काव्यानुशासनम्

[[काव्यानुशासनम् Source: EB]]

[

[TABLE]

[TABLE]

[TABLE]

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1727431881KAVYANUSHASANAM_8-removebg-preview.png"/>

श्रीमद्वाग्भटविरचितं

काव्यानुशासनम्।

तेनैव कविना विनिर्मितयालंकारतिलकवृत्तिरित्याख्यया व्याख्यया समलंकृतम्।
<MISSING_FIG href="../books_images/U-IMG-1727432115KAVYANUSHASANAM_9-removebg-preview.png"/>

प्रथमोऽध्यायः।

प्रणिपत्य प्रभुं नाभिसंभवं भक्तिनिर्भरः।
विवृणोमि स्वयमहं निजं काव्यानुशासनम्॥

ग्रन्थारम्भे शिष्टसमयपरिपालनायाभिधेयसंबन्धप्रयोजनप्रतिपादनाय च कौन्तेयकुलकमलविकासनैकभास्करस्य दुस्तरतरसमस्तशास्त्रापारपारावार- गहनमध्यावगाहनामन्दमन्दरस्य विलसत्कलिकालकेलिकमलिनीकुलमूलोन्मूलनमत्तमतङ्गजस्य सकललिपिभाषाविशेषसंमुखीनशेमुषीस्रुतिमुखरमुखी (मूकी) कृताशेषविशेषज्ञस्य निखिलकविकुलामानसन्मानदानसमुपार्जितोज्झितविततकीर्तिलताव्याप्ताखण्डब्रह्माण्डमण्डपस्य दुष्टकर्माष्टकगाढकर- हाटविटपिप्रोत्पाटनपटिष्ठपरमेष्ठिपृष्ठश्रीमदरिष्टनेमिचरणकमलमधुकरस्य दुर्धरतरधर्मधुराधरणैकबन्धुरधुरंधुरवरस्यागण्यपुण्यलावण्यपण्यापणिकनिपु- णगणिकागणेक्षणप्रतिक्षणनिपीयमानसर्वाङ्गसौभाग्याप्रतिमरूपसंपत्पराजितरतिप्रतिप्रतिपन्नसेवासर्वस्वस्वयंसिद्धकार्मणकर्मातिपरवशरमणीयरमणीगणस्य सकलजनचेतश्चमत्कारितमेदपाटविषयप्रतिष्ठितश्रीमत्पार्श्वजिनयात्रामहोत्सवसमुद्भूताद्भुतयशःप्रसरपूरिताशेषभुवनाभोगस्य कारितामरपुरपरि- स्पर्धिश्रीराहडपुरप्रतिष्ठापितसुप्रतिष्ठहिमगिरिशिखरानुकारिरमणीयशुभ्राभ्रंलिहश्रीमन्नेमिजिनवरागारोत्तुङ्गशृङ्गोत्सङ्गसंगतसौवर्णध्वजाग्रलम्बमानकिङ्क- णीझणत्कारवित्रासितरविरथतुरंगमस्यामन्दमन्दरायमानयानपात्रशतसहस्रमथ्यमानमहाब्धिमध्यसमुल्लसल्लक्ष्मीलक्षितवक्षःस्थलस्य निजभुजयुगलोपा- र्जितार्जितवित्तजातजनितनलोटकपुरप्रतिष्ठितत्रिभुवनाद्भुतश्रीनाभिसंभवजिनसदनप्राग्भागनिर्मापितद्वाविंशतिदेवगृहिकामण्डलस्यनिजाग्रजवरश्रीराह-डपादपङ्कजाविचलभक्तिगुणावगणितलक्ष्मणस्य सकलसीमन्तिनीसीमन्तरत्नायमानसुगृहीतनामधेयश्रीमन्महादेवीकुक्षिशुक्तिशौक्तिकेयस्य श्रीमक्कल- पाधिधानप्रधानदुग्धोदधिसमुद्भूताद्भुतनित्योदितनिस्तन्द्रचन्द्रस्य वसुंधरावधूहृदयहारस्य श्रीमन्नेमिकुमारस्य नन्दनो विनिर्मितानेकनव्यभव्यनाटक- च्छन्दोऽलंकारमहाकाव्यप्रमुखमहाप्रबन्ध-

बन्धुरोऽपारतरशास्त्रसागरसमुत्तरणतीर्थायमानशेमुषीसमभ्यस्तसमस्तानवद्यविद्याविनोदकन्दलितसकलकलाकलापसंपदुद्भटो महाकविः श्रीवाग्भटोऽ- भीष्टदेवतानमस्कारपूर्वमुपक्रमते। यथा—

सर्वार्धमागधीं सर्वभाषासु परिणामिनीम्।
सर्वपां सर्वतो वाचं सार्वज्ञीं प्रणिदध्महे॥१॥
विलोक्यानेकशास्त्राणि निजबुद्धिप्रकर्षतः।
विदुषां हर्षपोषाय वच्मि काव्यानुशासनम्॥२॥

तद्यथा— काव्यम्। प्रमोदायानर्थपरिहाराय व्यवहारज्ञानाय त्रिवर्गफललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च।

चतुरचेतश्चमत्कारकारि कवेः कर्म काव्यम्। तच्च कवेः श्रोतुश्च सुधानिस्पन्दसुन्दरं प्रमोदमुत्पादयति, बाणमयूरादीनामिव रोगाद्यनर्थं निहन्ति, हेयोपादेयविवेचनाद्व्यवहारकौशल्यं जनयति, तत्त्वावबोधद्वारेण नृपादिपरितोषणेन शृङ्गाररसप्राधान्येन च पुरुषार्थत्रयफलमाकलयति, कान्तेव सरसतापादनेन संमुखीकृत्य ‘रामादिवद्वर्तितव्यं न रावणादिवत्’ इत्युपदिशति। अयं खलु समयो महाकवीनाम्॥ वयं तु कीर्तिमेवैकां काव्यहेतुतया मन्यामहे। यतः—तावत्प्रमोदः सुलभो लाभादिनापि, अनर्थपरिहारः प्रकारान्तरेणापि, व्यवहारज्ञानं चाणिक्यादिनीतिशास्त्रेभ्योऽपि देवगुरुचरणपरि- चरणतपश्चरणकरणादिना विविधव्यवसायकर्मभिः प्रियासंलापादिभिश्च त्रिवर्गफलसिद्धिः, कान्तातुल्यतयोपदेशश्च कादाचित्कः स्यात्। अतः कीर्तिरेवैका काव्यहेतुः। अन्यथा कथमनेककालातिक्रान्ताः क्षितिपतयः प्रत्यक्षा इव शास्त्रेषु प्रपश्यमानाः प्रतिभान्ति, कालिदासप्रभृतयो महाकवयश्चाद्ययावत् सहृदयहृदयहारतामनुहरन्ति किं तैः किमप्यमरसदनादिकं कृतं न स्यात्। यदाह—‘अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संपुष्टापि प्रणश्यति तत्क्षये। तदलममलं काव्यं कर्तुं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः॥’

व्युत्पत्त्यभ्याससंस्कृता प्रतिभास्य हेतुः।

प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा। सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणधरादीनामिव सहजा, देवतापरितोषौषधादिहेतुका कालिदासादीना- मिवौपाधिकी। एतामपि वयं कर्मक्षयहेतुकामेव मन्यामहे। प्रतिभैव च कवीनां काव्यकरणकारणम्। व्युत्पत्त्यभ्यासौ तस्या एव संस्कारकारकौ न तु काव्यहेतू। दृश्येते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ।

व्युत्पत्तिं व्याचष्टे—

लोके स्थावरजङ्गमरूपे तत्स्वरूपे च लक्षणप्रमाणसाहित्यच्छन्दोऽलं-

कारश्रुतिस्मृतिपुराणेतिहासागमनाट्याभिधानकोषकामार्थयोगादिशास्त्रेषु च निपुणता व्युत्पत्तिः।

लोकश्चतुर्दशरज्ज्वात्मकं जगत्। तच्चैकद्वित्रिचतुःसप्तचतुर्दशैकविंशतिसंख्यामतैरनेकधा भवति। तत्र चैकं यथा—‘यदाज्ञया स्खलितमिदं न लङ्घते निजं निजं जगदवधिं कदाचन। तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः॥’ द्वे यथा—‘रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी। तावत्किलायमध्यास्त सुन्तती वैबुधं पदम्॥’ त्रीणि यथा— ‘स वः पातु जिनः कृत्स्नमीक्षते यः प्रतिक्षणम्। रूपैरनन्तैरेकैकजन्तोर्व्याप्तं जगत्त्रयम्॥’ सप्त यथा— ‘संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः। हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपङ्किरियमुच्छिखरा विभाति॥’ चतुर्दश यथा—‘न्याय्यस्वभावसमुपार्जितवित्तजाता निर्मापितादिजिनमन्दिरकन्दजन्मा— श्रीराहडस्य भुवनानि चतुर्दशापि संरोहति स्म वितता खलु कीर्तिवल्लिः॥’ एकविंशतिरित्यपरे—‘हरहासहरावासहरहारनिभप्रभाः। कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम्॥’ तत्र लोकत्रितयापेक्षया भूरियं मध्यमो लोकः। तत्र योषिद्वलयाकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असंख्याता द्वीपसमुद्राः। कविसमयश्चायम्—‘जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽन्तः क्रमोऽन्तः। क्रौञ्चः शाकः पुष्करश्चेत्यथैषां वाह्यावाह्या संस्थितिर्मण्डलीभिः॥‘‘लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयःपयाः। स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः॥’ तत्र चैक एव समुद्र इति केचित्— ‘द्वीपान्यष्टादशानि क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डैरेकाम्भोधिर्दिगन्तप्रसृमरसलिलः प्राज्यमेतत्सुराज्यम्। कस्मिन्नव्याजकेलिव्यतिकरविजयोपार्जिते वीरचर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यश्चुकोप॥’ त्रय इत्यन्ये—‘कान्तिश्रीह्रीधृतिमतिमुखा योषितोऽनेन तावत्पार्श्वे न्यस्ताः किमु तदधुना दुर्भगाहं करोमि। कौन्तेयेन्दोस्तदिति सुचिरं चिन्तयित्वेव सेर्ष्या प्रोल्लङ्घ्याब्धित्रितयमगमत्कीर्तिकान्ता परस्तात्॥’ चत्वार इत्यपरे—‘भ्रान्तं चतुर्जलधिसीम्निमया पृथिव्यामीदृग्न देवभवनं न च मण्डपश्रीः। अस्तीत्यमुत्र फलके प्रभुराहडस्य कीर्तिर्महाभ्युदयिनी लिखति प्रशस्तिम्॥’ सप्तेत्यपरे— ‘सावष्टम्भनिशुम्भनिर्भरनमद्भूगोलनिःपीडनन्य- ञ्चत्कर्परकूर्मकम्पविलसद्ब्रह्माण्डभाण्डस्थिति। पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे वन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम्॥’ ‘त्रिमेखलः स्वर्णमयो विशालस्थालवर्तुलः। जम्बूद्वीपस्य मध्येऽस्ति मेरुराद्योमहीभृताम्॥’ तदपेक्षया दक्षिणतो भारतं वर्षमिदम्। अस्य नव खण्डानीत्येके— ‘मृदित्वा दोःकण्डूं समरभुवि वैरिक्षितिभुजां भुजादण्डे दध्रुः कति न नवखण्डां वसुमतीम्। यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगीशानां पिबसि नृप तत्कस्य सदृशम्। षट् खण्डानीत्यपरे—‘षट्खण्डखण्डा जगतीमण्डलाखण्डलोऽभवत्। भूभर्ता भरतो नाम नाभिनन्दननन्दनः॥’ तस्मिंश्च भरतक्षेत्रे—‘विन्ध्यश्च पारियात्रश्च शक्तिमानृक्षपर्वतः। माहेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः॥’ तत्र विन्ध्यादयः प्रसिद्धवृत्तान्ता एव। मलयास्तु चत्वारः। तत्र प्रथमो यथा—‘एलालवङ्ग-

लवलीकक्कोलं जातिमरिचजन्मपदम्। नयनानन्दनचन्दनपादपसदनं स तत्र नगः॥’ द्वितीयो यथा—‘तस्मिन्विद्रुमभूरुहः प्रतिपदं वेशेषु मुक्ताफलं रत्नानां खनयः पुनाति च मुनिः शृङ्गाणि कुम्भोद्भवः। कार्पूरास्तरवः स्फुटन्ति विकटैः कण्ठीरवाणां रवैर्यस्याभाति तटेषु मौक्तिकनिधिः सा ताम्रपर्णी सरित्॥’ तृतीयो यथा—विलासभूमिर्देवानां नृणां रोगास्पदं मुनेः। सदा पुष्पफलारामरम्यसानुः स पर्वतः॥’ चतुर्थो यथा—‘सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः। द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी। तेभ्यश्चतुर्भ्योऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा॥’ पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः। तस्मिंश्चातुर्वर्ण्यं चातुराश्रम्यं च तन्मूलश्च सदाचारः। तत्रत्यो व्यवहारः प्रायेण कवीनाम्। तत्र वाराणस्याः पुरतः पूर्वदेशः। यत्राङ्गकलिङ्गकोसलतोसलोत्कलमगधमुद्गरकविदेहनेपालपौंढ्रप्राग्ज्योतिषिकताम्र- लिप्तकमलदलमल्लर्तकसुब्रह्मब्रह्मोत्तरप्रभृतयो जनपदाः। बृहद्गृहलोहितागिरिचकोरदर्दुरनेपालकामरूपादयः पर्वताः शोणलोहितौ नदौ। गङ्गाकर-तोयाकपिशाद्याश्च नद्यः। लवलीग्रन्थिपर्णागुरुद्राक्षाकस्तूरिकादीनामुत्पादः। माहिष्मत्याः पुरतो दक्षिणापथः। यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तल- क्रथकैशिकसूर्पारककाञ्चिकेरलकाबेरमुरलवानवासकसिंहलचोडदण्डपाण्ड्यपल्लवगाङ्गनासिक्यकौङ्कणकोल्लगिरिवेल्लरप्रभृतयो जनपदाः। विन्ध्य- दक्षिणपादमाहेन्द्रमलयमेकलपालामञ्जरश्रीसह्यपर्वतादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभीमरथीवेणीजम्बुरातुङ्गभद्राताम्रपर्ण्युपलावतीरा- वणगङ्गाद्या नद्यः। तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता। देवसभायाः परतः पश्चाद्देशः। तत्र देवसभसुराष्ट्रदासेरकत्रवणभृगुकच्छककच्छीयानर्तार्बुदब्राह्मण- वाहहययवनप्रभृतयो जनपदाः। गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्बुदोज्जयन्तशत्रुंजयादयः पर्वताः। सरस्वतीश्वभ्रवतीवार्तघ्नीमहीहिण्डवाद्या नद्यः। करीरपीलगुग्गुलुखर्जूरकरभादीनामुत्पादः। पृथूदकात्परत उत्तरापथः। यत्र शककेकयक्वाणहूणवनायुजकम्बोजबाह्लीकवल्हवलम्पाककुलुत- कीरतंगणतुवारतुरुष्कबर्बरहरहूरकुहक्रसहुडहंसमार्गरमठकरकण्डप्रभृतयो जनपदाः। हिमालयजालंधरकलिन्देन्द्रकीलचन्द्राचलादयः पर्वताः। गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनैरावतीवितस्ताविपाशाकुहूदेविकाद्यानद्यः। सरलदेवदारुद्राक्षाकुङ्कुमचमराजिनसौवीरस्रोतोऽञ्जनसैन्धववैदूर्य- तुरङ्गमाणामुत्पादः। तेषां मध्ये मध्यदेश इति व्यवहारः। यदाह—‘हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि। प्रत्यगेव प्रयागाच्च प्रध्यदेशः स कीर्तितः॥’ तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च। तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम्। ‘द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा। नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः। विशसनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदिः। तदपेक्षया दिशो विभजेतेति केचित्। वयं तु ब्रूमस्तत्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत। ताश्च चतस्र इत्येके। यथा— ‘पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता। चतुर्दिगावर्जनसंभृतां यो मृत्पात्रशेषामकरोद्विभुतिम्॥’ अष्टावित्यन्ये। यथा—‘एकं ज्योति-

र्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि। युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्ट- दिग्भांञ्जिभानोर्यान्ति प्राह्णे नवत्वं दश ददतु शिवं दीधितीनां शतानि॥’ दशेत्यपरे—‘दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम्। दशपूर्वरथं समाख्यया दशकण्ठारिगुरुं विदुर्बुधाः॥’ अत्र हि देशपर्वतसरिद्दिशां यः क्रमस्तं तथैव बध्नीयात्। नान्यथा। तत्र प्राच्यानां श्यामो वर्णः प्रायेण। यथा— ‘गण्डभित्तिषु गौडीनां तमालदलकान्तिषु। विभ्राजन्ते स्म कार्पूर्यः पत्रवल्ल्योविशेषतः॥’ दाक्षिणात्यानां कृष्णः। यथा—‘इदं भासां भर्तुर्द्रुतकनकगोलः प्रतिकृतिक्रमान्मन्दज्योर्तिर्गलति नभसो विम्बवलयम्। अथैष प्राचीनः सरति मुरलीगल्लमलिनस्तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः॥’ पाश्चात्यानां पाण्डुवर्णः। यथा—‘शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति। किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलेषु॥’ उदीच्यां गौरः। यथा— ‘कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीनुद्दामध्वनिपण्डितान्परिजने किंचिच्च निद्रायति। गौरी क्रुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्युद्गतः॥’ मध्यदेशानां कृष्णः श्यामो गौरो वेति लोकस्वरूपमुक्तम्। अथातः शास्त्रनैपुण्यमुदाह्रियते। तत्र लक्षणे नैपुणं यथा— ‘कण्ठलग्नाः सदा स्त्रीणां खेलन्ति इह खङ्गिकाः। बिरामे न प्रवर्तन्ते कदाचित्संधयो यथा॥’ तर्कः षट्प्रकारः—‘जिनं सांख्यं शिवं भाट्टं बौद्धं लौकायतं तथा। षडेता दृष्टयः प्रोक्ताः शेषाः पाषण्डवृत्तयः॥’ जैनं यथा—‘न यास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः॥’ सांख्यीयो यथा—‘उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन। बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः॥’ शैघोयथा—‘किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च। अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः॥’ भट्टानां यथा—‘वैस्वर्गकामः क्रमतः क्रतूनां तदग्निहोत्रं जुहुयाद्द्विजन्मा। इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खलु तत्तु सत्यम्॥’ बौद्धीयो यथा— ‘नात्माकश्चिदिहास्तीह प्रत्यक्षानुपलब्धितः। विज्ञानमात्रमेवैतज्जगत्क्षणविनश्वरम्॥’ लौकायतीयो यथा— ‘पिष्टोदकगुडादिभ्यो मदशक्तिरिव स्वयम्। वह्न्युर्वीवायुवारिभ्यो भूतानां तनुचेतना॥’ साहित्यनैपुणं महाकाव्यकथाख्यायिकाख्यानकादिपरामर्शः। छन्दोनैपुणं यथा—‘सद्यतिसेवितपादं वरगणधरमूर्जितप्रवरवृत्तम्। श्रीवर्धमानमादौ जयदेवं भक्तितो वन्दे॥’ अलंकारनैपुणं यथा—‘प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः। भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः॥’ अपौरुषेयं वचः श्रुतिः। तन्नैपुणं यथा— ‘निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः। जगत्त्रयै कस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम्॥’ श्रुत्यर्थस्मरणात्स्मृतिः—‘भव्याभव्यविलोकिलोचनयुगं चेतः स्मृतेः पारगं धम्मिल्ले शिरसि स्थिते वरतनोर्मुख्या द्विजाः साक्षिणः। स्तेयं नो

मम कालिकेति कुचयोर्द्वन्द्वं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये॥’ यथा च—‘एतस्या गगनश्रियः प्रियतरा नक्षत्रमालामला रात्रौ कण्ठमधिष्ठिताप्यपहृता प्राच्या प्रतीच्यान्विति। सौवर्णं रजतस्य गोलकममुं धत्तः स्वाभाग्योदयात्सूर्याचन्द्रमसोर्मिषेण युगपत्प्रातः स्वयं शुद्धये॥’ वेदाख्यानोपनिबन्धनं पुराणम्—‘किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं धृतः किं नैवं कस्कोत्र जीवो द्रुतमुपनय रे देवसंप्राप्त एव। चापं चापं न खड्गः किमिति हहहहा कर्कशत्वं नखानामित्थं दैत्याधिनाथं खरनखकुलिशैर्जघ्निवान्यः स वोऽव्यात्॥’ पुराणप्रतिभेद एव इतिहासः। तन्नैपुणं यथा—‘मदं नवैश्वर्यपदेन लम्भितं विमुच्य पूर्वः समयो विमृश्यताम्। जगज्जिघत्सातुरकण्डपद्धतिर्नवालिनैवाहिततृप्तिरन्तकः॥’ आगम आप्तवचनं यथा—‘प्रजापतिर्यः प्रतिमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः। प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः॥’ नाट्यनैपुणं यथा—‘कार्योपक्षेपमादौ तनुरपि रचयंस्तस्य विस्तारमिच्छन्बीजानां गर्भितानां फलमतिगहनं मूढमुद्भेदयँश्च। कुर्वन्बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन्कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा॥’ अभिधानकोशो नाममाला। ततो हि शब्दनिश्चयः॥ ननु प्रयुक्तमेव प्रयुज्यते, अन्यथाप्रयुक्तत्वदोषावकाशः तत्किं नाममालया। मैवम्। सामान्येन प्रयुक्तादर्थावगतिर्भवति। यथा—नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः, ‘स्त्रियः पुरुषस्य वा’ इति संशये ‘नीविराग्रन्थनं नार्या जघनस्थस्य वाससः’ इति नाममालापदावलोकनादेव निर्णयो भवति। कामशास्त्रे नैपुणं यथा—‘सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुग्धमलमर्थवचांसि। हारभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः॥’ अर्थशास्त्रनैपुणं यथा—‘मत्कृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रकृष्टान्तरैरुद्युक्ताः स्वनियोगसाधनविधौ सिद्धार्थकाद्याश्चराः। कृत्वा संप्रति कैतवेन कलहं मौर्येन्दुना राक्षसाद्भेत्स्यामि स्ववनेन भेदकुशलेनैष प्रतीपं द्विषः॥’ योगशास्त्रनैपुणं यथा—‘मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रणाशमिह लब्धसवीजयोगाः। ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धुम्॥’ आदिशब्दाज्ज्योतिःशास्त्रनैपुणं यथा—‘क्रूरग्रहः स केतुश्चन्द्रमसं पूर्णमण्डलमिदानीम्। अभिभवितुमिच्छति बलाद्रक्षत्येनं तु बुधयोगः॥’ गजलक्षणनैपुणं यथा—‘भद्रात्मनोर्दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्लुतगतेः परवारणस्य दानांबुसेकसुभगः सततं करोऽभूत्॥’ अश्वलक्षणनैपुणं यथा—‘निर्मांसं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः स्कन्धे बन्धुरमप्रमाणसुरभि स्निग्धं च रोमोद्गमे। पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुहोह सकलैर्युक्तं प्रशस्तैर्गुणैः॥’ रत्नपरीक्षानैपुणं यथा—‘जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान्। विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्नेमिः॥’ द्यूतशास्त्रनैपुणं यथा—‘यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते। इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ कालः काल्या सह बहुकलः क्रीडति प्राणिशारैः॥’ धनुर्वेदनैपुणं यथा—‘स दक्षिणापाङ्गनिविष्टमुष्टिं

नतांसमाकुञ्चितसव्यपादम्। ददर्श वक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥’ एवमन्यदपि।

काव्यज्ञशिक्षया परिशीलनमभ्यासः।

काव्यं कर्तुं विचारयितुं च ये जानन्ति तेषां शिक्षया प्रवृत्तिरभ्यासः।

शिक्षामाचक्षते—

तत्र कविसमये सतामपि भावानां केषांचिदनिबन्धः।

तद्यथा— मालत्या वसन्ते। यथा—‘मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम्। आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः॥’

पुष्पफलयोश्चन्दनद्रुमे।

अनिबन्ध इति वर्तते। यथा— ‘सा छाया स च सुन्दरः परिमलस्ते कोमलाः पल्लवा भ्रातश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः। दृप्यद्दुष्टभुजङ्गसंगतिवशादापादमूलागतैरानीतं फलमन्यतोऽपि पथिकैः साशङ्कमास्वाद्यते॥’

फलस्याशोकेषु।

अनिबन्ध इति वर्तते। एवमन्यत्रापि। ‘किं ते नम्रतया किमुन्नततयां किं वा घनच्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया। यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः॥’

कृष्णपक्षे ज्योत्स्नायाः। शुक्लपक्षे त्वन्धकारस्य।

यथा— ‘परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः। एको हि सितः पक्षः कौमुद्या तुल्ययापि कृष्णोऽन्यः॥’

कुन्दकुड्मलानां कामिदन्तानां रक्तत्वस्य।

यथा—‘व्याकोशकुन्दकुड्मलविमलदतीं यो विहाय राजिमतीम्। मुक्त्यङ्गनानुरक्तोबभूव नेमिः स वः पायात्॥’

कमलमुकुलानां हरितत्वस्य।

यथा—‘उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया। तत्कालाकुलदैत्यदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रंवपुः॥’

प्रियङ्गुपुष्पाणां पीतत्वस्य।

यथा—‘प्रियङ्गुश्यामलाङ्गाभो मुमुक्षुध्यानगोचरः। जपार्तिहरणायास्तु स संज्ञानो जिनः सताम्॥’

दिवा नीलोत्पलादीनां विकासस्य।

यथा— ‘कुमुदवनमपश्रिश्रीमदम्भोजषण्डं त्यजति मदमुलूकः प्रीतिमाँश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां वै विचित्रो विपाकः॥’

दिवा शेफालिकाकुसुमानां विस्रंसस्य।

यथा—‘त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा। इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः॥’

क्वचिदसतामपि भावानां निबन्धः। तद्यथा—नदीषु नीलोत्पलादीनाम्।

यथा—‘शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहृतविकाशिबिसप्रसूनाः। सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमसृजत्त्वननिम्नगानाम्॥’

जलाशयमात्रे हंसानाम्।

यथा— ‘अस्मिन्नेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीरोधसि। आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः॥’

पर्वतमात्रे स्वर्णरत्नगजानां निबन्धः।

यथा— ‘क्रान्तं रुचा काञ्चनवप्रभाचा नवप्रभाजालभृतां मणीनाम्। श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः॥’ यथा च—‘नीलाश्मरश्मिपटलानि महेभमुक्तसूत्कारसीकरविसृञ्जि तटान्तरेषु। आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्यः॥’

तमसो मुष्टिग्राह्यत्वस्य।

यथा— ‘गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः। सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वींं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः॥’

ज्योत्स्नायाः कुम्भोपबाह्यत्वादेः।

यथा— ‘शङ्खद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत्। उत्सेक्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाञ्चलैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका॥’

शिवचन्द्रमसो बालत्वस्य।

यथा—‘कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः। दिवापि निष्ठ्युतमरीचिभारां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः॥’

यशोहास्ययोः शौक्ल्यस्य।

यथा— ‘कर्पूरद्रुमगर्भधूलिधवलं यत्केतकानां त्विषः श्वेतिम्नापरिभूय चन्द्रमहसा सार्धं प्रतिस्पर्धते। तत्पाकोज्ज्वलनालिकेरसलिलच्छायावदातं यशः प्रालेयाचलचूलिकासु भव-

तो गायन्ति सिद्धाङ्गनाः॥’ यथा च— ‘गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादपर्णस्यातिथिः स्याः। शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः स्वंराशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः॥’

अयशःपापयोः कार्ष्ण्यस्य।

यथा— ‘प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत्। कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः॥’ यथा च—‘तमश्चये महति निमज्जतः सतो जनस्य सत्पथगतिदर्शनं दिशत्। दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम्॥’

क्रोधानुरागयो रक्तत्वस्य।

यथा—‘शितितारकानुमितिताम्रनयनमरुणीकृतं क्रुधा। बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम्॥’ यथा—‘गायन्निवालिविरुतैर्नृत्यन्निव चलैर्दलैः। त्वद्गुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः॥’

चक्रवाकानां निशि भिन्नतटाश्रयणस्य।

यथा—‘इह हि कुमुदकोशे पीतमम्भः सुशीतं कवलितमिह नालं कन्दलं चेह दृष्टम्। इति रटति निशायां पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी॥’

केषांचिन्नैयत्यम्। यथा—समुद्रेष्वेव मकराः।

यथा— ‘रत्नानां निधिरित्यपां निलय इत्यत्युष्णतृष्णाज्वरैरस्माभिः श्रित एष केलिसदनं लक्ष्मीप्रियस्येति च। को जानाति यदस्य यास्यति करक्रोडान्तरस्थं पयस्ताम्यन्मीनमधीरलोलमकरं वातापितापी मुनिः॥’

ताम्रपर्ण्यामेव मौक्तिकानि।

यथा— ‘यस्योत्तमां मौक्तिककामधेनुरुपत्यकामञ्चति ताम्रपर्णी। रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति॥’

मलयगिरावेव चन्दनोत्पत्तिः।

यथा—‘ये देशा मलयोपकण्ठनिलयास्तेष्विन्धनं चन्दनं तीरोपान्तनिवासिनां जलनिधे रत्नार्जने नोद्यमः। काश्मीरप्रतिवासिनां भुवि नृणां नात्यादरः कुङ्कुमे दूरस्थस्य महार्घता परिभवः संवासतोजायते॥’

हिमगिरावेव भूर्जजन्म।

यथा— ‘तत्सैनिकाः समासाद्य भूर्जश्रस्तरितां भुवम्। तुषाराद्रिविटङ्केषु मुमुचुर्दिग्जयश्रमम्॥’

वसन्त एव कोकिलरुतम्।

यथा—‘माणंमुञ्चध देह वल्लहजणे दिठ्ठिंतरङ्गुत्तरं तारुण्णं दिअहाणि पञ्च दह वा पीणत्थणत्थम्भणम्। इत्थं कोइलमञ्जुसिञ्जणमिसा देवस्स पञ्चेसुणो दिण्णा चित्तमहूसवेण सहसा (भुवणे) आण्णव्व सव्वंकसा॥’

वर्षास्वेव मयूरस्य नृत्यं रुतं च।

यथा— ‘ज्योतिर्लीलावलयि गलितं यस्य बर्हंभवानी पुत्रप्रेम्णा कुवलयदलत्रापि कर्णे करोति। धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥’

अविशेषोक्तौ माणिक्यानां शोणतैव।

यथा— ‘विभोः सभायां भान्त्येते रत्नदीपाः प्रभाभरैः। कृतालक्तकपोतश्रीविभ्रमासन्नवारिदाः॥’

पुष्पाणां शुक्लतैव।

यथा— ‘फलेषु सुखादुतरेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलग्नम्।जाने तदानीं स्मितपुष्पगुच्छच्छलादहासीद्वनवृक्षवीथी॥’

मेघानां कृष्णतैव।

यथा— ‘लक्ष्मीभृतोऽम्भोधितटाधिवासान्द्रुमानसौ नीरदनीलभासः। लतावधूसंप्रयुजोऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म॥’

कृष्णनीलहरितश्यामानाम्। ऐक्यमिति (वक्ष्यमाणेन) संबन्धः। एवमग्रेऽपि।

यथा—‘सजलजलदनीला भाति यस्मिन्वनाली मरकतमणिकृष्णो यत्र नेमिर्जिनेन्द्रः। विकचकुवलयालिश्यामलं यत्सरोम्भः प्रमदयति न काँस्कांस्तत्पुरं राहडस्य॥’

पीतरक्तयोः।

यथा— ‘नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम्। जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः॥’

शुक्लगौरयोः।

यथा— ‘कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्। अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्त्रम्॥’

रक्तगौरयोः।

यथा— ‘पयसि सलिलराशेर्नक्तमन्तर्निमग्नंस्फुटमनिशमतापि ज्वालया वाडवाग्नेः। यदयमिदमिदानीमङ्गमुद्यद्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान्॥’

चन्द्रे शशमृगयोः।

यथा— ‘लक्ष्मीक्रीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पश्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम्। पिण्डीभूतं हरस्य स्मितममृतसरित्पुण्डरीकं शशाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य॥’ यथा वा—‘किं कारणं तु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः। एके मृगाङ्कमृगमादिवराहमन्ये देव त्वदस्त्रचकिताः श्रयितुं स्वजातिम्॥’

कामकेतने मकरमत्स्ययोः।

यथा— ‘बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य। शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन॥’ यथा वा— ‘स्त्रीमुद्रां झषकेतनस्य महतीं सर्वार्थसंपत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या फलान्वेषिणः। ते तेनैव निहत्य निर्दयतरं मुण्डीकृता लुञ्चिताः केचित्पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे॥

समुद्रात्रिनेत्रसमुत्पन्नयोश्चन्द्रयोः।

यथा—‘उत्पत्तिर्जलधौ तुषारशिशिरा कान्तिः क्लमच्छेदिनी वासो जह्नुसुताङ्गसङ्गशुचिनि स्थाणोर्जटाजूटके। एतस्मिँस्त्रितये तथापि न गतः संपूर्णतां चन्द्रमाः पुंसां सत्यमिदं न जन्म न गुणा नोपाश्रयः संपदे॥’ यथा च— ‘अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च। क्व सावैरात्रिजातस्य तमसो दुर्जनस्य च॥’

द्वादशानामप्यादित्यानाम्।

यथा—‘साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राग्दृशोर्यः सादृश्यं दृश्यते नो स दशशतदृशि त्रैदशेयस्य देशो (?)। दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा संशास्त्यश्वाँश्च यस्याशयविदतिशयाद्दंदशूकाशनाद्याः॥’

क्षीरक्षारसमुद्रयोः।

यथा— ‘ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः शैवालमम्भः सुधा। तीरे तल्पमहीरुहः किमपरं नाम्नैव रत्नाकरो दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति॥’

दैत्यदानवासुराणाम्।

तत्र हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनवलिबाणादयो दैत्याः। विप्रचितिसंवरनमुचिपुलोमप्रभृतयो दानवाः। बलवृत्रचिक्षुर (स्त) वृषपर्वादयोऽसुराः। तेषामैक्यम्। यथा— ‘करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम्। हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्किया॥’ यथा च—‘तं संबरासुरशरासनशल्यसारके-

यूररत्नकिरणारुणबाहुदण्डम्। पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्त्रितयं जयेत्कः॥’

कामस्य मूर्तत्वामूर्तत्वयोः।

तत्र मूर्तत्वस्य यथा—‘स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम्। अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहासः स्मरः॥’ अमूर्तत्वस्य1 यथा— ‘तव सौरूप्यमालोक्य जगज्जनविलक्षणम्। लज्जयेव जगस्वामिन्ननङ्गोऽनङ्गतां गतः॥’

चक्षुरादेरेकानेकवर्णत्वस्य चैक्यम्।

तत्र शुक्लता यथा— ‘जं2मुक्त्वा सवणंतरेण तरला तिक्खा कडक्खच्छडा शिङ्गाथिट्ठिअकेअअग्गिमदलद्दोणीसरिच्छच्छई। तं कप्पूररसेण णं धवलिदो जोण्हाअ णं ण्हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो ह्मि एत्थंतरे॥’ श्यामलता यथा—‘तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्तिः। श्यामीचकार वनमाकुलदृष्टिपातैर्वातेरितोत्पलदलप्रकरैरिवाम्भः॥’ कृष्णता यथा—‘पादन्यासक्वणितरसनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ता। वश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान्॥’ रक्तता यथा—‘वक्त्रंचन्द्रो नयनयुगलीपाटलाम्भोजयुग्मं नासानालं दशनवसनं फुल्लबन्धूकपुष्पम्। कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बौ गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमस्याः॥’ अनेकवर्णता यथा—‘तामुत्तीर्य व्रजपरिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम्। कुन्दक्षेपानुगमधुकरश्रीमुखामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्॥’

क्वचित्प्रतिबिम्बतया क्वचिदालेख्यप्रख्यतया क्वचित्तुल्यदेहितुल्यतया क्वचित्परपुरप्रवेशप्रतिमतया उत्तरोत्तरोत्कर्षेण महाकविकाव्यानां छायोपजीवनं पादद्वयत्रयोपजीवनम् उक्त्युपजीवनं समस्यापूरणपदपरिवृत्तिरर्थशून्याभासादयश्च शिक्षा।

** तत्र यथा (त्रा) र्थः स एव, वाक्यान्तरविरचना त्वन्या। तत्प्रतिबिम्बतुल्यम्।**

यथा—‘तेजः पुष्णातु पार्श्वो दुरितविजयिनः शाश्वतानन्दबीजं संक्रान्तः सप्तरत्न्यां भुजगपतिफणाचक्रपर्यङ्कभाजि। कर्माण्यष्टौ समन्तात्त्रिभुवनभव- नोत्सङ्गितानां जनानां यश्छेत्तुं तुल्यकालं वहति निजतनुं क्लृप्तसप्तान्यरूपाम्॥’ अत्रार्थे—‘पार्श्वप्रभुः फणिफणामणिसप्तकान्तः संक्रान्तकान्तवपुरस्तु स वः शिवाय। कर्माष्टकं सपदि हन्तुमिवानतानां यः क्लृप्तसप्तविततान्यवपुर्बिभर्ति॥

कियतापि भेदेनैतस्माद्यद्भिन्नमिव प्रतिभासते। तदालेख्यप्रख्यम्।

यथा— ‘जयति फणीन्द्रफणामणिसंक्रान्तवपुर्जिनः पार्श्वः। सर्वमनेकान्तमिदं वस्त्विह कथयन्निवेति भव्यानाम्॥’

यत्र विषयभेदेऽपि नितान्तसादृश्यादभेदप्रतीतिस्तत्तुल्यदेहितुल्यम्।

यथा—‘प्रतिदिशमिह दोलान्दोलनव्यापृतानां कुवलयनयनानामाननैरुल्लसद्भिः। विमललवणिमाम्भश्चन्द्रिकां द्राक्किरद्भिर्नवशशधरमालामालिनी- वाभवद्द्यौः॥’ अत्रार्थे—‘जिनभवनशिखाग्रन्यस्तपर्यस्तदोषस्फुरितरुचिरकुम्भोद्दामदीप्तिप्रतानैः। प्रतिसमयमिहश्रीराहडेनाधिकं द्यौस्तरुणतरणिमाला- मालिनीव व्यधायि॥’

यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यस्तत्परपुरप्रवेशतुल्यम्।

यथा— ‘अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्त्रेमूर्ध्नि स्थितवति वयं के पुनरमी॥’ यथा च—‘प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि॥’ पदोपजीवनं यथा—‘दूराकृष्टशिलीमुखव्यतिकरान्नो किं किरातानिमानाराद्व्यावृतपीतलोहितमुखान्किं वा पलाशानपि। पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम्॥’ यथा च—‘मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम्। स्थितं पन्थानमावृत्य किं किरातं न पश्यसि॥’ पादोपजीवनं यथा— ‘जातो मार्गे सुरभिकुसुमः सत्फलो नम्रशाखः स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः। नैवात्मार्थंवहति महतीं पादपेन्द्रः श्रियं तामापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्॥’ यथा च—‘तं चेद्वायौ वहति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरी- बालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्रैरापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्॥’ आदिशब्दात्पादत्रयोपजीवनमपि युज्यते परं तत्प्रकटचौर्यमिति नोपदिष्टम्। उक्त्युपजीवनं यथा—‘कैवर्तकर्कशकरग्रहणच्युतोऽपि काले पुनर्निपतितः शफरो वराकः। जालात्पुनर्निगलितो गलितो बकेन वामे विधौ बत कुतो व्यसनान्निवृत्तिः॥’ यथा च—‘छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा वलाद्वागुरां प्रान्तेषु ज्वलदग्निजालजटिलान्निर्गत्य दूरं वनात्। व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोतु विगुणे किंवा विधौ पौरुषम्॥’ समस्यापूरणं

त्वनेकधा भवति। पादसमस्या यथा—‘समुद्राद्धूलिरुत्थिता’ इति चतुर्थः पादः। अत्र क्रमशस्त्रयः पादाः। यथा—‘अगस्तिहस्तविन्यस्तनिपीतसकलाम्भ- सः। अधःफणीन्द्रफूत्कारैः समुद्राद्धूलिरुत्थिता॥’ पादद्वयसमस्या यथा—‘स्तनावालोक्य तन्वङ्ग्याःशिरः कम्पयते युवा।’ इति पूर्वार्धम्। ‘तयोरन्तर्विनिर्मग्नांदृष्टिमुत्पाटयन्निव॥’ इत्युत्तरार्धम्। पादत्रयसमस्या यथा—‘गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य। कैलासस्यादिमजिनपतिं प्रार्थयेऽस्त्रंविमुक्त्यै याच्ञामोघा वरमधिगुणे नाधमे लब्धकामा॥’ इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन संकलितम्। यथा च— ‘छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः। योऽयं नेमेः सदनमचलः प्रीतये यत्र ते स्याच्छीतो वायुः परिणमयिता काननोदुम्बराणाम्॥’ पदपरिवृत्तिर्यथा—‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥‘तथा—‘वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये। जगतो मातरौ (?) वन्दे शर्वाणीशशिशेखरौ॥’ अर्थशून्यपदाभ्यासो यथा—’ आनन्दसंदोहपदारविन्द- कुन्देन्दुकुन्दोदितबिन्दुवृन्दम्। इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनिन्द्यन्मकरन्दवन्द्यम्॥’

बवयोर्डलयोरैक्यम्।

यथा—‘पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देवम्। विलसत्करेणुगहनं संप्रति सममावयोः सदनम्॥’ यथा च—‘नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखे च मृदुता मित्रेमहान्प्रश्रयः। आमूलं किल संग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥’

नानुस्वारविसर्गौचित्रभङ्गाय।

यथा—‘चन्द्रेडितं3 चटुलितस्वरधीशसाररत्नासनं रभसकल्पितशोकजातम्। पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम्॥’ पापतिमिरक्षयकारकायंपश्यामि। इति हारबन्धचित्रम्॥ कथंभूतम्। चन्द्रेडितं चन्द्रस्तुतम्। पुनः कथंभूतम्। चटुलितस्वरधीशसाररत्नासनं कम्पितशक्रोत्कृष्टसिंहासनम्। रभसकल्पितशोकजातं निराकृतशोकसमूहम्। पुनः कथंभूतम्। अल्पेतरामलतपःकचलोपलोचं केशापनोददर्शकम्॥ विसर्गोयथा— ‘नित्यं कुन्थ्वा (म्भ्या?) दिसत्त्वेष्वहिंस्रः कुंथ्वितिसंज्ञकः। करिराजकराकारकरो मामवताज्जिनः॥’ त्रिशूलबन्धचित्रं सुबोधम्।

शब्दार्थौनिर्दोषौ सगुणौ प्रायः सालंकारौ काव्यम्।

दोषगुणालंकाराणामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः। प्रायः सालंकाराविति निरलंकारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थम्। यथा—शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता वाला चिरं चुम्बिता॥’

तच्च पद्यगद्यमिश्रभेदैस्त्रिधा।

तत्र पद्यं छन्दोबन्धः। स च महाकाव्यादिः।

तत्र प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धभिन्नान्त्यवृत्तसर्गाश्वासकसंध्यवस्कन्धकबन्धम्, मुखप्रतिमुखगर्भविमर्षनिर्वहणरूपसंधि- पञ्चकोपेतम्, असंक्षिप्तग्रन्थम्, अविषमबन्धम्, अनतिविस्तीर्णपरस्परसंबद्धसर्गम्, आशीर्नमस्क्रियावस्तुनिर्देशोपक्रमयुतम्, वक्तव्यवस्तु- प्रतिज्ञातत्प्रयोजनोपन्यासकविप्रशंसासज्जनदुर्जनचिन्तादिवाक्योपेतम्, दुष्करचित्राद्येकसर्गाङ्कितम्, स्वाभिप्रेतवस्त्वङ्कितसर्गान्तम् चतुर्वर्ग- फलोपेतम्, चतुरोदात्तनायकम्, प्रसिद्धनायकचरितम्, नगनागरसागरर्तुचन्द्रार्कोदयास्तसमग्रोद्यानजलकेलिमधुपानसुरतमन्त्रदूतसैन्यावास- प्रयाणाजिनायकाभ्युदयविवाहविप्रलम्भाश्रमनद्यादिवर्णनोपेतं महाकाव्यम्।

तत्र संस्कृतभाषानिबद्धसर्गबन्धं रघुवंशादि। प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि। अपभ्रंशभाषानिबद्धसंधिबन्धमब्धिमथनादि। ग्राम्यभाषा- निबद्धावस्कन्धबन्धं भीमकाव्यादि। प्रायोग्रहणात्संस्कृतभाषायामपि क्वचिदाश्वासकबन्धो न दुष्यति, तथा आदितः समाप्तिपर्यन्तं कुत्राप्येकमेव छन्दो न दुष्यति। मुखसंधिर्यथा—‘यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा। काव्यशरीरानुगतं4 तन्मुखं परिचक्षते॥’ प्रतिमुखं यथा—‘बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित्। मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम्॥’ गर्भो यथा—‘उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः॥’ विमर्षो यथा—‘गर्भनिर्भिन्न5बीजार्थो विलोभनकृतोऽपि वा। क्रोधव्यसनजो वापि स विमर्षः6 प्रकीर्तितः॥’ निर्वहणं यथा—‘समानयनमर्थानां मुखाद्यानां सवीजिनाम्। नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत्॥’ आशीर्नमस्क्रियावस्तुनिर्देशोपक्रमयुतमिति। तत्राशीर्यथा चन्द्रप्रभकाव्ये—‘श्रियं क्रियाद्यस्य सुरागमे नटत्सुरेन्द्रनेत्रप्रतिबिम्बलाञ्छिता। सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोऽग्रजो जिनः॥’ नमस्कारो यथा रघुवंशे—‘वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥’ वस्तुनिर्देशो यथा—‘श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि। वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः॥’ वस्तुप्रतिज्ञातत्प्रयोजनोपक्षेप (न्यास) इति। यथा स्वोपज्ञऋषभदेवचरितमहाकाव्ये— ‘यत्पुष्पदन्तमुनिसेनमुनीन्द्रमुख्यैः पूर्वैः कृतं सुकविभिस्तदहं विधित्सुः। हास्याय कस्य

ननु नास्ति तथापि सन्तः शृण्वन्तु कंचन ममापि सुयुक्तिसूक्तम्॥’ कविप्रशंसा चात्रैव। यथा—‘नव्यनव्यक्रमासाद्यानुक्षणं यस्य सूक्तयः। प्रभवन्ति प्रमोदाय कालिदासः स सत्कविः॥’ सुजनदुर्जनचिन्ता यथा नेमिनिर्वाणे—‘गुणप्रतीतिः सुजनाज्जनस्य दोषेष्ववज्ञा खलजल्पितेषु। अतः सतो नाप्यसतो निवृत्तिर्विशेषशाली भवति प्रयत्नः॥’ दुष्करसर्गा (चित्रा) द्यङ्कितैकसर्गत्वमिति। यथा—शिशुपालवधे एकोनविंशतितमः सर्गः। स्वाभिप्रेतवस्त्वङ्कित- सर्गान्तमिति। यथा—शिशुपालवधः श्यङ्कः, विष्णुजयो विष्ण्वङ्कः, किरातार्जुनीयं लक्ष्म्यङ्कम्। चतुर्वर्गफलोपेतमिति। चत्वारो वर्गा धर्मार्थकामलक्षण- व्यस्ताः समस्ता वा तत्फलसंयुक्तम्। चतुरोदात्तनायकमिति। यथा शिशुपालवधे विष्णुः। नेमिनिर्वाणे नेमिः। प्रसिद्धनायकचरितमिति। अनेन प्रकरणादिवत्स्वकल्पितकथावस्तुनिषेधः। नगनगरेत्यादि। तत्र नगवर्णनं किरातार्जुनीयकुमारसंभवादौ। नगरवर्णनं शिशुपालवधनेमिनिर्वाणादौ। अर्णववर्णनं सेतुबन्धनेमिनिर्वाणादौ। ऋतुवर्णनं रघुवंशहरिवंशशिशुपालवधादौ। चन्द्रोदयास्तसमयवर्णनं शिशुपालवधचन्द्रप्रभचरितादौ। उद्यान- जलकेलिमधुपानवर्णनं नेमिनिर्वाणराजीमतीपरित्यागादौ। मन्त्रदूतसैन्यावासप्रयाणाजिवर्णनं शिशुपालवधविष्णुविजयादौ। नायकाभ्युदयवर्णनं विष्णुविजयनेमिनिर्वाणादौ। विवाहवर्णनं कुमारसंभवादौ। विप्रलम्भवर्णनं राजीमतीपरित्यागादौ। आश्रमवर्णनं रघुवंशादौ। नदीवर्णनं मेघदूतादौ।

तत्रैकेन छन्दसा मुक्तकम्। द्वाभ्यां युग्मं संदानितकं च। त्रिभिर्विशेषकम्। चतुर्भिः कलापकम्। द्वादशान्तैः कुलकम्।

सुबोधम्।

गद्यमपादः पदसंतानच्छन्दोरहितो वाक्यसंदर्भः।

तत्र नायिकाख्यातस्ववृत्तान्ताभाव्यर्थशंसिनी सोच्छ्वासा कन्यकापहारसमागमाभ्युदयभूषिता मित्त्रादिमुखाख्यातवृत्तान्ता अन्तरान्तराप्रविरलपद्यबन्धा आख्यायिका।

तत्रेति। गद्ये। आख्यायिका हर्षचरितादिः। शेषं सुबोधम्।

गद्यपद्यमयं मिश्रम्।

तत्र नाटकप्रकरणभाणप्रहसनडिमसमवकारेहामृगोत्सृष्टिकाङ्कव्यायोगवीथीरूपाण्यभिनेयानि।

तत्रेति। मिश्रे। नाटकादीनि दशरूपकाणि। अभिनेयानि। तेषां च भरतमुनि7नोपदर्शितलक्षणमुपदिश्यते। यथा—‘प्रख्यातवस्तुविषयं प्रख्यातोदात्त- नायकं चैव। राजर्षिवंश्य च-

रितं तथा च दिव्याश्रयोपेतम्॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि। अङ्कप्रवेशकाढ्यं भवति च तन्नाटकं नाम॥’ (प्रकरणं तु—) ‘यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव। औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम्॥ यदनार्षमनाहार्यं8काव्यं प्रकरोत्य9भूतगुणयुक्तम्। उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम्॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च। तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्। चरितं यन्नैककृतं यत्प्रज्ञेयं प्रकरणं नाम॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः। बाह्यजनसंयुतं तत्प्रज्ञेयं प्रकरणं नाम॥ दासविटश्रेष्ठियुतं वेशस्त्रुपचारंकारणोपेतम्। मन्दस्त्रीकुलचरितं काव्यं कार्यंप्रकरणे10 तु॥’ (भाणस्तु—) ‘आत्मानुभूतशंसी परशंसनवर्णनाप्रयुक्तश्च11। विविधाश्रयो12 हि भाणो विज्ञेयस्त्वेकहार्यश्च॥ परवचनमात्मसंस्थैः13 प्रतिवचनैरुत्तरोत्तरग्रथितैः॥ आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकैश्चैव। एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः॥’ (प्रहसनं तु—) ‘प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम्। वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम्॥ भगवत्तापसविप्रैरन्यैरपि हासवादसंबद्धम्। कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम्॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितमिदम्14॥ नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः। अनिभृतवेषपरिच्छदचेष्टितकरणं च संकीर्णम्॥’ (डिमस्तु—) ‘प्रख्यातवस्तुविषयः प्रख्यातोदात्त- नायकश्चैव। षड्रसलक्षण15युक्तश्चतुरङ्को वै डिमः कार्यः॥ शृङ्गारहास्यवर्ज्यंशेषैरन्यै रसैः समायुक्तः। दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः। युद्धनियुद्धाधर्षणसंस्फोटकृतश्च विज्ञेयः16॥ मायेन्द्रजालबहुलो बहुसुप्तोत्थान17योगयुक्तश्च। देवभुजगेन्द्रराक्षसयक्ष- पिशाचावकीर्णश्च। षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपूर्णः18॥ कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः॥’ समवकारस्तु—‘देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव। त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः॥ द्वादशनायकबहुलो ह्यष्टादशनायिकाप्रमाणश्च॥’ इति। (ईहामृगस्तु—) ‘दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः। सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च। संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव॥ स्त्रीभेदनोपहरणावमर्दनप्राप्तवस्तुशृङ्गारः। ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च19॥ यद्व्यायोगे कार्यंये पुरुषा वृत्तयो रसाश्चैव। ईहामृगेऽपि यत्स्यात्केवलमत्र स्त्रियो योगः॥’ (उत्सृष्टिकाङ्कस्तु—) ‘वक्ष्याम्यतःपरमहं लक्षणमुत्सृष्टिकाङ्कस्य। प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात्॥ दिव्यपुरुषैर्वि-

युक्तः शेषैरन्यैर्भवेत्पुंभिः। करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च॥ स्त्रीपरिदेवितबहुलो निर्देवितभाषितश्चैव। नानाव्याकुलचेष्टः सात्वत्यारभटिकैशि- कीहीनः॥ कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु॥’ (व्यायोगस्तु—) ‘व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः। अल्पस्त्रीजनयुक्तस्त्वे- काहकृतस्तथा चैव॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे। न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम्॥ न च दिव्यनायककृतः कार्योराजर्षिनायकनिबद्धः। युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः॥’ ( वीथीस्तु—) ‘सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः। वीथी स्यादेकाङ्का तथैकहार्याद्विहार्या वा॥’ नाटकभेदान्नाटिका। यदाह—‘प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम्। अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या॥ स्त्रीप्राया चतुरङ्गा ललिताभिनयात्मका सुविहिताङ्गी। बहुनृत्यगीतवाद्या रतिसंभोगात्मिका चैव॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता। नायकदेवीदूतीसपरिजना नाटिका ज्ञेया॥ ‘एवं प्रकरणभेदात्प्रकरणिकापि विज्ञेया। सट्टकोऽपि कैश्चिदुक्तः। तद्यथा— ‘विष्कम्भकस्त्वेकरहितो यस्त्वेकभाषया भवति। अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः॥’

गेयं विभजते—

डोम्बिकाभाणप्रस्थानभाणिकाप्रेरणशिङ्गकरामाक्रीडहल्लीसकश्रीगदितरासकगोष्ठीप्रभृतीनि गेयानि।

पदार्थाभिनयस्वभावानि डोम्बिकादोनि गेयानि रूपकाणि चिरंतनैरुक्तानि। तद्यथा— ‘छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः। आवर्ज्यते मनः सा तु मसृणा डोम्बिका मता॥ नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः। नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः॥ गजादीनां गतिं तुल्यां कृत्वा प्रसवनं तथा। अल्पविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते॥ वालक्रीडानियुद्धादि तथा शूकरसिंहजा। धवलादिकृता क्रीडा यत्र सा भाणिका मता॥ हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम्। सख्याः समक्षं पत्युर्यदुद्धृतं नृत्तमुच्यते॥ मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः। ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते॥ मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम्। एकसूत्रं तु नेता स्याद्गोपस्त्रीणां यथा हरिः॥ यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान्। उपालम्भं च कुरुते गेये श्रीगदितं तु तत्॥ अनेकनर्तकीयोज्यं चित्रताललयान्वितम्। आचतुःषष्टियुगलाद्रासकंमसृणोद्धते॥ गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः किंचित्। रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति॥’

धीरप्रशान्तनायकोपेता गद्येन पद्येन वा सर्वभाषानुविद्धा कथा।

आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः। तस्य तु वृत्तमन्येन कविना यत्र वर्ण्यते सा काचिद्गद्यमयी कादम्बरीवत्। काचित्पद्यमयी लीलावतीवत्। सर्वभाषानुविद्धा संस्कृतप्राकृतेन मागध्या सौरसैन्या शच्या अपभ्रंशेन वा रचिता कथा॥

गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः।

यान्यङ्कानि स्वनाम्ना परनाम्ना वा करोति कविः तैर्युक्ता उच्छ्वासनिबद्धा चम्पूः। यथा वासवदत्ता दमयन्ती वा॥

इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानस्वोपज्ञ-
काव्यानुशासनवृत्तौ प्रथमोऽध्यायः।

________________

द्वितीयोऽध्यायः।

‘निर्दोषौ शब्दार्थौ काव्यम्’ इत्युक्तम्। तत्र शब्ददोषानाह—

निरर्थकनिर्लक्षणाश्लीलाप्रयुक्तासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकृन्नेयार्थनिहतार्थाप्रतीतग्राम्यसंदिग्धावाचकत्वा- नि शब्ददोषाःपदे वाक्ये च भवन्ति।

तत्र—

प्रकृतानुपयोगि निरर्थकम्।

पदे यथा— ‘उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिद्ध्यतुभगवति युष्मत्प्रसादेन॥’ अत्र हिशब्दो निरर्थकः। पादैकदेशोऽपि पदमेव। तन्निरर्थकत्वमुदाह्रियते। यथा—‘आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा॥’ अत्र कुरङ्गेक्षणेत्येकवचनात् दृशामिति बहुवचनं निरर्थकम्। वाक्ये यथा—‘बल्यरिक्रत्वरी पातां साम्बुव्यम्बुघनोपमौ। सदृशौ काकबकाभ्यां च वै हि तु च वै हि तु॥’

तच्च मत्तोन्मत्तबालाद्युक्तौ विशेषतो रम्यम्।

तत्र चैश्वर्यबलरूपतपोवयःश्रुतादिभेदैर्मदोऽनेकधा भवति। तत्रैश्वर्यमदो यथा—‘एहि गच्छ बतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडन्ति धविनोऽर्थिभिः॥’ एवमन्यदप्युदाहार्यम्॥

शब्दानुशासनच्छन्दोऽनुशासनादिलक्षणरहितं निर्लक्षणम्।

शब्दानुशासनरहितं पदे यथा माघस्य—‘संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनःस्वनुप्रयाते पटहस्य शार्ङ्गिणि। सत्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम्॥’ अत्र ‘द्वयेषाम्’ इति न प्राप्नोति। द्वयानामिति भवति। कालिदासस्य यथा—‘दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि। तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे॥’ अत्र पाण्ड्या इति बहुवचने तद्धितप्रत्ययलोपे पाण्डव इति प्राप्नोति। तथा—‘तेनाभिघातरभसस्य विकृष्य पत्त्रीवन्द्यस्य नेत्रविवरे महिषस्य मुक्तः। निर्भिन्नविग्रहमशोणितलिप्तगात्रस्तं पातयां प्रथममास पपात पश्चात्॥’ अत्र पातयामासेति अव्यवधानेन प्रयोगः प्राप्नोति। भारवेर्यथा— ‘उन्मज्यच्छफर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः। गाण्डीवी

कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः॥’ अत्र आजघ्ने इति आत्मनेपदं न प्राप्नोति। हन्तेः स्वाङ्गकर्मकत्वाभावात्। त्रिविक्रमस्य यथा—‘सरित इव गावः पीवरोधसः’। अत्र पीवरोध्न्यइति प्राप्नोति। शीताया यथा— ‘मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बभाषे। प्रायो विदग्धवनिता नवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्॥’ अत्र मा भैषीरिति प्राप्नोति। वाक्ये यथा—‘प्रदत्तं नैव यैः स्वीयविभवस्फीतमानतः। तपो न तपितं किंचित्तेषां जन्मस्य किं फलम्॥’ अत्र प्रदत्तस्थाने प्रत्तमिति, स्वीयस्थाने स्वकीयमिति, स्फीतस्थाने स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्नोति। छन्दोऽनुशासनलक्षणरहितं पदे यथा—‘कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः’ इति शिखरिणीछन्दसि षष्ठे यतिर्या नियता सा नास्ति। वाक्ये यथा—‘अपि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम्’। अत्र वैतालीयसमपादे षड्लघवो निरन्तरा न स्युः। अयं च सर्वः प्रपञ्चः श्रीवाग्भटाभिधानस्वोपज्ञच्छन्दोनुशासने प्रपञ्चित इति नात्रोच्यते॥

अनुकरणे न दोषः।

‘नृपाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटोऽबलायाः। सोपानपङ्क्त्यांपतितः करोति ठ ठं ठठं ठंठ ठ ठं ठ ठं ठः॥’

व्रीडाव्यञ्जकममङ्गलव्यञ्जकं जुगुप्साव्यञ्जकं चेति त्रिधाश्लीलम्।

तत्र त्रीण्यनुक्रमेण पदे यथा—‘मनीषिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से क्व च तावकं वपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्त्रिणः॥’ ‘दग्धोत्तीर्णसुवर्णवर्णरुचिरच्छायं वसानोऽम्बरं भास्वत्कौस्तुभकान्तिकर्बुरतरभ्राजिष्णु वक्षःस्थलम्। शङ्खं चक्रमसिं गदामविरतं बिभ्रच्चतुर्भिः करैरारूढो गरुडं नवीनजलदश्यामो हरिः पातु वः॥’ ‘प्रासादानामुपरि वलभीजालवातायनेषु भ्रान्त्यावृत्तः परिणतसुरागन्धसंभारगर्भः। माल्यामोदी मुहुरुपचितः स्फारकर्पूरवासो वायुर्यूनामभिमतवधूसंनिधानं व्यनक्ति॥’ अत्र पेलवदग्धवायुशब्दाः क्रमेण व्रीडामङ्गलजुगुप्साव्यञ्जकाः। त्रीण्यप्यनुक्रमेण वाक्ये यथा— ‘भूपतेरुपसर्पन्ती कम्पना वामलोचना। तत्तत्प्रहणनोत्साहवती मोहनमादधौ॥’ ‘पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम्॥’ ‘ये विमुच्यापि वाञ्छन्ति भोगाञ्जैनव्रतस्थिताः। छर्दितं ते समश्नन्ति विष्ठामपि कुबुद्धयः॥’ अत्रोपसर्पणप्रहणनमोहनशब्दास्तथा पितृवसतिपावकाशेषितशल्यशब्दाश्छर्दितविष्ठादिशब्दाश्च व्रीडामङ्गलजुगुप्साव्यञ्जकाः॥

शान्तविदूषकाद्युक्तौ न दोषः।

शान्तोक्तौ यथा— ‘उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे। क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते॥’ एवमन्यदपि॥

कविभिरनादृतत्वादप्रयुक्तम्।

यथा—‘शीते चोष्णपटी न चाग्निशकटी नापि द्वितीयापटी जीर्णापर्णकुटी न तन्दु-

लपुटी भूमौ च घृष्टा कटी। वृत्तिर्नारभटी प्रिया न गुमुटी सौख्यं न चैका घटी भूयाद्भूप तव प्रसादकरटी भङ्क्तुंममापत्तटी॥’ अत्र गुमुटीति देश्यत्वादप्रयुक्तम्। यदाह— ‘प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य। तन्मडहादिकथंचिन्न रूढिरिति संस्कृते रचयेत्॥’ वाक्ये यथा—‘धत्ते तेजोभिराधिक्यं दैवतोऽयं सहस्रगुः’। अत्र दैवतशब्दः पुंलिङ्गे कथितोऽप्यप्रयुक्तः। सहस्रगुरित्यादित्य इत्यपि अप्रयुक्तम्॥

देश्यानां प्राकृताद्युक्तौ मुग्धोक्तौ च न दोषः।

तत्र प्राकृते यथा—‘जुन्हा ऊरियको सकंति धवले सव्वंगगंधुक्कडे णिव्विग्धं घरदीहियासु सरसं बेंबंत ओमासलम्। आसाए इसुमंजुगुंजियरवो तिंगिंछिपाणासवं उम्मिल्लन्तदलावलीपरिगऊ चंदुज्जए छप्पउ॥’ अत्र तिंगिंछि मकरन्द इति देश्यः। मुग्धोक्तौ यथा— ‘देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे। तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं संयच्छस्वयशः सितासितपयोभेदाद्विवेकोऽस्तु नः॥’ अत्र स्वस्तीति मुग्धस्यैव ब्राह्मणस्योक्तौ न दोषः॥

श्लेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः।

यथा—‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोवृत्तभुजंगहारवलयोगङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजंगहारवलयस्त्वां सर्वदो माधवः॥’

तदर्थप्रतिपादनाक्षममसमर्थम्।

तत्पदे यथा— ‘राजेन्द्र भवतः कीर्तिश्चतुरो हन्ति वारिधीन्’। अत्र हन्तीति पदं गमनार्थे पठितमपि प्रतिपादनायासमर्थम्। वाक्ये यथा— ‘नद्यां हत्वा वस्त्रं धावतीति’। अत्र हन्तिशब्दो व्याख्यातः। धावतीति शुद्ध्यर्थे पठितमपि तत्प्रतिपादनायासमर्थम्॥

अनौचित्येन प्रयुक्तमनुचितार्थम्।

पदे यथा— ‘यः प्राप निर्वृतिं क्लेशाननुभूय भवार्णवे। तस्मै विश्वैकमित्त्राय त्रिधा नाभिभुवे नमः॥’ अत्र क्लेशाननुभूयेति जिनपतिं प्रत्यनुचितम्। वाक्ये यथा—‘सा जयइ कूडवरडो सिद्धनरिंदो धराइसयला। इच्छित्तणरायवंसे एकच्छत्तं कयंजेण॥’

तच्च निन्दायां प्रोत्साहने च न दुष्टम्।

यथा— ‘चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन। निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः॥’ प्रोत्साहने यथा— ‘विशन्तु वृष्णयः सर्वे रुद्रा इव महौजसः॥’

पुरुषवर्णं (यथा) श्रुतिकटु।

पदे यथा— ‘नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम्। नवरसरुचिरां निर्वृतिमादधती भारती कवेर्जयति॥’ अत्र ह्लादेति श्रुतिकटु। वाक्ये यथा—‘व्यग्रैरग्र्यग्रहेन्दुग्रसनगुरुभरैर्नोसमग्रैरुदग्रैःप्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्गाम्।

उद्गाढार्चिर्विलीनामरनगरनगं प्रावगर्भामिवाह्रामग्रेऽग्रे यो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः॥’

वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेषतो गुणः।

तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये। सिंहादिवर्णने यथा—‘मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारंगा महिषा मदं त्यजत रे शून्येषु शूरा न के। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः सिंहध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम्॥’
व्यवहितार्थप्रत्ययजनकं क्लिष्टम्।

पदे यथा— ‘मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा। तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास॥’ वाक्ये यथा—‘मानसौकःपतद्यानदेवासनविलोचनः। तमोरिपुविपक्षारिः प्रियं दिशतु वो जिनः॥’

झगित्यर्थार्पकत्वे गुणः।

[ यथा—] ‘एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः। आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम्॥’ अत्र काञ्चीगुणस्थानं जघनमिति प्रसिद्धम्॥

यत्र विधातुमर्होऽशो न प्राधान्येन परामृष्टस्तदविमृष्टविधेयांशम्।

तत्पदे यथा— ‘स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम्। न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य॥’ अत्र मौर्वी द्वितीयामिवेति युक्तम्। वाक्ये यथा— ‘शय्या शाद्वलमानसं शुचि शिला सद्मं द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः। इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावध्द्यैर्वृथा स्थीयते॥’ अत्र शाद्वलं शय्येति विध्यनुवादौ। विधेयौ यथा— ‘त्वक् तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्त्रपुटा घटाश्च। मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते॥’

विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत्।

यथा— ‘चतुर्मुखमुखाम्भोजवनहंसवधूर्मम। मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥, अत्र मम वधूरिति विरुद्धां बुद्धिं जनयति। वाक्ये यथा—‘अनुत्तमानुभावस्य परैरपिहितौजसः। अकार्यसुहृदोऽस्माकमपूर्वाश्चित्तवृत्तयः॥’ अत्रापकृष्टच्छादितमकार्येषु मित्त्रपूर्वो यासां ता अकीर्तय इति विरुद्धां बुद्धिमुत्पादयति॥

‘लक्षितोऽर्थो यत्र ज्ञायते तन्नेयार्थम्।

पदे यथा— ‘नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा। अयमपरदिशोऽङ्के मुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुर्म्लानमात्मानमिन्दुः॥’ अत्र हस्तशब्देन करा लक्ष्यन्ते। तेन चः किरणा इति नेयार्थत्वम्। वाक्ये यथा—‘सपदि पङ्क्तिविहंगमनामभृत्तनयसंवलितं बलशालिना। विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलूकजि-

ताजितम्॥’ अत्र पङ्क्तिविहंगमनामभृद्दशरथः। उलूकः कौशिकस्तेन चेन्द्रशब्दो लक्ष्यते। इन्द्रजितेत्यर्थः॥

उभयार्थवाचकमप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थम्।

पदे यथा— ‘यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन। मुग्धा साध्वसतरला विलोक्य परिरभ्य चुम्बिता सहसा॥’ अत्र शोणितशब्दो रुधिरे प्रसिद्धः। वाक्ये यथा— सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः। अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः॥’ सायकशब्दः खङ्गपर्यायः शरे प्रसिद्धः। मकरध्वजशब्दो जलधिपर्यायः कन्दर्पे प्रसिद्धः। क्षमाशब्दो भूपर्यायः क्षान्तौ प्रसिद्धः। अब्जशब्दश्चन्द्रपर्यायः पद्मे प्रसिद्धः। श्लोकशब्दः कीर्तिपर्यायोऽनुष्टुभि प्रसिद्धः॥

अप्रतीतमागमादेव प्रसिद्धम्।

पदे यथा— ‘भान्ति धर्मगजालानस्तम्भविभ्रमकारिणः। चतसृष्वपि काष्ठासु मानस्तम्भा महोच्छ्रयाः॥’ अत्र मानस्तम्भशब्दो जैनागमे प्रसिद्धः। वाक्ये यथा— ‘पञ्चाणुव्रतानि गुणास्त्रयः शिक्षाव्रतानि च। चत्वारि स्युर्गृहस्थानां शुद्धसंपक्तयोगतः॥’ अत्राणुव्रतादीनि जैनागमे प्रसिद्धानि। असौ तु स्वदर्श- नोक्तौ विशेषतो गुणः॥

ग्राम्यमविदग्धजनोक्तिः।

पदे यथा— ‘राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम्। तपनीयशिलाशोभा कटिश्च हरते मनः॥’ अत्र कटिरिति ग्राम्यम्। वाक्ये यथा—‘ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानवः। करोति खादनं पानं सदैव तु यथा तथा॥ '

तच्च विदूषकमुग्धादिजल्पिते विशेषतो रम्यम्।

यथा—‘फुल्लुक्करं20 कलमकूरसमं वहंति जे सिंदुवारविडवा मह वल्लहा दे। ये गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा॥’

अन्यार्थप्रतिभासनेन [ यत् ] संशयकृत्तत्संदिग्धम्।

पदे यथा— ‘न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः। ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात्॥’ अत्र ‘संयतशब्दो बद्धपर्यायः, उत संयमितपर्यायः’ इति संदिग्धम्। वाक्ये यथा— ‘सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः। मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम्॥’ अत्र सुरालयकम्पनमार्गणभूतिशब्दाः संदिग्धाः। वक्रोक्तौ गुणः। यथा— ‘अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः। भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम्॥’ अत्रानुशयः कोपः, पश्चात्तापश्च।

अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो माननामिति च॥

इष्टार्थप्रतिपादनाक्षममवाचकम्।

पदे यथा—‘जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरहंसः। भर्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः॥’ अत्र दधदित्यर्थे विदधदित्यवाचकम्। विपूर्वो हि दधातिः करोत्यर्थे वर्तते। यदाह—‘उपसर्गेण धात्वर्थो बलादन्यत्र नीयते’। यथा च—‘उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन्प्रतिध्वानिनीः। उच्चैरुच्चरतिध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागच्छति॥’ अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः। समुद्रे तु गर्जितमेव। यदाह—‘ध्वनितं मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणितं वीणादिषु, शिञ्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहंगादिषु, बृंहितं वारणेषु, हेषितं हयेषु, आरवः पटहेषु, ढेत्कृतं वृषभेषु, रवो मण्डूकेषु, नादः सिंहेषु, फूत्कारः सर्पेषु, बूत्कारः कपिषु, घूत्कारो घूकेषु, चटत्कारोऽग्निस्फुलिङ्गेषु, कटत्कारो भङ्गेषु, सूत्कारः सायकेषु, गुञ्जाकारो भृङ्गेषु, घमघमारवो घर्घरेषु, भाङ्कारो भेरीषु, केकारवः कलापिषु, सीत्कारः कामिनीषु, झङ्कारः किङ्किणीषु, टङ्कारो मौर्वीषु, भात्कारो झल्लरीषु, घोषो नदीवीचिषु, प्रसिद्धो नान्यत्र। तद्यथा प्रसिद्धं तत्तथैव बध्नीयात्। अन्यथा त्ववाचकत्वदोषः। वाक्ये यथा—‘विभजन्ते न ये भूपमालभन्ते न ते श्रियम्। आवहन्ते न ते दुःखं प्रस्मरन्ति न ये प्रियाम्॥’ अत्र विपूर्वो भजिर्विभागे, न सेवने। आङ्पूर्वो लभिर्विनाशे, न प्रापणे। आङ्पूर्वोवहिः करोत्यर्थे, न धारणे। प्रपूर्वः स्मरतिर्विस्मरणेऽर्थे, न तु स्मरणे इति॥

न्यूनपदाधि21कपदोक्तपदास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गसंकीर्णगर्भितभग्नप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः।

तत्र—

विश्लेषेऽश्लीलत्वे कष्टत्वे च संधिवैरूप्यं विसंधिः।

विश्लेषे यथा— ‘राजन् विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलान्तः। धीदोर्बले अतितते उचितार्थवृत्ती आतन्वतीविजयसंपदमत्र भातः॥’ अश्लीलत्वे यथा—‘विरेचकमिदं नृत्तमाचार्याभासयोजितम्। चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः॥’ अत्र विरेचकशेपपुरीषशब्दा अश्लीलाः। कष्टत्वे यथा—‘उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः। नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक्॥’

अवश्यवाच्यस्यानभिधाने न्यूनपदम्।

यथा— ‘अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि। सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्नु- तिर्भूत्॥’ विश्वस्य धातरीत्यत्र चशब्दो युज्यते। स नास्तीति न्यूनपदत्वम्। ‘परमेश्वरे च’ इति तु पाठे युक्तम्। तथात्रैव ‘मा लज्जया तव कथंचिदपह्नुतिर्भूत्’ इत्यत्र स्वाभिप्रायस्येति न्यूनम्॥

विक्लवाद्युक्तौ न दोषः।

यथा—‘गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्ला- पिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीनाथवा॥’

तद्विनाप्यर्थावगमेऽधिकपदम्।

‘दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम्। वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम॥’ अत्र भजिः सशब्दो युजिश्चाधिकः। एतद्विनाप्यर्थावगतेः। यथा च— ‘बिसकिसलयच्छेदपाथेयवन्तः’। अत्र ‘मत्वर्थीयाद्वरं बहुव्रीहिः’ इति मत्वर्थीयोऽधिकः। पाथेया इति तु युक्तम्॥

एकस्य पदस्य द्विस्त्रिरभिधानमुक्तपदम्।

‘नैकं पदं द्विः प्रयुञ्जीत’ इति कविसमयः। ‘सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम्। उद्गर्जद्विकटाट- वीगजघटापीठैकसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः॥’ अत्रैकशब्दः॥

लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः।

तत्र लाटानुप्रासे यथा— ‘चोलः क्रोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाटः पट्टबन्धं भजति न भजते गुर्जरो निर्भराणि। चेदिलींलायतेऽसौ क्षितिपतितिलकः कान्यकुब्जः सकुब्जो भोज त्वत्तन्त्रमात्रप्रसररसभयव्याकुलो राजलोकः॥’ गृहीतमुक्तके यथा—‘जयति क्षुण्णतिमि- रस्तिमिरान्धकवल्लभः22। वल्लवी (भी) कृतपूर्वाशः पूर्वाशातिलको रविः॥’ विहितानुवादे यथा—‘निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसा निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति। निर्विण्णः शुचमेति शोकविकलो बुद्ध्या परिभ्रश्यते निर्बुद्धिः क्षयमेत्यहो विधनता सर्वापदामास्पदम्॥’

असंबद्धपदन्यासोऽस्थानपदम्।

यथा— ‘मा भाङ्क्षीर्विभ्रमं भ्रूरधरविधुरता केयमस्यास्य रागं प्राणे प्राण्येव नायं कलयसि कलहं श्रद्धया किं त्रिशूलम्। इत्युद्यत्कोपकेतून्प्रकृतिमवय- वान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुख्यान्मरुदसुहृदसून्संहरन्नङ्घ्रिरंहः॥’ अत्र ‘वः’ इति पदं ‘मूर्ध्नि’ इतिपदसां-

निध्यादस्थाने पतितम्। यथा च—‘सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः। वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्षणेन॥’ अत्र ‘वसनम्’ इति पदं पूर्वार्धमतिक्रम्यास्थाने पतितम्।‘नार्धेकिंचिदसमाप्तम्’ इति कविसमयः। तथा ‘अपि निशान्ते’ इत्यत्रापि ‘निशान्तेऽपि’ इति युक्तम्॥

आनुपूर्व्या हीयमानप्रकर्षंपतत्प्रकर्षम्।

यथा—‘अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः। उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति॥ '

समाप्य पुनर्गृहीतं समाप्तपुनरात्तम्।

यथा—‘गाहाण23 रसा महिलाण बिब्भमा कइप (व)राण वयणाइं। कस्स न हरन्ति हिअअं बालाण य मम्मणुल्लावा॥’ अत्र ‘बालाण य मम्मणुल्लावा’ इति पदं संधितपुच्छप्रायं न स्वदते॥

विसर्गस्याभावोऽविसर्गत्वम्।

यथा—‘धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः। यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रदायिनः24॥’ अत्रोत्वेन लोपेन च विसर्गाभावः॥

वाक्यान्तरपदैरनुविद्धं संकीर्णम्।

यथा—‘कायं25 खायइ छुहिउ क्कूरं व्वल्लोइ निट्ठुरं रुट्ठो। सुणयं गिण्हइ कण्ठे हक्केइ अनत्ति यंथेरो॥’ अत्र ‘काकं क्षिपति, कूरं खादति, श्वानं भेषयति, नप्तारं कण्ठे गृह्णाति’ इति वक्तुमुचितम्॥

उक्तिप्रत्युक्तौ गुणः।

यथा— ‘कोऽयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी प्रिये हुंहुं तर्हि विमुञ्च कातरमते शौर्यावलेपक्रियाम्। मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किंकराः के वयं (?) इत्येवं रतिकामजल्पविषयः सोऽयं जिनः पातु वः॥’

वाक्यान्तरानुप्रवेशो गर्भितम्।

यथा— ‘मार्गे कर्दमदुस्तरे जलभृते गर्ता (?) शतैराकुले खिन्ने शाकटिके भरेऽतिनिभृते दूरोद्धुरे रोधसि। शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को भरम्॥’ अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते॥

प्रक्रमभङ्गो भग्नप्रक्रमत्वम्।

यथा— ‘बभूव भस्मैव कृताङ्गरागः कपालमेवामलशेखरश्रीः। उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः॥’ अत्र ‘मृगेन्द्रचर्मैव दुकूलमस्य’ इति युक्तम्। यथा— ‘ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थंतद्विसृष्टाः स्वमुद्ययुः॥’ अत्र26 ‘अनेन विसृष्टाः’ इति युक्तम्। यथा च—‘पाश्चात्यभागमिह सानुषु संनिषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम्। संपूर्णलब्धललनाललनोपमानमुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः॥’ अत्र ‘उत्सङ्गसंगतमृगस्य मृगाङ्कमूर्तेः’ इति युक्तम्॥

अघटमानसंबन्धोऽनन्वितम्।

यथा—‘प्रज्ञापुञ्जमयाज्ञानं राधा वेधस्य कारणम्। धाराया विपरीतस्य नूनं न क्षमते प्रभुः॥’ अत्र वैपरीत्यं शब्दकृतम्, उतार्थकृतमित्यनन्वयः॥

द्वयोरपि वाक्ययोः संबद्धमर्थान्तरैकवाचकम्।

यथा— ‘उदयमहिमरश्मिर्याति शीतांशुरस्तम्।’ अत्र ‘याति’ इति पदमुभयत्रापि संबध्यते॥

यत्र नेष्टसंबन्धप्रतिपत्तिस्तदभवन्मतयोगम्।

यथा—‘चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः। अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः॥’ अत्र भार्गवस्य निन्दा तात्पर्यम्। कृतवतेति परशौ प्रतीयते। कृतवत इति तु युक्तम्॥

कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसंदिग्धाक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्ग्यप्रसिद्धिविरुद्धविद्याविरुद्धनिर्हेतवोऽर्थदोषाः।

तत्र—

दुरवबोधः कष्टः।

** **यथा—‘शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोऽपि वक्रश्चक्रेणाकारि किं ते पविरवति न हि त्वाष्ट्रशत्रोद्युराष्ट्रम्। पाकाकेशोऽब्जनालान्यनल न लभसे भातुमित्यात्तदर्पो जल्पन्देवान्दिवौको रिपुरवधि यया सास्तु शान्त्यैशिवा वः॥’

प्रकृतानुपयोग्यपुष्टः।

यथा—‘अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम्। परिसरणमरुणचरणे रणरणकमकारणं कुरुते॥’ अत्र वर्णसावर्ण्यमेव, न वाच्यवैचित्र्य- कणिकापि काचिदस्तीत्यपुष्टार्थम्॥

पूर्वापरप्रतिबन्धोव्याहतत्वम्।

यथा— ‘जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिसुभगाः सन्त्येवान्ये मनो

मदयन्ति ये। मम तु यदियं जाता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥’ अत्र नवेन्दुकलादयो भावा यं प्रति न किंचिदिव, स एवोत्कर्षार्थं चन्द्रिकात्वमारोपयतीति व्याहतत्वम्॥

अविदग्धजनोचितं ग्राम्यम्।

यथा—‘छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम्।’

व्रीडाव्यञ्जकोऽश्लीलः।

यथा— ‘तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवरोमराजिः। नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥’ अत्र मध्यमणिशब्देनाश्लीलं व्यज्यते॥

अवश्यवाच्यार्थहीनः साकाङ्क्षः।

यथा— ‘अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धचरितो युद्धस्तया कन्यया। उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते॥’ अत्र स्त्रीरत्नं परस्येत्याकाङ्क्ष्यते॥

उभयार्थप्रतिपत्तिकृत्संदिग्धम्।

यथा27— ‘मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु। सेव्या नितम्बाः किल भूधराणामुत स्मरस्मेरविलासिनीनाम्॥’ अत्रकारणाद्यभावे संदेहः॥

क्रमपरिहाराद्यक्रमः।

तुरङ्गं मातङ्गं वा मे प्रयच्छ। रूपकं विंशोपकं वा गृहाण। भुक्त्वा स्नात्वा च देवानञ्चति। साहित्यं लक्षणं चाधीते। शतेनाधिका विंशतिः। सचापं बाणमादत्ते। वैश्यादयो वर्णाः॥

कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम्।

यथा—‘तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः। दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥’ अत्रेन्दुरिति पुनरुक्तम्॥

कारणोक्तौ तु गुणः।

यथा—‘तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा। कुर्यांहरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये॥’ अत्र—‘अहं कुसुमायुधः, हरस्तु पिनाकपाणिः, तथापि धैर्यच्युतिं करिष्यामि’ इति विशेषोक्तौगुणः॥

उचितसहचारिभेदो भिन्नसहचरत्वम्।

यथा—‘श्रुतेन वुद्धिर्व्यसनेन मूर्खता प्रियेण28नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता॥’ अत्र श्रुतबुद्ध्यादिभिरुत्कृष्टैः सह व्यसनमूर्खत्वयोर्निकृष्टयोरुक्तिः॥

विरुद्धार्थप्रतिभासकं विरुद्धव्यङ्ग्यम्।

यथा—‘स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयसे। सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम्॥’ अत्र तस्या अनेककामोऽभिलाषो ध्वन्यते॥

अन्यथा वर्णनात्प्रसिद्धिविरुद्धम्।

यथा—‘येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी। भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः॥’ अत्र शशाङ्कोदये पद्मविकाशोऽप्रसिद्धः॥

शास्त्रोक्तविपर्यासे विद्याविरुद्धः।

यथा—‘मृगीदृशः पल्लवरागकोमलो विभाति दन्तव्रणमुत्तराधरे।’ अत्र व्रणमधराधर एव कामशास्त्रे विहितं नोत्तराधरे॥

अहेतूक्तौ निर्हेतुः।

यथा— ‘चक्री चक्रारपङ्क्तिं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्तानक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः। रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः॥’ अत्र किमर्थं चक्री चक्रारपङ्क्तिमेव स्ववीतीति हेतुर्नोक्तः॥

लोकप्रसिद्धौ तु न दोषः।

यथा— ‘चन्द्रं गता पद्मगुणान्न भुङ्क्तेपद्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥’ अत्र रात्रौ पद्मस्य संकोचः। दिवा चन्द्रमसो निष्प्रभत्वं च लोके प्रसिद्धम् इति हेतुं नापेक्षते। परिवृत्तनियमानियमसामान्यविशेषविध्यनुवादादयः काव्यप्रकाशादावुक्ता अपि पूर्वोक्तेष्वेवान्तर्भवन्तीत्यस्माभिर्नोक्ताः॥

दोषानभिधाय गुणानाह—

कान्तिसौकुमार्यश्लेषार्थव्यक्तिसमाधिसमतौदार्यमाधुर्यौजःप्रसादा दश गुणाः।

तत्र—

लौकिकार्थानतिक्रमेणौज्ज्वल्यं कान्तिः।

यथा— ‘सजलनिबिडवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोच्छ्रिताभिः। रुचिरकनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तस्वस्तिका- भिर्वधूभिः॥’

अकाठिन्यं सौकुमार्यम्।

यथा—‘जिनवरगृहे कौन्तेयस्य प्रतिक्षणदाक्षणं चतुरतरुणीगीतैर्गीतैः समाहृतमानसा। इह हि हरिणी मन्दं मन्दं प्रयाति नभःपथे समजनि मृगीनेत्रा रात्रिस्ततोऽतिगरीयसी॥’

यत्र पदानि परस्परस्फूर्तानीव, स श्लेषः।

यथा— ‘जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः। सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्रयम्बकपादपांसवः॥’

यत्र सुखेनार्थप्रतीतिः सार्थव्यक्तिः।

यथा—‘बाले तिलकलेखेयं भाले भल्लीव राजते। भ्रूलताचापमाकृष्य न विद्मः कं हनिष्यति॥

अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः।

यथा—‘रिपुषु सहजतेजःपुञ्जलीलायितैस्तैरजनि जनितकम्पस्तत्सुतो भूमिभर्ता। प्रतिनृपतिवधूनां पल्लविन्यश्रुपूरैरधिवियदधिरूढा कीर्तिवल्लिर्य- दीया॥’

अविषमबन्धत्वं समता।

यथा— ‘मसृणचरणपातं गम्यतां भूः सदर्भा विरचयति च यान्तं मूर्ध्नि धर्मः कठोरः। तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च॥’

विकटबन्धत्वमौदार्यम्।

यथा— ‘वाचाला कनकमयध्वजाग्रसङ्गिव्यालोलस्फुरदुरुकिङ्किणीनिनादैः। चैत्याली जगति न कस्य राहडस्य प्रेङ्खन्ती भवति मनःप्रहर्षणीयम्॥’

यत्रानन्दममन्दं मनो द्रवति, तन्माधुर्यम्। शृङ्गारशान्तकरुणेषु क्रमेणाधिक्य (क) म्।

शृङ्गारे यथा—‘प्रियतमावदनेन्दुविलोकितैरसुहितः कलकण्ठयुवा नवः। प्रतिमुहुः प्रतिगत्य नभस्तलाद्वलति याति चलत्यथ यात्यथ॥’ शान्ते यथा— ‘यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति॥’ करुणे यथा—‘गृहिणीसचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वं वद किं न मे हृतम्॥’

दीप्तिहेतुरोजः। वीरबीभत्सरौद्रेषु क्रमेण विशेषतो रम्यम्।

तत्र वीरे यथा—‘शैलोत्तुङ्गतरङ्गवेगगमनप्रोत्कम्पमानावनिस्तम्बक्षोभितभैरवार्णवभवत्कल्पान्तकालभ्रमम्। क्रोधान्धाः खरदूषणत्रिशिरसः प्राप्तास्त एव द्रुतं ब्रूत ब्रूत भटाः

क्व स क्व स नरः शम्बूकजीवाहरः॥’ बीभत्से यथा—‘उत्कृत्योत्कृत्य कृत्तिंप्रथममथ पृथूच्छोफभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आत्तस्नाय्वन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति॥’रौद्रे यथा—‘चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य। स्त्यानावबद्धघनशोणितशोणशोचिरुत्तंसयिष्यसि कचांस्तव देवि भीमः॥’

झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः।

यथा— ‘पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः। लतावधूभ्यस्तरवोऽप्यवापुर्विनम्र शाखाभुजबन्धनानि॥’ इति। इति दण्डिवामनवाग्भटादिप्रणीता दश काव्यगुणाः। वयं तु माधुर्यौजःप्रसादलक्षणाँस्त्रीनेव गुणान्मन्यामहे। शेषास्तेष्वेवान्तर्भवन्ति। तद्यथा— माधुर्ये कान्तिः सौकुमार्यंच, ओजसि श्लेषः समाधिरुदारता च, प्रसादेऽर्थव्यक्त्तिःसमता चान्तर्भवति। यदाह—‘माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश। केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः॥ अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश॥’

माधुर्यगुणोपयुक्त्तावैदर्भी रीतिः। अस्यां च प्रायेण कोमलो बन्धोऽसमासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणौ ह्रस्वान्तरितौ च प्रयोज्यौ।

तत्र कोमलबन्धो यथा— ‘अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन। यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥’असमासो यथा—‘अमीभिः संसक्त्तैस्तव किमु फलं वारिद घटेद्यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः। अयं युक्त्तोव्यक्त्तंन तु सुखयितुं चातकपशुर्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान्॥’निजपञ्चमाक्रान्ता वर्गा यथा —‘शिञ्जानमञ्जुमञ्जीराश्चारुकाञ्चनकाञ्चयः। कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः॥’ ह्रस्वान्तरितौ रणौ यथा—‘दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते। रमणकृते रणरणकी पश्यति रमणीजनो दिव्यः॥’‘टवर्गरहिताः’इति वचनाट्टवर्गो न कार्यः। यथा—‘अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठिनाम्। कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर।’

ओजोगुणयुक्त्तागौडीया रीतिः। अस्यां च बन्धौद्धत्यं समासदैर्घ्यंसंयुक्तवर्णत्वं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थौयुक्त्तौरेफश्च कार्यः।

यथा—‘दंष्ट्रालः स्फुटकुन्दकुड्मलशतैर्जिह्वाल उल्लासिभिः किं किल्लिद्रुमपल्लवैः शितमुखैः प्रेङ्खन्नखः किंशुकैः। वल्लीजालविशालबालधिरसावत्रोज्जयन्ताचलो बन्धूकोद्धतलोचनः प्रकुरुते शार्दूलविक्रीडितम्॥’यथा च—‘मूर्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्त्तसंसक्त्तधाराधौतेशाङ्घ्रिप्रसादोपनत जयजगज्जातमिथ्यामहिम्नाम् कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः॥’

प्रसादगुणयुक्त्तापाञ्चाली। अत्र सुश्लिष्टो बन्धः प्रसिद्धानि च पदानि।

‘निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क। सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं किमपि॥’एताश्चोपनागरिका परुषा कोमलेति केचिदाहुः। यदाह— ‘माधुर्यव्यञ्जकैः शब्दैरुपनागरिकेष्यते। ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः॥ केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः॥’

इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ
दोषगुणविवेचनो नाम द्वितीयोऽध्यायः।


तृतीयोऽध्यायः।

** अलंकाराः खलु द्विविधाः। शब्दालंकारा अर्थालंकाराश्च।**

** तत्र तावदर्थमधिकृत्य शब्दः प्रवर्ततेऽतः प्रथममर्थालंकारा एवोदाह्रियन्ते। तद्यथा— जात्यु पमोत्प्रेक्षारूपकदीपकान्योक्त्तिसमासोक्त्यप्रस्तुतप्रशंसापर्यायोक्त्यतिशयोक्त्तिसहोक्त्याक्षेपविरोधार्थान्तरन्यासव्याजस्तुतिव्यतिरेकससंदेहापह्नुतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयान्यापरपरिसंख्याकारणमालानिदर्शनैकावलीयथासंख्यपरिकरोदात्तसमाहितविभावनान्योन्यमीलितविशेषपूर्वहेतुसारसूक्ष्मलेशप्रतीपपिहितव्याघातासंगतिहेतुश्लेषमतोत्तरोभयन्यासभावपर्यायव्याजोक्त्यधिकप्रत्यनीकानन्वयतद्गुणातद्गुणसंकरा आशीःप्रभृतयोऽर्थालंकाराः।**

तद्यथा (तत्र)—

यथास्थितवस्तुस्वरूपवर्णनमग्राम्यं जातिः। सा च त्रस्तार्भकदीनतिर्यग्युवतिप्रभृतिषु विशेषतो रम्या।

तत्र त्रस्तस्वरूपं यथा— ‘ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्। दर्भैरर्धावलीढैः श्रमविततमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति॥’अर्भकस्वरूपं यथा—‘उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्खन्सकमलमुखहासं वीक्षितः पद्मिनीभिः। प्रसृतमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः॥’दीनस्वरूपं यथा—‘बर्हावलीबहलकान्तिरुचो विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः। गुञ्जाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः॥’तिर्यक्स्वरूपं यथा— ‘मेदस्विनःसरभसापगतानभीकान्भङ्क्त्वा पराननडुहो मुहुराहवेण। ऊर्जस्वलेन सुरभीमनुनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा॥’योषित्स्वरूपं यथा— ‘उत्तालतालविचलद्वलयावलीकं सद्यः सखीजनविनिर्मितमण्डलीकम्। गायन्ति रासकविधाविह मेदपाटनार्योऽधुनापि तव नेमिकुमार कीर्तिम्॥’

चमत्कारि साम्यमुपमा। सा प्रत्ययाव्ययतुल्यार्थसमाप्तैश्चतुर्धा।

चमत्कारि सहृदयहृदयहारि उपमानोपमेययोः साम्यमुपमा। यथा—‘गत्या विभ्रममन्दया प्रतिपदं या राजहंसीयते यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत्सदैवाननम्। यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तां कुन्दाग्रदतीं त्यजञ्जिनपती राजीमतीं पातु वः॥’चमत्कारीति वचनात् ‘कुकुम्भ इव मुखम्’इत्यादौ सादृश्येषूपमां न कार्या। सा प्रत्ययाव्ययतुल्यार्थसमासभेदैश्चतुर्धा भवति॥

तत्रापि वत्कल्पदेश्यदेशीयप्रभृतयः प्रत्ययाः। अव्ययानि इव वायथाप्रभृतीनि। ‘तुल्यार्थास्तुल्यसंकाशाः(श)प्रकाशप्रतिरूपकाः। नीकाशसदृक्सदृशसदृक्षनिभसंनिभाः॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः। हार्यनुकारीसंवादिसजातीयानुवादिनः॥ प्रतिबिम्बप्रतिच्छन्दस्वरूप समसप्रभाः। सलक्षणसमानसाभाः सपक्षोपमितोपमाः॥ सवर्णतुलितौ शब्दौ प्रख्यौ प्रतिनिधी अपि। स्पर्धते जयति द्वेष्टि दृप्यति प्रतिगर्जति॥ आक्रोशत्यवजानाति कदर्थयति निन्दति। विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति॥ तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति। तेन सार्धंविगृह्णाति तस्य कक्षां विगाहते॥ तत्पदव्यां पदं धत्ते तुलां तेनाधिरोहति। तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति। तस्य चानुकरोतीति शब्दाः सादृश्यवस्तुनि॥’ समासो बहुव्रीहिप्रभृतिः। यथा— चन्द्रवदनेत्यादि। सा च धर्मवस्तुविपर्यासान्योन्यनियमानियमसमुच्चयातिशयोत्प्रेक्षाद्भुतमोहसंशयनिर्णयश्लेषसमानप्रशंसाचिख्यसाविरोधप्रतिषेधचटुतत्वाख्यानसाधारणभूतासंभावितबहुविक्रियामालावाक्यार्थप्रतिवस्तुतुल्ययोगहेतुरसनोपमादिभेदैरनेकधा भवति। तत्प्रबन्धस्तु दण्डिनोद्रष्टव्यः। इह तु ग्रन्थगौरवभयात्प्रकृतानुपयोगाच्च नोच्यते॥


लिङ्गवचन29वैषम्यं हीनाधिक्यं चोपमादोषः।

तत्र लिङ्गवचनवैषम्यं यथा—‘परमातेव निःस्नेहाः परकार्याणीव शीतलाः। सक्त्तवो भक्षिता राजन् शुद्धाः कुलवधूरिव॥’हीनाधिक्यं यथा—‘शुनीयं गृहदेवीव प्रत्यक्षा प्रतिभासते। खद्योत इव सर्वत्र प्रतापश्च विराजते॥’

अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा। तां चेवमन्येशङ्केध्रुवमित्यादिभिर्द्योतयेत।

इव यथा— ‘दिशतु विरतिलाभानन्तरं पार्श्वसर्पन(?)मिविनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः। त्रिजगदपगता यत्कर्तुमातान्यरूप(?)द्वय इव भगवान् वः संपदं नाभिसूनुः॥’मन्ये यथा— ‘नाभेयचैत्यसदने दिशि दक्षिणस्यां द्वाविंशतिं विदधता जिनमन्दिराणि। मन्ये निजाग्रजवरप्रभुराहडस्य पूर्णीकृतो जगति येन यशःशशाङ्कः॥’शङ्के यथा—‘विर–


निर्णयोपमा॥ शिशिरांशुप्रतिद्वन्द्वि श्रीमत्सुरभिगन्धि च। अम्भोजमिव ते वक्रमिति श्लेषोपमा मता॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा। बालेवोद्यानमालेयं सालकाननशोभिनी॥ पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम्। समानमपि सोत्सेकमिति निन्दोपमा मता॥ ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शंभुशिरोधृतः। तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमेष्यते॥ चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः। स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः॥ शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम्। परस्परविरोधीति सा विरोधोपमा मता॥ न जातु शक्त्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्। कलङ्किनो जडस्येति प्रतिषेधोपमैव सा॥ मृगेक्षणाङ्कं ते वक्रं मृगेणैवाङ्कितः शशी। तथापि सम एवासौ नोत्कर्षीति चटूपमा॥ न पद्मं मुखमेवेदं भृङ्गौ तु चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा॥ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव। आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा॥ सर्वपद्मप्रभासारः समाहृत इव क्वचित्। त्वदाननं विना भाति तामभूतोपमां विदुः॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः। परुषा वागितो वक्रादित्यसंभावितोपमा॥ चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः। स्पर्शस्तवेत्यतिशयं प्रथयन्ती बहूपमा॥ चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम्। तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा॥ पूष्ण्यातप इवाह्नीव पूषा व्योम्नीव वासरः। विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमाक्रमा॥वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते। एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा॥ वस्तु किंचिदुपन्यस्य व्यसनात्तत्सधर्मणः। साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा॥ अधिकेन समाहृत्य हीनमेकक्रियाविधौ। यद्वदन्ति स्मृता सेयं तुल्ययोगोपमा यथा॥ कान्त्या चन्द्रमसं धाम्ना सूर्यंधैर्येणचार्णवम्। राजन्ननुकरोषीति सैषा हेतूपमा स्मृता॥’इत्यादिरीत्या दण्डिग्रन्थे विस्तरः।

क्त्तसंध्यापुरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥’ध्रुवं यथा— ‘क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं विगाह्यते। ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदुप्रकृत्या च सुरार(?)मेव च॥’नूनं यथा— ‘यदङ्गनारूपसरूपतायाः कंचिद्गुणं भेदकमिच्छतीभिः। आराधितोद्धामनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः॥’

सादृश्याद्भेदेनारोपो रूपकम्।

सादृश्याद्धेतोर्भेदेन विषयविषयिणोर्निर्देशेनारोपोऽतथाभूतेऽपि वस्तुनि तथात्वेनाध्यवसायो रूपकम्। सादृश्यादिति वचनादायुर्घृतमित्यादौ कार्यकारणभावादारोपे न रूपकम्। भेदग्रहणादभेदेनारोपेऽतिशयोक्त्तिरेव, न रूपकम्। तच्चैकानेकमालासमस्तव्यस्तखण्डाखण्ड युक्त्तायुक्त्तविषमविशेषहेतुश्लेषोपमाव्यतिरेकाक्षेपसमाधानरूपकत्वापह्नवरसनापरम्परितादिभेदैरनेकधा। तत्रैकविषयं यथा—विश्वेभ्यो भूर्भुवः स्वः शतमखमुकुटश्लिष्टमुक्त्तामयूखस्नाताः श्रीनाभिसूनोः क्रमनखमणयो मङ्गलानि क्रियासुः। येषामुत्सङ्गविद्यां शुचिरुचिलहरीताण्डवाडम्बरायां संक्रामन्दुग्धसिन्धोः स्मरसि मुहुरसौ यामिनीकामिनीशः॥’अनेकविषयम्—‘कामं संघटितेष्टकान्तविभवे राजत्तुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमकलशे तत्कायदेवालये। तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे नेमुरनार्तिषुर्जगुरगुर्वैतालिकत्वं पुरः॥’एवमन्यदपि दण्ड्यादिशास्त्रेभ्योऽभ्यूह्यम्॥

आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्रार्थसंगतिस्तद्दीपकम्।

जात्या यथा— ‘उत्साहसंपन्नमदीर्घसूत्रिणं क्रियाविधिज्ञं व्यसनेष्वसक्त्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः॥’क्रियया यथा—‘शाठ्येन मित्रं कपटेन धर्मंपरोपतापेन समृद्धिभावम्। सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये व्यक्त्तमपण्डितास्ते॥’गुणेन यथा—‘जवो हि सप्तेः प्रथमं विभूषणं त्रपाङ्गनायाः कृशता तपस्विनः। विप्रस्य विद्यैव मुनेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम्॥’द्रव्येण यथा— ‘विष्णुना विक्रमस्थेन दानवानां विभूतयः। क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः॥’अस्य च कारणमालैकार्थार्थावृत्तिपदावृत्त्युभयावृत्त्यादयो भेदा भवन्ति। तत्र कारकदीपकं यथा— ‘एते मेलककन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः। हेलोन्मूलितनर्तितप्रचलितव्यावर्तितप्रेरितत्यक्तस्वीकृतनिह्नुतप्रकटितप्रोद्भूततीरद्रुमाः॥’इत्युत्तरार्धे कारकदीपकं यथा। एवमन्यदपि॥

उपमेयस्यैवोक्तावन्यप्रतीतिरन्योक्तिः।

यथा— ‘न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते बीजान्यङ्कुरगोचराणि कतिचित्सिद्ध्यन्ति तस्मिन्नपि। एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिं यामध्वन्यजनः स्वमातरमिव क्लान्तिच्छिदे धावति॥’सा क्वचिन्निन्दारूपा यथा—‘यत्तद्गर्जितमू–

र्जितं यदपि च प्रोद्दामसौदामनीदामाडम्बरमम्बरे विरचितं यच्चोन्नतं दूरतः। तेषां पर्यवसानमीदृशमिदं जातं यदम्भोधर द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्त्ताःपयोबिन्दवः॥’क्वचित्स्तुतिरूपा यथा— ‘क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशामापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि। मत्तेभेन्द्रविशालकुम्भदलनव्यापारबद्धस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी॥‘

उभयरूपा यथा—‘निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कशेरुस्थलीम्। जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान्। दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्त्रिणी पोत्रिणी॥’

उपमेयश्लेषोक्त्तौउपमानप्रतीतिः समासोक्त्तिः।

यथा—‘उपोढरागेण विलोलतारकं तथागृहीतं शशिना निशामुखम्। यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्॥’

उपमेयस्य किंचिदुक्त्तावप्रस्तुतप्रशंसा।

यथा— ‘लावण्यसिन्धुरपरैव हि केयमत्र यत्रापरे कदलिकाण्डमृणालदण्डाः। यत्रोत्पलानि शशिना सह संप्लवन्ते उन्मज्जति द्विरदकुम्भतटी च यत्र॥’

ध्वनिताभिधानं पर्यायोक्त्तिः।

वाच्यादिव्यतिरिक्त्तस्यार्थस्य प्रतीतिर्ध्वनितम्। तस्याभिधानं पर्यायेण समीहितार्थोक्त्तिःपर्यायोक्त्तिः। सा च वाच्ये विधिरूपे क्वचिन्निषेधरूपा यथा—‘भम धम्मिअ वीसत्थो सो सुणहो अज्ज मारिओ देण। गोलाणइकच्छकुडङ्गवासिणा दरिअसींहेण॥’30अत्र विश्रब्धो भ्रमेति विधिवाक्ये सांप्रतं तत्र संकेतस्थाननिकुञ्जे सिंहः समायातोऽस्तीति त्वया तत्र न गन्तव्यमिति निषेधः प्रतीयते॥ क्वचिन्निषेधे विधिर्यथा—‘एकाकिनी यदवला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम्। किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ॥’अत्र वासं किं याचसे समीहितक्रीडादिकमपि कुरुष्वेति विधिः प्रतीयते॥ क्वचिद्विधौ विध्यन्तरं यथा—‘मध्याह्नेऽतिखरे निदाघसमये तापं रवौ मुञ्चति शीते कुब्जवटे सुपत्रनिचये हे पान्थ विश्राम्यताम्। एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जा मे भणितुं त्वमेव चतुरो जानासि कालोचितम्॥’अत्र विश्राम्यतामिति विधौ मामुपभुङ्क्ष्वेति विध्यन्तरं प्रतीयते॥ क्वचिन्निषेधे निषेधान्तरं यथा— ‘वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणतावपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम्। त्वयारब्धं जन्म क्षपयितुमयुक्त्तेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्॥’अत्र नास्मत्कुले सतीकलङ्कोऽभूदिति निषेधे नैकभर्तृतत्परतया त्वयापि स्थातव्यमिति निषेधः प्रतीयते॥ क्वचिदविधिनिषेधे विधिर्यथा—‘शुभे वृद्धः कोऽयं गृहपरि–

वृढः किं तव पिता न मे भर्ता रात्रावपगतदृगन्यच्च बधिरः। हुहुंहुं श्रान्तोऽहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि ननु निर्दंशमशके॥’अत्राहं त्वदर्थी अत्रैव स्थास्यामीति विधिः प्रतीयते॥ क्वचिदप्यविधिनिषेधे निषेधो यथा—‘चंकभणियाइं31कत्तो कत्तो अद्धछिपि छियव्वाइं। उसति यंपि मुणिज्जइ छइल्लपुरे हयग्गामे॥’अत्रास्मिन्विदग्धजनमये ग्रामे प्रच्छन्नकामुकं प्रति त्वया रतिर्न कर्तव्येति कयाचित्कां प्रति निषेधः क्रियते॥ क्वचिद्विधिनिषधेयोर्विध्यन्तरं यथा—‘आसन्नकुडंगेज्जन्नादे31उलेबहुन्नदेउलेज्जयाणसंकिण्णे। थेरुत्तिपइ मा रुअसु पुत्ति दिण्णासि सुग्गामे॥’अत्र मा रोदीः, सुग्रामे दत्तासीति विधिनिषेधयोस्त्वया स्वैरं वर्तितव्यमिति विध्यन्तरं प्रतीयते॥ क्वचिद्विधिनिषेधयोर्निषेधान्तरम्। यथा—‘उच्चिणसु पडिअ कुसुमं मा धुन सेहालिअं हलिअसुन्हे \। एस अवसाणविरसो ससुरेण सुओ वलयसद्दो॥’32अत्र पतितं कुसुममुच्चिनु मा शेफालिकां धुनीहीति विधिनिषेधयोरभिधाने सखि, चौर्यरते प्रसक्त्तया त्वया वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते॥ क्वचिद्विधावनुभयं यथा—‘द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्त्तंसमासादितम्। आनीतं पुरतः शिरोंऽशुकमधःक्लृप्ते चले लोचने वाचां तच्च (त्र) निवारितं विव(प्रस)रणं संकोचिते दोर्लते॥’ अत्र तयैतत्कृतमिति विधौ सानुरागिणीवेति न प्रतीयते॥ क्वचिन्निषेधेऽनुभयं यथा— ‘निःशेषच्युतचन्दनं स्तनतटं प्रोन्मुक्त्तरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्॥’अत्र त्वं तस्यान्तिकं न गतासीति निषेधे प्रतीयमानेऽपि स त्वया मत्प्रियः कामित इति व्यज्यते॥ क्वचिद्विधिनिषेधयोरनुभयं यथा—‘चन्द तुमं न गणिज्जसि जाव इमो वहलपत्तलछाओ। गामस्स तिलअभूओ सहइ वडो किण्हपरकुव्व॥’33चन्द्र त्वं न गण्यसे यावदेष वटः शोभते इति विधिनिषेधयोरुक्त्तवनेनापि वटेन चौर्यरतादिगोपनं भवतीति व्यज्यते॥ क्वचिदविधिनिषेधे तूभयं यथा—‘अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः॥’एवमादिभेदैर्ध्वनितोक्त्तर्भवति। परं ग्रन्थगौरवभयादस्माभिर्नोदाह्रियते। स प्रपञ्चस्त्वानन्दवर्धनादवगन्तव्यः॥

अत्युक्त्तिरतिशयोक्त्ति।

यथा— ‘त्वद्दारितारितरुणीश्व सितानलेन संमूर्च्छितोर्मिषु महोदधिषु क्षितीशाः। अन्त–

र्लुलद्गिरिपरस्परशृङ्गसङ्गघोरारवैर्मुररिपोरपयाति निद्रा॥’यथा च— ‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्। तेनोपमीयेत तमालनीलमामुक्त्तमुक्त्तलतमस्य वक्षः॥’

सहभावकथनं सहोक्त्तिः।

यथा— ‘सह दिअसनिसाइँ दीहरा सासदण्डा सह मणिवलएहिं बाहधारा गलन्ति। तुह सुहअ विओए तीइ उव्विग्गरीए सह अ तणुलदाए दुव्वला जीविदासा॥3435

प्रतिषेधपुरःसरोक्त्तिराक्षेपः।

यत्रोक्त्तौकस्यचिदुपमानादेर्वस्तुनः प्रतिषेधः प्रतीयते स आक्षेपः। यथा—‘तद्वक्रं यदि मुद्रिता शशिकला तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेद्गिरो धिङ्मधु। सा चेत्कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्त्तवस्तुविरसः सृष्टिक्रमो वेधसः॥’यथा च—‘एएहि किं पि कीएवि कए णिक्किव भणामि अलमहवा। अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सम्॥’35अयं च भूतभविष्यद्वर्तमानधर्मका-रणकार्यानुज्ञाप्रभुत्वानादराशीर्वचनपरुषसाचिव्यपरवशोपायरोषानुशयार्थान्तरप्रतिषेधादिभेदैरनेकधा भवति। तस्य च नात्र विस्तरः॥

अविरोधेऽपि विरोधप्रतीतिर्विरोधः। साक्षाद्विरोधे तु काव्यत्वासंभवात्।

यथा—‘दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः। चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः॥’यथा च— ‘ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्त्तोऽपि प्रायशो विप्रयुक्त्तः। सद्वेषोऽपि द्वेषनिर्मुक्त्तचित्तः को वा तादृग्दृश्यते श्रूयते वा॥’

विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः। साधर्म्येण वैधर्म्येण च।

तत्र साधर्म्येण यथा— ‘अधिकुचतटं पौष्पं दाम श्रुती किसलार्चिते विसवलयितौ पाणी श्रोणीलता रसनाञ्चिता। तदपि च तनोर्लक्ष्मीरस्याः स्फुरत्यपदं गिरां प्रकृतिसुभगे पात्रे वेषो य एव स एव वा॥’वैधर्म्येण यथा—‘अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम्। त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः॥’अयं च श्लेषाविद्धविश्वव्यापिविशेषस्थविरोधवदयुक्त्तकारियुक्त्तायुक्त्तादिभेदैरनेकधा भवति। तत्र श्लेषाविद्धो यथा—‘दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव॥’

स्तुतौ निन्दा निन्दायां स्तुतिर्यत्र पर्यवसीयते सा व्याजस्तुतिः।

स्तुतौ निन्दा यथा— ‘हेहेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः। तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः॥’निन्दायां स्तुतिर्यथा—‘कीर्तिस्तव कालपात्मजेन्दो भ्रमतितरां मुवनं समग्रमेतत्। अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं भवामः॥’ यथा च— ‘अस्माकं परमन्दिरस्य चरितं वक्त्तुंन युक्त्तंभवेत्स्वामी त्वं कथयामि तेन भवतः किंचित्प्रियादूषणम्। स्वामिन् राम कृतस्त्वया रणगृहे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया॥’

साम्यस्य भेदकारणस्य चोक्त्तौयद्द्वयोर्भेदकारणं स व्यतिरेकः।

यत्र साम्यस्य सादृश्यस्योक्त्तावनुक्त्तौवा भेदकारणस्य च धर्मस्योक्त्तावनुक्त्तौवा यद्द्वयोरुपमानोपमेययोर्भेदकारणं स व्यतिरेकः। तत्र सादृश्यभेदयोरुक्त्तौयथा—’रक्त्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्त्ताःसखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वंतुल्यमशोक केवलमहं धात्रा सशोकः कृतः॥’

स च सदृशस्वजाति एकानेकश्लेषाक्षेपहेतुभेदैरनेकधा भवति।

तत्र सदृशव्यतिरेको यथा—‘त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी। भ्रमद्भ्रमरमम्भोजं लोलदृष्टिमुखं तु ते॥’ ‘विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्। अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥’ स्वजातिव्यतिरेको यथा—‘असंमृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्त्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे॥’

सादृश्यात्प्रतिपत्तुः संशयः ससंदेहः। स च केवलो निर्णयान्तश्च।

तत्र केवलो यथा— ‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं तु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥’ निर्णयगर्भो यथा—‘अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः॥’ निर्णयान्तो द्विधा—हेतोरुक्त्तावनुक्त्तौच। तत्र हेतोरुक्त्तौयथा—‘किं नन्दी किं मुरारिः किमु रतिरमणः किं हरः किं कुबेरः किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुमारः। नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष क्रीडां कर्तुं प्रवृत्तस्त्वयमिह हि हले भूपतिर्भोजदेवः॥’

प्रकृतस्य सदृशेनापलापोऽपह्नुतिः।

यथा— ‘बाले नैते पयोदाः सुरपतिकरिणो नावकाः (?) कर्णपूराः, सौदामन्योऽपि

नैताः कनकमयमिदं भूषणं वारणानाम्। नैतत्तोयं नभस्तः पतति मदजलं वारिधारावधूतं तत्किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृडित्यश्रुपातैः॥’

समेनासमेन वा व्यत्ययः परिवृत्तिः।

निकृष्टेनोत्कृष्टेन वस्तुना व्यत्ययो व्यतिहारः परिवृत्तिः। यथा—‘लतानामेतासामुदितकुसुमानां मरुदयं निजं लास्यं दत्त्वा श्रयति बहुशो गन्धमसमम्। लतास्त्वध्वन्यानामहह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम्॥’

हेतोरर्थप्रतिपत्तिरनुमानम्।

यथा—‘सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः। कथमन्यथा ललाटे यावकरसतिलकपङक्त्तिरियम्॥’

सदृशदर्शनात्पूर्वार्थस्मरणं स्मृतिः।

यथा— ‘तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः। मद्नेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि॥’ यथा च —‘अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥’

मिथ्याज्ञानं भ्रान्तिः।

यथा— ‘वृक्षश्रेणीछन्नसमस्तान्तरमार्गे रम्योद्याने कालपसूनो भवदीये। मेघभ्रान्त्याभानुकरौघादर्शिनो(?)मी केकायन्ते मत्तमयूरास्ततबर्हाः॥’ यथा वा—‘पन्थानमाशु विजहीहि पुरा स्तनौ ते पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः। स्तम्बेरमः परिणिनं सुरसावुपैति शृङ्गैरगद्यत ससंभ्रममेवमेका॥’

असंभावितसंबन्धः कार्याभावेऽनर्थश्च विषमम्।

यत्रासंभावितस्याघटमानस्यार्थस्य संबन्धः क्रियते, तद्विषमम्। यथा—‘क्व चायं भूभागः क्व च गगनमेतद्व्यवहितं तथाप्यम्भोराशिर्विकसति सितांशोः समुदये। वृथा प्रत्यासत्तिः किमु किमपि मृष्यं तदपरं यदत्यन्तं भावान्घटयति विदूरानपि मिथः॥ ’

यत्र न केवलं कार्यस्यासिद्धिः किं तु प्रत्युतानर्थश्च तदपि विषमम्।

यथा— ‘प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मितस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरो भवान्। नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्त्रक्षस्यैतद्विलक्षमवस्थितम्॥’

औचित्येनोत्कृष्टापकृष्टयोर्योगः समम्।

** **उत्कृष्टयोर्यथा—‘शशिनमुपगतेयं कौमुदी मेघमुक्त्तंजलनिधिमनुरूपं जह्नुकन्यावतीर्णा। इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥’ निकृष्टयोर्य–

था— ‘न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौरहस्त्वाम्। व्रजविटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः॥’

हेतोर्हेत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुच्चयः।

यथा—‘पउरजुवाणो गामो महुमासो जोव्वणंपइठ्ठेरो। साहीणा जुण्णसुरा असही मा होउ किं मरउ॥’36यथा च—‘स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता वृहस्पतिश्च॥’

अनेकेषामेकत्र निबन्धस्त्वन्यः।

यथा—‘माहिषं दधि सशर्करं पयः कालिदासकविता नवं वयः। शारदेन्दुरबला च कोमला स्वर्गशेषमुपभुञ्जते जनाः॥’

गुणक्रियायां युगपदभिधानमपरः।

यथा—‘अलसलुलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः। हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च॥’

पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसंख्या।

यथा— कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥’

पूर्वस्योत्तरमुत्तरं प्रति हेतुत्वे कारणमाला।

यथा—‘जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः॥’

प्रस्तुतार्थप्रसिद्ध्यै निदर्शनं दृष्टान्तः। साधर्म्येण वैधर्म्येण च।

यथा—‘महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्। अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमालाः सविशेषसङ्गाः॥’ यथा च—‘नवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीषतः। भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः॥’

पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली।

यथा—‘पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपतिरस्कृताङ्ग्यः। रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य॥’ यथा च—‘न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम्। न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः॥’

उद्देशक्रमेणार्थानां प्रतिनिर्देशो यथासंख्यम्।

यथा—‘मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्। लुब्धकधीवरपिशुना निःकारणवैरिणो जगति॥’

साभिप्रायविशेषणैर्भक्त्तिः37परिकरः।

यथा— ‘वल्मीकः किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता। सर्वंसाध्वथ [सं] रुणद्धि विरहक्षामस्य रामस्य चेत्त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुङ्खं शरम्॥’

वस्तुसंपत्त्या महदुपलक्षणेन च वर्णनमुदात्तम्।

यथा— ‘उच्चीयन्तेऽस्य वेश्मन्यवि…रहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चुकोटिच्युतानि। यस्मिन्दातर्यकस्माच्चटुलबहुकराकृष्टहारावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकौघाः॥’ यथा च—‘मुक्त्ताःकेलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्निमन्थरचलद्बालाङ्घ्रिलाक्षारुणाः। दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्त्वत्त्यागलीलायितम्॥’ महदुपलक्षणं यथा—‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः’

कार्यमारभमाणस्य दैवादुपायसंपत्तिः समीहितम्।

यथा—‘मनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम्। तावन्नवाम्भोधरधीरनादप्रबोधितः सौधशिखी चुकूज॥’

कारणाभावेऽपि कार्योपक्षेपो विभावना।

यथा—‘अनाहूतसहायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसंबन्धबान्धवः॥’ यथा च—‘वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्त्तभासः। भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥’

यत्र क्रियया परस्परं कार्यकारित्वं तदन्योन्यम्।

यथा—‘कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य। अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः॥’

नित्येनागन्तुना वापरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम्।

नित्येन यथा— ‘तिर्यक्प्रेक्षिततरले सुस्निग्धे च स्वभावतस्तस्याः। अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत॥’ आगन्तुकेन यथा—‘मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु। कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन्॥’

प्रसिद्धाधारं विनाप्याधेयावस्थानं विशेषः।

यथा— ‘दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥’

अर्वाचीनस्यार्थस्य पृथगभिधानं पूर्वम्।

यथा38— ‘हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन। चरमं रमणीवल्लभ लोचनविषयं त्वया भजता॥’

कार्यकारणयोरभेदो हेतुः(२)।

यथा— ‘अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः॥’

समुदायादुत्कृष्टोत्कृष्टनिर्धारणं सारम्॥

यथा—‘संसारे मानुष्यं सारं मानुष्यके च कौलीन्यम्। कौलीन्ये धर्मित्वं धर्मित्वे चापि सदयत्वम्॥’

इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम्।

यथा— ‘अद्यापि तन्मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या। जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या॥’

कार्यतो गुणदोषविपर्ययो लेशः।

तत्र गुणस्य दोषीभावो यथा— ‘द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्त्तिकमालिकास्तदनु च क्षिप्ताः पदैः पञ्चषैः। हित्वा भारपरम्परामिति जवात्त्वद्दर्शनोत्कण्ठिता तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति॥’दोषस्य गुणीभावो यथा— ‘सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव परापवादचकितास्तिष्ठन्त्यहो दुष्करम्। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्त्तायुक्त्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः॥’

निन्दासमता वोपमानेनोपमेयस्य भङ्ग्यास्तुतिर्वा प्रतीपम्।

निन्दा यथा— ‘वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत्। मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत्॥’समता यथा—‘गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥’

एकत्राधारे यत्राधेयद्वयस्यैकेनैकं पिधीयते तत्पिहितम्।

यथा— ‘अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एकोऽपि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः॥’


(२)“नन्वेवमत्र कार्यकारणभावालंकृतिप्रपञ्चनप्रसङ्गेन हेत्वलंकारोऽपि लक्षणार्हः। उक्त्तश्चायं भट्टोद्भट्टेन—‘हेतुमता सह हेतोरभिधानमभेदतो हेतुः’इति। तत्किं न लक्षितः— इति चेत् ‘आयुर्घृतम्’इत्यादिरूपस्यास्य वैचित्र्याभावेनालंकारत्वस्यैवाभावात्।” इत्यादि कारणमालालंकारप्रकरणे काव्यप्रदीपे द्रष्टव्यम्।

एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघातः।

यथा— ‘दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः॥’
यत्र कार्यकारणयोर्युगपद्भिन्नदेशतयोपलम्भः सा असंगतिः।

यथा— ‘अनया जघनापायभयमन्थरया तया। अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम्॥’

विकारहेतावप्यविकृतिरहेतुः।

यथा—‘निद्रानिवृत्तावुदिते द्युरत्नेसखीजने द्वारपदं पराप्ते। श्लथीकृताश्लेषरसे भुजंगे चचाल नालिङ्गनतो नताङ्गी॥’विशेषोक्त्तिरिति काव्यप्रकाशः।

एकस्मिन्वाक्येऽनेकार्थता श्लेषः।

यथा—‘उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति श्रियम्। रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः॥’अत्रैकस्मिन्पक्षे विभाकरो नाम राजा।

प्रकृतमुत्क्षिप्य वक्त्तायदन्यथा मन्यते तन्मतम्।

यथा—‘यदेतत्कन्यानामुरसि तरुणीसङ्गसमये कृतोद्भेदं किंचित्पुलकमिदमाहुः किल जनाः। मतिस्त्वेषास्माकं कुचयुगतटीचुम्बकशिलासमावेशाकृष्टस्मरशरशलाकोत्कर इव॥’

उत्तरवचनश्रवणात्प्रश्नोन्नयनमुत्तरोत्तरम्।

यथा—‘गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः। पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥’

सामान्यं सामान्येन यत्समर्थ्यते स उभयन्यासः।

** **यथा—‘आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे। विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुशलोल्लिखितं सहन्ते॥’

यत्र प्रतीयमानोऽर्थो वाच्योपयोगी स भावः।

यथा— ‘ग्रामतरुणं तरुण्या नववञ्जलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया॥’

एकमनेकस्मिन्क्रमेण भवति स पर्यायः।

यथा— ‘तेनामरवधूहस्तसदयालूनपल्लवाः। अभिज्ञाछेदयातानां क्रियन्ते नन्दनद्रुमाः॥’

उद्भूतवस्तुनश्छद्मना निगूहनं व्याजोक्त्तिः।

यथा— ‘शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यायामभङ्गाकुलः। हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः॥’

आधारादाधेयस्या(धेयादाधारस्य वा)धिक्येऽधिकम्।

तत्राधारादाधेयस्याधिक्यं यथा—‘युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः॥’आधेयादाधारस्याधिक्यं यथा— ‘नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन। रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत्॥’

प्रतिपक्षबाधाशक्तौतदीयतिरस्कारे प्रत्यनीकम्।

यथा— ‘चक्रेण विष्णोः कृतशीर्षशेषः प्रहर्तुमिच्छन्नपि नास्य शक्तः। राहुः समानाख्यतयैव वध्यान् तमोमिषः सन् भजति स्म चक्रान्॥’

एकस्यैवोपमानोपमेयत्वेऽनन्वयः।

यथा— ‘गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव॥’

यत्र वस्तु स्वगुणमुत्सृज्यान्यगुणयोगात्तद्गुणतामेति स तद्गुणः।

यथा— ‘विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः॥’

तत्संश्लिष्टमपि वस्तु यद्गुणं नाश्रयति सोऽतद्गुणः।

यथा—‘सज्जणसङ्गेण विदुज्जणस्स कसुसिमानओसरइं। ससिमण्डलमब्भपरिहिउहिकिस णुव्विय कुरंगो॥’

स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपद्येन वा अलंकाराणामेकत्रावस्थानं संकरः।

तत्र परस्परनिरापेक्ष्यं स्वातन्त्र्यं यथा—‘मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुद्धतध्वनिभृता निभृताक्षरमुज्जगे॥’अत्र यमकानुप्रासयोः शब्दालंकारयोः संकरः। ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥’अत्रोत्प्रेक्षोपमयोः॥ यथा—‘हुतहुताशनमर्मरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः। निपतिताः परितः पथिकव्रजानुपरि ते परिते पुरतो भृशम्॥’अत्र यमकोत्प्रेक्षयोः शब्दा(र्था)लंकारयोः। उपकारकत्वमङ्गत्वम्। यथा—‘हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव। कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः॥’अत्र श्लेष उपमाया अङ्गम् संशय एकतरस्यानिर्णयः। यथा— ‘नयनानन्ददायीन्दोर्बिम्बमेतत्पसीदति। अधुनापि निरुद्धाशमविशीर्णमिदं तमः॥’अत्र मुखेन सहाभेदारोपात्किमतिशयोक्तिः। किमेतदिति मुखं निर्दिश्य इन्दुसमारोपणात् रूपकम्। किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः। अथैतयोः समुच्चयविवक्षायां दीपकम्। किं प्रदोषवर्णने विशेषणसाम्यात्समासोक्तिः। किं मदनोद्दीपककालो वर्तत इति पर्यायोक्तिरित्यनेकालंकारसंशयः। एकस्मिन्पदेऽर्थशब्दालंकारयोरनुप्रवेश एकपद्यम्। यथा—‘प्रथममरुणच्छायस्तावत्ततः कन–

कप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः। उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः॥’अत्र जात्यनुप्रासयोः॥

इष्टार्थस्याशंसनमाशीः।

यथा— ‘अजस्रं यस्योच्चैः स्फुरदुरुभुजस्तम्भशिखरः स्थितो मुग्धस्निग्धां जननिचयरोचिः कचचयः। प्रशस्तिप्रागल्भ्यं वहति मदमोहारिविजये श्रियं वः स श्रीमान् प्रथमजिननाथः प्रथयतु॥’

इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानस्वोपज्ञकाव्यानुशासन–
वृत्तौ अर्थालङ्कारनिरूपणो नाम तृतीयोऽध्यायः।


चतुर्थोऽध्यायः।

अर्थालंकारानुक्त्वा शब्दालंकारानाह—

चित्रश्लेषानुप्रासवक्रोक्तियुक्तियमकपुनरुक्तवदाभासाः षट् शब्दालंकाराः।

क्रमेण लक्षयति—

आकारगतिस्वरव्यञ्जनस्थाननियमच्युतगुप्तादिभेदैरनेकधा चित्रम्। बन्धस्य खड्गधनुर्बाणमुसलशूलशक्तिहलच्छत्रपद्ममुरजचक्रस्वस्तिकाद्याकारसादृश्यादाकारचित्रम्।

तत्र खड्गबन्धो यथा—‘भव्यानां परमानन्दकन्दोद्भेदघनाघनः। नतामरशिरोरत्नवि-वर्धितनखप्रभा॥’‘भवाब्धिपरपारान्तप्रापणा पोतसंनिभा। भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः॥’धनुर्बन्धो यथा—‘अनन्तज्ञानसंताननिध्यातभुवनत्रयः। यतीन्द्रसेव्यचरणः श्रियेऽनन्तजिनोऽस्तु वः॥’बाणबन्धो यथा—‘मुखेन्दुचन्द्रिकापूररतामरचकोरकः। करोतु धर्मो निर्मारः सुरलोकनतः श्रियम्॥’मुसलबन्धो यथा—‘सदाशान्तिर्जगन्नाथः श्रियं शान्तिंतनोतु नः। नतशान्तशचीनाथः कृतशान्त्यर्चनो हि सः॥’शूलबन्धो यथा— ‘नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्रः कुन्थ्वितिसंज्ञकः। करिराजकराकारकरो मामवताज्जिनः॥’शक्तिबन्धो यथा—‘पदं श्रियामराभिख्यो भित्कर्मारेर्जिनः परः। रदनच्छेदधामोमो मोदायास्तु शिवप्रदः॥’अस्य व्याख्या —अराभिख्योऽराभिधानो जिनो मोदायास्तु। कथंभूतः। भित्कर्मारेर्भिनत्तीति भित् भेदकः। कस्य। कर्मारेः कर्मरूपशत्रोः। पुनः कथंभूतः। रदनच्छेदधामोमः रदनच्छेदधामा करिकलभदन्तच्छेदधवला उमा कीर्तिर्यस्य स तादृशः। शेषं संबोधनम्। हलबन्धो यथा—‘श्रियं वितनुतां मल्लिसखा जिनमतल्लिका। कामं कुन्दविभोदाररदांशुहततामसः॥’जिनमतल्लिका जिनप्रधानं तमसां समूहस्तामसम्॥ छत्रबन्धो यथा— ‘श्रिये श्रीसुव्रतो देवः श्रितो मुनिभिरस्तु वः। नरामरनमन्मौलिलिह्यमानक्रमो जिनः॥’पद्मबन्धो यथा—‘एनश्छिनत्तु न इनः सुनयेन पुनः पुनः। ध्यानज्ञान–

धनस्थानः स्वनमिर्ध्वनदनः स्वनः॥’तिष्ठन्त्यस्मिन्निति स्थानः। अधिकरणेऽत्रानप्रत्ययः। ध्यानज्ञानधनस्थानः शब्दायमानशकटस्वनः। अत्र कविनात्मशक्त्यतिशयात् गोमूत्रिकाचित्रमप्यन्तर्भावितम्॥ मुरजबन्धो यथा—‘नेमिनाथ जिनाविघ्नं शमिनां तनु नाविभ। भविना नुत नागश्रीस्त्वां विनाथ घनागसाम्॥‘व्याख्या—हे नेमिनाथ जिन शमिनामविघ्नं विघ्नाभावं तनु। कथंभूत। नाविभ न निःप्रभ अपि तु सप्रभ। तथा भविना संसारिणा नुत। भविनेति जातावेकवचनम्। तथा त्वां विना घनागसां घनपापानां पुरुषाणां न अगश्रीर्भवति। न गच्छतीति अगा अविनश्वरेत्यर्थः। अयमभिप्रायः— सपापा अपि पुरुषास्त्वां सेवमानाः पापमुक्तेरश्रियं लभन्ते। कविनामाङ्कितो य उरश्चक्रबन्धो यथा—‘सर्वंकृन्ततु कल्मषं स भवतो वाग्भर्त्सितासौहृदः सद्रीतिश्रितविश्वपार्श्वभवहृत्कूटस्थिरोऽमर्महा। निर्मारः परवारिदप्रभतनुर्यस्य स्फुटा हारभाभात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा॥’ व्याख्या—भवं हरन्तीति भवहृज्जिनः। पार्श्वाभिधानो। भवहृत् पार्श्वजिन इत्यर्थः। सति शोभना रीतिर्यस्य स सद्रीतिः। श्रितं विश्वं जगद्यस्य स श्रितविश्वः। सद्रीतिश्चसौ श्रितविश्वश्चसद्रीतिश्रितविश्वः। स चासौ पार्श्वभवहृच्च सद्रीतिश्रितपार्श्वभवहृत् भवतः सर्वंकल्मषं कृन्ततु छिनत्तु। कथंभूतः। कूटस्थिरः। कूटं गिरिशृङ्गं तद्वत्स्थिरो निश्चलः। पुनः कथंभूतः। अमर्महा। न मर्माणि हन्तीति अमर्महा। निर्मारो निष्कंदर्पः। परवारिदप्रभा श्यामवर्णा तनुर्यस्य। पुनः कथंभूतः। वाग्भर्त्सितासौहृदः। वाचा वचनेनापि भर्त्सितं निराकृतमसौहृदमवात्सल्यं येन। यस्य पार्श्वजिनस्य स्फुटा प्रकटा हारप्रभा कीर्तिरभात्। कथंभूता सकलेऽवनितले दत्तेशहासप्रभा ईशस्य हासप्रभा धवलितेत्यर्थः। सा दत्ता यया सा तथोक्ता। स्वस्तिकबन्धो यथा— ‘प्रसीद स सदा वीर प्रभो धीर रजोम्बुद। प्रति मां ददस्वश्रेयः प्रधानायय सद्यशः॥’ हे वीर स प्रसिद्ध। सेति वीरस्य विशेषणम्। प्रसीद। कथंभूत। रजोम्बुद। तथा मां प्रति श्रेयो ददस्व। प्रधान उत्तम। तथा सद्यश आयय प्रापय। ‘अय गतौ’। अयमानं प्रयुङ्क्ते आययति। आदिशब्दादष्टारद्वादशारचक्रसप्तचक्रिकगोमूत्रिकानन्द्यावर्त- भृङ्गारचामरघण्टाप्रभृतीनि तत्सदृशनामान्यूह्यानि॥

गतिचित्रं सर्वतोभद्रगतप्रत्यागतगोमूत्रिकार्धभ्रमरथपदतुरगपदगजपदादिभेदैरनेकधा भवति।

** **तत्र सर्वतोभद्रंयथा— ‘देवाकानिनि39 कावादे वाहिकास्वस्वकाहि वा। काकारेभभरे काका निस्वभव्यव्यभस्वनि॥,’ ‘वारणागगभीरा40 सा साराभीगगणारवा। कारितारिवधा सेना नासेधा वरितारिका॥’ एवमन्यदपि॥

ह्रस्वादिस्वरनियमो स्वरचित्रम्।

यथा— ‘जय41 मदनगजनमन वरकमलभगतमन। गतजनन मदमरण भव भयगनरशरण॥’अत्र सर्वत्र ह्रस्वोऽकारः। एवं ह्रस्वेनेकारादिना दीर्घेणाकारादिना द्वित्र्यादिस्वरैश्चोदाहार्यम्॥

एकद्वित्र्यादिव्यञ्जननियमो व्यञ्जनचित्रम्।

एकव्यञ्जनं यथा—‘किकांकुकुं41 ककेकाङ्क केकिकौकैककः ककः। ककुकौ कः कका काकः कक्काकुकुक कां ककुः॥’ द्विव्यञ्जनचित्रं यथा—‘दूरादारद41रोदार दूरोदरदुरादुरः। दरदी दद्गुरदरा दारं दारं दरैरदान्॥’एवं त्र्यादिव्यञ्जनचित्रं उदाहार्यम्॥

कण्ठतालुमूर्धदन्तोष्ठादिस्थाननियमः स्थानचित्रम्।

यथा—‘सूनुसूनूदितिसूनुं41 निन्युर्युद्भूमिमुब्भितुम्। स्थितिमूत्वुःश्रुतिर्नीतिस्मृती इषु रुजीदृशी॥’अकण्ठ्योऽयम्। ‘आसाद्य41 सात्वतो वाणं प्राणर्ति कृष्णसर्पवत्। तत्पृष्टो तारथोपस्थं मोहापन्नोपतत्परः॥’अतालव्योऽयम्। ‘भौमसूनुं समायान्तं समायान्तं महाभुजः। अभ्यगच्छद्वासुदेवो वासुदेवो मधुं यथा॥’अमूर्धन्यः। ‘उभयोः शरराजीभिरराजीभिश्चमूकयोः। अर्कांशुश्रीः पराभाजि पराभाजि च खाजिरे॥’अदन्त्यः। ‘नाचालीत्सात्यकिः शौर्यात्स तेन निहतस्तथा। गिरिः कररदाघातैः करिणा कीर्तयेऽत्र किम्॥’निरौष्ठ्यः॥

मात्राबिन्दुर्वर्णादिभेदैश्च्युतमनेकधा।

तत्र मात्राच्युतकं यथा—‘भूतियोजितभर्तव्यः42 कृपणाक्रान्तमण्डलः। महापदशुभावास त्वत्समः कुपतिः कुतः॥’अत्र—कृषणेति आकारस्य च्युतिः। बिन्दुच्युतकं यथा— ‘सहसा नलिनी ताराशारितागगनावनिः। शोभते भूमिपालानां सभा च विबुधाश्रिता॥’सह हंसेन वर्तते सहंसा। वर्णच्युतकं यथा—‘परहिततत्परो दुरितवारहरो भगवान्भयनाशको जगति वीर इति सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं शिवोद्भवो भवक्षयनाशको जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः प्रथितशान्तिरलं वृषभो जयी जिनो मदमदनापहः शिवसुखं तनुतां भवतां मुहुर्मुहुः॥’अत्र सिद्धिछन्दसि नेमिनाथस्तुतिः। अत्र चान्तरवृत्तम्—‘परहिततत्परो दुरितवारहरो भगवान्भवभयनाशको जगति वीर इति। सुरवन्दितः प्रथितंशान्तिरलं मदनापहः शिवसुखं तनुताम्॥’अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुतिः। ‘दुरितवारहरो भगवाञ्शिवो जगति वीर इति प्रभवः श्रियाः। प्रथितशान्तिरलं वृषभो जयी शिवसुखं तनुतां भवतां मुहुः॥’अत्र द्रुतविलम्बितछन्दसि वृषभनाथस्तुतिः॥

गुप्तकं क्रियाकारकसंबन्धविषयत्वेन चतुर्धा।

तत्र क्रियागुप्तकम्— ‘प्रत्यक्षेपि परोक्षेपि येन वीर्यंमहीभृताम्। तस्य देवतुरुष्कस्य के गुणग्रहणे वयम्॥’अत्र प्रत्यक्षेपीति क्रिया। कारकगुप्तकं यथा— ‘केनेमौ दुर्विदग्धेन

हृदये विनिवेशितौ। पिबतस्ते शरावेण वारि कह्लारशीतलम्॥’अत्र शराविति कर्मणो गुप्तत्वम्। संबन्धगुप्तकं यथा—‘न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि। अस्थानरुदितैरेभी रत्नमालोहितेक्षणे॥’अत्र न मे अगोरसाभिज्ञमिति संबन्धगुप्तकम्। पादगुप्तकं यथा—‘द्युवियद्गामिनी तारसंरावविहतश्रुतिः। हेमेषु माला शुशुभे।’अत्र ‘विद्युतामिव संहतिः’इति चतुर्थपादस्य गुप्तत्वम्। आदिशब्दात्प्रश्नोत्तरप्रहेलिकादुर्वचकादयोऽपि भवन्ति। परं कष्टकाव्यत्वात्क्रीडामात्रफलत्वान्नात्र प्रपञ्चिताः॥

परोक्तस्य श्लेषेण काक्वावान्यथोक्तिर्वक्रोक्तिः।

तत्र श्लेषवक्रोक्तिर्द्विधा भङ्गश्लेषेणाभङ्गश्लेषेण च। तत्र भङ्गश्लेषेण यथा—‘सद्वाः43 प्रेयसि दीयतां प्रियतम द्वारं किम(मु)च्छाद्यते सत्कं44सुन्दरि याचितं कथय मे किं कस्य सत्कं प्रिय। श्रीनाभेयजिनस्य मज्जनजलं45 कस्त्वं जनः किं जलं दम्पत्यैरिति जल्पितं जिनपतेः स्नानोत्सवे पातु वः॥’अभङ्गश्लेषे यथा—‘कोऽयं द्वारि, हरिः, प्रयाह्युपवनं शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, विभेमि नितरां कृष्णादहं वानरात्। कान्तेऽहं मधुसूदनो, व्रज लतां तामेव मध्वन्वितामित्थं निर्विषयीकृतो दयितया ह्रीतो हरिः पातु वः॥’यथा च—‘भर्तुः पार्वति नाम कीर्तय न चेत्त्वां ताडयिष्याम्यहं क्रीडाब्जेन शिवेति सत्यमनघेकिं ते शृगालः पतिः। नो स्थाणुः किमु कीलको नहि पशुस्वामी तु गोप्ता गवां दोलाखेलनकर्मणीति विजयागौर्योर्गिरः पान्तु वः॥’भिन्नकण्ठो ध्वनिः काकुः। तद्वक्रोक्तिर्यथा—‘लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य। आकृष्य पाण्डववधूपरिधानकेशान्स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः॥’यथा च—‘अपि चण्डानिलोद्धूततरङ्गस्य महोदधेः। शक्येत प्रसरो रोद्धुं नानुरक्तस्य चेतसः॥’

अदूरान्तरितावृत्तिरनुप्रासश्छेकवृत्तिलाटभेदेन त्रिधा।

आवृतिः पुनः पुनर्निबन्धः। अर्थाद्वर्णानां पदानां वा। सररसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः॥

स च त्रिधा भवतीत्याह—

सकृद्वर्णावृत्तिश्छेकानुप्रासः।

** **वर्णावृत्तिरिति समस्तं पदम्। यत्रैकस्य यथा—‘ततोऽरुणपरिस्यन्दमन्दीकृतवपुः शशी। दध्रे कामपरिक्षामकामिनीगल्लपाण्डुताम्॥’अनेकवर्णानां यथा—‘निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते। प्रियङ्गोर्नो सङ्गं रचयति न चूते विचरति स्मरल्ँलक्ष्मीलीलाकमलमधुपानं मधुकरः॥’

असकृद्वृत्त्यनुप्रासः।

वर्णावृत्तिरित्यनुवर्तते। यथा वर्णस्य ‘वाचाटाकटपूतनाचटुपटुः कापट्यकोटी पुटी विस्पष्टा नृतनाटिकानटभटीलाम्पट्यसाटाटवी। व्याचष्टे प्रकटं जनाश्रुतिपुटी तट्टीकते वो मुचा साटोपे भुवि नाभिभावकभटे मट्यत्र वर्तिन्यपि॥’अनेकस्य यथा— ‘स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः। भिद्यादुद्यदुदारदर्दुरदरी दीर्घादरिद्रद्रुमद्रोहोद्रेकमयोर्मिमेदुरमदा मन्दाकिनी मन्दताम्॥’

सकृदसकृद्वा पदावृत्तिर्लाटानाम्।

अत्रापि पदावृत्तिरिति समस्तं पदम्। तेन पदस्य पदानां वा सकृत् असकृद्वा आवृत्तिर्लाटानां प्रियत्वाल्लाटानुप्रासः। पदस्य यथा—‘निशाकरकरस्मेरैर्गुणैर्गुणवतां मतैः। जने जनयति प्रीतिं प्रीत्यानतनृपो नृपः॥’असकृद्यथा—‘सम्यङ् निषेध्य चतुरश्चतुरोऽप्युपायाञ्जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम्। विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः॥’अनेकस्यासकृद्यथा—‘वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाश काशाः काशाभा भान्ति तासां नवपुलिनतटे स्त्रीनदीहंसहंसाः। हंसाभाम्भोद मुक्तः स्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः॥’पदात्मकत्वाद्वाक्यस्य तस्याव्या(प्या)वृत्तिर्यथा—‘त्वमेकश्चेतसि न चेत्तपोभिस्तदलं नृणाम्॥’

एकेनानेकस्यार्थस्य युगपदुक्तिः श्लेषो भङ्गाभङ्गाभ्यां द्विधा।

एकेन पदेन वाक्येन वा अनेकस्य द्वयोस्त्र्यादीनां वा अर्थानामभिधानं श्लिष्यन्ति शब्दा अत्रेति श्लेषः। हरिप्रभृतयः शब्दा अनेकार्थाभिधायिनः सन्तीत्याह—युगपदेकस्मिन्प्रयोगे। स च भङ्गाभङ्गाभ्यां द्विधा। भङ्गश्लेषोऽभङ्गश्लेषश्च। तत्र खण्डनाद्भङ्गश्लेषः। स वर्णलिङ्गवचनविभक्तिप्रत्ययपदभाषाभेदैरनेकधा भवति। तत्र वर्णश्लेषो यथा—‘प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि॥’अत्र विधिर्विधुश्चेति इकारोकारयोर्वर्णयोः श्लेषः। लिङ्गश्लेषो46 यथा— ‘भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः॥’वचनश्लेषो यथा— ‘प्राज्यप्रभावः47 प्रभवो धर्मस्यास्तरजस्तमाः। ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः’। अत्रैकपक्षे एकवचनम्। द्वितीयपक्षे बहुवचनम्। स्यादीनां त्यादीनां च भङ्गाद्विभक्तिश्लेषो यथा— ‘विषं निजगले येन चक्रे48 च भुजगप्रभुः। देहे49 येनाङ्गजो दग्धो(?) जाया च स जयत्यजः॥’प्रकृतिश्लेषो यथा—विहितापर(चि)ति-

र्महीयसां द्विषतामाहितसाध्वसो बलैः। भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम्॥’अत्रापचितिरिति चायेश्चिनोतेश्च रूपम्। प्रत्ययश्लेषो यथा—‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः’। अत्र अस्त्रीकृतः स्त्रीकृतश्चेति चिङीप्रत्यये श्लेषः। पदश्लेषो यथा—‘जननीतिमुदितमनसा50 नित्यं सुस्वामिना कृतानन्दा \। सा नगरीनगतनया गौरीव मनोहरा भाति॥’संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां संकरे भाषाश्लेषः। तत्र संस्कृतप्राकृतयोर्यथा—‘सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम्।विरहं विरहायासं सोढुं तव चित्तमसहं मे॥’संस्कृतमागधयोर्यथा—‘शूलं शलन्तुशं वा विशन्तु शबला वशंविशङ्का वा। अशमदशं दुःशीला दिशन्ति काले खला अशिवम्॥’संस्कृतपैशाचिकयोर्यथा—‘चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी। इच्छति गजपतिगमना चपलायतलोचना लपितुम्॥’संस्कृतसूरसेन्योर्यथा— ‘अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्।साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे॥’संस्कृतापभ्रंशयोर्यथा—‘क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति। भ्रमरा मित्त्रसुविभ्रमा मत्ता भूरि रसन्ति॥ षण्णामपि भाषाणां योगो यथा— ‘आलोलकमले चित्ते ललाम कमलालये। पाहि चण्डि माहामोहभङ्गभीमबलामले॥’

अखण्डितभेदैरभङ्गश्लेषः।

यथा—‘किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां किं वा तत्र तथा पयोधरपरिष्वङ्गोऽपि नाह्लादकः। यन्मामत्र विहाय निर्वृतिमना नाथोज्जयन्तं गतः पायाद्वोऽभिहितः स भोजसुतया देवः शिवानन्दनः॥’

तुल्यं श्रुतिक्रमा क्षरावृत्तिर्यमकम्। तच्च श्लोकश्लोकार्धपादभागभेदैरनेकधा।

तत्र श्लोकयमकं महायमकं यथा—‘सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम्। सर्वदारणमानैषी दावानलसमस्थितः॥’असावेव पृथगर्थतया द्विःपरावर्तनीयः51। अर्धावृत्त्याअर्धयमकं समुद्गकं यथा—‘ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्’। इदमर्धंपृथगर्थतया द्विः परावर्तनीयम्52

पादयमकं मुखं संदंश आवृत्तिगर्भसंदष्टकपुच्छपङ्क्तिपरिवृत्तियुग्मकभेदैर्नवधा।

तत्र प्रथमद्वितीययोः पादयोरावृत्त्या मुखयमकं यथा—‘चक्रं दहतारं चक्रन्द हृतारम्। खङ्गेन तवाजौ राजन्नरिनारी॥’

प्रथमतृतीययोरावृत्त्या संदंशः।

यथा— ‘सारं गवयसांनिध्यराजत्काननमग्रतः। सारङ्गवयसांनिध्यदारुणं शिखरे गिरेः॥’

प्रथमचतुर्थयोरावृत्त्या संदंशः।

यथा आवृत्तिः— ‘आसन्नदेवा नरराजराजिरुच्चैस्तटानामियमत्र नाद्रौ। क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजिः॥’

द्वितीयतृतीययोरावृत्त्या गर्भः।

यथा— ‘यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव। समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते॥’

द्वितीयचतुर्थयोरावृत्त्या संदष्टकम्।

यथा— ‘अमरनगरस्मेराक्षीणां53 प्रपञ्चयति स्फुरत्सुरतरुचये कुर्वाणानां बलक्षमरंहसाम्। इह सह सुरैरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षमरंहसाम्॥’

तृतीयचतुर्थयोरावृत्त्या पुच्छम्।

यथा— ‘उत्तुङ्गमातङ्गकुलाकुलो यो व्यजेष्ट शत्रून्समरे सदैव। स सारमानीय54 महारिचक्रं ससार मानी54 यमहारिचक्रम्॥’

चतुर्णामपि परस्परावृत्त्या पङ्क्तिः।

यथा— ‘रम्भारामा55 कुरु बककमलारम्भारामाकुरुबककमला। रम्भारामाकुरुबककमला रम्भारामाकुरुबककमला॥’

प्रथमचतुर्थयोर्द्वितीयतृतीययोरावृत्त्या परिवृत्तिः।

यथा—‘मुदा56 रतासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा। स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम्॥’

प्रथमद्वितीययोस्तृतीयचतुर्थयोरावृत्तिर्युग्मकम्।

यथा— ‘विभाति रामापरमारणस्य विभाऽतिरामा परमा रणस्य। सदैवतेजोर्जितराजमाना सदैव तेजोऽर्जितराजमाना॥’पादभागयमकानि अनयैव रीत्यानेकधा भवन्ति। तानि च काव्यहृदयशङ्कुत्वान्नोक्तानि॥

भिन्नरूपाणां शब्दानामेकार्थतेव पुनरुक्तवदाभासः।

यथा— ‘स त्वं सम्यक् समुन्मील्य हृदि भासि57 विराजसे। द्विषामरीणां58 त्वं सेनां वाहिनीमुदकम्पयः॥’

इति श्रीवाग्भटविरचितायामलंकारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ
शब्दालंकारविवेचनश्चतुर्थोऽध्यायः।

—————————

दोषमुक्तं गुणयुक्तमलंकारभूषितं शब्दार्थरूपमुक्तं काव्यशरीरम्। परं तत्त्वप्राणिशरीरमिव निरात्मकं न प्रतिभासते। अतः काव्यस्य प्राणभूतान्रसानाह। यदाह—‘यामिनीवेन्दुना मुक्ता नारीव रमणं विना। लक्ष्मीरिव ऋते त्यागान्न वाणी भाति नीरसा॥’यथा च—‘साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा। तथैव नीरसं काव्यमिति ब्रूमो रसान् (खलु) क्रमात्॥’

तत्र विभावानुभावैर्व्यभिचारिभिश्चाभिव्यक्ता रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः, क्रमेण शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ता नव रसा भवन्ति।

परस्परमास्थाबन्धात्मिका रतिः। हासश्चेतोविकाशः। वैधुर्यं शोकः। तीक्ष्णत्वं क्रोधः। संरम्भो वैक्लव्यम्। भयं संकोचः। जुगुप्सा चित्तविस्तारः। [आश्चर्यं] विस्मयः। तृष्णाक्षयः शमः॥

अथ क्रमेण रसांल्लक्षयति—

स्त्रीपुंसयोः परस्परावलोकनमाल्यर्तुहर्म्यपुरशैलनदीचन्द्रोपवनोद्यानदीर्घिकाजलक्रीडाविलेपनादिविभावा जुगुप्सालस्यौग्र्यवर्जसर्वव्यभिचारिभावा रतिः। स्थायीभावश्चर्वणीयतां गतः शृङ्गारः।

‘स्त्रीपुंसयोः’इति वचनात् समविषयग्रामसमययोः स्थिरानुरागयोः संप्रयोगसुखैषिणोर्यूनोः स्त्रीपुरुषयोर्या परस्परं रतिः स एव शृङ्गारः। देवगुरुमुनिपुत्रादिविषया तु रतिरनुभाव एव, न पुनः शृङ्गारः। तत्र देवविषया यथा—‘नो मुक्त्यै स्पृहयामि नाथ विभवैः कार्यंन सांसारिकैः किं त्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये। स्वप्ने जागरणे स्थितौ विचलने दुःखे सुखे मन्दिरे कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि॥’एवमन्यदपि। ये चास्यानुगताः कटाक्षभुजक्षेपप्रभृतयोऽनुभावास्तेषामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः॥

स च संभोगविप्रलम्भाभ्यां द्विधा।

तत्र संभोगमाह—

एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाञ्चस्वेदकम्पाश्रुमोचनमेखलास्खलनध्वसितसा ध्वसकेशबन्धवस्त्रसंयमनाभरणादिमाल्यादिसम्यग्निवेशनविचित्रेक्षणचाटुप्रभृतिवाचिककायिकव्यापाराभावः परस्परालिङ्गनचुम्बनावलोकनाद्यनन्तभेदः संयुक्तयोः संभोगः।

यथा— ‘वक्रेन्दुः स्मितमातनोदधिगते दृष्टी विलासश्रियं बाहू कण्टककोरकाण्यबिभृतां

प्राप्तं गिरो गौरवम्। किं नाङ्गानि59 तवातिथेयमसृजन्स्वस्वापतो याचितं संप्राप्ते मयि नैतदुज्झति कुचद्वन्द्वं पुनः स्पर्धताम्॥’

अथ विप्रलम्भमाह—

औत्सुक्यमदग्लानिनिद्रासुप्तप्रबोधचिन्तायासाश्रमनिर्वेदमरणोन्मादजड-ताव्याधिस्वप्नापस्मारादिव्यभिचारी संतापजागरकार्श्यप्रलापक्षामनेत्रवचोव- क्रतादीनसंचरणानुकारलेखलेखनवाचनस्वभावनिह्नववार्ताप्रश्नस्नेहनिवेदनसात्विकानुभवनशीत- प्रयोगसेवनमरणोद्यमसंदेशदानाद्यनुभावो वियुक्तयोर्विप्रलम्भः। स चाभिलाषमानप्रवासभेदाद्द्विधा।

दैवात्(पितृमातृस्वामि)पारवश्यादभिलाषविप्रलम्भो द्विधा।60

तत्र दैवाद्यथा— ‘नगरपरिघदीर्घौबाहुदण्डौ ममैतौ विजितकनककुम्भा सा च तस्याः कुचश्रीः। तव शिशिरसमीरश्चैष नीहारसारस्त्रितयमपि समेतं दुर्लभं रावणेन॥’पितृमातृपारवश्याद्यथा— ‘ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेणविधास्यति। मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्॥’ स्वामिपारवश्याद्यथा—‘स्मरनवनदी पूरेणोढा मुहुर्गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथा। तदपि लिखितप्रख्यैरङ्गैर्मुहुर्मुहुरुन्मुखा नयननलिनी लानीतं पिबन्ति रसं प्रियाः॥’

मानः प्रणयभङ्गेर्ष्याभ्यां द्विधा।

तत्र प्रणयभङ्गाद्यथा— ‘गतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव। प्रणामान्तः कोपस्तदपि न जहासि क्रुधमहो स्तनप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम्॥’ ईर्ष्यया यथा—‘संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्ते यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया। श्रीर्याताम्बुधिमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहतो गौर्या हरः पातु वः॥’

कार्याच्छापाद्दैवात्पारवश्याच्च प्रवासः।

कार्याद्यथा—‘याते द्वारवतीं तदा मधुरिपौ तद्दत्तस(झ)म्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्ग्यसोत्कण्ठया। तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युक्तमुत्कूजितम्॥’ शापाद्यथा—’शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा। पश्चादावां विरहगणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥’ दैवाद्यथा—‘आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेह्यालिङ्ग क्षपयरजनीमेकिका चक्रवाकि। नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥’ पारवश्याद्यथा—

‘उद्यत्प्रेम्णि प्रथमवयसि प्रावृषि प्राप्तवत्यां स्कन्धावारं जिगमिषुरयं मत्प्रियो मां विहाय। सेयं जाता जगति सकले सुप्रसिद्धा जनोक्तिरग्रग्रासग्रसनसमये मक्षिकासंनिपातः॥’

अथ हास्यरसमाह—

विकृतवेषादिविभावो नासौष्ठकपोलस्यन्दनदृष्टिव्याकोशनापकुञ्चनस्वेदा- स्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थतन्द्रात्रपालस्यादिव्यभिचारी हासाभिधानस्थायीभावश्चर्वणीयतां गतो हास्यरसतां याति। स चोत्तमानां स्मितरूपः, मध्यमानां विहसितरूपः, अधमानामपहसितरूपो भवति।

तत्र

स्मितमीषद्विहसितकपोलं सौष्ठवोपेतदृष्टिभावमप्रेक्ष्यमाणदशनं भवति। विहसितं पुनराकुञ्चिताक्षिकपोलमीषदुद्भूतमुखरागं भवति। अपहसितं त्वस्थानहसितं साश्रुकणाक्रान्तनेत्रमुत्कम्पितांसशिरोविभागं भवति।

तत्र सामान्यहासोदाहरणम्— ‘त्रस्तः समस्तजनहासकरं करेणोस्तावत्स्वरः प्रखरमुल्लमयांचकार (?)। यावच्चलांसनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात॥’

अथ करुणमाह—

इष्टवियोगानिष्टसं[प्र]योगविभावो दैवोपालम्भनिःश्वासतानवमुखश्लेषस्वरभेदाश्रुत- पातवैवर्ण्यप्रलयस्तम्भ[वै]कम्पभूलुठनविलापगात्रांशाद्यश्रुभावनिर्वेदग्लानिचिन्तौत्सुक्य मोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकाभिधानः स्थायिभावश्चर्वणीयतां गतः करुणरसतां याति।

यथा— ‘हा मातस्त्वरितासि कुत्र किमिदं हा देव ताः क्वाशिषो धिक् प्राणान् पतितोऽशनिर्हुतवहस्त्वङ्गेषु61 दग्धे दृशौ। इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि॥’

अथ रौद्रमाह—

हारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनस्वभृत्याविक्षेपोपहास-वाक्याभाष्यद्रोहमात्सर्यादिविभावो नयनरागभृकूटीकरुण(र्ण)दन्तोष्ठपीडनगण्डस्फुरणहस्ताग्रनिःशेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराकर्षण– च्छेदनाद्यनुभाव औग्र्यावेगोत्साहविबोधानर्थचापलादिव्यभिचारी क्रोधाभिधानः स्थायीभावश्चर्वणीयतां गतो रौद्ररसतामाप्नोति।

यथा— ‘उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्त्रसंतानरोषात्कामं त्रिःसप्तकृत्वो जगति विशसतः सर्वतो राजवंशान्। पिङ्ग्य(?) तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमानक्रोधाग्नेः सर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः॥’

अथ वीरमाह—़

प्रतिनायकवर्तिनमविनयसंमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधिक्षेपादिविभावः स्थैर्यौदार्यधैर्यगाम्भीर्यशौर्यविशारदाद्यनुभावो धृतिस्मृत्यौग्र्यगर्वामर्षामर्त्यावेगहर्षादिव्यभिचारी उत्साहाभिधानः स्थायिभावश्चर्वणीयतां गतो वीररसतां याति।

स च त्रिधा। दानवीरो धर्मवीरो युद्धवीरश्च। तत्र दानवीरा बलिजीमूतवाहनादयः।तद्यथा—‘स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का (किं) मात्रा मम विक्रमत्रयमिदं दत्तं गृहीतं मया। मा देहीत्युशनाह किं हरिरयं पात्रं किमस्मात्परमित्येवं बलिनार्चितो मखमुखे पायात्स वो वामनः॥’यथा च— ‘शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति। तृप्तिं न पश्यामि तवैव तावता किं भक्षणात्त्वं विरतो गरुत्मन्॥’धर्मवीराः श्रीपार्श्वमहावीरप्रभृतयः। ‘दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि॥’यथा च—‘शठकमठविमुक्ताग्रावसंघातघातव्यथितमपि मनो न ध्यानतो यस्य नेतुः। अचलदचलतुल्यं विश्वविश्वैकधीरः स दिशतु शिवमीशः पार्श्वनाथो जिनो वः॥’युद्धवीरा रामादयो मन्तव्याः॥

अथ भयानकमाह—

पिशाचादिविकृतस्वरश्रवणतदवलोकनस्वजनवधबन्धादिदर्शनशून्यगृहा-रण्यतमआदिविभावः करकम्पचलदृष्टिनिरीक्षणकरस्पन्दशुष्कौष्ठकण्ठमुखवैवर्ण्यस्वरभेदाद्यनुभावः शङ्कापस्मार मरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचानां स्वाभाविकभयाभिधानः स्थायिभावश्चर्वणीयतां प्राप्तो भयानको रसः।

यथा— ‘जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः सद्यःस्तम्भितकर्णतालच-लनाद्दिग्दन्तिनः कम्पयन्। जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूद्येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम्॥’

अथ बीभत्समाह—

अहृद्यानामुद्धान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावोऽङ्गसंकोचहृल्लासनासामुख विकूणनाच्छादननिष्ठीवनाद्यनुभावोऽपस्माररौद्र्यमोहगदा-

दिव्यभिचारी जुगुप्साभिधानः स्थायिभावश्चर्वणीयतां गतो बीभत्सतामाप्नोति।

यथा— ‘अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कणप्रायप्रेङ्खितभूरिभूषणरवैराघोषयत्यम्बरम्। पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति॥’

तथाद्भुतमाह—

दिव्यदर्शनेप्सितमनोरथावाप्त्युपधूतदेवकुलादिगमनसभाविमानमायेन्द्र-जालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमेषप्रेक्षणरोमाञ्चा- श्रुस्वेदसाधुवाददानाहोकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षवेगजडतादिव्यभिचारी विस्मयाभिधानः स्थायिभावश्चर्वणीयतां गतोऽद्भुतरसतामाप्नोति।

यथा—‘पादाङ्गुष्ठनिपीडितामरगिरित्रुट्यत्तटीविभ्रमद्भूगोलातिभरासहाहिनिवहाश्यामा- स्यनिर्यद्बृहत्। निःश्वासोच्छलिताब्धिवारिलहरीविभ्रष्टतारावलिः पायाद्वो जिनवीरशैशववयो- व्यापारलीलारसः॥’यथा च—‘यत्राभ्रंलिहभूरिभूधरशिरोऽग्रे हि स्खलत्स्यन्दनो देवोऽपि द्युमणिः प्रयाति महता कष्टेन ताराध्वना। बाढं शैशवमक्षिमीलनकलामात्रेण संलङ्घ्यतां यात्रा कालपनन्दनेन विदधे श्रीपार्श्वनाथप्रभोः॥’

अथ शान्तः—

वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागचरणपरिचरणपरमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृति(निश्चेष्ट)62मत्यादिव्यभिचारी शमाभिधानः स्थायिभावश्चर्वणीयतां गतः शान्तरसतां याति।

यथा— ‘अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः कदा पुण्येऽरण्ये जिन जिन जिनेति प्रलपतः॥’

विभावैरनुभावैर्व्यभिचारिभिश्चाभिव्यक्ता इत्युक्तम्। तत्र व्यभिचारिणो ब्रूते—

धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रासुप्तौत्सुक्यावहित्थाशङ्का-चापलालस्यहर्षगर्वौग्र्य प्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्तामर्षत्रासापस्मारनिर्वेदावेगवितर्कासूयामृतयः शान्तिस्थित्युदय प्रशमशबलत्वधर्माणस्त्रयस्त्रिंशद्व्यभिचारिणः।

तत्र धृतिः संतोषः स्मृतिः स्मरणम्। मतिरर्थनिश्चयः। व्रीडा चित्तसंकोचः। जाड्यमर्थाप्रतीतिः। विषादो मनःपीडा। मद आनन्दसंमोहसंभेदः। व्याधिर्मनस्तापः। निद्रा मनःसंमीलनम्। सुप्तं निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम्। अवहित्था-

कारगुप्तिः। शङ्कानिष्टोत्प्रेक्षा। चापलं चेतोऽनवस्थानम्। आलस्यं पुरुषार्थेष्वनादरः। हर्षश्चेतःप्रसादः। गर्वः परावज्ञा। अत्युग्रता चण्डता। प्रबोधो विनिद्रत्वम्। ग्लानिर्बलापचयः। दैन्यमनौजस्यम्। श्रमः खेदः। उन्मादश्चित्तस्य विप्लवः। मोहो मूढत्वम्। चिन्ता ध्यानम्। अमर्षः प्रतिचिकीर्षा। त्रासश्चित्तचमत्कारः। अपस्मार आवेशः। निर्वेदः स्वावमाननम्। आवेगः संभ्रमः। वितर्कः संभावना।असूया अक्षमा। मृतिर्म्रियमाणता। एते च शान्तिस्थित्युदयप्रशमशबलत्वधर्माणः।

तत्र निद्रायाः स्थिति(शान्ति)र्यथा—‘प्रत्यग्रोन्मेषजिह्वाक्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वीजनितजललवाक्षम्भणैः स्वाङ्गभङ्गैः। नागाकं(ङ्कं) मोक्तुमिच्छोः शयनगुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥’स्थितिर्यथा— ‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च। सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया॥’अत्र वितर्कस्य स्थितिः। उदयो यथा—‘कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छ्यमाने। विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दुस्तनयुगमबलायास्तत्क्षणाद्रोदितीव॥’अत्र विषादस्योदयः संधिर्यथा—‘एकेनाक्ष्णा प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा स्वजललुलितेनापरेण स्वकान्तम्। अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा॥’अत्र रोषदैन्ययोः संधिः। शबलता यथा—‘क्वाकार्यं(१) शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु जनो धन्यो धुरं धास्यति॥’अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम्। एवमन्येष्वपि व्यभिचारिषूदाहार्यम्॥

अथ सात्विकानाह—

स्तम्भस्वेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः।
वैवर्ण्याश्रुप्रलापाश्च इत्यष्टौ सात्त्विकाः स्मृताः॥

यथा— ‘वारंवारं तिरयति सुधावुद्गतो बाष्पपूरस्तत्संकल्पोपहितजडिमस्तम्भमभ्येति गात्रम्। सद्यः खिद्यन्नयनविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि॥’अत्राश्रुस्तम्भस्वेदवेपथुरूपाश्चत्वारः सात्त्विकभावाः। ‘सर्वाङ्गीणविसारिभूरिपुलकोद्भेदत्रुटत्कञ्चुकाः स्वाकूतं गुरुबाष्पगद्गदगिरा सख्यै गिरन्त्यो मुहुः। प्राप्तव्यः कथमेष वल्लभ इति म्लायन्मुखास्त्वाममूः श्रीमद्वाग्भट वीक्ष्य चित्रलिखितप्रख्या मृगाक्ष्यो-


(१)अत्र ‘क्वाकार्यम्’इति वितर्कः, ‘भूयोऽपि’इत्यौत्सुक्यम्, ‘दोषाणाम्’इति मतिः, ‘कोपेऽपि’ इति स्मृतिः, ‘किं वक्ष्यति’इति शङ्का, ‘स्वप्नेऽपि’इति दैन्यम्, ‘चेतः स्वास्थ्यम्’ इति धृतिः, ‘कः खलु’इति चिन्ता, स्फुटं पूर्वपूर्वोपमर्देन प्रतीयमाना शबलता चमत्कारभूमिः’इति काव्यप्रदीपे स्पष्टमुक्तम्।

ऽभवन्॥’अत्र रोमाञ्चस्वरभेदवैवर्ण्यप्रलापाश्चत्वारः सात्त्विकभावाः। एवं च नव स्थायिनस्त्रयस्त्रिंशद्व्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद्भावा बभूवुः॥

अथैतानभिधाय तदाभासानाह—

तत्र वृक्षादिष्वनौचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भजतः।

यथा— ‘मधुर्द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः। शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥’अनौचित्येन यथा—‘तद्वक्रंयदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेद्गिरो धिङ्मधु। सा चेत्कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः॥’अत्रानुरागविमुखायां सीतायां रावणस्योक्तिः। आदिशब्दाच्चन्द्रादीनां यथा—‘अङ्गुलीभिरिव केशसंचयं संनिरुध्य तिमिरं मरीचिभिः। कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥’ अस्मिन्नुदाहरणद्वये संभोगशृङ्गाररसाभासः। एवमन्येऽपि रसाभासा भावाभासाश्चोदाहर्तव्याः॥

अथ रसानभिधाय दोषानाह—

स्वशब्दोक्तिविभावादिप्रातिकूल्यप्रकृतिव्यत्ययविभावानुभावक्लेशव्यक्तिपुनःपुनर्दीप्त्यकाण्डप्रथनाकाण्डाच्छेदाङ्गातिविस्तराङ्ग्यननुसंधानानङ्गाभिधाना दश रसदोषाः। रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं स्वशब्दोक्तिः।

तत्र रसानां स्वशब्दोपादानं यथा—‘शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया। रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये॥’स्थायिनां यथा— ‘रूपनिर्जितकन्दर्पे नयनानन्ददायिनि। अभूत्तस्या रतिः कापि प्रिये चाटुविधायिनि॥’अत्र रतिशब्दाः। व्यभिचारिणां यथा—‘सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः॥’अत्र व्रीडादयः।

क्वचित्संचारिणां न दोषः।

यथा— ‘औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः। दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टाशिवायास्तु वः॥’अत्र औत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत्॥

यत्र विभावानुभावादयः प्रतिकूला(स्त?) द्विभावादिप्रातिकूल्यम्।

यथा—‘त्यजत मानवलंबत विग्रहैर्न पुनरेति गतं चतुरं वयः। परभृताभिरितीवमु–

दीरिते स्मरमते रमते स्म वधूजनः॥’अत्र ‘न पुनरेति चतुरं वयः’इति पदमनित्यतां प्रकाशयन् शान्तस्य विभावतां याति शृङ्गारस्य नोपयोगि। यथा— ‘प्रच्छन्नकामुकं दृष्ट्वा गुरूणां मध्यतो वधूः। विमुच्य सर्वव्यासङ्गं वनाय कुरुते स्पृहाम्॥’अत्र सकलव्यासङ्गविमोचनवनस्पृहे शान्तस्यानुभावौ॥

परस्परबाध्यबाधकभावे पृथक्पृथगाश्रये अन्यरसैरन्तरितत्वेऽङ्गत्वे च न दोषः।

तत्र परस्परबाध्यत्वं यथा—‘स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः सीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव॥’अत्र धैर्यापस्मारौ परस्परबाध्यबाधकभावेनोपनिबद्धौ विप्रलम्भरसोपकाराय। ‘स्नायुव्यासनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां चामुण्डा करतालकुट्टितलयं वृत्ते विवाहोत्सवे। ह्रीमुद्रामपनुद्य यद्विहसितं चित्रं समं शंभुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः॥’अत्र बीभत्सहास्यरसयोर्भिन्नाश्रयत्वेन निबद्धयोर्न दोषः। अन्यरसैर(न)न्तरितत्वे यथा—‘भूरेणुदिग्वान्नवपारिजातमालारजोवासितबाहुमध्याः। गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान्। संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम्। निर्दिश्यमाना ललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन्॥’अत्र बीभत्सशृङ्गारयोरन्तरे वीरा इति पदेन वीररसनिवेशान्न दोषः। अङ्गत्वे च यथा—‘कोपात्किंचिदुपागतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम्। भूयो यास्यसि तद्गृहानिति मुहुः कण्ठार्धरुद्धाक्षरं जल्पन्त्यश्रुवणोल्लखेन(?)सुकृती कश्चिद्रहस्ताड्यते॥’अत्र केशाकर्षणबन्धनताडनादयो रौद्रानुभावा अपि रूपकबलादारोपिताः शृङ्गारस्याङ्गत्वं भजन्ति॥

प्रकृतीनामन्यथात्वेन कलाद्यौचित्यपरिहारेण च निबन्धनं प्रकृतिव्यत्ययः। तत्र प्रकृतयोऽनेकधा भवन्ति— तद्यथा। तत्र दिव्या मर्त्याः पातालीयाः। तथा दिव्यमर्त्या दिव्यपातालीया मर्त्यपातालीया दिव्यमर्त्यपातालीया च।

दिव्या यथा— ‘स्मृत्वायं निजवारवासगतया वीणासमं तुम्बरोरुद्गीतं नलकूबरस्य विरहादुत्कञ्चुलं रम्भया। तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जहद्भूयः कारित एव हासिनि शचीवक्रे दृशां विभ्रमम्॥’मर्त्या यथा—‘निक्षिप्योत्क्षिप्य यत्नाद्द्रविणमिह मुहुर्मा स्म संक्लेशयस्त्वं पृथ्वी स्वं च प्रकामं शृणुत हितमिदं सावधानं धनेशाः। नैवेयं शाश्वती श्रीः प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्वं राहडस्य प्रसभमभिनवां त्यागधर्मादिलीलाम्॥’पातालीया यथा— ‘कर्कोटं कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि

चक्षुः सज्जः सेवाञ्जलिस्ते कपिलकुलकयोः स्तौति च स्वस्तिकस्त्वाम्। पद्मः सद्यैष भक्तेरवलगति पुनः कम्बलोऽयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः॥’ दिव्यमर्त्या यथा— ‘वर्हिर्ध्वजेऽपि सति सत्यपि दन्तवक्रे प्रेमोपधानमवधूय पिनाकपाणिः। हस्तेन नित्यधृतवासुकिकंकणेन प्राज्ञः प्रियः स्पृशति भार्गवमेव पृष्ठे॥’दिव्यपातालीया यथा— ‘भस्माङ्गरागधवलीकृतसर्वगात्रौ यः कण्ठदेशे वरपन्नगावृतः (?)। चन्द्रेण भासुरजटामुकुटस्थितेन शंभुर्ददातु नियतं तव सुप्रभातम्॥’मर्त्यपातालीया यथा— ‘आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नो लक्षितः कञ्चुको जिह्वे जल्पत एव मे न गणिते द्वेधा प्रवृत्ते मुखात्। तिस्रस्तीव्रविषाग्निधूमपटलव्याजिह्मरत्नद्विषो नैता दुःसहशोकसूत्कृतमरुत्स्फीताः फणाः पश्यसि॥’दिव्यमर्त्यपातालीया यथा—‘आस्तीकोऽस्ति मुनिः सविस्मयकृतः पारिक्षितीयान्मुखान्त्रावा(?)लक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च। उद्वेल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते॥’

तथा धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता वीररौद्रशृङ्गाररसप्रधानाश्चत्वारो नायकाः। तत्र धीरोदात्ता रामादयः। धीरोद्धता भीमसेनादयः। धीरललिता नलादयः। धीरप्रशान्ता जीमूतवाहनादयः। तत्र धीरललितश्चतुर्धा भवति। अनुकूलः शठो धृष्टो दक्षिणश्च।

** तत्र स्थिरप्रेमा एकस्यां रतोऽनुकूलः।**

यथा— ‘अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रागतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः। किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्॥’

प्रियमाचक्षाणोऽपि विप्रियं यः कुरुते स शठः।

यथा— ‘दृष्टैकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः। ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥’

कृतदोषोऽपि निःशङ्को धृष्टः।

यथा— ‘लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रागतं वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः। दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसे लीलातामरसोदरे मृगदृशः श्वासः समाप्तिं गतः॥’

अन्यचित्तोऽपि यः पूर्वस्यां सौख्यभयप्रेमादि न त्यजति स दक्षिणः।

यथा— ‘सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम्। कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोषाविलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया॥’

बुद्ध्युत्साहस्मृतिप्रज्ञाशौर्यौदार्यगाम्भीर्यधैर्यस्थैर्यमाधुर्यकलाकुशलत्वविनीतत्वकुलीनत्वनीरोगित्वशुचित्वाभिमानित्वयोषिदभिमतत्वप्रियंवदत्वजनानुरागित्ववाग्ग्मित्वमहावंशजत्वतेजस्वित्वदृढत्वतत्त्वशास्त्रज्ञत्वाग्राम्यत्वशृङ्गारित्वसुभगत्वादयो नायकगुणाः।

व्यसनी पापकृदन्यायी लुब्धः स्तब्धः क्रोधी धीरोद्धतश्च प्रतिनायकः। यथा रामस्य रावणः। युधिष्ठिरस्य दुर्योधनः। त्रिपृष्ठस्य हयग्रीवः। विष्णोर्जरासंधः।

नायकस्य च नर्मसचिवपीठमर्दविटविदूषका अनुचराः। तत्र कुपितस्त्रीप्रसादको नर्मसचिवः। नायकगुणयुक्तस्तदनुचरः पीठमर्दः।एकविद्यो विटः। क्रीडनकप्रायो विदूषकः।

नायिका त्रिधा—स्वकीया परकीया सामान्या च।

तत्र देवगुरुसमक्षमूढा आर्जवमार्दवसत्यशौचाद्युपेतौत्सुक्या मुग्धा–मध्या–प्रौढाभेदेन त्रिधा स्वकीया।

तत्र मुग्धा यथा—‘अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पते च प्रकामम्। वदति च यदलक्ष्यं किंचिदुक्तापि भयो रमयति सुतरां सा चित्तमन्तर्नवोढा॥’

उद्भिद्यमाननवयौवना मध्या।

यथा— ‘तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नःप्रागल्भ्यं स्तनजघनमुन्मुद्रयति च। दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढं परिचयः॥’

वयःकलाकौशल्यपरिपूर्णा प्रौढा।

यथा— ‘नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगतौ महत्त्वादुद्वृत्तः स्तनकलशभारः श्रमयति। विकाशिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः॥’एताश्च धीराधीरादिभेदेनानेकधा भवन्ति। परमत्र ग्रन्थगौरवभयान्नोच्यन्ते (यथा)॥

परकीया परस्त्री कन्या च।

परस्त्री यथा— ‘दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि तद्वर63मितः स्रोतस्तमालाकुलं नीरन्ध्राः पुनरा64लिखन्तु जरठच्छेदा नलग्रन्थयः॥’कन्या यथा—‘दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यति पूर्वाकारमुरस्तथापि कुचयोः शोभां नवामीहते। नो धत्ते गुरुतां तथाप्युपचिता… नितम्बस्थलं तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वयः॥’

कलाकलापकुशला वैशिकाचारचतुरा धूर्ता चित्तैकबद्धचित्ता सगुणनिर्गुणयोः साधारणी गणिका सामान्या।

यथा—‘गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं संदष्टाधरमुत्कलीकृतलसद्भ्रान्तोरुगल्लस्थलम्। चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम्॥’

एतस्याश्च लिङ्गिनः प्रच्छन्नकामुकाः पण्डकाः सुखप्राप्तवित्ता मूर्खाः पितृवित्तगर्विताश्चाभिगम्याः।

सर्वासामपि योषितां प्रव्रजिता धात्रेयिका हीनस्त्री दासी च दूत्यो भवन्ति।

स्वाधीनपतिका प्रोषितभर्तृका कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका खण्डिता चेति स्त्रीणामष्टाववस्थाः।

यस्याः सौभाग्यबद्धः पतिः पार्श्वंन मुञ्चति सा स्वाधीनपतिका।

यथा— ‘लिखति कुचयोः पत्त्रंकण्ठे नियोजयति स्रजं तिलकमलके कुर्वन्गण्डादुदस्यति कुन्तलान्। इति चटुशतैर्वारंवारं वपुः परितः स्पृशन्विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः॥’

केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा प्रोषितभर्तृका।

यथा—‘श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवोनिर्गताः। सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा॥’

मानकलहेन निर्गते भर्तरि तत्संगमसुखेनान्तरिता कलहान्तरिता।

यथा— ‘उच्छ्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैव न दृश्यते प्रियमुखं नक्तंदिनं रुद्यते। अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथा(थो)पेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः॥’

उचिते वासके प्रगुणीकृतसर्वोपकरणा वासकसज्जा।

यथा— ‘कस्तूरीं परिमर्दय प्रियसखि श्रीखण्डमत्रानय मालां गुम्फ विधेहि केलिशयनं सज्जं प्रदीपं कुरु। संप्रत्येष्यति वल्लभो मम गृहे स्नेहैकपात्रं यतः प्राचीनाचलकाननानि भजते देवस्तमीवल्लभः॥’

चिरयति प्रेयसि विरहेणाकुलिता विरहोत्कण्ठिता।

यथा— ‘किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः। इत्यालोच्य मृगीदृशा करतले संस्थाप्य65 वक्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः॥’

केनापि कारणेन संकेतमनागतेन प्रियेण वञ्चिता विप्रलब्धा।

यथा— ‘यत्संकेतगृहं प्रियेण कथितं संप्रेक्ष्य दूती स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया। स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैरश्रुभिर्भूमावक्षरमालिकेव रचिता दीर्घं रुदन्त्या शनैः॥’

या स्मरार्ता कान्तं स्वयमभिसरति तमभिसारयति वा साभिसारिका।

यथा—‘निशा वा वृष्टिर्यातिमिरमथ वा गर्जिरथ वा तडिद्वा पङ्को वाभिनवसरितां श्रेणिरथ वा। यथेष्टं चेष्टन्तां यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहाढ्यो न खलु शलभौघैर्विरमति॥’

अन्यत्र भर्तरि त्रिरात्रमुषिते खण्डिता। यदाह—‘निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः। यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः॥

यथा— ‘नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम्॥’

ईर्ष्यायाः प्रति कारणं सपत्नी नायिका।

यथा रुक्मिण्या सत्यभामा, वासवदत्तायाः सागरिका, गौर्या गङ्गा च। योषिद्गुणानां च लीलादीनां ग्रन्थगौरवभयान्नात्र विस्तरः॥

अथ दश कामावस्था आह—

अभिलाषचिन्तास्मृतिगुणकीर्तनोद्वेगप्रलापोन्मादव्याधिजडतामरणाख्या दशावस्थाः। स्त्रीपुंसयोः परस्परमालोकनालापादिना अनुक्रमेण भवन्ति।

अथ कालाद्यौचित्यमाह—

तत्रानाद्यन्तः सुषमदुःषमादिद्वादशा66रचक्रपरिवर्तनेन कालो मन्तव्यः। स च काष्ठादिभेदभिन्नः। तद्यथा—पञ्चदश निमेषाः काष्ठा। त्रिंशत्काष्ठाः कला। पञ्चदश कलाः घटिका। द्विघटिको मुहूर्तः। त्रिंशन्मुहूर्तोऽहोरात्रः। तत्र चैत्राश्वयुजोर्मेषतुलासंक्रान्तौ समरात्रिंदिवम्। चैत्रात्परं मौहूर्तिकी दिनवृद्धिर्निशाहानिश्च। मासः67 परावधिः। ततः परं मौहूर्तिकीदिवसहानिर्निशावृद्धिः। अश्वयुजः परतः पुनस्तदेव विपरीतम्।

पञ्चदशाहोरात्रः पक्षः। कृष्णशुक्लपक्षद्वयरूपो मासः। द्वाभ्यां द्वाभ्यां मासाभ्यामृतुः। षड्भिर्मासैरयनम्। तच्च वर्षादि दक्षिणायनम्। शिशिराद्यं तूत्तरायणम्। द्व्ययनः संवत्सरः। स च चैत्रादिरिति दैवज्ञाः। श्रावणादिरिति लोकयात्राविदः।

** **तत्र श्रावणो भाद्रपदश्च वर्षाः। अत्र च शल्लकीशालशिलिन्ध्रयूथीलाङ्गलीकुटजदम्बसर्जार्जुन–केतकीप्रभृतीनां पुष्पोद्गमः। इन्द्रगोपचकोरचातककुरङ्गदर्दुरोरगशिखण्डिमद्गुकङ्कप्रभृतीनां मदः। तथा बलाकासु गर्भाधानम्। वंशाङ्कुराणामवृद्धिः। रजःप्रशमः। नृपयात्रानिवृत्तिः। नीलीदलश्यामला वनभूमिः। वारासारक्षालनतो गिरीणां रम्यत्वम्। नदीनां जलपूरै रोधोभेदः। यतिचारनिवृत्तिः। कामिनीजनावलोकितकान्तमार्गत्वंस्वस्थानं प्रति चलितपान्थसार्थत्वम्। जलदनिकुरुबान्धकारितनभस्तलत्वम्। विद्युदुद्योताद्योतमानदिङ्मुखत्वम्। घनगर्जिताद्वैडूर्यमूभिषु रत्नकन्दलोद्भेदः। कामिनीभिः सहोद्यानयात्रा हर्म्यशिखराग्रशय्या। मृगनाभिगर्भचतुःसमविलेपनम्। कृषीवलकुटुम्बिनीनिकुरम्बरासकाडम्बरो दूर्वाष्टमी पर्वोत्सवश्च वर्णनीयः। तथा दग्धोर्वरागन्धबन्धुर्घनतुषारकणवाही कदम्बकुसुमामोदमांसलः पाश्चात्यपौरस्त्य उत्तरो वायुः।

आश्विनश्च कार्तिकश्च शरत्। अत्र च कुररद्विरेफकारण्डवकादम्बकखञ्जरीटचक्र–वाकसारसक्रौञ्चवृषभकुम्भिकमठबकोटशफरप्रभृतीनां मदोद्भेदः। पद्मकुमुदोत्पलकह्लारबन्धूकबाणा– सनकुङ्कुमशेफालिकासप्तच्छदकाशभाण्डीरसौगन्धिकमालतीनां कुसुमोद्भेदः। तथा मयूराणां मदापनोदः हंसयूथागमनम्। अगस्त्योदयात्ययः। प्रसादः। मुक्ताशुक्ति-गर्भाधानम्। तरुशृङ्गत्यागो नभःप्रसत्तिः। सुरवीथीदर्शनम्। शुभ्राभ्रखण्डमण्डितमस्व-(नभश्च)रमण्डलं धवलतमचन्द्रिकावभासमाननिशामुखत्वम्। महानवम्यां निखिलास्त्रपूजोत्सवः। वाजिभटद्विपानां नीराजनविधिः। नृपाणां यात्रोद्यमः। मार्गेषु पङ्कशोषः। भास्करकराणां दुःसहत्वम्। माधवप्रबोधः। केदारेषु शालिपाको गोपीगीतयश्च। परिपाकापन्नैर्वारुकगन्धोद्गमः। जरस्त्रपुसीफलसौन्दर्यंकृषीवलगेहाजिरेषु चलद्वलयावलीवाचालभुज– लतोल्लासितमुशलोच्छलितकलमशालिणि(नि)ण(?)कगन्धबन्धुरत्वं नदीपूरप्राचुर्यापगमश्च वर्णनीयः। वायुश्चात्रानियतदिक्कः।

मार्गशीर्षः पौषश्च हेमन्तः। अत्र च कुन्दमचकुन्दलवलीफलिनीरोध्रपुंनागानां पुष्पोद्गमः। भ्रमरसर्पमयूरादिजीवानां मदापनोदः। कामिनीनां कुङ्कुमसित्थुकगन्धतैलाद्युपचारः। सर्षपकन्दलवराहवन्ध्रप्रभृतिशाकप्राचुर्यम्। दध्नांसंनद्धरसता। कामिनीकुचानां कवोष्णता। कोष्णाम्भसा स्नानविधिः। दुर्भगाणामपि गाढतराङ्गपरिष्वङ्गः। व्याघ्रीणां प्रसूतिः। नदीपुलिनेषु गोधूमयवादिधान्योद्गमः। सरःकूपपयसां कवोष्णता। धान्यपरिपाकपेशला बहिर्भूमयः। लवणानां पाकः। पत्त्रीप्रभृतिजन्तुयात्रोद्यमहानिर्वैश्वानरप्रियत्वम्। कर्कन्धूनागरङ्गफलानां पाकोद्रेकः। पुण्ड्रैक्षुखण्डानां रसपरिपूति(?)र्मन्दिरगर्भ–

शय्या। उत्तुङ्गतरपीवरपयोधरबन्धुरमधुरसुन्दरीभुजपञ्जरान्तरसेवनं च वर्णनीयम्। वायुश्चात्रोदीच्यः पाश्चात्यो वा वर्णनीयः।

माघः फाल्गुनश्च शिशिरः। अत्र सर्वं हेमन्तवद्वर्णनीयम्। विशेषतश्च मातङ्गहरिणवराहमहिषाणामुत्कर्षः कुङ्कुमगन्धतैलादिसाध्यः प्रचण्डो मरुत्। विचित्रसुरतोपभोगयोग्याश्च यामिन्यः। दन्दह्यमानकालागरुधूपधूमस्तोमेषु स्पृहा। सुरतसंमर्दनिपीतशीतानां पादप्रान्तपुञ्जीकृततलपटानां यूनां शयनावस्थानम्। चन्दनेष्वरुचिः पयसामतिशायि शैत्यम्। तुहिनानलयोर्दाहात्मकत्वेनाभेदः। दुर्भगासुभगयोरालिङ्गनेन विशेषः। शशिभास्करयोः शैत्येन समता। मरुबककुन्देष्वेव पुष्पस्थितिः सिद्धार्थयष्टिसूचीनां परिपाकपेशलत्वम्। औदीच्यपवमानस्त्यानीभूतपानीयपटलान्तरनिलीनदीनमीनासु नालावशेषनलिनीवनो दीनमधुरकरझङ्करासंकारमुखरितदिङ्मण्डलासु वापीष्वनादरः। करीषाग्निसमीपशयितदयितकुटुम्बकत्वं च वर्णनीयम्।

चैत्रवैशाखौ वसन्तः। अत्र च शुकसारिकाहारीतमधुव्रतदात्यूहपुंस्कोकिलादीनां मदः। सहकारकर्णिकारकाञ्चनारकोविदारसिन्दुवाररोहीतककेतककिरातमधूकमोचामाधवीदमनकाञ्जनकुरबतिलकाशोकबकुलगुवाकविच किलनालिकेरहिन्तालपाटलीकिंशुकखर्जूरताडताडीप्रभृतिद्रुमाणामुद्भेदः। तत्र प्रत्युद्यानमान्दोलकक्रीडा पुष्पावचयो मधुपानं स्मरपूजाप्रक्रमो गौरीचरितगानं चम्पकपुष्पाभरणानि प्रत्यमरमन्दिरं यात्रोत्सवो (व्यात्यु) चारुचन्दनाङ्गरागो धौतधवलवसनसेवनं जगज्जनजिगीषुमकरध्वजमहाराजविजययात्राडिण्डिमायमानकोकिलकुलकलकलकलोद्यानरामणीयकं वर्णनीयम्। वायुश्चात्र करिकलभदशनोद्भिद्यमानचन्दनद्रुमामोदमेदुरस्तर लितकेरलीधम्मिल्लबन्धो नागवल्लीवेल्लनपटुर्मानिनीमानतुङ्गमतङ्गजः पञ्चमप्रपञ्चविपञ्चानाचतुरो दाक्षिणात्यः।

ज्येष्ठाषाढौ ग्रीष्मः। अत्र हि नवमालिकाकाशिकाशिरीषकाञ्चनकेतकीधातकीखर्जूरजम्बुपनसप्रियालपूगीफलनारिकेलप्रभृतीनां पुष्पफलोद्भेदः। करभसरभरासभप्रभृतीनां मदोद्भेदः। नदीसरःकूपादिषु निरम्भस्त्वम्। सक्तुधानैर्वारुषु पानकेषु रतिः। पान्थपूर्णाः प्रपाः। प्रातः सायं च वहमानमार्गत्वम्। कायमानेषु माध्याह्निकी निद्रा। दिवसावसाने स्नानविधिः। रात्रिशेषे सुरतक्रीडा। चन्दनादिशीतलद्रव्यसेवा। निशासु चन्द्रकरनिषेवणम्। उत्तुङ्गसौधशृङ्गाग्रविनिर्भिते विशालवायनविवरविहरमाणजगत्प्राणनिर्वाप्यमाण धर्मत्वम्। सहकारभङ्गास्वादः। तालवृन्दजनितोदबिन्दुवृष्टिसरःस्थलस्थायिस्थूलमुक्ताफलहारप्रायाभरणत्वम्। जलार्द्रोपवनजलक्रीडापाटला परिमलवहलितशीतलजलोपभोगो विविधविचकिलस्रज एकदेशोपविष्टवैणिकविपञ्च्यमानवसन्तध्वनिश्रवणं सशर्कराभृतदुग्धपानं मलयजरसदिग्धोद्धुरपयोधर मधुरवधूविविधविधायमाननिधुवनविधिविधीयमानधूतघनधर्मत्वं वर्णनीयम्। तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि तप्यन्त इव पांसवः, आध्मायन्त इव पर्वताः, सेवन्तो मृगदृष्टिकाकीर्णा वनभूमिः, सर्वतोवहदरघट्टघटीयन्त्रचीत्कारमुखरीक्रियमाणमध्यान्युद्यानानि, करवीरकरपुष्पिणी स्थलभूमिः। चीरी–

नादवन्तो वनान्ताः। दाधिकाभ्यवहारः। पङ्कान्तर्लुठनाव्यग्रं कोलकुलम्। रोमन्थमन्थरमुखमहिषीमण्डलमथ्यमानपानीयस्थानम्। लोलज्जिह्वाः समग्रश्वापदसंदोहाः। पक्षिणामंसदेशप्रकर्षो वर्णनीयः। वायुश्चात्र तरुणतरतरणिकिरणसंपर्ककर्कशः शर्कराकणवाही अङ्गारप्रकरं किरन्निव कुतूहलकणान् वर्षन्ति वातिसारितजगज्जन्तुजातदाहहडम्बरो नैर्ऋतोऽनियतादिक्षिपो वा (?) वर्णनीयः। वसुरवस्थश्च॥

ऋतोः संधिः। शैशवं प्रौढिरनुवृत्तिश्च।

तत्र शिशिरवसन्तयोः संधिर्यथा—‘बिंवुठ्ठेमयणं नर्दिति वहलो नो गन्धतिल्लायरा वेणीयो विरयं तिलिंति न तहा अंगंमि कुप्पासयं। जंबाला मुहु कुंकुमं मिवयणे विट्ठंति डिल्लायरा संमत्ते शिशिरं विणिज्जिय बला पत्तो वसंतस्य उ॥’वसन्तस्य शैशवं तथा—‘गर्भग्रन्थिषु वीरुधां सुमनसो मध्येङ्कुरं पल्लवाश्छायामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः। किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरेप्सितं यदि भवेदभ्यासवश्यं धनुः॥’प्रौढिर्यथा— ‘संपिण्डीकृतजीर्णजीरककणाश्रेणिश्रियः केशरान्संनद्धं परितो निरन्तरदलद्रोणीनिवेशैस्त्रिभिः। प्रीतभ्रान्तमधुव्रती चलपितंस्तं च स्तिभीसंकटे गन्धग्राह्यमबाह्यवृत्ति वलति क्रीडावने केतकम्॥’वर्षासु ग्रीष्मलिङ्गानुवृत्तिर्यथा—‘खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चां पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम्। गन्धं मुञ्चति सिक्त्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः॥’इदमन्यच्च यद्यथोक्त्तंकविसमयप्रसिद्धं तत्तथैव निबध्नीयात्। अन्यथा तु प्रकृतिव्यत्ययो नाम दोषः॥

विभावानुभावयोः क्लेशेन यत्र व्यक्त्तिर्भवति सा विभादानुभावक्लेशव्यक्त्तिः।

यथा— ‘परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः। इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः॥’अत्र रतिपरिहारादीनामनुभावादीनां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नप्रतिपाद्यः। यथा च—‘कर्पूरधूलिधवलद्युतिदूरधौतदिङ्मण्डले शिशिररोचिषि तस्य यूनः। लीलाशिरोंशुकनिवेशविशेषक्लृप्तिर्व्यक्त्तस्तनोन्नतिरभून्नयनावनौ सा॥’अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्याभिभवा अनुभावा पर्यवसायिनः स्थिता इति कष्टकल्पना॥

अतिप्रसङ्गेन व्यावर्णनं पुनः पुनर्दीप्तिः।

यथा बालरामायणे उन्मत्तदशाननेऽङ्के (?) पुनः पुनश्चर्व्यमाणो विप्रलम्भो रस उपभुक्त्तमाल्यवच्च वैरस्यमाकलयति॥

अकाण्डे विस्तरोऽकाण्डप्रथनम्।

यथा कर्पूरमञ्जर्यांद्रुमदोहददानादिव्यावर्णनम्॥

असमयत्यागोऽकाण्डच्छेदः।

यथा वीरचरिते द्वितीयाङ्के राघवभार्गवयोः परमकाष्ठाधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति रसान्तरेण रसच्छेदः॥

अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनमङ्गातिविस्तरः।

यथा कादम्बर्यां रूपविलासेत्यादिना महाविप्रलम्भवीजेऽप्युपक्षिप्ते तदनुपयोगिनीषु अटवीशबरेशाश्रममुनिनगरीनृपादिवर्णनास्वेतिम(?)प्रसङ्गाभिनिवेशाः। यथा च शिशुपालवधे उत्क्षिप्तप्रतिद्वन्द्विविजयबीजेन वीररसानुबन्धेऽपि प्रवर्तमाने, तदन्यशृङ्गाराङ्गभूतर्तुवन-विहारपुष्पावचयजलकेलिमधुपानसुरतचन्द्रोदयादिप्रभातादिवर्णनायासत्यासक्त्तिः॥

प्रधानस्याङ्गिनोऽनुबन्धेऽङ्ग्यननुसंधानम्।

यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः॥

अनङ्गस्य रसानुपकारकस्य वर्णनमनङ्गाभिधानम्।

** **यथा कर्पूरमञ्जर्यांनायिकया स्वामिना च वसन्तवर्णनमादृत्य वन्दिवर्णने तस्य राज्ञः प्रशंसनम्॥

इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानो(?)लंकारः॥

नव्यानेकमहाप्रबन्धरचनाचातुर्यविस्फूर्जित–
स्फारोदारयशःप्रचारसततव्याकीर्णविश्वत्रयः।
श्रीमन्नेमिकुमारसूनुरखिलप्रज्ञालुचूडामणिः
काव्यानामनुशासनं वरमिदं चक्रे कविर्वाग्भटः॥

——————————–

]


  1. “‘पौष्प्याः पञ्च शराः शरासनमपि ज्याशून्यमिक्षोर्लता जेतव्यं जगतां त्रयं स च पुनर्जेताप्यनङ्गः किल। इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन्व्यापारः सुतरां विचारपदवीवन्ध्यो विधिर्वन्द्यताम्॥’ इत्यपि प्रत्यन्तरे।” ↩︎

  2. “कर्पूरमञ्जर्यांप्रथमजवनिकायां श्लोकोऽयं वर्तते। ‘यन्मुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधिष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः। तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्तानां घनरेणुनेव छुरितो जातोऽस्म्यत्रान्तरे॥’ इति च्छाया।” ↩︎

  3. “परसवर्णाभावमपेक्ष्येदम्।” ↩︎

  4. " ‘काव्ये शरीरानुगता’ इति नाट्यशास्त्रस्थपाठः।" ↩︎

  5. “‘गर्भान्निर्भिन्न’ इति नाट्यशास्त्रे।” ↩︎

  6. “‘र्श इति स्मृतः’ नाट्य०.” ↩︎

  7. “नाट्यशास्त्रेऽष्टादशाध्याये।” ↩︎

  8. “‘यदनर्थमपाहार्यं’ ‘यदनायकहार्यकार्यम्’ इति वा नाट्यशास्त्रे। " ↩︎

  9. “‘कुरुते प्रभूत’ नाट्य०।” ↩︎

  10. " ‘प्रयोगे’ नाट्य०।” ↩︎

  11. “विशेषेषु’ नाट्य॰।” ↩︎

  12. “‘द्विविधा’ नाट्य॰।” ↩︎

  13. “‘संस्थं’ नाट्य०।” ↩︎

  14. “‘पदम्’नाट्य०।” ↩︎

  15. “‘षड्विंशल्लक्षणयुक्त’ नाट्य ०।” ↩︎

  16. “‘कर्तव्यः’ नाट्य ०।” ↩︎

  17. “‘बहुपुरुषोत्थानयुक्तश्च’ नाट्य ०।” ↩︎

  18. “‘संपन्नः’ नाट्य ०” ↩︎

  19. “‘श्चतुरङ्गविभूषितश्चैव’ नाट्य ०।” ↩︎

  20. “कर्पूरमञ्जर्यामेकोनविंशस्यास्य च्छाया यथा—‘पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते। ये गालितस्य महिषीदध्नःसदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः॥’” ↩︎

  21. " ‘विसंधि’ इति पाठ आदौ त्रुटितो भवेत्।" ↩︎

  22. “तिमिरेऽन्धका अन्धास्तेषां वल्लभः।” ↩︎

  23. “‘गाथानां रसा महिलानां विभ्रमाः कविवराणां वचनानि। कस्य न हरन्ति हृदयं बालानां च मन्मनोल्लापाः॥’ इति च्छाया।” ↩︎

  24. “‘बुद्धिप्रभान्विताः’ इति काव्यप्रदीपे।” ↩︎

  25. “‘काकं खादति क्षिपति कूरं भाषयति निष्ठुरं रुष्टः। शुनकं गृह्णाति कण्ठे आकारयति…………॥’ इति च्छाया।” ↩︎

  26. ““अत्र ‘अस्मै’ इतीदमा प्रक्रमात् ‘तद्विसृष्टाः’ इत्यत्रापि ‘अनेन विसृष्टाः’ इत्येव वाच्यम्” इति काव्यप्रदीपे।” ↩︎

  27. “‘सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः। मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम्॥’ इति काव्यप्रदीपोदाहरणमेव युक्तं प्रतिभाति।” ↩︎

  28. “‘मदेन’ इति काव्यप्रदीपे।” ↩︎

  29. “‘न लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा। उपमा दूषणायालं यत्रोद्वेगो न धीमताम्॥’ इति दण्डी।” ↩︎

  30. “‘भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन। गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन।’ इति च्छाया।” ↩︎

  31. “अनयोश्छाया न स्फुटा।” ↩︎ ↩︎

  32. “‘उच्चिनुष्व पतितानि कुसुमानि मा धुनु शेफालिकां हलिकस्नुषे। एषोऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः॥’ इति च्छाया।” ↩︎

  33. “‘चन्द्र त्वं न गण्यसे यावदेष बहलपत्त्रच्छायः। ग्रामस्य तिलकभूतः शोभते वटः………॥,इति च्छाया.” ↩︎

  34. “‘सह दिवसनिशादीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति। तव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलताया दुर्बला जीविताशा॥’ इति च्छाया।” ↩︎

  35. “‘अये एहि किमपि कस्या अपि कृते निष्कृप भणाम्यलमथवा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्ये॥’ इति च्छाया।” ↩︎ ↩︎

  36. " ‘प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः। स्वाधीना जीर्णसुरा असती मा भवतु किं म्रियताम्॥’ इति च्छाया।" ↩︎

  37. “१.‘रुक्त्तिः’ इति काव्यप्रदीपे.” ↩︎

  38. “काव्यप्रदीपे तु कार्यकारणयोः पौर्वापर्यविवर्ययरूपातिशयोक्त्युदाहरणत्वमङ्गीकृतम्।” ↩︎

  39. “किरातार्जुनीये पञ्चदशसर्गे पञ्चविंशोऽयं श्लोकः।” ↩︎

  40. “शिशुपालवधैकोनविंशसर्गचतुश्चत्वारिंशोऽयं श्लोकः।” ↩︎

  41. “श्लोका अनवगतार्थाः।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  42. “एतदुदाहरणपद्यानि दुर्बोध्यानि।” ↩︎

  43. “व्यञ्जनपरस्यैकस्यानेकस्य वा समानव्यञ्जनस्योच्चारणे श्रवणयोर्विशेषाभावस्य ‘दीङो युडचि–’ इति सूत्रभाष्यसंमतत्वेन जलद्वारार्थकता।” ↩︎

  44. “‘सुखशीर्षजलेषु कम्’ इति मेदिनीतो जलार्थकशब्दस्य सुखार्थत्वमपि।” ↩︎

  45. “स्नानजलमित्यभिप्रायवतो मज्जनजलशब्दस्य ‘मम जनस्य जलम्’ इत्यभिप्रायेण प्रश्नः।” ↩︎

  46. “‘लिङ्गवचनयोः श्लेषो यथा–’ इति काव्यप्रदीपे।” ↩︎

  47. “‘प्राज्यप्रभाः, वः, निर्वृतात्मा नः’ इत्यपि पदच्छेदः।” ↩︎

  48. “‘चक्रे’ इति कृञ्धातोर्लिटि, चक्रशब्दात्सप्तम्यां च समानम्।” ↩︎

  49. “‘देहे’ इति दहधातोर्लिटि, देहशब्दस्य सप्तम्यां च।” ↩︎

  50. “दमयन्तीकथास्थोऽयं श्लोकः।” ↩︎

  51. “‘स त्वारं भरतोऽवश्यमवलं विततारवम्। सर्वदा रणमानैषीदावानलसमस्थितः॥’ इति काव्यप्रदीपे रुद्रटालंकारे च स्फुटः।” ↩︎

  52. “‘न नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम्’ इति रुद्रटालंकारे।” ↩︎

  53. " ‘स्मेराक्षीणां’ इति शोभनम्।" ↩︎

  54. “‘मासीय’ इति पाठ आसीत्।तथापि रुद्रटालंकारस्थोऽयं पाठः साधीयान्धृतः।” ↩︎ ↩︎

  55. “अस्य श्लोकस्यार्थोऽनवगतः।” ↩︎

  56. “रुद्रटालंकारस्थोऽयं श्लोकः।” ↩︎

  57. “सप्तम्यन्तत्वेन दोषाभावः।” ↩︎

  58. “अरीणामिति सेनाविशेषणम्।” ↩︎

  59. “‘नागानि’ इति पाठः।” ↩︎

  60. “‘त्त्रिधा’ इति तूचितम्।” ↩︎

  61. “काव्यप्रकाशे तु ‘स्तेङ्गेषु’ इत्युपलभ्यते।” ↩︎

  62. “चेष्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्णीतत्वादत्रास्य पाठः प्रक्षिप्तः प्रतीयते।” ↩︎

  63. “‘सत्वर’ इति।” ↩︎

  64. " ‘तनुमा’ इति साहित्यदर्पणे।" ↩︎

  65. “‘विन्यस्य’ इति साहित्यदर्पणे।” ↩︎

  66. “तथा चोक्तं हेमाचार्येणाभिधानचिन्तामणौ—‘अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः। एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम्॥’ इति।” ↩︎

  67. “बहुवचनान्तमिदम्। तेन मामत्रयमित्यर्थः।” ↩︎