[[कृष्णभूपालीयम् Source: EB]]
[
[TABLE]
भूमिका
श्रीकृष्णभूपालीयाख्योऽयमलङ्कारग्रन्थः श्रीमन्महाराजाधिराज राजपरमेश्वरप्रौढप्रतापाप्रतिमवीरनरपतिबिरुदेन्तेम्बरगण्ड शङ्खचक्रमकरमत्स्यधरणीवराहशरभसाल्वगण्डभेरुण्डाद्यनेकबिरुदांकितस्य, महिशूरमहासंस्थानमध्यदेदीप्यमान-रत्नसिंहासनारूढस्य मुम्मडिश्रीकृष्णराज ओडेयर् महाप्रभोस्सौशील्य महौदार्य, दाक्षिण्य, विद्वत्पक्षपाताद्यनेक- सुगुणवशंवदैः अनवद्यसाहित्यविद्यानदीष्णैःगरलपुरी चम्पूप्रबन्धाद्यनेककाव्यनिर्माणधुरीणैरस्मत्तातपादैः सोसलेग्रामाभिजनैः गरलपुरीश शास्त्रिभिः प्राचीननवीनालंकारिकाणां मतानुसारेण व्यरचि॥
ग्रन्थेस्मिन्नलंकाराणां लक्षणानि सूत्रप्रायाणि वर्तन्ते। वृत्तिविवरणे च सुप्रसिद्धं श्रीमदप्पय्यदीक्षितविरचित कुवलयानन्दग्रन्थानुसारिणी। स्वकृतान्येवोदाहरणपद्यानि मुम्मडि श्रीकृष्णराजमहाप्रभोर्यशःप्रकाशकान्येव विराजन्ते। तत्तद्विषयवाक्यसरणिश्च विद्वज्जनाह्लादकारिणी भूषयति ग्रन्थमेनं॥
एतादृशं ग्रन्थरत्नं बहोः कालादारभ्य यत्नेन परिरक्षन्नस्मद्गुरूणां यशःपरिरक्षणमप्यस्मत्कर्तव्येष्वन्यतममिति निश्चित्य मुद्रापणेऽस्य कुतुकी जनोयमवर्तत। एवमतीतेषु बहुषु वत्सरेषु श्रीमन्महीशूररत्नसिंहासनाधिपतिरस्मन्महाराजो नाल्वाडि श्रीकृष्णराजेन्द्रओडेयर् बहदूर्, जि.सि.एस्.ऐ.,जि.बि.इ., महाप्रभुस्सावधानं मन्मुखेन ग्रन्थस्यास्य वृत्तान्तमाकर्ण्य राजधान्यामत्र राजकीय शाखामुद्रालय एव ग्रन्थमेनं मुद्रापयितुमाज्ञापयामास। तदनुसारेणैवं सम्मुद्रितं ग्रन्थमेनं सहृदयास्सर्वे विद्वन्मणयस्समालोक्य गुणग्राहिणो भवेयुरित्याशंसे॥
सोसले अय्यशास्त्री
______________________________________________
॥ श्रीरस्तु॥
॥ श्रीमद्धन्विशिखामणये नमः॥
श्रीकृष्णभूपालीयम्
करकलितकुरङ्गशाबनाभि-
क्षरदुरुसौरभवासिताखिलाङ्गं।
अरहिततपसामुपासनीयं
परशिवनाम तनोतु धाम भद्रं॥ १॥
येनाक्षोभि कणादसूक्तिजलधिस्साहित्यसर्वस्ववि-
ल्लोके यश्च यदाश्रया सुकविता स श्रीपुरीशस्सुधीः।
कांचित्कर्तुमनाः कृतिं हि भवतीमेकाग्रतामास्थितो
मातः प्रार्थयते विरिंचदयिते क्षिप्रं दयार्द्रा भव॥ २॥
अलङ्कारावबोधाय बालकानां श्रमं विना।
प्राचां मतानुसारेण कुर्वेऽलङ्कारसंग्रहं॥ ३॥
अलङ्कारानलंकर्तुं शब्दार्थान्यतराश्रयान्।
उदाहरिष्यते कृष्णभूपालगुणमण्डलं॥ ४॥
तत्रतावदलंक्रियते अनेन काव्यशरीरमिति काव्यशरीरभूतशब्दार्थचारुत्वातिशयहेतुरलंकारः। शब्दार्थचारुत्वातिशयहेतुत्वं च शब्दार्थान्यतरनिष्ठा या विषयितासंबंधावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वं। भवति हि अनुप्रासादि विशिष्टशब्दश्रवणेन उपमादि विशिष्टार्थपरिभावनया च सहृदयानां चेतसि चमत्कारातिशय इति लक्षणानुगतिः। न च गुणानामपि तथात्वं। शब्दार्थान्यतरधर्मत्वेनापि विशेषणीयत्वात्तेषां च घटनाधर्माणामतथात्वादिति दिक्॥
ते चालंकाराश्शब्दार्थगतत्वेन द्विधा। तत्रानुप्रासादयश्शब्दालंकारा वक्ष्यन्ते। अर्थालंकाराणामप्यभ्यर्हितत्वात्प्रथमं तावदुपमा निरूप्यते॥
लक्षणं १—प्रकृताप्रकृतयोश्चारुसादृश्याभिधानमुपमा॥
सा द्विविधा, पूर्णा लुप्ता चेति। उपमानोपमेयसाधारणधर्मसादृश्यवाचकानां चतुर्णां शब्दानामुपादाने पूर्णा। तत्रैकस्य द्वयोस्त्रयाणां वाऽनुपादाने लुप्ता। साचाष्टविधा। वाचकलुप्ता, धर्मलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, उपमानलुप्ता, वाचकोपमानलुप्ता, धर्मोपमानलुप्ता, धर्मोपमानवाचकलुप्ताचेति।
पूर्णा यथा—
प्रवृत्ते कृष्णभूभर्तुस्साम्राज्यश्रीस्वयंवरे।
प्रजा ववृधिरे हर्षाच्चन्द्रोदय इवाब्धयः॥१॥
अत्र अब्धयः प्रजाः ववृधिरे इवेति चतुर्णामुपादानं। इदमत्रावधेयं। चन्द्रोदयकालिकत्वस्य उपमानधर्मस्य राज्यलक्ष्मीस्वयंवरकालिकत्वस्योपमेयधर्मस्य च भेदेपि बिंबप्रतिबिंबभावेन अभेदाध्यवसायात्तयोरपि साधारणधर्मतेति। उक्तं हि आर्यदीक्षितचरणैः। वस्तुतो भिन्नयोरपि परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानं बिंबप्रतिबिंबभाव इत्यालंकारिकसमय इति॥
वाचकलुप्ता, धर्मलुप्ता, धर्मवाचकलुप्ता च यथा—
कंदर्पसुंदरस्सोयं कल्याणगिरिसन्निभः।
रत्नसिंहासनांभोजे सांप्रतं राजहंसति॥२॥
अत्र कंदर्पसुंदर इत्यत्र वाचकलोपः। कंदर्प इव सुंदर इत्यर्थे उपमानानि सामान्यवचनैरिति समासविधायकशास्त्रकृतः। कल्याणगिरिसन्निभ इत्यत्र धर्मलोप ऐच्छिकः। औन्नत्येन कल्याणगिरिसन्निभ इत्यपि वक्तुं शक्यत्वात्। राजहंसतीत्यत्र धर्मवाचकलोपः। राजहंस इवाचरतीत्याचारार्थे विहितस्य क्विपः
इव शब्देन सह लोपात्। अत्रापि धर्मलोप ऐच्छिकः। सुखासीनतया राजहंसतीत्यपि वक्तुं शक्यत्वात्॥
वाचकोपमेयलुप्ता यथा—
धर्मात्मा कृष्णराजेन्द्रश्शास्ति विश्वंभरामिति।
वार्ता विद्यावतां कर्णे माधुर्येण सुधीयति॥३॥
अत्र माधुर्येण सुधीयतीत्यत्र वाचकोपमेयलोपः। तत्र माधुर्येणेति विशेषणसामर्थ्यात्स्वात्मानं सुधामिवाचरतीत्यस्यार्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपमावाचकेनानुपादानात्। सोप्यैच्छिकः। स्वात्मानं सुधीयतीत्यपि वक्तुं शक्यत्वात्॥
उपमानलुप्ता, वाचकोपमानलुप्ता, धर्मोपमानलुप्ता, धर्मोपमानवाचकलुप्ता च यथा—
समिदपहरणाय प्रस्थितो यत्र तस्यां
वनभुवि मृगयार्थी कृष्णभूपो यदागात्।
मम यदपि ततोऽर्थप्रापणं यागयोग्यं
तदिदमतिविचित्रं काकतालयिमासीत्॥४॥
अत्र कस्यचिद्ब्राह्मणस्य वचने काकतालीयमित्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ। तेन
काकागमनमिव तालपतनमिव काकतालमिति इवार्थे समासाच्चतद्विषयादिति ज्ञापकात्समासः उभयत्रोपमेयं स्वस्य समिदाहरणार्थं क्वचिद्वने गमनं तत्रैव मृगयानुसारेण नृपस्यागमनं च तेन स्वस्य नृपस्य च समागमः काकतालसमागमसदृश इति फलति। ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे समासाच्चतद्विषयादिति सूत्रेण इवेप्रतिकृतावित्यधिंकारस्थेन छ प्रत्ययः। तथाच यथा पतनदलितात्तालफलात्काकस्य रसविशेषलाभस्तथा विविक्तदर्शनप्रीतमनसो नृपात्स्वस्य यागोपयुक्त धनलाभ इति तदर्थः। ततश्चात्र काकागमन तालपतनसमागमरूपस्य काकसंबन्धि तालरसलाभरूपस्यचोपमानस्यानुपादानात्प्रत्ययार्थोपमायामुपमानलोपःसमासार्थोपमायां वाचकोपमानलोपः सर्वोप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः। अतिविचित्रमिति साधारणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः समासार्थोपमायां धर्मोपमानवाचकलोप इति सूक्ष्मदृष्ट्याऽवगन्तव्यं॥१॥
२—स्वस्य स्वेनैव सादृश्याभिधानमनन्वयः॥
वर्ण्यमानमपि स्वस्य स्वेन साधर्म्यं नान्वेतीति व्युत्पत्तेः।
अनन्वयिनोप्यर्थस्याभिधानं तु द्वितीयसब्रह्मचारिव्यावृत्याऽनुपमत्वद्योतनाय। यथा—
सदसदवनानुशासन शरणागतरक्षणादि सुगुणेषु।
जयति श्रीकृष्णविभुः श्रीकृष्णविभुर्यथा जगति॥५॥
अत्र श्रीकृष्णविभुः श्रीकृष्णविभुर्यथा जयतीत्युक्त्या नान्यस्सदृशोऽस्तीति सदृशांतरव्यवच्छेदेन तस्यानुपमत्वे पर्यवसानम्॥ २॥
३—द्वयोः पर्यायेण सादृश्याभिधानमुपमेयोपमा॥
पर्यायो यौगपद्याभावः स्वस्य तेन तस्य स्वेन च द्विधा सादृश्याभिधानमिति यावत्। एवं च द्वयोरेकस्यापरेण सादृश्येऽभिहिते तस्याप्यनेन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीय सदृशवस्तुव्यवच्छेदं फलति। यथा—
लङ्घयति सप्तसिन्धूनुज्वलयत्यवधिशैलपश्चार्धं।
यश इव तेजः कृष्णक्षितिपालमणेर्यशश्च तेज इव॥६॥
अत्र कृष्णप्रभुयशः प्रतापयोः पर्यायेण सादृश्यमभिहितम्॥३॥
४–उपमानस्योपमेयत्वकल्पनं प्रतीपं प्रसिद्धोपमानोपमेयभावप्रातिलौम्यात्॥
यथा—
तावकीन रिपुभूपति कांता कुन्तलोपमतमश्छिदुरस्य।
कृष्णभूपतिमणे द्युमणेस्स्यात्तेजसा तव कथं न सखित्वम्॥७॥
अत्र कान्ताकुन्तलोपमानत्वेन प्रसिद्धस्य तमसस्तदुपमेयत्वं कल्पितम्॥
अन्योपमेयलाभेन वर्ण्याहंकारनिराकरणं पूर्वस्माद्विच्छित्तिविशेषशालि द्वितीयं प्रतीपं॥
यथा—
किं गर्वमुद्वहसि कृष्णनृपस्य भद्रे
प्रेमातिरेकपदवी सुषुमा ममेति।
जानासि वा न हृदये प्रतिलाल्यमाना–
मीदृग्विधां दुहितरं कलशार्णवस्य॥८॥
अत्र अत्युत्कृष्टसौंदर्यशालितयाऽन्यत्र स्वसादृश्यमसहमानायाः कस्याश्चिन्नृपप्रेयस्याः हृदयगतां लक्ष्मीं निर्दिश्याहंता निराकृता ॥
वर्ण्योपमेयलाभेनान्याहंकारनिराकरणमपि पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपं॥
यथा—
अलमलमतिगर्वभरैस्सुरभे चिंतामणे सुपर्वतरो।
नन्वस्ति कृष्णनृपतिः कर्णाटपदे भवादृशो दाता॥९॥
अत्रात्युत्कृष्टवादान्यकगुणशालितयाऽन्यत्रोपमानभावमसहमानानां सुरभ्यादीनां तथाविधं कृष्णप्रभुं निर्दिश्याहंता निराकृता॥
अन्यस्य वर्ण्योपमित्यनिष्पत्तिः पूर्वेभ्य उत्कर्षशालि चतुर्थं प्रतीपं॥
यथा—
शारदीं पूर्णिमामेव श्रयतामेष चन्द्रमाः।
कीर्त्या कर्णाटराजस्य समतां लभतां कथं॥१०॥
अत्र समतां कथं लभतामित्याक्षेपेण चंद्रस्य कीर्त्युपमित्यनिष्पत्तिः॥
उपमानकैमर्थ्यमप्युपमानप्रातिकूल्यात्पंचमं प्रतीपं॥
यथा—
वितरणगुणभाजि कृष्णभूपे
जयति वदान्यमहीरुहैः किमेभिः।
इति मनसि विमृश्य पंचतातो
नियतमयोजयदव्जयोनिरेनान्॥११॥
अत्र कृष्णप्रभोरौदार्यधूर्वहतया उपमानानां कल्पवृक्षाणां कैमर्थ्यमुक्तं। इत्थं पंच प्रतीपानि॥४॥
५—विषयिणो रूपेण विषयस्य रंजनं रूपकं अन्यरूपेण रूपवत्करणात्॥
रंजनमारोपापरपर्यायकमाहार्यज्ञानं। तच्च रूपं द्विविधमभेदस्ताद्रूप्यंचेति। तथा च विषयस्य प्रसिद्धविषय्यभेदानुरंजने अभेदरूपकं। तत्ताद्रूप्यमात्रानुरंजने ताद्रूप्यरूपकमिति प्रथमतो द्विविधं रूपकं। द्विविधमपि प्रत्येकं त्रिविधं प्रसिद्धविषम्याधिक्यवर्णनेन तन्न्यूनत्ववर्णनेन अनुभयोक्त्या च। एवं रूपकं षड्विधं। क्रमेणोदाहरणानि॥
अधिकाभेदरूपकं यथा—
कृष्णभूपयशश्चंद्रो निष्कलंकः प्रकाशते।
येनात्रोदयमानेन सज्योत्स्ना भुवनत्रयी॥१२॥
अत्र वर्णनीयस्य यशसः यशश्चंद्र इति प्रसिद्ध चंद्राभेदानुरंजनाच्चंद्रस्य पूर्वावस्थातो वर्णनीय यशोभावावस्थायां निष्कलंक इत्युत्कर्षविभावनादेवमुत्तरार्धे जगत्त्रयधवलीकरणसामर्थ्यविभावनाच्चाधिकाभेदरूपकं॥
न्यूनाभेदरूपकं यथा—
सहस्रधा करग्राही प्रतापतपनस्तव।
समुल्लसति कृष्णेंद्र शत्रुमात्रातितापकृत्॥१३॥
अत्र वर्णनीयस्य प्रतापस्य प्रतापतपन इति प्रसिद्धतपनाभेदानुरंजनात्तपनस्य पूर्वावस्थातो वर्णनीयप्रतापत्वावस्थायां शत्रुमात्रातितापकृदिति मात्रशब्देन इतरसंतापकारित्वव्यवच्छेददर्शनाच्च न्यूनाभेदरूपकं॥
अनुभयाभेदरूपकं यथा—
व्योमश्यामद्युतिमसिलतां रक्तसिक्तारुणाग्रां
संध्यारोचिः कवचितमुखीं यामिनीं मन्यमानाः।
अस्य क्षोणीवलयजयिनश्चामराजेंद्रसूनो–
रस्तं यांति प्रतिभटभुजस्तंभतेजोंशुमंतः॥१४॥
अत्र तेजोंशुमंत इत्यत्र तेजसः अंशुमदभेदानुरंजनादाधिक्यन्यूनत्वयोरप्रतिपादनाच्चानुभयाभेदरूपकं॥
ननु उदाहरणत्रयेपि यशश्चंद्र प्रतापतपनः तेजोंशुमंत इत्यत्र च पूर्वपदार्थप्रधानोपमितसमासाश्रयणासंभवादुपमैवास्तु। मैवं। तत्तद्विशेषणमुख्यार्थान्वयस्वारस्यबलेनोत्तरपदार्थप्रधानमयूरव्यसकादिसमासाश्रयणस्यैवोचितत्वाद्रूपकसिद्धेरिति॥
अधिकताद्रूप्यरूपकं यथा—
कर्णाटकान्तानयनोत्पलाना–
मानन्दसन्दोहवदान्यमूर्तिः।
श्रीकृष्णनामा वसुधामहेन्द्र–
श्चन्द्रोयमन्यस्सततं वृषोच्चः॥१५॥
अत्रायमन्यश्चन्द्र इति वर्णनीयस्य राज्ञः चन्द्रभेदप्रदर्शनपूर्वकं तत्ताद्रूप्यानुरञ्जनात्सततं वृषोच्च इति ततोस्याधिक्यप्रतिपादनाच्चाधिकताद्रूप्यरूपकं॥
न्यूनतादृप्यरूपकं यथा—
वाग्भिः किमद्य बह्वीभिः क्षोणीत्राणकृतोदयः।
द्विबाहुरपरो विष्णुः श्रीमान्कृष्णक्षमापतिः॥१६॥
अत्र कृष्णक्षमापतिरपरोविष्णुरिति विष्णुभेदप्रदर्शनपूर्वकं तस्य तत्ताद्रूप्यानुरञ्जनाद्विबाहुरिति ततोस्य न्यूनत्वोपपादनाच्च न्यूनताद्रूप्यरूपकम्॥
अनुभयताद्रूप्यरूपकं यथा—
अत्रेरन्वय एषनाम कलशांभोराशिरन्योमहा–
न्यस्तस्मादुदियाय कृष्णनृपतिस्सौम्यो वदान्यद्रुमः।
यत्र प्राप्यसमाश्रयास्सुकृतिनस्सर्वोन्नतप्राभवे
नानारूपफलोपभोगरसिकास्सुख्यंन्ति संतो द्विजाः॥१७॥
अत्रात्रेरन्वयोनामापरः क्षीरोदस्तदुदितः कृष्णप्रभुरन्योवदान्यद्रुम इति च क्षीरोदादिभेदप्रदर्शनपूर्वकं तत्तत्ताद्रूप्यमात्रानुरञ्जनादाधिक्यन्यूनत्वयोरप्रतिपादनाच्चानुभयताद्रूप्यरूपकं॥ ५
६—आरोप्यमाणस्य विषयिणः किंचित्कार्योपयोगार्थं विषयात्मना परिणतिः परिणामः॥
यथा—
मृदुना करपल्लवेन वीणां
क्वणयन्त्यो दिवि देववारकान्ताः।
पुलकोद्गमदर्शितप्रमोदा–
स्तव गायन्ति यशांसि राजमौले॥१८॥
अत्रारोप्यमाणस्य पल्लवस्य वीणाक्वणनोपयोगित्वं निबध्यते। न तु करस्य। मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात्। न न करः पल्लवइवेत्युपमितसमासाश्रयेणन पूर्वपदार्थप्राधान्यमस्विति वाच्यं मृदुनेति सामान्यधर्मप्रयोगात्। उपमितं व्याघ्रादिभिस्सामान्याप्रयोग इति तदप्रयोगएवोपमितसमासानुशासनात्। पल्लवस्य वीणाक्वणनोपयोगित्वं तावन्नस्यात्मना संभवति। अतः प्रकृतकरात्मना परिणत्यपेक्षणात्परिणामालंकारः॥६॥
७—एकस्यानेकैरनेकधा ग्रहणमुल्लेखः॥
यथा—
भृगूणां मूर्धन्यो मुनिरिति मुदा कर्मसचिवा
ऋषिस्साक्षाद्वात्स्यायन इति परं नर्मसचिवाः।
अयं चान्यश्श्रीमान्मनुरिति धिया धर्मसचिवा
नृपं तं सेवन्ते सदसि च रहस्यग्निशरणे॥१९॥
अत्रैक एव राजा दण्डनीतिनैपुण्यकलाशास्त्रप्रावीण्यधर्मशास्त्रकौशल्यशालीति कृत्वा राज्यतन्त्रसहायैरमात्यैरन्तःपुरसहायैर्विदूषकादिभिरिष्टापूर्तादिसहायैः पुरोधःप्रभृतिभिश्च स्वस्वोपदेशतारतम्यग्रहणचातुर्यविलोकनजनितसंतोषशालिभिर्यो दण्डनीतिप्रणेता शुक्रः यश्च कलाशास्त्रप्रणेता वात्स्यायनमुनिर्यश्चापि स्मृतिप्रणेता मनुस्तत्तद्रूपेण मन्त्रस्थाने अन्तःपुरोद्यानादौ अग्निहोत्रशालायां च स्व स्व सेवासमये गृहीत इत्युल्लेखालंकारः॥
एकेनैव विषयभेदादनेकधा ग्रहणमप्युल्लेखः॥
यथा—
यशसि पृथुर्वचसि गुरुस्तेजसि भास्वात्रणे महासेनः।
पुरुषोत्तमः कृपायां श्रीमान्कृष्णक्षमापतिर्जयति॥२०॥
अत्र एकेनैव ग्रहीत्रा कीर्त्यादिविषयभेदेन पृथुत्वादिनाऽनेकधा ग्रहणं। पूर्वं रूपकसंकीर्णमिदं श्लेषसंकीर्णम्॥७॥
८—सदृशानुभवाद्वस्त्वंतरस्मरणं स्मृतिः॥
यथा—
संश्रित्य क्षितिरकुतोभयप्रचारं
कृष्णक्ष्मारमणशिरोमणेर्भुजाग्रं।
अस्मार्षीत्सपदि पुराणपोत्रिमूर्ते-
र्दंष्ट्रायाः प्रथमतरस्वपीठिकायाः॥२१॥
अत्र भूमेः कृष्णभूपबाहुस्पर्शनानुभवेन पुरानुभूत तत्सदृशभगवद्वराहदंष्ट्रास्मृतिर्निबद्धा॥८॥
९—सादृश्यादतस्मिन् तद्ग्रहो भ्रांतिः॥
यथा—
कृष्णेन्द्रमंदिरशिरोगृहशेखराग्र-
प्रत्युप्तशक्रमणिसंततिकांतिरेखां।
क्रोशोच्छ्रितां प्रियसखीं दिवि मन्यमाना
मंदाकिनी बत ससंभ्रममुज्जजृंभे॥२२॥
अत्र मंदाकिन्याः कृष्णप्रभुमंदिराग्रशक्रोपलप्रभापटलिकायां यमुनाभ्रांतिर्निबद्धा॥९॥
१०—सादृश्याद्विषयस्य संदिह्यमानत्वे संदेहः॥
यथा—
लोकद्रोहप्रवणयवनोन्मूलनायावतीर्णः
प्राग्देवक्यामिव किमु हरिः केंपनंजांबिकायां।
किंस्विच्चूडातुहिनरुचिना स्वान्ववायोत्सवाय
श्रीगौरीशः शुचि तदुदरं प्राविशत्प्रार्थ्यमानः॥२३॥
केंपनंजांबिका कृष्णप्रभुमाता। तस्यामवतीर्णः हरिर्वा शिवोवेति द्रष्टृजनसंशयो नृपसादृश्यमूलक इति संदेहालंकारः॥१०॥
११—धर्मिणिक्वचिदन्यधर्मारोपार्थस्तद्धर्मनिह्नवश्शुद्धापह्नुतिः॥
यथा—
द्यामुपध्नमवलंब्य सृतायाः
कृष्णभूरमणकीर्तिलतायाः।
कुट्मलान्युपरि भांति समंता-
त्तानिभानि गणयंत्यनभिज्ञाः॥२४॥
अत्र नक्षत्रेषु नभः प्रसृतकृष्णप्रभुकीर्तिलताकुट्मलत्वारोपार्थस्तदीयनक्षत्रत्वापह्नवो नक्षत्राणीमानीति गणनाया अज्ञपक्षत्वोपन्यासेनाविष्कृतः॥
अयमेवापह्नवस्सयुक्तिकश्चेद्धेत्वपह्नुतिः॥
यथा—
स्थिरा न विद्युन्न लताचरिष्णु–
र्नमानवीष्वीदृशरूपसृष्टिः।
तन्नूनमेषा स्मरशांबरीति
प्रियां रहः श्लिष्यति कृष्णभूपः॥२५॥
अत्र प्रियायां स्मरशाम्बरीत्वारोपार्थो विद्युत्वाद्यपह्नवः स्थैर्यादि युक्तिसहकृतः॥
धर्मिणि क्वचिदन्यत्र तदारोपार्थस्तद्धर्मनिह्नवः पर्यस्तापह्नुतिः॥
यथा—
मृत्युर्नलोकस्य पतिः पितॄणां कस्तर्हि मृत्युर्भुवनेषु सैव।
या वृत्तिरेतन्नृपतेरपथ्या कर्णाटभूमण्डलमण्डनस्य॥२६॥
अत्र प्रसिद्धयमे तदीयमृत्युत्वापह्नवो वर्णनीय राजप्रतिकुलवृत्तौ तदारोपार्थः॥
कस्यचित्कुत्रचिद्भ्रान्तौ तत्त्वाख्यानात्तन्निराकरणं भ्रान्तापह्नुतिः॥
यथा—
विशृङ्खलमिलातलं चुलकयन्मृणालच्छवि-
स्सुधांबुधिरयं रयादभिनभोग्रमुद्रिच्यते।
किमेतदतिकौतुकं बत गुरो कृतं संभ्रमै-
रसस्सुरपते धरापतियशश्शिशुर्वर्धते॥२७॥
अत्र महेन्द्रस्य वर्धमानकृष्णप्रभुयशसि ऊर्ध्वं उद्रिच्यमानक्षीरसमुद्रभ्रान्तिः गुरुणा अस स्स नभवतीत्यादि तत्वाख्यानान्निराकृता॥
अन्यशङ्कया स्त्रोक्तेस्तात्पर्यान्तरवर्णनेन तथ्यनिह्नवच्छेकापह्नुतिः॥
छेकाः विदग्धाः। यथा—
अम्बरमुल्लास्य शनैः पयोधरप्रान्तसंमुखीनकरः।
नन्दयति रागभरितः किं कृष्णेन्द्रश्शुभांगि न हि चन्द्रः॥२८॥
अत्र विदग्धनायिकया कयाचित्स्वनर्मसखींप्रत्यम्बरमुल्लास्येत्यादिना स्वनायकस्य कृष्णनृपस्य नैशिकवृत्तान्ते कथिते तदाकर्ण्य किं कृष्णेन्द्र इति शंकितवतीमितरां सपत्नीसाधारणीं वयस्यांप्रति न हि चन्द्र इति तथ्यनिह्नवः कृतः॥
व्याजादिपदैर्निन्ह्नुतेरभिव्यक्तौ कैतवापदुतिः॥
यथा—
व्रजति महोत्सवे यदि कदाचन कृष्णविभुः
करिवरमौपवाह्यमधिरुह्य स राजपथे।
पुरसुदृशस्तदा स्ववशएव गृहीतुममुं
स्मरशरपञ्जरं विरचयन्ति दृगन्तमिषात्॥२९॥
अत्र असत्यत्वाभिधायिना कैतवपर्यायेण मिषशब्देन नेमे
दृगन्ताः किंतु स्मरशरपञ्जरमित्यपह्नुतेः प्रत्यायनात्कैतवापह्नुतिः। इत्थं षडपह्नवाः॥११॥
१२—तदन्यस्य तत्तादात्म्यसम्भावना उत्प्रेक्षा।
सम्भावना च ऊहतर्काद्यपरपर्यायो बुद्धिविशेषः। सा त्रिविधा। वस्तूत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षाचेति। तत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसम्भावना वस्तूत्प्रेक्षा। सैव स्वरूपोत्प्रेक्षेत्युच्यते। स्वरूपोत्प्रेक्षापि सम्भाव्यमानस्य विषयस्य उक्तत्वगम्यत्वाभ्यां उक्तविषयाऽनुक्तविषयाचेति द्विविधा। तदहेतोस्तद्धेतुत्वेन तदफलस्य तत्फलत्वेन च सम्भावने हेतूत्प्रेक्षा फलोत्प्रेक्षे। ते अपि सम्भाव्यमानयोर्हेतुफलयोस्सिद्धत्वासिद्धत्वाभ्यां सिद्धहेतूत्प्रेक्षा, असिद्धहेतूत्प्रेक्षा, सिद्धफलोत्प्रेक्षा, असिद्धफलोत्प्रेक्षाचेति प्रत्येकं द्विविधे। एवं षडुत्प्रेक्षाः। क्रमेणोदाहरणानि॥
उक्तविषया स्वरूपोत्प्रेक्षा यथा—
दिगन्तरोच्चाटितवीरविद्विषो
रणे कृपाणी शशिवंशभूपतेः।
भिया कराम्भोजकुटीतटीजुषो
रराज वेणीव तदा जयश्रियः॥३०॥
अत्र कृष्णप्रभुकरखड्गलतायाः नीलिमद्राघिमादि धर्मसम्बन्धेन गम्यमानेन निमित्तेन रणावलोकनजनितसाध्वसोद्विग्नतया तत्करारविन्दरूपस्वगृहाङ्कणं झाडिति प्रविष्टाया जयश्रियो वेणीतादात्म्योत्प्रेक्षा विषयस्य खड्गस्य उपात्तत्वादुक्तविषया। ननु इवशब्दस्य उपमायां प्रयोगप्राचुर्यादुपमाबाधकस्यचाभावादत्रोपमैवास्तु। मैवं। उपमायाः यत्रक्वचनस्थितया वेण्यासाकमपि वक्तुं शक्यत्वात्तत्र विशिष्टजयलक्ष्मीसम्बन्धित्वविशेषणवैय्यर्थ्यप्रसंगेन इवशब्दस्य सम्भावनार्थकत्वस्वीकारावश्यम्भावात्। अस्ति सम्भावनायामपीवशब्दः दूरे तिष्ठन् देवदत्त इव भातीति॥
अनुक्तविषया स्वरूपोत्प्रेक्षा यथा—
परुषे पुरुषेश्वरस्य सेना
जयनिस्साणरवे विजृम्भमाणे।
द्रवतां शरणार्थिनामरीणा-
मभयं शैलगुहाइवोच्चरन्ति॥३१॥
अत्र शैलगुहाभ्यो भेरीशब्दप्रतिध्वनिनिर्गमनं भयात्पलायमानानां शत्रूणामत्र निलीय प्राणान् रक्षतेति गुहाकर्तृकाऽभयशब्दोच्चारणतयोत्प्रेक्ष्यते। गोप्तृसमवेतत्वं निमित्तधर्मः। तथाच विषयस्य प्रतिध्वनिनिर्गमनस्यानुपात्तत्वादनुक्तविषया स्वरूपोत्प्रेक्षा॥
सिद्धहेतूत्प्रेक्षा यथा—
तदुरुभुजमहौजः खण्डितारातियोध–
प्रियतमशतलाभे नोपकारेण नूनम्।
रणभुवि धृतशौर्यश्रीकरं कृष्णराजं
सुरतरुसुमनोभिस्स्वर्वधूट्योऽभ्यसिञ्चन्॥३२॥
अत्र महीतलगतैर्महापुरुषैर्महत्तरकर्मानुष्ठाने अप्सरसश्शक्राज्ञया पुष्पवर्षं वितन्वते। न तु तन्मूलकप्रियतमलाभाद्युपकारेणेति तदहेतोस्तस्य तद्धेतुत्वेन सम्भावना हेतूत्प्रेक्षा। प्रियतमशतलाभरूपस्योपकारस्य शास्त्रप्रसिद्धत्वात्सिद्धविषया॥
असिद्धहेतूत्प्रेक्षा यथा—
युधि कृष्णराजभुजनिर्मथिता
रविमण्डलं रिपुभटा बिभिदुः।
तदुरुप्रतापहुतभुक्कणिका
समतावलोकजनुषेव रुषा॥३३॥
अत्र रणहताः प्रवीरपुरुषाः स्वकर्मणा रविमण्डलं भिन्दन्ति। “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिना” विति स्मरणात्। नतु वैरिप्रताप सादृश्यावलोकन प्रयुक्तरोषादिनेति। अहेतोः कविमतिविकासकल्पितस्य तस्य तद्धेतुत्वसम्भावनाऽसिद्धहेतूत्प्रेक्षा॥
सिद्धफलोत्प्रेक्षा यथा—
गुणोत्तरं कृष्णनृपालरत्नं
पतिं किल प्राप्तुमियं धरित्री।
नारायणक्रोडकरालदंष्ट्रा
सूचीमुखे घोरतपश्चचार॥३४॥
अत्र धरित्र्याः पुरातनभगवद्वराहदंष्टाग्रस्थितेस्सूच्यग्रतपस्त्वेनाध्यवसितायाः वस्तुतः कृष्णराजपत्नीत्वप्रापणं न फलमिति सतएव तस्य तत्फलत्वेन सम्भावना सिद्धफलोत्प्रेक्षा॥
असिद्धफलोत्प्रेक्षा यथा—
घाटीषु कृष्णक्षितिपालमौले–
र्घावत्तुरङ्गक्षतभूमिरेणुः।
रणोत्सवात्सुक्यजुषस्सुरर्षे–
रामन्त्रणायेव दिवं प्रयाति॥३५॥
अत्र स्वर्गप्रयाणत्वेनाध्यवसितस्य सेनाधूल्युद्गमनस्य वस्तुगत्या नारदामन्त्रणं न फलमिति असतस्तस्य तत्फलत्वसम्भावना असिद्धफलोत्प्रेक्षा। एता एवोत्प्रेक्षाः॥
मन्ये नूनं ध्रुवं शङ्के प्रायइत्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोपि तादृशः॥
इत्युत्प्रेक्षाव्यञ्जकत्वेन परिगणितानां शब्दानामनुपादाने गम्योत्प्रेक्षा इत्युच्यन्ते॥
यथा—
सहस्रवक्त्रांतरुदित्वरोग्र–
विषानलज्वालभरासहिष्णुः।
फणाभृतामीशमपास्य भूमि–
रशिश्रयत्कृष्णनृपं कृपार्द्रं॥३६॥
अत्र असहिष्णुरिवेत्युत्प्रेक्षा गम्या॥१२॥
१३—विषयनिगरणपूर्वकं विषयस्य विषयिरूपताध्यवसानं रूपकातिशयोक्तिः॥
विषयस्य निगरणं नाम स्ववाचकशब्देनोल्लेखनं विना विषयिवाचकेनैव शब्देन ग्रहणं। अध्यवसानमाहार्यनिश्चयः॥
यथा—
तिमिरनिकरैरिन्दुस्सान्द्रैः प्रसह्यगृहीतइ–
त्यतिकृशतनुर्ज्योत्सांकूरो व्यलीयत पल्लवे।
इदमिव पुरः पश्यन्नीलोत्पलं च निमीलितं
तदनु सुमनोमाला म्लाना पपात ममोरसि॥३७॥
अत्र पुंभावरतिप्रगल्भया कयाचिद्रजनीमतिवाह्य प्रातस्स्वनर्मसचिवं प्रति कृष्णप्रभोरेव वचनमित्युदाहरणसङ्गतिः अत्र तिमिरादिशब्देन चिकुरादयो विषया निगीर्णाः। रूपकपदं च रूपकवदतिशयोक्तिरिति। रूपकदर्शितान। विधानामत्रापि सम्भवोऽस्तीति ज्ञापनाय॥
अस्याएवातिशयोक्तेरपह्नवगर्भत्वे सापह्नवातिशयोक्तिः॥
यथा—
न सिन्धोरुत्पत्तिर्न च शिवशिरोघौ निवसति-
र्द्वयं काकोलस्य स्मरसख भवदर्शनवशे।
यतस्त्वां पश्यंत्या युवतिविततेर्मज्जति घृति–
शिशरः कम्पं धत्ते तपति च तनुर्मुह्यति मनः॥३८॥
अत्र कृष्णप्रभुविषयकदर्शने उत्पद्य वर्तमानं युवतिमोहकत्वमेव विषमित्यतिशयोक्तिः। सिन्धावुत्पद्य हरकण्ठे वर्तमानं विषं न भवतीत्यपह्नवगर्भा॥
तस्यैव तदन्यत्वेन वर्णनं भेदकातिशयोक्तिः॥
यथा—
तिष्ठन्तु प्रतिशुद्धान्तं नार्यस्सौन्दर्यगर्विताः।
सखि त्वयि तु कृष्णेन्दोः काप्यन्या प्रणयस्थितिः॥३९॥
अत्र प्रणयस्थितेर्लोकसिद्धप्रणयस्थित्यभेदेपि भेदो वर्णितः॥
वस्तुनः कस्यचिद्वस्त्वन्तरासम्बन्धेपि तत्सम्बन्धवर्णनं सम्बन्धातिशयोक्तिः॥
यथा—
रणत्काञ्चीरम्यं झणझणितमञ्जीरमधुरं
भुजाग्रप्रोन्मीलन्मणिवलयनिस्वानसुभगम्।
निशान्ते कृष्णेन्दोरुपरि सुदतीर्विभ्रमभृत–
स्समालोक्योद्ग्रीवं सुरसुतनवो यान्त्यवमतिम्॥४०॥
अत्र कृष्णप्रभुनिशान्तोपरिभागे विहरन्तीषु वनितासु तत्र सुरस्त्रीणामुद्ग्रीविकावलोकनासम्बन्धेपि तत्सम्बन्धो वर्णितः॥
सति सम्बन्धे तदभाववर्णनमसम्बन्धातिशयोक्तिः॥
यथा—
नलनहुषययातिपूरुमुख्याः
पृथुयशसोपि पुराणसार्वभौमाः।
जगदवनधुरन्धरेद्यकृष्ण–
क्षितिदयिते भुवि यन्ति न प्रशंसां॥४१॥
अत्र नलनहुषादीनां पुराणचक्रवर्तिनां भुवि प्रशंसासम्बन्धेपि तदभावो वर्णितः॥
कार्यकारणयोर्यौगपद्यवर्णनमक्रमातिशयोक्तिः॥
यथा—
सुव्यक्तैर्गुणमौक्तिकैर्भुवि महावंशस्य कृष्णप्रभो–
र्वाग्भिस्तन्तुभिरात्मनश्च कवयो बध्नन्ति यावत्स्रजः।
बध्यन्ते धुरि तावदेव भवनद्वारेषु तेषामिभाः
पुष्यत्पुष्करफूत्कृतिव्यतिकरप्रेङ्खोलिताम्भःकणाः॥४२॥
अत्र हेतुकार्ययोः कवितास्रग्बन्धगजबन्धनयोर्यावत्तावच्छब्दाभ्यां यौगपद्यं वर्णितं॥
हेतुप्रसक्तिमात्रेण कार्योत्पत्तिवर्णनं चपलातिशयोक्तिः
॥
मात्रशब्देन तत्समवधानव्यवच्छेदः। यथा—
कृष्णप्रभुरयमागत इति परिहासादुदीरिते सख्या।
तुत्रोट कुटिलकेश्यास्सुदृढपिनद्धापि कंचुकग्रन्थिः॥४३॥
अत्र परिहासविधित्सया कृष्णनृपागमनप्रसक्तिमात्रेणैव कामिन्याः कुचजृम्भणं कार्यमुखेन दर्शितं॥
हेतुकार्ययोः पौर्वापर्यव्यत्यासवर्णनमत्यन्तातिशयोक्तिः॥
यथा—
निहंता दैत्यानां जगदवननैश्चिन्त्यमुदितो
निदद्रौ सामुद्रे पयसि फणितल्पोपरि पुरः।
अथायं कृष्णेन्द्रस्सुमतिभिरमात्यैश्च निखिल–
प्रजाभिस्सांम्राज्ये विधिवदभिषेकोत्सवमगात्॥४४॥
अत्र कृष्णप्रभुकर्तृकसांम्राज्यभारस्वीकारानन्तरभाविनो भगवद्विश्रमलाभस्य प्रागेव वर्णनादत्यंतातिशयोक्तिः। अन्त्यास्तिस्रोप्यतिशयोक्तयः कार्यशैघ्र्यप्रत्यायनार्थाः। एवमष्टातिशयोक्तयः॥१३॥
१४—वर्ण्यानामवर्ण्यानां वा नैकेषामेकधर्मान्वयस्तुल्ययोगिता॥
वर्ण्यत्वेन प्रकृतानां गुणक्रियादिरूपैकधर्मान्वयः प्रकृततुल्ययोगिता। अवर्ण्यत्वेनाप्रकृतानां गुणक्रियारूपैकधर्मान्वयोऽप्रकृततुल्ययोगितेति विवेकः॥
प्रकृततुल्ययोगिता यथा—
सिंहासनस्थे सति कृष्णभूपे
साम्राज्यलक्ष्म्यासह कौतुकेन
साफल्यमीयुस्सपदि प्रजानां
तपांसि चक्षूंषि च पक्ष्मलानि॥४५॥
अत्र कृष्णप्रभोस्सिंहासननवारोहणमहोत्सवे वर्ण्यत्वेन प्रस्तुतानां प्रजासम्बन्धिनां तपसां चक्षुषां च सफलत्वप्रापणरूपैकक्रियान्वयो दर्शितः। तपसां लब्धव्यराजलाभेन चक्षुषां द्रष्टव्यार्थदर्शनेन च साफल्यं बोध्यं॥
अप्रकृततुल्ययोगिता यथा—
कृच्छ्रादुदूढां निखिलैरपि स्वै–
र्धुरं भुवस्सांप्रतमेककेन।
लीलाधृतां कृष्णनृपेण दृष्ट्वा
ह्रीणा हरित्कुञ्जरकूर्मशेषाः॥४६॥
अत्र कृष्णप्रभुवर्णने प्रस्तुते अवर्ण्यानां दिग्गजादीनां
ह्रीणत्वरूपैकगुणान्वयो दर्शितः॥
हिताहितयोर्वृत्तितौल्यमपरा तुल्ययोगिता॥
वृत्तितौल्यं तुल्यतया वर्तनं यावद्व्यवहारसाम्यमिति यावत्॥
यथा—
भवता ननु कृष्णभूपते
हृदयोन्निद्र्घृणोर्मिणा भृशम्।
सुहृदोपि च दुर्हृदः स्फुर-
त्पृथुकार्तस्वरभूषिताः कृताः॥ ४७॥
अत्र हिताहितयोर्मित्रामित्रयोर्महत्तरसुवर्णालंकृतत्वस्य क्षुत्क्षा
—बालकदीनस्वरशालिनीषु औचित्यादरण्यभूमिषु निवासवत्वस्य चद्वयोरेकनालावलम्बिफलद्वयवत्प्रतीयमानयोर्वाक्यार्थयोः श्लेषरितिकाभेदाध्यवसायाद्वत्तितौल्यं। गुणोत्कृष्टवस्तुभिस्समीकृत्य
—तवर्णनमप्यन्या तुल्ययोगितेति दण्डी॥
यथा—
सुमनोजनानुभूत्या
सफलीकृतसम्पदस्त्रयस्त्रिदिवे।
सुरशाखिसुरभिमणयो
भुविचैकश्चामराजवरतनयः॥४८॥
अत्र कृष्णप्रभुरौदार्यगुणोत्कृष्टैस्सुरशाखिप्रभृतिभिस्समीकृत्य वर्णितः। इमां सिद्धिरिति जयदेवो व्याजहार॥
यदाह—
सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये।
युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः॥
इति। अलङ्कारसर्वस्यकारादिमते तु वक्ष्यमाणं दीपकमेव॥१४॥
१५—वर्ण्यावर्ण्यानामेकधर्मान्वयो दीपकम्॥
वर्ण्यत्वेन प्रस्तुतानामवर्ण्यत्वेनाप्रस्तुतानांचानेकेषां गुणक्रियारूपैकधर्मान्वयो दीप इव दीपकमित्यर्थः। संज्ञायां चेति इवार्थे कन् प्रत्ययविधानात्। दीपसादृश्यं चास्यालंकारस्य प्रस्तुतकनिविष्टस्समानो धर्मः प्रसंगादन्यत्रोपकरोति। यथा प्रासादार्थमारोपितो दीपो रथ्याया इति।
यथा—
चक्राङ्गेणारविन्दं सुरगिरिशिखरं दृप्तहर्यक्षयूना
चैत्रप्रारम्भहृष्यत्प्रसवमुपवनं किं च पुंस्कोकिलेन।
स्वालङ्कारेण कामप्यनितरसुलभां भूरि पुष्णाति शोभां
कर्णाटास्थानसिंहासनमपि भवता कृष्णराजन्यमौले॥४९॥
अत्र वर्ण्यत्वेन प्रस्तुतस्य कर्णाटास्थानसिंहासनस्य अवर्ण्यानामरविन्दादीनां च शोमैकगुणान्वयो दर्शितः॥
दीपकस्यावृत्तौ आवृत्तिदीपकम्॥
दीपकस्य अनेकोपकारकतया दपिस्थानीयस्य शब्दस्यार्थस्य वा तदुभयोर्वाऽवृत्तौ शब्दावृत्तिदीपकमर्थावृत्तिदीपकमुभयावृत्तिदीपकमिति त्रिावैधमावृत्तिदपिकं भवतीत्यर्थः॥
शब्दावृत्तिदीपकं यथा—
यदृच्छा दृष्टेपि द्रवति हृदयं पक्ष्मलदृशा-
ममुष्मिकृष्णेन्दौ शिशिरकरकांतोपल इव।
अरिक्ष्मापालानां भुजपरिघकण्डूकलकल-
स्सरोज श्रेणीनां विभव इव दूरं द्रवति च॥५०॥
अत्र पूर्वार्धे पक्ष्मलदृशां हृदयं द्रवति स्नेहेन द्रवीभवति उत्तरार्धे द्विषां समरासक्तिः द्रवति प्रधावतीत्यर्थभेदेन शब्दमात्रस्यावृत्तेश्शब्दावृत्तिदीपकम्॥
अर्थावृत्तिदीपकं यथा—
शासति वसुन्धरां त्वयि
कृष्णविभो जगति भारवैकल्यात्।
निद्राति काद्रवेयः
स्वपिति कृतान्तोपि पाप्मनां विरहात्॥ ५१॥
अत्र निद्राति स्वपितीति शब्दभेदेन अर्थमात्रस्यावृत्तेरर्थावृत्तिदीपकम्॥
उभयावृत्तिदीपकं यथा—
शक्नोति फणिनां नेता शक्नोति च बृहस्पतिः।
कृष्णराजेन्द्रचरितं निर्वक्तुंनाम के वयम्॥५२॥
अत्र शक्नोति शक्नोतीति शब्दार्थयोर्द्वयोरप्यावृत्या उभयावृत्तिदीपकं। आवृत्तिदीपकेषु आवृत्तीनां प्रस्तुताप्रस्तुतोभयविषयकत्वाभावेपि दीपकछायामात्रेण दीपकव्यपदेशः॥१५॥
१६—उपमानोपमेयपरवाक्ययोर्वस्तुप्रतिवस्तुभावेन साधारण धर्मनिर्देशः प्रतिवस्तूपमा॥
प्रतिवस्तु प्रतिवाक्यं उपमा साधारणधर्मोस्यामिति व्युत्पत्तेः। एकस्यैव धर्मस्योपमानोपमेयगतत्वेन पदद्वयेनोपादानं वस्तु
प्रतिवस्तुभावः॥
यथा—
आह्लादयति कृष्णेन्द्रो दयाशिशिरया दृशा।
आनन्दयति कौमुद्या लोकानिंदुस्सुधार्द्रया॥५३॥
अत्राह्लादयत्यानन्दयतीत्येकएव धर्मः उपमानोपमेयपरवा
–ययोः पृथग्द्विपदाभ्यां निर्दिष्टः। अर्थावृत्तिदीपकं प्रस्तुतानाम
प्रस्तुतानां वा। प्रतिवस्तूपमातु प्रस्तुताप्रस्तुतानामिति विशेषः।
अयंचापरो विशेषः। अर्थावृत्तिदपिकं वैधर्म्येण न दृश्यते,
प्रतितिवस्तूपमा तु वैधर्म्येणापि दृश्यते॥
यथा—
पीयूषमाधुर्यमुचां सुवाचां
जानाति कृष्णप्रभुरेव सारं।
ग्रीष्मो न गृह्णाति रसालहृष्य-
त्पिकस्वरस्वादिमसम्प्रदायम्॥५४॥
इति॥१६॥
१७—उपमानोपमेयपरवाक्ययोर्बिम्बप्रतिबिम्बभावेन साधारणधर्मनिर्देशो दृष्टान्तः॥
बिम्बप्रतिबिम्बभावस्तूक्तः। साधर्म्यवैधर्म्याभ्यां स द्विविषः॥
साधर्म्येण यथा—
जगदवनवितन्द्रे कृष्णभूमीमहेन्द्रे
झडिति खलजनानां क्वापि लीना प्रवृत्तिः।
अचरमगिरिचूडाचुम्बिनिब्रध्नबिम्चे
कटुरटितविपाकाः कौशिकाः कान्दिशीकाः॥५५॥
अत्र कृष्णप्रभुसूर्ययोः खलकौशिकानां च बिम्बप्रतिबिम्बभावः॥
वैधर्म्येण यथा—
भ्रश्यन्ति द्रुततरमस्य दृष्टिपाता-
त्कृष्णेंदोः कविकुलदुर्दशाविपाकाः।
अर्यम्णः स्फुरति न यावदंशुजालं
चेष्टन्ते जगति तमांसि तावदेव॥५६॥
अत्र सूर्यस्य किरणपाताद्यथा तमांसि नश्यन्ति तथा कृष्णप्रभोः सकरुणदृष्टिपातात्कविकुलदुर्दशाविपाका भ्रश्यन्तीति व्यतिरेकत औपम्यं गम्यते॥१७॥
१८—सदृशयोर्वाक्यार्थयोरैक्यारोपो निदर्शना॥
सदृशयोर्वाक्यार्थयोरिति बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरुपमानोपमेययोरित्यर्थः। एवं च रूपकाद्भेदः तत्राविशिष्टयोरेव धर्मिणोर्मुखचन्द्राद्योरारोपविषयत्वात्॥
यथा—
कह्लारमृद्व्याः कविवाग्विभूतेः
कृष्णेन्द्रसौगुण्यकृतानुषंगः।
दृगिन्द्रियायुष्करवर्णभाजो
हैमस्रजः किं न सुगन्धबन्धः॥५७॥
अत्रात्यंन्तसुकुमारायाः कविवाग्विभूतेः यत्कृष्णप्रभुसुगुणप्रतिपादनं तदेव लोकोत्तरवर्णविशिष्टायास्सुवर्णस्रजः परिमल
संपत्तिरिति द्वयोर्वाक्यार्थयोरैक्यारोपः। “उपमानोपमेययोऽन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शने”त्येके। एवं च तस्याःद्वैविध्यमित्युक्तं भवति। तत्र उपमेये उपमानधर्मारोप
—पदार्थवृत्तिनिदर्शना॥
यथा—
प्रणमदरिकिरीटकूटकोटि-
स्फुरदुरुनीलमणिप्रभाप्रवाहः।
चरणनलिनयोर्बभार कृष्ण-
क्षितिकमनस्य षडङ्घ्रिराजिलीलां॥ ५८॥
अत्र उपमेये नीलरत्नप्रभाप्रवाहे उपमानधर्मस्य (षडङ्घ्रिराजिलीलाया आरोपः॥
उपमाने उपमेयधर्मारोपरूपा पदार्थवृत्तिनिदर्शना॥
यथा—
पट्टाभिषिक्ते कृष्णेन्द्रे या प्रजानां मुखेष्वभूत्।
सा दशा दिवमारूढे भानौ पद्मेषु लक्ष्यते॥५९॥
अत्रोपमानेषु पद्मेषु उपमेयधर्मस्य प्रजामुखगतविकासरूपदशायाः आरोपः। उभयत्राप्यन्यधर्मस्थान्यत्रासम्भवात्तत्सदृशधर्माक्षेपेण औपम्ये पर्यवसानं॥
क्रियया सदसदर्थबोधनमप्यन्या निदर्शना॥
सदर्थबोधनरूपाऽसदर्थबोधनरूपाचेति सा द्विविधा॥
क्रियया सदर्थबोधनरूपा निदर्शना यथा—
आर्जवनैर्मल्याभ्यां
विनास्यपार्श्वस्थितिर्न सङ्घटते।
अभिदधदिति चामरयो-
र्द्वयमभितः कृष्णराजमुल्ललति॥५९॥
अत्र कृष्णप्रभुपार्श्वयोरुल्ललती मणिचामरे स्वनिष्ठया प्रभुपार्श्वोल्ललनक्रियया परान्प्रति यथाऽवयोः ऋजुनिर्मलयोः प्रभुपार्श्वास्थितिस्तथान्योप्येवं ऋजुनिर्मलश्चेत्प्रभुपार्श्वस्थितिं लभेतेति श्रेयस्करमर्थं बोधयती निबद्धे इति सदर्थबीधनरूपा निदर्शना॥
असदर्थबोधनरूपा निदर्शना यथा—
बलिना स्पर्धमानानां दुर्बलानामियं दशा।
इति कृष्णमहीपालशत्रवो न्यवसन्वने॥६०॥
अत्र इयं दशेति बोधयन्त इति वक्तव्ये बोधयन्त इत्यस्य गम्यमानत्वादप्रयोगः। तथाच बलवता कृष्णप्रभुणा विरुध्य
–यंवनवासक्रियाविशिष्टाश्शत्रवस्तया क्रियया दृष्टान्तभूतयाऽन्योप्येवं बलिना स्पर्धमानश्चेदिमामेव दुर्दशां प्राप्नुयादित्यनिष्टपर्यवसायिनमर्थं बोधयन्तो निबद्धा इत्यसदर्थबोधनरूपा निदर्शना॥१८॥
१९—उपमानोपमेययोर्विशेषप्रतिपादनं व्यतिरेकः॥
यथा—
रत्नानामयमाकरो निधिरपां कृष्णो गुणानांप्रभु
र्गोहस्त्यश्वमणिप्रदाननिपुणौ प्रीत्यै बुधानामुभौ।
तस्माज्जीवनमस्ति सर्वजगतां सत्यं तदस्मादपि
प्रायस्तुल्यमिदं परन्तु जननं तत्रश्रियोऽत्रस्थितिः॥६१॥
अत्र समानगुणशालिनो रत्नाकरकृष्णनृपयोः लक्ष्मीजननस्थितिभ्यां विशेषः प्रतिपादितः॥१९॥
२०—जनरञ्जनसहभाववर्णनं सहोक्तिः॥
जनरञ्जन इति विशेषणादनेनसार्धं विहराम्बुराशेरित्यादौ नायमलङ्कारः॥
यथा—
पद्भ्यां कृष्णमहीपाले पर्यङ्कस्पृशि केवलं।
मानिन्या स्सहमानेन नीवी विस्रंसते स्वयं॥६२॥
अत्र वस्त्रग्रन्थेर्विस्रंसनक्रियायां मानसहभावो वर्णितः मानस्तु॥
“स्त्रीणामीर्ष्याकृतः कोपो मानोन्यासाङ्गनि प्रिये”।
इत्युक्तलक्षणः॥२०॥
२१—किंचिद्विना प्रस्तुतस्य रम्याऽरम्यत्ववर्णनं विनोक्तिः॥
रम्यत्ववर्णनारूपारम्यत्ववर्णनारूपा चेति सा द्विविधा॥
तत्र रम्यत्ववर्णनरूपा यथा—
दिशति बहुशस्स्वर्णस्तोमं मुहुर्मुहुरम्बुद-
श्श्रुतिकटुतरं गर्जंगर्जं धिगस्य वदान्यतां।
भुवि परमियं श्लाघ्या कर्णाटनेतुरुदारता
परुषवचनैर्यामर्मघ्नैर्विनैव विराजते॥६३॥
अत्र प्रस्तुतस्य कृष्णप्रभोरौदार्यस्य परुषभाषणैर्विना रम्यत्वं वर्णितम्॥
अरम्यत्ववर्णनरूपा यथा—
प्राचां कवीनां प्रथिताः प्रबन्धाः
कृष्णप्रजानाथगुणानुवादैः।
विनाद्य हृद्या अपि नातिहृद्या
यथैव हारास्तरलोत्तमेन॥६४॥
अत्र पुरा कविप्रबन्धानां कृष्णप्रभुगुणनिरूपणंविनाऽरम्यत्वमुक्तं॥ २१॥
२२—प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यादप्रस्तुतवृत्तान्तपरिस्फूर्तिस्समासोक्तिः॥
समासेन संक्षेपेण उक्तिः प्रस्तुताप्रस्तुतयोर्वचनमिति व्युत्पत्तेः।
यथा—
विस्त्रस्तकञ्ञ्जुकमियं रभसादुपेत्य
निर्माय मोहमवलम्ब्य च कण्ठनालम्।
कृष्णप्रभोरसिलता रणसीम्नि काञ्चि-
ल्लीलां निमीलितदृशं द्विषतामतानीत्॥६५॥
अत्र द्विषन्मरणरूपे कृष्णप्रभुखड्गलतावृत्तान्ते वर्ण्यमाने विस्रस्तकञ्ञ्जुकमित्यादिश्लिष्टसाधारणोभयविषविशेषणानां साम्यादसिलताद्विषच्छब्दगतस्त्रीलिङ्गपुल्लिङ्गाभ्यामुपस्कृतास्वयंग्रहा श्लेषपूर्वकक्रीडासक्तस्वैरिणीवृत्तान्तप्रतीतेस्समा-सोक्तिः। अत्र च विशेषणसाम्याद्यदप्रस्तुत वृत्तान्तप्रत्यायनं तत्प्रस्तुते धर्मिणि तदारोपार्थं। सर्वथा प्रस्तुताऽनन्वयिनः कविसंरम्भगोचरत्वायोगात्। तथाच समासोक्तौ प्रस्तुते धर्मिणि अप्रस्तुतवृत्तान्तसमारोपश्चारुताहेतुः वृत्तान्तश्च व्यापारसमुदायः। यथाऽत्रश्लोके प्रस्तुते धर्मिणि खड्गलतायां अप्रस्तुतायास्स्वैरिण्याः यो वृत्तान्तः कञ्चुकविमोचनरभसगमनादिस्तदारोपश्चाहताहेतुः॥२२॥
२३—साभिप्रायविशेषणविन्यासः परिकरः॥
प्रतीयमानार्थस्य वाच्यपरिकरत्वात्। अत एव न ध्वनिव्यपदेशः॥
यथा—
कृपया जगन्ति निजयाऽभिरक्षतो
विदधातु कृष्णवसुधाबिडौजस।
महनीयशोभतपनीयसम्पदां
कलिकाः शिवस्सकनकाद्रिकार्मुकः॥६६॥
अत्र कनकाद्रिकार्मुक इति शिवविशेषणं कृष्णप्रभवे कनक सम्पत्कलिकाप्रदानयोग्यत्वाभिप्रायकम्॥२३॥
२४—साभिप्रायविशेष्यविन्यासः परिकराङ्कुरः॥
यथा—
कृष्णक्षोणीमहेन्द्रस्य गणना विधुरान्गुणान्।
स्तोेतुं लालयितुं शक्तः फणाधरकुलाग्रणीः॥६७॥
अत्र फणाधर कुलाग्रणीरति विशेष्यं प्रस्तुतगुणकथनाभिनन्दनोचित द्विसहस्रजिह्वत्व सहस्रशीर्षत्वाभिप्रायकम्॥२४॥
२५—नानार्थकपदविन्यासश्लेषः॥
स त्रिविधः। प्रकृतानेकविषयः, अप्रकृतानेकविषयः, प्रकृताऽप्रकृतानेकविषयश्चेति॥
आद्यो यथा—
अक्रूरसेव्यमानाङ्घ्रिस्संत्यागमहितश्श्रिया।
धर्मजातप्रतिष्ठाकृत्प्रभुः कृष्णो मुदेऽस्तु वः॥६८॥
अत्र स्तोतव्यत्वेन प्रस्तुतयोः कृष्णनृपदेवकीनन्दनयोश्लेषः। एकत्र श्रिया सम्पदा सत्यागेन समीचीनदानेन महितो युक्तः। अन्यत्र श्रिया सौन्दर्येण सत्यायास्सत्यभामाया आगमस्य प्राप्तेर्हितः संम्मत इत्यर्थः। अन्यत्सुगमम्॥
द्वितीयो यथा—
महाबलसमुन्निद्र प्रचण्डतरहेतिना।
धनञ्जयेन कृष्णेन्द्र प्रतापस्स्पर्धते तव॥६९॥
अत्र प्रतापोपमानत्वेन अप्रस्तुतयोरर्जुनवन्ह्योश्लेषः। एकत्र महता बलेन भुजसारेण समुन्निद्रा उद्धृता प्रचण्डतराच हेतिरायुधंयेन तेन। अन्यत्र महाबलेन वायुना समुन्निद्राविकसिताः प्रचण्डतराश्च हेतयो ज्वाला यस्य तेनेति॥
तृतीयो यथा—
सदालिपूर्णकटको दानार्द्रकरपुष्करः।
कृष्णाभिख्यस्समुत्तुङ्गस्सार्वभौमो विराजते॥७०॥
अत्र वर्ण्यत्वेन प्रस्तुतस्य कृष्णनृपस्य अप्रस्तुतस्य दिग्गजविशेषस्य च श्लेषः। एकत्र सदालिभिः सज्जनपङ्क्तिभिः पूर्णकटकस्सम्पूर्णस्वनगरः दानार्द्रं त्यागजलार्द्रं करपुष्करं हस्तपद्मं यस्य सः। कृष्णाभिख्यस्तन्नामा सार्वभौमश्चक्रवर्तीति। अन्यत्र सदा सर्वदा अलिभिः भ्रमरैः पूर्णः कट एव कटको गण्डस्थलं यस्य सः। दानार्द्रकरपुष्करः मदजलार्द्रशुण्डाग्रः। कृष्णभिख्यो नीलकान्तिस्सार्वभौमस्तन्नामागज इति बोध्यं। यदत्र प्रकृताप्रकृतश्लेषे शब्दशक्ति मूलध्वनिमिच्छन्ति प्राञ्चः। तत्प्रकृताप्रकृताभिधानमूलस्योपमादेरलङ्कारस्य व्यङ्ग्यत्वाभिप्रायं। नत्वप्रकृतार्थस्य व्यङ्ग्यत्वाभिप्रायं। अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यमानस्याभिधेयत्वावश्यंभावेन व्यक्त्यनपेक्षणादिति। एवञ्च श्लेषः प्रकारान्तरेणापि द्विविधस्सम्पन्नः। सभङ्गोऽभङ्गश्चेति। उदाहरणेषु सत्यागमहित इत्यादौ परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थक्रोडीकारात्सभङ्गश्लेषः। महाबलसमुन्निद्रप्रचण्डतरहेतिनत्यादौ परस्परविलक्षणं पदभङ्गमनपेक्ष्य नानार्थक्रोडीकारादभङ्ग श्लेष इति॥ २५॥
२६—प्रस्तुतवृत्तान्तावगतिपर्यवसाय्यप्रस्तुतवृत्तान्तपरिकीर्तनमप्रस्तुतप्रशंसा॥
यथा—
अनुपमफलजालैः पुष्पगुच्छेस्तथाच्छे-
र्मृदुलदलनिकायैस्निग्धया छायया च।
प्रतिदिनमुपकुर्वन्प्राणिनां यस्समिन्धे
तरुषु स हि रसालो धन्यधन्यः किमन्यत्॥७१॥
अत्राऽप्रस्तुतस्य रसालस्य प्रशंसा। प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे धनकनकवस्तुवाहनादिभिः परोपकारं कुर्वाणे कृष्णप्रभौ पर्यवस्याते। इयं च प्रस्तुताप्रस्तुतयोस्सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसा। एवं कार्यकारणभावादिरूपसम्बन्धान्तरनिबन्धना अप्यूह्याः॥ २६॥
२७—प्रस्तुतवर्णनेन प्रस्तुतान्तरद्योतनं प्रस्तुताङ्कुरः॥
यथा—
अतिविस्मयनीयमेतदिन्दो भुवने तावकमाभिरूप्यमेव।
कठिनापि शिला यतस्त्वदीषत्करसंस्पर्शवशाद्द्रवीबभूव॥७२॥
अत्र प्रियतमेन कृष्णप्रभुणासह चन्द्रशालायां चन्द्रिकाविहारं कुर्वती प्रौढा काचिदुदितभूयिष्ठं चन्द्रमसं प्रत्येवमाहेति वाच्यार्थस्य प्रस्तुतत्वं। एवं प्रस्तुतेन वाच्यार्थेन चन्द्रसौन्दर्यश्लाघनरूपेण। प्रस्तुतान्तरस्य भृशं प्रणयकुपिता कठिनशिलाकल्पाप्यहं करसंस्पर्शमात्रादेव तव सैन्दर्यमोहितासत्यार्द्रचित्ता जातास्मि तथा सकलवधूकुलविमोहनकारिलोकोत्तरं तव सौन्दर्यमिति स्वप्रियतमसौन्दर्यश्लाघनस्य द्योतनात्प्रस्तुताङ्कुरः। अत्रापि सम्बन्धान्तरनिबन्धना ऊह्याः॥२७॥
२८—गम्यस्यैव भग्यन्तरेणाभिधानं पर्यायोक्तम्॥
भंग्यन्तरेण विवक्षितरूपादपि चारुतरस्वरूपेण रूपान्तरेण॥
यथा—
येनैव व्यरचि हशा निटालभाजा
कामस्त्रीनयनजलस्य वार्षिकश्रीः।
स श्रीमानखिलजनावनैकबन्धुः
श्रीकृष्णप्रभुवपुषा भुवं बिभर्ति॥७३॥
अत्र भगवान् परमेश्वरः स्वासाधारणरूपेण गम्यः। स एव कामस्त्रीनयनजलाभिवृद्धिकारकत्वेन रूपान्तरेणाऽभिहितः॥
व्याजेन इष्टसाधनमपि पर्यायोक्तम्॥
यथा—
अपचिनु सुमुखि त्वमग्रशाखा-
शिखरगतं ललितं प्रसूनजातम्।
इति भुजयुगलेन तामुदस्यन्
प्रमदवने विजहार कृष्णभूपः॥७४॥
अत्र अग्रशाखावलम्बिपुष्पापचयोपदेशव्याजेन प्रियामुदस्यता कृष्णप्रभुणा तदालिङ्गनरूपस्वेष्टसम्पादनंकृतम्॥२८॥
२९—निन्दास्तुतिभ्यां स्तुतिनिन्दयोरवगमनं व्याजस्तुतिः॥
एवञ्च द्वैविध्यमुक्तंभवति तत्र निन्दया स्तुत्यवगमनरूपा॥
यथा—
धिगौदार्यमिदं कृष्ण प्रभो त्यागजलैस्तव।
जगदेकार्णवं जातं निवसन्तु क्व वा प्रजाः॥७५॥
अत्र धिगौदार्यं प्रजाःक्ववा निवसन्तु इति व्याजरूपयानिन्दया कृष्णप्रभुस्सन्ततकरकमलनिष्यन्दमानदानोदकधाराभिर्जगदेकार्णवयतीति तदौदार्यातिशयस्तुतिरेवावगम्यते॥
स्तुत्या निन्दावगमनरूपा यथा—
उदग्रभुजतेजसः कृतमुखस्य कृष्णप्रभो-
रहो विहगपुङ्गवादपि तरस्विनश्शत्रवः।
हयैरपि महारयैरपि शरैर्ननिर्गत्वरैः
पलायनकृतो यतस्समरतस्समासादिताः॥७६॥
अत्र युद्धरङ्गात्पलायमानानां शत्रूणां निरतिशयवेगस्तुतिव्याजेन धिक्तानननुष्ठितक्षात्रानिति तेषां निन्दैवावगम्यते॥२९॥
३०—निन्दया निन्दावगमनं व्याजनिन्दा॥
यथा—
प्रहर कुसुमचाप तीव्रमिन्दो
त्वमपि दह स्त्रियमेष वां नदोषः।
इह पुनरहमेव गर्हणीया
प्रणयकरी शतवल्लभे नरेन्द्रे॥७७॥
अत्र कस्याश्चिद्विरहोत्कण्ठिताया वचनेन बहुवल्लभत्वादनियतप्रेम्णि कृष्णप्रभौ प्रणयकृतस्स्वस्य निन्दाव्याजेन इदमेव रन्ध्रमन्विष्य स्त्रीहिंसनप्रवृत्तयोर्मदनचन्द्रयोरेव निन्दाऽवगम्यते॥३०॥
ननु निन्दास्तुतिभ्यां स्तुति निन्दयोरवगमनं व्याजस्तुतिः। निन्दया निन्दावगमनं व्याजनिन्देति परिगणनायां स्तुत्यास्तुत्यभिव्यक्तिः केतिचेत्सापि व्याजस्तुतिविशेष एवेति गृहाण॥
यथा—
एकयैव भुवा तप्तं भुवनेषु महत्तपः।
यत्कृष्णेन्द्रभुजाश्लेषतोषं प्राप्नोति सर्वदा॥७८॥
अत्र भूमिस्तुत्या कृष्णप्रभुभुजाश्लेषसौभाग्यातिशयस्तुतिरवगम्यते॥
३१—स्वोक्तस्यैव विमृश्य प्रतिषेध आक्षेपः॥
यथा—
चिन्तारत्नं गाञ्चतां कल्पवृक्षान्
ब्रह्मन् भूमौ स्वर्यथा कल्पयान्यान्।
यद्वा तिष्ठत्वेतदुद्दामकीर्तिः
कृष्णक्ष्माभृन्निर्मितोऽस्त्येव तत्र॥७९॥
अत्र ब्रह्माणं प्रति विष्णोर्वचसि स्वाभिहितस्य भूलोकेपि स्वर्लोकवत्कल्पद्रुमादिनिर्माणोपदेशस्य प्रागेव निर्मितेन वदान्यशिरोमणिना कृष्णप्रभुणा वैय्यर्थ्य विचार्य यद्वेत्यादिसूचितः प्रतिषेध आक्षेपः। “केचित्तु न निषेधमात्रमाक्षेपः। किन्तु यो निषेधो बाधितस्सन्नर्थान्तरपर्यवसायीभूत्वा किंचिद्विशेषमाक्षिपति स निषेधाभासआक्षेप” इति वदन्ति॥
स यथा—
स्तोतारो न वयं श्रीमन्कृष्णभूपशिखामणे।
तादृशी तस्य कविता दक्षिणापथवासिनः॥८०॥
अत्र कृष्णप्रभुंप्रति स्तोतॄणां वाक्ये न वयं स्तोतार इति निषेधोऽनुपपन्नस्सन् स्तोतृत्वोचिता विद्यमानगुणपरिहारद्वारा सत्यवादित्वे पर्यवस्यन् दूरदेशादागतो विद्याधिकः कविरवश्यमेव यशस्विना त्वया सम्भावनीय इत्यर्थविशेषमाक्षिपति। “विध्यभिव्यक्त्या निषेधतिरोधानमप्याक्षेप” इत्यन्ये॥
यथा—
यातव्यमेव यदि मानद योद्धुमेभिः
कृष्णक्षितीश्वरभटैरपि याहि याहि।
भूयात्पुनस्त्वरितमेव समागमो नः
कल्पद्रुपुष्पसुरभौ पुरुहूतपुर्यां॥८१॥
अत्र याहि याहीति गमनविधिरभिव्यक्तः बलिभिस्तैर्योद्धुमसांप्रतमिति निषेधस्तु तिरोहितस्सुरलोके पुनस्समागमप्रार्थनया द्वयोरपि मरणसंसूचनेन गर्भितः॥३१॥
३२—विरोधस्याभासत्वे विरोधाभासः॥
यथा—
चित्रमस्य चरितं न जगुः के
कृष्णभूपतिलकस्य जगत्यां।
यस्स्वयं न धनदोपि कुबेरो
भोगभागपि नजिंहगजातिः॥८२॥
अत्र धनदोपि कुबेरो नेति प्राप्तस्य विरोधस्य कुत्सितं बेरं शरीरं यस्य स न भवतीत्याभासीकरणादेवं भोगभाक्फणाधरोपि न जिंहगजातिस्सर्पजातीयो नेति प्राप्तस्य विरोधस्य भोगभाक् सुखी न जिंहगजातिरवक्रगामिरीतिरितिच श्लेषेणाभासकिरणाद्विरोधाभासः॥३२॥
३३—कारणं विना कार्योत्पत्तिर्विभावना॥
यथा—
कृष्णक्ष्मापतिशेखरस्य महतश्श्रीकेंपनंजांबिका-
गर्भक्षीरपयोनिधेरनुपमे जन्मोत्सवे जाग्रति।
जातास्सप्रसवा लताश्च तरवस्सर्वे वसंतं विना
द्रागापस्सकलाः प्रसेदुरवशात्त्यक्त्वाप्यगस्त्योदयं॥
८३
॥
अत्र तरुलतानां प्रसवोद्गमंप्रति प्रसिद्धकारणं वसन्तसमयः। तेन विनापि तदुत्पत्तिर्निबद्धा। एवं सलिलप्रसादनंप्रति प्रसिद्धकारणमगस्त्यनक्षत्रोदयः तेन विनापि तन्निबद्धं। उभयत्रापि दर्शितमहापुरुषजन्मसमयहेतुत्व विभावनया विरोधपरिहारः॥
कारणानामसाकल्येपि कार्योत्पत्तिर्द्वितीया विभावना॥
यथा—
अगृहीतप्रहरणा अनारूढवधोद्यमाः।
दृष्ट्वैव घ्नन्त्यहो यूनः कृष्णभूपपुरस्त्रियः॥८४॥
अत्र युवहननकारणानां पुरस्त्रीणामसाकल्यमायुधादिवैकल्यम्॥
सति प्रतिबन्धके कार्योत्पत्तिस्तृतीया विभावना॥
यथा—
अरण्यसांसारिकशात्रवाङ्गना
दृगम्बुजोत्सृष्टमहातिवृष्टिषु।
चरन्ति लोकेषु यशस्सितच्छदा
निरङ्कुशं कृष्णवसुन्धरापतेः॥८५॥
अत्र हंससंचारप्रतिबन्धकीभूतातिवृष्टिशालिषु लोकेषु तदुत्पतिर्निबद्धा॥
अकारणात्कार्योत्पत्तिश्चतुर्थी विभावना॥
यथा—
चामराजमहीपालशार्दूलादुदभूत्स्वयं।
कृष्णभूपालसिंहोयमद्भुतादिदमद्भुतं॥८६॥
अत्र शार्दूलात्सिंहोजात इत्यकारणात्कार्यजन्म। उभयत्राप्युत्तरपदे सिंहशार्दूलशब्दयोश्श्रेष्ठार्थकतया विरोधपरिहारः॥
विरुद्धात्कार्योत्पत्तिः पञ्चमी विभावना॥
यथा—
श्रीकृष्णभूमिसुत्राम्णा वज्रोल्लसितपाणिना।
सपक्षा रक्षितास्सर्वे चित्रं गोत्रमहीभृतः॥८७॥
अत्र सपक्षाणां कुलपर्वतानां शिक्षकतया तद्रक्षणाविरुद्धात्कृष्णभूमहेन्द्रात्तत्संरक्षणं निबद्धं। श्लेषेण विरोधपरिहारः॥
कार्यात्कारणोत्पत्तिः षष्ठी बिभावना॥
यथा—
आनन्दवर्षे सञ्जातं कृष्णेन्द्रं ब्रुवते जनाः।
आनन्दवर्षसम्भूतिममुष्मादेव मन्महे॥८८॥
अत्र कृष्णप्रभोरुत्पादकस्य आनन्दनाम्नो वर्षस्य तस्मादेवोत्पत्तिर्निबद्धा। आनन्दवर्षशब्दस्य सन्तोषवृष्टिपरतया श्लेषेण विरोधपरिहारः। एवं षड्विभावनाः॥ ३३॥
३४—सत्यामपि सामग्र्यां कार्यानुत्पत्तिर्विशेषोक्तिः॥
यथा—
यौवनं शशिमुखीशतलाल्यं
श्रीसमृद्धिरलकाधिपकाम्या।
आचतुस्सलिलराशिविभुत्वं
कृष्णराजि न तथाप्यविवेकः॥८९॥
अत्र कृष्णप्रभौ यौवनाद्यविवेकसामग्रीसमवधानेपि तदनुत्पत्तिर्निबद्धा॥३४॥
३५—अर्थनिष्पत्तेरसम्भाव्यत्ववर्णनमसम्भवः॥
यथा—
कलिरिति वेद तदङ्गान्यपहाय क्षुद्रमार्गनिरता स्स्मः।
कृतयुगयिष्यति कलिमपि कृष्णेन्द्र इतीव कः पुनर्वेद॥९०॥
अत्र कलेः कृतयुगायमानतानिष्पत्तेरसंभाव्यत्वं वर्णितं। इदंच वेदवेदाङ्गपारगेभ्यो विद्वद्भ्यः कृष्णप्रभुणा वितीर्यमाणां महतीं सम्पदममृष्यमाणानां क्षुद्रवर्त्मजीविनां खलानामुक्तिः॥
३६—हेतुकार्ययोर्वैय्यधिकरण्यप्रतिपादनमसंगतिः॥
यथा—
तीर्थैरशेषसरिदर्णवसम्प्रणीतै-
राज्याभिषेकमुपजग्मुषि कृष्णभूपे।
सद्यः प्रजास्सपुलकं शिशिरान्तरङ्गा-
स्तापं जहुश्चिरतरोपनतं महान्तं॥९१॥
अत्र शिशिराम्बुस्नानरूपं कारणं कृष्णप्रभौ पुलकोद्गमश्शिशिरान्तरङ्गत्वं तापत्यागश्चेत्येतत्समस्तं तत्कार्यजातं तु प्रजासु निबद्धमिति कार्यहत्वोर्वैय्याधिकरण्यं॥
एकत्र करणीयस्य तदन्यत्र कृतिर्द्वितीयासङ्गतिः॥
यथा—
क्षमां चिकीर्षुर्भुजसीन्मि कृष्ण-
क्षमापते शात्रवपार्थिवानां।
करान्वितीर्य प्रणमत्सुतेषु
हृदन्तरे तामकरोः क्षणेन॥९२॥
अत्र भुजसीम्नि चिकीर्षितायाः क्षमाया हृदन्तरे कृतिरुक्ता॥
किञ्चित्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तृतीयासंगतिः॥
यथा—
उर्वीभरावतरणाय कृतावतारो-
प्यस्मिन्कुले महति कैरवबान्धवस्य।
कर्णाटदेशधरणीश विशालकीर्ते
नित्यं बिभर्षि भुजसीम्नि भरं पृथिव्याः॥९३॥
अत्र भूभारोद्धरणार्थं कृतावतारेण कृष्णप्रभुणा तद्विरुद्धं भूभारोद्वहनमेव भुजसीम्नि कृतं॥३६॥
३७—अननुरूपयोर्वस्तुनोर्घटना विषमं॥
यथा—
मितसूक्तयः क्व कवयः क्व कृष्णरा-
ड्गणनाविदूरगुणरत्नसागरः।
तदपि प्रवृत्तिरियमस्य वर्णने
न कथं व्यनक्ति मम बालचापलं॥९४॥
अत्र स्तोतॄणां मितसूक्तित्वेन स्तव्यस्य अगणितगुणशालित्वेनचाननुरूपत्वं॥
विरूपकार्योत्पत्तिर्द्वितीयं विषमं॥
यथा—
विदुषां प्रतिगेहमास्थिताः करिणः फुल्लतमालरोचिषः।
जनयन्ति शशाङ्कसुन्दरं भुवि कृष्णक्षितिरक्षिणो यशः॥९५॥
अत्र कारणगुणप्रक्रमेण विरुद्धेभ्यः श्यामेभ्यः करिभ्यः धवलस्य यशस उत्पत्तिः कार्यकारणयोर्निवर्त्यनिर्वर्तकत्वे पञ्चमीविभावना तयोर्विलक्षणगुणशालित्वे अयं विषम इति भेदः॥
इष्टार्थसमुद्यमादनिष्टस्याप्युपलम्भस्तृतीयंविषमं॥
यथा—
दंशंदंशमुदारदाडिमफलास्वादोपभोगेच्छया
कृष्णोर्वीशनिशांतकुट्टिमलसद्रत्नानि केलीशुकाः।
शीर्यच्चञ्चुपुटा विरुत्य रभसादुड्डीय धूतानना-
श्चेतोविह्वलयन्ति वत्सलतया शुद्धान्तवामभ्रुवां॥९६॥
अत्र दाडिमरसोपभोगेच्छया कुट्टिमगतपद्मरागशकलदंशनप्रवृत्तानां केलीशुकानां न केवलमिष्टालाभः। किंतु ततश्चञ्चूविशीर्णनप्रयुक्ततीव्रवेदनारूपानिष्टस्याप्युपलम्भः कार्यमुखेन दर्शितः॥३७॥
३८—अनुरूपयोर्वस्तुनोर्घटनाप्रथमविषमप्रतिद्वंद्वि प्रथमं समं॥
यथा—
देव्या भुवश्चिरस्यासीत्स्वानुरूपाश्रय द्वयं।
प्रागद्भुतकिटेर्दंष्ट्रा कृष्णभूपभुजोधुना॥९७॥
अत्र धरणीदेव्याः प्रागादिवराहदंष्ट्राया इवाधुना कृष्णभूपभुजस्यच द्वयोरनुरूपयोराश्रयाश्रयिभावो वर्णितः॥
कार्यस्य कारणसारूप्यं द्वितीयविषमप्रतिद्वंद्वि द्वितीयं समं॥
यथा—
प्रभ्रष्टमात्मयूधान्मृगशिशुमंके निधायलालयतः।
चन्द्रमसः कुलसम्भव युक्ता तव दीनबन्धुता राजन्॥९८॥
अत्र कार्ये कारणस्वभावानुगुण्यं।
इष्टार्थसमुद्यमादनिष्टप्रतिलम्भं विना तत्सिद्धिस्तृतीय विषमप्रतिद्वंद्वि तृतीयं समं॥
यथा—
भूतिं परामपेक्ष्योच्चैः कुर्वतामभिषेणनं।
स्थानेसृष्टा पराभूतिः कृष्णभूपाल सैनिकैः॥९९॥
यां यां मनोरथलतां हृदयालवाले
कृष्णप्रभोर्ननु सभामभजंदधानः।
सा सा परेङ्गितविदा स्वयमेव तेन
किं वच्मि कामिनि फलेग्रहितां जगाहे॥१००॥
अत्र नानाविधस्वमनोरथपूर्तयो राजसभां प्रविशतः कस्य-
चिद्ब्राह्मणस्य याच्नालाघवाद्यनिष्टप्रतिलम्भं विना तत्सिद्धिः प्रदर्शिता॥३८॥
३९–तद्विपरतिफलेच्छया तदुद्यमनं विचित्रं॥
यथा—
कृष्णभूपप्रतापार्क क्रूरातप जिहीर्षया।
संत्यजन्त्यातपत्राणि शत्रुभूपतयोञ्जसा॥१०१॥
अत्र आतपनिराकरणेच्छया आतपत्रत्यागोद्यमः कथितः॥
४०—आधारस्य महत्तां परिकल्प्य ततोप्याधेयाधिक्यवर्णनं अधिकं॥
यथा—
द्रागावृत्य जगत्रयीमथ मिथो विश्लिष्टमध्यासते
विध्यण्डान्यपि यत्तदिन्दुशिरसस्तूर्णं प्रविश्योदरं।
कीर्तिः कृष्णवसुन्धराप्रणयिनस्तत्राप्यमान्तीशिर-
स्संभिद्य प्रसभं बहिः प्रववृते गङ्गाप्रवाहात्मना॥१०२॥
अत्राधारस्य भगवदुदरस्य अनेकब्रह्माण्डानां असंमर्दावस्था
मोक्त्या महत्तां प्रदर्श्य तत्राप्यमान्तीत्यनेन आधेयभूतकीर्तेराधिक्यं वर्णितं॥
आधेयस्य महत्तां परिकल्प्य ततोप्याधाराधिक्यवर्णनमप्यधिकं॥
यथा—
अहो कियानयं भुजः प्रवीरकृष्णभूभुज-
स्सपत्नराजमण्डलीवनच्छटाहविर्भुजः।
यदेकदेशमाश्रिता विशालरत्नमंचव-
त्ससालशैलसागरा विराजते वसुंधरा॥१०३॥
अत्र ससालशैलसागरेति विशेषणेन अतिविशालतां भूमेः परिकल्प्य तस्या अप्येकदेशाश्रयणोक्त्या आधारस्य भुजस्य अतिमहत्वं वर्णितं॥४०॥
४१––सूक्ष्मादप्याधेयादाधारस्यातिसूक्ष्मत्ववर्णनमल्पं॥
यथा—
सकृन्नयनगोचरे चलति कृष्णपृथ्वीपतौ
कया पुरनतभ्रुवा स्मरशराहतिक्षामया।
गुणाग्रिमशिखार्पणाननुगुणस्स्वरन्ध्रो माणः
कराङ्गुलिदलेङ्गुलीयकतयैव नोधार्यते॥१०४॥
अत्र मणिस्तावन्मौक्तिकादिः गुणगुंफनस्याप्यनर्हतयाऽतिसूक्ष्मरन्ध्रः। सोपि विरहिण्याऽङ्गुलीयकत्वेन ध्रियत इत्यनेन अङ्गुलेराधारस्यातिसूक्ष्मतरत्वं प्रतिपादितं॥ ४१॥
४२—यत्र द्वयोः परस्परमुपकारस्तत्रान्योन्यं॥
यथा—
यथा यथा कृष्णबिभुस्सुदक्षिणै-
र्मखैर्वसन्ते यजते दिवस्पतिं।
तथा तथा प्रावृषि सोपि वृष्टिभि-
स्समाभिरेनं कुरुते प्रहर्षितम्॥१०५॥
अत्र कृष्णप्रभुमहेन्द्रयोर्यागैर्वृष्टिभिश्च परस्परमुपकार्योपकारकभावो वर्णितः॥४२॥
४३—प्रसिद्धाधारं विनाप्याधेयवर्णनं विशेषः॥
यथा—
विहरणकुतुकादिभाधिरूढे
प्रचलति कृष्णविभौ पुरप्रतोल्यां।
कुवलयविपिनं वधूजनानां
नभसि निरम्भसि दृश्यते दृगन्तैः॥१०६॥
अत्र प्रसिद्धाधारस्य जलस्याभावेपि कुवलयविपिनस्य नभसि स्थितिरुक्ता॥
एकस्य वस्तुनोऽनेकत्र वर्णनमपि विशेषः॥
यथा—
सोत्कम्पास्समरगिराप्यरण्यभाजः
कृष्णेन्द्रं धृतधनुषं तमुग्रवीर्यं।
पश्यामः प्रतिदिशमग्रतस्तदेत-
त्सौभाग्यं पटुतरसाध्वसाञ्जनस्य॥१०७॥
अत्र कृष्णप्रभुरेकएव भीतानां प्रतीपभूपानामग्रतः प्रतिदिशं वर्णितः॥
किंचित्कार्यारम्भादशक्यवस्त्वन्तरकृतिरपि विशेषः॥
यथा—
साधु त्वया सरसिजासन साधु साधु
कृष्णक्षमापतिमणेस्सृजता प्रतापं।
सृष्टः कदाप्यविदितास्तकथस्सकोपि
भास्वान्रथांगखगनैशिकदुःखहारी॥१०८॥
अत्र कृष्णप्रभुप्रतापसृष्ट्यारम्भेण विलक्षणसूर्यसृष्ट्यात्मिकाऽशक्यवस्त्वन्तरकृतिरुक्ता॥ ४३॥
४४—तत्साधनत्वेन लोकतोऽवगतस्य केनचित्तद्विरुद्धसाधनीकरणं व्याघातः॥
यथा—
फणिनेव कृष्ण तव वीर यया
जगदाज्ञयाति तरलीक्रियते।
शिरसि स्रजेव धृतयैव तया
विहरन्त्यमी सुकृतिनस्सचिवाः॥१०९॥
अत्र भयसाधनत्वेन लोकतोऽवगतस्य कृष्णप्रभुशासनस्य मन्त्रिभिः स्वविहारसाधनीकरणमुक्तं॥
कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानस्य अन्येन तत्कार्यविरोधिक्रियासौकर्येण समर्थनमपि व्याघातः॥
यथा—
स्वस्त्रीस्तनपरिरम्भणभाग्यच्युतिशङ्कयाऽरयः केचित्।
आयुष्मन्विमुखास्ते सूताभिमुखाः परे तयैव ननु॥११०॥
अत्र चरणत्रयं पक्षप्रतिपादकस्य सारथेर्वचनं। चरमं तु प्रतिपक्षप्रतिपादकस्य रथिनः कृष्णप्रभोरेव वचनमित्युदाहरणसंगतिः। अत्र सूतेन अधीराणां केषांचिदरीणां समरवैमुख्यसम्पादकतया सम्भाविता या स्वदारकुचपरिरम्भणभाग्यविच्छेदशंका सा प्रत्युत कृष्णप्रभुणा स्वस्त्रीशब्दस्य स्वर्ग स्त्रीपरतां विमृशता धीराणामन्येषां समराभिमुख्यसम्पादकतयैव समर्थिता॥ ४४॥
४५—उत्तरोत्तरकारणीभूतपूर्वपूर्वकवस्तुगुम्फः कारणमाला॥
यथा—
शौर्येण रणसंरम्भस्तस्मात्प्रत्यार्थनिग्रहः।
तेनापि महती ख्यातिर्महिशूरपुरप्रभोः॥१११॥
अत्र शौर्यं रणसंरम्भे स च प्रत्यर्थिनिग्रहे सोपि ख्यातौ बीजामति कारणमाला॥४५॥
४६—गृहीतमुक्तरीतिमदर्थश्रेणिरेकावली॥
गृहीतमुक्तरीतिश्च पूर्वपूर्वस्योत्तरोत्तरविशेषणभावः॥
यथा—
कृष्णक्षमाभृद्भवनोपकण्ठे
क्रीडावनं तत्र रसालसालाः।
रसालसालेषु पिकप्रणादाः
पिकप्रणादेषु मनोभवर्धिः॥११२॥
अत्र भवनोपकण्ठक्रीडावनयोः क्रीडावनरसालसालयोः रसालसालपिकप्रणादयोः पिकप्रणादमनोभवर्ध्योश्च विशेषणविशेष्यभावो दर्शितः॥४६॥
४७—–दीपकैकावल्योर्योगे मालादीपकम्॥
यथा—
अद्य त्वां कृष्णराजेन्द्र द्रष्टुं सौधाग्रभूमिषु।
पदं न्यदधतैणाक्ष्यस्तासु विभ्रम संपदः॥११३॥
अत्र पदमिति पदमेकं सौधाग्रभूमिषु एणाक्ष्यः पदं न्यदधत। तासु एणाक्षीषु विभ्रमसंपदः पदं न्यदधतेति वाक्यद्वयान्वयीति दपिकम्। गृहीतमुक्तरीतिसद्भावादेकावलीचेति तयोर्योगः॥४७॥
४८—उत्तरोत्तरमुत्कर्षस्सारः॥
यथा—
क्षोणीधरा महान्तस्तेषु महीयांस्त्रिलोकभृन्मेरुः।
उद्धृत्य तमपि दातुं यतमानः कृष्णभूपतिः कीदृक्॥११४॥
स्पष्टं॥४८॥
४९—क्रमिकाणां यथाक्रममन्वयो यथासंख्यं॥
यथा—
अमित्रेषु च मित्रेषु फलं कोपप्रसादयोः।
विभज्य विनियुञ्जानः कृष्णभूपतिरेधते॥११५॥
अत्र कोपप्रसादयोः फलं निग्रहानुग्रहरूपं द्वेधा विभज्य पूर्वस्य पूर्वं द्वितीयस्य द्वितीयमिति क्रमेण मित्रामित्रयोर्विनियोगान्वयः। अमुं क्रमालङ्कार इत्यपि वदन्ति॥ ४९॥
५०—पर्यायेणैकस्यानेकाधारसंश्रयणं पर्यायः॥
यथा—
उन्मज्य दुग्धवाराशेर्या रूढा हृदयं हरेः।
त्यक्त्वा तदद्य सा लक्ष्मीरध्यास्ते कृष्णमन्दिरम्॥११६॥
एकस्मिन्नाधारे पर्यायेणानेकाधेयसंश्रयणमपि पर्यायः॥
पूर्वस्त्वाधारपर्यायः अयमाधेय पर्याय इति विवेकः। यथा—
यत्राश्रूयन्त कृष्णेन्द्र बादित्रमधुरस्वनाः।
साम्प्रतं तव शत्रूणां पुरे तत्र शिवारवाः॥११७॥
अत्रैकस्मिन्नरिपुरे प्राग्वादित्रस्वनाः इदानीं तस्य वनीभूतत्वात्तत्र शिवारवा इत्याधेय पर्यायः॥५०॥
५१—न्यूनाधिकवस्तुनोर्विनिमयः परिवृत्तिः॥
यथा—
सातपत्रमपरं निजं पदं कृष्णभूपतिमणे समर्प्यते।
छत्रकेतुकलशादि लांच्छितं लेभिरे पदयुगं तव द्विषः॥११८॥
अत्र शत्रवः आतपत्रसहितं निजं साम्राज्यलक्षणं पदं कृष्णप्रभवे समर्प्य ततोप्यधिकं तदीयं पदयुग्ममलभन्तेति विनिमयः॥५१॥
५२—एकमेकत्र निषिध्य ततोन्यत्र वर्णनं परिसङ्ख्या॥
यथा—
कृतवेदिनि कृष्णभूपवर्ये
धरणीं शासति धर्ममार्गभाजि।
अविवेकितया मिथो विमर्दः
कुचयोः केवलमङ्गनाजनस्य॥११९॥
अत्र विवेचनाभाववत्तयाऽन्योन्यसङ्घर्षणं कुचयोः केवलमिति मात्रार्थकेन केवलशब्देन अन्यत्र प्रजासु निषिद्धं॥५२॥
५३—तुल्यबलयोर्विरोधे विकल्पः॥
यथा—
रक्ताशोकमुदीर्णकोरकमभिप्रेङ्खन्ति भृङ्गाङ्गनाः
माकन्दाभिनवप्रवालरसिकाः कूजन्ति पुंस्कोकिलाः।
सख्यः किं बहुना ममास्तु शरणं सावाथ तद्वाधुना
या कृष्णेन्द्रमुखेन्दुदर्शनसुधा यच्चोग्रवीर्यं विषं॥१२०॥
अत्र प्रियसमागम तनुत्यागयोराशंसायां विकल्पः॥५३॥
५४—संभवद्यौगपद्यानां बहूनां धर्माणामेकत्र गुम्फनं समुच्चयः॥
यथा—
अयि किं कुप्यसि का खलु
कमपि नृपालं विलिख्य चित्रपटे।
पश्यति पृच्छति हसति
स्पृशति श्वसिति प्रकंपते व्यथते॥१२१॥
अत्र सम्भवद्यौगपद्यानां दर्शनप्रश्नादिक्रियाणामेकत्र नायिकायां गुम्फनम्॥
एकस्मिन् एककार्यहेतुत्वेन प्रस्तुते तत्साधनतयाऽन्येषामप्यहमहमिकया खलेकपोतन्यायेनावतरण- [प्रवर्तन] मपि समुच्चयः॥
यथा—
नासीराग्रनटद्भटस्फुटधनुष्टङ्कारकोलाहलाः
क्रेङ्काराश्च रथांगनेभिजनुषश्शुण्डालघण्टारवाः।
भेरीभांकृतयश्च सैन्धवखुरक्षुण्णक्षमाधूलयः
प्रस्थानं प्रथयन्ति कृष्णनृपते दूरादरिक्ष्माभृतां॥१२२॥
अत्र कृष्णप्रभुप्रस्थानप्रथने धनुष्टंकारकोलाहलमात्रं पर्याप्तं। अन्येप्यहमहमिकया तत्सिद्धिमेव कुर्वन्ति॥५४॥
५५—क्रमिकैकगतानां क्रियाणां गुंफः कारकदीपकं॥
यथा—
कृष्णभूपभटाश्शूरा नगराण्यरिभूभुजां।
आक्रामन्त्युपरुन्धन्ति विगृह्णन्ति जयन्त्यपि॥१२३॥
अत्र आक्रमणादि क्रियाणां भटैकनिष्ठानां ऋमिकत्वं॥५५॥
५६—कारणान्तरसंनिधानात्कार्यसौकर्य समाधिः॥
यथा—
निगृहीता द्विषस्सर्वे व्योमापि घनसंकुलं।
स्मर्यतां कृष्णराजेन्द्र पुरी विरहकातरा॥१२४॥
अत्र कृष्णप्रभोः पुरप्रतिनिवर्तनंप्रति जयसिद्धिरेव पुष्कलं कारणं दैवादापतता वर्षर्तुना विजगीषुव्यापारविरोधिना तत्सौकर्याधायकत्वमात्रं॥५६॥
५७—बलवति प्रतिपक्षे प्रतिकर्तुमक्षमतया तदीयबाधनं प्रत्यनीकं॥
यथा—
कृष्णभूपप्रतापेन समरे निहता भटाः।
तन्मित्रमिति भिंदन्ति तरसा मित्रमण्डलं॥१२५॥
अत्र शत्रुभटानां कृष्णप्रभुप्रतापभेदनाक्षमतया तत्सुहृद्भूतरविमण्डलभेदनं॥५७॥
५८—कैमुतिकन्यायेनार्थसंसिद्धिः काव्यार्थापत्तिः॥
काव्यपदं तान्त्रिकार्थापत्तिव्यावर्तनाय। यथा—
कृष्णभूपालवीरेण विरोधमुपजग्मुषां।
अरण्येप्यसुखावृत्तिः का वार्ता नगरस्थितेः॥१२६॥
अत्र कृष्णप्रभुविरोधिनामस्माकमरण्ये वर्तनमपि सातंकं नगरवासस्य सातंकत्वं किमु वक्तव्यमिति दण्डापूपिकान्यायेन नगरवासस्यात्यन्तासम्भावितत्वरूपार्थ संसिद्धिः॥५८॥
५९––समर्थनीयार्थसमर्थनं काव्यलिगं॥
व्याप्तिपक्षधर्मतासापेक्षनैय्यायिकलिंगव्यावर्तनाय काव्यपदं।
यथा—
दुर्लिपे त्यज दौश्शील्यं विधिनालिकनिर्मिते।
कृष्णभूपेन दृष्टास्मस्सादरं दुर्गतिच्छिदा॥१२७॥
अत्र विधिलिखितदुर्लिपिं प्रति दुर्दशाधायकत्वरूपदौश्शीस्यत्यागोपन्यासो दुर्घटविषयत्वात्समर्थनसापेक्षः। सच स्वस्मिन्कृष्णप्रभुसकरुणदृष्टिपातकथनेन समर्थितः॥५९॥
६०—विशेषसामान्ययोस्सामान्यविशेषाभ्यां समर्थनमर्थान्तरन्यासः॥
एवं च द्वैविध्यमुक्तं भवति। तत्र सामान्येन विशेष समर्थनरूपो यथा—
कोशंकोशं ददानोपि सोर्थिभ्यो नैव तृप्यति।
लक्ष्मीवतामुदाराणां तृणं हि कनकोच्चयः॥१२८॥
अत्राप्रस्तुतेन सामान्येन प्रस्तुतस्य विशेषस्य समर्थनं। विशेषेण सामान्यसमर्थनरूपो यथा—
वयः प्रधान पुरुषानुषङ्गे
नान्यांगनानामिव राज्यलक्ष्म्याः।
सा सस्वजे हि प्रणयेन बालं
कृष्णप्रभुं पञ्चमवर्ष एव॥१२९॥
अत्र राज्यलक्ष्मीकर्तृकपुरुषोपभोगसामान्यस्य तत्कर्तृक कृष्णप्रभुपरिष्वंगरूपोपभोगविशेषेण पुरुषयौवनानपेक्षित्वसमर्थनं। ननु काव्यलिङ्गादनम् नातिरिच्यते। अप्रस्तुतसामान्यविशेषयोरुपन्यासस्य प्रस्तुतसामन्यविशेषसमर्थनयैवोपयोगाादीतिचेदत्रकेचित्। “समर्थनसापेक्षसमर्थने काव्यलिंगं तन्निरपेक्षस्यापि
प्रतीतिवैभवेन समर्थनेऽर्थान्तरन्यास” इति। वस्तुतस्तु समर्थ्यसमर्थकयोस्सामान्यविशेषभावसंबन्धेऽर्थान्तरन्यासः। तदितरसंबन्धे काव्यलिङ्गमितितु सारम्॥६०॥
६१—किञ्चिद्विशेषसमर्थनार्थस्य सामान्यस्य विशेषान्तरेण समर्थनं विकस्वरः॥
यथा—
चक्रं करे कृष्णनृपस्य चिह्नं
शिशोर्भविष्यन्त्रिजगाद राज्यम्।
फलं निमित्तोपगमानुमेयं
गर्भो वधूनामिव दौहृदाङ्कात्॥१३०॥
अत्र विशेषसामान्यविशेषाः क्रमेण निबद्धाः॥६१॥
६२—तदुत्कर्षाहेतौतद्धेतुत्वकल्पनं प्रौढोक्तिः॥
यथा—
कैलासशैलाशिखरावसदिन्दुमौलि
चूडावतंससरिदूर्मिमरीचिगौरैः।
कर्णाटदेशनरनायक तावकीनै–
स्त्यागोदितैर्नवयशोभिरशोभि विश्वम्॥१३१॥
अत्र स्वतस्सिद्धे भागीरथीकल्लोलमरीचिगौरत्वे कैलासादिनिर्मलवस्तुपरम्परासंसर्गो न हेतुरिति तत्र तद्धेतुत्वकल्पनं प्रौढोक्तिः॥६२॥
६३—इदमित्थंस्याद्यदीत्यूहस्सम्भावना॥
यथा—
पत्रं यदिस्याद्वलयं पृथिव्याः
स्या चेन्मषीभाजन मर्णवश्च।
भानुः करैश्चेद्धृतलेखिनीको
गणेयतां कृष्णगुणा भजेरन्॥१३२॥
अत्र पादत्रयेपि इदमित्थंस्याद्यदीत्यूहत्रयं निबद्धम्॥६३॥
६४—किंचिन्मिथ्यात्वसिद्धये मिथ्यार्थान्तरकल्पनं मिथ्याध्यवसितिः॥
यथा—
वियत्पुष्पकृतोत्तंसाश्शशशृङ्गधनुर्धराः।
गन्धर्वनगरे सन्ति शत्रवः कृष्णभूपतेः॥१३३॥
अत्र कृष्णप्रभुशत्रुसद्भावस्य मिथ्यात्वसिद्धये गगनकुसुमावतंसीकरणादि मिथ्यार्थान्तरकल्पनम्॥६४॥
६५—प्रस्तुते धार्मणि प्रस्तुतवृत्तान्तप्रतिबिम्बवर्णनं ललितम्॥
यथा—
समर्पयति बीजानि सुक्षेत्रे कृष्णभूपतिः।
सम्पत्समृद्धयस्तस्य न कथं स्युरहर्दिवम्॥१३४॥
अत्र प्रस्तुते धर्मिणि कृष्णनृपे वर्ण्यत्वेन प्रस्तुतोयस्सम्पत्समृद्धिहेतुभूत सुपात्रत्यागकरणवृत्तान्तस्तमवर्णयित्वा तत्सरूपस्य सुक्षेत्रबीजन्यासरूपवृत्तान्तस्य वर्णनं कृतम्॥६५॥
६६—अयत्नेनोत्कण्ठितार्थसंसिद्धिः प्रहर्षणम्॥
यथा—
मम मनसि गभीरे या चिरात्त्वं निमग्ना
नयनपथमिदानीं सुश्रु केनासि नीता।
अयि विदितमकस्मात्कृष्णभूपालबाले
सकरुणहृदयेन श्रीमता मन्मथेन॥१३५॥
अत्र मम मनसि चिरान्निममेत्युत्कण्ठितत्वं केन नयनपथं नीतासीत्यनेन तस्या नयनपथगामितारूपप्राप्तौ स्वप्रयत्नाभावश्च सूचितः॥
वांछितादधिकावाप्तिद्वितीयं प्रहर्षणम्॥
यथा—
एकस्यै सम्पदे कृष्णमाश्रयन्ति विपश्चितः।
स राजा कुरुते दाता तेषां त्रिदशसम्पदम्॥१३६॥
अत्र एकसम्पदपेक्षिणां विपश्चितां त्रिदशसम्पदं देवसम्पदं त्रिगुणितदशसम्पदं च कुरुत इति वांछितादधिकावाप्तिः॥
उपायसिध्यर्थादेवयत्नात्साक्षात्फलसिद्धिस्तृतीयं प्रहर्षणम्॥
यथा—
रत्नानामिह सम्पिपादयिषया कृष्णप्रभोराश्रया–
द्विद्वांसः कतिचित्कुशाग्रमतयः प्रस्थाय देशान्तरात्।
मध्येवर्त्म वनीभवत्तदहितक्ष्मापालगेहाङ्गण–
व्याकीर्णैर्मणिभिर्मनोरथफलं प्राप्ता निवृत्ता अपि॥१३७॥
अत्र विदुषां रत्नसम्पादनसिद्धिहेतुभूतकृष्णप्रभुसमाश्रयणसिध्यर्थात्प्रवासप्रयत्नादेव मध्ये कृष्णप्रभुसमाश्रयणंविना वनीभूतेषु तदहितक्ष्मापालगेहाङ्गणेषु रत्नसम्प्राप्तिरुक्ता॥६६॥
६७—इष्यमाण विरुद्धार्थसंप्राप्तिर्विषादनं॥
यथा—
आस्तीर्य पल्लवानि श्रीकृष्णविभो वने त्वदरिवर्गः।
यावदुदयुङ्क्त शयितुं तावत्परितोप्यलक्ष्यत दवाग्निः॥१३८॥
अत्रारिवर्गस्य इष्यमाणपल्लवशय्याशयनविरुद्धदवाग्निदर्शनप्राप्तिरुक्ता॥६७॥
६८—एकस्य गुणदोषाभ्यामन्यस्य गुणदोषलाभ उल्लासः॥
स चतुर्विधः। एकस्य गुणेनान्यस्य गुणः, दोषेण, दोषो गुणेन दोषो, दोषेण गुणश्चेति। आद्यो यथा—
यन्महात्मपदन्यासधूलिधूसरमन्वहं।
तदेव कृष्णभूपालमन्दिरं सर्वसुन्दरं॥१३९॥
अत्र महात्मनां माहात्म्यातिशयगुणेन तच्चरणरेणुसंस्पर्शतो मन्दिरस्य सर्वसुन्दरत्वगुणलाभः॥
द्वितीयो यथा—
कृष्णक्षोणीवलयतिलकप्रौढबाहुप्रताप-
ज्योतिर्दग्धप्रतिभटपुरी धूमसंरुद्धनेत्राः।
स्वर्वामाक्ष्यो विकसितदृशस्तत्र निन्दन्ति देवं
स्वेषां मूलं कमलभवनं निर्निमेषाक्षि सृष्टेः॥१४०॥
अत्र स्वर्गस्त्रीणां धूमोपरोधान्निमीलनाक्षमतया नेत्रनिर्निमेषत्वदोषेण तत्स्रष्टुर्ब्रह्मणो निन्द्यत्वदोषलाभः॥
तृतीयो यथा—
स्वन्नं स्वर्णं मही शय्या विदुषोपि तवांग यत्।
तत्सर्वं कृष्णभूभर्तुरनाश्रयणजं फलं॥१४१॥
अत्र कृष्णप्रभोर्बहुप्रदानेन विद्वत्परितोषकत्वगुणेन विदुषस्तदनाश्रयणं दारिद्र्यमूलतया दोषत्वेन वर्णितं॥
तुरीयो यथा—
आस्तां जयाशा स्थितिरस्तु वन्या
श्रेयो गरीयस्सुतरां तदेव।
भूयोपि पश्येम यदि प्रियांस्ता–
न्विगृह्णतः कृष्णनरेन्द्रयोधैः॥१४२॥
अत्र शत्रुस्त्रीणां वचने कृष्णप्रभुयोधानां शत्रुसंहारकत्वदोषेण तैस्साकं विग्रहं कुर्वतां स्वप्रियाणां वधंविना निर्गमनमेव गुणत्वेन वर्णितम्॥६८॥
६९—एकस्य गुणदोषाभ्यामन्यस्य तयोरलाभे अवज्ञा॥
सा द्विविधा। एकस्य गुणेनान्यस्य गुणालाभरूपा, दोषेण दोषालाभरूपाचेति। आद्या यथा—
वर्षत्यमुष्मिन् द्रविणाम्बुधारा–
मुच्चावचं कृष्णघने समन्तात्।
द्वित्राणिवा नैव निपेतुरस्मि–
न्पृषन्ति दौर्भाग्यगुहां प्रविष्टे॥१४३॥
अत्र कृष्णप्रभोस्सर्वसाधारणतया सुवर्णवर्षकत्वगुणेन कस्यचिद्दुर्भगस्य द्रव्यलाभरूपगुणाभावः प्रदर्शितः॥
द्वितीया यथा—
निन्दंतिचेदरसिकाः का खलु हानिर्मदयि कवितायाः।
श्लाघन्ते यामनिशं कृष्णक्षितिपालसंसदि रसज्ञाः॥१४४॥
अत्र अरसिकानां निन्दादोषेण स्वकवितायानरिसत्वदोषालाभः प्रदर्शितः॥६९॥
७०—तत्रैव गुणदर्शनादोषस्याभ्यर्थनाऽनुज्ञा॥
यथा—
दैन्यमभ्यर्थये दैवं भूयो भूयः कृताञ्जलिः।
स्यादेव बन्धुता यस्मिन् सति कृष्णमहाप्रभोः॥१४५॥
अत्र कृष्णप्रभुबन्धुतालक्षणगुणदर्शनेन दैन्यस्य दोषस्याभ्यर्थना॥७०॥
७१—दोषगुणयोर्गुणदोषत्वकल्पनं लेशः॥
यथा—
अपारतां तद्गुणवारिराशेः
स्तुवन्त्यविज्ञाय जना विशंकं।
ज्ञात्वा तदेकांशमुदीर्णलज्जा
स्तोतुं वयं कृष्ण विभुं बिभीमः॥१४६॥
अत्र स्ताव कनिष्ठस्तुत्यगुणविशेषाज्ञानस्य दोषस्य निश्शंकस्तुतिप्रवर्तकतया गुणत्वं तज्ज्ञानस्य स्तुतौ भयजनकत्वेन दोषत्वं च कल्पितं॥७१॥
७२—प्रकृतार्थपरैरेव पदस्तूच्यस्यार्थस्य सूचनं मुद्रा।
यथा—
तत्रोद्याने विरहति भाग्यै–
र्धन्या कृष्णक्षितिपतिना स्त्री।
गायत्युच्चैर्मनसिजमन्त्रं
मत्ता यस्मिन् मधुकरपङ्क्तिः॥१४७॥
अत्र मत्तेति पङ्किरिति च प्रकृतपराभ्यां पदाभ्यां अयं श्लोकः पङ्क्तिछन्दसि मत्ताख्यं वृत्तमिति कथंचित्सूच्यस्यार्थस्य सूचना कृता॥७२॥
७३—प्रकृतार्थपरैः पदैः क्रमिका प्रकृतार्थविन्यासो रत्नावलिः॥
क्रमिकत्वं प्रसिद्धसहपाठत्वं। यथा—
धर्मप्रसूतिः कृष्णेन्द्रो भीमसेनः किरीटवान्।
सुशोभनकुलो भाति सहदेवाभिधस्स्वयं॥१४८॥
अत्र प्रकृतपरैर्धर्मप्रसूतिभीमसेनादिपदैरप्रकृतानां पंचपाण्डवानां श्लेषेण यथाक्रमं विन्यासः॥७३॥
७४—स्वगुणत्यागादन्यदीयगुणपरिग्रहस्तद्गुणः॥
यथा—
श्वेतातपत्रेण शशाङ्कभासा
कृष्णक्षितीन्द्रस्य पुरप्रतोल्यां।
पिंछातपत्रायितमंगनानां
गवाक्षमार्गोद्गलितैः कटाक्षैः॥१४९॥
अत्र कृष्णप्रभोः श्वेतातपत्रेण स्वकीयधावल्यगुणपरित्यागपूर्वकं प्रबलतरपुरवधूकटाक्षगतनीलिमगुणस्स्वीकृतः॥ ७४॥
७५—कुतश्चिद्विघटितगुणस्य पुनःकारणान्तरवशात्स्वगुणसम्प्राप्तिः पूर्वरूपं॥
यथा—
निद्राणपरमपूरुषतनुरुचिसंतानकवचिताभोगः।
दुग्धांबुराशिरघुना स्वां रुचमभ्येति कृष्णनृपकीर्त्या॥१५०॥
अत्रान्तर्निद्राणपरमपुरुषतनुरुचिभिर्नीलीभूतस्य क्षीरसमुद्रस्य कीर्त्या पुनस्स्वकीयाधावल्यगुणसम्प्राप्तिरुक्ता॥
पूर्ववद्विकृतस्य वस्तुनः पूर्वावस्थानुवृत्तिश्च पूर्वरूपं॥
यथा—
अस्तंगतेपि सूर्ये वासरलक्ष्मी जहाति न कदाचित्।
नगरी कृष्णनृभर्तुर्वज्रप्रासादनिर्मलप्रभया॥१५१॥
अत्र नगर्याः प्राप्तायामपि रजन्यां पूर्वप्रकाशावस्थानुवृत्तिरुक्ता॥७५॥
७६—संगतान्यगुणानङ्गीकारोऽतद्गुणः॥
यथा—
एषा मुहुः पिबति दिग्वलयाचलेन्द्र-
पाश्चात्यभागधनसंतमसप्रवाहं।
मालिन्यमर्पयति च द्विषदाननेषु
कीर्तिस्तथापि तव शङ्खसितैव राजन्॥१५२॥
अत्र कीर्तेर्नीलिमगुणवत्तमस्संसर्गेपितद्गुणानङ्गीकरणमुक्तं॥७६॥
यथा—
७७—वस्त्वन्तरसंनिधानात्प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः॥
यथा—
स्फाटकी चन्द्रशालेयं हर्म्याग्रे कृष्णभूपतेः।
विभ्राजतेऽति शुभ्रश्रीस्सुभ्रुवां विभ्रमस्मितैः॥ १५३॥
अत्र प्रागेव धवलाया स्स्फाटिक चन्द्रशालायाः सुभ्रूस्मित-
संनिधानाद्धवलतरत्वं वर्णितं॥७७॥
७८—सादृश्याद्धर्मिणोर्भेदाग्रहो मीलितं॥
यथा—
कृष्णोवशयशःपूरपूरिते गगनाजिरे।
संपूर्णमुज्जिहानोपि चकोरैर्मृग्यते शशी॥१५४॥
अत्र यशश्शशिनोर्धर्मिणोर्धवलिमगुणसाम्याद्भेदानध्यवसायः॥ ७८॥
७९—सादृश्याद्धर्मिणोर्विशेषाग्रहस्सामान्यं॥
यथा—
शशिकुलनृपवरखड्गवल्ली-
विदलितवैरिशिरस्सु खे नटत्सु।
सविधगमपि वीक्ष्य सहिकेयं
न कमलबन्धुरवाप भीतिलेशं॥१५५॥
अत्र राहोररिशिरसां च व्यक्त्यंतरतयावभासोऽस्त्येव। किंतु सूर्यस्य अयंराहु रिदमरिशिर इति विशेषाग्रहः कार्यमुखेन दर्शितः॥ ७९॥
८०—मीलितन्यायेन भेदानध्यवसाये प्राप्ते कुतश्चिद्भेदस्फूर्तिमलितप्रतिद्वंद्वि उन्मीलितं॥
यथा—
श्रीकृष्णसार्वभौमस्य यशःपूरतिरोहितं।
हिमांशुमवगच्छान्ति चकोराश्शशलक्ष्मणा॥१५६॥
अत्र पूर्वोक्तरीत्या यशश्शशिनोर्भेदानध्यवसाये शशाकारेण लक्ष्मणा व्यावर्तकेन भेदस्फूर्तिः॥ ८०॥
यथा—
८१—सामान्यरीत्या विशेषानवभासे कुतश्चिद्विशेषस्फूर्तिस्सामान्यप्रतिद्वंद्वि विशेषकं॥
यथा—
कृष्णप्रभोः कीर्तिभिरच्युतेशौ
भूत्वा भृशं पांडुरगात्रकण्ठौ।
अबोधिषातां कमलाशिवाभ्यां
दृक्साम्यवैषम्यविचारणेन॥१५७॥
अत्र हरिशिवयोः कीर्त्या नीलतनुत्व नीलकण्ठत्व व्यपगमाद्विशेषानवभासे प्राप्ते समनेत्रत्व विषमनेत्रत्वाभ्यां व्यावर्तकाभ्यां लक्ष्मीपार्वत्यो रयं हरि रेषशिव इति विशेषस्फूर्तिः॥८१॥
८२—किंचिदाकूतसहितमुत्तरं गूढोत्तरं॥
यथा—
कार्यं पिपासा यदि किंतु पान्थ
शून्या प्रपा तत्कलशं गृहाण।
पीत्वाऽमृतान्युत्पलवापिकायां
संपूर्णकामो भज कृष्णभूपम्॥१५८॥
अत्र पिपासया जलमर्थयमानं पान्थंप्रति प्रपायां सलिलं नास्ति तत्कुम्भं ददामि गृहीत्वा उत्पलवापिकायां सलिलमुद्धृत्य पीत्वा सफलमनोरथस्सन् याहीति प्रपापालिकाया उत्तरम्। प्रपाया निर्जनत्वाद्गृहीतकुचस्सन् उत्पलसदृशनयनवति मुखे अधरामृतं पीत्वा सफलमनोरथस्सन् याहीत्याकूतम्॥८२॥
८३—प्रश्नोत्तरान्तरा भिन्नमुत्तरं चित्रोत्तरं॥
एवंच द्वैविध्यमुक्तं भवति। प्रश्नाभिन्नोत्तरमुत्तरान्तराभिन्नोत्तरमिति। तदुभयं। यथा—
जनकस्यात्मजा नित्यं कृष्णभूपानुकंपिनी।
कास्तत्प्रियाक्षिविजिताः कोस्यात्युग्रश्चमूरवः॥१५९॥
अत्र पूर्वार्धं प्रश्नाभिन्नोत्तरं। तत्र प्रश्नावसरे जनकस्येति व्यस्तं पदं। उत्तरावसरे जनकस्य जनकराजस्येति समस्तं। उत्तरार्धमुत्तरान्तराभिन्नोत्तरं। तत्र तत्प्रियाक्षिविजिताः काः
अस्यात्युग्रश्च क इति द्वयोः प्रश्नयोश्चमूरव इत्येकमेवोत्तरं हारण्यस्सेनाध्वनिश्च तदर्थः॥८३॥
८४—इंगितैः पराशयाभिज्ञस्य साकृतचेष्टितं सूक्ष्मं॥
यथा—
दृष्ट्वा तां कृष्णभूपाले दत्तदृष्टौ समंततः।
उद्यानाभिमुखी स्थित्वा पस्पर्श कचमल्लिकां॥१६०॥
अत्र कृष्णप्रभोः स्वावलोकनानन्तरभाविना परितो विलोकनेनेङ्गितेन संकेतस्थानप्रश्नाशयं विदितवत्याः विदग्धनायिकायाश्चेष्टेयं। अस्मिन्नुद्याने मल्लिकामण्टपे रात्रावन्धकारावृते अवयोस्स्वाच्छन्द्यमित्याकूतं॥८४॥
८५—परवृत्तान्तज्ञस्य साकृतचेष्टितं पिहितं॥
यथा—
प्रातरेवागते गेहं कृष्णे प्रेयास राजनि।
उपदां प्रमदा चक्रे कर्पूराञ्जनमञ्जसा॥१६१॥
अत्र सपत्नीगृहे निशि रचितजागरणवृत्तान्तं विदितवत्याश्चेष्टेयं। दीर्घजागरणेन सरुजयोर्नयनयोरिदं हितकरमस्त्वित्याकृतम्॥८५॥
८६—अन्यहेतूक्त्याऽकारगोपनं व्याजोक्तिः॥
यथा—
कृष्णोनृप स्सखि महापरिहासशीलः
क्रीडावने निशितकण्टकरेणुपूर्णम्।
येनात्र कैतकसुमं क्षिपता सहास–
मित्थं कृतास्मि बत सव्रणधूसराङ्गी॥१६२॥
अत्र क्रीडावने कृष्णप्रभुणा अनुभूतसुरतक्रीडया विदग्धनायिकया भूपृष्ठविलुण्ठनेन धूलिधूसराणि सनखरक्षतान्यंगान्यन्यथयितुं परिहासविधित्सया कृष्णप्रभुणा मदुपरि कण्टकधूलिमत्केतकी कुसुमं विक्षिप्तमिति सखीं प्रति हेत्वन्तरकथनं॥८६॥
८७—अन्योद्देश्यकवचनस्य तटस्थवञ्चनार्थमन्यंप्रति कथनं गूढोक्तिः॥
यथा—
नालं क्रन्दितुमस्म्यहो परिजनं दूरस्थमस्मिन्वने
कुञ्जेस्मिन्विजने शिलीमुखगणः पुष्पाञ्चलन्बाधते।
हे स्वामिन् मधुराङ्गनाधरसुधास्वादकजाग्रद्रुचे
भीरुः किं करवाणि संप्रति गतिः कृष्ण त्वमेव प्रभो॥१६३॥
अत्रोद्यानक्रीडायां कृष्णप्रभुसमागममभिलषन्त्याः कामिन्यास्तटस्थवंचनाय भगवन्तं वासुदेवं प्रत्याक्रोशः प्रत्याय्यते॥८७॥
८८—कविना श्लिष्टगुप्ताविष्करणं विवृतोक्तिः॥
यथा—
प्रमदवने पश्यन्ती
तत्किंचित्कृष्णसारसौन्दर्यं।
विस्मयविवशास्मीति
प्रोवाच सखीं ससूचनं काचित्॥१६४॥
अत्र कृष्णसारस्य कस्यचित्कुरङ्गस्य सौन्दर्यमिति झडिति प्रतीयमानेन श्लेषार्थेन गुप्तस्य कृष्णस्य तन्नाम्नो नृपस्य सारं यत्सौन्दर्यं तत्पश्यन्ती सतीति विवक्षितार्थस्य कविनाऽग्रे ससूचनमित्यनेनाविष्करणं॥८८॥
८९—मर्मगुप्तये क्रियया परातिसन्धानं युक्तिः॥
यथा—
कंचुकपिहितनखांका–
प्यधरं कृष्णेन्द्रदष्टमपलपितुं।
गत्वा बहिः कृशाङ्गी
लीलाशुकमाजघान पाणितलात्॥१६५॥
अत्र लीलाशुकताडनक्रियया अधरमनेन बिंबफलभ्रान्तिमता खण्डितमिति परेषां भ्रान्त्युत्पादनेन दन्तक्षतस्य स्वमर्मणो गुप्तये परवंचना कृता॥८९॥
९०—लोकप्रवादानुकृतिर्लोकोक्तिः॥
यथा—
प्रतिभूरस्म्यहं मुग्धे कृष्णप्रभुसमागमे।
धृत्वा किंचित्करे प्राणान्सहस्वाहानि कानिचित्॥१६६॥
अत्र करे किंचित्प्राणान् धृत्वेति लोकप्रवादानुकारः॥९०॥
९१—लोकोक्तेरर्थान्तरगर्भत्वे छेकोक्तिः॥
यथा—
भुजंग एव जानाति भुजंगपदपद्धतिं।
इति कृष्णमहीपालो बभाषे सस्मितं वचः॥१६७॥
अत्र अहेः पदान्यहिरेव जानातीति लोकप्रवादानुकारः। भुजगस्य विटस्यास्य वृत्तान्तं तत्सहचरोऽयमेव विटो जानातीत्यर्थान्तरगर्भत्वं॥९९॥
९२—एकतात्पर्येणोक्तस्य श्लेषकाकुभ्यां अपरार्थकल्पनं वक्रोक्तिः॥
यथा—
मानिनि विमुञ्च रोषं कृष्णं राजानमग्रतो दृष्टा।
भवतु पुरस्तादुदयतु नीलश्चन्द्रस्समीक्ष्य मुंचामि॥१६८॥
अत्र कृष्णप्रभुतात्पर्येणोच्चरितयोः कृष्णराजपदयोः श्लेषेण नीलचन्द्रपरत्वं कल्पितं। इदं श्लेषेण। एवं काक्वापि द्रष्टव्यं॥९२॥
९३—जात्यादिस्वभाववर्णनं स्वभावोक्तिः॥
यथा—
वारंवारमुदंचिताग्रचरणांतर्लक्ष्यमाणानना–
स्सोत्सेधायतकंघरोऽभयतटस्फारोच्चलत्केसराः।
स्तब्धोध्वश्रुतिशुक्तयश्च विपुलव्यालोलवालोज्वलाः
कृष्णक्ष्मापतिमंदुराग्रधरणौ वल्गन्त्यमी वाजिनः॥१६९॥
अत्राश्वजातिस्वभाववर्णनं कृतं॥९३॥
९४—भूतभाव्यर्थसाक्षात्कारवर्णनं भाविकं॥
यथा—
पश्यामो वयमधुनापि मण्टपेस्मिन्
श्रीकृष्णप्रभुरभिषिच्यते द्विजेन्द्रैः।
आमुक्तप्रतिसरसूत्रचारूपाणिः
सुव्यक्तोच्चरित विचित्रमन्त्रवर्णैः॥१७०॥
अत्र भूतार्थस्य कृष्णप्रभुपट्टाभिषेकमहोत्सवस्य साक्षात्कृतिरुक्ता। इदं च मण्टपस्य कल्याणकरत्वोद्भावनं। एवं भाव्यर्थसाक्षात्कारोदाहरणमूह्यं॥१४॥
९५—अन्योपलक्षणमृद्धिचरितं श्लाघ्यचरितं वा उदात्तं।
यथा—
निकेतान्तः प्रत्यङ्कणमपि विभोः कृष्णनृपतेः
चतुर्हैमस्तंभी शिखरशयिते वज्रफलके।
प्रयांती पूज्या गौः प्रतिफलितदेहा विरुरुचे
चरन्तीवोत्तानं सुरभिरमरेन्द्रस्य भवने॥१७१॥
इदं ऋद्धेरन्यांगत्वे उदाहरणम्। एवं श्लाघ्यचरितस्याप्यन्यांगत्वे उदाहरणमूहनीयं॥९५॥
९६—अद्भुतातथ्यशौर्यौदार्यादिवर्णनमत्युक्तिः॥
यथा—
वित्तं यद्भुवि कृष्णराज विभुना दत्तं द्विजेभ्यस्ततः
षड्भागं विधुरग्रहीत्तदुचितं राजा द्विजानां हि सः।
श्लाघं श्लाघममुं शिवस्स्वशिरसा संपाद्य किंचिद्धनं
सख्ये किंचिददात्ततो नवनिधींश्चक्रे स जीवत्यपि॥१७२॥
इदमौदार्यात्युक्तेरुदाहरणं। एवं शौर्यादेरपि द्रष्टव्यं॥९६॥
९७—योगतोनाम्नामन्यार्थत्वकल्पनं निरुक्तिः॥
योगश्शब्दवृत्ति विशेषः। यथा—
कृष्णनरनाथ भवता गुप्ता वसुधैकवीरेण।
एषा महिशूरपुरी जातान्वर्था चिरस्य कालस्य॥१७३॥
अत्र महिशूरपुरीति संज्ञावाचिनःशब्दस्य मह्यां शूरः महिशूरस्तस्य पुरीति योगव्युत्पत्यार्थान्तरनिर्वचनं॥९७॥
९८—प्रसिद्धप्रतिषेधानुकीर्तनं प्रतिषेधः॥
यथा—
न वेशवाटी न च पण्यवीथी
मूर्खाःकिमासीदथ दूरमाध्वं।
षड्दर्शनीपण्डितमण्डितेयं
सभा विभोः कृष्णमहीमघोनः॥१७४॥
अत्र निर्ज्ञातः प्रतिषेधस्स्वतोऽनुपयुक्तत्वादर्थान्तरगर्भीकरणेन चारुता हेतुरित्यलङ्कारत्वेन परिगणना।उदाहरणं राजद्वारि अहमहमिकया प्रविशतो मूर्खान्प्रति दौव्वारिकाणां वचनं। अत्र राजसभायां वेशवाटीत्व पण्यवथित्वि प्रतिषेधो निर्ज्ञात एव कीर्त्यमानस्तत्रैव पण्डितपामरसाधारण्येन सर्वेषां प्रवेशसौलभ्यं नात्र सभायां पण्डितानामिव पामराणां प्रवेशस्सुलभ इति अपहासं गर्भीकरोति। तच्च मूर्खा इति संबोधनेनषड्दर्शनीत्यादि सभाविशेषणेनचाविष्कृतं॥९८॥
९९—सिद्धस्यैव विधानं विधिः॥
यथा—
शरत्प्रथमवासरे शशधरान्वयस्वामिनि
श्रियाखिलमनोज्ञया श्रयति रत्नसिंहासनं।
फलाक्षतसमर्पणप्रणयिनि द्विजानां व्रजे
तदुत्सवनिरीक्षिणां जगति लोचनं लोचनं॥१७५॥
अत्र लोचने निर्ज्ञातस्य लोचनत्वस्य विधानमनुपयुक्तं सल्लोचनत्वोचितदर्शनीयवस्तुदर्शनेन फलवत्तां गर्भीकरोति। तच्च तदुत्सव निरीक्षिणामित्यनेनाविष्कृतं॥९९॥
१००—हेतुमतासह हेतोर्वर्णनं हेतुः॥
यथा—
कोणकोणे दिशिदिशि भृशं कृष्णभूपालगेहे
मुक्तारत्नद्रविणवसनस्वर्णसौभाग्यवृद्धयै।
मुग्धापांगप्रसरविसरत्कण्ठदघ्नानुकंपा
चामुण्डाम्बा जयतु सुचिरं मूर्ध्नि माहाबलाद्रेः॥१७६॥
अत्र कृष्णप्रभुकुलदेवतायाः चामुण्डायाः महाबलगिरिशिखरे सर्वोत्कर्षेण वर्तनस्य हेतोर्हेतुमता सौभाग्यवृद्धया सह वर्णनं कृतं॥
“हेतुहेतुमतोरैक्यं हेत्वलंकार इति केचित्॥”
तन्मते यथा—
रमादीर्घापांगाः स्वशरणजुषां सर्वविदुषां
विकासाः प्रौढस्त्रीहृदयजनुषां पुष्पधनुषां।
तिरस्कारास्सौरातपसुहितरक्तोत्पलरुचां
कटाक्षाः कर्णाटक्षितिरमण ते जाग्रतु मयि॥१७७॥
अत्र लक्ष्मीकटाक्षजनकत्वादिनाध्यवसितेषु कटाक्षेषु लक्ष्मीकटाक्षत्वादि व्यपदेशः फलावश्यंभाव तच्छैप्रयादि प्रत्ययार्थः ॥१००॥
इति श्री कास्यपकुलतिलक श्रीपुरीकृतौ
शतालङ्कार निरूपणं नामार्थलङ्कार
प्रकरणं संपूर्णम्॥
श्रीरघुकुलतिकाय मङ्गललम्॥
****
अथ शब्दालङ्कारा निरूप्यन्ते
१—अव्यवधानेन द्वयोर्व्यंजनयुग्मयोरावृत्तिश्छेकानुप्रासः॥
छेका विदग्धास्तदनुमतोऽनुप्रास इत्यन्वर्थः। यथा—
पादपादपि सौवर्गादधिकं भवतावता।
सारसारस्वता कृष्णमनुजेश्वर भूरभूत् ॥१॥
अत्र पादचतुष्टयेपि व्यञ्जनयुग्मस्य पुनरावृत्तिरश्राविता। अत्र स्वरपौनरुक्त्यमानुषङ्गिकं तन्नैयत्यस्य यमकप्रयोजकत्वात्॥१॥
२—एकद्वित्र्यादिवर्णानां संख्यानियममुल्लंघ्य आवृत्तिर्वृत्यनुप्रासः॥
वृत्या रसानुगुण्येन परुषकोमलवर्णविन्यासात्मिकया उपलक्षितोऽनुप्रास इत्यर्थः। यथा—
उद्दण्डनिजदोर्दण्डखण्डितारातिचण्डिमा।
मण्डलाग्रघरो रेजे कृष्णभूमण्डलेश्वरः॥२॥
अत्र प्रथमचरणे वर्णद्वयस्य द्वितीये एकवर्णस्य तृतीयचतुर्थयोर्वर्णात्रिकस्यचावृत्तिर्दृष्टया॥२॥
३—तात्पर्यभेदाच्छब्दार्थयोर्द्वयोरप्यावृत्तिर्लाटानुप्रासः॥
यथा—
चतुरंतमहीपाले चामराजतनूभवे।
दिष्टया चिरस्य कालस्य कवयः कवयोऽभवन्॥३॥
अत्र कवयः निजकवित्वोचितराजसंभावनाविषया इति तात्पर्यभेदः॥
४—यत्र प्रथममर्थपौनरुक्त्यभ्रमस्तत्र पुनरुक्तवदाभासः॥
यथा—
कुसुमायुधा तनुश्रीरच्युतनारायणांघ्रिभक्तिरयं।
षाण्मातुरशक्तिधर श्रीकृष्ण विभुर्मुदे न कस्यालम्॥४॥
अत्र कुसुमायुधातनुशब्दयोः पर्यायत्वात्प्रथममर्थपौनरुक्त्यभ्रमः। तदनु अतनुशब्दस्य महदर्थकत्वविचारणेन अन्यथात्वं। एवमन्यत्रापि द्रष्टव्यम्॥
५—सस्वरव्यंजनसमुदायस्यावृत्तिर्यमकं॥
तच्चादिमध्यांतगतत्वेन बहुविधं। दिङ्मात्रमुदाह्रियते।
यथा—
कोन्यः कृष्णनृपान्नॄणां तन्वीतामरसं पदं।
यद्गृहोत्कात्यजत्पद्मा तन्वी तामरसं पदं॥५॥
अत्र द्वितीयपादस्य चतुर्थचरणस्थाने आवृत्तिः। एकत्र तन्वीत अमरसंपदमिति द्वेधा छेदः। अन्यत्र तन्वी तामरसं पदं इति त्रेधा छेदः। यथा—
असौ यशोभिर्भुवि राजतेजा विराजते जाग्रदुरुप्रतापः।
समश्रियोच्चैरपि नाकिनेत्रा पिनाकिनेत्रा विषयस्मराभः॥६॥
अत्र प्रथमचरणान्त्यवर्णपंचकस्य द्वितीयचरणप्रारंभे तृतीयचरणान्त्यपंचकस्य चतुर्थचरणप्रारम्भे च पुनरुक्तिद्रष्टव्या।
यथा—
सकलया कलया भुवि भोजव–
ज्जयति संयति संमतविक्रमः।
नरविभूरविभूवदुदारधीः
कविकला विकला कथमस्तु भूः॥७॥
अत्र चरणचतुष्टयेपि प्रथमवर्णादुपरि वर्णत्रिकस्य पुनरुक्तिर्द्रष्टव्या। एवमन्येपियमकप्रकारा ऊह्याः॥५॥
६—वर्णानां पद्माद्याकारहेतुत्वे चित्रं॥
पौनरुक्त्यप्रस्तावे कर्णिकादि स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनं आदिना चक्रनागादयो ग्राह्याः॥
तत्राष्टदलपद्मबन्धो यथा—
<MISSING_FIG href="../books_images/U-IMG-1706770299Screenshot2024-02-01121900.png"/>
साधवे सरसाचारु रुचा सारास्ततामसा।
सामता सुप्रसादा श्री श्श्रीदासाध्यास्य वेधसा॥८॥
अत्र दिग्दलेषु प्रवेशनिर्गमाभ्यां श्लिष्टवर्णत्वं न विदिग्दलेषु। कर्णिकाक्षरन्तु लिष्टमेव॥
** षडरचक्रबन्धो यथा—**
<MISSING_FIG href="../books_images/U-IMG-1706722536Screenshot2024-01-31225943.png"/>
भर्ता मन्यथविग्रहस्सखिधरे श्रेयस्करं जन्म ते
सस्नेहादृतभोगधीरखिलिदग्राजत्रपाकृद्युवा।
दग्धारातिभुजप्रभस्सुखिषु संख्येयस्सकृष्णस्स्वयं
यं शक्राभमुपासते सदवनं ते मानवास्सुश्रियं॥९॥
<MISSING_FIG href="../books_images/U-IMG-1706722073Screenshot2024-01-31225059.png"/>
अत्र अरशिरस्थानगता नेमिवर्णाश्चक्रनाभिगतो वर्णश्च श्लिष्टाः। किंचात्र चक्रे अराणां तृतीय वर्णान् तथा षष्ठवर्णांश्च संगृह्य यथाक्रमं योजने महाराज कृष्णविभो जयजयेति अभिमतार्थसमर्पकशब्दो लभ्यते॥
नागबन्धो यथा—
भद्रम् श्रीकृष्ण तुभ्यं वितरतु नलिनख्यातिजैत्रस्वपादा
शक्रादि व्योमगेषु प्रकृतिसरसतां या सविश्वासमेति।
सा चंडी पापहत्री दितिजगजविमर्देषु हेतुस्सुयाना
रम्या सर्वत्र वाचंयमशमवशगा हंत मह्याममुद्रम्॥१०७॥
इति श्रीपुरीशकृतौ
कृष्णभूपालीये अलङ्कारशास्त्रे
शब्दालङ्कारप्रकरणं संपूर्णम्॥
॥ श्रीरस्तु॥
]