ।
<VIII.51-कारणमालालङ्कारः>
कारणमालालङ्कारः ।
अथ श्रृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते ।
पूर्वपूर्वं प्रति यदा हेतुः स्यादुत्तरोत्तरम् ।
तदा कारणमालाख्यमलङ्करणमुच्यते ॥ 8.268 ॥
यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्योऽलङ्कारः । यथा–
विद्यया विनयोत्कर्षो विनयेन गुणार्जनम् ।
गुणैः प्रजानुरागश्च क्रमोऽयं काकतीश्वरे ॥ 8.269 ॥
<VIII.52-एकावल्यलङ्कारः>
एकावल्यलङ्कारः ।
यत्रोत्तरोत्तरेषां स्यात् पूर्वं पूर्वं प्रति क्रमात् ।
विशेषणत्वकथनमसावेकावली मता ॥ 8.270 ॥
यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः ।
यथा—
प्रतापरुद्रनगरी सुजनैरुपशोभिता ।
सुजनाः स्फीतविभवैर्विभवाः स्थैर्यशालिनः ॥ 271 ॥
एतत् स्थापनेनोदाहरणम् । अपोहनेनापि भवति ; यथा—
न तद्राज्यं प्रजा यत्र न भवन्त्यूर्जितश्रियः ।
न ताः प्रजाः प्रभुर्यासां न स्वयं काकतीश्वरः ॥ 272 ॥
<VIII.53-मालादीपकालङ्कारः>
मालादीपकालङ्कारः ।
यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते ॥ 8.273 ॥
यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः ।
यथा—
भाग्यभूमा महीं प्राप्तः काकतीन्द्रभुजं मही ।
भुजः प्रतापमतुलं प्रतापश्च जगत्त्रयम् ॥ 274 ॥
<VIII.54-सारालङ्कारः>
सारालङ्कारः ।
उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते ॥ 8.275 ॥
यथा—
जगत्सु वसुधा भाति तस्यामेकशिलापुरी ।
काकतीयान्वयस्तत्र तस्मिन् रुद्रनरेश्वरः ॥ 276 ॥
सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलङ्कार-
शास्त्रेऽर्थालङ्कारप्रकरणं समाप्तम् ।
——– ooo —–
॥ अथ मिश्रालङ्कारप्रकरणम् ॥
अथ संसृष्टिसंकरौ निरूप्येते । यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक् सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते ; तथैव काव्यालङ्काराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते । स च संबन्धो द्विविधः—संयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये—(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः । क्षीरनीरन्यायेन संबन्धे संकरः । अनयोः पृथक् चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ; न तु पूर्वोक्तालङ्कारशेषता ।
संसृष्टिः ।
तत्र प्रथमं संसृष्टिर्निगद्यते ।
तिलतण्डुलसंश्लेषन्यायाद् यत्र परस्परम् ।
संश्लिष्येयुरलङ्काराः सा संसृष्टिर्निगद्यते ॥ 9.1 ॥
यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधा—शब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च । <IX.1.1- शब्दालङ्कारसंसृष्टिः> शब्दालङ्कारसंसृष्टिर्यथा—
शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला-
स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः ।
तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा
निः सीमाः प्रसरन्ति रुद्रनृपतेर्जैत्रप्रयाणोद्यमाः ॥ 2 ॥
अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः । <IX.1.2-अर्थालङ्कारसंसृष्टिः> अर्थालङ्कारसंसृष्टिर्यथा—
काकतीन्द्रचमूर्धत्ते महिमानमुदन्वतः ।
ग्रसते या द्विषद्भूपध्वजिनीस्तटिनीरिव ॥ 3 ॥
अत्र निदर्शनोपमायोः संसृष्टिः । <IX.1.3-उभयसंसृष्टिः> उभयसंसृष्टिर्यथा–
प्रतापरुद्रदोर्दण्डो मण्डलाग्रेण मण्डितः ।
दृश्यते समरे वीरैरुत्फणः फणवानिव ॥ 4 ॥
अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः ।
IX.2 सङ्करः ।
अथ सङ्करो निरूप्यते ।
क्षीरनीरनयाद् यत्र संबन्धः स्यात् परस्परम् ।
अलङ्कृतीनामेतासां सङ्करः स उदाहृतः ॥ 9.5 ॥
यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः संबन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन संदेहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा—
उद्यद्बृंहितगर्जितैर्द्विपघटाकादम्बिनीसंभ्रमैः
क्षोणीभृत्कटकोपरोधपटुभिः प्रावृड्विहारा इव ।
शत्रुस्त्रीबहुलाश्रुवृष्टिशमितक्ष्माचक्रतापोदया
यात्राः काकतिवल्लभस्य जगतामानन्दमातन्वते ॥ 6 ॥
अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ; कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा—
प्रतापरुद्रस्य कृपाणधारा प्रत्यर्थिफालेषु पतत्यमन्दम् ।
प्रक्षालनायेव कृतस्य धात्रा तद्वर्तिनो दुर्लिपिकल्मषस्य ॥ 7 ॥
अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः । एकवाचकानुप्रविष्टसङ्करो यथा—
विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः ।
भुवि शंभुरिवाभाति काकतीयनरेश्वरः ॥ 8 ॥
अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात् श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्देऽनुप्रविष्टौ ।
संदेहसङ्करो यथा—
जातः प्रतापरुद्रेन्दुः काकतीयान्वयाम्बुधौ ।
धत्ते जनचकोराणां प्रसादज्योत्स्नयाऽमृतम् ॥ 9 ॥
अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः संदेहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयोऽम्बुधिरिवेति समासद्वयसंभवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति । साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः । अत्र साधकं यथा—
प्रतापरुद्रनृपतेः पारिजातात् समुद्भवाः ।
वतंसयन्ति दिङ्नार्यो मधुराः कीर्त्तिमञ्जरीः ॥ 10 ॥
अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्। (अ) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा—
काकतीन्द्रस्य निः साणध्वनौ दिक्षु विजृम्भिते ।
व्याकुलकृतसत्त्वोऽभूत् प्रतिपक्षबलार्णवः ॥ 11 ॥
अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम् ; `उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’ इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात् । अतः पारिशेष्याद्रूपकालङ्कारः । एवं यथासंभवमन्येषामलङ्काराणां संसृष्टिसङ्करौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥
इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणेऽलङ्कार-
शास्त्रे मिश्रालङ्कारप्रकरणं समाप्तम् । प्रितापरुद्रीयं
नामालङ्कारशास्त्रं समाप्तम् ॥
———-*********————
]