सिंहभूपालः- रसार्णव-सुधाकरः

विस्तारः (द्रष्टुं नोद्यम्)

Simhabhupala:
Rasarnavasudhakara
Based on the ed. by T. Venkatacharya,
Madras: Adyar Library and Research Centre, 1979.
(Adyar Library Series, 110)

Input by Jan Brzezinski
5.10.2003

[Note:
The numbering system has been revised
(1) to rationalize the numbering of the karikas and
(2) to integrate karikas and examples.
The old numbering of the karikas is added without text-reference.
J.B.]

अब्ब्रेविअतिओन्स् उसेद्:

अमरु। = अमरु-शतकम्
अ।रा। = अनर्घ-राघव
बा।रा। = बाल-रामायण
भ।ना।शा। = भरत नाट्य-शास्त्र
भा।प्र। = भाव-प्रकाशिका (शरदा-तनय)
ह।ना। = हनुमन्-नाटकः
करुणाकन्दल
का।आ। = काव्यादर्श
कु।आ। = कुवलयावलि (सिंह-भूपाल)
कु।सम्। = कुमार-सम्भव (कालिदास)
कृ।क। = कृष्ण-कर्णामृतम् (लीला-शुकः)
गाथा। = गाथा-सत्तसाइ
मा।मा। = मालती-माधव
मा।अ।मि। = मालविकाग्निमित्रम्
शि।व। = शिशुपाल-वधः (माघ)
मे।दू। = मेघदूत ओर् मेघ-सन्देश।
नागा। = नागानन्द
र।आ। = रत्नावली (श्री-हर्षस्य)
र।वम्। = रघुवंशः (कालिदास)
स।क।आ। = सरस्वती-कण्ठाभरणम् (भोज)
शकु। ओर् अ।श। = अभिज्ञान-शकुन्तलम् (कालिदास)
उ।रा।च। = उत्तर-राम-चरित
वै।श। = वैराग्य-शतकम् ओफ़् भर्तृहरिः
वि।उ। = विक्रमोर्वशीयः
वि।पु। = विष्णु-पुराणम्
वे।सम्। = वेणि-संहारः ओफ़् नारायण-भट्ट

श्री-सिंह-भूपाल-विरचितो
रसार्णव-सुधाकरः

(१)
प्रथमो विलासः

रञ्जकोल्लासः

शृङ्गार-वीर-सौहार्दं मौग्ध्य-वैयात्य-सौरभम् ।
लास्य-ताण्डव-सौजन्यं दाम्पत्यं तद् भजामहे ॥स्र्स्_१।१॥
वीणाङ्कित-करां वन्दे वानीम् एणीदृशं सदा ।
सदानन्द-मयीं देवीं सरोजासन-वल्लभाम् ॥स्र्स्_१।२॥
अस्ति किञ्चित् परं वस्तु परमानन्द-कन्दलम् ।
कमलाकुच-काठिन्य-कुतूहलि-भुजान्तरम् ॥स्र्स्_१।३॥
तस्य पादाम्बुजाज् जातो वर्णो विगत-कल्मषः ।
यस्य सोदरतां प्राप्तं भगीरथ-तपः-फलम् ॥स्र्स्_१।४॥
तत्र रेचर्लवंशाब्धि-शरद्-राका-सुधाकरः ।
कला-निधिर् उदार-श्रीर् आसीद् दाचय-नायकः ॥स्र्स्_१।५॥
यस्यासि-धारा-मार्गेण दुर्गेणापि रणाङ्गणे ।
पाण्ड्य-राज-गजानीकाज् जय-लक्ष्मीर् उपागता ॥स्र्स्_१।६॥
अङ्ग-नारायणे यस्मिन् भवति श्रीर् अतिस्थिरा ।
भूर् अभूत् करिणी वश्या दुष्ट-राज-गजाङ्कुशे ॥स्र्स्_१।७॥
तस्य भार्या महाभाग्या विष्णोः श्रीर् इव विश्रुता ।
पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥स्र्स्_१।८॥

तयोर् अभूवन् क्षिति-कल्प-वृक्षाः
पुत्रास् त्रयस् त्रासित-वैरि-वीराः ।
सिंह-प्रभुर् वेन्नमनायकश् च
वीराग्रणी रेच-मही-पतिश् च ॥स्र्स्_१।९॥

कलाव् एक-पदो धर्मो यैर् एभिश् चरणैर् इव ।
सम्पूर्ण-पदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥स्र्स्_१।१०॥
तत्र सिंह-महीपाले पालयत्य् अखिलां महीम् ।
नमताम् उन्नतिश् चित्रं राज्ञाम् अनमतां नतिः ॥स्र्स्_१।११॥

कृष्णैलेश्वर-सन्निधौ कृत-महा-सम्भार-मेलेश्वरे
वीतापायम् अनेकशो विदधता ब्रह्म-प्रतिष्ठापनम् ।
आनृण्य समपादि येन विभुना तत्-तद्-गुणैर् आत्मनो
निर्माणातिशय-प्रयास-गरिम-व्यासङ्गिनि ब्रह्मणि ॥स्र्स्_१।१२॥

कृतान्त-जिह्वा-कुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसताम् अरीणाम् ।
स्वेदोदयश् चेतसि सञ्चितानां
मानोष्मणाम् आतनुते प्रशान्तिम् ॥स्र्स्_१।१३॥

श्रीमान् रेच-महीपतिः सुचरितो यस्यानुजन्मा स्फुटं
प्राप्तो वीर-गुरु-प्रथां पृथुतरां वीरस्य मुद्राकरीम् ।
लब्ध्वा लब्ध-कठारि-राय-विरुदं राहुत्तरायाङ्कितं
पुत्रं नागयनायकं वसुमती-वीरैक-चूडामणिम् ॥स्र्स्_१।१४॥

सोऽ यं सिंह-महीपालो वसुदेव इति स्फुटम् ।
अनन्त-माधवौ यस्य तनूजौ लोक-रक्षकौ ॥स्र्स्_१।१५॥

तत्रानुजो माधव-नायकेन्द्रो
दिग्-अन्तराल-प्रथित-प्रतापः ।
यस्याभवन् वंश-करा नरेन्द्रास्
तनूभवा वेद-गिरीन्द्र-मुख्याः ॥स्र्स्_१।१६॥
तस्याग्रजन्मा भुवि राज-दोषैर्
अप्रोत-भावाद् अनपोत-सञ्ज्ञाम् ।
ख्यातां दधाति स्म यथार्थ-भूताम्
अनन्त-सज्ञां च महीधरत्वम् ॥स्र्स्_१।१७॥

सोदर्यो बलभद्र-मूर्तिर् अनिशं देवी प्रिया रुक्मिणी
प्रद्युम्नस् तनयोऽ प् पौत्र-निवहो यस्यानिरुद्धादयः ।
सोऽ यं श्रीपतिर् अन्नपोत-नृपतिः किं चाननाम्भोरुहे
धत्ते चारु-सुदर्शन-श्रियम् असौ सत्वात्म-हस्ताम्बुजे ॥स्र्स्_१।१८॥

बहु-सोम-सुतं कृत्वा भूलोकं यत्र रक्षति ।
एक-सोम-सुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥स्र्स्_१।१९॥

सोमकुल-परशुराम्ए
भुज-बल-भीमेऽ रिगाय-गोबाले ।
यत्र च जाग्रति शासति
जगतां जागर्ति नित्य-कल्याणम् ॥स्र्स्_१।२०॥

हेमाद्रि-दानैर् धरणी-सुराणां
हेमाचलं हस्त-गतं विधाय ।
यश् चारु-सोपान-पथेन चक्रे
श्री-पर्वतं सर्व-जनाङ्घ्रि-गम्यम् ॥स्र्स्_१।२१॥

यो नैकवीरोद्दलनोऽ प्य् असङ्ख्य-
सङ्ख्योऽ प्य् अभग्नात्म-गति-क्रमोऽ पि ।
अजाति-साङ्कर्य-भवोऽ पि चित्रं
दधाति सोमान्वय-भार्गवाङ्कम् ॥स्र्स्_१।२२॥

धावं धावं रिपु-नृपतयो युद्ध-रङ्गापविद्धाः
खड्गे खड्गे फलित-वपुषं यं पुरस्ताद् विलोक्य ।
प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं
सम्मन्यन्ते स्फुटम् अवितथं खड्ग-नारायणाङ्कम् ॥स्र्स्_१।२३॥

अन्नमाम्बेति विख्याता तस्यासीद् धरणी-पतेः ।
देवी शिवा शिवस्येव राजमौलेर् महोज्ज्वला ॥स्र्स्_१।२४॥
शत्रुघ्नं श्रुतकीर्तिर् या सुभद्रा यशसार्जुनम् ।
आनन्दयति भर्तारं श्यामा राजानम् उज्ज्वलम् ॥स्र्स्_१।२५॥
तयोर् अभूतां पुत्रौ द्वाव् आद्यो वेद-गिरीश्वरः ।
द्वितीयस् त्व् अद्वितीयोऽ सौ यशसा सिंह-भूपतिः ॥स्र्स्_१।२६॥
अथ श्री-सिंह-भूपालो दीर्घायुर् वसुधाम् इमाम् ।
निजांस-पीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥स्र्स्_१।२७॥

अहीनज्याबन्धः कनक-रुचिरं कार्मुक-वरं
बलि-ध्वंसी बाणः पर-पुरम् अनेकं च विषयः ।
इति प्रायो लोकोत्तर-समर-सन्नाह-विधिना
महेशोऽ यं सिंह-क्षितिप इति यं जल्पति जनः ॥स्र्स्_१।२८॥

यत्र च रण-सन्नहिनि
तृण-चरणं निज-पुराच् च निःसरणम् ।
वन-चरणं तच्-चरणक-
परिचरणं वा विरोधिनां शरणम् ॥स्र्स्_१।२९॥

सतां प्रीतिं कुर्वन् कुवलय-विकासं विरचयन्
कलाः कान्ताः पुष्णन् दधद् अपि च जैवातृक-कथाम् ।
नितान्तं यो राजा प्रकटयति मित्रोदयम् अहो
तथा चक्रानन्दान् अपि च कमलोल्लास-सुषमाम् ॥स्र्स्_१।३०॥

तल्-लब्धानि घनाघनैर् अतितरां वारां पृषन्त्य् अम्बुधौ
स्वात्याम् एव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् ।
यद् दानोदक-विप्रुषस् तु सुधियां हस्ते पतन्त्योऽ भवन्
माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥स्र्स्_१।३१॥

नयनम् अयं गुणम् अगुणं
पदम् अपदं निजम् अवेत्य रिपु-भूपाः ।
यस्य च नय-गुण-विदुषो
विनमन्ति पदारविन्द-पीठान्तम् ॥स्र्स्_१।३२॥

प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास्
त्वत्-सामन्त-मही-भुजः करुणया ते रक्षणीया इति ।
कर्णे वर्णयितुं नितान्त-सुहृदो कर्णान्त-विश्रान्तयोर्
मन्ये यस्य दृग्-अन्तयोः परिसरं सा काम-धेनुः श्रिता ॥स्र्स्_१।३३॥

युष्माभिः प्रतिगण्ड-भैरव-रणे प्राणाः कथं रक्षिता
इत्य् अन्तः-पुर-पृच्छया यद् अरिषु प्राप्तेषु लज्जा-वशम् ।
शंसन्त्य् उत्तर-मानन-व्यतिकर-व्यापार-पारङ्गता
गण्डान्दोलित-कर्ण-कुण्डल-हरिन्-माणिक्य-वर्णाङ्कुराः ॥स्र्स्_१।३४॥

मन्दार-पारिजातक-
चन्दन-सन्तान-कल्प-मणि-सदृशैः ।
अनपोत-दाच-वल्लभ-
वेद-गिरि-स्वामि-माद-दामय-सञ्ज्ञैः ॥स्र्स्_१।३५॥

आत्म-भवैर् अतिविभवैर्
अनितर-जन-सुलभ-दान-मुदितैर् भुवि यः ।
रत्नाकर इव राजति
राजकरार-चित-सुकमलोल्लासः ॥स्र्स्_१।३६॥

यस्याढ्यः प्रथमः कुमार-तिलकः श्री-अन्नपोतो गुणैर्
एकस्याग्रजम् आत्म-रूप-विभवे चापे द्वयोर् अग्रजम् ।
आरूढे त्रितयाग्रजं विजयते दुर्वार-दोर्-विक्रमे
सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥स्र्स्_१।३७॥

युद्धे यस्य कुमार-दाचय-विभोः खड्गाग्र-धारा-जले
मज्जन्ति प्रतिपक्ष-भूमि-पतयः शौर्योष्म-सन्तापिताः ।
चित्रं तत्-प्रमदाः प्रनष्ट-तिलका व्याकीर्ण-नीलालकाः
प्रभ्रश्यत्-कुच-कुङ्कुमाः परिगलन्-नेत्रान्त-कालाञ्जनाः ॥स्र्स्_१।३८॥

परिपोषिणि यस्य पुत्र-रत्ने
दयिते वल्लभ-राय-पूर्ण-चन्द्रे ।
समुदेति सतां प्रभाव-शेषः
कमलानाम् अभिवर्धनं तु चित्रम् ॥स्र्स्_१।३९॥

एतैर् अन्यैश् च तनयैः सोऽ यं सिंह-महीपतिः ।
षड्भिः प्रतिष्ठाम् अयते स्वामीवाङ्गैः सुसङ्गतैः ॥स्र्स्_१।४०॥

राजा स राजाचल-नामधेयाम्
अध्यास्त वंश-क्रम-राजधानीम् ।
सतां च रक्षाम् असतां च शिक्षां
न्यायानुरोधाद् अनुसन्दधानज्ञाः ॥स्र्स्_१।४१॥

विन्ध्य-श्री-शैल-मध्य-क्ष्मा-मण्डलं पालयन् सुतैः ।
वंश-प्रवर्तकैर् अर्थान् भुङ्क्ते भोग-पुरन्दरः ॥स्र्स्_१।४२॥

तस्मिन् शासति सिंह-भूमि-रमणे क्ष्माम् अन्नपोतात्मजे
काठिन्यं कुच-मण्डले तरलता नेत्राञ्चले सुभ्रुवाम् ।
वैषम्यं त्रिवलीषु मन्द-पदता लीलालसायां गतौ
कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥स्र्स्_१।४३॥

सोऽ हं कल्याण-रूपस्य वर्णोत्कर्षैक-कारणम् ।
विद्वत्-प्रसादना-हेतोर् वक्ष्ये नाट्यस्य लक्षणम् ॥स्र्स्_१।४४॥
पुरा पुरन्दराद्यास् ते प्रणम्य चतुराननम् ।
कृताञ्जलि-पुटा भूत्वा पप्रच्छुः सर्व-वेदिनम् ॥स्र्स्_१।४५॥
भगवन् श्रोतुम् इच्छामः श्राव्यं दृश्यं मनोहरम् ।
धर्म्यं यशस्यम् अर्थ्यं च सर्व-शिल्प-प्रदर्शनम् ॥स्र्स्_१।४६॥
परं पञ्चमम् आम्नायं सर्व-वर्णाधिकारिकम् ।
इति पृष्टः स तैर् ब्रह्मा सर्व-वेदान् अनुस्मरन् ॥स्र्स्_१।४७॥
तेभ्यश् च सारम् आदाय नाट्य-वेदम् अथासृजत् ।
अध्याप्य भरताचार्यं प्रजापतिर् अभाषत ॥स्र्स्_१।४८॥
सह पुत्रैर् इमं वेदं प्रयोगेण प्रकाशय ।
इति तेन नियुक्तस् तु भरतः सह सूनुभिः ॥स्र्स्_१।४९॥
प्रायोजयत् सुधर्मायाम् इन्द्रस्याग्रेऽ प्सरो-गणैः ।
सर्व-लोकोपकाराय नाट्य-शास्त्रं च निर्ममे ॥स्र्स्_१।५०॥
तथा तद्-अनुसारेण शाण्डिल्यः कोहलोऽ पि च ।
दत्तिलश् च मतङ्गश् च ये चान्ये तत्-तनूद्भवाः ॥स्र्स्_१।५१॥
ग्रन्थान् नाना-विधांश् चक्रुः प्रख्यातास् ते महीतले ।
तेषाम् अतिगभीरत्वाद् विप्रकीर्ण-क्रमत्वतः ॥स्र्स्_१।५२॥
सम्प्रदायस्य विच्छेदात् तद्-विदां विरलत्वतः ।
प्रायो विरल-सञ्चारा नाट्य-पद्धतिर् अस्फुटा ॥स्र्स्_१।५३॥
तस्माद् अस्मत्-प्रयत्नोऽ यं तत्-प्रकाशन-लक्षणः ।
सारैक-ग्राहिणां चित्तम् आनन्दयति धीमताम् ॥स्र्स्_१।५४॥

नेदानीन्तन-दीपिका किम् उ तमः-सङ्हातम् उन्मूलयेज्
ज्योत्स्ना किं न चकोर-पारण-कृते तत्-काल-संशोभिनी ।
बालः किं कमलाकरान् दिन-मणिर् नोल्लासयेद् अञ्जसा
तत् सम्प्रत्य् अपि मादृशाम् अपि वचः स्याद् एव सम्प्रीतये ॥स्र्स्_१।५५॥

स्वच्छ-स्वादु-रसाधारो वस्तु-च्छाया-मनोहरः ।
सेव्यः सुवर्ण-निधिवन् नाट्य-मार्गः स-नायकः ॥स्र्स्_१।५६॥
सात्त्विकाद्यैर् अभिनयैः प्रेक्षकाणां यतो भवेत् ।
नटे नायक-तादात्म्य-बुद्धिस् तन् नाट्यम् उच्यते ॥स्र्स्_१।५७॥
रसोत्कर्षो हि नाट्यस्य प्राणास् तत् स निरूप्यते ।
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥स्र्स्_१।५८॥
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ।

अथ विभावाः-

तत्र ज्ञेयो विभावस् तु रस-ज्ञापन-कारणम् ॥स्र्स्_१।५९॥
बुधैर् ज्ञेयोऽ यम् आलम्ब उद्दीपन इति द्विधा ।
आधार-विषयत्वाभ्यां नायको नायिकापि च ॥स्र्स्_१।६०॥

तत्र नायकः–
आलम्बनं मतं तत्र नायको गुणवान् पुमान् ।
तद्-गुणास् तु महा-भाग्यम् औदार्यं स्थैर्य-दक्षते ॥स्र्स्_१।६१॥
औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता ।
कृतज्ञत्वं नयज्ञत्वं शुचिता मान-शालिता ॥स्र्स्_१।६२॥
तेजस्विता कलावत्त्वं प्रजा-रञ्जकतादयः ।
एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥स्र्स्_१।६३॥

तत्र महाभाग्यम्-
सर्वातिशायि-राज्यत्वं महाभाग्यम् उदाहृतम् ॥स्र्स्_१।६४॥ ६४अब्

यथा-
पौत्रः कुशस्यापि कुशेशयाक्षः
ससागरां सागर-धीर-चेताः ।
एकातपत्रां भुवम् एक-वीरः
पुरार्गलादीर्घ-भुजो बुभोज ॥स्र्स्_१।६५॥ (र।वम्। १८।४)

अथ औदार्यम्-
यद्-विश्राणन-शीलत्वं तद् औदार्यं बुधा विदुः ॥स्र्स्_१।६६॥ ६४च्द्

यथा-
जनस्य साकेत-निवासिनस् तौ
द्वाव् अप्य् अभूताम् अभिनन्द्य-सत्त्वौ ।
गुरु-प्रदेयाधिक-निःस्पृहोऽ र्थी
नृपोऽ र्थि-कामाद् अधिक-प्रदश् च ॥स्र्स्_१।६७॥ (र।वम्। ५।३७)

अथ स्थैर्यम्-
व्यापारं फल-पर्यन्तं स्थैर्य्म् आहुर् मनीषिणः ॥स्र्स्_१।६८॥ ६५अब्

यथा-
न नवः प्रभुर् आफलोदयात्
स्थिर-कर्मा विरराम कर्मणः ।
न च योग-विधेर् नवेतरः
स्थिर-धीरा परमात्म-दर्शनात् ॥स्र्स्_१।६९॥ (र।वम्। ८।२२)

अथ दक्षता-
दुष्करे क्षिप्र-कारित्वं दक्षतां परिचक्षते ॥स्र्स्_१।७०॥ ६५च्द्

यथा-
वालधिं त्रातुम् आवृत्य चमरेणार्पिते गले ।
पतन्तम् इषुम् अन्येन स कृपालुर् अखण्डयत् ॥स्र्स्_१।७१॥ [*१]
[*१] सोमे म्स्स्। हवे थे फ़ोल्लोwइन्ग् एxअम्प्ले: स दक्षिणं तूण-मुखेन वामं । व्यापारयन् हस्तम् अलक्ष्यताजौ । आकर्ण-कृष्टा सकृद् अस्य योद्धुम् । और्वीव बाणान् सुषुवे रिपु-घ्नान् ॥(र।वम्। ७।५७)

अथ औज्ज्वल्यम्-
औज्ज्वल्यं नयनानन्द-कारित्वं कथ्यते बुधैः ॥स्र्स्_१।७२॥ ६६अब्

यथा-
ता राघवं चक्षुर्भिर् आपिबन्त्यो
नार्यो न जग्मुर् विषयान्तराणि ।
तथा हि शेषेन्द्रिय-वृत्तिर् आसां
सर्वात्मना चक्षुर् इव प्रविष्टा ॥स्र्स्_१।७३॥ (र।वम्। ७।१२)

अथ धर्मिकत्वम्-
धर्म-प्रवण-चित्तत्वं धार्मिकत्वम् इतीर्यते ॥स्र्स्_१।७४॥ ६६च्द्

यथा-
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ।
अप्य् अर्थ-कामौ तस्यास्तां धर्म एव मनीषिणः ॥स्र्स्_१।७५॥ (र।वम्। ७।२५)

अथ कुलीनत्वम्-
कुले महति सम्भूतिः कुलीनत्वम् उदाहृतम् ॥स्र्स्_१।७६॥ ६७अब्

यथा-
सूर्याचन्द्रमसौ यस्य मातामह-पितामहौ ।
स्वयं वृतः पतिर् द्वाभ्यां उर्वश्या च भुवा च यः ॥स्र्स्_१।७७॥ (वि।उ। ४।१९)

अथ वाग्मिता-
वाग्मिता तु बुधैर् उक्ता समयोचित-भाषिता ॥स्र्स्_१।७८॥ ६७च्द्

यथा-
ननु वज्रिण एव वीर्यम् एतद्
विजयन्ते द्विषतो यद् अस्य पक्ष्याः ।
वसुधाधर-कन्दराद् विसर्पी
प्रतिशब्दोऽ पि हरेर् भिनत्ति नागान् ॥स्र्स्_१।७९॥ (वि।उ। १।१८)

अथ कृतज्ञत्वम्-
कृतानाम् उपकाराणाम् अभ्ज्ञत्वं कृतज्ञता ॥स्र्स्_१।८०॥ ६८अब्

यथा-
एकस्यैवोपकारस्य प्राणान् दास्यामि ते कपे ।
प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥स्र्स्_१।८१॥ (ह।ना। १३।३५)

अथ नयज्ञत्वम्-
सामाद्य्-उपाय-चातुर्यं नयज्ञत्वम् उदाहृतम् ॥स्र्स्_१।८२॥ ६८च्द्

यथा-
अनारतं तेन पदेषु लम्भिता
विभज्य सम्यग् विनियोग-सत्-क्रियाः ।
फलन्त्य् उपायाः परिबृंहितायतीर्
उपेत्य सङ्घर्षम् इवार्थ-सम्पदः ॥स्र्स्_१।८३॥ (कि।आ। १।१५)

अथ शुचिता-
अन्तः-करण-शुद्धिर् या शुचिता सा प्रकीर्तिता ॥स्र्स्_१।८४॥ ६९अब्

यथा-
का त्वं शुभे कस्य परिग्रहो वा
किं वा मद्-अभ्यागम-कारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां
मनः पर-स्त्री-विमुख-प्रवृत्ति ॥स्र्स्_१।८५॥ (र।वम्। १६।८)

अथ मानिता-
अकार्पण्य-सहिष्णुत्वं कथिता मान-शालिता ॥स्र्स्_१।८६॥ ६९च्द्

यथा-
सन्तुष्टे तिसृणाम् पुराम् अपि रिपौ कण्डूल-दोर्-मण्डली-
क्रीडा-कृत्त-पुनः-प्ररूढ-शिरसो वीरस्य लिप्सोर् वरम् ।
याच्ञा-दैन्य-पराञ्चि यय्स कलहायन्ते मिथ्यस् त्वं वृणु
त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥स्र्स्_१।८७॥
(अ।रा। ३।४१)

अथ तेजस्विता-
तेजस्वित्वम् अवज्ञादेर् असहिष्णुत्वम् उच्यते ॥स्र्स्_१।८८॥ ७०अब्

यथा-
सोऽ यं त्रिः सप्त-वारान् अविकल-विहित-क्षत्र-तन्तु-प्रमारो
वीरः क्रौञ्चस्य भेदी कृत-धरणि-तलापूर्व-हंसावतारः ।
जेता हेरम्ब-भृङ्गि-प्रमुख-गण-चमू-चक्रिणस् तार-कारेस्
त्वां पृच्छन् जामदग्न्यः स्व-गुरु-हर-धनुर् भङ्ग-रोषाद् उपैति ॥स्र्स्_१।८९॥
(म।वी।च। २।१७)

अथ कलावत्त्वम्-
कलावत्त्वं निगदितं सर्व-विद्यासु कौशलम् ॥स्र्स्_१।९०॥ ७०च्द्

यथा-
गोष्ठीषु विद्वज्-जन-सञ्चितस्य
कला-कलापस्य स तारतम्यम् ।
विवेक-सीमा विगतावलेपो
विवेद हेम्नो निकषाश्मनीव ॥स्र्स्_१।९१॥

अथ प्रजा-रञ्जकत्वम्-
रञ्जकत्वं तु सकल-चित्ताह्लादन-कारिता ॥स्र्स्_१।९२॥ ७१अब्

यथा-
अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् ।
उदधेर् इव निम्नगाशतेष्व् अभवन् नास्य विमानना क्वचित् ॥स्र्स्_१।९३॥

उक्तैर् गुणैश् च सकलैर् युक्तः स्याद् उत्तमो नेता । ७१च्द्
मध्यः कतिपय-हीनो बहु-गुण-हीनोऽ धमो नाम ॥स्र्स्_१।९४॥
नेता चतुर्विधोऽ सौ धीरोदात्तश् च धीर-ललितश् च । ७२
धीर-प्रशान्त-नामा ततश् च धीरोद्धतः ख्यातः ॥स्र्स्_१।९५॥

तत्र धीरोदात्तः-
दयावान् अतिगम्भीरो विनीतः सत्त्व-सारवान् । ७३
दृढ-व्रतस् तितिक्षावान् आत्मश्लाघापराङ्मुखः ।
निगूढाहङ्कृतिर् धीरैर् धीरोदात्त उदाहृतः ॥स्र्स्_१।९६॥ ७४

तत्र दयावत्त्वम्-
दयातिशय-शालित्वं दयावत्त्वम् उदाहृतम् ॥स्र्स्_१।९७॥ ७५अब्

यथा-
स-शोणितैस् तेन शिलीमुखाग्रैर्
निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं सम्प्रति राघवेण
न जीवितं वः कृपयेति वर्णाः ॥स्र्स्_१।९८॥ (र।वम्। ७।६५)

अतिगम्भीरता-
गाम्भीर्यम् अविकारः स्यात् सत्य् अपि क्षोभ-कारणे ॥स्र्स्_१।९९॥ ७५च्द्

यथा-
दधतो मङ्गल-क्षौमे वसानस्य च बल्कले ।
ददृशुर् विस्मितास् तस्य मुख-रागं समं जनाः ॥स्र्स्_१।१००॥ [रघु। १२।८]

विनीतत्वम्-
अवलोक एव नृपतेः स्म दूरतो
रभसाद् रथाद् अवतरीतुम् इच्छतः ।
अवतीर्णवान् प्रथमम् आत्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः ॥स्र्स्_१।१०१॥ (माघ। १३।७)

सत्त्व-सारत्वम्, यथा-
उत्स्मायित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दश-योजनम् ॥स्र्स्_१।१०२॥ (रामा। १।१।६५)

दृढ-व्रतत्वम्, यथा-
तम् अशक्यम् अपाक्रष्टुं निदेशात् स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते ॥स्र्स्_१।१०३॥ (र।वम्। १२।१७)

तितिक्षावत्त्वम्, यथा-
प्रतिवाचम् अदत्त केशवः
शपमानाय न चेदि-भूभुजे ।
अनुहुङ्कुरुते घन-ध्वनिं
न हि गोमायु-रुतानि केसरी ॥स्र्स्_१।१०४॥ (माघ। १६।२५)

आत्म-श्लाथापराङ्मुखत्वम्, यथा-
तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥स्र्स्_१।१०५॥ (र।वम्। १५।२७)

निगूढाहङ्कारत्वम्, यथा-
भूमात्रं कियद् एतद् अर्णव्मितं तत् साधितं हार्यते
यद् वीरेण भवादृशेन वदता त्रिः सप्त-कृत्वो जयम् ।
डिम्भोऽ हं नव-बाहुर् ईदृ;चम् इदं घोरं च वीर-व्रतं
तत् क्रोधाद् विरम प्रसीद भगवन् जात्यैव पूज्योऽ सि नः ॥स्र्स्_१।१०६॥
(अनर्घ। ४।३५)

अथ धीर-ललितः-
निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः ॥स्र्स्_१।१०७॥ ७६अब्

यथा-
सोऽ धिकारम् अभिकः कुलोचितं
काश्चन स्वयम् अवर्तयत् समाः ।
सन्निवेश्य सचिवेष्व् अतःपरं
स्त्री-विधेय-नव-यौवनोऽ भवत् ॥स्र्स्_१।१०८॥ (र।वम्। १९।४)

अथ धीर-शान्तः -
शम-प्रकृतिकः क्लेश-सहिष्णुश् च विवेचकः । ७६च्द्
ललितादि-गुणोपेतो विप्रो वा सचिवो वणिक् ।
धीर-शान्तश् चारुदत्त-माधवादिर् उदाहृतः ॥स्र्स्_१।१०९॥ ७७

यथा-
कुवलय-दल-श्यामोऽ प्य् अङ्गं दधत् परिधूसरं
ललित-विकट-न्यासः श्रीमान् मृगाङ्क-निभाननः ।
हरति विनयं वामो यस्य प्रकाशित-साहसः
प्रविगलद्-असृक्-पङ्कः पाणिर् ललन् नर-जाङ्गलः ॥स्र्स्_१।११०॥ (मालतीमाधवम् ५।५)
अथ धीरोद्धतः-
मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनो भार्गवादिर् धीरोद्धत उदाहृतः ॥स्र्स्_१।१११॥ ७८

यथा-
न त्रस्तं यदि नाम भूत-करुणा-सन्तान-शान्तात्मनस्
तेन व्यारुजता धनुर् भगवतो देवाद् भवानी-पतेः । तत्-पुत्रस् तु मदान्ध-तारक-वधाद् विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियोऽ हम् अथवा शिष्यः कथं विस्मृतः ॥स्र्स्_१।११२॥
(महावीर २।२८)

एते च नायकाः सर्व-रस-साधारणाः स्मृताः ।
शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥स्र्स्_१।११३॥ ७९
पतिश् चोपपतिश् चैव वैशिकश् चेति भेदतः ।
पतिस् तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥स्र्स्_१।११४॥ ८०

यथा-
स मानसीं मेरु-सखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनाम् अपि माननीयाम्
आत्मानुरूपां विधिनोपयेमे ॥स्र्स्_१।११५॥ (कु।सम्। १।१८)

चतुर्धा सोऽ पि कथितो वृत्त्या काव्य-विचक्षणैः ।
अनुकूलः शठो धृष्टो दक्षिणश् चेति भेदतः ॥स्र्स्_१।११६॥ ८१

तत्र-
अनुकूलस् त्व् एक-जानिः ॥स्र्स्_१।११७॥ ८२अ

तत्र धीरोदात्तानुकूलो, यथा-
सीतां हित्वा दशमुख-रिपुर् नोपयेमे यद् अन्यां
तस्या एव प्रतिकृति-सखो यत् क्रतूनाजहार ।
वृत्तान्तेन श्रवण-विषय-प्रापिणा तेन भर्तुः
सा दुर्वारं कथम् अपि परित्याग-दुःखं विषेहे ॥स्र्स्_१।११८॥ (र।वम्। १४।८७)

धीर-ललितानुकूलो, यथा-
स कदाचिद् अवेक्षित-प्रजः
सह देव्या विजहार सुप्रजाः ।
नगरोपवने शची-सखो
मरुतां पालयितेव नन्दने ॥स्र्स्_१।११९॥ (र।वम्। ८।३२)

धीरशान्तानुकूलो, यथा-
प्रिय-माधवे किम् असि मय्य् अवत्सला
ननु सोऽ हम् एव यम् अनन्दयत् पुरा ।
स्वयम् आगृहीत-कमनीय-कङ्कणस्
तव मूर्तिमान् इव महोत्सवः करः ॥स्र्स्_१।१२०॥ (मालती-माधवे ९।९)

धीरोद्धतानुकूलो, यथा-
किं कण्ठे शिथिलीकृतो भुज-लता-पाशः प्रमादान् मया
निद्राच्छेद-विवर्तनेष्व् अभिमुखं नाद्यासि सम्भाविता ।
अन्य-स्त्री-जन-सङ्कथा-लघुर् अहं स्वप्नेऽ पि नालक्षितो
दोषं पश्यसि कं प्रिये परिजनोपालम्भ-योग्ये मयि ॥स्र्स्_१।१२१॥ (वेणी २।९)

अथ शठः-
शठो गूढापराध-कृत् ॥स्र्स्_१।१२२॥ ८२ब्

यथा-
स्वप्न-कीर्तित-विपक्षम् अङ्गनाः
प्रत्यभैत्सुर् अवदन्त्य् एव तम् ।
प्रच्छदान्त-गलिताश्रु-बिन्दुभिः
क्रोध-भिन्न-वलयिर् विवर्तनैः ॥स्र्स्_१।१२३॥ (र।वम्। १९।२२)

अथ धृष्टः-
धृष्टो व्यक्तान्य-युवती-भोग-लक्ष्मापि निर्भयः ॥स्र्स्_१।१२४॥ ८२च्द्

यथा ममैव-
को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया ॥स्र्स्_१।१२५॥

अथ दक्षिणः-
नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते ॥स्र्स्_१।१२६॥ ८३अब्

यथा-
स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽ ङ्ग-राज-स्वसुर्
द्यूते रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च ।
इत्य् अन्तः-पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः ॥स्र्स्_१।१२७॥

अथ उपपतिः-
लङ्घिताचारया यस् तु विनापि विधिना स्त्रिया । ८३च्द्
सङ्केतं नीयते प्रोक्तो बुधैर् उपपतिस् तु सः ॥स्र्स्_१।१२८॥ ८४अब्

यथा-
भर्ता निःश्वसितेऽ प्य् असूयति मनो-जिघ्रः सपत्नी-जनः
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ऊहालिहो यातरः ।
तद् दूराद् अयम् अञ्जलिः किम् अमुना दृघङ्गि-पातेन ते
वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽ यम् अत्र श्रमः ॥स्र्स्_१।१२९॥

दाक्षिण्यम् आनुकूल्यं च धार्ष्ट्यं चानियतत्वतः । ८४च्द्
नोचितान्यस्य शाठ्यं स्याद् अन्य-चित्तत्व-सम्भवात् ॥स्र्स्_१।१३०॥ ८५अब्

शठोपपतिर्, यथा-

मज्झण्णे जण-सुण्णे करिणीए भक्खिदेसु कमलेसु ।
अविसेसण्ण कहं बिअ गदो सि सण-बाड्डिअं दट्ठुं ॥स्र्स्_१।१३१॥

[मध्याह्ने जन-शून्ये करिण्या भक्षितेषु कमलेषु ।
अविशेषज्ञ कथम् इव गतोऽ सि शण-वाटिकां द्रष्टुम् ॥]

अत्र कयाचित् स्वैरिण्यां मयि सङ्केतं गतायां त्वं तु शाण-वाटिकायां कथापि रन्तुं गतोऽ सीति व्यङ्ग्यार्थेनान्यासङ्ग-सूचनाद् अयं शठोपपतिः ।

अथ वैशिकः-
रूपवान् शील-सम्पन्नः शास्त्रज्ञः प्रिय-दर्शनः । ८५च्द्
कुलीनो मतिमान् शूरो रम्य-वेष-युतो युवा ॥स्र्स्_१।१३२॥
अदीनः सुरभिस् त्यागी सहनः प्रिय-भाषणः । ८६
शङ्क-विहीनो मानी च देश-काल-विभाग-वित् ॥स्र्स्_१।१३३॥
दाक्ष्य-चातुर्य-माधुर्य-सौभाग्यादिभिर् अन्वितः । ८७
वेश्योपभोग-रसिको यो भवेत् स तु वैशिकः ॥स्र्स्_१।१३४॥
कलकण्ठादिको लक्ष्यो भाणादाव् एव वैशिकः । ८८
स त्रिधा कथ्यते ज्येष्ठ-मध्य-नीच-विभेदतः ॥स्र्स्_१।१३५॥ ८९अब्

तेषां लक्षणानि भाव-प्रकाशिकायाम् उक्तानि । यथा-

असङ्गोऽ पि स्वभावेन सक्तवच् चेष्टते मुहुः ।
त्यागी स्वभाव-मधुरः सम-दुःख-सुखः शुचिः ॥स्र्स्_१।१३६॥
काम-तन्त्रेषु निपुणः क्रुद्धानुनय-कोविदः ।
स्फुरिते चाधरे किञ्चिद् दयिताया विरज्यति ॥स्र्स्_१।१३७॥
उपचार-परो ह्य् एष उत्तमः कथ्यते बुधैः ।
व्यलीक-मात्रे दृष्टेऽ स्या न कुप्यति न रज्यति ॥स्र्स्_१।१३८॥
ददाति काले काले च भावं गृह्णाति भावतः ।
सर्वार्थैर् अपि मध्य-स्थस् ताम् एवोपचरेत् पुनः ॥स्र्स्_१।१३९॥
दृष्टे दोषे विरज्येत स भवेन् मध्यमः पुमान् ।
काम-तन्त्रेषु निर्लज्जः कर्कशो रति-केलिषु ॥स्र्स्_१।१४०॥
अविज्ञात-भयामर्षः कृत्याकृत्य-विमूढ-धीः ।
मूर्खः प्रसक्त-भावश् च विरक्तायाम् अपि स्त्रियाम् ॥स्र्स्_१।१४१॥
मित्रैर् निवार्यमाणोऽ पि पारुष्यं प्रापितोऽ पि च ।
अन्य-स्नेह-परावृत्तां सङ्क्रान्त-रमणाम् अपि ।
स्त्रियं कामयते यस् तु सोऽ धमः परिकीर्तितः ॥स्र्स्_१।१४२॥ [भा।प्र। ५।३७-४४] इति ।

अथ शृङ्गार-नेतॄणां साहाय्य-करणोचिताः । ८९च्द्
निरूप्यन्ते पीठमर्द-विट-चेट-विदूषकाः ॥स्र्स्_१।१४३॥

तथ पीठमर्दः-
नायकानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः । ९०
पीठमर्द इति ख्यातः कुपित-स्त्री-प्रसादकः ॥स्र्स्_१।१४४॥
काम-तन्त्र-कला-वेदी विट इत्य् अभिधीयते । ९१
सन्धान-कुशलश् चेटः कलहंसादिको मतः ।
विकृताङ्ग-वचो-वेषैर् हास्य-कारी विदूषकः ॥स्र्स्_१।१४५॥ ९२

अथ सहाय-गुणाः-
देश-कालज्ञता भाषा-माधुर्यं च विदग्धता ।
प्रोत्साहने कुशलता यथोक्त-कथनं तथा । ९३
निगूढ-मन्त्रतेत्य् आद्याः सहायानां गुणा मताः ॥स्र्स्_१।१४६॥

इति नायक-प्रकरणम्

अथ नायिका निरूप्यन्ते-

नेतृ-साधारण-गुणैर् उपेता नायिका मता । ९४
स्वकीया परकीया च सामान्या चेति सा त्रिधा ॥स्र्स्_१।१४७॥

तत्र स्वकीया-
सम्पत्-काले विपत्-काले या न मुञ्चति वल्लभम् । ९५
शीलार्जव-गुणोपेता सा स्वकीया कथिता बुधैः ॥स्र्स्_१।१४८॥

यथा-
किं तादेण णरिन्द-सेहर-सिहालीढग्गपादेण मे
किं वा मे ससुरेण वासव-महा-सिंहासणद्धासिणा ।
ते देसा गिरिणो अ दे वणमही सच्चेअ मे वल्लहा
कोसल्लातणअस्स जत्थ चलणे वन्दामि णन्दामि अ ॥स्र्स्_१।१४९॥
(बाल-रामायण ६।७९)

[किं तातेन नरेन्द्र-शेखर-शिखालीढाग्र-पादेन मे
किं वा मे श्वशुरेण वासव-महा-सिंहासनाध्यासिना ।
ते देशा गिरयश् च ते वन-मही सा चैव मे वल्लभाः
कौसल्या-तनयस्य यत्र चरणौ वन्दे च नन्दामि च ॥]

सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥स्र्स्_१।१५०॥ ९६

तत्र मुग्धा-
मुग्धा नव-वयः-कामा रतौ वामा मृदुः क्रुधि ।
यतते रत-चेष्टायां गूढं लज्जा-मनोहरम् ॥स्र्स्_१।१५१॥ ९७
कृतापराधे दयिते वीक्षते रुदती सती ।
अप्रियं वा प्रियं वापि न किञ्चिद् अपि भाषते ॥स्र्स्_१।१५२॥ ९८

वयसा मुग्धा, यथा ममैव-
उल्लोलितं हिमकरे निविडान्धकारम्
उत्तेजितं विषम-साधक-बाण-युग्मम् ।
उन्मज्जितं कनक-कोरक-युग्मम्
अस्याम् उल्लासिता च गगने तनु-वीचि-रेखा ॥स्र्स्_१।१५३॥

नव-कामा, यथा ममैव-
बाला प्रसाधन-विधौ निदधाति चित्तं
दत्तादरा परिणये मणि-पुत्रिकाणाम् ।
आलज्जते निज-सखी-जन-मन्द-हासैर्
आलक्ष्यते तद् इह भाव-नवावतारः ॥स्र्स्_१।१५४॥

रतौ वामत्वम्, यथा ममैव-
आलोक्य हार-मणि-बिम्बितम् आत्म-कान्तम्
आलिङ्गतीति सहसा परिवर्तमाना ।
आलम्बिता करतले परिवेपमाना
सा सम्भ्रमात् सहचरीम् अवलम्बते स्म ॥स्र्स्_१।१५५॥

मृदु-कोपत्वम्, यथा ममैव-
व्यावृत्ति-क्रमणोद्यमेऽ पि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽ पि तद् ईक्षण-व्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्ध-रसना रुक्षाक्ष्रेऽ प्य् उद्यता
सख्यः किं करवाणि मान-समये सङ्घात-भेदो मम ॥स्र्स्_१।१५६॥

स-व्रीड-सुरत-प्रयतनम्, यथा-
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस् तैर् बन्धु-वधू-जनस्य वचनैर् नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवे सङ्गमे
संरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥स्र्स्_१।१५७॥ (रत्नावली १।२)

क्रोधाद् अभाषणा रुदती, यथा ममैव-
कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोज-शशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुम् अपारयन्त्याम्
इन्दीवर-द्वयम् अवाप तुषार-धाराम् ॥स्र्स्_१।१५८॥

अथ मध्या-
समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी ।
मध्या कामयते कान्तं मोहान्त-सुरत-क्षमा ॥स्र्स्_१।१५९॥ ९९

अथ तुल्य-लज्जा-स्मरत्वम्, यथा ममैव-
कान्ते पश्यति सानुरागम् अबला साचीकरोत्य् आननं
तस्मिन् काम-कलाप-कुशले व्यावृत्त-वक्त्रे किल ।
पश्यन्ती मुहुर् अन्तरङ्ग-मदनं दोलायमानेक्षणा
लज्जा-मन्मथ-मध्यगापि नितरां तस्याभवत् प्रीतये ॥स्र्स्_१।१६०॥

प्रोद्यत्-तारुण्य-शालित्वम्, यथा ममैव-
नेत्राञ्चलेन ललिता वलिता च दृष्टिः
सख्यं करोति जघनं पुलिनेन साकम् ।
चक्र-द्वयेन सदृशी कुच-कुड्मलौ च नित्या
विभाति नितरां मदनस्य लक्ष्मीः ॥स्र्स्_१।१६१॥

मोहान्त-सुरत-क्षमत्वम्, यथा ममैव-
आकीर्ण-घर्म-जलम् आकुल-केश-पाशम्
आमीलिताक्षि-युगम् आदृत-पारवश्यम् ।
आनन्द-कन्दलितम् अस्तमितान्य-भावम्
आशास्महे किम् अपि चेष्टितम् आयताक्ष्याः ॥स्र्स्_१।१६२॥

मध्या त्रिधा मान-वृत्तेर् धीराधीरोभयात्मिका ॥स्र्स्_१।१६३॥

तत्र धीरा-
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥स्र्स्_१।१६४॥ १००

यथा ममैव-
को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया ॥स्र्स्_१।१६५॥ [*२]
[*२] अल्सो अप्पेअर्स् अस् १।१२५।

अथ अधीरा-
अधीरा परुषैर् वाक्यैः खेदयेद् वल्लभं रुषा ॥स्र्स्_१।१६६॥ १०१अब्

यथा ममैव-
निःशङ्कम् आगतम् अवेक्ष्य कृतापराधं
काचिन् नितान्त-परुषं विनिवृत्त-वक्त्रा ।
किं प्रार्थनाभिर् अधिकं सुखम् एधि याहि
याहीति खिन्नम् अकरोद् असकृद् ब्रुवाणा ॥स्र्स्_१।१६७॥

अथ धीराधीरा-
धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियम् ॥स्र्स्_१।१६८॥ १०१च्द्

यथा ममैव-
आश्लेषोल्लसिताशयेन दयिताप्य् आर्द्रा त्वया चुम्बिता
चित्रोक्ति-श्रवणोत्सुकेन कलिता तस्यां निशानाथता ।
तद् युक्तं दिवसागमेऽ त्र जडता कार्श्यं कला-हीनता
राजन्न् इत्य् उदिताश्रु-गद्गद-पदं काचिद् ब्रवीति प्रियम् ॥स्र्स्_१।१६९॥

अथ प्रगल्भा-
सम्पूर्ण-यौवनोन्मत्ता प्रगल्भा रूढ-मन्मथा ।
दयिताङ्गे विलीनेव यतते रति-केलिषु । १०२
रत-प्रारम्भ-मात्रेऽ पि गच्छत्य् आनन्द-मूर्च्छताम् ॥स्र्स्_१।१७०॥ १०३अब्

सम्पूर्ण-यौवनत्वम्, याथा-
उत्तुङ्गौ कुच-कुम्भौ रम्भा-स्तम्भोपमानम् ऊरु-युगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किम् आहितं सुकृतम् ॥स्र्स्_१।१७१॥

रूढ-मन्मथा, याथा ममैव-

निःश्वासोल्लसद्-उन्नत-स्तन-तटं निर्दष्ट-बिम्बाधरं
निर्मृष्टाङ्ग-विलेपनैश् च करणैश् चित्रे प्रवृत्ते रते । काञ्ची-दाम विभिन्नम् अङ्गद-युगं भग्नं तथापि प्रियं
सम्प्रोत्साहयति स्म सा विदधती हस्तं क्वणत्-कङ्कणम् ॥स्र्स्_१।१७२॥

मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः ॥स्र्स्_१।१७३॥ १०३च्द्

तत्र धीर-प्रगल्भा-
उदास्ते सुरते धीरा सावहित्था च सादरा ॥स्र्स्_१।१७४॥ १०४अब्

यथा-
न प्रत्युद्गमनं करोति रशना-व्यासञ्जनादि-च्छलान्
नादत्ते नव-मञ्जरीम् अलि-भय-व्याजेन दत्ताम् अपि ।
दत्ते दर्पणम् आदरेण न गिरं रूक्षाक्षरं मानिनी
चातुर्याद् विदधाति मानम् अथवा व्यक्तीकरोति प्रिया ॥स्र्स्_१।१७५॥

अथ अधीर-प्रगल्भा-
सन्तर्ज्य निष्ठुरं रोषाद् अधीरा ताडयेत् प्रियम् ॥स्र्स्_१।१७६॥ १०४च्द्

यथा ममैव-
कान्ते सागसि काचिद् अन्तिक-गते निर्भर्त्स्य रोषारुणैर्
भ्रूभङ्गी-कुटिलैर् अपाङ्ग-वलनैर् आलोकमाना मुहुः ।
वध्वा मेखलया सपत्न-रमणी-पादाब्ज-लाक्षाङ्कितं
लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला ॥स्र्स्_१।१७७॥

अथ धीराधीर-प्रगल्भा-
धीराधीर-गुणोपेता धीराधीरेति कथ्यते ॥स्र्स्_१।१७८॥ १०५अब्

यथा, ममैव-
प्रत्यासीदति सागसि प्रियतमे सा सम्भ्रमाद् उत्थिता
वैयात्यात् पुरतः स्थिते सति पुनर् मानावधूताशया ।
रात्रौ क्वासि न चेत् क्वचिन् माणिमयी माला कुतस् ते वदेत्य्
उक्त्वा मेखलया हतेन सहसाश्लिष्टा स-बाष्पं स्थिता ॥स्र्स्_१।१७९॥

द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥स्र्स्_१।१८०॥ १०५च्द्

उभे अपि, यथा-
एकत्रासन-सङ्गते प्रियतमे पश्चाद् उपेत्यादराद्
एकस्या नयने निमील्य विहित-क्रीडानुबन्ध-च्छलः ।
ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम्
अन्तर्-हास-लसत्-कपोल-फलकां धूर्तोऽ परां चुम्बति ॥स्र्स्_१।१८१॥ [अमरु १९]

अत्रेतरस्यां पश्यन्त्याम् अपि सम्भावनार्हतया पिहित-लोचनाया ज्येष्ठत्वम् । तत्र समक्षं सम्भावनानर्हत्वात् चुम्बितायाः कनीयस्त्वम् । एवम् इतरद्-उदाहार्यम् ।

धीराधीरादि-भेदेन मध्या-प्रौढे त्रिधा त्रिधा ।
ज्येष्ठा-कनिष्ट्ःआ-भेदेन ताः प्रत्येकं द्विधा द्विधा । १०६
मुग्धा त्व् एक-विधा चैवं सा त्रयोदशधोदिता ॥स्र्स्_१।१८२॥ १०७अब्

अथ परकीया-
अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥स्र्स्_१।१८३॥ १०७च्द्
तत्र कन्या त्व् अनूढा स्यात् स-लज्जा पितृ-पालिता ।
सखी-केलिषु विस्रब्धा प्रायो मुग्धा-गुणान्विता ॥स्र्स्_१।१८४॥ १०८

यथा-
तां नारदः काम-चरः कदाचित्
कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैक-वधूं भवित्रीं
प्रेम्णा शरीरार्ध-हरां हरस्य ॥स्र्स्_१।१८५॥ [कु।सम्। १।५०]

प्रधानम् अप्रधानं वा नाटकादाव् इयं भवेत् ।
मालती-माधवे लक्ष्ये मालती-मदयन्तिके ॥स्र्स्_१।१८६॥ १०९
अथ परोढा-
परोढा तु परेणोढाप्य् अन्य-सम्भोग-लालसा ।
लक्ष्या क्षुद्र-प्रबन्धे सा सप्त-शत्यादिके बुधैः ॥स्र्स्_१।१८७॥ ११०

यथा वा-
भर्ता निश्वसितेऽ प्य् असूयति मनो-जिघ्रः सपत्नी-जनः
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः ।
तद् दूराद् अयम् अङ्जलिः किम् अमुना दृभङ्ग-पातेन ते
वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽ यम् अत्र श्रमः ॥स्र्स्_१।१८८॥ [*३]
[*३] थिस् वेर्से इस् नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स्। वेन्कतछरि हस् नोत् इन्च्लुदेद् इत् इन् हिस् एदितिओन्।

अथ सामान्या-
साधारण-स्त्री गणिका कला-प्रागल्भ्य-धार्ष्ट्य-युक् ॥स्र्स्_१।१८९॥ १११अब्

यथा-
गाढालिङ्गन-पीडित-स्तन-तटं स्विद्यत्-कपोल-स्थलं
सन्दष्टाधर-मुक्त-सीत्कृतम् अतिभ्राम्यद्-भ्रु-नृत्यत्-करम् ।
चाटु-प्राय-वचो-विचित्र-भणितैर् यातै रुतैश् चाङ्कितं
वेश्यानां धृति-धाम पुष्प-धनुषः प्राप्नोति धन्यो रतम् ॥स्र्स्_१।१९०॥
(शृङ्गार-तिलके १।१२७)

एषा स्याद् द्विविधा रक्ता विरक्ता चेति भेदतः ॥स्र्स्_१।१९१॥ १११च्द्
तत्र रक्ता तु वर्ण्या स्याद् अप्राधान्येन नाटके ।
अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥स्र्स्_१।१९२॥ ११२
प्रधानम् अप्रधानं वा नाटकेतर-रूपके ।
सा चेद् दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥स्र्स्_१।१९३॥ ११३

यथा-
आ दर्शनात् प्रविष्टा सा मे सुर-लोक-सुन्दरी हृदयम् ।
बाणेन मकर-केतोः कृत-मार्गम् अबन्ध्य-पातेन ॥स्र्स्_१।१९४॥ (विक्रमो। २।२)

विरक्ता तु प्रहसन-प्रभृतिष्व् एव वर्ण्यते ।
तस्या धौर्य-प्रभृतयो गुआष् तद्-उपयोगिनः ॥स्र्स्_१।१९५॥ ११४
छन्न-कामान् रतार्थाज्ञान् बाल-पाषण्ड-षण्डकान् ।
रक्तेव रञ्जयेद् इभ्यान् निःस्वान् मात्रा विवासयेत् ॥स्र्स्_१।१९६॥ ११५

छन्न-कामाः श्रोत्रियादयः । रतार्था रति-सुख-प्रयोजनाः । अज्ञा मूढाः । शेषाः प्रसिद्धाः ।

अत्र केचिद् आहुः-
गणिकाया नानुरागो गुणवत्य् अपि नायके ।
रसाभास-प्रसङ्गः स्याद् अरक्तायाश् च वर्णने ॥स्र्स्_१।१९७॥

अतश् च नाटकादौ तु वर्ण्या सा न भवेद् इति ॥स्र्स्_१।१९८॥ ११६अब्

तथा चाहुः [शृ।ति। १।६२,६४}-
सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता ॥स्र्स्_१।१९९॥
गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥स्र्स्_१।२००॥ इति ।

तन्-मतं नानुमनुते धीमान् श्री-सिंह-भूपतिः । ११६
भावानुबन्धाभावे च नायिकात्व-पराहतेः ॥स्र्स्_१।२०१॥
तस्याः प्रकरणादौ च नायिकात्व-विधानतः ।११७
अनायिका-वर्णने तु रसाभास-प्रसङ्गतः ॥स्र्स्_१।२०२॥
तथा प्रकरणादीनाम् अरसाश्रयतागतेः ।११८
रसाश्रयं तु दशधेत्य् आदि-शास्त्र-विरोधतः ॥स्र्स्_१।२०३॥
तस्मात् साधारण-स्त्रीणां गुण-शालिनि नायके । ११९
भावानुबन्धः स्याद् एव रुद्रटस्यापि भाषणात् ॥स्र्स्_१।२०४॥ १२०अब्

तत्राह रुद्रटः-(शृ।ति। १।६९)
ईर्ष्या कुल-स्त्रीषु न नायकस्य
निःशङ्क-केलिर् न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं
सर्वस्वम् एतास् तद् अहो स्मरस्य ॥स्र्स्_१।२०५॥ इति ।

उदात्तादि-भिदां केचित् सर्वासाम् अपि मन्वते । १२०च्द्
तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥स्र्स्_१।२०६॥
प्रथमं प्रोषित-पतिका वास्क-सज्जा ततश् च विरहोत्का । १२१
अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव ॥स्र्स्_१।२०७॥
कथिता च विप्रलब्धा स्वाधीन-पतिस् तथा चान्या । १२२
शृङ्गार-कृतावस्थाभेदात् ताश् चाष्टधा भिन्नाः ॥स्र्स्_१।२०८॥

तत्र प्रोषित-पतिका-
दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका । १२३
अस्यास् तु जागरः कार्श्यं निमित्तादि-विलोकनम् ॥स्र्स्_१।२०९॥
मालिन्यम् अनवस्थानं प्रायः शय्या-निवेषणम् । १२४
जाड्य-चिन्ता-प्रभृतयो विक्रियाः कथिता बुधैः ॥स्र्स्_१।२१०॥ १२५अब्

यथा मम-
दूरे तिष्ठति सोऽ धुना प्रियतमः प्राप्तो वसन्तोदयः
कष्टं कोकिल-कूजितानि सहसा जातानि दम्भोलयः ।
अङ्गान्य् अप्य् अवशानि यान्ति तनुतां यातीव मे चेतना
हा कष्टं मम दुष्कृतस्य महिमा चन्द्रोऽ पि चण्डायते ॥स्र्स्_१।२११॥

अथ वासक-सज्जिका-
भरतादयैर् अभिदधे स्त्रीणाम् वारस् तु वासकः । १२५च्द्
स्ववासक-वशात् कान्ते समेष्यति गृहान्तरम् ॥स्र्स्_१।२१२॥
सज्जी-करोति चात्मानं या सा वासक-सज्जिका । १२६
अस्यास् तु चेष्टाः सम्पर्क-मनोरथ-विचिन्तनम् ॥स्र्स्_१।२१३॥
सखी-विनोदो हृल्-लेखो मुहुर् दूति-निरीक्षणम् । १२७
प्रियाभिगमन-मार्गाभिवीक्षण-प्रमुखा मताः ॥स्र्स्_१।२१४॥ १२८अब्

यथ ममैव-
केली-गृहं गमित-शयनं भूषितं चात्म-देहं
दर्शं दर्शं दयित-पदवीं सादरं वीक्षमाणा ।
काम-क्रीडां मनसि विविधां भाविनी कल्पयन्ती
सारङ्गाक्षी रण-रणिकया निःश्वसन्ती समास्ते ॥स्र्स्_१।२१५॥

अथ विरहोत्कण्ठिता-
अनागसि प्रियतमे चिरयत्य् उत्सुका तु या । १२८
विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥स्र्स्_१।२१६॥
अस्यास् तु चेष्टा हृत्-तापो वेपथुश् चाङ्ग-सादनम् । १२९
अरतिर् बाष्प-मोक्षश् च स्वावस्था-कथनादयः ॥स्र्स्_१।२१७॥ १३०अब्

यथा ममैव-
चिरयति मनः-कान्ते कान्ता निरागसि सोत्सुका
मधु मलयजं माकन्दं वा निरीक्षितुम् अक्षमा ।
गलित-पलितं नो जानीते कराद् अपि कङ्कणं
परभृत-रुतं श्रुत्वा बाष्पं विमुञ्चति वेपते ॥स्र्स्_१।२१८॥

अथ खण्डिता-
उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् । १३०च्द्
भोग-लक्ष्माञ्चितः प्रातर् आगच्छेत् सा हि खण्डिता ॥स्र्स्_१।२१९॥
अस्यास् तु चिन्ता निःश्वासस् तूष्णीं-भावोऽ श्रु-मोचनम् । १३१
खेद-भ्रान्त्य्-अस्फुटालापा इत्य् आद्या विक्रिया मताः ॥स्र्स्_१।२२०॥

यथा ममैव-
प्रभाते प्राणेशं नव-मदन-मुद्राङ्कित-तनुं
वधूर् दृष्ट्वा रोषात् किम् अपि कुटिलं जल्पति मुहुः ।
मुहुर् धत्ते चिन्तां मुहुर् अपि परिभ्राम्यति मुहुर्
विधत्ते निःश्वासं मुहुर् अपि च बाष्पं विसृजति ॥स्र्स्_१।२२१॥

अथ कलहान्तरिता-
या सखीनां पुरः पाद-पतितं वल्लभं रुषा । १३२
निरस्य पश्चात् तपति कलहान्तरिता हि सा ॥स्र्स्_१।२२२॥
अस्यास् तु भ्रान्ति-संलापौ मोहो निःश्वसितं ज्वरः । १३३
मुहुः प्रलाप इत्य् आद्या इष्टाश् चेष्टा मनीषिभिः ॥स्र्स्_१।२२३॥

यथा ममैव-
निःशङ्का नितरां निरस्य दयितं पादानतं प्रेयसी
कोपेनाद्य कृतं मया किम् इदम् इत्य् आर्ता सखीं जल्पति ।
सोद्वेगं भ्रमति क्षिपत्य् अनुदिशं दृष्टिं विलोलाकुलां
रम्यं द्वेष्टि मुहुर् मुहुः प्रलपति श्वासाधिकं मूर्च्छति ॥स्र्स्_१।२२४॥

अथ अभिसारिका (स्वीया)-
मदनानल-सन्तप्ता याभिसारयति प्रियम् । १३४
ज्योत्स्ना-तामस्विनी यान-योग्याम्बर-विभूषणा ॥स्र्स्_१।२२५॥
स्वयं वाभिसरेद् या तु सा भवेद् अभिसारिका । १३५
अस्याः सन्ताप-चिन्ताद्या विक्रियास् तु यथोचितम् ॥स्र्स्_१।२२६॥
कान्ताभिसरणए स्वीया लज्जानाशादि-शङ्कया । १३६
व्याघ्र-हुङ्कार-सन्त्रस्त-मृग-शाव-विलोचना ॥स्र्स्_१।२२७॥
नील्यादि-रक्त-वसन-रचिताङ्गावगुण्ठना । १३७
स्वाङ्गे विलीनावयवा निःशब्दं पाद-चारिणी ॥स्र्स्_१।२२८॥
सुस्निग्धैक-सखी-मात्र-युक्ता याति समुत्सुका । १३८
मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला ॥स्र्स्_१।२२९॥
गर्वातिरेक-निभृता शीतैः स्रग्-दाम-चन्दनैः । १३९
भावज्ञा बोधयत्य् एनं तद्-भावावेक्षणोत्सुका ॥स्र्स्_१।२३०॥

यथा-
तमः-सवर्णं विदधे विभूषणं
निनाद-दोषेण नुनोद नूपुरम् ।
प्रतीक्षितुं न स्फुट-चन्द्रिका-भयाद्
इयेष दूतीम् अभिसारिका-जनः ॥स्र्स्_१।२३१॥

यथा वा-
मल्लिका-माल-भारिण्यः
सर्वाङ्गीणार्द्र-चन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते
ज्योत्स्नायाम् अभिसारिका ॥स्र्स्_१।२३२॥ (काव्यादर्श २।२१३)

(अन्याङ्गनाभिसारिका-कन्यका)
स्वीयावत् कन्यका ज्ञेया कान्ताभिसरण-क्रमे ॥स्र्स्_१।२३३॥ १४०

(वेश्याभिसारिका)
वेश्याभिसारिका त्व् एति हृष्टा वैशिक-नायकम् ।
आविर्भूत-स्मित-मुखी मद-घूर्णित-लोचना ॥स्र्स्_१।२३४॥ १४१
अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता ।
स्नेहाङ्कुरित-रोमाञ्च-स्फुटीभूत-मनोभवा ॥स्र्स्_१।२३५॥ १४२
संवेष्टिता परिजनैर् भोगोपकरणान्वितैः ।
रशनाराव-माधुर्य-दीपितानङ्ग-वैभवा ॥स्र्स्_१।२३६॥ १४३
चरणाम्बुज-संलग्न-मणि-मञ्जीर-मञ्जुला ।
एषा च मृदु-संस्पर्शैः केश-कण्डूयनादिभिः । १४४
प्रबोधयति तद्-बोधे प्रणयात् कुपितेक्षणा ॥स्र्स्_१।२३७॥

यथा मम-
मासि मधौ चन्द्रातप-धवलायां निशि सखी-जनालापैः ।
मदनातुराभिसरति प्रणयवती यं स एव खलु धन्यः ॥स्र्स्_१।२३८॥

अथ प्रेष्याभिसारिका-
बाहु-विक्षेप-लुलित-स्रस्त-धम्मिल्ल-मल्लिका । १४५
चलित-भ्रू-विकारादि-विलास-ललितेक्षणा ॥स्र्स्_१।२३९॥
मैरेयाविरतास्वाद-मद-स्खलित-जल्पिता । १४६
प्रेष्याभियाति दयितं चेटीभिः सह गर्विता ॥स्र्स्_१।२४०॥
प्रियं कङ्कण-निक्वाण-मञ्जु-व्यजन-वीजनैः । १४७
विबोध्य निर्भर्त्सयति नासाभङ्ग-पुरःसरम् ॥स्र्स्_१।२४१॥

यथा-
स्रस्त-स्रक्-कबरी-भरं सललित-भ्रूवल्-लिहालामदा-
व्यक्तालापम् इतस् ततः प्रतिपदं विक्षिप्त-बाहालता ।
सोत्कण्ठं दयिताभिसृत्य शयितं कान्तं क्वणत्-कङ्कण-
क्वाणेन प्रतिबोध्य भर्त्सयति यं धन्यः स एकः पुमान् ॥स्र्स्_१।२४२॥

अथ विप्रलब्धा-
कृत्वा सङ्केतम् अप्राप्ते दैवाद् व्यथिता तु या । १४८
विप्रलब्धेति सा प्रोक्ता बुधैर् अस्यास् तु विक्रिया ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसनादयः ॥स्र्स्_१।२४३॥ १४९

यथा ममैव-
चन्द्र-बिम्बम् उदयाद्रिम् आगतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निज-गृहं नयस्व मां
तत्र वा किम् इति विव्यथे वधूः ॥स्र्स्_१।२४४॥

अथ स्वाधीन-भर्तृका-
स्वायत्तासन्न-पतिका हृष्टा स्वाधीन-वल्लभा ।
अस्यास् तु चेष्टाः कथिताः स्मर-पूजा-महोत्सवः । १५०
वन-केलि-जल-क्रीडा-कुसुमापचयादयः ॥स्र्स्_१।२४५॥

यथा ममैव-
सलीलं धम्मिल्ले दर-हसित-कह्लार-रचनां
कपोले सोत्कम्पं मृग-मद-मयं पत्र-तिलकम् ।
कुचाभोगे कुर्वन् ललित-मकरीं कुङ्कुम-मयीं
युवा धन्यः सोऽ यं मदयति च नित्यं प्रियतमाम् ॥स्र्स्_१।२४६॥

उत्तमा मध्यमा नीचेत्य् एवं सर्वाः स्त्रियस् त्रिधा ॥स्र्स्_१।२४७॥ १५१

तत्रोत्तमा-
अभिजातैर् भोग-तृप्तैर् गुणिभिर् या च काम्यते ।
गृह्णाति कारणे कोपम् अनुनीता प्रसीदति ॥स्र्स्_१।२४८॥ १५२
विदधत्य् अप्रियं पत्यौ स्वयम् आचरति प्रियम् ।
वल्लभे सापराधेऽ पि तूष्णीं तिष्ठति सोत्तमा ॥स्र्स्_१।२४९॥ १५३

अथ मध्यमा-
पुंसः स्वयं कामयते काम्यते या च तैर् वधूः ।
सक्रोधे क्रुध्यति मुहुः सानृतेऽ नृत-वादिनी ॥स्र्स्_१।२५०॥ १५४
सापकारेऽ पकर्त्री स्यात् स्निग्धे स्निह्यति वल्लभे ।
एवम् आदि-गुणोपेता मध्यमा सा प्रकीर्तिता ॥स्र्स्_१।२५१॥ १५५

अथ नीचा-
अकस्मात् कुप्यति रुषं प्रार्थितापि न मुञ्चति ।
सुरूपं वा कुरूपं वा गुणवन्तम् अथागुणम् ॥स्र्स्_१।२५२॥ १५६
स्थविरं तरुणं वापि या वा कामयते मुहुः ।
ईर्ष्या-कोप-विवादेषु नियता साधमा स्मृता ॥स्र्स्_१।२५३॥ १५७

आसाम् उदाहरणानि लोकत एवावगन्तव्यानि ।

स्वीया त्रयोदश-विधा विविधा च वराङ्गना ।
वैशिकैवं षोडशधा ताश् चावस्थाभिर् अष्टभिः ॥स्र्स्_१।२५४॥ १५८
एकैकम् अष्टधा तासाम् उत्तमादि-प्रभेदतः ।
त्रैविध्यम् एवं स-चतुरशीतिस् त्रिशती भवेत् ॥स्र्स्_१।२५५॥ १५९
अवस्था-त्रयम् एवेति केचिद् आहुः पर-स्त्रियाः ॥स्र्स्_१।२५६॥

यथा-
त्र्य्-अवस्थैव पर-स्त्री स्यात् प्रथमं विरहोन्मनाः ।
ततो æभिसारिका भूत्वाभिसरन्ती व्रजेत् स्वयं ॥स्र्स्_१।२५७॥
सङ्केताच् चेत् परिभ्रष्टा विप्रलब्धा भवेत् पुनः ।
पराधीन-पतित्वेन नान्यावस्थात्र सङ्गता ॥स्र्स्_१।२५८॥ इति । (भाव-प्रकाश)

अथ नायिका-सहायाः-
आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी । १६०
धात्रेयी शिल्पकारी च कुमारी कथिनी तथा ।
कारुर् विप्रश्निका चेति नेतृ-मित्र-गुणान्विताः ॥स्र्स्_१।२५९॥ १६१

लिङ्गिनी पण्डित-कौशिक्यादिः । प्रतिवेशिनी समीप-गृह-वर्तिनी । शिल्प-कारी वीणा-वादनादि-निपुणा । कारू रजक्यादिः । विप्रश्निका दैवज्ञा । शेषाः प्रसिद्धाः । इतर-रसालम्बनानाम् अनति-निरूपणीयतया पृथक्-प्रकरणारम्भस्यानुपयोगात् तत्-तद्-रस-प्रसङ्ग एव निरूपणं करिष्यामः ॥

इति नायिका-प्रकरणम् ॥

अथ शृङ्गारस्योद्दीपन-विभावः-

उद्दीपनं चतुर्धा स्याद् आलम्बन-समाश्रयम् ।
गुण-चेष्टालङ्कृतयस् तटस्थाश् चेति भेदतः ॥स्र्स्_१।२६०॥ १६२

तत्र गुणाः-
यौवनं रूप-लावण्ये सौन्दर्यम् अभिरूपता ।
मार्दवं सौकुमार्यं चेत्य् आलम्बन-गता गुणाः ॥स्र्स्_१।२६१॥ १६३

तत्र यौवनम्-
सर्वासाम् अपि नारीणां यौवनं तु चतुर्विधम् ।
प्रतियौवनम् एतासां चेष्टितानि पृथक् पृथक् ॥स्र्स्_१।२६२॥ १६४

तत्र प्रथम-यौवनम्-
ईषच्-चपल-नेत्रान्तं स्मर-स्मेर-मुखाम्बुजम् ।
स-गर्व-जरजोगण्डम् असमग्रारुणाधरम् ॥स्र्स्_१।२६३॥ १६५
लावण्योद्भेद-रम्याङ्गं विलसद्-भाव-सौरभम् ।
उन्मीलिताङ्कुर-कुचम् अस्फुटाङ्गक-सन्धिकम् ॥स्र्स्_१।२६४॥ १६६
प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा ।
अपेक्षते मृदु-स्पर्शं सहते नोद्धतां रतिम् ॥स्र्स्_१।२६५॥ १६७
सखी-केलि-रता स्वाङ्ग-संस्कार-कलितादरा ।
न कोप-हर्षौ भजते सपत्नी-दर्शनादिषु । १६८
नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते ॥स्र्स्_१।२६६॥

यथा-
विस्तारी स्तन-भार एष गमितो न स्वोचिताम् उन्नतिं
रेखोद्भासि तथा वलि-त्रयम् इदं न स्पष्ट-निम्नोत्तम् ।
मध्येऽ स्या ऋजु-रायतार्ध-कपिशा रोमावली दृश्यते
रम्यं यौवन-शैशव-व्यतिकरोन्मिश्रं वयो वर्तते ॥स्र्स्_१।२६७॥
(दशरूपकावलोकेऽ पि उद्धृतम् इदम्)

अस्याश् चेष्टा, यथा ममैव-
आविर्भवत्-प्रथम-दर्शन-साध्वसानि
सावज्ञम् आदृत-सखी-जन-जल्पितानि ।
स-व्याज-कोप-मधुराणि गिरेः सुताया
वः पान्तु नूतन-समागम-चेष्टितानि ॥स्र्स्_१।२६८॥

अथ द्वितीय-यौवनम्-
स्तनौ पीनौ तनुर् मध्यः पाणिपादस्य रक्तिमा । १६९
ऊरू करिकराकाराव् अङ्गं व्यक्ताङ्ग-सन्धिकम् ।
नितम्बो विपुलो नाभिर् गभीरा जघनं घनम् ॥स्र्स्_१।२६९॥ १७०
व्यक्ता रोमावली स्नैग्ध्यम् अङ्ग-केशरदाक्षिषु ।
द्वितीय-यौवने तेन कलिता वाम-लोचना ॥स्र्स्_१।२७०॥ १७१
सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी ।
न प्रसीदत्य् अनुनये सपत्नीष्व् अभ्यसूयिनी ॥स्र्स्_१।२७१॥ १७२
नापराधान् विषहते प्रणयेर्ष्याकषायिता ।
रति-केलिष्व् अनिभृता चेष्टते गर्विता रहः ॥स्र्स्_१।२७२॥ १७३

यथा-
तन्वी श्यामा शिखरी-दशना पक्व-बिम्बाधरौष्ठी
मध्ये क्षामा चकित-हरिणी-प्रेक्षणा निम्न-नाभिः ।
श्रोणी-भाराद् अलस-गमना स्तोक-नम्रा स्तनाभ्यां
या तत्र स्याद् युवती-विषये सृष्टिर् आद्यैव धातुः ॥स्र्स्_१।२७३॥ [मे।दू। २।२२]

अथ तृतीय-यौवनम्-
अस्निग्धता नयनयोर् गण्डयोर् म्लान-कान्तिता ।
विच्छायता खर-स्पर्शोऽ प्य् अङ्गानां श्लथता मनाक् ॥स्र्स्_१।२७४॥ १७४
अधरे मसृणो रागस् तृतीये यौवने भवेत् ।
तत्र स्त्रीणाम् इयं चेष्टा रति-तन्त्र-विदग्धता ॥स्र्स्_१।२७५॥ १७५
वल्लभस्यापरित्यागस् तदाकर्षण-कौशलम् ।
अनादरोऽ पराधेषु सपत्नीष्व् अप्य् अमत्सरः ॥स्र्स्_१।२७६॥ १७६

यथा आनन्द-कोश-प्रहसने-
वक्त्रैः प्रयत्न-विकचैर् वलिभैश् च गण्डैर्
मध्यैश् च मांसलतरैः शिथिलैर् उरोजैः ।
घण्टा-पथे रतिपतेर् अपि नूनम् एता
वृन्तश्लथानि कुसुमानि विडम्बयन्ति ॥स्र्स्_१।२७७॥

अथ चतुर्थ-यौवनम्-
जर्जरत्वं स्तन-श्रोणि-गण्डोरु-जघनादिषु ।
निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥स्र्स्_१।२७८॥ १७७
तत्र चेष्टा रति-विधाव् अनुत्साहोऽ समर्थता ।
सपत्नीष्व् आनुकूल्यं च कान्तेनाविरह-स्थितिः ॥स्र्स्_१।२७९॥ १७८

यथा आनन्द-कोश-प्रहसने-
क्षामैश् च गण्ड-फलकैर् विरलैश् च दन्तैर्
लम्बैः कुचैर् गत-कथा-प्रचुरैः प्रसङ्गैः ।
अङ्गैर् अयत्न-शिथिलैश् च कदाप्य् असेव्या
भर्तुः पणान् अभिलषन्त्य् अहहालसाङ्ग्यः ॥स्र्स्_१।२८०॥

तत्र शृङ्गार-योग्यत्वं सरसाह्लाद-कारणम् ।
आद्य-द्वितीययोर् एव न तृतीय-चतुर्थयोः ॥स्र्स्_१।२८१॥ १७९

अथ रूपम्-
अङ्गान्य् अभूषितान्य् एव प्रक्षेपाद्यैर् विभूषणैः ।
येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥स्र्स्_१।२८२॥ १८०

यथा-
स्थातुं विमुक्ताभरणा विमाल्या
भूयोऽ सहा भूषयितुं शरीरम् ।
अगाद् बहिः काचिद् उदार-रूपा
यां वीक्ष्य लज्जां दधिरे सभूषाः ॥स्र्स्_१।२८३॥

अथ लावण्यम्-
मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा ।
प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥स्र्स्_१।२८४॥ १८१

यथा-
अङ्गेषु स्फटिकादर्श-दर्शनीयेषु जृम्भते ।
अमला कोमला कान्तिर् ज्योत्स्नेव प्रतिबिम्बिता ॥स्र्स्_१।२८५॥

अथ सौन्दर्यम्-
अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥स्र्स्_१।२८६॥ १८२

यथा-
दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहू नतावंसयोः
सङ्क्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिम् इतो नितम्बि जघनं पादावरालङ्गुली
छन्दो नर्तयितुर् यथैव मनसि श्लिष्टं तथास्या वपुः ॥स्र्स्_१।२८७॥
(मालविकाग्नि-मित्रम् २।३)

अथ अभिरूपता-
यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् ।
सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥स्र्स्_१।२८८॥ १८३

यथा-
एकोऽ पि त्रय इव भाति कन्दुकोऽ यं
कान्तायाः करतल-राग-रक्त-रक्तः ।
भूमौ तच्-चरण-नखांशु-गौर-गौरः
खस्थः सन् नयन-मरीचि-नील-नीलः ॥स्र्स्_१।२८९॥ (भोज-चरित्रे २९८)

अथ मार्दवम्-
स्पृष्टं यत्राङ्गम् अस्पृष्टम् इव स्यान् मार्दवं हि तत् ॥स्र्स्_१।२९०॥ १८४अब्

यथा-
याभ्यां दुकूलान्तर-लक्षिताभ्यां
विस्रंसते स्नैग्ध्य-गुणेन दृष्टिः ।
निर्माण-कालेऽ पि ततस् तद्-ऊर्वोः
संस्पर्श-शङ्का न विधेः कराभ्याम् ॥स्र्स्_१।२९१॥

अत्र अमूर्तापि दृष्टिर् विस्रंसते । मूर्तौ करौ किम् उतेति श्लक्ष्णत्वातिशय-कथनान् मार्दवम् ।

अथ सौकुमार्यम्-
या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः । १८४च्द्
तत् सौकुमार्यं त्रेधा स्यान् मुख्य-मध्याधम-क्रमात् ॥स्र्स्_१।२९२॥

अथ उत्तम-सौकुमार्यम्-
अङ्गं पुष्पादि-संस्पर्शासहं येन तद् उत्तमम् ॥स्र्स्_१।२९३॥ १८५

यथा-
महार्ह-शय्या-परिवर्तन-च्युतैः
स्वकेश-पुष्पैर् अपि या स्म दूयते ।
अशेत सा बाहु-लतोपधायिनी
निषेदुषी स्थण्डिल एव केवले ॥स्र्स्_१।२९४॥ [कु।सम्। ५।१२]

अत्र यद्यप्य् उत्तरार्धे स्थण्डिल-स्पर्श-सहत्वम् उक्तम् । तथापि स्थिराग्रहस्यैव मनसः क्लेश-सहिष्णुत्वं प्रतीयते न पुनः शरीरस्येत्य् अत्रोत्तम-सौकुमार्यम् उपपद्यते ।

अथ मध्यम-सौकुमार्यम्-
न सहेत कर-स्पर्शं येनाङ्गं मध्यमं हि तत् ॥स्र्स्_१।२९५॥ १८६अब्

यथा-
लाक्षां विधातुम् अवलम्बित-मात्रम् एव
सख्याः करेण तरुणाम्बुज-कोमलेन ।
कस्याश्चिद् अग्र-पदम् आशु बभूव रक्तं
लाक्षा-रसः पुनर् अभून् न तु भूषणाय ॥स्र्स्_१।२९६॥
(उत्प्रेक्षा-वल्लभस्येति सूक्ति-मुक्तावलिः)

अथ अधम-सौकुमार्यम्-
येनाङ्गमातपादीनाम् असहं तद् इहाधमम् ॥स्र्स्_१।२९७॥ १८६

यथा-
आमोदम् आमोदनम् आदधानं
निलीन-नीलालक-चञ्चरीकम् ।
क्षणेन पद्मा-मुख-पद्मम् आसीत्
त्विषा रवेः कोमलयापि ताम्रम् ॥स्र्स्_१।२९८॥

तच्-चेष्टा लीला-विलासादयः । तेऽ प्य् अनुभाव-प्रकरणे वक्ष्यन्ते ।

अथ अलङ्कृतिः-
चतुर्धालङ्कृतिर् वासो-भूषा-माल्यानुलेपनैः ॥स्र्स्_१।२९९॥ १८७अब्

तत्र वस्त्रालङ्कारो, यथा-

क्षीरोद-वेलेव सफेन-पुञ्जा
पर्याप्त-चन्द्रेव शरत्-त्रियामा ।
नवं नव-क्षौम-निवासिनी सा
भूयो बभौ दर्पणम् आदधाना ॥स्र्स्_१।३००॥ [कु।सम्। ७।२६]

भूषालङ्कारो, यथा-

सा सम्भवद्भिः कुसुमैर् लतेव
ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा । सरिद् विहङ्गैर् इव लीयमानैर्
आमुच्यमानाभरणा चकाशे ॥स्र्स्_१।३०१॥ [कु।सम्। ७।२७]

माल्यानुलेपनालङ्कारो, यथा-

आलोलैर् अनुमीयते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुभूयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽ पि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥स्र्स्_१।३०२॥
अथ तटस्थाः-
तटस्थाश् चन्द्रिका धारा-गृह-चन्द्रोदयाव् अपि । १८७
कोकिलालापम् आकन्द-मन्द-मारुत-षट्-पदाः ।
लता-मण्डप-भूगेह-दीर्घिका-जल-दारवाः ॥स्र्स्_१।३०३॥ १८८
प्रासाद-गर्भ-सङ्गीत-क्रीडाद्रि-सरिद्-आदयः ।
एवम् ऊह्या यथा कालम् उपभोगोपयोगिनः ॥स्र्स्_१।३०४॥ १८९

तत्र चन्द्रिकाय उद्दीपनत्वम्, यथा-
दुरासदे चन्द्रिकया सखी-गणै-
र्लतालि-कुञ्जे ललिता निगूहिता ।
चकोर-चञ्चु-च्युत-कौमुदी-कणं
कुतोऽ पि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥स्र्स्_१।३०५॥

धारा-गृहस्य, यथा-
सा चन्द्रकान्ताम् अपि चन्द्र-कान्त-
वेदीम् अधिष्ठातुम् अपारयन्ती ।
धारा-गृहं प्राप्य तद् अप्य् अनङ्ग-
घोरासिधारा-गृहम् अन्वमंस्त ॥स्र्स्_१।३०६॥

चन्द्रोदयस्य, यथा-
चन्द्र-बिम्बम् उदयाद्रिम् आगतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निज-गृहं नयस्व मां
तत्र वा किम् इति विव्यथे वधूः ॥स्र्स्_१।३०७॥

कोकिलालापस्य, यथा-
चूताङ्कुरास्वाद-कषाय-कण्ठः
पुंस्कोकिलो यन् मधुरं चुकूज ।
मनस्विनी-मान-विघात-दक्षं
तद् एव जातं वचनं स्मरस्य ॥स्र्स्_१।३०८॥ [कु।सम्। ३।३२]

माकन्दस्य, यथा-
चिर-लालित एष बाल-चूतः
स्वकरावर्जित-कुम्भ-वारि-सेकैः ।
कुसुमायुध-सायकान् प्रसूते
पयसा पन्नग-वर्धन्ं तद् एतत् ॥स्र्स्_१।३०९॥

माकन्द इत्य् अशोकादीनाम् उपलक्षणम् ।

मन्द-मारुतस्य, यथा-
भृशं निपीतो बुजगाङ्गनाभिर्
विनिर्गतस् तद्-गरलेन साकम् ।
तद् अन्यथा चेत् कथम् अक्षिणोत् ताम्
अदक्षिणो दक्षिण-मातरिश्वा ॥स्र्स्_१।३१०॥

षट्पद-स्वनस्य, यथा-
मधुव्रतानां मद-मन्थराणां
मन्त्रैर् अपूर्वैर् इव मञ्जुनादैः ।
मधुश्रियो मानवती-जनानां
मान-ग्रहोच्चाटनम् आचरन्ति ॥स्र्स्_१।३११॥

लता-मण्डपस्य, यथा-
एषा पूगवनी प्रफुल्ल-कुसुमा पर्यन्त-चूत-द्रुमा
तन्-मध्येऽ पि सरोवरं निधुवनान्तानन्द-मन्दानिलम् ।
तत्-तीरे कदली-गृहं विलसितं तस्यान्तरे मल्लिका-
वल्ली-मण्डपम् अत्र सा सुनयना त्वन्-मार्गम् अवेक्षते ॥स्र्स्_१।३१२॥

भूगेहस्य, यथा-
कालागरूद्गार-सुगन्धि-गन्ध-
धूपाधिवासाश्रय-भू-गृहेषु ।
न तत्रसुर् माघ-समीरणेभ्यः
श्यामाकुचोष्माश्रयिणः पुमांसः ॥स्र्स्_१।३१३॥

दीर्घिकाया, यथा-
एतस्मिन् मद-कल-मल्लिकाक्ष-पक्ष-
व्याधूत-स्फुरद्-उरु-दण्ड-पुण्डरीकाः ।
बाष्पाम्भः परिपतनोद्गमान्तराले
दृशन्ताम् अविरहित-श्रियो विभागाः ॥स्र्स्_१।३१४॥ (मालती-माधव ९।१४)

जलदारवस्य, यथा-
मनस्विनीनां मनसोऽ पि मानस्
तथापनीतो घन-गर्जितेन ।
यथोपगूढाः प्रथितागसोऽ पि
क्षणं विदग्धाः कुपिता इवासन् ॥स्र्स्_१।३१५॥

अत्र जलदारव-ग्रहणं विद्युद्-आदीनाम् अप्य् उपलक्षणम् । विद्युतो, यथा-

वर्षासु तासु क्षण-रुक्-प्रकाशा-
द्गोपाङ्गना माधवम् आलिलिङ्ग ।
विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥स्र्स्_१।३१६॥

प्रासाद-गर्भस्य, यथा-
गोपानसी-संश्रित-बर्हिणेषु
कपोत-पाली-स्थ-कपोतकेषु ।
प्रासाद-गर्भेषु रसाद्वितीयो
रेमे पयोदानिल-दुर्गमेषु ॥स्र्स्_१।३१७॥

सङ्गीतस्य, यथा-
माधवो मधुर-माधवी-लता-
मण्डपे पटु-रटन्-मधुव्रते ।
सञ्जगौ श्रवण-चारु गोपिका-
मान-मीन-वडिशेन वेणुना ॥स्र्स्_१।३१८॥

क्रीडाद्रेर्, यथा-
नीचैर् आख्यं गिरिम् अधिवसेस् तत्र विश्राम-हेतोस्
त्वत्-सम्पर्कात् पुलकितम् इव प्रौढ-पुष्पैः कदम्बैः ।
यः पुण्य-स्त्री-रति-परिमलोद्गारिभिर् नागराणाम्
उद्दामानि प्रथयति शिला-वेश्मभिर् यौवनानि ॥स्र्स्_१।३१९॥ [मे।दू। १।२६]

सरितो, यथा-
अथोर्मि-मालोन्मद-राज-हंसे
रोधो-लता-पुष्प-वहे सरय्वाः ।
विहर्तुम् इच्छा वनिता-सखस्य
तस्याम्भसि ग्रीष्म-सुखे बभूव ॥स्र्स्_१।३२०॥ (र।वम्। १६।५४)

इत्य् आद्य् अन्यद् अप्य् उदाहार्यम् ।

–ओ)०(ओ–

अथानुभावाः-

आलम्बन-गताश् चेष्टा अनुभावा विवक्षिताः ।
भावं मनोगतं साक्षात् स्व-हेतुं व्यञ्जयन्ति ये ।
तेऽ नुभावा इति ख्याता भ्रू-क्षेप-स्मितादयः ॥स्र्स्_१।३२१॥ १९०
ते चतुर्धा चित्त-गात्र-वाग्-बुद्ध्यारम्भ-सम्भवाः ।
तत्र च भावो हावो हेला शोभा कान्ति-दीप्ती च ॥स्र्स्_१।३२२॥ १९१
प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः ।
निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया ॥स्र्स्_१।३२३॥ १९२

तत्र भावः, तथोक्तं हि प्राक्तनैर् अपि-

चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादि-विकारवत् ॥स्र्स्_१।३२४॥ इति ।
(फ़्रोम् शारदतनयऽस् भाव-प्रकाश)

भावो, यथा ममैव-
बाला प्रसाधन-विधौ निदधाति चित्तं
दत्तादरा परिणये मणि-पुत्रिकाणाम् ।
सा शङ्कते निज-सखी-जन-मन्द-हासैर्
आलक्ष्यते तद् इह भावनवावतारः ॥स्र्स्_१।३२५॥ (अबोवे १।१५४)

अत्र पूर्वं शैशवेन रसानभिज्ञस्य चित्तस्य प्रसाधन-विधित्सा-पाञ्चालिका-परिणयादर-सखी-जन-हास-शङ्कादीनां तत्-प्रथमम् एव सम्भूतत्वाद् भावः ।

अथ हावः-
ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विलास-कृत् ।
भाव ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥स्र्स्_१।३२६॥ १९३

यथा-
धात्री-वचोभिर् ध्वनि-मर्म-गर्भैः
क्षणं सरोष-स्मित-मात्त-लज्जा ।
पाञ्चालिका-द्वन्द्वम् अयोजयत् सा
सम्बन्धिनी स्वस्य सखी-जनस्य ॥स्र्स्_१।३२७॥

अत्र चित्त-विकाराणां रोष-हर्ष-लज्जादीनां कुटिलेक्षण-स्मित-नताननत्वादिभिर् ईषत्-प्रकाशनाद् अयं हावः ।

अथ हेला-
नाना-विकारैः सुव्यक्तः शृङ्गाराकृति-सूचकैः ।
हाव एव भवेद् धेला ललिताभिनयात्मिका ॥स्र्स्_१।३२८॥ १९४

यथा-
विवृण्वती शैल-सुता भावम् अङ्गैः
स्फुरद् बाल-कदम्ब-कल्पैः ।
साचीकृता चारुतरेण तस्थौ
मुखेन पर्यस्त-विलोचनेन ॥स्र्स्_१।३२९॥ [कु।सम्। ३।६८]

अत्र रोमाञ्च-मुख-साचीकरण-पर्यस्त-विलोचनत्वादि-विकारैश् चित्त-व्यापारस्यातिप्रकाशत्वेन हेला ।

तत्र शोभा–
सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् ॥स्र्स्_१।३३०॥ १९५अब्

यथा-
अशिथिल-परिरम्भाद् अर्ध-शिष्टाङ्ग-रागाम्
अविरत-रत-वेगाद् अंस-लम्बोरु-चूलीम् ।
उषस् इ शयन-गेहाद् उच्चलन्तीं स्खलन्तीं
कर-तल-धृत-नीवीं कातराक्षीं भजामः ॥स्र्स्_१।३३१॥

अथ कान्तिः–
शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥स्र्स्_१।३३२॥ १९५च्द्

यथा-
उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासः शिथिलित-कवरी-भारम् अंसे वहन्त्याः ।
भूयस् तत्-काल-कान्ति-द्विगुणित-सुरत-प्रीतिना शौरिणा वः
शय्याम् आलिङ्ग्य नीतं वपुर् अलस-लसद्-बाहु लक्ष्म्याः पुनातु ॥स्र्स्_१।३३३॥
(वेणी-संहार १।३)

अत्र पूर्व-रतान्त-जनिताया वपुः-कान्तेर् उत्तर-रतारम्भ-हेतुत्वान् मन्मथाप्यायकत्वम् ।

अथ दीप्तिः–
कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ।
उद्दीपितातिविस्तारं याता चेद् दीप्तिर् उच्यते ॥स्र्स्_१।३३४॥ १९६

यथा-
यत्र स्त्रीणां प्रियतम-भुजोच्छ्वासितालिङ्गितानाम्
अङ्ग-ग्लानिं सुरत-जनितां तन्तु-जालावलम्बाः ।
त्वत्-संरोधापगम-विशदश् चन्द्र-पादैर् निशीथे
व्यालुम्पन्ति स्फुट-जल-लव-स्यन्दिनश् चन्द्र-कान्ताः ॥स्र्स्_१।३३५॥ [मेघदूत २।९]

अत्र प्रियतमालिङ्गन-सौध-ज्योत्स्नादि-गुणैः सुरत-ग्लानि-व्यालोपनाद् उत्तर-सुरतोत्साह-रूपा दीप्तिः प्रतीयते ।

अथ प्रागल्भ्यम्–
निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते ॥स्र्स्_१।३३६॥ १९७अब्

शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवति-नैपुणं तया
यत् तद् एव गुरु-दक्षिणी-कृतम् ॥स्र्स्_१।३३७॥ [कु।सम्। ८।१७]

अत्र गुरु-दक्षिणी-कृतम् इत्य् अनेन प्रतिकरण-रूपं प्रागल्भ्यं प्रतीयते ।

अथ माधुर्यम्–
माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥स्र्स्_१।३३८॥ १९७च्द्

यथा-
वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटप-सदृशं स्रस्त-मुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं
नृत्ताद् अस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्धम् ॥स्र्स्_१।३३९॥
(मालविकाग्नि-मित्रम् २।६)

अत्र पादाङ्गुष्ठेन कुसुम-लोलनादि-क्रियाणां नृत्तान्त-परिश्रान्ताव् अपि चारुत्वान्[*४] माधुर्यम् ।
[*४] नोते थत् चारुता, अस् फ़ोउन्द् इन् उज्ज्वल-नीलमणि, इस् थे wओर्द् उसेद् हेरे इन् थे प्लचे ओफ़् मार्दव।

अथ धैर्यम्-
स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति सञ्ज्ञितम् ॥स्र्स्_१।३४०॥ १९८अब्

यथा-
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूत्भृतां नाथः प्रमाणीक्रियताम् इति ॥स्र्स्_१।३४१॥ [कु।सम्। ६।१]

अथ औदार्यम्-
औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥स्र्स्_१।३४२॥ १९८च्द्

यथा-
कल्याण-बुद्धेर् अथवा तवायं
न काम-चारो मयि शङ्कनीयः ।
ममैव जन्मान्तर-पातकानां
विपाक-विस्फूर्जथुर् अप्रसह्यः ॥स्र्स्_१।३४३॥ (र।वम्। १४।६२)

अत्रानपराधेऽ पि निष्कासयतो रामस्यानुपालम्भात् सीताया औदार्यं प्रतीयते । सर्वावस्था-समत्वाविदितेङ्गिताकारत्व-रूपयोर् लक्षणयोश् चित्त-धैर्य एवान्तर्भूतत्वात् भोज-राज-लक्षितौ स्थैर्य-गाम्भीर्य-रूपाव् अन्यौ द्वौ चित्तारम्भौ चास्मद्-उक्ते धैर्य एवान्तर्भूताव् इति दशैव चित्तारम्भाः ।

अथ गात्रारम्भाः-
लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । १९९
विहृतं चेति विज्ञेया योषितां दश गात्रजाः ॥स्र्स्_१।३४४॥

तत्र लीला-
प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः । २००
चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते ॥स्र्स्_१।३४५॥

यथा-
दुष्ट-कालिय तिष्ठाद्य कृष्णोऽ हम् इति चापरा ।
बाहुम् आस्फोट्य कृष्णस्य लीला-सर्वस्वम् आददे ॥स्र्स्_१।३४६॥ [वि।पु। ५।१३।२७]

अथ विलासः-
प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् । २०१
तात्कालिको विशेषो यः स विलास इतीरितः ॥स्र्स्_१।३४७॥

यथा-
बाला सखी-तनु-लतान्तरिता भवन्तम्
आलोक्य मुग्ध-मधुरैर् अलसैर् अपाङ्गैः ।
सिंह-क्षमा-रमण चित्तज-मोहनास्त्रैर्
लक्ष्मीर् अभित्ति-लिखितेव चिरं समास्ते ॥स्र्स्_१।३४८॥

अथ विच्छित्तिः-
आकल्प-कल्पनाल्पापि विच्छित्तिर् अतिकान्ति-कृत् ॥स्र्स्_१।३४९॥ २०२

यथा-
आलोलैर् अवगम्यते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुमीयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽ पि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥स्र्स्_१।३५०॥

अथ विभ्रमः-
प्रिया-गमन-वेलायां मदनावेश-सम्भ्रमात् ।
विभ्रमोऽ ङ्गद-हारादि-भूषा-स्थान-विपर्ययः ॥स्र्स्_१।३५१॥ २०३

यथा-
चकार काचित् सित-चन्दनाङ्के
काञ्ची-कलापं स्तन-भार-युग्मे ।
प्रियं प्रति प्रेषित-दृष्टिर् अन्या
नितम्ब-बिम्बे च बबन्ध हारम् ॥स्र्स्_१।३५२॥

अथ किलकिञ्चितम्-
शोक-रोषाश्रु-हर्षादेः सङ्करः किल-किञ्चितम् ॥स्र्स्_१।३५३॥ २०४अब्

यथा-
दत्तं श्रुतं द्यूत-पणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चित-भ्रूः ।
कण्ठं कराभ्याम् अवलम्ब्य तस्य
मुखं पिधत्ते स्म कपोलकेन ॥स्र्स्_१।३५४॥

यथा वा-
रति-क्रीडा-द्यूते कथम् अपि समासाद्य समयं
मया लब्धे तस्याः क्वणित-कल-कण्ठार्धम् अधरे ।
कृत-भ्रू-भङ्गासौ प्रकटित-विलक्षार्ध-रुदित-
स्मित-क्रोधोद्भ्रान्तं पुनर् अपि विदध्यान् मयि मुखम् ॥स्र्स्_१।३५५॥
(धनिकस्य अवलोकः तो द।रू। २।३९)

अथ मोट्टायितम्-
स्वाभिलाष-प्रकटम् मोट्टायितम् इतीरितम् ॥स्र्स्_१।३५६॥ २०४

यथा ममैव-
आकर्ण्य कर्ण-युगलैक-रसायनानि
तन्व्या प्रियस्य गदितानि सखी-कथासु ।
आलोल-कङ्कण-झणत्करणाभिरामम्
आवेल्लिते भुज-लते ललिताङ्ग-भङ्गम् ॥स्र्स्_१।३५७॥

अथ कुट्टमितम्-
केशाधरादि-ग्रहणे मोदमानेऽ पि मानसे ।
दुःखितेव बहिः कुप्येद् यत्र कुट्टमितं हि तत् ॥स्र्स्_१।३५८॥ २०५

यथा–
पाणि-पल्लव-विधूननम् अन्तः-
शीत्कृतानि नयनार्ध-निमेषाः ।
योषितां रहसि गद्गद-वाचाम्
अस्त्रताम् उपययुर् मदनस्य ॥स्र्स्_१।३५९॥ [किराट ९।५०]

अत्र रहसीति सामान्य-सूचितानां केशाधर-ग्रहणादीनां कार्य-भूतैः पाणि-पल्लव-विधूनन-सीत्कृतादिभिर् बहिर् एव कोपस्य प्रतीयमानत्वात् कुट्टमितम् ।

अथ बिब्बोकः-
इष्टेऽ प्य् अनादरो गर्वान् मानाद् बिब्बोक ईरितः ॥स्र्स्_१।३६०॥ २०६अब्

गर्वाद्, यथा-
पुंसानुनीता शत-साम-वादैर्
गर्वान् निरीहेव चुचुम्ब काचित् ।
अर्थानभीष्टान् अपि वाम-शीलाः
स्त्रियः परार्थान् इव कल्पयन्ति ॥स्र्स्_१।३६१॥

मानाद्, यथा-
निर्विभुज्य दशन-च्छदं ततो
वाचि भर्तुर् अवधीरणा-परा ।
शैल-राज-तनया समीपगाम्
आललापि विजयाम् अहेतुकम् ॥स्र्स्_१।३६२॥ [कु।सम्। ८।४९]

अत्र सन्ध्या-निमित्तं मानाद् अनादरेण बिब्बोकः ।

अथ ललितम्-
विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ।२०६
सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् ॥स्र्स्_१।३६३॥

यथा-
चरण-कमल-कान्त्या देहलीम् अर्चयन्ती
कनक-मय-कवाटं पाणिना कम्पयन्ती ।
कुवलय-मयम् अक्ष्णा तोरणं पूरयन्ती
वरतनुर् इयम् आस्ते मन्दिरस्येव लक्ष्मीः ॥स्र्स्_१।३६४॥

अथ विहृतम्-
ईर्ष्यया मान-लज्जाभ्यां न दत्तं योग्यम् उत्तरम् । २०७
क्रियया व्यज्यते यत्र विहृतं तद् उदीरितम् ॥स्र्स्_१।३६५॥

ईर्ष्यया, यथा-
तथागतायां परिहास-पूर्वं
सख्यां सखी वेत्र-भृद् आबभाषे ।
आर्ये व्रजावोऽ न्यत इत्य् अथैनां
वधूर् असूयाकुटिलं ददर्श ॥स्र्स्_१।३६६॥

अत्र न व्रजाव इत्य् उत्तरम् अदत्त्वा कुटिल-दर्शनेनैव व्यञ्जनाद् विहृतम् ।

मानेन, यथा-
अद्यापि तन्-मनसि सम्परिवर्तते मे
रात्रौ मयि क्षुतवति क्षिति-पाल-पुत्र्या ।
जीवेति मङ्गल-वचः परिहृत्य रोषात्
कर्णेऽ र्पितं कनक-पत्रम् अनालपन्त्या ॥स्र्स्_१।३६७॥
[चौर-पञ्चाशिका ११]

लज्जया, यथा-
अप्य् अवस्तुनि कथा-प्रवृत्तये
प्रश्न-तत्परम् अनङ्ग-शासनम् ।
वीक्षितेन परिगृह्य पार्वती
मूर्ध-कम्पमयम् उत्तरं ददौ ॥स्र्स्_१।३६८॥ [कु।सम्। ८।६]

इत्थं श्री-सिंह-भूपेन सत्त्वालङ्कार-शालिना । २०८
कथिताः सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः ॥स्र्स्_१।३६९॥
सत्त्वाद् दशैव भावाद्या जाता लीलादयस् तु न । २०९
अतो हि विंशतिर् भावाः सात्त्विका इति नोचितम् ॥स्र्स्_१।३७०॥
युज्यते सात्त्विकत्वं च भावादि-सहचारिणः । २१०
लीलादि-दशकस्यापि छत्रि-न्याय-बलात् स्फुटम् ॥स्र्स्_१।३७१॥
भोजेन क्रीडितं केलिर् इत्य् अन्यौ गात्रजौ स्मृतौ । २११
अतो विंशतिर् इत्य् अत्र सङ्ख्येयं नोपपद्यते ॥स्र्स्_१।३७२॥

तथा हि लक्षितम् अनेनैव च-
क्रीडितं केलिर् इत्य् अन्यौ गात्रारम्भाव् उदाहृतौ ।
बाल्य-यौवन-कौमार-साधारण-विहार-भाक् ।
विशेषः क्रीडितं केलिस् तद् एव दयिताश्रयम् ॥स्र्स्_१।३७३॥ इति ।

उदाहृतं च । क्रीडितम्, यथा-
मन्दाकिनी-सैकत-वेदिकाभिः
सा कन्दुकैः कृत्रिम-पुत्रकैश् च ।
रेमे मुहुर् मध्य-गता सखीनां
क्रीडा-रसं निर्विशतीव बाल्ये ॥स्र्स्_१।३७४॥ [कु।सम्। ७।२९]

केलिर्, यथा-
व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिद् उन्मनाः
प्रियं जघानोन्नत-पीवर-स्तनी ॥स्र्स्_१।३७५॥ [किराट ८।१९] इति ।

अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा । २१२
आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे ॥स्र्स्_१।३७६॥
कन्या-विनोद-मात्रत्वाद् अनुभावेषु नेष्यते । २१३
प्रेम-विस्रम्भ-मात्रत्वान् नान्यस्याप्य् अनुभावता ।
अतो विंशतिर् इत्य् एषा सङ्ख्या सङ्ख्यावतां मता ॥स्र्स्_१।३७७॥ २१४

अथ पौरुष-सात्त्विकाः-
शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यम् एव च ।
ललितौदार्य-तेजांसि सत्त्व-भेदास् तु पौरुषाः ॥स्र्स्_१।३७८॥ २१५

तत्र शोभा-
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥स्र्स्_१।३७९॥ २१६

नीचे दयाधिके स्पर्धा, यथा-
क्षुद्राः सन्त्रासम् एनं विजहितहरयो भिन्न-शक्रेभ-कुम्भा
युष्मद्-गात्रेषु लज्जां दधति परमम् अमी सायकाः सम्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वम् अपि न हि रुषां नन्व् अहं मेघनादः
किञ्चिद् भ्रू-भङ्ग-लीला-नियमित-जलधिं रामम् अन्वेषयामि ॥स्र्स्_१।३८०॥
(हनुमन्-नाटके १२।२)

अत्र प्रथमार्धे क्षुद्र-कपि-विषये दया, उत्तरार्धे राम-विषया स्पर्धा चेन्द्रजितः प्रतीयते । शौर्ये सत्त्व-सारः । उत्साहः स्थैर्यम् । दक्षता क्षिप्र-कारित्वम् । एषां नायक-गुण-निरूपणावसर एवोदाहरणानि दर्शितानि ।

अथ विलासः-
वृषभस्येव गम्भीरा गतिर् धीरं च दर्शनम् ।
सस्मितं च वचो यत्र स विलास इतीरितः ॥स्र्स्_१।३८१॥ २१७

गम्भीर-गमनम्, यथा-
तान् अर्घ्यान् अर्घ्यम् आदाय दूरं प्रत्युद्ययौ गिरिः ।
नमयन् सार-गुरुभिः पाद-न्यासैर् वसुन्धराम् ॥स्र्स्_१।३८२॥ [कु।सम्। ६।५०]

धीर-दृष्टिर्, यथा-
तत् गम्भीरं विनिवर्तितेन
प्रभात-पङ्केरुह-बन्धुरेण ।
अपश्यद् अक्ष्णा मधुमात्मजन्मा
प्रत्याबभाषे स च दैत्य-दूतम् ॥स्र्स्_१।३८३॥
सस्मितं वचो, यथा-
द्योतितान्तः-सभैः कुन्द-कुड्मलाग्र-दतः स्मितैः ।
स्नपितेवाभवत् तस्य शुद्ध-वर्णा सरस्वती ॥स्र्स्_१।३८४॥ (माघ। २।७)

अथ माधुर्यम्-
तन् माधुर्यं यत्र चेष्टा-दृष्ट्य्-आदेः स्पृहणीयता ॥स्र्स्_१।३८५॥ २१८अब्

॥स्र्स्_१।३८६॥ मिस्सिन्ग्

यथा-
ऋजुतां नयतः स्मरामि ते
शरम् उत्सङ्ग-निषण्ण-धन्वनः ।
मधुना सह सस्मितां कथां
नयनोपान्त-विलोकितं च यत् ॥स्र्स्_१।३८७॥ [कु।सम्। ४।२३]

धैर्य-गाम्भीर्ये तु नायक-गुण-वर्णनावसर एवोक्ते ।

अथ ललितम्-
शृङ्गार-प्रचुरा चेष्टा यत्र तल् ललितं भवेत् ॥स्र्स्_१।३८८॥ २१८च्द्

यथा-
कपोले जानक्याः करिकल-भदन्त-द्युति-मुषि
स्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम् ।
मुहुः पश्यन् शृण्वन् रजनिचर-सेना-कलकलं
जटाजूट-ग्रन्थिं द्रढयति रघूणां परिवृढः ॥स्र्स्_१।३८९॥
(हनुमन्-नाटके १।१९)

औदार्य-तेजसोर् अपि नायक-प्रसङ्ग एव लक्षणोदाहरणे प्रोक्ते ।

अत्र गाम्भीर्य-धैर्ये द्वे चित्तजे गात्रजाः परे ।
एके साधारणान् एतान् मेनिरे चित्त-गात्रयोः ॥स्र्स्_१।३९०॥ २१९

अथ वाग्-आरम्भाः-
आलापश् च विलापश् च संलापश् च प्रलापकः ।
अनुलापापलापौ च सन्देशश् चातिदेशकः ॥स्र्स्_१।३९१॥ २२०
निर्देशश् चोपदेशश् चापदेशो व्यपदेशकः ।
एवं द्वादशधा प्रोक्ता कीर्तिता वाग्-आरम्भा विचक्षणैः ॥स्र्स्_१।३९२॥ २२१

तत्र आलापः-
तत्रालापः प्रियोक्तिः स्यात् ॥स्र्स्_१।३९३॥ २२२अ

यथा ममैव-
कस् ते वाक्यामृतं त्यक्त्वा शृणोत्य् अन्य-गिरं बुधः ।
सहकार-रसं त्यक्त्वा निम्बं चुम्बति किं शुकः ॥स्र्स्_१।३९४॥

यथा वा-
धत्से धातुर् मधुप कमले सौख्यम् अध्यासिकायां
मुग्धाक्षीणां वहसि मृधुना कुन्तलेनोपमानम् ।
चापे किं च व्रजसि गुणतां शम्बरारेः किम् अन्यत्
पूजा-पुष्पं भवति भवतो भुक्त-शेषं सुराणाम् ॥स्र्स्_१।३९५॥

अथ विलापः-
विलापो दुःखजं वचः ॥स्र्स्_१।३९६॥ २२२ब्

यथा-
सीतां स्व-हस्तेन वने विमोक्तुं
श्रोतुं च तस्याः परिदेवितानि ।
सुखेन लङ्का-समरे मृतं माम्
अजीवयन् मारुतिर् आत्त-वैरः ॥स्र्स्_१।३९७॥ [ह।ना। १४।९१]

अथ संलापः-
उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्तितम् ॥स्र्स्_१।३९८॥ २२२च्द्

यथा-
भिक्षां प्रदेहि ललितोत्पल-पत्र-नेत्रे
पुष्पिण्य् अहं खलु सुरासुर-वन्दनीय ।
बाले तथा यदि फलं त्वयि विद्यते मे
वाक्यैर् अलं फल-भुग् ईश परोऽ स्ति याहि ॥स्र्स्_१।३९९॥

अथ प्रलापः–
व्यर्थालापः प्रलापः स्यात् ॥स्र्स्_१।४००॥ २२३अ

यथा-
मुखं तु चन्द्र-प्रतिमं तिमं तिमं
स्तनौ च पीनौ कठिनौ ठिनौ ठिनौ ।
कटिर् विशाला रभसा भसा भसा
अहो विचित्रं तरुणी रुणी रुणी ॥स्र्स्_१।४०१॥

अथ अनुलापः-
अनुलापो मुहुर् वचः ॥४०१॥ २२३ब्

यथा-
तमस् तमो नहि नहि मेचकाः कचाः
शशी शशी नहि नहि दृक्-सुखं मुखम् ।
लते लते नहि नहि सुन्दरौ करौ
नभो नभो नहि नहि चारु मध्यमम् ॥स्र्स्_१।४०२॥

अथापलापः-
अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥स्र्स्_१।४०३॥ २२३च्द्

यथा-
त्वम् रुक्मिणी त्वं खलु सत्यभामा
किम् अत्र गोत्र-स्खलनं ममेति । प्रसादयन् व्याज-पदेन राधां
पुनातु देवः पुरुषोत्तमो वः ॥स्र्स्_१।४०४॥

अत्र नायिका-वाचकयोः रुक्मिणी-सत्यभामा-पदयोः पूर्वोक्तयोः सुवर्णवत्त्व-सत्य-कोपत्व-लक्षणेनार्थेन योजनाद् अपलापः ।

अथ सन्देशः-
सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् ॥स्र्स्_१।४०५॥ २२४अब्

यथा-
एतस्मान् मां कुशलिनम् अभिज्ञान-दानाद् विदित्वा
मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः ।
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्
इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशी-भवन्ति ॥स्र्स्_१।४०६॥ [मे।दू। २।५२]

अथ अतिदेशः-
सोऽ तिदेशो मद्-उक्तानि तद्-उक्तानीति यद् वचः ॥स्र्स्_१।४०७॥ २२४च्द्

यथा-
तनयां तव याचते हरिर्
जगद्-आत्मा पुरुषोत्तमः स्वयम् ।
गिरि-गह्वर-शब्द-सन्निभां
गिरम् अस्माकम् अवेहि वारिधे ॥स्र्स्_१।४०८॥

अथ निर्देशः-
निर्देशस् तु भवेत् सोऽ यम् अहम् इत्य् आदि-भाषणम् ॥स्र्स्_१।४०९॥ २२५अब्

यथा-
एते वयम् अमी दाराः कन्येयं कुल-जीवितम् ।
ब्रूत येनात्र वः कार्यम् अनास्था बाह्य-वस्तुषु ॥स्र्स्_१।४१०॥ [कु।सम्। ६।६३]

अथ उपदेशः-
यत्र शिक्षार्थ-वचनम् उपदेशः स उच्यते ॥स्र्स्_१।४११॥ २२५

यथा-
अनुभवत दत्तं वित्तं
मान्यं मानयत सज्जनं भजत ।
अतिपरुष-पवन-विलुलित-
दीप-शिखा-चञ्चला लक्ष्मीः ॥स्र्स्_१।४१२॥

अथ अपदेशः-
अन्यार्थ-कथनं यत्र सोऽ पदेश इतीरितः ॥स्र्स्_१।४१३॥ २२६अब्

यथा-
कोश-द्वन्द्वम् इयं दधाति नलिनी कादम्ब-चञ्चु-क्षतं
धत्ते चूत-लता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्य् आकर्ण्य मिथः सखी-जन-वचः सा दीर्घिकायास् तटे
चेलान्ते तिरोदधे स्तन-तटं बिम्बाधरं पाणिना ॥स्र्स्_१।४१४॥

अथ व्यपदेशः-
व्याजेनात्माभिलाषोक्तिर् यत्रायं व्यपदेशकः ॥स्र्स्_१।४१५॥ २२६च्द्
यथा-
अहिण-वमहुलोलुबो तुमं
तह परिचुम्बिअ चूद-मञ्जरिं ।
कमल-बसै-मेत्त-णिब्बुदो
महर बिह्मरिदोऽ सि णं कहं ॥स्र्स्_१।४१६॥ [सकु। ५।१]

[अस्य छाया-
अभिनव-मधु-लोलुपस् त्वं
तथा परिचुम्ब्य चूत-मञ्जरीम् ।
कमल-वसति-मात्र-निर्वृतो
मधुकर विस्मृतोऽ स्येनां कथम् ॥]

–ओ)०(ओ–

अथ बुद्ध्य्-आरम्भाः-
बुद्ध्य्-आरम्भास् तथा प्रोक्ता रीति-वृत्ति-प्रवृत्तयः ॥स्र्स्_१।४१७॥

तत्र रीतिः ।
रीतिः स्यात् पद-विन्यास-भङ्गी सा तु त्रिधा मता । २२७
कोमला कठिना मिश्रा चेति स्यात् तत्र कोमला ॥स्र्स्_१।४१८॥
द्वितीय-तुर्य-वर्णैर् या स्वल्पैर् वर्गेषु निर्मिता । २२८
अल्प-प्राणाक्षर-प्राया दश-प्राण-समन्विता ॥स्र्स्_१।४१९॥
समास-रहिता स्वल्पैः समासैर् वा विभूषिता । २२९
विदर्भ-जन-हृद्यत्वात् सा वैदर्भीति कथ्यते ॥स्र्स्_१।४२०॥

महा-प्रणवार्णाल्पत्वम् अल्प-प्राणाक्षर-प्रायत्वं च, यथा ममैव-

उत्फुल्ल-गण्ड-युगम् उद्गत-मन्द-हासम्
उद्वेल-रागम् उररीकृत-काम-तन्त्रम् ।
हस्तेन हस्तम् अवलम्ब्य कदा नु सेवे
संलाप-रूपम् अमृतं सरसीरुहाक्ष्याः ॥स्र्स्_१।४२१॥ [कु। ३।४]

समास-राहित्यम्, यथा-
अथ यन्तारम् आदिश्य धुर्यान् विश्रामयेति सः ।
ताम् अवारोपयत् पत्नीं रथाद् अवततार च ॥स्र्स्_१।४२२॥ [रघु। १।५४]

दश-प्राणास् तु-
श्लेषः प्रसादः समता माधुर्यं सुकुमारता । २३०
अर्थ-व्यक्तिर् उदारत्वम् ओजः कान्ति-समाधयः ।
एते वैदर्भ-मार्गस्य प्राणा दश गुणाः स्मृताः ॥स्र्स्_१।४२३॥ २३१

तत्र श्लेषः-
केवलाल्प-प्राण-वर्ण-पद-सन्दर्भ-लक्षणम् ।
शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥स्र्स्_१।४२४॥ २३२

यथा ममैव उत्फुल्ल-गण्ड-युगम् [कु। ३।४][*५] इत्य् आदौ श्लिष्ट-वर्ण-मिश्रित-बन्धत्वात् श्लेषः ।
[*५] क़ुओतेद् जुस्त् अबोवे।

अथ प्रसादः-
प्रसिद्धार्थ-पदत्वं यत् स प्रसादो निगद्यते ॥स्र्स्_१।४२५॥ २३३अब्

यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् अत्र पदानाम् अक्लेशेनैवार्थ-बोधन-सामर्थ्यात् प्रसादः ।

अथ समता-
बन्ध-वैषम्य-राहित्यं समता पद-गुम्फने । २३३च्द्
बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते ॥स्र्स्_१।४२६॥ २३४अब्

तत्र मृदु-वर्ण-बन्धस्य समता, यथा-

चरण-कमल-कान्त्या देहलीम् अर्चयन्ती
कनक-मय-कवाटं पाणिना कम्पयन्ती ।
कुवलयमयम् अक्ष्णा तोरणं पूरयन्ती
वर-तनुर् इयम् आस्ते मन्दिरस्येव लक्ष्मीः ॥स्र्स्_१।४२७॥

अत्र मृदु-वर्ण-प्राय-बन्धस्य निर्व्यूढत्वान् मृदु-बन्ध-समता ।

स्फुट-बन्ध-समता, यथा-
मधुरया मधु-बोधित-माधवी-
मधु-समृद्धि-समेधित-मेधया ।
मधुकराङ्गनया मुहुर् उन्मद-
ध्वनि-भृतानिभृताक्षरम् उज्जगे ॥स्र्स्_१।४२८॥ [माघे ६।२०]

अत्र स्फुट-वर्ण-प्राय-बन्धस्य निर्व्यूढत्वात् स्फुट-बन्ध-समता ।

मिश्र-बन्ध-समता, यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् आदौ । अत्र मिश्री-भूत-मृदु-स्फुट-वर्ण-बन्धस्य निर्वाहाद् मिश्र-बन्ध-समता ।

अथ माधुर्यम्-
तन् माधुर्यं भवेद् यत्र शब्देऽ र्थे च स्फुटो रसः ॥स्र्स्_१।४२९॥ २३४च्द्

यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् अत्र शब्दार्थयोः शृङ्गार-परिवाहित्वेन माधुर्यम् ।

अथ सुकुमारता-
यद् अनिष्ठुर-वर्णत्वं सौकुमार्यं तद् उच्यते ॥स्र्स्_१।४३०॥ २३५अब्

यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] उद्गत-मन्द-हासम् इत्य् अत्र संयुक्ताक्षर-सद्भावेऽ प्य् अनिष्ठुरत्वात् सौकुमार्यम् ।

अथ अर्थ-व्यक्तिः-
श्रूयमाणस्य वाक्यस्य विना शब्दान्तर-स्पृहाम् । २३५च्द्
अर्थावगमकत्वं यद् अर्थ-व्यक्तिर् इयं मता ॥स्र्स्_१।४३१॥ २३६अब्

यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् अत्र सर्वेषां पदानाम् अध्याहारय-पद-निराकाङ्क्षतया अर्थ-व्यक्तिः ।

अथ उदारत्वम्-
उक्ते वाक्ये गुणोत्कर्ष-प्रतिभानम् उदारता ॥स्र्स्_१।४३२॥ २३६च्द्

यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् अत्रान्योन्यानुरागोत्कर्ष-प्रतिभानाद् उदारत्वम् ।

अथ ओजः-
समास-बहुलत्वं यत् तद् ओजः इति गीयते ॥स्र्स्_१।४३३॥ २३७अब्
यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् अत्र यथोचित-समास-बाहुल्याद् ओजः ।

अथ कान्तिः-
लोक-स्थितिम् अनुल्लङ्घ्य हृद्यार्थ-प्रतिपादनम् । २३७च्द्
कान्तिः स्याद् द्विविधा ख्याता वार्तायां वर्णनासु च ॥स्र्स्_१।४३४॥ २३८अब्

वार्ता नाम कुशल-प्रश्न-पूर्विका सङ्कथा । तत्र यथा-
परिधौत-भवत्-पदाम्बुना नव-चन्द्रातप-शीतलेन मे ।
अपि सन्तत-मर्म-कृन्तनः कृत-निर्वाण इवौर्व-पावकः ॥स्र्स्_१।४३५॥

अत्र ब्राह्मण-पादोदकस्य सन्ताप-शमन-रूपां लौकिकीं स्थितिम् अनुल्लङ्घ्यैव समुद्रेण मुनीनां पुरतः सङ्कथनात् कान्तिः ।

वर्णनायाम्, यथा ममैव-
उत्तुङ्गौ स्तन-कलशौ सम्भा-स्तम्भोपमानम् ऊरु-युगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किम् आहितं सुकृतम् ॥स्र्स्_१।४३६॥

अत्र विशिष्ट-वस्तु-निर्माणम् अपुण्य-कृतां न भवतीति लोक-स्थित्य्-अनुरोधेनैव वर्णनात् कान्तिः ।

अथ समाधिः-
समाधिः सोऽ न्य-धर्माणां यद् अन्यत्राधिरोपणम् ॥स्र्स्_१।४३७॥ २३८

यथा उत्फुल्ल-गण्ड-युगम् [कु। ३।४] इत्य् अत्रोत्फुल्लोद्गतोद्वेलत्व-रूपाणां पुष्प-प्राणि-समुद्र-धर्माणं गण्ड-स्थल-मन्द-हास-रागेषु समारोपितत्वात् समाधिः ।

अथ कठिन-रीतिः-
अतिदीर्घ-समास-युता बहुलैर् वर्णैर् युता महा-प्राणैः ।
कठिना सा गौडीयेत्य् उक्ता तद्-देश-बुध-मनोज्ञत्वात् ॥स्र्स्_१।४३८॥ २३९

यथा-
गण्ड-ग्राव-गरिष्ठ-गैरिक-गिरि-क्रीडत्-सुधान्धो-वधू-
बाधा-लम्पट-बाहु-सम्पद्-उदयद्-दुर्वार-गर्वाशयम् ।
मर्त्यामर्त्य-विरावणं बल-गृहीतैर् आवणं रावणं
बाणैर् दाशरथी रथी रथ-गतं विव्याध दिव्यायुधः ॥स्र्स्_१।४३९॥

अत्र दीर्घ-सम्सत्वं महा-प्राणाक्षर-प्रायत्वं च स्पष्टम् ।

अथ मिश्र-रीतिः-
यत्रोभय-गुण-ग्राम-सन्निवेशस् तुलाधृतः ।
सा मिश्रा सैव पाञ्चालीत्य् उक्ता तद्-देशज-प्रिया ॥स्र्स्_१।४४०॥ २४०

यथा-
परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस्
तनोर् मध्यस्यान्तः परिमिलनम् अप्राप्य हरितम् ।
इदं व्यस्त-न्यासं प्रशिथिल-भुजाक्षेप-वलनैः
कृशाङ्ग्याः सन्तापं वदति विसिनी-पत्र-शयनम् ॥स्र्स्_१।४४१॥ [रत्नावली २।१२]

अत्राल्प-समासत्व-दीर्घ-समासत्व-रूपयोः प्रसाद-स्फुट-बन्धत्व-रूपयोर् अनिष्ठुराक्षर-प्रायत्व-रूपयोः पृथक्-पदत्व-ग्रन्थिलत्वयोश् च उभय-रीति-धर्मयोस् तुलाधृतयोर् इव सन्निवेशान् मिश्रेयं रीतिः ।

आन्ध्री लाटी च सौराष्ट्रीत्य् आदयो मिश्र-रीतयः ।
सन्ति तत्-तद्-देश-विद्वत्-प्रिय-मिश्रण-भेदतः ॥स्र्स्_१।४४२॥ २४१
त एव पद-सङ्घातास् ता एवार्थ-विभूतयः ।
तथापि नव्यं भवति काव्यं ग्रथन-कौशलात् ॥स्र्स्_१।४४३॥ २४२
तासां ग्रन्थ-गडुत्वेन लक्षणं नोच्यते मया ।
भोजादि-ग्रन्थ-बन्धेषु तद्-आकाङ्क्षिभिर् ईक्ष्यताम् ॥स्र्स्_१।४४४॥ २४३

अथ वृत्तयः-
भारती सात्वती चैव कैशिक्य् आरभटीति च ।
चतस्रो वृत्तयस् तासाम् उत्पत्तिर् वक्ष्यते स्फुटम् ॥स्र्स्_१।४४५॥ २४४
जगत्य् एकार्णवे जाते भगवान् अव्ययः पुमान् ।
भोगि-भोगम् अधिष्ठाय योग-निद्रा-परोऽ भवत् ॥स्र्स्_१।४४६॥ २४५
तदा वीर्य-मदोन्मत्तौ दैत्येन्द्रौ मधु-कैटभौ ।
तरसा देवदेवेशम् आगतौ रण-काङ्क्षिणौ ॥स्र्स्_१।४४७॥ २४६
विविधैः परुषैर् वाक्यैर् अधिक्षेप-विधायिनौ ।
मुष्टि-जानु-प्रहारैश् च योधयामासतुर् हरिम् ॥स्र्स्_१।४४८॥ २४७
तन्-नाभि-कमलोत्पन्नः प्रजापतिर् अभाषत ।
किम् एतद् भारती-वृत्तिर् अधुनापि प्रवर्तते ॥स्र्स्_१।४४९॥ २४८
तद् इमौ नय दुर्धर्षौ निधनं त्वरया विभो ।
इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥स्र्स्_१।४५०॥ २४९
इदं काव्य-क्रिया-हेतोर् भारती निर्मिता ध्रुवम् ।
भाषणाद् वाक्य-बाहुल्याद् भारतीयं भविष्यति ॥स्र्स्_१।४५१॥ २५०
अधुनैव निहन्म्य् एताव् इत्य् आभाष्य वचो हरिः ।
निर्मलैर् निर्विकारैश् च साङ्ग-हारैर् मनोहरैः ॥स्र्स्_१।४५२॥ २५१
अङ्गैस् तौ योधयामास दैत्येन्द्रौ युद्ध-शालिनौ ।
भूमि-स्थानक-संयोगैः पद-क्षेपैस् तथा हरेः ॥स्र्स्_१।४५३॥ २५२
भूमेस् तदाभवद् भारस् तद्-वशाद् अपि भारती ।
वल्गितैः शार्ङ्गिणस् तत्र दीप्तैः सम्भ्रम-वर्जितैः ॥स्र्स्_१।४५४॥ २५३
सत्त्वाधिकैर् बाहु-दण्डैः सात्वत्वी वृत्तिर् उद्गता ।
विचित्रैर् अङ्ग-हारैश् च हेलया स तदा हरिः ॥स्र्स्_१।४५५॥ २५४
यत् तौ बबन्ध केशेषु जाता सा कैशिकी ततः ।
स-संरम्भैः सवेगैश् च चित्र-चारी-समुत्थितैः ॥स्र्स्_१।४५६॥ २५५
नियुद्ध-करणैर् जाता चित्रैर् आरभटी ततः ।
यस्माच् चित्रैर् अङ्गहारैः कृतं दानव-मर्दनम् ॥स्र्स्_१।४५७॥ २५६
तस्माद् अब्ज-भुवा लोके नियुद्ध-समयः कृतः ।
यः शस्त्रास्त्रादि-मोक्षेषु न्यायः स पारिभाषितः ॥स्र्स्_१।४५८॥ २५७
नाट्य-काव्य-क्रिया-योगे रस-भाव-समाश्रितः ।
स एव समयो धात्रा वृत्तिर् इत्य् एव सञ्ज्ञितः ॥स्र्स्_१।४५९॥ २५८
हरिणा तेन यद् वस्तु वलिगितैर् यादृशं कृतम् ।
तद्वद् एव कृता वृत्तिर् धात्रा तस्याङ्ग-सम्भवा ॥स्र्स्_१।४६०॥ २५९
ऋग्वेदाच् च यजुर्वेदात् सामवेदाद् अथर्वणः ।
भारत्य्-आद्या क्रमाज् जाता इत्य् अन्ये तु प्रचक्षते ॥स्र्स्_१।४६१॥ २६०

तत्र भारती -
प्रयुक्तत्वेन भरतैर् भारतीति निगद्यते ।
प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते ॥स्र्स्_१।४६२॥ २६१

अथ सात्वती -
सात्त्विकेन गुणेनातित्याग-शौर्यादिना युता ।
हर्ष-प्रधाना सन्त्यक्त-शोक-भावा च या भवेत् ॥स्र्स्_१।४६३॥ २६२
सात्वती नाम सा वृत्तिः प्रोक्ता लक्षण-कोविदैः ।
अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि । २६३
सङ्घात्यः परिवर्तश् चेत्य् एषां लक्षणम् उच्यते ॥स्र्स्_१।४६४॥
ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः । २६४
परस्परं गभीरोक्तिः संलाप इति शब्द्यते ॥स्र्स्_१।४६५॥ २६५अब्

यथानर्घ-राघवे, रामः-
बन्दीकृत्य जगद्-विजित्वर-भुज-स्तम्भौघ-दुःसञ्चरं
रक्षो-राजम् अपि त्वया विदधता सन्ध्या-समाधि-व्रतम् ।
प्रत्यक्षीकृत-कार्तवीर्य-चरिताम् उन्मुच्य रेवां समं
सर्वाभिर् महिषीभिर् अम्बु-निधयो विश्वेऽ पि विस्मापिताः ॥स्र्स्_१।४६६॥ (५।४४)

बाली (विहस्य):
चिराय रात्रिञ्चर-वीर-चक्र-
माराङ्क-वैज्ञानिक पय्शतस् त्वाम् ।
सुधासधर्माणम् इमां च वाचं
न शृण्वतस् तृप्यति मानसं मे ॥स्र्स्_१।४६७॥ (५।४५)

अत्र धीरोदात्त-धीरोद्धतयोः राम-बालिनोः परस्परं युद्ध-चिकीर्षाभिप्राय-योगाद् अन्योन्य-पराक्रमोत्कर्ष-वर्णनात् संलापः ।

अथ उत्थापकः -
प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः ॥स्र्स्_१।४६८॥ २६५

यथानर्घ-राघवे, यथा-
नृपान् अप्रत्यक्षान् किम् अपवदसे नन्व् अयम् अहं
शिशु-क्रीडा-भग्न-त्रिपुर-हर-धन्वा तव पुरः ।
अहङ्कार-क्रूरार्जुन-भुज-वन-व्रश्चन-कला-
निसृष्टार्थो बाहुः कथय कतरस् ते परहरतु ॥स्र्स्_१।४६९॥ (४।५६)

अत्र रामभद्रेण प्राक् प्रहाराय जामदग्न्यः प्रेरित इत्य् उत्थापकः ।

अथ सङ्घात्यः -
मन्त्र-शक्त्यार्थ-शक्त्या वा दैव-शक्त्याथ पौरुषात् ।
सङ्घस्य भेदनं यत् तु सङ्घात्यः स उदाहृतः ॥स्र्स्_१।४७०॥ २६६

मन्त्रो नय-प्रयोगः । तस्य शक्त्या यथा मुद्रा-राक्षसे चाणक्येन शत्रु-सहायानां भेदनात् सङ्घात्यः । अर्थ-शक्त्या यथा महाभारते आदिपर्वणि देवैस् तिलोत्तमालक्षणेनार्थेन सुन्दोपसुन्दयोर् अतिस्निग्धयोर् भेदनात् सङ्घात्यः ।

दैव-शक्त्या, यथा महावीर-चरिते माल्यवान्-

हा वत्साः खर-दूषण-प्रभृतयो वध्याः स्थ पापस्य मे
हा हा वत्स विभीषण त्वम् अपि मे कार्येण हेयः स्थितः ।
हा मद्-वत्सल वत्स रावण महत् पश्यामि ते सङ्कटं
वत्से केकसि हा हतास्मि न चिरात् त्रीन् पुत्रकान् पश्यसि ॥स्र्स्_१।४७१॥ (म।वी।च। ४।११)

अत्र राघवानुकूल-दैव-मोहितेन माल्यवता खर-दूषण-त्रिशिरसां भेदः संविहित इति सङ्घात्यः ।

अथ परिवर्तकः -
पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद् भवेत् ।
कार्यान्तर-स्वीकरणं ज्ञेयः स परिवर्तकः ॥स्र्स्_१।४७२॥ २६७

यथोत्तर-राम-चरिते पञ्चमाङ्के कुमारौ (अन्योन्यं प्रति)-अहो प्रिय-दर्शनः कुमारः । (स्नेहानुरागं विवर्ण्य)

यदृच्छा-संवादः किम् उ गुण-गणानाम् अतिशयः
पुराणो वा जन्मान्तर-निविड-बद्धः परिचयः ।
निजो वा सम्बन्धः किम् उ विधिवशात् कोऽ प्य् अविदितो
ममैतस्मिन् दृष्टे हृदयम् अवधानं रचयति ॥स्र्स्_१।४७३॥ (उ।रा।च। ५।१६)

अत्र लवस्य चन्द्रकेतोश् च परस्पराकार-विशेष-सन्दर्शनेन रण-संरम्भौद्धत्य-परिहारेण विनयार्जव-स्वीकार-कथनात् परिवर्तकः ।

अथ कैशिकी -
नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः ।
समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा ॥स्र्स्_१।४७४॥ २६८
अङ्गान्य् अस्यास् तु चत्वारि नर्म तत्-पूर्वका इमे ।
स्फञ्ज-स्फोटौ च गर्भश् च तेषां लक्षणम् उच्यते ॥स्र्स्_१।४७५॥ २६९

तत्र नर्म -
शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः ।
अग्राम्यः परिहासस् तु नर्म स्यात् तत् त्रिधा मतम् ॥स्र्स्_१।४७६॥ २७०
शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् ।
शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् ॥स्र्स्_१।४७७॥ २७१
सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् ।
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् । २७२
सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः ॥स्र्स्_१।४७८॥ २७३अब्

तत्र वाचा सम्भोगेच्छा-प्रकटनाद्, यथा-

गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते
किं त्व् एवं विजनस्थयोर् हत-जनः सम्भावयत्य् अन्यथा ।
इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदालसाम्
आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः ॥स्र्स्_१।४७९॥
(काव्य-प्रकाशादिष्व् अप्य् उद्धृतम्)

अत्र निजावस्थान-विलम्बनस्य व्यर्थत्वं धीरत्वादि-सूचकैर् अच्युतादि-पदैर् वदन्त्या तयापि गोपिकया वाचा सम्भोगेच्छा प्रकटितेति नर्म ।

वेशेन सम्भोगेच्छा-प्रकटनाद्, यथा-

अभ्युद्गते शशिनि पेशल-कान्त-दूती
सन्ताप-संवलितमानस-लोचनाभिः ।
अग्रा हि मण्डन-विधिर् विपरीत-भूषा
विन्यास-हासित-सखीजनम् अङ्गनाभिः ॥स्र्स्_१।४८०॥

अत्र विपरीत-न्यस्त-भूषण-लक्षणेन वेषेण जनितैः सखी-जन-हासैः कामिनीनां सम्भोगेच्छा प्रकटितेति नर्म ॥

चेष्टया सम्भोगेच्छा-प्रकटनाद्, यथा-

सालोए चिअ सूरे घरिणी घर-सामिअस्स घेत्तूण ।
णेच्छं तस्स बि पाए धुबै हसन्ती हसन्तस्स ॥स्र्स्_१।४८१॥ (गा।स। २।३०)

[सालोक एव सूर्ये गृहिणी गृह-स्वामिनो गृहीत्वा ।
नेच्छतोऽ पि पादौ धावति हसन्ती हसतः ॥]

अत्र सूर्यास्तमयात् प्राग् एव चरण-प्रक्षालन-लक्षणया क्रियया निष्क्रमण-निवारण-जनितेन हासेन सम्भोगेच्छा-प्रकटनान् नर्म ।

अनुराग-प्रकाशोऽ पि भोगेच्छा-नर्मवत् त्रिधा ॥स्र्स्_१।४८२॥ २७३च्द्

वाचानुराग-निवेदनात्, यथा-

वयं तथा नाम यथात्थ किं वदाम्य्
अयं त्व् अकस्माद् विकलः कथान्तरे ।
कदम्ब-गोलाकृतिम् आश्रितः कथं
विशुद्ध-मुग्धः कुल-कन्यका-जनः ॥स्र्स्_१।४८३॥ (मालती-माधव ७।१)

अत्र लवङ्गिकया विशुद्ध-मुग्धः कुल-कन्यका-जन इति परिहासेन मदयन्तिकानुराग-निवेदनान् नर्म ।

वेषेणानुराग-निवेदनात्, यथा-
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस् तैर् बन्धु-वधू-जनस्य वचनैर् नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवे सङ्गमे
संरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥स्र्स्_१।४८४॥ (रत्नावली १।२)[*६]
[*६] क़ुओतेद् अबोवे अत् १।१५७।

अत्र पुलक-संरोह-लक्षण-वेष-जनितेन शिवस्य हसनेन गौरी-हृदयानुरागस्य प्रकाशनान् नर्म ।

चेष्टयानुराग-निवेदनात्, यथा-

कैतवेन शयिते कुतूहलात्
पार्वती प्रतिमुखं निपातितम् ।
चक्षुर् उन्मिषति सस्मितं
प्रिये विद्युद् आहतम् इव ॥स्र्स्_१।४८५॥ [कु।सम्। ८।३]

अत्र पति-मुख-दर्शन-क्रिया-जनितेन शिवस्य हासेन गौरी-हृदयानुराग-निवेदनान् नर्म ।

प्रियापराध-निर्भेदोऽ प्य् उक्तस् त्रेधा तथा बुधैः ॥स्र्स्_१।४८६॥ २७४अब्

वाचा प्रियापराध-निर्भेदाद्, यथा मालविकाग्निमित्रे प्रथमाङ्केऽ न्ते देवी-

जै राअ-कज्जेसु ईरिसी णिउणदा अय्य-उत्तस्स तदा सोहणं हबे । (यदि राज-कार्येषु ईदृशी निपुणता आर्य-पुत्रस्य, तदा शोभनं भवेत् ।) ॥स्र्स्_१।४८७॥

अत्र ईदृशी निपुणता यदीति चतुरोक्ति-परिहासेन त्वयैव मालविका-दर्शनेन नाट्याचर्ययोर् विवादः संविहित इति प्रियापराधोघाटनान् नर्म ।

वेषेण प्रियापराध-निर्भेदाद्, यथा-
आलेपः क्रियताम् अयं द्रुत-गति-स्वेदैर् इवार्द्रं वपुस्
तन्-माल्यं व्यपनीयतां रवि-कर-स्पर्शैर् इवामर्दितम् ।
इत्य् उक्तान्य् अतिधीरया दयितया स्मेराननाम्भोरुहं
चाटूक्तानि भवन्ति हन्त कृतिनां मोदाय भोगाद् अपि ॥स्र्स्_१।४८८॥

अत्र स्वेदोद्गम-माल्य-म्लानत्वयोर् द्रुत-गमन-रवि-कर-स्पर्श-रूप-कारणासत्यत्व-कथन-रूपेण परिहसनेन सपत्नी-सम्भोग-रूप-प्रियापराध-निर्भेदनान् नर्म ।

चेष्टया प्रियापराध-निर्भेदाद्, यथा-

लोलद्-भ्रू-लतया विपक्ष-दिग्-उपन्यासेऽ वधूतं शिरस्
तद्-वृत्तान्त-निरीक्षणे कृत-नमस्कारो विलक्षः स्थितः ।
कोपात् ताम्र-कपोल-भित्तिनि मुखे दृष्ट्या गतः पादयोर्
उत्सृष्टो गुरु-सन्निधाव् अपि विधिर् द्वाभ्यां न कालोचितः ॥स्र्स्_१।४८९॥ (अमरु ७९)

अथ विलक्ष-स्थिति-शिरोधूनन-चेष्टया प्रियापराध-निर्भेदनान् नर्म ।

अथ शुद्ध-हास्यजम् -
शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः ॥स्र्स्_१।४९०॥ २७४च्द्

तत्र वाचा शुद्ध-हास्यजम्, यथा-
अर्चिष्मन्ति विदार्य वक्त्र-कुहराण्या सृक्कतो वासुकेस्
तर्जन्या विष-कर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षड् इति व्यस्तास्त-सङ्ख्या-क्रमा
वाचः शक्ति-धरस्य शैशव-कलाः कुर्वन्तु वो मङ्गलम् ॥स्र्स्_१।४९१॥
(दशरूपावलोकेऽ प्य् उद्धृतम् इदम् । बाणस्येति सूक्ति-मुक्तावलौ)

वेषेण शुद्ध-हास्यजम्, यथा-

स्नायु-न्यास-निबद्ध-कीक-सतनुं नृत्यन्तम् आलोक्य मां
चामुण्डा-करताल-कुट्टित-लयं वृत्ते विवाहोत्सवे ।
ह्री-मुद्राम् अपनुद्य यद् विहसितं देव्या समं शम्भुना
तेनाद्यापि मयि प्रभुः स जगताम् आस्ते प्रसादोन्मुखः ॥स्र्स्_१।४९२॥ (बा।रा। २।१)

अत्र भृङ्गि-रिटि-वेषेण शिवयोर् हसिताविर्भावाच् छुद्ध-हास्यजम् ।

चेष्टया शुद्ध-हास्यजम्, यथा-

देव्या लीलालपित-मधुरं लास्यम् उल्लासयन्त्या
यः शृङ्गारो रहसि पुरतः पत्युर् आविष्कृतोऽ भूत् ।
युष्मान् अव्यात् तद्-उपजनितं हास्यम् अम्बानुकारी
क्रीडा-नृत्यैर् विकट-गतिभिर् व्यञ्जयन् कुञ्जरास्यः ॥स्र्स्_१।४९३॥

अथ भय-हास्यजम् -
हास्याद् भयेन जनिताज् जनितं भय-हास्यजम् ।
तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा ॥स्र्स्_१।४९४॥ २७५

मुख्यं भय-हास्यजम्, यथा-
क्षेत्राधीश-शुना नवेन विकृताकारैक-विद्वेषिणा
घोरारावम् अभिद्रुतस्य विकटैः पश्चात् पदैर् गच्छतः ।
पा पा पाहि फहीति सत्वरतरं व्यस्ताक्षरं जल्पतो
दृष्ट्वा भृङ्गिरिटेर् दशां पशुपतिः स्मेराननः पातु वः ॥स्र्स्_१।४९५॥

अत्र भृङ्गिरिटेर् विकृताकारेण विकट-पश्चाद्-गमनेन पाहि पाहि पाहीत्य् अत्र वर्ण-व्यत्यास-भाषणेन जनितस्य पशुपति-हासस्यान्य-रसानङ्गतया मुख्यं भय-हास्यजम् ।

वाचा अन्य-रसाङ्गं भय-हास्यजम्, यथा रत्नावल्याम्-

विदूषकः-कहम्ण किदो पसादो देवीए ज अज्जं बिअक्खद-सरीरा चिट्ठह्म । (कथं न कृतः प्रसादो देव्या यद् अद्याप्य् अक्षत-शरीरास् तिष्ठामः ।)

राजा (स-स्मितम्)-धिङ् मूर्ख ! किम् एवम् उपहससि ? त्वत्-कृत एवायम् आपतितोऽ स्माकम् अनर्थ-क्रमः । (३।१४अद्) ॥स्र्स्_१।४९६॥

वेषेण, यथा-
कल्याण-दायि भवतोऽ स्तु पिनाक-पाणि-
पाणि-ग्रहे भुजग-कङ्कण-भीषितायाः ।
सम्भ्रान्त-दृष्टि सहसैव नमः शिवायेत्य्
अर्धोक्ति-सस्मित-नतं मुखम् अम्बिकायाः ॥स्र्स्_१।४९७॥
(रस-कलिकायाम् अप्य् उद्धृतम् इदम्, २३ पुटे)

अत्र भुजग-कङ्कण-लक्षणेन वेषेण जनितस्य पार्वती-भय-हास्यास्य शृङ्गाराङ्गतया कथनात् तद् इदम् अङ्गं भय-हास्यजम् ।

चेष्टया, यथा-
प्रह्लाद-वत्सल वयं बिभिमो विहाराद्
अस्माद् इति ध्वनित-नर्मसु गोपिकासु । लीला-मृदु स्तन-तटेषु नखाङ्कुराणि
व्यापारयन्न् अवतु वः शिखि-पिच्छ-मौलिः ॥स्र्स्_१।४९८॥

अत्र नखाङ्कुर-व्यापारेण जनितस्य गोपिका-हसितस्य प्रह्लाद-वत्सलेति चतुरोक्ति-रूपस्य शृङ्गाराङ्गतया तद् इदम् अङ्गं भय-हास्यजम् ।

अग्राम्य-नर्म-निर्माण-वेदिना सिंह-भूभुजा ।
नर्माष्टादशधा भिन्नम् एव स्फुटम् उदाहृतम् ॥स्र्स्_१।४९९॥ २७६

अथ नर्म-स्फञ्जः -
नर्म-स्फञ्जः सुखोद्योगो भयान्तो नव-सङ्गमे ॥स्र्स्_१।५००॥ २७७अब्

यथा-
अपेत-व्याहारं धुत-विविध-शिल्प-व्यतिकरं
कर-स्पर्शारम्भ-प्रकलित-दुकूलान्त-शयनम् ।
मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरित-दृशोर्
अहल्या-सुत्राम्णोः क्षणिकम् इव तत् सङ्गतम् अभूत् ॥स्र्स्_१।५०१॥
(सरस्वती-कण्ठाभरणेऽ प्य् उद्धृतम् इदम्)

अथ नर्म-स्फोटः -
नर्म-स्फोटस् तु भावांशैः सूचितोऽ ल्प-रसो भवेत् । २७७च्द्
अन्यैस् त्व् अकाण्डे सम्भोग-विच्छेद इति गीयते ॥स्र्स्_१।५०२॥ २७८अब्

आद्यो यथा-
स्निग्धं वीक्षितम् अन्यतोऽ पि नयने यत् प्रेरयन्त्या तया
यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव ।
मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी
सर्वं तत् किल मत्-परायणम् अहो कामी स्वतां पश्यती ॥स्र्स्_१।५०३॥

अत्र सर्वं तत् किलेत्य् अनिश्चयेनानुरागस्य स्वल्प-मात्र-सूचनया नर्म-स्फोटत्वम् ।

द्वितीयो, यथा-
प्राप्ता कथम् अपि दैवात् कण्ठम् अनीतैव सा प्रकट-रागा ।
रत्नावलीव कान्ता मम हस्ताद् भ्रंशिता भवता ॥स्र्स्_१।५०४॥ (रत्नावली २।१८)

अत्र विदूषक-वाक्य सूचित-देवी-शङ्का-विसृष्ट-सागरिका-हस्तेन राज्ञा अकाण्डे त्वया सम्भोग-भङ्गः कृत इत्य् उक्तत्वात् नर्म-स्फोटः ।

अथ नर्म-गर्भः-
नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये । २७८च्द्
प्रच्छादन-परो यस् तु नर्म-गर्भः स कीर्तितः ॥स्र्स्_१।५०५॥ २७९अब्

यथा-
श्रियो मान-ग्लानेर् अनुशय-विकल्पैः स्मित-मुखे
सखी-वर्गे गूढं कृतवसतिर् उत्थाय सहसा ।
समनेष्ये धूर्तं तम् अहम् इति जल्पन् नत-मुखीं
प्रियान्ताम् आलिङ्गन् हरिर् अरति-खेदं हरतु वः ॥स्र्स्_१।५०६॥

अत्र कुपितायाः श्रियः प्रसादनार्थं पुरुषोत्तमेन प्रच्छन्न-स्थित्यादि-रूपो व्यापारः कृत इत्य् अयं नर्म-गर्भः ।

पूर्व-स्थितो विपद्येत नायको यत्र चापरस् तिष्ठेत् । २७९च्द्
तम् अपीह नर्म-गर्भं प्रवदति भरतो हि नाट्य-वेद-गुरुः ॥स्र्स्_१।५०७॥ २८०अब्

यथा-
मयेन निर्मितां लङ्कां लब्ध्वा मन्दोदरीम् अपि ।
रेमे मूर्तां दशग्रीव-लक्ष्मीम् इव विभीषणः ॥स्र्स्_१।५०८॥
(सरस्वती-कण्ठाभरणेऽ प्य् उद्धृतम् इदम्)

अत्र रावणे विपन्ने तत्-पदाभिषिक्तेन विभीषणेन मन्दोदर्यादिषु तद् उचितं कर्म निर्मितम् इत्य् अयं नर्म-गर्भः । केचित् त्व् एतद् आरभटी-भेदं सङ्क्षिप्तिम् आहुः । तत्र मूलं न जानीमः ।

अथारभटी -
मायेन्द्र-जाल-प्रचुरां चित्र-युद्ध-क्रिया-मयीम् । २८०च्द्
छेद्यैर् भेद्यैः प्लुतैर् युक्तां वृत्तिम् आरभटीं विदुः ॥स्र्स्_१।५०९॥
अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् । २८१
वस्तूत्थापन-सम्फेटाव् इति पूर्वे बभाषिरे ॥स्र्स्_१।५१०॥

तत्र सङ्क्षिप्तिः -
सङ्क्षिप्त-वस्तु-विषया या मायाशिल्प-योजिता । २८२
सा सङ्क्षिप्तिर् इति प्रोक्ता भरतेन महात्मना ॥स्र्स्_१।५११॥ २८३अब्

यथा अनर्घ-राघवे-
नीतो दूरं कनक-हरिण-च्छद्मना रामभद्रः
पश्चाद् एनं द्रुतम् अनुसरत्य् एष वत्सः कनिष्ठः ।
बिभ्यद् बिभ्यत् प्रविशति ततः पर्णशालां च भिक्षुर्
धिग् धिक् कष्टं प्रथयति न्निजाम् आकृतिं रावणोऽ यम् ॥स्र्स्_१।५१२॥ (५।७)

अत्र बहु-विधानो मायानां सङ्क्षेपेण कथनात् सङ्क्षिप्तिः ।

वदन्त्य् अन्ये तु तां नेतुर् अवस्थान्तर-सङ्गतिम् ॥स्र्स्_१।५१३॥ २८३च्द्

यथा-
यद्-अर्थम् अस्माभिर् असि प्रकोप्तैस्
तद् अद्य दृष्ट्वा तव धाम वैष्णवम् ।
विशीर्ण-गर्वामयम् अस्मद्-आन्तरं
चिरस्य कञ्चिल् लघिमानम् अश्नुते ॥स्र्स्_१।५१४॥ (अ।रा। ४।५९)

अत्र रामभद्र-सहवासेन परिहृत-धीरोद्धत-विकारस्य जामदग्न्यस्य धीर-शान्तावस्था-परिग्रहात् सङ्क्षिप्तिर् इति ।

परिवर्तक-भेदत्वात् तद् उपेक्षामहे वयम् ॥स्र्स्_१।५१५॥ २८४अब्

अथावपातनम् -
विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः ॥स्र्स्_१।५१६॥ २८४च्द्

यथा -
हृत्वा शन्तनु-नन्दनस्य तुरगान् सूतं कुरूणां गुरोश्
छित्त्वा द्रोण-सुतस्य कार्मुक-लतां कृत्वा विसञ्ज्ञं कृपम् ।
कर्णस्यापि रथं विदार्य कणशो विद्राव्य चान्यद् बलं
त्वत्-पुत्रो भय-विद्रवत्-कुरुपतेः पन्थानम् अन्वेत्य् अयम् ॥स्र्स्_१।५१७॥
(धनञ्जय-विजय ६७)

अथ वस्तूत्थापनम् -
तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम् ॥स्र्स्_१।५१८॥ २८५अब्
यथा-
माया-चुञ्चुर् अथेन्द्रजिद् रण-मुखे खड्गेन दीनानां
सौमित्रे द्रुतम् आर्यपुत्र चकितां मां पाहि पाहीति च ।
क्रोशन्तीं व्यथिताशयां हनुमता मा मेति सन्तर्जितः
कण्ठे कैतव-मैथिलीं कुपित-धीश् चिच्छेद तुच्छाशयः ॥स्र्स्_१।५१९॥

अत्र निकुम्भिलायाम् अभिचारं चिकीर्षुणा इन्द्रजिता राघवादि-बुद्धि-प्रमोषणार्थं माया-कल्पित-मैथिली-कण्ठ-खण्डनं कृतम् इति वस्तूत्थापनम् ।

अथ सम्फेटः -
सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः ॥स्र्स्_१।५२०॥ २८५च्द्

यथा -
अन्योन्य-सूतोन्मथनाद् अभूतां
ताव् एव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदा-व्यायत-सम्प्रहारौ
भग्नायुधौ बाहु-विमर्द-निष्ठौ ॥स्र्स्_१।५२१॥ (र।वम्। ७।५२)

आसां च मध्ये वृत्तीनां शब्द-वृत्तिस् तु भारती ।
तिस्रोऽ र्थ-वृत्तयः शेषास् तच्-चतस्रो हि वृत्तयः ॥स्र्स्_१।५२२॥ २८६
अन्ये तु मिश्रणाद् आसां मिश्रां वृत्तिं च पञ्चमीम् ।
अशेष-रस-सामान्यां मन्यन्ते लक्षयन्ति च ॥स्र्स्_१।५२३॥ २८७

यथा-
यत्रारभट्य्-आदि-गणाः समन्ता
मिश्रत्वम् आश्रित्य मिथः प्रथन्ते ।
मिश्रेति तां वृत्तिम् उशन्ति धीराः
साधारणीम् अर्थ-चतुष्टयस्य ॥स्र्स्_१।५२४॥ (शृ।प्र। १२) इति ।

तन् विचार-सहम् । कुतः ? तत् किं वृत्ति-धर्माणां मिश्रणम् ऐक्य-रूपेण न्यूनाधिक-भावेन वा । न प्रथमः अवैषम्येण मिश्रणाभावात् । तथा मिश्रणे तु मिश्र-वृत्ति-व्यङ्ग्यो रसोऽ पि मिश्रो न्यूनाधिकः प्रसज्येत । वृत्तीनाञ्च रस-विशेष-नियमस्य वक्ष्यमाणत्वात् । ननु मिश्रा वृत्तिः सर्व-रस-साधारणीति चेत्, न । भारत्या वृत्त्या अपहृत-विषयत्वात् । मूल-प्रमाणाभावेन स्वोक्ति-मात्रत्वाच् च । नापि द्वितीयः । वैषम्येण वृत्ति-गुणानां मिश्रणे यत्र यद्-वृत्ति-प्रत्यभिज्ञा-हेतु-भूता बहवो गुणा लक्ष्यन्ते तत्र सैव वृत्तिर् इति निश्चयात् । ननु, तत्र प्रकरणादि-वशेन रस-विशेष-व्यक्तिर् इति चेत् तर्हि प्रस्तुत-रसानुरोधेनैव वृत्ति-विशेष-निर्धारणम् अप्य् अङ्गीकर्तव्यम् एव । तथा च भरतः-

भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा ।
सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥स्र्स्_१।५२५॥ (ना।शा। ७।११९-१२०) इति ।

अथैतासां रस-नियमः-
कैशिकी स्यात् तु शृङ्गारे रसे वीरे तु सात्वती ।
रदुर-बीभत्सयोर् वृत्तिर् नियतारभटी पुनः । २८८
शृङ्गारादिषु सर्वेषु रसेष्व् इष्टैव भारती ॥स्र्स्_१।५२६॥ २८९अब्

एतच् च शृङ्गारादि-ग्रहणं तज्-जन्यानां हास्यादीनाम् अप्य् उपलक्षणम् । अतश् च शृङ्गार-हास्ययोः कैशिकी । वीराद्भुतयोः सात्त्वती । रौद्र-करुणयोर् बीभत्स-भयानकयोश् च आरभटीति नियमः प्रतीयते । तथा च भरतः-

शृङ्गारं चैव हास्यं च वृत्तिः स्यात् कैशिकी श्रिता ।
सात्त्वती नाम विज्ञेया रौद्र-वीराद्भुताश्रया ॥स्र्स्_१।५२७॥
भयानके च बीभत्से रौद्रे चारभटी भवेत् ।
भारती चापि विज्ञेया करुणाभुत-संश्रया ॥स्र्स्_१।५२८॥ (ना।शा। २०।७३-७४)[*७]
[*७] वरिअन्त् फ़ोउन्द् इन् क्।ल्।जोस्हि एदितिओन्: हास्य-शृङ्गार-बहुला कैशिकी परिचक्षिता । सात्वती चापि विज्ञेया वीराद्भुत-शमाश्रया । रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । बीभत्से करुणे चैव भारती सम्प्रकीर्तिता ॥

अत्र सात्वत्या रौद्रानुप्रवेश-कथनं रौद्र-प्रतिभटस्य युद्ध-वीरस्यैव संलापादिभिः सात्वती-भेदैः परिपोषणं न तु दान-वीर-दया-वीरयोर् इति ज्ञापनार्थम् । तस्मान् न नियम-विरोधः । भारत्याश् च करुणाद्भुत-विषयत्व-कथनं तयोः प्रायेण वाग्-आरम्भ-मुखेन परिपोष इति ज्ञापनार्थम् । तेन भारत्याः सर्व-रस-साधारणयम् उपपन्नम् एव ।

केचित् तु तम् इमं श्लोकं भारतीयं नियामकम् । २८९
प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः ।
आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥स्र्स्_१।५२९॥ २९०

तथा च कैशिकीत्य् अनुवृत्तौ रुद्रटः-

शृङ्गार-हास्य-करुण-रसातिशय-सिद्धये ।
एषा वृत्तिः प्रयत्नेन प्रयोज्या रस-कोविदैः ॥स्र्स्_१।५३०॥ [शृ।ति। ३।३९॥ इति ।[*८]
[*८] शृङ्गार-तिलक रेअदिन्ग्: शृङ्गार-हास्य-करुण-रसानां परिवृद्धये । एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर् यथा ॥

विचार-सुन्दरो नैष मार्गः स्याद् इत्य् उदास्महे ।
कैशिकी-वृत्ति-भेदानां नर्मादीनां प्रकल्पनम् ॥स्र्स्_१।५३१॥ २९१
यत्र करुणम् आश्रित्य रसाभासत्व-कारणम् ।
रसाभास-प्रकरणे वक्ष्यते तद् इदं स्फुटम् ॥स्र्स्_१।५३२॥ २९२
तत्-तन्-न्याय-प्रवीणेन न्याय-मार्गानुवर्तिना ।
दर्शितं सिंह-भूपेन स्पष्टं वृत्ति-चतुष्टयम् ॥स्र्स्_१।५३३॥ २९३

अथ प्रवृत्तयः-
तत्-तद्-देशोचिता भाषा क्रिया वेषा प्रवृत्तयः ।
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥स्र्स्_१।५३४॥ २९४
तत्र भाषा सप्त-विधा प्राच्यावन्त्या च मागधी ।
बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥स्र्स्_१।५३५॥ २९५
सप्तधा स्याद् विभाषादि शबर-द्रमिलान्ध्रजाः ।
शकाराभीर-चण्डाल-वनेचर-भवा इति ॥स्र्स्_१।५३६॥ २९६
भाषा-विभाषाः सन्त्य् अन्यास् तत्-तद्-देश-जनोचिताः ।
तासाम् अनुपयोगित्वान् नात्र लक्षणम् उच्यते । २९७
तत्-तद्-देशोचिता वेषाः क्रियाश् चातिस्फुटान्तराह् ॥स्र्स्_१।५३७॥

अथ सात्त्विकाः-
अन्येषां सुख-दुःखादि-भावेषु कृत-भावनम् । २९८
आनुकूल्येन यच् चित्तं भावकानां प्रवर्तते ॥स्र्स्_१।५३८॥
सत्त्वं तद् इति विज्ञेयं प्राज्ञैः सत्त्वोद्भवान् इमान् । २९९
सात्त्विका इति जानन्ति भरतादि-महर्षयः ॥स्र्स्_१।५३९॥
सर्वेषाम् अपि भावानां यैः स्व-सत्त्वं हि भाव्यते । ३००
ते भावा भाव-तत्त्व-ज्ञैः सात्त्विका समुदीरिताः ॥स्र्स्_१।५४०॥
ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदश् च वेपथुः । ३०१
वैवर्ण्यम् अश्रु-प्रलयाव् इत्य् अष्टौ परिकीर्तिताः ॥स्र्स्_१।५४१॥

तत्र स्तम्भः-
स्तम्भो हर्ष-भयामर्ष-विषादाद्भुत-सम्भवः । ३०२
अनुभावा भवन्त्य् एते स्तम्भस्य मुनि-सम्मताः ।
सञ्ज्ञा-विरहितत्वं च शून्यता निष्प्रकम्पता ॥स्र्स्_१।५४२॥ ३०३

अथ स्वेदः -
निदाघ-हर्ष-व्यायाम-श्रम-क्रोध-भयादिभिः ।
स्वेदः सञ्जायते तत्र त्व् अनुभावा भवन्त्य् अमी । ३०४
स्वेदापनयवातेच्छा-व्यजन-ग्रहणादयः ॥स्र्स्_१।५४३॥

निदाघाद्, यथा-
करैर् उपात्तान् कमलोतक्रेभ्यो
निजैर् विवस्वान् विकचोदरेभ्यः ।
तस्या निचिक्षेप मुखारविन्दे
स्वेदापदेशान् मकरन्द-बिन्दून् ॥स्र्स्_१।५४४॥

हर्षाद्, यथा-
सख्या कृतानुज्ञम् उपेत्य पश्चाद्
धून्वन् शिरोजान् करजैः प्रियायाः ।
अनार्द्रयन्न् आनन-वायुनापि
स्विन्नान्तरान् एव चकार कश्चित् ॥स्र्स्_१।५४५॥

अत्रोभयोर् अन्योन्य-स्पर्श-हर्षेण स्वेदः ।

व्यायामाद्, यथा-
गत्वोद्रेकं जघन-पुलिने रुद्ध-मध्य-प्रदेशः
क्रामन्न् ऊरु-द्रुम-भुज-लताः पूर्ण-नाभि-ह्रदान्तः ।
उल्लङ्घ्योच्चैः कुच-तट-भुवं प्लावयन् रोम-कूपान्
स्वेदापूरो युवति-सरितां प्राप गण्ड-स्थलानि ॥स्र्स्_१।५४६॥ [माघ। ७।७४]

अत्र कुसुमापचय-पर्यटनेन व्यायामेन स्वेदः ।

श्रमो रत्य्-आदि-परिश्रान्तिः, तस्माद् यथा-
मञ्चेषु पञ्चेषु-समाकुलानां
वाताय वातायन-संश्रितानाम् ।
स्विन्नानि खिन्नानि मुखान्य् अशंसन्
सम्भोगम् अभोरुह-लोचनानाम् ॥स्र्स्_१।५४७॥

आदि-शब्दाद् गीत-नृत्य-श्रान्त्य्-आदयः ।

गीत-श्रान्त्या, यथा-
गीतान्तरेषु श्रम-वारि-लेशैः
किञ्चित् समुच्छ्वासित-पत्र-लेखम् ।
पुष्पासवाघूर्णित-नेत्र-शोभि
प्रिया-मुखं किम्पुरुषश् चुचुम्बे ॥स्र्स्_१।५४८॥ [कु।सम्। ३।३८]

नृत्य-श्रान्त्या, यथा-
चारु-नृत्य-विगमे च तन्-मुखं
स्वेद-भिन्न-तिलकं परिश्रमात् ।
प्रेम-दत्त-वदनानिलं पिबन्न्
अत्यजीवद् अमरालकेश्वरौ ॥स्र्स्_१।५४९॥ [रघु। १९।१५]

क्रोधाद्, यथा-
दधत् सन्ध्यारुण-व्योम-स्फुरत्-तारानुकारिणीः ।
द्विषद्-द्वेषोपरक्ताङ्ग-सङ्गिनीः स्वेद-विप्रुषः ॥स्र्स्_१।५५०॥ [माघे २।१८]

भयाद्, यथा-
कृतान्त-जिह्वा-कुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसताम् अरीणाम् ।
स्वेदोदयश् चेतसि सञ्चितानां
मानोष्मणाम् आतनुते प्रशान्तिम् ॥स्र्स्_१।५५१॥ [अत्रैव १।१३]

रोमाञ्चो विस्मयोत्साह-हर्षाद्यैस् तत्र विक्रियाः । ३०५
रोमोद्गमोल्लुक-सनगात्र-संस्पर्शनादयः ॥स्र्स्_१।५५२॥

विस्मयेन, यथा-
राघवस्य गुरु-सार-निर्भर-
प्रौढिम् आजगव-भञ्जनोद्भटम् ।
दोर्-बलं श्रुतवतः सभान्तरे
रोमहर्षणम् अभूत् पिनाकिनः ॥स्र्स्_१।५५३॥

उत्साहेन, यथा-
अन्त्रैः स्वैर् अपि संयताग्र-चरणो मूर्च्छाविराम-क्षणं
स्वाधीन-व्रणिताङ्ग-शस्त्र-विवरे रोमोद्गमं वर्मयन् ।
भग्नानुद्वलयन् निजान् पर-भटान् आतर्जयन् निष्ठुरं
धन्योद्दाम-जय-श्रियः पृथु-रण-स्तम्भे पताकायते ॥स्र्स्_१।५५४॥

अत्रोत्साहेन रोमाञ्चः ।

हर्षेण, यथा-
रोमाणि सर्वाण्य् अपि बाल-भावाद्
वर-श्रियं वीक्षितुम् उत्सुकानि ।
तस्यास् तदा कोरकिताङ्ग-यष्टेर्
उद्ग्रीविकादानम् इवान् भूवन् ॥स्र्स्_१।५५५॥ (नैषध १४।५३)

अथ स्वर-भेदः-
वैस्वर्यं सुख-दुःखाद्यैस् तत्र स्युर् गद्गदादयः ॥स्र्स्_१।५५६॥ ३०६

सुखेन, यथा-
पश्येम तं भूय इति ब्रुवाणां
सखीं वचोभिः किल सा ततर्ज ।
न प्रीति-कर्णेजपतां गतानि
भूयो बभूवुः स्वर-वैकृतानि ॥स्र्स्_१।५५७॥

अत्र प्रिय-संस्मरण-जनितेन हर्षेण भूयो वैस्वर्यम् ।

दुःखेन, यथा-
विललाप स बाष्प-गद्गदं
सहजाम् अप्य् अपहाय धीरताम् ।
अभितप्त-मयोऽ पि मार्दवं
भजते कैव कथा शरीरिषु ॥स्र्स्_१।५५८॥ (र।वम्। ८।४३)

अथ वेपथुः-
वेपथुर् हर्ष-सन्त्रास-जरा-क्रोधादिभिर् भवेत् ।
तत्रानुभावाः स्फुरण-गात्र-कम्पादयो मताः ॥स्र्स्_१।५५९॥ ३०७

हर्षेण त्रासेन च, यथा-
तद्-अङ्गम् आनन्द-जडेन दोष्णा
पित स-बाण-व्रणम् आममर्श ।
निःश्वस्य निःश्वस्य मुहुश् च दीर्घं
प्रसूः कराभ्यां भय-कम्पिताभ्याम् ॥स्र्स्_१।५६०॥

जरया, यथा-
रुन्धानया बहु-मुखीं गतिम् इन्द्रियाणां
वध्वेव गाढम् अनया जरयोपगूढः ।
अङ्गेन वेपथु-मता जडतायुजाहं
गन्तुं पदाद् अपि पदं गदितुं च नालम् ॥स्र्स्_१।५६१॥ (कुवलयावली, ३।१)

क्रोधेन, यथा-
रुषा समाध्मात-मृगेन्द्र-तुङ्गं
न केवलं तस्य वपुश् चकम्पे ।
स-सिन्धु-भूभृद्-गगना च पृथ्वी
निपातितोल्का च स-तारका द्यौः ॥स्र्स्_१।५६२॥

अथ वैवर्ण्यम्-
विषादातपरोषाद्यैर् वैवर्ण्यम् उपजायते ।
मुख-वर्ण-परावृत्ति-कार्श्याद्यास् तत्र विक्रियाः ॥स्र्स्_१।५६३॥ ३०८

विषादेन, यथा-
शर-काण्ड-पाण्डु-गण्ड-स्थलीयम् आभाति परिमिताभरणा ।
माधव-परिणत-पत्रा कतिपय-कुसुमेव कुन्दलता ॥स्र्स्_१।५६४॥ (मा।अ।मि। ३।८)

अत्र विरह-जनितेन विषादेन पाण्डुत्वम् ।

आतपेन, यथा-
धूतानाम् अभिमुख-पातिभिः समीरैर्
आयासाद् अविशद् अलोचनोत्पलानाम् ।
आनिन्ये मद-जनितां श्रियं वधूनाम्
उष्णांशु-द्युति-जनितः कपोल-रागः ॥स्र्स्_१।५६५॥ (किरातार्जुनीय ७।३)

रोषेण, यथा-
कदा मुखं वर-तनु कारणाद् ऋते तवागतं क्षणम् अयि कोप-पात्रताम् ।
अपर्वणि ग्रह-कलुषेन्दु-मण्डला विभावरी कथय कथं भविष्यति ॥स्र्स्_१।५६६॥ (मालविकाग्नि-मित्र ४।१६)

अथाश्रु-
विषाद-रोष-सन्तोषा-धूमाद्यैर् अश्रु तत्-क्रियाः ।
बाष्प-बिन्दु-परिक्षेप-नेत्र-सम्मार्जनादयः ॥स्र्स्_१।५६७॥ ३०९

विषादेन, यथा-
त्वाम् आलिख्य प्रणय-कुपितां धातु-रागैः शिलायाम्
आत्मानं ते चरण-पतितं यावद् इच्छामि कर्तुम् ।
अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे
क्रूरस् तस्मिन्न् अपि न सहते सङ्गमं नौ कृतान्तः ॥स्र्स्_१।५६८॥ [मे।दू। २।४५]

रोषेण च, यथा ममैव-
कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोज-शशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुम् अपारयन्त्याम्
इन्दीवर-द्वयम् अवाप तुषार-धाराम् ॥स्र्स्_१।५६९॥

अत्र सापराध-प्रिय-दर्शन-जनितेन रोषेण मुग्धाया बाष्पोद्गमः ।

सन्तोषेण, यथा-
आनन्दजः शोकजम् अश्रु बाष्पस्
तयोर् अशीतं शिशिरो बिभेद ।
गङ्गा-सरय्वोर् जलम् उष्ण-तप्तं
हिमाद्रि-निष्यन्द इवावतीर्णः ॥स्र्स्_१।५७०॥ (र।वम्। १४।५३)

अत्र चिर-प्रोषित-प्रत्यागत-राम-लक्ष्मण-दर्शनानन्देन कौसल्या-सुमित्रयोर् बाष्पः ।

धूमेन, यथा-
तस्मिन् क्षणे कान्तम् अलक्षयन् सा
धूमाविलैर् उद्गत-बाष्प-लेशैः ।
अन्तर्-दलैर् अम्बुरुहाम् इवार्द्रैर्
अयत्न-कर्णाभरणैर् अपाङ्गैः ॥स्र्स्_१।५७१॥

अत्र विवाह-धूमेन लक्ष्म्या बाष्पोद्गमः ।

अथ प्रलयः-
प्रलयो दुःख-धाताद्यैश् चेष्टा तत्र विसञ्ज्ञता ॥स्र्स्_१।५७२॥ ३१०अब्

दुःखेन, यथा-
वपुषा करणोज्झितेन सा
निपतन्ती पतिम् अप्य् अपातयन् ।
ननु तैल-निषेक-बिन्दुना
सह दीपार्चिर् उपैति मेदिनीम् ॥स्र्स्_१।५७३॥ (र।वम्। ८।३८)

अत्रेन्दुमती-विपत्ति-जनितेन दुःखेनाजस्य प्रलयः ।

घातेन, यथा-
पूर्वं प्रहर्ता न जघान भूयः
प्रतिप्रहाराक्षमम् अश्वसादी ।
तुरङ्गम् अस्कन्ध-निषण्ण-देहं
प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष ॥स्र्स्_१।५७४॥ (र।वम्। ७।४७)

अत्र प्रतिभट-प्रहारेणाश्वसादिनो मूर्च्छा ।

सर्वेऽ पि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः । ३१०च्द्
तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा ॥स्र्स्_१।५७५॥
अनुभावाश् च कथ्यन्ते भाव-संसूचनाद् अमी । ३११
एवं द्वैरूप्यम् एतेषां कथितं भाव-कोविदैः ॥स्र्स्_१।५७६॥
अनुभावैक-निधिना सुखानुभव-शालिना ।
श्री-सिंह-भूभुजा साङ्गम् अनुभावा निरूपिताः ॥स्र्स्_१।५७७॥ ३१२

अस्मत्-कल्प-लता-दलानि गिलति त्वत्-काम-गौर्वार्यतां
मच्-चिन्तामणि-वेदिभिः परिणमेद् दूरान् नयोच्चैर् गजम् ।
इत्य् आरूढ-वितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः
सिंह-क्ष्माभुजि कल्प-वृक्ष-सुरभी-हस्त्य्-आदि-दानोद्यते ॥स्र्स्_१।५७८॥ ३१३

रक्षायां राक्षसारिं प्रबल-विमत-विद्रावणे वीरभद्रं
कारुण्ये रामभद्रं भुज-बल-विभवारोहणे रौहिणेयम् ।
पाञ्चालं चञ्चलाक्षी-परिचरण-विधौ पूर्ण-चन्द्रं प्रसादे
कन्दर्प-रूप-दर्पे तुलयति नितरां सिंह-भूपाल-चन्द्रः ॥स्र्स्_१।५७९॥ ३१४

इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रञ्जकोल्लासो नाम
प्रथमो विलासः
॥१॥

(२)
द्वितीयो विलासः

रसिकोल्लासः

कल्याण-दायि भवतां भवेद् भव्य-गुणाकरम् ।
कमलाकुचकालेय-व्यञ्जितोरः-स्थलं महः ॥स्र्स्_२।१॥ १
चिद्-अचित्-क्षेम-कारिण्यै नमः श्री-पर्णजादिभिः ।
वन्द्यायै वार्धि-नन्दिन्यै कराग्रस्थ-पयोरुहे ॥स्र्स्_२।२॥ २

अथ व्यभिचारि-भावाः-

व्य्-अभी इत्य् उपसर्गौ द्वौ विशेषाभिमुखत्वयोः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥स्र्स्_२।३॥ ३
वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ।
तं चारयन्ति भावस्य गतिं सञ्चारिणोऽ पि ॥स्र्स्_२।४॥ ४
उन्मज्जन्तो निमज्जन्तः स्थायिन्य् अमृत-वारिधौ ।
ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥स्र्स्_२।५॥ ५
निर्वेदोऽ थ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥स्र्स्_२।६॥ ६
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥स्र्स्_२।७॥ ७
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥स्र्स्_२।८॥ ८

तत्र (१) निर्वेदः-
तत्त्व-ज्ञानाच् च दौर्गत्याव् आपदो विप्रयोगतः ।
ईर्ष्यादेर् अपि सञ्जातं निर्वेदः स्वावमाननम् ॥स्र्स्_२।९॥ [*९] ९
[*९] अनोथेर् रेअदिन्ग् इन् सोमे मनुस्च्रिप्त्स्: अनुभावस् तु नैष्फल्य-मतिर् निर्वेद उच्यते । अत्र चिन्ताश्रु-निःश्वस-वैवर्ण्योच्छ्वास-दीनता ॥

तत्त्व-ज्ञानाद्, यथा-
प्राप्ताः श्रियः सकल-काम-दुघास् ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्मानिताः प्रणयिनो विभवैस् ततः किं
कल्पं स्थितं तनु-भृतां तनुभिस् ततः किम् ॥स्र्स्_२।१०॥ (वैराग्य-शतक ६७)

किं विद्यासु विशारदैर् अपि सुतैः प्राप्ताधिक-प्रश्रयैः
किं दारैर् अभिरूप-रूप-चरितैर् आत्मानुकूलैर् अपि ।
किं कार्यं चिर-जीवितेन विगत-व्याधि-प्रचारेण वा
दारिद्र्योपहतं यद् एतद् अखिलं दुःखाय मे केवलम् ॥स्र्स्_२।११॥

आपदो, यथा-
सुरत-श्रम-सम्भृतो मुखे
ध्रियते स्वेद-लवोद्गमोऽ पि ते ।
अथ चास्तमिता त्वम् आत्मना
धिग् इमां देह-भृताम् असारताम् ॥स्र्स्_२।१२॥ (रघु। ८।५७)

विप्रयोगाद्, यथा-
यय्सां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्-सम्बन्धि-कथाभिर् एव सततं दीर्घाभिर् अस्थीयते ।
एकः सम्प्रति नाशित-प्रियतमस् ताम् एव रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्व् असम्भाव्य वा ॥स्र्स्_२।१३॥ (उ।रा।च। २।२९)

अत्र सीता-विप्रयुक्तस्य रामस्य वाग्-आरम्भ-सूचितेनात्मावमाननेन निर्वेदः प्रतीयते ।

ईर्ष्यया, यथा-
कुर्युः शस्त्र-कथाम् अमी यदि मनोर् वंशे मनुष्याङ्कुराः
स्याच् चेद् ब्रह्म-गणोऽ यम् आकृति-गणस् तत्रेष्यते चेद् भवान् ।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं
धिङ् मौर्वी-कुश-कर्षणोल्बण-किण-ग्रन्थिर् ममायं करः ॥स्र्स्_२।१४॥
(अनर्घ। ४।४४)

अत्र रामचन्द्र-शतानन्द-विषयेर्ष्या-जनितेन धिग् इति वाग्-आरम्भ-सूचितेन स्वात्मावमाननेन जामदग्न्यस्य निर्वेदः ।

अथ (२) विषादः-
प्रारब्ध-कार्यानिर्वाहाद् इष्टानवाप्तेर् विपत्तितः ।
अपराध-परिज्ञानाद् अनुतापस् तु यो भवेत् ॥स्र्स्_२।१५॥ १०
विषादः स त्रिधा ज्येष्ठ-मध्यमाधम-संश्रयात् ।
सहायान्वेषणोपाय-चिन्ताद्या उत्तमे मताः ॥स्र्स्_२।१६॥ ११
अनुत्साहश् च वैचित्त्यम् इत्य् आद्या मध्यमे मताः ।
अधमस्यानुभावाः स्युर् वैचित्र्यम् अवलोकनम् । १२
रोदन-श्वासित-ध्यान-मुख-शोषादयोऽ पि च ॥स्र्स्_२।१७॥

प्रारब्ध-कार्यानिर्वाहाद्, यथा-
वारं वारं तिरयति दृशाव् उद्गतो बाष्प-पूरस्
तत्-सङ्कल्पोपहित-जडिम स्तम्भम् अभ्येति गात्रम् ।
सद्यः स्विद्यन्न् नयम् अविरतोत्कम्प-लोलाङ्गुलीकः
पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि ॥स्र्स्_२।१८॥ (मालतीमाधव १।३८)

अत्र प्रस्तुत-चित्र-निर्माणानिर्वाहान् माधवस्य किं करोमीति वाग्-आरम्भ-सूचितया तद्-दर्शनोपाय-चिन्तया विषादो व्यज्यते ।

तत्र इष्टानवाप्तेर्, यथा-
सञ्चारिणी दीप-शिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रम् आर्गाट्ट इव प्रपेदे
विवर्ण-भावं स स भूमि-पालः ॥स्र्स्_२।१९॥ (र।वम्। ६।६७)

अत्रेन्दुमतीम् आकाङ्क्षतां भूमिपतीनां तद्-अनवाप्त्या मुख-वैवर्ण्येन विषादो व्यज्यते ।

विपत्तितः, यथा-
हा हा धिक् पर-गृह-वास-दूषणं यद्
वैदेह्याः प्रशमितम् अद्भुतैर् उपायैः ।
एतत् तत् पुनर् अपि दैव-दुर्विपाकाद्
आलर्कं विषम् इव सर्वतः प्रसृप्तम् ॥स्र्स्_२।२०॥ (उ।रा।च। १।४०)

अत्र सीतापवाद-रूपाया विपत्तेर् हा हा धिग् इति वाग्-आरम्भेण रामस्य विषादो गम्यते ।

यथा वा-
सा दुर्निमित्तोपगताद् विषादात्
सद्यः परिम्लान-मुखारविन्दा ।
राज्ञः शिवं सावरजस्य भूयाद्
इत्य् आशशंशे करणैर् बाह्यैः ॥स्र्स्_२।२१॥ (रघु। १४।५०)

अत्र दुर्निमित्तानुमिताया विपत्तेर् मुख-शोषणेनानुभावेन वैदेह्या विषादः ।

अपराध-परिज्ञानात्, यथा-
हा तातेति क्रन्दितम् आकर्ण्य विषण्णस्
तस्यान्विष्यन् वेतस-गूढं प्रभवं सः ।
शल्य-प्रोतं प्रेक्ष्य सकुम्भं मुनि-पुत्रं
तापाद् अन्तः-शल्य इवासीत् क्षितिपोऽ पि ॥स्र्स्_२।२२॥ (रघु। ९।७५)

अथ (३) दैन्यम्-
हृत्-ताप-दुर्गतत्वाद्यैर् अनौद्धत्यं हि दीनता । १३
तत्रानुभावा मालिन्य-गात्र-स्तम्भादयो मताः ॥स्र्स्_२।२३॥

हृत्-तापात्, यथा-
एतत् कृत्वा प्रियम् अनुचित-प्रार्थना-वर्तम्नो मे
सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोश-बुद्ध्या ।
इष्टान् देशान् जलद विहर प्रावृषा सम्भृत-श्रीर्
माभूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः ॥स्र्स्_२।२४॥ (मे।दू। २।५५)

दौर्गन्ध्याद्, यथा-
दीना दीन-मुखैः स्वकीय-शिशुकैर् आकृष्ट-जीर्णाम्बरा
क्रोशद्भिः क्षुधितरि निरन्नपिठरा नेक्ष्येत चेद् गेहिनी ।
याच्ञा-दैन्य-भयेन गद्गद-गलत्-त्रुट्यद्-विलीनाक्षरं
को देहीति वदेत् स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान् ॥स्र्स्_२।२५॥

अथ (४) ग्लानिः-
आधि-व्याधि-जरा-तृष्णा-व्यायाम-सुरतादिभिः । १४
निष्प्राणता ग्लानिर् अत्र क्षामाङ्ग-वचन-क्रियाः ।
कम्पानुत्साह-वैवर्ण्य-नयन-भ्रमणादयः ॥स्र्स्_२।२६॥ १५

आधिना, यथा-
किसलयम् इव मुग्धं बन्धनाद् विप्रलूनं
हृदय-कुसुम-शोषी दारुणो दीर्घ-शोकः ।
ग्लपयति परिपाण्डु क्षामम् अस्याः शरीरं
शरदिज इव घर्मः केतकी-पत्र-गर्भम् ॥स्र्स्_२।२७॥ (उत्तर-राम-चरित ३।५)

व्याधिना, यथा-
तस्य पाण्डु-वदनाल्प-भूषणा
सावलम्ब-गमना मृदु-स्वना ।
राज-यक्ष्म-परिहाणिर् आययौ
काम-यान-समवस्थया तुलाम् ॥स्र्स्_२।२८॥ (रघु। १९।५०)

जरया, यथा-
विवृद्धिं कम्पस्य प्रथयतितरां साध्वस-वशाद्
अविस्पष्टां दृष्टिं तिरयतितरां बाष्प-सलिलैः ।
स्खलद्-वर्णां वाणीं जनयतितरां गद्गदतया
जरायाः साहाय्यं मम हि परितोषोऽ द्य कुरुते ॥स्र्स्_२।२९॥ (रत्नावली ४।१३)

अत्र हर्षस्य जरा-सहकारित्व-कथनाद् उभयानुभावैर् अपि कम्पादिभिर् जरा-ग्लानेर् एव प्राधान्यं गम्यते ।

तृष्णया, यथा-
विन्ध्या-ध्वानौ विरल-सलिलास् तर्षिणी तत्र सीता
यावन् मूर्छां कलयति किल व्याकुले रामभद्रे ।
द्राक् सौमित्रिः पुटक-कलशीं मालुधानीदलानां
तावत् प्राप्तो दधद् अतिभृतां वारिणा नैर्झरेण ॥स्र्स्_२।३०॥ (बाल-रामायण ६।५०)

व्यायामेन, यथा-
अतनु-कुच-भरानतेन भूयः
श्रम-जनितानतिना शरीरकेण ।
अनुचित-गति-साद-निःसहत्वं
कल-भर-करोरुभिर् ऊरुभिर् दधानैः ॥स्र्स्_२।३१॥ (शि।व। ७।६६)

सुरतेन, यथा-
अति-प्रयत्नेन रतान्त-तान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्ना-कृतानन्दम् अलिन्दम् आप ॥स्र्स्_२।३२॥

अथ (५) श्रमः-
श्रमो मानस-खेदः स्याद् अध्व-नृत्य-रतादोभिः ।
अङ्ग-मर्दन-निःश्वासौ पाद-संवाहनं तथा ॥स्र्स्_२।३३॥ १६
जृम्भणं मन्दयानं च मुखनेत्र-विघूर्णनम् ।
सीत्कृतिश् चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥स्र्स्_२।३४॥ १७

अध्वना, यथा-
सद्यः पुरी-परिसरेऽ पि शिरीष-मृद्वी
सीता जवात् त्रिचतुराणि पदानि गत्वा ।
गन्तव्यम् अद्य कियद् इत्य् असकृद् ब्रुवाणा
रामाशुणः कृतवती प्रथमावतारम् ॥स्र्स्_२।३५॥ (बाल-रामायण ६।३४)

नृत्येन, यथा-
स्वेद-क्लेदित-कङ्कणां भुज-लतां कृत्वा मृदङ्गाश्रयां
चेटी-हस्त-समर्पितैक-चरणा मञ्जीर-सन्धित्सया ।
सा भूयः स्तन-कम्प-सूचित-रयं निःश्वासम् आमुञ्चती
रङ्ग-स्थानम् अनङ्ग-सात्कृतवती तालावधौ तस्थुषी ॥स्र्स्_२।३६॥

रत्या, यथा ममैव-
नितान्त-सुरत-क्लान्तां चेलान्त-कृत-वीजनाम् ।
कान्तां लुलित-नेत्रान्तां कलये कल-भाषिणीम् ॥स्र्स्_२।३७॥

अथ (६) मदः-
मदस् त्व् आनन्द-सम्मोह-सम्भेदो मदिराकृतः ।
स त्रिधा तरुणो मध्योऽ पकृष्टश् चेति भेदतः ॥स्र्स्_२।३८॥ १८
दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः ।
ललिताविद्ध-गत्य्-आद्याश् चेष्टाः स्युस् तरुणे मदे ॥स्र्स्_२।३९॥ १९

यथा-
भाव-हारि हसितं वचनानां
कौशलं दृशि विकार-विशेषाः ।
चक्रिरे भृशम् ऋजोर् अपि वध्वाः
कामिनेव तरुणेन मदेन ॥स्र्स्_२।४०॥ (शि।व। १०।१३)

अथ मध्यमः-
मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः ।
गमने वक्त्रता बाह्वोर् विक्षेप-स्रस्ततादयः ॥स्र्स्_२।४१॥ २०

यथा-
रुन्धती नयन-वाक्य-विकासं
सादितोभय-करा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां
क्षीबता बहु-गुणैर् अनुजह्रे ॥स्र्स्_२।४२॥ (भारवेः ९।६७)

अथ नीचः-
अपकृष्टे तु चेष्टाः स्युर् गति-भङ्गो विसञ्ज्ञता ।
निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥स्र्स्_२।४३॥ २१

यथा-
निष्ठीवन्त्यो मुखरित-मुखं गौरवात् कन्धरायाः
प्रायो हिक्का-विकल-विकलं वाक्यम् अर्धं गृणन्त्यः ।
नैवापेक्षां गलित-वसने नाप्य् उपेक्षाम् अयन्ते
पायं पायं बहु-विध-मधून्य् एक-वीथ्या कुमार्यः ॥स्र्स्_२।४४॥

तरुणस् तूत्तमादीनां मध्यमो मध्य-नीचयोः ।
अपकृष्टस् तु नीचानां तत्-तन्-मद-विवर्धने ॥स्र्स्_२।४५॥ २२
उत्तम-प्रकृतिः शेते मध्यो हसति गायति ।
अधम-प्रकृतिर् ग्राम्यं परुषं वक्ति रोदिति ॥स्र्स्_२।४६॥ २३

उत्तम-प्रकृतेर् मद-वृद्धिर्, यथा-

तत्-क्षणं विपरिवर्तित-ह्रियोर्
नेष्यतोः शयनम् इद्ध-रागयोः ।
सा बभूव वश-वर्तिनी तयोः
प्रेयसः सुवदना मदस्य च ॥स्र्स्_२।४७॥ (कु।सम्। ८।७९)

मध्यमस्य मद-वृद्धिर्, यथा-
विनापि हेतुं विकटं जहास
पदेषु चस्खाल समेऽ पि मार्गे ।
विघूर्णमानः स मदातिरेकाद्
आकाशम् आलम्बनम् आललम्बे ॥स्र्स्_२।४८॥

अधमस्य मद-वृद्धिर्, यथा-
तह तह गामीण-घरिणी
मद-विवसा किम्पि किम्पि बाहरै ।
जह जह कुल-बहुआओ
सोऊण सरन्दि पिहिअ कण्णाओ ॥स्र्स्_२।४९॥

(तथा तथा ग्रामीण-गृहिणी
मद-विवशा किम् अपि किम् अपि व्याहरति ।
यथा यथा कुल-वध्वः
श्रुत्वा सरन्ति पिहित-कर्णाः ॥)

ऐश्वर्यादि-कृतः कैश्चित् मानो मद इतीरितः ।
वक्ष्यमाणस्य गर्वस्य भेद एवेत्य् उदास्महे ॥स्र्स्_२।५०॥ २४

अथ (७) गर्वः-
ऐश्वर्य-रूप-तारुण्य-कुल-विद्या-बलैर् अपि ।
इष्ट-लाभादिनान्येषाम् अवज्ञा गर्व ईरितः ॥स्र्स्_२।५१॥ २५
अनुभावा भवन्त्य् अत्र गुर्व्-आज्ञाद्य्-आज्ञा-व्यतिक्रमः ।
अनुत्तर-प्रअदानं च वैमुख्यं भाषणेऽ पि च ॥स्र्स्_२।५२॥ २६
विभ्रमापह्नुती वाक्य-पारुष्यम् अनवेक्षणम् ।
अवेक्षणं निजाङ्गानाम् अङ्ग-भङ्गादयोऽ पि च ॥स्र्स्_२।५३॥ २७

ऐश्वर्यम् आज्ञा-सिद्धिः । तेन यथा-

राहो तर्जय भास्करं वरुण हे निर्वाप्यतां पावकः
सर्वे वारिमुचः समेत्य कुरुत ग्रीष्मस्य दर्प-च्छिदाम् ।
प्रालेयाचल चन्द्र दुग्ध-जलधे हेमन्त मन्दाकिनि
द्राग् देवस्य गृहानुपेत भवतां सेवा-क्षणो वर्तते ॥स्र्स्_२।५४॥
(बाल-रामायण ५।२२)

यथा वा-
वह्ने निह्नोतुम् अर्चिः परिचिनु पुरतः सिञ्चतो वारिवाहान्
हेमन्तस्यान्तिके स्याः प्रथयति दवथुं येन ते ग्रीष्म नोष्मा ।
मार्तण्डाश् चण्डताप-प्रशमन-विधये धत्त नाडीं जलार्द्रां
देवो नान्य-प्रतापं त्रिभुवन-विजयी मृष्यते श्री-दशास्यः ॥स्र्स्_२।५५॥
(बाल-रामायण १।३१)

रूप-तारुण्याभ्याम्, यथा-
वाटीषु वाटीषु विलासिनीनां
चरन् युवा चारुतयातिदृप्तः ।
तृणाय नामन्यत पुष्प-चापं
करेण लीला-कलितारविन्दः ॥स्र्स्_२।५६॥

कुलेन, यथा-
गौडं राष्ट्रम् अनुत्तमं निरुपमा तत्रापि राढापुरी
भूरि-श्रेष्ठिक-नाम धाम परमं तत्रोत्तमो नः पिता ।
तत्-पुत्राश् च महाकुला न विदिताः कस्यात्र तेषाम् अपि
प्रज्ञा-शील-विवेक-धैर्य-विनयाचारैर् अहं चोत्तमः ॥स्र्स्_२।५७॥
(प्रबोध-चन्द्रोदयः, २।७)

विद्यया, यथा-
बिन्दु-द्वन्द्व-तरङ्गिताग्र-सरणिः कर्ता शिरो-बिन्दुकं
कर्मेति क्रम-शिक्षितान्वय-कला ये केऽ पि तेभ्यो नमः ।
ये तु ग्रन्थ-सहस्र-शाणकषण-त्रुट्यत्-कलङ्कैर् गिराम्
उल्लेखैः कवयन्ति बिल्हण-कविस् तेष्व् एव सन्नह्यति ॥स्र्स्_२।५८॥
(कर्ण-सुन्दरी)

बलेन, यथा-
रुद्राद्रेस् तुलनं स्व-कण्ठ-विपिन-च्छेदो हरेर् वासनं
कारावेश्मनि पुष्पकस्य हरणं यस्योर्जिताः केलयः ।
सोऽ यं दुर्मद-बाहु-दण्ड-सचिवो लङ्केश्वरस् तस्य मे
का श्लाघा गुण-जर्जरेण धनुषाकृष्टेन भग्नेन वा ॥स्र्स्_२।५९॥
(बाल-रामायण, १।५१)

इष्ट-प्राप्त्या, यथा-
आस्तां तावद् अनङ्ग-चाप-विभवः का नाम सा कौमुदी
दूरे तिष्ठतु मत्त-कोकिल-रुतं संवान्तु मन्दानिलाः ।
हासोल्लास-तरङ्गितैर् असकलैर् नेत्राञ्चलैश् चञ्चलैः
साकूतैर् उररीकरोति तरुणी सेयं प्रणामाञ्जलिम् ॥स्र्स्_२।६०॥

अथ (८) शङ्का-
शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् ।
तत्र चेष्टामुहुः पार्श्व-दर्शनं मुख-शोषणम् ॥स्र्स्_२।६१॥ २८
अवकुण्ठन-वैवर्ण्य-कण्ठ-सादादयोऽ पि च ।
शङ्का द्विद्येयम् आत्मोत्था परोत्था चेति भेदतः ॥स्र्स्_२।६२॥ २९
स्वाकार्य-जनिता स्वोत्था प्रायो व्यङ्ग्येयम् इङ्गितैः ।
इङ्गितानि तु पक्ष्म-भ्रू-तारका-दृष्टि-विक्रियाः ॥स्र्स्_२।६३॥ ३०

अपराधात् स्वोत्था, यथा-
तत्-सख्या मरुताथ वा प्रचलिता वल्लीति मुह्यद्-धियो
दृष्ट्वा व्याकुलतारया निगदतो मिथ्या-प्रसादं मुखे ।
गङ्गा-नूतन-सङ्गिनः पशुपतेर् अन्तःपुरं गच्छतो
नूत्ना सैव दशा स्वयं पिशुनतां देवी-सखीनां गता ॥स्र्स्_२।६४॥

सैव चौर्येण, यथा-
मृद्नन् क्षीरादि-चौर्यान् मसृण-सुरभिणी सृक्वणी पाणि-घर्षैर्
आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणी-मेखलायाम् ।
वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे
मन्दं मन्दं जनन्याः परिसरम् अयते कूट-गोपाल-बालः ॥स्र्स्_२।६५॥

परोत्था तु निजस्यैव परस्याकार्यतो भवेत् ।
प्रायेणाकार-चेष्टाभ्यां ताम् इमाम् अनुभावयेत् । ३१
आकारः सात्त्विकश् चेष्टा त्व् अङ्ग-प्रत्यङ्गजाः क्रियाः ॥स्र्स्_२।६६॥ ३२अब्

परोत्था, यथा-
प्रीते विधातरि पुरा परिभूय मर्त्यान्
वव्रेऽ न्यतो यद् अभयं स भवान् अहंयुः ।
तन्-मर्मणि स्पृशति माम् अतिमात्रम् अद्य
हा वत्स शान्तम् अथवा दशकन्धरोऽ सि ॥स्र्स्_२।६७॥ (अनर्घ-राघव ४।९)

अत्र गर्वित-रावण-कृतेन मर्त्येतराभय-वरणेन जाता माल्यवतः शङ्का मर्मणि स्पृशतीत्यादिना वाग्-आरम्भेण प्रतीयते ।

अथ (९) त्रासः-
त्रासस् तु चित्त-चाञ्चल्यं विद्युत्-क्रव्याद-गर्जितैः । ३२
तथा भूत-भुजङ्गाद्यैर् विज्ञेयास् तत्र विक्रियाः ॥स्र्स्_२।६८॥
उत्कम्प-गात्र-सङ्कोच-रोमाञ्च-स्तम्भ-गद्गदाः । ३३
मुहुर् निमेष-विभ्रान्ति-पार्श्वस्थालम्बनादयः ॥स्र्स्_२।६९॥

विद्युतो, यथा-
वर्षासु तासु क्षण-रुक् प्रकाशात्
त्रस्ता रमा शार्ङ्गिणम् आलिलिङ्ग ।
विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥स्र्स्_२।७०॥

क्रव्यादो हिंस्र-सत्त्वम् । तस्माद्, यथा-

स्व-विक्रियादर्शित-साध्वसौघात्
प्रियाभिर् आलिङ्गित-कन्धराणाम् ।
अकारि भल्लूक-कुलेन यत्र
विद्याधराणाम् अनिमित्त-मैत्री ॥स्र्स्_२।७१॥

गर्जितेन, यथा-
प्रणय-कोप-भूतोऽ पि पराङ्मुखाः
सपदि वारिधरारव-भीरवः ।
प्रणयिनः परिरब्धुम् अनन्तरं
ववलिरे बलि-रेचित-मध्यमाः ॥स्र्स्_२।७२॥ (शि।व।, ६।३८)

गर्जितं महारवोपलक्षणम् । तेन भेर्यादि-ध्वनिर् अपि भवति ।

भेरी-ध्वनिना, यथा-
ननन्द निद्रा-रस-भञ्जनैर् अपि
प्रयाण-तूर्य-ध्वनिभिर् धरापतेः ।
अतर्कितातङ्क-विलोल-पद्मजा-
पयोधर-द्वन्द्व-निपीडितो हरिः ॥स्र्स्_२।७३॥

भूत-दर्शनाद्, यथा-
सा पत्युः परिवारेण पिशाचैर् अपि वेष्टिता ।
उत्कम्पमान-हृदया सखीभिः सम्बोध्यत ॥स्र्स्_२।७४॥

भुजङ्गमाद्, यथा-
कल्याण-दायि भवतोऽ स्तु पिनाक-पाणि-
पाणि-ग्रहे भुजग-कङ्कण-भीषतायाः ।
सम्भ्रान्त-दृष्टि सहसैव नमः शिवायेत्य्
अर्धोक्ति-सस्मित-नतं मुखम् अम्बिकायाः ॥स्र्स्_२।७५॥
(रस-कलिकायाम् अप्य् उल्लिखितम् इदम्, २३ पुटे)

अथ (१०) आवेगः-
चित्तस्य सम्भ्रमो यः स्याद् आवेगोऽ यं स चाष्टधा । ३४ उत्पात-वात-वर्षाग्नि-मत्त-कुञ्जर-दर्शनात् ॥स्र्स्_२।७६॥
प्रियाप्रिय-श्रुतेश् चापि शत्रव-व्यसनाद् अपि । ३५
तत्रौत्पातस् तु शैलादि-कम्प-केतूदयादयः ॥स्र्स्_२।७७॥
तज्-जाः सर्वाङ्ग-विस्रंसो वैमुख्यम् अपसर्पणम् । ३६
विषाद-मुख-वैवर्ण्य-विस्मयाद्यास् तु विक्रियाः ॥स्र्स्_२।७८॥

शैल-प्रकम्पनाद्, यथा-
कैलासाद्राव् उदस्ते परिचलित-गणेषूल्लसत्-कौतुकेषु
क्रोडं मातुः कुमारे विशति विषमुचिप्रेक्षमाणे सरोषम् ।
पादावष्टम्भ-सीदद् वपुषि दशमुखे याति पाताल-मूलं
क्रुद्धोऽ प्य् आश्लिष्ट-मूर्तिर् घनतरम् उमया पातु हृष्टः शिवो वः ॥स्र्स्_२।७९॥

अत्र कैलास-कम्प-जनित-प्रमथ-गण-विस्मय-कार्तिकेयापसर्पण-कात्यायनी-साध्वसादिभिर् अनुभावैस् तत्-तद्-गत-सम्भ्रमातिशय-रूप आवेगो व्यज्यते ।

केतूदयाद्, यथा-
हन्तालोक्य कुटुम्बिनो दिविषदां धूम-ग्रहं दिङ्-मुखे
त्रस्ताङ्गास् त्वरितं परस्पर-गृहान् अभ्येत्य चिन्ता-पराः ।
धान्यानाम् अनतिव्ययाय गृहिणीर् आज्ञापयन्त्यो मुहुर्
निध्यायन्ति विनिःश्वसन्ति गणशो रथ्या-मुखेष्व् आसते ॥स्र्स्_२।८०॥

अथ वातावेगः-
त्वरयागमनं वस्त्र-ग्रहणं चावकुण्ठनम् । ३७
नेत्रावमार्जनाद्याश् च वातावेग-भवाः क्रियाः ॥स्र्स्_२।८१॥

यथा-
दिक्षु व्यूढाङ्घ्रिपाङ्गस् तृण-जटित-चलत्-पांसु-दण्डोऽ न्तरिक्षे
झाङ्कारी शर्करालः पथिषु विटपिनां स्कन्ध-काषैः सधूमः ।
प्रासादानां निकुञ्जेष्व् अभिनव-जलदोद्गार-गम्भीर-धीरश्
चण्डारम्भः समीरो वहति परिदिशं भीरु किं सम्भ्रमेण ॥स्र्स्_२।८२॥
(वेणी-संहार २।१९)

अत्र वात-कृत-संरम्भो वाग्-आरम्भेण प्रतिपाद्यते ।

अथ वर्षावेगः-
छत्र-ग्रहोऽ ङ्ग-सङ्कोचो बाहु-स्वस्तिक-धावने । ३८
उष्णाश्रयणम् इत्य् आद्या वर्षावेग-भवाः क्रियाः ॥स्र्स्_२।८३॥

यथा-
आमेखलं चञ्चरता घनानां
छायाम् अधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिर् आश्रयन्ते
शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥स्र्स्_२।८४॥ [कु।सम्। ७।५]

अत्र सिद्धानाम् अग्र-शिखर-धावनेन सूचितः ।

अथ अग्न्य्-आवेगः-
अग्न्य्-आवेगः-भवाश् चेष्टा वीजनं चाङ्ग-धूननम् । ३९
व्यत्यस्त-पद-विक्षेप-नेत्र-सङ्कोचनादयः ॥स्र्स्_२।८५॥

यथा-
दूर-प्रोत्सार्यमाणाम्बर-चर-निकरोत्ताल-कीलाभिघातः
प्रभ्रश्यद्-वाजि-वर्ग-भ्रमण-नियम-नव्याकुल-ब्रध्न-सूतः ।
लेढि प्रौढो हुताशः कृत-लय-समयाशङ्कम् आकाश-वीथीं
गङ्गा-सूनु-प्रयुक्त-प्रथित-हुतवहास्त्रानुभाव-प्रसूतः ॥स्र्स्_२।८६॥
(धनञ्जय-विजय ६७)

अथ कुञ्जरावेगः-
आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् । ४०
विलोकनं मुहुः पश्चात् त्रास-कम्पादयो मताः ॥स्र्स्_२।८७॥

यथा-
निरन्तरालेऽ पि विमुच्यमाने
दूरं पथि प्राण-भृतां गणेन ।
तेजो-महद्भिस् तमसेव दीपैर्
द्विपैर् असम्बाधमयाम् बभूवे ॥स्र्स्_२।८८॥

अश्वेन, यथा-
उत्खाय दर्प-चलितेन सहैव रज्ज्वा
कीलं प्रयत्न-परमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस् तुरगेण तूर्णम्
अश्वेति विद्रुतम् अनुद्रवताश्वम् अन्यम् ॥स्र्स्_२।८९॥

प्रिय-श्रवणाद्, यथा-
प्रिय-श्रवणजे ह्य् अस्मिन् अभुत्थानोपगूहने । ४१
प्रीति-दानं प्रियं वाक्यं रोमहर्षादयोऽ पि च ॥स्र्स्_२।९०॥

यथा-
जनाय शुद्धान्त-चराय शंसते
कुमार-जन्मामृत-सम्मिताक्षरम् ।
अदेयम् आसीत् त्रयम् एव भूपतेः
शशिप्रभं छत्रम् उभे च चामरे ॥स्र्स्_२।९१॥ (र।वम्। ३।१६)

अप्रिय-श्रुतेर्, यथा-
अप्रिय-श्रुतिजेऽ प्य् अस्मिन् विलापह् परिवर्तनम् । ४२
आक्रन्दितं च पतनं परितो भ्रमणादयः ॥स्र्स्_२।९२॥

शात्रवाद्, यथा-
चेष्टाः स्युः शात्रवावेगे वर्म-शस्त्रादि-धारणम् । ४३
रथ-वाजि-गजारोह-सहसापक्रमादयः ॥स्र्स्_२।९३॥

यथा-
रामो नाम बभूव हुं तद् अबला सीतेति हुं तां पितुर्
वाचा पञ्चवटी-वने निवसतस् तस्याहरद् रावणः ।
कृष्णस्येति पुरातनीं निज-कथाम् आकर्ण्य मात्रेरितां
सौमित्रे क्व धनुर् धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः ॥स्र्स्_२।९४॥
[कृ।क।२।७२]

एते स्युर् उत्तमादीनाम् अनुभावा यथोचितम् ॥स्र्स्_२।९५॥ ४४

अथ उन्मादः-
उन्मादश् चित्त-विभ्रान्तिर् वियोगाद् इष्ट-नाशतः ।
वियोगजे तु चेष्टाः स्युर् धावनं परिदेवनम् ॥स्र्स्_२।९६॥ ४५
असम्बद्ध-प्रलपनं शयणं सहसोत्थितिः ।
अचेतनैः सहालापो निर्निमित्त-स्मितादयः ॥स्र्स्_२।९७॥ ४६

यथा-
आशूत्थानं सदृश-गणना चेतनाचेतनेषु
प्रौढौष्माभिश्वसितम् असकृन् निर्गतो बाष्प-पूरः ।
निर्लक्ष्या वाग् गतिर् अविषया निर्निमित्तं स्मितं च
प्रायेणास्याः प्रथयतितरां भ्रान्ति-दात्रीम् अवस्थाम् ॥स्र्स्_२।९८॥

इष्ट-नाशाद्, यथा-
इष्ट-नाश-कृते त्व् अस्मिन् भस्मादि-परिलेपनम् ।
नृत्य-गीतादि-रचना तृण-निर्माल्य-धारणम् । ४७
चीवरावरणादीनि प्राग्-उक्ताश् चापि विक्रियाः ॥स्र्स्_२।९९॥

यथा-
कीनाशोऽ पि बिभेति यादव-कुलाद् वृद्धस्य का मे गतिर्
भेदः स्यात् स्वजनेषु किं नु शतधा सीदन्ति गात्राणि मे ।
सोऽ यं बुद्धि-विपर्ययो मम समं सर्वे हता बान्धवा
न श्रद्देयम् इदं हि वाक्यम् अहहा मुह्यन्ति मर्माणि मे ॥स्र्स्_२।१००॥

अथ (१२) अपस्मृतिः-
धातु-वैषम्य-दोषेण भूतावेशादिना कृतः । ४८
चित्त-क्षोभस् त्व् अपस्मारस् तत्र चेष्टाः प्रकम्पनम् ॥स्र्स्_२।१०१॥
धावनं पतनं स्तम्भो भ्रमणं नेत्र-विक्रियाः । ४९
स्वोष्ठ-दंश-भुजास्फोट-लाला-फेनादयोऽ पि च ॥स्र्स्_२।१०२॥

यथा-
लाला-फेन-व्यतिकर-परिक्लेदि-भुग्नोष्ठ-पार्श्वं
गायं गायं कलित-रुदितं प्रोन्नमन्तं पतन्तम् ।
स्तब्धोद्वृत्त-क्षुभित-नयनं मण्डलेन भ्रमन्तं
भूताविष्टं कम् अपि पुरुषं तत्र वीथ्याम् अपश्यम् ॥स्र्स्_२।१०३॥

दोष-वैषम्यजस् त्व् एष व्याधिर् एवेत्य् उदास्महे ॥१०३॥ ५०

अथ (१३) व्याधिः-
दोषोद्रेक-वियोगाद्यैर् स्याद् व्याधिर् अत्र तु ।
गात्र-स्तम्भः श्लथाङ्गत्वं कूजनं मुख-कूणनम् ॥स्र्स्_२।१०४॥ ५१
स्रस्ताङ्गताक्षि-विक्षेप-निःश्वासाद्यास् तु विक्रियाः ।
सशीतो दाह-युक्तः स द्विविधः परिकीर्तितः ॥स्र्स्_२।१०५॥ ५२[*१०]
हनु-सञ्चालनं बाष्पः सर्वाङ्गोत्कम्प-कूजने ।
जानु-कुञ्चन-रोमाञ्च-मुख-शोषादयोऽ पि च ॥स्र्स्_२।१०६॥ ५३
[*१०] थे फ़ोल्लोwइन्ग् हल्फ़् करिक इस् फ़ोउन्द् इन् ओन्ल्य् ओने एदितिओन्: (शीत-ज्वरे तु चेष्टाः स्युः सन्तापश् चाङ्ग-सादनम् । थिस् दोएस् नोत् अप्पेअर् तो बे सेरिओउस्। (सेए करिक ५४)

यथा-
रोमाञ्चम् अङ्कूरयति प्रकामं
स्पर्शेन सर्वाङ्गक-सङ्गतेन ।
दोः-स्वस्तिकाश्लिष्ट-पयोधराणां
शीत-ज्वरः कान्त इवाङ्गनानाम् ॥स्र्स्_२।१०७॥

दाह-ज्वरे तु चेष्टाः स्युः शीत-माल्यादि-काङ्क्षणम् ।
पाणि-पाद-परिक्षेप-मुख-शोषादयोऽ पि च ॥स्र्स्_२।१०८॥ ५४

यथा-
शय्या पुष्पमयी परागमयताम् अङ्गार्पणाद् अश्नुते
ताम्यन्त्य् अन्तिकतालवृन्तनलिनी-पत्राणि देहोष्मणा ।
न्यस्तं च स्तन-मण्डले मलयजं शीर्णान्तरं दृश्यते
क्वाथाद् आशु भवन्ति फेनिल-मुखा भूषामृणालाङ्कुराः ॥स्र्स्_२।१०९॥

अथ (१४) मोहः-
आपद्-भीति-वियोगाद्यैर् मोहश् चित्तस्य मूढता ।
विक्रियास् तत्र विज्ञेया इन्द्रियाणां च शून्यता । ५५
निश्चेष्टताङ्ग-भ्रमण-पतनाघूर्णनादयः ॥स्र्स्_२।११०॥

आपदो, यथा-
ततोऽ भिषङ्गानिल-विप्रविद्धा
प्रभ्रश्यमानाभरण-प्रसूता ।
स्व-मूर्ति-लाभ-प्रकृतिं धरित्रीं
लतेव सीता सहसा जगाम ॥स्र्स्_२।१११॥ (र।वम्। १४।५४)

भीतेर्, यथा-
स्मरस् तथाभूतम् अयुग्म-नेत्रं
पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् ।
नालक्षयत् साध्वस-सन्न-हस्तः
स्रस्तं शरं चापम् अपि स्व-हस्तात् ॥स्र्स्_२।११२॥ [कु।सम्। ३।५१]

वियोगाद्, यथा-
तद्-वक्त्रं नयेन च ते स्मित-सुधा-मुग्धं च तद् वाचिकं
सा वेणी स भुज-क्रमोऽ तिसरलो लीलालसा सा गतिः ।
तन्वी सेति च सेति सेति सततं तद्-ध्यान-बद्धात्मनो
निद्रा नो न रतिर् न चापि विरतिः शून्यं मनो वर्तते ॥स्र्स्_२।११३॥ (रस-कलिका, ३२)

अथ (१५) मृतिः-
वायोर् धनञ्जयाख्यस्य विप्रयोगो य आत्मना । ५६
शरीरावच्छेदवता मरणं नाम तद् भवेत् ॥स्र्स्_२।११४॥
एतच् च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् । ५७
आद्यं त्व् असाध्य-हृच्-छूल-विषूच्य्-आदि-समुद्भवम् ॥स्र्स्_२।११५॥
अमी तत्रानुभावाः स्युर् अव्यक्ताक्षर-भाषणम् । ५८
विवर्ण-गात्रता मन्द-श्वासादि स्तम्भ-मीलने ।
हिक्का परिजनापेक्षा-निश्चेष्टेन्द्रियतादयः ॥स्र्स्_२।११६॥ ५९

यथा-
काये सीदति कण्ठ-रोधिनि कफे कुण्ठे च वाणी-पथे
जिह्मायां दृशि जीविते जिगमिषौ श्वासे शनैः शाम्यति ।
आगत्य स्वयम् एव नः करुणया कात्यायनी-वल्लभः
कर्णे वर्णयताद् भवार्णव-भयाद् उत्तारकं तारकम् ॥स्र्स्_२।११७॥

द्वितीयं घात-पतन-दोहोद्बन्ध-विषादिजम् ।
तत्र घातादिजे भूमि-पतन-क्रन्दनादयः ॥स्र्स्_२।११८॥ ६०

यथा अभिराम-राघवे-
आर्य-शर-पात-विवराद् उद्बुद्बुद-फेनिलास्र-कर्दमिता ।
अपतन् न चलति किञ्चिद् विकृताकृतिर् अद्य वज्र-निहतेव ॥स्र्स्_२।११९॥

विषं तु वत्सनाभाद्यम् अष्टौ वेगास् तद्-उद्भवाः ।
कार्ष्ण्यं कम्पो दाहो हिक्का फेनश् च कन्धर-भङ्गः । ६१
जडता मृतिर् इति कथिता क्रमशः प्रथमाद्या वेगजाश् चेष्टाः ॥स्र्स्_२।१२०॥

यथ प्रिय-दर्शिकायां (४।९)-
एषा म्लीअयतीदम् अक्षि-युगलं जाता ममान्धा दिशः
कण्ठोऽ स्या उपरुध्यते मम गिरो निर्यान्ति कृच्छ्राद् इमाः ।
एतस्याः श्वसितं हृतं मम तनुर् निश्चेष्टताम् आगता
मन्येऽ स्याः विष-वेग एव हि परं सर्वं तु दुःखं मयि ॥स्र्स्_२।१२१॥

अत्राक्षि-निमीलन-कण्ठ-रोधन-निःश्वासायासादिभिर् आरण्यिकाया विष-वेग-जनिता मृतिर् अवगम्यते ।

अथ (१६) आलस्यम्-
स्वभाव-श्रम-सौहित्य-गर्भ-निर्भरतादिभिः । ६२
कृच्छ्रात् क्रियोन्मुखत्वं यत् तद् आलस्यम् इह क्रियाः ॥स्र्स्_२।१२२॥
अङ्ग-भङ्गः क्रिया-द्वेषो जृम्भणाक्षि-विमर्दने । ६३
शय्यासनैक-प्रियता तन्द्री-निद्रादयोऽ पि च ॥स्र्स्_२।१२३॥

स्वभाव-श्रमाभ्याम्, यथा-
मुहुर् इति वन-विभ्रमाभिषङ्गाद्
अतमि तदा नितरां नितम्बिनीभिः ।
मृदुतर-तनवोऽ लसाः प्रकृत्या
चिरम् अपि ताः किम् उत प्रयास-भाजः ॥स्र्स्_२।१२४॥ (शि।व। ७।६८)

सौहित्यं भोजनादि-तृप्तिः, तेन यथा-
त्रैलोक्याभय-लग्नकेन भवता वीरेण विस्मारितस्
तज्-जीमूत-मुहूर्त-मण्डन-धनुः-पाण्डित्यम् आखण्डलः ।
किं चाजस्र-मखार्पितेन हविषा सम्फुल्ल-मांसोल्लसत्
सर्वाङ्गीण-बली-विलुप्त-नयन-व्यूहः कथं वर्तते ॥स्र्स्_२।१२५॥ (अ।रा। १।२८)
अत्र मन्दो-वृद्ध्या शक्रस्य सौहित्यम् । तत्-कृतम् आलस्यं कथं वर्तते इत्य् अनेन वाग्-आरम्भेण व्यज्यते ।

गर्भ-निर्भरतया, यथा-
आसनैक-प्रियस्यास्याः सखी-गात्रावलम्बिनः ।
गर्भालसस्य वपुषो भारोऽ भूत् स्वाङ्ग-धारणम् ॥स्र्स्_२।१२६॥

अथ (१७) जाड्यम्-
जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठार्थयोः श्रुतेः । ६४
दृष्टेर् वा विरहादेश् च क्रियास् तत्रानिमेषता ।
अश्रुतिः पारवश्यं च तूष्णीम्-भावादयोऽ पि च ॥स्र्स्_२।१२७॥ ६५

इष्ट-श्रुतेर्, यथा-
प्रियेऽ परा यच्छति वाचम् उन्मुखी
निबद्ध-दृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकम् आहितं वृथा
न वेद पुष्पेषु च पाणि-पल्लवम् ॥स्र्स्_२।१२८॥ (किरातार्जुनीये ८।१५)

अत्र प्रिय-वाक्य-श्रवण-जनित-जाड्यम् अनिमेषत्वादिना व्यज्यते ।

प्रिय-दर्शनाद्, यथा-
एहै सो बि पौत्थो अहं अ कुप्पेज्ज सो बि अणुणेज्ज ।
इअ चिन्तेन्ती बहुआ दट्ठूण पिअं ण किं पि सम्मरै ॥स्र्स्_२।१२९॥ [*११]
[*११] पूर्वार्ध-मात्रं गाथा-सप्तशत्यां दृश्यते १।१७।

(एष्यति सोऽ पि प्रोषितः अहं च कुप्येयं सोऽ प्य् अनुनेष्यति ।
इति चिन्तयन्ती वधूर् दृष्ट्वा प्रियं न किम् अपि संस्मरति ॥)

अत्र प्रिय-दर्शन-जनितं जाड्यं पूर्व-चिन्तित-क्रिया-विस्मरणेन व्यज्यते ।

अप्रिय-श्रवणाद्, यथा-
आपुच्छन्तस्य बहू गमिदुं दैअस्स सुणिअ अद्धोत्तिम् ।
अणुमण्णिदुं न जाणै ण निवारेदुं परवसा उबह ॥स्र्स्_२।१३०॥

(आपृच्छमानस्य वधूर् गन्तुं दयितस्य श्रुत्वा अर्धोक्तिम् ।
अनुमन्तुं न जानाति न निवारयितुं पर-वशा पश्यत ॥)

अनिष्ट-दर्शनाद्, यथा-
ससुरेण डज्जमाणे घरणिअडभवे णिउञ्ज-पुञ्जम्मि ।
ण सुणै सुण्हा सुण्णा बहुसो कहिदं बि ससुराए ॥स्र्स्_२।१३१॥

(श्वशुरेण दह्यमाने गृह-निकट-भवे निकुञ्ज-पुञ्जे ।
न शृणोति स्नुषा शून्या बहुशः कथितम् अपि श्वश्र्वा ॥)

वियोगाद्, यथा-
पप्रच्छ पृष्टम् अपि गद्गदिकार्त-कण्ठः
शुश्राव नोक्तम् अपि शून्य-मनाः स किञ्चित् ।
सस्मार न स्मृतम् अपि क्षणम् आत्म-कृत्यं
श्रुत्वाहम् इत्य् उपगतोऽ पि न संविवेद ॥स्र्स्_२।१३२॥
(अभिनन्दस्य राम-चरिते १९।६१)

अत्र सीता-विरह-जनितं रावणस्य जाड्यं पुनः-प्रश्न-श्रुत्य्-आदिभिर् अवगम्यते ।

अथ (१८) व्रीडा-
अकार्य-करणावज्ञा-स्तुति-नूतन-सङ्गमैः ।
प्रतीकाराक्रियाद्यैश् च व्रीडत्वनतिधृष्टता ॥स्र्स्_२।१३३॥ ६६
तत्र चेष्टा निगूढोक्तिर् आधोमुख्य-विचिन्तने ।
अनिर्गमो बहिः क्वापि दूराद् एवावगुण्ठनम् । ६७
नखानां कृन्तनं भूमि-लेखनं चैवम् आदयः ॥स्र्स्_२।१३४॥

अकार्य-करणाद्, यथा-
गुर्व्-आदेशाद् एव निर्मीयमाणो
नाधर्माय स्त्री-वधोऽ पि स्थितोऽ यम् ।
अद्य स्थित्वा श्वो गमिष्यद्भिर् अल्पैर्
लज्जास्माभिर् मीलिताक्षैर् जितैव ॥स्र्स्_२।१३५॥ (अ।रा। २।५९)

अवज्ञया, यथा-
अवधूयारिभिर् नीता हरिणैस् तुल्य-वृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥स्र्स्_२।१३६॥
(किरातार्जुनीय ११।५८)

स्तुत्या, यथा-
तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥स्र्स्_२।१३७॥ (र।वम्। १५।२७)

नव-सङ्गमेन, यथा-
पटा-लग्ने पत्यौ नमयति मुखं जात-विनया
हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम् ।
न शक्नोत्य् आख्यातुं स्मित-मुख-सखी-दत्त-नयना
ह्रिया ताम्यत्य् अन्तः प्रथम-परिहासे नव-वधूः ॥स्र्स्_२।१३८॥ (अमरु। ३७)

प्रतीकाराकरणाद्, यथा-
उद्वृत्तारि-कृताभिमन्यु-निधन-प्रोद्भूत-तीव्र-क्रुधः
पार्थस्याकृत-शात्रव-प्रतिकृतेर् अन्तः शुचा मुह्यतः ।
कीर्णा बाष्प-कणैः पतन्ति धनुषि व्रीडा-जडा दृष्टयो
हा वत्सेति गिरः स्फुरन्ति न पुनर् निर्यान्ति कण्ठाद् बहिः ॥स्र्स्_२।१३९॥
(नारायणस्येति शार्ङ्गधर-पद्धतिः)

अथ (१९) अवहित्था-
अवहित्थाकार-गुप्तिर् जैह्म्य-प्राभव-नीतिभिः । ६८
लज्जा-साध्वस-दाक्षिण्य-प्रागल्भ्यापजयादिभिः ॥स्र्स्_२।१४०॥
अन्यथा-कथनं मिथ्या-धैर्यम् अन्यत्र वीक्षणम् । ६९
कथा-भङ्गादयोऽ प्य् अस्याम् अनुभावा भवन्त्य् अमी ॥स्र्स्_२।१४१॥

जैह्म्याद्, यथा-
लिङ्गैर् मुदः संवृत-विक्रियास् ते
ह्रदाः प्रसन्ना इव गूढ-नक्राः ।
वैदर्भम् आमन्त्र्य ययुस् तदीयां
प्रत्यर्प्य पूजाम् उपदाच्छलेन ॥स्र्स्_२।१४२॥ (र।वं ७।३०)

प्राभवाद्, यथा-
अनिर्भिन्नो गभीरत्वाद् अन्तर्गूढ-घन-व्यथः ।
पुट-पाक-प्रतीकाशो रामस्य करुणो रसः ॥स्र्स्_२।१४३॥ (उ।रा।च। ३।१)

नीत्या, यथा-
बहिः सर्वाकार-प्रवण-रमणीयं व्यवहरन्
पराभ्यूह-स्थानान्य् अपि तनुतराणि स्थगयति ।
जनं विद्वान् एकः सकलम् अतिसन्धाय कपटैस्
तटस्थः स्वान् अर्थान् घटयति च मौनं च भजते ॥स्र्स्_२।१४४॥
(मालती-माधवे १।१७)

लज्जया, यथा-
चिक्षेप् लक्ष्मीर् निटिलान् नखाग्रैः
प्रस्वेद-वार्यातपम् आक्षिपन्ती ।
जुगोप देवोऽ पि स रोमहर्षं
जडाब्धि-वाताहति-कैतवेन ॥स्र्स्_२।१४५॥ (कन्दर्प-सम्भव)

साध्वसेन, यथा-
श्रुत्वा दुःश्रवम् अद्भुतं च मिथिला-वृत्तान्तम् अन्तः-पतच्-
चिन्तापह्नव-सावहित्थ-वदन-त्वग्-विप्रकीर्ण-स्मितः ।
हेलाकृष्ट-सुरावरोध-रमणी-सीमन्त-सन्तानक-
स्रग्-वासोज्ज्वल-पाणिर् अप्य् अवति मां वत्सो न लङ्केश्वरः ॥स्र्स्_२।१४६॥ (अ।रा। ४।८)

दाक्षिण्याद्, यथा-
त्वय्य् अर्धासन-भाजि किं नर-गणोद्गीतैर् भवद्-विक्रमैर्
अन्तः-सम्भृत-मत्सरोऽ पि भगवान् आकार-गुप्तौ कृती ।
उन्मीलद्-भवदीय-दक्षिण-भुजा-रोमाञ्च-विद्धोच्चरद्-
बाष्पैर् एव विलोचनैर् अभिनयत्य् आनन्दम् आखण्डलः ॥स्र्स्_२।१४७॥ (अ।रा। १।२९)

प्रागल्भ्येन, यथा-
एकत्रासन-सङ्गतिः परिहृता प्रत्युद्गमाद् दूरतस्
ताम्बूलानयन-च्छलेन रभसाश्लेषोऽ पि संविघ्नितः ।
आलापोऽ पि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके- कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥स्र्स्_२।१४८॥ (अमरु। १८)

अथ (२०) स्मृतिः-
स्वास्थ्य-चिन्ता-दृढाभ्यास-सदृशालोकनादिभिः । ७०
स्मृतिः पूर्वानुभूतार्थ-प्रतीतिस् तत्र विक्रियाः ।
कम्पनोद्वहने मूर्ध्नो भ्रू-विक्षेपादयोऽ पि च ॥स्र्स्_२।१४९॥ ७१

स्वास्थ्येन, यथा-
रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान्
पर्युत्सुको भवति यत् सुखितोऽ पि जन्तुः ।
तच् चेतसा स्मरति नूनम् अबोध-पूर्वं
भाव-स्थिराणि जननान्तर-सौहृदानि ॥स्र्स्_२।१५०॥ (शक्। ५।२)

चिन्तया, यथा-
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्र-लेप-घटितेवान्तर्-निखातेव च ।
सा नश् चेतसि कीलितेव विशिखैश् चेतो-भुवः पञ्चभिश्
चिन्ता-सन्तति-तन्तु-जाल-निविड-स्यूतेव लग्ना प्रिया ॥स्र्स्_२।१५१॥ (मा।मा। ५।१०)

दृढाभ्यासेन, यथा-
तद् वक्त्रं नयने च ते स्मित-सुधा-मुग्धं च तद् वाचिकं
सा वेणी स भुज-क्रमोऽ तिसरलो लीलालसा सा गतिः ।
तन्वी सेति च सेति सेति सततं तद्-ध्यान-बद्धात्मनो
निद्रा नो न रतिर् न चापि विरतिः शून्यं मनो वर्तते ॥स्र्स्_२।१५२॥ (रस-कलिका, ३२)[*१२]
[*१२] थिस् वेर्से अप्पेअरेद् प्रेविओउस्ल्य् अफ़्तेर् कारिका २।५६अ।

सदृशालोकनेन, यथा-
आरक्त-राजिभिर् इयं कुसुमैर् नव-कन्दली सलिल-गर्भैः ।
कोपाद् अन्तर्-बाष्पे स्मरयति मां लोचने तस्याः ॥स्र्स्_२।१५३॥ [विक्रमोर्वशीय ४।१५]

अथ (२१) वितर्कः-
ऊहो वितर्कः सन्देह-विमर्ष-प्रत्ययादिभिः ।
जनितो निर्णयान्तः स्याद् असत्यः सत्य एव वा । ७२
तत्रानुभावाः स्युर् अमी भ्रू-शिरः- क्सेपणादयः ॥स्र्स्_२।१५४॥

सन्देह-प्रत्ययनाद्, यथा-
अङ्कं केऽ पि शशङ्किरे जल-निधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच् च सञ्जगदिरे भूमेश् च बिम्बं परे ।
इन्दौ यद् दलितेन्द्र-नील-शकल-श्यामं दरीदृश्यते
तन् मन्ये रवि-भीतम् अन्ध-तमसं कुक्षि-स्थम् आलक्ष्यते ॥स्र्स्_२।१५५॥

विमर्शो विचारः । तेन, यथा-
गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं
श्वसितम् अधिकं किं न्व् एतत् स्यात् किम् अन्यद् अतोऽ थ वा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
ललित-मधुरास् ते ते भावाः क्षिपन्ति च धीरताम् ॥स्र्स्_२।१५६॥

अत्र माधव-गतां चिन्ताम् उपलभ्य किम् अत्र कारणम् इति विमृशता मकरन्देन मन्मथ-निबन्धन एवायं भाव इति सत्य-निर्णयान्तो वितर्कः ।

अथ (२२) चिन्ता-
इष्ट-वस्त्व्-अपरिप्राप्तेर् ऐश्वर्य-भ्रंशनादिभिः । ७३
चिन्ता ध्यानात्मिका तस्याम् अनुभावा भवन्त्य् अमी ।
कार्श्याधोमुख्य-सन्ताप-निःश्वासोच्छ्र्वसनादयः ॥स्र्स्_२।१५७॥ ७४

इष्ट-वस्त्व्-अलाभेन, यथा-
ईसि-बलिआबणआ से कूणित-पक्खन्ततारअ त्थिमिआ ।
दिट्ठी कपोल-पाली णिहिआ कर-पल्लवे मनो सुण्णं ॥स्र्स्_२।१५८॥

[ईषद्-वलितावनताऽस्याः कूणित-पक्ष्मन्त-तारका स्तिमिता ।
दृष्टिः कपोल-पाली निहिता कर-पल्लवे मनः शून्यम् ॥]

ऐश्वर्य-नाशेन, यथा-
यमोऽ पि विलिखन् भूमिं दण्डेनास्तमित-त्विषा ।
कुरुतेऽ स्मिन्न् अमोघेऽ पि निर्वाणालात-लाघवम् ॥स्र्स्_२।१५९॥ [कु।सम्। २।२७]

अथ (२३) मतिः-
नाना-शास्त्रारथ-मथनाद् अर्थ-निर्धारणं मतिः ।
तत्र चेष्टास् तु कर्तव्य-करणं संशय-छिदा । ७५
शिष्योपदेश-भ्रू-क्षेपाव् ऊहापोहादयोऽ पि च ॥स्र्स्_२।१६०॥

यथा-
दशरथ-कुले सम्भूतं माम् अवाप्य धनुर्धरं
दिनकर-कुलास्कन्दी कोऽ यं कलङ्क-नवाङ्कुरः ।
इति न वनिताम् एतां हन्तुं मनो विचिकित्सते
यद् अधिकरणं धर्म-स्थीयं तवैव वचांसि नः ॥स्र्स्_२।१६१॥ (अ।रा। २।६२)

अथ (२४) धृतिः-
ज्ञान-विज्ञान-गुर्वादि-भक्ति-नानार्थ-सिद्धिभिः । ७६
लज्जादिभिश् च चित्तस्य नैस्पृह्यं धृतिर् उच्यते ॥स्र्स्_२।१६२॥
अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस् तथा । ७७
अप्राप्तातीत-नष्टार्थान् अभिसङ्क्षोभणादयः ॥स्र्स्_२।१६३॥

ज्ञानात्, यथा-
अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ॥स्र्स्_२।१६४॥ (वै।श। ५५)

विज्ञानाद्, यथा-
अस्त्य् अद्यापि चतुः-समुद्र-परिखा-पर्यन्तम् उर्वी-तलं
वर्तन्तेऽ पि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपाः ।
एकस् तत्र निरादरो भवति चेद् अन्यो भवेत् सादरो
वाग्-देवी वदनाम्बुजे वसति चेत् को नाम दीनो जनः ॥स्र्स्_२।१६५॥

गुरु-भक्त्या, यथा-
तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत् संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवन-त्रये धृतिर् असौ भुक्तोज्झिते या गुरोर्
आयासः खलु राज्यम् उज्झित-गुरोस् तत्रास्ति कश्चिद् गुणः ॥स्र्स्_२।१६६॥
(नागानन्द १।७)

नानार्थ-सिद्ध्या, यथा-
क्रोधान्धैः सकलं हतं रिपु-कुलं पञ्चाक्षतास् ते वयं
पाञ्चाल्या मम दुर्नयोपजनितस् तीर्णो निकारार्णवः ।
त्वं देवः पुरुषोत्तमः सुकृतिनं माम् आदृतो भाषसे
किं नामान्यद् अतः परं भगवतो याचे प्रसन्नाद् अहम् ॥स्र्स्_२।१६७॥
(वेणी-संहारः ६।४५)

अथ (२५) हर्षः-
मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः । ७८
मित्र-सङ्गम-देवादि-प्रसादादेश् च कल्पितः ॥स्र्स्_२।१६८॥
मनः-प्रसादो हर्षः स्याद् अत्र नेत्रास्य-फुल्लता । ७९
प्रियाभाषणम् आश्लेषः पुलकानां प्ररोहणम् ।
स्वेदोद्गमश् च हस्तेन हस्त-सम्पीडनादयः ॥स्र्स्_२।१६९॥ ८०

मनोरथस्य लाभेन, यथा-
निवात-पद्म-स्तिमितेन चक्षुषा
नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दु-दर्शनाद्
गुरुः प्रहर्षः प्रबभूव नात्मनि ॥स्र्स्_२।१७०॥ (र।वम्। ३।१७)

योग्य-वस्तु-सिद्ध्या, यथा-
स रागवान् अरुण-तलेन पाणिना
पुलोमजा-पद-तल-यावकैर् इव ।
हरिं हरिः स्तनित-गभीर-हेषितं
मुखे निरामिष-कठिने ममार्ज तम् ॥स्र्स्_२।१७१॥

अत्र उच्चैःश्रवसो लाभेन देवेन्द्रस्य हर्षः ।

मित्र-सङ्गमाद्, यथा-
इभ-कुम्भ-तुङ्ग-कठिनेतरेतर- स्तन-भार-दूर-विनिवारितोदराः ।
परिफुल्ल-गण्ड-फलकाः परस्परं परिरेभिरे कुकुर-कौरव-स्त्रियः ॥स्र्स्_२।१७२॥ (माघे १३।१६)

मित्र-सङ्गमः पूज्यादि-सङ्गमादीनाम् अप्य् उपलक्षणम् ।

पूज्य-सङ्गमेन, यथा-
युगान्त-काल-प्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासम् आसत ।
तनौ ममुस् तत्र न कटभ-द्विषस्
तपधनाभ्यागम-सम्भवा मुदः ॥स्र्स्_२।१७३॥ (शि।व। १।२३)

देव-प्रसादाद्, यथा-
तस्याः प्रसन्नेन्दु-मुखः प्रसादं
गुरुर् नृपाणां गुरवे निवेद्य ।
प्रहर्ष-चिह्नानुमितं प्रियायै
शशम्स वाचा पुनरुक्तयेव ॥स्र्स्_२।१७४॥ (र।वम्। २।६८)

आदि-शब्दाद् गुरु-राज-प्रसादादयः । गुरु-प्रसादाद्, यथा-
अस्मद्-गोत्र-महत्तरः क्रतु-भुजाम् अद्यायम् आद्यो रविर्
यज्वानो वयम् अद्य ते भगवती भूर् अद्य राजन्वती ।
अद्य स्वं बहु मन्यते सहचरैर् अस्माभिर् आखण्डलो
येनैतावद् अरुन्धती-पतिर् अपि स्वेनानुगृह्णाति नः ॥स्र्स्_२।१७५॥ (अ।रा। १।१८)

राज-प्रसादाद्, यथा-
प्रीतिर् अस्य ददतोऽ भवत् तथा
येन तत्-प्रिय-चिकीर्षवो नृपाः ।
स्पर्शितैर् अधिकम् आगमन् मुदं
नाधिवेश्म-निहितैर् उपायनैः ॥स्र्स्_२।१७६॥ (शि।व। १४।४७)

अथ (२६) औत्सुक्यम्-
कालाक्षमत्वम् औत्सुक्यम् इष्ट-वस्तु-वियोगतः ।
तद्-दर्शनाद् रम्य-वस्तु-दिदृक्षादेश् च तत्-क्रियाः ॥स्र्स्_२।१७७॥ ८१
त्वरानवस्थितिः शय्या-स्थितिर् उत्तान-चिन्तने ।
शरीर-गौरवं निद्रा-तन्द्रा-निःश्वसितादयः ॥स्र्स्_२।१७८॥ ८२

तत्र इष्ट-वस्तु-वियोगात्-
सङ्क्षिप्यन्ते क्षन इव कथं दीर्घ-यामा त्रियामा
सर्वावस्थास्व् अहर् अपि कथं मन्द-मन्दातपं स्यात् ।
इत्थं चेतश् चटुल-नयने दुर्लभ-प्रार्थनं मे
गाढोष्माभिः कृतम् अशरणं त्वद्-वियोग-व्यथाभिः ॥स्र्स्_२।१७९॥ [मे।दू। २।४८]

तत्र इष्ट-वस्तु-दर्शनात्-
आयाते दयिते मनोरथ-शतैर् नीत्वा कथञ्चिद् दिनं गत्वा वास-गृहं जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्य् अभिधाय सत्वर-पदं व्याधूय चीनांशुकं तन्वङ्ग्या रति-कातरेण मनसा नीतः प्रदीपः शमम् ॥१७९॥ [अमरु ७७]

रम्य-दिदृक्षया, यथा-
कृतावशेषेण सविभ्रमेण
निष्कीलितेनाध्वनि पूरितेन ।
प्रसाधनेनाच्युत-दर्शनाय
पुर-स्त्रियः शिश्रियिरे गवाक्षान् ॥स्र्स्_२।१८०॥

अथ (२७) औग्र्यम्-
अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः ।
असत्-प्रलापनाद्यैश् च कृतं चण्डत्वम् उग्रता ॥स्र्स्_२।१८१॥ ८३
क्रियास् तत्रास्य-नयन-रागो बन्धन-ताडने ।
शिरसः कम्पनं खेद-वध-निर्भर्त्सनादयः ॥स्र्स्_२।१८२॥ ८४

अपराधाद्, यथा-
प्रणयि-सखी-सलील-परिहास-रसाधिगतैर्
ललित-शिरीष-पुष्प-हननैर् अपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रम् उपक्षिपतः
पततु शरस्य् अकाण्डयम् अदण्डं इवैष भुजः ॥स्र्स्_२।१८३॥ (मा।मा। ५।३१)

अत्र मालती-निकार-रूपापराधाद् माधवस्यौग्र्यम् ।

अवमानाड्, यथा-
अज्ञात-पूर्वा द्विषताम् अवज्ञां
विज्ञापयन्तं प्रतिरुष्ट-चेताः ।
आज्ञा-हरं प्राज्ञ-विनिन्द्य-कर्मा
यज्ञाशि-वैरी गदया जघान ॥स्र्स्_२।१८४॥

चौर्याभिग्रहणाद्, यथा-
भुज-विटप-मदेन व्यर्थम् अन्धम्भविष्णुर्
धिग् अपसरसि चौरङ्कारम् आक्रुश्यमानः ।
त्वद्-उरसि विदधातु स्वाम् अवस्कार-केलिं
कुटिल-करज-कोटि-क्रूर-कर्मा जटायुः ॥स्र्स्_२।१८५॥ (अ।रा। ५।११)

असत्-प्रलापाद्, यथा-
कथम् अपि न निषिद्धो दुःखिना भीरुणा वा द्रुपद-तनय-पाणिस् तेन पित्रा ममाद्य ।
तव भुज-बल-दर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम् ॥स्र्स्_२।१८६॥ (वेणी-संहार ३।४०)

अथ (२८) अमर्षः-
अधिक्षेपावमानाद्यैः क्रोधोऽ मर्ष इतीर्यते ।
तत्र स्वेद-शिरः-कम्पाव् आधोमुख्य-विचिन्तने । ८५
उपायान्वेषणोत्साह-व्यवसादयः क्रियाः ॥स्र्स्_२।१८७॥

तत्र अधिक्षेपाद्, यथा-
इति भीष्म-भाषित-वचोऽ र्थम्
अधिगतवताम् इव क्षणात् ।
क्षोभम् अगमद् अतिमात्रम्
अथो शिशुपाल-पक्ष-पृथिवी-भृतां गणः ॥स्र्स्_२।१८८॥ (शि।व। १५।४७)

अवमानाद्, यथा-
ध्वंसेन हृदयं सद्यः परिभूतस्य मे परैः ।
यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥स्र्स्_२।१८९॥ (कि।अ। ११।५७)

अथ (२९) असूया-
पर-सौभाग्य-सम्पत्ति-विद्या-शौर्यादि-हेतुभिः । ८६
गुणेऽ पि दोषारोपः स्याद् असूया तत्र विक्रियाः ।
मुखापवर्तनं गर्हा भ्रू-भेदानादरादयः ॥स्र्स्_२।१९०॥ ८७

पर-सौभाग्येन, यथा-
मा गर्वम् उद्वह कपोल-तले चकास्ति
कान्त-स्वहस्त-लिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः ॥स्र्स्_२।१९१॥
(केशटस्येति सुभाषित-रत्न-कोशे)

पर-सम्पत्त्या, यथा-
लोकोपकारिणी लक्ष्मीः सतां विमल-चेतसाम् ।
तथापि तां विलोक्यैव दूयन्ते दुष्ट-चेतसः ॥स्र्स्_२।१९२॥

पर-विद्यया, यथा-
प्रत्यक्षादि-प्रभा-सिद्ध-विरुद्धार्थाभिधायिनः ।
वेदान्ता यदि शास्त्राणि बौद्धैः किम् अपराद्ध्यते ॥स्र्स्_२।१९३॥ (प्र।च। २।४)

यथा वा-
गुणाधारे गौरे यशसि परिपूर्णे विलसति
प्रतापे चामित्रान् दहति तव सिंह-क्षितिपते ।
नवैव द्रवाणीत्य् अकथयद् अहो मूढतम-धीश्
चतुर्धा तेजोऽ पि व्यभजत कणादो मुनिर् अपि ॥स्र्स्_२।१९४॥

अत्र प्रौढ-कवि-समय-प्रसिद्ध-मार्गानुसारिणो वक्तुः परिमित-द्रव्य-वादिनि कणादे महत्य् असूया मूढतम-धीर् इति वाग्-आरम्भेण व्यज्यते ।

पर-शौर्येण, यथा-
स्त्री-मात्रं ननु ताटका भृगु-सुतो रामस् तु विप्रः शुचिर्
मारीचो मृग एव भीति-भवनं वाली पुनर् वानरः ।
भोः काकुत्स्थ विकत्थसे किम् अथ वा वीरो जितः कस् त्वया
दोर्-दर्पस् तु तथापि ते यदि समं को-दण्डम् आरोपय ॥स्र्स्_२।१९५॥
(हनुमन्-नाटक १४।२१)

अथ (३०) चापल्यम्-
राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।
चेष्टास् तत्राविचारेण परिरम्भावलम्बने । ८८
निष्कासनोक्ति-पारुष्ये ताडनाज्ञापनादयः ॥स्र्स्_२।१९६॥

रागेण, यथा-
विजनम् इति बलाद् अमुं गृहीत्वा
क्षणम् अथ वीक्ष्य विपक्षम् अन्तिकेऽ न्या ।
अभिपतितु-मना लघुत्व-भीतेर्
अभवद् अमुञ्चति वल्लभेऽ तिगुर्वी ॥स्र्स्_२।१९७॥ (शि।व।, ७।५७)

द्वेषेण, यथा-
पादाघातैः सुरभिर् अभितः सत्वरं ताडनीयो
गाढामोदं मलय-मरुतः शृङ्खलादाम दत्त ।
कारागारे क्षिपत तरसा पञ्चमं राग-राजं
चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्ट-बिम्बम् ॥स्र्स्_२।१९८॥ (बाल-रामायण ५।४९)

अत्र सीता-विरहेण रावणस्य वसन्तादि-विषय-द्वेषेण तत्-तद्-अधिदेवतानां ताडना-ज्ञापनादिभिर् अनुभावैश् चापल्यं द्योत्यते ।

अथ (३१) निद्रा-
मद-स्वभाव-व्यायाम-निश्चिन्तत्व-श्रमादिभिः । ८९
मनो-निमीलनं निद्रा चेष्टास् तत्रास्य-गौरवम् ॥स्र्स्_२।१९९॥
आघूर्णमान-नेत्रत्वम् अङ्गानां परिमर्दनम् । ९०
निःश्वासोच्छ्वासने सन्न-गात्रत्वं नेत्र-मीलनम् ।
शरीरस्य च सङ्कोचो जाड्यं चेत्य् एवम् आदयः ॥स्र्स्_२।२००॥ ९१

मदाद्, यथा-
यस्मिन् महीं शंसति वाणिनीनां
निद्रां विहारार्ध-पथे गतानाम् ।
वातोऽ पि नास्रंसयद् अंशुकानि
को लम्बयेद् आहरणाय हस्तम् ॥स्र्स्_२।२०१॥ (र।वम्। ६।७५)

स्वभावाद्, यथा-
उत्तानाम् उपधाय बाहुलतिकाम् एकाम् अपाङ्गाश्रयाम्
अन्याम् अप्य् अलसां निधाय विपुलाभोगे नितम्ब-स्थले ।
नीवीं किञ्चिद् इव श्लथां विदधती निःश्वासम् उन्मुञ्चती
तल्पोत्पीडन-तिर्यग्-उन्नत-कुचा निद्राति शातोदरी ॥स्र्स्_२।२०२॥

व्यायामाद्, यथा-
अलस-लुलित-मुग्धान्यध्व-सञ्जात-खेदाद्
अशिथिल-परिरम्भैर् दत्त-संवाहनानि ।
परिमृदित-मृणाली-दुर्बलान्य् अङ्गकानि
त्वम् उरसि मम कृत्वा यत्र निद्राम् अवाप्ता ॥स्र्स्_२।२०३॥ (उ।रा।च। १।२४)

नैश्चिन्त्याद्, यथा-
दत्तेन्द्राभय-विभ्रमाद्भुत-भुजासम्भार-गम्भीरया
त्वद्-वृत्त्या शिथिलीकृतस् त्रिभुवन-त्राणाय नारायणः ।
अन्तस् तोष-तुषार-सौरभ-मय-श्वासानिलापूरण-
प्राणोत्तुङ्ग-भुजङ्ग-तल्पम् अधुना भद्रेण निद्रायते ॥स्र्स्_२।२०४॥ (अ।रा। १।२७)

श्रमाद्, यथा-
केवलं प्रियतमा-दयालुना
ज्योतिषाम् अवनतासु पङ्क्तिषु ।
तेन तत्-परिगृहीत-वक्षसा
नेत्र-मीलन-कुतूहलं कृतम् ॥स्र्स्_२।२०५॥ (कु।सम्। ८।८४)

अथ (३२) सुप्तिः-
उद्रेक एव निद्रायाः सुप्तिः स्यात् तत्र विक्रियाः ।
इन्द्रियोपरतिर् नेत्र-मीलनं स्रस्त-गात्रता । ९२
उत्स्वप्नायितनैश् चल्य-श्वासोच्छ्वासादयोऽ पि च ॥स्र्स्_२।२०६॥

यथा-
अव्यासुरन्तः-करुणारसार्द्रा
निसर्ग-निर्यन्-निगमान्त-गन्धा ।
श्वासानिलास् त्वां स्वपतो मुरारेः
शय्या-भुजङ्गेन्द्र-निपीत-शेषाः ॥स्र्स्_२।२०७॥

अथ (३३) बोधः-
स्वप्न-स्पर्शन-निध्वान-निद्रा-सम्पूर्णतादिभिः । ९३
प्रबोधश् चेतनावाप्तिश् चेष्टास् तत्राक्षि-मर्दनम् ॥स्र्स्_२।२०८॥
शय्याया मोक्षणं बाहु-विक्षेपोऽ ङ्गुलि-मोटनम् । ९४
शिरः-कण्डूयनं चाङ्ग-वलनं चैवम् आदयः ॥स्र्स्_२।२०९॥

स्वप्नाद्, यथा-
त्रिभाग-शेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ व्रजसीत्य् अलक्ष्य-वाग्
असत्य-कण्ठार्पित-बाहु-बन्धना ॥स्र्स्_२।२१०॥ (कु।सम्। ५।५७)

स्पर्शनाद्, यथा-
आघ्राय चाननम् अधिस्तनम् आयताक्ष्याः
सुप्तं तदा त्वरित-केलि-भुवा श्रमेण ।
प्राभातिकः पवन एष सरोज-गन्धी
प्राबोधयन् मणि-गवाक्ष-समागतो माम् ॥स्र्स्_२।२११॥

शब्दाद्, यथा-
उषसि स गज-यूथ-कर्ण-तालैः
पटु-पटह-ध्व्नैभिर् विनीत-निद्रः ।
अरमत मधुराणि तत्र शृण्वन्
विहग-विकूजित-वन्दि-मङ्गलानि ॥स्र्स्_२।२१२॥ (र।वम्। ९।७१)

निद्रा-सम्पूर्त्या, यथा-
ते च प्रापुर् उदन्वन्तं बुबुधे चादि-पूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्य-सिद्धेर् हि लक्षणम् ॥स्र्स्_२।२१३॥ (र।वम्। १०।६)

उत्तमाधम-मध्येषु सात्त्विका व्यभिचारिणः । ९५
विभावैर् अनुभावैश् च वर्णनीया यथोचितम् ॥स्र्स्_२।२१४॥ [*१३]
उद्वेग-स्नेह-दम्भेर्ष्या-प्रमुखाश् चित्त-वृत्तयः । ९६
उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥स्र्स्_२।२१५॥
[*१३] एद्। अद्द्स्: अनुक्त-चित्त-वृत्तीनाम् उक्तान्तर्भावः ।

तथा हि-पर-प्रतारण-रूप-दम्भस्य जिह्मतावहित्थायाम् अन्तर्-भावः । चित्त-द्रवता-लक्षणस्य स्नेहस्य हर्षेऽ न्तर्भावः । स्व-विषय-दान-मानाद्य्-अमर्षण-रूपाया ईर्ष्याया अमर्षेऽ न्तर्भावः । पर-विषयायास् त्व् असूयायाम् । उद्वेगस्य तु निर्वेद-विषादादिषु यथोचितम् अन्तर्भाव इत्य् आदि द्रष्टव्यम् । तथा च भाव-प्रकाशिका-कारः-
अन्येऽ पि यदि भावाः स्युश् चित्त-वृत्ति-विशेषतः ।
अन्तर्भावस् तु सर्वेषां द्रष्टव्यो व्यभिचारिषु ॥स्र्स्_२।२१६॥ इति ।

विभावाश् चानुभावाश् च ते भवन्ति परस्परम् । ९७
कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः ॥स्र्स्_२।२१७॥

तथा हि-सन्तापस्य दैन्यं प्रति विभावत्वं ग्लानिं प्रत्यनुभावत्वं च । प्रहारस्य प्रलय-मोहौ प्रति विभावत्वम् औग्र्यं प्रत्यनुभावत्वं च । विषादस्य उत्पातावेगं प्रत्यनुभावत्ं स्तम्भं प्रति विभावत्वम् । व्याधेर् ग्लानि-स्तम्भ-प्रलयादीन् प्रति विभावत्वम् ।

स्वातन्त्र्यात् पारतन्त्र्याच् च ते द्विधा व्यभिचारिणः । ९८
पर-पोषकतां प्राप्ताः परतन्त्रा इतीरिताः ।
तद्-अभावे स्वतन्त्राः स्युर् भावा इति च ते स्मृताः ॥स्र्स्_२।२१८॥ ९९

तत्र पारतन्त्र्येण निर्वेदो, यथा-
कुर्युः शस्त्र-कथाम् अमी यदि मनोर् वंशे मनुष्याङ्कुराः
स्याच् चेद् ब्रह्म-गणोऽ यम् आकृति-गणस् तत्रेष्यते चेद् भवान् ।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं
धिङ् मौर्वी-कुश-कर्षणोल्बण-किण-ग्रन्थिर् ममायं करः ॥स्र्स्_२।२१९॥ (अ।रा। ४।४४)

इत्य् अत्र निर्वेदस्य क्रोधाङ्गत्वम् ।

निर्वेदस्य स्वतन्त्रत्वम्, यथा-
प्राप्ताः श्रियः सकल-काम-दुधास् ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस् ततः किं
कल्पं स्थितास् तनुभृतां तनवस् ततः किम् ॥स्र्स्_२।२२०॥ [वै।श। ६७]

इत्यादि । अत्र निर्वेदस्यानन्याङ्गत्वात् स्वतन्त्रत्वम् ।

ननु निर्वेदस्य शान्त-रस-स्थायित्वं कैश्चिद् उक्तम् । तत् कथम् अस्य अन्य-रसोपकरणत्वम् इति चेद्, उच्यते । सति खलु ग्रामे सीमा-सम्भावना । स्थायित्वं नाम संस्कार-पाटवेन भावस्य (वासना-रूपेण स्थितस्य कारण-वशाद् उद्बोधितस्य) मुहुर् मुहुर् नवीभावः । तेन निर्वेद-वासना-वासितं भावक-चेतसि नैष्फल्याभिमतेषु विभावादिषु (भावकानां प्रथमं प्रवृत्तेर् एवासम्भवात्) तत्-सामग्री-फल-भूतस्य निर्वेदस्योत्पत्तिर् एव न सङ्गच्छते । किं पुनः स्थायित्वम् । किं च असति निर्वेद-स्थायिनि शान्त-रूपो भावकानाम् आस्वादश् चित्र-गत-कदली-फल-रसास्वाद-लम्पटानां राज-शुकानां विवेक-सहोदरो भवेद् इति कृतं संरम्भेण ।

विषादस्य परतन्त्रत्वम्, यथा-
वारं वारं तिरयति दृ;चाम् उद्गतो बाष्प-पूरस्
तत्-सङ्कल्पोपहित-जडिम-स्तम्भम् अभ्येति गात्रम् ।
सद्यः स्विद्यन्न् अयम् अविरतोत्कम्प-लोलाङ्गुलीकः
पाणिर् लेखा-विधिषु नितरां वर्तते किं करोमि ॥स्र्स्_२।२२१॥ (मा।मा। १।३८)

अत्र विषादस्य शृङ्गाराङ्गत्वम् । स्वतन्त्रत्वम्, यथा-

सञ्चारिणी दीप-शिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्र-मार्गाट्ट इव प्रपेदे
विवर्ण-भावं स स भूमि-पालः ॥स्र्स्_२।२२२॥ (र।वम्। ६।६७)

इत्य् अत्र विषादस्यानन्याङ्गत्वम् । एवम् अन्येषाम् अपि स्वतन्त्रत्व-परतन्त्रत्वे तत्र तत्रोहनीये ।

आभासता भवेद् एषाम् अनौचित्य-प्रवर्तिताम् ।
असत्यत्वाद् अयोग्यत्वाद् अनौचित्यं द्विधा भवेत् । १००
असत्यत्व-कृतं तत् स्याद् अचेतन-गतं तु यत् ॥स्र्स्_२।२२३॥

यथा-
कस् त्वं भोः, कथयामि दैव-हतकं मां विद्धि शाखोटकं वैराग्याद् इव वक्षि, साधु विदितम्, कस्माद् इदम्, कथ्यते ।
वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते न च्छायापि परोपकार-करणे मार्ग-स्थितस्यापि मे ॥स्र्स्_२।२२४॥

अत्र वृक्ष-विशेषत्वाद् अचेतने शाखोटके चित्त-विकारस्यासम्भवानुचितो निर्वेदोऽ यम् आभासत्वम् आपद्यते ।

अयोग्यत्व-कृतं प्रोक्तं नीच-तिर्यङ्-नराश्रयम् ॥स्र्स्_२।२२५॥ १०१

तत्र नीच-तिर्यग्-गतम्, यथा-
वेला-तटे प्रसूयेथा मा भूः शङ्कित-मानसा ।
मां जानाति समुद्रोऽ यं टिट्टिभं साहस-प्रियम् ॥स्र्स्_२।२२६॥

अत्र यदि समुद्र-वेलायां प्रसूये तर्हि उद्वेल-कल्लोल-मालाभिर् ममापत्यानि हृतानि भवेयुर् इति शङ्कितायां निज-गृहिण्यां कश्चित् टिट्टिभः पक्षि-विशेषो गर्वायते । तद् अयं गर्वो नीच-तिर्यग्-गतत्वाद् आभासो नातीव स्वदते ।

नीच-नराश्रयो, यथा-
अत्युत्तान-शयालुना कर-युग-प्राप्तोपधान-श्रिया
गन्धूरस्य तरोस् तले घुट-पुट-ध्वानानुसन्धायिभिः ।
दीर्घैः श्वास-भरैः सफूत्कृति-शतैर् आस्फोटितोष्ठ-द्वयं
तत्-पूर्वं कृषि-कर्मणि श्रमवता क्षुद्रेण निद्रायते ॥स्र्स्_२।२२७॥

उत्पत्ति-सन्धि-शावल्य-शान्तयो व्यभिचारिणाम् ।
दशाश् चतस्रस् तत्र उत्पत्तिर् भाव-सम्भवः ॥स्र्स्_२।२२८॥ १०२

यथा-
एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।
लीला-कमल-पत्राणि गणयामास पार्वती ॥स्र्स्_२।२२९॥ (कु।सम्। ६।८४)

अत्र लज्जायाः हर्षस्य वा समुत्पत्तिः ।

सरूपम् असरूपं वा भिन्न-कारण-कल्पितम् ।
भाव-द्वयं मिलति चेत् स सन्धिर् इति गीयते ॥स्र्स्_२।२३०॥ १०३

स्वरूपयोः सन्धिर्, यथा-
अरि-व्रजानाम् अनपोत-सिंह-
खड्ग-प्रहारैर् अवनि गतानाम् ।
प्रिया-जनाङ्क-प्रहिताङ्गकानां
भवन्ति नेत्रान्त-निमीलनानि ॥स्र्स्_२।२३१॥

अत्र नायक-खड्ग-प्रहार-प्रिया-जनाङ्ग-स्पर्शाभ्यां कल्पितयोः प्रतिनायकेषु मोहयोः सन्धिर् नेत्रान्त-निमीलनेन व्यज्यते ।

असरूपयोः सन्धिर्, यथा-
श्री-सिंह-भूप-प्रतिनायकानां
स्विद्यन्ति गात्रान्य् अतिवेपितानि ।
तत् तूर्य-संवादिषु गर्जितेषु
प्रियाभिर् आलम्बित-कन्धराणाम् ॥स्र्स्_२।२३२॥

अत्र गर्जितेषु नायक-सन्नाह-निःसाण-शङ्कयाङ्कुरितस्य प्रतिनायकानां त्रासस्य प्रियालिङ्गन-तरङ्गितस्य च हर्षस्य स्वेद-वेपथु-सादृश्य-कल्पित-संश्लेषः सन्धिः ।

अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते ॥स्र्स्_२।२३३॥ १०४अब्

यथा-
शुद्धान्तस्य निवारितोऽ प्य् अनुनयैर् निःशङ्कम् अङ्कूरितो
वृद्धामात्य-हितोपदेश-वचनै रुद्धोऽ पि वृद्धिं गतः ।
मानोद्रेक-तरुः प्रतिक्षिति-भुजाम् आमूलम् उन्मूल्यते
वाहिन्याम् अनपोत-सिंह-नृपतेर् आलोकितायाम् अपि ॥स्र्स्_२।२३४॥

अत्र हितोपदेशानादराधिरूढस्य प्रतिनायक-गतस्य गर्वस्य शान्तिर् आमूलम् उन्मूल्यत इति वाग्-आरम्भेण व्यज्यते ।

शवलत्वं तु भावानां सम्मर्दः स्यात् परस्परम् ॥स्र्स्_२।२३५॥ १०४

यथा-
को वा जेष्यति सोम-वंश-तिलकान् अस्मान् रण-प्राङ्गणे
हन्तास्मासु पराङ्मुखो हत-विधिः किं दुर्गम् अध्यास्महे ।
अस्मत्-पूर्व-नृपान् असौ निहतवान् दीर्घान् धिग् अस्मद्-भुजान्
किं वाक्यैर् अनपोत-सिंह-नृपतेः सेवैव कृत्यं परम् ॥स्र्स्_२।२३६॥

अत्र गर्व-विषादासूया-चिन्ता-स्मृत्य्-अमर्ष-निर्वेद-मतीनां सम्मर्दो भाव-शावल्यम् इत्य् उच्यते ।

दिग्-अन्तराल-सञ्चार-कीर्तिना सिंह-भूभुजा ।
एवं सञ्चारिणः सर्वे स-प्रपञ्चं निरूपिताः ॥स्र्स्_२।२३७॥ १०५

इति सञ्चारि-भावाः ।
अथ स्थायिनः-

सजातीयैर् विजातीयैर् भावैर् ये त्व् अतिरस्कृताः ।
क्ष्राब्धिवन् नयन्त्य् अन्यान् स्वात्मत्वं स्थायिनो हि ते ॥स्र्स्_२।२३८॥ १०६
भरतेन च ते कथिता रति-हासोत्साह-विस्मय-क्रोधाः ।
शोकोऽ थ जुगुप्सा भयम् इत्य् अष्टौ लक्ष्म वक्ष्यते तेषाम् ॥स्र्स्_२।२३९॥ १०७

तत्र रतिः-
यूनोर् अन्योन्य-विषया स्थायिनीच्छा रतिर् भवेत् ।
निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥स्र्स्_२।२४०॥ १०८
उपमाध्यात्म-विषयैर् एषा स्यात् तत्र विक्रियाः ।
कटाक्ष-पात-भ्रू-क्षेप-प्रिय-वाग्-आदयो मताः ॥स्र्स्_२।२४१॥ १०९

तत्र निसर्गेण रतिर्, यथा-

अलं विवादेन यथा श्रुतस् त्वया
तथाविधस् तावद् अशेषम् अस्तु सः ।
ममात्र भावैक-रसं मनः स्थितं
न काम-वृत्तिर् वचनीयम् ईक्षते ॥स्र्स्_२।२४२॥ (कु।सम्। ५।८२)

अत्र रूपादि-दृष्ट-कारण-निरपेक्षा पार्वत्याः रतिर् जन्मान्तर-वासना-रूपा निसर्गाद् एव भवति । अभियोगोऽ भिनिवेशः । तद्-एक-परत्वम् इति यावत् ।

तेन, यथा-
तन् मे मनः क्षिपति यत् सरस-प्रहारम्
आलोक्य माम् अगणित-स्खलद्-उत्तरीया ।
त्रस्तैक-हायन-कुरङ्ग-विलोल-दृष्टिः
साश्लिष्टवत्य् अमृत-संवलितैर् इवाङ्गैः ॥स्र्स्_२।२४३॥ (मा।मा। ४।८)

अत्रोत्तरीय-स्खलनादि-सूचितेन मदयन्तिका-प्रेमाभियोगेन मकरन्दस्य तत्र रतिर् उत्पद्यते ।

संसर्गेण, यथा-
उत्पत्तिर् देव-यजनाद् ब्रह्म-वादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिर् अस्यां स्नेहं करोति मे ॥स्र्स्_२।२४४॥ (म।वी।च। १।२१)

अत्र देव-यजन-जनकादि-सम्बन्ध-गौरवेण सीतायां रामस्य रतिः ।

अथ अभिमाणः । इदम् एव मम प्रियं नान्यद् इत्य् अभिप्रायोऽ भिमानः । तेन, यथा-
जगति जयिनस् ते ते भावा नवेन्दु-कलादयः
प्रकृति-मधुराः सन्त्य् एवान्ये मनो मदयन्ति ये । मम तु यद् इयं याता लोके विलोचन-चन्द्रिका
नयन-विषयं जन्मन्य् एकः स एव महोत्सवः ॥स्र्स्_२।२४५॥ (मा।मा। १।३९)

अत्र माधवस्य विल्चन-चन्द्रिका-नयन-महोत्सवाद्य्-अभिमानेन इतर-रमणीय-वस्तु-नैःस्पृह्येण च मालत्यां रतिः ।

उपमया, यथा-
अपि तुरग-समीपाद् उत्पतन्तं मयूरं
न स रुचिर-कलापं बाण-लक्ष्यीचकार ।
सपदि गत-मनस्कश् चित्र-माल्यानुकीर्णे
रति-विगलित-बन्धे केश-पाशे प्रियायाः ॥स्र्स्_२।२४६॥ (र।वम्। ९।६७)

अत्र मृगयान्तरितापि दशरथस्य प्रिया-विषया रतिस् तदीय-केश-कलाप-सदृश-केकि-कलाप-दर्शनेनोत्पद्यते ।

अध्यात्मं स्वात्म-प्रामाण्य-मात्रम् । तेन, यथा-
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयान् ।
बलवत् तु दूयमानं प्रत्याययतीव मे हृदयम् ॥स्र्स्_२।२४७॥ (शकु। ५।३१)

अत्र दुष्यन्तस्य निज-चित्त-सन्ताप-प्रत्ययेन शाप-विस्मृतायाम् अपि शकुन्तलायां रतिः ।

विषयाः शब्दादयः । तत्र शब्देन, यथा ममैव-
सखि मे नियति-हतायास्
तद्-दर्शनम् अस्तु वा मा वा ।
पुनर् अपि स वेणु-नादो
यदि कर्ण-पथे पतेत् तद् एवालम् ॥स्र्स्_२।२४८॥

अत्र प्राग्-अदृष्टेऽ पि कृष्णे वेणु-नादेन कामवल्ल्या रतिः ।

स्पर्शेन, यथा-
यद् अयं रथ-सङ्क्षोभाद् अंसेनांसो रथाङ्ग-सुश्रोण्याः ।
स्पृष्टः सरोम-विक्रियम् अङ्कुरितं मनोभवेनेव ॥स्र्स्_२।२४९॥ (वि।उ। १।११)

रूपेण, यथा-
अयं रामो नायं स तु जनक-धर्मं दलितवान्
अयं कामो नायं स तु मधुमदामोदित-मनाः ।
सखि ज्ञातं सोऽ यं युवति-नयनोत्पादन-फलं
निदानं भाग्यानां जयति खलु सिंह-क्षितिपतिः ॥स्र्स्_२।२५०॥

अत्र रामादि-स्मरण-हेतुना नायक-रूपातिशयेन कस्याश्चिद् रतिः ।

रसेन, यथा-
हरस् तु किञ्चित् परिलुप्त-धैर्यश्
चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमा-मुखे बिम्ब-फलाधरोष्ठे
व्यापारयामास विलोचनानि ॥स्र्स्_२।२५१॥ (कु।सम्। ३।६७)

अत्र यद्यपि सम्भोगात् प्राग्-अज्ञातस्याधर-रसस्य रसं प्रति विभावता न सङ्गच्छते, तथापि प्रसिद्देह्ः सम्भावितस्य रसस्यैव विभावत्वं बिम्ब-फलाधरोष्ठ इति पदेन व्यज्यते । अथवा समास्वादित-दाक्षायणी-बिम्बाधरस्य परमेश्वरस्य तद्-रसेनैव जननान्तर-सङ्गतायाम् अपि तस्यां रतिः ।

गन्धेन, यथा ममैव-
उन्मीलन्-नव-मालती-परिमल-न्यक्कार-बद्ध-व्रतैर्
आलोलैर् अलि-मण्डलैः प्रतिपदं प्रत्याशम् आसेवितः ।
अङ्गानाम् अभिजात-चम्पक-रुचाम् अस्या मृगाक्ष्या स्फुरन्-
नामोदोऽ यम् अदृष्ट-पूर्व-महिमा बध्नाति मे मानसम् ॥स्र्स्_२।२५२॥

अत्र पराशर-मुनि-प्रसादेन लब्धेन दिव्येन सत्यवती-शरीर-सौरभेण शन्तनोस् तस्यां रतिः ।

भोजस् तु सम्प्रयोगेण रतिम् अन्याम् उदाहरत् ॥स्र्स्_२।२५३॥ ११०अ

यथा-
उन्नमय्य सकच-ग्रहम् ओष्ठं
चुम्बति प्रियतमे हठ-वृत्त्या ।
हुं हुं मुञ्च म म मेति च मन्दं
जल्पितं जयति बाल-वधूनाम् ॥स्र्स्_२।२५४॥ (विज्जिकाया इदम् इति सुभाषितावलिः)

वाकृतं च तेनैव । अत्र तर्जनार्थमोक्षणार्थ-वारणार्थाणां मन्दं मण्दं प्रयोगान् मानवत्याः सम्प्रयोगे रत्य्-उत्पत्तिः प्रतीयत इति ।

सम्प्रयोगस्य शब्दादिष्व् अन्तर्भावान् न तन्-मतम् ॥स्र्स्_२।२५५॥ ११०

तथा हि-उक्तोदाहरणे मानवती-जल्पितस्य शब्द-रूपत्वम् एव । तथा च-

आअरपसारिओट्ठं अघडिअणासं अचुम्बिअणिडाकं ।
बण्णघिअलिप्पमुहिए तीए परिचुम्बणं भरिमो ॥स्र्स्_२।२५६॥ (गाथा १।२२)

[आदर-प्रसारितोष्ठम् अघटित-नासम् अचुम्बित-निटिलम् ।
वर्ण-घृत-लिप्त-मुख्यास् तस्याः परिचुम्बनं स्मरामः ॥]

इत्य् आदिषु चुम्बनादीनाम् अपि स्पर्शेष्व् अन्तर्-भावः ।

[अथ रत्य्-अवस्थाः]
अङ्कुर-पल्लव-कलिका-प्रस्पुनफलभोग-भाग् इयं क्रमशः ।
प्रेमा मानः प्रणयः स्नेहो रागोऽ नुरागश् च ॥स्र्स्_२।२५७॥ १११

अथ प्रेमा-
स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं ॥स्र्स्_२।२५८॥ ११२अ

यथा-
रथाङ्ग-नाम्नोर् इव भाव-बन्धनं
बभूव यत् प्रेम परस्पराश्रयम् ।
विभक्तम् अप्य् एक-सुतेन तत् तयोः
परस्परस्योपरि पर्यचीयत ॥स्र्स्_२।२५९॥ (रघु। ३।२४)

अत्र भेद-कारणे सुत-स्नेहे सत्य् अपि सुदक्षिणा-दिलीपयो रतेर् अपरिहाणेन भेद-रहितत्वम् ।

[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते-

चिर-विरहिणोर् उत्कण्ठार्ति-श्लथीकृत-गात्रयोर्
नवम् इव जगज् जातं भूयश् चिराद् अभिनन्दतोः ।
कथम् अपि दिने दीर्घे याते निशाम् अधिरूढयोः
प्रसरति कथा बह्वी यूनोर् यथा न तथा रतिः ॥ (अमरु। ३९)]

अथ मानः-
यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् । ११२
बह्नाति भाव-कौटिल्यं सोऽ यं मान इतीर्यते ॥स्र्स्_२।२६०॥

यथा-
व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिद् उन्मनाः
प्रियं जघानोन्नत-पीवर-स्तनी ॥स्र्स्_२।२६१॥ (किराट ८।१९)

अत्रापराध-सम्भावनायाम् अपि प्रेम-कल्पित-स्वातन्त्र्येण अवज्ञा-रूपं चित्त-कौटिल्यम् ।

[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते-

मुञ्च कोपम् अनिमित्त-लोचने
सन्ध्यया प्रणमितोऽ स्मि नान्यथा ।
किं न वेत्सि सहधर्म-चारिणं
चक्रवाक-सम-वृत्तिम् आत्मनः ॥ (कु।सम्। ८।५७)]

अथ प्रणयः-
बाह्यान्तरोपचारैर् यत् प्रेम-मानोपकल्पितैः । ११३
बध्नाति भाव-विश्रम्भं सोऽ यं प्रणय उच्यते ॥स्र्स्_२।२६२॥

यथा-
प्रतिश्रुतं द्यूत-पणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चित-भ्रूः ।
कण्ठं कराभ्याम् अवलम्ब्य तस्य
मुखं पिधत्ते स्वकपोलकेन ॥स्र्स्_२।२६३॥

अत्र भाव-बन्धनापराध-कौटिल्ययोर् अनुवृत्तौ कण्ठालम्बनादिनोपचारेण विस्रम्भः ।

[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते-

काञ्च्या गाढतरावरुद्ध-वसन-प्रान्ता किम्-अर्थं पुनर्
मुग्धाक्षी स्वपितीति तत्-परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुम् अपीह वारयति माम् इत्य् आहित-क्रोधया
पर्यस्य स्वपन-च्छलेन शयने दत्तोऽ वकाशस् तया ॥ (अमरु। १८)]

अथ स्नेहः-
विश्रम्भे परमां काष्ठाम् आरूढे दर्शनादिभिः । ११४
यत्र द्रवत्य् अन्तरङ्गं स स्नेह इति कथ्यते ॥स्र्स्_२।२६४॥

दर्शनेन, यथा कन्दर्प-सम्भवे-

उभे तदानीम् उभयोस् तु चित्ते
कदुष्ण-निःश्वास-चरिष्णुकेन ।
एकीकरिष्यन्न् अनुराग-शिल्पी
रागोष्मणैव द्रवताम् अनैषीत् ॥स्र्स्_२।२६५॥

अत्र लक्ष्मी-नारायणयोर् अन्योन्य-दर्शनेनान्तः-करण-द्रवीभावः ।

स्पर्शनेन, यथा-
गाढालिङ्गन-वामनीकृत-कुच-प्रोद्भिन्न-रोमोद्गमा
सान्द्र-स्नेह-रसातिरेक-विगलत्-श्रीमन्-नितम्बाम्बरा ।
मा मा मानद माति माम् अलम् इति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥स्र्स्_२।२६६॥ (अमरु ३६)

स त्रेधा कथ्यते प्रौढ-मध्य-मन्द-विभेदतः । ११५
प्रवासादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने ।
इतर-क्लेश-कारी यः स प्रौढः स्नेह उच्यते ॥स्र्स्_२।२६७॥ ११६

यथा-
एतस्मान् मां कुशलिनम् अभिज्ञान-दानाद् विदित्वा
मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः ।
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्
इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशी भवन्ति ॥स्र्स्_२।२६८॥ [मे।दू। २।५२]

अत्र प्रोषिते यक्षे स्नेह-जनितया तद्-अन्यासङ्ग-शङ्कया जनितः प्रिया-क्लेशः मय्य् अविश्वासिनी मा भूर् इति प्रत्याश्वासनेन व्यज्यते ।

अथ मध्यमः-
इतरानुभवापेक्षां सहते यः स मध्यमः ॥स्र्स्_२।२६९॥ ११७अ

यथा-
किं देव्याः कृत-दीर्घ-रोष-मुषित-स्निग्ध-स्मितं तन्-मुखं
किं वा सागरिकां क्रमोद्धत-रुषा सन्तर्ज्यमानां तथा ।
बद्ध्वा नीतम् इतो वसन्तकम् अहं किं चिन्तयाम्य् अद्य भोः
सर्वाकार-कृत-व्यथः क्षणम् अपि प्राप्नोमि नो निर्वृतिम् ॥स्र्स्_२।२७०॥ (रत्ना। ३।१९)

अत्र सागरिकानुभवापेक्षया राज-स्नेहो वासवदत्तायां मध्यमः ।

अथ मन्दः-
द्वयोर् एकस्य मानादौ तद् अन्यस्य करोति यः । ११७
नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते ॥२७०॥

यथा-
मन्ये प्रियाहृतमनास् तस्याः प्रणिपात-लङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यम् उपेक्षितुं कुपिता ॥स्र्स्_२।२७१॥ (मा।अ।मि। ३।२३)

अत्र कुपितायाम् इरावत्याम् उपेक्षापेक्षाभावस्य कथनेन राज्ञः स्नेहस् तद्-विषयो मन्दः । आदि-शब्दाद् अतिपरिचयादयः । यथा-

यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्
ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ
रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥स्र्स्_२।२७२॥

अत्र कस्याश्चित् स्वैरिण्या गृहिणीत्व-परिचयेन पति-दशां प्राप्तेऽ पि जारे उपेक्षापेक्षयोर् अभाव-कथनान् मन्दः स्नेहः ।

अथ रागः-
दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते । ११८
येन स्नेह-प्रकर्षेण स राग इति गीयते ॥स्र्स्_२।२७३॥
कुसुम्भ-नीली-मञ्जिष्ठ-राग-भेदेन स त्रिधा । ११९
कुसुम्भ-रागः स ज्ञेयो यश् चित्ते रज्यति क्षणात् ।
अतिप्रकाशमानोऽ पि क्षणाद् एव विनश्यति ॥स्र्स्_२।२७४॥ १२०

यथा-
बहु-बल्लहस्स जा होइ बल्लहा कहबि पञ्जदि अहाइं ।
सा किं छट्ठं मग्गई कत्तो मिट्ठं अ बहुअं अ ॥स्र्स्_२।२७५॥ (गाथा १।७२)

[बहु-वल्लभस्य या भवति वल्लभा कथम् अपि पञ्च-दिवसानि ।
सा किं षष्ठं मृगयते कुतो मृष्टं च बहुकं च ॥]

नीली-रागस् तु यः सक्तो नापैति न च दीप्यते ॥स्र्स्_२।२७६॥ १२१अ

यथा-
यदैव पूर्वे जनने शरीरं
सा दक्ष-रोषात् सुदती ससर्ज ।
तदा-प्रभृत्य् एव विमुक्त-सङ्गः
पतिः पशूनाम् अपरिग्रहोऽ भूत् ॥स्र्स्_२।२७७॥ (कु।सम्। ३।५३)

अत्र पशुपति-चित्त-रागः सती-सङ्गमाभाव-निश्चयेनापि नापैति । विषयाभावान् न प्रकाशते च ।

अचिरेणैव संसक्तश् चिराद् अपि न नश्यति । १२१
अतीव शोभते योऽ सौ माञ्जिष्ठो राग उच्यते ॥स्र्स्_२।२७८॥

यथा-
अद्वैतं सुख-दुःखयोर् अनुगतं सर्वास्व् अवस्थासु यद्
विश्रामो हृदयस्य यत्र जरसा यस्मिन्न् अहार्यो रसः ।
कालेनावरणात्ययात् परिणते यत् स्नेह-सारे स्थितं
भद्रं तस्य सुमानुषस्य कथम् अप्य् एकं हि तत् प्राप्यते ॥स्र्स्_२।२७९॥ (उ।रा।च। १।३८)

राग एव स्वयं वेद्य-दशा-प्राप्त्या प्रकाशितः । १२२
यावद्-आश्रय-वृत्तिश् चेद् अनुराग इतीरितः ॥२७९॥

यथा ममैव-
अश्रान्त-कण्ठकोद्गमम् अनवरत-स्वेदम् अविरतोत्कम्पम् ।
अनिश-मुकुलितापाङ्गं मिथुनं कलयामि तद्-अविनाभूतम् ॥स्र्स्_२।२८०॥

अत्र पार्वती-परमेश्वरयो रतिः शरीरैक्य-सम्बन्धेन यावद्-आश्रय-वृत्तिः अनुभूत-सर्व-रागोपप्लवतया स्व-संवेद्य-दशा-प्रकाशित-नित्य-भोग-रूपा अश्रान्त-रोमाञ्चादिभिर् अनुभावैर् व्यज्यते ।

अन्ये प्रीतिं रतेर् भेद्म् आमनन्ति न तन्-मतम् । १२३
असम्प्रयोग-विषया सेयं हर्षान् न भिद्यते ॥२८०॥

अथ हासः-
भाषणाकृति-वेषाणं क्रियायाश् च विकारतः । १२४
लौल्यादेश् च परस्थानाम् एषाम् अनुकृतेर् अपि ॥स्र्स्_२।२८१॥
विकारश् चेतसो हासस् तत्र चेष्टाः समीरिताः । १२५
दृष्टेर् विकारो नामौष्ठ-कपोल-स्पन्दनादयः ॥स्र्स्_२।२८२॥

भाषा-विकारो भाषणासम्बद्धत्वादिः । आकृति-विकृतिर् अतिवामन-दन्तुरत्वादिः । वेष-विकारो विरुद्धालङ्कार-कल्पना । क्रिया-विकारो विकट-गतित्वादिः । एषाम् उदाहरणानि कैशिक्यां शुद्ध-हास्यजे नर्मणि निरूपितानि द्रष्टव्यानि ।

लौल्याद्, यथा-
बालेय-तण्डुल-विलोप-कदर्थिताभिर्
एताभिर् अग्नि-शरणेषु सधर्मिणीभिः ।
उत्रासहेतुम् अपि दण्डम् उदस्यमानम्
आघ्रातुम् इच्छति मृगे मुनयो हसन्ति ॥स्र्स्_२।२८३॥ (अ।रा। २।२०)

अत्र मृगाणां सन्त्रासन-यष्टि-समाघ्राण-लौल्येन मुनीनां हासः ।

पुरानुकरणेन, यथा-
पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे
त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ।
इति स्खलित-जल्पितं मद-वशात् कुरङ्गीदृशः
प्रगे हसित-हेतवे सहचरीभिर् अध्यैयत ॥स्र्स्_२।२८४॥ (स।क।आ।)

अथ उत्साहः-
शक्तिर् धरिय-सहायाद्यैः फल-श्लाघ्येषु कर्मसु । १२६
सत्वरा मानसी वृत्तिर् उत्साहस् तत्र विक्रियाः ॥स्र्स्_२।२८५॥
कालाद्यवेक्षणं धैर्यं वाग्-आरम्भादयोऽ पि च । १२७
सहजाहार्य-भेदेन स द्विधा परिभाष्यते ॥स्र्स्_२।२८६॥

शक्त्या सहजोत्साहो, यथा-
अथो महेन्द्रं गिरिम् आरुरोह
वारां निधिं लङ्घयितुं हनूमान् ।
वामेतराक्षि-स्फुरणेन जान
कर-स्थितां राघव-कार्य-सिद्धिम् ॥स्र्स्_२।२८७॥

स एव धैर्येण, यथा-
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे
निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्तेति निरुन्धतः कपि-भटानस्योर्जितात्म-स्थितेः
सौमित्रेर् अधियुद्ध-भूमि गदिता वाचस् त्वया न श्रुताः ॥स्र्स्_२।२८८॥
अत्र रावण-शक्ति-प्रहारेण क्षीण-शक्तेर् अपि लक्ष्मणस्य धैर्य-जनितोत्साहः कपि-भटाश्वासनादिभिर् व्यज्यते ।

सहायेन सहजोत्साहो, यथा-
स गुप्त-मूल-प्रयत्नः शुद्ध-पार्ष्णिर् अयान्वितः ।
षड्-विधं बलम् आदाय प्रतस्थे विजिगीषया ॥स्र्स्_२।२८९॥ (र।वम्। ४।२६)

शक्त्याहार्योत्साहो, यथा-

हस्तालम्बितम् अक्ष-सूत्र-वलयं कर्णावतंसीकृतं
स्रस्तं भ्रू-युगम् उन्नमय्य रचितं यज्ञोपवीतेन च ।
सन्नद्धा जघने च वल्कल-पटी पाणिश् च धत्ते धनुर्
दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः ॥स्र्स्_२।२९०॥ (बा।रा। १।५३)

धैर्य-सहायाभ्याम् आहार्यो, यथा-

तव प्रसादात् कुसुमायुधोऽ पि
सहायम् एकं मधुम् एव लब्ध्वा ।
कुर्यां हरस्यापि पिनाक-पाणेर्
धैर्य-च्युतिं के मम धन्विनोऽ न्ये ॥स्र्स्_२।२९१॥ (कु।सम्। ३।१०)

अत्र स्वभाव-शक्ति-रहितस्य मन्मथस्य इन्द्र-प्रोत्साहन-जनितेन धैर्येण वसन्त-सहायेन चाहृतोत्साहो धैर्य-च्युति-चिकीर्षा-कथनाद् अभिव्यज्यते ।

अथ विस्मयः-
लोकोत्तर-पदार्थानां तत्-पूर्व-लोकनादिभिः । १२८
विस्तारश् चेतसो यस् तु विस्मयः स निगद्यते ।
क्रियास् तत्राक्षि-विस्तार-साधूक्ति-पुलकादयः ॥स्र्स्_२।२९२॥ १२९

यथा-
शिला कम्पं धत्ते शिव शिव वियुङ्क्ते कठिनताम्
अहो नारीच्छायाम् अयति वनिताभूयम् अयते ।
वदत्य् एवं रामे विवलित-मुखी बल्कलम् उरः-
स्थले कृत्वा बद्ध्वा कच-भरम् उदस्थाद् ऋषि-वधूः ॥स्र्स्_२।२९३॥

अथ क्रोधः-
वधावज्ञादिभिश् चित्त-ज्वलनं क्रोध ईरितः ।
एष त्रिधा भवेत् कोर्ध-कोप-रोष-प्रभेदतः ॥स्र्स्_२।२९४॥ १३०
वध-च्छेदादि-पर्यन्तः क्रोधः क्रूर-जनाश्रयः ।
अभ्यर्थनावधिः प्रायः कोपो वीर-जनाश्रयः ॥स्र्स्_२।२९५॥ १३१
शत्रु-भृत्य-सुहृत्-पूज्याश् चत्वारो विषयास् तयोः ।
मुहुर् दष्टोष्ठता भुग्न-भ्रुकुटी-दन्त-घट्टनम् ॥स्र्स्_२।२९६॥ १३२
हस्त-निष्पीडनं गात्र-कम्पः शस्त्र-प्रतीक्षणम् ।
स्व-भुजावेक्षणं कण्ठ-गर्जाद्याः शात्रव-क्रुधि ॥स्र्स्_२।२९७॥ १३३

वधेन शत्रु-विषय-क्रोधो, यथा-
कृतम् अनुमतं दृष्टं वा यैर् इदं गुरु-पातकं
मनुज-पशुभिर् निर्मर्यादैर् भवद्भिर् उदायुधैः ।
नरक-रिपुणा सार्धं तेषां सभीम् अकिरीटिनाम्
अयम् अहम् असृङ्-मेदो-मांसैः करोमि दिशां बलिम् ॥स्र्स्_२।२९८॥ (वे।सम्। ३।२४)

अवज्ञया शत्रु-विषय-क्रोधो, यथा-
श्रुति-शिखर-निषद्यावद्य-मान-प्रभावं
पशुपतिम् अवमन्तुं चेष्टते यस्य बुद्धिः ।
प्रलय-शमन-दण्डोच्चण्डम् एतस्य सोऽ हं
शिरसि चरणम् एनं पातयामि त्रि-वारम् ॥स्र्स्_२।२९९॥

अत्र परमेश्वरावज्ञया जनितो दक्ष-विषयो दधीचि-क्रोधः परुष-वाग्-आरम्भेण व्यज्यते ।

भृत्य-क्रोधे तु चेष्टाः स्युस् तर्जनं मूर्ध-धननम् ।
निर्भर्त्सनं च बहुधा मुहुर् निर्वर्णनादयः ॥स्र्स्_२।३००॥ १३४

यथा वीरानन्दे-
आधूत-मूर्ध-दशकं तरलाङुलीकं
रूक्षेक्षणं परुष-हुङ्कृति-गर्भ-कण्ठम् ।
पश्यन् निशाचर-मुखानि ततोऽ वतीर्णः
सौधात् प्लवङ्ग-पति-मुष्टि-हतो दशास्यः ॥स्र्स्_२।३०१॥

अत्र सुग्रीव-सम्पाते पलायितेषु भृत्येषु रावणस्य क्रोधो मूर्ध-धूननादिभिर् अनुभावैर् व्यज्यते ।

मित्र-क्रोधे विकाराः स्युर् नेत्रान्तः-पतद्-अश्रुता ।
तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर् मुहुः । १३५
मौनं विनम्र-मुखता भुग्न-दृष्ट्यादयोऽ पि च ॥स्र्स्_२।३०२॥

यथा ममैव-
सुभद्रायाः श्रुत्वा तद्-अनुमतिमत् तेन हरणं
कृतं कौन्तेयेन क्षुभित-मनसः स्तब्ध-वपुषः ।
नमद्-वक्त्राः स्वान्ते किम् अपि विलिखन्तोऽ तिकुटिलैर्
अपश्यन्न् उद्बाष्पैर् यदु-पतिम् अपाङ्गैर् यदु-भटाः ॥स्र्स्_२।३०३॥

अत्र सुभद्रा-हरणानुमत्या जनितः कृष्ण-विषयो यदूनां क्रोधः कुटिल-वीक्षणादिभिर् व्यज्यते ।

पूज्य-क्रोधे तु चेष्टाः स्युः स्व-निन्दा नम्र-वक्त्रता । १३६
अनुत्तर-प्रदानाङ्ग-स्वेद-गद्गदिकादयः ॥स्र्स्_२।३०४॥

यथा वीरानन्दे-
राम-प्रवास-जननीं जननीं विलोक्य
रूक्षं विवक्षुर् अपि गद्गदिकां दधानः ।
नम्राननः कुटिल-रज्यद्-अपाङ्ग-दृष्टिर्
जज्वाल चेतसि परं भरतो महात्मा ॥स्र्स्_२।३०५॥

शत्रु-क्रोधे तु चेष्टाः स्युर् भाव-गर्भित-भाषणम् । १३७
भ्रूभेद-निटिल-स्वेद-कटाक्षआरुणिमादयः ॥स्र्स्_२।३०६॥

यथा-
कोपेन प्रविधूत-कुन्तल-भरः सर्वाङ्गजो वेपथुः
किञ्चित् कोकनद-च्छदेन सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिम् इदं च वक्त्रम् अनयोर् भङ्गेन भीम-भ्रुवोश्
चन्द्रस्योद्भट-लाञ्छनस्य कमलस्योद्भ्रान्त-भृङ्गस्य च ॥स्र्स्_२।३०७॥
(उ।रा।च। ५।३६)

अत्र लवस्य चन्द्रकेतोश् च परस्पर-विषयः कोपो भ्रू-भेदादिभिर् व्यज्यते ।

भृत्यादि-कोप-त्रितये तत्-तत्-क्रोधादिताः क्रियाः ॥स्र्स्_२।३०८॥ १३८

अथ रोषः-
मिथः स्त्री-पुंसयोर् एव रोषह् स्त्री-गोचरः पुनः ।
प्रत्ययावधिर् अत्र स्युर् विकाराः कुटिलेक्षणम् । १३९
अधर-स्फुरणापाङ्ग-राग-निःश्वसितादयः ॥स्र्स्_२।३०९॥

यथा वीरानन्दे-
भ्रू-भङ्ग-भिन्नम् उपरञ्जित-लोचनान्तम्
आकम्पिताधरम् अतिश्वसितानुबन्धम् ।
पत्युर् मुखं क्षिति-सुता परिलोकयन्ती
कारा-विमुक्तिर् अपि कष्टतरेति मेने ॥स्र्स्_२।३१०॥

अत्र रावण-कारागार-शङ्कया जनितः सीता-विषयो रामस्य रोषो भ्रू-भङ्गादिभिर् अनुभावैर् व्यज्यते ।

प्रत्ययावधित्वम्, यथा-

दिष्ट्यार्ध-श्रुत-विप्रलम्भ-जनित-क्रोधाद् अहं नो गतो
दिष्ट्या नो परुषं रुषार्ध-कथिते किञ्चिन् मया व्याहृतम् ।
मां प्रत्याययितुं विमूढ-हृदयं दिष्ट्या कथान्तं गता
मिथ्या-दूषित-यानया विरहितं दिष्ट्या न जातं जगत् ॥स्र्स्_२।३११॥ (वे।सम्। २।१३)

अत्र स्वप्न-वृत्तान्त-श्रवण-भ्रान्ति-जनितस्य भानुमती-विषयकस्य सुयोधन-रोषस्य स्वप्न-शेष-श्रवण-जनित-प्रत्यय-कृता शान्तिः दिष्ट्येत्य्-आदि-वाग्-आरम्भेण व्यज्यते ।

द्वेधा निगदितः स्त्रीणां रोषः पुरुष-गोचरः । १४०
सपत्नी-हेतुर् आद्यः स्याद् अन्यः स्याद् अन्य-हेतुकः ॥स्र्स्_२।३१२॥
सपत्नी-हेतुको रोषो विप्रलम्भे प्रपञ्च्यते । १४१
अन्य-हेतु-कृते त्व् अत्र क्रियाः पुरुष-रोषवत् ॥स्र्स्_२।३१३॥

यथा-
मय्य् एव विस्मरण-दारुण-चित्त-वृत्तौ
वृत्तं रहः-प्रणयम् अप्रतिपद्यमाने ।
भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिताक्ष्या
भग्नं शरासनम् इवातिरुषा स्मरस्य ॥स्र्स्_२।३१४॥ (शकु। ५।२३)

अत्र प्राक्तन-वृत्तान्तापह्नव-जनितो दुष्यन्त-विषयकः शकुन्तला-रोषो भ्रू-भङ्गादिभिर् अनुभावैर् व्यज्यते ।

अथ शोकः-
बन्धु-व्यापत्ति-दौर्गत्य्-अधन-नाशादिभिः कृतः । १४२
चित्त-क्लेश-भरः शोकस् तत्र चेष्टा विवर्णता ॥स्र्स्_२।३१५॥
बाष्पोद्गमो मुखे शोषः स्तम्भ-निःश्वसितादयः । १४३
उत्तमानम् अयं प्रौढो विभावैर् अन्य-संश्रितैः ॥स्र्स्_२।३१६॥
आत्म-स्थैर् अतिरूढोऽ पि प्रायः शौर्येण शाम्यति । १४४
तत्र चेष्टा गुणाख्यान-निगूढ-रुदितादयः ॥स्र्स्_२।३१७॥

पर-गत-विभावैर्, यथा-
देवो रक्षतु वः किलानन-परिव्याकीर्ण-चूडा-भरां
भर्तुर् भस्मनि पेतुषीं करतल-व्यामृष्ट-पार्श्व-क्षितिम् ।
हा प्राणेश्वर हा स्मरेति रुदतीं बास्पाकुलाक्षीं रतिं
दृष्ट्वा यस्य ललाट-लोचनम् अपि व्याप्ताश्रु निर्वापितम् ॥स्र्स्_२।३१८॥

अत्र रति-गत-शोच्य-दशा-विलोकनेन देवस्य शोको बाष्पोद्गमेन व्यज्यते ।

आत्म-गतैर्, यथा-
अयि कर्ण कर्ण-सुभगां प्रयच्छ मे
गिरम् उद्वमन्न् इव मुदं मयि स्थिराम् ।
सततावियुक्तम् अकृताप्रियं कथं
वृषसेन-वत्सल विहाय यासि माम् ॥स्र्स्_२।३१९॥ (वे।सम्। ५।१४)

स्याद् एष मृति-पर्यन्तः स्व-परस्थैस् तु मध्यमे । १४५
अनतिव्यक्त-रुदित-प्रमुखास् तत्र विक्रियाः ॥स्र्स्_२।३२०॥

स्वगतैर् मध्यमस्य, यथा करुणा-कन्दले-

न्यायोपाधिर् अयं यद् अश्रु-कणिका मुञ्चन्ति बन्धु-व्यये
रागोपाधिर् अयं त्यजन्ति विषयान् यज् ज्ञातयो दुस्त्यजान् ।
प्राणानां पुनर् उत्क्रमः किम् उपधिस् तत् केन विज्ञायते
देवं चानकदुन्दुभिं दशरथं चेक्ष्वाकु-वंश्यं विना ॥स्र्स्_२।३२१॥

अत्र वसुदेवस्य बन्धु-विपत्तिजः शोकः प्राणोत्क्रमणेन व्यज्यते ।

पर-गतैर्, यथा-
निर्भिद्यन्त इवाङ्गकान्य-सुहरैर् आक्रन्द-संस्तम्भनैः
कण्ठे गर्व-निरुद्ध-बाष्प-विगमे वाचां गतिर् गद्गदा ।
धावत्य् अन्तर-संस्तुतान् अपि जनान् कण्ठे ग्रहीतुं मनः
काष्ठा तस्य ममेदृशी यदुकुले कुल्यः कथं जीवति ॥स्र्स्_२।३२२॥ [*१४]
[*१४] करुणा-कन्दलाद् इति भाति ।

अत्र यदु-कुल-ध्वंसनेन नारदस्य शोकः ।

हेतुभिः स्वगतैर् एव प्रायः स्त्री-नीचयोर् अयम् । १४६
मरण-व्यवसायान्तस् तत्र भू-परिवेष्टनम् ।
उरस्ताडन-निर्भेद-पातोच्चै रोदनादयः ॥स्र्स्_२।३२३॥ १४७

अथ नीच-गतो, यथा करुणा-कन्दले-

कचैर् अर्ध-च्छिन्नैः कर-निहित-रक्तैः कुच-तटैर्
नखोत्कृत्तैर् गण्डैर् उपल-हति-शीर्णैश् च निटिलैः ।
विदीर्णैर् आक्रन्दाद् विकल-गदितैः कण्ठ-विवरैर्
मनस् तक्ष्णोत्यन्तः-पुर-परिजनानां स्थितिर् इयम् ॥स्र्स्_२।३२४॥

स्त्री-गतो, यथा-
अथ सा पुनर् एव विह्वला
वसुधालिङ्गन-धूसर-स्तनी ।
विललाप विकीर्ण-मूर्धजा
सम-दुःखाम् इव कुर्वती स्थलीम् ॥स्र्स्_२।३२५॥ [कु।सम्। ४।४]

अथ जुगुप्सा-
अहृद्यानां पदार्थानां दर्शन-श्रवणादिभिः ।
सङ्कोचनं यन् मनसह् सा जुगुप्सात्र विक्रियाः ॥स्र्स्_२।३२६॥ १४८
नासापिधानं त्वरिता गतिर् आस्य-विकूणनम् ।
सर्वाङ्ग-धूननं कुत्सा मुहुर् निष्ठीवनादयः ॥स्र्स्_२।३२७॥ १४९

अहृद्य-दर्शनाद्, यथा-
निष्टाप-स्विद्यद्-अस्थ्नः क्वथन-परिणमन् मेदसः प्रेतकायान्
आकृष्यासक्त-धूपान् अपि कुणप-भुजो भूयसीभ्यश् चिताभ्यः ।
उत्पक्व-स्रंसि मांस-प्रचलद्-उभयतः सन्धि-निर्मुक्त-माराद्
एते निश्चूष्य जङ्घान् अलकम् उदयिनीर् मज्ज-धाराः पिबन्ति ॥स्र्स्_२।३२८॥
(मा।मा। ५।१७)

अत्र जङ्घा-निश्चूषण-मज्ज-धारा-पानादि-जनिता पिशाच-विषया माधवस्य जुगुप्सा गर्हणेन एते कुणप-भुज इत्य् अनेन व्यज्यते ।

श्रवणाद्, यथा-
मेदो-मज्जा-शोणितैः पिच्छिलेऽ न्तस्
त्वक्-प्रच्छन्ने स्नायु-बद्धास्थि-सन्धौ ।
साधुर् देहे कर्म-चण्डाल-गेहे
बध्नात्य् उद्यत्-पूति-गन्धे रतिं कः ॥स्र्स्_२।३२९॥

अत्र कस्यचिद् वस्तु-तत्त्व-विचारागम-श्रवण-जनिता देहे जुगुप्सा-रूपा निन्दा व्यज्यते ।

घृणा शुद्धा जुगुप्सान्या दश-रूपे निरूपिता ।
सा हेय-श्रवणोत्पन्न-जुगुप्साया न भिद्यते ॥स्र्स्_२।३३०॥ १५०

अथ भयम्-
भयं तु मन्तुना घोर-दर्शन-श्रवणादिभिः ।
चित्तस्यातीव चाञ्चल्यं तत् प्रायो नीच-मध्ययोः ॥स्र्स्_२।३३१॥ १५१
उत्तमस्य तु जायेत कारणैर् अतिलौकिकैः ।
भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्र-कम्पनम् ॥स्र्स्_२।३३२॥ १५२
पलायनं परावृत्य वीक्षणं स्वात्म-गोपनम् ।
आस्य-शोषणम् उत्क्रोश-शरणान्वेषणादयः ॥स्र्स्_२।३३३॥ १५३

मन्तुर् अपराधः । तस्माद्, यथा-
विभूषण-प्रत्युपहार-हस्तम्
उपस्थितं वीक्ष्य विशाम्पतिस् तम् ।
सौपर्णम् अस्त्रं प्रतिसञ्जहार
प्रह्वेष्व् अनिर्बन्ध-रुषो हि सन्तः ॥स्र्स्_२।३३४॥ (र।वम्। १६।८०)

घोर-दर्शनाद्, यथा-
पराजितश् चोल-भयेन पाण्ड्यः
पलायमानो दिशि दक्षिणस्याम् ।
समाकुलो वारिनिधिं विगाह्य
सेतु-च्छिदं दाशरथिं निनिन्द ॥स्र्स्_२।३३५॥

अत्र युद्ध-संरम्भ-भीमस्य चोलस्य दर्शनात् पाण्ड्यस्य भयं पलायनादिभिर् व्यज्यते ।

घोर-श्रवणाद्, यथा-
श्रुत्वा निःसाण-राणं रण-भुवि भवतो माधव-क्ष्माधवेन्द्र
प्राप्य प्रत्यर्थि-वीराः कुल-शिखरि-गुहां गूढ-गाढान्धकाराम् ।
लीना लून-प्रतापा निज-कटक-मणि-श्रेणिकान्ति-प्रकर्ष-
स्रष्टारं नष्ट-धैर्याः कमल-भुवम् अहो हन्त निन्दन्ति मन्दम् ॥स्र्स्_२।३३६॥

अतिलौकिकात् कारणाद् उत्तमस्य, यथा-

अशक्नुवन् सोढुम् अधीर-लोचनः
सहस्र-रश्मेर् इव यस्य दर्शनम् ।
प्रविश्य हेमाद्रि-गुहा-गृहान्तरं
निनाय बिभ्यद् दिवसानि कौशिकः ॥स्र्स्_२।३३७॥ [माघ १।५३]

अत्र वर्णनीयतया उत्तम-रावणं प्रति देवेन्द्रस्य (भीतत्व-वर्णनात्) मध्यमत्वं (एवेति तस्य उत्तमत्वं कथम् इति) नाशङ्कनीयम् । यतः प्रकृतिर् एव कारणं पुंसाम् उत्तमत्वे । न तु वर्णना । वर्णनायाः कारणत्वे प्रियेण तस्यानपराध-बाधिताः (माघे १।६१) इत्य् आदिभिः औग्र्यादि-भाव-कथनम् (वर्णनीयतया) उत्तमस्य रावणस्य नोचितं स्यात् । तस्माद् उत्तम-प्रकृतेर् अपि देवेन्द्रस्य लोकातिरिक्त-वर-प्रभाव-भीषणाद् रावणाद् भयम् उपपद्यते ।

उत्तमस्यापि हेतुज-भयानङ्गीकारे-
विद्राणे द्रव्य-नाथे सवितरि तरले जात-शङ्के शशाङ्के
वैकुण्ठे कुण्ठ-गर्वे द्रवति मघवति क्लान्त-कान्तौ कृतान्ते ।
अब्रह्म्ण्यं ब्रुवाणे वियति शत-धृताव् उद्धृतैकाग्र-हस्ते
पायाद् वः काल-कूटं झटिति कवलयन् लीलया नील-कण्ठः ॥स्र्स्_२।३३८॥

इत्य् अत्र विद्राव-तारल्यादिभिर् उद्घोषितस्य द्रव्य-नाथ-सवित्रादि-गत-भयस्य अपलापः कथम् अभिधेयः । तद्-अपलापे च काल-कूट-भक्षणस्य सुकरत्वात् तत्-कार्य-निर्वहणैक-प्राणस्य नीलकण्ठ-प्रभावोत्कर्षस्य कथं मस्तकोन्नमनं स्यात् ।

हेतुजाद् इतरे प्रोक्ते भये सोढल-सूनुना ।
कृत्रिमं तूत्तम-गतं गुर्व्-आदीन् प्रत्यवास्तवम् ॥स्र्स्_२।३३९॥ १५४
विभीषिकोत्थं बालादेर् वित्रासितकम् इत्य् उभे ।
तत्रान्त्यम् अन्तर्भूतं स्याद् घोर-श्रवणजे भये ॥स्र्स्_२।३४०॥ १५५
भिक्षु-भल्लूक-चोरादि-सूचना-कल्पितत्वतः ।
आद्यं तु युक्ति-काक्ष्यायां भय-कक्ष्यां न गाहते ॥स्र्स्_२।३४१॥ १५६
गुर्व्-आदि-सन्निधौ यस्मान् नीचैः स्थित्य्-आदि-सूचितम् ।
भावो विनय एव स्याद् अथ स्यान् नाटके यदि ॥स्र्स्_२।३४२॥ १५७
अवहित्थतया तस्य भयत्वं दूरतो गतम् ।
अतो हेतुजम् एवैकं भयं स्याद् इति निश्चयः ॥स्र्स्_२।३४३॥ १५८

तथा च भारतीये-
एतत् स्वभावजं स्यात्
सत्त्व-समुत्थं तथैव कर्तव्यम् ।
पुनर् एभिर् एव भावैः
कृतकं मृदु-चेष्टितैः कार्यम् ॥स्र्स्_२।३४४॥ इति । (ना।शा। ६।७१)

ननु चात्र स्वभावजं कृतकं चेति द्विविधं भयं प्रतीयते । तस्मात् तद्-विरोध इति चेत्, मैवम् । भरताद्य्-अभिप्रायम् अजानतां पेलवोक्ति-मात्र-तात्पर्येण न शङ्कितव्यम् । तथा हि-यथा लोके मञ्जिष्ठादि-द्रव्यं सहजो रक्तिमा गाढतरं व्याप्नोति । एवं मध्य-नीचयोर् भयं स्वल्प-कारण-मात्रेऽ पि सहजवद् दृश्यत इति सहजम् इत्य् उपचर्यते । यथा कृतको लाक्षा-रसः प्रयत्न-सज्जितोऽ पि काष्ठादिकम् अन्तर् न व्याप्नोति, एवम् उत्तम-गतं भयम् इति अलौकिक-कारण-प्रकर्षेणापि कृतकवद् एव प्रतीयत इति कृतकम् इत्य् उपचर्यते । अन्यथा (तस्य वास्तवत्वे) स्वाभाविकस्य भयस्य दाम-दर्शनेऽ पि समुत्पत्ति-प्रसङ्गात् ।

ननु यदि स्वाभाविकं भयं (उत्तमस्य) न विद्यते (तर्हि)-

द्वारे नियुक्त-पुरुषानुमत-प्रवेशः
सिंहासनान्तिक-चरेण सहोपसर्पन् ।
तेजोभिर् अस्य विनिवारित-दृष्टि-पातैर्
वाक्याद् ऋते पुनर् इव प्रतिवारितोऽ स्मि ॥स्र्स्_२।३४५॥ (मा।अ।मि। १।१२)

इत्य् आदिषु कथं भयोत्पत्तिर् इति चेद् उच्यते । भीषणास् त्रिविधाः-आकृति-भीषणाः क्रिया-भीषणाः माहात्म्य-भीषणाश् चेति । तत्राकृति-भीषणाः रक्षः-पिशाचादयः । क्रिया-भीषणाः वीरभद्र-परशुराम-शार्दूल-वृकादयः । माहात्म्य-भीषणा देव-नरदेवादयः । ततोऽ त्र माहात्म्य-भीषण-राज-दर्शनाद् भयं नाट्याचार्यस्य (हर-दत्तस्य) जायते । न पुनः स्वभावात् । तद् एतन् निःशंशयं कृतम् अहो दुरासदो राज-महिमा इति पूर्व-वाक्यं ग्रथ्नता तेनैव कालिदासेनेति सर्वं कल्याणम् ।

भोजेनोक्ताः स्थायिनोऽ न्ये गर्वः स्नेहो धृतिर् मतिः ।
स्थास्नुर् एवोद्धत-प्रेयः शान्तोदात्त-रसेष्व् अपि । १५९
तत्र स्नेहो रतेर् भेदस् त्रिधा चेच्छात्म-तत्-कृतः ॥स्र्स्_२।३४६॥

तथा हि-इदं खलु तेनैव प्रेयो-रस-वादिना महाराजेनोदाहृतम्-

यद् एव रोचते मह्यं तद् एव कुरुते प्रिया ।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा ॥स्र्स्_२।३४७॥ इति ।

तेनैव व्याकृतं च-वत्सल-प्रकृतेर् धीर-ललित-नायकस्य प्रियालम्बन-विभावाद् उत्पन्नः स्नेहः स्थायि-भावो विषय-सौन्दर्यादिभिर् उद्दीपन-विभावैर् उद्दीप्यमानः समुपजायमानैर् मति-धृति-स्मृत्य्-आदिभिर् व्यभिचारि-भावैर् अनुभावैश् च प्रशंसादिभिः संसृज्यमानो निष्पन्नः प्रेयो-रस इति प्रतीयते । रति-प्रीत्योर् अपि चायम् एव मूल-प्रकृतिर् इष्यते ।
न तावद् अस्य स्नेहस्य रतिं प्रति मूल-प्रकृतित्वम् । रत्य्-अङ्कुर-दशायाम् अस्यासम्भवात् । सम्भोगेच्छा-मात्रं हि रतिः । सैव प्रेम-मान-प्रणयाख्याभिस् तिसृभिः पूर्व-दशाभिर् उत्कटीभूता चतुर्थ-दशायां चित्त-द्रवी-भाव-लक्षण-स्नेह-रूपताम् आप्नोति । तथा च भाव-प्रकाशिकायाम्-

इयम् अङ्कुरिता प्रेम्णा मानात् पल्लविता भवेत् ।
सकोरका प्रणयतः स्नेहात् कुसुमिता भवेत् ॥स्र्स्_२।३४८॥ इति ।

अतोऽ स्मिन्न् उदाहरणे स्नेहस्य रति-रूपेणैवास्वाद्यत्वं न पृथक् स्थायित्वेन । एवं च स्नेहस्य रति-भेदत्व-कथनात् प्रेयो-रसस्यापि शृङ्गाराद् अपृथक्त्वम् अर्थ-सिद्धम् ।

अन्ये पोषा-सहिष्णुत्वान् नैव स्थायि-पदोचिताः ॥स्र्स्_२।३४९॥ १६०

तथापि गर्व-स्थायित्वम् उदाहृतम्-

अपकर्ताहम् अस्मीति मा ते मनसि भूद् भयम् ।
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥स्र्स्_२।३५०॥
(स।क।आ।, काव्यादर्श २।२९३)

व्याकृतं च-अत्र मयापकारः कृत इति यत् ते चेतसि भयं तन् मा भूत् । मम खड्गः पराङ्मुखेषु न कदाचिद् अपि परहर्तुम् उत्सहत इति सर्वथैव रूढोऽ हङ्कारः प्रतीयते । सोऽ यं गर्व-प्रकृतिर् उद्धतो नाम रसो निष्पद्यते इति ।

न तावद् अत्र गर्वः । किं तु पूर्वम् अपकर्तारं पश्चाद् भीतं द्विषन्तम् अवलोक्य जातया सम-रवि-मुखं न हन्मि मा भैषीर् इति वाक्-सूचितया नीचे दयया कस्यचिद् वीर-सार्वभौमस्य शोभा नाम पौरुष-सात्त्विक-भावः प्रतीयते । यदि वा अभीतम् अपि शत्रुं भीतो यदि तर्हि पलायस्वेत्य् अधिक्षिपतीति गर्व इति चेद् अस्तु वा गर्वः । तथाप्य् असत्यभीतिकल्पना-रूप-चित्ताध्यवसाय-प्रकाशन-द्वारेण शत्रु-गत-क्रोधम् एव पुष्णाति । किं च विमुखाप्रहार-रूपात्म-सम्भावना-रूप-गर्वस्य असत्य-भीति-कल्पनोपबृंहणात् पोषो भावकानां वैरस्याय, न केवलं स्वादाभावायेति नास्मिन्न् उदाहरणे गर्वस्य स्थायित्वम् उपपद्यते ।

धृतेः स्थायित्वम् अपि तेनैवोदाहृतम्, तथा हि-

सर्वाः सम्पत्तयस् तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्-गूढ-पादस्य ननु चर्मास्तृतैव भूः ॥स्र्स्_२।३५१॥ (स।क।आ।) इति ।

व्याकृतं च । अत्र कस्यचिद् उपशान्त-प्रकृतेर् धीर-शान्त-नायकस्य अर्थोपगमन-मनोऽ नुकूल-दारादि-सम्पत्तेर् आलम्बन-विभाव-भूतायाः समुत्पन्नो धृति-स्थायि-भावो वस्तु-तत्त्वालोचनादिभिर् उद्दीपन-विभावैर् उद्दीप्यमानः समुपजायमान-स्मृति-मत्य्-आदिभिर् व्यभिचारि-भावैर् वाग्-आरम्भादिभिश् चानुभावैर् अनुषज्यमानो निष्पन्नः शान्तो रस इति गीयते । अन्ये पुनर् अस्य शमं प्रकृतिम् आमनन्ति । स तु धृतेर् एव विशेषो भविष्यतीति ।

अत्र तावद् अनुकूल-दार-सिद्धि-जनितायाः धृतेस् तु रति-परतन्त्रत्वम् आबाल-गोपाल-प्रसिद्धम् । ननु, वस्तुतत्त्वालोचनादिभिर् अस्याः स्थायित्वं कल्प्यते इति चेत्, न । नैःस्पृह्य-वासना-वासिते भावक-चित्ते विभावादिष्व् अपि नैःस्व्पृह्योन्मेषाद् धृतेर् मूल-च्छेद-प्रसङ्गात् । अर्थ-सम्पत्ति-जनिता धृतिस् तु अगृध्नु-लक्षण-लोकोत्तरत्व-प्राप्ति-व्यवसाय-रूपम् उत्साहम् अनुसरन्ती वीरोपकरणताम् आप्नोतीति नात्र धृतेः स्थायित्वम् । धृति-स्थायित्व-निराकरण-संरम्भेणैव नष्टस् तद्-विषयः शम-स्थायी कुत्र वा लीनो न ज्ञायते ।

मतेः स्थायित्वं तेनैवोदाहृतम् । तथा हि-

साधारण्यान् निरातङ्कः कन्याम् अन्योऽ पि याचते ।
किं पुनर् जगतां जेता प्रपौत्रः परमेष्ठिनः ॥स्र्स्_२।३५२॥ [म।वी।च। १।३१] इति ।

व्याकृतं च-रामस्य उदात्त-प्रकृतेर् निसर्गत एव तत्त्वाभिनिवेशिनी मतिर् नान्य-विषये प्रवर्तते । न च प्रवृत्ता उपरमति । सा च सीतेयं मम स्वीकार-योग्येत्य् एवं-रूपेण प्रवृत्ता रावण-प्रार्थना-लक्ष्मण-प्रोत्साहनाभ्याम् उद्दीप्यमाना समुपजायमान-चिन्ता-वितर्क-व्रीडावहित्थ-स्मृत्य्-आदिभिः कालोचितोत्तरानु-मीयमानैर् विवेक-चातुर्य-धैर्यौदार्यादिभिः संसृज्यमाना उदात्त-रस-रूपेण निष्पद्यते इति ।

अत्र तावत् सीता-विषया आत्म-स्वीकार-योग्यत्व-निश्चय-रूपा रामस्य मतिस् तु रतेर् उत्पत्ति-मात्र-कारणम् एव । तद्-अनिश्चये रतेर् अनौचित्यात् । अत्र कन्यायाः साधारण्य-निश्चयो मतिः । तस्याः स्थायित्वम् इच्छाम इति चेत्, न । सा हि रावण-विषय-लज्जासूया-दोष-निवारण-द्वारेण कार्य-करणापराङ्मुखीभाव-लक्षण-लोकोत्तर-तत्-प्राप्ति-व्यवसाय-रूपा रामोत्साहं भावकास्वाद-योग्यतया प्रोत्साहयति ।

तद् अष्टाव् एव विज्ञेयाः स्थायिनो मुनि-सम्मताः ।
स्थायिनोऽ ष्टौ त्रयस्त्रिंशच् चारिणोऽ ष्टौ च सात्त्विकाः ॥स्र्स्_२।३५३॥ १६१
एवम् एकोनपञ्चाशद् भावाः स्युर् मिलिता इमे ।
एवं हि स्थायिनो भावान् सिंह-भूपतिर् अभ्यधात् ॥स्र्स्_२।३५४॥ १६२
अथैषां रस-रूपत्वम् उच्यते सिंह-भूभुजा ।
विद्वन्-मानस-हंसेन रस-भाव-विवेकिना ॥स्र्स्_२।३५५॥ १६३
एते च स्थायिनः स्वैः स्वैर् विभावैर् व्यभिचारिभिः ।
सात्त्विकैश् चानुभावैश् च नटाभिनय-योगतः ॥स्र्स्_२।३५६॥ १६४
साक्षात्कारम् इवानीताः प्रापिताः स्वादु-रूपताम् ।
सामाजिकानां मनसि प्रयान्ति रस-रूपताम् ॥स्र्स्_२।३५७॥ १६५
दध्यादि-व्यञ्जन-द्रव्यैश् चिञ्चादिभिर् अथौषधैः ।
गुडादि-मधुर-द्रव्यैर् यथा-योगं समन्वितैः ॥स्र्स्_२।३५८॥ १६६
यद्वत् पाक-विशेषेण षाडवाख्यो रसः परः ।
निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः । १६७
सोऽ यम् आनन्द-सम्भेदो भावकैर् अनुभूयते ॥स्र्स्_२।३५९॥

ननु नायक-निष्ठस्य स्थायि-प्रकर्ष-लक्षणस्य रसस्य सामाजिकानुभव-योग्यता नोपपद्यते । अन्य-भवस्य तस्यान्यानुभवायोगात् इति चेत् सत्यम् । को वा नायक-गतं रसम् आचष्टे । तथा हि-स च नायको दृष्टः श्रुतोऽ नुकृतो वा रसस्याश्रयताम् आलम्बते । नाद्यः । साक्षाद् दृष्ट-नायक-रत्यादेर् व्रीडा-जुगुप्सादि-प्रतीप-फलत्वेन स्वादाभावात् । न द्वितीय-तृतीयौ । तयोर् अविद्यमानत्वात् । न ह्य् असति आश्रये तद्-आश्रितस्यावस्थानम् उपपद्यते ।

ननु भवतु नामैवम् । तथापि रसस्य नट-गतत्वे न सामाजिकानुभवानुपपत्तिर् इति चेत्, न । नटे रस-सम्भवः किम् अनुभावादि-सद्-भावेन विभावादि-सम्भवेन वा । नाद्यः, अभ्यास-पाटवादिनापि तत्-सिद्धेः । किं च सामाजिकेषु यथोचितम् अनुभाव-सद्भावेऽ पि त्वया तेषां रसाश्रयतानङ्गीकारात् । यदि विभावेन तत्रापि किम् अनुकार्य-मालविकादिना (उत) अनुकारिणा स्वकान्तादिना वा । नाद्यः, अनौचित्यात् । नापि द्वितीयः, नटे साक्षाद्-दृष्ट-नायकवद् अश्लीलता-प्रतीतेः ।

ननु, मालाविकादि-विभाव-विशेषस्यानौचित्यात् (स्व-वि-)भावस्यासन्निहितत्वात् (सन्निहितत्वेऽ पि साक्षाद्-दृष्ट-नायकवद् अश्लीलता-प्रतीतेः) च सामाजिकानाम् अपि नटवद् एव रसान् आश्रयत्वं प्रसज्यते इति चेत्, अत्र केचन समादधते-

विभावादि-भावानाम् अनपेक्षित-बाह्य-सत्त्वानां शब्दोपधानाद् एवासादित-सद्-भावानाम् अनुकार्यापेक्षया निःसाधारणानाम् अपि काव्ये नाट्ये च अभिधा-पर्यायेण साधारणीकरणात्मना भावना-व्यापारेण स्व-सम्बन्धितया विभावितानां साक्षाद् भावक-चेतसि विपरिवर्तमानानाम् आलम्बनत्वाद्य्-अविरोधाद् अनौचित्यादि-विप्लव-रहितः स्थायी निर्भरानन्द-विश्रान्ति-स्वभावेन भोगेन भावकैर् भुज्यते इति ।

अन्ये त्व् अन्यथा समाधानम् आहुः । लोके प्रमदादि-कारणादिभिः स्थाय्य्-अनुमाने अभ्यास-पाटववतां सहृदयानां काव्ये नाट्ये च विभावादि-पद-व्यपदेश्यैः (ममैवैते शत्रोर् एवैते तटस्थस्यैवैते न ममैवैते न शत्रोर् एवैते न तटस्थस्यैवैते इति सम्बन्ध-विशेष-स्वीकार-परिहार-नियमान् अध्यवसायात्) स्व-सम्बन्धित्वेन अन्य-सम्बन्धित्वेन च साधारण्यात् प्रतीतैर् अभिव्यक्तीभूतो वासनात्मतया स्थितः स्थायी रत्यादिः पानक-रस-न्यायेन चर्व्यमाणो लोकोत्तर-चमत्कार-कारी परमानन्दम् इव कन्दलयन् रस-रूपताम् आप्नोतीति ।

एवं च भुक्ति-व्यक्ति-पक्षयोर् उभयोर् अपि सामाजिकानां रसाश्रयत्वोपपत्तेर् अन्यतर-पक्ष-परिग्रहाग्रहाद् उदास्महे ।

प्रायेण भारतीय-मतानुसारिणां प्रक्रिया तु (इत्थम्)-लोके कारण-कार्य-सहकारिताम् उपगतैः काव्ये नाट्ये वा सरस-सूक्ति-सुधा-माधुरी-धुरीणैर् यथोक्ताभिनय-समेतैर् वा पदार्थत्वेन विभावानुभाव-सञ्चारि-व्यपदेशं प्रापितैः नायिका-नायक-चन्द्र-चन्द्रिका-मलयानिलादि-भ्रू-विक्षेप-कटाक्ष-पात-स्वेद-रोमाञ्चादि-निर्वेद-हर्षादि-रूपैर् वासनात्मकैर् आत्म-सम्बन्धित्वेनाभि-मतैर् भावैः धर्म-कीर्ति-रतानां षड्-अङ्ग-नाट्य-समय-ज्ञानां नाना-देश-वेष-भाषा-विचक्षणानां निखिल-कला-कलाप-कोविदानां सन्त्यक्त-मत्सराणां सकल-सिद्धान्त-वेदिनां रस-भाव-विवेचकानां काव्यार्थ-निहित-चेतसां सामाजिकानां मनसि मुद्रा-मुदित्र-न्यायेन विपरित्वर्तिताः वासिताश् चाभिवर्धिताः स्थायिनो भावाः (वाक्यार्थ-स्थानीयाः) काव्यार्थत्वेनाभिमताः बाह्यार्थावलम्बनात्मकाः सन्तो विकास-विस्तर-क्षोभ-विक्षेपात्मकतया विभिन्नाः तत्-तद्-रूपेण (रत्य्-उत्साहादि-रूपेण सामाजिकैः) आस्वाद्यमानाः परमानन्द-रूपताम् आप्नुवन्तीति सकल-सहृदय-संवेदन-सिद्धस्य रसस्य प्रमाणान्तरेण संसाधन-परिश्रमः श्रोतृ-जन-चित्त-क्षोभाय न केवलम्, प्रत्युत नोपयोगायेति प्रकृतम् अनुसरामः ॥

अष्टधा स च शृङ्गार-हास्य-वीराद्भुता अपि । १६८
रौद्रः करुण-बीभत्सौ भयानक इतीरितः ॥स्र्स्_२।३६०॥
एषूत्तरस् तु पूर्वस्मात् सम्भूतो विषमात् समः । १६९
बहु-वक्तव्यता-हेतोः सकलाह्लादनाद् अपि ॥स्र्स्_२।३६१॥
रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् । १७०
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥स्र्स्_२।३६२॥
नीता सदस्य-रस्यत्वं रतिः शृङ्गार उच्यते । १७१
स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते ॥स्र्स्_२।३६३॥
अयुक्तयोस् तरुणयोर् योऽ नुरागः परस्परम् । १७२
अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते ॥स्र्स्_२।३६४॥
स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते । १७३
पूर्वानुराग-मानौ च प्रवास-करुणाव् इति ॥स्र्स्_२।३६५॥

अत्रायम् अर्थः-नायिका-नायकयोः प्राग्-असङ्गतयोः सङ्गत-वियुक्तयोर् वा (परस्परम् अनुरक्तयोः) स्वोचित-विभावैर् अनुभाविश् चोपजायमानः परस्परानुरागोऽ न्यतरानुरागो वा स्वाभिलषितालिङ्गनादीनाम् अनवाप्तौ सत्याम् उत्पद्यमानैर् व्यभिचारिभिर् अनुभावैश् च प्रकृष्यमाणो विप्रलम्भ-शृङ्गार इत्य् आख्यायते । स च पूर्वानुरागादि-भेदेन चातुर्विध्यम् आपद्यते ।

तत्र पूर्वानुरागः-
यत् प्रेम सङ्गमात् पूर्वं दर्शन-श्रवणादिभिः । १७४
पूर्वानुरागः स ज्ञेयः श्रवणं तद्-गुण-श्रुतिः ॥स्र्स्_२।३६६॥

श्रवणेन पूर्वानुरागो, यथा-
साधु त्वया तर्कितम् एतद् एव
स्वेनानलं यत् किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं
मृषा-गिरं त्वां नृपतौ न कुर्याम् ॥स्र्स्_२।३६७॥ (नैषधीये ३।७७)

अत्र हंस-मुखान् नल-गुण-श्रवणेन दमयन्त्याः पूर्वानुरागः ।

प्रत्यक्ष-चित्र-स्वप्नादौ दर्शनं दर्शनं मतम् ॥३६७॥ १७५

प्रत्यक्ष-दर्शनाद्, यथा-
तं वीक्ष्य सर्वावयवानवद्यं
न्यवर्तनान्योपगमात् कुमारी ।
न हि प्रफुल्लं सहकारम् एत्य
वृक्षान्तरं काङ्क्षति षट्-पदाली ॥स्र्स्_२।३६८॥ (र।वम्। ६।६९)

चित्र-दर्शनेन, यथा-
लीलावधूत-कमला कलयन्ती पक्षपातम् अधिकं नः ।
मानसम् उपैति केयं चित्र-गता राजहंसीव ॥स्र्स्_२।३६९॥ (रत्नावली २।८)

अत्र चित्रगत-रत्नावली-दर्शनाद् वत्स-राजस्य पूर्वानुरागः ।

स्वप्न-दर्शनेन, यथा-
स्वप्ने दृष्टाकारा तम् अपि समादाय गतवती भवती ।
अन्यम् उपायं न लभे प्रसीद रम्भोरु दासाय ॥स्र्स्_२।३७०॥

अत्र काम् अपि स्वप्ने दृष्टवतः कस्यचिन् नायकस्य पूर्वानुरागः ।

यतः पूर्वानुरागोऽ यं सङ्कल्पात्मा प्रवर्तते ।
सोऽ यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥स्र्स्_२।३७१॥ १७६
पारतन्त्र्याद् अयं द्वेधा दैव-मानुष-कल्पनात् ।
तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥स्र्स्_२।३७२॥ १७७
निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रे प्रबोधता ।
विषादो जडतोन्मादो मोहो मरणम् एव च ॥स्र्स्_२।३७३॥ १७८

तत्र दैव-पारतन्त्र्येण, यथा-
शैलात्मजापि पितुर् उच्छिरसोऽ भिलाषं
व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।
सख्योः समक्षम् इति चाधिक-जात-लज्जा
शून्या जगाम भवनाभिमुखी कथञ्चित् ॥स्र्स्_२।३७४॥ (कु।सम्। ३।७५)

अत्र जनकाद्य्-आनुकूल्येऽ पि दैव-पारतन्त्र्येण पार्वत्याः पूर्वानुरागः ।

मानुष-पारतन्त्र्येण, यथा-

दुल्लहो पिओ मे तस्मिं भव हिअअ णिरासं
अम्मो अपङ्गो मे परिप्फुरै किं बि वामो ।
एसो सो चिर-दिट्ठो कहं उण दक्खिदब्बो
णाह मं पराहीणं तुइ परिगणअ सतिण्हं ॥स्र्स्_२।३७५॥ (मा।अ।मि। २।४)

[दुर्लभः प्रियो मे तस्मिन् भव हृदय-निरासं
अम्हो अपाङ्गो मे परिस्फुरति किम् अपि वामः ।
एष स चिर-दृष्टः कथं पुनर् द्रष्टव्यः
नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥]

अत्र (चतुष्पद-वस्तुके गीते) देवयानी-पारतन्त्र्येण शर्मिष्ठायाः ययाति-विषयः पूर्वानुरागः ।

एतस्मिन्न् अभिलाषादि मरणान्तम् अनेकधा ।
तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् दशा भवेत् ॥स्र्स्_२।३७६॥ १७९
तथापि प्राक्तनैर् अस्या दशावस्थाः समासतः ।
प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते ॥स्र्स्_२।३७७॥ १८०
अभिलाषश् चिन्तानुस्मृति-गुण-सङ्कीर्तनोद्वेगाः ।
सविलापा उन्माद-व्याधी जडता मृतिश् च ताः क्रमशः ॥स्र्स्_२।३७८॥ १८१

तत्र अभिलाषः-
सङ्गमोपाय-रचित-प्रारब्ध-व्यवसायतः ।
सङ्कल्पेच्छा-समुद्भूतिर् अभिलाषोऽ त्र विक्रियाः ॥स्र्स्_२।३७९॥ १८२
प्रवेश-निर्गमौ तूष्णीं तद्-दृष्टि-पथ-गामिनौ ।
राग-प्रकाशन-पराश् चेष्टाः स्वात्म-प्रसाधनम् । १८३
व्याजोक्तयश् च विजने स्थितिर् इत्य् एवम् आदयः ॥स्र्स्_२।३८०॥

यथा-
अलोलैश् च श्वास-प्रविदलित-लज्जा-परिमलैः
प्रमोदाद् उद्वेलैश् चकित-हरिणी-वीक्षण-सखैः ।
अमन्दैर् औत्सुक्यात् प्रणय-लहरी-मर्म-पिशुनैर्
अपाङ्गैः सिंह-क्ष्मा-रमणम् अबला वीक्षितवती ॥स्र्स्_२।३८१॥

अत्र राग-प्रकाशन-परैर् दृष्टि-विशेषैर् नायके कस्याश्चिद् अभिलाषो व्यज्यते ।

अथ चिन्ता-
केनोपायेन संसिद्धिः कदा तस्य समागमः । १८४
दूती-मुखेन किं वाच्यम् इत्य् आद्य् ऊहस् तु चिन्तनम् ॥स्र्स्_२।३८२॥
अत्र नीव्यादि-संस्पर्शः शय्यायां परिवर्तनम् । १८५
स-बाष्पाकेकरा दृष्टिर् मुद्रिकादि-विवर्तनम् ।
निर्लक्ष्य-वीक्षणं चैवम् आद्या विकृतयो मताः ॥स्र्स्_२।३८३॥ १८६

यथा-
उद्यानं किम् उपागतास्मि सुकृती देवो न किं दर्शितः
श्री-सिंहः स्व-सखी-मुखेन स कथं नेयः स किं वक्ष्यति ।
सिद्ध्येत् तेन कदा समागम इति ध्यानेन सव्याकुला
शय्यायां परिवर्तने श्वसिति च क्षिप्त्वा कपोलं करे ॥स्र्स्_२।३८४॥

अथ अनुस्मृतिः-
अर्थानाम् अनुभूतानां देश-कालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्याद् अनुस्मृतिः ॥स्र्स्_२।३८५॥ १८७
तत्रानुभावा निःश्वासो ध्याणं कृत्य-विहस्तता ।
शय्यासनादि-विद्वेष इत्य् आद्याः स्मर-कल्पिताः ॥स्र्स्_२।३८६॥ १८८

यथा-
आरामे रतिराज-पूजन-विधावासन्न-सञ्चारिणो
व्यापाराननपोत-सिंह-नृपते रागानुसन्धायकान् ।
स्मारं स्मारम् अमुं क्षणं शशिमुखी श्वासैर् विवर्णाधरा
नान्यत् काङ्क्षति कर्म कर्तुम् उचितं नास्ते न शेते क्वचित् ॥स्र्स्_२।३८७॥

अतह् गुण-कीर्तनम्-
सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् अत्र तु ।
रोमाञ्चो गद्गदा वाणी भाव-मन्थर-वीक्षणम् । १८९
तत्-सङ्ग-चिन्तनं सख्या गण्ड-स्वेदादयोऽ पि च ॥स्र्स्_२।३८८॥

यथा-
किं कामेन किम् इन्दुना सुरभिणा किं वा जयन्तेन किं
मद्-भाग्यआद् अनपोत-सिंह-नृपते रूपं मया वीक्षितम् ।
अन्यास् तत्-परिचर्ययेव सुदृशो हन्तेति रोमाञ्चिता
स्विद्यद्-गण्ड-तलं सगद्गद-पदं साख्याति सख्याः पुरः ॥स्र्स्_२।३८९॥

अथ उद्वेगः-
मनसः कम्प उद्वेगः कथितस् तत्र विक्रियाः । १९०
चिन्ता सन्ताप-निःश्वासौ द्वेषः शय्यासनादिषु ।
स्तम्भ-चिन्ताश्रु-वैवर्ण्य-दीनत्वादय ईरिताः ॥स्र्स्_२।३९०॥ १९१

यथा-
सेवाया अनपोत-सिंह-नृपतेर् यातेषु राजस्व् अथो
तत्-स्त्रीभिश् चिरयत् सुतेषु विलसच्-चेतः-समुद्भ्रान्तिभिः ।
निःश्वास-ग्लपिताधरं परिपतत्-संरुद्ध-बाष्पोदयं
कामं स्निग्ध-सखी-जने विरचिता दीना दृशोर् वृत्तयः ॥स्र्स्_२।३९१॥

अथ विलापः-
इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च ।
इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा ॥स्र्स्_२।३९२॥ १९२
इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः ।
तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् । १९३
क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः ॥स्र्स्_२।३९३॥

यथा-
अत्राभूद् अनपोत-सिंह-नृपतिस् तत्राहम् अस्मिन् लता-
कुञ्जे सादरम् ईक्षिताहम् इह मम् आनन्दयन् स स्मितैः ।
इत्य् आलापवती विलोकितम् अपि व्यालोकते सम्भ्रमाद्
यातं याति च सत्वरा तरु-तलं लीलात एकाकिनी ॥स्र्स्_२।३९४॥

अथ उन्मादः-
सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा । १९४
अतस्मिंस् तद् इति भ्रान्तिर् उन्मादो विरहोद्भवः ॥स्र्स्_२।३९५॥
तत्र चेष्टास् तु विज्ञेया द्वेषः स्वेष्टेऽ पि वस्तुनि । १९५
दीर्घं मुहुश् च निःश्वासो निर्निमेषतया स्थितिः ।
निर्निमित्त-स्मित-ध्यान-गान-मौनादयोऽ पि च ॥स्र्स्_२।३९६॥ १९६

औत्सुक्याद् अनपोत-सिंह-नृपतेर् आकारम् आलिख्य सा
निर्वर्ण्यायम् असौ मम प्रिय इति प्रेमाभियोग-भ्रमात् ।
आशूत्थाय ततोऽ पसृत्य तरसा किञ्चिद् विवृत्तानना
सासूयं सदर-स्मितं स-चकितं साकाङ्क्षम् आलोकते ॥स्र्स्_२।३९७॥

अथ व्याधिः-
अभीष्ट-सङ्गमाभावाद् व्याधिः सन्ताप-लक्षणः ।
अत्र सन्ताप-निःश्वासौ शीत-वस्तु-निषेवणम् ॥स्र्स्_२।३९८॥ १९७
जीवितोपेक्षणं मोहो मुमूर्षा धृति-वर्जनम् ।
यत्र क्वचिच् च पतनं स्रस्ताक्षत्वादयोऽ पि च ॥स्र्स्_२।३९९॥ १९८

यथा-
सङ्गत्याम् अनपोत-सिंह-नृपतेर् आसक्त-चेतो-गतैः
कन्दर्पानल-दीपितानि सुतनोर् अङ्गानि पर्याकुलाः ।
व्यालिम्पन् हिम-बालुका-परिचितैः श्री-गन्ध-सार-द्रवैः
सख्यः पाणि-तलानि पत्र-मरुता निर्वापयन्त्यो मुहुः ॥स्र्स्_२।४००॥

अथ जडता-
इदम् इष्टम् अनिष्टं तद् इति वेत्ति न किञ्चन ।
नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥स्र्स्_२।४०१॥ १९९
यत्र ध्यायति निःसञ्ज्ञं जडता सा प्रकीर्तिता ।
अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता । २००
अकाण्ड-हुङ्कृतिः स्तम्भो निःश्वास-कृशतादयः ॥स्र्स्_२।४०२॥

यथा-
सङ्कल्पैर् अनपोत-सिंह-नृपतौ संरूढ-मूलाङ्कुरैर्
आक्रान्ता तनुतां गता स्मर-शरैः शातेव शातोदरी ।
अस्मन्-मूलम् इदं तनुत्वम् इति किं लज्जालसे लोचने
प्राप्ते पक्ष्म-पुटावृतिं रतिपतेस् तत्-केतनं जृम्भताम् ॥स्र्स्_२।४०३॥

अथ मरणम्-
तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः । २०१
ततः स्यान् मरणोद्योगह् कामाग्नेस् तत्र विक्रियाः ॥स्र्स्_२।४०४॥
लीला-शुक-चकोरादि-न्यासः स्निग्ध-सखी-करे । २०२
कल-कण्ठ-कलालाप-श्रुतिर् मन्दानिलादरः ।
ज्योत्स्ना-प्रवेश-माकन्द-मञ्जरी-वीक्षणादयः ॥स्र्स्_२।४०५॥ २०३

यथा-
तन्वी दर्शन-सञ्ज्ञयैव लैत्काम् आपृच्छ्य संवर्धितां
न्यासीकृत्य च शारिकां परिजने स्निग्धे समं वीणया ।
ज्योत्स्नाम् आविशती विशारद-सखी-वर्गेण कर्णान्तिके
सिक्तेन ह्य् अनपोत-सिंह-नृपतेर् नाम्ना पुनर् जीविता ॥स्र्स्_२।४०६॥

अत्र केचिद् अभिलाषात् पूर्वम् इच्छोत्कण्ठा-लक्षणम् अवस्था-द्वयम् अङ्गीकृत्य द्वादशावस्था इति वर्णयन्ति । तत्रेच्छा पुनर् अभिलाषान् न भिद्यते । तत्-प्राप्ति-त्वरालक्षणा उत्कण्ठा तु चिन्तनान् नातिरिच्यते इत्य् उदासितम् ।

अथ मान-विप्रलम्भः-
मुहुः-कृतो मेति नेति प्रतिषेधार्थ-वीप्सया ।
ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥स्र्स्_२।४०७॥ २०४
सोऽ यं सहेतु-निर्हेतु-भेदाद् द्वेधात्र हेतुजः ।
ईर्ष्यया सम्भवेद् ईर्ष्या त्व् अन्यासङ्गिनि वल्लभे ॥स्र्स्_२।४०८॥ २०५
असहिष्णुत्वम् एव स्याद् दृष्टेर् अनुमितेः श्रुतेः ।
ईर्ष्या-माने तु निर्वेदावहित्थ-ग्लानि-दीनताः । २०६
चिन्ता-चापल्य-जडता-मोहाद्या व्यभिचारिणः ॥स्र्स्_२।४०९॥

तत्र दर्शनेर्ष्या-मानो, यथा-
पच्चक्ख-मन्तु-कारअ ज{इ} चुम्बसि मह इमे हद-कपोले ।
ता मज्झ पिअ-सहीए बिसेसओ कीस बिण्णओ ॥स्र्स्_२।४१०॥

[प्रत्यक्ष-मन्तु-कारक यदि चुम्बसि ममैमौ हत-कपोलौ ।
ततो मम प्रिय-सख्या विशेषकः कस्माद् विज्ञातः ॥]

अत्र नायिका-कपोल-चुम्बन-व्याजेन तत्-प्रतिबिम्बितां सखीं चुम्बति नायके तद्-ईर्ष्यया जनितो नायिका-मानः प्रत्यक्ष-मन्तुकारकेत्य् अनया सम्बुद्ध्या व्यज्यते ।

भोगाङ्क-गोत्र-स्खलनोत्स्वप्नैर् अनुमितिस् त्रिधा ॥स्र्स्_२।४११॥ २०७

भोगाङ्कानुमिति-जनितेर्ष्यमानो, यथा ममैव-

को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया ॥स्र्स्_२।४१२॥ [*१५]
[*१५] थिस् वेर्से अप्पेअरेद् प्रेविओउस्ल्य् इन् १।१२५।

अत्र मणि-मालिकादि-लक्षण-मदन-मुद्रानुमिति-प्रियापराध-जनितेर्ष्या-सम्भूतो मानः तत् साध्व् एव कृतम् इत्य् आदिभिर् विपरीत-लक्षणोक्तिभिर् व्यज्यते ।

गोत्र-स्खलनेन यथा ममैव-
नाम-व्यतिक्रम-निमित्त-रुषारुणेन
नेत्राञ्चलेन मयि ताडनम् आचरन्त्याः ।
मा मा स्पृशेति परुषाक्षर-वाद-रम्यं
मन्ये तद् एव मुख-पङ्कजम् आयताक्ष्याः ॥स्र्स्_२।४१३॥

उत्स्वप्नेर्ष्यया, यथा-
स्वप्न-कीर्तित-विपक्षम् अङ्गनाः
प्रत्यभित्सुर् अवदन्त्य एव तम् ।
प्रच्छदान्त-गलिताश्रु-बिन्दुभिः
क्रोध-भिन्न-वलयैर् विवर्तनैः ॥स्र्स्_२।४१४॥ (र।वम्। १९।२२)

श्रुतिः प्रियापराधस्य श्रुतिर् आप्त-सखी-मुखात् ॥स्र्स्_२।४१५॥ २०८अब्

श्रुति-जनितेर्ष्यया मानो, यथा-

अङ्गुल्य्-अग्र-नखेन बाष्य-सलिलं विक्षिप्य विक्षिप्य
किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेश-वचनैर् मानेऽ तिभूमिं गते
निर्विण्णोऽ नुनयं प्रति प्रियतमो मध्यस्थताम् एष्यति ॥स्र्स्_२।४१६॥ (अमरु। ५)

अत्र पिशुन-सखी-जनोपदेश-जनितो मानो बाष्पादिभिर् व्यज्यते ।

कारणाभास-सम्भूतो निर्हेतुः स्याद् द्वयोर् अपि । २०८
अवहित्थादयस् तत्र विज्ञेया व्यभिचारिणः ॥स्र्स्_२।४१७॥

तत्र पुरुषस्य, यथा-
लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राण-दयितो
निराहाराः सख्यः सतत-रुदितोच्छूण-नयनाः ।
परित्यक्तं सर्वं हसित-पठितं पञ्जर-शुकैस्
तवावस्था चेयं विसृज कठिने मानम् अधुना ॥स्र्स्_२।४१८॥ (अमरु। ७)

यथा वा-
अलिअ-पसुत्तअ विणिमीलिअच्छ देहि सुहअ मज्झ ओआसं ।
गण्ड-परिचुम्बणापुलैअङ्ग ण पुणो चिराइस्सं ॥स्र्स्_२।४१९॥ (गा।स। १।२०)

(अलीक-प्रसुप्त विनिमीलिताक्ष देहि सुभग ममावकाशम् ।
गण्ड-परिचुम्बना-पुलकिताङ्ग न पुनश् चिरयिष्यामि ॥)

अत्रालीक-स्वापाक्षि-निमीलनादि-सूचित-पुरुष-मान-कारणस्य प्रसाधन-गृह-व्यापार-निमित्तं विलम्बनस्याभासत्वम् ।

स्त्रिया, यथा-
मुञ्च कोपम् अनिमित्त-लोचने
सन्ध्यया प्रणमितोऽ स्मि नान्यथा ।
किं न वेत्सि सहधर्म-चारिणं
चक्रवाक-सम-वृत्तिम् आत्मनः ॥स्र्स्_२।४२०॥ (कु।सम्। ८।५७)

अत्र पार्वती-मान-कारणस्य परमेश्वर-कृत-सन्ध्या-प्रणामस्याभासत्वम् ।

ननु अलिअपसुत्तेत्य् अत्र गण्ड-परिचुम्बनस्य निषेधो नास्ति । एवं मुञ्च कोपम् इत्य् अत्र च निषेधो न श्रूयते । तत् कथम् अस्य निर्हेतुकस्य (मेति वा नेति वा निषेधाभावेऽ पि) मानत्वम् इति चेत् । मेति नेति वाचिक-निषेधस्य उपलक्सणत्वात् (अलिअपसुत्तेति) पूर्वस्मिन्न् उदाहरणे अप्रतिक्रियया चुम्बनानङ्गीकार-लक्षणो निषेधो विद्यत एव । अपरत्र (मुञ्च कोपम् इत्य् अत्र) पुनर् अनुत्तर-दानादिना अनङ्गीकार-लक्षणो निषेधो वक्तव्य एव ।

ननु निर्हेतुकस्य मानस्य भाव-कौटिल्य-रूप-मानस्य च को भेद इति चेद् उच्यते । निर्हेतुक-माने तु कोप-व्याजेन चुम्बनादि-विलम्बनात् प्रेम-परीक्षणं फलम् । भाव-कौटिल्य-माने तु चुम्बनाद्य्-अविलम्बः फलम् इति स्पष्ट एव तयोर् भेदः ।

निर्हेतुकः स्वयं शाम्येत् स्वयं ग्राहस्मितादिभिः ॥स्र्स्_२।४२१॥ २०९

यथा-
इदं किम् आर्येण कृतं ममाङ्गे
मुग्धे किम् एतद् रचितं त्वयेति ।
तयोः क्रियान्तेष्व् अनुभोग-चिह्नैः
स्मितोत्तरोऽ भूत् कुहनाविरोधः ॥स्र्स्_२।४२२॥

अत्र लक्ष्मी-नारायणयोर् अन्योन्य-मानस्य परस्पर-कृत-भोग-चिह्न-लक्षण-कारणाभास-जनितस्य स्मितोत्तरतया स्वयं शान्तिर् अवगम्यते ।

हेतुजस् तु शमं याति यथायोग्यं प्रकल्पितैः ।
साम्ना भेदेन दानेन नत्य्-उपेक्षा-रसान्तरैः । २१०
तत्र प्रियोक्ति-कथनं यत् तु तत् साम गीयते ॥स्र्स्_२।४२३॥

तत्र यथा ममैव-
अनन्य-साधारण एष दासः
किम् अन्यथा चेतसि शङ्कयेति ।
प्रिये वदत्य् आदृतया कयाचिन्
नाज्ञायि मानोऽ पि सखी-जनोऽ पि ॥स्र्स्_२।४२४॥

अत्र प्रिय-सामोक्ति-जनिता कस्याश्चिद् मान-शान्तिः सखी-जन-मानाद्य्-अज्ञान-सूचितैर् आलिङ्गनादिभिर् व्यज्यते ।

सख्यादिभिर् उपालम्भ-प्रयोगो भेद उच्यते ॥स्र्स्_२।४२५॥ २११

यथा-
विहायैतन् मान-व्यसनम् अनयोस् तन्वि कुचयोर्
विधेयस् ते प्रेयान् यदि वयम् अनुल्लङ्घ्य-वचसः ।
सखीभ्यः स्निग्धाभ्यो गिरम् इति निशम्यैण-नयना
निवापाम्भो दत्ते नयन-सलिलैर् मान-सुहृदे ॥स्र्स्_२।४२६॥

व्याजेन भूषणादीनां प्रदानं दानम् उच्यते ॥स्र्स्_२।४२७॥ २१२अब्

यथा-
मुहुर् उपहसिताम् इवालि-नादैर्
वितरसि नः कलिकां किम्-अर्थम् एनाम् ।
अधिरजनि गतेन धाम्नि तस्याः
शठः कलिर् एव महांस् त्वयाद्य दत्तः ॥स्र्स्_२।४२८॥ (शि।व। ७।५५)

नतिः पाद-प्रणामः स्यात् ॥स्र्स्_२।४२९॥ २१२च्

तया, यथा-
पिशुन-वचन-रोषात् किञ्चिद् आकुञ्चित-भ्रूः
प्रणमति निज-नाथे पाद-पर्यन्त-पीठम् ।
युवतिर् अलम् अपाङ्ग-स्यन्दिनो बाष्प-बिन्दून्
अनयत कुच-युग्मे निर्गुणां हार-वल्लीम् ॥स्र्स्_२।४३०॥

तूष्णीं स्थितिर् उपेक्षणम् ॥स्र्स्_२।४३१॥ २१२द्

यथा-
चरणोआसणिसण्णस्स तस्स भरिमो अणालबन्तस्स ।
पाअङ्गुट्ठाबेट्ठिअ केस-दिढाअड्ढण-सुहं ॥स्र्स्_२।४३२॥ (गाथा २।८)

[चरणावकाश-निषण्णस्य तस्य स्मरामोऽ नालपतः ।
पादाङ्गुष्ठावेष्ठित केश-दृढाकर्षण-सुखम् ॥]

अत्र शय्यायां चरणावकाश-स्थिति-मौनादिभिर् उपेक्षा । तया जनिता मानस्य शान्तिश् चरणाङ्गुष्ठ-वेष्टित-केश-दृढाकर्षणेन व्यज्यते ।

आकस्मिक-भयादीनां कल्पना स्यद् रसान्तरम् ।
यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा निगद्यते । २१३
अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् ॥स्र्स्_२।४३३॥

तेन मान-शान्तिर्, यथा-
मानम् अस्या निराकर्तुं पादयोर् मे पतिष्यतः ।
उपकाराय दिष्ट्यैतद् उदीणं घन-गर्जितम् ॥स्र्स्_२।४३४॥ (का।आ। २।२९०)

अत्र मान-प्रणोदन-घन-गर्जित-सन्त्रासस्य प्रिय-प्रयत्नैर् विना दैव-वशेन सम्भूतत्वाद् यादृच्छिकत्वम् ।

प्रत्युत्पन्न-धिया पुंसा कल्पितं बुद्धि-पूर्वकम् ॥स्र्स्_२।४३५॥ २१४

यथा-
लीला-तामरसाहतोऽ न्य-वनिता-निःशङ्क-दष्टाधरः
कश्चित् केसर-दूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाथ सा नतिम् ऋते तेनानिशं चुम्बिता ॥स्र्स्_२।४३६॥ (अमरु ७२)

अत्र मानापनोदनस्य प्रिय-त्रासस्य नेत्र-व्यावृत्ति-नटन-लक्षणतया नायकस्य प्रत्युत्पन्न-मत्या कल्पितत्वाद् बुद्धि-पूर्वकत्वम् ।

अथ प्रवासः-
पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।
चरण-व्यवधानं यत् स प्रवास इतीर्यते ॥स्र्स्_२।४३७॥ २१५
तज्-जन्यो विप्रलम्भोऽ पि प्रवासत्वेन सम्मतः ।
हर्ष-गर्व-मद-व्रीडा वर्जयित्वा समीरिताः ॥स्र्स्_२।४३८॥ २१६
शृङ्गार-योग्याः सर्वेऽ पि प्रवास-व्यभिचारिणः ।
कार्यतः सम्भ्रमाच् छापात् स त्रिधा तत्र कार्यजः ॥स्र्स्_२।४३९॥ २१७
बुद्धि-पूर्वतया यूनोः संविधान-व्यपेक्षया ।
वृत्तो वर्तिष्यमाणश् च वर्तमान इति त्रिधा ॥स्र्स्_२।४४०॥ २१८

धर्मार्थ-सङ्ग्रहाय बुद्धि-पूर्वो व्यापारः कार्यम् । तेन वृत्तो, यथा-

क्रिया-प्रबन्धाद् अयम् अध्वराणाम्
अजस्रम् आहूत-सहस्र-नेत्रः ।
शच्याश् चिरं पाण्डु-कपोल-लम्बान्
मन्दार-शून्यान् अलकांश् चकार ॥स्र्स्_२।४४१॥ (र।वम्। ६।२३)

अत्र पुरन्दरस्य पूर्वं शचीम् आमन्त्र्य पश्चाद् अध्वर-प्रदेश-गमनेन तयोः संविधान् अव्यपेक्षया (कार्यतो) विप्रलम्भस्य भूत-पूर्वत्वम् ।

वर्तिष्यमाणो, यथा-

भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां
तनुर् अपि न ते दोषोऽ स्माकं विधिस् तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां
प्रकृति-चपले का नः पीडा गते हत-जीविते ॥स्र्स्_२।४४२॥ (अमरु ३०)

वर्तमानो, यथा-
यामीति प्रिय-पुष्टायाः प्रियायाः कण्ठ-लग्नयोः ।
वचो-जीवितयोर् आसीत् पुरो निःसरणे रणः ॥स्र्स्_२।४४३॥

अथ सम्भ्रमात्-
आवेगः सम्भ्रमः सोऽ पि नैको दिव्यादिभेदतः ॥स्र्स्_२।४४४॥ २१९अ

तत्र दिव्यो, यथा-
तिष्ठेत् कोप-वशात् प्रभाव-पिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन् मयि पुनर्-भावार्द्रम् अस्या मनः ।
तां हर्तुं विबुध-द्विषोऽ पि न च मे शक्ताः पुरो-वर्तिनीं
सा चात्यन्तम् अगोचरं नयनयोर् यातेति कोऽ यं विधिः ॥स्र्स्_२।४४५॥ (वि।उ। ४।९)

अत्र विप्रलम्भस्य कारणान्तर-निरासेन कोऽ यं विधिर् इति विधेः कारणत्वाभिप्रायेण दिव्य-सम्भ्रम-जनितत्वं प्रतीयते ।

अथ शापः-
शापो वैरूप्यताद् रूप्य-प्रवृत्तेर् द्विविधो भवेत् । २१९
प्रवासः शाप-वैरूप्याद् अहल्या-गौतमादिषु ॥स्र्स्_२।४४६॥

ताद्रूप्येण, यथा-
कश्चित् कान्ता-विरह-गुरुणा स्वाधिकारात् प्रमत्तः
शापेनास्तङ्गमित-महिमा वर्ष-भोग्येण भर्तुः ।
यक्षश् चक्रे जनक-तनया-स्नान-पुण्योदकेषु
स्निग्ध-च्छाया-तरुषु वसतिं राम-गिर्य्-आश्रमेषु ॥स्र्स्_२।४४७॥ [मे।दू। १।१]

अथ करुण-विप्रलम्भः-
द्वयोर् एकस्य मरणे पुनर् उज्जीवनावधौ । २२०
विरहः करुणोऽ न्यस्य सङ्गमाशानुवर्तनात् ॥स्र्स्_२।४४८॥
करुण-भ्रम-कारित्वात् सोऽ यं करुण उच्यते । २२१
सञ्चारिणोऽ नुभावाश् च करुणेऽ पि प्रवासवत् ॥स्र्स्_२।४४९॥

यथा-
अथ मदन-वधूर् उपप्लवान्तं
व्यसन-कृशो प्रतिपालयां बभूव ।
शशिन इव दिवातनस्य रेखा
किरण-परिक्षय-धूसरा प्रदोषम् ॥स्र्स्_२।४५०॥ (कु।सम्। ४।४६)

अत्राकाश-सरस्वती-प्रत्ययेन रतेर् विप्रलम्भः कृशत्वाद्य्-अनुमितैर् ग्लान्य्-आदिभिः व्यभिचारि-भावैः पोषितः समय-परिपालनादिभिर् अनुभावैर् व्यज्यते ।

अत्र केचिद् आहुः-करुणो नाम विप्रलम्भ-शृङ्गारो नास्ति । उभयालम्बनस्य तस्य एकत्रैवासम्भवात् । यत्र त्व् एकस्यापाये सति तद्-इतर-गताः प्रलापादयो भवन्ति स शोकान् न भिद्यते इति । तद् अयुक्तम् । यत्र पुनर्-उज्जीवनेन सम्भोगो नास्ति, तत्र सत्यं शोक एव । यत्र सोऽ स्ति तत्र विप्रलम्भ एव । अन्यथा सम्भोग-शिरस्के अन्यतरापाय-लक्षणे वैरूप्य-शाप-प्रवासेऽ पि शोक-रूपत्वापत्तेः ।

नन्व् एवं प्रवास-करुणयोः को भेद इति चेद् उच्यते-शरीरेण देशान्तर-गमने प्रवासः । प्राणैर् देशान्तर-गमने करुण इति ।

अत्र केचिद् अयोग-शब्दस्य पूर्वानुराग-वाचकत्वं विप्रयोग-शब्दस्य मानादि-वाचकत्वं चाभिप्रेत्य अयोगो विप्रयोगश् चेति सम्भोगाद् अन्यस्य शृङ्गारस्य विभागम् आहुः । विप्रलम्भ-पदस्याप्रयोगे च कारणं ब्रुवते-(सङ्केत-स्थानम् आगमिष्यामीति) उक्त्वा सङ्केतम् अप्राप्तौ तद्-व्यतिक्रमे (ततो) नायिकान्तरानुसरणे च विप्रलम्भ-शब्दस्य (मुख्यः) प्रयोगः । वञ्चनार्थत्वात् तस्य । (अयोग-विप्रयोग-विशेषत्वाद् विप्रलम्भस्य तादृश-विशेषाभिधायकस्य विप्रलम्भ-शब्दस्य) तत्-सामान्याभिधायित्वे तु विप्रलम्भ-शब्दस्य उपचरितत्वापत्तेर् इति । तद् अयुक्तम् । चतुर्विधेऽ पि विप्रलम्भे वञ्चन-रूपस्यार्थस्य मुख्यत एव सिद्धेः । तथा च श्री-भोजः-

विप्रलम्भस्य यदि वा वञ्चनामात्र-वाचिनः ।
विना समासे चतुराश् चतुरोऽ र्थान् नियुञ्जते ॥स्र्स्_२।४५१॥
पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।
माने विरुद्धं तत् प्राहुः पुनर् ईर्ष्यायितादिभिः ॥स्र्स्_२।४५२॥
न्याविद्धं दीर्घ-कालत्वात् प्रवासे तत् प्रतीयते ।
विनिषिद्धं तु करुणे करुणत्वेन गीयते ॥स्र्स्_२।४५३॥ (स।क।आ। ५।६३,६५-६)

अथ सम्भोगः-
स्पर्शनालिङ्गनादीनाम् आनुकूल्यान् निषेवणम् । २२२
घटते यत्र यूनोर् यत् स सम्भोगश् चतुर्विधः ॥स्र्स्_२।४५४॥

अत्रायम् अर्थः-प्राग्-असङ्गतयोः सङ्गत-वियुक्तयोर् वा नायिका-नायकयोः परस्पर-समागमे प्राग्-उत्पन्ना तदानीन्तनी वा रतिः प्रेप्सितालिङ्गनादीनां प्राप्तौ सत्यां उपजायमानैर् हर्षादिभिः संसृज्यमाना चन्द्रोदयादिभिर् उद्दीपिता स्मितादिभिर् व्यज्यमाना प्राप्त-प्रकर्षा सम्भोग-शृङ्गार इत्य् आख्यायते । स च वक्ष्यमाण-क्रमेण चतुर्विधः ।

सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमान् इति ते । २२३
पूर्वानुराग-मान-प्रवास-करुणानुसम्भवाः क्रमतः ॥स्र्स्_२।४५५॥

तत्र सङ्क्षिप्तः-
युवानौ यत्र सङ्क्षिप्तान् साध्वस-व्रीडितादिभिः । २२४
उपचारान् निषेवेते स सङ्क्षिप्त इतीरितः ॥स्र्स्_२।४५६॥

पुरुष-गत-साध्वसेन सङ्क्षिप्तो, यथा-

लीला-हितुलिअ-सेलो रक्खदु वो राहिआइ त्थण-पट्ठे ।
हरिणो पुढम-समाअम-सद्धस-बस-बेबिलो हत्थो ॥स्र्स्_२।४५७॥

(लीलाभितुलित-शैलो रक्षतु वो राधिका-स्तन-स्पर्शे ।
हरेः प्रथम-समागम-साध्वस-वश-वेपन-शीलो हस्तः ॥)

स्त्री-साध्वसात् सङ्क्षिप्तो, यथा-
चुम्बनेष्व् अधर-दान-वर्जितं
सन्न-हस्त-मदयोपगूहने ।
क्लिष्ट-मन्मथम् अपि प्रियं प्रभोर्
दुर्लभ-प्रतिकृतं वधूरतम् ॥स्र्स्_२।४५८॥ (कु।सम्। ८।८)

अथ सङ्कीर्णः-
सङ्कीर्णस् तु पराधीन व्यलीक-मरणादिभिः । २२५
सङ्कीर्यमाणः सम्भोगः किञ्चित् पुष्पेषु-पेशलः ॥स्र्स्_२।४५९॥

यथा-
विमर्द-रम्याणि समत्सराणि
विभेजिरे तैर् मिथुनै रतानि ।
वैयात्य-विस्रम्भ-विकल्पितानि
मानावसादाद् विशदीकृतानि ॥स्र्स्_२।४६०॥

अथ सम्पन्नः-
भय-व्यलीक-स्मरणाद्य्-अभावात् प्राप्त-वैभवः । २२६
प्रोषितागतयोर् यूनोर् भोगः सम्पन्न ईरितः ॥स्र्स्_२।४६१॥

यथा-
दन्त-क्खअं कबोले कअग्गहुब्बेल्लिओ अ धम्मिल्लो ।
परिघुम्मिराअ दिट्ठी पिआगमं साहै बहूए ॥स्र्स्_२।४६२॥

(दन्त-क्षतं कपोले कच-ग्रहोद्वेएल्लितश् च धम्मिल्लः ।
परिघूर्णन-शीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥)

अत्र अप्रथम-सम्भोगत्वाद् भयाभावः । दन्त-क्षतादिष्व् अङ्गार्पणानुकूल्येन व्यलीक-स्मरणाद्य्-अभावः । ताभ्याम् उपारूढ-वैभवः सम्पद्यते सम्भोगः ।

अथ समृद्धिमान्-
पुनर् उज्जीवने भोग-समृद्धिः कियती भवेत् । २२७
शिवाभ्याम् एव विज्ञेयम् इत्य् अयं हि समृद्धिमान् ॥स्र्स्_२।४६३॥

यथा-
चन्द्रापीडं सा च जग्राह कण्ठे
कण्ठ-स्थानं जीवितं च प्रपेदे । तेनापूर्वा सा समुल्लास-लक्ष्मीम्
इन्दु-स्पृष्टां सिन्धु-लेखेव भेजे ॥स्र्स्_२।४६४॥
(अभिनन्दस्य कादम्बरी-कथा-सारे, ८।८०)

यथा वा-
अकलिअ-परिरम्भ-बिब्भमाइ
अजणिअ-चुम्बण-डम्बराइ दूरं ।
अघडिअ-घण-ताडणाइ णिच्चं
णमह अणङ्ग-रहीण मोहणाइं ॥स्र्स्_२।४६५॥

(अकलित-परिरम्भ-विभ्रमाणि
अजनित-चुम्बन-डम्बराणि दूरम् ।
अघटित-घन-ताडनानि नित्यं
नमतानङ्ग-रत्योर् मोहनानि ॥)

अत्र पुनर्-उज्जीवितेनअ कामेन सह रत्या रतेर् बाह्योपचारानपेक्षयैव तत्-फल-रूप-सुख-प्राप्ति-कथनात् सम्भोगः समृद्ध्यति ।

अथ हास्यः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । २२८
हासः सदस्य-रस्यत्वं नीतो हास्य इतीर्यते ॥स्र्स्_२।४६६॥
तत्रालस्य-ग्लानि-निद्रा-व्याध्य्-आद्या व्यभिचारिणः । २२९
एष द्वेधा भवेद् आत्म-पर-स्थिति-विभागतः ॥स्र्स्_२।४६७॥
आत्मस्थस् तु यदा स्वस्य विकारैर् हसति स्वयम् । २३०

यथा बाल-रामायणे-भृङ्गिरिटिः (आत्मानं निर्वर्ण्य सोपहासम्)-अहो त्रिभुवनाधिपतेर् अस्य अनुचरस्य महार्ह-वेषता ।

कौपीनाच्छादने वल्कम् अक्ष-सूत्रं जटा-च्छटाः ।
रुद्राङ्कुशस् त्रिपुण्ड्रं च वेषो भृङ्गिरिटेर् अयम् ॥स्र्स्_२।४६८॥ (बा।रा। २।२)

अत्र भृङ्गिरिटिः स्व-वेष-वैकृतेनैव स्वयम् आत्मानं हसति ।

परस्थस् तु पर-प्राप्तैर् एतैर् हसति चेत् परम् ॥स्र्स्_२।४६८॥ २३१अ

यथा-
त्रस्तः समस्त-जन-हास-करः करेणोस्
तावत् खरः प्रखरम् उल्ललयाञ्चकार ।
यावच् चलासन-विलोल-नितम्ब-बिम्ब-
विस्रस्त-वस्त्रम् अवरोध-वधूः पपात ॥स्र्स्_२।४६९॥ (शि।व। ५।७)

प्रकृति-वशात् स च षोढा स्मित-हसिते विहसितावहसिते च । २३१
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ॥४६९॥

तत्र स्मितम् -
स्मितं चालक्ष्य-दशनं दृक्-कपोल-विकाश-कृत् ॥स्र्स्_२।४७०॥ २३२

यथा-
उत्फुल्ल-गण्ड-मण्डलम् उल्लसित-दृग्-अन्त-सूचिताकूतम् ।
नमयन्त्यापि मुखाम्बुजम् उन्नमितं राग-साम्राज्यम् ॥स्र्स्_२।४७१॥ (कु।आ। २।१५)

अत्र गण्ड-मण्डल-विकास-दृग्-अन्तोल्लासाभ्यां नायिकायाः स्मितं व्यज्यते ।

हसितम्, यथा-
तद् एव लक्ष्य-दशन-शिखरं हसितं भवेत् ॥स्र्स्_२।४७२॥ २३३अ
स्मयमानम् आयताक्ष्याः
किञ्चिद् अभिव्यक्त-दशन-शोभि मुखम् ।
असमग्र-लक्ष्य-केसरम्
उच्छ्वसद् इव पङ्कजं दृष्टम् ॥स्र्स्_२।४७३॥ (मा।अ।मि। २।११)

अत्र किञ्चिद् अभिव्यक्त-दशनत्वाद् इदं हसितम् ।

विहसितम्, यथा-
तद् एव कुञ्चितापाङ्ग-गण्डं मधुर-निःस्वनम् । २३३
कालोचितं सानुरागम् उक्तं विहसितं भवेत् ॥स्र्स्_२।४७४॥

यथा-
सविधेऽ पि मय्य् अपश्यति शिशुजन-चेष्टा-विलोकन-व्याजात् ।
हसितं स्मरामि तस्याः स-स्वनम् आकुञ्चितापाङ्गम् ॥स्र्स्_२।४७५॥

अवहसितम्, यथा-
फुल्ल-नासा-पुटं यत् स्यान् निकुञ्चित-शिरोऽ ंसकम् । २३४
जिह्मावलोक-नयनं तच् चावहसितं मतम् ॥स्र्स्_२।४७६॥

यथा-
खर्वाट-धम्मिल्ल-भरं करेण
संस्पृष्ट-मात्रं पतितं विलोक्य ।
निकुञ्चितांसं कुटिलेक्षणान्तं
फुल्लाग्र-नासं हसितं सखीभिः ॥

कम्पिताङ्गं साश्रु-नेत्रं तच् चापहसितं भवेत् ॥स्र्स्_२।४७७॥ २३५

यथा-
समं पुत्र-प्रेम्णा करट-युगलं चुम्बितु-मनो
गजास्ये कृष्टास्ये निविड-मिलद्-अन्योन्य-वदनम् ।
अपायात् पायाद् वः प्रमथ-मिथुनं वीक्ष्य तद् इदं
हसन् क्रीडानृत्त-श्लथ-चलित-तुन्दः स च शिशुः ॥स्र्स्_२।४७८॥

अतिहसितम्, यथा-
करोपगूढ-पार्श्वं यद् उद्धतायत-निःस्वनम् ।
बाष्पाकुलाक्ष-युगलं तच् चातिहसितं भवेत् ॥स्र्स्_२।४७९॥ २३६

यथा-
इति वाचम् उद्धतम् उदीर्य
सपदि सह वेणु-दारिणा ।
सोढ-रिपु-बल-भरोऽ सहनः
स जहास दत्त-कर-तालम् उच्चकैः ॥स्र्स्_२।४८०॥ (शि।व। १५।३९)

अथ वीरः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।
नीतः सदस्य-रस्यत्वम् उत्साहो वीर उच्यते ॥स्र्स्_२।४८१॥ २३७
एष त्रिधा समासेन दान-युद्ध-दयोद्भवाः ।
दान-वीरो धृतिर् हर्षो मत्याद्या व्यभिचारिणः ॥स्र्स्_२।४८२॥ २३८
स्मित-पूर्वाभिभाषित्वं स्मित-पूर्वं च वीक्षितम् ।
प्रसादे बहु-दातृत्वं तद्वद् वाचानुमोदितम् । २३९
गुणागुण-विचाराद्यास् त्व् अनुभावाः समीरिताः ॥स्र्स्_२।४८३॥

यथा-
अमुष्मै चौराय प्रतिनिहत-मृत्यु-प्रतिभिये
प्रभुः प्रीतः प्रादाद् उपरितन-पाद-द्वय-कृते ।
सुवर्णानां कोटीर् दश दशन-कोटि-क्षत-गिरीन्
गजेन्द्रानप्य् अष्टौ मद-मुदित-कूजन् मधुलिहः ॥स्र्स्_२।४८४॥

युद्ध-वीरे हर्ष-गर्वामर्षादया व्यभिचारिणा । २४०
असाहाय्येऽ पि युद्धेच्छा समराद् अपलायनम् ।
भीताभय-प्रदानाद्या विकारास् तत्र कीर्तिताः ॥स्र्स्_२।४८५॥ २४१

यथा-
रथी निषङ्गी कवची धनुष्मान्
दृप्तह् स राजन्यकम् एक-वीरः ।
विलोलयामास महा-वराहः
कल्प-क्षयोद्वृत्तम् इवार्णवाम्भः ॥स्र्स्_२।४८६॥ (र।वम्। ७।५६)

दया-वीरे धृति-मति-प्रमुखा व्यभिचारिणः ।
स्वार्थ-प्राण-व्ययेनापि विपन्न-त्राण-शीलता । २४२
आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः ॥स्र्स्_२।४८७॥

यथा-
आर्तं कण्ठ-गत-प्राणं परित्यक्तं स्व-बान्धवैः ।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः ॥स्र्स्_२।४८८॥ (नागानन्द ४।११)

अथ अद्भुतः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । २४३
नीतः सदस्य-रस्यत्वं विस्मयोऽ द्भुततां व्रजेत् ॥स्र्स्_२।४८९॥
अत्र धृत्यावेग-जाड्य-हर्षाद्या व्यभिचारिणः । २४४
चेष्टास् तु नेत्र-विस्तार-स्वेदाश्रु-पुलकादयः ॥स्र्स्_२।४९०॥

यथा-
सोढाहे नमतेति दूत-मुखतः कार्योपदेशान्तरं
तत् तादृक् समराङ्गणेषु भुजयोर् विक्रान्तम् अव्याहतम् ।
भीतानां परिरक्षणं पुनर् अपि स्वे स्वे पदे स्थापनं
स्मारं स्मारम् अरातयः पुलकिता रेचर्ल-सिंह-प्रभोः ॥स्र्स्_२।४९१॥

अत्र नायक-गुणातिशय-जनितो विरोधिनां विस्मयः स्मृति-हर्षादिभिः व्यभिचारिभिर् उपचितः पुलकादिभिर् अनुभावैर् व्यज्यमानोऽ द्भुतत्वम् आपद्यते ।

अथ रौद्रः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । २४५
क्रोधः सदस्य-रस्यत्वं नीतो रौद्र इतीर्यते ॥स्र्स्_२।४९२॥
आवेग-गर्वौग्र्यामर्ष-मोहाद्या व्यभिचारिणः । २४६
प्रस्वेद-भ्रुकुटी-नेत्र-रागाद्यास् तत्र विक्रियाः ॥स्र्स्_२।४९३॥

यथा करुणाकन्दले-
आत्माक्षेप-क्षोभितैः पीडितोष्ठैः
प्राप्तोद्योगैर् यौगपद्याद् अभेद्यैः ।
भिन्धि-च्छिन्धि-ध्वानिभिर् भिल्ल-वर्गैर्
दर्पाद् अन्धैर् आनिरुद्धिर् निरुद्धः ॥स्र्स्_२।४९४॥

अत्र वज्र-विषयो भिल्ल-वर्ग-क्रोधः स्वात्माक्षेपादिभिर् उद्दीपिता दर्पान्ध-परुष-वाग्-आरम्भाद्य्-अनुमितैर् गर्वासूयादिभिः परिपोषितः स्वोष्ठ-पीडन-शत्रु-निरोधादिभिर् अनुभावैर् अभिव्यक्तो रौद्रतया निष्पद्यते ।

अथ करुणः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । २४७
नीतः सदस्य-रस्यत्वं शोकः करुण उच्यते ॥स्र्स्_२।४९५॥
अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः । २४८
आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः ॥स्र्स्_२।४९६॥

यथा करुणाकन्दले-
कुलस्य व्यापत्त्या सपदि शतधोद्दीपित-तनुर्
मुहुर् बाष्पं श्वासान् मलिनम् अपि रागं प्रकटयन् ।
श्लथैर् अङ्गैः शून्यैर् असकृद् उपरुद्धैश् च करणैर्
युतो धत्ते ग्लानिं करुण इव मूर्तो यदुपतिः ॥स्र्स्_२।४९७॥

अत्र बन्धु-व्यापत्ति-जनितो वसुदेवस्य शोको बन्धु-गुण-स्मरणादिभिर् उद्दीपितो म्लानत्वेन्द्रिय-शून्यत्वादि-सूचितैर् दैन्य-मोह-ग्लान्यादि-सञ्चारिभिः प्रपञ्चितो मुहुर् बाष्प-श्वास-मलिन-मुख-रागादिभिर् अनुभावैर् अभिव्यक्तः करुणत्वम् आपद्यते ।

अथ बीभत्सः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । २४९
जुगुप्सा पोषम् आपन्ना बीभत्सत्वेन रस्यते ॥स्र्स्_२।४९८॥
अत्र ग्लानि-श्रमोन्माद-मोहापस्मार-दीनताः । २५०
विषाद-चापलावेग-जाड्याद्या व्यभिचारिणः ।
स्वेद-रोमाञ्च-नामाग्र-च्छादनाद्याश् च विक्रियाः ॥स्र्स्_२।४९९॥ २५१

यथा-
अंहः-शेषैर् इव परिवृतो मक्षिकामण्डलीभिः
पूय-क्लिन्नं व्रणम् अभिमृशन् वाससः खण्डकेन ।
रथोपान्ते द्रुतम् अपसृतं सङ्कुचन् नेत्र-कोणं
छन्न-घ्राणं रचयति जनं दद्रु-रोगी दरिद्रः ॥स्र्स्_२।५००॥

अत्र दर्दु-रोगि-विषया रथ्या-जन-जुगुप्सा मक्षिका-पूयादिभिर् उद्दीपिता त्वरापसरणानुमितैर् विषादादिभिः पोषिता नेत्र-सङ्कोचनादिभिर् अभिव्यक्ता बीभत्सताम् आप्नोति ।

अथ भयानकः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।
भयं सदस्य-रस्यत्वं नीतं प्रोक्तं भयानकः ॥स्र्स्_२।५०१॥ २५२
तत्र सन्त्रास-मरण-चापलावेग-दीनताः ।
विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः । २५३
विक्रियास् त्व् आस्य-शोषाद्याः सात्त्विकाश् चाश्रु-वर्जिताः ॥स्र्स्_२।५०२॥

यथा-
श्री-सिंह-क्षिति-नायकस्य रिपवो धाटी-श्रुतेर् आकुलाः
शुष्यत्-तालु-पुटं स्खलत्-पद-तलं व्यालोकयन्तो दिशः ।
धावित्वा कथम् अप्य् उपेत्य तमसा गाढोपगूढां गुहाम्
अन्विष्यन्ति तद्-अन्तरेऽ पि कर-संस्पर्शेन गर्तान्तरम् ॥स्र्स्_२।५०३॥

अत्र नायक-प्रतिभूपतिनां भयं तद्-धाटी-श्रवणादिनोद्दीपितं व्याकुलत्व-तालु-शोष-पद-स्खलनाद्य्-अनुमितैर् आवेग-शङ्कात्रासादिभिर् व्यभिचारिभिर् उपचितं पलायन-गुहा-प्रवेश-गर्तान्तरान्वेषणादिभिर् अनुभावैर् अनुभूयमानं भयानकत्वेन निष्पद्यते ।

केचित् समान-बलयो रसयोः सङ्करं विदुः । २५४
न परीक्षाक्षमम् इदं मतं प्रेक्षावतां भवेत् ॥स्र्स्_२।५०४॥
तुष्यत्वे पूर्व आस्वादः कतरस्येत्य् अनिश्चयात् । २५५
स्पर्धापरत्वाद् उभयोर् अनास्वाद-प्रसङ्गतः ॥स्र्स्_२।५०५॥
तयोर् अन्यतरस्यैव प्रायेणास्वादनाद् अपि । २५६
युगपद् रसनीयत्वं नोभयोर् उपपद्यते ।
एषाम् अङ्गाङ्गि-भावेन सङ्करो मम सम्मतः ॥स्र्स्_२।५०६॥ २५७

तथा च भारतीये-
भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा ।
सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥स्र्स्_२।५०७॥ (ना।शा। ७।११९) इति ।

तुलाधृतत्वम् अनयोर् न स्यात् प्रकरणादिना ।
कवि-तात्पर्य-विश्रान्तेर् एकत्रैवावलोकनात् ॥स्र्स्_२।५०८॥ २५८

अथ परस्पर-विरुद्ध-रस-प्रतिपादनम्-
उभौ शृङ्गार-बीभत्साव् उभौ वीर-भयानकौ ।
रौद्राद्भुताव् उभौ हास्य-करुणौ प्रकृति-द्विषौ ॥स्र्स्_२।५०९॥ २५९
स्वभाव-वैरिणोर् अङ्गाङ्गि-भावेनापि मिश्रणम् ।
विवेकिभ्यो न स्वदते गन्ध-गन्धकयोर् इव ॥स्र्स्_२।५१०॥ २६०
विरोधिनोऽ पि सान्निध्याद् अतिरस्कार-लक्षणम् ।
पोषणं प्रकृतस्येति चेद् अङ्गत्वं न तावता ॥स्र्स्_२।५११॥ २६१
यत् किञ्चिद् उपकारित्वाद् अङ्गस्याङ्गित्वम् अङ्गिनि ।
न तत्-सन्निधि-मात्रेण चर्वणानुपकारतः ॥स्र्स्_२।५१२॥ २६२
अन्यथा पानकाद्येषु शर्करादेर् इवापतेत् ।
अन्तरा पतितस्यापि तृणादेर् उपकारिता । २६३
तच् चर्वणाभिमाने स्यात् सतृणाभ्यवहारिता ॥स्र्स्_२।५१३॥

निसर्ग-वैरिणोर् अङ्गाङ्गि-भावात् स्वादाभावो, यथा-
लाला-जलं स्रवतु वा दशनास्थि-पूर्णम्
अप्य् अस्तु वा रुधिर-बन्धुरिताधरं वा ।
सुस्निग्ध-मांस-कलितोज्ज्वल-लोचनं वा
संसार-सारम् इदम् एव मुखं भवत्याः ॥स्र्स्_२।५१४॥

अत्र शृङ्गार-रसाङ्गताम् अङ्गीकृतवता बीभत्सेन अङ्गिनोऽ पि विच्छेदाय मूले कुठारो व्यापारितः । एवम् अन्येषाम् अपि विरोधिनाम् अङ्गाङ्गि-भावेनास्वादाभावस् तत्र तत्रोदाहरणे द्रष्टव्यः ।

भृत्योर् नायकस्येव निसर्ग-द्वेषिणोर् अपि । २६४
अङ्गयोर् अङ्गिनो वृद्धौ भवेद् एकत्र सङ्गतिः ॥स्र्स्_२।५१५॥

यथा-
कस्तूर्या तत्-कपोल-द्वय-भुवि मकरी-निर्मितौ प्रस्तुतायां
निर्मित्सूनां स्व-वक्षस्य् अतिपरिचयनात् त्वत्-प्रशस्तीर् उपांशु ।
वीर श्री-सिंह-भूप त्वद्-अहित-कुभुजां राज्य-लक्ष्मी-सपत्नीम्
आनव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ॥स्र्स्_२।५१६॥

अत्र प्रतिनायक-गतयोः शृङ्गार-बीभत्सयोः नायक-गत-वीर-रसाङ्गत्वाद् एकत्र समावेशो न दोषाय ।

नन्व् अत्र शत्रूणां स्व-वक्षसि नायक-विरुद-विलेखनेन जीवितान्त-निर्मित-स्थानीयेन जनिता निज-जीवित-जुगुप्सा स्वावरोध-सान्निध्यादिभिर् उद्दीपिता लज्जानुमितैर् निर्वेद-दैन्य-विषादादिभिर् उपचिता तद्-अनुमितैर् एव मानसिक-कुत्सादिभिः अभिव्यक्ता सती नायक-गतं शरणागत-रक्षा-लक्षणं वीरं पुष्णातीति प्रतीयते । न पुनः प्रतिनायक-गतस्य शृङ्गारस्य नायक-वीरोपकरणत्वम् (इति चेद्), उच्यते-नायक-कृपा-कटाक्ष-स्थिरीकृत-राज्यानां प्रतिनायकानां तादृशाः (शृङ्गार-) विनोदाः सम्भवेयुः । नान्यथेति तस्य शृङ्गारस्य नायक-वीरोपकरणत्व-विरुद-धारणादि-परिचयेन राज्य-लक्ष्मी-सपत्नी-पद-प्रयोगेण चाभिव्यज्यते ।

अथ रसाभासः-
अङ्गेनाङ्गी रसः स्वेच्छा-वृत्ति-वर्धित-सम्पदा । २६५
अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥स्र्स्_२।५१७॥

तथा च भाव-प्रकाशिकायाम्-
शृङ्गारो हास्य-भूयिष्ठः शृङ्गाराभास ईरितः ।
हास्यो बीभत्स-भूयिष्ठो हास्याभास इतीरितः ॥स्र्स्_२।५१८॥
वीरो भयानक-प्रायो वीराभास इतीरितः ।
अद्भुतः करुणाश्लेषाद् अद्भुताभास उच्यते ॥स्र्स्_२।५१९॥
रौद्रः शोक-भयाश्लेषाद् रौद्राभास इतीरितः ।
करुणो हास्य-भूयिष्ठः करुणाभास उच्यते ॥स्र्स्_२।५२०॥
बीभत्सोऽ द्भुत-शृङ्गारी बीभत्साभास उच्यते ।
स स्याद् भयानकाभासो रौद्र-वीरोपसङ्गमात् ॥स्र्स्_२।५२१॥ इति ।

अत्र शृङ्गार-रसस्य अरागाद् अनेक-रागात् तिर्यग्-रागात् म्लेच्छ-रागाच् चेति चतुर्विधम् आभास-भूयस्त्वम् । तत्र अरागस् त्व् एकत्र रागाभावः । तेन रसस्याभासत्वम्, यथा-
स रामो नः स्थाता न युधि पुरतो लक्ष्मण-सखो
भवित्री रम्भोरु त्रिदश-वदन-ग्लानिर् अधुना ।
प्रयास्यत्य् एवोच्चैर् विपदम् अचिराद् वानर-चमूर्
लघिष्ठेदं षष्ठाक्षर-पर-विलोपात् पठ पुनः ॥स्र्स्_२।५२२॥ (ह।ना। १०।१२)

अत्र सीतायां रावण-विषय-रागात्यन्ताभावाद् आभासत्वम् ।

नन्व् एकत्र रागाभावाद् रसस्याभासत्वं न युज्यते । प्रथमम् अजातानुरागे वत्स-राजे जातानुरागायाः रत्नावल्याः-

दुल्लह-जणाणुराओ लज्जा गुरुई परब्बसो अप्पा ।
पिअ-सहि विसमं पेम्मं मरणं सरणं नु वरम् एक्कं ॥स्र्स्_२।५२३॥ (र।आ। २।१)

[दुर्लभ-जनानुरागो लज्जा गुर्वी पर-वश आत्मा ।
प्रिय-सखि विषमं प्रेम मरणं शरणं नु वरम् एकम् ॥]

इत्य् अत्र पूर्वानुरागस्याभासत्व-प्रसङ्ग इति चेद् उच्यते । अभावो हि त्रिविधः प्राग्-अभावोऽ त्यन्ताभावः प्रध्वंसाभावश् चेति । तत्र प्राग्-अभावे दर्शनादि-कारणेषु सम्भावितेषु रागोत्पत्ति-सम्भावनया नाभासत्वम् । इतरयोस् तु कारण-सद्-भावेऽ पि रागानुत्पत्तेर् आभासत्वम् एव । अन्ये तु स्त्रिया एव रागाभावे रसस्याभासत्वं प्रतिजानते । न तद् उपपद्यते । पुरुषेऽ पि रागाभावे रसस्यानास्वादनीयत्वात् । यथा-

गते प्रेमावेशे प्रणय-बहु-मानेऽ पि गलिते
निवृत्ते सद्-भावे जन इव जने गच्छति पुरः ।
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रिय-सखि गतांस् तांश् च दिवसान्
न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥स्र्स्_२।५२४॥ (अमरु ४३)

अत्र हृदय-दलनाभाव-पूर्व-गत-दिवसोत्प्रेक्षाद्य्-अनुमितैर् निर्वेद-स्मृत्य्-आदिभिर् अभिव्यक्तोऽ पि स्त्रिया अनुरागः प्रेमावेश-श्लथनादि-कथितेन पुरुष-गत-राग-ध्वंसनेन चारुतां नाप्नोति ।

पुरुष-रागात्यन्ताभावेन रसाभासत्वम्, यथा-

ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं
पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि ।
मिथ्या-कारुणिकोऽ सि निर्घूणतरस् त्वत्तः कुतोऽ न्यः पुमान्
सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बुद्धो जिनः पातु वः ॥स्र्स्_२।५२५॥ (नागा। १।१)

अत्र जिनस्य रागात्यन्ताभावेन रसाभासत्वम् ।

अनेकत्र योषितो रागाभासत्वम्, यथा-
परस्परेण क्षतयोः प्रहर्त्रोर्
उत्क्रान्तवाय्वोः समकालम् एव ।
अमर्त्य-भावेऽ पि कयोश्चिद् आसीद्
एकाप्सरः-प्रार्थनयोर् विवादः ॥स्र्स्_२।५२६॥ (र।वम्। ७।५३)

अत्र कस्याश्चिद् दिव्य-वनिताया वीर-द्वये रणानिवृत्ति-मरण-प्राप्त-देवताभावे अनुरागस्य निरुपमानशूर-गुणोपाधेर् अवैषम्येण प्रतिभासनादाभासत्वम् ।

अनेकत्र पुंसो रागाद्, यथा-

रम्यं गायति मेनका कृत-रुचिर् वीणा-स्वनैर् उर्वशी
चित्रं वक्ति तिलोत्तमा परिचयं नानाङ्ग-हार-क्रमे ।
आसां रूपम् इदं तद् उत्तमम् इति प्रेमानवस्था द्विषा
भेजे श्री-यनपोत-सिंह-नृपते त्वत्-खड्ग-भिन्नात्मना ॥स्र्स्_२।५२७॥

अत्र नायक-खड्ग-धारा-गलितात्मनः कस्यचित् स्वर्ग-प्रतिनायक-वीरस्य मेनकादि-स्वर्लोक-गणिकासु अवैषम्येण रागाद् आभासत्वम् ।

नन्व् एवं दक्षिणादीनाम् अपि रागस्याभासत्वम् इति चेत्, न । दक्षिणस्य नायकस्य नायिकासु अनेकासु वृत्ति-मात्रेणैव साधारण्यम् । न रागेण । तद् एकस्याम् एव रागस्य प्रौढत्वम् । इतरासु तु मध्यमत्वं मन्दत्वं चेति तद्-अनुरागस्य नाभासता । अत्र तु अवैषम्येण अनेकत्र प्रवृत्तेर् आभासत्वम् उपपद्यते ।

तिर्यग्-रागाद्, यथा-
मधु द्विरेफः कुसुमैक-पात्रे
पपौ प्रियां स्वाम् अनुवर्तमानः ।
शृङ्गेण च स्पर्श-निमीलिताक्षीं
मृगीम् अकण्डूयत कृष्ण-सारः ॥स्र्स्_२।५२८॥ (कु।सम्। ३।३६)

म्लेच्छ-रागाद्, यथा-
अज्जं मोहण-सुहिअं मुअत्ति मोत्तू पलाइए हलिए ।
दर-फुडिअ-बेण्ट-भारोणआइ हसिअं ब फलहीए ॥स्र्स्_२।५२९॥ (गाथा ४।६०)

[आर्यां मोहन-सुखितां मृतेति मुक्त्वा पलायिते हलिके ।
दर-स्फुटित-वृन्त-भारावनतया हसितम् इव कार्पास्या ॥]

अत्र सुरत-मोहन-सुप्ति-मरण-दशयोर् विवेकाभावेन हालिकस्य म्लेच्छत्वं गम्यते ।

ननु तिर्यङ्-म्लेच्छ-गतयोर् आभासत्वं न युज्यते । तयोर् विभावादि-सम्भवात् । आस्वाद-योग्यता-प्रतीतेर् इति चेत्, न । भो म्लेच्छ-रस-वादिन् ! उक्तलाधिपतेः शृङ्गार-रसाभिमानिनो नरसिंहदेवस्य चित्तम् अनुवर्तमानेन विद्याधरेण कविना बाढम् अभ्यन्तरी-कृतोऽ सि । एवं खलु समर्थितम् एकावल्याम् अनेन-

अपरे तु रसाभासं तिर्यक्षु प्रचक्षते । तन् न परीक्षा-क्षमम् । तेष्व् अपि विभावादि-सम्भवात् । विभावादि-ज्ञान-शून्यास् तिर्यञ्चो न भाजनं भवितुम् अर्हन्ति रसस्येति चेत्, न । मनुष्येष्व् अपि केषुचित् तथा-भूतेषु रस-विषय-भावाभाव-प्रसङ्गात् । विभावादि-सम्भवो हि रसं प्रति प्रयोजकः । न विभावादि-ज्ञानम् । ततश् च तिरश्चाम् अप्य् अस्त्य् एव रसः इति । (एकावल्याम् १०६)

न तावत् तिरश्चां विभावतम् उपपद्यते । शृङ्गारे हि समुज्ज्वलस्य शुचिनो दर्शनीयस्यैव वस्तुनो मुनिना विभावत्वेनाम्नातम् । तिरश्चम् उद्वर्तन-मज्जनाकल्प-रचनाद्य्-अभावाद् उज्ज्वल-शुचि-दर्शनीयत्वानाम् असम्भावना प्रसिद्धैव ।

अथ स्व-जाति-योग्यैर् धर्मैः कारिणां करिणीं प्रति (ददौ सरः पङ्कज इत्य् आदि (कु।सम्। ३।३७) पद्ये इव) विभावत्वम् इति चेन्, न । तस्यां कक्ष्यायां करिणां करिणी-रागं प्रति कारणत्वं न पुनर् विभावत्वम् ।

किं च, जाति-योग्यैर् धर्मैर् वस्तुनो न विभावत्वम् । अपि तु भावक-चित्तोल्लास-हेतुभिः रति-विशिष्टैर् एव ।

किं च, विभावादि-ज्ञानं नाम औचित्य-विवेकः । तेन शून्यास् तिर्यञ्चो न विभावताम् अर्हन्ति ।

तर्हि विभावादि-ज्ञान-रहितेषु मनुष्येषु रसाभास-प्रसङ्ग इति चेत्, नैष दोषः । विवेक-रहित-जनोपलक्षण-म्लेच्छ-गतस्य रसस्याभासत्वे स्वेष्टावाप्तेः ।

किं च विभावादि-सम्भवो हि रसं प्रति प्रयोजको न विभावादि-ज्ञानम् इत्य् एतन् न युज्यते । तथा हि-विभावादेर् विशिष्टस्य वस्तु-मात्रस्य वा सम्भवो रसं प्रति प्रयोजकः । विशिष्ट-प्रयोजकत्वाङ्गीकारे विवेकादि-प्रवेशोऽ ङ्गीकृत इति अस्मद्-अनुसरणम् एव शरणं गतोऽ सि ।

अत्र विवेकं विना तद्-इतर-विशेषवत्त्वं वैशिष्ट्यम् इति चेन्, न । विशेषाणां धर्मिणि परमोत्कर्षानुसन्धान-तत्-पराणाम् अन्योन्य-सहिष्णूनाम् इयत्तया नियमासम्भवात् ।

अथ यदि वस्तु-मात्रस्य तर्हि अन्वासितम् अरुन्धत्या स्वाहयेव हविर् भुजम् (र।वम्। १।५६) इत्य् आदाव् अपि स्त्री-पुंस-व्यक्ति-मात्र-विभाव-सद्-भावाद् अन्वासनालक्षणानुभाव-सम्भवाच् च शृङ्गारः स्वदनीयः प्रसज्येत । किं च-

अज्जं मोहण-सुहिअं मुअत्ति मोत्तू पलाइए हलिए ।
दर-फुडिअ-बेण्ट-भारोणआइ हसिअं ब फलहीए ॥[*१६]
[*१६] ५२९ सङ्ख्यक-पद्यं द्रष्टव्यम् ।

इत्य् आदिषु स्त्री-पुंस-व्यक्ति-मात्र-विभाव-सद्भावः स्फुट एव । तद्-अविवेक-जनित-हास्य-पङ्क-निर्मग्नं शृङ्गार-गन्ध-गजम् उद्धर्तुं त्वरताम् इत्य् अलं रसाभासापलाप-संरम्भेण ।

ननु सीतादि-विभावैर् वस्तु-मात्रैर् एव योषिन्-मात्र-प्रतीतौ सामाजिकानां रसोदयः । न पुनर् विशिष्टैः । तत् कथम् इति चेद्, उच्यते । अत्र जनक-तनयत्व-राम-परिग्रहत्वादि-विरुद्ध-धर्म-परिहारेण ललितोज्ज्वल-शुचि-दर्शनीयत्वादि-विशिष्ट एव शब्दतः । (प्रतिपद्यमानो) सीतादि-विभावो योषित्-सामान्यं तादृशम् एव ज्ञापयति । न पुनः स्त्री-जाति-मात्रम् इति सकलम् अपि कल्याणम् ।

हरिश्चन्द्रो रक्षाकरण-रुचि-सत्येषु वचसां
विलासे वागीशो महति नियमे नीति-निगमे ।
विजेता गाङ्गेयं जन-भरण-सम्मोहन-कला-
व्रतेषु श्री-सिंह-क्षितिपतिर् उदारो विहरते ॥स्र्स्_२।५३०॥ २६७

नित्य श्रीयन्नपोत-क्षितिपति-जनुषः सिंह-भूपाल-मौलेः
सौन्दर्यं सुन्दरीणां हरिण-विजयिनां वागुरा लोचनानाम् ।
दानं मन्दार-चिन्तामणि-सुर-सुरभी-गर्व-निर्वापणाङ्कं
विज्ञानं सर्व-विद्या-निधि-बुध-परिषच्-छेमुषी-भाग्य-रेखा ॥स्र्स्_२।५३१॥ २६८

इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रसिकोल्लासो नाम
द्वितीयो विलासः
॥२॥

(३)
तृतीयो विलासः
भावकोल्लासः

स क्षेमदायी कमलानुकूलः
कठोर-पारावत-कण्ठ-नीलः ।
कृपा-निधिर् भव्य-गुणाभिरामः
परः पुमान् रज-महीध्र-वासी ॥स्र्स्_३।१॥ १

भवत्व् इति सम्बन्धः स्मरणीयः ।

तद् ईदृश-रसाधारं नाट्यं रूपकम् इत्य् अपि ।
नटस्यातिप्रवीणस्य कर्मत्वान् नाट्यम् उच्यते ॥स्र्स्_३।२॥ २
यथा मुखादौ पद्मादेर् आरोपे रूपक-प्रथा ।
तथैव नायकारोपो नटे रूपकम् उच्यते । ३
तच् च नाट्यं दश-विधं वाक्यार्थाभिनयात्मकम् ॥स्र्स्_३।३॥ ४अ

तथा च भारतीये (१८।२-३)-
नाटकं सप्रकरणम् अङ्को व्यायोग एव च ।
भाणः समवकारश् च वीथी प्रहसनं डिमः ।
ईहामृगश् च विज्ञेयो दशधा नाट्य-लक्षणम् ॥।स्र्स्_३।४॥

रसेतिवृत्त-नेतारस् तत्-तद्-रूपक-भेदकाः । ४
लक्षितौ रसनेताराव् इतिवृत्तं तु कथ्यते ॥स्र्स्_३।५॥
इतिवृत्त-कथा-वस्तु-शब्दाः पर्याय-वाचिनः । ५
इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् ॥स्र्स्_३।६॥
ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं राम-कथादिकम् । ६
कवि-बुद्धि-कृतं कल्प्यं मालती-माधवादिकम् ॥स्र्स्_३।७॥
सङ्कीर्णम् उभयायत्तं लव-राघव-चेष्टितम् । ७
लक्ष्येष्व् एतत् तु बहुधा दिव्य-मर्त्यादि-भेदतः ॥स्र्स्_३।८॥
तच् चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् । ८
बीजं बिन्दुः पताका च प्रकरी कार्यम् इत्य् अपि ॥स्र्स्_३।९॥

अथ बीजः-
यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् । ९
कार्यस्य कारणं प्राज्ञैस् तद् बीजम् इति कथ्यते ।
उप्तं बीजं तरोर् यद्वद् अङ्कुरादि-प्रभेदतः ॥स्र्स्_३।१०॥ १०
फलाय कल्पते तद्वन् नायकादि-विभेदतः ।
फलायैतद् भवेद् यस्माद् बीजम् इत्य् अभिधीयते ॥स्र्स्_३।११॥ ११

यथा बाल-रामायणे प्रथम-द्वितीयाङ्कयोः कल्पिते मुख-सन्धौ स्वल्पो रामोत्साहो बीजम् इत्य् उच्यते ।

अथ बिन्दुः-
फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।
विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥स्र्स्_३।१२॥ १२
जल-बिन्दुर् यथा सिञ्चंस् तरु-मूलं फलाय हि ।
तथैवायम् उपक्षिप्तो बिन्दुर् इत्य् अभिधीयते ॥स्र्स्_३।१३॥ १३

यथा तत्रैव [बाल-रामायणे] तृतीय-चतुर्थाङ्कयोः कल्पिते प्रतिमुख-सन्धौ निक्षिप्तो रावण-विरोध-मूलं सीता-परिग्रहो बिन्दुर् उच्यते ।

अथ पताका–
यत् प्रधानोपकरण-प्रसङ्गात् स्वार्थम् ऋच्छति ।
सा स्यात् पताका सुग्रीव-मकरन्दादि-वृत्तवत् ॥स्र्स्_३।१४॥ १४

अथ प्रकरी-
यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् ।
प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥स्र्स्_३।१५॥ १५

पताका-प्रकरी-व्यपदेशो भाव-प्रकाशिका-कारेणोक्तः, यथा-

यथा पताका कस्यापि शोभाकृच् चिह्न-रूपतः ।
स्वस्योपनायकादीनां वृत्तान्तस् तद्वद् उच्यते ॥स्र्स्_३।१६॥
शोभायै वेदिकादीनां यथा पुष्पाक्षतादयः ।
तथ र्तु-वर्णनादिस् तु प्रसङ्गे प्रकरी भवेत् ॥स्र्स्_३।१७॥ इति (भाव-प्रकाशे) ।

अथ पताका-स्थानकानि-
अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् ।
यद् आगन्तुक-भावेन पताका-स्थानकं हि तत् ॥स्र्स्_३।१८॥ १६
एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् ।
तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ।१७
एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः ॥स्र्स्_३।१९॥ १८अ

तथा च भरतः (१९।३१)-
सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥स्र्स्_३।२०॥ इति ।

यथा रत्नावल्याम्-
विदूषकः- भोः ! एसा क्खु अबरा देबी बासबदत्ता । (भोः ! एषा खलु अपरा देवी वासवदत्ता ।)

राजा (सशङ्कं रत्नावली-हस्तं विसृजति ।)

इत्य् अत्र इयं वासवत्तेत्य् अनेनोपचार-प्रयोगेण भाविनो वासवदत्ता-कोपस्य सूचनात् सहसार्थ-सम्पत्ति-रूपम् इदम् एकं पताका-स्थानकम् ।

तथा च (१९।३२)-
वचः सातिशयं श्लिष्टं काव्य-बन्ध-समाश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥स्र्स्_३।२१॥ इति ।

यथा उत्तर-राम-चरिते (१।३८)-
इयं गेहे लक्ष्मीर् इयम् अमृत-वर्तिर् नयनयोर्
असाव् अस्याः स्पर्शो वपुषि बहलश् चन्दन-रसः ।
अयं कण्ठे बाहुः शिशिर-मसृणो मौक्तिक-सरः
किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः ॥स्र्स्_३।२२॥

(प्रविश्य) प्रतीहारी-देव उपस्थितः ।

रामः-अये कः ? इत्य् अत्र भविष्यतः सीता-विरहस्य सूचनाद् इदं श्लिष्टं नाम द्वितीयं पताका-स्थानकम् ।

तथा च (१९।३३)-
अर्थोपक्षेपणं यत्र लीनं स-विनयं भवेत् ।
श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् इष्यते ॥स्र्स्_३।२३॥

यथा वेणी-संहारे (२।२३), राजा-

लोलांशुकस्य पवनाकुलितांशुकान्तं
त्वद्-दृष्टि-हारि मम लोचन-बान्धवस्य ।
अध्यासितुं तव चिरं जघन-स्थलस्य
पर्याप्तम् एव करभोरु मओरु-युग्मम् ॥स्र्स्_३।२४॥

(प्रविश्य सम्भ्रान्तः) कञ्चुकी-देव भग्नम् । देव भग्नम् !

राजा-केन ?

कञ्चुकी-देव भीमेन ।

राजा-आः किं प्रलपसि ?

इत्य् अत्र श्लिष्ट-प्रत्युत्तरेण कञ्चुकि-वाक्येन भाविनो दुर्योधनोरु-भङ्गस्य सूचनेन श्लिष्टोत्तरं नाम तृतीयम् इदं पताका-स्थानकम् ।

तथा च (१९।३४) -
द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
उपन्यास-सुयुक्तश् च तच् चतुर्थम् उदाहृतम् ॥स्र्स्_३।२५॥ इति ।

यथा-
उद्दामोत्कलिकां विपाण्डुर् अरुचं प्रारब्ध-जृम्भां क्षणाद्
आयासं श्वसनोद्गमैर् अविरलैर् आतन्वतीम् आत्मनः ।
अद्योद्यान-लताम् इमां समदनां नारीम् इवान्यां ध्रुवं
पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥स्र्स्_३।२६॥
(रत्नावल्यां २।४)

इत्य् अत्र विशेषण-श्लेषेण भाविनो रत्नावली-सन्दर्शनस्य सूचनात् तुल्य-विशेषणं नाम चतुर्थं पताका-स्थानकम् इदम् ।

अथ कार्यम्-
वस्तुनस् तु समस्तस्य धर्म-कामार्थ-लक्षणम् । १८
फलं कार्यम् इति शुद्धं मिश्रं वा कल्पयेत् सुधीः ॥स्र्स्_३।२७॥ १९अ

शुद्धम्, यथा मालती-माधवे (१०।२३), कामन्दकी-
यत् प्राग् एव मनोरथैर् वृतम् अभूत् कल्याणम् आयुष्मतोस्
तत् पुण्यैर् मद्-उपक्रमैश् च फलितं क्लेशोऽ पि मच्-छिष्ययोः ।
निष्णातश् च समागमोऽ भिविहितस् त्वत्-प्रेयसः कान्तया
सम्प्रीतौ नृप-नन्दनौ यद् अपरं प्रेयस् तद् अप्य् उच्यताम् ॥स्र्स्_३।२८॥

इत्य् अत्र काव्योपसंहार-श्लोकेन तृतीय-पुरुषार्थस्यैव फल-कथनात् शुद्धं कार्यम् इदम् ।

मिश्रम्, यथा बाल-रामायणे (१०।१०४)-

रुग्णं चाजगवं न चातिकुपितो भर्गः सुर-ग्रामणीः
सेतुश् च ग्रथितः प्रसन्न-मधुरो दृष्टश् च वारां निधिः ।
पौलस्त्यश् चरम-स्थितश् च भगवान् प्रीतः श्रुतीनां कविः
प्राप्तं यानम् इदं च याचितवते दत्तं कुबेराय च ॥स्र्स्_३।२९॥

इत्य् अनेनोपसंहार-श्लोकेन मिश्रस्य त्रिवर्ग-फलस्य कथनान् मिश्रम् इदम् ।

प्रधानम् अङ्गम् इति च तद् वस्तु द्विविधं पुनः । १९
प्रधानं नेतृ-चरितं प्रधान-फल-बन्धि च ॥स्र्स्_३।३०॥
काव्ये व्यापि प्रधानं तद् यथा रामादि-चेष्टितम् । २०
नायकार्थ-कृद्-अङ्गं स्यान् नायकेतर-चेष्टितम् ॥स्र्स्_३।३१॥
नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् । २१
बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः ॥स्र्स्_३।३२॥
तयोः सन्धान् अ-हेतुत्वान् मध्ये बिन्दुं प्रकल्पयेत् । २२
यथायोगं पताकायाः प्रकर्याश् च नियोजनम् ॥स्र्स्_३।३३॥

अथ कार्यस्य पञ्चावस्थाः-
कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् । २३
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ।
तत्र मुख्य-फलोद्योग-मात्रम् आरम्भ इष्यते ॥स्र्स्_३।३४॥ २४

यथा बाल-रामायणे मुख-सन्धौ रामस्य लोकोत्तरोत्कर्ष-प्राप्तये व्यवसाय-मात्रम् आरम्भः ।

अथ यत्नः-
यत्नस् तु तत्-फल-प्राप्त्याम् औत्सुक्येन तु वर्तनम् ॥स्र्स्_३।३५॥ २५अ

यथा तत्रैव प्रतिमुख-सन्धौ ताटक-पातन-भूत-पति-धनुर्-दलनादिषु रामस्य यत्नः ।

अथ प्राप्त्य्-आशा-
प्राप्त्य्-आशा तु महार्थस्य सिद्धि-सद्भाव-भावना[*१७] ॥स्र्स्_३।३६॥ २५ब्
[*१७] सिद्ध-सद्-भावना मता।

यथा तत्रैव गर्भ-सन्धौ मालवन् माया-प्रयोग-वन-प्रवास-सीतापहरणादिभिर् अन्तरितायाः रामस्य परमोत्कर्ष-प्राप्तेर् धनुर्-भङ्गादि-सुग्रीव-सन्धि-सेतु-बन्धनादिभिः सिद्धि-सद्-भाव-भावना-कथनात् प्राप्त्य्-आशा ।

अथ नियताप्तिः-
नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः ॥स्र्स्_३।३७॥ २६अ

यथा तत्रैव [बाल-रामायणे] विमर्श-सन्धौ निखिल-रक्षः-कुल-निबर्हणाद् अविघ्नेन रामस्य फल-संसिद्धि-निश्चयो नियताप्तिः ।

अथ फलागमः-
समग्रेष्ट-फलावाप्तिर् भवेद् एव फलागमः ॥स्र्स्_३।३८॥ २६ब्

यथा तत्रैव [बाल-रामायणे] निर्वहण-सन्धौ रामस्य ताताज्ञा-निर्बहण-वैर-प्रशमन-राज्योपभोगैर् लोकोत्तर-त्रिवर्ग-फलस्यावाप्तिः फलागमः ।

अथ सन्धिः-
एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।
योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥स्र्स्_३।३९॥ २७
पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् ।
पताका-विरहे बीजं बिन्दुं वा कल्पयेत् सुधीः ॥स्र्स्_३।४०॥ २८
मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये ।
अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपतः ॥स्र्स्_३।४१॥ २९

(तत्र पञ्च-सन्धयो भवन्ति-)
मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः ।
पञ्चैते सन्धयः

(मुख-सन्धिस् तद्-अङ्गानि चेत्थम्-)
तेषु यत्र बीज-समुद्भवः ॥स्र्स्_३।४२॥ ३०
नाना-विधानाम् अर्थानां रसानाम् अपि कारणम् ।
तन् मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥स्र्स्_३।४३॥ ३१
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना । ३२
उद्भेद-भेदौ करणम् इति द्वादश योजयेत् ॥स्र्स्_३।४४॥ ३३अ

तत्रोपक्षेपः-
उपक्षेपस् तु बीजस्य सूचना कथ्यते बुधैः ॥स्र्स्_३।४५॥ ३३ब्

यथा बाल-रामायणे प्रतिज्ञात-पौलस्त्य-नामनि प्रथएऽ ङ्के-

(ततः प्रविशति विश्वामित्र-शिष्यः) शुनःशेपः-प्रातःसवन एव यजमानं द्रष्टुम् इच्छामिइत्य् उपक्रम्यअ᳡ राक्षस-रक्षौषधं रामम् आनेतुं सिद्धाश्रमाद् अयोध्यां गतवता तात-विश्वामित्रेण यज्ञोपनिमन्त्रितस्य परम-सुहृदः श्रोत्रिय-क्षत्रियस्य सीरध्वजस्य स्व-प्रतिनिधिः प्रेषितोऽ स्मि इत्य् अन्तेन (१।२३ पद्यात् पूर्वम्] रावणादि-दुष्ट-राक्षस-शिक्षा-लक्षण-रामोत्साहोपबृंहक-विश्वामित्रारम्भ-रूपस्य बीजस्य सूचनाद् उपक्षेपः ।

अथ परिकरः-
परिक्रिया तु बीजस्य बहुलीकरणं मतम् ॥स्र्स्_३।४६॥ ३४अ

यथा तत्रैव [बाल-रामायणे] (प्रविश्य तापस-च्छमना) राक्षसः-

सम्प्रेषितो माल्यवताम् अहम् अद्य
ज्ञातुं प्रवृत्तिं कुशिकात्मजस्य ।
पुरीं निमीनां मिथिलां च गन्तुं
तां चाप्य् अयोध्यां रघु-राजधानीम् ॥स्र्स्_३।४७॥ (१।२३)

कुल-पुत्रकेति सप्रसामद् आश्लिष्टोऽ स्मि इत्य् उपक्रम्यअ᳡ स हि नक्तं-चराणां निसर्गामित्रो विश्वामित्रो व्रत-चर्यया, वीर-व्रत-चर्यया समर्थो दशरथोऽ पि तथाविध एव एव (१।२५ पद्याद् अनन्तरम्] इत्य् अन्तेन विश्वामित्रारम्भस्य माल्यवदादि-वितर्क-गोचरत्वेन बहुलीकरणात् परिकरः ।

अथ परिन्यासः-
बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥स्र्स्_३।४८॥ ३४ब्

यथा तत्रैव [बाल-रामायणे] राक्षसः (पुरोऽ वलोक्य)-कथं तापसः । (प्रत्यभिज्ञाय) तत्रापि विश्वामित्र-धर्म-पुत्रः शुनःशेपः इत्य् उपक्रम्यअ᳡ सम्प्रत्य् एव राक्षस-भयात् सत्रे दीक्षिष्यमाणः स भगवान् गोप्तारं रामभद्रं वरीतुम् अयोध्यां गतः । राक्षसः (स-त्रासं स्वगतम्)-हन्त कथम् एतद् अपि निष्पन्नम् । (प्रकाशम्) भगवन् मा कोपीः इत्य् आदिना (स्वगतम्) कृतं यत् कर्तव्यम् । सम्प्रति चार-सञ्चारस्यायम् अवसरः (१।२७ पद्याद् अनन्तरम्] इत्य् अन्तेन विश्वामित्रानुभाव-कथनात् सराक्षत्रास-कथनाच् च बीज-निष्पत्तेः परिन्यासः ।

अथ विलोभनम्-
नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् ॥स्र्स्_३।४९॥ ३५अ

यथा तत्रैव [बाल-रामायणे] रावणः-

यस्यारोपण-कर्मणापि बहवो वीर-व्रतं त्याजिताः ॥स्र्स्_३।५०॥

इत्य् उपक्रम्य, रावणः (सप्रत्याशम्)-

निर्माल्यं नयन-श्रियः कुवलयं वक्त्रस्य दासः शशी
कान्तिः प्रावरणं तनोर् मधुमुचो यस्याश् च वाचः किल ।
विंशत्या रचिताञ्जलिः कर-पुटैस् त्वां याचते रावणस्
तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥स्र्स्_३।५१॥ (१।४०)

इत्य् अन्तेन तद्-गुण-वर्णनाद् विलोभनम् ।

अथ युक्तिः-
सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥स्र्स्_३।५२॥ ३५ब्

यथा तत्रैव [बाल-रामायणे] परशुराम-रावणीय-नामनि द्वितीयाङ्के-

(ततः प्रविशति) भृङ्गिरिटिः (परिक्रामन्न् आत्मानं निर्वर्ण्य)-अये निरूपतापि क्वचिन् महतेऽ भुयदयाय इत्य् उपक्रम्य, भृङ्गिरिटिः-आम्, नारद यथा समर्थयसे । तथा हि-

एकं कैलासम् अद्रिं कर-गतम् अकरोच् चिच्छदे क्रौञ्चम् अन्यो
लङ्काम् एकः कुबेराद् अहृत वसतये कोङ्कणानब्धितोऽ न्यः ।
एकः शक्रस्य जेता समिति भगवतः कार्तिकेयस्य चान्यस्
तत् कामं कर्म-साम्यात् किम् अपरम् अनयोर् मध्यगा वीर-लक्ष्मीः ॥स्र्स्_३।५३॥ (२।१५)

इत्य् अन्तेन राघव-प्रतिनायकयोर् भार्गव-रावणयोः कर्म-साम्य-निर्णय-कथनाद् युक्तिः ।

अथ प्राप्तिः-
प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते ॥स्र्स्_३।५४॥ ३६अ

यथा तत्रैव [बाल-रामायणे] नारदः (सहर्षं हस्तम् उद्यम्य)-

चित्रं नेत्र-रसायनं त्रिदशतासिद्धेर् महा-मङ्गलं
मोक्ष-द्वारम् अपावृतं मम मनः-प्रह्लादना-भेषजम् ।
साकं नाक-पुरन्धिर्भिर् नव-पति-प्राप्त्य्-उत्सुकाभिः सुराः
सर्वे पश्यत राम-रावण-रणं वक्त्य् एष वो नारदः ॥स्र्स्_३।५५॥ (२।१६)

इत्य् अत्र नारदस्य युद्धावलोकन-हर्ष-प्राप्तेः प्राप्तिः ।

अथ समाधानम्-
बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥स्र्स्_३।५६॥ ३६ब्

यथा तत्रैव [बाल-रामायणे] भृङ्गिरिटिः-युद्ध-रुचे मा निर्भरं संरम्भस्व । इत्य् उपक्रम्य । अयोध्यां गत्वा परं राम-रावणीयं योजयिष्यामि (२।१६ पद्याद् अनन्तरम्] इत्य् अन्तेन राघवोत्साह-बीजस्य नारदेन पुनर् आधानात् समाधानम् ।

अथ विधानम्-
सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः ॥स्र्स्_३।५७॥ ३७अ

यथा तत्रैव [बाल-रामायणे] प्रथमाङ्के, सीता (स-साध्वसौत्सुक्यम्)-अम्मो रक्खसो त्ति सुणिअ सच्चं सज्झस-कोदहलाणं मज्झे बट्टामि । (अंहो राक्षस इति श्रुत्वा सत्यं साध्वस-कौतूहलयोर् अन्तरे वर्ते ।) इत्य् उपक्रम्य सीता-तादसदानन्दमिस्साणं अन्तरे उबबिसिस्सं (तात-शतानन्द-मिश्राणाम् अन्तरे उपवेक्ष्यामि) । (१।४२ पद्यात् पूर्वम्] इत्य् अन्तेन सीतायाः अदृष्ट-पूर्व-राक्षस-दर्शनेन सुख-दुःख-व्यतिकराख्यानाद् विधानम् ।

अथ परिभावना-
श्लाघ्यैश् चित्त-चमत्कारो गुणाद्यैः परिभावना ॥स्र्स्_३।५८॥ ३७ब्

यथा तत्रैव [बाल-रामायणे], रावणः (सौत्सुक्यं विलोक्य स्वगतम्)-अहो त्रिभुवनातिशायि मकरध्वज-सञ्जीवनं रामणीयकम् अस्याः । तथा हि-

इन्दुर् लिप्त इवाञ्जनेन जडिता दृष्टिर् मृगीणाम् इव
प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेम-प्रभा ।
पारुष्यं कलया च कोकिल-वधू-कण्ठेष्व् इव प्रस्तुतं
सीतायाः पुरतश् च हन्त शिखिनां बर्हाः सगर्हा इव ॥स्र्स्_३।५९॥ (१।४२)

इत्य् उपक्रम्य, शतानन्दः (अपवर्य)-अहो लङ्काधिपतेर् अपूर्व-गर्व-गरिमा । यन् ममापि शतानन्दस्य न निश्चिनुते चेतः । किं भविष्यति (१।४६ पद्याद् अनन्तरम्] इत्य् अन्तेन रावणस्य सीता-रामणीयक-दर्शनेन शतानन्दस्य रावणोत्साह-दर्शनेन च तयोश् चित्त-चमत्कार-कथनात् परिभावना ।

अथोद्भेदः-
उद्घातनं यद् बीजस्य स उद्भेदः प्रकीर्तितः ॥स्र्स्_३।६०॥ ३८अ

यथा तत्रैव [बाल-रामायणे] द्वितीयाङ्के, रावणः-त्रैयाम्बकः परशुर् एष निसर्ग-चण्ड (२।३६) इत्य् आदि पठति । जामदग्न्यः-अपकुर्वतापि भवता परम् उपकृतम् । यद् एष स्मारितोऽ स्मीत्य् उपक्रम्य (२।४४ पद्यात् पूर्वम्]-

लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां
पुंसां कुलं न हि निमित्तम् उदारतायाः ।
वातापितापन-मुनेः कलशात् प्रसूतिर्
लीलायितं पुनर् अमुष्य समुद्र-पानम् ॥स्र्स्_३।६१॥ (२।५१)

इत्य् अन्तेन गूढ-शङ्कर-धनुर् अधिक्षेपोद्घाटनाद् वा लोकोत्तर-चरित-सामान्य-वर्णनेन तिरोहित-रामचन्द्रोत्साहोद्घाटनाद् वा उद्भेदः ।

अथ भेदः-
बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥स्र्स्_३।६२॥ ३८ब्

यथा तत्रैव [बाल-रामायणे] रावणः (विलोक्य)-अथ याचित-परशुना परशुरामेण किम् अभिहितम् आसीत् ।

मायामयः-त्रैलोक्य-माणिक्य रामोदन्तम् आकर्णयतु स्वामी ।

पौलस्त्यः प्रणयेन याचत इति श्र्तुवा मनो मोदते
देयो नैष हर-प्रसाद-परशुस् तेनाधिकं ताम्यति ।
तद् वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातल-त्रिदिवयोर् निर्जित्य किं दीयताम् ॥स्र्स्_३।६३॥ (२।२०)

रावणः-कदा नु खलु परशुरामो रसातल-त्रिदिवयोर् जेता दाता च संवृत्तः । रावणः पुनः प्रतिग्रहीता च । ततस् त्वया किम् असौ प्रत्युक्तः । इत्य् उपक्रम्य

मायामयः-देव प्रकृति-रोषणो रेणुकापुत्रः । तत् तम् एवागतम् अहम् उत्प्रेक्षे ।

रावणः-प्रियं नः (२।२४ पद्यात् पूर्वम्] इत्य् अन्तेन प्रतिनायक-रूप-भार्गव-रावणयोर् उत्तेजनाद् भेदः ।

अथ करणम्-
प्रस्तुतार्थ-समारम्भं करणं परिचक्षते ॥स्र्स्_३।६४॥ ३९अ

यथा तत्रैव [बाल-रामायणे] (२।२५ पद्याद् अनन्तरम्] उभाव् अपि चापारोपणं नाटयतः इत्य् उपक्रम्य आ अङ्क-परिसमाप्तेः जामदग्न्य-रावणयोः प्रस्तुत-युद्धारम्भ-कथनात् करणम् ।

अथ प्रतिमुख-सन्धिः-
बीज-प्रकाशनं यत्र दृश्यादृश्यतया भवेत् । ३९
तत् स्यात् प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः ॥स्र्स्_३।६५॥
इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः । ४०
विलास-परिसर्पौ च विधुतं शम-नर्मणी ॥स्र्स्_३।६६॥
नर्म-द्युतिः प्रगमनं निरोधः पर्युपासनम् । ४१
पुष्पं वज्रम् उपन्यासो वर्ण-सङ्ग्रहनं तथा ॥स्र्स्_३।६७॥

तत्र विलासः-
विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥स्र्स्_३।६८॥ ४२

यथा तत्रैव [बाल-रामायणे] विलक्ष-लङ्केश्वर-नामनि तृतीयाङ्के (३।२१ पद्यात् पूर्वम्] रामः-अये इयम् असौ सा सीता, यस्याः स्वयं वसुमती माता याग-भूर् जन्म-मन्दिरं इन्दु-शेखर-कार्मुकारोपणं च पणः । (स-स्पृहं निर्वर्ण्य) इत्य् आरभ्य, प्रतीहारः-

एतेनोच्चैर् विहसितम् असौ काकली-गर्भ-कण्ठो
लौल्याच् चक्षुः प्रहितम् अमुना साङ्ग-भङ्गः स्थितोऽ यम् ।
हारस्याग्रं कलयति करेणैष हर्षाच् च किञ्चित्
स्त्रैणः पुंसां नव-परिगमः कामम् उन्माद-हेतुः ॥स्र्स्_३।६९॥ (३।२६)

इत्य् अन्तेन रामादीनां सीतालम्बनाभिलाष-कथनाद् विलासः ।

अथ परिसर्पः-
पूर्व-दृष्टस्य बीजस्य त्व् अङ्क-च्छेदादिना तथा ।
नष्टस्यानुस्मृतिः शश्वत् परिसर्प इति स्मृतः ॥स्र्स्_३।७०॥ ४३

यथा तत्रैव [बाल-रामायणे] प्रतीहारः (स्वगतम्)-कथम् एते क्षत्रिय-जन-समुचितेऽ पि चापारोपण-कर्मणि निखिलाः क्षत्रियाः वितथ-सामर्थ्याः वर्तन्ते । तद् एष परम् अनाकलित-सारो विकर्तन-कुल-कुमार आस्ते । यद् वा, किम् अनेनापि-

यस्य वज्र-मणेर् भेदे भिद्यन्ते लोह-सूचयः ।
करोतु तत्र किं नाम नारी-नख-विडम्बनम् ॥स्र्स्_३।७१॥ (३।६६)

(विचिन्त्य) भवतु । तथापि सङ्कीर्तयाम्य् एनम् । अनाकलित-सारो हि वीर-प्रकाण्ड-सम्भूतिः इत्य् उपक्रम्य ।

हेमप्रभा-सम्पण्णं च पिअ-सहीए पाणि-ग्गहणम् (३।७९ पद्याद् अनन्तरम्] (सम्पन्नं च प्रिय-सख्या पाणि-ग्रहणम्) इत्य् अन्तेन पूर्वं ताटकादि-वध-दृष्टस्य पश्चान् निखिल-क्षत्रिय-दुरारोप-धूर्जटि-चापारोपण-प्रभाव-वर्णनाद् नष्टस्य रामभद्रोत्साहस्य तद्-धनुर्-भङ्ग-क्रिया-रूपेण स्मरणात् परिसर्पः ।

अथ विधुतम्-
नायकादेर् ईप्सितानाम् अर्थानाम् अनवाप्तितः ।
अरतिर् यद् भवेद् तद् धि विद्वद्भिर् विधुतं मतम् । ४४
अथवानुनयोत्कर्षं विधुतं स्यान् निराकृतिः ॥स्र्स्_३।७२॥ ४५अ
यथा तत्रैव [बाल-रामायणे] भार्गव-भङ्ग-नामनि चतुर्थेऽ ङ्के, शतानन्दः-

यस्यास्ते जननी स्वयं क्षितिर् अयं योगीश्वरस् ते पिता ॥स्र्स्_३।७३॥ (४।४२)

इत्य् आरभ्य, रामः (विचिन्त्य स्वगतम्)-रुदत्य् अपि कमनीया जानकी-इत्य् अन्तेन (४।४७ पद्याद् अनन्तरम्] सीतायाः बन्धु-विरह-जनितारति-कथनाद् विधुतम् । अथ वा मतान्तरेण तत्रैव, रामः (समुपसृत्य)-भगवन् भार्गव सदयं प्रसीद इत्य् आरभ्य, जामदग्न्यः-नाभिवादन-प्रसाद्यो रेणुका-सूनुः (४।५८ पद्यात् पूर्वम्] इत्य् अत्र रामानुनयस्य भार्गवेणास्वीकाराद् विधूतम् ।

अथ शमः-
अरतेः शमनं तज्-ज्ञाः शमम् आहुर् मनीषिणः ॥स्र्स्_३।७४॥ ४५ब्

यथा तत्रैव [बाल-रामायणे] (४।५७ पद्यात् पूर्वम्) हेमप्रभा-जुज्जै पफुल्ल-कोदूहल-त्तणं । परसुराम-दंसणेण उण ससज्झ-सत्तणं भग्ग-धन-द्दण्ड-चण्ड-चरितस्स पुरदो रामचन्दस्स । (युज्यते प्रफुल्ल-कौतूहलत्वं परशुराम-दंशनेन पुनः स-साध्वसत्वं भग्न-धनुर्-दण्ड-चण्ड-चरितस्य पुरतो रामचन्द्रस्य) इत्य् अत्र रामचन्द्र-पराक्रम-कथनात् सीतायाः अरति-शमनात् शमः ।

अथ नर्म-
परिहास-प्रधानं यद् वचनं नर्म तद् विदुः ॥स्र्स्_३।७५॥ ४६

यथा तत्रैव [बाल-रामायणे] तृतीयेऽ ङ्के, रामः (सकण्ठ-रोधम्)-

वाचा कार्मुकम् अस्य कौशिक-पतेर् आरोपणायार्पितं
मद्-दोर्-दण्ड-हठाञ्चनेन तद् इदं भग्नं कृत-न्यक्-कृति ।
नो जाने जनकस् तद् अत्र भगवान् व्रीडा-वशाद् उत्तरं
निक्षेप्त्रे नत-कन्धरो भगवते रुद्राय किं दास्यति ॥स्र्स्_३।७६॥ (३।७१)

इत्य् अत्र जनकाधिपापलापेन हास-प्रधानं नर्म ।

अथ नर्म-द्युतिः-
कोपस्यापह्नवार्थं यद् धास्यं नर्म-द्युतिर् मता ॥स्र्स्_३।७७॥ ४६

यथा तत्रैव [बाल-रामायणे] चतुर्थाङ्के विश्वामित्रो जामदग्न्यं प्रति-

रामः शिष्यो भृगुभव भवान् भागिनेयी-सुतो मे
वामे बाहाव् उत तद्-इतरे कार्यतः को विशेषः ।
दिव्यास्त्राणां तव पशुपतेर् अस्य लाभस् तु मत्तस्
तत् त्वां याचे विरम कलहाद् आर्यकर्मारभस्व ॥स्र्स्_३।७८॥ (४।६९)

जामदग्न्यः (विहस्य) : मातुर् मातुल न किञ्चिद् अन्तरं भवतो भवानीवल्लभस्य च । (इत्य् उपक्रम्य)

रामः (विहस्य) : जामदग्न्य ! एकः पुनर् अयं शस्त्र-ग्रहणाधिकारो यद् गुरुष्व् अपि तिरस्कारः (तत्रैव किञ्चित् परस्तात्) इत्य् अन्तेन भार्गव-राघवयोः पूज्य-विषय-क्रोधापह्नवार्थं हास्य-कथनान् नर्म-द्युतिः ।

अथ प्रगमणम्-
तत् तु प्रगमनं यत् स्याद् उत्तरोत्तर-भाषणम् ॥स्र्स्_३।७९॥ ४७अ

यथा तत्रैव [बाल-रामायणे], रामः-

किं पुनर् इमाः सर्वङ्कषा रोष-वाचः ।
सर्वत्यागी परिणत-वयाः सप्तमः पद्म-योनेः ॥स्र्स्_३।८०॥ (४।७१)

इति श्लोकान्ते जामदग्न्यः: तत् किम् ?

रामः (स-खेदम्) :
यस्याचार्यकम् इन्दु-मौलिर् अकरोत् स-ब्रह्मचारी चिरं
जातो यत्र गुहश् चकार च भुवं यद् गीत-वीर-व्रताम् ।
तत् कोदण्ड-रहस्यम् अद्य भगवन् द्रष्टैष रामः स ते
हेलोज्जृम्भित-जृम्भकेण धनुषा क्षत्रं च नालं वयम् ॥स्र्स्_३।८१॥ (४।७२)

जामदग्न्यः : साधु रे क्षत्रिय-डिम्भ, साधु । इत्य् अन्तेन भार्गव-राघवयोर् उक्ति-प्रत्युक्ति-कथनात् प्रगमनम् ।

अथ निरोधः-
यत्र व्यसनम् आयाति निरोधः स निगद्यते ॥स्र्स्_३।८२॥ ४७ब्

यथा तत्रैव [बाल-रामायणे] जामदग्न्यः-

पक्व-कर्पूर-निष्पेषम् अयं निरपिषत् त्रयम् ।
मम व्रीडां च चण्डीश-चापं च स्वं च जीवितम् ॥स्र्स्_३।८३॥ (४।६५)

जनकः-कथं सन्न्यस्त-शस्त्रस्यापि पुनर् अस्त्र-ग्रहण-क्षणो वर्तते इत्य् उपक्रम्य,

प्रहिणु तद् इह बाणान् वार्धकं मां दुनोति ॥स्र्स्_३।८४॥ (४।६७)

दशरथः-भोः सम्बन्धिन् कृतं कार्मुक-परिग्रह-व्यसनेन-इत्य् अन्तेन जनकस्य भार्गव-निमित्तस्य जरा-निमित्तस्य वा व्यसनस्य कथनाद् निरोधः ।

अथ पर्युपासनम्-
रुष्टस्यानुनयो यः स्यात् पर्युपासनम् ईरितम् ॥स्र्स्_३।८५॥ ४८अ

यथा तत्रैव [बाल-रामायणे] विश्वामित्रः (जामदग्न्यं प्रति)-

रामः शिष्यो भृगु-सुत भवान् भागिनेयी-सुतो मे ॥स्र्स्_३।८६॥ (४।६९)

इत्य् अत्र श्लोके रोषान्धस्य भार्गवस्यानुनयो विश्वामित्रेण कृत इति पर्युपासनम् ।

अथ पुष्पम्-
स-विशेषाभिधानं यत् पुष्पं तद् इति सञ्ज्ञितम् ॥स्र्स्_३।८७॥ ४८ब्

यथा तत्रैव [बाल-रामायणे] तृतीयाङ्के (प्रविश्य) कोहलः-

कर्पूर इव दग्धोऽ पि शक्तिमान् यो जने जने ॥स्र्स्_३।८८॥ [बा।रा। ३।११] इत्य् उपक्रम्य,

प्रकटित-रामाम्भोजः कौशिकवा सपदि लक्ष्मणानन्दी ।
सुर-चाप-नमन-हेतोर् अयम् अवतीर्णः शरत्-समयः ॥स्र्स्_३।८९॥ [बा।रा। ३।१६]

इत्य् अन्ते रामचन्द्र-लक्षणार्थ-विशेषाभिधानात् पुष्पम् ।

अथ वज्रम्-
वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम् ॥स्र्स्_३।९०॥ ४९अ

यथा तत्रैव [बाल-रामायणे] चतुर्थाङ्के, जामदग्न्यः-निदर्शित-लाघव राघव तद् आकर्णय यत् ते करोमि-

त्रुटित-निविड-नाडी-चक्रवाल-प्रणाली-
प्रसृत-रुधिर-धारा-चर्चितोच्चण्ड-रुण्डम् ।
मडमडित-मृडानी-कान्त-चापस्य भङ्क्तुः
परशुर् अमर-वन्द्यः खण्डयत्य् अद्य मुण्डम् ॥स्र्स्_३।९१॥ [बा।रा। ४।६१]

इत्य् उपक्रम्य, यः प्रेत-नाथस्यातिथ्यम् अनुभवितु-काम इत्य् अन्तेन वज्र-निष्ठुर-भाषणाद् वज्रम् ।

अथोपन्यासः-
युक्तिभिः सहितो योऽ र्थः उपन्यासः स इष्यते ॥स्र्स्_३।९२॥ ४९ब्

यथा तत्रैव [बाल-रामायणे] मातलिः-अयं हि पितृ-भक्त्य्-अतिशयः परशुरामस्य यद् उत रेणुका-शिरश्-छेदः [४।२९ पद्याद् अनन्तरम्] इत्य् उपक्रम्य-

यद् वा ते गुरवोऽ विचिन्त्य-चरितास् तेभ्योऽ यम् अस्त्व् अञ्जलिः ॥स्र्स्_३।९३॥ [बा।रा। ४।३३]

इत्य् अन्तेन उपपत्तिभिः पितुर् निदेश-करणाद् अपि मातृ-वध-करणस्यैव प्रतिपादनाद् वा गुरूणाम् अविचिन्त्य-चरितत्वोपन्यासेन सर्वोपपन्नत्व-प्रतिपादनाद् वा उपन्यासः ।

अथ वर्ण-संहारः-
सर्व-वर्णोपगमनं वर्ण-संहार उच्यते ॥स्र्स्_३।९४॥ ५०अ
यथा तत्रैव [बाल-रामायणे] जामदग्न्यः (कर्णं दत्त्वा आकाशे)-किं ब्रूथ ? केन न वर्णितं दाशरथेः शङ्कर-कार्मुकारोपणम् ? को न विस्मितस् तद्-भङ्गेन ? (साक्षेपम्) (केन न वर्णितम् इत्य् आदि पठति) शृणुत भोः ।

यः कर्ता हर-चाप-दण्ड-दलने यश् चानुमन्ता ननु
द्रष्टा यश् च परीक्षिता च य इह स्तोता च वक्ता च यः ॥स्र्स्_३।९५॥ [बा।रा। ४।५६]

इत्य् उपक्रम्य-
रामो राम-मयं स्वयं गुह-सहाध्यायी समन्विष्यति ॥स्र्स्_३।९६॥ [बा।रा। ४।५७]

इत्य् अन्तेन हर-चाप-दलनस्य निषिद्धया कर्तृतया अनुमन्तृतया स्तोतृतया च राघव-विश्वामित्र-पीरादि-परामर्शेन ब्राह्मण-क्षत्रियादि-वर्णानां सङ्ग्रहणाद् वर्ण-संहारः ।

अथ गर्भ-सन्धिः-
दृष्टादृष्टस्य बीजस्य गर्भस् त्व् अन्वेषणं मुहुः । ५०ब्
अत्राप्य् आचापताकानुरोधाद् अङ्गानि कल्पयेत् ॥स्र्स्_३।९७॥
अभूताहरणं मार्गो रूपोदाहरणे क्रमः । ५१
सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ।
उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥स्र्स्_३।९८॥ ५२

तत्राभूताहरणम्-
अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम् ॥स्र्स्_३।९९॥ ५३अ

यया तत्रैव [बाल-रामायणे] उन्मत्त-दशानन-नामनि पञ्चमाङ्के माल्यवान् (हसित्वा)-वृद्ध-बुद्धिर् हि प्रथमं पश्यति चरमं कार्यम् । यन् मया धूर्जटि-धनुर्-अधिक्षेपतः प्रभृति मति-चक्षुषा दृष्टम् एव यद् उत दशकन्धरोऽ नुसन्धास्यति सीता-हरणम् ।

माया-मयः : ततस् ततः ?

माल्यवान्: ततश् च मया मन्दोदरी-पितुर् माया-गुरोर् मयस्य प्रथम-शिष्यो विशारद-नामा यन्त्र-कारः स-बहुमानं नियुक्तः सीता-प्रतिकृति-करणाय । विरचिता च सा रावणोपच्छन्दनार्थम् । अभिहितं च-

सूत्र-धार-चलद्-दारु-गात्रेयं यन्त्र-जानकी ।
वक्त्रस्थ-शारिकालाप लङ्केन्द्रं वञ्चयिष्यति ॥स्र्स्_३।१००॥ [बा।रा। ५।५]

इत्य् उपक्रम्य, रावणः (पुनर् निरूप्य शारिकाधिष्ठित-वक्त्रं सीता-प्रतिकृति-यन्त्रं): अहो मतिमान् मायामयः । छालितोऽ सि जनक-राज-पुत्र्याः प्रतिकृति-समर्पणेन (५।२० पद्याद् अनन्तरम्] इत्य् अन्तेन माल्यवत् कपट-वाक्य-संविधानाद् अभूताहरणम् ।

अथ मार्गः-
मार्गस् तत्त्वार्थ-कथनम् ॥स्र्स्_३।१०१॥ ५३ब्

यथा तत्रैव [बाल-रामायणे] निर्दोष-दशरथ-नामनि षष्ठाङ्के माया-मयः-आर्य किम् अपि द्विषताम् अप्य् आवर्जकम् उदात्त-जन-चरितम् । पश्य-

क्रूर-क्रमा किम् अपि राक्षस-जातिर् एका
तत्रापि कार्य-परतेति मयि प्रकर्षः ।
रामेण तु प्रवसता पितुर् आज्ञयैव
बाष्पाम्भसाम् अहम् अपीह कृतो रसज्ञः ॥स्र्स्_३।१०२॥ [बा।रा। ६।९]

इत्य् उपक्रम्य, मायामयः-ततश् च वामदेव-प्रभृतिभिर् मन्त्रिभिर् यथा-वृत्तम् अभिधाय सपादोपग्रहं निवारितोऽ पि तद् इदम् अभिधाय प्रस्थितः-

मया मूर्ध्नि प्रह्वे पितुर् इति धृतं शासनम् इदं
स यक्षो रक्षो वा भवतु भगवान् वा रघुपतिः ।
निवर्तिष्ये सोऽ हं भरत-कृत-रक्षां रघुपुरीं
समाः सम्यङ् नीत्वा वन-भुवि चतस्रश् च दश च ॥स्र्स्_३।१०३॥ [बा।रा। ६।११]

इत्य् अन्तेन राम-प्रवास-विषयस्य मायमय-दुःखस्य सत्यस्यैव व्यक्तत्वाद् वा मायामयादेः कपटत्व-ज्ञानेऽ पि रामचन्द्रेण सत्यतयाङ्गीकाराद् वा मार्गः ।

अथ रूपम्-
रूपं सन्देह-कृद् वचः ॥स्र्स्_३।१०४॥ ५३ब्

यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के कैकेयी (सोद्वेगम्)-पणमामि भअवदिं सरऊं जा पुब्बं दीसमाणा णयण-पीऊस-गण्डूस-कबलं करेन्ति असि । सा सम्पदं हालाहल-कबड-पडिरूबा पडिहाअदि । किं पुण मे अओज्झा-दंसणे बि अकारण-पज्जाउलं हिअअं । [प्रणमामि भगवतीं सरयूं या पूर्वं दृश्यमाना नयण-पीयूष-गण्डूष-कवलं कुर्वती आसीत्, सा सम्प्रतं हालाहल-कवल-प्रतिरूपा प्रतिभाति । किं पुनर् मे अयोध्या-दर्शनेऽ पि अकारण-पर्याकुलं हृदयम् ।]

इत्य् उपक्रम्य, दशरथः (अकर्णितकेन)-

एतच् छ्रान्त-विचित्र-चत्वर-पथं विश्रान्त-वैतालिक-
श्लाघा-श्लोकम् अगुञ्जि-मञ्जु-मुरजं विध्वस्त-गीत-ध्वनि ।
व्यावृत्ताध्ययनं निवृत्त-सुकवि-क्रीडा-समस्यं नमद्-
विद्वद्वद् वाद-कथं कथं पुरम् इदं मौन-व्रते वर्तते ॥स्र्स्_३।१०५॥ [बा।रा। ६।१२]

इत्य् अन्तेन कैकेयी-दशरथयोर् अयोध्या-विषय-विषाद-वितर्क-विन्यासाद् रूपम् ।

अथोदाहरणम्-
सोत्कर्ष-वचनं यत् तु तद् उदाहरणं मतम् ॥स्र्स्_३।१०६॥ ५४अ

यथा तत्रैव [बाल-रामायणे] असम-पराक्रम-नामनि सप्तमाङ्के विभीषणः-सखे सुग्रीव ! अतिशशाङ्क-शेखरम् इदम् आचेष्टितं रामदेवस्य यद् अनेन-

निर्वाणं जल-पान-पीडन-बलैर् यस्मिन् युगान्तानलैर्
यस्याभाति कुकूल-मुर्मुर-मृदुः क्रोडे शिखी बाडवः ।
तस्याप्य् अस्य कृशानु-सङ्क्रम-कृत-ज्योतिः-शिखण्डैः शरैर्
दत्तश् चण्ड-दवाग्नि-अम्बर-विधिर् देवस्य वारां-निधेः ॥स्र्स्_३।१०७॥ (७।३२)

इत्य् उपक्रम्य, समुद्रः-तर्हि बाल-नारायणं रामम् एवोपसर्पामः । न हि राकामृगाङ्कम् अन्तरेण चन्द्र-मणेर् आनन्द-जल-निष्यन्दः (७।३६ पद्याद् पूर्वम्] इत्य् अन्तेन समुद्र-क्षोभक-रामचन्द्रोत्साहोत्कर्ष-कथनाद् उदाहरणम् ।

अथ क्रमः-
भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥स्र्स्_३।१०८॥ ५४ब्

यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के [६।४ पद्याद् अनन्तरम्] माल्यवान् (स्मृति-नाटिकेन)-न जाने किं हि वृत्तं कैकेयी-दशरथयोः ।

(उपसर्पितकेन) मायमयः-जयत्व् आर्यः ।

शूर्पणखा-जेदु जेदु कणिट्ठमादाम् अहो । [जयतु जयतु कनिष्ठ-मातामहः ।]

माल्यवान्-अथ किं वृत्तं तत्र ?

मायमयः-यथादिष्टम् आर्येण । इत्य् उपक्रम्य ।

माल्यवान् (सहर्षम्)-तर्हि विस्तरतः कथ्यताम् ।

इत्य् अन्तेन माल्यवच् चिन्ता-समकालम् एव शूर्पणखा-मायामययोर् उपगमनाद् वा माल्यवतो विलम्बासहाभिप्राय-परिज्ञानवता मायामयेन निष्पन्नस्य कार्यस्य सङ्क्षेप-कथनाद् वा क्रमः ।

अथ सङ्ग्रहः-
सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः ॥स्र्स्_३।१०९॥ ५५अ

यथा तत्रैव [बाल-रामायणे] सप्तमाङ्के, समुद्रः (साभ्यर्थनम्)-

इन्दुर् लक्ष्मीर् अमृत-मदिरे कौस्तुभः पारिजातः
स्वर्-मातङ्गः सुर-युवतयो देव धन्वन्तरिश् च ।
मन्थाम्रेडैः स्मरसि तद् इदं पूर्वम् एव त्वयात्त
सम्प्रत्य् अब्धिः शृणु जल-धनस् त्वां प्रपन्नः प्रशाधि ॥स्र्स्_३।११०॥ [बा।रा। ७।३६]

रामः (सगौरवम्)-भगवन् रत्नाकर ! नमस् ते । इत्य् उपक्रम्य,

समुद्रः-यथा सप्तमो वैकुण्ठावतारः [७।४४ पद्यात् पूर्वम्] इत्य् अन्तेन समुद्र-रामचन्द्रयोः परस्पर-प्रिय-वचन-सङ्ग्रहणात् सङ्ग्रहः ।

अथ अनुमानम्-
अर्थस्याभ्यूहनं लिङ्गाद् अनुमानं प्रचक्षते ॥स्र्स्_३।१११॥ ५५ब्

यथा तत्रैव [बाल-रामायणे, ७।२१ पद्यात् पूर्वम्] प्रतीहारी (समन्ताद् अवलोक्य)-कथम् अयम् अन्यादृश इव लक्ष्यतेऽ म्बुराशिः ।

वन्दी (यथोपलक्षित-मार्गेण स-चमत्कारं पुरोऽ वलोक्य)-पश्य । विलीयमान-जल-मानुष-मिथुनम् अत्यर्थ-कदर्थ्यमान-शङ्खिनी-यूथम् इत्य् उपक्रम्य,

प्रतीहारी-
आं ज्ञातं धाम्नि वारां रघुपतिर्
विशिखाः प्रज्वलन्तः पतन्ति ॥स्र्स्_३।११२॥ [बा।रा। ७।३०]

इत्य् अन्तेन समुद्र-क्षोभ-लिङ्गानुमित-रामोत्साहार्थ-कथनाद् अनुमानम् ।

अथ तोटकम्-
संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् ॥स्र्स्_३।११३॥ ५६अ

यथा तत्रैव [बाल-रामायणे] हनुमान्-यथादिशति स्वामी । (सर्वतोऽ वलोक्य)-

दृप्यद्-विक्रम-केलयः कपि-भटाः शृण्वन्तु सुग्रीवजाम्
आज्ञां मौलि-निवेशिताञ्जलि-पुटाः सतोर् इह व्यूहने ।
दोर्-दण्ड-द्वय-ताडन-श्लथ-धरा-बन्धोद्धृतान् भूधरान्
आनेतुं सकलाः प्रयात ककुभः किं नाम वो दुष्करम् ॥स्र्स्_३।११४॥ [बा।रा। ७।४६]

इत्य् उपक्रम्याङ्क-परिसमाप्तेः कपि-राक्षसादि-संरम्भ-कथनात् तोटकम् ।

अथ अधिबलम्-
बुधैर् अधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥स्र्स्_३।११५॥ ५६ब्

यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के [६।५ पद्यात् पूर्वम्] मायामयः-अथैकदा दयित-स्नेह-मय्या कैकेय्या समम् असुरानीक-विजयाय पूरित-सुहृन्-मनोरथे दशरथे त्गिर्विष्टप-तिलक-भूतं पुरुहूतं प्रभाववति समुपस्थितवति तद्-रूप-धारिणौ कुवलयाभिरामं रामं सपरिच्छदं छलयितुं अयोध्यां शूर्पणखा अहं च प्राप्तवन्तौ । इत्य् उपक्रम्य,

माल्यवान्-किम् असाध्यं वैदग्ध्यस्य [६।५ पद्याद् अनन्तरम्] इत्य् अन्तेन मायामय-शूर्पणखाभ्यां कपट-वेष-धारणेन राम-वामदेव-वञ्चनाद् अधिबलम् ।

अथ उद्वेगः-
शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते ॥स्र्स्_३।११६॥ ५७अ

यथा तत्रैव [६।५६ पद्यात् पूर्वम्] (ततः प्रविशति गगनार्धावतरण-नाटितकेन रत्न-शिखण्डः)-स्वस्ति महाराज-दशरथाय ।

दशरथः-अपि कुशलं वयस्यस्य जटायोः ।

रत्नशिखण्डः-प्रिय-सुहृद्-उपयोगेन । न पुनः शरीरेण ।

दशरथः-भद्र समुपविश्य कथ्यताम् । व्याकुलोऽ स्मि इत्य् उपक्रम्य,

कोसल्या-हा देब्ब तुए किद-विडम्बं समत्थिअं बण-गदं राहव-कुटुम्बं । [हा देव त्वया कृत-विडम्बं समर्थितं वन-गतं राघव-कुटुम्बम् । ]

सुमित्रा-ण केबलं बण-गदं । भुबण-गदं बि । [न केवलं वन-गतं । भुवन-गतम् अपि ।] (६।७० पद्याद् अनन्तरम्] इत्य् अन्तेन मातृ-गत-भीतेर् उपन्यासाद् उद्वेगः ।

अथ सम्भ्रमः-
शत्रु-व्याघ्रादि-सम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥स्र्स्_३।११७॥ ५७ब्

यथा तत्रैव [बाल-रामायणे] वामदेवः (सास्रं स्वगतम्)-

हे मद्-वाणि निजां विमुञ्च वसति द्राग् देहि यात्रां बहिः
(राजानं प्रति प्रकाशम्)
देव स्तम्भय चेतनां श्रवणयोर् अभ्येति शुष्काशनिः ।
(दम्पती शङ्कां नाटयतः) वामदेवः-
त्वद्-रूपाद् विपिनाय चीवरधरो धन्वी जटी शासनं
रामः प्राप्य गतः कुतश्चन वनं सौमित्रि-सीता-सखः ॥स्र्स्_३।११८॥ [बा।रा। ६।१३]

उभौ मूर्च्छतः । वामदेवः-देव समाश्वसिहि ।

दशरथः (समाश्वास्य)-केन पुनः कारणेन इत्य् उपक्रम्य,

दशरथः-वत्स रामभद्र मन्ये ममैव मलयाचल-निवासिनः प्रिय-वयस्यस्य जटायोर् अपि शोक-शङ्कुर् अयं सर्वङ्कषो भविष्यति । [६।५५ पद्याद् अनन्तरम्] इत्य् अन्तेन कौसल्या-दशरथादीनां रक्षस्-तरक्षु-हर्यक्ष-प्रभृति-सञ्चरण-दारुणारण्यादिषु राम-प्रवास-विषय-शङ्का-त्रासानुवृत्ति-कथनात् सम्भ्रमः ।

अथ आक्षेपः-
गर्भ-बीज-समाक्षेपम् आक्षेपं परिचक्षते ॥स्र्स्_३।११९॥ ५८अ

यथा तत्रैव [बाल-रामायणे] पञ्चमाङ्के [५।७४ पद्याद् अनन्तरम्] (प्रविश्य अपटीक्षेपेण छिन्न-नामा कृतावगुण्ठना) शूर्पणखा (साक्रन्दं पादयोर् निपत्य)-अज्ज एक्क-मादुअ पेक्ख तक्खअ-चूडामणी उप्पाडिदो । बडवाणल-जाला-कलापअं घुन्तलिदं । दसकण्ठ-कनिट्ठ-बहिणिए अच्चाहिदं । [आर्य एक-मातृक प्रेक्षस्व तक्षक-चूडामणिर् उत्पाटितः । बडवानल-ज्वाला-कलापकं चूर्णितम् । दशकण्ठ-कनिष्ठ-भगिन्या अत्याहितम् ।] इत्य् उपक्रम्य,

रावणः (प्रकाशम्)-ततः किं तस्याः ?

शूर्पणखा-सापि लङ्केस्सरस्स समुचिदत्ति अबहरन्ती तेहिं काबालिअ-ब्बद-जोग्गा किदंहि । [सापि लङ्केश्वरस्य समुचितेति व्यवहरन्ती तैः कापालिक-व्रत-योग्या कृतास्मि ।]

इत्य् अन्तेन अङ्कान्त-गत-भागेन सकल-देवता-तेजस् तिरस्करण-रावणातिशय-वर्णना-गर्भीकृतस्य रामोत्साहस्य शूर्पणखा-कर्ण-नासा-निकृन्तन-रूपेण समुद्भेदाद् आक्षेपः ।

अथ विमर्श-सन्धिः-
यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते । ५८ब्
बीजार्थो गर्भ-निर्भिन्नः स विमर्श इतीर्यते ॥स्र्स्_३।१२०॥
प्रकरी-नियताप्त्यानुगुण्याद् अत्राङ्ग-कल्पनम् । ५९
अपवादोऽ थ सम्फेटो विद्रव-द्रव-शक्तयः ॥स्र्स्_३।१२१॥
द्युति-प्रसङ्गौ छलन-व्यवसायौ निरोधनम् । ६०
प्ररोचना विचलनम् आदानं स्युस् त्रयोदश ॥स्र्स्_३।१२२॥

अथ अपवादः-
तत्रापवादो दोषाणां प्रख्यापनम् इतीर्यते ॥स्र्स्_३।१२३॥ ६१

यथा तत्रैव [बाल-रामायणे] अष्टमाङ्के वीर-विलास-नामनि [आदौ] (ततः प्रविशतो राक्षसौ) एकः-सखे दुर्मुख किम् अपि महान् सत्त्व-भ्रंशो दशकण्ठस्य यत् कुमार-सिंहनाद-वधम् अप्य् आकर्ण्य न शोकं कृतो नाप्य् अमर्षः । इत्य् उपक्रम्य,

त्रिजटा-कहं देवेण दिण्णो लज्जा-देईए जलाञ्जली । [कथं देवेन दत्तो लज्जा-देव्यै जलाञ्जलिः ।] [८।१० पद्याद् अनन्तरम्] इत्य् अन्तेन रावण-गत-दुर्बुद्धि-दोष-प्रख्यापनाद् अपवादः ।

अथ सम्फेटः-
दोष-सङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते ॥स्र्स्_३।१२४॥ ६२अ

यथा तत्रैव, सुमुखः (जनान्तिकम्)-सखे दुर्मुख ! किम् अपि शौर्यातिरेको रामानुजस्य यद् अमुना निकुम्भिलां प्रस्थितस्य कुमार-मेघनादस्य सन्दिष्टम्, यद् उत-
यावन् नैव निकुम्भिलाय-जनतः सिद्धे हविर् लेहिनि
प्राप्त-स्यन्दन-बाण-चाप-कवचः स्वं मन्यसे दुर्जयम् ।
वैदेही-विरह-व्यथा-विधुरितेऽ प्य् आर्ये विधाय क्रुधो
वन्ध्यास् तावद् अयं स शक्र-विजयिंस् त्वां लक्ष्मणो जेष्यति ॥स्र्स्_३।१२५॥ [बा।रा। ८।१५]

इत्य् उपक्रम्य, नेपथ्ये-

सीता-प्रियं च दलितेश्वर-कार्मुकं च
बालि-द्रुहं च रचिताम्बुधि-बन्धनं च ।
रक्षोहणं च विजिगीषु-विभीषणं च
रामं निहत्य चरणौ तव वन्दिताहे ॥स्र्स्_३।१२६॥ [बा।रा। ८।४७]

इत्य् अन्तेन, लक्ष्मणेन्द्रजित्-कुम्भकर्णानां रोष-वाक्य-ग्रहणात् सम्फेटः ।

अथ विद्रवः-
विरोध-वध-दाहादिर् विद्रवः परिकीर्तितः ॥स्र्स्_३।१२७॥ ६२ब्

यथा तत्रैव (८।४८ पद्याद् अनन्तरम्] सुमुखः-देव पदातिलवः सुमुखस् तु मन्यते लक्ष्मण-दिधक्षया कुमार-मेघनादेन पावकीयः शरः संहित इति उपक्रम्य,

(दक्षिणतः) सुमुखः-अयम् अपरः क्षते क्षारावसेकः ।

आकर्णाकृष्ट-चापोन्मुख-विशिख-शिखा-शेखरः शूल-पाणिर्
बिभ्राणो भैरवत्वं बहुल-कलकलाराव-रौद्राट्ट-हासः ।
ध्यातः सौमित्रि-णाथ प्रसरद्-उरुतरोत्ताल-वेताल-मालस्
तद्-वक्त्राद् उत्पतद्भिः समजनि शिखिभिर् भस्मसाद् इन्द्रजिच् च ॥स्र्स्_३।१२८॥ [८।८५]

(रावणो मूर्च्छति सर्वे यथोचितम् उपचरन्ति ।) रावणः (मूर्च्छा-विच्छेद-नाटितकेन) इत्य् अन्तेन कपिसेनाविक्षोभ-सुग्रीव-निरोध-कुम्भकर्ण-वधेन्द्रजिद्-भस्मीकरण-रावण-मूर्च्छादि-सङ्कथनाद् विद्रवः ।

अथ द्रवः-
गुरु-व्यतिक्रमं प्राह द्रवं तु भरतो मुनिः ॥स्र्स्_३।१२९॥ ६३अ

यथा तत्रैव, करङ्कः-

धिक् शौण्डीर्य-मदोद्धतं भुज-वनं धिक् चन्द्रहासं च ते
धिग् वक्त्राणि निकृत्त-कण्ठ-वलय-प्रीतेन्दु-मौलीनि च ।
निद्रा-लावतिघस्मरे प्रतिदिनं स्वापान् महा-मेदुरे
प्रत्याशा चिर-विस्मृतायुध-विधौ यत् कुम्भकर्णे स्थिता ॥स्र्स्_३।१३०॥ [बा।रा। ८।७४]

इत्य् अत्र स्वामिनोर् दशकण्ठ-कुम्भकर्णयोर् अनुजीविना राक्षसेन निन्दा-करणाद् द्रवः ।

अथ शक्तिः-
उत्पन्नस्य विरोधस्य शमनं शक्तिर् इष्यते ॥स्र्स्_३।१३१॥ ६३

यथा तत्रैव रावण-वध-नामनि नवमाङ्के [९।४९ पद्याद् पूर्वम्], पुरन्दरः-यत् कुलाचल-सन्दोह-दहन-कर्मणि भगवान् कालाग्निरुद्रः इत्य् उपक्रम्य,

नेपथ्ये-
बाणैर् लाञ्छित-केतु-यष्टि-शिखरो मूर्च्छा-नमत्-सारथिर्
मासास्वादन-लुब्ध-गृध्र-विहग-श्रेणीभिर् आसेवितः ।
रक्षो-नाथ-महा-कबन्ध-पतन-क्षुण्णाक्ष-दण्डो हयैर्
हेषित्वा स्मृत-मन्दुरास्थिति-हृतैर् लङ्कां रथो नीयत ॥स्र्स्_३।१३२॥ [बा।रा। ९।५६]

इत्य् अन्तेन निरवशेष-प्रतिनायक-भूत-रावण-कण्ठोत्सादन-कथनेन विरोध-शमनात् शक्तिः ।

अथ द्युतिः-
द्युतिर् नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ॥स्र्स्_३।१३३॥ ६४अ

यथा तत्रैव अष्टमाङ्के, रावणः (ऊर्ध्वम् अवलोक्य)-किम् अयम् अतिसत्वरः सुर-समाजः ? शङ्के कतिपय-यातुधान-वधान् तापसं प्रति प्रीयते । (स-क्रोध-तर्जनम्)

हर्षोत्कर्षः किम् अयम् अमराः क्षुद्र-रक्षो-वधाद् वस्
तन् मे दोष्णां विजित-जगतां विक्रमं विस्तृताः स्थ ।
किं चाद्यैव प्रिय-रण-रसो बोध्यते कुम्भकर्णस्
तूर्णं जेता स च दिविषदां बोध्यते मेघनादः ॥स्र्स्_३।१३४॥ [बा।रा। ८।१२]

इत्य् उपक्रम्य, नेपथ्ये-बिरएह केलि-आकड्ढण-पाडणिज्जं गोउर-दुवारम्, बोढेह बिबिह-प्पहरण-सण्णाह-दह-सहस्साइ । (व्रचयत केलिकाकर्षण-पातनीयं गोपुर-द्वारम् । वहत विविध-प्रहरण-सन्नाह-दश-सहस्राणि ।) इत्य् अन्तेन देवता-तर्जन-लङ्का-पुर-जनोद्वेजन-कथनाद् द्युतिः ।

अथ प्रसङ्गः-
प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः । ६४ब्
प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् ॥स्र्स्_३।१३५॥

यथा तत्रैव नवमाङ्के [आदौ] (प्रविश्य) यम-पुरुषः-तत्र-भवतो लुलाय-लक्षणः सकल-प्राणिभृतां विहित-नाशस्य कीनाशस्य किम् अपि विश्वातिशायिनी प्रभविष्णुता इत्य् उपक्रम्य,

दशरथः-भगवन् गीर्वाण-नाथ स-प्रसादम् इतो निधीयन्तां दृष्टयः । [९।१८ पद्यात् पूर्वम्] इत्य् अन्तेन यम-पुरन्दरादि-पूज्य-सङ्कीर्तनाद् वा प्रस्तुत-राक्षस-वध-रूपस्यार्थस्य प्रपञ्चनाद् वा प्रसङ्गः ।

अथ छलनम्[*१८]-
अवमानादि-करणं कार्यार्थे छलनं विदुः ॥स्र्स्_३।१३६॥ ६५
[*१८] नात्य-शास्त्रे अत्र छादन इति सञ्ज्ञा प्राप्यते ।

यथा तत्रैव [बाल-रामायणे] चारणः (कर्णं दत्त्वा आकाशे)-किम् आह रामभद्रः । रे रे राक्षस-पुत्र-
यद् गौरी-चरणाब्जयोः प्रथमतस् त्यक्त-प्रणाम-क्रियं
प्रेमार्द्रेण स-विभ्रमेण च पुरा येनेक्षिता जानकी ।
लूनं ते तद् इदञ्च राक्षस-शिरो जातं च शान्तं मनः
शेष-च्छेद-विधिस् तु सम्प्रति परं स्वर्-वन्दिन्-मोक्षाय मे ॥स्र्स्_३।१३७॥ [बा।रा। ९।१०]

किम् आह रावणः ? रे रे क्षत्रिया-पुत्र सुलभ-विभ्रम-चर्म-चक्षुर् असि इत्य् उपक्रम्य,

रामः-तद् इत्थम् अभिधानम् अपवित्रं ते वक्त्रम् । इतो निर्विशतु वध-शुद्धिम् [९।४६ पद्याद् अनन्तरम्] इत्य् अन्तेन राम-रावणाभ्यां परस्परावमानन-करणात् छलनम् ।

अथ व्यवसायः-
व्यवसायः स्व-सामर्थ्य-प्रख्यापनम् इतीर्यते ॥स्र्स्_३।१३८॥ ६६अ

यथा तत्रैव [बाल-रामायणे]-

भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते
कोऽ यं ते मति-विभ्रमः स्मर नयं नाद्यापि किञ्चिद् गतम् ।
नैवं चेत् खर-दूषण-त्रिशिरसां कण्ठासृजा पङ्किलः
पत्री नैष सहिष्यते मम धनुर् ज्या-बन्ध-बन्धूकृतः ॥स्र्स्_३।१३९॥ [बा।रा। ९।१९]

इत्य् उपक्रम्य-किम् आह रावणः ? रे रे मानुषी-पुत्र ! अयम् असौ अक्षत्रियो रावणः । क्षत्रियो रामः । तद् अत्र दृश्यताम् । कतरो विनेयः । कतरो विनेता इति । किम् आह रामभद्रः ? हंहो अमानुषी-पुत्र ! क्षत्रियो रामः । अयम् असौ अक्षत्रियो रावणः । तद् अत्र दृश्यतां कतरो विनेयः, कतरो विनेता [९।२६ पद्याद् अनन्तरम्] इत्य् अन्तेन राम-रावणाभ्यां स्व-सामर्थ्य-प्रख्यापनाद् व्यवसायः ।

अथ विरोधनम्-
विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥स्र्स्_३।१४०॥ ६६
यथा तत्रैव [बाल-रामायणे तस्मिन्न् एव स्थाने] चारणः-कथम् अमर्षिताभ्यां राम-रावणाभ्यां प्रत्युपक्रान्तम् इषु-वर्षाद्वैतम् इत्य् उपक्रम्य, चारणः-नन्व् अयम् ओङ्कारो रावण-शिरो-मण्डल-च्छेदन-विद्यायाः [९।३९ पद्याद् अनन्तरम्] इत्य् अन्तेन संरब्धयो राम-रावणयोः दिव्यास्त्र-प्रयोग-रूप-परस्पर-संरोध-करणाद् विरोधनम् ।

अथ प्ररोचना-
सिद्धवद् भाविनोऽ र्थस्य सूचना स्यात् प्ररोचना ॥स्र्स्_३।१४१॥ ६७अ

यथा तत्रैव अष्टमाङ्के [८।१६ पद्याद् अनन्तरम्], करङ्कः (जनान्तिकम्)-सखे कञ्काल देवः कुम्भकर्णं प्रबोधयति । न पुनर् आत्मानम् । किं च प्रयत्नेन बोधितोऽ प्य् असौ रामेण पुनः शायितव्य एव ।

कङ्कालः-मण्णे बिभीसणं बज्जिअ सब्बस्स बि एसा गई । [मन्ये विभीषणं वर्जयित्वा सर्वस्याप्य् एषा गतिः ।]

करङ्कः-तथैव । इत्य् अत्र भविष्यतः कुम्भकर्णादि-राक्षस-नाशस्य कङ्काल-करङ्काभ्यां सिद्धवत् निश्चित्य सूचनात् प्ररोचना ।

अथ विचलनम्-
आत्म-श्लाघा विचलनम् ॥स्र्स्_३।१४२॥ ६७च्

यथा तत्रैव, करङ्कः-किम् आह कुम्भकर्णः-

आस्तां धनुः किम् असिना परतो भुसुण्डी-
चक्रैर् अलं भवतु पट्टिशम् उद्गराद्यैः ।
धावत्-प्लवङ्ग-पृतना-कबल-क्रमेण
यास्याम्य् अहं सुहिततां च रिपु-क्षयं च ॥स्र्स्_३।१४३॥ [बा।रा। ८।३७]

(पुनः पृच्छति रावणः) साधु वत्स, साधु । सत्यं मद्-अनुजोऽ सि, इत्य् उपक्रम्य-

अनेन लङ्का यद् अकारि मत्-पुरी
हनूमतो गात्र-गतेन भस्मसात् ।
निजापराध-प्रशमाय तद् ध्रुवं
निषेवितुं माम् उपयाति पावकः ॥स्र्स्_३।१४४॥ [बा।रा। ८।४८]

इत्य् अन्तेन रावण-कुम्भकर्णाभ्याम् आत्म-श्लाघा कृतेति विचलनम् ।

अथ आदानम्-
आदानं कार्य-सङ्ग्रहः ॥स्र्स्_३।१४५॥ ६७द्

यथा तत्रैव [बाल-रामायणे] नवमाङ्के पुरन्दरः-सखे दशरथ कथम् अयम् अनन्य-सदृशाकारो रामभद्र-पुरुषकारः । अतश् च-

निर्दग्ध-त्रिपुरेन्धनोऽ स्तु गिरिशः क्रौञ्चाचल-च्छेदने
पाण्डित्यं विदितं गुहस्य किम् उ ताव् अज्ञात-युद्धोत्सवौ ।
लूत्वा पङ्क-जलावमानन-वनं वीरस्य लङ्का-पतेर्
वीराणां चरिताद्भुतस्य परमे रामः स्थितः सीमनि ॥स्र्स्_३।१४६॥ [बा।रा। ९।५७]

इत्य् उपक्रम्य-
रण-रसिक-सुर-स्त्री-मुक्त-मन्दार-दामा
स्वयम् अयम् अवतीर्णो लक्ष्मण-न्यस्त-हस्तः ।
विरचित-जय-शब्दो वन्दिभिः स्यन्दनाङ्गाद्
दिनकर-कुल-लक्ष्मी-वल्लभो रामभद्रः ॥स्र्स्_३।१४७॥ [बा।रा। ९।५९]

इत्य् अन्तेन निखिल-भुवन-बाधा-शमन-रूप-रावण-वध-सम्पादित-धर्मादि-लक्षण-कार्य-विशेष-सङ्ग्रहणाद् आदानम् ।

अथ निर्वहण-सन्धिः-
मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः ।
महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥स्र्स्_३।१४८॥ ६८
सन्धि-विरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश् च ।
आनन्द-समय-कृतयो भाषोपगूहने तद्वत् ॥स्र्स्_३।१४९॥ ६९
अथ पूर्व-भाव-सयुजाव् उपसंहार-प्रशस्ती च ।
इति निर्वहणस्याङ्गान्य् आहुर् अमीषां तु लक्षणं वक्ष्ये ॥स्र्स्_३।१५०॥ ७०

तत्र सन्धिः-
बीजोपगमनं सन्धिः ॥स्र्स्_३।१५१॥ ७१अ

यथा तत्रैव [बाल-रामायणे] राघवानन्द-नामनि दशमाङ्के [आदौ] (ततः प्रविशति सशोका) लङ्का-हा दुद्धर-तब-विसेस-परितोसिदारबिन्दासण तिहुबणेक्कमल्ल दस-कण्ठ हा हेला-बन्दीकिद-महिन्द मेहनाद हा समर-संरम्भ-सुप्पसण्ण कुम्भ-कण्ण कहिंसि देहि मे पडिबअणं । [हा दुर्धर-तपो-विशेष-परितोषितारविन्दासन त्रिभुवनैक-मल्ल दशकण्ठ ! हा हेला-बन्दीकृत-महेन्द्र मेघनाद ! हा समर-संरम्भ-सुप्रसन्न ! कुम्भकर्ण क्वासि देहि मे प्रतिवचनम् ।] इत्य् उपक्रम्य,

(प्रविश्य सत्वरा) अलका-सखि धर्म-जेतरि विभीषणेऽ पि नेतरि तत्रभवती स-शोक-शङ्कुर् इव ।

लङ्का-जं तिणेत्त-मित्तस्स णअरी भणदी । [यत् त्रिनेत्र-मित्रस्य नगरी भणति ।] [१०।२ पद्यात् पूर्वम्] इत्य् अन्तेन दुष्ट-राक्षस-शिक्षा-रूप-रामोत्साह-बीजोपगमनात् सन्धिः ।

अथ विरोधः-
कार्यान्वेषणं विरोधः स्यात् ॥स्र्स्_३।१५२॥ ७१ब्

यथा तत्रैव, नेपथ्ये-
रुद्राणि लक्ष्मि वरुणानि सरस्वति द्यौः
सावित्रि धात्रि सकलाः कुल-देवताश् च ।
शुद्ध्य्-अर्थिनी विशति शुष्मणि राम-कान्ता
तत् सन्निधत्त सहसा सह लोक-पालैः ॥स्र्स्_३।१५३॥ [बा।रा। १०।२]

इत्य् उपक्रम्य, लङ्का-अहो देवदाणं बि सीदापक्ख-बादो । अधवा सब्बो गुणेसु रज्जदि । ण सरीरेसु । [अहो देवतानाम् अपि सीता-पक्षपातः । अथवा सर्वो गुणेषु रज्यति । न शरीरेषु ।] [१०।८ पद्याद् अनन्तरम्] इत्य् अन्तेन सीता-शुद्धि-रूप-कार्यान्वेषणाद् विरोधः ।

अथ ग्रथनम्-
ग्रथनं तद्-उपेक्षेपः ॥स्र्स्_३।१५४॥ ७१च्

यथा तत्रैव [बाल-रामायणे]-
बद्धः सेतुर् लवण-जलधो क्रोध-वह्नेः समित्त्वं
नीतं रक्षः-कुलम् अधिगताः शुद्धिमन्तश् च दाराः ।
तेनेदानीं विपिन-वसतावेष पूर्ण-प्रतिज्ञो
दिष्ट्यायोध्यां व्रजति दयिता-प्रीतये पुष्पकेण ॥स्र्स्_३।१५५॥ [बा।रा। १०।१५]

तद् भोः सकल-प्लवङ्ग-यूथ-पतयः इत्य् आरभ्य,

सम्प्रेषितश् च हनुमान् भरतस्य पार्श्वं
लङ्काङ्गनाचकित-नेत्र-निरीक्षित-श्रीः ।
यात्य् एष वारिनिधि-लङ्घन-दृष्ट-सारो
राज्याभिषेक-समयोचित-कार्य-सिद्धेः ॥स्र्स्_३।१५६॥ [बा।रा। १०।१६]

इत्य् अन्तेन रामाभिषेक-रूप-परम-कारोपेक्षाद् ग्रथनम् ।

अथ निर्णयः-
स्याद् अनुभूतस्य निर्णयः कथनम् ॥स्र्स्_३।१५७॥ ७१द्

यथा तत्रैव [बाल-रामायणे] रामः (अपवार्य)-

अय्यस्मद्-अग्र-कर-यन्त्र-निपीडितानां
धाराम्भसां स्मरसि मज्जन-केलि-काले ।
सुभ्रु त्वया निज-कुचाभरणैक-योग्यम्
अत्राब्ज-वल्लि-दलम् आवरणाय दत्तम् ॥स्र्स्_३।१५८॥ [बा।रा। १०।७६]

किं च-
तद् इह कलह-केली सैकते नर्मदायाः
स्मरसि सुतनु किञ्चिन् नौ पराधीन-सुप्तम् ।
उषसि जल-समीर-प्रेङ्खणाचार्य-कार्यं
तद् अनु मदन-मुद्रां तच् च गाढोपगूढम् ॥स्र्स्_३।१५९॥ [बा।रा। १०।७७]

इत्य् अत्र रामेण स्वानुभूतार्थ-कथनान् निर्णयः ।

अथ परिभाषा-
परिभाषा त्व् अन्योन्यं जल्पनम् अथवा परिवादः ॥स्र्स्_३।१६०॥ ७२अ

यथा तत्रैव [१०।९२ पद्याद् अनन्तरम्] सीता-अज्ज-उत्त दसकण्ठ-णिसूअण वाराणसी-सङ्कित्तणेण सुमराबिदम्हि अक्खिआणद्दं जणणी-भूदं मिहिलां महा-णाअरीं । [आर्य-पुत्र दशकण्ठ-निसूदन वाराणसी-सङ्कीर्तनेन स्मारितास्मि अक्ष्य्-आनन्दं जननी-भूतं मिथिलां महा-नागरीम् ।] इत्य् उपक्रम्य,

विभीषणः-इह हि खलु क्षत्रियान्तकरस्य भङ्गो भार्गव-मुनेर् दत्तः ।

सुग्रीवः-
अपां फेनेन तृप्तोऽ सौ स्नातश् चन्द्रिकया च सः ।
यद् अप्रसूत-कौशल्यं क्षत्रं क्षपितवान् मुनिः ॥स्र्स्_३।१६१॥ [बा।रा। १०।९४]

इत्य् अन्तेन सीता-राम-विभीषण-सुग्रीवाणाम् अन्योन्य-सञ्जल्पनेन वा सुग्रीवेण भार्गव-परीवाद-सूचनाद् वा परिभाषणम् ।

अथ प्रसादः-
शुश्रूषादि-प्राप्तं प्रसादम् आहुः प्रसन्नत्वम् ॥स्र्स्_३।१६२॥ ७२ब्

यथा तत्रैव, रामः (हस्तम् उद्यम्य)-

   हंहो पुष्पक-वायु-वेग-मुनिना धूमः पुरः पीयते  

छायां मा कुरु कोऽ प्य् अयं दिन-मणाव् एकाग्र-दृष्टिः स्थितः ।
दूराद् अत्र भव प्रदक्षिण-गतिः स्थाणोर् इदं मन्दिरं
किञ्चित् तिष्ठ तपस्विनस् तव पुरो यावत् पर्यान्त्य् अध्वनः ॥स्र्स्_३।१६३॥ [बा।रा। १०।५९]

इत्य् उपक्रम्य, अगस्त्यः-

का दीयतां तव रघूद्वह सम्यग्-आशीर्
निष्कण्टकानि विहितानि जगन्ति येन ।
आशास्महे ननु तथापि सह स्व-वीरैर्
भू-काश्यपोपम-सुत-द्वितया वधूः स्यात् ॥स्र्स्_३।१६४॥ [बा।रा। १०।६४]

रामः-परम् अनुगृहीतं रघु-कुलम् इत्य् अन्तेन अगस्त्य-दत्ताशीर्वाद-रूप-प्रसाद-कथनात् प्रसादः ।

अथ आनन्दः-
अभिलषितार्थ-समागमम् आनन्दं प्राहुर् आचार्याः ॥स्र्स्_३।१६५॥ ७३अ

यथा तत्रैव, रामः-हंहो विमान-राज विमुच्य वसुधा-सविध-वर्तिनी गतिं किञ्चिद् उच्चैर् भव । कुतूहलिनी जानकी दिव्य-लोक-दर्शन-व्यतिकरस्य । (ऊर्ध्व-गति-नाटिकेन)

यथा यथारोहति बद्ध-वेगं
व्योम्नः शिखां पुष्पकम् आनताङ्गि ।
महाम्बुधीनां वलयैर् विशालैस्
तथा तथा सङ्कुचितेव पृथ्वी ॥स्र्स्_३।१६६॥ [बा।रा। १०।२२]

सुर-चारण-किन्नर-विद्याधर-कुल-सङ्कुलं गगन-गर्भम् ईक्षस्व । (प्रविश्य) विद्याधरः : अतः परम-गम्या अस्मादृशां भुवः । स च ब्रह्म-लोक इति श्रूयते ।

इत्य् अन्तेन सीतादीनाम् अभिलषित-दिव्य-लोक-दर्शन-रूपार्थ-सिद्धेर् आनन्दः ।

अथ समयः-
समयो दुःख-सङ्क्षयः ॥स्र्स्_३।१६७॥ ७३ब्

यथा तत्रैव, भरतः : आर्य ! रावण-विद्रावण भरतोऽ हम् अभिवादये । इत्य् उपक्रम्य (भरत-सुग्रीव-विभीषणाः परस्परं परिष्वजन्ते ।) इत्य् अन्तेन बन्धूनाम् अन्योन्यावलोकन-परिष्वङ्गादिभिर् दुःखापगम-कथनात् समयः ।

अथ कृतिः-
कृतिर् अपि लब्धार्थ-सुस्थिरीकरणम् ॥स्र्स्_३।१६८॥ ७३च्

यथा तत्रैव, (प्रविश्य) हनुमान्-देव मत्तः श्रुत-वृत्तान्तो वसिष्ठः समं भरत-शतुर्घ्नाभ्याम् अन्याभिश् च प्रकृतिभिर् भवद्-अभिषेक-सज्जस् तिष्ठति । इत्य् उपक्रम्य, वसिष्ठः : का दीयतां त्व रघूद्वह सम्यग् आशीर् इत्य् आदि पठति ।

रामः: आर्षं हि वचनं विभिन्न-वक्तृकम् अपि न विसंवदति यद् अगस्त्य-वाचा वसिष्ठोऽ पि ब्रूते [१०।६९ पद्याद् अनन्तरम्] इत्य् अन्तेन अगस्त्य-लब्धाशीर्वादस्य वसिष्ठ-वचन-संवादेन स्थिरीकरणात् कृतिः ।

अथ भाषणम्-
मानाद्याप्तिश् च भाषणम् ॥स्र्स्_३।१६९॥ ७३द्

यथा तत्रैव, वसिष्ठः-

रामो दान्त-दशाननः किम् अपरं सीता सतीष्व् अग्रणीः
सौमित्रिः सदृशोऽ स्तु कस्य समरे येनेद्रजिन् निर्जितः ।
किं ब्रूमो भरतं च राम-विरहे तत्-पादुकाराधकं
शत्रुघ्नः कथितोऽ ग्रजस्य च गुणैर् वन्द्यं कुटुम्बं रघोः ॥स्र्स्_३।१७०॥ [बा।रा। १०।१०२]

इत्य् अत्र वसिष्ठेन रघु-कुटुम्बस्य रामचन्द्रादि-सत्-पुरुषोत्पत्ति-स्थानतया तल्लक्षण-बहु-मान-प्राप्ति-कथनाद् भाषणम् ।

अथ उपगूहनम्-
उपगूहनम् अद्भुत-प्राप्तिः ॥१७०॥ ७४अ

यथ तत्रैव, अलका-अहो नु खलु भोः पति-व्रता-मयं ज्योतिः अनभिभवनीयं ज्योतिर्-अन्तरैः । यतः,
प्रविशन्त्या चिताचक्रं जानक्या परिशुद्धये ।
न भेदः कोऽ पि निर्णीतः पयसः पावकस्य च ॥स्र्स्_३।१७१॥ [बा।रा। १०।९]

(विचिन्त्य) इत्य् उपक्रम्य, नेपथ्ये-
योगीन्द्रश् च नरेन्द्रश् च यस्याः स जनकः पिता ।
विशुद्धा राम-गृहिणी बभौ दशरथ-स्नुषा ॥स्र्स्_३।१७२॥ [बा।रा। १०।१४]

इत्य् अन्तेन सीतायाः निःशङ्क-ज्वलन-प्रवेश-निरपाय-निर्गमन-रूपाश्चर्य-कथनाद् उपगूहनम् ।

अथ पूर्व-भावः-
दृष्ट-क्रम-कार्यस्य स्याद् दृष्टिः पूर्व-भावस् तु ॥स्र्स्_३।१७३॥ ७४ब्

यथा तत्रैव [१०।१०२ पद्याद् अनन्तरम्]-वत्स रामभद्र प्रशस्तो मुहूर्तो वर्तते । तद् अध्यास्स्व पित्र्यं सिंहासनम् इत्य् उपक्रम्य, वसिष्ठः-रामभद्र धन्योऽ सि । यस्य ते भगवान् कुबेरोऽ र्थी इत्य् अन्तेन वसिष्ठेन रामभद्रस्याभिषेकाङ्गीकरण-कुबेर-विमान-प्रत्यर्पण-रूपयोर् अर्थयोर् दर्शनात् पूर्व-भावः ।

अथ उपसंहारः-
धर्मार्थाद्य्-उपगमनाद् उपसंहारः कृतार्थता-कथनम् ॥स्र्स्_३।१७४॥ ७५अ

यथा तत्रैव, वसिष्ठः-वत्स रामभद्र किं ते भूयः प्रियम् उपकरोमि ।

रामः-किम् अतः प्रियम् अस्ति ।

रुग्णं चाजगवं न चापि कुपितो भर्गः सुर-ग्रामणीः
सेतुश् च ग्रथितः प्रसन्न-मधुरो दृष्टश् च वारां निधिः ।
पौलस्त्यश् चरमः स्थितश् च भगवान् प्रीतः श्रुतीनां कविः
प्राप्तं यानम् इदं च याचितवते दत्तं कुबेराय च ॥स्र्स्_३।१७५॥ [बा।रा। १०।१०४]

इत्य् अत्र रुग्णं चाजगवं इत्य् अनेन भूत-पति-धनुर् दलनेन सीताधिगम-रूपकाम् अप्राप्तेः पौलस्य्तश् चरमः स्थितः इत्य् अनेन शरणागत-रक्षणेन धर्म-प्राप्तेः प्राप्तं यानम् इदं चेत्य् अत्र विमान-रत्न-लाभेनार्थ-प्राप्तेश् च न चापि कुपितो भर्गः सुर-ग्रामिणीर् इत्य् आदिभिः पादान्त-वाक्यैः रामचन्द्रेण स्व-कृतार्थता-कथनाद् उपसंहारः ।

किं च, रुग्णं चाजगवं सेतुश् च ग्रथित इत्य् आदिभ्यां युद्धोत्साह-सिद्धेः पौलस्त्यश् चरमः स्थितः इत्य् अत्र विभीषणस्य पालनेन दया-वीर-सिद्धेः याचितवते दत्तं कुबेराय चेत्य् अनेन दानवीर-सिद्धेश् च रामभद्रेण स्वकृतार्थता-कथनाद् वा उपसंहारः ।

अथ प्रशस्तिः-
भरतैश् चराचराणाम् आशीर् आशंसनं प्रशस्तिः स्यात् ॥स्र्स्_३।१७६॥ ७५ब्

यथा तत्रैव, तथा चेदम् अस्तु भरत-वाक्यम्-

सम्यक् संस्कार्र-विद्या-विशदम् उपनिषद्-भूतम् अर्थाद्भुतानां
ग्रथ्नन्तु ग्रन्थ-बन्धं वचनम् अनुपतत्-सूक्ति-मुद्राः कवीन्द्राः ।
सन्तः सन्तर्पितान्तः-करणम् अनुगुणं ब्रह्मणः काव्य-मूर्तेस्
तत् तत्त्वं सात्त्विकैश् च प्रथम-पिशुनितं भावयन्तोऽ र्चयन्तु ॥स्र्स्_३।१७७॥ [बा।रा। १०।१०५]

इत्य् अत्र कवीन्द्राणां निर्दोष-सूक्ति-ग्रथनाशंसनेन भावकानां च तद्-ग्रन्थ-भावनाशंसनेन च सकल-व्यवहार-प्रवर्तक-वाङ्मय-रूप-जगन्-मङ्गल-कथनात् प्रशस्तिर् इति सर्वं प्रशस्तम् ।

रस-भावानुरोधेन प्रयोजनम् अपेक्ष्य च ।
साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥स्र्स्_३।१७८॥ ७६
केषाञ्चिद् एषाम् अङ्गानां विकल्पं केचिद् ऊचिरे ।
मुखादि-सन्धिष्व् अङ्गानां क्रमोऽ यं न विवक्षितः ॥स्र्स्_३।१७९॥ ७७
क्रमस्यानादृतत्वेन भरतादिभिर् आदिमैः ।
लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥स्र्स्_३।१८०॥ ७८
चतुः-षष्ठि-कला-मर्म-वेदिना सिंह-भूभुजा ।
लक्षिता च चतुःषष्ठिर् बाल-रामायणे स्फुटम् ॥स्र्स्_३।१८१॥ ७९

अथ सन्ध्य्-अन्तराणि-
मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्य-प्रतीतये ।
सन्ध्य्-अन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥स्र्स्_३।१८२॥ ८०
आचार्यान्तर-सम्मत्या चमत्कारोदयाद् अपि ।
वक्ष्ये लक्षणम् एतेषाम् उदाहृतिम् अपि स्फुटम् ॥स्र्स्_३।१८३॥ ८१
साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः ।
गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥स्र्स्_३।१८४॥ ८२
माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् ।
स्वप्न-लेखौ मदश् चित्रम् इत्य् एतान्य् एकविंशतिः ॥स्र्स्_३।१८५॥ ८३

तत्र साम-
तत्र साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् ॥स्र्स्_३।१८६॥ ८४अ

यथा मालविकाग्निमित्रे, राजा-अये न भेतव्यम् ।

मालविका (सावष्टम्भम्)-जो ण भाअदि सो मए भट्टिणी-दंसणे दिट्ठ-सामत्थो भट्टा । [यो न बिभेति स मया भट्टिनी-दर्शने दृष्ट-सामर्थ्यो भर्ता ।]

राजा-
दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुल-व्रतम् ।
तन् मे दीर्घाक्षि ये प्राणास् ते त्वद्-आशा-निबन्धनाः ॥स्र्स्_३।१८७॥ [मा।अ।मि। ४।१४]

इत्य् अत्र राज्ञो वचनं नाम ।

अथ दानम्-
दानम् आत्म-प्रतिनिधिर् भूषणादि-समर्पणम् ॥स्र्स्_३।१८८॥ ८४ब्

यथा मालती-माधवे, मालती-पिअ-सहि सब्बदा सुमरिदब्बह्मि । एसा बि माहब-सहत्थणिम्माणमणोहरा बौल-माला मालदी-णिब्बिसेसं पिअ-सहीए दट्टब्बा । सब्बदा हिअएण अ धारणिज्जा इति । [प्रिय-सखि ! सर्वदा स्मर्तव्यास्मि । एषा च माधव-स्व-हस्त-निर्माण-मनोहरा बकुल-माला मालती-निर्विशेषं प्रिय-सख्या द्रष्टव्या । सर्वदा हृदयेन च धारणिया इति ।] (इति स्वकण्ठाद् उन्मुच्य माधवस्य कण्ठे विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति ।) [६।११ पद्याद् अनन्तरम्] ।

अत्र मालत्या मर्तुकामायाः प्रतिनिधितया लवङ्गिकायां बकुलमाला-समर्पणं दानम् ।

अथ भेदः-
भेदस् तु कपटालापैः सुहृदां भेद-कल्पनम् ॥स्र्स्_३।१८९॥ ८५अ

यथा मालती-माधवे, कामन्दकी-

राज्ञः प्रियाय सुहृदे सचिवाय कार्याद्
दत्त्वात्मजां भवतु निर्वृतिमानमात्यः ।
दुर्दर्शनेन घटतामियम् अप्य् अनेन
धूम-ग्रहेण विमला शशिनः कलेव ॥स्र्स्_३।१९०॥ [मा।मा। २।८]

मालती (स्वगतम्)-हा ताद तुमं बि णाम मम एब्बं ति सब्बहा जिदं भोअतिह्णाए । [हा तात त्वम् अपि नाम ममैवम् इति सर्वथा जितं भोग-तृष्णया ।] इत्य् अत्र कामन्दक्या मालती-तज्-जनकयोर् भेद-कल्पनं भेदः ।

अथ दण्डः-
दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥स्र्स्_३।१९१॥ ८५ब्

दृष्ट्या, यथा मालती-माधवे, माधवः-रे रे पाप !

प्रणयि-सखी-सलील-परिहास-रसाधिगतैर्
ललित-शिरीष-पुष्प-हननैर् अपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रम् उपक्षिपतः
पततु शिरस्य् अकाण्डयम् अदण्ड इवैष भुजः ॥स्र्स्_३।१९२॥ [मा।मा। ५।३१]

अत्राघोर-घण्टस्याविनय-दर्शनेन माधव-कृत-तर्जनं दण्डः ।

श्रुत्या, यथा शाकुन्तले, राजा (सहसोपसृत्य)-

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयम् आचरत्य् अविनयं मुग्धासु तस्पस्वि-कन्यासु ॥स्र्स्_३।१९३॥ [अ।श। १।२१]

अत्राविनय-श्रुत्या दुष्यन्तेन कृतं तर्जनं दण्डः ।

अथ प्रत्युत्पन्न-मतिः-
तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् स्मृता ॥स्र्स्_३।१९४॥ ८६अ

यथा मालविकाग्निमित्रे, राजा-न खलु मुद्राम् अधिकृत्य ब्रवीमि । एतयोर् बद्धयोः [मालविका-बकुलावलिकयोः] किं-निमित्तो मोक्षः । किं देव्याः परिजनम् अतिक्रम्य भवान् सन्दिष्टः इत्य् एवम् अनया [माधविकया] प्रष्टव्यम् ।

विदूषकः-णं पुच्छिदो ह्मि । पुणो मन्दस्स बि मे तस्मिं पञ्चुप्पण्णा मदी आसि । [ननु पृष्टोऽ स्मि । पुनर् मन्दस्स्यापि मे तस्मिन् प्रत्युत्पन्ना मतिर् आसीत् ।]

राजा-कथ्यताम् ।

विदूषकः-भणिदं मए, देब्बचिन्तएहिं विण्णाविदो राआ । सोबसग्गं बो णक्खत्तं ता अवस्सं सब्ब-बन्ध-मोक्खो करीअदुत्ति । [भणितं मया, दैव-चिन्तकैर् विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । तद् अवश्यं सर्व-बन्ध-मोक्षः क्रियताम् इति ।]

राजा (सहर्षं)-ततस् ततः ?

विदूषकः-तं सुणिअ देवीए इरावदी-चित्तं रक्खन्तीए राआ किल मोएदि त्ति अहं सन्दिट्ठो त्ति तदो जुज्जदि त्ति ताए इब्बं सम्पादिदो अत्थो । [तत् श्रुत्वा देव्या इरावती-चित्तं रक्षन्त्या राजा किल मोचयतीत्य् अहं सन्दिष्ट इति । ततो युज्यते इति तयैव सम्पादितोऽ र्थः ।]

राजा (विदूषकं परिष्वज्य)-सखे ! प्रियोऽ हं खलु तव । [४।५ पद्याद् अनन्तरम्]

इत्य् अत्र विदूषकस्य समुचितोत्तर-प्रतिभा प्रत्युत्पन्न-मतिः ।

अथ वधः-
वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥स्र्स्_३।१९५॥ ८६ब्

यथा वेणी-संहारे [६।४४ पद्याद् अनन्तरम्], कृष्णः-अहं पुनश् चार्वाकेण रक्षसा व्याकुलीकृतं भवन्तम् उपलभ्यार्जुनेन सह त्वरिततरम् आयातः ।

युधिष्ठिरः-किं नाम चार्वाकेण रक्षसा वयम् एवं विप्रलब्धाः ?

भीमः (स-रोषम्)-भगवन् क्वासौ धार्तराष्ट्र-सखो राक्षसश् चार्वाको येनार्यस्य महांश् चित्त-विभ्रमः कृतः ।

कृष्णः-निगृहीतः स दुरात्मा नकुलेन ।

युधिष्ठिरः-प्रियं नः, प्रियं नः । इत्य् अत्र चार्वाक-निग्रहो वधः ।

अथ गोत्र-स्खलितम्-
तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम् ॥स्र्स्_३।१९६॥ ८७अ

यथा विक्रमोर्वशीये [तृतीयाङ्के आदौ] (ततः प्रविशतो भरत-शिष्यौ) प्रथमः-अये सदोषावकाश इव ते वाक्य-शेषः ।

द्वितीयः-आम् । तर्हि उब्बसीए बअणं पमाद-क्खलिदं आसि । [आम्, तत्र उर्वस्या वचनं प्रमाद-स्खलितम् आसीत् ।]

प्रथमः-कथम् इव ?

द्वितीयः-लच्छी-भूमिआए बट्टमाणा उब्बसी वारुणी-भूमिआए बट्टमाणाए मेणआए पुच्छिदा । सहि समाअदा एदे तेल्लोक्क-पुरिसा सकेसवा लोअ-बाला । कदमस्सिं दे भावाहिणिबेसोत्ति [लक्ष्मी-भूमिकायां वर्तमाना उर्वशी वारुणी-भूमिकायां वर्तमानया मेनकया पृष्टा । सखि समागता एते त्रैलोक्य-पुरुषाः स-केशवा लोक-पालाः । कतमस्मिइंस् ते भावाभिनिबेशः ? इति ।]

प्रथमः–ततस् ततः ?

द्वितीयः-तदो ताए पुरिसोत्तमे त्ति भणिदब्बे पुरूरवसि त्ति णिग्गदा बाणी । [ततस् तस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता बाणी ।] इत्य् अत्र नाम-व्यतिक्रमः स्फुट एव ।

अथ औजः-
ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥स्र्स्_३।१९७॥ ८७ब्

यथा उत्तर-राम-चरिते, कुशः-सखे दण्डायन !

आयुष्मतः किल लवस्य नरेन्द्र-सैन्यैर्
आयोधनं ननु किम् आत्थ सखे तथेति ।
अद्यास्तम् एतु भुवनेषु स राज-शब्दः
क्षत्त्रस्य शस्त्र-शिखिनः शमम् अद्य यान्तु ॥स्र्स्_३।१९८॥ [उ।रा।च। ६।१६]

इत्य् अत्र ओजः स्पष्टम् एव ।

अथ धीः-
इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते ॥स्र्स्_३।१९९॥ ८८अ

यथा मालविकाग्निमित्रे चतुर्थाङ्के [४।२ पद्याद् अनन्तरम्] राजा (निश्वस्य सपरामर्शम्)-सखे किम् अत्र कर्तव्यम् ?

विदूषकः (विचिन्त्य)-अत्थि एत्थ उबाओ । [अस्त्य् अत्रोपायः ।]

राज-किम् इव ?

विदूषकः (स-दृष्टि-क्षेपम्)-को बि अदिट्ठो सुणिस्सद् । कण्णे दे कहेमि (इत्य् उपश्लिष्य कर्णे) एवं बिअ । [कोऽ प्य् अदृष्टः श्रोष्यति । कर्णे ते कथयामि । एवम् इव । ] इत्य् आवेदयति ।

राजा सहर्षं-सुष्ठु प्रयुज्यतां सिद्धये । इत्य् अत्र विदूषकेण धारिणी-हस्त-मणि-मुद्रिकाकर्षाण-हेतु-भूतस्य भुजग-विष-वेग-कपटस्य चिन्तनं धीः ।

अथ क्रोधः-
क्रोधस् तु चेतसो दीप्तिर् अपराधादि-दर्शनात् ॥स्र्स्_३।२००॥ ८८ब्

यथा रत्नावल्यां तृतीयाङ्के [अन्ते ३।१९ पद्यात् पूर्वम्], वासवदत्ता-हञ्जे कञ्चणमाले एदेण एब्ब लदापासेण बन्धिअ गेहण एणं बह्मणं । एणं दुट्ठ-कण्णआं अ अग्गदो करेहि । [हञ्जे कञ्चनमाले एतेनैव लता-पाशेन बद्ध्वा गृहाणैनं ब्राह्मणम् । इमां दुष्ट-कन्यकां चाग्रतः कुरु ।] इत्य् अत्र वासवदत्तायाः रोषः क्रोधः ।

अथ साहसम्-
स्व-जीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् ॥स्र्स्_३।२०१॥ ८९अ

यथा मालती-माधवे-

अशस्त्र-पातम् अव्याज-पुरुषाङ्गोपकल्पितम् ।[*१९]
विक्रीयते महा-मांसं गृह्यतां गृह्यताम् इदम् ॥स्र्स्_३।२०२॥ [मा।मा। ५।१२]
[*१९] स्व-शस्त्र-पूत-निर्व्याज-पुरुषाङ्गोपकल्पितम् इति मुद्रित-मालती-माधव-पाठः ।

अत्र माधवस्य महा-मांस-विक्रय-व्यापारः साहसम् ।

अथ भयम्-
भयं त्व् आकस्मिक-त्रासः ॥स्र्स्_३।२०३॥ ८९ब्

यथा अभिराम-राघवे द्वितीयाङ्के, (प्रविश्यापटी-क्षेपेण सम्भ्रान्तः) बटुः-अय्य परित्ताअहि परित्ताअहि । अच्चहिदे पडिदो ह्मि । [आर्य परित्राहि परित्राहि । अत्याहिते पतितोऽ स्मि ।] (इत्य् अभिद्रवति) इत्य् आदौ बटु-त्रासो भयम् ।

अथ माया-
माया कैतव-कल्पना ॥स्र्स्_३।२०४॥ ८९च्

यथा रत्नावल्याम्, राजा (आसनाद् अवतीर्य)-देवि पश्य-

एष ब्रह्मा सरोजे रजनिकर-कला-शेखरः शङ्करोऽ यं दोर्भिर् दैत्यान्तकोऽ सौ स-धनुर्-असि-गदा-चक्र-चिह्नैश् चतुर्भिः ।
एषोऽ प्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये नृत्यन्ति व्योम्नि चैताश् चल-चरण-रणन्-नूपुरा दिव्य-नार्यः ॥स्र्स्_३।२०५॥ [र। ४।११]

इत्य् अत्र ऐन्द्रजालिक-कल्पितं कैतवं माया ।

अत्र संवृत्तिः-
संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत् ॥स्र्स्_३।२०६॥ ९०अ

यथा शाकुन्तले, राजा (स्वगतम्)-अतिचपलोऽ यं बटुः । कदाचिद् इमां कथाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एव वक्ष्ये-

क्व वयं क्व परोक्ष-मन्मथो
मृगशावैः समम् एधितो जनः ।
परिहास-विजल्पितं सखे
परमार्थेन न गृह्यतां वचः ॥स्र्स्_३।२०७॥ [अ।श। २।१८]

अत्र दुष्यन्तेन स्वयम् उक्तस्य शकुन्तला-प्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।

अथ भ्रान्तिः-
भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥स्र्स्_३।२०८॥ ९०ब्

यथा वेणी-संहारे द्वितीयाङ्के [२।१० पद्याद् अनन्तरं], भानुमती-तदो अहं तस्स अदिसैददिब्ब-रूबिणो णौलस्स दंसणेण उच्छुआ जादा हिद-हिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदा-मण्डपं पबिसिदुं आरद्धा । [ततोऽ हं तस्यातिशयित-दिव्य-रूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृत-हृदया च । तत उज्झित्वा तदासन-स्थानं लता-मण्डपं प्रवेष्टुम् आरब्धा ।]

राजा (सवैलक्ष्यम्)-किं नामातिशयित-दिव्य-रूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृत-हृदया च । तत् कथम् अनया पापया माद्री-सुतानुरक्तया वयम् एवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटा-विप्रलभ्यमानम् आत्मानं बहु मन्यमानोऽ धुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे।सम्। २।९] इत्य् आदि पठित्वा दिशोऽ वलोक्य) अहो एतद् अर्थम् एवास्याः प्रातर् एव विविक्त-स्थानाभिलाषः सखी-जन-सङ्कथासु च पक्ष-पातः । दुर्योधनस् तु मोहाद् अविज्ञात-बन्धकी-हृदय-सारः क्वापि परिभ्रान्तः । इत्य् अत्र देवी-स्वप्नस्य अनिश्चयाद् दुर्योधनस्य विपरीत-ज्ञानं भ्रान्तिः ।

अथ माया-
माया कैतव-कल्पना ॥स्र्स्_३।२०९॥ ८९च्

यथा रत्नावल्याम्, राजा (आसनाद् अवतीर्य)-देवि पश्य-

एष ब्रह्मा सरोजे रजनिकर-कला-शेखरः शङ्करोऽ यं दोर्भिर् दैत्यान्तकोऽ सौ स-धनुर्-असि-गदा-चक्र-चिह्नैश् चतुर्भिः ।
एषोऽ प्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये नृत्यन्ति व्योम्नि चैताश् चल-चरण-रणन्-नूपुरा दिव्य-नार्यः ॥स्र्स्_३।२१०॥ [र। ४।११]

इत्य् अत्र ऐन्द्रजालिक-कल्पितं कैतवं माया ।

अत्र संवृत्तिः-
संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत् ॥स्र्स्_३।२११॥ ९०अ

यथा शाकुन्तले, राजा (स्वगतम्)-अतिचपलोऽ यं बटुः । कदाचिद् इमां कथाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एव वक्ष्ये-

क्व वयं क्व परोक्ष-मन्मथो
मृगशावैः समम् एधितो जनः ।
परिहास-विजल्पितं सखे
परमार्थेन न गृह्यतां वचः ॥स्र्स्_३।२१२॥ [अ।श। २।१८]

अत्र दुष्यन्तेन स्वयम् उक्तस्य शकुन्तला-प्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।

अथ भ्रान्तिः-
भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥स्र्स्_३।२१३॥ ९०ब्

यथा वेणी-संहारे द्वितीयाङ्के [२।१० पद्याद् अनन्तरं], भानुमती-तदो अहं तस्स अदिसैददिब्ब-रूबिणो णौलस्स दंसणेण उच्छुआ जादा हिद-हिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदा-मण्डपं पबिसिदुं आरद्धा । [ततोऽ हं तस्यातिशयित-दिव्य-रूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृत-हृदया च । तत उज्झित्वा तदासन-स्थानं लता-मण्डपं प्रवेष्टुम् आरब्धा ।]

राजा (सवैलक्ष्यम्)-किं नामातिशयित-दिव्य-रूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृत-हृदया च । तत् कथम् अनया पापया माद्री-सुतानुरक्तया वयम् एवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटा-विप्रलभ्यमानम् आत्मानं बहु मन्यमानोऽ धुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे।सम्। २।९] इत्य् आदि पठित्वा दिशोऽ वलोक्य) अहो एतद् अर्थम् एवास्याः प्रातर् एव विविक्त-स्थानाभिलाषः सखी-जन-सङ्कथासु च पक्ष-पातः । दुर्योधनस् तु मोहाद् अविज्ञात-बन्धकी-हृदय-सारः क्वापि परिभ्रान्तः । इत्य् अत्र देवी-स्वप्नस्य अनिश्चयाद् दुर्योधनस्य विपरीत-ज्ञानं भ्रान्तिः ।

अथ दूत्यम्-
दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि ॥स्र्स्_३।२१४॥ ९१अ

यथा मालविकाग्निमित्रे [तृतीयाङ्के] विदूषकः-अलं भवदो धीरदं उज्झिअ परिदेबिदेण । दिट्ठा क्खु मए तत्तहोदीए मालबिआए पिअसही बौलाबलिआ । सुणाबिदाअ मह जं भवदा सन्दिट्ठं । [अलं भवतो धीरतां उज्झित्वा परिदेवितेन । दृष्टा खलु मया तत्र-भवत्या मालविकायाः प्रिय-सखी बकुलावलिका । श्राविता च मया यद् भवता सन्दिष्टम्] [३।१ पद्याद् अनन्तरम्] राजा-ततः किम् उक्तवती ।

विदूषकः-विज्ञापय भट्टारकम᳡ तथापि घटयिष्यामि इति । अत्र च बकुलावलिकया मालविकाग्निमित्रयोर् घटने सहकारित्वम् अङ्गीकृतम् इति दूत्यम् ।

अथ हेत्व्-अवधारणम्-
निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥स्र्स्_३।२१५॥ ९१ब्

यथा शाकुन्तले, राजा-

स्त्रीणाम् अशिक्षित-पटुत्वम् अमानुषीषु
सन्दृश्यते किम् उत याः प्रतिबोधवत्यः ।
प्राग् अन्तरिक्ष-गमनात् स्वम् अपत्य-जातम्
अन्यैर् द्विजैः पर-भृताः खलु पोषयन्ति ॥स्र्स्_३।२१६॥ [अ।श। ५।२२]

अत्र पर-भृतानिदर्शनोपबृंहितेन स्त्रीत्व-हेतुना मृषा-भाषण-लक्षणस्यार्थस्य निश्चयो हेत्व्-अवधारणम् ।

अथ स्वप्नः-
स्वप्नो निद्रान्तरे मन्त्र-भेद-कृद् वचनं मतम् ॥स्र्स्_३।२१७॥ ९२अ

यथा मालविकाग्निमित्रे [४।१५ पद्याद् अनन्तरम्] विदूषकः (उत्स्वप्नायते)-भोदि मालबिए ! [भवति मालिके !]

निपुणिका-सुदं भट्टिणीए । कस्स एसो अत्तणिओअ-सम्पादण् विस्ससणिज्जो हदासो । सब्ब-कालं इदो एब्ब सोत्थिबाअण-मोदएहिं कुच्छिं पूरिअ सम्पदं मालबिअं उस्सिबिणाबेदि । [श्रुतं भट्टन्या । कस्यैव आत्म-नियोग-सम्पादने विश्वसनीयो हताशः । सर्व-कालम् इत एव स्वस्ति-वाचन-मोदकैः कुक्षिं पूरयित्वा साम्प्रतं मालविकाम् उत्स्वप्नायते ।]

विदूषकः-इरावदिं अदिक्कमन्ती होहि । [इरावतीम् अतिक्रामन्ती भव ।]

इत्य् अत्र विदूषकस्योत्स्वप्नायितं स्वप्नः ।

अथ लेखः-
विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥स्र्स्_३।२१८॥ ९२ब्

यथा विक्रमोर्वशीये [२।११ पद्याद् अनन्तरम्] राजा (विभाव्य)-सखे ! भूर्ज-पत्र-गतोऽ यम् अक्षर-विन्यासः । इत्य् आरभ्य,

राजा-वयस्य अङ्गुलि-स्वेदेन दूष्येरन्न् अक्षराणि । धार्यताम् अयं प्रियायाः स्व-हस्त-लेखः । इत्य् अत्र उर्वशी-प्रहित-पत्रिकार्थो लेखः ।

अथ मदः-
मदस् तु मद्यजः ॥स्र्स्_३।२१९॥ ९३अ

यथा मालविकाग्निमित्रे [३।१२ पद्याद् अनन्तरम्] (ततः प्रविशति युक्त-मदा इरावती चेटी च) इत्य् अत्रेरावती-मदः ।

अथ चित्रम्-
चित्रं चाकार्स्य विलेखनम् ॥स्र्स्_३।२२०॥ ९३ब्

यथा शाकुन्तले [६।१३, पद्याद् अनन्तरम्] राजा : अकारण-परित्यागानुशय-तप्त-हृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर् दर्शनेन । इत्य् आरभ्य, राजा-

दर्शन-मुखम् अनुभवतः साक्षाद् इव तन्-मयेन हृदयेन ।
स्मृति-कारिणा त्वया मे पुनर् अपि चित्रीकृता कान्ता ॥स्र्स्_३।२२१॥

इत्य् अन्तेन चित्रं स्फुटम् इति कल्याणम् ।

भाग-कल्पनयाङ्गानां मुख-प्रमुख-सन्धिषु । ९३च्
प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना ॥स्र्स्_३।२२२॥
सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः । ९४
तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु ॥स्र्स्_३।२२३॥
तद् एषाम् अविचारेण कथितो दशरूपके । ९५
सन्ध्य्-अन्तराणाम् अङ्गेषु नान्तर्भावो मतो मम ॥स्र्स्_३।२२४॥
सामाद्य्-उपाय-दक्षेण सन्ध्यादि-गुण-शोभिता । ९६
निर्व्यूढं सिंह-भूपेन सन्ध्य्-अन्तर-निरूपणम् ॥स्र्स्_३।२२५॥

अथ षट्-त्रिंशद् भूषणानि-
एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः । ९७
शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम् ॥स्र्स्_३।२२६॥
भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः । ९८
शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् ॥स्र्स्_३।२२७॥
सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विशेषणम् । ९९
पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः ॥स्र्स्_३।२२८॥
गुणातिपातोऽ तिशयो निरुक्तं गुण-कीर्तनम् । १००
गर्हणानुनयो भ्रंशो लेश-क्षोभौ मनोरथः ॥स्र्स्_३।२२९॥
अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् । १०१
पृच्छोपदिष्ट-दृष्टानि षट्-त्रिंशद्-भूषणानि हि ॥स्र्स्_३।२३०॥

तत्र भूषणम्-
गुणालङ्कार-बहुलं भाषणं भूषणं मतम् ॥स्र्स्_३।२३१॥ १०२

यथा रामानन्दे-
खं वस्ते कलबिङ्क-कण्ठ-मलिनं कादम्बिनी कम्बल-
चर्चां पारयतीव दर्दुर-कुलं कोलाहलैर् उन्मदम् ।
गन्धं मुञ्चति सिक्त-लाज-सुरभिर् वर्षेण सिक्ता स्थली
दुर्लक्षोऽ पि विभाव्यते कमलिनी-हासेन भासां पतिः ॥स्र्स्_३।२३२॥

अत्र श्लेष-प्रसाद-समाधि-समतादीनां गुणानां उपमा-रूपकोत्प्रेक्ष-हेतूनाम् अलङ्काराणां च सम्भवाद् इदं भूषणम् ।

अथ अक्षर-सङ्घातः-
वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-वर्णकम् ॥स्र्स्_३।२३३॥

यथा शाकुन्तले [७।२० पद्याद् अनन्तरम्] राजा (स्वगतम्) : इयं खलु कथा माम् एव लक्ष्यीकरोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथवा अन्याय्यः पर-दार-व्यवहारः । इत्य् उपक्रम्य,

(प्रविश्य मृन्-मयूर-हस्ता) तापसी-सब्ब-दमण ! सौन्दलाबण्णं पेक्ख [सर्व-दमन ! शकुन्त-लावण्यं प्रेक्षस्व ।]

बालः (सदृष्टि-क्षेपम्)-कहिं वा मे अज्जू । [कुत्र वा मम माता ।]

उभे-णाम-सारिस्सेण बञ्चिदो माउबच्छलो । [नाम-सादृश्येन वञ्चितो मातृ-वत्सलः ।]

द्वितीया-बच्छ, इमस्स मित्तिआ-मोरस्स रम्मत्तणं देक्ख त्ति भणिदोऽ सि । [वत्स, अस्य मृत्तिका-मयूरस्य रम्यत्वं पश्येति भणितोऽ सि ।]

राजा (आत्म-गतम्)-किं वा शकुन्तलेत्य् अस्य मातुर् आख्या । इत्य् अन्तम् । अत्र शकुन्त-लावण्यम् इत्य् अत्र शकुन्तला-नामाक्षराणां प्रतिभानाद् अयम् अक्षर-सङ्घातः ।

अथ हेतुः-
स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकः ॥स्र्स्_३।२३४॥ १०३

यथा रत्नावल्याम्, राजा (तथा कृत्वा श्रुत्वा च)-

स्पष्टाक्षरम् इदं यत्नान् मधुरं स्त्री-स्वभावतः ।
अल्पाङ्गत्वाद् अनिर्ह्रादि मन्ये वदति शारिका ॥स्र्स्_३।२३५॥

अत्र शारिकालाप-साधनाय यत्न-स्पष्टाक्षरत्वादि-हेतूनां कथनाद् अयं हेतुः ।

अथ प्राप्तिः-
एक-देश-परिज्ञानात् प्राप्तिः शेषाभियोजनम् ॥स्र्स्_३।२३६॥

यथा विक्रमोर्वशीये, राजा (चर्चरिकयापसृत्य अञ्जलिं बद्ध्वा) :

हम्स प्रयच्छ मे कान्तां गतिर् अस्यास् त्वया हता ।
विभावितैकदेशेन देयं यद् अभियुज्यते ॥स्र्स्_३।२३७॥

अत्र हंसे प्रिया-गमन-मात्र-विभाव्य-प्रिया-हरणाभियोगः प्राप्तिः ।

अथ उदाहरणम्-
वाक्यं यद् गूढ-तुल्यार्थं तद् उदाहरणं मतम् ॥स्र्स्_३।२३८॥

यथा शाकुन्तले, राजा (स्वगतम्)-कथम् आत्मापहारं करोमि ? भवतु, एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽ हम् अविघ्न-क्रियोपलम्भाय धर्मारण्यम् इदम् आयातः । इत्य् आरभ्य,

शकुन्तला-तुम्हे अवेध । किं बि हिअए करिअ मतेध । ण बो बअणं सुणिस्सं । [युवाम् अपेतम् । किम् अपि हृदये कृत्वा मन्त्रयेथे । न युवयोर् वचनं श्रोष्यामि ।] इत्य् अन्तम् [१।२१ पद्याद् अनन्तरम्] । अत्र साभिप्राय-गूढार्थतया तद् इदम् उदाहरणम् ।

अथ शोभा-
शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते ॥स्र्स्_३।२३९॥

यथा रत्नावल्याम्, सागरिका (राजानं दृष्ट्वा सहर्षं स-साध्वसं स-कम्पं च स्वगतम्)-एणं पेक्खिअ अदिसद्धसेण ण सक्कणोमि पदादो पदं बि गन्तुं । ता किं वा एत्थ करिस्सं ? [एनं प्रेक्ष्य अतिसाध्वसेन न शक्नोमि पदात् पदम् अपि गन्तुम् । तत् किं वा अत्र करिष्यामि ?]

विदूषकः (सागरिकां दृष्ट्वा)-अहो अच्चरिअं । ईरिसं कण्णारअणं माणुसलोए ण दीसदि । भो बअस्स तह तक्केमि पआवैणोबि एदं णिम्माबिअ पुणो पुणो बिह्मओ सम्बुत्तो त्ति । [अहो आश्चर्यम् । ईदृशं कन्या-रत्नं मानुस-लोके न दृश्यते । भो वयस्य तस्मात् तर्कयामि प्रजापतेर् अपि इदं निर्माय पुनः पुनर् विस्मयः संवृत्त इति ।]

राजा-सखे ममाप्य् एतद् एव मनसि वर्तते [२।१५ पद्यात् पूर्वम्] इत्य् आदिना सागरिका-वत्सराजयोर् अन्योन्य-निर्वर्णनेन रूपातिशय-प्रकटनं शोभा ।

अथ संशयः-
अनिश्चयान्तं यद् वाक्यं संशयः स निगद्यते ॥स्र्स्_३।२४०॥ १०५

यथा मालती-माधवे, मकरन्दः-

याता भवेद् भगवती-भवनं सखी नो
जीवन्त्य् अथैष्यति न वेत्य् अभिशङ्कितोऽ स्मि ।
प्रायेण बान्धव-सुहृत्-प्रिय-सङ्गमादि
सौदामिनी-स्फुरण्-चञ्चलम् एव सौख्यम् ॥स्र्स्_३।२४१॥

इत्य् अत्र मालती कामन्धक्याः गृहं गता वा जीवति वा न वेति संशयेन वाक्य-समाप्तेर् अयं संशयः ।

अथ दृष्टान्तः-
स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये ॥स्र्स्_३।२४२॥ १०६अ

यथा शाकुन्तले, राजा-

शम-प्रधानेषु तपोधनेषु
गूढं हि दाहात्मकम् अस्ति तेजः ।
स्पर्शानुकूला इव सूर्य-कान्तास्
तद् अन्य-तेजोऽ भिभवाद् वमन्ति ॥स्र्स्_३।२४३॥ [अ।श। २।७]

इत्य् अत्र तपोधनेषु गूढ-दाहात्मक-तेजः-सद्भावे साध्ये तत्-साधकस्य अन्य-तेजस् तिरस्कार-जनित-तेजः-समुद्गार-रूपस्य हेतोः सूर्य-कान्तेषु दर्शितत्वाद् दृष्टान्तः ।

अथ अभिप्रायः-
अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः । १०६ब्
अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि ॥स्र्स्_३।२४४॥

यथा रत्नावल्याम्, राजा-

किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं
वृद्धिं वा झषकेतनस्य कुरुते नालोक-मात्रेण किम् ।
वक्त्रेन्दौ तव सत्य् अयं यद् अपरः शीतांशुर् उज्जृम्भते
दर्पः स्याद् अमृतेन चेद् इह तद् अप्य् अस्त्य् एव बिम्बाधरे ॥स्र्स्_३।२४५॥ [र। ३।१३]

इत्य् अत्र चन्द्र-साम्येन मुखे अमृत-कल्पनाद् अयम् अभिप्रायः । अथवा तत्रैवातिहृद्य-बिम्बाधरे राज्ञो ममत्वम् अभिप्रायः ।

अथ निदर्शनम्-
यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । १०७
परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते ॥स्र्स्_३।२४६॥

यथा शाकुन्तले, राजा-उपपद्यते-

मानुषीषु कथं वा स्याद् अस्य रूपस्य सम्भवः ।
न प्रभा-तरल-ज्योतिर् उदेति वसुधा-तलात् ॥स्र्स्_३।२४७॥ [अ।श। १।२२]

अत्र प्रति-वस्तु-न्यायेन सदृश-वस्तु-कीर्तनं निदर्शनम् ।

अथ सिद्धिः-
अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ॥स्र्स्_३।२४८॥ १०८

यथा मालविकाग्निमित्रे, विदूषकः (दृष्ट्वा)-ही ही बअस्स एदं खु सीहुपाणु-बेज्जिदस्स मच्छआडिआ उबणदा । [आश्चर्यं आश्चर्यं वयस्य एतत् खलु सीधुपानोद्वेजितस्य मत्स्यण्डिका उपनता ।]

राजा-अये किम् एतत् ?

विदूषकः-एसा णादिपरिक्खिदबेसा ऊसुअबअणा एआइणी मालबिआ अदूरे बट्टदि । [एषा नादिपरिष्कृत-वेषा उत्सुक-वदना एकाकिनी मालविका अदूरे वर्तते ।]

राजा (सहर्षं)-कथं मालविका ।

विदूषकः-अह इं । [अथ किम् ।]

राजा-शक्यम् इदानीं जीवितम् अवलम्बितम् [३।५ पद्याद् अनन्तरम्] इत्य् अत्र इरावती-सङ्केतं गच्छतो राज्ञः मालविका-दर्शन-सिद्धिर् अचिन्तिता सिद्धिः ।

अथ प्रसिद्धिः-
प्रसिद्धिर् लोक-विख्यातैर् वाक्यैर् अर्थ-प्रसाधनम् ॥स्र्स्_३।२४९॥ १०९अ

यथा शाकुन्तले, राजा-

सरसिजम् अनुविद्धं शवलेनापि रम्यं
मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति ।
इत्यम् अधिक-मनोज्ञा बल्कलेनापि तन्वी
किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ॥स्र्स्_३।२५०॥

अत्र शवलाद्य्-अनुवेधेऽ पि रमणीयतया प्रसिद्धानां सरसिजादीनां कथनेन शकुन्तला-मनोज्ञता-साधनं प्रसिद्धिः ।

अथ दाक्सिण्यम्-
चित्तानुवर्तनं यत्र तद् दाक्षिण्यम् इतीरितम् ॥स्र्स्_३।२५१॥ १०९ब्

यथा शाकुन्तले, सेनापतिः-जयतु स्वामी ।
राजा-भद्र सेनापते मन्दोत्साहः कृतोऽ स्मि मृगयापवादिना माढव्येन ।

सेनापतिः (विदूषकं प्रति, जनान्तिकम्)-सखे स्थिर-प्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्त-वृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् ।

मेदश् छेद-कृशोदरं लघु भवत्य् उत्थान-योग्यं वपुः
सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भय-क्रोधयोः ।
उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः ॥स्र्स्_३।२५२॥ [अ।श। २।५]

इत्य् अत्र सेनापतेः राज-चित्तानुवर्तनं दाक्षिण्यम् ।

अथ अर्थापत्तिः-
उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते ।
वाक्य-माधुर्य-संयुक्ता सार्थापत्तिर् उदाहृता ॥स्र्स्_३।२५३॥ ११०

यथा रत्नावल्याम्, विदूषकः-भोः एसा क्खु तुए अपुब्बा सिरी समासादिदा । [भो एषा खलु त्वया अपूर्वा श्रीः समासादिता ।]

राजा-वयस्य, सत्यम् ।

श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः ।
कुतोऽ न्यथा स्रवत्य् एष स्वेद-च्छद्मामृत-द्रवः ॥स्र्स्_३।२५४॥ [र। २।१७]

अत्र स्वेद-च्छद्मामृत-द्रवोत्पत्तेर् अन्यथानुपपत्त्या पाणेः पारिजातत्व-कल्पनाद् इयम् अर्थापत्तिः ।

अथ विशेषणम्-
सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते ।
विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥स्र्स्_३।२५५॥ १११

यथा मालती-माधवे, माधवः (अभिलिख्य प्रदर्शयति)

मकरन्दः (स-कौतुकम्)-कथम् अचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति)

जगति जयिनस् ते ते भावा नवेन्दु-कलादयः
प्रकृति-मधुराः सन्त्य् एवान्ये मनो मदयन्ति ये ।
मम तु यद् इयं याता लोके विलोचन-चन्द्रिका
नयन-विषयं जन्मन्य् एकः स एव महोत्सवः ॥स्र्स्_३।२५६॥ [मा।मा। १।३९]

इत्य् अत्र इन्दुकलादीन् मनो-मद-हेतुतया प्रसिद्धान् उक्त्वा तत्-समान-माधुर्यायाम् अपि मालत्यां विशेष-कथनाद् इदं विशेषणम् ।

अथ पदोच्चयः-
बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥स्र्स्_३।२५७॥ ११२

यथा कर्पूर-मञ्जर्याम्, राजा (वाचयति)-

सह दिवस-णिसाहिं दीहरा सास-दण्डा
सह मणि-बलएहिं बाह-धारा गलन्ति ।
तुह सुहअ बिओए तीअ उब्बेअणीए
सहअ तणु-लदाए दुब्बला जीविदासा ॥स्र्स्_३।२५८॥ [क।म। २।९]

[सह दिवस-निशाभ्यां दीर्घाः श्वास-दण्डाः
सह मणि-वलयैर् बाष्प-धारा गलन्ति ।
तव सुभग वियोगे तस्या उद्वेगिन्याः
सह च तनु-लतया दुर्बला जीविताशा ॥]

इत्य् अत्र श्वास-दण्डादीनां दीर्घ-भावादि-क्रियासु दिवस-निशादिभिः सह समावेशाद् अयं पदोच्चयः ।

अथ तुल्यार्थकः-
रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थ-संस्पर्शस् तुल्य-तर्क इतीरितः ॥स्र्स्_३।२५९॥ ११३

यथा मालती-माधवे, माधवः (सहर्षम्)-दिष्ट्या लवङ्गिका-द्वितीया मालत्य् अपि (परागता)-
आश्चर्यम् उत्पल-दृशो वदनामलेन्दु- सान्निध्यतो मम मुहुर् जदिमानम् एत्य ।
जात्येन चन्द्रमणिनेव मही-धरस्य सन्धार्यते द्रव-मयो मनसा विकारः ॥स्र्स्_३।२६०॥ [मा।मा। ३।५]

इत्य् अत्र इन्दु-चन्द्रकान्ताद्य्-उपमया परत्यक्षस्य स्नेह-रूप-विकारस्य कथनात् तुल्य-तर्कः ॥

अथ विचारः-
विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् ॥स्र्स्_३।२६१॥ ११४अ

यथा मालती-माधवे, मकरन्दः-वयस्य माधव सर्वथा समाश्वसिहि-

या कौमुदी नयनयोर् भवतः सुजन्मा
तस्या भवान् अपि मनोरथ-लब्ध-बन्धुः ।
तत् सङ्गमं प्रति सखे न हि संशयोऽ स्ति
यस्मिन् विधिश् च मदनश् च कृताभियोगः ॥स्र्स्_३।२६२॥ [मा।मा। १।३७]

अत्र सङ्गम-रूप-साध्यार्थ-सिद्धये परस्परानुराग-सिद्धि-मदन-रूपाणाम् उपायानां सद्-भाव-कथनाद् विचारः ।

अथ तद्-विपर्ययः-
विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥स्र्स्_३।२६३॥ ११४

यथा रामानन्दे-
व्यर्थं यत्र कपीन्द्र-सख्यम् अपि मे वीर्यं कपीनाम् अपि
प्रज्ञा जाम्बवतोऽ पि यत्र न गतिः पुत्रस्य वायोर् अपि ।
मार्गं यत्र न विश्वकर्म-तनयः कर्तुं नलोऽ पि क्षमः
सौमित्रेर् अपि पत्रिणाम् अविषयस् तत्र प्रिया क्वापि मे ॥स्र्स्_३।२६४॥

अत्र बहूपाय-सामर्थ्याभाव-कथनाद् विचार-विपर्ययः स्पष्ट एव ।

अथ गुणातिपातः-
गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतम् ॥स्र्स्_३।२६५॥ ११५अ

यथा वेणी-संहारे, (ततः प्रविशतो भीमार्जुनौ) भीमः-भो भो अलम् अलम् आशङ्कया ।
कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सोऽ तिमानी कृष्णाकेशोत्तरीय-व्यपनयन-मरुत् पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं क्वास्ते दुर्योधनोऽ सौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥स्र्स्_३।२६६॥ [वे।सम्। ५।२६]

अत्र अधिक्षेप-वाक्यत्वाद् व्यत्यस्त-गुणाख्यानं स्पष्टम् एव ।

अथ अतिशयः-
बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् । ११५
विशेषः कीर्त्यते यत्र ज्ञेयः सोऽ तिशयो बुधैः ॥स्र्स्_३।२६७॥

यथा विक्रमोर्वशीये, राजा (स-हर्षम् आकर्ण्य)-अनेन प्रियोपलब्धि-शंसिना मन्द्र-कण्ठ-गर्जितेन समाश्वासितोऽ स्मि । साधर्म्याच् च भूयसी मे त्वयि प्रीतिः ।

माम् आहुः पृथिवी-भृताम् अधिपतिं नागाधिराजो भवान्
अव्युच्छिन्न-पृथु-प्रवृत्ति भवतो दानं ममाप्य् अर्थिषु ।
स्त्री-रत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा
सर्वं माम् अनु ते प्रिया-विरहजां त्वं तु व्यथां मानुभूः ॥स्र्स्_३।२६८॥ [वि।उ। ४।४७]

इत्य् अत्र समान-धर्मणि गजाधिराजे पुरूरवसा प्रिया-विरहाभाव-कथनाद् अतिशयः ।

अथ निरुक्तिः[*२०]-
निरुक्तिर् निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥स्र्स्_३।२६९॥ ११६
[*२०] निरुक्तम् इन् थे प्रिन्तेद् एदितिओन्।

यथा शाकुन्तले, प्रियंवदा-हला सौन्दले ! एत्थ एब्ब दाव मुहुत्तअं चिट्ठ । जाब तुए उबगदाए लदा-सणाहो बिअ अअं केसर-रुक्खओ पडिभादि । [हला शकुन्तले, अत्रैव तावन् मुहूर्तं तिष्ठ । यावत् त्वयोपगतया लता-सनाथ इवायं केसर-वृक्षकः प्रतिभाति ।]

शकुन्तला-अदो खु पिअम्बदासि तुमं । [अतः खलु प्रियंवदासि त्वम् ।] [१।१८ पद्यात् पूर्वम्] । अत्र प्रियंवदायाः प्रिय-भाषणाद् इदं नाम-धेयम् इत्य् उक्तिर् निरुक्तिः ।

अथ गुण-कीर्तनम्-
लोके गुणातिरिकानां बहूनां यत्र नामभिः ।
एकोऽ पि शब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥स्र्स्_३।२७०॥ ११७

यथा उत्तर-राम-चरिते, वासन्ती-

त्वं जीवितं त्वम् असि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोर् अमृतं त्वम् अङ्गे ।
इत्य् आदिभिः प्रिय-शतैर् अनुरुध्य मुग्धां
ताम् एव शान्तम् अथवा किम् इहोत्तरेण ॥स्र्स्_३।२७१॥ [उ।रा।च। ३।२६]

इत्य् अत्र अमृत-कौमुदी-प्रभृतिनामभिः सीता-शंसनं गुण-कीर्तनम् ।

अथ गर्हणम्-
यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद् गर्हणं तु तत् ॥स्र्स्_३।२७२॥ ११८

यथा मालती-माधवे, लवङ्गिका-भअबदि किसण-चौद्दसी-रअणि-महा-मसाण-सञ्चार-णिब्बडिअ-बिसम-ब्बबसाओ णिट्ठाबिद-चण्ड-पासण्ड्-उद्दण्ड-भुअ-दण्ड-साहसो साहसिओ क्खु एसो । अदो क्खु मे पिअ-सही उक्कम्पिदा । [भगवति कृष्ण-चतुर्दशी-रजनि-महा-श्मशान-सञ्चार-पृथग्-भूत-विषम-व्यवसायो निष्ठापित-चण्ड-पाषण्डोद्दण्ड-भुज-दण्ड-साहसः साहसिकः खलु एषः । अतः खलु मे प्रिय-सखी उत्कम्पिता ।]

मकरन्दः (स्वगतम्)-साधु लवङ्गिके साधु । स्थाने खल्व् अनुरागोपकारयोर् गरीयसोर् उपन्यासः । [६।१५ पद्याद् अनन्तरम्]

इत्य् अत्र महा-मांस-विक्रय-साहसस्य दोष-रूपेण कथेनेऽ पि माधवानुरागोत्पादन-गुणतया पर्यवसितम् इदं प्रमुख-गर्हणत्वाद् गर्हणम् ।

गुण-कीर्तने दोष-पर्यवसानम्, यथा मालती-माधवे, मदयन्तिका (तथा कृत्वा)-दुम्मणाअदि वा इअं वामसीला । [दुर्मनायते वा इयं वाम-शीला ।]

लवङ्गिका-कहं णाम णव-वहू-विस्सम्भणोबाअजाणअं लडहं बिअड्ढ-महुर-भासणं अरोसणं अकादरं दे भादरं भत्तारं समासादिअ दुम्मणाइस्सदि मे पिअसही । [कथं नाम नव-वधू-विस्रम्भनोपाय-ज्ञं लटहं विदग्ध-मधुर-भाषणम् अरोषणम् अकातरं ते भ्रातरं भर्तारं समासाद्य दुर्मणायिष्यते मे प्रिय-सखी ।]

मदयन्तिका-पेक्ख बुद्ध-रक्खिदे ! बिप्पदीबं उबालभीआमो । [पश्य बुद्ध-रक्षिते ! विप्रतीपम् उपालभ्यामहे ।] [सप्तमाङ्के उपक्रमे]

इत्य् अत्र मुखतो गुण-कीर्तनम् अप्य् अन्ततो दोषायेति गर्हणम् इदम् ।

अथ अनुनयः-
अभ्यर्थना-परं वाक्यं विज्ञेयोऽ नुनयो बुधैः ॥स्र्स्_३।२७३॥ ११९अ

यथा वेणि-संहारे, धृतराष्ट्रः-सञ्जय ! मद्-वचनाद् ब्रूहि भारद्वाजम् अश्वत्थामानम्-

स्मरति न भवान् पीतं स्तन्यं विभज्य सहामुना
मम च मृदितं क्षौमं बाल्ये त्वद्-अङ्ग-विवर्तनैः ।
अनुज-निधन-स्फीताच् छोकाद् अतिप्रणयाच् च यद्
वचन-विकृतिष्व् अस्य क्रोधो मुधा क्रियते त्वया ॥स्र्स्_३।२७४॥ [वे।सम्। ५।४७]

इत्य् अत्र अश्वत्थाम-प्रार्थनम् अनुनयः ।

अथ भ्रंशः-
पतनं प्रकृताद् अर्थाद् अन्यस्मिन् भ्रम्श ईरितः ॥स्र्स्_३।२७५॥ ११९ब्

यथा प्रसन्न-राघवे, रावणः (संवृत्त-निज-रूपः पुरुष-रूपेण प्रविष्टः ।)-कथय क्व तावत् कर्णान्त-निवेशनीय-गुणं कन्या-रत्नं कार्मुकं च ।

मञ्जरीकः-इदं तावत् कार्मुकम् । कन्या तु चरमं लोचन-पथम् अवतरिष्यति ।

रावणः (स-संरम्भम्)-धिङ् मूर्ख ! कथं रे राशि-नक्षत्र-पाठकानां गोष्ठीं न दृष्टवान् असि । तेऽ पि कन्याम् एव प्रथमं प्रकटयन्ति । चरमं धनुः ।

मञ्जरीकः (स्वगतम्)-कथम् अयं वाचाटताम् एव प्रकटयति । [१।३२ पद्याद् अनन्तरम्]

इत्य् अत्र रावणेन [पुरुष-रूपेण प्रविष्टेन] धनुः-कन्ययोः प्रकृतम् अर्थं परित्यज्य राशि-लक्षणस्यार्थस्य प्रसञ्जनाद् अयं भ्रंशः ।

अथ लेशः-
लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः ॥स्र्स्_३।२७६॥ १२०अ

यथा मालती-माधवे, कामन्दकी-

असौ विद्याशाभिः शिशुर् अपि विनिर्गत्य भवनाद्
इहायातः सम्प्रत्य् अविकल-शरच्-चन्द्र-वदनः ।
यदालोक-स्थाने भवति पुरम् उन्माद-तरलैः
कटाक्षैर् नारीणां कुवलयित-वातायनम् इव ॥स्र्स्_३।२७७॥ [मा।मा। २।११]

इत्य् अत्र कामन्दक्या मालत्य्-अनुराग-ज्ञान-निवेदनस्य उन्माद-तरलैर् इति विशेषणस्य कथनाद् अयं लेशः ।

अत्र क्षोभः-
क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥स्र्स्_३।२७८॥ १२०

यथा रत्नावल्याम्, राजा (उपसृत्य उद्बन्धनम् अपनीय)-देवि ! किम् इदं अकार्यं क्रियते ?
मम कण्ठ-गताः प्राणाः पाशे कण्ठ-गते तव ।
अनर्थार्थ-प्रयत्नोऽ यं त्यज्यतां साहसं प्रिये ॥स्र्स्_३।२७९॥ [र। ३।१६]

अत्र पाशे वासवदत्ता-कण्ठ-गते तत्-कार्य-भूतस्य प्राणानां कण्ठ-गतत्वस्य वत्स-राजेन स्वस्मिन् कल्पनात् क्षोभः ।

अथ मनोरथः-
मनोरथस् तु व्याजेन विवक्षित-निवेदनम् ॥स्र्स्_३।२८०॥ १२१अ

यथा शाकुन्तले, शकुन्तला (पदान्तरं गत्वा परिवृत्य प्रकाशम्)-लदा-बल्लअ सन्दाब-हारअ आमन्तेमि तुमं भूओबि पैर्भोअस्स । [लता-वलय सन्ताप-हारक आमन्त्रये त्वां भूयोऽ पि परिभोगाय ।] [३।२१ पद्याद् अनन्तरम्]

अत्र लता-मण्डप-व्याजेन दुष्यन्तामन्त्रणं मनोरथः ।

अथ अनुक्त-सिद्धिः-
प्रस्तावनैव शेषोऽ र्थो यत्रानुक्तोऽ पि गृह्यते । १२१
अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः[*२१] ॥स्र्स्_३।२८१॥
[*२१] नाट् १६।१६९ = प्रस्तावेनैव शेषोऽ र्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥

अथ सारूप्यम्-
दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् । १२२
सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते ॥स्र्स्_३।२८२॥

यथा वेणि-संहारे, (प्रविश्य गदा-पाणिः) भीमः–तिष्ठ तिष्ठ भीरु ! क्वाधुना गम्यते ? (इति केशेषु ग्रहीतुम् इच्छति)

युधिष्ठिरः (बलाद् भीमम् आलिङ्ग्य)-दुरात्मन् ! भीमार्जुन-शत्रो दुर्योधन-हतक !
आशैशवाद् अनुदिनं जनितापराधः
क्षीबो बलेन भुजयोर् हत-राज-पुत्र ।
आसाद्य मेऽ न्तरम् इदं भुज-पञ्जरसय
जीवन् प्रयासि न पदात् पदम् अद्य पाप ॥स्र्स्_३।२८३॥ [वे।सम्। ६।३८]

भीमः-अये कथम् आर्यः सुयोधन-शङ्कया निर्दयं माम् आलिङ्गति ?

इत्य् अत्र चार्वाक-श्रावित-दुर्योधन-विजय-सङ्कथा-सङ्क्षेपेण युधिष्ठिरादीनां भीमे सुयोधन-बुद्धि-कथनाद् इदं सारूप्यम् ।

अथ माला-
ईप्सितार्थ-प्रसिद्ध्य्-अर्थं कथ्यन्ते यत्र सूरिभिः । १२३
प्रयोजनान्य् अनेकानि सा मालेत्य् अभिधीयते ॥स्र्स्_३।२८४॥

यथा धनञ्जय-विजये-

गो-रक्षणं सम-दशात्रव-मान-भङ्गः
प्रीतिर् विराट-नृपतेर् उपकारिणश् च ।
पर्याप्तम् एकम् अपि मे समर्तोसवाय
सर्वं पुनर् मिलितम् अत्र ममैव भाग्यैः ॥स्र्स्_३।२८५॥ [ध।वि। १६]

अथ मधुर-भाषणम्-
यत् प्रसन्नेन मनसा पूज्यं पूजयितुर् वचः । १२४
स्तुति-प्रकाशनं तत् तु ज्ञेयं मधुर-भाषणम् ॥स्र्स्_३।२८६॥

यथा अनर्घ-राघवे, दशरथः (सप्रश्रयम्)-भगवन् विश्वामित्र !
कच्चित् कान्तार-भाजां भवति परिभवः कोऽ पि शौवापदो वा
प्रत्यूहेन क्रतूनां न खलु मख-भुजो भुञ्जते वा हवींषि ।
कर्तुं वा कच्चिद् अन्तर् वसति वसुमती-दक्षिणः सप्त-तन्तुर्
यत् सम्प्राप्तोऽ सि किं वा रघु-कुल-तपसाम् ईदृशोऽ यं विवर्तः ॥स्र्स्_३।२८७॥ [अ।रा। १।२५]

विश्वामित्रः (विहस्य)-
जनयति त्वयि वीर दिशां पतीन्
अपि गृहाङ्गण-मात्र-कुटुम्बिनः ।
रिपुर् इति श्रुतिर् एव न वास्तवी
प्रतिभयोन्नतिर् अस्तु कुतस् तु नः ॥स्र्स्_३।२८८॥ [अ।रा। १।२६]

इत्य् आदाव् अन्योन्यं पूजा-वचनं मधुर-भाषणम् ।

अथ पृच्छा-
प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥स्र्स्_३।२८९॥ १२५

यथा-
सर्व-क्षिति-भृतां नाथ दृष्टा सर्वाङ्ग-सुन्दरी ।
रामा रम्ये वनान्तेऽ स्मिन् मया विरहिता त्वया ॥स्र्स्_३।२९०॥ [वि।उ। ४।५१]

इत्य् अत्र पर्वतानां नाथ मया विरहिता प्रिया त्वया दृष्टेति प्रश्ने राज्ञां नाथ त्वया विरहिता मया दृष्टेत्य् उत्तरस्य प्रतीयमानत्वाद् इयं पृच्छा ।

अथ उपदिष्टम्-
प्रतिगृह्य तु शास्त्रार्थं यद् वाक्यम् अभिधीयते ।
विद्वन्-मनोहरं स्वन्तम् उपदिष्टं तद् उच्यते ॥स्र्स्_३।२९१॥ १२६

यथा शाकुन्तले, शकुन्तला (भयं नाटयन्ती)-पौरव रक्ख अबिणअं । मअण-सन्तत्ताबि ण हु अत्तणो पहबामि । [पौरव रक्ष अविनयम् । मदन-सन्तप्तापि न खल्व् आत्मनः प्रभवामि ।]

राजा-भीरु अलं गुरु-जनाद् भयेन । न ते विदित-धर्मा हि भगवान् दोषम् अत्र ग्रहीष्यति कुलपतिः । अपि च-
गान्धर्वेण विवाहेन बह्व्यो राजर्षि-कन्यकाः ।
श्रूयन्ते परिणीतास् ताः पितृभिश् चानुमोदिताः ॥स्र्स्_३।२९२॥ [अ।श। ३।२०]

इत्य् अत्र शास्त्रानुरोधेनैव प्रवृत्तत्वाद् इदम् उपदिष्टम् ।

अथ दृष्टम्-
यथादेशं यथा-कालं यथा-रूपं च वर्ण्यते ।
यत् प्रत्यक्षं परोक्षं वा तद् दृष्टम् दृष्टवन् मतम् ॥स्र्स्_३।२९३॥ १२७

यथा मालविकाग्निमित्रे, राजा-अहो सर्वास्व् अवस्थासु चारुता शोभान्तरं पुष्यति । तथा हि-

वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामा-विटप-सदृशं स्रस्त-मुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं
नृत्ताद् अस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्धम् ॥स्र्स्_३।२९४॥ [मा।अ।मि। २।६]

इत्य् अत्र इतर-समक्षं स्थितायाः संस्थान-जाति-वर्णनाद् इदं प्रत्यक्ष-दृष्टम् ।

अप्रत्यक्ष-दृष्टम्, यथा पद्मावत्याम्-

व्यत्यस्त-पाद-कमलं वलित-त्रिभङ्गी-
सौभाग्यम् अंस-विरली-कृत-केश-पाशम् ।
पिञ्छावतंसम् उररीकृत-वंश-नालं
व्यामोहनं नवम् उपैमि कृपा-विशेषम् ॥स्र्स्_३।२९५॥

इत्य् अत्र अप्रत्यक्षस्यैव गोपाल-सुन्दरस्य संस्थान-विशेष-जाति-वर्णनाद् अपि दृष्टवद् आभासनाद् इदम् अप्रत्यक्ष-दृष्टम् ।

श्री-सिंह-भूपेन कवीश्वराणां
विश्राणितानेक-विभूषणेन ।
षट्-त्रिंशद् उक्तानि हि भूषणानि
स-लक्ष्म-लक्ष्याणि मुनेर् मतेन ॥स्र्स्_३।२९६॥ १२८

साक्षद् एवोपदेशेन प्रायो धर्म-समन्वयात् ।
अङ्गाङ्गि-भाव-सम्पन्न-समस्त-रस-संश्रयात् ॥स्र्स्_३।२९७॥ १२९
प्रकृत्य्-अवस्था-सन्ध्यादि-सम्पत्त्य्-उपनिबन्धनात् ।
आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥स्र्स्_३।२९८॥ १३०
अतिदेश-बल-प्रापत-नाटकाङ्गोपजीवनात् ।
अन्यानि रूपकाणि स्युर् विकारा नाटकं प्रति ॥स्र्स्_३।२९९॥ १३१
अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते ।
दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥स्र्स्_३।३००॥ १३२
शृङ्गार-वीरान्यतर-प्रधान-रस-संश्रयम् ।
ख्यातेति वृत्त-सम्बद्धं सन्धि-पञ्चक-संयुतम् ॥स्र्स्_३।३०१॥ १३३
प्रकृत्य्-अवस्था-सन्ध्य्-अङ्ग-सन्ध्य्-अन्तर-विभूषणैः ।
पताका-स्थानकैर् वृत्ति-तद्-अङ्गैश् च प्रवृत्तिभिः ॥स्र्स्_३।३०२॥ १३४
विष्कम्भकादिभिर् युक्तं नाटकं तत् त्रिवर्गदम् ।
तद् एतन् नाटकारम्भ-प्रकारो वक्ष्यते मया ॥स्र्स्_३।३०३॥ १३५
विधेर् यथैव सङ्कल्पो मुखतां प्रतिपद्यते ।
प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥स्र्स्_३।३०४॥ १३६
अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।
प्रस्तावनायास् तु मुखे नान्दी कार्या शुभावहा ॥स्र्स्_३।३०५॥ १३७
आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमा स्मृता ।
चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ॥स्र्स्_३।३०६॥ १३८
अष्टाभिर् दशभिश् चेष्टा सेयं द्वादशभिः पदैः ।
समैर् वा विषमैर् वापि प्रयोज्येत्य् अपरे जगुः ॥स्र्स्_३।३०७॥ १३९

तत्राशीर्-अन्विता नान्दी यथाभिराम-राघवे-

क्रियासुः कल्याणं भुजग-शयनाद् उत्थितवतः
कटाक्षाः कारुण्य-प्रणय-रस-वेणी-लहरयः ।
हरेर् लक्ष्मी-लीला-कमल-दल-सौभाग्य-सुहृदः
सुधा-सार-स्मेराः सुचरित-विशेषैक-सुलभाः ॥स्र्स्_३।३०८॥

नमस्क्रियावती नान्दी, यथा उत्तर-राम-चरिते-

इदं कविभ्यः पूर्वेभ्यह् नमो-वाकं प्रशास्महे ।
वन्देमहि च तां वाणीम् अमृताम् आत्मनः कलाम् ॥स्र्स्_३।३०९॥ [उ।रा।च। १।१]

वस्तु-निर्देशवती नान्दी, यथा प्रबोध-चन्द्रोदये-

अन्तर्-नाडी-नियमित-मरुल्-लङ्घित-ब्रह्म-रन्ध्रं
स्वान्ते शान्ति-प्रणयिनि समुन्मीलद्-आनन्द-सान्द्रम् ।
प्रत्यग्-ज्योतिर् जयति यमिनः स्पष्ट-लालाट-नेत्र-
व्याज-व्यक्तीकृतम् इव जगद्-व्यापि चन्द्रार्ध-मौलेः ॥स्र्स्_३।३१०॥ [प्र।च। १।२]

अष्टा-पदान्विता, यथा महावीर-चरिते-

अथ स्वस्थाय देवाय नित्याय हत-पाप्मने ।
त्यक्त-क्रम-विभागाय चैतन्य-ज्योतिषे नमः ॥स्र्स्_३।३११॥ [म।वी।च। १।१]

दश-पदान्विता यथा अभिराम-राघवे क्रियासुः कल्याणम् इत्य् आदि । द्वादश-पदान्विता, यथा अनर्घ-राघवे-

निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकी-लक्ष्मणः
कोक-प्रीति-चकोर-पारण-पटू ज्योतिष्मती लोचने ।
याभ्याम् अर्ध-विबोध-मुग्ध-मधुर-श्रीर् अर्ध-निद्रायितो
नाभी-पल्वल-पुण्डरीक-मुकुलः कम्बोः सपत्नी-कृतः ॥स्र्स्_३।३१२॥ [अ।रा। १।१]

अत्रैव मङ्गलार्थ-पद-प्रायत्वं चन्द्रनामाङ्कितत्वं च द्रष्टव्यम् ।

नान्द्य्-अन्ते तु प्रविष्टेन सूत्रधारेण धीमता ।
प्रसाधनाय रङ्गस्य वृत्तिर् योज्या हि भारती ॥स्र्स्_३।३१३॥ १४०
अङ्गान्य् अस्याश् च चत्वारि भरतेनावभाषिरे ।
प्ररोचनामुखे चैव वीथी-प्रहसने इति ॥स्र्स्_३।३१४॥ १४१
वीथी प्रहसनं स्व-स्व-प्रसङ्गे वक्ष्यते स्फुटम् ।
प्ररोचना तु सा प्रोक्ता प्रकृतार्थ-प्रशंसया ॥स्र्स्_३।३१५॥ १४२
सदस्य-चित्त-वृत्तीनां सम्मुखीकरणं च यत् ।
प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । १४३
अचेतनौ देश-कालौ कालो मधु-शरन्-मुखः ॥स्र्स्_३।३१६॥

तत्र वसन्त-प्रशंसया प्ररोचना, यथा पद्मावत्याम्-

राजत्-कोरक-कण्टका मधुकरी-झङ्कार-हुङ्कारिणीर्
आलोल-स्तवक-स्तनीर् अविरलाधूत-प्रवालाधराः ।
आलिङ्गन्ति लता-वधूर् अतितराम् आसन्न-शाखा-करैर्
अत्यारूढ-रसालसाल-रसिकाः कान्ते वसन्तोदये ॥स्र्स्_३।३१७॥

शरत्-प्रशंसे, यथा वेणी-संहारे-

सत्-पक्षां मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे ॥स्र्स्_३।३१८॥ [वे।सम्। १।६]

[अथ देशः]
देशस् तु देवताराज-तीर्थ-स्थानादिर् उच्यते । १४४
तद् अद्य काल-नाथस्य यात्रेत्यादिषु लक्ष्यताम् ॥स्र्स्_३।३१९॥
चेतनास् तु कथा-नाथ-कवि-सभ्य-नटाः स्मृताः । १४५
कथा-नाथास् तु धर्मार्थ-रस-मोक्षोपयोगिनः ॥स्र्स्_३।३२०॥
धर्मोपयोगिनस् तत्र युधिष्ठिर-नलादयः । १४६
अर्थोपयोगिनो रुद्र-नरसिंह-नृपादयः ॥स्र्स्_३।३२१॥
रसोपयोगिनो विद्याधर-वत्सेश्वरादयः । १४७
मोक्षोपयोगिनो राम-वासुदेवादयो मताः ॥स्र्स्_३।३२२॥
एके त्व् अभेदम् इच्छन्ति धर्म-मोक्षोपयोगिनोः ॥स्र्स्_३।३२३॥ १४८

[चतुर्विधाः कवयः]
कवयस् तु प्रबन्धारस् ते भवेयुश् चतुर्विधाः ।
उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥स्र्स्_३।३२४॥ १४९

तत्र उदात्तः-
अन्तर्-गूढाभिमानोक्तिर् उदात्त इति गीयते ॥स्र्स्_३।३२५॥ १५०अ

यथा मालविकाग्निमित्रे-

पुराणम् इत्य् एव न साधु सर्वं
न चापि काव्यं नवम् इत्य् अवद्यम् ।
सन्तः परीक्ष्यान्तरद् भजन्ते
मूढः पर-प्रत्ययनेय-बुद्धिः ॥स्र्स्_३।३२६॥ [मा।अ।मि। १।२]

अत्र सन्तः परीक्षेत्य् अनेन स्व-कृतेः परीक्षण-क्षमत्व-कल्पितो निज-गर्वः कालि-दासेन विवक्षित इति तस्योदात्तत्वम् ।

अथ उद्धतः-
परापवादात् स्वोत्कर्ष-वादी तूद्धत उच्यते ॥स्र्स्_३।३२७॥ १५०

यथा मालती-माधवे-
ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां
जानन्ति ते किम् अपि तान् प्रति नैष यत्नः ।
उत्पत्स्यतेऽ स्ति मम कोऽ पि समान-धर्मा
कालो ह्य् अयं निरवधिर् विपुला च पृथ्वी ॥स्र्स्_३।३२८॥ [मा।मा। १।८]

अत्र जानन्ति ते किम् अपीति परापवादात् मम तु कोऽ पि समान-धर्मेत्य् आत्मोत्कर्ष-कथनाच् च भवभूतेर् उद्धतत्वम् ।

यथा प्रौढः-
यथोचित-निजोत्कर्ष-वादी प्रौढ इतीरितः ॥स्र्स्_३।३२९॥ १५१अ

यथा करुणाकन्दले-
कविर् भारद्वाजो जगद्-अवधि-जाग्रन्-निज-यशा
रस-श्रेणी-मर्म-व्यवहरण-हेवाक-रसिकः ।
यदीयानां वाचां रसिक-हृदयोल्लासन-विद्याव्
अमन्दानन्दात्मा परिणमति सन्दर्भ-महिमा ॥स्र्स्_३।३३०॥

अत्र रस-प्रौढि-सन्दर्भ-प्रसादयोर् नाटक-निर्माणोचितयोर् एव कथनात् निजोत्कर्षं प्रकटयन्न् अयं कविः प्रौढ इत्य् उच्यते ।

युक्त्या निजोत्कर्ष-वादी प्रौढ इत्य् अपरैः स्मृतः ॥स्र्स्_३।३३१॥ १५१

यथा ममैव-नेदानीन्तन-दीपिका किम् उ तमः-सङ्घातम् उन्मूलयेद् इत्य् आदि [रसार्णव-सुधाकरे १।५५] ।

अत्र ज्योत्स्नादि-दृष्टान्त-मुखेन माधुर्यौजः-प्रसादाख्यानां गुणानां स्व-साहित्यं रसौचित्येन [सत्ताम्] प्रतिपादयन्न् अयं कविः प्रौढ इत्य् उच्यते ।

अथ विनीतः-
विनीतो विनयोत्कर्षात् स्वापकर्ष-प्रकाशकः ॥स्र्स्_३।३३२॥ १५२अ

यथा रामानन्दे-
गुणो न कश्चिन् मम वाङ्-निबन्धे
लभ्येत यत्नेन गवेषितोऽ पि ।
तथाप्य् अमुं राम-कथा-प्रबन्धं
सन्तोऽ नुरागेण समाद्रियन्ते ॥स्र्स्_३।३३३॥

अत्र विनयोत्कर्षाद् अपकर्षम् आत्मन्य् आरोपयन्न् अयं कविर् विनीत इत्य् उच्यते ।

अथ सभ्याः-
सभ्यास् तु विबुधैर् ज्ञेया ये दिदृक्षानिव्ता जनाः । १५२
तेऽ पि द्विधा प्रार्थनीयाः प्रार्थक् इति च स्फुटम् ॥स्र्स्_३।३३४॥
इदं प्रयोक्ष्ये युष्माभिर् अनुज्ञा दीयताम् इति । १५३
सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः ॥स्र्स्_३।३३५॥
त्वया प्रयोगः क्रियताम् इत्य् उत्कण्ठित-चेतसः । १५४
ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताह् ॥स्र्स्_३।३३६॥

अथ नटाः-
रङ्गोपजीविनः प्रोक्ता नटास् तेऽ पि त्रिधा स्मृताः । १५५
वादका गायकाश् चैव नर्तकाश् चेति कोविदैः ॥स्र्स्_३।३३७॥
वीणा-वेणु-मृदङ्गादि-वादका वादकाः स्मृताः । १५६
आलापन-ध्रुवागीत-गायका गायका मताः ।
नाना-प्रकाराभिनय-कर्तारो नर्तकाः स्मृताः ॥स्र्स्_३।३३८॥ १५७

तद् एवम्-
विस्तराद् उत सङ्क्षेपात् प्रयुञ्जीत प्ररोचनाम् ॥स्र्स्_३।३३९॥ १५८अ

तत्र सङ्क्षिप्ता प्ररोचना, यथा रत्नावल्याम्-

श्रीहर्षो निपुणः कविः परिषद् अप्य् एषा गुण-ग्राहिणी
लोके हारि च वत्स-राज-चरितं नाट्ये च दक्षा वयम् ।
वस्त्व्-एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्
मद्-भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥स्र्स्_३।३४०॥ [र। १।६]

अत्र कथा-नायक-कवि-सभ्य-नटानां चतूर्णां सङ्क्षेपेण वर्णनाद् इयं सङ्क्षिप्त-प्ररोचना । विस्तरात् तु बाल-रामायणादिषु द्रष्टव्या ।

एवं प्ररोचयन् सभ्यान् सूत्री कुर्याद् अथामुखम् । १५८
सूत्र-धारो नटीं ब्रूते स्व-कार्यं प्रति युक्तितः ॥स्र्स्_३।३४१॥
प्रस्तुताक्षेप-चित्रोक्त्या यत् तद् आमुखम् ईरितम् । १५९
त्रीण्यामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकः ॥स्र्स्_३।३४२॥
प्रयोगातिशयश् चेति तेषां लक्षणम् उच्यते । १६०
सूत्रिणो वाक्यम् अर्थं वा स्वेतिवृत्त-समं यदा ।
स्वीकृत्य प्रविशेत् पात्रं कथोद्घातो द्विधा मतः ॥स्र्स्_३।३४३॥ १६१

तत्र वाक्येन कथोद्घातो, यथा रत्नावल्याम्-
द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जल-निधेर् दिशोऽ प्य् अन्तात् ।
आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखी-भूतः ॥स्र्स्_३।३४४॥ [र। १।७]

इति सूत्रधारस्य प्रिया-समाश्वासन-वाक्यं स्वस्यानुकूलतया पठतो यौगन्धरायणस्य प्रवेशात् कथोद्घातः ।

अर्थेन कथोद्घातो, यथा वेणी-संहारः-

निर्वाण-वैर-दहनाः प्रशमादरीणां
नन्दन्तु पाण्डु-तनयाः सह माधवेन ।
रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च
स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥स्र्स्_३।३४५॥ [वे।सम्। १।७]

अत्रोत्तरार्धे सूत्रधारेण धार्तराष्ट्राणां स्वर्ग-स्थिति-निरुपद्रव-लक्षणयोर् अर्थयोर् विवक्षितयोः सतोः भीमेन स्वस्था भवन्तु मयि जीवति धार्तराष्ट्रा इति निरुपद्रव-लक्षणस्यैवार्थ-विशेषस्य ग्रहणेन प्रवेशः कृत इति अयम् अर्थेन कथोद्घातः ।

अथ प्रवर्तकः-
आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् ॥स्र्स्_३।३४६॥ १६२अ

यथा बाल-रामायणे-
प्रकटित-रामाम्भोजः कौशिकवान् सपदि लक्ष्मणानन्दी ।
शर-चाप-नमन-हेतोर् अयम् अवतीर्णः शरत्-समयः ॥स्र्स्_३।३४७॥ [बा।रा। १।१६]

अत्र विश्वामित्र-राम-लक्ष्मणानां शरत्-समय-वर्णन-साम्येन प्रवेशः प्रवर्तकः ॥

अथ प्रयोगातिशयः –
एषोऽ यम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः । १६२
प्रयोग-सूचनं यत्र प्रयोगातिशयो हि सः ॥स्र्स्_३।३४८॥

यथा मालविकाग्निमित्रे-
शिरसा प्रथम-गृहीताम् आज्ञाम् इच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवा-दक्षः परिजनोऽ यम् ॥स्र्स्_३।३४९॥ [मा।अ।मि। १।३]

अत्रायम् इत्य् उपक्षेपेणाक्षिप्तः परिजन-प्रवेशः प्रयोगातिशयः ।

तथा च शाकुन्तले-
तवास्मि गीत-रागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥स्र्स्_३।३५०॥ [अ।शा। १।५]

इत्य् अत्र एष इत्य् उपक्षिप्तो दुष्यन्त-प्रवेशः प्रयोगातिशयः ।

प्रस्तावना-स्थापनेति द्विधा स्याद् इदम् आमुखम् । १६३
विदूषक-नटी-पारिपार्श्विकैः सह संलापन् ॥स्र्स्_३।३५१॥
स्तोक-वीथ्य्-अङ्ग-सहितान्य् आमुखाङ्गानि सूत्र-भृत् । १६४
योजयेद् यत्र नाट्य-ज्ञैर् एषा प्रस्तावना स्मृता ॥स्र्स्_३।३५२॥
सर्वामुखाङ्ग-वीथ्य्-अङ्ग-समेतैर् वाक्य-विस्तरैः । १६५
सूत्रधारो यत्र नटी-विदूषक-नटादिभिः ॥स्र्स्_३।३५३॥
संलपन प्रस्तुतं चार्थम् आक्षिपेत् स्थापना हि सा । १६६
शृङ्गार-प्रचुरे नाट्ये योग्यः स्याद् आमुख-क्रमः ॥स्र्स्_३।३५४॥
रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैर् अयम् । १६७
वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता ॥स्र्स्_३।३५५॥
अनर्घ-राघवाद्येषु प्रायशो वीक्ष्यताम् इयम् । १६८
हास्य-बीभत्स-रौद्रादि-प्राये तु स्थापना मता ॥स्र्स्_३।३५६॥
वीर-भद्र-विजृम्भादौ सा प्रायेण समीक्ष्यताम् । १६९
कथितान्य् आमुखाङ्गानि वीथ्य्-अङ्गानि प्रचक्ष्महे ॥स्र्स्_३।३५७॥
आमुखेऽ पि च वीथ्यां च साधारण्येऽ पि सम्मतः । १७०
वीथ्य्-अङ्ग-सम्प्रथा तेषां वीथ्याम् आवश्यकत्वतः ॥स्र्स्_३।३५८॥
उद्घात्यकावलगित-प्रपञ्च-त्रिगते छलम् । १७१
वाक्केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ॥स्र्स्_३।३५९॥
असत्-प्रलाप-व्याहारौ मृदवं च त्रयोदश । १७२
तत्रोद्घात्यकम् अन्योन्यालाप-माला द्विधा हि तत् ।
गूढारथ-पद-पर्याय-क्रमात् प्रश्नोत्तर-क्रमात् ॥स्र्स्_३।३६०॥ १७३

तत्र गूढार्थ-पद-पर्याय-क्रमाद् उद्घात्यकम्, यथा वीरभद्र-विजृम्भित-नामनि डिमे-
सखे कोऽ यं रौद्रः कथय महितः कोऽ पि हि रसो
रसो नामायं कः स्मृति-सुरभिर् आस्वाद-महिमा ।
समास्वादः कोऽ यं क्रम-गलित-वेद्यान्तर-मतिर्
मनोऽ वस्था ज्ञातं ननु वदसि निद्रान्तरम् इति ॥स्र्स्_३।३६१॥

अत्र रौद्र-रस-स्वरूप-विवेचनाय रसास्वादावस्था-लक्षणैर् गूढार्थ-पद-पर्यायैर् नट-सूत्रधारयोः संलापाद् इदम् आदिमम् उद्घात्यकम् ।

प्रश्नोत्तर-क्रमाद्, यथा तत्रैव डिमे-

सेव्यं किं परम् उत्तमस्य चरितं लोकोत्तरः कः पुमान्
श्री-सिंहः स तु कीदृशो वद निधिर् धर्मस्य धर्मस् तु कः ।
सत्योक्तिर् वचनं तु किं कवि-नुतं को नाम तादृक् कविर्
विश्वेशः स तु कीदृशो विजयते विश्वेषु विश्वेशवत् ॥स्र्स्_३।३६२॥

अत्र गूढार्थ-पद-पर्याय-रहित-प्रश्नोत्तर-क्रमेण नट-सूत्रधारयोः संलापात् प्रकृत-कवि-वर्णनोपयुक्तम् इदम् उद्घात्यकम् ।

अथ अवलगितम्-
द्विधावलगितं प्रोक्तम् अर्थावलगनात्मकम् ।
अन्य-प्रसङ्गाद् अन्यस्य संसिद्धिः प्रकृतस्य व ॥स्र्स्_३।३६३॥ १७४

अन्य-प्रसङ्गाद् अन्यस्य सिद्ध्या अवलगितम्, यथा अभिराम-राघवे अनपोत-नायकीये-

हन्त सारस्वतं चक्षुः कवीनां क्रान्त-दर्शिनाम् ।
अतिशय्य प्रवर्तेत नियतार्थेषु वस्तुषु ॥स्र्स्_३।३६४॥

अत्र सूत्रधारेण कवीनां सारस्वतं चक्षुर् इति कवि-सामान्य-वर्णनेन स्वाभिलषित-कवि-विशेषोत्कर्ष-साधन-रूपात् प्रकृताएर्थावलगनाद् अवलगितम् इदम् ।

अन्य-प्रसङ्गेन प्रकृतस्य सिद्धिर्, यथा अनर्घ-राघवे-

सूत्रधारः-मारिष, स्थाने खलु भवतः कुतूहलम् । ईदृशम् एवैतत् ।

तत् तादृग् उज्ज्वलककुत्स्थ-कुल-प्रशस्ति-
सौरभ्य-निर्भर-गभीर-मनोहराणि ।
वाल्मीकि-वाग्-अमृत-कूप-निपान-लक्ष्मीम्
एतानि बिभ्रति मुरारि-कवेर् वचांसि ॥स्र्स्_३।३६५॥ [अ।रा। १।१२]

अत्राप्रकृत-वाल्मीकि-वर्णन-प्रसङ्गेन प्रकृत-मारिष-कुतूहलोत्कर्ष-संसाधन-रूपात् प्रकृत-नाट्यावलगनाद् इदं द्वितीयम् अवलगितम् ।

अथ प्रपञ्चः-
प्रपञ्चस् तु मिथः स्तोत्रम् असद्-भूतं च हास्य-कृत् ॥स्र्स्_३।३६६॥ १७५अ

यथा वीरभद्र-विजृम्भणे-
नाट्याचार्यस् त्वम् असि सुहृदां त्वादृशानां प्रसादात्
कोऽ यं गीत-श्रम-विधिर् अहो भिन्न-कण्ठोऽ द्य जातः ।
ज्ञातं ज्ञातं परिहससि मां भाषितैर् भाव-गर्भैर्
मैवं वाच्यं त्वम् असि हि गुरुस् तत्र चेष्टिः प्रमाणम् ॥स्र्स्_३।३६७॥

अत्र नट-सूत्रधारयोर् अन्यथार्थस्यान्योन्य-स्तोत्रस्य हास्यायैव प्रवृत्तत्वात् प्रपञ्चः ।

अथ त्रिगतम्-
श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं भवेत् ॥स्र्स्_३।३६८॥ १७५ब्

यथाभिराम-राघवे, पारिपार्श्विकः-

वाणी-मुरज-क्वणितं श्रुति-सुभगं किं सुधा-मुचः स्तनितम् ।
जलदस्य किम् आ ज्ञातं तव मधुर-गभीर-वाग्-विलासोऽ यम् ॥स्र्स्_३।३६९॥

अत्र सूत्रधार-वाग्-विलासे मुरज-जलद-ध्वनि-वितर्क-सम्भावनात् त्रिगतम् ।

अथ छलम्-
प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर् विलोभनम् ॥स्र्स्_३।३७०॥ १७६अ

यथा अभिराम-राघवे-

विद्वान् असौ कलावान् अपि रसिको बहु-विध-प्रयोगज्ञः ।
इति च भवन्तं विद्मो निर्व्यूढं साधु तत् त्वया सर्वम् ॥स्र्स्_३।३७१॥

अत्र विपरीत-लक्षणया प्रहेलिकार्थम् अजानतः पारिपार्श्विकस्योपालम्भनात् छलम् ।

अथ वाक्केलिः-
साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात् समाप्तितः ॥स्र्स्_३।३७२॥ १७६

यथा महेश्वरानन्दे-

कुल-शोक-हरं कुमारम् एकं
कुहना-भैरव-पारणोन्मुखाभ्याम् ।
उपहूय कृतादरं पितृभ्याम्
उपरि प्रस्तुतम् ॐ नमः शिवाय ॥स्र्स्_३।३७३॥

अत्र वाक्ये साकाङ्क्षे विशेषांशम् अनुक्त्वा नमः शिवायेति समाप्ति-कथनाद् वाक्-केलिः ।

अथ अधिबलम्-
स्पर्धयान्योन्य-सामर्थ्य-व्यक्तिस् त्व् अधिबलं भवेत् ॥स्र्स्_३।३७४॥ १७७अ

यथा वीरभद्र-विजृम्भणे-

मा भूच् चिन्ता तवेयं मयि सति कुशले दुष्करः किं प्रयोगो
मानिन् जानासि किं त्वं किम् अपि न विदिता चातुरी मे त्वया किम् ।
आस्तां स्व-स्तोत्र-कन्था कृतम् इह कथैतैर् भूत-पूर्वैः प्रसङ्गैः
पत्न्याहं वश्य-कर्मा सपदि नटविधाव् एष सज्जीभवामि ॥स्र्स्_३।३७५॥

अत्र नट-सूत्रधारयोः परस्पर-स्पर्धया स्व-स्व-प्रयोग-सामर्थ्य-प्रकाशनाद् अधिबलम् ।

अथ गण्डम्-
गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सहसोदितम् ॥स्र्स्_३।३७६॥ १७७ब्

यथा वेणी-संहारे-
निर्वाण-वैर-दहनाः प्रशमादरीणां
नन्दन्तु पाण्डु-तनयाः सह माधवेन ।
रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च
स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे।सम्। १।७]

तत्र सूत्रधारेण निरुपद्रव-लक्षणेऽ र्थे विवक्षितेऽ पि स्वर्ग-स्थिति-लक्षणार्थ-सूचकस्य रक्त-प्रसाधितअ-भुव इत्य् आदि-श्लिष्ट-वाक्यस्य सहसा प्रस्तुत-सम्बन्धितया भाषितत्वाद् गण्डम् ।

अथ अवस्यन्दितम्-
पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ॥स्र्स्_३।३७७॥ १७८अ

यथा वेणी-संहारे, सूत्रधारः-

सत्-पक्षा मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे ॥स्र्स्_३।३७८॥ [वे।सम्। १।६]

पारिपार्श्विकः (प्रविश्य सम्भ्रान्तः)-शान्तं पापम् । प्रतिहतम् अमङ्गलम् ।

सूत्रधारः-मा भैषीः । ननु शरत्-समय-वर्णनाशंसया हंसान् धार्तराष्ट्रा इति व्यपदिशामि ।

अत्र पूर्वोक्तस्य सुयोधनादि-निपातस्य हंस-पातत्वेन व्याख्यानाद् इदम् अवस्यन्दितम् ।

अथ नालिका-
प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता । १७८
अन्तर्-लापा बहिर्-लापेत्य् एषा द्वेधा समीरिता ॥स्र्स्_३।३७९॥

तत्र अन्तर्-लापा, यथा प्रसन्न-राघवे-

प्रत्यङ्कम् अङ्कुरित-सर्व-नवावतारन्-
नव्योल्लसत्-कुसुम-राजि-विराजि-बन्धम् ।
घर्मेतरांशुम् इव वक्रतयातिरम्यं
नाट्य-प्रबन्धम् अतिमञ्जुल-संविधानम् ॥स्र्स्_३।३८०॥ [प्र।रा। १।७]

अत्र प्रसन्न-राघव-नामेत्य् उत्तरस्य सप्ताक्षराष्ट-पङ्क्ति-क्रमेण लिखितेऽ स्मिन्न् एव श्लोके मृग्यत्वाद् अन्तर्-लापो नामेयम् ।

बहिर्-लापा, यथा बाल-रामायणे-
कम-बड्ढन्त-विलासं रसासले कं करेइ कन्दप्पो ।
[क्रम-वर्धमान-विलासं रसातले कं करोति कन्दर्पः ।]

सूत्रधारः-अये प्रश्नोत्तरम् । सेयम् अस्मत्-प्रीतिर् इति देवादेशः । तत् स्वयम् एव वाचयामि-

निर्भय-गुरुर् व्यधत्त च वाल्मीकि-कथां किम् अनुसृत्य ॥स्र्स्_३।३८१॥ [बा।रा। १।५]

इत्य् अत्र बाल-रामायणम् इत्य् उत्तरस्य बहिर् एव मृग्यत्वाद् बहिर्-लापा नाम नालिकेयम् ।

अथ असत्-प्रलापः-
असम्बद्ध-कथालापोऽ सत्-प्रलाप इतीरितः ॥स्र्स्_३।३८२॥ १७९ब्

यथा वीरभद्र-विजृम्भणे, नटः-
पत्नी परिलम्बि-कुचा तनया मम दन्तुरापि तरुण-वयाः ।
क्रीडा-कपिर् अस्ति गृहे तद् अहं नाट्य-प्रयोग-मर्मज्ञः ॥स्र्स्_३।३८३॥

अत्र नटेन स्वकीय-नाट्य-प्रयोग-मर्मज्ञत्वे हेतुतया कथितानां क्रीडा-कपि-सद्-भावादीनाम् असम्बद्धत्वाद् अयम् असत्-प्रलापः ।

अथ व्याहारः-
अन्यार्थं वचनं हास्य-करं व्याहार उच्यते ॥स्र्स्_३।३८४॥ १८०अ

यथा आनन्द-कोश-नामनि प्रहसने-(प्रविश्य) नटी-अय्य को णिओओ ? [आर्य, को नियोगः ?]

सूत्रधारः-आर्ये गर्गरिके नूनम् आनन्द-कोश-नाभिलाषिणी परिषद् इयम् ।

नटी-ता दंसेदु अय्यो । तदो किं बिलम्बेण । [तद् दर्शयतु आर्यः । ततः किं विलम्बेन ?]

सूत्रधारः-अयि गायिके गर्गरिके भवत्या मुख-व्यापारेण बीजोत्थापनानुसन्धायिना भवितव्यम् ।

नटी (स-हर्षम्)-कीरिसो सो मुह-बाबारो । [कीदृशः स मुख्य-व्यापारः ?]

सूत्रधारः-नन्व् अमुम् एव शिशिरम् अधिकृत्य ध्रुवा-गान-रूपः ।

इत्य् अत्र आनन्द-कोश-बीजोत्थापन-मुख-व्यापाराणां रूपक-बीजोत्थापन-ध्रुवा-गानार्थानाम् अपि अन्यार्थ-प्रतीत्या हास्यकरत्वाद् अयं व्याहारः ।

अथ मृदवम्-
दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥स्र्स्_३।३८५॥ १८०ब्

यथा-
नार्हाः केवल-वेद-पाठ-विधिना कीरा इव छान्दसाः
शास्त्रीयाभ्यसनाच् छुनाम् इव नृणाम् अन्योन्य-कोलाहलः ।
व्यर्थं काव्यम् असत्य-वस्तु-घटनात् स्वप्नेन्द्रजालादिवद्
व्याकीर्ण-व्यवहार-निर्णय-कृते त्व् एकैव कार्या स्मृतिः ॥स्र्स्_३।३८६॥

अत्र काव्यादिषु गुण-भूतेष्व् अपि दोषत्व-कथनाद् मृदवम् इदम् ।

एवम् आमुखम् आयोज्य सूत्रधारे सहानुगे ।
निष्क्रान्तेऽ थत् तद्-आक्षिप्तैः पात्रैर् वस्तु प्रपञ्चयेत् ॥स्र्स्_३।३८७॥ १८१
वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः ।
रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥स्र्स्_३।३८८॥ १८२
यद् वस्तु नीरसं तत् तु सूचयेत् सूचकास् त्व् अमी ।
विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकाः ॥स्र्स्_३।३८९॥ १८३

तत्र विष्कम्भो भूत-भावि-वस्त्व्-अंश-सूचकः ।
अमुख्य-पात्र-रचितः सङ्क्षेपैक-प्रयोजनः ॥स्र्स्_३।३९०॥ १८४
स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः ।
सोऽ यं चेटी-नटाचार्य-संलाप-परिकल्पितः ॥स्र्स्_३।३९१॥ १८५
मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् ।
शुद्धः केवल-मध्योऽ यम् एकानेक-कृतो द्विधा ॥स्र्स्_३।३९२॥ १८६
रत्नावल्याम् एक-शुद्धः प्राप्त-यौगन्धरायणः ।
अनेक-शुद्धो विष्कम्भः षष्ठाङ्केऽ नर्घ-राघवे । १८७
निरूप्यतां सम्प्रयुक्तो माल्यवच्छुक-सारणैः ॥स्र्स्_३।३९३॥

अथ चूलिका-
वन्दि-मागध-सूताद्यैः प्रतिसीरान्तर-स्थितैः । १८८
अर्थोपक्षेपणं यत् तु क्रियते सा हि चूलिका ॥स्र्स्_३।३९४॥
सा द्विधा चूलिका खण्ड-चूलिका चेति भेदतः । १८९
पात्रैर् यवनिकान्तःस्थैः केवलं या तु निर्मिता ॥स्र्स्_३।३९५॥
आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा स्मृता । १९०
प्रवेश-निर्गमाभावाद् इयम् अङ्काद् बहिर् गता ॥स्र्स्_३।३९६॥

अङ्कादौ चूलिका, यथा अनर्घ-राघवे सप्तमाङ्के, नेपथ्ये-

तमिस्रा-मूर्च्छाल-त्रिजगद्-अगद्ङ्कार-किरणे
रघूणां गोत्रस्य प्रसवितरि देवे सवितरि ।
पुरःस्थे दिक्-पालैः सह पर-गृहावास-वचनात्
प्रविष्टो वैदेही दहनम् अथ शुद्धा च निरगात् ॥स्र्स्_३।३९७॥ [अ।रा। ७।१]

इत्य् आदौ नेपथ्य-गतैर् एव पात्रैः सीता-ज्वलन-प्रवेश-निर्गमादीनाम् अर्थानां प्रयोगानुचितानां सूचनाद् इयं चूलिका ।

अङ्क-मध्ये, यथा रत्नावल्यां द्वितीयाङ्के, (नेपथ्ये कलकलः)-

कण्ठे कृत्तावशेषं कनक-मयम् अधः शृङ्खला-दाम कर्षन् क्रान्त्वा द्वाराणि हेलाचल-चरण-रणत्-किङ्कणी-चक्रवालः ।
दत्तातङ्कोऽ ङ्गनानाम् अनुसृत-सरणिः सम्भ्रमाद् अश्व-पालैः प्रभ्रष्टोऽ यं प्लवङ्गः प्रविशति नृपतेर् मन्दिरं मन्दुरायाः ॥स्र्स्_३।३९८॥ [र। २।२]

अत्र नेपथ्य-गतैः पात्रैः प्रयोगानुचितस्य वानर-विप्लवाद्य्-अर्थस्य सूचनाद् इयं मध्य-चूलिका ।

अथ खण्ड-चूलिका-
रङ्ग-नेपथ-संस्थायि-पात्र-संलाप-विस्तरैः । १९१
आदौ केवलम् अङ्कस्य कल्पिता खण्ड-चूलिका ।
प्रवेश-निर्गमाप्राप्तेर् इयम् अङ्काद् बहिर्-गता ॥स्र्स्_३।३९९॥ १९२

यथा बाल-रामायणे सप्तमाङ्कस्यादौ, (ततः प्रविशति वैतालिकः कर्पूर-चण्डः) वैतालिकः-भद्र चन्दन-चण्ड परित्यज निद्रा-मुद्राम् । विमुञ्च निजोटजाभ्यन्तरम् ।

नेपथ्ये-अय्य कप्पुर-चण्ड एसा मिट्ठा पभाद-णिद्दा । सुविस्सं दाव । [आर्य कर्पूर-चण्ड एषा मिष्टा प्रभात-निद्रा । स्वप्स्यामि तावत् ।]

कर्पूर-चण्डः-अहो उत्साह-शक्तिर् भवतः । अमन्त्र-शीलो मही-पतिः अपर-प्रबन्ध-दर्शी कविः अपाठ-रुचिश् च वद्नी न चिरं नन्दति ।

नेपथ्ये-ता एत्थ सन्त्थर-त्थिदो णिमीलिद-णअणो जेब्ब सुप्पभादं पठिस्सं । [तद् अत्र संस्तर-स्थितो निमीलित-नयन एव सुप्रभातं पठिष्यामि ।]

कर्पूर-चण्डः-एतद् अपि भवतो भूरि । तद् उपश्लोकयावो रामभद्रम् । (किञ्चिद् उच्चैः)

मार्तण्डैक-कुल-प्रकाण्ड-तिलकस् त्रैलोक्य-रक्षा-मणिर्
विश्वामित्र-महामुनेर् निरुपधिः शिष्यो रघु-ग्रामणीः ।
रामस् ताडित-ताटकः किम् अपरं प्रत्यक्ष-नारायणः
कौसल्या-नयनोत्सवो विजयतां भू-काश्यपस्यात्मजः ॥स्र्स्_३।४००॥ [बा।रा। ७।३]

नेपथ्ये-
कन्दप्प्-उद्दाम-दप्प-प्पसमण-गुरुणो बह्मणो काल-दण्डे
पाणिं देन्तस्स गङ्गा-तरलिद-ससिणो पब्बई-बल्लहस्स ।
चाबं चण्डाहिसिञ्जारब-हरिद-णहं कर्षणारुद्ध-मज्झं
जं भग्गं तस्स सद्दो णिसुणिति हुअणे बित्थरन्तो णमाइ ॥स्र्स्_३।४०१॥ [बा।रा। ७।४]

[कन्दर्पोद्दाम-दर्प-प्रशमन-गुरोर् ब्रह्मणः काल-दण्डे
पाणिं दातुर् गङ्गा-तरलित-शशिनः पर्वती-वल्लभस्य ।
चापं चण्डाभिशिञ्जा-रव-भरित-नभः कर्षणारुद्ध-मध्यं
यत् भग्नं तस्य शब्दो निःश्रूयते भुवने विस्तरन् न माति ॥]

अत्र प्रविष्टेन कर्पूर-चण्डेन यवनिकान्तर्गतेन चन्दन-चण्डेन च पर्याय-प्रवृत्त-वाग्-विलासैस् ताटकावधादि-विभीषणाभय-प्रदानान्तस्य रामभद्र-चरितस्य बाहुल्यात् प्रयोगानुचितस्य सूचनाद् इयं खण्ड-चूलिका ।

एनां विष्कम्भम् एवान्ये प्राहुर् नैतन् मतं मम ।
अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते । १९३
तद् विष्कम्भ-शिरस्कत्वान् मतेयं खण्ड-चूलिका ॥स्र्स्_३।४०२॥

अथ अङ्कास्यम्-
पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः । १९४
सूचनं तद्-अविच्छित्यै यत् तद् अङ्कास्यम् ईरितम् ॥स्र्स्_३।४०३॥
यथा हि वीर-चरिते द्वितीयाङ्कावसानके । १९५
प्रविष्टेन सुमन्त्रेण सूचितं राम-विग्रहे ॥स्र्स्_३।४०४॥
वसिष्ठ-विश्वामित्रादि-समाभाषण-लक्षणम् । १९६
वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् ॥स्र्स्_३।४०५॥

अथाङ्कावतारः-
अङ्कावतारः पात्राणां पूर्व-कार्यानुवर्तिनाम् । १९७
अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् ॥स्र्स्_३।४०६॥
द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् । १९८
पात्रेणाङ्क-प्रविष्टेन केवलं सूचितत्वतः ।
भवेद् अङ्काद् अबाह्यत्वम् अङ्कास्याङ्कावतारयोः ॥स्र्स्_३।४०७॥ १९९

अथ प्रवेशकः-
यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् ।
अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥स्र्स्_३।४०८॥ २००
सोऽ यं चेटि-द्वयालाप-संविधानोपकल्पितः ।
मालती-माधवे प्राज्ञैर् द्वितीयाङ्के निरूप्यताम् ॥स्र्स्_३।४०९॥ २०१
असूच्यं तु शुभोदात्त-रस-भाव-निरन्तरम् ।
प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥स्र्स्_३।४१०॥ २०२
रसालङ्कार-वस्तूनाम् उपलालन-काङ्क्षिणाम् ।
जनन्य्-अङ्कवदाधार-भूतत्वाद् अङ्क उच्यते ॥स्र्स्_३।४११॥ २०३
अङ्कस् तु पञ्चषैर् द्वित्रैर् अङ्गिनोऽ ङ्गस्य वस्तुनः ।
रसस्य वा समालम्ब-भूतैः पात्रैर् मनोहरः । २०४
संविधान-विशेषः स्यात् तत्रासूच्यं प्रपञ्चयेत् ॥स्र्स्_३।४१२॥

अथ असूच्यविभागः-
असूच्यं तद् द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् । २०५
द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥स्र्स्_३।४१३॥
स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् । २०६
सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः ॥स्र्स्_३।४१४॥
सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । २०७
द्वितीयं तु स्थितेष्व् अप्य् एष्व् एकस्य श्रवणोचितम् ॥स्र्स्_३।४१५॥
द्विधा विभाव्यतेऽ न्यच् च जनान्तम् अपवारितम् । २०८
त्रिपताका-करेणान्यान् अपवार्यान्तरा कथाम् ॥स्र्स्_३।४१६॥
अन्येनामन्त्रणं यत् स्यात् तज् जनान्तिकम् उच्यते । २०९
रहस्यं कथ्यतेऽ न्यस्य परावृत्यापवारितम् ॥स्र्स्_३।४१७॥
इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः । २१०।
पात्रैर् निष्क्रमणं कार्यम् अङ्कान्ते समम् एव हि ॥स्र्स्_३।४१८॥
अङ्क-च्छेदश् च कर्तव्यः कालावस्थानुरोधतः । २११
दिनार्ध-दिनयोर् योग्यम् अङ्के वस्तु प्रवर्तयेत् ॥स्र्स्_३।४१९॥

अथ गर्भाङ्कः-
अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया । २१२
रसनायक-वस्तूनां महोत्कर्षाय कोविदैः ॥स्र्स्_३।४२०॥
अङ्कस्य मध्ये योऽ ङ्कः स्याद् असौ गर्भाङ्क ईरितः । २१३
वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः ॥स्र्स्_३।४२१॥
अर्थोपक्षेपकैर् हीनश् चूलिका-परिवर्जितैः । २१४
अनेष्यद्-वस्तु-विषयः पात्रैश् त्रि-चतुरैर् युतः ॥स्र्स्_३।४२२॥
नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्ग-शोभितः । २१५
प्रस्तुतार्थानुबन्धी च पात्र-निष्क्रमणावधिः ॥स्र्स्_३।४२३॥
प्रथमाङ्के न कर्तव्यः सोऽ यं काव्य-विशारदैः । २१६
सोऽ यम् उत्तर-रामे तु रसोत्कर्षाय कथ्यताम् ॥स्र्स्_३।४२४॥
नेतुर् उत्कर्षको ज्ञेयो बाल-रामायणे त्व् अयम् । २१७
अमोघ-राघवे सोऽ यं वस्तूत्कर्षैक-कारणम् ॥स्र्स्_३।४२५॥

नाटके अङ्क-नियमः-
नाटकेऽ ङ्का न कर्तव्याः पञ्च-न्यूना दशाधिकाः । २१८
तद् ईदृश-गुणोपेतं नाटकं भुक्ति-मुक्तिदम् ॥स्र्स्_३।४२६॥

तथा च भरतः-
धर्मार्थ-साधनं नाट्यं सर्व-दुःखापनोद-कृत् ।
आसेवध्वं तद् ऋषयस् तस्योत्थानं तु नाटकम् ॥स्र्स्_३।४२७॥ इति ।

पूर्णादि-नाटक-भेदानङ्गीकारः-
नाटकस्य तु पूर्णादि-भेदाः केचन कल्पिताः । २१९
तेषां नातीव रम्यत्वाद् अपरीक्षाक्षमत्वतः ।
मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे ॥स्र्स्_३।४२८॥ २२०

अथ प्रकरणम्-
यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः ।
रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत् ॥स्र्स्_३।४२९॥ २२१
तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा ।
कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम् ॥स्र्स्_३।४३०॥ २२२
गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् ।
कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत् ॥स्र्स्_३।४३१॥ २२३
मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके ।
धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम् ॥स्र्स्_३।४३२॥ २२४

नाटिकायाः न पृथग्-रूपत्वम्-
नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् ।
प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः ॥स्र्स्_३।४३३॥ २२५
बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि ।
विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम् ॥स्र्स्_३।४३४॥ २२६
रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् ।
स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम् ॥स्र्स्_३।४३५॥ २२७
एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः ।
देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते ।
मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः ॥स्र्स्_३।४३६॥ २२८

प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः ।
अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥स्र्स्_३।४३७॥ २२९

अथ उतृष्टिकाङ्कः-
ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः ।
अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः ॥स्र्स्_३।४३८॥ २३०
स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः ।
नाना-सङ्ग्राम-सन्नाह-प्रहारमरणोत्कटः ॥स्र्स्_३।४३९॥ २३१
मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया ।
उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः ॥स्र्स्_३।४४०॥ २३२
अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः ।
प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः ॥स्र्स्_३।४४१॥ २३३
उज्जीवनाद् अप्य् अधिकं मनोरथ-फलोऽ पि वा ।
विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥स्र्स्_३।४४२॥ २३४

अथ व्यायोगः-
खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः ।
युक्तो दशावरैह् ख्यातैर् उद्धतैः प्रतिनायकैः ॥स्र्स्_३।४४३॥ २३५
विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः ।
हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः ॥स्र्स्_३।४४४॥ २३६
एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः ।
अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः । २३७
विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम् ॥स्र्स्_३।४४५॥

अथ भाणः-
स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना । २३८
शौर्य-सौभाग्य-संस्तुत्या वीर-शृङ्गार-सूचकम् ॥स्र्स्_३।४४६॥
बुद्धि-कल्पितम् एकाङ्कं मुख-निर्वहणान्वितम् । २३९
वर्ण्यते भारती-वृत्त्या यत्र तं भाणम् ईरते ॥स्र्स्_३।४४७॥
एक-पात्र-प्रयोज्येऽ स्मिन् कुर्याद् आकाश-भाषितम् । २४०
अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वेव यद् वदेत् ॥स्र्स्_३।४४८॥
इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् । २४१
लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु ॥स्र्स्_३।४४९॥
गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गन्धिका । २४२
प्रच्छेदकस् त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ।
उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च ॥स्र्स्_३।४५०॥ २४३

अथ गेय-पदम्-
वीणादि-वादनेनैव सहितं यत्र भाव्यते ।
ललितं नायिका-गीतं तद् गेय-पदम् उच्यते ॥स्र्स्_३।४५१॥ २४४
चञ्चत्-पुटादिना वाक्याभिनयो नायिका-कृतः ।
भूमि-चारी-प्रचारेण स्थित-पाठ्यं तद् उच्यते ॥स्र्स्_३।४५२॥ २४५
भ्रू-नेत्र-पाणि-चरण-विलासाभिनयान्वितम् ।
योज्यम् आसीनया पाठ्यम् आसीनं तद् उदाहृतम् ॥स्र्स्_३।४५३॥ २४६
नाना-विधेन वाद्येन नाना-ताल-लयान्वितम् ।
लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्प-गन्धिका ॥स्र्स्_३।४५४॥ २४७
अन्यासङ्गम-शङ्किन्या नायकस्यातिरोषया ।
प्रेम-च्छेद-प्रकटनं लास्यं प्रच्छेदकं विदुः ॥स्र्स्_३।४५५॥ २४८
अनिष्ठुर-श्लक्ष्ण-पदं सम-वृत्तैर् अलङ्कृतम् ।
नाट्यं पुरुष-भावाढ्यं त्रिमूढकम् उदाहृतम् ॥स्र्स्_३।४५६॥ २४९
देश-भाषा-विशेषेण चलद्-वलय-शृङ्खलम् ।
लास्यं प्रयुज्यते यत्र तत् सैन्धवम् इति स्मृतम् ॥स्र्स्_३।४५७॥ २५०
चारीभिर् ललिताभिश् च चित्रार्थाभिनयान्वितम् ।
स्पष्ट-भाव-रसोपेतं लास्यं यत् तद् द्विमूढकम् ॥स्र्स्_३।४५८॥ २५१
अपरिज्ञात-पार्श्वस्थं गेय-भाव-विभूषितम् ।
लास्यं सोत्कण्ठ-वाक्यं तद् उत्तमोत्तमकं भवेत् ॥स्र्स्_३।४५९॥ २५२
कोप-प्रसाद-जनितं साधिक्षेप-पदाश्रयम् ।
वाक्यं तद् उक्त-प्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥स्र्स्_३।४६०॥ २५३
शृङ्गार-मञ्जरी-मुख्यम् अस्योदाहरणं मतम् ।
लास्याङ्ग-दशकं तत्र लक्ष्यं लक्ष्य-विचक्षणैः ॥स्र्स्_३।४६१॥ २५४

अथ समवकारः-
प्रख्यातेनेतिवृत्तेन नायकैर् अपि तद्-विधैः ।
पृथक्-प्रयोजनासक्तैर् मिलितैर् देव-दानवैः ॥स्र्स्_३।४६२॥ २५५
युक्तं द्वादशभिर् वीर-प्रधानं कैशिकी-मृदु ।
त्र्य्-अङ्कं विमर्श-हीनं च कपट-त्रय-संयुतम् ॥स्र्स्_३।४६३॥ २५६
त्रि-विद्रवं त्रि-शृङ्गारं विद्यात् समवकारकम् ।
मोहात्मको भ्रमः प्रोक्तः कपटस् त्रिविधस् त्व् अयम् ॥स्र्स्_३।४६४॥ २५७
सत्त्वजः शत्रुजो दैव-जनितश् चेति सत्त्वजः ।
क्रूर-प्राणि-समुत्पन्नः शत्रुजस् तु रणादिजः ॥स्र्स्_३।४६५॥ २५८
वात्यावर्षादि-सम्भूतो दैवजः कपटः स्मृतः ।
उदाहरणम् एतेषाम् आवेगे लक्ष्यतां बुधैः ॥स्र्स्_३।४६६॥ २५९
जीव-ग्राहोऽ पि मोहो वा कपटाद् विद्रवस् ततः ।
कपट-त्रय-सम्भूतेर् अयं च त्रिविधो मतः । २६०
धर्मार्थ-काम-सम्बद्धस् त्रिधा शृङ्गार ईरितः ॥स्र्स्_३।४६७॥
धर्म-शृङ्गारः-
व्रतादि-जनितः कामो धर्म-शृङ्गार ईरितः । २६१
पार्वती-शिव-सम्भोगस् तद् उदाहरणं मतम् ॥स्र्स्_३।४६८॥

अर्थ-शृङ्गारः-
यत्र कामेन सम्बद्धैर् अर्थैर् अर्थानुबन्धिभिः । २६२
भुज्यमानैः सुख-प्राप्तिर् अर्थ-शृङ्गार ईरितः ॥स्र्स्_३।४६९॥
सार्वभौम-फल-प्राप्ति-हेतुना वत्स-भूपतेः । २६३
रत्नावल्या समं भोगो विज्ञेया तद् उदाहृतिः ॥स्र्स्_३।४७०॥

काम-शृङ्गारः-
दुरादर-सुरा-पान-पर-दारादि-केलिजः । २६४
तत्-तद्-आस्वाद-ललितः काम-शृङ्गार ईरितः ॥स्र्स्_३।४७१॥
तद् उदाहरणं प्रायो दृश्यं प्रसनादिषु । २६५
शृङ्गार-त्रितयं तत्र नात्र बिन्दु-प्रवेशकौ ॥स्र्स्_३।४७२॥
मुख-प्रतिमुखे सन्धी वस्तु द्वादश-नाडिकम् । २६६
प्रथमे कल्पयेद् अङ्के नाडिका घटिका-द्वयम् ॥स्र्स्_३।४७३॥
मुखादि-सन्धि-त्रयवांश् चतुर्नाडिक-वस्तुकः । २६७
द्वितीयाङ्कस् तृतीयस् तु द्वि-नाडिक-कथाश्रयः ॥स्र्स्_३।४७४॥
निर्विमर्श-चतुः-सन्धिर् एवम् अङ्कास् त्रयः स्मृताः । २६८
वीथी-प्रहसनाङ्गानि कुर्याद् अत्र समासतः ॥स्र्स्_३।४७५॥
प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्य्-अङ्ग-विस्तरः । २६९
दश प्रहसनाङ्गानि तत्-प्रसङ्गे प्रचक्ष्महे ।
उदाहरणम् एतस्य पयोधि-मथनादिकम् ॥स्र्स्_३।४७६॥ २७०

अथ वीथी-
सूच्य-प्रधान-शृङ्गारा मुख-निर्वहणान्विता ।
एक-योज्या द्वियोज्या वा कैशिकी-वृत्ति-निर्मिता ॥स्र्स्_३।४७७॥ २७१
वीथ्य्-अङ्ग-सहितैकाङ्का वीथीति कथिता बुधैः ।
अस्यां प्रायेण लास्याङ्ग-दशकं योजयेन् न वा ॥स्र्स्_३।४७८॥ २७२
सामान्या परकीया वा नायिकात्रानुरागिणी ।
वीथ्य्-अङ्ग-प्राय-वृत्तित्वान् नोचिता कुल-पालिका । २७३
लक्ष्यम् अस्यास् तु विज्ञेयं माधवी-वीथिकादिकम् ॥स्र्स्_३।४७९॥

अथ प्रहसनम्-
वस्तु-सन्ध्य्-अङ्क-लास्याङ्ग-वृत्तयो यत्र भाणवत् । २७४
रसो हास्यः प्रधानं स्याद् एतत् प्रहसनं मतम् ॥स्र्स्_३।४८०॥
विशेषेण दशाङ्गानि कल्पयेद् अत्र तानि तु । २७५
अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः ।
भयम् अनृतं विभ्रान्तिर् गद्गद-वाक् च प्रलापश् च ॥स्र्स्_३।४८१॥ २७६

तत्र अवगलितम्-
पूर्वम् आत्म-गृहीतस्य समाचारस्य मोहतः ।
दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥स्र्स्_३।४८२॥ २७७

यथा आनन्द-कोश-नामनि प्रहसने, मिथ्या-तीर्थः-

यानि द्यन्ति गलाद् अधः सुकृतिनो लोम्नां च तेषां स्थितिं
यान्य् ऊर्ध्वं परिपोषयन्ति पुरुषास् तेषां मुहुः खण्डनम् ।
कृत्वा सर्व-जगद्-विरुद्ध-विधिना सञ्चारिणां मादृशां
श्री-गीता च हरीतकी च हरतो हन्तोपभोग्यं वयः ॥स्र्स्_३।४८३॥

अत्र केनापि यति-भ्रष्टेन स्व-गृहीतस्य यत्य्-आश्रमस्य दूषणाद् इदम् अवगलितम् ।

त्यजनाद्, यथा प्रबोध-चन्द्रोदये, क्षपणकः-

अयि पीण-घणत्थण-सोहणि पलितत्थकुलङ्ग-विलोअणि ।
जै लमसि कावालिणी-भावेहिं साबका किं कलिस्सन्दि ॥स्र्स्_३।४८४॥

अहो कावालिणीअदंसणं जेब्ब एक्कं सौक्खमोक्ख-साहणम् । (प्रकाशम्) भो काबालिअ हग्गे तुहके सम्पदं दासो सम्बुत्तो । मं पि महाभैरवानुसासणे दिक्खय ।

[अयि पीन-घन-स्तन-शोभने परित्रस्त-कुरङ्ग-विलोचने ।
यदि रमसे कापालिनी-भावैः श्रावकाः किं करिष्यन्ति ।

अहो कापालिनी-दर्शनम् एव एकं सौख्य-मोक्ष-साधनम् । (प्रकाशम्) भो कापालिक अहं तव सम्प्रतं दासः संवृत्तः । माम् अपि महा-भैरवानुशासने दिक्षय ।]

इत्य् आदौ क्षपणकस्य स्व-मार्ग-परिभ्रम्श अवगलितम् ।

अथ अवस्कन्दः-
अवस्कन्दस् त्व् अनेकेषाम् अयोग्यस्यैक-वस्तुनः ।
सम्बन्धाभास-कथनात् स्व-स्व-योग्यत्व-योजना ॥स्र्स्_३।४८५॥ २७८

यथा प्रहसने (आनन्द-कोश-नामनि)-

यतिः-साक्षाद् भूतं वदति कुचयोर् अन्तरं द्वैत-वादं

बौद्धः-दृष्ट्योर् भेदः क्षणिक-महिमा सौगते दत्त-पादः ।

जैनः-बाह्वोर् मूले नयति शुचिताम् अर्हती कापि दीक्षा

सर्वे-नाभेर् मूलं प्रथयति फलं सर्व-सिद्धान्त-सारम् ॥स्र्स्_३।४८६॥

अत्र यति-बौद्ध-जैनानां गणिकायां स्व-स्व-सिद्धान्त-धर्म-सम्बन्ध-कथनेन स्व-स्व-पक्ष-परिग्रह-योग्यत्व-योजनाद् अवस्कन्दः ।

अथ व्यवहारः-
व्यवहारस् तु संवादो द्वित्राणां हास्य-कारणम् ॥स्र्स्_३।४८७॥ २७९अ

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) बौद्धः (यतिं विलोक्य)-कुतो मण्ड एक-दण्डी ।

मिथ्या-तीर्थः (विलोक्य दृष्टिम् अपकर्षन् आत्म-गतम्)-क्षणिकवादी न सम्भाषणीय एव । तथापि दण्डम् अन्तर्धाय निरुत्तरं करोमि । (प्रकाशम्) अये शून्य-वादिन् ! अदण्डः अमुण्डोऽ हम् आगलाद् अस्मि ।

जैनः (आत्म-गतम्)-नूनम् असौ मायावादी । भवतु । अहम् अपि किम् अप्य् अन्तर्धाय प्रस्तुतं पृच्छामि । (प्रकाशम्) अये महा-परिणाम-वादिन् ! बृहद्-बीज लोम्नां समान-जातीयत्वेऽ पि केषाञ्चित् सङ्कर्तनम् अन्येषां संरक्षणम् इति व्यवस्थितौ किं प्रमाणम् ?

मिथ्या-तीर्थः-जीवद् अमेध्यं जङ्गम-नरको नर-पिशाचोऽ यम् अन्तर्धायापि न सम्भाषणीयः ।

निष्कच्छ-कीर्तिः (सादरम्)-सखे ! आर्हत-मुने वादे त्वया अयम् अप्रतिपत्तिं नाम निग्रह-स्थानम् आरोपितो मायावादी ।

मिथ्या-तीर्थः (आत्म-गतम्)-नूनम् इमाव् अपि मादृशाव् एव लिङ्ग-धारण-मात्रेण कुक्षिम्भरई स्याताम् । (इति पिप्पल-मूल-वेदिकायां निषीदति ।)

इत्य् अत्र यति-बौद्ध-जैनानां संवादो व्यवहारः ।

अथ विप्रलम्भः-
विप्रलम्भो वञ्चना स्याद् भूतावेशादि-कैतवात् ॥स्र्स्_३।४८८॥ २७९ब्

यथा प्रहसने (आनन्द-कोश-नामनि तत्रैव)-

प्रियाम् अहं पूर्व-भृतां नाम्ना स्वच्छन्द-भक्षिणी ।
गृह्णाम्य् एनां यदि त्रातुं कृपा वः श्रूयताम् इदम् ॥स्र्स्_३।४८९॥
सुराघटानां सप्तत्या विंशत्या दृप्त-गड्डुरैः ।
छागैश् च दशभिः कार्या चिरण्टी-तर्पण-क्रिया ॥स्र्स्_३।४९०॥
अद्य कर्तुम् अशक्यं चेत् तत्-पर्याप्ततमं धनम् ।
आस्थाप्यम् अस्याः साक्षिण्याः जरठायाः पटाञ्चले ॥स्र्स्_३।४९१॥

(इति पुनर् अपि व्यात्त-वदनं नृत्यति ।)

निष्कच्छ-कीर्तिः-हे व्रतिनौ ! किम् अत्र विधेयम् ?

मिथ्या-तीर्थः-भोः अहिंसा-वादिन् ! म्रियमाणः प्राणी न रक्षणीय इति किं युष्मद्-धर्मः ?

अरूपाम्बरः (साक्षेपम्)-एकेन सुखम् उपादेयम् । अन्येन धनं प्रदेयम् इति किं युष्मद्-धर्मः ?

निष्कच्छ-कीर्तिः सान्तर्हासं स्व-धनं यति-धनं च जरठायाः पटाञ्चले बद्ध्वा सबलात्कारं जैनस्य कटकं तस्याः पाद-मूलेऽ र्पयति ।)

मधुमल्लिका (साङ्ग-भङ्गं सस्म्रण-भयम् इव)-अम्मो देवदा विलम्बेण कुप्पिस्सदि । ता चिरण्टि-आतप्पणं कादुं गच्छेमि । [अम्हो ! देवता विलम्बेन कोपिष्यति । तत् चिरण्टिका-तर्पणं कर्तुं गच्छामि ।] (इति कटकम् आदाय निष्क्रान्ता ।)

इत्य् आदौ भूतावेश-कैतवेन जैन-बौद्ध-सन्न्यासिनो विलोभ्य धनं कयापि गणिकया गृहीतम् इत्य् अयं विप्रलम्भः ।

अथ उपपत्तिः-
उपपत्तिस् तु सा प्रोक्ता यत् प्रसिद्धस्य वस्तुनः ।
लोक-प्रसिद्धया युक्त्या साधनं हास्य-हेतुना ॥स्र्स्_३।४९२॥ २८०

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) मिथ्या-तीर्थः (पुरोऽ वलोक्य)-अये उपसरित्-तीरे पिप्पल-नामा वनस्पतिः । यश् च गीतासु भगवता निज-विभूतितया निर्दिष्टः । (विचिन्त्य) कथम् अस्य तरोर् इयती महिम-सम्भावना । (विमृश्य) उपपद्यत एव-

तत् पदं तनु-मध्याया येनाश्वत्थ-दलोपमम् ।
तद्-अश्वत्थोऽ स्मि वृक्षाणाम् इत्य् ऊचे भगवान् हरिः ॥स्र्स्_३।४९३॥ इति ।

अत्र लोक-प्रसिद्धेन अश्वत्थ-दलोरु-मूलयोः साम्येन हेतुना लोक-प्रसिद्धस्यैव भगवद्-अश्वत्थयोर् ऐक्यस्य साधनं हास्य-कारणम् उपपत्तिः ।

अथ भयम्-
स्मृतं भयं तु नगर-शोधकादि-कृतो दरः ॥स्र्स्_३।४९४॥ २८१अ

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) जैनः-अहो अराजकोऽ यं विषयः यत् नगर-परिसराश्रित-तपस्विनां धनं चोर्यते (इत्य् उद्वाहुर् आक्रोशति) ।

नगर-रक्षकाः-अये किम् अपहृतं धनम् । कियत् (इति तं परितः प्रविश्य परिसर्पन्ति ।)

अरूपाम्बरः-धिक् कष्टम् । नगर-शीघ्रकाः समायान्ति । (इत्य् ऊर्ध्व-बाहुर् ओष्ठ-स्पन्दनं करोति । मिथ्या-तीर्थो गणिकाम् आक्षिप्य समाधिं नाटयति । निष्कच्छ-कीर्तिर् एक-पादेनावतिष्ठमानः कराङ्गुलीर् गणयति) इत्य् आदौ जैनादीनां भय-कथनाद् भयम् ।

अथ अनृतम्-
अनृतं तु भवेद् वाक्यम् असभ्य-स्तुति-गुम्फितम् । २८१
तद् एवानृतम् इत्य् आहुर् अपरे स्व-मत-स्तुतेः ॥स्र्स्_३।४९५॥

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि)-

बालातपेन परिमृष्टम् इवारविन्दं
माञ्जिष्ठ-चेलम् इव मान्मथम् आतपत्रम् ।
सालक्त-लेखम् इव सौख्य-करण्डम् अद्य
यूनां मुदे तरुणि तत् पदम् आर्तवं ते ॥स्र्स्_३।४९६॥

अत्र आर्तवारुणस्योरु-मूलस्य (असभ्यस्य) वर्णनाद् इदम् अनृतम् ।

अपरम्, यथा कर्पूर-मञ्जर्याम्, भैरवानन्दः-

रण्डा चण्डा दिक्खदा धम्म-दारा
मज्जं मंसं पिज्जए खज्जए अ ।
भिक्खा भोज्जं चम्म-खण्डं च सेज्जा
कोलो धम्मो कस्स णो भादि रम्मो ॥स्र्स्_३।४९७॥ [क।मम्। १।२३]

[रण्डा चण्डा दीक्षिता धर्म-दारा
मद्यं मांसं पीयते खाद्यते च ।
भिक्षा भोज्यं चर्म-खण्डं च शय्या
कौलो धर्मः कस्य नो भाति रम्यः ॥]

अथ विभ्रान्तिः-
वस्तु-साम्य-कृतो मोहो विभ्रान्तिर् इति गीयते ॥स्र्स्_३।४९८॥ २८२ब्

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) बौद्धः (पुरोऽ वलोक्य)-

हेम-कुम्भवती रम्य-तोरणा चारु-दर्पणा ।
कापि गन्धर्व-नगरी दृश्यते भूमि-चारिणी ॥स्र्स्_३।४९९॥

जैनः-अये क्षण-भङ्ग-वादिन् एतद् उत्पात-फलं प्रथम-दर्शिनो भवत एव परिणमेत् । (इति लोचने निमीलयति ।)

बौद्धः (पुनर् निर्वर्ण्य)-हन्त किम् अपदे भ्रान्तोऽ स्मि ।

न पुरीयं विशालाक्षी न तोरणम् इमे भ्रुवौ ।
न दर्पणम् इमौ गण्डौ न च कुम्भाव् इमौ स्तनौ ॥स्र्स्_३।५००॥

इत्य् अत्र बौद्धस्य मोहो विभ्रान्तिः ।

अथ गद्गद-वाक्-
असत्य-रुदितोन्मिश्रं वाक्यं गद्गद-वाग् भवेत् ॥स्र्स्_३।५०१॥ २८३अ

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) (भगिन्यौ परस्परम् आश्लिष्य रुदित इव) गुह्यग्राही (आत्मगतम्)-

अनुपात्त-बाष्प-कणिकं गद्गद-निःश्वास-कलितम् अव्यक्तम् ।
अनयोर् असत्य-रुदितं सुरतान्त-दशां व्यनक्तीव ॥स्र्स्_३।५०२॥

अत्र गद्गद-वाक्त्वं स्पष्टम् ।

अथ प्रलापः-
प्रलापः स्याद् अयोग्यस्य योग्यत्वेनानुमोदनम् ॥स्र्स्_३।५०३॥ २८३ब्

यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) राजा (सौदार्योद्रेकम्)-अये विडालाक्ष अस्मदीये नगरे विषये च-

पति-हीना च या नारी जाया-हीनश् च यः पुमान् ।
तौ दम्पती यथा-कामं भवेताम् इति घुष्यताम् ॥स्र्स्_३।५०४॥

विडालाक्षः-देवः प्रमाणम् । (इति सानुचरो निष्क्रान्तः ।)

गुह्य-ग्राही (स-श्लाघा-गौरवम्)-

नष्टाश्व-भग्न-शकट-न्यायेन प्रतिपादितम् ।
उचिता ते महाराज सेयं कारुण्य-घोषणा ॥स्र्स्_३।५०५॥

अपि च-
मन्वादयो महीपालाः शतशो गाम् अपालयन् ।
न केनापि कृतो मार्ग एवम् आश्चर्य-शौख्यदः ॥स्र्स्_३।५०६॥

अत्र अयोग्यस्यापि राजादेशस्य धर्माधिकारिणा गुह्य-ग्राहिणा न्याय-परिकल्पनया योग्यत्वेनानुमोदनाद् अयं प्रलापः ।

प्रहसनस्य शुद्धादि-भेदाः-
शुद्धं कीर्णं वैकृतं च तच् च प्रहसनं त्रिधा ।
शुद्धं श्रोत्रिय-शाखादेर् वेष-भाषादि-संयुतम् ॥स्र्स्_३।५०७॥ २८४
चेट-चेटी-जन-व्याप्तं तल् लक्ष्यं तु निरूप्यताम् ।
आनन्द-कोश-प्रमुखं तथा भगवद्-अज्जुकम् ॥स्र्स्_३।५०८॥ २८५
कीर्णं तु सर्वैर् वीथ्य्-अङ्गैः सङ्कीर्णं धूर्त-सङ्कुलम् ।
तस्योदाहरणं ज्ञेयं बृहत्-सौभद्रकादिकम् ॥स्र्स्_३।५०९॥ २८६
यच् चेदं कामुकादीनां वेष-भाषादि-सङ्गतैः ।
षण्डताप-सवृद्धाद्यैर् युतं तद् वैकृतं भवेत् । २८७
कलिकेलि-प्रहसन-प्रमुखं तद् उदाहृतम् ॥स्र्स्_३।५१०॥

अथ डिमः-
ख्यातेतिवृत्तं निर्हास्य-शृङ्गारं रौद्र-मुद्रितम् । २८८
सात्त्वती-वृत्ति-विरलं भारत्य्-आरभटी-स्फुटम् ॥स्र्स्_३।५११॥
नायकैर् उद्धतैर् देव-यक्ष-राक्षस-पन्नगैः । २८९
गन्धर्व-भूत-वेताल-सिद्ध-विद्याधरादिभिः ॥स्र्स्_३।५१२॥
समन्वितं षोडशभिर् न्याय-मार्गण-नायकम् । २९०
चतुर्भिर् आङ्कैर् अन्वीतं निर्विमर्शक-सन्धिभिः ॥स्र्स्_३।५१३॥
निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् । २९१
स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः ।
अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम् ॥स्र्स्_३।५१४॥ २९२

अथ ईहामृगः-
यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् ।
चत्वारोऽ ङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः ॥स्र्स्_३।५१५॥ २९३
धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्योऽ पि नायकः ।
दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः ॥स्र्स्_३।५१६॥ २९४
स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः ।
रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना ॥स्र्स्_३।५१७॥ २९५
स्वल्पस् तस्याः प्रवेशो वा सोऽ यम् ईहामृगो मतः ।
व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम् ॥स्र्स्_३।५१८॥ २९६
तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका ।
इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना । २९७
सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः ॥स्र्स्_३।५१९॥

अथ नाटक-परिभाषा-
अथ रूपक-निर्माण-परिज्ञानोपयोगिनी । २९८
श्री-सिंह-धरणीशेन परिभाषा निरूप्यते ॥स्र्स्_३।५२०॥
परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता । २९९
सा हि नौर् अतिगम्भीरं विविक्षोर् नाट्य-सागरम् ॥स्र्स्_३।५२१॥
एषा च भाषा-निर्देश-नामभिस् त्रिविधा मता । ३००
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥स्र्स्_३।५२२॥
चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तयः । ३०१
आसां संस्कार-राहित्याद् विनियोगो न कथ्यते ॥स्र्स्_३।५२३॥
उत्तमादिषु तद्-देश-व्यवहारात् प्रतीयताम् । ३०२
भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ॥स्र्स्_३।५२४॥
कौमार-पाणिनीयादि-संस्कृता संस्कृता मता । ३०३
इयं तु देवतादीनां मुनीनां नायकस्य च ।
लिङ्गिनां च विटादीन्म् अनीचानां प्रयुज्यते ॥स्र्स्_३।५२५॥ ३०४

अथ प्राकृती-
प्रकृतेः संस्कृतायास् तु विकृतिः प्राकृती मता । ३०५
षड्-विधा सा प्राकृतं च शौरसेनी च मागधी ॥स्र्स्_३।५२६॥
पैशाची चूलिका पैशाच्य् अपभ्रम्श इति क्रमात् । ३०६
अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥स्र्स्_३।५२७॥
क्वचिच् च देवी गणिका मन्त्रिजा चेति योषिताम् । ३०७
योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि संस्कृतम् ॥स्र्स्_३।५२८॥
ये नीचाः कर्मणा जात्या तेषां प्राकृतम् उच्यते । ३०८
छद्म-लिङ्गवतां तद्वज् जैनानाम् इति केचन ॥स्र्स्_३।५२९॥
अधमे मध्यमे चापि शौरसेनी प्रयुज्यते । ३०९
धीवराद्य्-अतिनीचेषु मागधी च नियुज्यते ॥स्र्स्_३।५३०॥
रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् । ३१०
अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते ॥स्र्स्_३।५३१॥
नाटकादाव् अपभ्रंश-विन्यासस्यासहिष्णवः । ३११
अन्ये चण्डालकादीनां मागध्य्-आदीन् प्रयुञ्जते ॥स्र्स्_३।५३२॥
सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः । ३१२
माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा ॥स्र्स्_३।५३३॥
प्रच्छादनं च विभ्रान्तिं यथालिखित-वाचनम् । ३१३
कदाचिद् अनुवादं च कारणानि प्रचक्षते ॥स्र्स्_३।५३४॥

अथ निर्देश-परिभाषा-
साक्षाद् अनाम-ग्राह्याणां जनानां प्रतिसञ्ज्ञया । ३१४
आह्वान-भङ्गी नाट्यज्ञैर् निर्देश इति गीयते ॥स्र्स्_३।५३५॥
स त्रिधा पूज्य-सदृश-कनिष्ठ-विषयत्वतः । ३१५
पूज्यास् तु देवो मुनयो लिङ्गिनस् तत्-समास्त्रियः ॥स्र्स्_३।५३६॥
बहुश्रुताश् च भगवच्-छब्द-वाच्या भवन्ति हि । ३१६
आर्येति ब्राह्मणो वाच्यो वृद्धस् तातेति भाष्यते ॥स्र्स्_३।५३७॥
उपाध्यायेति चाचार्यो गणिका त्व् अज्जुकाख्यया । ३१७
महाराजेति भूपालो विद्वान् भाव इतीर्यते ॥स्र्स्_३।५३८॥
छन्दतो नामभिर् वाच्या ब्राह्मणैस् तु नराधिपाः । ३१८
देवेति नृपतिर् वाच्यो भृत्यैः प्रकृतिभिस् तथा ॥स्र्स्_३।५३९॥
सार्वभौमः परिजनैर् भट्ट-भट्टारकेति च । ३१९
वाच्यो राजेति मुनिभिर् अपत्य-प्रत्ययेन वा ॥स्र्स्_३।५४०॥
विदूषकेण तु प्रायः सखे राजन् नितीच्छया । ३२०
ब्राह्मणैः सचिवो वाच्यो ह्य् अमात्य सचिवेति च ॥स्र्स्_३।५४१॥
शैषाइर् आर्येत्य् अथायुष्मन् इति सारथिना रथी । ३२१
तपस्वि-साधु-शब्दाभ्यां प्रशान्तः परिभाष्यते ॥स्र्स्_३।५४२॥
स्वामीति युव-राजस् तु कुमारो भर्तृ-दारकः । ३२२
आवुत्तेति स्वसुर् भर्ता स्यालेति पृतना-पतिः ॥स्र्स्_३।५४३॥
भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च । ३२३
परिचारजनैर् वाच्या योषितो राज-वल्लभाः ॥स्र्स्_३।५४४॥
राज्ञा तु महिषी वाच्या देवीत्य् अन्याः प्रिया इति । ३२४
सर्वेण पत्नी त्व् आर्येति पितुर् नाम्ना सुतस्य वा ॥स्र्स्_३।५४५॥
तात-पादा इति पिता माताम्बेति सुतेन तु । ३२५
ज्येष्ठास् त्व् आर्या इति भ्रात्रा तथा स्युर् मातुलादयः ॥स्र्स्_३।५४६॥

अथ सदृश-निर्देशः-
सदृशः सदृशो वाच्यो वयस्येत्य् आह्वयेन वा । ३२६
हलेति सख्या तु सखी कथनीया सखीति वा ॥स्र्स्_३।५४७॥

अथ कनिष्ठ-निर्देशः-
सुत-शिष्य-कनीयांसो वाच्या गुरु-जनेन हि । ३२७
वत्स-पुत्रक-दीर्घायुस्-तात-जातेति सञ्ज्ञया ॥स्र्स्_३।५४८॥
अन्यः कनीयान् आर्येण जनेन परिभाष्यते । ३२८
शिल्पाधिकार-नामभ्यां भद्र भद्र-मुखेति ॥स्र्स्_३।५४९॥
वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् । ३२९
भर्त्रा वाच्याः स्व-स्व-नाम्ना भृत्याः शिल्पोचितेन वा ॥स्र्स्_३।५५०॥
एवम् आदि प्रकारेण योज्या निर्देश-योजना । ३३०
लोक-शास्त्राविरोधेन विज्ञेया काव्य-कोविदैः ॥स्र्स्_३।५५१॥

अथ नाम-परिभाषा-
अनुक्त-नाम्नः प्रख्याते कञ्चुकि-प्रभृतेर् अपि । ३३१
इतिवृत्ते कल्पिते तु नायकादेर् अपि स्फुटम् ॥स्र्स्_३।५५२॥
रस-वस्तूपयोगीनि कविर् नामानि कल्पयेत् । ३३२
विनयन्धर-बाभ्रव्य-जयन्धर-जयादिकम् ॥स्र्स्_३।५५३॥
कार्यं कञ्चुकिनां नाम प्रायो विश्वास-सूचकम् । ३३३
लतालङ्कार-पुष्पादि-वस्तूनां ललितात्मनाम् ॥स्र्स्_३।५५४॥
नामभिर् गुण-सिद्धैर् चेटीनां नाम कल्पयेत् । ३३४
करभः कलहंसश् चेत्य् आदि नामानुजीविनाम् ॥स्र्स्_३।५५५॥
कर्पूर-चण्ड-काम्पिल्येत्य् आदिकं नाम वन्दिनाम् । ३३५
सुबुद्धि-वसुभूत्यादि-मन्त्रिणां नाम कल्पयेत् ॥स्र्स्_३।५५६॥
देवरातः सोमरात इति नाम पुरोधसः । ३३६
श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्य् अपि ॥स्र्स्_३।५५७॥
वसन्तकः कापिलेय इत्य् आख्येयो विदूषकः । ३३७
प्रताप-वीर-विजय-मान-विक्रम-साहसैः ॥स्र्स्_३।५५८॥
वसन्त-भूषणोत्तंस-शेखराङ्क-पदोत्तरैः । ३३८
धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः ॥स्र्स्_३।५५९॥
चन्द्रापीडः कामपाल इत्य् आद्यं ललितात्मनाम् । ३३९
उग्रवर्मा चण्डसेन इत्य् आद्य्-उद्धत-चेतसाम् ॥स्र्स्_३।५६०॥
दत्त-सेनान्त-नामानि वैश्यानां कल्पयेत् सुधीः । ३४०
कर्पूर-मञ्जरी चन्द्रलेखा रागतरङ्गिका ॥स्र्स्_३।५६१॥
पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका । ३४१
देव्यस् तु धारिणी-लक्ष्मी-वसुमत्यादि-नामभिः ॥स्र्स्_३।५६२॥
भोगवती कान्तिमती कमला कामवल्लरी । ३४२
इरावती हंसपदीत्य् आदि-नाम्ना तु भोगिनी ॥स्र्स्_३।५६३॥
विप्रक्षत्र-विशः शर्म-वर्म-दत्तान्त-नामभिः । ३४३
शिखण्डाङ्गद-चूडान्त-नाम्ना विद्याधराधिपाः ॥स्र्स्_३।५६४॥
कुण्डलानन्द-घण्टान्त-नाम्ना कापालिका जनाः । ३४४
योगसुन्दरिका वंशप्रभा विकटमुद्रिका ॥स्र्स्_३।५६५॥
शङ्ख-केयूरिकेत्य् आदि-नाम्ना कापालिक-स्त्रियः । ३४५
आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला ॥स्र्स्_३।५६६॥
यशोवती पुत्रवतीत्य् आदि-नाम्ना सुवासिनी । ३४६
इत्य् आदि सर्वम् आलोच्य लक्षणं कृत-बुद्धिना ॥स्र्स्_३।५६७॥
कविना कल्पितं काव्यम् आचन्द्रार्कं प्रकाशते । ३४७
लक्ष्य-लक्षण-निर्माण-विज्ञान-कृत-बुद्धिभिः ॥स्र्स्_३।५६८॥
परीक्ष्यताम् अयं ग्रन्थो विमत्सर-मनीषया । ३४८
भरतागम-पारीणः श्रीमान् सिंह-महीपतिः ।
रसिकः कृतवान् एवं रसार्णव-सुधाकरम् ॥स्र्स्_३।५६९॥ ३४९

संरम्भाद् अनपोत-सिंह-नृपतेर् धाटी-समाटीकने
निःसाणेषु धणं धणं धणम् इति ध्वानानुसन्धायिषु ।
मोदन्ते हि रणं रणं रणम् इति प्रौढास् तदीया भटा
भ्रान्तिं यान्ति तृणं तृणं तृणम् इति प्रत्यर्थि-पृथ्वी-भुजः ॥स्र्स्_३।५७०॥ ३५०

मत्वा धात्रा तुलायां लघुर् इति धरणीं सिंह-भूपाल-चन्द्रे
सृष्टे तत्रातिगुर्व्यां तद्-उपनिधितया स्थाप्यमानैः क्रमेण ।
चिन्तारत्नौघ-कल्प-द्रुम-तति-सुरभी-मण्डलैः पूरितान्ताप्य्
ऊर्ध्वं नीता लघिम्ना तद्-अरि-कुल-शतैः पूर्यतेऽ द्यापि सा द्यौः ॥स्र्स्_३।५७१॥ ३५१

इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे भावकोल्लासो नाम
तृतीयो विलासः
॥३॥

समाप्तश् चायं रसार्णव-सुधाकरः

श्री-तोय-शैल-वसतिः स तमाल-नीलो
जीयाद् धरिर् मुनि-चकोर-सुशारदेन्दुः ।
लक्ष्मी-स्तनस्तवक-कुङ्कुम-कर्दम-श्री-
संलिप्त-निर्मल-विशाल-भुजान्तरालः ॥

मलय-गिरि-निवासी मारुतो यच्छताङ्गस्
तरुण-शिशिर-रश्मिर् यत् सुहृत्-पुण्य-कीर्तिः ।
चरति चिरम् अनङ्गः क्वापि करि अप्य् अदृश्यः
स जयतु रसिकौघैर् वन्दितः पञ्चबाणः ॥

अशेषाणां द्विजनुषाम् आशीर्वाद-परम्परा ।
तरङ्गयतु कल्याणं कवीनां चायुर् आयतम् ॥