[[शार्ङ्गधरपद्धतिः Source: EB]]
[
Please dont Edit this page (Blank Page)
शार्ङ्गधरपद्धतिः
अथ कविवंशवर्णनम्॥१॥
1
यस्मिन्बुद्बुदसंकरा इव बहुब्रह्माण्डखण्डाः क्वचि-
द्भान्ति क्वापि च सीकरा इव विरिञ्च्याद्याः स्फुरन्ति भ्रमात्।
चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्द्योतते
स्वानन्दामृतनिर्भरं शिवमहापाथोनिधिं तं नुमः॥१॥
2
पुरा शाकंभरीदेशे श्रीमान्हम्मीरभूपतिः।
चाहुवाणान्वये जातः ख्यातः शौर्य इवार्जुनः॥२॥
3
तस्याभवत्सभ्यजनेषु मुख्यः
परोपकारव्यसनैकनिष्ठः।
पुरंदरस्येव गुरुर्गरीया-
न्द्विजाग्रणी राघवदेवनामा॥३॥
4
गोपालदामोदरदेवदास-
संज्ञा बभूवुस्तनयास्तदीयाः।
नेत्रावतारा इव चन्द्रमौले-
रपाकृतध्वान्तगणास्त्रयोपि॥४॥
5
तेषां मध्ये यस्तु दामोदरोभू-
दुत्पाद्य त्रीनात्मजान्वीतरागः।
भागीरथ्यां शुद्धदेहं विधाय
ज्ञानादात्मन्येव निष्ठां जगाम॥५॥
6
ज्येष्ठः शार्ङ्गधरस्तेषां लघुर्लक्ष्मीधरस्ततः।
कृष्णोनुजस्ततस्तेषां त्रयस्त्रेतामितेजसः॥६॥
7
जयति शार्ङ्गधरस्त्रिपुरापद-
द्वयकुशेशयकोशमधुव्रतः।
सरससूक्तिसुधौघकलानिधिः
कविकरीन्द्रकदम्बमृगाधिपः॥७॥
8
यद्यपि गुणौघनिलयः खलशैलध्वंसने जिष्णुः।
तदपि विमलहृदयान्तरसज्जनलोकस्य दासोसौ॥८॥
9
ते सज्जनाः सुकविशाखिकवित्वपुष्पा-
ण्यादाय गुम्फितवतः सुगुणैर्ममैतत्।
संधारयन्तु कुसुमोज्ज्वलहाररूपं
कण्ठे सुभाषितमपास्तसमस्तदोषम्॥९॥
10
न शार्ङ्गधरपद्धतिः खलजनस्य योग्या भवे-
त्सुभाषितरसोर्मयः सुकृतिलोकपेया यतः।
सुधामदितिनन्दना दिवि पिबन्ति हृष्टान्तरा-
स्तयैव तमसः शिरो झटिति खण्डितं श्रूयते॥१०॥
11
आनन्दाय सतां भूयात्सुभाषितमिदं मम।
पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमम्॥११॥
12
आद्यैर्मद्विहितैः पद्यैःकियद्भिरपरैरपि।
युता पद्धतिरेषास्तु सज्जनानन्ददायिनी॥१२॥
अनुक्रमणिका
अथानुक्रमणिका॥२॥
13
क्रियतेनुक्रमः स्पष्टः सुबोधार्थं सुभाषिते।
अत्र तु प्रथमं ज्ञेयं कविवंशस्य वर्णनम्
॥१॥
14
ततोप्यनुक्रमो ज्ञेयो नमस्कृत्याशिषौ तथा
।
सुभाषिते च काव्ये च शंसा
सामान्यवर्णके
॥२॥
15
विशिष्टकविशंसा च
निन्दा च कुकवेस्ततः
।
प्रशंसा पण्डितस्यापि
निन्दा स्याच्च कुपण्डिते
॥३॥
16
प्रशंसा महतां ज्ञेया
धीराणां च प्रशंसनम्
।
प्रशंसा सज्जनस्यापि
प्रशंसा च मनस्विनः
॥४॥
17
अथोदारप्रशंसा
स्याच्छंसा तेजस्विनस्ततः
।
गुणप्रशंसा
संतोषे प्रशंसा
संगतौ तथा
॥५॥
18
धनप्रशंसा विज्ञेया
निन्दा दुर्जनजा तथा
।
ततः कृपणनिन्दा
स्यान्निन्दा याचकजा
तथा॥६॥
19
दरिद्रनिन्दा विज्ञेया
मूर्खनिन्दा ततः परम्
।
तृष्णानिन्दा
लोभनिन्दा
दैवाख्यानं ततः परम्
॥७॥
20
उद्यमाख्यानमपरं
प्रकीर्णाख्यानकं तथा
।
समस्याख्यानपमरं
प्रहेल्यादिप्रशंसनम्
॥८॥
21
क्रियागुप्तादिकं
तद्वत्प्रश्नोत्तरमतः परम्
।
अथ जातिः समाख्याता
सदाचारस्ततः परम्
॥९॥
22
धर्मस्य विवृतिर्ज्ञेया
पापस्य विवृतिस्तथा
।
अथान्योक्तिषु विज्ञेयं रवेः पूर्वं प्रशंसनम्
॥१०॥
23
चन्द्रस्यान्योक्तयो ज्ञेया
मेघस्यान्योक्तयस्तथा
।
वायोरन्योक्तिरपरा
हंसान्योक्तिस्ततः परा
॥११॥
24
भ्रमरान्योक्तयस्त
द्वत्कोकिलान्योक्तयस्ततः
।
चातकान्योक्तयस्तद्वम््म
यूरान्योक्तयस्ततः
॥१२॥
25
शुकान्योक्तिस्ततो ज्ञेया
काकान्योक्तिस्ततः स्मृता
।
बकान्योक्तिः स्मृता
तद्वत्खद्योतान्योक्तयस्ततः
॥१३॥
26
सिंहान्योक्ति
र्गजान्योक्ति
र्मृगान्योक्तिस्ततः परम्
।
करभान्योक्तयो ज्ञेया
वृषभान्योक्तयस्ततः
॥१४॥
27
तथा सामान्य
वृक्षोक्तिविर्शिष्टतरुपद्धतिः
।
पर्वतान्योक्तयः ख्याता
अगस्त्यान्योक्तयस्ततः
॥१५॥
28
समुद्रान्योक्तयस्त
द्वद्रत्नान्योक्तिस्ततः परम्
।
शङ्खस्यान्योक्तयस्तद्व
न्नद्यन्योक्तिस्ततः परम्
॥१६॥
29
तटाकान्योक्तयस्त
द्वत्कमलान्योक्तयस्ततः
।
कूपस्यान्योक्तयस्त
द्व
न्मरुस्थलभवोक्तयः
॥१७॥
30
ततो दावानलान्योक्तिः
संकीर्णान्योक्तयस्ततः
।
अथ सर्वनृपाशंसा
विशिष्टनृपवर्णनम्
॥१८॥
31
पलायनमरीणां च
राजनीतिस्ततः परम्
।
नीतिर्मिश्रकनीतिश्च
प्रशंसा करिणां तथा
॥१९॥
32
अश्वप्रशंसा विख्याता
धनुर्वेदस्ततः परम्
।
गान्धर्वशास्त्रमपरं
वृक्षायुर्वेद एव च
॥२०॥
33
तथैव शकुन
ज्ञानं पशूनां लक्षणानि च
।
विषापहरणं
तद्वद्भूतविद्या ततः परम्
॥२१॥
34
बालग्रहोपशमनं
कौतुकानि ततः परम्
।
कल्पस्थानानि
केशानां रञ्जनानि ततः परम्
॥२२॥
35
अथ सामान्यश्रृङ्गारे युवतीनां प्रशंसनम्
।
स्त्रीपुंसजातिकथनं
तयोः संयोगवर्णनम्
॥२३॥
36
स्त्रीसेवाकथनं
तद्वत्संकेतादिप्रशंसनम्
।
बालाया वर्णनं
तद्वद्वयः संधेश्चवर्णनम्
॥२४॥
37
तरुणीवर्णनं
तद्वत्समग्रस्त्रीप्रशंसनंम्
।
विप्रलम्भकशृङ्गारे प्रियप्रस्थानवर्णनम्
॥२५॥
38
नायिकावचनं
तद्वद्वियुक्तायाः स्थितिस्तथा
।
सखीवाक्यं वियुक्तायां
वियोगिन्याः प्रभाषणम्
॥२६॥
39
दूतिकाप्रेषणं कान्ते
प्रलापश्च वियोगिनः
।
दूत्युक्तिर्नायकस्याग्रे
नायिकायां तदुक्तयः
॥२७॥
40
उपहासादिकं दूत्या नायिकायास्ततः परम्
।
अथ संभोगशृङ्गारे परस्परविलोकनम्
॥२८॥
41
प्रियातिथ्यादिकं
तद्वन्मानिनीमानवर्णनम्
।
कलहोक्त्यादिकथनं
मिथुनस्योक्तयस्तथा
॥२९॥
42
प्रियस्य शिक्षानुनयौ
प्रसादश्च परस्परम्
।
सूर्यास्ते चक्रदुःखं च
तमसो वर्णनं तथा
॥३०॥
43
संचारश्चाभिसारीणां
शशाङ्कोदयवर्णनम्
।
पानगोष्ठी ततः प्रोक्ता
चाटुप्रभृतिवर्णनम्
॥३१॥
44
सखीवाक्यं नववधूक्रीडायां तदनन्तरम्
।
सुरतक्रीडिताख्यानं
विपरीतरतं तथा
॥३२॥
45
निवृत्तिः सुरतस्याथ
निशीथे क्रीडनादिकम्
।
प्रभात
वर्णनं वायुसूर्ययोर्वर्णनं तथा
॥३३॥
46
रात्रिसंभोगचेष्टायाः प्रातः प्रकटनं ततः
।
अथ मिश्रकशृङ्गारे सतीकुल
वधूस्थितिः॥३४॥
47
असतीचरितं
तद्वद्वसन्तादेश्चवर्णनम्
।
ग्रीष्मादेर्वर्णनं
तद्वद्वर्षादेरपि वर्णनम्
॥३५॥
48
शरत्स्वभावव्याख्यानं
हेमन्तादेश्च वर्णनम्
।
शिशिरादेस्तथाख्यानं
संमिश्राख्यानकं ततः
॥३६॥
49
ततो वीररसोक्तिः
स्यात्करुणारसवर्णनम्
।
अद्भुतस्य
रसस्योक्तिरथ हास्यरसोक्तयः^(१४३)
॥३७॥
50
भयानकश्च
बीभत्सस्ततो
रौद्ररसोक्तयः
।
अथ शान्तरसे पूर्वं वैराग्यस्य प्रशंसनम्
॥३८॥
51
अनित्यतासमाख्यानं
विषयादिविडम्बनम्
।
पश्चात्तापस्य
कथनं कालस्य चरितं तथा
॥३९॥
52
ततो विवेककथनमु
पदेशस्ततः परम्
।
कालसंख्या ततः प्रोक्ता
शारीरं तदनन्तरम्
॥४०॥
53
ततश्चतुर्विधे योगे योगत्रयनिरूपणम्
।
ततस्तु हठयोगः स्याद्गोरक्षादिसुसाधितः
॥४१॥
54
द्वितीयो हठयोगश्च मार्कण्डेयादिसाधितः
।
मनः स्थैर्यप्रभावश्च
महिमाद्याश्च योगिनः
॥४२॥
55
योगिचर्या ततः प्रोक्ता
ज्ञानं चारिष्टजं तथा
।
विदेहमुक्तिकथनं कालवञ्चनसंयुतम्
॥४३॥
56
सुभाषितवरस्येति कथितोयमनुक्रमः।
शतं त्रिषष्ट्यभ्यधिकं परिच्छेदेषु कीर्तितम्।
गणितं पद्यसंख्याभिः षट्सहस्रं शतत्रयम्॥४४॥
अथ नमस्कृतिः॥३॥
तत्रादौ गणेशः।
57
चलत्कर्णानिलोद्धूतसिन्दूरारुणिताम्बरः।
जयत्यकालेपि सृजन्संध्यामिव गजाननः॥१॥
कस्यापि।
58
उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः
प्रेङ्खन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरामः।
देवः शंभोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्त-
स्त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः॥२॥
भैरीभांकारस्य।
अथ सरस्वती।
59
करवदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी॥३॥
सुबन्धोः।
60
अथ शिवः।
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरवारवे।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे॥४॥
बाणभट्टस्य।
61
मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं
दूरेप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः।
इत्थं संघटितैकविग्रहतया व्यग्रो गिरिग्रामणी-
र्जायां जातरुषं जयत्यनुनयन्देवस्त्रिलोकी गुरुः॥६॥
कस्यापि।
62
वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि।
आविरस्तु पुरो वस्तु भूतिभूत्यम्बराम्बरम्॥६॥
सार्वभौमस्य।
63
पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता।
तथापि भव ते मूर्तिरपवर्गानुसारिणी॥७॥
देवेश्वरस्य।
64
उदरद्वयभरणभयादर्धाङ्गाहितदारः।
यदि नैवं तस्यैकसुतः कथमद्यापि कुमारः॥८॥
सार्वभौमस्य ।
65
संध्यानतौ नरपुरंध्रितनोः सरोष-
मुत्सारिते गिरिजया निजपाणिपद्मे।
उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन
पूर्णाञ्जलिर्जयति बालमृगाङ्कमौलेः॥९॥
कस्यापि।
66
उच्चैरुत्तालखेलद्भुजवनपवनोद्धतशैलौघपात-
स्फारोदञ्चत्पयोधिप्रकटितमुकुटस्वर्धुनीसंगमानि।
जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि-
श्वश्यन्नक्षवचक्रव्यवसितसुमनोवृष्टिपातानि शंभोः॥१०॥
भेरीभांकारस्य।
67
मन्दारमालालुलितालकायै
कपालमालाङ्कितशेखराय।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय॥११॥
कस्यापि।
अथ गौरी।
68
हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम्।
कालकूटविषस्पर्शजातमूर्छागमामिव॥१२॥
बाणभट्टस्य।
अथ कृष्णः।
69
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः॥१३॥
जयदेवस्य।
70
आनन्दमादधतमायतलोचनाना-
मानीलमावलितकंधरमात्तवंशम्।
आपादमा मुकुटमाकलितामृतौघ-
माकारमाकलयताममुमन्तरं नः॥१४॥
71
पुञ्जीभूतं प्रेम गोपाङ्गनानां
मूर्तीभूतं भागवेयं यदूनाम्।
एकीभूतं गुप्तवित्तं श्रुतीनां
श्यामीभूतं ब्रह्म मे संनिधत्ताम्॥१५॥
एतौ राघवचैतन्यश्रीचरणानाम्।
72
परमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तखेदखिन्नाः।
विचिनुत भवनेषु बल्लवीना-
मुपनिषदर्थमुलूखले निबद्धम्॥१६॥
73
नवनीलमेघरुचिरः परः पुमा-
नवनीमवाप्य धृतगोपविग्रहः।
नवनीयकीर्तिरमरैरपि स्वयं
नवनीतभिक्षुरधुना स चिन्त्यते॥१७॥
एतौ बिल्वमङ्गलश्रीचरणानाम्।
74
क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते
द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके।
त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बला-
ल्लसत्पुलकपञ्जरो जयति गोकुले केशवः॥१८॥
दीपकस्य ।
75
दृक्पातः कमलासनेस्तु भवतो ज्ञानं मनाङ्मारुते
श्रीकण्ठोयमितः सुरानिति नतांस्तार्क्ष्येण विज्ञापितः।
प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क्व चेत्युल्लस-
ल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः॥१९॥
कस्यापि।
76
अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः।
तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव॥२०॥
अरसीकुरस्य।
77
मकरीविरचनभङ्गया राधाकुचकलशपीडनव्यसनी।
ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति॥२१॥
हरिहरस्य।
78
खिन्नोसि मुञ्च शैलं विभृमो वयमिति वदत्सु शिथिलभुजः।
भरभुग्रविततबाहुषु गोपेषु हसन्हरिर्जयति॥२२॥
सुबन्धो।
79
शिरश्छायां कृष्णः क्षणमकृत राधाचरणयो-
र्भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ।
इति क्रीडाकोपे निभृतमुभयोरप्यनुनय-
प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः॥२३॥
कस्यापि।
80
वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते
दैत्यं दारयते बलिं छलयने क्षत्रक्षयं कुर्वते।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥२४॥
जयदेवस्य।
81
जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटना-
दुद्यन्तः शतन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः।
यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटीलं वपुः
पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम्॥२५॥
82
वियत्पुच्छाच्छोटोच्छलितजलगर्भ निधिरपा-
मपां नाथः पाथः पृषतलवशून्यो वियदभूत्।
अभृद्भास्वानौर्वो दिनपतिरभूदौर्वदहन-
श्चलत्काये यस्मिन्स जयति हरिर्मनिवपुषा॥२६॥
कस्याप्यंतौ।
83
न पङ्कैरालेपं कलयति धरित्रीव्ययभया-
न मुस्तामादतेप्युरगनगरभ्रंशभयतः।
न धत्ते ब्रह्माण्डस्फुटनभयतो घुर्घुररवं
वराहो माहात्म्यादिति जयति संकोचिततनुः॥२७॥
हनूमतः।
84
दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि
स्फारीभृतकडारकंसरसटासंघट्टघोराकृतेः।
सक्रोचं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं
क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम्॥२८॥
इन्द्रकवेः।
अथ ब्रह्मा।
85
तं वन्दे पद्मसद्मानमुपवीतच्छटाछलात्।
गङ्गा स्रोतस्त्रयेणैव यं सदैव निषेवते॥२९॥
राजशेखरस्य।
अथ रविः।
86
शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः॥३०॥
नागम्मायाः।
अथाशिषः॥४॥
तत्र पूर्वं गणेशः।
87
दन्ताग्रनिर्भिन्नहिमाचलोर्वी-
रन्ध्रोत्थिताहीन्द्रमणिप्रभौघे।
नागाननः स्तम्भधिया कपोलौ
घर्षन्पितृभ्यां हसितः पुनातु॥१॥
श्रीगोविन्दराजदेवानाम्।
88
एकदन्तद्युतिसितः शंभोः सूनुः श्रियेस्तु वः।
विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः॥२॥
श्रीधनदंदवानाम्।
89
गण्डस्थलीगलदमन्दमदप्रवाह-
माद्यद्विरेफमधुरस्वरदत्तकर्णः।
हर्षादिवालसनिमीलितनेत्रयुग्मो
विघ्नच्छिदे भवतु भूतपतिर्गणेशः॥३॥
आसीनगरप्राकारप्रशस्तैः।
90
विघ्नेशो वः स पायाद्विहृतिषु जलधीन्पुष्कराग्रेण पीत्वा
यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवैः।
काप्यम्भः क्वापि विष्णुः क्वचन कमलभूः क्वाप्यनन्तः क्वचिच्छ्रीः
क्वाप्यौर्वः क्वापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसत्त्वाः॥४॥
हनूमतः।
91
सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि-
त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-
र्वैनायक्यश्विरं वो वदनविधुतयः पान्तु चीत्कारवत्यः॥५॥
भवभूते।
अथ शिवः।
92
उपहरणं विभवानां संहरणं सकलदुरितजालस्य।
उद्धरणं संसाराच्चरणं वः श्रेयसेस्तु विश्वपतेः॥६॥
विद्यारण्यश्रीचरणानाम्।
93
आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे
दैत्येन्द्रे याति निद्रां द्रवति मघवति क्लान्तकान्तौ कृतान्ते।
अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये
पायाद्वः कालकूटं झटिति कवलयल्ँलीलया नीलकण्ठः॥७॥
लक्ष्मणखण्डप्रशस्तेः।
94
वक्रं शीतकरोधरो घनरसः कामप्रदो विग्रहः
श्वासो गन्धवहः सरोरुहसुहृत्पाणिः स्मिताभा शुचिः।
वक्षः पीनपयोधराधिकरणं पृथ्वी नितम्बस्थली-
त्यष्टौ धूर्जटिमूर्तयः स्मरभयाद्दुर्गाश्रिताः पान्तु वः॥८॥
देवेश्वरस्य।
95
कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं
केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः॥९॥
भारतीकवेः।
96
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया।
अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥१०॥
क्रीडाचन्द्रस्य।
97
कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया संचरिष्णोः
कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः।
दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति-
ग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि॥११॥
भेरीभांकारस्य।
98
कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुर-
च्छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलाभिषः।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतः स्यतु सतां मोहं महाभैरवः॥१२॥
छित्रमस्य।
अथ लोचनम्।
99
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव।
अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझांकारिकोणं
तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः॥१३॥
भवभूतेः।
अथ गणाः।
100
संध्याताण्डवडम्बरव्यसनिनो देवस्य चण्डीपते-
र्भ्रष्टापीडविशीर्णमुण्डचयनव्यग्रा गणाः पान्तु वः।
यैरौत्सुक्यवशीकृतैर्ग्रहगणाद्राहौ गृहीते हठा-
त्सूर्याचन्द्रमसोर्मिथः स्मितवतोर्जातं करास्फालनम्॥१४॥
कस्यापि।
अथ जटाजूटः॥
101
स धूर्जटिजटाजूटो जायतां विजयाय वः।
यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी॥१५॥
सूरवर्मणः।
अथ पार्वती।
102
प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यग्रया
दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम्।
उन्मादस्मितरोषलज्जितधिया गौर्या कथंचिच्चिरा-
हृद्धस्त्रीवचनात्प्रिये विनिर्हितः पुष्पाञ्जलिः पातु वः॥१६॥
103
वक्षःपीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि
स्वां छायां साभ्यसूया त्वमियमिति मुहुः सत्यमाश्वासितापि।
वामे मे दक्षिणेस्याः श्रवसि कुवलयं नाहमित्यालपन्ती
दन्ताश्लेषा सहासं मदनविजयिना पार्वती वः पुनातु॥१७॥
कस्यापि।
104
स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो
कस्माद्वेपितमेतदिन्दुवदने भोगीन्द्रभीतेस्तव।
रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां सीकरै-
रित्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः॥१८॥
कस्यापि।
अथ षण्मुखः।
105
अर्चिष्मन्ति विदार्य वक्रकुहराण्यासृक्कितो वासुके-
रङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्।
एकं त्रीणि च सप्त पञ्च षडिति प्रध्वस्तसंख्याक्रमा
वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः॥१९॥
कस्यापि।
अथ गङ्गा।
106
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
वह्नौ लाजनिभा दृशो मणिनिभा भोगोत्करे भोगिनाम्।
नृत्यावर्तविवर्तनेरितपयः संमूर्छनाच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोविन्दवः॥२०॥
कृष्णमिश्रम्य।
107
एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी
शुष्यत्पातकिनी भगीरथतपः साफल्यहेवाकिनी।
प्रेमारूढपिनाकिनी गिरिसुतासाकेकरालोकिनी
पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी॥२१॥
कस्यापि।
अथ ताण्डवम्।
108
देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुत्रः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः ।
ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः
शंभोः संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः॥२२॥
महानाटकात्।
109
संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमि-
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभूता-
मुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकितः॥२३॥
सोमनाथप्रशस्ते।
अथ हरिहरौ।
110
स्फटिकमरकतश्रीहारिणोः प्रीतियोगा-
त्तदवतु वपुरेकं कामकंसद्विषोर्वः।
भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या
सदृशमहसि कण्ठे यत्र सीमाविवादः॥२४॥
कस्यापि।
111
यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ
देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ।
द्वित्र्यक्षी बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ
पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ॥२५॥
कस्यापि।
अथ चण्डी।
112
विद्राणे रुद्रवृन्दे सवितरि तरले वत्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति व्यक्तवैरे कुबेरे।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी॥२६॥
बाणभट्टस्य।
अथ कृष्णः।
113
पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः।
त्रैलोक्य मण्डपस्तम्भाश्चत्वारो हरिवाहवः॥२७॥
कस्यापि।
114
भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः
कल्लोलैरलमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम्।
औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिताः
क्रोधेन ज्वलिता मुदा मुकुलिताः शौरेर्दृशः पान्तु वः॥२८॥
कस्यापि।
115
अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं
सद्यः प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः।
मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे
विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः॥२९॥
विल्वमङ्गलश्रीचरणानाम्
116
अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोपि नूनं
पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेर्भकाणाम्।
तस्मिन्राधासखो वः सुखयतु विलसल्लीलया कैटभारि-
र्व्यतन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान्॥३०॥
कस्यापि।
117
दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः।
आत्मन्येवानुरक्तो वः शिवं दिशतु केशव॥३१॥
कस्यापि।
118
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-
माश्लिष्यन्पुलकाङ्कुराञ्चिततनुर्गोपीं हरिः पातु वः॥३२॥
कस्यापि।
119
हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम्।
राधाप्रवेशरोधाय दत्तमुद्रमित्र श्रिया॥३३॥
कुमुदस्य।
120
रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु-
र्वाचा पञ्चवटीवने निवसतस्तस्याहरद्रावणः।
कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां.
सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः॥३४॥
वसुंधरस्य।
121
सकलभुवनबन्धोर्वैरमिन्दोः सरोजै-
रनुचितमिति मत्वा यः स्वपादारविन्दम्।
घटयितुमिव मायी योजयत्याननेन्दौ
वटदलपुटशायी मङ्गलं वः कृषीष्ट॥३५॥
कस्यापि।
122
कोयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं
कृष्णोहं दयिते विभेमि सुतरां कृष्णादहं वानरात्।
राधेहं मधुसूदनो व्रज लतां तामेव पुष्पान्विता-
मित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः॥३६॥
कस्यापि।
अथ दशावताराः।
123
दिश्याद्वःशकुलाकृतिः स भगवान्नैः श्रेयसीं संपदं
यस्य स्फूर्जदतुच्छपुच्छशिखरप्रेङ्खोलनक्रीडनैः।
विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसंगतै-
र्गङ्गासागरसंगमप्रणयिनी जाता विहायःस्थली॥३७॥
124
निष्प्रत्यूहमनल्पकल्पचलितत्रैलोक्यरक्षागुरुः
क्रीडाकूर्मकलेवरःस भगवान्दिश्यादमन्दां मुदम्।
कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठ-
त्पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम्॥३८॥
125
दूष्यद्दैत्यकुटुम्बिनीजनमनःसंतोषसंकोचनः
कुर्याद्विश्वमनश्वरं स भगवान्क्रोडावतारो हरिः।
यद्दंष्ट्राङ्कुरकोटिकोटरकुटीकोणान्तरस्थेयसी
पृथ्वी भात्यवदातकेतकदलालीनेव भृङ्गाङ्गना॥३९॥
हनुमत एते।
126
चटच्चटति चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटरवास्थिनि ष्ठागिति।
पुनातु भवतो हरेरमरवैरिवक्षःस्थल-
कणत्करजपञ्जरक्रकचकाषजन्मानलः॥४०॥
वाक्पतिराजस्य।
127
ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकृपदण्डः क्षरदमरसरित्पडिकाकेतुदण्डः।
ज्योतिश्रक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोङ्गिदण्डः
श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः॥४१॥
दण्डिन।
128
किं दोर्भ्यां किमु कार्मुकोपनिषदा भर्गप्रसादेन किं
किं वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना।
किं चानेन ममाद्भुतेन तरसा पीडां कृतान्तोपि चे-
द्विप्राणां कुरुतेन्तरित्यनुशयो रामस्य पुष्णातु वः॥४२॥
हनूमत।
129
कूर्मों मूलवदालवालवदपां राशिर्लतावद्दिशो
मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः।
स्वामिन्व्योमतः क्रमे मम कियाञ्छ्रुत्वेति गां मारुतेः
सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम्॥४३॥
कस्यापि।
130
कृष्ण त्वं नवयौवनोसि चपलाः प्रायेण गोपाङ्गनाः
कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः।
तद्याचेञ्जलिना भवन्तमधुना वृन्दावनं मद्विना
मा यासीरिति नन्दगोपवचसा नम्रो हरिः पातु वः॥४४॥
बिल्वमङ्गलश्रीचरणानाम्।
131
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि।
मिथ्याकारुणिकोसि निर्दयतरस्त्वत्तः कुतोन्यः पुमा-
ञ्शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः॥४५॥
श्रीहरिगणस्य।
132
उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः।
कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः॥४६॥
शार्ङ्गधरस्य।
133
पाठीनः कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो
रामः कंसनिषूदनो दशबलः कल्की च नारायणः।
युष्माकं स विभूतयेस्तु भगवान्सेतुर्भवाम्भोनिधा-
वुत्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः॥४७॥
हनूमत।
अथ लक्ष्मीः।
134
पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः।
यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम्॥४८॥
कस्यापि।
135
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौपाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङ्ग्यनीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु॥४९॥
निशानारायणस्य।
अथ सूर्यः।
136
सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा
भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु।
कान्ताः कुङ्कमशङ्कया करतले मृगन्ति लग्नं च य-
त्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः॥५०॥
त्रिविक्रमस्य।
137
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो मानवीयाः॥५१॥
138
भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां
लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये।
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य॥५२॥
एतौ मयूरस्य।
अथ सुभाषितप्रशंसा॥५॥
139
संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम्।
सूक्तं दधति सुवर्णं कल्याणमनर्घमिह धन्याः॥१॥
कस्यापि।
140
कथमिह मनुष्यजन्मा संप्रविशति सदसि विबुधगमितायाम्।
येन न सुभाषितामृतमाह्वादि निपीतमा तृप्तेः॥२॥
चाणक्यस्य।
141
सुभाषितमयैर्द्रव्यैः संग्रहं न करोति यः।
सोपि प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम्॥३॥
कस्यापि।
142
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः॥४॥
त्रिविक्रमभट्टस्य।
143
ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा
ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रियाः।
ये वा द्वेषमषीमलीमसधियस्तान्प्राज्ञगोष्ठीरस-
प्रौढप्रावृडवग्रहान्परिहरन्वाचां प्रसारं कुरु॥५॥
कस्यापि।
144
कर्णामृतं सूक्तिरसं विमुच्य
दोषेषु यत्नः सुमहान्खलस्य।
अवेक्षते केलिवनं प्रविष्टः
क्रमेलकः कण्टकजालमेव॥६॥
विल्हणस्य।
अथ काव्यप्रशंसा॥६॥
145
अविदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम् \।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला॥१॥
सुबन्धो।
146
निरवद्यानि पद्यानि यद्यनाद्यस्य का क्षतिः।
भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत्॥२॥
भवभूतेः।
147
कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥३॥
कस्यापि।
148
ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम्।
पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति॥४॥
कस्यापि।
149
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्येे स्वे।
निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी॥५॥
कस्यापि।
150
याता यान्ति च यातारो लोकाः शोकाधिका भुवि।
काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी॥६॥
श्रीअनन्तदेवानाम्।
151
किं तेन किल काव्येन मृद्यमानस्य यस्य ताः।
उदधेरिव नायान्ति रसामृतपरम्पराः॥७॥
जयमाधवस्य।
152
नवोक्तिर्जातिरग्राम्या श्लेषोक्लिष्टः स्फुटो रसः।
विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम्॥८॥
बाणभट्टस्य।
153
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति।
दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन॥९॥
154
यन्त्राकृष्टसुवर्णसूत्रमिव यत्पद्यं सुमेरोस्तटा-
दुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः।
यत्राप्युल्लसदंशुकान्तरलसत्कान्ताकुचान्तोपमं
व्यङ्गयं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः॥१०॥
कयोरप्येतौ।
अथ सामान्यकविप्रशंसा॥७॥
155
कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति।
कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशः प्रसरः॥१॥
शङ्खधरस्य।
156
सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः।
विनापि कामिनीसङ्ग कवयः सुखमासते॥२॥
कस्यापि।
157
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
उत्पादका न बहवः कवयः शरभा इव॥३॥
बाणभट्टस्य।
158
कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः।
न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः॥४॥
श्रीधनददेवानाम्।
159
किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः।
परस्य हृदये लग्नं न घूर्णयति यच्छिरः॥५॥
त्रिविक्रमभट्टस्य।
160
मुखमात्रेण काव्यस्य करोत्यहृदयो जनः।
छायामच्छामपि श्यामां राहुस्तारापतेरिव॥६॥
बाणभट्टस्य।
161
लङ्कापतेः संकुचितं यशो य-
द्यत्कीर्तिपात्रं रघुराजपुत्रः।
स सर्व एवादिकवेः प्रभावो
न कोपनीयाः कवयः क्षितीन्द्रैः॥७॥
बिल्हणस्य।
162
उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम्।
जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम्॥८॥
त्रिविक्रमभट्टस्य।
163
शीलाविज्जामारुलामोरिकाद्याः
काव्यं कर्तुं सन्तु विज्ञाः स्त्रियोपि।
170
अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः।
कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत्॥१६॥
एतौ शार्ङ्गधरस्य ॥
171
काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि।
तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति॥१७॥
कस्यापि।
अथ विशिष्टकविप्रशंसा ॥८॥
172
कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः॥१॥
शार्ङ्गधरस्य।
173
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः।
तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे॥२॥
नारायणभट्टस्य।
174
त्रयोग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः॥३॥
राजशेखरस्य।
175
कवयः कालिदासाद्याः कवयो वयमप्यमी।
पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम्॥४॥
कृष्णभहस्य।
176
कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च।
अन्ये कवयः कपयश्चापलमात्रं परं दधति॥५॥
कस्यापि ।
170
अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः।
कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत्॥१६॥
एतौ शार्ङ्गधरस्य ॥
171
काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि।
तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति॥१७॥
कस्यापि।
अथ विशिष्टकविप्रशंसा ॥८॥
172
कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः॥१॥
शार्ङ्गधरस्य।
173
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः।
तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे॥२॥
नारायणभट्टस्य।
174
त्रयोग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः॥३॥
राजशेखरस्य।
175
कवयः कालिदासाद्याः कवयो वयमप्यमी।
पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम्॥४॥
कृष्णभहस्य।
176
कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च।
अन्ये कवयः कपयश्चापलमात्रं परं दधति॥५॥
कस्यापि ।
177
श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे-
लंकारे कतिचित्सदर्थविषये चान्ये कथावर्णके।
आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी-
संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः॥६॥
श्रीचन्द्रदेवानाम्।
178
भवभूतिमनादृत्य निर्वाणमतिना मया।
मुरारिपदचिन्तायामिदमाधीयते मनः॥७॥
कस्यापि।
179
शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरुच्यते।
शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि॥८॥
कस्यापि।
180
नीलोत्पलदलश्यामां विज्जकां मामजानता।
वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती॥९॥
विज्जकायाः।
181
इन्दुप्रभारसविदं विहगं विहाय
कीरानने स्फुरसि भारति का रतिस्ते।
आद्यं यदि श्रयसि जल्पतु कौमुदीनां
गोविन्दराजवचसां च विशेषमेषः॥१०॥
देवेश्वरस्य।
182
यथेयं वाग्देवी सुकविमुखवासव्यसनिनी
कुहूकण्ठीकण्ठे विलसति तथा चेदनवधिः।
तदा भूमीभागे निरुपमतमः किंचिदिव वा
समाधत्ते साम्यं धनदभणितीनां मधुरिमा॥११॥
श्रीधनददेवानाम्।
183
न मुग्धदयिताधरे न विषभाजि रत्नाकरे
न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे।
सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ
गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रभ्रमम्॥१२॥
श्रीहरिहरिदेवानाम् ।
184
सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ।
या वैदर्भगिरां वासः कालिदासादनन्तरम्॥१३॥
कस्यापि।
185
माघेन विघ्नितोत्साहा नोत्सहन्ते पदक्रमे।
स्मरन्तो भारवेरेव कवयः कपयो यथा॥१४॥
धनपालस्य।
186
हृदि लग्नेन बाणेन यन्मन्दोपि पदक्रमः।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम्॥१५॥
187
तावत्कविविहंगानां ध्वनिर्लोकेषु शस्यते।
यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः॥१६॥
त्रिलोचनस्यैतौ।
188
भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि-
र्मेण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः।
दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेपि ते॥१७॥
189
अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः।
श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः॥१८॥
190
सरस्वतीपवित्राणां जातिस्तत्र न देहिनाम्।
व्यासस्पर्धी कुलालोभूद्यद्द्रोणो भारते कविः॥१९॥
राजशेखरस्यैते।
अथ कुकविनिन्दा॥९॥
191
अप्रगल्भाः पदन्यासे जननीरागहेतवः।
सन्त्येके बहुलालापाः कवयो बालका इव॥१॥
त्रिविक्रमभहस्य।
192
गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य।
रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च॥२॥
कस्यापि।
193
द्राघीयसा धार्ष्ट्यगुणेन युक्ताः
कैः कैरपूर्वैः परकाव्यखण्डैः।
आडम्बरं ये वचसां वहन्ति
ते केपि कन्थाकवयो जयन्ति॥३॥
बिल्हणस्य।
194
धिक्त्वां रे कलिकाल याहि विलयं केयं विपर्यस्तता
हा कष्टं श्रुतिशालिनां व्यवहृतिर्म्लेच्छोचिता दृश्यते।
एकैर्वाङमयदेवता भगवती विक्रेतुमानीयते
निःशङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुद्घाट्यते॥४॥
बिल्हणस्य।
195
कविभिर्नृपसेवासु वित्तालंकारहारिणी।
वाणी वेश्येव लोभेन परोपकरणीकृता॥५॥
क्षेमेन्द्रस्य।
196
अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः।
अनाख्यातः सतां मध्ये कविश्वौरो विभाव्यते॥६॥
अथ पण्डितप्रशंसा॥१०॥
197
अधिगतपरमार्थान्पण्डितान्मा वमंस्था-
स्तृणमिव लघुलक्ष्मीर्नैव तान्संरुणद्धि।
मदमिलितमिलिन्दश्यामगण्डस्थलानां
न भवति बिसतन्तुर्वारणं वारणानाम्॥१॥
198
इह तुरगशतैः प्रयान्तु मूर्खा
धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम्।
गिरिशिखरगतापि काकप
ङ्गिः
पुलिनगतैर्न समत्वमेति हंसैः॥२॥
199
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम्।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा॥३॥
कस्यापि।
200
उदीरितोर्थः पशुनापि गृह्यते
हयाश्च नागाश्च वहन्ति नोदिताः।
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः॥४॥
कस्यापि।
201
पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः।
तस्मान्मूर्खसहस्रेण प्राज्ञ एको न लभ्यते॥५॥
202
गीतशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन हि मूर्खाणां निद्रया कलहेन वा॥६॥
कयोरप्येतौ।
203
हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना
ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते॥७॥
204
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः।
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोसि वयमप्येकान्ततो निःस्पृहाः॥८॥
एतौ भर्तृहरेः।
अथ कुपण्डितनिन्दा॥११॥
205
व्यासादीन्कविपुंगवाननुचितैर्वाक्यैः सलीलं हस-
न्नुच्चैर्जल्प निमील्य लोचनयुगं श्लोकान्सगर्वं पठ।
काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धस्व सार्धं बुधै-
र्यद्यभ्यर्थयसे श्रुतेन रहितः पाण्डित्यमाप्तुं बलात्॥१॥
कस्यापि।
206
ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः
कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाछादनम्।
तेषां रोषकषायितोदरदृशां कोपोष्णनिःश्वासिनां
दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेजिनी॥२॥
207
ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः
सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः।
अन्तर्देषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः
कष्टा नूनमपण्डितस्य विकृतिर्भीमज्वरारम्भभूः॥३॥
क्षेमेन्द्रस्यैतौ।
208
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥४॥
भर्तृहरेः।
अथ महतां प्रशंसा॥१२॥
209
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरतिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम्॥१॥
भर्तृहरेः।
210
इयमुन्नतसत्त्वशालिनां
महतां कापि कठोरचित्तता।
उपकृत्य भवन्ति दूरतः
परतः प्रत्युपकारशङ्कया॥२॥
211
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः।
येषां भुवनलाभेपि निःसीमानो मनोरथाः॥३॥
212
अहो किमपि चित्राणि चरित्राणि महात्मनाम्।
लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि॥४॥
एते देवेश्वरस्य।
213
किं वा परेण बहुना परिजल्पितेन
संसर्ग एव महतां महते फलाय।
अम्भोनिधेस्तटरुहास्तरवोपि येन
वेलाजलोच्छलितरत्नकृतालवालाः॥५॥
214
आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु।
अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य॥६॥
कयोरप्यतौ।
215
वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोचराणां चेतांसि को हि विज्ञातुमर्हति॥७॥
भवभूतेः।
216
जितरोषरया महाधियः
सपदि क्रोधजितो लघुर्जनः।
विजितेन जितस्य दुर्मते-
र्मतिमद्भिः सह का विरोधिता॥८॥
माघस्य।
217
गंवादीनां पयोन्येद्युः सद्यो वा जायते दधि।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः॥९॥
देवेश्वरस्य।
218
संपदो महतामेव महतामेव चापदः।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित्॥१०॥
219
अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम्।
और्वं दहन्तमेवाग्निं संतर्पयतिं सागरः॥११॥
220
महतां प्रार्थनेनैव विपत्तिरपि शोभते।
दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे॥१२॥
221
तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु।
निभृतं यदुपक्रियते तदपि महान्तो वहन्त्युच्चैः॥१३॥
222
अचिन्त्याः पन्थानः किमपि महतामन्धकरिपो-
र्यदक्ष्णोभूत्तेजस्तदकृत कथामप्यमदनाम्।
मुनिर्नेत्रादत्रेर्यदजनि पूनार्ज्योतिरहह
प्रतेने तेनेदं मदनमयमेव त्रिभुवनम्॥१४॥
केषामप्येते।
223
महात्मानोनुगृह्णन्ति भजमानान्रिपूनपि।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः॥१५॥
माघकवे।
अथ धीरप्रशंसा॥१३॥
224
सह परिजनेन विलसति धीरो गहनाने तरति पुनरेकः।
विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम्॥१॥
कस्यापि।
225
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥२॥
भर्तृहरेः।
226
श्लाध्या महतामुन्नतिरद्भुतमध्यवसितं च धीराणाम्।
कनकगिरिरनभिलङ्घ्यो रविरनिशमनुज्झितारम्भः॥३॥
कस्यापि।
227
कदर्थितस्यापि हि धैर्यवृत्ते-
र्न शक्यते धैर्यगुणः प्रमार्ष्टुम्।
अधोमुखस्यापि कृतस्य वह्ने-
र्नाधःशिखा यान्ति कदाचिदेव॥४॥
भर्तृहरे।
228
ये दीनेषु दयालवः स्पृशति यानल्पोपि न श्रीमदो
व्यग्रा ये च परोपकारकरणे हृप्यन्ति ये याचिताः।
स्वस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेपि ये
तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता घरा धार्यते॥५॥
229
अर्थः सुखं कीर्तिरपीह मा भू-
दनर्थ एवास्तु तथापि धीराः।
निजप्रतिज्ञामनुरुध्यमाना
महोद्यमाः कर्म समारभन्ते॥६॥
कयोरप्येतौ।
230
अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम्।
वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य॥७॥
बाणभट्टस्य।
अथ सज्जनप्रशंसा॥१४॥
231
उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम्।
सज्जनानां स्वभावोयं केनेन्दुः शिशिरीकृतः॥१॥
232
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः।
नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मसु॥२॥
233
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः I
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते॥३॥
234
हृदयानि सतामेव कठिनानीति मे मतिः।
खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः॥४॥
235
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम्।
सदालोकहिते युक्ता रत्नदीपा इवोत्तमाः॥५॥
केषामप्येते।
236
उपचरितव्याःसन्तो यद्यपि कथयन्ति नैकमुपदेशम्।
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि॥६॥
भर्तृहरेः।
237
सुजनो न याति वैरं परहितनिरतो विनाशकालेपि।
छेदैपि चन्दनतरुः सुरभयति मुखं कुठारस्य॥७॥
रविगुप्तस्य।
238
अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः।
हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानाम्॥८॥
कस्यापि।
239
अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः।
विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति॥९॥
गोभट्टस्य।
240
सन्तोपि सन्तः क किरन्तु तेजः
क्व नु ज्वलन्तु क्व ननु प्रथन्ताम्।
विधाय रुद्धा ननु वेधसैव
ब्रह्माण्डकोषे घटदीपकल्पाः॥१०॥
241
गोत्रस्थितिंन मुञ्चन्ति सदा सन्नतिमाश्रिताः।
उदन्वन्तश्च सन्तश्च महासत्त्वतयानया॥११॥
242
ब्रूतेन्यस्यासतोप्यार्यो गुणान्दोषांस्तु दुर्जनः।
तुल्येप्यसत्ये किं त्वेको गच्छत्यूर्ध्वमधोपरः॥१२॥
243
आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः।
संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते॥१३॥
244
यदमी दशन्ति दशना रसना तत्स्वादमनुभवति।
प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु॥१४॥
देवेश्वरस्य।
245
शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव॥१५॥
246
अद्यापि नोज्झति हरः किल कालकूटं
कूर्मोविभर्ति धरणी खलु पृष्ठभागे।
अम्भोनिधिर्वहति दुर्वहवाडवाग्नि -
मङ्गीकृतं सुकृतिनः परिपालयन्ति॥१६॥
247
आदिमध्यनिधनेषु सौहृदं
सज्जने भवति नेतरे जने।
छेदतापनविघर्षताडनै-
र्नान्यभावमुपयाति काञ्चनम्॥१७॥
248
व्यसने निराकुलधियः संपत्सु नाभ्युन्नताः
कामं वनेषु होस्खाः प्रणयिनि प्राणोपयोगैरपि।
धनिषु न दैन्यं विदे
हीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डिता-
स्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः॥१८॥
249
मुखेन नोरित्यूर्ध्वं हृदये न नयत्यधः।
जरयत्यन्तरे साधुर्दोषं विषमिवेश्वरः॥१९॥
250
तदपकृतं विधिनार्थेषु यत्सन्तः स्वल्पसंपदो विहिताः।
तुच्छे पयसि घनानां सीदति बत जीवलोकोयम्॥२०॥
केषामप्येते।
251
नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ।
किं त्विन्दोः सोदरः पूर्वः कालकूटस्य चेतरः॥२१॥
राजशेखरस्य।
अथ मनस्विप्रशंसा॥१५॥
252
कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः।
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम्॥१॥
भर्चो।
253
अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम्।
अहो बत महत्कष्टं चक्षुष्मानपि याचते॥२॥
कस्यापि।
254
पुण्ये ग्रामे वने वा महति सितपंटच्छन्नपालीं कपाली-
मादाय न्यायगर्भं द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम्।
द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी स्वदेशे न पुनरनुदिनं तुल्यकुल्येषु दीनः॥३॥
255
वरमहिमुखे क्रोधाध्माते करो विनिवेशितो
विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने।
गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो
न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः॥४॥
एतौ भर्तृहरे।
256
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे
तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन।
तेभ्यो दैन्यशतोपनीतविभवा दृष्टानुकम्पास्तु ते
धिङ्मूढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्यो पि ये॥५॥
श्रीदेवगणदेवानाम्।
257
पातालान्न विमोचितो बत बलिर्नीतो न मृत्युः क्षयं
नोन्मृष्टं शशलाञ्छनस्य मलिनं नोन्मूलिता व्याधयः।
शेषस्यापि धरां विधृत्य न कृतो भारावतारः क्षणं
चेतः सत्पुरुषाभिमानमनिशं मिथ्या वहन्खिद्यसे॥६॥
258
एकः स एव जीवति हृदयविहीनोपि सहृदयो राहुः।
यः सकललधिमभाजनमुदरं न बिभर्ति दुष्पूरम्॥७॥
259
वरं हालाहलं पीतं सद्यः प्राणहरं विषम्।
न तु दृष्टं धनान्धस्य भ्रूभङ्गःकुटिलं मुखम्॥८॥
260
प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः।
एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः॥९॥
261
कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन।
धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः॥१०॥
262
ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी।
अङ्गुलीदर्शनाद्येन विलीयन्ते मनस्विनः॥११॥
केषामप्येते।
263
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः।
शफरीस्फुरितेनाब्धेः क्षुब्धता जातु जायते॥१२॥
264
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥१३॥
एतौ भर्तृहरेः।
265
पादाहतं यदुत्थाय मूर्धानमधिरोहति।
स्वस्थादेवापमानेपि देहिनस्तद्वरं रजः॥१४॥
266
मा जीवन्यः परावज्ञादुःखदग्धोपि जीवति।
तस्याजननिरेवास्तु जननीक्लेशकारिणः॥१५॥
267
समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः॥१६॥
एते माघकवे।
अथोदारप्रशंसा॥१६॥
268
आकारमात्रविज्ञानसंपादितमनोरथाः।
ते धन्या ये न शृण्वन्ति दीनाः प्रणयिनां गिरः॥१॥
269
देहि देहीति जल्पन्ति त्यागिनोप्यर्थिनोपि च।
आलोकयन्ति रभसादस्ति नास्तीति न क्वचित्॥२॥
270
युज्यन्ते पक्षिपशवः पठन्ति शुकशारिकाः।
दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः॥३॥
271
एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता।
दातृयाचकयोर्भेदः कराभ्यामेव सूचितः॥४॥
272
सैव परं न विनश्यति तनुरपि या श्रीर्निवेशिता सत्सु।
अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ॥५॥
273
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥६॥
274
बोधयन्ति न याचन्ते भिक्षाचारा गृहे गृहे।
दीयतां दीयतां नित्यमदातुः फलमीदृशम्॥७॥
केषामप्येते।
275
अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् \।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते॥८॥
दण्डिनः।
276
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषमन्यस्य रक्षसि॥९॥
भगवतो व्यासस्य।
277
किं तया क्रियते लक्ष्म्या या वधूरिव केवला।
या न वेश्येव सामान्या पथिकैरुपभुज्यते॥१०॥
विक्रमादित्यस्य।
278
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः।
धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः॥११॥
279
कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्॥१२॥
280
द्विः शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान्।
द्विर्ददाति न चार्थिभ्यो रामो द्विर्नाभिभाषते॥१३॥
केषामप्येते।
281
दाता नीचोपि सेव्यः स्यान्निष्फलो न महानपि।
जलार्थी वारिधिं त्यक्त्वा पश्य कूपं निषेवते॥१४॥
तेजस्विअथ प्रशंसा॥१७॥
282
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम्।
तेजसा सह जातानां वयः कुत्रोपयुज्यते॥१॥
283
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः॥२॥
284
तेजांसि यस्य प्रशमं प्रयान्ति
धाराप्रहारेण स वह्निरन्यः।
अयं पुनर्वाडवनामधेयः
समुद्रमापीय बिभर्ति तेजः॥३॥
285
एकः स एव तेजस्वी सैंहिकेयः सुरद्विषाम्।
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः॥४॥
केषामप्येते।
286
मौनी पादप्रहारेपि न क्षमी नीच एव सः।
आकृष्टशस्त्रो मित्रेपि न तेजस्वी खलो हि सः॥५॥
क्षेमेन्द्रस्य।
287
तुल्येपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्।
हिमांशुमाशु ग्रसते तन्त्रदिमः स्फुटं फलम्॥६॥
माघकवे।
288
तेजस्विनि क्षमासारे नातिकार्कश्यमाचरेत्।
अतिनिर्मन्थनादग्निश्चन्दनादपि जायते॥७॥
289
तेजोहीने महीपाले स्वे परे च विकुर्वते।
निःशङ्को हि जनो धत्ते पदं भस्मन्यनूष्मणि॥८॥
कयोरप्येतौ।
अथ गुणप्रशंसा॥१८॥
290
गुणाः कुर्वन्ति दूतत्वं दूरेपि वसतां सताम्।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्वदाः॥१॥
291
गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम्।
पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते॥२॥
292
गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः।
वासुदेवं नमस्यन्ति वसुदेवं न मानवाः॥३॥
293
गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः।
अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोपि॥४॥
294
नीरसान्यपि रोचन्ते कर्पासस्य फलानि मे।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये॥५॥
295
गुणा गुणज्ञेषु गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
सुस्वादुतायाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥६॥
296
गुणिनं जनमालोक्य निजबन्धनशङ्कया।
राजल्ँलक्ष्मीः कुरङ्गीव दूरं दूरं पलायते॥७॥
297
गुणैः सर्वज्ञकल्पोपि सीदत्येको निराश्रयः।
अनर्धमपि माणिक्यं हेमाश्रयमपेक्षते॥८॥
298
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥९॥
299
गुणैर्गौरवमायाति न महत्यापि संपदा।
पूर्णेन्दुर्न तथा वन्द्यो निष्कलङ्को यथा कृशः॥१०॥
300
न सौख्यसौभाग्यकरा गुणा नृणां
स्वयं गृहीताः सुदृशां कुचा इव।
परैर्गृहीता द्वितयं वितन्वते
न तेन गृह्णन्ति निजं गुणं बुधाः॥११॥
301
कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमतः
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्।
काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना॥१२॥
केषामप्येते।
302
गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः।
प्रासादशिखरस्थोपि काकः किं गरुडायते॥१३॥
भर्तृहरेः।
303
गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः।
बन्धनमायान्ति शुका यथेष्टसंचारिणः काकाः॥१४॥
304
गुणो दूषणतां याति दूषणं गुणतां क्वचित्।
तथा हि नम्रता दोषः स्तनयोः स्तब्धता गुणः॥१५॥
305
अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते।
गुणोपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले॥१६॥
306
अनवसरे गुणवानपि हृदयादवतार्यते हारः।
पश्य शलाकावसरे तृणेपि भूपैः प्रसार्यते स्वकरः॥१७॥
केषामप्येते।
अथ संतोषप्रशंसा॥१९॥
307
अकृत्वा परसंतापमगत्वा खलनम्रताम्।
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु॥१॥
व्यासस्य।
308
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः।
स हि भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान्को दरिद्रः॥२॥
भर्तृहरेः।
309
दरिद्रस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता।
जरद्रवधनः शंभुस्तथापि परमेश्वरः॥३॥
विष्णुशर्मणः।
310
संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥४॥
311
आगमिष्यन्ति ते भावा ये भावा मयि भाविताः।
अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः॥५॥
312
यो मे गर्भगतस्यापि वृत्तिं कल्पितवान्स्वयम्।
शेषवृत्तिविधाने च स किं सुप्तोथवा मृतः॥६॥
313
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्।
सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते॥७॥
314
पञ्चमेहनि षष्ठे वा शाकं पचति यो गृहे।
अनृणी चाप्रवासी च स वारिचर मोदते॥८॥
315
आत्माधीनशरीराणां स्वपतां निद्रया स्वया।
कदन्नमपि मर्त्यानाममृतत्वाय कल्पते॥९॥
316
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्।
उपानद्रूढपादस्य ननु चर्मावृतैव भूः॥१०॥
भगवतो व्यासस्यैतौ।
317
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म।
स्वाधीनता च पुंसां महदैश्वर्य विनाप्यर्थैः॥११॥
318
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
संतोष एव पुरुषस्य परं निधानम्॥१२॥
319
अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च।
नष्टधनश्च स शोकं सुखमास्ते निःस्पृहः पुरुषः॥१३॥
320
तन्मूलं गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम्।
तत्सौभाग्यं पुंसां यदेतदप्रार्थनं नाम॥१४॥
केषामप्येते।
अथ संसर्गप्रशंसा॥२०॥
321
महानुभावसंसर्गः कस्य नोन्नतिकारकः।
रथ्याम्बु जाह्नवीसङ्गात्रिदशैरपि वन्द्यते॥१॥
322
द्रवत्वात्सर्वलोहानां ममत्वान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां दर्शनात्संगतं सताम्॥२॥
323
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः।
आवेष्टितं महासर्पैश्चन्दनं न विषायते॥३॥
324
न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह।
पयोपि शौण्डिनीहस्ते मदिरां मन्यते जनः॥४॥
325
वीणावंशाश्रयात्तुम्बं चुम्बत्युच्चैः कुचौ स्त्रियः।
तत्तु नापितसंसर्गाद्रक्तं नक्तंचरो यथा॥५॥
326
किंचिदाश्रयसौन्दर्याद्धत्ते शोभामसाध्वपि।
कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम्॥६॥
327
आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः॥७॥
328
संसर्गाद्भवति हि साधुता खलानां
साधूनां न च खलसंगमात्खलत्वम्।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न च कुसुमानि धारयन्ति॥८॥
329
असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो
न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि।
प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते
मणिर्नाहेर्दोषान्स्पृशति न तु सर्पो मणिगुणान्॥९॥
केषामप्येते।
330
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते॥
स्वाती सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते॥१०॥
331
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च॥११॥
एतौ विष्णुशर्मणः।
अथ धनप्रशंसा॥२१॥
332
जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु
शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना।
शौर्य वैरिणि वज्रमाशु निपतत्वर्थोस्तु नः केवलं
येनैकेन विना गुणास्तृणलत्रप्रायाः समस्ता इमे॥१॥
333
यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान्गुणज्ञः।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति॥२॥
एतां भर्तृहरेः।
334
वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धास्तु ये परे।
ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः॥३॥
चाणक्यस्य।
335
हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य।
अप्यतिपरुषमसत्यं पूज्यं वाक्यं समृद्धस्य॥४॥
क्षेमेन्द्रस्य।
336
अर्थार्थी जीवलोकोयं श्मशानमपि सेवते।
जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः॥५॥
337
न सा विद्या न तच्छीलं न तद्दानं न सा कला।
अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते॥६॥
338
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्॥७॥
339
न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः॥८॥
एते विष्णुशर्मणः।
340
लक्ष्म्या परिपूर्णोहं न भयं मेस्तीति मोहनिद्वैषा।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः॥९॥
341
भक्ते द्वेषो जडे प्रीतिररुचिर्गुरुलङ्घनम्।
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव॥१०॥
342
आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव॥११॥
343
पतन्ति खड्गधारासु विशन्ति मकरालयम्।
किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः॥१२॥
344
गुणयुक्तोप्यधो याति रिक्तः कृपे घटो यथा।
निर्गुणोपि भृतः पश्य जनैः शिरसि धार्यते॥१३॥
केषामप्येते।
अथ दुर्जननिन्दा॥२२॥
345
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥१॥
346
न विना परवादेन रमते दुर्जनो जनः।
काकः सर्वरसान्भुक्ता विनामेध्यं न तृप्यति॥२॥
एतौ व्यासस्य।
347
परितोषयिता न कश्चन
स्वगतो यस्य गुणोस्ति देहिनः।
परदोषकथाभिरल्पकः
स्वजनं तोषयितुं किलेच्छति॥३॥
348
सहजान्धदृशः स्वदुर्नये
परदोषेक्षणदिव्यचक्षुषः।
स्वगुणोच्चगिरो मुनिव्रताः
परवर्णग्रहणेष्वसाधवः॥४॥
एतौ माघकवेः।
349
विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः।
यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः॥५॥
350
अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः॥६॥
एतौ सुबन्धोः।
351
लब्धच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति।
भूमिरजो रथ्यादावुत्थापकमेव संवृणुते॥७॥
एष रविगुप्तस्य।
352
उपकृतमनेन सुहृदयमित्यसतामस्ति न क्वचिदपेक्षा।
होतुः स्वहस्तमाश्रितमुद्वृत्तोनिर्दहत्येव॥८॥
353
विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव।
जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः॥९॥
हरिगणस्य।
354
दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन्
मणिना भूषितः सर्पः किमसौ न भयंकरः॥१०॥
चाणक्यस्य।
355
परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते।
पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति॥११॥
356
नीचः समाश्रितोवश्यमनवाप्य पराश्रयम्।
छिद्रं न रतिमाप्नोति दृष्टान्तोत्र कटीभवः॥१२॥
357
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥१३॥
358
सुमुखोपि सुवृत्तोपि सन्मार्गपतितोपि सन्।
सतां वै पादलग्नोपि व्यथयत्येव कण्टकः॥१४॥
359
अपूर्वः कोपि कोपाग्निः सज्जनस्य खलस्य च।
एकस्य शाम्यति स्नेहाद्वर्धतेन्यस्य वारितः॥१५॥
360
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रशाम्यति।
अकारणद्वेषि मनोस्ति यस्य
कथं जनस्तं परितोषयिष्यति॥१६॥
361
पादाहतोपि दृढदण्डसमाहतोपि
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः।
हर्षादिवैष पिशुनोत्र मनुष्यधर्मा
कर्णे परं स्पृशंति हन्त्यपरं समूलम्॥१७॥
362
नौश्च दुर्जनजिह्वा चप्रतिकूलविसर्पिणी।
परप्रतारणायैव दारुणा केन निर्मिता॥१८॥
363
यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः।
दूषयत्यचिरेणैव घुणकीट इवाधमः॥१९॥
364
प्रेरयति परमनार्यः शक्तिविहीनोपि जगदभिद्रोहे।
तेजयति शस्त्रधारां स्वयमसमर्था शिला छेत्तुम्॥२०॥
365
स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नतिम्।
गुणोपि परहिंसायै चापस्य च खलस्य च॥२१॥
366
अयः पिण्ड इवोत्तप्ते खलानां हृदये क्षणात्।
पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव॥२२॥
367
वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः।
श्वा भवत्यपकाराय लिहन्नपि दशन्नपि॥२३॥
368
वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते।
कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः॥२४॥
369
शिरसि निहितोपि नित्यं यत्नादपि स्नेवितो बहुस्नेहैः।
तरुणीकुच इव नीचः कौटिल्यं नैव विजहाति॥२५॥
370
पात्रमपात्रीकुरुते दहति गुणं स्नेहमाशु नाशयति।
अमले मलं प्रयच्छति दीपज्वालेव खलमैत्री॥२६॥
371
स्नेहेन भूतिदानेन कृतः स्वच्छोपि दुर्जनः।
दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा॥२७॥
372
यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते।
धत्ते तथा तथा तापं महावैश्वानरः खलः॥२८॥
373
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्।
अहो नु सदृशी वृत्तिस्तुलाकोटेः खलस्य च॥२९॥
374
नैवात्मनो विनाशं गणयति पिशुनः परव्यसनदृष्टः।
प्राप्य सहस्रविनाशं समरे नृत्यति कबन्ध इव॥३०॥
375
दद्यमानाः सुतीव्रेण नीचाः परयशोग्निना।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते॥३१॥
376
खलः सत्क्रियमाणोपि ददाति कलहं सताम्।
दुग्धधौतोपि किं याति वायसः कलहंसताम्॥३२॥
केषामप्येते।
377
न विषममृतं कर्तुं शक्यं प्रयत्नशतैरपि
त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे।
गुणपरिचितामार्यां वाणीं न जल्पति दुर्जन-
श्विरमपि बलाध्माते लोहे कुतः कनकाकृतिः॥३३॥
भर्तृहरेः।
अथ कृपणनिन्दा॥२३॥
378
यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते।
विभज्यते यदन्तेन्यैः कस्यचिन्मास्तु तद्धनम्॥१॥
379
यत्करोत्यरतिंक्लेशं तृष्णां मोहं प्रजागरम्।
न तद्धनं कदर्याणां हृदयव्याधिरेव सः॥२॥
एतौ क्षेमेन्द्रस्य।
380
मृत्युः शरीरगोप्तारं वसुरक्षं वसुंधरा।
दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम्॥३॥
बाणभट्टम्य।
381
नन्दनरेन्द्रद्रविणैर्दुष्कृतमित्र किमपि विहितमतिघोरम्।
वसुधातलोष्मपाको विरमति नाद्यापि यत्तेभ्यः॥४॥
वल्लभदेवस्य।
382
गाढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः॥५॥
गोमट्टस्य।
383
कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः।
जलसंपदोम्बुराशेर्यान्ति वशं सर्वदैव वडवाग्नेः॥६॥
प्रकाशवर्षस्य।
384
प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः।
मुखपाकः किल भवति द्राक्षापाके बलिभुजां हि॥७॥
रविगुप्तस्य।
385
त्यागभोगविहीनेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥८॥
कस्यापि।
386
कृपणेन समो दाता न भूतो न भविष्यति।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति॥९॥
व्यासस्य।
387
यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य तद्द्रव्यम्।
तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे॥१०॥
कस्यापि।
388
कृपणेन मृतेनापि शवेनेव न दीयते।
मांसं वर्धयता तेन काकस्योपकृतिः कृता॥११॥
389
उदारचरितस्त्यागी याचितः कृपणोधिकम्।
एको धनं ततः प्राणानन्यः प्राणांस्ततो धनम्॥१२॥
390
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति॥१३॥
391
नोपभोक्तुमपि क्लीबो जानात्युपचितां श्रियम्।
ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम्॥१४॥
केषामप्येते।
अथ याचकनिन्दा॥२४॥
392
देहीति वक्तुकामस्य यद्दुःखमुपजायते।
दाता चेतद्विजानीयाद्दद्यात्स्वपिशितान्यपि॥१॥
कस्यापि।
393
वेपथुर्मलिनं वक्त्रं दीना वाग्गद्गदः स्वरः।
मरणे यानि चिह्नानि तानि चिह्नानि याचके॥२॥
व्यासस्य।
394
भ्रातर्धातरशेषयाचकजने वैरायसे सर्वदा
यस्माद्विक्रमशालिवाहनमहीभृन्मुञ्जभोजादयः।
अत्यन्तं चिरजीविनो न विहितास्ते विश्वजीवातवो
मार्कण्डध्रुवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः॥३॥
395
उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः
पर्यस्ताः परितो यशःस्तबकिताः संपल्लतापल्लवाः।
प्रागेवापसृतः प्रमोदहरिणश्छाया कथान्तं गता
दैन्यारण्यमतङ्गजेन महता भग्नेभिमानद्रुमे॥४॥
396
विद्यावतः कुलीनस्य धनं याचितुमिच्छतः।
कण्ठेपारावतस्येव वाक्करोति गतागतम्॥५॥
397
दक्षिणाशाप्रवृत्तस्य प्रसारितकरस्य च।
तेजस्तेजस्विनोर्कस्य हीयतेन्यस्य का कथा॥६॥
398
गुरुतामुपयाति यन्मृतः
पुरुषस्तद्विदितं मयाधुना।
ननु लाघवहेतुरर्थिता
न मृते तिष्ठति सा मनागपि॥७॥
399
साधुरेवार्थिभिर्याच्यः क्षीणवित्तोपि सर्वदा।
शुष्कोपि हि नदीमार्गः खन्यते सलिलार्थिभिः॥८॥
400
तृणादपि लघुस्तूलस्तूलादपि हि याचकः।
वायुना किं न नीतोसौ मामयं प्रार्थयिष्यति॥९॥
केषामप्येते।
अथ दरिद्रनिन्दा॥२५॥
401
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः।
बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव॥१॥
कस्यापि।
402
हे दारिद्र्य नमस्तुभ्यं सिद्धोहं त्वत्प्रसादतः।
पश्याम्यहं जगत्सर्वंन मां पश्यति कश्चन॥२॥
कस्यापि।
403
इह लोकेपि धनिनां परोपि स्वजनायते।
स्वजनोपि दरिद्राणां तत्क्षणाद्दुर्जनायते॥३॥
404
रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यज्जीवति तन्मरणं यन्मरणं सोस्य विश्रामः॥४॥
405
परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम्।
विधिर्ददाति निपुणः कन्यामिव दरिद्रताम्॥५॥
406
दारिद्र्यानलसंतापः शान्तः संतोषवारिणा।
याचकाशाविघातान्तर्दाहः केनोपशाम्यति॥६॥
407
अर्था न सन्ति न च मुञ्चति मां दुराशा
त्यागान्न संकुचति दुर्ललितं मनो मे।
यात्रा च लाघवकरी स्ववधे च पापं
प्राणाः स्वयं व्रजत किं प्रविलम्बितेन॥७॥
माघकवेः।
408
मारोदीश्चिरमेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिभा-
नायातस्तव वत्स दास्यति पिता ग्रैवेयकं वाससी।
श्रुत्वैवं गृहिणीवचांसि निकटे कुद्यस्य निष्किञ्चनो
निःश्वस्याभुजलप्लवप्लुतमुखः पान्थः पुनः प्रस्थितः॥८॥
409
वासःखण्डमिदं प्रयच्छ यदि वा स्वा गृहाणार्भकं
रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः।
दंपत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वारुदन्निर्गतः॥९॥
410
वृद्धोन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो।
यत्नात्संचिततैलबिन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति॥१०॥
411
अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया।
अहमपि न तथा न तथा वद राजन्कस्य दोषोयम्॥११॥
दरिद्रस्य दोषः। केषामप्येते।
412
चण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह।
चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति॥१२॥
श्रीवाल्मीकेः।
अथ मूर्खनिन्दा॥२६॥
413
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥१॥
चाणक्यस्य।
414
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्युपहन्ति वा।
भवति च पुनर्भूयान्भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः॥२॥
कालिदासस्य।
415
लभेत सिकतासु तैलमपि यत्नतः पीडय-
न्पिबेच्च मृगतृष्णिकासु सलिल पिपासार्दितः।
कदाचिदपि पर्यटञ्छशविषाणमासादये-
न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥३॥
416
प्रसह्य मणिमुद्धरेन्मकरवक्रदंष्ट्राङ्कुरा-
त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम्।
भुजंगमपि कोपितं शिरसि पुष्पवद्धारये-
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥४॥
एतौ भर्तृहरे।
417
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।
अशुभं वाक्यमादत्ते पुरीपमित्र शूकरः॥५॥
व्यासस्य।
418
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयःपानं भुजंगानां केवलं विषवर्धनम्॥६॥
चाणक्यस्य।
अथ तृष्णानिन्दा॥२७॥
419
बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते॥१॥
भर्तृहरेः।
420
तृष्णे देवि नमस्तुभ्यं धैर्यविप्लवकारिणि।
विष्णुस्त्रैलोक्यनाथोपि यत्त्वया वामनीकृतः॥२॥
कस्यापे।
421
भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता
भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत्।
साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं
तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम्॥३॥
422
नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित्।
या प्राणानपि मुष्णन्ती भवत्येवाधिकं प्रिया॥४॥
423
च्युता दन्ताः सिताः केशा दृङ्विरोधः पदे पदे।
पात सज्जमिमं देहं तृष्णा साध्वी न मुञ्चति॥५॥
424
तृष्णे त्वमपि तृष्णान्धा त्रिषु स्थानेषु वर्तसे।
व्याधितेष्वनपत्येषु जरापरिणतेषु च॥६॥
425
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु।
अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च॥७॥
426
तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा।
उत्पादयस्ययत्नेन गोष्पदे सागरभ्रमम्॥८॥
427
अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम्।
तृणीकरोति तृष्णैषा निमेषेण नरोत्तमम्॥९॥
केषामप्येते।
अथ लोभनिन्दा॥२८॥
428
लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम्।
कार्याकार्यविचारो लोभविमूढस्य नास्त्येव॥१॥
429
अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम्।
योपि ददाति शरीरं न ददाति स वित्तलेशमपि॥२॥
430
केपि स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते।
न तु संत्यजन्ति वित्तं मात्सर्यमिवाधमाः सततम्॥३॥
431
और्वा इवातिलुब्धा भवन्ति धनलवणवारिव्रहुतृष्णाः।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य॥४॥
432
सत्यप्रशमतपोभिः सत्यधनैः शास्त्रवेदिभिर्विजितः।
लोभोवटं प्रविष्टः कुटिलं हृदयं किराटानाम्॥५॥
एतेक्षेमेन्द्रस्य।
433
नात्यर्थमर्थार्थनया लुब्धमुद्वेजयेज्जनम्।
अब्धिर्दत्ताश्वरत्नश्रीर्मथ्यमानोसृजद्विषम्॥६॥
434
प्रायेण धनिनामेव धनलोभो निरन्तरम्।
पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः॥७॥
एतौ कयोरपि
अथ दैवाख्यानम्॥२९॥
435
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे॥१॥
भर्तृहरेः।
436
नमस्यामो देवान्ननु हतविधेस्तेपि वशगा
विधिर्वन्द्यःसोपि प्रतिनियतकर्मैकफलदः।
फलं कर्मायत्तं यदि किममरैःकिं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति॥२॥
437
खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके
वाञ्छन्देशमनातपं विधिवशाद्बिल्वस्य मूलं गतः।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः॥३॥
438
मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे
वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षतु।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः॥४॥
एतेभर्तृहरेः।
439
स्ववराः करोति कर्म प्रमादतः परवशो भवति।
स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः॥५॥
कस्यापि।
440
किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूलम्।
विधिलिखिताक्षरमालं फलति कपालं न भूपालः॥६॥
441
द्वीपान्यस्मादपि मध्यादपि जलनिधेर्दिशोप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥७॥
442
भाग्यवन्तं प्रसूयेथा मा शूरं मा च पण्डितम्।
शूराश्च कृतविद्याश्च वने सीदन्ति पाण्डवाः॥८॥
443
गजभुजंगविहंगमबन्धनं
शशिदिवाकरयोर्ग्रहपीडनम्।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः॥९॥
444
न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः।
सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः॥१०॥
445
अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां
मेरुर्मृत्कणतां तृणं कुलिशतां वच तृणक्लीवताम्।
वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया
लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः॥११॥
446
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोपि वने विसर्जितः
कृतप्रयत्नोपि गृहे न जीवति॥१२॥
447
सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम्।
धिग्दैवं निर्मलं नेत्रं पात्रं कज्जलभस्मनः॥१३॥
448
दाता बलिः प्रार्थयिता च विष्णु-
दीनं च भूर्वाजिमखस्य कालः।
नमोस्तु तस्यै भवितव्यतायै
यस्याः फलं बन्धनमेव जातम्॥१४॥
केषामप्येते।
449
भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि।
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते॥१५॥
दण्डिकवेः।
450
प्रतिकूलतामुपगते हि विधौ
विफलत्वमेति बहुसाधनता।
अवलम्बनाय दिनभर्तुरभू-
न्न पतिष्यतः करसहस्रमपि॥१६॥
माघकवेः।
451
प्रियसखि विपद्दण्डप्रान्तप्रपातपरंपरा-
परिचयचले चिन्ताचक्रे निधाय विधिः खलः।
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-
द्भमयति मनो नो जानीमः किमत्र करिष्यति॥१७॥
विज्जकायाः।
452
किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः।
दैवं यस्य छलान्वेषि करोति विफलाः क्रियाः॥१८॥
चाणक्यस्य।
453
यन्मनोरथशतैरगोचरं
न स्पृशन्ति कवयो गिरापि यत्।
स्वप्रवृत्तिरपि यत्र दुर्लभा
लीलयैव विदधाति तद्विधिः॥१९॥
देवगणस्य।
अथोद्यमाख्यानम्॥३०॥
454
न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति॥१॥
455
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवं हि देवमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्तया
यत्ने कृते यदि न सिद्ध्यति कोत्र दोषः॥२॥
कृष्णमिश्रस्य।
456
विहाय पौरुषं यो हि दैवमेवावलम्बते।
प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसाः॥३॥
457
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥४॥
458
पूर्वजन्मजनितं पुराविदः
कर्म दैवमिति संप्रचक्षते।
उद्यमेन तदुपार्जितं चिरा-
द्दैवमद्यमवशं न तत्कथम्॥५॥
459
दैवं पुरुषकारेण साध्यसिद्धिनिबन्धनम्।
योतिक्रमितुमिच्छेत स लोके नावसीदति॥६॥
460
कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते।
तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत्॥७॥
केषामप्येते।
461
संपदा सुस्थितंमन्यो भवति स्वल्पयापि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥८॥
462
असंपादयतः कंचिदर्थं जातिक्रियागुणैः।
यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम्॥९॥
एतौ माघकवेः।
अथ प्रकीर्णकाख्यानम्॥३१॥
463
दानाय लक्ष्मीः सुकृताय विद्या
चिन्ता परब्रह्मविनिश्चयाय।
परोपकाराय वचांसि यस्य
वन्द्यस्त्रिलोकीतिलकः स एकः॥१॥
श्रीदेवगणदेवानाम्।
464
निष्कलङ्ककलयैकयापि यः
संयुतः स खलु पूज्यते जनैः।
भद्र पश्य जलजोपि धार्यते
शंकरेण शिरसा निशाकरः॥२॥
शार्ङ्गधरस्य।
465
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु ध्नान्ति निरर्थकं परहितं ते के न जानीमहे॥३॥
भर्तृहरेः।
466
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः।
इतरेन्धनजन्मा यो धूमः सोगुरुभवो धूपः॥४॥
गोवर्धनाचार्यस्य।
467
अहो बत महत्कष्टं विपरीतमिदं जगत्।
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥५॥
468
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति।
दातारं कृपणं मन्ये मृतोप्यर्थं न मुञ्चति॥६॥
एतौ व्यासस्य।
469
दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः।
पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये॥७॥
470
अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम्।
यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र॥८॥
471
या स्वसद्मनि पद्मपि संध्यावधि विजृम्भते।
इन्दिरा मन्दिरेन्येषां कथं तिष्ठति सा चिरम्॥९॥
472
रक्षन्ति कृपणाः पाणौ द्रव्यं क्रव्यमिवात्मनः।
तदेव सन्तः सततमुत्सृजन्ति यथा मलम्॥१०॥
473
सद्विद्या यदि का चिन्ता वराकोदरपूरणे।
शुकोप्यशनमाप्नोति राम रामेति च ब्रुवन्॥११॥
474
ददतो युद्ध्यमानस्य पठतः पुलको न चेत्।
आत्मनश्च परेषां च धिक्त्यागं पौरुषं वचः॥१२॥
475
न तद्भुक्तं न तत्पीतं न तत्सुप्तं न तद्गतम्।
यन्मांसमाहिपक्षीरललनावाजिवर्जितम्॥१३॥
476
दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः।
बालः पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति॥१४॥
477
करोति निर्मलाधारस्तुच्छस्यापि महार्घताम्॥
अम्बुनो बिन्दुरल्पोपि शुक्तौ मुक्ताफलं भवेत्॥१५॥
478
अन्तः कटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति।
स भवति सद्यो वन्द्यः सर्षप इत्र सर्वलोकस्य॥१६॥
479
किमाद्यत्वगुरुत्वाभ्यां चरमोपि गुणैर्गुरुः।
केतकीकुसुमे पश्य लघुपत्रेपि गौरवम्॥१७॥
480
पतितोपि राहुवदने तरणिर्बोधयति पद्मखण्डानि।
भवति विपद्यपि महतामङ्गीकृतवस्तुनिर्वाहः॥१८॥
481
निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान्।
न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते॥१९॥
482
स एव धन्यो विपदि स्वरूपं यो न मुञ्चति।
त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम्॥२०॥
483
मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि।
तत्रैकः शुक्लपक्षोभूद्यशः पुण्यैरवाप्यते॥२१॥
484
सौभाग्यं विरलस्य स्यात्समकर्मगुणेष्वपि।
षड्विंशदायुधा पृथ्वी खङ्गायत्तैव कथ्यते॥२२॥
485
हस्तादपि न दातव्यं गृहादपि न दीयते।
परोपकरणार्थाय वचनेपि दरिद्रता॥२३॥
486
पातितोपि कराघातैरुत्पतत्येव कन्दुकः।
प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः॥२४॥
487
पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ।
पदच्युतस्य तस्यैव क्लेददाहकरावुभौ॥२५॥
488
वनानेि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्॥२६॥
489
गतः स कालो यत्रासीदवज्ञा कल्पशाखिनाम्।
उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम्॥२७॥
490
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः।
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम्॥२८॥
491
व्यथयतितरामुपेतः स्वच्छप्रकृतीनवद्यलेशोपि।
भृशमुद्विजते चक्षुः सक्तेन रजःकणेनापि॥२९॥
492
शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी।
जलदान्तरितार्कामपि दिवसच्छायां न पूरयति॥३०॥
493
वरमुन्नतलाङ्गूलात्सटाधूननभीपणात्।
सिंहात्पादप्रहारोपि न सृगालाधिरोहणम्॥३१॥
केषामप्येते।
॥अथ समस्याख्यानम्॥३२
494
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
दलिनश्चकितश्छन्नस्तव सैन्ये विसर्पति॥१॥
कस्यापि।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पादद्वयं समस्या
495
कामं कामदुघे धुक्ष्व
मित्राय वरुणाय च।
वयं वीरेश दानेन सर्वान्कामानशीमहि॥२॥
कम्यापि।
कामं कामदुधे धुक्ष्व मित्राय वरुणाय च। सर्वान्कामानशीम-
इति पादत्रयं समस्या।
496
असमाने समानत्वं भविता कलहे मम।
इति मत्वा ध्रुवं मानी मृगात्सिंहः पलायते॥३॥
कस्यापि।
मृगात्सिंहः पलायत इति पादैकं समस्या ।
497
विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति।
तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः॥४॥
कस्यापि।
सलिलादग्निरुत्थित इति पादैकं समस्या।
498
दामोदरकराघातविह्वलीकृतचेतसा।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्॥५॥
बाणस्य।
शतचन्द्रं नभस्तलमिति पादैकं समस्या।
499
विधे पिधेहि शीतांशुं यावदायाति मे पतिः।
आयाते दयिते कुर्याः शतचन्द्रं नभस्तलम्॥६॥
कस्यापि।
500
भीष्मग्रीष्मर्तुसंतापशून्यरथ्यान्तरस्थयोः।
अन्योन्यालापमुखिनोर्यूनोश्चन्द्रायते रविः॥७॥
कस्यापि।
यूनोश्चन्द्रायते रविरिति पादैकं समस्या।
501
स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे।
यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते॥८॥
कस्यापि।
गगनं भ्रमरायत इति पादैकं समस्या।
502
यत्कण्ठे गरलं विराजतितरां शीर्षे च मन्दाकिनी
वामाङ्गे गिरिजामुखं कटितटे शार्दूलचर्माम्बरम्।
माया यस्य भवं रुणद्धि सकलं तस्मै नमः शंभवे
जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥९॥
कस्यापि।
जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवज्जालवदिति पादैकं समस्या।
503
रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा
निरालम्बो मार्गश्वरणरहितः सारथिरपि।
रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥१०॥
कस्यापि।
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरण इति पादैकं समस्या।
504
विजेतव्या लङ्का चरणतरणीयो जलनिधि-
र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः।
तथाप्येको रामः सकलमवधीद्राक्षसकुलं
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥११॥
कस्यापि।
505
घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो
वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम्।
तथाप्येकोगस्त्यः सकलमपिबद्वारिधिजलं
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे॥१२॥
कस्यापि।
506
अस्माकं जलजीविनां जलमिदं सद्वाजिराजिव्रजैः
पातव्यं पररक्तरक्तमनसां तृप्तिः पतीनां क्षयः।
मत्त्वैवं महराजदेव नृपते त्वज्जैत्रयात्रोत्सवे
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः॥१३॥
श्रीआनन्ददेवानाम्।
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रिय इति
पादैकं समस्या।
507
स्फुरिते जठरे विष्णोर्नवनीतभुजः शिशोः।
मक्षिकापादघातेन कम्पितं भुवनत्रयम्॥१४॥
शार्ङ्गधरस्य।
मक्षिकापादघातेन कम्पितं भुवनत्रयमिति पादद्वयं समस्या।
508
रामाभिषेके मदविह्वलायाः
करच्युतो हेमघटस्तरुण्याः।
सोपानमासाद्य करोति शब्दं
ठं ठं ठं ठं ठं ठं ठं ठं ठं ठं ठः॥१५॥
कस्यापि।
ठंठमिति चरमपादः समस्या।
509
उन्नमय्य सकचग्रहमास्यं
चुम्बति प्रियतमे हठवृत्या।
हुं हुं हुं हुं हुं हुं हुं हुं हुं हुंहुं
कूजितं भवति मानधनायाः॥१६॥
विज्जकायाः।
हुं हुं हुं हुं इति पादैकं समस्या।
510
प्रलयसहायकनवती गोलानाचम्य सकलभूमिरुहाम्।
विलसति दवदहनावलिरिह जलवाहः परं शरणम्॥१७॥
मुरारेः।
सहायकनवती गोलानाचम्येति पादैकं समस्या।
511
सुरताय नमस्तस्मै जगदानन्दहेतवे।
आनुषङ्गि फलं यस्य भोजराज भवादृशाः॥१८॥
सरस्वतीकुटुम्बदुहितुः।
सुरताय नमस्तस्मै जगदानन्दहेतव इति पादद्वयं समस्या।
512
अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे।
ये वियोगेपि जीवन्ति न तेषां विद्यते भयम्॥९९॥
मेघस्य।
अतसीपुष्पसंकाशं न तेषां विद्यते भयमिति पादद्वयं समस्या।
513
मम करग्रहणाय पणीकृतं
यदि न राघवतोप्यधिरोहति।
सखि तदैवमभृन्मम जीवितं
शशकशृङ्गमयं कठिनं धनुः॥२०॥
कस्यापि।
शशकशृङ्गमयं कठिनं धनुरिति पादैकं समस्या।
अथ प्रहेलिकापह्नुतिकूटाख्यानम्॥३३॥
514
अपदो दूरगामी च साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥१॥
कस्यापि।
अत्र लेखपत्रं प्रकटीकृतम्।
515
वने जाता वनं त्यक्त्वा वने तिष्ठति नित्यशः।
पण्यस्त्री न च सा वेश्या यो जानाति स पण्डितः॥२॥
कस्यापि।
अत्र नौका प्रकटीकृता नागवल्ली च।
516
गोपालो न च गोपालस्त्रिशूली न च शंकरः।
चक्रपाणिः स नो विष्णुर्योजानाति स पण्डितः॥३॥
कस्यापि।
अत्र महोक्षः प्रकटीकृतः।
517
उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम्।
काकविष्ठासमुत्पन्नाः पञ्चैतेतिपवित्रकाः॥४॥
उच्छिष्टं दुग्धम्। शिवनिर्माल्यं गङ्गा। वमनं मधुः। शवकर्पटं पट्टाम्बरम्। काकविष्ठासमुद्भूताः पिप्पलादय इति प्रकटीकृताः।
518
विजितात्मभवद्वेषिगुरुपादहतो जनः।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति॥५॥
दण्डिनः।
विना गरुडेन जित इन्द्रः। तदात्मभवोर्जुनः। तद्वेषी कर्णः। तद्गुरुः सूर्यः। तत्पादहतस्तत्किरणसंतप्तः। हिमापहाग्निः। तदमित्रं पानीयम् । तद्धरा मेघाः। इति प्रकटीकृतम्।
519
काचिन्मृगाक्षी प्रियविप्रयोगे
गन्तुं निशापारमपारयन्ती।
उद्गातुमादाय करेण वीणां
मृगाङ्कमालोक्य शनैरहासीत्॥६॥
कस्यापि।
वीणां किमर्थमहासीत् यतोयं गीतप्रियो मृगाङ्कमृगो मत्प्रयुक्तं गीतमाकर्णयितुं ततश्वेदवतरति तदा चन्द्रो निष्कलङ्कः स्यात्। मन्मुखसाम्यं च लभेत। प्रियविप्रयोगे संतापकरो मे हिमांशुः। अतोस्य शत्रोश्चन्द्रमसो मन्मुखसाम्यं मा भूदिति वीणामहासीत्। इति प्रकटितोर्थः।
520
तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः।
गुरूणां संनिधानेपि कः कूजति मुहुर्मुहुः॥७॥
अत्र कलशः प्रकटीकृतः।
521
अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ।
निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी॥८॥
धर्मदासस्यैतौ।
शवरस्त्री पुत्रजायायाः स्तनौ गुञ्जाफलालंकृतौ दृष्ट्वा कुतो निःश्वस्य रुरोद। यतो मत्पुत्र एतस्यामनुरक्तस्तथा क्षीणतां गतो यथा गजान्विनिहत्य गजमुक्ताफलहारैः स्तनौ विभूषयितुं नालम्। अतो निष्प्रयासग्राह्यैर्गुञ्जाफलैर्विभूषयति। पुत्रे च क्षीणे सति तदर्जितनिर्वाहवृत्तेः सर्वस्यापि कुटुम्बस्य जीवितसंदेहः। अतो व्याधकुटुम्बिनी दुःखान्निःश्वस्य रोदितुं लग्ना। इति प्रकटीकृतोयमर्थः।
522
गीत्वा किमपि व्याधः शृङ्गं जग्राह तरुणहरिणस्य।
तमथ समीक्ष्योद्यतकरमेणीमपि लज्जिता व्याधी॥९॥
शार्ङ्गधरस्य।
अस्यार्थः। व्याधः किमप्यद्भुतं गीत्वा गीतमूर्छनाविलीनचित्तस्य तरुणहरिणस्य शृङ्गं जग्राह। किमर्थं जग्राह यतो मद्गीतसुखितस्त्वं याचकस्य मे इदं शिरोदानं देहि। अथ तं हरिणं शिरोदानायोद्यतकरं समीक्ष्य तज्जायां हरिणीं पत्युर्भक्त्या निजशिरोदानायोद्यतकरां च समीक्ष्य व्याधमार्थचारिणी व्याधी लज्जिता। केन हेतुना लज्जिता यतोयं हरिणो दाता इयं च हरिणी पतिभक्ता दातुर्जाया मत्कान्तो याचकः अहं च याचकजाया वरमेते पशवो न वयं मनुष्या इति लज्जिता। अयं प्रथमोर्थः।
अथवा व्याधजायायाः परिणीतः पूर्वपुरुषो मृतः स च विद्यमानः संगृहीतो द्वितीयः पुरुषः। तं च विलोक्य चिन्तितवती। यतो निजकान्तवियोगासहिष्णुः शिरोदानायोद्यतकरा पतिभक्ता वरमियं हरिणी। परिणीतप्रियमरणे जीविता संगृहीतभर्तृका चासती नाहं मानुपीति लज्जिता। इति द्वितीयोर्थः।
अथवा इति चिन्तितं तया ।यतोयेन कर्णेन गीतं श्रुतं तस्य दातुः कर्णस्य पुरो याञ्चायै करो न प्रसारितो व्याधेन। नीरसकठिनकुटिलशृङ्गस्य पुरः करः प्रसारितः। अनुचितं कृतं मूढेन।कृतेप्यनुचिते अकृतपात्रविचारो गीतरसज्ञः स्वभावकृपणं याचकं जानन्मृगयूथपतिर्निजशिरोदानायोद्यतकरो जातः। अतो व्याधी तं हरिणं चतुरं ज्ञात्वा तं च व्याधं मूर्खं ज्ञात्वा हरिणीं च तादृशीं पतिभक्तां वीक्ष्य लज्जिता। इति तृतीयोर्थः।
अथापह्नुतिः॥
523
रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति।
तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य॥१०॥
524
सीत्कारं संजनयति व्रणयत्यधरं तनोति रोमाञ्चम्।
नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः॥११॥
धर्मदासस्यैतौ।
525
वर्षति मेघे नितरामपतितया नैव शक्यते स्थातुम्।
उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः॥१२॥
कस्यापि।
526
प्रहरति न पञ्चबाणः केवलमबले निमेषोपि।
वर्षति परं न देवः क्षणदापि मृगाक्षि विप्रयोगे ते॥१३॥
अथ कूटाः
527
केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः।
रुदन्ति कौरवाः सर्वे हा केशव कथं गतः॥१४॥
कस्यापि।
के पानीये। शवं मृतकम्। द्रोणः कृष्णकाकः। कौरवाः सृगालाः। इति सुबोधमेतत्पद्यम्।
528
अम्बरमम्बुनि पत्त्रमरातिः
पीतमहीनगणस्य ददाह।
यस्य वधूस्तनयं गृहमब्जा
पातु स वो हरलोचनवह्निः॥१५॥
दूरान्वयः। कस्यापि।
स कृष्णो वो युष्मान्पातु यस्याम्बरं पीतम्। यस्य गृहमम्बुनि। यस्य पत्त्रमहीनगणस्यारातिः। यस्य वधूरब्जा। यस्य तनयं हरलोचनवह्निर्ददाह। इति सुबोधमेतत्पद्यम्।
529
लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः।
बिभ्यती धीवरेभ्यो या जडेष्वेव निमज्जति॥१६॥
कस्यापि।
लक्ष्मीर्यादोनिधेः समुद्रस्य यादो जलजन्तुः अदो वचो वादोचितं न। यतो धीवरेभ्यो विचक्षणेभ्यो बिभ्यती त्रस्यन्ती जडेष्वेव कदर्येष्वेव निमज्जति तिष्ठति। इति सुबोधमेतत्पद्यम्।
530
पानीयं पातुमिच्छामि त्वत्तः कमललोचने।
यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम्॥१७॥
कस्यापि।
यदि दासी असि नेच्छामि। नो दासी असि पिबाम्यहम्। इति सुबोधमेतत्पद्यम्।
531
नदीज लङ्केशवनारिकेतु-
र्नगादयो नाम नगारिसूनुः।
एषोङ्गनावेषधरः प्रमाथी
जित्वा वयं नेष्यति चाद्य गा वः॥१८॥
बालभारतस्य।
नाम भो नदीज भीष्म एष दृश्यमानः अङ्गनावेषधर स्त्रीरूपधारी लङ्केशवनारिकेतुर्वानरध्वजः नगाद्वयः अर्जुननामा यतः। किंभूतः नगारिसूनुरिन्द्रपुत्रः। उ भोः कौरवाः अयं प्रमाथी हन्ता। अद्य वो युष्मान् जित्वा गाश्च नेष्यति। इति सुबोधमेतत्पद्यम्।
532
चञ्चा
हूदशलनीरजयुतं सप्ताम्बुजोद्भासितं
नित्यं षोडशशोणपद्मरुचिरं धात्रानिशं सेवितम्।
क्षीराम्भोविगृहं सहस्रदलसत्पर्यङ्कविश्रान्ति य-
न्यायाद्वः कमलाङ्गसङ्गिशयनं तन्नीलरोचिर्मुहुः॥१९॥
शार्ङ्गधरस्य।
अस्य व्याख्या। तन्नीलरोचिः श्यामप्रभं महस्तेजः कृष्णलक्षणं वो युष्मान्पायात्। तत्किभृतम्। कमलाङ्गसङ्गिशयनं लक्ष्मी सनाथशय्यम्। पुनः किंभूतम्। सहस्रदलसत्पर्यङ्कविश्रान्ति सहस्रफणादिव्यशयनशेषस्थितम्। पुनः किंभूतम्। क्षीराम्भोधिगृहं दुग्धसमुद्रनिवासम्। पुनः किंभूतम्। धात्रा नाभिसरोरुहस्थेन ब्रह्मणा अनिशं सेवितमध्यासितम्। पुनः किंभूतम्। षोडशशोणपद्मरुचिरं षोडशारुणकमलमनोहरम्। षोडशशोणपद्मानां विवृतिः। विष्णोश्चत्वारो हस्ता द्वौ चरणौ। तावन्त एव ब्रह्मणः। द्वौ करौ द्वौ चरणौ लक्ष्म्याः। एवं षोडशशोणपद्मरुचिरम्। पुनः किंभूतम्।
नित्यमविनाशि। पुनः किंभूतम् सप्ताम्बुजोद्भासितं सप्तकमलशोभितम्। सप्ताम्बुजानां विवृतिः। चत्वारि मुखपद्मानि ब्रह्मणः। एकं नाभिसरोरुहम्। एकं विष्णोर्मुखम्। एकं लक्ष्म्या मुखम्। एवंसप्ताम्बुजोद्भासितम्। पुनः किंभूतम्। चञ्चद्वादशनीलनीरजयतं शोभमानद्वादशनीलोत्पलयुक्तम्। द्वादशनीलनीरजानां विवृतिः। अष्टौनयनानि ब्रह्मणः। द्वे विष्णोः। द्वे लक्ष्म्याः। एवं द्वादशनीलनीरजयुतम्। अत्रापह्नुतिरलंकारः। इति सुबोधमेतत्पद्यम्।
533
विकसति नयनाभ्यां कैरवं पङ्कजं च
श्लथयति चरणानं ब्रह्मचर्यं पयोधेः।
उरसि लसति यस्य श्रेयसां संप्रदायः
स फणिनमविशेते पद्मया पद्मनाभः॥२०॥
अभिरामपशुपतेः।
अस्य व्याख्या। स पद्मनाभः पद्मया सह फणिनं शेषमधिशेते। यस्य नयनाभ्यां चन्द्रसूर्यलक्षणाभ्यां कैरवं पङ्कजं च विकसति। यस्य चरणाब्जं गङ्गाजनकं पयोवेर्ब्रह्मचर्यं श्लथयति दूरीकरोति। यम्योरसि श्रेयसांसंप्रदायः कौस्तुभमणिर्लसति। एवंविधः पद्मनाभः फणिनमधिशेते। अत्राप्यपह्नुतिरलंकारः। इति सुबोधमेतत्पद्यम्।
अथ क्रियागुप्त–कर्तृगुप्त–कर्मगुप्त– संधिगुप्त–बिन्दुमती–चित्र–भाषाचित्राख्यानम्॥३४॥
534
आगतः पाण्डवाः सर्वे दुर्योधनसमीहया।
यस्मै गां च सुवर्णं च रत्नानि विविधानि च॥१॥
कस्यापि ।
यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवा गां च सुवर्णं च विविधानि रत्नानि च अदुः ददति स्म।
इति क्रियागुप्तम्॥
535
गौरीनखरसादृश्यश्रद्धया शशिनं दधौ।
इहैव गोप्यते कर्ता वर्षेणापि न लभ्यते॥२॥
कस्यापि।
इः कामः तं हन्तीति इहा ईश्वरः।
इति कर्तृगुप्तम्॥
536
अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च।
ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम्॥३॥
कस्यापि।
हे ब्राह्मणः। इभ्यः समृद्धः।
इत्यपि कर्तगुप्तम् ॥
537
एहि हे रमणि पश्य कौतुकं
धूलिधूसरतनुं दिगम्बरम्।
सापि तद्वदनपङ्कजं पपौ
भ्रातरुक्तमपि किं न बुध्यसे॥४॥
कस्यापि।
कौ पृथिव्यां तुकं बालं पश्य ।
इति कर्मगुप्तम् ॥
538
पिबतस्ते शरावेण वारि कल्हारशीतलम्।
केनेमो दुर्विदग्धेन हृदये संनिरोपितौ॥५॥
शरौ बाणौ। एण हरिण।
इति संधिगुप्तम्॥
539
वटवृक्षो महानेष मार्गमावृत्य तिष्ठति।
तावत्त्वया न गन्तव्यं यावन्नान्यत्र गच्छति॥६॥
कस्यापि।
वटो ब्राह्मणः। ऋक्षो भद्धूकः।
इत्यपि संधिगुप्तम्।
540
न मयागोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि।
अस्थानरुदितैरेभिरलमालोहितेक्षणे॥७॥
दण्डिनः।
न निषेवे। मे मम। आगोरसाभिज्ञं अपराधरसज्ञातृ।
इत्यपि संधिगुप्तकम्॥
541
त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीदयितः।
अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः॥८॥
<MISSING_FIG href="../books_images/U-IMG-1712127002123.png"/>
इति बिन्दमती
॥
512
विश्वस्य हेतुरमरैर्बहु गीयसे त्वं
विश्वंभरे शवशिवे त्रिगुणात्ममूर्ते।
चिद्योमतोपि परमां प्रथमं वदन्ति
त्वां योगिनस्तुतिपराः प्रणिधानदृष्ट्या॥९॥
शार्ङ्गधरस्य।
अस्य वसन्ततिलकच्छन्दसो दुर्गास्तुतिरूपस्य पद्यस्य चतुर्णामपि पादानां षष्ठसप्तमाष्टमाक्षरलोपेनेन्द्रवज्रावृत्तं शिवस्तुतिश्च जायते।
543
नमामि मामनोनुन्नमानं मुनिममानिनम्।
नानाननममानाममोंनामानमुमेनमुम॥१०॥
शार्ङ्गधरस्य।
नमामि नमस्करोमि। कम्। उं विष्णुम्। न केवलमुं विष्णुम्। उमनं पार्वतीनाथम्। हरिहरावित्यर्थः। किंभूतम्। मामनोनुन्नमानम्। मा लक्ष्मीः तस्या मनसो नुन्नः अपह्रतो मानो येन सः तम्। लक्ष्मीचाञ्चल्यगर्वापहारिणम्। पुनः किंभूतम्। मुनि योगीश्वरम्। पुनः किंभूतम्। अमानिनम्। नास्ति मानो यस्यासौ तम्। पुनः किभूतम्। नानाननम्। नानाविधान्याननानि मुखानि यस्यासौ तम्।दशावतारत्वान्नैकविधमुखम्। पुनः किंभूतम्। अमानामम्। अमानमाकाशममति क्रमतीत्यमानामः तम्। पुनः किंभूतम्। ॐ नामानम्। ब्रह्मस्वरूपम्। एवंविधम् उम् उमेनं च हरि हरं च नमामि।
द्व्यक्षरः।
544
तारतारतरैरेतैरुत्तरोत्तरतो रुतैः।
रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरौ॥११॥
द्व्यक्षर कालिदासस्य।
545
नागविशेषे शेषे शेषेशेषेपि संहते जगति।
हंस्यसिकालं कालं का लङ्कालङ्घने स्तुतिर्भवतः॥१२॥
देवेश्वरस्य सानुप्रासः।
546
लीलास्मितेन शुचिना मृदुनोदितेन
व्यालोकितेन लघुना गुरुणा गतेन।
व्याजृम्भितेन जघनेन दर्शितेन
सा हन्ति तेन गलितं मम जीवितेन॥१३॥
दण्डिन सानुप्रासः।
547
मधुरया मधुबोधितमाधवी
मधुसमृद्धितमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे॥५४॥
माघकवेः कठिनानुप्राससहित चतुर्थपादान्तयमकम्।
548
आम्नायानामाहान्त्या वा-
ग्गीतीरीतीः प्रीतीर्भातीः।
भोगो रोगो मोदो मोहो
ध्येये चेच्छेत्क्षेमे देशे॥१५॥
दण्डिनश्चातुर्मातृक विद्युन्मालाछन्दः।
अस्य व्याख्या। आम्नायानां वेदानामन्त्या वागुपनिषदाह अकथयत्। किमाह। गीतीः ईतीः प्रीतीः भीतीः भोगः मोदः मोहः क्षेमे शुभे देशे आत्मपरमात्मानौ ध्येये इच्छेत्।
इति चित्राणि॥
549
उत्सरङ्गकलितोरुकटारी-
भाजिराउतभयंकरभालाः।
सन्तु पायकगणा जय तैस्त्वं
गामगोहरमिलाप इलावी॥१६॥
कस्यापि।
अस्य व्याख्या। हे राजन् पायकगणाः सेवकलोकाः उत्सरङ्गकलितोरुकटारीभाजिराः सन्तु। उत्सरङ्गा अतिमुदिताः कलितोरुकटाः सज्जितपृथुलकपोला ये अरीभाः शत्रुगजास्तेषां योसावाजिः सङ्ग्रामस्तं रान्ति ददतीति उत्सरङ्गकलितोरुकटारीभाजिराः। उत पुनः भयंकरभालाः भ्रुकुटीभीषणललाटाः सन्तु। तैः पायकगणैः इलापः पृथ्वीरक्षकः इलावी जितकंदर्पस्त्वम् अगोहरम् अगोग्रहं यथा स्यादेवं गां पृथिवीं जय। परदेशानात्मीयान्कुरुः।
550
नूनं बादल छाइ खेह पसरी निःश्राणशब्दः खरः
शत्रुंपाडि लुटालि तोडि हनिसौंएवं भणन्त्युद्भटाः।
झूठे गर्व भरामवालि सहसा रे कन्त मेरे कहे
कण्ठे पाग निवेश जाह शरणं श्रीमल्लदेवं प्रभुम्॥१७॥
श्रीकण्ठपण्डितस्य।
इति भाषाचित्रम्॥
अथ प्रश्नोत्तराख्यानम्॥३५॥
तेष्वन्तरालापाः।
551
गच्छन्ति क्वाजिवह्नो हुतनिजतनवःका भिनत्ति स्वकुले
किं स्याद्योज्यं विकल्पे क्रकचनिभनखैः किं नृसिंहेन भिन्नम्।
कीदृग्दित्याः प्रसूतिः किमनलशमनं का नृपैः पालनीया
को वन्द्यः कः प्रमार्ष्टि त्रिभुवनकलुषं स्वर्धुनीवारिपुरः॥१॥
कस्यापि।
स्वः। धुनी। वा। रिपूरः। पुनरप्यनुलोमेन। स्वर्धुनी। वारि। पुः।
अः। पुनरपि सर्वम्। स्वर्धुनीवारिपूरः।
552
पुंसः संबोधनं किं विदधति करिणों के रुजोग्नेर्भिषक्किं
का शून्या ते रिपूणां नरवर नरकं कोवधीद्रोचकं किम्।
के वा वर्षासु न स्युर्विसमिव हरिणा किं नखाग्रैर्विभिन्नं
को वा मार्गे विसर्पन्विघटयति तरून्नर्मदारिपुरः॥२॥
कस्यापि।
नः।मदाः। वारि। पृः। अः । पुनरप्यनुलोमेन। नर्म। दावाः।
रिपुरः। पुनः सर्वम्। नर्मदावारिपूरः।
553
के भूषयन्ति स्तनमण्डलानि
कीदृश्युमा चन्द्रमसः कुतः श्रीः।
किमाह सीता दशकण्ठभीता
हारामहादेवरतानमातः॥३॥
कम्यापि।
हाराः। महादेवरता। तमातःरात्रेः। पुनः सर्वम्।हा
राम,हा देवर तात मातः।
554
रवेः कवेः कि समरस्य सारं
कृपेर्भयं किं किमुशन्ति भृङ्गाः।
खलाद्भयं विष्णुपदं च केषां
भागीरथीतीरमाश्रितानाम्॥४॥
कस्यापि।
भाः। गीः। रथी। इतिः। रसम। आश्रितानाम्। पुनः सर्वम्।
भागीरथीतीरसमाश्रितानाम्।
555
कः प्रार्थ्यतेमदनविह्वलयायुवत्या
भाति क्व पुण्ड्रकमुपेति कथं बतायुः।
क्वानादरो भवति केन च राजतेब्जं
बाद्यास्थि कि फलमुद्रावर नालिकेरम्॥५॥
कस्यापि।
ना। अलिके। अरम्। प्रतिलोमेन। रङ्के। अलिना। पुनः सर्वम्।
नालिकेरम् \।
556
कस्य मरौ दुरधिगमः कः कर्मले कथय विरचितावासः।
कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः॥६॥
आद्युत्तरजातिर्धर्मदासस्य।
कस्य जलस्य। कः ब्रह्मा। कैः शिरोभिः। कुतः पृथिव्याः।
557
नलिनीदलगतजललवतरल किं यौवनं धनं चायुः।
के शशधरकरनिकरानुकारिणः सज्जना एव॥७॥
कस्यापि।
558
किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः।
कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा॥८॥
दण्डिन।
अथ प्रश्नोत्तरेषु बाह्यालापाः॥
559
नीचेषु यावनी वाणी का कः स्याच्छुभदो जने ।
शंभोरावरणं किं कं भजन्ते व्यापयो जनम्॥९॥
श्रीहरिहरदेवनाम्।
प्रश्नोत्तरं किम्। अवेलाभोजिनम् \। अत्रे। लाभः। अजिनम्। पुनः सर्वम्।अवेलाभोजिनम्।
560
कस्मिन्स्वपिति कंसारिःकाकृत्तिरधमा नृणाम्।
किं ब्रूते पितरं बालः किं दृष्ट्वा रमते मनः॥१०
कस्यापि।
प्रश्नोत्तरं किम्। शेषेसेवावापररूपम्। शेषे। सेवा। वापर। रूपम्।
अथ प्रश्नोत्तरेषूक्तिप्रत्युक्तयः॥
561
कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप।
तथापीयमवस्था ते नहि सर्वे भवादृशाः॥११॥
प्रथमपादस्तृतीयपादश्च नदीमुत्तितीर्षोर्भोजराजस्योक्तिः। द्वितीयपादश्चतुर्थपादश्च राजदर्शनार्थं छद्मकाष्ठभारवाहपण्डितस्य प्रत्युक्तिः।
562
भूरिभारभराक्रान्त बाधति स्कन्ध एष ते।
न तथा बाधते स्कन्धोयथा वाधति बाधते॥१२॥
पूर्वार्धं मृगयाया गृहमागच्छतः शिबिकारूढस्य भोजराजस्योक्तिः।
उत्तरार्धं च राजदर्शनार्थ छद्मशिबिकावाहपण्डितस्य प्रत्युक्तिः।
563
यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते
तदाचष्टे लोकः शशक इति नो मां प्रति तथा।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्॥१३॥
पूर्वार्धं रात्रौ चन्द्रमसं वर्णयतो भोजराजस्य। उत्तरार्धं च राजदर्शनार्थं छद्मचोरस्य पण्डितस्य।
564
इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः।
इदमपि न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा॥१४॥
पूर्वार्धं शारिक्रीडां कुर्वत्याः शीलाभट्टारिकायाः। उत्तरार्धं च भोजराजस्य।
565
अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः
पञ्चाशन्मधुगन्धलुब्धमधुपाः क्रोधोद्धुराः सिन्धुराः।
लावण्योपचयप्रपञ्चचतुरं पण्याङ्गनानां शतं
दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकायार्पय॥१५॥
निखिलमपि पद्यं विज्ञापयतो भाण्डागारिकस्योक्तिः। वैतालिकायार्पयेति च सप्ताक्षराणि वैतालिकगीतदत्तकर्णस्य विक्रमादित्यस्य प्रत्युक्तिः ।
566
अलमतिचपलत्वात्स्वप्नमायोपमत्वा-
त्परिणतिविरसत्वात्संगमेनाङ्गनायाः।
इति यदि शतकृत्वस्तत्त्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा॥१६॥
पूर्वार्धं शिक्षां ददतो गुरोरुक्तिः । उत्तरार्धं व राजकन्यानुरक्तस्य बिल्हणस्य भित्तिलेखप्रत्युक्तिः।
567
अङ्गणं तदिदमुन्मदद्विप-
श्रेणिशोणितविहारिणो हरेः।
उल्लसत्तरुणकेलिपल्लवां
शल्लकीं त्यजति किं मतङ्गजः॥१७॥
पूर्वा तच्चित्तपरीक्षिकाया राजकन्याया उक्तिः। उत्तरार्धं तदनुरक्तस्य बिल्हणस्य प्रत्युक्तिः।
568
निरर्थकं जन्म गतं नलिन्या
यया न दृष्टं तुहिनांश्चुबिम्बम्।
उत्पत्तिरिन्दोरपि निष्फलैव
दृष्टा विनिद्रा नलिनी न येन॥१८॥
पूर्वार्धं राजकन्यानुरक्तस्य बिल्हणस्योक्तिः। उत्तरार्धं तदनुरक्तचित्ताया राजकन्यायाः।
अथ जातिः॥३६॥
569
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि॥१॥
570
कलक्कणितगर्भेण कण्डेनाघूर्णितेक्षणः।
पारावतः परावृत्य रिग्सुश्चुम्बति प्रियाम्॥२॥
एतौ दण्डिन।
571
स्थित्वा स्थैर्यादुपाम्भः समजठरशिराश्चक्रमूर्तिर्मुहूर्तं
धूर्तः संत्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्गिः।
पश्चाद्ग्रीवां प्रसार्य लरितगतिरपां मध्यमाविश्य चञ्च्वा
चञ्चन्तीमूर्ध्वकण्ठः कथमपि शफरीं स्फारिताक्षो बकोत्ति॥३॥
गोविन्दराजदेवानाम्।
572
चञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रमुग्रं पत-
ञ्चक्राकारकरालकेसरसटास्फारस्फुरत्कंधरम्।
वारं वारमुदाङ्घ्रिचञ्चलघनभ्रश्यन्नखक्षुण्णयो-
र्दृष्टा कुकुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः॥४॥
वररुचे।
573
पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहाभोगविस्तारितात्मा
पागेवाड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य।
प्रातः प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चै-
रुद्रीवं पूर्वकायोन्नतत्रिकटसटः कुक्कुटो रारटीति॥५॥
कस्यापि।
574
आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ-
व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः।
काष्ठं दण्डं गृहाणेत्यतिमुखरजनैस्ताडितो लोष्टघातै-
र्भीतःसर्पोगृहस्यानधिगतविवरः कोणतः कोणमेति॥६॥
दिविरकिशोरकस्य।
575
धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः।
कृतमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं डिम्भाः॥७॥
रुद्रटस्य।
576
आयातो भवतः पितेति सहसा मातुर्निशम्योदितं
धूलीधूसरितो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान्।
दूरात्स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको
नाधन्यस्य पुरः समेति परया प्रीत्या रटन्घर्घरम्॥८॥
उत्कटस्य।
577
अकूर्चारम्भोपि प्रति चिबुकदेशं करतलं
प्रतिज्ञायां कुर्वन्युवतिषु दृशं स्निग्धतरलाम्।
कुमारोहंकारात्परिषदि समानानगणय-
न्भुजौ वक्षः पश्यन्नवत्रयसि कान्तिं वितनुते॥९॥
शार्ङ्गधरस्य।
578
खड्गहस्तोरिमालोक्य हर्षामर्षसमन्वितः।
शूरः पुलकितो रक्तनेत्रो हसति जृम्भते॥१०॥
लक्ष्मीधरस्य।
579
गायति हसति च नृत्यति हृदयेन धृतां प्रियां विचिन्तयति।
समविषमं न च विन्दति गृहगमनसमुत्सुकः पथिकः॥११॥
कस्यापि।
580
मातर्धर्मपरे दयां कुरु मयि श्रान्तेद्य वैदेशिके
द्वारालिन्दककोणके सुनिभृतं यास्यामि सुप्त्वा निशि।
इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भर्त्सितः
स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुनः प्रस्थितः॥१२॥
रविदत्तस्य।
581
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तत्रोद्धुष्यते
स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः।
इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुतः
पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः॥१३॥
कस्यापि।
582
विलासमसृणोल्लसन्मुसललोलदोः कन्दली-
परस्परपरिस्खलद्वलयनिःस्वनोद्बन्धुराः।
लसन्ति कलहुंकृतिप्रसभकम्पितोरः स्थल-
त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः॥१४॥
विज्जकाया।
583
आकर्षन्निव गां वमन्निव खुरौ पश्चार्धमुज्झन्निव
स्वीकुर्वन्निव खं पिबन्निव दिशो वायूंश्च मुष्णन्निव।
साङ्गारप्रकरां स्पृशन्निव भुवं छायाममृष्यन्निव
प्रेङ्खच्चामरवीज्यमानवदनः श्रीमान्हयो धावति॥१५॥
सिंहदत्तस्य।
584
पुरो नुन्नः पश्चाद्व्रजति विधृतश्चोच्छ्रिततनुः
समुत्पत्योत्तानः पतति पथि लोकान्प्रविशति।
हयः किंचिद्गच्छेद्यदि नयति पत्तिंक्वचिदहो
कशाघाते तिष्ठत्यथ चरणघातेन खनति॥१६॥
सूक्तिसहस्रात्।
585
आघ्रायाघ्राय गन्धं विकटमुखपुटो दर्शयन्दन्तपङ्क्तिं
धावत्युन्मुक्तनादो मुहुरपि च रसाद्धष्टया पृष्ठलग्नः।
गर्दभ्या पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो
वेगादारुह्य मुह्यन्नवतरति खरः खण्डितेच्छश्चिरेण॥१७॥
मयूरस्य।
586
घ्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसंकोचभङ्गं
स्थित्वा सूर्यं निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मां खुरेण।
बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं
छागश्चाटूननेकांश्चतुर इव बिटो मन्मथान्धः करोति॥१८॥
कस्यापि।
587
पार्श्वस्फालावलेपाच्चटुलितचरणोल्लेखिताकाशदेशः
संघट्टाटोपकोपप्रकटितरसनापल्लवालीढसृक्कः।
किंचित्साचीकृतास्यः स्फुरदधरपुटः स्फारिताताम्रचक्षु-
र्घोराघाताभिलाषादपसरति रुषं दर्शयेन्नेव मेषः॥१९॥
शकवर्मण।
588
ग्रीष्मादित्यकरप्रतप्तसिकतामध्योपविष्टः सुखं
शेते गौरखरो मरुस्थलभुवि प्रोथं विधाय क्षितौ॥
गुञ्जज्जाहककण्टकाहतमरुद्धूतोत्पतद्धूलिभि-
श्छन्नाङ्गः कृकलासकोपि निभृतं मार्तण्डमुद्वीक्षते॥२०॥
589
मार्गं देहि पदं निधेहि निभृतं शब्दं समाकर्णय
श्वानं वारय कन्दलात्कलकलः कोयं सखे तावकः।
इत्यन्योन्यमनेकधा मृगवधव्यापारपारंगमै-
र्व्याधैः कोप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते॥२१॥
पुष्पाकरस्य।
590
वामस्कन्धनिषण्णशार्ङ्गकुटिलप्रान्तार्पिताधोमुख-
स्यन्दच्छोणितलम्बमानशशकान्वेणीस्खलच्चामरान्।
ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताक्ततूणीरका-
न्सोपश्यत्करिकुम्भभेदजनिताक्रन्दान्पुलिन्दान्पुरः॥२२॥
क्षेमेन्द्रस्य।
591
गर्जन्हरिः साम्भसि शैलकुञ्जे
प्रतिध्वनीनात्मकृतान्निशम्य।
पदं बबन्ध क्रमितुं सरोषः
प्रतर्कयन्नन्यमृगेन्द्रनादम्॥२३॥
भहस्वामिन।
592
लीढव्यस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं
विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः।
एतस्मिन्मदगन्धवासितसटः सावज्ञतिर्यग्वल-
त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः॥२४॥
593
अम्भोमुचां सलिलमुद्वमतां निशीथे
तालीवनेषु निभृतस्थितकर्णतालाः।
आकर्णयन्ति करिणोर्धनिमीलिताक्षा
धारारवान्दशनकोटिनिषण्णहस्ताः॥२५॥
कस्यापि।
594
नयनपथनिरोधक्रोधनिर्धूतभाल-
भ्रमदविरलरोमस्तोमबद्धान्धकारः।
कृमिकवलनलोभोत्खातवल्मीकरन्ध्रो-
स्थितफणिफणघातैरुच्छलत्येष भल्लः॥२६॥
मदनस्य।
595
यदर्कांशुक्लान्तः स्फुरदरुणपुष्पोदरधिया
प्रविष्टो नासान्तः क्वणितमलिडिम्भः प्रकुरुते।
कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो
धुनोत्यास्यं रौति प्रचलति चलत्युच्छलति च॥२७॥
कस्यापि।
596
गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं
शृङ्गाभ्यां भीषयन्तावभिमुखमवनिं दारयन्तौ खुराग्रैः।
मन्दं मन्दं समेत्य स्थिरनिहतपदं दत्तघातौ सरोषं
युध्येते चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ॥२८॥
कस्यापि।
597
आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः
किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः।
उत्तीर्णांतर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा
विस्रंसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि॥२९॥
मयूरस्य।
अथ सदाचारः॥३७॥
598
श्रोत्रियं सुभगामग्निं साग्निं गां धार्मिकं नदीम्।
प्रातरुत्थाय यः पश्येदापद्भयः स प्रमुच्यते॥१॥
599
पापिष्ठं दुर्भगामन्त्यं नग्नमुत्कृत्तनासिकम्।
अप्रियं प्रातरुत्थाय पश्यन्कलिमवाप्नुयात्॥२॥
600
प्रेतधूमे विरेके च वान्तौ च क्षुरकर्मणि।
दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते॥३॥
601
उदक्यापतितम्लेच्छचाण्डालाद्यभिभाषणे।
मार्जारमूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने॥४॥
602
अशुत्रीक्षणेश्रुपाते कलहे श्वासकासयोः।
रथ्याप्रसर्पणेभ्यङ्गे क्षुते नर्मण्युपस्पृशेत्॥५॥
603
कुर्यादाचमनाभावे भास्करस्यावलोकनम्।
स्पृशेद्वा सार्द्रतृणगोगोविडभक्षिणश्रुतीः॥६॥
604
देवाधिकारिणो म्लेच्छान्विकर्मस्थान्द्विजानपि।
विलोक्योपस्पृशेत्स्पृष्ट्वा सवासा जलमाविशेत्॥७॥
605
अजाश्वं मुखतो मेध्यं गावो मेध्यास्तु पृष्ठतः।
ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः॥८॥
606
नास्ति यज्ञः स्त्रियाः किंचिन्न व्रतं नोपवासकः।
या तु भर्तरि शुश्रूषा तथा स्वर्गंजयत्यसौ॥९॥
607
मृते भर्तरि या नारी ब्रह्मचर्ये व्यवस्थिता।
मृता सा लभते स्वर्गे यथा ते ब्रह्मचारिणः॥१०॥
608
तिस्रः कोट्योर्धकोटिश्च यानि लोमानि मानुषे।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति॥११॥
609
व्यालाग्राही यथा व्यालं बिलादुद्धरते बलात्।
एवं पतिं समुद्धृत्य नारी स्वर्गेषु मोदते॥१२॥
610
पृथक्त्रितां समारुह्य न विप्रा गन्तुमर्हति।
भर्तृदेहेन या याति तस्या लोकाः सनातनाः॥१३॥
611
शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता।
शुचिः क्षेमकरो राजा संतोषी ब्राह्मणः शुचिः॥१४॥
612
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने।
वत्सोपि स्तनपाने स्याच्छ्वामृगग्रहणे शुचिः॥१५॥
613
गच्छेदेको न पन्थानं स्वयं नोपानहौ हरेत् ।
शिरसा न वहेद्भारं न प्रधावेत वर्षति॥१६॥
614
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि।
न वस्त्रैः सह नाजस्त्रं नाविज्ञाते जलाशये॥१७॥
615
नद्या यद्यत्परिभ्रष्टं यच्चावर्तसमन्वितम्।
गतप्रत्यागतं यच्च तत्तोयं परिवर्जयेत्॥१८॥
616
ब्राह्मण्यजागोमहिष्यः सूताः शुष्का नवोदकाः।
नद्यः शुद्धा दशाहेन शुद्धापो भूमिगा नवाः॥१९॥
617
प्रवहद्ब्राह्मणं तोयं ताडागं क्षत्रियोदकम्।
वापीकूपगतं वैश्यं शूद्रं च गृहभाण्डगम्॥२०॥
618
अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम्।
संदिग्धनावं नारोहेन्न बाहुभ्यां नदीं तरेत्॥२९॥
619
शीतास्वप्सु निषिच्योष्णा मन्त्रसंभारसंभृताः।
स्नानं गृहेपि कुर्वाणः प्राप्नोति स्नानजं फलम्॥२२॥
620
नाग्निं मुखेनोपधमेन्नाधः कुर्यान्न लङ्घयेत्।
नामेध्यं प्रक्षिपेद्वह्नौ न च पादै प्रतापयेत्॥२३॥
621
देवालयं चत्वरं च नक्तं सेवेत न द्रुमान्।
शून्याटवीं शून्यगृहं श्मशानं च दिनेष्वपि॥२४॥
622
जलं पिबेन्नाञ्जिलना शयानं न प्रबोधयेत्।
परान्नं वा चरन्तीं गां धयन्तीं च न वारयेत्॥२५॥
623
शय्यादीपाधमस्तम्भच्छायां दूरेण संत्यजेत्।
नर्मालापं न कुर्वीत धीमानसहनैः सह॥२६॥
624
नोर्ध्वजानुश्चिरं निष्ठेन्नस्यादुत्कटकासनः।
न नासिकां विकुष्णीयान्न स्वयं कर्तयेन्नखान्॥२७॥
625
सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि स्पृशेत्।
सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः॥२८॥
626
कुशं स्वर्णं सदा धार्ये बहिर्माल्यं न धारयेत्।
नागन्धं बिभृयात्पुष्पं नात्मार्थं गुम्फयेत्स्रजम्॥२९॥
627
नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये।
नित्यं शङ्खे च पद्मे च नित्यं शुक्ले च वाससि॥३०॥
628
बालार्कं प्रेतधूमं च वृद्धां स्त्रीं पल्वलोदकम्।
आयुष्कामो न सेवेत रात्रौ च दधिभोजनम्॥३१॥
629
नोत्सङ्गे भक्षयेन्नाश्रन्मौलिं भूमिं च संस्पृशेत्।
क्वचिद्गच्छेन्न चोच्छिष्टः पश्येज्ज्योतींषि नाशुचिः॥३२॥
630
ब्राह्मणो ब्रह्मतीर्थेन त्रिरद्भिः समुपस्पृशेत्।
कुर्वन्नाचमनं विष्णुमोंकारं चापि संस्मरेत्॥३३॥
631
हस्तद्वयस्थितैर्दर्भः समाचामति यो द्विजः।
सोमपानफलं तस्य भुक्त्वा यज्ञफलं लभेत्॥३४॥
632
गृहेपि निवसन्विप्रो मुनिर्मासत्रिवर्जनात्।
मांसादोन्योपि मांसस्य त्यागात्स्वर्गं व्रजेद्ध्रुवम्॥३५॥
633
आत्मार्थं यः पशुं हन्यात्सोवश्यं नरकं व्रजेत्।
देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक्॥३६॥
634
अनभिध्यां परस्वेषु सर्वसत्त्वेषु सौहृदम्।
कर्मणां फलमस्तीति मनसा त्रितयं चरेत्॥३७॥
635
प्राणातिपातं स्तैन्यं च परदाराभिमर्शनम्।
त्रीणि पापानि कायेन नित्यशः परिवर्जयेत्॥३८॥
636
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा।
चत्वारि वाचा राजेन्द्र न जल्पेन्न च चिन्तयेत्॥३१॥
637
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम्।
शमो दानं यथाशक्ति गार्हस्थो धर्म उच्यते॥४०॥
638
देवान्पितृन्मनुष्यांश्च भृत्यान्गुह्याश्च देवताः।
भोजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति॥४१॥
639
वृक्षांश्छित्त्वा महीं भित्वा हत्त्वा कीटपिपीलकान्।
दत्त्वान्नं कार्षुकोर्थिभ्यः सर्वपापैः प्रमुच्यते॥४२॥
640
राज्ञां दत्त्वा तु षड्भागं देवतानां च विंशतिः।
त्रिंशद्दत्त्वा च विप्राणां कार्षुको नावसीदति॥ ४३ ॥
641
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
उत्थाय चासनं दद्यादेष धर्मः सनातनः॥४४॥
642
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
सतामेतानि हर्म्येषु नाच्छिद्यन्ते कदाचन॥४५॥
643
ग्रासादर्धमपि ग्रासमर्थिभ्यः किं न यच्छति।
इच्छानुरूपो विभवः कदा कस्य भविष्यति॥४६॥
644
उष्णकाले जलं दद्याच्छीतकाले हुताशनम्।
प्रावृङ्काले गृहं देयं सर्वकालेषु भोजनम्॥४७॥
645
अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः।
आत्मवत्सततं पश्येदपि कीटपिपीलकम्॥४८॥
646
गां पङ्काद्वाह्मणों दास्याद्वृत्तिं लोपाद्द्विजं वधात्।
मोचयन्मुच्यते जन्तुः पापादा मरणान्तिकात्॥४९॥
647
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥५०॥
648
अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम्।
विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोन्यथा॥५१॥
649
उपकारः परो धर्मः परोर्थः कर्मनैपुणम्।
पात्रे दानं परः कामः परो मोक्षो वितृष्णता॥५२॥
650
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम्।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः॥५३॥
651
दीपोपशमनं पुंसां कूष्माण्डच्छेदनं स्त्रियाः।
अचिरेणैव कालेन कुलच्छेदकरं मतम्॥५४॥
652
अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभम्।
प्राणान्तेपि न चाश्रीेयान्मसूरान्नं सवल्कलम्॥५५॥
653
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित्।
नहीदृशमनायुष्यं त्रिषु लोकेषु विद्यते॥५६॥
654
मात्रा स्वस्रा दुहित्रा च न विविक्तासनो भवेत्।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति॥५७॥
655
प्रकीर्णकेशामनवेक्ष्यकारिणीं
सदा च भर्तुः प्रतिकूलभाषिणीम्।
परस्य वेश्माभिरतामपत्रपा-
मेवंविधां योषितमाशु वर्जयेत्॥५८॥
656
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम्।
परिभूतामधः शय्यां वासयेद्व्यभिचारिणीम्॥५९॥
657
कुचेलिनं दन्तमलावधारिणं
बह्नाशिनं निष्ठुरवाक्यभाषिणम्।
सूर्योदये चास्तमने च शायिनं
विमुञ्चति श्रीरपि चक्रपाणिनम्॥६०॥
658
एकच्छागं द्विरावेयं त्रिगवं पञ्चमाहिषम्।
षडश्वं सप्तमातङ्गं शक्रस्यापि श्रियं हरेत्॥६१॥
659
शिरः सुधौतं चरणौ सुनिर्मलौ
वराङ्गनासेवनमल्पभोजनम्।
अनग्नमशायित्वमपर्वमैथुनं
चिरप्रणष्टां श्रियमानयन्ति षट्॥६२॥
660
षष्ठीषु तैलं पलमष्टमीषु
क्षौरक्रियां चैव चतुर्दशीषु।
स्त्रीसेवनं नष्टकलासु पुंसा-
मायुः क्षयार्थं मुनयो वदन्ति॥६३॥
661
स्नातुर्जनस्य दशमी तनयांस्त्रयोद-
श्यर्थं निहन्त्युभयमेतदपि द्वितीया।
सप्तम्यनिन्दुनवमीष्वपि संपदिच्छुः
स्नायात्कदाचिदपि नामलकैर्मनुष्यः॥६४॥
662
रोहिणीसहितमुत्तरात्रयं
कीर्तयन्ति मुनयो ध्रुवाह्वयम्।
बीजहर्म्यनगराभिषेचना-
रामशान्तिविधिषु प्रशस्यते॥६५॥
663
रोहिणीषु करपञ्चकेश्विभे
त्र्युत्तरेपि च पुनर्वसुद्वये।
रेवतीषु वसुदैवते च भे
नव्यवस्त्रपरिधानमिप्यते॥६६॥
664
रविर्नृपविलोकने सुरगुरुर्विवाहोत्सवे
रणे धरणिनन्दनो भृगुसुतः प्रयाणे बली।
शनिस्तु खलु दीक्षणे सकलशास्त्रबोधे बुधः
शशी निखिलकर्मसु ध्रुवमुदाहतः सूरिभिः॥६७॥
एतानि धर्मशास्त्रपुराणज्योति शास्त्रेभ्य।
अथ धर्मविवृतिः॥३८॥
665
ऊर्ध्वबाहुर्विम्येष न च कश्चिच्छृणोति मे।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥१॥
666
यस्य धर्मविहीनस्य दिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥२॥
667
परदारपरद्रव्यपरद्रोहपराङ्मुखः।
गङ्गाप्याह कदागत्य मामयं पावयिष्यति॥३॥
668
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम्।
आयुषः खण्डमादाय रविरस्तं गमिष्यति॥४॥
केषामप्येते।
669
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥५॥
670
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥६॥
एतौ व्यासस्य।
671
परलोकहितं तात प्रातरुत्थाय चिन्तय।
इह ते कर्मणामेव विपाकश्चिन्तयिष्यति॥७॥
मदालसायाः।
672
श्रेयो धनार्थिनां धर्मः कामिनां सर्वकामदः।
धर्मोथवापवर्गस्य पारंपर्येण साधकः॥८॥
673
इज्याध्ययनदानानि तपः सत्यं क्षमा दया।
अलोभ इति मार्गोयं धर्मस्याष्टविधः स्मृतः॥९॥
674
आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम्।
प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश॥१०॥
675
भावशुद्धिर्मनुष्यैस्तु कर्तव्या सर्वकर्मसु।
अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा॥११॥
676
कृत्वापि पातकं कर्म यो दद्यादन्नमर्थिने।
ब्राह्मणाय विशेषेण न स पापेन लिप्यते॥१२॥
677
आ श्मशानान्निवर्तन्ते ज्ञातयः सह बान्धवैः।
त्वयेकेनैव गन्तव्यं तत्कर्म सुकृतं कुरु॥१३॥
केषामप्येते।
678
धर्मे मतिर्भवतु वः सततोत्थितानां
स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रियश्चनिपुणैरिह सेव्यमाना
नैवात्मभावमुपयान्ति न च स्थिरत्वम्॥१४॥
कस्यापि।
679
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-
न्संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥१५॥
भर्तृहरे।
680
धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्धनं
धर्मेणैव भवन्ति निर्मलयशोविद्यामहीसंपदः।
कान्तारेषु महाभयेषु सततं धर्मः परित्रायते
धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः॥१६॥
कस्यापि।
681
यन्नागा मदभिन्नगण्डकरटास्तिष्ठन्ति निद्रालवो
द्वारे हेमविभूषिताश्चतुरगा पन्ति यद्दर्पिताः।
वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते
तत्सर्वं सुरलोकराजसदृशं धर्मस्य विस्फूर्जितम्॥१७॥
कस्यापि।
682
गङ्गोद्भेदे कुरुक्षेत्रे विश्रान्तौ मणिकर्णिके।
वेण्यां गयायामोंकारे स्नात्वा दत्त्वा सुखी भवेत्॥१८॥
683
शरणागतरक्षार्थं स्त्रीगोद्विजहिताय च।
स्वाम्यर्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः॥१९॥
684
यो न कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्।
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति॥२०॥
685
यज्ञदानतपस्तीर्थसेवाभिर्विजितेन्द्रियः।
भौमेषु चान्तरिक्षेषु स्वर्गेषु मनुजो व्रजेत्॥२१॥
686
वसन्ति सुरलोकेषु निजपुण्यचयैर्नराः।
विमानैर्विविधाकारैः सर्वकामसमृद्धिभिः॥२९॥
687
तेभ्यश्च प्रच्युता राज्ञामन्येषां च महात्मनाम्।
जायन्ते सुखिनां गेहे सद्वृत्तपरिपालकाः॥२३॥
688
गायन्ति देवाः किल गीतकानि
स्वर्गापवर्गस्य च हेतुभूताः।
धन्यास्तु ते भारतभूमिभागे
भवन्ति भूयः कृतिनः सुरत्वात्॥२४॥
689
पुनः कृत्वाद्भुतं कर्म पूर्वाभ्यासेन मानवाः।
सुरलोकं प्रयान्त्येव भाग्यवन्तो जितेन्द्रियाः॥२५॥
690
परात्परतरं यान्ति नारायणपरायणाः।
न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम्॥२६॥
691
वासुदेवे मनो यस्य जपहोमार्चनादिषु।
तस्यान्तरायो विज्ञेयो देवेन्द्रत्वादिकं फलम्॥२७॥
692
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः॥२८॥
693
षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम्।
लिङ्गस्य मूर्ध्नि यो दद्यात्स भूयोऽपि न जायते॥२९॥
694
उपोष्यैकादशीः सर्वास्तथा कृष्णाश्चतुर्दशीः।
ध्यात्वा हरिहरं देवं प्राप्नोति परमं पदम्॥३०॥
695
मोहादवाचीमबुधाः प्रतीचीं
प्रात्रीमुदीचीमपि पर्यटन्ति।
सच्चिन्मये मानस एव तीर्थे
स्वच्छे सुखं स्नातुमपारयन्तः॥३१॥
अथ पातकविवृतिः॥३९॥
696
कथं ते त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते।
मरणान्तरिता येषां नरकेषूपपत्तयः॥१॥
697
कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः।
विदधति तथापराधं जन्मैव यथा वृथा भवति॥२॥
श्रीधनददेवानाम।
698
यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता
दारिद्र्यं स्वजनाच्च यत्परिभवो मौर्ख्यंपरप्रेप्यता।
तृष्णालौल्यमनिर्वृतिः कुशयनं कुस्त्री कुभोज्यं रुजः
सर्व पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते॥३॥
कस्यापि।
699
व्याधिर्वित्तविनाशः प्रियविरहो दुर्भगत्वमुद्वेगः।
सर्वत्राशाभङ्गः स्फुटं भवत्यकृतपुण्यस्य॥४॥
700
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः।
अत्युग्रपुण्यपापानामिहैव फलमश्रुते॥५॥
701
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च।
चतुर्णामपि चैतेषां निष्कृतिं नैव श्रुश्रुमः॥६॥
702
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः।
महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः॥७॥
703
अकृतज्ञमकार्यज्ञं दीर्घरोषमनार्जवम्।
चतुरो विद्धि चाण्डालाञ्जन्मना सह पञ्चमम्॥८॥
704
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा।
निष्कृतिर्विहिता लोके कृतघ्ने नास्ति निष्कृतिः॥९॥
धर्मशास्त्रेभ्य एते।
705
ऋतुस्नातां तु यो भार्यांनैव गच्छति मूढधीः ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः॥१०॥
706
अदुष्टापतितां भार्यांमूढो यस्तु परित्यजेत्।
सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः॥११॥
707
कूटसाक्षी मृषावादी यश्वासदनुशास्ति वै।
ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः॥१२॥
708
रौरवं कूटसाक्षी तु याति यश्चानृतो नरः।
कुम्भीपाकं प्रयात्येव मानवो गुरुतल्पगः॥१३॥
मार्कण्डेयात्।
709
स्त्रीबालस्वामिमित्रघ्ना गोघ्ना विश्वासघातिनः।
सुरापो ब्रह्महा चौरो यान्त्येते सर्वनारकान्॥१४॥
710
असत्प्रतिग्रहीता च नरके यात्यधोमुखे।
एको मिष्टान्नभुग्यः स याति पूयवहं नरः॥१५॥
711
आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः।
रुधिरान्धे पतन्त्येते सोमविक्रयिणश्च ये॥१६॥
712
मधुहा ग्रामहन्ता च याति वैतरणीं नरः।
असिपत्रवनं याति दर्पाद्वननिकृन्तनः॥१७॥
713
मृगच्छागादिहन्ता च वह्निज्वाले निपात्यते।
व्रतलोप्ताश्रमभ्रष्टो याति संदंशनारके॥१८॥
714
कृते पापेनुतापो वै यस्य पुंसः प्रजायते।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्॥१९॥
एते विष्णुपुराणात्।
715
नरकेभ्यः समुत्तीर्णः पापी तिर्यक्तमश्नुते।
तरुकीटपतङ्गेषु श्वापदैकशफादिषु॥२०॥
716
मानुष्यं प्राप्य कुब्जो वा कुत्सितो वामनोपि वा।
म्लेच्छचण्डालशूद्रेषु वैश्यक्षत्रेषु जायते॥२१९॥
717
शारीरैः कर्मदोषैश्चयाति स्थावरतां नरः।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्॥२२॥
718
पतितान्प्रतिगृह्याथ खरयोनिं व्रजेन्नरः।
शिष्यो गुरोः स्त्रियं गत्वा श्वयोनौ संप्रपद्यते॥२३॥
719
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः।
मातापितरमाक्रुश्य शारिका संप्रजायते॥२४॥
720
भर्तृपिण्डं समश्नन्यस्तद्दुष्टानि निषेवते।
सोपि मोहसमापन्नो जायते वानरो मृतः॥२५॥
721
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः।
असूयकश्च नरकान्मुक्तो भवति लावकः॥२६॥
722
विश्वासहन्ता च नरो मीनयोनौ प्रपद्यते।
अन्नापहारी च नरो मूषकः संप्रजायते॥२७॥
723
परदाराभिमर्षी च वृको घोरोभिजायते।
गुरोः सख्युस्तथा राज्ञो भर्तुर्भार्यामुपेयिवान्।
श्वसृगालबकोलूकव्यालस्करतां लभेत्॥२८॥
724
देवतातिथिविप्राणामदत्त्वा योन्नमश्रुते।
प्रमुक्तो नरकात्सोपि वायसः संप्रजायते॥२९॥
725
ज्येष्ठं पितृसमं वापि भ्रातरं योवमन्यते।
नरकात्सोपि विभ्रष्टः क्रौञ्चयोनौ प्रपद्यते॥३०॥
726
शूद्रश्च ब्राह्मणींगत्वा कृमियोनौ प्रपद्यते।
तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत्॥३१॥
727
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः।
कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते॥३२॥
728
हृते कांस्ये तु हारीतः कपोतो रौप्यभाजने।
हत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रपद्यते॥३३॥
729
मयूरो वर्णकान्हृत्वा हृते चैवांशुके शुकः।
छुच्छुन्दरिः शुभान्गन्धान्वङ्गं हृत्वा शशो भवेत्॥३४॥
730
भूनारीकाञ्चनगवां हर्ता गत्वा तु नारकान्।
तृणगुल्मलतावल्लीत्वक्सारतरुतां लभेत्॥३५॥
एतेमार्कण्डेयपुराणात्।
731
सर्वपातकसंघातकक्षदावानलं परम्।
गोविन्दनामकथनं गङ्गास्नानं च मे मतम्॥३६॥
732
मुकुन्द दामोदर वासुदेव
श्रीकान्त चक्रायुध कृष्ण विष्णो।
गोविन्द नारायण पद्मनाभ
त्रिविक्रमानन्त हरे नमस्ते॥३७॥
एतौ शार्ङ्गधरस्य।
733
तटस्थमुद्धृतं वापि शीतमुष्णमथापि वा।
गाङ्गमम्बु पुनात्येव पापादामरणान्तिकात्॥३८॥
कस्यापि।
734
त्यज दुर्जनसंसर्गंभज साधुसमागमम्।
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम्॥३९॥
कस्यापि।
735
स्वपुरुषमभिवीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले।
परिहर मधुसूदनप्रपन्ना-
न्प्रभुरहमन्यनृणां न वैष्णवानाम्॥४०॥
विष्णुपुराणात्।
736
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः॥४१॥
पद्मपुराणात्।
अथ खेचरभूचरेषु पूर्वंसूर्यन्योक्तयः॥४०॥
737
रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति॥१॥
738
खद्योतो द्योतते तावद्यावन्नोदयते शशी।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः॥२॥
739
तस्यैवाभ्युदयो भृयाद्भानोर्यस्योदये सति।
विकासभाजो जायन्ते गुणिनः कमलाकराः॥३॥
केषामप्येते।
740
देवो हरिर्वहतु वक्षसि कौस्तुभं त-
मन्यैव काचन पुनर्द्युमणेः प्रतिष्ठा।
यत्पादसंगतितरंगितसौरभाणि
धत्ते स एव शिरसा सरसीरुहाणि॥४॥
महादेवस्य।
741
उद्यन्त्वमूनि सुबहूनि महामहांसि
चन्द्रोप्यलं भुवनमण्डलमण्डनाय।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमितेन रात्रिः॥५॥
742
करान्प्रसार्य रविणा दक्षिणाशावलम्बिना।
न केवलमनेनात्मा दिवसोपि लघूकृतः॥६॥
743
निमीलनाय पद्मानामुदयायाल्पतेजसाम्।
तमसामवकाशाय व्रजत्यस्तमहो रविः॥७॥
744
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जग-
च्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा।
तस्मिन्नस्तभिते विवस्वति कियान्क्रूरो जनो दुर्जनो
यद्बध्नाति धृतिं शशाङ्गशकलालोके प्रदीपेथवा॥८॥
केषामप्येते।
745
पातः पूष्णो भवति महते नोपतापाय यस्मा-
त्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये।
एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभि-
स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः॥९॥
746
गते तस्मिन्मानौ त्रिभुवनममुन्मेषविरह-
व्यथां चन्द्रो नेप्यत्यनुचितमितो नास्ति किमपि।
इदं चेतस्तापं जनयतितरामत्र यदमी
प्रदीपाः संजातास्तिमिरहतिबद्धोद्धुरशिखाः॥१०॥
एतौ भल्लटस्य।
747
यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-
स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि।
खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं
घूकैरुत्थितमाः किमत्र करवै किं केन नो चेष्टितम्॥११॥
परिमलस्य।
अथ चन्द्रान्योक्तयः॥४१॥
748
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः।
कलावानेव तु ग्रावद्रावकर्मणि कर्मठः॥१॥
प्रह्लादनस्य।
749
दैवाद्यद्यपि तुल्योभूद्भूतेशस्य परिग्रहः।
तथापि किं कपालानि तुलां यान्ति कलानिधेः॥२॥
भवभूतेः।
750
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम्।
परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता॥३॥
751
हरमुकुटे सुरतटिनीनिकटस्थितिलोभतो द्विजेन्द्रेण।
अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः॥४॥
752
निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्कः।
सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि॥५॥
753
शिरसा धार्यमाणोपि सोमः सोमेन शंभुना।
तथापि कृशतां धत्ते कष्टः खलु पराश्रयः॥६॥
754
व्यज्यमानकलङ्कस्य वृद्धौ वृद्धौ कलानिधेः।
आशास्महे वयं पूर्वांसर्वश्लाघ्यां कृशां दशाम्॥७॥
केषामप्येते।
755
नयनमसि जनार्दनस्य शंभो-
र्मुकुटमणिः सुदृशां त्वमादिदेवः।
त्यजसि न मृगमात्रमेकमिन्दो
विरमति येन कलङ्ककिंवदन्ती॥८॥
उमापतिधरस्य।
756
यद्यपि शिरोधिरोहति रौद्रः क्रोधेन सिंहिकातनयः।
त्यजति न शरणं यातं सागरसूनुर्मृगं तदपि॥९॥
मदनस्य।
757
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम्।
उपैति मित्राद्यच्चन्द्रो युक्तं तन्मलिनात्मनः॥१०॥
758
यज्जातोसि पयोनिधौहरजटाजूटे प्रसिद्धोसि य-
द्विश्वस्योदरदीपकोसि विधिना सृष्टोसि यच्चामृतैः।
भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया
राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम्॥११॥
759
लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः
स्थित्यर्थंपरमेश्वरोभ्युपगतस्तेनापि मृर्ध्ना धृतः।
वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत
प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः॥१२॥
केषामप्येते।
760
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः।
सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-
दूरारोहो भवति महतामप्यपभ्रंशहेतुः॥१३॥
कालिदासस्य।
781
पीयूषं वपुषोस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
प्लुष्टं भानुकरैरयं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति।
सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः॥१४॥
कस्यापि।
762
निरर्थकं जन्म गतं नलिन्या
यया न दृष्टं तुहिनांशुबिम्बम्।
उत्पत्तिरिन्दोरपि निष्फलैव
दृष्टा प्रहृष्टा नलिनी न येन॥१५॥
कस्यापि।
763
विरम तिमिर साहसादमुष्मा-
द्यदि रविरस्तमितः स्वतस्ततः किम्।
कलयसि न पुरो महो महोर्मि-
द्युतिनिधिरभ्युदयत्ययं शशाङ्कः॥९६॥
बल्लालसेनस्य।
764
उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः
श्चुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि।
यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः॥१७॥
त्रिलोचनस्य।
अथ मेघान्योक्तयः॥४२॥
765
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य।
विश्वंसशैलकाननमाननमवलोकते यस्य॥१॥
प्रह्लादनस्य।
766
संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः।
जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य॥२॥
व तुपालस्य।
767
क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन।
ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि॥३॥
कस्यापि।
768
प्रावृषेण्यस्य मालिन्यं दोषः कोभीष्टवर्षिणः।
शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते४॥
769
जलधर जलभरनिकरैरपहर परितापमुद्धतं जगतः।
नो चेदपसर दूरं हिमकरकरदर्शनं वितर॥५॥
चन्द्रकवेः।
770
चातकः स्वानुमानेन जलं प्रार्थयतेम्बुदात्।
स स्त्रोदारतया सर्वांप्लावयत्यम्बुना महीम्॥६॥
कस्यापि।
771
शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च
श्रीखण्डेषु विभीतकेषु च तथा पूर्णेषु रिक्तेषु च।
स्निग्धेन ध्वनिनाखिलेपि जगतीचक्रे समं वर्षतो
वन्दे वारिदसार्वभौम भवतो विश्वोपकारिव्रतम्॥७॥
कस्यापि।
772
नीहाराकरसारसागरसरित्कासारनीरश्रियं
व्यक्ता तोयद चातकेन महती सेवा समालम्बिता।
तस्यैतत्फलितं समुज्झसि शिलासंताडनं मस्तके
गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि॥८॥
कस्यापि।
773
क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः
स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः।
दुष्पूरोदरपूरणाय पिबति स्रोतः पतिं वाडवो
जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये॥९॥
कस्यापि।
774
अन्योपि चन्दनतरोर्महनीयमूर्तेः
सेकार्थमुत्सहति तद्गुणबद्धतृष्णः।
शाखोटकस्य पुनरस्य महाशयोय-
मम्भोद एवशरणं यदि निर्गुणस्य॥१०॥
कस्यापि।
775
अये हेलावेलातुलितकुलशैले जलनिधौ
कुतो वारामोघं बत जलद मोघं वितरसि।
समन्तादुत्तालज्वलदनलकीलाकवलन-
क्लमोपेतानेतानुपचर पयोभिर्विटपिनः॥११॥
बिल्हणस्य।
776
मार्गे भूरिमरुर्जलं स्थलभुवि स्वप्नेपि नो लभ्यते
तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः।
अङ्गारप्रकरान्किरन्निव रविर्ग्रीष्मे तपत्यम्बरे
तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः॥१२॥
शार्ङ्गधरस्य।
777
भेकैः कोटरशायिभिर्मृतमित्र क्ष्मान्तर्गतं कच्छपैः
पाठीनैः पृथुपङ्कपीउलुठनाद्यस्मिन्मुहुर्मूर्च्छितम्।
तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं
यत्राकण्डनिमग्नवन्यकरिणां यूथैः पयः पीयते॥१३॥
अकालजलदस्य।
778
आश्वास्य पर्वतकुलं तपनोष्मतप्तं
दुर्दाववह्निविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा
रिक्तोसि यज्जलद सैव तवोत्तमा श्रीः॥१४॥
कस्यापि।
779
अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः।
तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यते॥१५॥
780
विलपति तथा सारङ्गोयं भवानयमुद्धतो
जलमपि च ते संयोगोयं कथंचिदुपस्थितः।
उपकुरु कुरु प्रह्वं चेतो न वेत्सि यदग्रतो
जलधर पुनः क्व त्वं क्वायंक्व ते जलबिन्दवः॥१६॥
781
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः।
अस्माकमर्कवृक्षाणां पूर्वपत्त्रेपि संशयः॥१७॥
782
स्वमेव चातकाधार इति केषां न गोचरः।
धिगंम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्षसे॥१८॥
केषामप्येते।
783
एतदत्र पथिकैकजीवनं
पश्य शुष्यतितरां महत्सरः।
धिङ्मुधाम्बुधर रुद्धसद्गति-
वर्धिता किमिति तेद्रिवाहिनी॥१९॥
प्रकाशवर्षस्य।
784
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम्।
अये पश्यावस्थामकरुण समीर व्यतिकर-
ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः॥२०॥
अचलस्य।
785
शोषं गते सरसि शैवलमञ्जरीणा-
मन्तस्तिमिर्लुठति तापविसंष्ठुलाङ्गः।
अत्रान्तरे यदि न वारिद वारिपूरै-
राप्लावयेस्तदनु किं मृतमण्डनेन॥२१॥
786
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
स्फारैर्भीषय गर्जितैरतितरां कार्ष्ण्यंमुखे दर्शय।
अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-
स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते॥२२॥
787
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं
दूरावग्रहपृष्ठनिष्ठ तदलं वृष्ट्या तवातः परम्।
निर्दग्धाखिलशालिहालिकवधूसंनद्धनेत्रैः परं
नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः॥२३॥
788
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदोषरादिषु क्वापि।
तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः॥२४॥
789
यदम्बुकणमादाय प्राप्तोसि जलदोन्नतिम्।
तस्योपर्यम्बुधेर्गर्जा मलिनस्योचितैव ते॥२५॥
केषामप्येते।
अथ वायोरन्योक्तयः॥४३॥
790
वरतरुविघटनपटवः कटवश्चञ्चन्ति बायवो बहवः।
तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः॥१॥
भानुपण्डितस्य।
791
अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम्।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि॥२॥
भवभूतेः।
792
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्विरम्।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थिति क्षितिभृतां कुर्वन्त्यमी पांसवः॥३॥
भल्लटस्य।
793
परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोति तज्जं तु I
दीपं हरति तदस्य ज्ञातं प्रतिपत्तिनिर्वहणम्॥४॥
कस्यापि।
794
कोयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतानां
तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम्।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलुषतादोष एष त्वयैव॥५॥
795
हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां
शाखाघर्षणतः स कोपि सुचिरं जज्वाल दावानलः।
येनादाहि पलायमानहरिणं भस्मीभवद्भूरुहं
शुष्यन्निर्झरमुत्पतत्खगकुलं वेल्लद्भुजंगं वनम्॥६॥
कयोरप्येतौ।
अथ हंसान्योक्तयः॥४४॥
796
कंसारिचरणोद्भूतसिन्धुकल्लोललालितम्।
मन्ये हंस मनो नीरे कुल्यानां रमते कथम्॥१॥
शार्ङ्गधरस्य।
797
अम्भोजिनीवननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः॥२॥
भर्तृहरेः।
798
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र॥३॥
799
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुकणकीर्णपिशङ्गतोयाम्।
रम्यां हिमाचलनहीं प्रविहाय हंस
हे हे हताश वद कां दिशमुत्सुकोसि॥४॥
800
स्थित्वा क्षणं विततपक्षतिरन्तरिक्षे
मातङ्गसङ्गकलुषां नलिनीं विलोक्य।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन
हंसेन साश्रु परिवृत्य गतं न लीनम्॥५॥
801
सरसि बहुशस्ताराछायां दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येप्यपायमपेक्षते॥६॥
802
वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्ज्वलो
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा।
कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः
सोयं संप्रति हंसको मरुगतः कौपं पयो याचते॥७॥
803
तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः
पतद्धारासारां गमय विषमां प्रावृषमिमाम्।
निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने
स एव त्वं हंसः पुनरपि विलासास्त इह ते॥८॥
804
रे राजहंस किमिति त्वमिहागतोसि
योसौ बकः स इह हंस इति प्रतीतः।
तद्गम्यतामनुपदेन पुनः स्वभूमौ
यावद्वदन्ति न बकं खलु मूढलोकाः॥९॥
805
यो दिव्याम्बुजलीन मत्तमधुपप्रोद्गीतिरम्यं सर-
स्त्यत्त्क्वामानसमल्पवारिणि रतिं बध्नाति कैदारिके।
तस्यालीकसुखाशया परिभवक्रोडीकृतस्याधुना
हंसस्योपरि टिट्टिभो यदि पदं धत्तेत्र को विस्मयः॥ १०॥
806
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका -
विन्यस्तान्बलितण्डुलान्कवलयन्दृष्टोसि हष्टैर्मुखैः।
एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-
र्व्याधैस्त्वद्विधमुग्धबन्धनविधौ को नाम नो सूत्र्यते॥११॥
807
भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं
हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम्।
यावन्नायं दुरन्तो हरगलगरलव्यालजालालिनील-
प्रोन्मीलन्मेघमालामलिनसकलदिङ्गण्डलोभ्येति कालः॥१२॥
808
हे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्भोविशालं
किं मद्धाम्रोपि वाढं तदतिशठ महापाप मा ब्रूहि मिथ्या।
इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंस
नीचः प्रायः शठार्थो भवति हि विषमो नापराधेन दृष्टः॥ १३॥
केषामप्येते।
809
यः संतापमपाकरोति जगतां यश्वोपकारक्षमः
सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः।
तस्याप्युन्नतिमम्बुदस्य सहसे यत्र त्वमेतावता
वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरसि॥ १४॥
श्रीभोजदेवस्य।
810
गतं तद्गाम्भीर्यं तटमपि चितं जालकशतैः
सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः।
न यावत्पङ्काक्तः कलुषिततनुर्भूरिविलस-
न्वकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते॥१५॥
811
यदि नाम दैवगत्या जगदसरोजं कदापि संजातम्।
अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः॥१६॥
812
अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम्।
रमते न मरालस्य मानसं मानसं विना॥१७॥
813
आकारः कमनीयताकुलगृहं लीलालसा सा गतिः
संपर्कः कमलालयैः कलतया लोकोत्तरं कूजितम्।
यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते
संरब्धत्वमसद्रुमब्रुकलहे नाहं सहे हंस हे॥१८॥
814
नद्यो नीचरता दुरापपयसः कूपाः पयोराशयः
क्षारा दुष्टबकोटसंकटतटोदेशास्तडागादयः।
भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति
त्वां भो मानस संस्मरन्पुनरसी हंसः समभ्यागतः॥१९॥
केषामप्येते।
अथ मधुकरान्योक्तयः॥ ४५॥
815
मधुकर तव करनिकरैः किं किं क्रान्तं कुलं न कुसुमानाम्।
तद्वद सरसिजमुकुले लब्धं किंचिद्यदन्यतस्तत्किम्॥१॥
816
गौरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे।
शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप॥२॥
शार्ङ्गधरस्य।
817
भ्रमन्वनान्ते नवमञ्जरीषु
न ष
ट्टदो गन्धफलीमजिघ्रत्।
सा किं न रम्या स च किं रन्ता
बलीयसी केवलमीश्वरेच्छा॥३॥
लक्ष्म्याः।
818
भ्रमर भ्रमता दिगन्तराणि
क्वचिदासादितमीक्षितं श्रुतं वा।
वद सत्यमपास्य पक्षपातं
यदि जातीकुसुमानुकारि पुष्पम्॥ ४॥
श्रीगणदेवानाम्।
819
अभिनवनलिनीविनोदलुब्धो
मुकुलितकैरविणीवियोगभीरुः।
भ्रमति मधुकरोयमन्तराले
श्रयति न पङ्कजिनीं कुमुद्वतीं वा॥५॥
श्रीधनददेवानाम्।
820
नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं
वासन्तीं सहते न चन्दनवनीमालम्बते न क्वचित्।
जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां
ध्यायन्निर्वृतिमेति षट्टदयुवा योगीव वीतभ्रमः॥६॥
श्रीपुष्पाकरदेवानाम्।
821
किं मालति म्लायसि यद्यविद्य-
श्चुचुम्ब तुम्बीकुसुमं षडङ्घ्रिः।
प्राणी चतुर्भिश्चरणैः पशुश्चे-
त्स षड्भिरध्यर्धपशुः कथं न॥ ७॥
कस्यापि।
822
केतकीकुसुमं भृङ्गः खण्ड्यमानोपि सेवते।
दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः॥ ८॥
कस्यापि।
823
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु।
मुग्धामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमालिकायाः॥९॥
विकटनितम्बायाः।
824
मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम्।
वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः॥१०॥
825
फुल्लेषु यः कमलिनीकमलोदरेषु
चूतेषु यो विलसितः कलिकान्तरस्थः।
पश्याद्य तस्य मधुपस्य शरव्यपाये
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति॥११॥
826
स्वामोदवासितसमग्रदिगन्तराला
रक्ता मनोहराशिखा सुकुमारमूर्तिः।
सेव्या सरोजकलिका तु यदैव जाता
नीतस्तदैव विधिना मधुपोन्यदेशम्॥१२॥
827
किं क्वापि प्रलयानलैर्विटपिनो निर्दह्य भस्मीकृताः
किं वा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलिनम्।
किं वा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरै-
र्येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि॥१३॥
828
अनुसरति करिकपोलं भ्रमरः श्रवणेन ताद्यमानोपि।
गणयति न तिरस्कारं दानान्धविलोचना नीचः॥१४॥
829
मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते॥१५॥
830
यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
यामालिङ्ग्य समुत्सुकेन मनसा यातः परांनिर्वृतिम्।
भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम्॥१६॥
831
अपसर मधुकर दूरं परिमलबहुलेपि केतकीकुसुमे।
इह नहि मधुलवलेशो भवति परं धूलिधूसरं वदनम्॥१७॥
832
दग्धा सा बकुलावली कवलितास्ते ते रसालद्रुमाः
प्लुष्टास्तेपि विनिद्रपुप्पपटलीपीतातपाः पादपाः।
भ्रातर्भुङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं
किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दाय से॥१८॥
833
दुरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम्।
मन्दारेपि न सादरो विचकिलोपान्तेपि संतप्यते
तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती॥१९॥
834
ये वर्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः।
ते सांप्रतं प्रतिदिनं गमयन्ति कालं
निम्बेषु चार्ककुसुमेषु च दैवयोगात्॥२०॥
835
कृत्वापि कोशपानं भ्रमरयुवा पुरत एव कमलिन्याः।
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम्॥२१॥
836
इह सरसिसहर्षं मञ्जुगुञ्जाभिरामं
मधुकर कुरु केलिं सार्धमम्भोजिनीभिः।
अनुपममकरन्दामोददत्तप्रमोदा
त्यजति बत न निद्रां मालती यावदेषा॥२२॥
837
येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः॥२३॥
केष म येते।
अथ कोकिलान्योक्तयः॥ ४६॥
838
काकैः सह विवृद्धस्य कोकिलस्य कला गिरः।
खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः॥१॥
839
समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः।
श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे॥२॥
840
अस्यां सखे बधिरलोकनिवासभूमौ
किं कूजितेन खलु कोकिल कोमलेन।
एते हि दैवहतकास्तदभिन्नवर्णं
त्वां काकमेव कलयन्ति कलानभिज्ञाः॥३॥
केषामप्येते।
841
कोकिल कलप्रलापैरलमलमालोकसे रसालं किम्।
शरनिकरभरितशरधिः शबरः सरतीह परिसरे सधनुः॥४॥
श्रीधनवदेवानाम।
842
तवैतद्वाचि माधुर्यं जाने कोकिल कृत्रिमम्।
यैः पोषितोसि तानेव जातपक्षोजहासि यत्॥५॥
श्रीभोजदेवस्य।
843
मूकीभूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्वहे
हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम्।
यत्रेतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लस-
त्पांसूत्तम्भभूतो निदाधदिवसाः संतापसंदायिनः॥६॥
कस्यापि।
844
येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-
द्भृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः।
आः कालस्य वशेन कोकिलयुवा सोप्यद्य सर्वा दिशः
खेलद्वायसचञ्चुधातविदलन्मूर्धा मुहुर्धावति॥७॥
भेरीभांकारस्य।
845
क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः।
क्वचिद्घोरः फेरुध्वनिरयमहो दैवघटना
कथंकारं तारं रसति चकितः कोकिलयुवा॥८॥
कस्यापि।
846
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे।
रे रे काक वराक साकममुना पुंस्कोकिलेनाधुना
स्पर्धाबन्धमुपेयुषस्तव नु किं लज्जापि नो जायते॥९॥
भल्लवस्य।
847
रे बालकोकिल करीरमरुस्थलीषु
किं दुर्विदग्ध मधुरध्वनिमातनोषि।
अन्यः म कोपि सहकारतरुप्रदेशो
राजन्ति यत्र तव विभ्रमभाषितानि॥१०॥
कस्यापि।
848
रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः।
तन्मञ्जरीरसामोदविन्दुरेकः कुहूमुखः॥११॥
849
रे कीर कैतवसुगीरिति संकलय्य
मा मात्र संरससि सज्जनरञ्जनाय।
बालोपि यत्र कलकण्ठसुकण्ठपीठ-
संलोठिकोमलकूहूरुतपूर्णकर्णः॥१२॥
एतौ श्रीचन्द्रदेवस्य।
850
दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः।
दैवाद्यावदसौ रसालविटपिच्छायामनासादय-
न्निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः॥१३॥
851
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्ध्यो गुण-
स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे।
प्रोद्दामद्रुमसंकटे कटुरटत्काकावलीसंकुलः
कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः॥१४॥
केषामप्येतौ।
अथ चातकान्योक्तयः॥४७॥
852
एक एव खगो मानी चिरं जीवतु चातकः।
पिपासितो वा म्रियते याचते वा पुरंदरम्॥१॥
कस्यापि।
853
दीनोन्नतचलपक्षतया
बह्वपि लब्धमवस्तु।
चातक यत्संभावनया
किमपि यदस्ति तदस्तु॥२॥
854
चातकस्य खलु चञ्चुसंपुटे
नो पतन्ति यदि वारिबिन्दवः।
सागरीकृतमहीतलस्य किं
दोष एष जलदस्य दीयते॥३॥
855
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली॥४॥
856
बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्भितं
कन्दैः कन्दलितं जनैः समुदितं धाराधरे वर्षति।
भ्रातश्चातकं किमपि ते सम्यङ्क जानीमहे
येनास्मिन्न पतन्ति तावकमुखे द्वित्राः पयोबिन्दवः॥५॥
857
चातक धूमसमृहं दृष्ट्वा मा धाव वारिधरबुद्ध्या।
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम्॥६॥
858
रक्ताब्जपुञ्जरजसारुणितान्विमुच्य
स्वच्छान्मुधासमरसानपि वारिराशीन्।
यच्चातकः पिबति वारिधरोदबिन्दू-
न्मन्ये तदानतिभयाच्छिरसोभिमानी॥७॥
859
कृपे पानमधोंमुखस्य हि भवेद्वाप्यो वराक्यः स्त्रियः
सामान्यं बकटिट्टिभैः सह सरस्येवं समालोकयन्।
नादत्ते तृषितोपि सिन्धुसलिलं क्रूरैर्वृतं जन्तुभि-
र्मानादुद्धतकंधरः सुरपतिं तच्चातको यात्रते॥८॥
860
गर्जितबधिरीकृतककुभा
किमपि कृतं न घनेन।
कियती चातकचञ्चुपुटी
सापि भृता न जलेन॥९॥
861
अन्येपि सन्ति बत तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः।
कोप्याग्रहो गुरुरयं हतचातकस्य
पौरंदरीं यदभिवाञ्छति वारिधाराम्॥१०॥
862
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये
भ्रातश्चातक किं वृथात्र रटितैः खिन्नोसि विश्राम्यताम्।
मेघः शारद एष काशधवलः पानीयरिक्तोदरो
गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति॥११॥
863
समागमिष्यतोम्भोद वेत्ति कः समयं तव।
रौति नो यदि सारङ्गस्तवोच्चैः खे पुरःसरः॥१२॥
चन्द्रस्य।
864
यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो
यश्व प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः।
सत्यं चातक तं तथाविधमपि भ्रातस्त्वया यात्रता
जीमूतं कृतमेव तुल्यमनयोरथैिवतिर्यक्त्वयोः॥१३॥
865
धिग्वारिदं परिहतान्यजलाशयस्य
यच्चातकस्य कुरुते न तृषः प्रशान्तिम्।
धिक्चातकं तमपि योर्थितयास्तलज्ज-
स्तं तादृशं च यदुपैति पिपासितोपि॥१४॥
866
विश्वोपजीव्येपि पिबत्यपो न
पद्माकरे यद्यपि चातकोयम्।
स्वार्थक्षतिस्तस्य तृषातुरस्य
लघुत्वमत्रास्ति न किंचिदस्य॥१५॥
केषामप्येते।
अथ मयूरान्योक्तयः॥४८॥
867
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूककपोतकोकिलकुलैरेकोपि पार्श्वस्थितः।
केकी कूजति चेत्तदा विघटितव्यालावलीबन्धनः
सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः॥१॥
कस्यापि।
868
केका कर्णामृतं ते सकुसुमकबरीकान्तिहारी कलापः
कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसंधैः।
विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
कैः पुण्यैः प्राप्तमेतत्सकलमपि सखे चित्रवृत्तं मयूर॥२॥
शार्ङ्गधरस्य।
869
वेगज्वलद्विटपपुञ्जमहारवोयं
गर्जिर्न तीव्रतरहेतिरियं न शम्पा।
दावाग्निधूमनिवहोयमयं न मेघः
किं नृत्यसि द्रुतमितो व्रज तत्कलापिन्॥३॥
लक्ष्मीधरस्य।
870
अये नीलग्रीव क्व कथय सखे तेद्य मुनयः
परं तोपं येषां तव स्वविलासो वितनुते।
अमी दुरात्कुराः ऋणितमिदमाकर्ण्य सहसा
त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः॥४॥
कस्यापि।
871
हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः
सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरस्थैरपि।
एकेनापि तलस्थितेन नदता श्रीखण्ड निस्तर्जना-
घ्यलानां च शिखण्डिनां ननु महत्पाण्डित्यमुद्दण्डितम्॥५॥
श्रीचन्द्रदेवानाम्।
872
किंदूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा।
रम्यं वा गगने न किं विहरणं किं तृग्रकाकावली-
पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः॥६॥
कस्यापि।
873
यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम्।
यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः॥७॥
भर्तृहरे।
अथ शुकान्योक्तयः॥४९॥
874
शुक यत्तत्र पठनव्यसनं
न गुणः स गुणाभासः।
समजनि येन तवामरणं
शरणं पञ्जरवासः॥१॥
श्रीधनददेवानाम।
875
सत्सांगत्यमवाप्य यः पुरवने नानारसास्वादवा-
न्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने।
दैवेनास्फुटवाक्प्रपञ्चविहतश्रोत्रस्य तस्याटवीं
प्राप्तस्यात्मसभाप्रगल्भकपिषु स्यान्मौनमेवोचितम्॥२॥
कस्यापि।
876
भ्रातः कीर कठोरचञ्चुकषणक्रोधायतैःकूजितैः
किं माधुर्यनिषिक्तसूक्तिविशदः कण्डावटुः शोष्यते।
सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते
भिल्लच्छिद्रितभित्तिमुद्रितघटः प्राप्तो यतः पञ्जरः॥३॥
कस्यापि।
877
माणिक्यद्रवलिप्तमौक्तिकतुलां बिभ्रन्ति नो दाडिमी-
बीजान्येष निरीक्षते न रमते हैमेप्यहो पञ्जरे।
तत्तादृग्वनवाससंमदमहामोदैकमेदस्विनी
वृत्तिर्मे गलितानया हतगिरेत्येवं शुक्रः शोचते॥४॥
श्रीराघवचैतन्यानाम।
878
इदमपटु कपार्ट जर्जरः पञ्चरोयं
विरमति न गृहेस्मिन्क्रूरमार्जारयात्रा।
शुक मुकुलितजिह्वं स्थीयतां किं वचोभि-
स्तव वचनविनोदे नादरः पामराणाम्॥५॥
कृष्णमिश्रस्य।
879
अमुप्मिन्नुद्याने विहगखल एष प्रतिकलं
विलोलः काकोलः क्वणति किल यावत्पटुतरम्।
सखे तावत्कीर द्रढय हृदि वाचंयमकलां
न मौनेन न्यूनीभवति गुणभाजां गुणगणः॥६॥
कस्यापि।
अथ काकान्योक्तयः॥५०॥
880
गात्रं ते मलिनं तथा श्रवणयोरुद्वेगकृत्क्रेङ्कृतं
भक्ष्यं सर्वमपि स्वभावचपलं दुश्चेष्टितं ते सदा।
एतैर्वायस संगतोस्यविनयैर्दोषैकमूलैः परं
यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान्॥१॥
शार्ङ्गधरस्य।
881
पथि निपतितां शून्ये दृष्ट्वानिरावरणाननां
दधिभृतघटीं गर्वोन्नद्धः समुन्नतकंधरः।
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो
यदि न कुरुते काणः काकः कदा नु करिष्यति॥२॥
भल्लटस्य।
882
आ मरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरेः।
किं जानन्ति वराकाः काकाः केकारवं कर्तुम्॥३॥
883
तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः।
केन विज्ञायते काकः स्वयं यदि न भाषते॥४॥
884
रूक्षस्यामधुरस्य चातिमलिनच्छायस्य धृष्टस्य च
क्षुद्रस्य क्षतिकारिणोतिचपलस्याह्लादविच्छेदिनः।
येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी
प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात्॥५॥
885
प्रत्यङ्गणं प्रतितरु प्रतिवारितीरं
काकाश्चरन्ति चलनञ्चुपुटा रटन्तः।
ना यान्ति तृप्तिमथ मण्डितपुण्डरीक-
खण्डे वसन्नहह तृप्यति राजहंसः॥६॥
886
कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
रम्येषु संचरतु चूतवनान्तरेषु।
पुंस्कोकिलस्य चरितानि करोतु काम
काकः कलध्वनिविधौ ननु काक एव॥७॥
887
किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वरः
किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठकः।
किं वा हन्त शकुन्तपालिपिकवत्कर्णामृतस्यन्दनः
काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे॥८॥
888
अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं
वेत्त्याख्याति च धिक्छुकादय इमे सर्वे पठन्तः शठाः।
मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे॥९॥
केषामप्येते।
अथ बकान्योक्तयः॥५१॥
889
नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम्।
जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानाम्॥१॥
890
एष बकः सहसैव विपन्नः
शाठ्यमहो क्व नु तद्गतमस्य।
साधु कृतान्त न कश्चिदपि त्वां
वञ्चयितुं सुशोपि समर्थः॥२॥
891
बकोट ब्रूमस्त्वां लघुनि सरसि क्वापि शफरै-
स्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचितः।
इतश्चेतश्चाभ्रंलिहलहरिहेलातरलित-
क्षितिध्रग्रासैकग्रहिलतिमिपोतः पतिरपाम्॥३॥
892
न कोकिलानामिव मञ्जुगुञ्जितं
न लब्धलास्यानि गतानि हंसवत्।
न बर्हिणानामिव चित्रपक्षता
गुणस्तथाप्यास्त बके बकव्रतम्॥४॥
893
जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-
र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न वाचः कलाः।
जीवनसत्त्ववर्धन बाह्यधवलो भ्राम्यन्सगर्वंपुन-
र्मिथ्यैवोन्नतकंधरः शठबको हंसैः सह स्पर्धते॥५॥
894
उभौ श्वेतौपक्षौचरति गगनेवारितगतिः
सदा मीनं भुङ्क्तेवसति सकलः स्थाणुशिरसि।
बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको
गुणाःस्थाने मान्या नरवर न तु स्थानरहिताः॥६॥
895
रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विव्रतं
ध्यानेनानिमिषोपभोगमनसा युक्तं करोपीदृशम्।
एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त
न्नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा॥७॥
केषामप्येते।
अथ खद्योतान्योक्तयः॥५२॥
896
जर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नृनम्।
कीटत्वमात्मतत्त्वात्खद्योतः ख्यापयन्नवति॥१॥
जयवर्धनस्य
897
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः।
अन्धं समग्रमपि कीटमणे भविष्य-
त्युन्मेषमेष्यति भवानपि दूरमेतत्॥२॥
कस्यापि।
898
अदृष्टिव्यापारं गतवति दिनानामधिपतौ
यशः शेषीभूते शशिनि गतधाम्नि ग्रहगणे।
तथान्धं संजातं जगदुपनते मेघसमये
यथामी गण्यन्ते तमसि पटवः कीटमणयः॥३॥
आनन्दवर्धनस्य।
899
घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्वत्।
कीटमणेदिनमधुना तरणिकरान्तरितसितकिरणम्॥४॥
भल्लटस्य।
अथ सिंहान्योक्तयः॥५३॥
900
एकोहमसहायोहं कृशोहमपरिच्छदः।
स्वप्नेष्येवंविधा चिन्ता मृगेन्द्रस्य न जायते॥१॥
कस्यापि।
901
मृगेन्द्रं वा मृगारि वा द्वयं व्याहरतां जनः।
तस्य द्वयमपि व्रीडा क्रीडादलितदन्तिनः॥२॥
902
मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि।
सिंहाक्रान्तं पुनर्मूढन हयैर्न च दन्तिभिः॥३॥
903
मृगैर्नष्टं शशैर्लीनं वराहैर्वलितं रुपा।
हयानां हेषितं श्रुत्वा सिंहैः पूर्ववदासितम्॥४॥
904
हरिरलसविलोचनः सहेलं
बलमवलोक्य पुनर्जगाम निद्राम्।
अधिगतपतिविक्रमास्तभीति-
र्न तु वनितास्य त्रिलोकयां चकार॥५॥
905
एकाकिनिवनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे।
सत्त्वोत्कटे मृगपतौराजेति गिरः परिणमन्ति॥६॥
केषामप्येते।
906
नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः
सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते।
तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा
तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते॥७॥
आनन्दवर्धनस्य।
907
क्षुत्क्षामोपि जरान्वितोपि शिथिलप्राणोपि कष्टां दशा-
मापन्नोपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णंतृणमत्ति मानमहतामग्रेसरः केसरी॥८॥
भर्तृहरे।
908
येनानर्गलफालकेलिदलितप्रत्यग्रकादम्बिनी-
धारावोरणिधौतधातुषु पुरा शैलेषु लीलायितम्।
सोयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेरवी-
फेन्कारैः कुपितोद्य खादति मुहुः पाणी मृगग्रामणीः॥९॥
भेरीभांकारस्य।
909
अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने।
मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः॥१२॥
शार्ङ्गधरस्य।
910
जीर्णोपि क्रमहीनोपि कृशोपि यदि केसरी \।
तथापि यूथनाथस्य शङ्कातङ्काय कल्पते॥११॥
पुष्पाकरस्य।
911
खनन्नाखुबिलं सिंहः पाषाणकलाकुलम्।
प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत्॥१२॥
912
अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेन्तरिक्षं
मा काक व्याकुलोभूस्तरुशिखरशवक्रव्यलेशानशान।
धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्र-
द्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः॥१३॥
महीपतिमण्डलीकस्य।
913
ग्रामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः
फेत्कारध्वनिमुद्गिरन्ति बहवः संभूय गोमायवः।
सोन्यः कोपि घनाघनध्वनिघनः पारीन्द्रगुञ्जारवः
शुष्यद्गण्डमलोलशुण्डमचलत्कर्णंगजैर्यः श्रुतः॥१४॥
रल्हणस्य।
914
एणः क्रीडति सूकरश्च खनति द्वीपी च गुर्वायते
क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुर्धावति।
निःशङ्कः करिपोनकस्तरुलतामुन्पोटते लीलया
हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते॥१५॥
कस्यापि।
915
रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-
न्वन्यानामवलम्बनं वनमिदं भङ्क्तुं यदुत्कण्ठसे।
दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर-
प्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्डीरवः॥१६॥
बिल्हणस्य।
916
यस्यावन्ध्यरुषः प्रतापवसतेर्नादेन धैर्यद्रुहा
शुष्यन्ति स्म मदप्रवाहसरितः सद्योपि दिग्दन्तिनाम्।
दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना
कर्षत्येव करेण केसरसटाभारं जरत्कुञ्जरः॥१७॥
कस्यापि।
917
यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोप्यन्तिकं
नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत्।
तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थली-
भृङ्गः कैसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु॥१८॥
कस्यापि।
अथ गजान्योक्तयः॥५४॥
918
नीवारप्रसवासमुष्टिकवलैर्यो वर्धितः शैशवे
पीतं येन सरोजपत्रपुटके होमावशेषं पयः।
तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं
सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः॥१॥
कस्यापि।
919
कर्णे चामरचारुकम्बुकलिकाः कण्ठे मणीनां गणः
सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्गिणी।
लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूषाविधि-
स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी॥२॥
कस्यापि।
920
केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहागि
गाहस्व शैलतटनिर्झरिणीपयांसि।
भावानुरक्तकरिणीकरलालिताङ्ग
मातङ्ग मुञ्च मृगराजरणाभिलाषम्॥३॥
आनन्दवर्धनस्य।
921
पीत यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरा-
स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः।
धिक्तस्यैव जलानि पालयतः पाथोजिनीं मथ्नतः
कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते॥४॥
922
रेवावारिणि वारणेन विपुले राजीवराजीरजः
पुञ्जापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे।
धौतं येन मृगारिरक्तमसकृद्दन्तान्तराले स्थितं
कौपं सोपि पयः पपौ इतविधेः को गोचरे नागतः॥५॥
कयोरप्येतौ।
923
तापो नापगतस्तृषापि न कृशा धौता न धूली तनोर्न
स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैरकारणमयो झंकारकोलाहलः॥६॥
लक्ष्मणसेनस्य।
924
नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः
सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः।
कष्टं सोपि कदर्थ्यते करिवरः स्फारारवैः फेरवै-
रापातालगभीरपङ्कपटलीमग्नोद्य भग्नोद्यमः॥७॥
बिल्हणस्य।
925
भो भोः करीन्द्र दिवसानि कियन्ति ताव-
दस्मिन्मरौ समतिवाहय कुत्रचित्त्वम्।
रेवाजलैर्निजकरेणुकरप्रमुक्तै-
र्भूयः शमं गमयितासि निदाघदाहम्॥८॥
गोविन्दराजस्य।
926
न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले
न पङ्के वाह्लादं व्रजति बिसभङ्गार्धशबले।
प्रगल्भप्रेमार्द्रामपि विषहते नान्यकरिणीं
स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः॥९॥
927
पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः।
प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते॥१०॥
928
घासग्रासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः
पाशग्रन्यिव्रणानामविरलमधुना देहि पङ्कानुलेपम्।
दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तहृष्य-
द्रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः॥११॥
केषामप्येते।
929
दानार्थिनो मधुकरा यदि कर्णतालै-
र्दूरीकृताः करिवरेण मदान्धबुद्ध्या।
तस्यैव गण्डयुगमण्डनहानिरेषा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति॥१२॥
कस्यापि।
930
आरामोयमनर्गलेन बलिना भग्नः समग्रो मये-
त्यन्तः संभृतहर्षवर्धितमदोदग्रंकिमुन्माद्यसि।
मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-
स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम्॥१३॥
931
गले पाशस्तीव्रश्चरणयुगले गाढनिगडो
दृढः स्कन्धे बन्धः शिरसि सृणिपातः खरतरः।
नरः स्कन्धारूढा बत मरणयोग्येपि विषये
न जानीमोत्यर्थं द्विरद वद कस्मात्तव मदः॥१४॥
932
कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा।
सोपि न पयसा लिप्तो लाघवमात्मा परं नीतः॥१५॥
933
कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते
प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात्।
उन्मज्जच्छबरीपुलिन्दललनापीनस्तनास्फालन-
स्फारीभूतमहोर्मिनिर्मलजला दूरेधुना नर्मदा॥१६॥
934
नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशोतद्घातनं
स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम्।
चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने
सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम्॥१७॥
935
पत्युर्यत्पतितावशेषकवलग्रासेन वृत्तिः कृता
पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः।
प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
यद्वन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम्॥१८॥
केषामप्येते।
936
यदि मत्तोसि मतङ्गज किममीभी रसालसरलतरुदलनैः।
हरिमनुसर खरनखरं व्यपनयति स करटकण्डूतिम्॥१९॥
वल्लभदेवस्य।
अथ हरिणान्योक्तयः॥५५॥
937
दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत्॥१॥
938
कति कति न मदोद्धताश्चरन्ति
प्रतिशिखरि प्रतिकाननं कुरङ्गाः।
क्वचिदपि पुनरुत्तमा मृगास्ते
मदयति यन्मद एव मेदिनीशान्॥२॥
939
इह किं कुरङ्गशावक केदारे कमलमञ्जरीं त्यजसि।
तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोयम॥३॥
940
छित्त्वा पाशमपास्य कूटरचनां भङ्क्त बलाद्वागुरां
पर्यन्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात्।
व्याधानां शरगोचरादतिजवेनोत्पत्य गच्छन्मृगः
कूपान्तः पतितः करोति विगुणे किं वा विधौ पौरुषम्॥४॥
941
द्रुततरमितो गच्छन्प्राणैः कुरङ्ग वियुज्यसे
किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे।
विदधति हतव्याधानां ते मनागपि नार्द्रतां
कठिनमनसामेषामेते विलोकितविभ्रमाः॥५॥
942
स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-
स्तृषार्तः सारङ्गोविरमति न खिन्नेपि मनसि।
अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी-
मभूमौ प्रत्याशा न च फलनि विघ्नं च कुरुते॥६॥
943
अल्पीयः स्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति-
र्द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः।
हे सारङ्ग मनोरमा वनभुवस्त्यक्ता विशेषार्थिना
किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः॥७॥
944
सारङ्गोन लतागृहेषु रमते नो पांसुले भूतले
नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि।
तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
शैलेन्द्रोदरकंदरासु गतधीः शृङ्गावशेषः स्थितः॥८॥
केषामप्येते।
945
वसन्त्यरण्येषु चरन्ति दुर्वां
पिबन्ति तोयान्यपरिग्रहाणि।
तथापि वध्या हरिणा नराणां
को लोकमाराधयितुं समर्थः॥९॥
मुक्तापीडस्य।
946
आः कष्टं वनवाससाम्यकृतया सिद्धाश्रमश्रद्धया
पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोसि मृत्योर्मुखम्।
यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-
स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः॥१०॥
बिल्हणस्य।
947
स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता
भङ्गप्रस्रुतदुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी।
निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथ-
स्वामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुभ्यति॥११॥
धर्मकीर्तेः।
948
सेयं स्थली नवतृणाङ्कुरजालमेत-
त्सेयं मृगीति हृदि जातमदः कुरङ्गः।
नैवं तु वेत्ति यदिहान्तरितो लताभि-
रायाति सज्जितकठोरशरः किरातः॥
१२॥
इन्द्रकवेः।
949
रोमन्थमारचय मन्थरमेत्य निद्रां
मुञ्च श्रमं तदनु संवर रे यथेच्छम्।
दूरे स पामरजनो मुनयः किलैते
निष्कारणं हरिणपोत विभेषि कस्मात्॥१३॥
धर्मवर्धनस्य।
अथ करभान्योक्तयः॥५६॥
950
वपुर्विषमसंस्थानं कर्णज्वरकरो रवः।
करभस्याशुगत्यैव छादिता दोषसंहतिः॥१॥
भल्लटस्य।
951
कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलंकृतां
मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम्।
स्मरति करभो यद्वृक्षाणां चरन्मरुजन्मनां
परिचयरतिः सा दुर्वारा न सा गुणवैरिता॥२॥
जीवनायकस्य।
952
यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली
स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलग्ना।
तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा
यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि॥३॥
953
करभदयिते योसौ पीलुस्त्वया मधुलुब्धया
व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः।
चलकिसलयैः सोपीदानीं प्ररूढनवाङ्कुरः
करभदयितावृन्दैरन्यैः सुखं परिभुज्यते॥४॥
954
चिन्तां मुञ्च गृहाण पल्लवमिदं प्रक्षस्य शालस्य वा
गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब।
जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो
रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः॥५॥
955
यस्यासीन्नवपीलुपत्त्रवदरमासोपि संतुष्टये
दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि।
सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां
मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु॥६॥
956
पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ
शाखाग्रंयदखादि चारु करभीवक्त्रार्पितं प्रेमतः।
तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं
प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा॥७॥
957
दुष्प्रापमम्बु पवनः परुषोतितापी
छायाभृतो न तरवः फलभारनम्राः।
हृत्थं सखे करभ वच्मि भवन्तमुच्चैः
का संगतिः खलु मरौ रमणीयतायाः॥८॥
958
अस्याननस्य भवतः खलु कोटिरेषा
कष्टारिका यदि भवेदविशीर्णपर्णा।
योग्या कथं करभ कल्पतरोर्लताया-
स्ते पल्लवा विमलविद्रुमभङ्गभाजः॥९॥
959
दासेरको रसत्येष युक्तं भारेधिरोहति।
उत्तार्यमाणेपि पुनर्यत्तत्र किमु कुर्महे॥१०॥
केषामप्येते।
960
करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
मधु वनगतं तस्यालाभे विरौषि किमुत्सुका।
कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरै-
र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा॥११॥
भगवतो व्यासस्य।
अथ वृषभान्योक्तयः॥५७॥
961
नास्य भारग्रहे शक्तिर्न च वाहुगुणः कृतौ।
देवागारबलीवर्दस्तथाप्यश्नति शोभनम्॥१॥
962
अनसि सीदति सैकतवर्त्मनि
प्रचुरभारभरक्षपितौक्षके।
गुरुभरोद्धरणोद्धुरकंधरं
स्मरति सारथिरद्य धुरंधरम्॥२॥
963
मार्गे कर्दमदुर्गमे जलभूते गर्ताशतैराकुले
खिन्ने शाकटिके भरेतिविषमे दूरं गते रोधसि।
शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-
मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम्॥३॥
964
दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुरः
कुक्षिश्चन्द्रकिता वपुः कुसुमितं सव्यच्युतं चेष्टितम्।
अस्मिन्दुष्टवृषे वृषाग्रिमगुणग्रामानभिज्ञात्मनो
ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति॥४॥
965
कासांचिद्धवलश्विरं निवसतां चित्तेपरासां पुन-
र्नीलो वा कपिलोथवा वरवृषो रक्तोथवा मेचकः।
ग्रामीणैरवधीरितोपि शिथिलस्कन्धोप्यनूर्ध्वश्रवाः
स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः॥५॥
श्रीचन्द्रस्य।
966
गुरुर्नायं भारः क्वचिदपि न पन्थाः स्थपुटितो
न ते कुण्ठा शक्तिर्वहनमपि तेङ्गे न विकलग।
इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः॥६॥
967
न ध्वानं कुरुषे न यासि विकटं नोच्चैर्वहस्याननं
दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे।
किं तु त्वं वसुधाकधवल स्कन्धाधिरूढे भरे
तीराण्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन्वीक्ष्यसे॥७॥
968
यस्यादौ व्रजमण्डनस्य वहतो गुर्वी धुरं धैर्यतो
धौरेयैः प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि।
नस्यैव श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं
द्रङ्गेत्रैव जरावसादिततनोर्गोः पुण्यमुद्घोष्यते॥८॥
969
एतानि बालधवल प्रविहाय कामं
गोष्ठाङ्गणे तरलवर्णकचेष्टितानि।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
नेतव्यतामुपगतोस्ति तवैष भारः॥९॥
970
न खनति खुरैः क्षोणीपृष्ठं न नर्दति सादरं
प्रकृतिपरुषं प्रेक्ष्याप्यये न कुप्यति गोचरम्।
वहति च धुरं धुर्यो धैर्यादनुद्धतकंधरो
जगति गुणिनः कार्यौदार्यात्परानतिशेरते॥१०॥
केषामप्येते।
अथ सामान्यवृक्षान्योक्तयः॥५८॥
971
किं जातोसि चतुष्पथे घनतरं छन्नोसि किं छायया
छन्नश्चेत्फलितोसि किं फलभरैराद्योसि किं संनतः।
हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्रेष्टितैः॥१॥
भवन्तज्ञानवर्मणः।
972
छायासुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः
कीरैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः।
विस्रब्धं मधुपैर्निपीतकुसुमः साध्यः स एकस्तरु-
र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोन्ये द्रुमाः॥२॥
बीजकस्य।
973
शाखाशतचितवियतः सन्ति कियन्तो न कानने तरवः।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः॥३॥
श्रीवैद्यभानुपण्डितम्य।
974
गतास्ते विस्तीर्णस्तबकभरमौरभ्यलहरी-
परीतव्योमानः प्रकृतिगुरवः केपि तरवः।
इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-
दमी वल्मीकास्ते भुजगकुललीलावसतयः॥४॥
975
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः।
मार्गस्थस्तरुरेकः कियतां संतापमपनयति॥५॥
प्रत्यग्रैः पत्रनिचयैस्तरूर्यैरेव शोभितः।
जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः॥६॥
976
रोलम्बैर्न विलम्बितं विघटितं धूमाकुलैः कोकिलै-
मयूरैश्चलितं पुरैव रभसा कीरैरधीरैर्गतम्।
एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः
सोढः को न विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः॥७॥
977
पत्रपुष्पफलच्छायामृलवल्कलदारुभिः।
धन्या महीरुहो येभ्यो निराशा यान्ति नार्थिनः॥८॥
978
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः।
मार्गद्रुमा महान्तश्च परेषामेव भूतये॥९॥
979
भुक्तं स्वादु फलं कृतं च शयनं शाखामजैः पल्लवै-
स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतभ्रमैः।
विश्रान्ताः सुचिरं परं सुमनसः प्रीतिः किमत्रोच्यते
त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम्॥१०॥
केषामप्येते।
980
भुक्तानि यैस्तव फलानि पचेलिमानि
क्रोडस्थितैरहह वीतभयैः प्रसुप्तम्।
ते पक्षिणो जलरयेण विकृष्यमाणं
पश्यन्ति पादप भवन्तममी तरस्थाः॥११॥
श्रीमहादेवस्य।
981
विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः
खगैरप्युट्टीनं रथचरणहंसप्रभृतिभिः।
दशां दीनां नीते सरसि विषमग्रीष्मदिवसः
कुलीनत्वादास्ते तटरुहतरुः कोपि तदपि॥१२॥
नागपैयस्य।
982
शाखोटशाल्मलिपलाशकरीरकाद्याः
गुण्वन्तु पुण्यनिलयो यदसौ वसन्तः।
युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं
सौरभ्यसंभवविधिस्तु विधेरधीनः॥१३॥
गाङ्गदेवस्य।
983
पान्थाधार इति द्विजाश्रय इति श्लाध्यस्तरूणामिति
स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति।
पर्यालोच्य महातरो तव घनच्छायां वयं संभिता-
स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः॥१४॥
984
हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवः।
हन्त सहन्ते यावत्तावद्दुम कुरु परोपकृतिम्॥१५॥
985
ये पूर्वं परिपालिताः फलभरच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते सांप्रतम्।
एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि॥१६॥
986
वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
जातोसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः।
नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगै-
स्तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते॥१७॥
केषामप्येते ।
अथ वृक्षविशेषान्योक्तयः॥५९॥
तत्र पूर्वं कल्पवृक्षः।
987
कल्पद्रुमोपि कालेन भवेद्यदि फलप्रदः।
को विशेषस्तदा तस्य वन्यैरन्यैर्महीरुहैः॥१॥
कस्यापि।
988
स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः।
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोपि द्रुमः॥२॥
रल्हणस्य।
अथ पारिजातः।
989
परिमलसुरभितनभसो बहवः कनकाद्रिपरिसरे तरवः।
तदपि सुराणां चेतसि निवसितमिव पारिजातेन॥३॥
श्रीवल्लभदेवस्य।
अथ चन्दनम्।
990
सन्त्येव गिलिताकाशा महीयांसो महीरुहाः।
तथापि जनताचित्तानन्दनश्चन्दनद्रुमः॥४॥
हरिगणस्य।
991
कान्ताकेलिं कलयतु तरुः कोपि कश्चित्प्रभूणा-
मत्यानन्दं जनयतु फलैः कोपि लोकान्धिनोतु।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन॥५॥
शार्ङ्गधरस्य।
992
केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
केप्यन्ये फलधारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः।
धन्योयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम्॥६॥
श्रीपुष्पाकरदेवस्य।
993
भ्रातश्चन्दन किं ब्रवीमि विकटस्फूर्जत्कणाभीषणा
गन्धस्यापि महाविषाः फणभूतो गुप्यै यदेते कृताः।
दैवात्पुष्पफलान्वितो यदि भवानत्राभविष्यत्तदा
नो जाने किमकल्पयिप्यदधिकं रक्षार्थमस्यात्मनः॥७॥
श्रीभोजदेवस्य।
994
एतैर्दक्षिणगन्धवाहवलनैः श्रीखण्ड किं सौरभं
ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते।
माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदरा-
दुद्धाम्यद्दिपगण्डमण्डलतलादाकृष्य हृष्यन्मनाः॥८॥
995
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः।
निजवपुषैव परेषां तथापि संतापमपनयति॥९॥
996
धिक्चेष्टितानि परशो परशोचनीय-
बालप्रवालमलयाद्रिरुहद्रुहस्ते।
निर्भिद्यमानहृदयोपि महाप्रभावः
स त्वन्मुखं पुनरभीः मुरभीकरोति॥१०॥
997
वासः शैलशिलान्तरेषु सहजः सङ्गो भुजंगैः सह
प्रेङ्खत्क्षारपयोधिविचिभिरभूदुद्भूतिसेकक्रिया।
जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां
कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम्॥११॥
998
आमोदेस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणाः
साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः॥१२॥
999
मूलं भुजंगैः शिखरं विहंगेः
शाखाः प्लवंगैः कुसुमानि भृङ्गैः।
नास्त्येव तच्चन्दनपादपस्य
यन्नाभितं सत्त्वभरैः समन्तात्॥१३॥
केषामप्येते।
अथागुरुः।
1000
अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये।
दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेपि॥१४॥
वल्लभदेवस्य।
1001
आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः
पाथोद प्रशमं नयागुरुतरोरेतस्य दाहज्वरम्।
ब्रूमस्त्वामुपकारकातर गतप्रायाः पयः संपदो
दग्धोप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति॥१५॥
अथ चम्पकः।
1002
अन्तः प्रतप्तमरुसैकतदह्यमान-
मूलस्य चम्पकतरोः क्व विकासचिन्ता।
प्रायो भवत्यनुचितस्थितिदेशभाजां
श्रेयः स्वजीवपरिपालनमात्रमेव॥१६॥
धर्मवर्धनस्य।
1003
केनापि चम्पकतरो बत रोपितोसि
कुग्रामपामरजनान्तिकवाटिकायाम्।
यत्र प्ररूढनत्रशाकविवृद्धलोभा-
द्गोभग्रवाटघटनोचितपल्लवोसि॥१७॥
विज्जाकाया।
अथाशोकः।
1004
किं ते नम्रतया किमुन्नततया किं वा घनच्छायया
किं वा पलवलीलया किमनया चाशोक पुष्पश्रिया।
यत्त्वन्मूलविषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
न स्वादूनि मृदुनि खादति फलान्यकण्ठमुत्कण्ठितः॥१८॥
श्रीभोजदेवस्य।
1005
मृदूनां स्वादूनां लघुरपि फलानां न विभव-
स्तवाशोक स्तोकः स्तबकमहिमा सोप्यसुरभिः।
यदेतन्नोतन्त्रीकरचरणलावण्यसुभगं
पवालं बालं स्यात्तरुषु सकलङ्कः किमपरः॥१९॥
सरस्वतीकुटुम्बस्य।
अथ मालती।
1006
किं मालतीकुसुम ताम्यसि निष्ठुरेण
केनापि यत्कील विलूनमितो लताग्रात्।
लोकोत्तरेण विलसद्गुणगौरवेण
को नामुना शिरसि नाम करिष्यति लाम्॥२०॥
नम्मैयम्य।
1007
श्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं
न चान्येभ्यो रूपे भवति कुसुमेभ्योधिकतरम्।
प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण-
प्रवीणैरामोदैर्भवति जगतो मौलिनिलयम्॥२१॥
कस्यापि।
1008
भवति हृदयहारी कोपि कस्यापि हेतु-
र्न खलु गुणविशेषः प्रेमबन्धोपयोगी।
किसलयितवनान्ते कोकिलालापरम्ये
विकसति न वसन्ते मालतीकोत्र हेतुः॥२२॥
कस्यापि।
1009
कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः।
तथापि भ्रमरभ्रान्तिं हरत्येकैव मालती॥२३॥
कस्यापि।
अथ मल्लिका।
1010
न च गन्धवहेन चुम्बिता
न च पीता मधुपेन मल्लिका।
पिहितैव कठोरशाखया
परिणामस्य जगाम गोचरम्॥२४॥
अथ केतकी।
1011
रोलम्बस्य चिराय केतकिपरिष्वङ्गेष्वभङ्गो रसः
सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम्।
जानात्येव मिथोनुरागमनयोः सर्वोपि नैसर्गिकं
प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः॥२५॥
कस्यापि।
1012
पत्राणि कण्टकशतैः परिवेष्टितानि
वार्तापि नास्ति मधुनो रजसान्धकारः।
आमोदमात्ररसिकेन मधुव्रतेन
नालोकितानि तव केतकि दूषणानि॥२६॥
कस्यापि।
1013
एतासु केतकि लतासु विकासिनीषु
सौभाग्यमद्भुततरं भवती बिभर्ति।
यत्कण्टकैर्व्यथितमात्मवपुर्न जानं-
स्त्वामेव सेवितुमुपक्रमते द्विरेफः॥२७॥
श्रीमहादेवस्य।
अथ पाटला।
1014
पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः।
सैवेयमिति यथाभूत्प्रतीतेिरस्यान्यपुष्पेषु॥२८॥
शार्ङ्गधरस्य।
अथ सहकारः।
1015
गाता कोकिल एव ज्ञाता च रसाल एव नियतमिदम्।
यः पञ्चममुद्गायति यस्यास्थिषु पुलकमुकुलानि॥२९॥
कस्यापि।
1016
न तादृक्कर्पूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तत्र भवति यादृक्परिमलः।
परं त्वेका दोषस्त्वयि खलु रसाधिकगुणे
पिके वा काके वा गुरुलघुविशेषं न मनुषे॥३०॥
कस्यापि।
1017
उत्तंसकौतुकरसेन विलासिनीनां
लूनानि यस्य न नखैरपि पल्लवानि।
उद्यानमण्डनतरो सहकार सत्व-
मङ्गारकारकरगोचरतां गतोसि॥३१॥
उत्पलराजस्य।
1018
कति पल्लविता न पुष्पिता वा
तरवः सन्ति समन्ततो वसन्ते।
जगतीविजये तु पुष्पकेतोः
सहकारी सहकार एक एव॥३२॥
कस्यापि।
1019
यो दृष्टः स्फुटदस्थिसंपुटशान्निर्यत्प्रवालाङ्कुरो
दैवात्स द्विलादिकक्रमवशादारूढशाखाशतः।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः
सोत्कर्षं फलितो भृशं च नमितः कोप्येष चूतद्रुमः॥३३॥
हेतुकस्य।
1020
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः
प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम्।
ये वीक्ष्य स्मितवक्रमुद्रतमहासंतोषमुल्लासित-
स्फारोत्कण्ठमकुण्डितक्रमममी धावन्ति पान्थव्रजाः॥३४॥
भट्टनायकस्य।
1021
छाया फलानि मुकुलानि च यस्य विश्व-
माहादयन्ति सहकारमहीरुहस्य।
आमृष्य तम्य शिखया नवपल्लवानि
मथ्नासि रे दवहुताश हताश कष्टम्॥३५॥
कस्यापि।
1022
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता
रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत्।
सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते
लोके येन रसाल साल नितरां त्यक्त्वा गुणांस्तौमि ते॥३६॥
शार्ङ्गधरस्य।
1023
यावत्फलोदयमुखः सहकार जात-
स्तावच्च कण्टककुलैः परिवेष्टितोसि।
छायापि ते न सुलभा फलमस्तु दूरे
त्वं निष्फलो वरमहो सुखसेवनीयः॥३७॥
कस्यापि।
अथ पनसः।
1024
गरीयःसौरभ्ये रसपरिचये नार्हति सुधा
सिता मृद्वीकापि प्रथिमनि निमग्नः फलभरः।
परार्थे कोशश्रीरिति पुलकितः कण्टकमिषा-
दहो ते चारित्रं पनस मनसः कस्य न मुदे॥३८॥
कस्यापि।
अथ कदली।
1025
तालीतरोरनुपकारि फलं फलित्वा
लज्जावशादुचित एव विनाशयोगः।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
प्राणान्निजाञ्झगिति यत्कदली जहाति॥३९॥
कस्यापि।
अथ द्राक्षा।
1026
यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम्।
असमञ्जसं हि दृष्ट्वा तथापि परितप्यते चेतः॥४०॥
कस्यापि।
1027
दासेरकस्य दासीयं बदरी यदि रोचते।
एतावतैव किं द्राक्षा न साक्षादमृतप्रदा॥४१॥
कर्पूरकवे।
अथ दाडिमम्।
1028
आ पुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह।
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनातिवन्द्यो भवान्॥४२॥
अथ नालिकेरः।
1029
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नालिकेरा नराणाम्।
ददति जलमनल्पास्वादमाजीवितान्तं
नहि कृतमुपकारं साधवो विस्मरन्ति॥४३॥
कस्यापि।
अथ तालः।
1030
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
हूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः॥४४॥
कस्यापि।
अथ भूर्जः।
1031
दौर्जन्यमात्मनि परं प्रथितं विधात्रा
भृर्जद्रुमस्य विफलत्वसमर्पणेन।
किं चर्मभिर्निशितशस्त्रशतावकृत्तै-
राशां न पूरयति सोर्थिपरंपराणाम्॥४५॥
भदृगांविन्दराजस्य।
1032
कुर्वन्तु नाम जनतोपकृतिं प्रसून-
च्छायाफलैरविकलैः सुलभैर्द्रुमास्ते।
सोढास्तु कर्तनरुजः पररक्षणार्थ-
मेकेन भूर्जतरुणा करुणापरेण॥४६॥
श्रीवैद्यभानुपण्डितस्य।
अथाश्वत्थः।
1033
वर्धतेः सेवितैः किं तैः सत्यश्वत्थेन्यपादपैः।
वर्धितो नरकाद्रक्षेत्स्पृष्टोरिष्टानि हन्ति यः॥४७॥
माधवमागधस्य।
अथ न्यग्रोधः।
1034
विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
न्यग्रोध क्रोधगन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम्।
जल्पोप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली
पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलार्द्धि किमन्यत्॥४८॥
कस्यापि।
1035
महानरुर्वा भवति समूलो वा विनश्यति।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः॥४९॥
कस्यापि।
अथ मधूकः।
1036
तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे
तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः।
आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना
स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः॥५०॥
कस्यापि।
1037
मूलादेव फलस्य विस्तृतिभरश्छायाप्यनन्यादृशी
ते यस्य प्रसवाः सुमञ्जुलरसैरानन्दयन्ति प्रजाः।
स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै-
र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम्॥५१॥
कस्यापि।
अथ शाल्मलिः।
1038
हंसाः पद्मवनाशया मधुलिहः सौरभ्यगन्धाशया
पान्थाः स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया।
दूरादुन्नतपुष्परागनिकरैर्निःसारमिथ्योन्नते
रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः॥५२॥
कस्यापि।
1039
कायः कण्टकभूषितो न च घनच्छायाकृतः पल्लवाः
पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी।
किं ब्रूमः फलभारमस्य यदुपन्यासेपि लज्जामहे
तद्भोःकेन गुणेन शाल्मलितरो जातोसि सीमद्रुमः॥५३॥
कस्यापि।
अथ निम्बः।
1040
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते।
यानि संजातपाकानि काका निःशेषयन्त्यमी॥५४॥
1041
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः॥५५॥
कयोर्प्येतौ।
अथ बुब्बूलः।
1042
गात्रं कण्टकसंकटं प्रविरलच्छायाभूतः पल्लवा
निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम्।
बुब्बूलद्रुम मूलमेति न जनस्तत्तावदास्तामहो
अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे॥५६॥
अथ खदिरः।
1043
चन्दने विषधरान्सहामहे
वस्तु सुन्दरमगुप्तिमत्कुतः।
रक्षितुं वद किमात्मसौष्ठवं
वर्धिताः खदिर कण्टकास्त्वया॥५७॥
भल्लटस्थ।
1044
पदं तदिह नास्ति यन्नखदिरैः खरैरावृतं
न तेपि खदिरा न ये कुटिलकण्टकैरावृताः।
न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद
स्तदुज्झत वृथा स्थिति बत सहध्वमध्वश्रमग्॥५८॥
कस्यापि।
अथ किंशुकः।
1045
किंशुकाद्गच्छ मा तिष्ठशुक भाविफलाशया।
बाह्यरङ्गप्रसङ्गेन के के नानेन वञ्चिताः॥५९॥
कस्यापि।
अथ शाखोटः।
1046
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटक
वैराग्यादिव वृक्ष साधु विदितं कस्मादिदं भाषसे।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे॥६॥
कस्यापि।
अथ पीलुः।
1047
धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ
क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं भुज्यते।
कि तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्द्रुमै -
र्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते॥६१॥
शक्तिकुमारस्य।
अथ करीरः।
1048
फलं दूरतरेप्यास्तां पुष्णासि कुसुमैर्जनान्।
इतरे तरवो मन्ये करीर तव किंकराः॥६२॥
1049
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः।
येन वृद्धिं समासाद्य न कृतः पत्रसंग्रहः॥६३॥
अथ बिल्वः।
1050
आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहा-
मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि।
किंतु श्रीफलता तत्रैव जयिनी मालूर दिङ्गण्डले
यस्यैतानि फलानि यौवनवनीवक्षोजलक्ष्मीगृहाः॥६४॥
कस्यापि।
अथ शालिः।
1051
शाखासंततिसंनिरुद्धनभसो भूयांस एवावनौ
विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम्।
किंतु द्वित्रिदलैरलंकृततनोः शालेः स्तुमस्तुङ्गतां
दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः॥६५॥
नम्मैयस्य।
अक्षुः।
1052
परार्थे यः पीडामनुभवति भङ्गेपि मधुरो
यदीयः सर्वेषामिह खलु विकारोप्यभिमतः।
न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभुवः॥६६॥
इन्दुराजस्य।
1053
मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थिनिचितं
न संतप्तः कोपि क्षणमपि भजेन्मूलमभितः।
फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत-
स्तदिक्षो नो युक्तं विहितमितरैर्यन्त्रदलनम्॥६७॥
कस्यापि।
अथ कर्पासः।
1054
श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि।
मुक्ताफलानि तरुणीकुचकलशेषु सुष्ठु विलसन्ति॥६८॥
1055
निष्पेषोत्थमहाव्यथापरतरं प्राप्तं तुलारोहणं
ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा।
मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः
कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम्॥६९॥
केषामप्येते।
अथ शणः।
1056
भूर्जः परोपकृतये निजकवचविकर्तनं सहते।
परबन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक्॥७०॥
वल्लभदेवस्य।
अथ कण्टकारिका।
1057
उचितं नाम नारङ्ग्यां केतक्यामपि कण्टकाः।
रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके॥७१॥
कस्यापि।
अथ धत्तूरः।
1058
महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम्।
तनोति त्वत्सेवां ननु कनकवृक्ष त्वदपरः
परस्तत्को नु स्याद्यदि न सुलभीभावमभजः॥७२॥
प्रह्लादनस्य।
अथ तृणानि।
1059
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि-
र्धन्योसौ नितरामुलूपविटपी नद्यास्तटेवस्थितः।
एवं यः कृतबुरुद्धिद्धतजलव्यालोलवीचीवशा-
न्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि वा॥७३॥
राणकस्य।
1060
रूढस्य सिन्धुतटमनु तस्य तृणस्यापि जन्म कल्याणम्।
यत्सलिलमज्जदाकुलजनस्य हस्तावलम्बनं भवति॥७४॥
वल्लभदेवस्य।
अथ ताम्बूलवल्ली।
1061
वल्लीनां कति न स्फुरन्ति परितः पत्राणि किं तैरिह
स्निग्धैरप्यनिकोमलैरपि निजामेवाश्रयद्भिः श्रियम्।
तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रता-
न्यान्सूते नवनागरीप्रियतमांस्तांम्बूलवल्ली छदान्॥७५॥
कस्यापि।
1062
किं वीरुधो भुवि न सन्ति सहस्रसंख्या
यासां दलानि न परोपकृतिं भजन्ति।
एकैव वल्लिषु विराजति नागवल्ली
या नागरीवदनचन्द्रमलंकरोति॥७६॥
कस्यापि।
अथ तुम्बी।
1063
सर्वास्तुम्व्यःसमकटुरसास्तुम्बिवल्लीप्रसूता-
स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति।
शब्दायन्तं सरसमपराः शुष्ककाष्ठे निषण्णा-
स्तन्मध्येन्या ज्वलितहृदयाः शोणितं संपिबन्ति॥७७॥
कस्यापि।
अथ पर्वतान्योक्तयः॥६०॥
1064
विन्ध्यमन्दरसुमेरुभूभृतां
यत्पतिस्तुहिनपर्वतोभवत्।
ईश्वरश्वशुरता प्रभावत-
स्तद्ध्रुवं जगति जृम्भते यशः॥१॥
शार्ङ्गधरस्य।
1065
ये संतोष सुखप्रबुद्धमनसस्तेषामभिन्नो मृदो
येप्यन्ये धनलोभसंकुलधियस्तेषां तु दूरे नृणाम्।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते॥२॥
विद्यापते।
1066
आचक्ष्महे बत किमद्यतनीमवस्थां
तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य।
यत्रैव सप्त मुनयस्तपसा निषेदुः
सोयं विलासवसतिः पिशिताशनानाम्॥३॥
कस्यापि।
1067
मन्यामहे मलयमेव यदाश्रयेण
शाखोटनिम्बकुटजा अपि चन्दनन्ति।
किं तेन हेमगिरिणा रजताद्रिणा वा
यस्याश्रिताश्चतरवस्तरवस्त एव॥४॥
कस्यापि।
1068
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि स लेभे जलनिधेः।
त्वया किं वा लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यदयमदयं रत्ननिलयः॥५॥
कस्यापि।
1069
शक्रादरक्षि यदि पक्षयुगं तथापि
मैनाक सन्ति तव नेह गतागतानि।
निःसत्त्वता च निरपत्रपता च किंतु
पाथोनिधौ निपतता भवतार्जिता च॥
कस्यापि।
1070
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमा-
दस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोचलः।
को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुन-
र्यातंयः कुरुते भवानिव स दुष्प्रापोस्ति पृथ्वीतले॥७॥
कस्यापि।
1071
रोहणाचल शैलेषु कस्तुलां कलयेत्तव।
यस्य पाषाणखण्डानि मण्डनानि महीभृताम्॥८॥
प्रह्लादनस्य।
1072
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम्।
हंहो रोहण किंतु याचकचमूनिःशङ्कटङ्कक्षति-
क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान्॥९॥
कस्यापि।
1073
नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः
शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमित्र तुहिनं दिङ्मुखेषु क्षिपन्तः।
येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-
माकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौघः॥१०॥
कस्यापि।
अथागस्त्यान्योक्तयः॥६१॥
1074
कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्या पुनः
क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः।
भोः कुम्भोद्भव मुच्यतांजलनिधिः स्वस्त्यस्तु ते सांप्रतं
निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति॥ १॥
कस्यापि।
1075
अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः।
स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः॥२॥
कस्यापि।
1076
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत्।
ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम्॥३॥
शार्ङ्गधरस्य।
अथ समुद्रान्योक्तयः॥६२॥
1077
नावज्ञानादवैदग्ध्यादुदधेर्महिमैव सः।
यत्तीरपङ्कमग्नानि महारत्नानि शेरते॥१॥
1078
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः।
तदपि पतनभीतभूधररक्षायां दीक्षितो जलधिः॥२॥
1079
यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन्।
तथापि जानुदघ्नोयमिति चेतसि मा कृथाः॥३॥
1080
रत्नैरापूरितस्यापि मदलेशोस्ति नाम्बुधेः।
मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः॥४॥
1081
अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम्।
दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम्॥५॥
केषामप्येते।
1082
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिरेषा।
पातं मया सकलमेव फलं पयोचे-
र्यद्दारुणैर्जलचरैर्न विदारितोस्मि॥६॥
इन्द्रकवे।
1083
आदाय वारि परितः सरितां मुखेभ्यः
कि तावदर्जितमनेन दुरर्णवेन।
क्षारीकृतं च वडवावदने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च॥७॥
श्रीशुकस्य।
1084
ग्रावाणी मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौधाः सिकताः प्रवाललतिकाः शैवालमम्भः सुधा।
नीरे कल्पमहीरुहाः किमपरं नाम्नापि रत्नाकरो
दूरे कर्णरसायनं निकटतस्तुष्णापि नो शाम्यति॥८॥
कस्यापि।
1085
एतस्मादमृतं सुरैः शतमखेनोच्चैः श्रवाः सद्गुणः
कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता।
इत्यादिप्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोपि क्वचित्॥९॥
कस्यापि।
1086
संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः
सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम्।
स्वच्छन्देन तिमिंगिलान्निजकुलग्रासं मुहुः कुर्वतो
यत्ते वारयितुं निजेपि विषये न स्वागिता विद्यते॥१०॥
कस्यापि।
1087
हेलोल्लासितकल्लोल धिक्ते सागर गर्जितम्।
तव तीरे तृषाक्रान्तः पान्थः पृच्छति कूपिकाम्॥११॥
कस्यापि।
1088
तृषं धरायाः शमयत्यशेषं
यः सोम्बुदो गर्जति गर्जतूच्चैः।
यस्त्वेककस्यापि न हन्ति तृष्यां
स किं वृथा गर्जति निस्त्रपोब्धिः॥१२॥
कस्यापि।
1089
कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा
क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि।
एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्यद्विधिः
किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्रेष्टितैः॥१३॥
करयापि
1090
यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत्पिधत्म धरित्रीम।
धिक्सर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारा-
स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोसि॥१४॥
गौडाभिनन्दस्य।
1091
अयं वारामेको निलय इति रत्नाकर इति
श्रितोस्माभिस्तृष्णातरलित मनोभिर्जलनिधिः।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥१५॥
मालवरुद्रम्य।
1092
चपलतरतरंगैर्द्वरमुन्सारितोपि
प्रथयति तव कीर्ति दक्षिणावर्तशङ्खः।
परिगणय पयोधे पद्मनाभार्घयोग्यं
तत्र निकटनिषण्णैः क्षुल्लकैः श्लाघ्यता का॥१६॥
कस्यापि।
1093
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनः शिखरिपत्रिणः शेरते।
इतोपि वडवानलः सह समस्तसंवर्तकै-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः॥१७॥
भर्तृहरेः।
1094
द्यामारोहति वाञ्छति स्थगयितुं तेजोपि तेजस्विना-
मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः।
कांश्द्द्रागुपजीव्य तोयत्रुलकान्सिन्धोर्भवत्संनिधेः
पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित्॥१८॥
कस्यापि।
1095
अये वारां राशे कुलिशकरकोपप्रतिभया-
दयं पक्षप्रेम्णा गिरिपरिवढत्वामुपगतः।
त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्कं ग्लपयति ततः कोस्य शरणम्॥१९॥
कस्यापि।
1096
किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-
त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीरपोताकृतिः।
मैनाकोपि गभीरनीरविलसत्पाठीन पृष्ठोल्लस-
च्छैवालाङ्करकोटिकोटरकुटीकुह्युन्तरे निर्वृतः॥२०॥
1097
तावत्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषै-
स्तावद्भिः परिवारिता पृथुतरैर्द्वीपैःसमन्तादियम्।
यस्य स्फारफणामणौ निलयिनी तिर्यक्फणालंकृतिः
शेषः सोप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः॥२१॥
रत्नान्योक्तयः॥६३॥
1098
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम्।
येन पाषाणखण्डस्य मौल्यमल्पं वसुंधरा॥१॥
1099
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः।
करोति तत्र किं नाम नारीनखविलेखनम्॥२॥
1100
सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम्।
उद्गारे तु विशेषोस्ति तयोरमुतवह्निजः॥३॥
1101
स्फटिकस्य गुणो योसौ स एवायाति दोषताम्।
धत्ते स्वच्छतया छायां यतो मलवतामपि॥४॥
1102
सुधाकरकरस्पर्शाद्वहिर्द्रवसि सर्वतः।
चन्द्रकान्तमणे तेन्तर्मृदुत्वं लोकविश्रुतम्॥५॥
1103
वपुः परीणाहगुणेन तेभ्यो
यशस्विनः किं मणयो भवन्ति।
तथापि चूडासु महीपतीनां
त एव खेलन्ति न गण्डशैलाः॥६॥
1104
त्यज निजगुणाभिमानं मरकत पतितोसि पामरे वणिज।
काचमणेरपि मौल्यं लभसे यत्नादपि ते श्रेयः॥७॥
1105
भ्रष्टं नृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा।
विधिविलसितेन रत्नं जनचरणविडम्बनां सहते॥८॥
1106
आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं
क्षिप्तंयद्धतनीरसत्वकुपितेनेति व्यथां मा कृथाः।
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-
दन्तः सत्त्वनिरूहणाय सहसा चूर्णीकृतं नाश्मना॥९॥
1107
उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः
साकाङ्कं लुठितो न च स्तनतटे लीलावतीनां क्वचित्।
कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद्विशीर्णोभव-
त्खेलब्यालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः॥१०॥
केषामप्येते।
1108
पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्त्र पाश्चात्यसंधै-
रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम्।
यद्येतस्मिन्कथंचित्कथयति कृपणः कोपि मालिन्यमन्यः
प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते॥११॥
अच्युतस्य।
1109
ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययः खण्डकं
ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम्।
नो जाने किमभावतः किमथवा दैवादहो श्रूयते
नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः॥१२॥
कस्यापि।
1110
केनासीनः सुखमकरुणेनाकरादुद्धृतस्त्वं
विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे।
यस्मिन्त्रित्तव्ययभरसहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोपि॥१३॥
शर्ववर्मण।
1111
न श्वेतांशुवदन्धकारदलनादुद्द्योतिता रोदसी
नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः।
नो चिन्तामणिरत्नचिभुवने छिन्ना विपच्चार्थिनां
भूत्वा तस्य हरेरुरः प्रणयिना किं कौस्तुभेनार्जितम्॥१४॥
कस्यापि।
1112
यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः
पर्यन्तेषु लुठन्ति निर्मलरुचःस्पष्टाट्टहासा इत्र।
तत्तस्यैव परिक्षयो जलनिधेर्द्वीपान्तरालम्बिनो
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः॥१५॥
कस्यापि।
1113
सिन्धुस्तरंगैरुपलाल्य फेना-
न्रत्नानि पङ्कैर्मलिनीकरोति !
तथापि तान्येव महीपतीनां
किरीटकोटीषु पदं लभन्ते॥१६॥
कस्यापि
अथ शङ्खान्योक्तयः ॥६४॥
1114
उच्चैरुच्चर रुचिरं झिल्लि वर्त्मनि तरुं समारुह्य।
दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः॥१॥
कस्यापि।
1115
कीटगृहं कुटिलोन्तः कठिनः क्षाराम्बुसंभवः शुन्यः।
शङ्खः श्रीपतिनिकटे केन गुणेन स्थिति लेभे॥२॥
शार्ङ्गधरस्य।
1116
अन्तः कुटिलतां बिभ्रच्छङ्खःस खलु निष्ठुरः।
हुंकरोति यदाध्मानस्तदेव बहु गण्यताम्॥३॥
कस्यापि।
1117
तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः
सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि।
धिक्कर्माणि स एव कम्बुरधुना पाषण्डिकान्ताकरे
विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्षेण कुक्षिभरिः॥४॥
कस्यापि।
1118
सर्वाशापरिपुरि हुंकृतिमदो जन्मापि दुग्धोदधे-
र्गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः॥
श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि य-
त्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे॥५॥
कस्यापि।
1119
शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः।
एकः कोपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते॥६॥
कविरत्नस्य।
1120
क्व नाम्भोधौ जन्म क्व च वपुरिदं कुन्दधवलं
क्व चावासस्थानं कृतमहह विष्णोः करतले।
क्व नीचानामास्ये परिणतिरियं चुम्बनविधा-
वितीवेदं शङ्खः करुणकरुणं रोदिति मुहुः॥७॥
अथ नद्यन्योक्तयः॥६५॥
1121
यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति।
तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा॥१॥
1122
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम्।
अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा
भ्रातः शोण न सोस्ति यो न हसति त्वत्संपदां विप्लवान्॥२॥
1123
छायां प्रकुर्वन्ति नमन्ति पुष्पैः
फलानि यच्छन्ति तटद्रुमा ये।
उन्मूल्य तानेव नदी प्रयाति
तरंगिणां क्व प्रतिपन्नमस्ति॥३॥
1124
कतिपयदिवसस्थायी पूरो दूरोन्नतोपि भविता ते
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि॥४॥
1125
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम्।
वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घ्यसि॥५॥
केषामप्येते।
अथ तटाकान्योक्तयः॥६६॥
1126
हंसैर्लब्धप्रशंसैस्तरलितकमलप्रत्तरङ्गैस्वरंगै-
र्नीरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्चमीनैः।
पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्चगीतै-
र्भाति प्रक्रीडदातिस्तव सलिलवलच्चक्रवाकस्तटाकः॥१॥
कस्यापि।
1127
क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां
मद्गुर्माद्यतु सारसश्र रसतु प्रोड्डीयतां टिट्टिभः।
भेकाः सन्तु बका रसन्तु चरतु स्वच्छन्दमाटिस्तटे
हो पद्मसरः कुतः कतिपयैर्हसैर्विना श्रीस्तव॥२॥
कस्यापि।
1128
अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम्।
इदमपि च सुलभमम्भो भवति पुनर्जलधराभ्युदये॥३॥
श्रीवल्लभदेवस्य।
1129
एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहल-
क्रीडकमपङ्कमविलसन्निःशङ्कमत्स्यव्रजम्।
केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पद-
श्रेणिप्रीणितपान्थ मुज्ज्वलजलं चक्रे विशालं सरः॥४॥
कस्यापि।
1130
स्तोकाम्भः परिवर्तिताङ्गशफरमाग्रासार्थिनः सर्वतो
लप्स्यन्ते बकटिट्टिभप्रभृतयः स्वल्पेषु साधुस्थितिम्।
सद्यः शोषमुपागतेद्य सरसि श्रीसद्मपद्माकरे
तस्मिन्पङ्कजिनीविलासरुचयो हंसा क्वयास्यन्त्यमी॥५॥
इन्द्रकवे।
1131
माद्यद्दिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता
व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः।
कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन-
स्तस्याप्येकबकप्रचारकलुषं कालेन जातं जलम्॥ ६॥
विज्जकायाः।
1132
रे पद्माकर यावदस्ति भवतो मध्यं पयः पूरितं
तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय।
पश्चात्त्वंसमटद्बकोटचटुलत्रोटीपुटव्याहति-
त्रुट्यत्कर्कटकर्परव्यतिकरैर्निन्दास्पदं यास्यसि॥७॥
कस्यापि।
अथ कमलान्योक्तयः॥६७॥
1133
रे पद्मिनीदल तवात्र मया चरित्रं
दृष्टं विचित्रमिव यद्विदितं ध्रुवं तत्।
यैरेव शुद्धसलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कभवोसि यस्मात्॥१॥
शार्ङ्गधरस्य।
1134
पङ्कज जलेषु वासः प्रीतिर्मधुपेषु कण्टकैः सङ्गः।
यद्यपि तदपि तवैतच्चित्रं मित्रोदये हर्षः॥२॥
लक्ष्मीधरस्य।
1135
कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः।
अतिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव॥३॥
कृष्णस्य।
1136
वरमश्रीकता लोके नासमानसमानता।
इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम्॥४॥
कस्यापि।
1137
नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
र्दण्डे कर्कशता मुखेतिमृदुता मित्रे महान्प्रश्रयः।
आमूलं गुणसंग्रहव्यसनिता द्वेषश्चदोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥५॥
कस्यापि।
1138
प्रसारितकरे मित्रे जगदुद्द्योतकारिणि।
किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम्॥६॥
कस्यापि।
1139
लक्ष्मीसंपर्कजातोयं दोषः पद्मस्य निश्चितम्।
यदेष गुणसंदोहधाम्निचन्द्रे पराङ्मुखः॥७॥
1140
रत्नाकरतनुजनुषि द्विजराजे राजनि श्रियो मित्रे।
अमृतकरे च कलावति पद्मिनि वामा कुतो भवती॥ ८॥
श्रीधनददेवानाम।
1141
उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति।
संकुचसि कमल यदयं हर हर वामो विधिर्भवतः॥९॥
1142
अन्तश्छिद्राणि मृयांसि कण्टका बहवो बहिः
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः॥१०॥
कस्यापि।
1143
एतेन गुणाः पङ्कज सन्तोपि न ते प्रकाशमायान्ति।
यल्लक्ष्मीवसंतरस्तव मधुपैरुपजीव्यते कोशः॥११॥
कस्यापि।
1144
कामं भवन्तु मधुलम्पटपटपदौघ-
संघट्टघुर्घुरनध्वनयोब्जखण्डाः।
गायन्नतिश्रुतिसुखं विधिरेव यत्र
भृङ्गः स कोपि धरणीधरनाभिपद्मः॥१२॥
कस्यापि।
अथ कूपान्योक्तयः॥६८॥
1145
चित्रं न तद्यदयमम्बुधिरम्बुदौघ-
सिन्धुप्रवाहपरिपूरतया महीयान्।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप
निप्पीद्य कुक्षियुगलं हि महत्त्वमेतत्॥१॥
1146
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे
परमुपकृतं यत्ते वक्तुं पुनर्न वयं क्षमाः।
भवतु सुकृतैरध्वन्यानामशेषजलो भवा-
नियमपि घनच्छाया भूयात्तवोपटं शमी॥२॥
कयोरप्येतौ।
1147
भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-
क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि।
येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप
क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम्॥३॥
श्रीभोजदेवस्य।
1148
सगुणैः सेवितोपान्तो विनतैः प्राप्तदर्शनः।
नीचोपि कूपः सत्पात्रैजीवनार्थं समाश्रितः॥४॥
शार्ङ्गधरस्य।
1149
यद्यपि बहुगुणगम्यं जीवनमेतस्य कृपमुख्यस्य।
जयति तथापि विवेको दानं पात्रानुमानेन॥५॥
कस्यापि।
अथ मरुस्थलान्योक्तयः॥६९॥
1150
मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते।
तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम्॥१॥
कस्यापि।
1151
पायं पायं पिब पिब पयः सिञ्च मिचाङ्गमङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि।
एषाशेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः
सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः॥२॥
कस्यापि।
1152
भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-
स्वत्तादृक्तृषितस्य ते खलमतिः सोयं जलं गृहते।
अस्थानोपगतामकालसुलभां तृष्णां प्रति क्रुध्य हे
त्रैलोक्यप्रथितप्रभावमहिमा मार्गोद्यसौ मारवः॥३॥
अभिनवगुप्तस्य।
1153
सत्पादपान्विपुलफल्लवपुष्पपुञ्ज-
संपत्परीतवपुषः फलभारनम्रान्।
व्योमाग्रशिञ्जितशकुन्तसमाश्रितोरु-
शाखान्मरौ मृगयते न ततोस्ति मुग्धः॥४॥
कस्यापि।
1154
किमसि विमनाः किं चोन्मादी क्षणादपि लक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः।
स्वयमजलदां जानानोपि प्रविश्य मरुस्थलीं
शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि॥५॥
नरसिंहस्य।
अथ दावानलान्योक्तयः॥७०॥
1155
यस्या महत्त्व भाजो भवन्ति गुणिनोमिता धनुर्दण्डाः।
दहतस्तां वंशालीं को वनवह्ने विवेकस्ते॥१॥
कस्यापि।
1156
हे दावानल शैलासवासिनः साधुशाखिनः।
मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः॥२॥
कस्यापि।
1157
दुर्देवप्रभवप्रभञ्जनजवादुद्धूतभूमीरुहा-
नेतान्सत्त्वगुणाश्रयानकरुण प्रुष्यन्किमुन्माद्यसि।
ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते॥३॥
कस्यापि।
1158
अभ्युन्नतेपि जलदे जगदेकसार-
साधारणप्रणयहारिणि हा यदेते।
उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक सतावक एव दोषः॥४॥
कस्यापि।
1159
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता।
भस्मीकृत्य सुपुष्पपल्लवफलैर्नश्रान्महापादपा-
नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम्॥५॥
अथ संकीर्णान्योक्तयः॥७१॥
1160
बिभ्राणे त्वयिभस्म कः समभवन्मन्दादरश्चन्दने
कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि।
धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं
स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोस्ति तद्राहकः॥१॥
कस्यापि।
1161
छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि।
सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
कं सेवे करवाणि किं त्रिजगती शून्या त्वमेवेश्वरः॥२॥
धोईकवेः।
1162
दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः।
कस्य तरोरुपरिष्टात्खिन्नोसौ श्रान्तिमपनयतु॥३॥
कस्यापि।
1163
अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु।
विहगपतेराहारः स तु सरलमृणालदलरुचिरः॥४॥
कस्यापि।
1164
यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो
यश्चत्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः।
भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-
निर्मुक्तस्य महत्त्वमेतदसमं दूरेधिरूढं तव॥५॥
श्रीभोजदेवस्य।
1165
शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे।
किंचातः परमुच्यते स्तुतिपदं यज्जीवनं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः करत्वां निरोद्धुं क्षमः॥६॥
1166
अब्जं त्वब्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात्पुन-
र्विश्वं स्थावरजङ्गमं तदितरं त्वन्मूलमित्थं पयः।
धिक्त्वां चौर इत्र प्रयासि निभृतं निर्गत्य जालान्तरै-
र्बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः॥७॥
कयोरप्येतौ।
1167
समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
स्वसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः।
मुरारातेर्योषित्सरसिरुहकिंजल्कनिलया
तथापि श्रीः स्त्रीत्वात्प्रकृतित्रपलालिङ्गति खलान्॥८॥
1168
तापापहे सहृदये रुचिरे प्रबुद्धे
मित्रानुरागनिरते धृतसद्गुणौघे।
स्वाङ्गप्रदानपरिपूरितषट्पदौघे
युक्तं तवेह कमले कमले स्थितिर्यत्॥९॥
कयोरप्येतौ।
1169
जम्भारिरेव जानाति रम्भासंभोगविभ्रमम्।
घटचेटीविटः किंस्विज्जानात्यमरकामिनीम्॥१०॥
कस्यापि।
1170
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
करेणानीतस्त्वं वससि सह हारेण गुणिना।
मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ-
न्नये वीणादण्ड प्रकटय फलं कस्य तपसः॥११॥
कस्यापि।
1171
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-
कपोले व्यासङ्गं कुचकलशमस्याः कलयति।
ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं
स्वभावस्वच्छानां विपदपि सुखं नान्तरयति॥१२॥
कस्यापि।
1172
यत्पूर्वं पवनाग्निशस्त्रसलिलैश्री तपो दुष्करं
तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः।
मुग्धापाण्डुकपोलचुम्बनसुखं सङ्गश्र रत्नोत्तमैः
प्रातुं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे॥१३॥
कस्यापि।
1173
सद्वृत्तसद्गुणविचित्रमहार्हकान्त
कान्ताघनस्तनतटाञ्चितचारुमूर्ते।
आः पामरीकठिनकण्ठविलग्नभङ्ग
हा हार हारितमहो भवता गुणित्वम्॥१४॥
कस्यापि।
1174
मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी।
अन्यत्रानृजुवर्त्म वाग्द्विरसना वक्रे विषं वीक्षणं
सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम्॥१५॥
कस्यापि।
1175
दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम्।
दर्शनपथमापन्नं पन्नगकुलमा कुलीभवति॥१६॥
कस्यापि।
1176
यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव।
आशीविषः स दैवादद्य करण्डस्थितिं सहते॥१७॥
कस्यापि।
1177
भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः।
यच्चाधोमुखमक्षिणी पिदधता नागेन तूष्णीं स्थितं
तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम्॥१८॥
कस्यापि।
1178
श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचिन्मदात्याहितं
सिन्धावन्धकुटुम्बदर्दुरकुलं हर्षादिदं ध्यायति।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशो-
रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पावयम्॥१९॥
कस्यापि।
1179
आपूर्येत पुनः स्फुरच्छफरिकाशारोर्मिभिर्वारिभि-
र्भूयोपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम्।
इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः॥२०॥
कस्यापि।
1180
अस्तं गतोयमरविन्दवनैकबन्धु-
र्भास्वान्न लङ्घयति कोपि विधिप्रणीतम्।
हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
धीरास्तरन्ति विपदं न तु दीनाचत्ताः॥२१॥
कस्यापि।
1181
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजं च।
इत्यादि चिन्तयति कोशगने द्विरेफे
हा हन्त हन्त नलिनीं गज उन्मुमूल॥२२॥
कस्यापि।
1182
हंसः प्रयाति शनकैर्यदि यातु तम्य
नैसर्गिकी गतिरियं हि न तत्र चित्रम्।
गत्या तया जिगमिषुर्बक एष मूढ-
श्चोतो दुनोति सकलस्य जनस्य नूनम्॥२३॥
कस्यापि।
1183
कल्याणं नः किमधिकमितो जीवनार्थ पथस्त्वं
छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार।
न त्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना-
मध्वन्यानामशरणमरुप्रान्तरे कोभ्युपायः॥२४॥
कस्यापि।
1184
भ्रातर्ग्राम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते।
किं स्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां
यत्रोज्झन्ति कुत्रस्थलात्क्षणमपि क्षोणीभुजां वल्लभाः॥२५॥
कस्यापि।
1185
रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः।
स्पर्शस्पर्शविशेषात्तदखिलमजनिष्ट हेम नृपयोग्यम्॥२६॥
अच्युतस्य।
1186
दुर्गा नदी शिथिलबन्धावलम्बिनी नौ-
रभ्युन्नता जलमुचो विषमः समीरः।
आरूढवान्निजकुटुम्बयुतोध्वनीन-
स्तत्कर्णधार कुरु यत्सदृशं कुलस्य॥२७॥
कस्यापि।
1187
वंशः प्रांशुरसौ घुणव्रणमयो जीर्णा वरत्रा इमाः
कीलाः कुण्डया विशन्ति न महीमाहन्यमाना अपि।
आरोहव्यवसायसाहसमिदं शैलूष संत्यज्यतां
दूरे श्रीनिकटे कृतान्तमहिषग्रैवेयघण्टारवः॥२८॥
कस्यापि।
1188
मौलिः स्वर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ
त्वद्भृत्याः किल कञ्चुकिप्रभृतयो देवेति विज्ञाप्यसे।
इत्थं कल्पनया कुशीलवनृपालंकारदार्ढ्यं वृथा
नृत्यान्ते भवतो भविष्यतेि मषीमात्रावशेषं वपुः॥२९॥
कस्यापि।
1189
अमी तिलास्तैलिक नूनमेतां
स्नेहादवस्थां भवतोपनीताः।
द्वेषोभविष्यद्यदमीषु नूनं
तदा न जाने किमित्राकरिष्यः॥३०॥
कस्यापि।
1190
किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
लीनेनाधरपल्लवे कुसुमतां किं वा स्मितेनामुना।
आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी-
मुग्धे कामिनि किं मुधा घटयासे क्लीबे कटाक्षच्छटाः॥३१॥
1191
वक्रा नैष तनृविवर्तनगतीर्गृह्णाति साचिस्मित-
स्मेरैर्दृग्वलनैग्मुष्य न मनाक्वेतः परावर्तते ।
हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्नीयतां
वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्नयः॥३२॥
1192
स्रग्दाम मूर्धनि विधेहि गवेधुकानां
गुञ्जामयीमुरसि धारय हारयष्टिम्।
बाले कलावति चिरं पतितासि पल्लौ
तल्लौहमन्यदपि भूषणमेषणीयम्॥३३॥
केषामप्येते।
1193
भ्रातः काञ्चनलेपगोपितवहिताम्राकृते सर्वतो
मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि।
ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तंधुना
नान्तस्तत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धयः॥३४॥
कस्यापि।
1194
न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ।
कस्तत्र भवतः पान्थ कूपेम्बुग्रहणादरः॥३५॥
1195
रक्ष पात्रगतं स्नेहं प्रदीपश्रीविवर्धनम्।
प्रयास्यन्ति विनानेन भस्मत्वं भवतो गुणाः॥३६॥
एतौ राजपितामहमहादेवस्य।
1196
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण।
तप्तं विकृतं मथितं केवलमुद्गीरति यत्स्नेहम्॥३७॥
कस्यापि।
1197
दृढतरगलकनिबन्धः कृपनिपातोपि कलश ते धन्यः।
यज्जीवनदानैस्त्वं तर्षामर्षं नृणां हंसि॥३८॥
1198
यत्सद्गुणो
पि सरलोपि तटस्थितोपि
वंशोद्गदोपि विदधासि नृशंसकर्म
।
वक्रात्मनो वशिदण्ड तदेतदस्य
जानामि संगतिफलं तव कण्टकस्य
॥
३९
॥
1199
द्वात्रिंशादशनद्वेपिमध्ये भ्रमसि नित्यशः।
तदिदं शिक्षिता केन जिह्वे संचारकौशलम्॥४०॥
1200
अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं
सपदि च विनिमीलत्याकुलं त्वद्वियोगात्।
वपुरपि परमेशस्याचितं नोचितं ते
सुरभिमसुरभिं वा यत्स्वमङ्गीकरोषि॥४१॥
1201
अपि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया।
अलं खेदेन भूपालाः किं न सन्ति महीतले॥४२॥
केषामप्येते।
1202
जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति।
यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
को जानीते परिमलगुणं काक कस्तूरिकायाः॥४३॥
विद्यापतेः।
1203
कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरां जयिनः
तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य॥४४॥
कस्यापि।
1204
तुल्यं भूभृति जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपु-
स्तुल्यं दार्ढ्यमुदग्रटङ्कदलनं तुल्यं च पाषाणयोः।
एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
तद्द्वारे विहितापरस्य तु पदाघातास्पदं देहली॥४५॥
1205
तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः।
खगानां के मेघाः क इह विहगा वा जलमुचा-
मयाच्यो नार्तानामनुपकरणीयो न महताम्॥४६॥
कस्यापि।
1206
भ्रातः पञ्जरलावक मा कुरु संतोषमन्यनिधनेन।
प्रातस्तवैव धातुर्वामत्वं किं न जानासि॥४७॥
कस्यापि।
1207
मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति यत्।
कुलानुरूपं तत्तस्य यो गजो गज एव सः॥४८॥
1208
ग्रासाग्दलितसिक्थस्य करिणः किं गतं भवेत्।
पिपीलकस्तु तेनैव सकुटुम्बोपि जीवति॥४९॥
1209
बन्धनस्थोपि मातङ्गः सहस्रभरणक्षमः।
अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः॥५०॥
1210
ऊर्णांनैष दधाति नैव विषयो वाहस्य दोहस्य वा
तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते॥५१॥
केषामप्येते।
1211
पिब पयः प्रसर क्षितिपान्तिकं
कलय कांचन काञ्चनशृङ्खलाम्
इदमवद्यतमं हि यदीहसे
भषण संप्रति केसरिणस्तुलाम्॥५२॥
भीमसिंहपण्डितस्य।
1212
उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं
यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः।
गुहागर्ते शून्ये मुचिरमुषितं जम्बुक सखे
किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम्॥५३॥
भट्टेन्दुराजस्य।
1213
यस्यां स केसरियुवा पदमाबबन्ध
गन्धद्विपेन्द्ररुधिरारुणिताङ्गणायाम्।
नामद्य पर्वतदरीं धुतधूम्रलोमा
गोमायुरेष वपुषा मलिनीकरोति॥५४॥
कस्यापि।
1214
निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कसेरुस्थलीं
जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान्।
दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं
यस्या एव शिशोः स्थिता वसुमती सा पोत्रिणी पुत्रिणी॥५५॥
कस्यापि।
1215
शतपदी सति पादशते क्षमा
यदि न गोष्पदमप्यतिवर्तितुम्।
किमियता द्विपदस्य हनूमतो
जलनिधेः क्रमणे विवदामहे॥५६॥
भल्लटस्य।
1216
वृक्षान्दोलनमद्य ते क्व नु गतं नर्म स्वयूथस्य वा
यूकान्वेषणरोषसौख्यबहुलाश्वेष्टा मुखोत्थाः क्व ताः।
क्कारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
भीतः संप्रति कोशिकाद्गलवलह्यालः कपे नृत्यसि॥१७॥
श्रीदामोदरदेवानाम्।
1217
आकर्ण्य गुञ्जितरवं घनगर्जितुल्यं
सिंहस्य यान्ति वनमन्यदिभा भयार्ताः।
तत्रैव पौरुषनिधिः स्वकुलेन सार्धं
दर्पोद्धुरो वसति वीतभयो वराहः॥६८॥
शार्ङ्गधरस्य।
अथ सामान्यराजप्रशंसा॥७२॥
1218
सरस्वती स्थिता वक्रे लक्ष्मीः करसरोरुहे ।
कीर्तिः किं कुपिता देव येन देशान्तरं गता॥१॥
सरस्वतीकुटुम्बम्य।
1219
तुलामारुह्य रविणा वृश्चिके निहितं पदम्।
भवता शिरसि न्यस्यमयत्नेनैव भोगिनाम्॥२॥
1220
किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः।
कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम्॥३॥
1221
सर्वदा सर्वदासीति मिथ्या संस्तूयसे बुधैः।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥४॥
1222
कोप्यन्यः कल्पवृक्षोयं चकास्ति क्षितिमण्डले।
यत्पाणिपल्लवोप्येकः कुरुतेधः सुरद्रुमम्॥५॥
केषामप्येते।
1223
देव त्वं जय यस्य राजति महाराष्ट्रीकुचोच्चंकुलं
लाटीवाङ्मृदु नर्म चेदिवनितानाभीगभीरं मनः।
आभीरीकटिविस्तृता मतिरसिर्गौडीकचश्यामलः
कर्णाटीरतिनिष्ठुरो रणरसः कीरीमुखाच्छं यशः॥६॥
1224
ते कौपीनधास्त एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः।
तैरेतत्समलंकृतं निजकुलं किंवा बहु ब्रूमहे
ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा॥७॥
कयोरप्येतौ।
1225
संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम्।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्॥८॥
कस्यापि।
1226
देव त्वद्यशसि प्रसर्पति जगल्लक्ष्मीसुधोच्चैःश्रव-
श्चन्द्रैरावणकौस्तुभाः स्थितिमिवामन्यन्त दुग्धाम्बुधौ।
किं त्वेकः पुनरस्ति दूषणकणो यन्नोपयाति भ्रमा-
त्कृष्णं श्रीः शितिकण्ठमद्रितनया नीलाम्बरं रोहिणी॥९॥
कस्यापि।
1227
किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ट्या-
मुन्मत्तेत्र भ्रमति भवतो वल्लभा देव कीर्तिः॥१०॥
मातङ्गदिवाकरस्य।
1228
युधिष्ठिरोसिभीमोसि चरितैरर्जुनो भवान्।
प्रज्ञया सहदेवोसि वाच्यता न कुलस्य ते॥११॥
1229
बलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः।
पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे॥१२॥
1230
स्वद्गुणैर्यथितः शुद्धैरमितैर्ब्रह्मगोलकः।
विधत्ते कीर्तिकन्यायाः विधिराक्रीडकौतुकम्॥१३॥
केषामप्येते।
1231
यशोदयामण्डितान्तदेहो
बाल्येपि गोपालजनस्य नेता।
गोमण्डलं पासि बलेन युक्तः
कथं न राजन्पुरुषोत्तमसि॥१४॥कस्यापि।
1232
साशङ्कस्य समाकुलीकृतमतेरत्यन्तनिस्तेजसः
स्विन्नाङ्गस्य विकम्पमानहृदयम्यारूदमन्योर्भृशम्।
लज्जां संत्यजतः क्रमं विमृशतो विघ्नान्बहुन्पश्यतः
क्लेशो योर्थिजनस्य वक्तुमनमो मा भृत्स ते विद्विषाम्॥१६॥
कस्यापि।
1233
नो कामः प्रतिहन्यते प्रणयिषु स्वमपि नाथ त्वया
नैवाधः कुरुषे वृषं द्विग्सना व्याला न ते बल्लभाः।
नो बह्यस्तव मूर्तयो न च तनुर्नित्यं जडानुग्रह-
व्यग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः॥१६॥
कस्यापि।
1234
सिक्तायां वीरकण्ठम्भलबहलगलद्रक्तधाराम्बुवर्षै-
र्मद्यन्मातङ्गकुम्भोद्दलनविलुलितैर्मौक्तिकैः पाष्पतायाम्।
संग्रामोद्यानभूमौ तुरगखुरमुखोत्खातकृष्टस्थलायां
जातं त्वत्खङ्गवल्यां फलमतुलरसास्वादहृद्यं जयश्रीः॥१७॥
कस्यापि।
1235
उद्यद्वालङ्गकुरश्री
र्दिशि दिशि दशनैरेभिराशागजानां
रोहन्मूला सुगौरैरुरगपतिफणैरत्र पातालकुक्षौ।
अस्मिनाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां
नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधाम्॥१८॥
कस्यापि।
1236
हारानाहर देव चन्द्रधवलान्नो चेत्पयोधेस्तटीं
संप्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिराक्षोभितम्।
सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिषु
स्वल्पैरेव दिनैः करिष्यति महीमाताम्रमुक्ताफलाम्॥१९॥
कस्यापि।
1237
दर्पान्धगन्धगजकुम्भकपाटकूट-
संक्रान्तिनिघ्नघनशोणितशोणशोचिः।
वीरैलोक युधि कोपकषायकान्तिः
कालीकटाक्ष इव यस्य करे कृपाणः॥२०॥
कस्यापि।
1238
इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेहते
हारं द्वेष्टि सिताभ्रमुज्झति बिसस्तोमं निगृह्णाति च।
श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च
त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैःस्फुरत्पाण्डिमा॥२१॥
कस्यापि।
1239
कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां
विद्युद्धाम जगाम तावकमसिं गर्जिर्भवद्दुन्दुभिम्।
वृष्टिस्त्वत्परिपन्थिपार्थिववधूनेत्रेषु चक्रे स्थितिं
चापं ते वसुधाधिनाथ बलभित्कोदण्डकान्तिः श्रिता॥२२॥
कस्यापि।
1240
सिन्दूरं सीमन्तात्स्मितं मुखाद्वैरिराजवनितानाम्।
यस्य प्रतापयशसी हरतः स्म सदृग्गुणासहने॥२३॥
श्रीधनवानाम्।
1241
अभिमतफलदाता त्वं च कल्पद्रुमश्च
प्रकटमिह विशेषं कंचनोदाहरामः।
कथमिव मधुरोक्तिप्रेमसंमानमिश्र
तुलयति सुरशाखी देव दानं त्वदीयम्॥२४॥
कस्यापि।
1242
कल्पद्रुमो न जानाति न ददाति बृहस्पतिः।
अयं तु जगती जानिर्जानाति च ददाति च॥२५॥
कस्यापि।
1243
नालिङ्गन्ति कुचद्वयं भवदिभप्रोत्तुङ्गकुम्भद्वय-
त्रासाद्वेणिलतासु नैव दधति प्रीतिं तवासिभ्रमात्।
भ्रूभङ्गान्भवदीयदुर्धरधनुर्भ्रान्त्या भजन्ते न ते
वैरिक्षोणिभुजो निजाम्बुजदृशां भूमण्डलाखण्डल॥२६॥
1244
भग्नासु रिपुसेनासु नेतरत्त्वं महामहाः।
खड्गान्तर्निजमेवैकमद्राक्षीः संमुखं मुखम्॥२७॥
1245
देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रज-
क्षुण्णक्ष्मातललीनपांसुपटलप्राप्तानिमेषेक्षणाः।
सुत्रामा बहु मन्यते फणिपतिं पातालमूलस्थितं
सोप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रेक्षणम्॥२८॥
1246
अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे
तद्भूमोद्भुतकीर्तनेन रसना केषां न कण्डूयते।
देव त्वत्तरुतापनपनज्वालावलीशोषिताः
सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः॥२९॥
केषामप्येते।
अथ विशिष्टराजवर्णनम्॥७३॥
1247
गायन्तु किंनरगणाः सह किंनरीभिः
श्रीरामचन्द्र शिखरेषु हिमाचलस्य।
शङ्खेन्दुकुन्ददलबालमृणालनाल-
नीहारहारहररसमितं यत्रास्ते॥१॥
श्रीवाल्मीकिकवेः।
1248
कुर्मः पादोत्र यष्टिर्भुजगपतिरसौ भाजन भूतधात्री
तैलापुरःसमुद्राः कनकगिररयं वृत्तवर्तिप्ररोहः।
अर्निश्चाडांशुरोचिर्गगनमलिनिगा कज्जलं दह्यमाना
शत्रुणीपतंगा जयति रघुपते त्वत्प्रतापप्रदीपः॥२॥
हनुमतः।
1249
तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित्।
तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा॥३॥
1250
हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं
दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्द्विषां मन्दिरेषु।
दन्ताघाताद्गलितदशनस्तं पुनर्वीक्ष्य सद्यो
मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क॥४॥
कयोरप्वेतौ
।
1251
हृष्यत्कृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावटान्त-
र्निष्ठ्यूतासृक्तटिन्यास्तटनिकटनटत्कौणपाट्टाट्टहासा।
श्रीभोज त्वद्रणक्ष्मा क्षतभटविकटोरःस्थलत्रोटकुप्य-
द्गृध्रौघत्रोटिकोटिप्रकटचटचटाशब्दरौद्राभवद्द्वाक्॥५॥
1252
भो भोः श्रीभोजदेवं श्रयत विनयतः शत्रवः क्षत्रवर्गाः
प्राणत्राणाय नो वा न भवति भवतां क्वाप्यरण्यं शरण्यम्।
मत्वा मातङ्गकुम्भद्वितयमिति पुरा क्रूरवृत्तिर्भिनति
क्रुद्धः शुद्धान्तकान्ताकुचकलशयुगं रहसासिंहशावः॥६॥
1253
श्रीभोज साम्यं तव कल्पवृक्षः
सदा वदान्यपि कथं प्रयातु।
यतो भवद्दानसुपुष्टविप्र-
हव्येन कुक्षिंभरिरस्य भर्ता॥७॥
देवेश्वरपण्डितस्य।
1254
मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णार्चने
स्तम्भः शंभुनितम्बिनीप्रणतिषु व्यग्रो न धातुर्गृहे।
अस्माकं परमर्दनोस्ति वदने न्यस्तेन संरक्षितः
पृथ्वीराजनरेश्वरादिति तृणं तत्पत्तने पूज्यते॥८॥
विनायकपण्डितस्य।
1255
आ विन्ध्यादा हिमाद्रेर्विरचितविजयस्तीर्थयात्राप्रसङ्गा-
दद्वीवेषु प्रहर्ता नृपतिषु विनमत्कंधरेषु प्रसन्नः।
आर्यावर्तं यथार्थं पुनरपि कृतवान्म्लेच्छविच्छेदनाभि-
र्देवः शाकंभरीन्द्रो जगति विजयते वीसलक्षोणिपालः॥९॥
1256
ब्रूते संप्रति चाहुबाणतिलकः शाकंभरीभूपतिः
श्रीमान्विग्रहराज एष विजयी संतानजानात्मनः।
अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः
शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः॥१०॥
एतौनृगनृपतिपाषाणयज्ञयूपप्रशस्तेः।
1257
मा चक्र चक्रिविरहज्वरकातरो भूः
संकोचमम्बुज न याहि न यामिनीयम्।
हम्मीरभूपहयटापविदीर्णभूमि-
रेणूत्करैरयमकारि दिवान्धकारः॥११॥
कस्यापि।
1258
राजन्राजमृगाङ्क शंकरकवे किं पत्रिकायामिदं
श्लोकः कस्य तवैष देव शृणुमः संपठ्यतां पठ्यते।
एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-
दुद्वेल्लद्भुजवल्लिकङ्कणरणत्कारः क्षणं वार्यताम्॥१२॥
1259
अर्धं दानववैरिणा गिरिजयाप्यर्धं हरस्याहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति।
गङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं
सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षा श्रिता॥१३॥
एतौशंकरकवेः।
1260
पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः
पीतोसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत्।
तद्विष्णोर्दनुजाधिनाथजयिनः पूर्णं पदं नाभव-
द्देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः॥१४॥
सार्वभौमस्य।
1261
चक्रः पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि देशो
वस्तुं नो यत्र रात्रिर्भवति भुवि खगायेति स प्रत्युवाच।
नीते मेरौ ममाप्तिंकनकवितरणैः श्रीजगद्देवनाम्ना
सूर्येनन्तर्हितेस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः॥१५॥
कस्यापि।
1262
मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो
नितम्बे पत्त्राली सतिलकमभूत्पाणियुगलम्।
अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशा-
दपूर्वोयं भूषाविधिरहह जातः किमधुना॥१६॥
कस्यापि।
1263
कीर्तिः कैतववीररुद्र भवतः स्वर्वाहिनीगाहिनी
दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम्।
सप्ताम्भोनिधिमण्डलान्यधिगता त्वय्यैकपत्नीव्रत-
ख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षण्यपि॥१७॥
कस्यापि।
1264
विन्ध्याद्रिः करिसाधने निरुपमो रत्नाकरः कोशभृ-
त्सौगन्धी मलयाचलः परिचराः सर्वेपि विद्याधराः।
विश्वाशापरिपूरणं वितरणं देशोप्यहो दक्षिणः
पाण्याखण्डल वीरपाण्ड्य भवतः किं किं न लोकोत्तरम्॥१८॥
सुदर्शनकवेः।
1265
तत्राङ्गणे सुन्दर वीरपाण्ड्य
मतङ्गजाः शृङ्गलिनो विभान्ति।
आवासदानादरिभूपतीना-
माशान्तरौला इव सापराधाः॥१९॥
कस्यापि।
1266
मुञ्चति मुञ्चति कोशं त्यजति व्यजति क्षमामाशु।
अर्जुनदेवकृपाणे भजति च भजति प्रकम्पमरिवर्गः॥२०॥
अथारिपलायनम्॥७४॥
1267
अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतर-
द्विशल्यां सौमित्रेरयमुपनिनायौषधित्रराम्।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः॥१॥
कस्यापि।
1268
राजन्राजमुता न पाठयति मां देव्यापि तृष्णीस्थिताः
कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते।
इत्थं राजशुकस्तवारिभवने मुक्तोध्वगैः पञ्जरा-
श्चित्रस्थानत्रलोक्य शून्यवलभामेकैकमाभाषते॥२॥
कस्यापि।
1269
कुरबक कराघातक्रीडासुखेन वियुज्यसे
बकुलविटपिन्स्मर्तव्यं ते रसासवसेचनम्।
वरणघटनाबन्ध्यो यास्यस्यशोक सशोकता-
मिनि जनपुरत्यागे यस्य द्विषां जगदुः स्त्रियः॥३॥
रत्नाकरस्य।
1270
कामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैरिव गलद्वाम्पाम्बुधौताननाः।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योधुना
दावग्नीं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव॥४॥
कस्यापि।
1271
क्षणं कान्तारागप्रसरविलसन्मानसरतिः
क्षणं शालोत्सङ्गे द्विजकुलरवाकृष्टहृदयः।
क्षणं पत्रध्वानश्रुतिपुलकितो यद्भयभरा-
द्वसन्प्राप्तोरण्ये रिपुवनिपालस्थितिमिव॥५॥
वैद्यभानु
पण्डितस्य।
1272
तन्वीमुज्झितभूषणां कलगिरं रोमोद्गमं विभ्रतीं
वेपन्तीं व्राणिताधरां बिबसनां सित्कारमातन्वतीम्।
दोर्भ्यां चण्डतुषारपातसभयमालिङ्ग्य कण्डे भृशं
स्वां मूर्ति दयितामियातिरसिकां त्वद्विद्विषः शेरते॥६॥
कस्यापि।
1273
यातीतः पान्थ पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे
मार्गं पृच्छामि पृच्छ स्थितमिदमिड ते विस्मितं वीक्ष्य नेत्रे।
अध्वानं ब्रुह्यपेतध्वनि भवति वचश्चीत्रमुद्धाप्यनेत्रा
हस्यन्ते दावमूढाः पथि पथिकविटरस्त्विद्विषां
नाथ नार्यः॥५॥
कस्यापि।
1274
भूसंपर्करजोनिपातमलिनाःस्वस्माद्गृहात्यच्युताः
सामान्येरपि जन्तुभिः करतले निःशङ्कागालिङ्गिताः।
संलग्नाः क्वचिदेकतामुपगताः क्वापि प्रबुद्धाः क्वचि-
त्सुप्ताः क्वापि च सारिवत्प्रतिगृहं भ्रान्तास्तवासिस्त्रियः॥८॥
1275
सालकाननयुक्तापि सालकाननवार्जिता।
हारावरुद्धकण्ठापि विहारारिवधूस्तव॥९॥
1276
आत्ते सीमन्तरत्ने मरकननिचिते हेममातङ्कपत्रे
लुप्तायां मेखलायां कनकमणितुलाकोटियुग्मे गृहीते॥
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन्गुञ्जाफलानां स्रज इति शवरा नैव हारं हरन्ति॥१०॥
केषामप्येते।
1277
कर्षद्भिः सिचयाञ्चलान्यतिरसात्कुर्वद्भिरालिङ्गनं
गृह्णानैः कचमालिखद्भिग्धरं विभ्रामयद्भिः करौ।
प्रत्यक्षेपि भवद्विरोधिनृपतेरन्तःपुराणामहो
धिक्कष्टं विटपैर्विटैरिव वने किं नाम नो चेष्टितम्॥११॥
श्रीधनददेवानाम्।
1278
त्वद्वैरिणो वीर पलायितस्य
प्रकाशयन्नक्तमरण्यमार्गम्।
कृशानुरासीदभिनन्दनीय-
स्तुङ्गेषु लग्नो निजमन्दिरेषु॥१२॥
1279
राजन्द्विषस्ते भयविद्रुतस्य
आलत्वचं कण्टकिनो वनान्ताः।
अद्यापि किं वानुभविष्यतीति
व्यपादयन्द्रष्टमिवाक्षराणि॥१३॥
1280
स्नाताः प्रावृषि मेघवान्तसलिलैः संरूढदूर्वाङ्कुर-
व्याजेनात्तकुशाःप्रणालसलिलैर्दत्त्वानिवापाञ्ञ्जलीन्।
प्रासादास्तव निद्रियां परिपतत्कुड्यस्थापिण्डच्छला-
त्कुर्वन्ति प्रतिवासर निजपतिप्रेताय पिण्डक्रियाम्॥१४॥
केषामप्येते।
अथ राजनीतिः॥७५॥
1281
राजास्य जगतो हेतुर्बुद्धेर्वृद्धाभिसंमतः।
नयनानन्दजननः शशाङ्क इव वारिधेः॥१॥
1282
धार्मिकं पालनपरं सम्यक्त्वपरपुरंजयम्।
राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः॥२॥
1283
पर्जन्य इव भूतानामाधारः पृथिवीपतिः।
विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ॥३॥
1284
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम्।
वर्धनाद्रक्षणं श्रेयस्तन्नाशेन्यत्सदप्यसत्॥४॥
1285
आत्मानं प्रथमं राजा विनयेनोपपादयेत्।
नतोमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः॥५॥
1286
राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः सगे समाः।
लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः॥६॥
1287
नृपाणां च नराणां च केवलं तुल्यमूर्तिता।
आधिक्यं तु क्षमा धैर्यमाज्ञा दानं पराक्रमः॥७॥
1288
सदानुरक्तप्रकृतिः प्रजापालनतत्परः।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते॥८॥
1289
प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥९॥
1290
अजामिव प्रजां हन्याद्यो मोहात्पृथिवीपतिः।
तस्यैका जायते तृप्तिर्द्वितीया न कथंचन॥१०॥
1291
प्रजापीडनसंतापान्समुद्भूतो हुताशनः।
राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते॥११॥
1292
यथाबीजाङ्कुरःसूक्ष्मः प्रयत्नेनाभिवर्धितः।
फलप्रदो भवेत्काले तदल्लोकः सुरक्षितः॥१२॥
1293
हिरण्यधान्यरत्नानि गजेन्द्राश्चापि वाजिनः।
तथान्यदपि यत्किचित्प्रजाभ्यः स्यान्महीपतेः॥१३॥
1295
अकृत्वा निदेशस्य रक्षां यो विजिगीषते।
स नृपः परिधानेन वृतमौलिः पुमानिव॥१५॥
1296
विजिगीषुररिर्नित्त्रं पाणिग्राहोद्य मध्यमः।
उदासीनोन्तरान्नर्विरित्येषा नृपतेः स्थितिः॥१६॥
1297
निर्विषोपि यथा सर्पः फटाटेपैभयंकरः।
तथाडम्बरवान्राजा न परैः परिभूयते॥१७॥
1298
पुष्पैरपि न योद्धव्यं पुनर्निशितैः शरैः।
रणे विजयसंदेहः प्रधानपुरुषक्षयः॥१८॥
1299
भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम्।
नास्त्येकमपि यद्येवां न तत्कुर्यात्कथंचन॥१९॥
1300
सामैव हि प्रयोक्तव्यमादौ कार्यं विजानता।
सामसिद्धानि कार्याणि विक्रियां यान्ति न क्वचित्॥२०॥
1301
न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥२१॥
1302
शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः।
राज्यलोभोद्यतो वृत्रः शक्रेण शपथैर्हतः॥२२॥
1303
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत्।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम्॥२३॥
1304
नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोप्यवज्ञया।
वह्निरल्पोपि संवृद्धः कुरुते भस्मसाद्वनम्॥२४॥
1305
कौर्मं संकोचमास्थाय प्रहारानपि मर्पयेत्।
काले काले च मतिमानुतिष्ठेत्कृष्णसर्पवत्॥२५॥
1306
तावद्भयस्य भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत॥२६॥
1307
परोपि हितवान्बन्धुर्बन्धुरप्यहितः परः।
आहितो देहजो व्याविर्हितमारण्यमौषधम्॥२७॥
1308
यच्छक्यं ग्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे स्यात्तदाद्यं भूतिमिच्छता॥२८॥
1309
मा तात साहसं कार्षीर्विभवैर्गर्वमागतः।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये॥२९॥
1310
मा त्वं तात बले स्थित्वा बाधिष्ठा दुर्बलं जनम्।
नहि दुर्बलदग्धानां कुले किंचित्प्ररोहति॥३०॥
1311
यानि मिथ्याभिभूतानां पतन्त्यश्रूणि रोदता।
तानि संतापकान्घ्नन्ति सपुत्रपशुबान्धवान्॥३१॥
1312
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिकुलेषु च।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते॥३२॥
1313
देवब्रह्मस्वपुष्टानि सैन्यानि पृथिवीपतेः।
युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा॥३३॥
1314
प्रणीतश्राप्रणीतश्च यथाग्निर्दैवतं महत्।
एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं महत्॥३४॥
1315
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्।
लोकपालान्सृजेयुश्च लोकानन्यांश्च कोपिताः॥३५॥
1316
युगे युगे च ये धर्मास्तेषु धर्मेषु ये द्विजाः।
तेषां निन्दा न कर्तव्या युगरूपा हि वै द्विजाः॥३६॥
1317
आक्रम्य यद्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः।
गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते॥३७॥
1318
गतश्रीर्गणकान्द्वोष्टि गतायुश्च चिकित्सकान्।
गतश्रीश्चगतायुश्च ब्राह्मणान्द्वेष्टि भारत॥३८॥
1319
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते।
अनयो नयसंकाशो हृदयान्नापसर्पति॥३९॥
1320
म कालः खड्गमुद्यम्य शिरः कृन्तति कस्यचित्।
कालस्य बलमेतावद्विपरीतार्थदर्शनम्॥४०॥
1321
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम्।
न कर्म कस्यचिल्लोके गर्हितं रोचते कृतम्॥४१॥
1322
मा तात संपदामप्रमारूढोस्मीति विश्वसीः।
दूरारूढपरिभ्रंशविनिपातो हि दारुणः॥४२॥
1323
कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः।
यं प्रशंसन्ति बन्धक्यः स पार्थ पुरुषाधमः॥४३॥
1324
राजानो यं प्रशंसन्ति यं प्रशंसन्ति च द्विजाः।
साधवो यं प्रशंसन्ति स पार्थ पुरुषोत्तमः॥४४॥
1325
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः।
गृहीतच्छत्रहस्तस्य वारिधारा इवारयः॥४५॥
1326
बहूनामप्यसाराणां समवायो हि दारुणः।
तृणैर्विधीयते रज्जुर्बध्यन्ते दन्तिनश्च तैः॥४६॥
1327
ताडितोपि दुरुक्तोपि दण्डितो महीभुजा।
न चिन्तयति यः पापं स भृत्योर्हो महीभुजाम्॥४७॥
1328
योनाहूतः समभ्येति द्वारे तिष्ठति सर्वदा।
पृष्टः सत्यं मितं ब्रूते स भृत्योर्हो महीभुजाम्॥४८॥
1329
सालसं मुखरं क्रूरं स्तब्धं व्यसनिनं शठम्।
असंतुष्टमभक्तं च त्यजेनृत्यं नराधिपः॥४९॥
1330
रिक्ताः कर्माणि पटवस्तृप्तास्त्वलसा भवन्ति ये भृत्याः।
तेषां जलौकसामिव पूर्णानां रिक्तता कार्या॥५०॥
1331
क्रूरं व्यसनिनं लुब्दमप्रगल्भमथाकुलम्।
मूर्खमन्यायकर्तारं नाधिपत्य नियोजयेत्॥५१॥
1332
नियोगिभिर्विना राज्यं नास्ति भूपे हि केवलम्।
तस्मादमी विधातव्या रक्षितव्याः प्रयत्नतः॥५२॥
1333
वेदवेदाङ्गतत्वज्ञो जपहोमपरायणः।
आशीर्वादपरो नित्यमेष राज्ञः पुरोहितः॥५३॥
1334
क्रमागतो हितमतिः सर्वभावपरीक्षकः।
धीरो यथोक्तवादी च दूत एवंविधो मतः॥५४॥
1335
प्रवीणो वाक्पटुर्धीमान्स्वामिभक्तश्च नित्यशः।
अलुब्धः सत्यवादी च भाण्डागारिक इष्यते॥५५॥
1336
मेधावी वाक्पटुर्धीरो लघुहस्तो जितेन्द्रियः।
परशास्त्रपरिज्ञाता एष लेखक उच्यते॥५६॥
1337
इङ्गिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः।
समयज्ञः स्वामिभक्तः प्रतीहारः स उच्यते॥५७॥
1338
शूरोर्थशास्त्रनिपुणः कृतशस्त्रकर्मा
संग्रामकेलिचतुरश्चतुरङ्गयुक्तः।
भर्तुर्निदेशवशगोभिमतः स्वतन्त्रे
सेनापतिर्नरपतेर्विजयागमाय॥५८॥
1339
काणाः कुब्जाश्च षण्ढाश्च तथा वृद्धाश्र पङ्गवः।
एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभूता॥५९॥
1340
पक्वान्नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः।
परोक्षे च समक्षे च न तासां विश्वसेत्सुधीः॥६०॥
1341
सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या हि सर्वदा।
द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः॥६१॥
1342
महिष्या दृष्टया भाव्यं गृहकार्येषु दक्षया।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया॥६२॥
1343
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः॥६३॥
1344
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न चास्ति सत्यं
न तत्सत्यं यच्छलेनानुविद्धम्॥६४॥
1345
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्।
अनुवन्विब्रुवन्वापि नरो भवति किल्विषी॥६५॥
1346
तस्मात्सभ्यः सभां गत्वा रागद्वेषविवर्जितः।
वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत्॥६६॥
1347
माता पिता गुरुर्भ्राता भार्या पुत्रः पुरोहितः।
नादोण्ड्यो नाम राज्ञोस्ति स्वधर्मे यो न तिष्ठति॥६७॥
1348
अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगवान्।
क्रियते व्यङ्गता ह्येषु ततो दोषैर्न लिप्यते॥६८॥
1349
न तु हन्यान्महीपालो दूतं कस्यचिदापदि।
तहन्ता तु नरकमाविशेत्मनिवैः सह॥६९॥
1350
विशोधय महीपाल मन्त्रिशालामशेषतः।
अयुक्तो नार्हति स्थातुमस्यां मन्त्ररहस्यवित्॥७०॥
1351
मन्त्रतन्त्रातिप्रीतिर्देशकालोचितस्थितिः।
यश्च राज्ञि भवेद्रक्तः सोमात्यः पृथिवीपतेः॥७१॥
1352
अन्तःसारैरकुटिलैः सुक्षिग्वैः सुपरीक्षितैः।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम्॥७२॥
1353
नरपतिहितकर्ता द्वेष्यतां याति लोके
जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः।
इति महति विरोधे वर्तमाने समाने
नृपतिजनपदानां दुर्लभः कार्यकर्ता॥७३॥
1354
षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिगे भवेत्।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति॥७४॥
1355
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्ति राष्ट्रं सराजकम्॥७५॥
1356
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न च पत्तिभिः।
कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम्॥७६॥
1357
दुर्योधनः समर्थोपि दुर्मन्त्री प्रलयं गतः।
राज्यमेकश्चकारोच्चैः सुमन्त्री चन्द्रगुप्तकः॥७७॥
1358
अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः॥७८॥
1359
पृष्टो ब्रूते न सत्यं तं परिणामे सुखावहम्।
मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः॥७९॥
1360
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥८०॥
1361
दुर्गाणि राज्ञा कार्याणि सजलानि दृढानि च।
द्रव्यमन्नं च तेष्वेव स्थापनीयं प्रयत्नतः॥८१॥
1362
दुर्गं बहुविधं ज्ञेयं पर्वतस्य जलस्य च।
प्राकारस्य वनस्यापि भूमेरपि भवेत्क्वचित्॥८२॥
1363
न गजानां सहस्रेण न लक्षेण च वाजिनाम्।
तथा सिद्ध्यन्ति कार्याणि यथा दुर्गप्रभावतः॥८३॥
1364
विषहीनो यथा नागो मदहीनो यथा गजः।
सर्वेषां वश्यतां याति दुर्गहीनस्तथा नृपः॥८४॥
1365
शतमेकोपि संधत्ते प्राकारस्थो धनुर्धरः।
तस्माद्दुर्गंप्रशंसन्ति नीतिशास्त्रविदो जनाः॥८५॥
1366
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेद्यथावत्तांस्त्रिविधेष्वपिकर्मसु॥८६॥
1367
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम्।
अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते॥८७॥
1368
निर्विशेषं यदा राजा समं भृत्येषु तिष्ठति।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते॥८८॥
1369
प्रसादो निष्फलो यस्य क्रोधो यस्य निरर्थकः।
न तं भर्तारमिच्छन्ति वृद्धं पतिमिवाङ्गनाः॥८९॥
1370
त्यजेत्स्वामिनमत्युग्रमत्युमात्कृपणं त्यजेत्।
कृपणादविशेषज्ञं तस्माच्च कृतनाशनम्॥९०॥
1371
अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः।
प्रवासरसिके कान्ते यथा साध्याः स्तनोन्नतिः॥९१॥
1372
किंशुके किं शुकः कुर्यात्कलितेपि बुभुक्षितः।
अदातरि समृद्धेपि किं कुर्युरुपजीविनः॥९२॥
1373
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम्।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम्॥९३॥
1374
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम्।
पुंसां विवेकमुक्तानां सेवया न धनार्जनम्॥९४॥
1375
जीवन्तोपि मृताः पञ्च व्यासेन परिकीर्तिताः।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः॥९५॥
1376
न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम्।
होतारमपि जुह्वन्तं दहत्येव हि पात्रकः॥९६॥
1377
गृध्राकारोपि सेव्यः स्याद्धंसाकारैः सभासदैः।
हंसाकारोपि संत्याज्यो गृध्राकारैः सभासदैः॥९७॥
1378
चक्रं सेव्यं नृपः सेव्यो मा नृपश्चक्रवर्जितः।
पश्य चक्रस्य माहात्म्यं मृत्पिण्डः पात्रतां गतः॥९८॥
1379
गन्तव्यं राजकुलं द्रष्टव्या राजपूजिता लोकाः।
यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विलीयन्ते॥९९॥
1380
अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः।
मध्यभावेन सेव्यन्ते राजा वह्निर्गुरुस्त्रियः॥१००॥
1381
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसंगतं वा।
प्रायेण भूमिपतयः प्रमदा लताश्च
यः पार्श्वतो भवति तं परिवेष्टयन्ति॥१०१॥
1382
यस्मिन्नैवाधिकं चक्षुरारोपयति पार्थिवः।
कुलीनो वाकुलीनो वा स श्रियो भाजनं भवेत्॥१०२॥
1383
धवलान्यातपत्राणि वाजिनश्च मनोरमाः।
सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ॥१०३॥
1384
राजमातारे देव्यां च कुमारे मुख्यमन्त्रिणि।
पुरोहिते प्रतीहारे वर्तितव्यं नृपे यथा॥१०४॥
1385
द्विजा अपि न गच्छन्ति तां गतिं नैव योगिनः।
स्वाम्यर्थे संत्यजन्प्राणान्यां गतिं याति सेवकः॥१०५॥
1386
राजा तुष्टोपि भृत्यानां मानमात्रं प्रयच्छति।
ते तु संमानिता ह्येनं प्राणैरप्युपकुर्वते॥१०६॥
1387
सारासारपरिच्छेत्ता स्वामी भृत्यस्य दुर्लभः।
अनुकूलः शुचिर्दक्षः प्रभोर्भृत्योपि दुर्लभः॥१०७॥
अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान्।
तृणमपि दग्धुं शक्तो न वाडवाग्निः पिबन्ननिशम्॥१०८॥
1389
पानमक्षास्तथा नार्यो मृगया गीतवादिते।
एतानि युक्तया सेवेत प्रसङ्गो ह्यत्र दोषवान्॥१०९॥
1390
नृपः कामासक्तो न गणयति कार्यं न च हितं
यथेष्टं स्वच्छन्दं चरति किल मत्तो गज इव।
ततो मानाध्मातः पतति तु यदा शोकगहने
तदामात्ये दोषान्क्षिपति न निजं वेत्त्यविनयम्॥११०॥
1391
गुणवदगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन।
अतिरभसकृतानां कर्मणामा विपत्ते-
भवति हृदयदाही शल्यतुल्यो विपाकः॥१११॥
1392
आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत्।
प्रभूततैलदीपो हि चिरं भद्राणि पश्यति॥११२॥
1393
अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते॥११३॥
1394
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम्।
प्रसादयति लोकं यस्तं लोकोनुप्रसीदति॥११४॥
1395
संभोजनं संकथनं संप्रश्नोथ समागमः।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन॥११५॥
1396
संगतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः॥११६॥
1397
मृदोः परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः।
उत्सृज्यैतद्वयंतस्मान्मध्यां वृत्तिं समाश्रयेत्॥११७॥
1398
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम्।
नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्॥११८॥
1399
तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत्।
अतिनिर्मथनादग्निश्चन्दनादपि जायते॥११९॥
1400
किमप्यसाध्यं महतां सिद्धिमेति लघीयसाम्।
प्रदीपो भूमिगेहान्तर्ध्वान्तं हन्ति न भानुमान्॥१२०॥
1401
अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः॥१२१॥
1402
हन्तुं मेषोपसरति मृगेन्द्रः संकुचत्यपि।
बुद्धिमन्तःसहन्ते तन्निधाय हृदि किंचन॥१२२॥
1403
व्रजन्ति ते मूढधियः पराभवं
भवन्ति मायाविषु ये न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधा-
नसंवृताङ्गान्निशिता इवेषवः॥१२३॥
1404
कोहं कौ देशकालौ समविषमगुणाः केरयः के सहायाः
का शक्तिः कोभ्युपायः फलमिह च कियत्कीदृशी दैवसंपत्।
संपत्तौको निबन्धः प्रतिहतवचनस्योत्तरं किं नु मे स्या-
दित्येवं कार्यसिद्धाववहितमनसो नावहास्या भवन्ति॥१२४॥
1405
धर्मः प्रागेव चिन्त्यः सचिवगतिमती सर्वदालोकनीये
प्रच्छाद्यौ रागरोषौ मृदुकठिनतरौ योजनीयौ च काले।
ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीय-
मात्मा यत्नेन रक्ष्योरणशिरसि पुनः सोपि नापेक्षणीयः॥१२५॥
1406
यशस्करे कर्मणि मित्रसंग्रहे
प्रियासु नारीष्बधनेषु बन्धुषु।
क्रतौ विवाहे व्यसने रिपुक्षये
धनव्ययस्तेषु न गण्यते बुधैः॥१२६॥
1407
स्वाम्यमात्यश्व राष्ट्रं च कोशो दुर्गं बलं सु यत्।
एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम्॥१२७॥
1408
संधिविग्रहयानानि संस्थितिः संश्रयस्तथा।
द्वैधीभावश्च भूपानां षड्गुणाः परिकीर्तिताः॥१२८॥
1409
उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं जगुः।
आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः॥१२९॥
1410
सामदाने भेददण्डावित्युपाय चतुष्टयम्।
हस्त्यश्चरथपादातं सेनाङ्गं स्याच्चतुष्टयम्॥१३०॥
1411
दुष्टाविनीतशत्रूणां भयकृद्बन्धुसंनिभम्।
शस्त्रधारणमोजस्यं रक्षोविद्युद्भहापहम्॥१३१॥
1427
वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं
वाक्पारुष्याच्चोपकारोपि नेष्टः।
किं तद्द्रव्यम् कोकिलेनोपनीतं
को वा लोके गर्दभस्यापराधः॥८॥
1428
यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्सदा प्रियम्।
व्याधा मृगवधं कर्तुं गीतं गायन्ति सुस्वरम्॥९॥
1429
प्रहरिष्यन्प्रियं ब्रूयात्प्रहत्यापि प्रियोत्तरम्।
अपि चास्य शिरश्छित्वा रुद्याच्छोचेत्तथापि च॥१०॥
1430
अनागतविधातारमप्रमत्तमकोपनम्।
स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठते॥११॥
1431
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते।
प्रारम्भे कृतबुद्धीनां सिद्धिव्यभिचारिणी॥१२॥
1432
नालसाः प्राप्नुवन्त्यर्थान्न दाठा न च मायिनः।
न च लोकरवाद्भीता न च शाश्वत्यवीेक्षिणः॥१३॥
1133
नोदन्वानर्थितामेति स चाम्भो
भिः प्रपूर्यते ।
आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः॥१४॥
1434
सर्वथा स्वहितमाचरणीयं
किं करिष्यति जनो बहुजल्पः।
विद्यते नहि स कश्चिदुपायः
सर्वलोकपरितोषकरो यः॥१५॥
1435
काकतालीययोगेन यदनात्मवति क्षणम्।
करोति प्रणयं लक्ष्मीस्तदस्याः स्त्रीत्वचापलम्॥१६॥
1436
योयमर्थं प्रार्थयते तदर्थं घटते च यः।
अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते॥१७॥
1437
केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः।
केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु नाशिताः॥१८॥
1438
मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः।
आपन्निकषपाषाणे नरो जानाति सारताम्॥१९॥
1439
दुष्टैरपि निजैरेव प्रावृतं सर्वमुत्तमम्।
वृतं जीर्णाम्बरेणापि हट्टकर्पटमर्धति॥२०॥
1440
चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥२१॥
1441
वरं दारिद्र्यमन्यायप्रभवाद्विभवादिह।
कृशताभिमता देहे पीनता न तु शोफतः॥२२॥
1442
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम्।
पश्चाद्भवति संतापो ब्राह्मण्या नकुले यथा॥२३॥
1443
दिवा निरीक्ष्य वक्तव्यं रात्री नैव च नैव च।
संचरन्ति महाधूर्ता वटे वररुचिर्यथा॥२४॥
1444
स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया।
गावो दूरप्रचारेण हिरण्यं लाभलिप्सया॥२५॥
1445
अतिदानाद्वलिबेद्धो नष्टो मानात्सुयोधनः।
विनष्टो रावणो लौल्यादति सर्वत्र वर्जयेत्॥२६॥
1446
धनमस्तीति वाणिज्यं किंचिदस्तीति कर्षणम्।
सेवा न किचिदस्तीति नाहमस्मीति साहसम्॥२७॥
1447
स्पृशन्नपि गजो हन्ति जिन्नपि भुजंगमः।
हमक्षपि नृपो हन्ति मानयपि दुर्जनः॥२८॥
1448
जानन्ति पशवो गन्धाद्वेदाज्जानन्ति वाडवाः।
चराज्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥२९॥
1449
सपक्षो लभते काको वृक्षस्य विविधं फलम्॥
पक्षहीनो मृगेन्द्रोपि भूमिसंस्थो निरीक्षते॥३०॥
1450
अलब्ध्वापि फलं राज्ञः संश्रिता यान्ति संपदाम्।
महाद्रुमसमीपस्थं पश्य नीलं वनस्पतिम्॥३१॥
1451
सर्वंमहा ये ऋजवः प्रतिज्ञातार्थपालकाः।
परोपकारिणः सेव्या निर्धना अपि ते नराः॥३२॥
1452
युक्तियुक्तं प्रगृह्णीयाद्वालादपि विचक्षणः।
रवेरविषये वस्तु किं न दीपः प्रकाशयेत्॥३३॥
1453
कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि।
वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु॥३४॥
1454
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम्।
वृथा दानं समर्थस्य वृथा शूरे विभूषणम्॥३५॥
1455
अजायुद्धमृषिश्राद्धं प्रत्यूषे मेघडम्बरः।
दंपत्योः कलहश्चैव परिणामे न किंचन॥३६॥
1456
सप्तैतानि न पूर्यन्ते पूर्यमाणान्यपि क्वचित्।
ब्राह्मणोग्निर्यमो राजा पयोधिरुदरं गृहम्॥३७॥
1457
वस्त्रं गां च बहुक्षीरां जलपात्रमुपानहौ।
औषधं बीजमाहारं संक्रीणीत यथाप्नुयात्॥३८॥
1458
अर्थनाशं मनस्तापं गृहे दुरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥३९॥
1459
अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत्।
त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत्॥
1460
सौहृदेन परित्यक्तं निःस्नेहं खलवत्त्यजेत्।
सोदरं भ्रातरमपि किमुतान्यं पृथग्जनम्॥४१॥
1461
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा।
आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत्॥४२॥
1462
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥४३॥
1463
चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्॥४४॥
1464
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम्।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते॥४५॥
1465
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत्।
धनिकः श्रोत्रियो गजा नदी वैद्यस्तु पञ्चमः॥४६॥
1466
अनायके न वस्तव्यं न वसेद्बहुनायके।
स्त्रीनायके न वस्तव्यं न वसेद्बालनायके॥४७॥
1467
सर्वे यत्र विनेतार सर्वे पण्डितमानिनः।
सर्वे महत्वमिच्छन्ति तद्वृन्दमवसीदति॥४८॥
1468
घटं भिन्द्यात्पटं छिन्द्यात्कुर्यात्किंचिदथाद्भुतम्।
येन केनाप्युपायेन नाविज्ञातः पुरे वसेत्॥४९॥
1469
विवादो धनसंबन्धो याचनं स्त्रीषु संगतिः।
आदानमय स्थायित्वं मैत्रीभङ्गस्य हेतवः॥५०॥
1470
नहीदृशं संवननं त्रिषु लोकेषु विद्यते।
दया मैत्री च भूतेषु दानं च मधुरा च वाक्॥५१॥
1471
दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम्।
कथितानि रहस्यानि सौहृदं किमतः परम्॥५२॥
1472
न मातरि न दारेषु न सोदर्येषु बन्धुषु।
विश्रम्भस्तादृशः पुसां यादृङ्मित्रे निरन्तरे॥५३॥
1473
शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्॥५४॥
1474
दुःखेन श्लिष्यते भिन्नं शिष्टं दुःखेन भिद्यते।
भिन्नश्लिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी॥५५॥
1475
ययोरेव समं वित्तं ययोरेव समं कुलम्।
तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः॥५६॥
1476
चिबुके यस्य लोमानि न वक्षसि न गल्लयोः।
तेन सख्यं न कुर्वीत यदि निर्मानुषं जगत्॥५७॥
1477
दाने तपसि शौर्ये च यस्य न प्रथितं यशः।
विद्यायामर्थलाभे वा तस्य जन्म निरर्थकम्॥५८॥
1478
परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम्।
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति॥५९॥
1479
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्ति च।
न खादन्ति न मेहन्ति किं मामपशवोपरे॥६०॥
1480
पन्नगाः सन्ति बहुशो भेकभक्षणतत्पराः।
स एकः शेषनागो हि भूभारधरणक्षमः॥६१॥
1481
यज्जीव्यते क्षणमपि प्रथितैर्मनुष्यै-
विज्ञानविक्रमयशोभिरभग्नमानम्।
तन्नाम जीवितफलं प्रवदन्ति सन्तः
काकोपि जीवति चिरं च बलिं च भुङ्क्ते॥६२॥
1482
किं तेन जातु जातेन मानुर्यौवनहारिणा।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा॥६३॥
1483
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम्।
यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत्॥६४॥
1484
न पुत्रः पितरं द्वेष्टि स्वभावात्स्वस्य रेतसः।
यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम्॥६५॥
1485
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु॥६६॥
1486
न पुत्रत्वेन पृज्यन्ते गुणैरासाद्यते पदम्।
स्वेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः॥६७॥
1487
उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः।
अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः॥६८॥
1488
ज्येष्ठो भ्राता पितृसमो मृते पितरि सर्वदा।
स ह्येषां वृत्तिदाता स्यात्स ह्येतान्परिपालयेत्॥६९॥
1489
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः।
तमेव चोपजीव्येरन्यथैव पितरं तथा॥७०॥
1490
विभागेन समानास्ते पितुर्द्रव्यस्य केवलम्।
तयोः पूर्वतरो यस्तु गुरुः स हि निगद्यते॥७१॥
1491
ऋणशेषश्चाग्निशेषः शत्रुशेषस्तथैव च।
पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न कारयेत्॥७२॥
1492
कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी।
कुपुत्रेण कुलं नष्टं तन्नष्टं यन्न दीयते॥७३॥
1493
चतुरःसृजता पूर्वमुपायांस्तेन वेधसा।
न सृष्टः पञ्चमः कोपि गृह्यन्ते येन योषितः॥७४॥
1494
स्त्रियस्तु यः कामयते संनिकर्षं च गच्छति।
ईषत्प्रकुरुते सेवां तं तमिच्छन्ति योषितः॥७५॥
1495
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव॥७६॥
1496
बर्बरश्च तपस्वी स्याच्छूरश्चाप्यकृतव्रणः।
मद्यपा स्त्री सती राजन्निति न श्रद्दधाम्यहम्॥७७॥
1497
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम्।
हृद्गतं चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः॥७८॥
1498
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचना॥७९॥
1499
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः।
तेन नारद नारीणां सतीत्वमुपजायते॥८०॥
1500
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते॥८१॥
1501
लक्ष्म्या परिपूर्णाहं न भयं मेस्तीति मोहनिद्रैषा।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः॥८२॥
1502
अतिपरिचयादवज्ञा संततगमनादनादरो भवति।
लोकः प्रयागवासी कूपस्नानं समाचरति॥८३॥
1503
व्रजत्यधोधो यात्युच्चैर्नरः स्वैरेव चेष्टितैः।
खनितेव हि कूपस्य प्रासादस्येव कारकः॥८४॥
एतेनीतिशास्त्रेभ्यो भारताद्याणाक्यात्पञ्चाख्यानाश्च।
1504
ब्राह्मे मुहूर्ते पुरुषस्त्यजेनिद्रामतन्द्रितः।
पद्मं प्रातः प्रबुद्धं हि श्रयति श्रीर्गुणाश्रयम्॥८५॥
1505
नोत्तरस्यां प्रतीच्यां च कुर्वीत शयने शिरः।
शय्याविपर्ययाद्गर्भो दितेः शक्रेण दारितः॥८६॥
1506
न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत्।
हतो दशास्यः सीतार्थी हतः पत्न्या विदूरथः॥८७॥
1507
न मद्यव्यसनैः क्षीबः कुर्याद्वेतालविप्लवम्।
वृष्णयो हि ययुः क्षीबास्तृणप्रहरणैः क्षयम्॥८८॥
1508
दानं सत्त्वाश्रितं दद्यान्न पश्चात्तापवान्भवेत्।
बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये॥८९॥
1509
ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः।
तक्षकाग्नौ गतः कोपाद्ब्राह्मणस्य परीक्षितः॥९०॥
1510
दम्भारम्भोद्धुरं कर्म न चरेदन्तनिष्फलम्।
ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला॥९१॥
1511
न स्त्रीजितः प्रमूढः स्याद्गाढरागवशीकृतः।
पुत्रशोकादशरथो जीवं जायाजितोत्यजत्॥९२॥
1512
क्षिपेद्वाक्यशरान्घोरान्न पारुष्यविषप्लुतान्।
वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम्॥९३॥
1513
परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम्।
पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम्॥९४॥
1514
कुर्यान्नीचजनाभ्यस्तां न याञ्चां मानहारिणीम्।
बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः॥९५॥
1515
वक्रैःक्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम्।
वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः॥९६॥
1516
तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत्।
विश्वामित्रापि सोत्कण्ठः कण्ठे जग्राह मेनकाम्॥९७॥
1517
भक्तं रक्तं सदासक्तं निर्दोषं न परित्यजेत्।
रामस्त्यत्त्का सतीं सीतां शोकशल्याकुलोभवत्॥९८॥
1518
न क्रोधयातुधानस्य भीमामिच्छेद्विधेयताम्।
निपीतभ्रातृरुधिरः प्राप निन्दां वृकोदरः॥९९॥
1519
वर्जयेदिन्द्रियजये निर्जने जननीमपि।
पुत्रीकृतोपि प्रद्युम्नःकामितः शंबरस्त्रिया॥१००॥
1520
प्रभुप्रसादे विश्वासं न कुर्यात्स्वप्नसंनिभे।
नन्देन मन्त्री निक्षिप्तः शकटालोपि बन्धने॥१०१॥
1521
न लोकायतवादेन नास्तिकः स्याददैवतः।
हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः॥१०२॥
1522
अत्युन्नतपदारूढः पूज्यान्नैवापमानयेत्।
नहुषः शक्रतां प्राप्य च्युतोगस्त्यावमाननात्॥१०३॥
1523
हितोपदेशं शृणुयात्कुर्वीत च यथोदितम्।
विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक्॥१०४॥
1524
न पुत्रायत्तमैश्वर्यं कुर्यादार्यः कथंचन।
पुत्रार्पितप्रभुत्वोभूद्धृतराष्ट्रस्तृणोपमः॥१०५॥
1525
श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम्।
दैत्यानां श्रीवियोगोभूत्सत्यधर्मक्रियामुचाम्॥१०६॥
1526
न कुर्यादभिचारोग्रवश्यादिकुहकक्रियाम्।
लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः॥१०७॥
1527
व्याकुलोपि विपत्पातैः स्मरेद्विष्णुं सदा हृदि।
शरतल्पगतो भीष्मः सस्मार गरुडध्वजम्॥१०८॥
एवं क्षेमेन्द्रस्य।
1528
संदेहो वैष्णवे मार्गे न कार्योन्यैः कुदर्शनैः।
रामप्रभावमद्यापि यतोब्धौ पश्य सेतुना॥१०९॥
शार्ङ्गधरस्य।
अथ मिश्रकनीतिः॥७७॥
1529
मणिः शाणोल्लीढः समरविजयी हेतिनिहतो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः॥१॥
1530
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे॥२॥
एतौ भर्तृहरे।
1531
अविधेयो भृत्यजनः शठानि मित्राण्यदायकः स्वामी।
अविनयवती च भार्या मस्तकश्रूलानि चत्वारि॥३॥
1532
शक्तिरहितोपि कुप्यति सेवासक्तोपि मानमुद्वहति।
अधनोपि हि कामयते जानाति विधिर्विडम्बयितुम्॥४॥
1533
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
द्विप्रोनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात्।
मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रया-
त्स्त्रीर्मद्यादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम्॥५॥
1534
कोर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः।
कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं
को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान्॥६॥
1535
क्लीबे धैर्यं मद्य तत्त्वचिन्ता
सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः।
काके शौचं द्यूतकारे च सत्यं
राजा मित्रं केन दृष्टं श्रुतं वा॥७॥
1536
मांसं मृगाणां दशनौ गजानां
मृगद्विषां चर्म फलं द्रुमाणाम्।
स्त्रीणां च रूपं च नृणां हिरण्य-
मेते गुणा वैरकरा भवन्ति॥८॥
1537
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य॥९॥
1538
शाठ्येन मित्रं कपटेन धर्म
परोपतापेन समृद्धिभावम्।
सुखेन विद्यां परुषेण नारीं
वाच्छन्ति ये नूनमपण्डितास्ते॥१०॥
1539
धातुवादेषु विशा मोक्षाशा कौलिके मते।
जामातरि च पुत्राशा त्रयमेतन्निरर्थकम्॥११॥
1540
किंशुकादपि गन्धाशा मांसाशा मशकादपि।
कृपणादपि वित्ताशा वृथाशा तस्य दुर्मतेः॥१२॥
1541
राजा घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्टबुद्धिः सहायः।
प्रेप्यः प्रतीपोधिकृतः प्रमादी
त्याज्या इमे यश्चकृतं न वेत्ति॥१३॥
1542
वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं दिनं
योधं कापुरुषं हयं गतरयं मूर्खं परिव्राजकम्।
राज्यं बालनृपं च मन्त्रिरहितं मित्र छलान्वेषिय-
द्भार्यो यौवनगर्वितां पररतां मुञ्चन्ति ते पण्डिताः॥१४॥
1543
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा
निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः।
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः
सर्वः कार्यवशाज्जनोनुरमते तत्कस्य को वल्लभः॥१५॥
1544
स्वफलनिचयः शाखाभङ्गं करोति वनस्पते-
र्गमनमलसं बर्हाटोपः करोति शिखण्डिनः।
चतुरगमनो जान्योत्यश्वः स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणाः खलु दृषणम्॥१६॥
1545
त्यजति भयमकृतपापं सुमित्रमयशः प्रमादिनं विद्या।
द्वीः कामिनमलसं श्रीः क्रूरं स्त्री दुर्जनं लोकः॥१७॥
1546
द्वाविमौ पुरुषौ लोके परप्रत्ययकारकौ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः॥१८॥
1547
द्वाविमौ पुरुष लोके सुखिनौन कदाचन।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः॥१९॥
1548
द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः।
प्रभुश्र क्षमया युक्तो दरिद्रश्र प्रदानवान्॥२०॥
1549
द्वाविमौ पुरुषौ लोके शिरः शूलकरौपरी।
गृहस्थो यो निरारम्भो यति सपरिग्रहः॥२१॥
1550
द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः।
प्रार्थितो यश्चकुरुते यश्च नार्थयते परम्॥२२॥
1551
द्वाविमावम्भसि क्षेप्यौ गाढं बद्ध्वा गले शिलाम्।
धनिनं चाप्रदातारं दरिद्रं चातपस्विनम्॥२३॥
1552
सन्तश्चेदमृतेन किं यदि खलस्तत्कालकूटेन किं
दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः।
किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया
संसारेपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्॥२४॥
1553
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम्।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना॥२५॥
1554
मित्रं स्वच्छतया रिपुं नयबलैर्लब्धं धनैरीश्वरं
कार्येण द्विजमादरेण युवतिं प्रेम्णातितीव्रं स्तवैः।
बन्धुं क्षान्ततया गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं
विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम्॥२६॥
केषामप्येते।
1555
वाजी चारुगतिः शशाङ्कधवलं छत्रं प्रिया पृष्ठतः
प्रोत्तुङ्गस्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः।
ताम्बूलं प्रचुरं सखा सुचतुरः संपद्यते चेत्पथि
प्राहुस्तत्कटकप्रयाणमितरत्प्राणप्रयाणं बुधाः॥२७॥
कस्यापि।
1556
जवो हि सप्तेः परमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्विनः।
द्विजस्य विद्या नृपतेरपि क्षमा
पराक्रमः शस्त्रवलोपजीविनाम्॥२८॥
पाण्डवनकुलस्य।
1557
इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभ
मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पाकरम्।
माकन्दं पिकसुन्दरीव तरुणीवात्मेश्वरं प्रोषितं
चेतोवृत्तिरियं मम प्रियसखे त्वां द्रटुमुत्कण्ठते॥२९॥
1558
नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानस
सानन्दाः स्फुटसल्लकीवनयुतां ध्यायन्ति रेवां गजाः।
युष्मद्दर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं
धन्यः कोपि स वासरोत्र भविता यत्रावयोः संगमः॥३०॥
एतौ राघवचैतन्यश्रीचरणानाम्।
1559
वासः शुभ्रमतुर्वसन्तसमयः पुष्पं शरन्मल्लिका
धानुष्कः कुसुमायुधः परिमलःकस्तूरिकास्त्रं धनुः।
वाणी तर्करमोज्जला प्रियतमा श्यामा वयो यौवनं
मार्गः शांभव एव पञ्चमलया गीतिः कविर्बिल्हणः॥३१॥
बिल्हणस्य।
अथ गजप्रशंसा॥७८॥
1560
यतो गजैर्विना राज्ञां राज्यशोभा न जायते।
जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते॥१॥
1561
पुरा स्वर्गे सुखेनासन्कामगाः खचरा गजाः।
मुनिशापाद्गता भूमौ तनो जाता वनेचराः॥२॥
1562
भद्रो मन्दो मृगो मिश्रश्चतुर्धा जायते गजः।
त्रयो युगत्रयेभूवन्मिश्राः कलियुगे गजाः॥३॥
शार्ङ्गधरस्यैतौ।
1563
यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम्।
यतो रूपं ततः शीलं यतो नागास्ततो जयः॥४॥
1564
यद्वद्वनमभिहं तु यद्वाद्राष्ट्रमपार्थिवम्।
यद्वच्छौर्यमशस्त्रंतु तद्वत्सैन्यमकुञ्जरम्॥५॥
1565
प्राकारगोपुराट्टालकपाटोद्धाटनादिषु।
भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः॥६॥
1566
शरजालाञ्चितमुखः कोन्यः शक्तः परो गजात्।
हन्तुं प्राकारमुन्मथ्य रथाश्वनरकुञ्जरान्॥७॥
1567
एकशक्तिप्रहारेण म्रियतेश्वोनरोपि हि।
सहेन्महाप्रहाराणां शतं युद्धेषु वारणः॥८॥
1568
क्रीडासु च नरेन्द्राणां जले पुष्पितपङ्कजे।
स्नपयन्ति गजा हस्तैर्लग्नपुष्करपुष्करैः॥९॥
1569
स्त्रियोवतारयन्त्येते मृण्मया इव निश्चलाः।
नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा॥१०॥
पालकाप्यात।
1570
चीत्कारैः सर्वतोपि स्वपतिभटमनो मोदयन्तो मदाद्याः
प्रौढाः संग्रामसीम्नि स्वबलबहुलतां बाढमाढौकमानाः।
शुण्डादण्डप्रपातैः परममपि बलं कम्पयन्तः परेषां
येषां स्युर्वारणेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः॥११॥
1571
चलन्ति येषां न मतङ्गजेन्द्राः
पुरः प्रयाणे चलशैलतुल्याः।
वाञ्छन्ति ते वैरिजयं कथं ते
राजेति शब्दं च कथं लभन्ते॥१२॥
1572
सेतुं संभेदयन्तो बलत्रिकटभटप्रोन्नतिं त्रोटयन्तः
प्राकारं दारयन्तः परमनसि परां भीतिमुत्पादयन्तः।
व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो
येषामाजौगजेन्द्राः खलु धरणिभुजां तज्जयः सिद्ध एव॥१३॥
1573
रक्षन्ति पक्षं मुदिताः स्वकीयं
मथ्नन्ति सैन्यं कुपिताः परेषाम्।
प्राणैरपीच्छन्ति हितं प्रभूणां
गजैः समानं क बलं बलीयः॥१४॥
1574
तावद्गर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येपि धीरा-
स्तावद्धावन्ति वेगं परमपि दधतः संमुखीनास्तुरंगाः \।
शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्व-
न्यावन्नायाति कोपात्कृतविविधरवाटोप एकोपि नागः॥१५॥
1575
सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते
यो मथ्नन्परितः परोद्धतबलं युद्धेषु योधायते।
यः स्वीयक्षितिनाथ रक्षणविधौ प्रोच्चैकदुर्गायते
स प्राज्यो विजिगीषुभिर्गजगणः कैः पार्थिवैर्नार्थ्यते॥१६॥
1576
मातङ्गैरपि यैर्महीन्द्रभवनं पुण्याधिकं जन्यते
यैः इयामैरपि सर्वलोकमहिता कीर्तिः सिता तन्यते।
यैर्मत्तैरपि संगरे रिपुमदः शोषं समानीयते
तेमी भाग्यवतः प्रयान्ति पुरतः स्तम्बेरमा भूपतेः॥१७॥
एते गुणाकरस्य।
अथ भद्रलक्षणानि।
1577
प्रतिमानेषु विपुलश्चारुपृष्ठायताननः।
मुखे सुरभिनिःश्वासस्ताम्रजिह्वौष्ठतालुकः॥१८॥
1578
तथास्य तुल्यसंस्थानौ दन्तौ शुभ्रौ विशेषतः।
मधुपिङ्गलनेत्रश्च महाकायो महाबलः॥१९॥
1579
पुरस्तादुच्छ्रितश्चापि पश्चादवनतोपि यः।
धनुर्विनतवंशश्र समपादतलः शुभः॥२०॥
1580
विंशत्या च नखैर्युक्तो योष्टादशभिरेव बा।
विद्युद्दवाग्निसिंहेभ्यो न विभेत्यङ्कुशादपि॥२१॥
1581
अन्वर्थवेदी शूरश्र क्षमावान्न च कर्कशः।
कल्याण मेधास्तेजस्वी स भद्रः परिकीर्तितः॥२२॥
अथ मन्दलक्षणानि।
1582
महाग्रीवो महावत्त्को महाप्रोथो महोदरः।
पीनानुवंशः सान्द्रत्वक्सुविभक्तमहाशिराः॥२३॥
1583
बहलैर्मृदुभिर्युक्तः स्निग्धैश्चैव तनूरुहैः।
स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः॥२४॥
1584
स्थिर स्निग्धे विशाले च पीने चापि प्रकीर्तिते।
विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्र लोमशः॥२५॥
1585
कुर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः।
संमील्य लोचने नित्यं निद्रान्ध इव गच्छति॥२६॥
1586
धीरोनुरक्तो हस्तिन्यां गतोद्वेगो जितश्रमः।
निर्भयो मन्दबुद्धिश्चधृतिमान्मन्द उच्यते॥२७॥
अथ मृगलक्षणानि।
1587
तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः।
तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः॥२८॥
1588
दीर्घजिह्वाविषाणश्च दीर्घगात्रस्तथा च सः।
प्रध्वस्तरोमकर्णत्वक्पुरस्ताच्चापि संवृतः॥२९॥
1589
निपाने गोचरस्थाने शय्यायां चाप्यनिर्वृतः।
तूर्याभिभवशी च नित्यमेवानवस्थितः॥३०॥
1590
ह्रस्वश्रवणलाङ्गृलो दीर्घं विक्रमते क्रमैः।
पुनः पुनश्च विनदन्दुर्मतिश्चाभिधावति॥३१॥
अथ मिश्रलक्षणम्।
1591
बद्वाशी बह्वलीकश्च दण्डपातेषु चाक्षमः।
गच्छेत्प्रकृष्टवेश्च भारं प्राप्यावसीदति॥३२॥
1592
कृच्छ्राच्चाप्यायते नागः क्षिप्रं च परिहीयते।
कट्वम्ललवणैश्चैव रूक्षैश्चातुरतां व्रजेत्॥३३॥
1593
नित्यं च सान्त्वयेदेनं न चैनमभितापयेत्।
सर्वेषां लक्षणैः कैश्चिद्युक्तो मिश्रो भवेद्गजः॥३४॥
अथ गजप्रक्रिया।
1594
एवं विधान्गजाञ्जात्यान्वनादानीय पार्थिवः।
विनये शिष्यवत्कुर्यात्पुत्रवत्परिपालयेत्॥३५॥
1595
शूरमारोहकं कुर्याद्वशगं च विशेषतः।
शूरत्वं कातरत्वं च तदायत्तं गजे यतः॥३६॥
1596
सज्जितः कल्पितः शूरः शूरारूढः प्रतापवान्।
जयत्येकोपि मातङ्गः षट्सहस्राणि वाजिनाम्॥३७॥
1597
शरतोमरचक्रैश्च गजस्कन्धे हता नराः।
क्षणात्स्वर्गे प्रयान्त्येव तस्मात्स्वर्गेपमा गजाः॥३८॥
एते पालकाप्यात।
अथ तुरगप्रशंसा॥७९॥
1598
पुरा सपक्षा हरयो विचेरुः खेचराः किल।
गन्धर्वेभ्यः समुत्पन्नाः सदा स्वच्छन्दचारिणः॥१॥
1599
तेजोवाय्वम्बुदगणैर्लब्धैर्लक्षितलक्षणान्।
वीक्ष्य शक्रो जगादेदं शालिहोत्रं महामुनिम्॥२॥
1600
छिन्धि पक्षानमीषां त्वं यथा स्युर्वाहनानि मे।
इषीकास्त्रेण सोप्येषां पक्षांस्तत्प्रीतयेच्छिनत्॥३॥
1601
ततः प्रसादितैस्तैस्तु प्रादाद्वरमिदं मुनिः।
युष्मत्पक्षोपमो वेगश्चरणानां भविष्यति॥४॥
1602
यूयं शक्रादिदेवानां वाहनत्वं गमिष्यथ।
तथा भूमिपतीनां च गौरवेण समन्विताः॥५॥
1603
यो राजा भवतां पुष्टिं खानपानादिभिः सदा।
करिष्यति स सर्वत्र जयवादी भविष्यति॥६॥
1604
अथागत्य भुवं राज्ञां गता वाहनतां हयाः।
तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः॥७॥
1605
श्रीमूलमण्डनं यस्य गृहे सन्ति न वाजिनः।
गृहभित्तिषु तेनापि लेख्या दुरितशान्तये॥८॥
1606
अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी।
अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम्॥९॥
1607
निपत्य युधि वेगेन मिषतां सर्वधन्विनाम्।
शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः॥१०॥
1608
शस्त्रैर्निर्भिन्नदेहोपि श्रान्तोपि गुरुभारतः।
न मुञ्चति रणे नाथमतः कोन्यो हयात्सुहृत्॥११॥
1609
दूरस्थोपि बली शत्रुर्न शेते रजनीष्वपि।
तस्य भीत्या गृहे यस्य हरयो वेगवत्तराः॥१२॥
1610
न गजैर्न नरैः कार्यं सिद्धिमभ्येति भूभृताम्।
तथा निमेषमात्रेण यथा वाहैः सुसाधितैः॥१३॥
शार्ङ्गधरस्यैते।
अथाश्वानां सामान्यलक्षणानि॥
1611
ब्राह्मणक्षत्रियविशां शूद्राणां चैव लक्षणैः।
ज्ञेया हयोत्तमास्तेषु पूर्वः पूर्वः शुभावहः॥१४॥
1612
प्रायेण ब्राह्मणः शुक्लः क्षत्रियो लोहितः स्मृतः।
वैश्यः पीताभवर्णः स्यात्कृष्णवर्णश्चतुर्थकः॥१५॥
1613
पुष्पगन्धः सदा विप्रः क्षत्रियोगुरुगन्धकः।
घृतगन्धो भवेद्वैश्यो मीनामोदी चतुर्थकः॥१६॥
1614
विवेकी सघृणो विप्रस्तेजस्वी क्षत्रियो बली।
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्त्वकातरः॥१७॥
1615
ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः।
क्षत्रिया युद्धकार्येषु वैश्या द्रव्यार्जने सदा॥१८॥
1616
शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा।
आरोहेद्युक्तकार्येषु यदीच्छेच्छाश्वतीं श्रियम्॥१९॥
1617
सदा सुप्ता भवन्त्येते वाजिनो ये तु भूतले।
जाग्रत्यायोधने प्राप्ते कर्करस्य च भक्षणे॥२०॥
1618
सुलक्षणा महावेगाः सुसत्त्वाश्चातिघस्मराः।
जितश्रमा विनीता ये राजाहस्ते हयाः स्मृताः॥२१॥
अथ पृथगवयवलक्षणानि।
1619
आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ।
जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते॥२२॥
1620
घनस्निग्धाः सुबद्धाश्व समा दन्ताः सुशोभनाः।
नातिदीर्घौ पृथू नैव हनू वाहस्य शोभनौ॥२३॥
1621
अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले।
प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके॥२४॥
1622
स्वावर्तं च विशालं च ललाटं वाजिनां शुभम्।
शस्तं शिरः समं वृत्तमावर्तद्वयभूषितम्॥२५॥
1623
हस्वता कर्णयोः शस्ता तीक्ष्णता तनुना तथा।
सुदृढां कुञ्चितां दीर्घां धन्यां ग्रीवां विदुर्बुधाः॥२६॥
1624
केसरं च जटाहीनं मृदु दीर्घं प्रशस्यते।
अनावर्तो दृढश्चैव स्कन्धो वाहस्य पूजितः॥२७॥
1625
उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे।
ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते॥२८॥
1626
अवक्रे मांसहीने च वाजिजङ्घे सुशोभने।
कूर्चंसमं सुसंधि स्याद्वन्थिव्रणविवर्जितम्॥२९॥
1627
दृढमण्डूकिका कृष्णा वर्तुलाः पृथुलाः खुराः।
पार्श्ववभ्युन्नतौ दीर्घौ सुदृढौ च समौ शुभौ॥३०॥
1628
अवलम्बि सुवृत्तं च जठरं वाजिनां शुभम्।
नातिदीर्घं समं पृष्टं किंचिच्च विनतं शुभम्॥३१॥
एते शालिहोत्रस्य।
1629
पीना कटिः सुवृत्तश्च पश्चाद्भागः पृथुः शुभः।
मृदुस्निग्धायतैर्युक्तं वालैः पुच्छं प्रशस्यते॥३२॥
1630
वृषणौ च समौ वृत्तौ बिल्वमात्रौ विलोमशौ।
कृष्णवर्णविहीनं च ह्रस्वं मेहनमिष्यते॥३३॥
अथाश्वाङ्गमानलक्षणानि।
1631
ऊर्ध्वं व्रीहित्रयं मानमङ्गुलस्य निगद्यते।
हस्तोपि हि समाख्यातश्चतुर्विंशद्भिरङ्गुलैः॥३४॥
1632
द्वाविंशदङ्गुलं वक्रमुत्तमाश्वस्य कीर्तितम्।
अङ्गुलद्वयहीनं तु मुखं स्यान्मध्यवाजिनः॥३५॥
1633
ततोपि द्व्यङ्गुलं न्यूनं कनिष्ठस्य मुखं स्मृतम्।
ग्रीवोत्तमस्य वाहस्य षट्पञ्चाशन्मिताङ्गुलैः॥३६॥
1634
चत्वारिंशत्षडधिका मध्यमाश्वस्य कीर्तिता।
षट्त्रिंदशङ्गुलैग्रीवा हीनाश्वस्य प्रकीर्तिता॥३७॥
1635
उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत्।
कर्णौ सप्ताङ्गुलौ प्रोक्तौ तालुकं न षडङ्गुलम्॥३८॥
1636
सूक्ष्मो ऋजुः पुच्छदण्डः कथितो विंशदङ्गुलः।
शविंशदङ्गुलोत्सेधे जङ्घे चैवोत्तमे स्मृते॥३९॥
1637
अष्टादश तथा मध्ये हीने चैव चतुर्दश।
सप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः॥४०॥
1638
षडङ्गुलो भवेन्मध्यः कनिष्ठः पञ्चसमितः।
चतुर्हस्तेन विख्यात उत्सेधेन हयोत्तमः॥४१॥
1639
अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः।
ततो हस्तेन हीनश्च हीन एव स्मृतो हयः॥४२॥
1640
पञ्चहस्तप्रमाणेन दैर्घ्यमुत्तमवाजिनः।
चतुर्भिर्मध्यमं प्रोक्तं त्रिभिः सार्धैस्तथाधमम्॥४३॥
1641
अपाङ्गात्पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत्।
खुरान्तात्ककुदं यात्रदूर्ध्वमानेन बुद्धिमान्॥४४॥
अथ हयानां शुभलक्षणानि।
1642
अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनाम्।
शुभानि वर्णैरावर्तैस्तानि विद्याद्विचारतः॥४५॥
1643
सर्वश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत्।
स वाजी वाजिमेधार्हश्यामकर्णः प्रकीर्तितः॥४६॥
1644
यस्य पादाः सिताः सर्वे तथा वक्रं च मध्यतः।
कल्याणपञ्चकः प्रोक्तः सदा कल्याणकृच्च सः॥४७॥
1645
यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा।
मूर्धजाश्च सिता यस्य तं विद्यादष्टमङ्गलम्॥४८॥
1646
मुखे चन्द्रकसंवीतो जम्बूफलसमाकृतिः।
श्वेतपादः स विज्ञेयो मल्लिकाक्षः सुपूजितः॥४९॥
1647
कृष्णो वाजी भवेद्यः स कृष्णतालुर्न दुष्यति।
कुत्सितावर्तकर्णोपि पञ्चकल्याणकः शुभः॥५०॥
अथ शुभावर्ताः।
1648
एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः।
द्वौ च वक्षसि विज्ञेयौ प्रयाणे चैक एव तु॥५१॥
1649
ध्रुवावर्ता दश प्रोक्ता वाजिनः शुभकारकाः।
प्रयाणे मारुतो भाले वह्निर्वक्षसि चाश्विनौ॥५२॥
1650
सूर्याचन्द्रमसौ मूर्ध्नि रन्ध्रे स्कन्दगजाननौ।
उपरन्ध्रे हरीशौ च दशावर्ता अतः शुभाः॥५३॥
1651
यो यस्य ललाटस्था आवर्ता अधरोत्तराः।
निश्रेणी सा परिज्ञेया वाजिवृद्धिकरी परा॥५४॥
1652
अनेनैव प्रकारेण त्रयो ग्रीवाश्रिताः शुभाः।
ललाटे युगलावर्ती चन्द्रार्कौ शुभकारकौ॥५५॥
1653
कण्ठे चिन्तामणिज्ञेयश्चिन्तितार्थप्रदः सदा।
आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः॥५६॥
नकुलस्यैते।
अथाशुभलक्षणानि।
1654
चत्वारोप्यसिताः पादाः सर्वश्वेतस्य वाजिनः।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः॥५७॥
1655
अन्य वर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः।
पुच्छेन शिरसा वापि नानावर्णः स निन्दितः॥५८॥
1656
हीनदन्तोधिकश्चैव कराली कृष्णतालुकः।
कुद्दालो मुशली शृङ्गी षडेते स्वामिघातकाः॥५९॥
1657
व्याघ्राभश्चस्तनी चैव द्विखुरः ककुदी तथा।
एकाण्डश्चैव जाताण्डो वाहाः पापाः प्रकीर्तिताः॥६०॥
1658
पञ्चभिः सप्तभिर्दन्तैर्वाहौहीनाधिकौस्मृतौ।
कराली चाधरैर्दन्तैश्छाद्यन्ते यस्य चोत्तराः॥६१॥
1659
कृष्णं तालु भवेद्यस्य स भवेत्कृष्णतालुकः।
कुद्दालश्चोत्तरैर्दन्तैश्छाद्यन्ते यस्य चाधराः॥६२॥
1660
सितैकचरणः पुष्पहीनस्तु मुशली स्मृतः।
कालाभावर्तकः कर्णदेशे यस्य स शृङ्गिकः॥६३॥
1661
व्याघ्राभो व्याघ्रवर्णः स्यात्स्तनयुक्तः स्तनी स्मृतः।
द्विखुरं गोखुराकारैः खुरैर्विद्याद्विचक्षणः॥६४॥
1662
आवर्तः ककुदे यस्य ककुदी स उदाहृतः।
मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः॥६५॥
1663
अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः।
भस्माभवक्रपुच्छं च कृष्णनीलं परित्यजेत्
निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः॥६६॥
अथ दुरावर्ताः।
1664
पुच्छे जानुनि कक्षायां मेढ्रेगुह्ये हनौ हृदि।
भ्रूदेशे नेत्रपरितः कर्णग्रीवादयस्तथा॥६७॥
]