काव्यालंकारः

[[काव्यालंकारः Source: EB]]

[

काव्यमाला।

<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1727856899Screenshot2024-10-02134336.png"/>

श्री1रुद्रटमणीतः

काव्यालंकारः।

श्वेता2म्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः।
<MISSING_FIG href="../books_images/U-IMG-1727856658Screenshot2024-10-02134009.png"/>

प्रथमोऽध्यायः।

निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्ता-
द्यस्याङ्घ्रिद्वन्द्वसक्ताङ्गुलिविमलनखादर्शसंक्रान्तदेहा।

निर्भीतिस्थानलीना भयदभवमहारातिभीत्येव भाति
श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममक्तः॥

पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि।
संक्षिप्ततरं रुद्रटकाव्यालंकारटिप्पणकम्॥

इह शास्त्रकारः शिष्टस्थितिपालनार्थमबिघ्नेन शास्त्रसमाप्त्यर्थेच प्रथममेव तावद्गणनायकस्य स्तुतिमाह—

अविरलविगलन्मदजलकपोलपालीनिलीनमधुषकुलः।
उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति॥१॥

गणाधिपो विनायको जयति सर्वोत्कर्षेण वर्तते। कीदृशः। अविरलं घनं विगलच्च तन्मदजलं दानाम्बु ययोस्ते, अविरलविगलन्मदजले च ते कपोलपाल्यौ च प्रशस्तकपोलौ च। पालीशब्दस्य समासे केशपाशवत्प्रशंसार्थत्वात्। तयोर्निलीनं श्लिष्टं मधुपकुलं भ्रमरगणो यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः। अत उत्प्रेक्षते— उद्भिन्नोद्गता नवा नूतना श्मश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्भिन्ननवश्मश्रुश्रेणिः स इव॥

एवमभीष्टदेवतां स्तुत्वाधुना वाङ्मयव्यापिभवानीनमस्कृतिपुरःसरं श्रेष्ठजनप्रवृत्तयेऽभिधेयादि विवक्षुराह—

सकलजगदेकशरणं प्रणम्य चरणाम्बुजद्वयं गौर्याः।
काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति॥२॥

सकलजगदेकशरणं निखिलविश्वाद्वितीयशरण्यम्, प्रणम्य नमस्कृत्य, चरणाम्बुजद्वयमङ्घ्रिकमलयुगम्, गौर्या उमायाः, काव्यस्य कवेर्भावः कर्म वा काव्यं तस्यालंकारो भूषणं काव्यालंकारः, अयमेषः ग्रन्थः शास्त्रम्, क्रियते विधीयते। बुद्ध्या निष्पन्नमितवग्रन्थं गृहीत्वेदमापरामृशत्ययमिति। तत्र काव्यालंकारा वक्रोक्तिवास्तवादयोऽस्य ग्रन्थस्य प्राधान्यतोऽभिधेयाः। अभिधेयव्यपदेशेन हि शास्त्रं व्यपदिशन्ति स्म पूर्वकवयः। यथा कुमारसंभवः। काव्यमिति दोषारसाश्चेह प्रासङ्गिकाः, न तु प्रधानाः। संबन्धस्तूपायोपेयलक्षणो नाम्नैवोक्तः। नहि तेन विनास्यालंकाराः प्रतिपाद्या भवन्ति। ननु दण्डि-मेधा^(१)विरुद्र-भामहा-दिकृतानि सन्त्येवालंकारशास्त्राणि, तत्किमर्थमिदं पुनरिति पौनरुक्त्यदोषं क्रियाविशेषणेन निरस्यन्नाह— यथायुक्तीति। शेषेष्वलंकारेषु च या या युक्तिर्यथायुक्ति, युक्तिमनतिक्रम्य वा। क्रियते। एतदुक्तं भवति— अन्यैरलंकारकारैर्न तथा युक्तियुक्तानि सक्रमाणि वा

—————————————————————————————————————————

१। स्फुट एव।पाठद्वयानुसारेणापि नमिसाधुरेकादशशतकोत्तरार्धे विद्यमान आसीदिति निर्विवादमेव।नमिसाधुना च प्राचीनां रुद्रटग्रन्थवृत्तिं विलोक्य टिप्पणं व्यरचीति टिप्पप्रारम्भस्थितया ‘पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि’ इत्याद्यार्यया प्रतीयेते। अत्र पूर्वमहामतिशब्दाभ्यां वृत्तिकर्तुः प्राचीनत्वमादरणीयत्वं च नमिसाधुर्वदति। तस्मादेकादशशतकस्थनमिसाधुतो वृत्तिकर्ता प्राचीनः, मूलग्रन्थकर्ता रुद्रटस्तु प्राचीनतर इति सिद्धम्। रुद्रटस्यैकादशशतकापेक्षया प्राचीनतरत्वम्। डाक्टरव्यूलरस्तु स्वकीय काश्मीररिपोर्ट’ पुस्तके ‘ख्रिस्तसंवत्सरीयैकादशशतकोत्तरार्धेकाव्यालंकारकर्ता रुद्रटो बभूत्र’ (“In the latter half of the eleventh century falls Rudraṭa, the auther of the Kāvyālamkāra."— Jour. B. B. R. A. S. Vol. XII. No. XXXIV. P. 67) इति वदति। यदि मूलग्रन्यकाररुद्रट–वृत्तिकार–टिप्पणकारास्त्रयोऽपि समकालीनाः स्वीक्रियन्ते, तदा डाक्टरव्यूलरमतं संगच्छत इति स्वयमेव पण्डिता विचारयन्तु। अस्य ग्रन्थस्य ‘ग्रामतरुणं तरुण्या’ इत्याद्या बहवः श्लोकाः काव्यप्रकाशादिषु प्राप्यन्ते। काव्यप्रकाशस्य नवमोल्लासे साहित्यदर्पणस्य च नवमपरिच्छेदे रुद्रटमतमुपन्यस्तमस्ति। काव्यादर्शसरणिमनुकरोत्यस्व ग्रन्थस्य परिपाटी।अन्यो ग्रन्थस्तु रुद्रटकृतो न प्राप्यते। शृङ्गारतिलककर्ता तु रुद्रभट्टः, न रुद्रटःरुद्रटस्य विशेषवर्णनं तु डाक्टरपोटर्सनस्य प्रथम ‘रिपोर्ट’ पुस्तके (Jour. B. B. R. A. S. Vol. XVI. No. XLI. P. 14–20 ) द्रष्टव्यम्। १। मेधाविरुद्र इति कालिदासस्य नामान्तरमिति केचित्।

लक्ष्यानुसारीणि वा हृदयावर्जकानि वालंकारशास्त्राणि कृतानि, न तथा मया। अपि तु यथारुचीति न पौनरुक्त्यदोषावसरः॥

ग्रन्थस्याभिधेयसंबन्धी व्याख्यायेदानीं प्रयोजनं विवक्षुराह—

अस्य हि पौर्वापर्यं पर्यालोच्याचिरेण निपुणस्य।
काव्यमलंकर्तुमलं कर्तुरुदारा मतिर्भवति॥३॥

अस्य काव्यालंकारस्य। हिशब्दो यस्मादर्थे। यस्मात्पौर्वापर्येहेतुहेतुमद्भावम्। हेतुरेष ग्रन्यो हेतुमन्तोऽलंकाराः। हेतुकार्ययोश्च पौर्वापर्ये सिद्धमेव। अथवाद्यन्तोदितग्रन्थार्थे पर्यालोच्यावगत्य, अचिरेण शीघ्रमेव, निपुणस्य प्रवीणस्य, काव्यं कविभावम्, ‘अलंकर्तुमलंकारंसमन्वितं विधातुम्, अलमत्यर्थम् कर्तुः कवेः, उदारा स्फारा योग्या वा, मतिर्भवति बुद्धिर्जायते। तस्मात्सप्रयोजनमिदमलंकारकरणमिति॥

अथ काव्यकरणस्यैव तावत्किं प्रयोजनमित्याह—

ज्वलदुज्ज्वलवाक्प्रसरः सरसं कुर्वन्महाकविः काव्यम्।
स्फुटमा कल्पमनल्पं प्रतनोति यशः परस्यापि॥४॥

ज्वलन्देदीप्यमानोऽलंकारयोगात्, उज्ज्वलो निर्मलो दोषाभावात्, वाचां गिरां प्रसरः प्रबन्धो यस्य स ज्वलदुज्ज्वलवाक्प्रसरः। सरसं सशृङ्गारादिकम्, कुर्वन्रचयन्, काव्यं कवेः कर्म, यत एवैवंगुणस्तत एव महाकविर्बृहत्काव्यकर्ता, स्फुटं प्रकटम्, आकल्पं युगान्तस्यायि, अनल्पमस्तोकम्। जगद्व्यापीत्यर्थः। प्रतनोति विस्तारयति, यशः कीर्तिम्, परस्य काव्यनायकस्य संबन्धि। अपिशब्दोऽत्र विस्मये। चित्रमिदं यत्कविः स्वल्पायुरप्येवंविधं यशस्तनोति। आत्मनोऽपीति तु व्याख्याने ‘स्फारस्फुरदुरुमहिमा’ (१।२१) इत्याद्यनर्थकं स्यात्, तार्थत्वात्॥

ननु देवगृहमठादिकं कारयित्वा स्वयमेव नायकः स्वयशो विस्तारयिष्यति, किं कवेस्तदर्थे काव्यकरणेनेत्याशङ्कयाह—

तत्कारितसुरसदनप्रभृतिनि नष्टे तथाहि कालेन।
न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञाम्॥५॥

तत्कारितसुरसदनप्रभृतिनीत्यत्र तच्छव्देनोत्तरत्र राज्ञामित्येतत्पदोपात्ताः काव्यनायकाः परामृष्यन्ते। ततः काव्यनायकविधापितेदेवगृहादौ कालपर्ययेण नष्टे नाशं गते सति। तथा हीति हिशब्दो यस्मादर्थे, तथाशब्द उपप्रदर्शने। न भवेन्न स्यात्, नामाप्यभिधानमपि। आस्तां तावदन्वय इति। ततः सुरसदनादिनाशाद्धेतोः, यदि राज्ञां नायकानां सुकवयो न स्युः। तच्चरितकथाप्रवन्धकर्तार इति। राज्ञामिति काव्यनायकोपलक्षणम्॥

अथ यदि नाम राज्ञां यशस्तन्वन्ति तथापि किं तेषां यत्ते काव्यकृतौ प्रवर्तन्त इत्याद—

इत्थं स्थास्तुगरीयो विमलमलं सकललोककमनीयम्।
यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम्॥६॥

इत्थम् ‘स्फुटमा कल्पमनल्पम्’ (१/४) इत्यनेन प्रकारेण, स्थास्नु स्थिरतरम् गरीयः प्रभूतम्, दोषाभावाच्चविमलम्, अलमत्यर्थम्, सकललोककमनीयं सकलजनकान्तम्, यः कविर्यस्य राजादेर्यशस्तनुते तेन कथं तस्य नोपकृतम्। सर्वथोपकृतं भवतीत्यर्थः॥

नंनु यदि कविना परस्योपकृतम्, ततोऽपि किं तस्येत्याह—

अन्योपकारकरणं धर्माय महीयसे च भवतीति।
अधिगतपरमार्थानामविवादो वादिनामत्र॥७॥

गतार्थे न वरम्। चकारोऽन्योपकारकरणं चेत्यत्र योज्यः॥

एवं धर्म एव कवेः काव्यकरणे प्रयोजनमित्यभिधायार्थकाममोक्षहेतुत्वमप्याह—

अर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य।
विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः॥८॥

अर्थमिति। अर्थो धनम्, अनर्थोपशमो विपदभावः, शं सुखम् असममसाधारणम्। इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम्। अथवा किमेभिर्बहुभिरुक्तैर्यदेवास्य कवेःसंमतं तदेवाप्नोतीति। कीदृशः। विरचितसदलंकारदेवतास्तुतिः॥

किमत्र प्रमाणमिति चेदित्याह—

नुत्वा तथाहि दुर्गां केचित्तीर्णा दुरुत्तरां विषदम्।
अपरे रोगविमुक्तिं वरमन्ये लेभिरेऽभिमतम्॥९॥

नुत्वेति। तथाहीत्युदाहरणोपदर्शने। दुर्गाग्रहणं देवतोपलक्षणार्थम्। तथाहि केचिदनिरुद्धादयः शत्रुवश्यादिकां विपदं तीर्णाः। केचिद्वीरदेवादयो नीरजत्वं प्राषुः। अपरे शत्रुव्नप्रभृतयोऽभिमतं वरं लब्धवन्तः। एवमन्येऽप्युदाहरणत्वेन तथाविधा ज्ञेया इति॥

इह केचिद्विक्रमादित्यादिजनितं कविजनसत्कारं श्रुत्वाधुनातननृपेभ्यस्तथानवलोक्य प्रेरयेयुर्यया नृपेभ्यः सकाशान्न किंचित्फलं तथा देवताभ्योऽपि सांप्रतं न काव्येन किंचित्फलं भविष्यतीत्याशङ्क्याह—

आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः।
अद्यापि त एव सुरा यदि नाम नराधिषा अन्ये॥१०॥

स्फुटार्थे न वरम्। यदि नामेति नामशब्दः परं शब्दार्थे। यदि परं नृपाः। अन्ये देवास्तु त एवेति॥

काव्यकरणे प्रयोजनाप्रमेयतामाह—

कियदथवा वच्मि यतो गुरुगुणमणिसागरस्य काव्यस्य।
कः खलु निखिलं कलयत्यलमलघुयशोनिदानस्य॥११॥

कियदिति। कियदथ वा भण्यते। यतो यथा सागरे मणीनामानन्त्यमेवं काव्ये गुणानामपीति तात्पर्यम्। खलुर्निश्चये॥

एवं प्रयोजनानन्त्ये सति कृत्यमाह—

तदिति पुरुषार्थसिद्धिं साधुविधास्यद्भिरविकलां कुशलैः।
अधिगतसकलज्ञेयैः कर्तव्यं काव्यममलमलम्॥१२॥

तदिति। तस्मात्पुरुषार्थसिद्धिं पूर्णा चिकीर्षुभिः काव्यं कर्तव्यम्। कीदृशैः। अधिगतसकलज्ञेयैः। न त्वनीदृशामपि काव्यकरणं संभवतीत्याह— अलमलम्। सनिर्मलकरणेऽन्येषामसामर्थ्यमित्यभिप्रायः॥

ननु ज्ञातसकलज्ञेयस्य तत्त्वादेव पुरुषार्थसिद्धिर्भविष्यति, किं काव्यकरणेनेत्याह—

फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः।
यत्संस्कारो वाचां वाचश्च सुचारुकाव्यफलाः॥१३॥

फलमिति। हि यस्माज्जानतामिदमेव ज्ञानफलं यच्छुचिपदवाक्यप्रमाणशास्त्रेभ्यो विशदव्याकरणतर्कग्रन्थेभ्यः सकाशात्संस्कारो वाचाम्। ननु वाक्संस्कारस्यापि किं फलमित्याह— वाचश्च सुचारुकाव्यफलाः। चः समुच्चये। सुन्दरकाव्यकरणमेव वाक्संस्कारस्य फलमित्यर्थः॥

यथा च काव्यं चारु भवति, यथा च चारु कंर्तुं ज्ञायते तथाह—

तस्यासारनिरासात्सारग्रहणाच्चचारुणः करणे।
त्रितयमिदं व्याप्रियते शक्तिर्व्युत्पत्तिरभ्यासः॥१४॥

तस्येति। तस्य काव्यस्यासारनिरासादसमर्थादिवक्ष्यमाणदोषत्यागात्, तथा सारग्रहणाद्वक्रोक्तिवास्तवाद्यलंकारयोगाद्धेतोः, चारुत्वगुणोपेतस्य करणे त्रितयमिदं शक्तिव्युत्पत्त्यभ्यासलक्षणं व्याप्रियते। तस्य तत्र व्यापार इत्यर्थः। तथा च दण्डी— ‘नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम्। अमन्दाश्चाभियोगोऽस्याः कारणं काव्यसंपदः॥’ तत्र शक्त्या शब्दार्थौ मनसि संनिधीयेते। तयोः सारासारग्रहणनिरासौ व्युत्पत्त्या क्रियेते। अभ्यासेन शक्तेरुत्कर्ष आधीयत इति शक्त्यादिव्यापारः। असारनिरासात्सारग्रहणादिति च पदद्वयोपादानमुभययोगेन चारुत्वमिति ख्यापनार्थम्। तत्राप्यसारस्य प्रागुपन्यासः। तन्निरासस्य प्राधान्यख्यापनार्थः। सकलालंकारयुक्तमपि हि काव्यमेकेनापि दोषेण दुष्येत, अलंकृतं वधूवदनं काणेनेव चक्षुषा। उक्तं च [दण्डिना]— ‘तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन। स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्’॥

अथ शक्तिस्वरूपमाह—

मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य।
अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः॥१५॥

मनसीति। असौ शक्तिर्यस्यामविक्षिप्ते चेतसि सदानेकप्रकारस्य वाक्यार्थस्य विस्फुरणम्। यस्यां चाक्लिष्टानि झगित्येवार्थप्रतिपादनसमर्थानि पदानि प्रतिभान्ति। यद्वशाद्भृदयंगमौ नानाविधौ शब्दार्थौ प्रतिभासेते सा शक्तिरित्यर्थः॥

अस्या एव भेदानाह—

प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति।
पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा॥१६॥

प्रतिभेति। एषा च शक्तिरपरैर्दण्डिमुख्यैः प्रतिभेत्युक्ता। सा च द्विधा भवति। कथम्। सहजोत्पाद्या चेति। तयोश्च मध्यात्सहजा ज्यायसी प्रशस्यतरा। पुंसा सहोत्पन्नत्वात्॥

यदि नाम पुंसा सहोत्पन्ना किमित्येतावता ज्यायसीत्याह—

स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम्।
उत्पाद्या तु कथंचिद्वयुत्पत्त्यजन्यते परया॥१७॥

स्वस्येति। असौ सहजा शक्तिः स्वस्यात्मनः संस्कार उत्कर्ष एव परं कवलम्। अविद्यमानः परोऽन्वो यस्मादसावपरोऽभ्यासस्तं यतो मृगयतेऽन्वेषयति नोत्पत्तावतो ज्यायसी। उत्पत्तौ तु सहजातत्वमेव हेतुः। उत्पाद्यातु व्युत्पत्त्या परयानन्तरया कथंचिन्महता कष्टेन जन्यते। अतो न ज्यायसी सा॥

इदानीं व्युत्पत्तिस्वरूपमाह—

छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात्।
युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन॥१८॥

छन्द इति। छन्दो जयदेवादि, व्याकरणं पाणिन्यादि, कला नृत्यादिविषयभरतादिप्रणीतशास्त्राणि, लोकाः स्वःप्रभृतयस्तेषु चराचरादिस्वरूपनियमः स्थितिः, पदानि नाममालापठिताः पर्यायशब्दाः, पदार्थस्तेषामेव पदानामभिधेयार्थविषयप्रवृत्तिनैयत्यम्। एतेषां षण्णां छन्दःप्रभृतीनां विज्ञानाद्विशिष्टावगमाद्धेतोर्यो युक्तायुक्तविवेक उचितानुचितत्वपरिज्ञानम्। यथात्रेदं छन्द, उचितमनुचितं वेत्यादि सर्वेषु द्रष्टव्यम्। व्युत्पत्तिरियम्। समासेन संक्षेपेण॥

तर्हि विस्तरव्युत्पत्तेः किं स्वरूपमित्याह—

विस्तरतस्तु किमन्यत्तत इह वाच्यं न वाचकं लोके।
न भवति यत्काव्याङ्गं सर्वज्ञत्वं ततोऽन्यैषा॥१९॥

विस्तरत इति। व्युत्पत्तिसंबन्धिनो विस्तारात्किमन्यद्विद्यते यदन्तःपाति न भवति। कुत इत्याह— यस्मादिह लोके न तद्वाच्यमभिधेयमस्ति, न वाचकः शब्दो विद्यते यत्काव्याङ्गं काव्योपकरणं न भवतीति। ततो हेतोरेपान्या विस्तृता व्युत्पत्तिः। ततः संक्षेपाद्वा सकाशात्। अन्येति द्वितीया। सर्वज्ञत्वमेव विस्तीर्णा व्युत्पत्तिरित्यर्थः। उक्तं च— ‘नं स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यन्न काव्याङ्गमहो भारो महान्कवेः॥’ अभ्यासी लोकप्रसिद्ध एव॥

केवलं तस्य स्थाननियमं कर्तुमाह—

अधिगतसकलज्ञेयः सुकवेः सुजनस्य संनिधौ नियतम्।
नक्तंदिनमभ्यस्येदभियुक्तः शक्तिमान्काव्यम्॥२०॥

अधिगतेति। वाक्यार्थः सुगमः। अत्राह— ननु यद्यधिगतसकलज्ञेयः शक्तिमांश्च तत्किं सुजनस्य सुकवेः संनिधानेऽभ्यस्यति। सत्यम्। छन्दोव्याकरणादिविषयलक्षणातिरिक्तमन्यदपि ज्ञेयं जानाति। यन्महाकविलक्ष्येषु दृश्यते। सुजनत्वाच्च निर्मत्सरो भूत्वा सर्वमसौदर्शयति। तथाहि। छन्दसि पिङ्गलजयदेवाद्यनुक्तान्यपि वृत्तानि सुकविकाव्येषु दृश्यन्ते बहुशः। यथा माघस्य— ‘कृतसकलजगद्विबोधो विधूतान्धकारोदयः क्षपितकुमुदतारकश्रीर्वियोगं नयन्कामिनः। गुरुतरगुणदर्शनादभ्युपेताल्पदोषःकृती तव वरद करोतु सुप्रातमह्नामयं नायकः॥’ तथा भारवेः— ‘इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम्। अनुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम्3॥’ एवमन्येषामपि सन्ति। तथा व्याकरणे वर्वर्ष्टि–अजर्घाः–सस्ति–दर्द्रष्टि–ईट्टे–ईर्त्सति–जिह्वायकयिषति–अड्डिड्डिषतीत्येवमादीनि पदानि न प्रयोज्यानि। काव्यस्माधुर्यलालित्यविनाशप्रसङ्गात्। तथा क्षपि–मिलि–अर्थि–वचि–क्लीबप्रभृतयो धातवोधातुगणेषु पठिता अपि। सहेश्च परस्मैपदं प्रयोगदर्शनात्प्रयोक्तव्यम्। पदविषयं च यथा पक्ष्मशव्दोऽक्षिरोमस्वभिधानेषु पठितोऽन्यत्रापि दृश्यते। यथा माघस्य— ‘निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा’ इति। एवमन्यदपि कलादिविषये द्रष्टव्यम्। यत्सुजनकविसंनिधानाज्ज्ञेयम्। नियतमित्यनेन सुकविसंनिधान एवाभ्यासः कार्य इति नियम इति। नक्तंदिनमित्यनेन तु यदैवपट्वीबुद्धिः क्षणश्च भवति तदैवाभ्यस्येत्, न पुनर्यथा कैश्चिदुक्तम् ‘पश्चाद्रात्रे एव’। इति तुकवेः काव्यकरणेऽत्यन्तादराधानार्थम्॥

पुनः काव्यस्य प्रयोजनान्तरमाह—

स्फारस्फुरदुरुमहिमा हिमधवलं सकललोककमनीयम्।
कल्पान्तस्थायि यशः प्राप्नोति महाकविः काव्यात्॥२.१॥

स्फार इति। स्फारो दृढः, स्फुरञ्जनमनःसु प्रसरन्, अत एवोरुर्विस्तीर्णो महिमा यस्य कवेःसः। तथा यशः कीदृशम्। हिमधवलमित्यादि सुगमम्॥

ननु काव्यादेवंविधयशोभवने प्रमाणाभावाद्देवगृहादिकमेव कारयितव्यमित्येतन्निरस्यन्दृष्टान्तपुरःसरं काव्यकरणे यत्नोपदेशमाह—

अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी
भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये।
तदलममलं कर्तुं काव्यं यतेत समाहितो
जगति सकले व्यासादीनां विलोक्य परं यशः॥२२॥

अमरइति। सुगमम्। तस्मात्स्थितमेतत्कवेः काव्यकरणादेव परं यशो भवतीति। उक्तं च— ‘यतः क्षणध्वंसिनि संभवेऽस्मिन्काव्यादृतेऽन्यत्क्षयमेति सर्वम्। अतो महद्भिर्यशसे स्थिराय प्रवर्तितः काव्यकथाप्रसङ्गः’॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः

प्रथमोऽध्यायः समाप्तः।

————

द्वितीयोऽध्यायः।

शास्त्रस्य काव्यकरणस्य च प्रयोजनमाख्यायेदानीं काव्यलक्षणं पृष्टः सन्नाह—

ननु शब्दार्थो काव्यं शब्दस्तत्रार्थवाननेकविधः।
वर्णानां समुदायः स च भिन्नः पञ्चधा भवति॥१॥

नन्विति। ननुशब्दः पृष्टप्रतिवचने। यथा ‘अपि त्वं कटं करिष्यसि। ननु भोः करोमि’ इति। शब्दश्चांर्थश्च तौकाव्यमुच्यते। कवेः कर्माभिप्रायो वेति शब्दार्थः। कवेः काव्योपयोगिनोः शब्दार्थयोरन्योन्याव्यभिचारादेकतरोपादानेनैव द्वितीये लब्धे द्वितीयोपादानं काव्ये द्वयस्यापि प्राधान्यख्यापनार्थम्। अन्यथा हि शब्दार्थयोरेकतरोपादानेऽन्यतरस्यालंकारैर्विरहितमपि दोषैश्च युक्तमपि काव्यं साधु स्यात्। अद्वयोपादाने न तुल्यकक्षतया शब्दार्थौ द्वावपि काव्यत्वेनाङ्गीकृतौ भवतः। द्वयमेतत्समुदितमेव काव्यं भवतीति तात्पर्यम्। शब्दार्थौ काव्यमित्युक्तम्, अथ शब्दः किमुच्यत इत्याह— शब्दस्तत्रार्थवाननेकविधो वर्णानां समुदाय इति। तत्रेति शब्दाऽर्थयोर्मध्यात्। शब्दोऽर्थवान्। साभिधेयोऽनेकविधोऽर्थवानिति स्वरूपविशेषणमात्रम्। यथा। कीदृशः शक्रः। वज्री सहस्राक्ष इति। न तु व्यवच्छेदकम्। काव्यलक्षणाख्यानेनैव निरर्थकस्य निरस्तत्वात्। कीदृशः शब्दः। वर्णानामकारादीनां समुदायः। वर्णानामिति बहुवचनमतन्त्रम्। तेनैकवर्णो द्विवर्णश्च शब्दः सिद्धो भवति। सोऽपि संभवतः कियद्भेद इत्या— अनेकविधः। तद्यथा। कश्चिद्व्यक्तैकार्थावयवः। यथा घट इति। अत्र हि घकारादयो वर्णा व्यक्ताः प्रकटाः संभूय कुम्भाख्यमेकमर्थमाहुः। कश्चिद्व्यक्तपृथगर्थावयवः। यथा एति पचतीति वा। अत्र हि एकारादयो वर्णा व्यक्ताः पृथगर्थाश्च। तथापि हि धातुना क्रियाभिधीयते प्रत्ययेन तु कर्ता। कश्चिदव्यक्तैकार्थावयवः। यथा संपदादित्वात्कि्कपिकृते ‘अवनं ऊः’ इति

पदम्। अत्र त्वकारवकारौकृतादेशौ क्षीरनीरवदेकीभूताववनक्रियामेकमेवार्थमाहतुः। कश्चिदव्यक्तपृथगर्थावयवः। यथा ‘ऐः’ इति क्रियापदम्। अत्र हि आकारैकारौपूर्ववदेकीभूतौ सकारश्च कृतादेशत्वादव्यक्तीभूतः पृथगर्थश्च। यत ऐकार आगतिक्रियामाह, सकारो युष्मदर्थंकर्तारमेकत्वं चेति। चतुर्भेदत्वादनेकविद्यत्वम्। यदि वा द्रव्यजातिक्रियागुणवाचित्वेन चातुर्विध्यम्। अन्ये तु वक्ष्यमाणवक्रोक्त्याद्यलंकारभेदेन शब्दस्यानेकविधत्वमाहुः। यदि पुनः पञ्चधेत्युत्तरपदापेक्षयानेकविधत्वमुच्यते तदा पञ्चधेत्यनर्थकं स्यात्। अनेनैवोक्तार्थत्वादिति। तं चैवंरूपं शब्दं केचित्पाणिन्यादयः सुप्तिङन्तरूपतया द्विभेदमाहुः, केचिच्चतुर्धेति। तद्द्वयं निरसितुमाह— स च भिन्नः पञ्चधा भवतीति। स चेति चकारः पुनरर्थे। ततश्चायमर्थः। स पुनर्वर्णसमुदायात्मकः शब्दो भिन्नो भेदेन व्यवस्थापितः सन्पञ्चधा भवति। ते पुनः प्रकारा नामाख्यातनिपातोपसर्गकर्मप्रवचनीयलक्षणाः पुरो भङ्गयन्तरेण वक्ष्यन्ते॥

अथ ये चतुर्थेत्याहुस्तेषामव्याप्तिदोषंप्रचिकटयिषुराह—

नामाख्यातनिपाता उपसर्गाश्चेति संमतं येषाम्।
तत्रोक्ता न भवेयुस्तैः कर्मप्रवचनीयास्तु॥२॥

नामेति। वस्तुवाचि पदं नाम। क्रियाप्रधानं तिङन्तमाख्यातम्। नामाख्यातयोः समुच्चयाद्यर्थप्रख्यातिनिमित्तं निपाताः। क्रियाविशेषप्रतिनिबन्धनमुपसर्गाः। चशब्द एवार्थे। इति परिसमाप्तौ। एत एव चत्वारः शब्दविधा इति येषां सम्यङ् मतं तत्र तेषु नामादिषु मध्ये तैर्मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः। तुरवधारणे भिन्नक्रमः। सप्तमीसंभावने। नैव संगृहीता भवन्तीति संभावयामि। यतस्तैरुपसर्गेष्वन्तर्भावः कृतः स चायुक्तःविद्यते।ह्युपसर्गेभ्यो नामादीनामिव कर्मप्रवचनीयानामपि पृथग्व्यापारभेदः। तथाहि— ‘वृक्षमभिविद्योतते विद्युत्’ इति विद्युद्वृक्षयोर्लक्ष्यलक्षणसंबन्धोऽभिना द्योत्यते। उपसर्गेण तु क्रियाविशेषार्थाभिव्यक्तिरेव क्रियते। तथा कार्यभेदोऽपि तेषां दृश्यते। यथा षत्वणत्वादिकार्यस्योपसर्गा एव निमित्तम्। द्विर्वचनादिकस्य तु कर्मप्रवचनीया एवेति। तथा प्रयोगोऽप्युपसर्गाणां नियत एव प्राग्धातोः, न तु कर्मप्रवचनीयानामिति कथमिवोपसर्गेष्वेषामन्तर्भावः। नन्वव्ययानि स्वरादीनि भेदान्तरं विद्यत इति कथं षोढा न स्यादित्ययुक्तम्। स्वरादीनां स्वर्गादिमत्त्वभूतार्थवाचकत्वेन नामस्वेवान्तर्भावात्। यदि वा नैरुक्तानामव्ययानि निपात एवेति निपातग्रहणेन तेषां संग्रहः। गतोऽप्युपसर्गा एवेति पञ्चधा शब्द इति स्थितम्॥

ननु तथाप्युपगुराजपुरुषादयः शब्दसमुदाया व्यतिरिक्ता विद्यन्त इति कथमुक्तं पश्चधेत्याशङ्क्याह—

नाम्नां वृत्तिर्द्वेधा भवति समासासमासभेदेन।
वृत्तेः समासवत्यास्तत्र स्यू रीतयस्तिस्रः॥३॥

नाम्नामिति। नाम्नां वृत्तिर्वर्तनं द्वेधा, समासवत्यसमासवती चेति। तयोरपि प्रकारविशेषमाह— तत्र तयोर्वृत्त्योर्मध्यात्समासवत्या वृत्तेस्तिस्रो रीतयो भवन्ति। रीतिर्भङ्गिर्विच्छित्तिरिति पर्यायाः॥

कास्ता इत्याह—

पाञ्चाली लाटीया गौडीया चेति नामतोऽभिहिताः।
लघुमध्यायतविरचनसमासभेदादिमास्तत्र॥४॥

पाञ्चालीति। चः समुच्चये। इति समाप्तौ। एतास्तिस्र एवेत्यर्थः। नामत इत्यनेन नाममात्रमेतदिति कथयति। न पुनः पञ्चालेषु भवा इत्यादि व्युत्पत्तितः। अतिप्रसङ्गात्। तर्हि केन विशेषेण तिस्र इत्याह— लघुमध्येत्यादि। लघु मध्यमायतं च विरचनं यस्य समासस्य तद्भेदात्। तत्रेत्युत्तरत्र योज्यते॥

अनियमे प्राप्ते नियमार्थमाह—

द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत्।
शब्दाः समासवन्तो भवति यथाशक्ति गौडीया॥५॥

द्वित्रिपदेति। द्वे त्रीणि वा यस्यां पदानि। द्वित्रिग्रहणस्योपलक्षणार्थत्वाच्चत्वारि वा समासवन्तियस्यां सा पाञ्चाली रीतिर्भवति। यस्यां तु द्वितयादारभ्य पञ्च सप्त वायावत्सा लाटीया। पञ्च सप्त वेति मतद्वयं तदुभयं संगृहीतम्। यस्यां तु समासवन्तः शब्दा अष्टभ्य आरभ्य यथाशक्ति भवन्ति। यावतः कर्तुं शक्नोति तावन्त इत्यर्थः। सा गौडीया॥

नन्वाख्यातेऽपि पचति प्रपचतीति वृत्तिद्वैविध्यं कथं न स्यादित्यत आह—

आख्यातान्युपसर्गैः संसृज्यन्ते कदाचिदर्थाय।
वृत्तेरसमासाया वैदर्भी रीतिरेकैव॥६॥

आख्यातानीति। आख्यातानि तिङन्तक्रियापदान्युपसर्गैःसाधें संसृज्यन्ते, न तु समस्यन्ते। सुप्सुपेत्यधिकारात्। किं नित्यमेव। न। कदाचित्क्वचिदपि। किमर्थमित्याह— अर्थाय। यत उक्तम्— ‘धात्वर्थेबाधते कश्चित्कश्चित्तमनुवर्तते। तमेव विशिनष्टयन्य उपसर्गगतिस्त्रिधा॥’ तत्र बाधते यथा— प्रहरति प्रतिष्ठते इत्यादि। अनुवर्तते यथा— महन्ति अभिहन्ति। विशिनष्टि यथा— प्रपचतीत्यादि। इदानीमसमासाया वृत्ते रीतिमाह— वृत्तेरसमासायाः समासरहितपदवृत्तेर्वैदर्भी नाम रोतिरेकैव। एताश्च रीतयो नालंकाराः, किं तर्हि शब्दाश्रया गुणा इति॥

पञ्चविधस्यापि शब्दस्य यत्रोपयोगस्तस्येदानीं वाक्यस्य लक्षणं कर्तुमाह—

वाक्यं तत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम्।
समुदायः शब्दानामेकपराणामनाकाङ्क्षः॥ ७॥

वाक्यमिति। तत्रेति पञ्चविधशब्दमध्यादन्यतरद्द्वित्रादिभेदानां समुदायो वाक्यम्।

नतु नामादीनां पञ्चानामेव युगपत्सद्भावे। कीदृशां शब्दानाम्। परस्परं सव्यपेक्षवृत्तीनाम् \। अन्योन्यं साकाङ्क्षव्यापाराणाम्। न त्वेवंविधानां यथा— ‘आषाढी कार्तिकी मासी वचा हिङ्गु हरीतकी पश्यतैतन्महश्चित्रमायुर्मर्माणि कृन्तति॥’ तथा एकपराणाम्। एकं वस्तु साधयितुमुद्यतानामित्यर्थः। तथा अनाकाङ्क्षः। साकाङ्क्षश्चन्नभवति। यस्मादाख्यातं विना शब्दसमुदायः साकाङ्क्षो भवति। तमपेक्षत इत्यर्थः॥

अथ वाक्यगुणानाह—

अन्यूनाधिकवाचकसुक्रमपुष्टार्थशब्दचारुपदम्।
क्षोदक्षममक्षूणं4. ‘अक्षुण्णम्’ इति पाठः सम्यग्भाति.”) सुमतिर्वाक्यं प्रयुञ्जीत॥८॥

अन्यूनेति। शब्दाश्च ते चारुपदानि च शोभनपदानि च शब्दचारुपदानि, ऊनानि चाधिकानि चानाधिकानि, नितरामूनाधिकानि न्यूनाधिकानि, न तथा अन्यूनाधिकानि, तानि च तानि वाचकानि च, सुक्रमाणि च पुष्टार्थानि च शब्दचारुपदानि यत्र वाक्ये तत्तथाभूतं वाक्यं प्रयुञ्जीतेति संबन्धः। तत्रान्यूनग्रहणाद्यत्र कंचिच्छन्दं विना दुष्टार्थप्रतीतिर्विवक्षितार्थप्रतिपत्तिरेव वा भवति तन्न्यूनपदं वाक्यं निरस्तम्। यथा— ‘संपदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि। शारदाभ्रमिव पेलवमायुः किं धनैः परहितानि कुरुध्वम्॥’ अत्र हि धनशब्दादनन्तरं यावत्कार्यशब्दो न प्रयुक्तस्तावत् ‘धनैः किमिति परहितानि कुरुध्वम्’। मा कुरुत इति दुष्टोऽर्थः प्रतीयते। विवक्षितार्थाप्रतीतिर्यथा— ‘सीसपडिच्छियगंगं पणमिय संझं नमह नाहं’। अत्र ‘संझं’ शब्दादनन्तरं ‘ततः’ शब्दमन्तरेण न ज्ञायते कि ‘प्रणम्य संध्यां ततो नाथं नमत,’ आहोस्वित् प्रणतसंध्यं नाथं नमत’ इति। निशब्दग्रहणाद्यत्र विनापि पदमसाधारणविशेषणोपादानात्तदनुरूपकारकप्रयोगाद्वा। विवक्षितपदार्थप्रतीतिस्तदूनमात्रं साध्वेव। यथा— ‘स वः पायात्कला चान्द्री यस्य मूर्ध्नि विराजते। गौरीनखाग्रधारेव भग्नरूढा कचग्रहे॥’ अत्र ह्यसाधारणविशेषणैः शंभुरित्यनुक्तमपि लभ्यते। अनुरूपकारकप्रयोगात्पदार्थंप्रतीतिर्यथा— ‘यश्चनिम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥’ अत्र छेदसेकालंकारा अनुक्ता अपि परश्वाद्युपादानात्प्रतीयन्ते। नहि तेषां छेदादेरन्यो व्यापार इति। अधिकग्रहणाद्यत्र शब्दान्तरेणोक्तेऽप्यर्थे पुनस्तदर्थपदं प्रयुज्यते तन्निरस्तम्। यथा— ‘स्फारध्वानाम्बुदालीवलयपरिकरालोकनं प्रेमदाम्नोः’ इत्यत्रालीशब्देन मेघानां वाहुल्यं प्रतिपादितमिति तदर्थों वलयपरिकरशब्दौ निष्प्रयोजनाविति। निग्रहणादधिकमात्रंं साध्वेव। यथा— ‘नादेन यस्य सुरशत्रुविलासिनीनां काञ्च्यो भवन्ति शिधिला जघनस्थलेषु’। अत्र हि काञ्च्यास्तत्स्थानत्वादेव जघनस्थले लब्धे तदुपादानमधिकमात्रमिति। वाचकग्रहणमवाचकनिवृत्यर्थम्। यथा— ‘लावण्यसिन्धुरपरेव हि केयमत्र यत्रो–

त्पलानि शशिना सह संप्लवन्ते। उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः॥’ अत्र शशिशब्देन मुखम् उत्पलशब्देन नेत्रे, द्विरदकुम्भाभ्यां स्तनौ, कदलिकाण्डशब्देनोरू, मृणालदण्डशब्देन बाहू कवेर्विवक्षितौ। न च शब्दा स्तधा वाचकाः, न च मुखादिषु शशिप्रभृतीनि पदानि यौगिकानि रूढानि वेत्यवाचकान्येव। उपमेयपदाप्रयोगोञ्च रूपकभ्रान्तिरपि नास्ति। तथा दशरथ इति वक्तव्ये पङ्क्तिरथशब्दोऽप्यवाचकः संज्ञाशब्दत्वात्तस्य। न च दशसंख्यार्थी रथार्थो वा घटते। येन यौगिकरूदृपदं स्यात्। तथा आम्रदेवादिषु चूतामरादयः शब्दा अवाचका इति। सुक्रमग्रहणं दुष्टक्रमनिवृत्त्यर्थम्। यथा— ‘वदन्त्यपर्णामिति तां पुराविदः’ इत्यत्र हि इतिशब्देन पुराविदां संबन्धः, न त्वपर्णायाः। अपर्णायास्तु संबन्धे द्वितीया न स्यात्। यथा— ‘क्रमादमुं नारद इत्यबोधि सः’ इत्यादी इतिशब्दो हि वस्तुस्वरूपमात्रमवस्थापयतीति। लिङ्गार्थमात्रे प्रथमैव न्याय्या न द्वितीया। क्वापि च शब्दमात्र प्रतिपादनेन प्रथमापि न भवति। यथा— ‘गवित्ययमाह’ इति। पुष्टार्थग्रहणमपुष्टार्थनिवृत्त्यर्थम्। एकशब्दप्रतिपाद्यार्थे निरभिप्रायबहुशब्दप्रयोगादपुष्टार्थता जायते। यथा— ‘पातु वो गिरिजामाता द्वादशार्धार्धलोचनः। यस्य सा गिरिजा माता स च द्वादशलोचनः॥’ इत्यत्र न त्रिलोचनशब्दाद्द्वादशार्धार्धलोचनं इत्यादिभिः शब्दैरधिकोऽर्थः प्रतिपाद्यत इत्यपुष्टार्थता। ‘शब्दग्रहणमपशब्दनिरासार्थम्। अपशब्दनिरासश्च यद्यपि व्युत्पत्तिद्वारेणैव कृतस्तथापि महाकवीनामप्यपशब्दपातदर्शनात्तन्निरासादरख्यापनाय पुनरभियोगः। तथाहि पाणिनेः पातालविजये महाकाव्ये— ‘संध्यावधूं गृह्य करेण’ इत्यत्र गृह्येति क्त्वो ल्यबादेशः। तथा तस्यैव कवेः— ‘गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः। अपश्यती वत्समिवेन्दुविम्बं तच्छर्वरी गौरिव हुं करोति॥’ इत्यत्र ‘पश्यती’ इदं लुप्त’न्ती’ नकारं पदम्। तथा च भर्तृहरेः—‘इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते’ इत्यत्रात्मनेपदम्। यथा वा कालिदासस्य— ‘अवजानासि मां यस्मादतस्ते न भविष्यति। मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥’ इत्यत्र हि अनाराध्येति भिन्नकर्तृ पूर्वकाले क्त्वा। यस्मादाराधनस्य राजा कर्ता भवनस्य प्रजेति। यथा च भारवेः— ‘गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः।’ इत्यत्रात्मनेपदमस्वाङ्गे। एवमन्येषामपि। चारुग्रहणं वर्यष्टीत्यादिदुःश्रवशव्दनिवृत्त्यर्थमिति। यथैवमेवंगुणयुक्ते काव्ये प्रसादगुणयोगात्प्रसाद एव काव्ये गुणः समाश्रितो भवति, न तु गाम्भीर्यमित्याह— क्षोदक्षमं प्रेरणसहं वाक्यं प्रयुञ्जीत। गाम्भीर्ययुतमिति तात्पर्यार्थः। किमेतावद्गुणमेव वाक्यमित्याह— अक्षूणमिति। समस्तदोषत्यागात्समस्तगुणसंग्रहाच्चपरिपूर्णम्। एतेन ‘असमर्थमप्रतीतं विसंधि’ इत्यादि वक्ष्यमाणदोषत्यागाञ्चवाक्यस्य प्रयोगार्हत्वमावेदितम्॥

अथ पूर्वत्रासंगृहीतवाक्यगुणप्रतिपादनार्थमाह—

रचयेत्तमेव शब्दं रचनाया यः करोति चारुत्वम्।
सत्यपि सकलयथोदितपदगुणसाम्येऽभिधानेषु॥९॥

रचयेदिति। तमेव शब्दं विरचयेत्। सकलैर्यथोदितैर्यथाभिहितैः पदगुणैरन्यूनादिकैः साम्ये समानत्वे सत्यपि विद्यमानेऽप्यभिधानेषु। नामसु मध्ये रचनायाः शब्दसंदर्भरूपायाश्चारुत्वं सौन्दर्यंकरोति॥

किमिति चारुत्वापादकं शब्दं रचयेदित्याह—

रचनाचारुत्वे खलु शब्दगुणः संनिवेशचारुत्वम्।
तर्वाल्युर्वेवर्षे तरुपङ्क्तिरसंकटैव मुने॥१०॥

रचनेति। खलुर्यस्मादर्थे। यतो रचनाचारुत्वे गुम्फसौन्दर्ये सति संनिवेशः शब्दानां संहिताख्यं नैरन्तर्योच्चारणं तस्य चारुत्वलक्षणो यः शब्दगुणः स भवतीति। तत्रोदाहरणं यथा— तरूणामाली पङ्क्तिरुर्व्येव महत्येव है ऋषे मुने। एतदचारुरचनं वाक्यम्। एतत्समानार्थे चारुरचनं त्विदम्। यथा— तरुपङ्क्तिरसंकटैव मुने। अत एवंविधमेव वाक्यं प्रयोज्यम्, न त्वाद्यसममिति॥

वाक्यलक्षणमभिधाय तस्य भेदप्रदर्शनार्थमाह—

वाक्यं भवति द्वेधा गद्यं छन्दोगतं च भूयोऽपि।
भाषाभेदनिमित्तः षोढा भेदोऽस्य संभवति॥११॥

वाक्यमिति। वाक्यं च द्विविधं भवति। कथम्। एकं गद्यमुत्कलम्। अन्यच्छन्दोगतं छन्दोनिबद्धम्। भूयस्तथापि भाषाभेदात्षोढा। भेदो वाक्यस्य संभवतीति। षोढेत्यनेन यदुक्तं कैश्चिद्यथा— ‘प्राकृतं संस्कृतं चैतदपभ्रंश इति त्रिधा’ इत्येतन्निरस्तं भवति॥

कास्ता भाषा इत्याह—

प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च।
षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥१२॥

प्राकृतेति। सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारःसहजो वचनव्यापारः प्रकृतिः। तत्र भवं सैव वा प्राकृतम्। ‘आरिसवयणे सिद्धं देवाणं अद्धमागहा बाणी’ इत्यादि वचनाद्वा प्राक्पूर्वे कृतं प्राक्कृतं बालमहिलादिसुबोधं सकलभाषानिबन्धनभूतं वचनमुच्यते। मेघनिर्मुक्तजलमिवैकस्वरूपं तदेव च देशविशेषात्संस्कारकरणाच्च समासादितविशेषं सत्संस्कृताद्युत्तरविभेदानाप्नोति। अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि।पाणिन्यादि व्याकरणोदितशब्दलक्षणेन संस्करणात्संस्कृतमुच्यते। तथा प्राकृतभाषैव किंचिद्विशेषलक्षणान्मागधिका भण्यते। तच्चेदं यथा— रसयोर्लशौ मागधिकायाम्। रेफस्य लकारो दन्त्यसकारस्य तालव्यशकारः। यथा— सुरा शुला, सरसी शलशी इत्यादि। तथा एत्वमकारस्य सौ पुंसि। यथा— एसो पुरिसो, एशे पुलिशे इत्यादि। पुंस्येवैत्वम्। तेन तं शलिलं। तथा अहं वयमोगे आदेशः। यथा— हगे संपत्ते, हगे संपत्ता। तथा जय्ययोर्यकारो भवति। यथा—य्याणदि-

य्याणवादी जाणइ जाणवदेयस्य च। अवय्यंमय्यं विप्याहले। अवद्यं मद्यं विद्याधरः। तथा क्षस्य श्कोऽनादौ। यथा—यश्के लश्कसे यक्षो राक्षस इति। अनादावित्येव। क्षयजलधरः खयम्यलहले इति न स्यात्। स्कः प्रेक्षाचक्ष्योः। प्रेक्षाचक्ष्योर्धात्वोः क्षस्य स्कादेशः। यथा— पेस्कदि आचस्कदि। तथा छस्य श्चोभवति। यथा— पिश्विले आवण्णवश्चले। तथा पशोःसंयोगस्थयोस्तालव्यशकारः। यथा— विश्नुःविहस्पदी कास्यगालं। अर्थस्थयोः थस्य स्तादेशः। यथा— एसे अस्ते एषोऽर्थः समुपस्तिदे समुपस्थितः। तथा ञ्जण्यन्यव्वीनां ञोभवति। यथा— ञ्ज। अञली अञ्जलिः।ण्य। पुञकम्मे पुण्यकर्मा, पुञाहं पुण्याहम्। न्यस्य च अभिमञुः अभिमन्युः, कञका कन्यका। ब्रजेःकृतादेशस्य वव्वइ वञइ। तथा तस्य दकारोऽन्ते। यथा— मालेदि होदि य्याणदि इत्यादि। अन्यल्लक्षणं ग्रन्थान्तराल्लक्ष्याच्चज्ञेयमिति। तथा प्राकृतमेव किंचिद्विशेषात्पैशाचिकम्। यथा णनोर्नकारः पैशाचिक्याम्। यथा— आगंनूनयनमतीत्यादि। तथा दस्य वा तकारः। यथा— वतनं वदनम्। प्राकृतलक्षणापवादश्चात्र। यथा टस्य न डकारः। यथा— पाटलिपुत्रम्। तथा पस्य न वकारः। यथा— पदीपो, अनेकपो। तथा कगचजतदपयवानामनादौ यथाप्रयोगं लोपः स्वरशेषता च न कर्तव्या। यथा क्रमेण— आकाशं, मिगंको, वचनं, रजतं, वितानं, मदनो, सुपुरिसो, दयालू, लावण्णं। एवं सुको, सुभगो, सूची, गजो, भवति, नदी इत्यादि च। तथा खघथधफमानां हो न भवति। यथा— मुखं मेघो रथो विद्याधरो विफलं सभा इत्यादि। तथा थठयोर्ढोऽपि न भवति। यथा— पथमं, पुथुवी, मठो, कमठो। तथा ज्ञस्य ञो भवति। यथा— यञकोसलं, राञालपितं। तथा हृदये यस्य पः। हितपकं। तथा सर्वत्र तकारोन विक्रियते। एति बिंबमित्यादिषु। इत्यादयोऽन्येऽपि प्राकृतविहिता व्यञ्जनादेशा न क्रियन्ते ते च बृहत्कथादिलक्ष्यदर्शनाज्ज्ञेया इति। सूरसेन्यपि प्राकृतभाषैव। केवलमयं विशेषः। यथा सूरसेन्यामस्वसंयोगस्यानादौ तस्य दो भवति यथा— तदो, दीसदि, होदि, अन्तरिदमित्यादिषु। अस्वसंयोगस्येति किम्। मत्तो, पसुत्तो। स्वग्रहणात् निच्चिन्दो, अन्देउरमिति स्यादेव। अनादावित्येव। तेन तदेत्यादौ न भवति। तथा र्यस्य य्यो भवति। यथा लक्ष्यम्— अय्यउत्त, पय्याकुलीकदह्मि। यथालक्ष्यमित्येव। तेन कज्जपरवसो, वज्जकज्ज इत्यादौ न भवति। इह थध्वमां धो वा भवति। इध, होध, परित्तायध। पक्षे इथ, होह, परित्तायह। तथा पूर्वस्य पुरवो वा। यथा— न कोवि अपुरवो। पक्षे अपुब्वं पदं। तथा कड्डय करिय गड्डय गच्छिय इति क्त्वान्तस्यादेशः। तथा एदु भवं, जयदु भवं, तथा आमन्त्रणे भयवं कुसुमाउह इत्यादि। तथा इनः आ वा। यथा— भो कंचुइया। अतश्च। भो वयस्सा, वयस्स। तथा इलोप इदानीमि। यथा— किं दाणिं करइस्सं। निलज्जो दाणि सो णो। तथा अन्त्यान्मादिहेतोर्णो भवति। यथा— जुतण्णिमं, किण्णिमं, एवण्णेदं। यथाप्रयोगमित्येव। तेन किं एत्थंकरइस्सं। तदस्ता भवति। यथा ता जाव पविसामि। तथाएवार्थे य्येव। यथा— मम य्येव एकस्स। हंजे चेट्याह्णाने। हंजे चतुरिए। हीमा-

णहे निर्वेदविस्मययोर्निपातः। यथा— हीमाणहे पलिस्संता हगे एदिणा नियविहिणो दुव्विलसिदेण। हीमाणहे जीवंतवच्छा मे जनणी। णं निपातो नन्वर्थे। यथा— णं भणामि। अस्महे हर्षे निपातः। हीहीभो विदूषकाणां हर्षे। शेषं प्राकृतसमं द्रष्टव्यमिति। तथा प्राकृतमेवापभ्रंशः। स चान्यैरुपनागराभीरग्राम्यत्वभेदेन त्रिधोक्तस्तन्निरासार्थमुक्तं भूरिभेद इति। कुतो देशविशेषात्कारणात्। तस्य च लक्षणं लोकादेव सम्यगवसेयम्। सामान्यं तु किंचिदिदम्। यथा न लोपोऽपभ्रंशेऽधोरेफस्य। यथा— प्रखुरभ्रायरवघ्रेणेत्यादि। तद्वदभूतोऽपि क्वाप्यधो रेफः क्रियते। यथा— व्राचालउव्रचव्रचंउक्राखक्रूखीत्यादि। तथोदन्तस्य दकारो भवति। यथा— गोत्रुगंजिद्रुमलिदुचारितु इत्यादि। तथा ऋतः स्थाने ऋकारो वा भवति। यथा— तृणसमुगणिजई। पक्षे तणं इत्यादि लक्ष्यादवसेयम्। व्यत्ययो बहुलं भाषालक्षणस्य। यथा— थहकारयोः सूरसैन्यां धत्वमुक्तं मागध्यामपि भवति। आभारीभाषा अपभ्रंशस्था कथिता क्वचिन्मागध्यामपि दृश्यते। सूरसेन्यामिदानींशब्दे इलोप उक्तः शुद्धप्राकृतेऽपि भवति। तथा कगचजतंदपयादीनां पैशाचिक्यां स्वरशेषत्वाभावोऽभिहितः। खघधफभादीनां हत्वाद्यभावश्च सूरसेन्यामपि भवति। इत्याद्यन्यदपि सांकर्ये महाकविलक्ष्यादवसेयमिति। विशेषतस्तु भाषालक्षणं ग्रन्थान्तरादवसेयमिति॥

एवं शब्दलक्षणं गुणदोषांश्चाभिधायेदानीं तस्यालंकारान्विवक्षुराह—

वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथा परं चित्रम्।
शब्दस्यालंकाराः श्लेषोऽर्थस्यापि सोऽन्यस्तु॥१३॥

वक्रोक्तिरिति। तथाशब्दः समुच्चये। अन्यैरनुक्तं चित्रं शब्दालंकारमध्ये समुच्चीयते। परमुत्कृष्टमपरं वा। अन्यदित्यर्थः। शब्दस्येत्यर्थनिवृत्त्यर्थम्। अतश्च कश्चिदाशङ्कते— शब्दालंकार एवायं श्लेषो न त्वर्थालंकारोऽपीति तं प्रत्याह— श्लेषोऽर्थस्यापीति किमयमेव श्लेषोऽर्थस्यापि नेत्याह— सोऽन्यस्तु। तुरवधारणे। सोऽन्यादृक्ष एवेत्यर्थः। तेन यदन्यैरभेदेन श्लेषलक्षणमवादि तद्युक्तमित्युक्तम्। नन्वलंकारोऽलंकार्याद्भिन्नो दृष्टः। यथापुरुषात्कटकादयः। न चैवमत्र भेदमवगच्छाम इति सत्यम्। विद्यत एव भेदः। यथा— ‘किं गौरि मां प्रति रुषा’ इति शब्दसमुदायोऽलंकार्य एव। तस्य यद्भङ्गयन्तरेण व्याख्यानं सोऽलंकारः। अनुप्रासेऽपि प्रथमोक्ता वर्णा आवृत्ताश्चान्योन्यलंकुर्वते। यथा हि— द्वौ साधू संगतौ परस्परमलंकुर्वते इति। एवं यमके श्लेषे चद्रष्टव्यम्। चित्रेऽपि स्पष्टो वर्णक्रमोऽलंकार्यो भङ्ग्यन्तरकृतस्त्वलंकार इति॥

यथोद्देशं निर्देश इति पूर्वे वक्रोक्तिलक्षणमाह—

वक्तातदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः।
वचनं यत्पदभङ्गैर्ज्ञेया सा श्लेषवक्रोक्तिः॥१४॥

वक्ताप्रतिपादकेन तस्मादुत्तरवचनादन्यथा प्रकारान्तरेणोक्तम्। तदन्यथोक्तं व्या-

चष्टे वक्ति चान्यथा। तस्योक्तस्योत्तरं ददातीति तदुत्तरदः। यद्वचनं यद्वाक्यम्। कैर्व्याचष्टे पदभङ्गैः। पदखण्डनयेत्यर्थः। सा श्लेषवक्रोक्तिर्ज्ञेया। वक्रोक्तिस्तु द्विविधा, श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च। तल्लक्षणयोश्च वैलक्षण्यान्नैकं लक्षणमस्तीति भेदेनाभिधानमुपपन्नम्॥

तत्रोदाहरणमाह—

किं5 गौरि मां प्रति रूपा ननु गौरहं किं
कुप्यामि कां प्रति मयीत्यनुमानतोऽहम्।
जानाम्यतस्त्वमनुमानत एव सत्य-
मित्थं गिरो गिरिभुवः कुटिला जयन्ति॥१५॥

किमिति। इत्थमेवं गिरो वाचो गिरिभुवो गौर्याः कुटिला वक्रा जयन्ति। कथम्। प्रणयकुपितां गौरीं शंभुरनुनयन्नाह—हे गौरि उमे, मां प्रति मामुद्दिश्य किं तत्र रुपा रोषेण। तत्प्रसीदेत्यर्थः। एतदुत्तरदायिनी सान्यथा पदभङ्गैराह— ननु गौरहं किम्। ननुरक्षमायाम्। किमहं गौस्त्वया कृता यद्गौरित्यामन्त्रयसे। कां च प्रति। मया कोपः कृतः यदात्थ किमिमां प्रति रुषेति। पुनः शंभुमाह— अतोऽस्मादनुमानतोऽनुमानाद्वक्रवचनलक्षणान्मयि विषये त्वं कुप्यसीत्यहं जाने। भूयो भवान्याह— त्वमनुमानत एवं सत्यम्। न उमा अनुमा तस्या एव नतः। अस्मदनमनं केन तवज्ञातमित्यर्थः॥

इदानीं काकुवकोक्तिलक्षणमाह—

विस्पष्टं क्रियमाणादक्लिष्टा स्वरविशेषतो भवति।
अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः॥१६॥

विस्पष्टमिति। यत्र स्वरविशेषादर्थान्तरप्रतीतिर्भवति। कीदृशात्। विस्पष्टं स्फुटं क्रियमाणादुच्चार्यमाणात्। कीदृशी अर्थान्तरप्रतीतिः। अक्लिष्टा कल्पनारहिता सा काकुवक्रोक्तिः॥

तत्रोदाहरणम्—

शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम।
धीरैर्नपुनरकारणकुपितखलालीकदुर्वचनम्॥ १७॥

शल्यमिति। इदमनपराधकुपितखलवचनान्यसहमानं कश्चित्समुद्दीपयन्नाह— आस्तामन्यत्। शल्यमपि काण्डमपि स्खलदन्तर्मध्ये मर्मघट्टनां कुर्वाणं सोढुं क्षन्तुं शक्येत। कीदृशम्। हालहलेन विषेण दिग्धं लिप्तम्। धीरैर्धैर्योपेतैर्न पुनरकारणकुपितखलालीकदुर्वचनमित्येकोऽर्थः। एतदेव वाक्यं काक्वा स्वरविशेषेण वदन्समाश्वासयति— यथा अपि शल्यं स्खलदन्तः सोढुं शक्येत धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्।

यदि शल्यमपि सोढुं शक्यते तदा दुर्वचनं सुसहमेवेत्यर्थः। पूर्वपक्षे खलदुर्वचनस्य दुःसहतोक्ता, द्वितीये तु सुसहतेति भेदः॥

अथानुप्रासलक्षणमाह—

एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः।
आवर्त्यते निरन्तरमथवा यदसावनुप्रासः॥१८॥

एकेति। यद्व्यञ्जनं बहुशो बहून्वारानावर्त्यते। कीदृशम्। एकद्वित्रान्तरितम्। एकेन द्वित्रैर्वा व्यञ्जनैरन्तरितं व्यवहितम्। किं व्यवहितानुवर्तनमेवानुप्रासो नेत्याह— निरन्तरमथवा। एतेनैकव्यञ्जनश्लोकानामनुप्रासतोक्ता। व्यञ्जनग्रहणं स्वरनिरासार्थम्। ननु स्वरनिरासे कृतेऽनुप्रासस्याभाव एवस्यात्। स्वररहितस्यावृत्तेरनुपलम्भादियाह— अविवक्षितस्त्ररम्। अविवक्षिताः स्वरा यत्र तथा। स्वरचिन्ता न क्रियत इत्यर्थः। बहुशोग्रहणादेकावृत्तिमात्रेण नानुप्रासः। किं तर्हि। एकद्वित्रान्तरितमनेकवारानावर्त्यते ततोऽनुप्रास इति॥

सामान्येनानुप्रासलक्षणमभिधायेदानीमस्यैव भेदानाह—

मधुरा प्रौढा परुषा ललिता भद्रेति वृत्तयः पश्च।
वर्णानां नानात्वादस्येति यथार्थनामफलाः॥१९॥

मधुरेति। अस्यानुप्रासस्य पञ्च वृत्तयो भवन्ति। कुतः। वर्णानां व्यञ्जनानां नानात्वात्। त्र्यञ्जनानामावृत्त्यानुप्रासस्योक्तत्वाद्वर्णानामित्युक्तेऽपि व्यञ्जनानामिति गम्यते। कास्ताः। मधुरा, प्रौढा, परुषा, ललिता, भद्रा। इतिशब्दः परिसमाप्त्यर्थः। एता एव, न त्वष्टौतिस्रो वा। तथा ह्यष्टौ हरिणोक्ताः। यथा— ‘महुरं फरुसं कोमलमोजस्सिं निट्ठुरं च ललियं च। गंभीरं सामण्णं च अद्धभणिती उनायच्चा॥’अत्रौजस्विनिष्ठुरगम्भीराणां न तथा भेद इत्येकतरोपादानमेव न्याय्यम्। तथा वृत्तीनां मिश्रता सामान्यम्। तच्चानुक्तमपि लभ्यते। इत्येताः पञ्चैव। तथान्यैर्ग्राम्या परुषोपनागरिकेत्युक्तं तत्र त्वसंग्रह एवेति। कीदृश्यस्ताः। यथार्थनामफलाः सान्वयनामिकाः। कुतः। इति हेत्वर्थे। सा च माधुर्यान्मधुरा, प्रौढत्वात्प्रौढा, इत्यादि हेत्वर्थो द्रष्टव्यः॥

इदानीमासां लक्षणमाह। तत्र मधुरायास्तावत्—

निजवर्गान्त्यैर्वर्ग्याःसंयुक्ता उपरि सन्ति मधुरायाम्।
तंद्युक्तश्च लकारो रणौ च ह्रस्वस्वरान्तरितौ॥२०॥

निजवर्गान्त्यैरिति। मधुरायांवर्ग्याःकचटतपवर्गवर्णा उपर्युपरिष्टात्संयुक्ताः सहिताः सन्ति विद्यन्ते। कैरित्याह— निजवर्गान्त्यैर्ङञणनमैर्वर्णैः। तथा तद्युक्तस्तेन लकारेण युक्तो लकारः। रणौ च रेफणकारौ च। कीदृशौ। ह्रस्वस्वरेणान्तरितौ व्यवहितौ भव्रतः। नन्वेकव्यञ्जनावृत्तिरनुप्रासलक्षणमुक्तम्, तत्किमिह बहुवर्णसद्भाव उच्यते। सत्यम्। वहुत्वाद्वर्णानां बहवोऽनुप्रासा अपीति न दोषः। एतेषां च वर्णानां युगपत्प्रयोग एव

मधुरा वृत्तिरित्येव न द्रष्टव्यम्। किं तर्हि। एतेषां वर्णानां मध्यादन्यतमवर्णैरनुप्रासे मधुरा वृत्तिरिति॥

किमविशेषेणैते प्रयोक्तव्याः। नेत्याह—

तत्र यथाशक्ति रणौद्विस्त्रिर्वा युक्तितो लकारं च।
पञ्चभ्यो न कदाचिद्वर्ग्यनूर्ध्वं प्रयुञ्जीत॥२१॥

तत्रेति। तत्र तेषु वर्णेषु मध्ये रणौ यथाशक्ति यावतोःप्रयोगकरणे सामर्थ्यमस्ति तावत्प्रमाणौप्रयोक्तव्यौ। माधुर्यलाभात्। युक्तितः संयोगाल्लकारं द्विस्त्रिर्वा प्रयुञ्जीत। वर्ग्यास्तु पञ्चभ्य ऊर्ध्वमधिकं न कदाचनापि प्रयुञ्जीत। माधुर्यभङ्गप्रसङ्गादित्यर्थः॥

एतदुदाहरणमाह—

**भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि।
यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं में॥२२॥

अनणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम्।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते॥२३॥(युग्मम्)**

भणेति। अनण्विति। कश्चित्परमहिलां निजदयितगृहं व्रजन्तीं वीक्ष्याह— भण वद त्वमेव हेतरुणि यदि त्वं निजदयितमन्दिरं व्रजसि तत्किम्। त्वदीयं परिसरणं मे निष्प्रयोजनमेव रणरणकं हृदयाकुलत्वं कुरुते। आनन्दस्यन्दि हर्षकारि सुन्दरं रम्यमिन्दुवन्मुखं यस्याः सामन्त्र्यते। तथा सल्लीलया सुविलासेनोल्लपितुं वक्तुं शीलं यस्याः सा चामन्त्र्यते। तथारुणचरणे लोहितक्रमे। कीदृशं परिसरणम्। अनणु तारं रणन्ती शब्दायमाना मणिमेखला रत्नरशना यत्र तत्। तथाविरतं शिञ्जानानि रणन्ति मञ्जुनि मधुराणि मञ्जीराणि चरणाभरणानि यत्र तत्। लक्षणं तु स्वधिया सर्वमायोज्यम्॥

अय प्रौढामाह—

अन्त्यटवर्गान्मुक्त्वा वर्ग्ययणा उपरि रेफसंयुक्ताः।
कपयुक्तश्च तकारः प्रौढायां कस्तयुक्तश्च॥२४॥

अन्त्यटवर्गानिति। प्रौढायांवृत्तौ वर्ग्याःकादयो यकारणकारौ चोपरिभागे रेफेण संयुक्ता भवन्ति। किं कृत्वा। अन्त्यान् ङञणनमान् टवर्गे च मुक्त्वा विहाय। तथा ककारपकाराभ्यामुपरिभागे तकारश्च युक्तो भवति। चः समुच्चये। तथा ककारस्तकारेणोपरिभागे संयुक्त इत्यर्थः॥

तत्रेदमुदाहरणम्—

कार्याकार्यमनार्यैरुन्मार्गनिरर्गलैर्गलन्मतिभिः।
नाकर्ण्यते विकर्णैर्युक्तोक्तिभिरुक्तमुक्तमपि॥२५॥

कार्याकार्यमिति। येऽनार्या अशिष्टाउन्मार्गे कुमार्गे निरर्गला निरङ्कुशाः। स्वच्छन्दा

इत्यर्थः। तथा गलन्मतयो नश्यद्बुद्धयः। विकर्णा जडास्तैरेवंभूतैः कार्याकार्ये हिताहितमुक्तमुक्तमपि पुनःपुनर्भणितमपि नाकर्ण्यते न श्रूयते। कैरुक्तमित्याह— युक्ता संगता उक्तिर्वचनं येषां तैः। पयुक्ततकारस्य तयुक्तककारस्य च स्वयमुदाहरणं द्रष्टव्यमिति। एषा वृत्तिरन्यैरोज इत्युक्ता॥

अथ परुषामाह—

सर्वैरुपरि सकारः सर्वे रेणोभयत्र संयुक्ताः।
एकत्रापि हकारः परुषायां सर्वथा च शपौ॥२६॥

सर्वैरिति। परुषायां वृत्तौ सर्वैरुक्तैरनुक्तैश्च वर्णैरुपरिभागे सकारो युक्तो भवति। तथा सर्वे वर्णा उक्ता अनुक्ता रेफेणोभयत्रोपर्यधोभागयोः पर्यायेण युगपद्वा युक्ता भवन्ति। तथा हकारो रेफेणैकत्रोपर्यधो वा युक्तो भवति। अपिशब्दो नियमार्थः। एकत्रैवेत्यर्थः। शकारषकारौ च सर्वथा सर्वेण प्रकारेण। रेफेणान्यैर्वा युक्तावसंयुक्तौवेति सर्वथाशब्दार्थः॥

उदाहरणम्—

लिप्सून्सर्वान्सोऽन्तर्ब्रह्मोद्यैर्ब्राह्मणैवृतः पश्यन्।
जिह्वेत्यगर्ह्यवर्हिःशेषशयः कोषशून्यः सन्॥२७॥

लिप्सूनिति। कश्चिन्महासत्त्वो दत्तसर्वस्वोऽत्र वर्ण्यते। स महासत्त्वोऽन्तर्मध्ये जिह्वेति लज्जते। किं कुर्वन्। पश्यन्। कान्। लिप्सूंल्लब्धुकामान्। सर्वान्याचकानित्यर्थः। कीदृशः। वृतः परिगतः। कैः। ब्रह्मोद्यैर्वेदपारगैर्ब्राह्मणैः। पुनः कीदृक्। अगर्ह्यः प्रशस्तो यो बर्हिर्दर्भः स एव शेषमुर्वरितं तत्र शेते यः। तन्मात्र धन इत्यर्थः। लक्षणयोजना स्वयं कार्या॥

अथास्याःसर्वत्र प्रयोगनिवारणार्थमाह—

परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुपाम्।
रचयेदथागतिः स्यात्तत्रापि ह्रादयो हेयाः॥२८॥

परुषेति। परुषाभिधायिवचनान्निष्ठुरत्वप्रतिपादनपरगिरोऽनुकरणाच्चान्यत्र परुषां वृत्तिं न रचयेत्। अथागतिर्गत्यन्तराभावः स्यात्, तत्रापि ह्रादयो हेयास्त्याज्याः। अत्यन्तपरुषत्वात्। केवलं शषादिप्रयोगः कार्यः॥

ललिताभद्रयोर्लक्षणमाह—

ललितायां घधभरसा लघवो लश्र्वापरैरसंयुक्तः।
परिशिष्टा भद्रायां पृथगथवा श्रव्यसंयुक्ताः॥२९॥

ललितायामिति। ललितायां वृत्तौ घकारधकारभकाररेफसकारा भवन्ति। ते च लघवो न गुरवः। तथा लकारश्चापरैर्वर्णैरसंयुक्तः। आत्मना तु भवेदिति। भद्रायां तु

वृत्तौपरिशिष्टा वृत्तिचतुष्टयोपयुक्तवर्णशेषाः। ते च पृथगसंयुक्ताः सन्ति। युक्ताश्चेद्भवन्ति तदा श्रव्यैः श्रुतिसुखैर्योज्या इति॥

ललितोदाहरणमाह—

मलयानिलललनोल्ललमदकलकलकण्ठकलकलललामः।
मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम्॥३०॥

मलयेति। अयं मधुर्वसन्तोऽधुना धरां पृथ्वीं धिनोति प्रीणयति। किंभूतः। मलयानिलस्य मलयवायोर्यल्ललनं गमनं तेनोल्ललाःसोत्कण्ठा मदकला मदमधुरा ये कलकण्ठाः कोकिलास्तेषां यः कलकलः कोलाहलस्तेन ललामः श्रेष्ठः। अथवा स एव ललामो ध्वजो यस्य स तथा। अन्यच्च मधुरेण मधुना मकरन्देन विधुरा मत्ता भ्रमरा यस्य स तथा। अत्रान्ये उदाहृताः। घभसानां स्वयमुदाहरणं द्रष्टव्यम्॥

भद्रोदाहरणमाह—

उत्कटकरिकरटतटस्फुटपाटनसुपटुकोटिभिः कुटिलैः।
खेलेऽपि न खलु नखरैरुल्लिखति हरिः खरैराखुम्॥३१॥

उत्कटेति। हरिः सिंहो न खलु नैव खेलेऽपि क्रीडायामप्यास्वुंमूषकमुल्लिखति विदारयति नखैः। कीदृशैः। उत्कटा दृढा ये करिकरटतटा द्विषगण्डस्थलानि तेषां यत्स्फुटं प्रकटं पाटनं दारणं तत्र सुष्ठुपटुर्दक्षा कोटिरग्रं येषां तैः। तथा कुटिलैरनृजुभिः खरैस्तीक्ष्णैः। अत्र कटखाः केवलाः पूर्वत्र न प्रयुक्ता इति परिशिष्टत्वम्॥

अथाध्यायमुपसंहरन्यथैता वृत्तयो रचिता रमणीया भवन्ति तथाह—

एताः प्रयत्नादधिगम्य सम्यगौचित्यमालोच्य तथार्थसंस्थम् \।
मिश्राः कवीन्द्रैरघनाल्पदीर्घाः कार्या मुहुश्चैव गृहीतमुक्ताः॥३२॥

एता इति। एताः पूर्वोक्ता वृत्तयः कवीन्द्रैः सुकविभिर्मिश्राः परस्परान्तरिताः कार्याः। किं कृत्वा। अधिगम्य ज्ञात्वा प्रयत्नात्तात्पर्येण। कथम्। सम्यगविपरीतम्। तथा औचित्यमर्थसंस्थं पात्रगतमभिधेयगतं चालोच्य विमृश्य। कीदृश्यः सत्यो मिश्राः कार्या इत्याह— अघनाल्पदीर्घाः। अघना असंहताः। वृत्तौ वृत्तिर्निरन्तरलग्ना न कार्या। यदि वा अघना असंयोगाक्षराः। एवंविधा अप्यल्पदीर्घाः कर्तव्याः। एकैव वृत्तिरत्यन्तमायता न कार्या। यदि वा अल्पानि दीर्घाणि दीर्घाक्षराणि यास्विति योज्यम्। एवंविधा अप्यलंकारान्तररहिता उद्वेगकारिण्यः श्रोतॄणां स्युरित्याह— कार्या मुहुः पुनःपुनर्गृहीतमुक्ताः। मुहुर्मोक्तव्यः कर्तव्यश्चानुप्रास इति॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो

द्वितीयोऽध्यायः समाप्तः।

————

अथेदानीं यमकलक्षणमाह—

तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तुं वर्णानाम्।
पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य॥१॥

तुल्येति। पुनरावृत्तिः पुनरुच्चारणं वर्णानां तद्यमकम्। कीदृशानाम्। तुल्या समाना श्रुतिः श्रोत्रेन्द्रियोपलब्धिः क्रमश्च परिपाटी येषाम्। श्रुतिमहणाद्यत्र वर्णविकारेण षत्वरत्वादिना वपुष्टा वपुस्ता इत्यादौ तथा पुनर्गता पुना रौतीत्यादौ च सत्यपि क्रमे तुल्यश्रुतित्वाभावस्तत्र यमकत्वनिरासः। क्रमग्रहणात्प्रतिलोमानुलोमसर्वतोभद्रानुप्रासादीनां यमकत्वनिरासः। नहि तेषु तुल्यश्रुतिसद्भावेऽपि तुल्यक्रमो विद्यते। मिथोऽन्यार्थानां परस्परं भिन्नार्थानाम्। इत्यनेन तु पुनरुक्तस्य यमकत्वव्युदासः। यथा ‘अहो रूपमहो रूपमहो मुखमहो मुखम्। अहो कान्तिरहो कान्तिस्तस्याः सारङ्गचक्षुषः॥’ इत्यादिषु। अन्यार्थानामित्यत्रार्थशब्दः प्रयोजनवाच्यपि। तेनेहापि यमकत्वं सिद्धं भवति। ‘विजृम्भितोद्दामरसेन चेतसा निरूप्यमाणं किमपि प्रिया वषुः। तदैव वैराग्यवता विभागशो निरूप्यमाणं किमपि प्रियावपुः॥’ अत्र हि वर्णानामेकाभिधेयत्वेऽपि प्रयोजनं भिद्यते। अस्य च यमकस्य प्रायो बाहुल्येन च्छन्दांसि पद्यं विषयः। प्रायोग्रहणाद्गद्यमपि क्वापीति॥

अथ परोक्तयमकभेदान्निरस्यन्स्वाभिमतयमकभेदांल्लक्षणाभिधानायाह—

पूर्वं द्विभेदमेतत्समस्तपादैकदेशजत्वेन।
पादार्धश्लोकानामावृत्त्या सर्वजं त्रेधा॥२॥

पूर्वमिति। पूर्वे मूलभेदाद्यपेक्षया एतद्यमकं द्विभेदम्। केन भेदेनेत्याह— समस्तेत्यादि। तत्र समस्तपादश्च समस्तपादौ च समस्तपादाश्चेत्येकशेषः। तथा एकदेशश्च एकदेशौ च एकदेशाश्चेति। समस्तपादजमेकदेशजं चेति भेदद्वयम्। अत्र च वक्ष्यमाणभेदाः सर्वेऽप्यन्तर्भवन्तीति पञ्चधा चतुर्दशधा चेति परोक्तवचनव्युदास इति। तत्र समस्तपादजप्रभेदानाह— पादार्धेत्यादि। पादावृत्त्या अर्धावृत्या श्लोकावृत्त्या च समस्तपादजं त्रेधा भवति॥

तत्रापि पादावृत्तेस्तावद्भेदानाह—

पर्यायेणान्येषामावृत्तानां सहादिपादेन।
मुखसंदंशावृतयः क्रमेण यमकानि जायन्ते॥३॥

पर्यायेणेति। पर्यायेण क्रमेणान्येषां द्वितीयादीनां त्रयाणां पादानामादिपादेन सहावृत्तानां यमकितानां मुखसंदंशावृतिसंज्ञितानि क्रमेण यथासंख्यं यमकानि त्रीणि जायन्ते भवन्तीति॥

तदुदाहरणानि क्रमेणाह—

चक्रं दहतारं चक्रन्द हतारम्।
खङ्गेन तवाजौ राजन्नरिनारी॥४॥

चक्रमिति। कश्चिन्नृपमाह— हे राजन्, तव संबन्धिना खङ्गेनाजौरणे आरं रिपुसक्तं चक्रं समूहमरं शीघ्रं दहता घ्नता अरिनारी रिपुस्त्री भर्तृवधेन हता ताडिता सती चक्रन्द। क्रन्दितवतीत्यर्थः। इति प्रथमद्वितीयपादयमकं मुखसंज्ञम्॥

अथ संदंशः—

सन्नारीभरणोमायमाराध्य विधुशेखरम्।
सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय॥५॥

सन्नारीति। कश्चिन्नृपस्याशिपमाह— त्वं विधुशेखरं हरमाराध्य ततः पृथिवीं जय।

कीदृशं हरम्। सत्यश्च ता नार्यश्च सन्नार्यः साध्व्यः स्त्रियस्ता विभर्ति पोषयतीति सन्नारीभरणः स चासावुमायश्च। उमा पार्वती तां याति गच्छति तथा सह संयुज्यते यस्तं तथाविधम् \। त्वं कीदृशः। सन्नाः खिन्ना अरीभा रिपुद्विषा यत्र स तथाविधो रणः सङ्ग्रामो यस्य स तथा। पुनः कीदृशः। अमायो मायारहितः। सात्त्विक इत्यर्थः। अत्र प्रथमतृतीयपादयोः संदंशनामकं यमकम्॥

अयावृतिः—

मुदारताडी समराजिराजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम्।
भवान्विभर्तीह नगश्च मेदिनीमुदारताडीसमराजिराजितः॥६॥

मुदेति। कश्चिच्चाटुककृन्नृपमाह— इह भवांस्त्वं नगश्चादिश्चमेदिनीं भुवं विभर्ति पोषयति धारयते च। कीदृशस्त्वम्। मुदा हर्षेण, न तु भयेन, आरताडी रिपुसमूहताडनशीलः। तथा समराजिरे रणाङ्गणेऽजितोऽपरिभूतः। तथा प्रवृद्धतेजाः प्रथितप्रतापः। धनुष्मतां धानुष्काणां प्रथमो मुख्यः। नगः कीदृशः। उदारा उन्नता यास्ताड्यस्ताडिविवृक्षास्तासां समा अविषमा या राजयः पङ्कयस्ताभी राजितः शोभितः। इह चतुर्थपादयमकमावृतिर्नाम॥

भेदान्तरमाह—

प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन।
यमके संजायेते गर्भः संदष्टकं चेति॥७॥

प्रत्येकमिति। पश्चिमयोस्तृतीयचतुर्थपादयोर्द्वितीयेन पादेन सहावृत्त्या प्रत्येकं पृथग्यमके संजायेते भवतो गर्भसंदष्टकसंज्ञिते।

तत्र गर्भोदाहरणम्—

यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव।
समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते॥८॥

य इति। यः पुरुषो राज्यं प्राप्य तस्य रक्षणादौ निश्चिन्तो भवति। तथा प्राप्तं राज्यमिति समुत्सहर्षः। यो रतारम्भरतः सदैव निधुवनप्रारम्भासक्तः। सततं स तथाविधनृपो भरतो भरेण समुद्रतारं जलनिधितरणं बाहुभ्यामारभ्य पयसि जलमध्य उदास्ते निष्क्रियो भवति। कथम्। दैवं पुराकृतं कर्म प्रमाणं यत्र तत्तथेति क्रियाविशेषणम्। यः प्राप्तराज्यो निरुद्यमः स बाहुतरणप्रवृत्तजलधिमध्यस्थितनिष्क्रियनरतुल्य इत्यर्थः। इति मध्यमपादयोर्गर्भो नाम यमकम्॥

अथ संदष्टकम्—

इदं च येन स्वयमात्मभोग्यतां समस्तकाञ्चीकमनीयताकुलम्।
नितम्बविम्बं कथमस्तु नो नृणां स मस्तकाञ्ची कमनीयताकुलम्॥९॥

इदमिति। कश्चिद्रागी परस्त्रियं दृष्ट्वा कंचिदाह— इदं नितम्बविम्बं श्रोणीतटं येन स्वयमसहायेनात्मभोग्यतां स्वोपकारितामनीयत नीतं स तथाविधो नृणां पुंसां मस्तकाञ्ची शिरोवर्ती कथं नो अस्तु कथं मा भूत्। सौभाग्यातिशयवानित्यर्थः। कीदृशं कटीतटम्। आकुलं प्रयोगवशाच्चटुलमत एवसमस्ता सम्यक्क्षिप्ता काञ्ची मेखला यतस्तत्समस्तकाञ्चीकम्। तथा च कमनीयताया रामणीयकस्य कुलं स्थानम्। अत्र द्वितीयचतुर्थपादयोः संदष्टयमकम्॥

पुनराह—

अन्योन्यं पश्चिमयोरावृत्त्या पादयोर्भवेत्पुच्छः।
सर्वैः सार्धं युगपत्प्रथमस्य तु जायते पङ्किः॥१०॥

अन्योन्यमिति। पश्चिमयोस्तृतीयचतुर्थपादयोः परस्परावृत्त्या पुच्छो नाम यमकं भवेत्। तथा प्रथमपादस्य सर्वैस्त्रिभिरन्यैः सार्धेयुगपत्समकालमावृत्या पङ्क्तिर्नाम यमकं जायते॥

तत्र पुच्छः—

उत्तुङ्गमातङ्गकुलाकुले यो व्यजेष्ट शत्रून्समरे सदैव।
स सारमानीय महारि चक्रं ससार मानी यमहारिचक्रम्॥११॥

उत्तुङ्गेति। कश्चिद्वीरो वर्ण्यते— स मानी मानवान्नरोऽरिचक्रं रिपुराष्ट्रं ससार जगाम। कीदृशः। यः समरे रणे। कीदृशे। उत्तुङ्गमातङ्गकुलाकुल उन्नतद्विषसमूहसंकुले सदैव सर्वदैव व्यजेष्टशंभ्यभूत्, शत्रून्रिपून्। कथम्। सारमुत्कृष्टं महारि महद्भिररैर्युक्तं चक्रमायुधविशेषमानीयादाय। कीदृशो मानी। यमं युग्मं कृतान्तमपि वा हन्तीति यमहा॥

अथ पङ्क्त्युदाहरणम्—

सभाजनेनोपरि पूरितासौ सभाजने नोपरिपूरितासौ।
सभा जनेनोऽपरिपूरितासौ सभाजने नोऽपरिपूरितासौ॥१२॥

सभाजनेनेति।‘कस्यचिद्राज्ञो मन्त्रिणः पौरैस्तिरस्कृताः। ततस्तस्य स्वसभ्याधिक्षेपजातकोपस्यापरागभयात्पौ- राननिगृह्णतः कान्तिभ्रंशेो बभूव। ततः कस्मिश्चिदवसरे ते सभ्या लब्धावसराः सन्तः पौराणामुपरि कटकयात्रामदुः। ततस्ते पौरा निरायुधाः सन्तः पराजिग्यिरे। ततो राजा परितुष्टः पुनरात्मीयां कान्तिमाप’ इति समुदायार्थः। पादानां त्वेवं योजना। कश्वित्सभ्यः परस्य कययति— सभाजनेन सभ्यलोकेन। मन्त्रिजनेनेत्यर्थः। उपरि पृष्ठतः, पूः पौरजनता। इता प्राप्ता, असौ। एषां पौराणां पृष्ठतः सभ्या आगता इत्यर्थः। कदा। सभां सभालोकमजति क्षिपतीति सभाजनस्तस्मिन्पौ- रजने। न उपरिपु शत्रुसमीपे सभ्यसंनिधाने ऊरिता असयः खङ्गायेन स ऊरितासिस्तस्मिन्नेवंविधे। अनुद्यखङ्ग इत्यर्थः। अत एव जनानामिनः स्वामी जनेनो राजा, सह भासा वर्तते इति सभाः सदीप्तिकः संवृत्तः। अन्यच्च कीदृशे पौरलोके। अपरिपूरिता अनाप्यायिता असवः प्राणा यस्यासौ तथोक्तस्तस्मिन्। मृततुल्य इत्यर्थः। तथा सभाजने। ‘सभाजप्रीतिदर्शने6’ इत्यस्मात्कर्तरि ल्युट्। नोऽस्माकं प्रीतिकरे। पूजक इत्यर्थः। अत एवास्माकं पूर्वप्रक्रान्तो जनेनः, अवतीत्यूः। रक्षिता संपन्न इत्यर्थः। कथम्। अपगता रिपवो यत्रावने तत्तथेति क्रियाविशेषणम्। किंभूते पौरलोके। इतासौ इता प्राप्ता असुः अपूजा येन तस्मिन्। अधिगतमानभ्रंश इत्यर्थः। ‘परिप्रतिगतार्थौ तु सु पूजायां यदा भवेत्। अतिरतिक्रमणे चैव नोपसर्ग इमे तदा॥’ इति सर्वपादजं पङ्क्तियमकम्॥

भूयोऽपि भेदान्तरमाह—

परिवृत्तिर्नाम भवेद्यमकं गर्भावृतिप्रयोगेण।
मुखपुच्छयोश्च योगाद्युग्मकमिति पादजं नवमम्॥१३॥

परिवृत्तिरिति। पूर्वोक्तगर्भावृतियमकयोर्युगपद्योगे परिवृत्तिर्नाम यमकं भवति। तथा पूर्वोक्तमुखपुच्छयोर्युगपद्योगा- द्युग्मकं नाम समस्तपादसंभवं नवमं यमकं भवति॥

तत्र परिवृत्युदाहरणम्—

मुदा रतासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा।
स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम्॥१४॥

मुदेति। एतन्मानिन्याः सखी अनुनयप्रत्याख्यानभयादपसृतं नायकमाह— असौ रमणी स्त्री त्वयि रता। मुद्दा प्रीत्या। न तु धनलोभादिना। यता त्वदागमनार्थंप्रयत्न परा। यां त्वं वोढा परिणेता। अदोऽलं निःसंदेहं स्मरसिध्यायसि। कीदृशस्त्वम्। कुरुते नोपलक्षितः। कुत्सितं रुतं कुरुतं तेन। यत्पुरुषस्य धैर्यच्युतिप्रकाशकमत एव तत्स्मरणपरिज्ञानम्। ननु यदि सा मानिनो तत्किमनुनयार्थे त्वं प्रेषितेत्याह— यस्मादुदारतासौ औचित्यमिदम्। रमणीयतायां रमणीयत्वे। यत्स्मरस्यदः कामोद्रेकोऽलंकुरुते भूषयति। अनवोढांप्रगल्भां नायिकाम्॥

अथ युग्मकम्—

विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना।
महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम्॥१५॥

विनेति। कश्चित्कंचिदाह— अयं महाजनः सत्पुरुषलोकः। एनोऽपराधं विना। अनपराध इत्यर्थः। अदीयत खण्ड्यते स्म। केन। यमेन। किं कुर्वता यमेन। नयतात्मसमीपं प्रापयता। तथासुखादिना प्राणभक्षणशीलेन। ऊनयता महाजनमूनीकुर्वता। सुखादिना सौख्यभक्षकेण। अथवा सुखादिनार्थेन न्यूनयता। कीदृशो महाजनः। विना विगता नरो यस्मात्। यमं प्रति पुरुषकारविफलत्वाद्विपुरुष इत्यर्थः। बहुलत्वात्को न भवति। यद्वा विनष्टो ना पुरुषो विना। पुनः महाजनःकीदृशः। मानसान्मानमहंकारं सादयतीति मानसाद्रिपूणाम्। यदि वा मानसाच्चित्तात्सकाशात्सुखादिना। तथा महाजनोदीमहमुत्सवमजन्ति क्षिपन्ति महाजा दुर्जनास्तान्नुदति प्रेरयतीति महाजनोदी। कथमदीयत। अरं शीघ्रम्। तथा यतमानसादरं यतमानानां मरणप्रतिक्रियाव्यापृतानां सादं खेदं राति ददातीति च क्रियाविशेषणम्॥

एतानि नव यमकानि समस्तपादस्योक्तानि। अधुना समस्तपादयोः समस्तपादानां चाह—

अर्धं पुनरावृत्तं जनयति यमकं समुद्गकं नाम।
श्लोकस्तु महायमकं तदेवमेकादशैतानि॥१६॥

अर्धमिति। प्रथममर्धंपुनरावृत्तं भूय उच्चरितं समुद्गकाख्यं यमकं जनयति करोति। नामशब्दः संस्थाननिषेधसूचनार्थः। तेन चित्रमध्येऽस्य नान्तर्भावः। अर्धद्वयसारूप्येण च समुद्गकसादृश्यम्। श्लोकः श्लोकान्तरे यमकितो महायमकं जनयति। तुः पुनरर्थे। श्लोक इत्येकवचनं द्वयोख्यादीनां च यमकत्वनिवृत्त्यर्थम्। ययालक्ष्येष्वदर्शनात्। एवं मुखादारभ्य महायमकान्तान्येकादशैतानि समस्तपादयमकानि भवन्ति॥

तत्र समुद्रकम् —

ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्।
न नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम्॥१७॥

ननामेति। लोको जनो विदं पण्डितं ननाम प्रणतः। केन। आनवेन स्तुत्या। कीदृशः। महा उत्सवाः सन्त्यस्येति मही। तथारीन्रिपुंस्त्रायतेऽरित्रा मुत्प्रमोदो यस्य स तथाभूतो न च नैव। विदं कीदृशम्। अरीणां समूह आरं तस्य धीर्बुद्धिस्तामीरयतीति तं तथाविधम्। लोकस्तु न नामलः, अपि त्वमलो निर्मल एव। विदं पुनः कीदृशम्। अकोविदा मूर्खास्तेषां मानमहंकारं वान्ति गन्धयन्ति नाशयन्तीत्यकोविदमानवास्तेषामिनः स्वामी तम्। तथाहीनचारित्रमखण्डशीलम्। उदारो विपुलाशयो धीरो धैर्योपेतः। उदारंच धीरं चेति॥

अथ महायमकं श्लोकद्वयेनाह—

स त्वारं भरतोऽवश्यमवलं विततारवम्।
सर्वदा रणमानैषीदवानलसमस्थितः॥१८॥

सत्त्वारम्भरतो वश्यमवलम्विततारवम्।
सर्वदारणमानैषी दवानलसमस्थितः॥१९॥

स इति। सत्त्वेति। स पूर्वप्रक्रान्तो वित्। तुशब्दः क्रियान्तरोपन्यासार्थः। आरमरिसमूहम्, भरतो भरेण, अवश्यं निश्चितम् अबलं बलरहितम्, विततारवं कृतभयार्तिविस्तीर्णनिःस्वनम्, सर्वदा सदा, रणं समरम्, आनैषीदानीतवान्। कीदृशोऽसी। अवानगच्छन्। कम्। अलसं निष्क्रियं जनम्। तथास्थितोऽस्थीनि शत्रूणां तस्यति क्षयं नयतीत्यस्थित इति। तथा सत्त्वेनावष्टम्भेनारम्भा ये तेषु रतः सक्तः। कीदृशमारम्। वश्यं वशगतमयवावश्यमनायत्तम्, अवलम्बिततारवं समाश्रिततरुसमूहम्। वित्कीदृशः। सर्वदारणमानैषीसर्वेषां यद्दारणं विनाशनं तेन मानमिच्छतीति कृत्वा, अत एव दवानलेन दवाग्निना समं तुल्यं स्थितं स्थितिर्यस्येति। शब्दश्लेषस्यास्य च महायमकस्यायं विशेषः। तत्रैकेनैव प्रयत्नेन वाक्यद्वयमुच्चार्यते, इह तु द्वाभ्याम्॥

एवं समस्तपादजं यमकमाख्यायेदानीमेकदेशजमाह—

पादं द्विधा त्रिधा वा विभज्य तत्रैकदेशजं कुर्यात्।
आवर्तयेत्तमंशं तत्रान्यत्रापि वा भूयः॥२०॥

पादमिति। यच्छन्दोऽर्धादिभागं ददाति तस्य पादं द्विधा त्रिधा वा विभज्य द्विखण्डं त्रिखण्डं वा कृत्वा तत्र विभक्तेंऽश एकदेशजं यमकं कुर्यात्। कथमित्याह— आवर्तयेद्यमकयेत्तमंशं विभक्तं भागम्। तत्रैवांशे प्रथमार्धानि प्रथमार्धेषु द्वितीयार्धानि द्वितीयार्धेष्वित्यादिक्रमेण। अन्यत्र वाप्यंशान्तरैर्भूयः प्रभूतमावर्तयेत्। अंशान्तरावृत्तौ वहवो भेदा भवन्तीत्यर्थः। अपिशब्दः समुच्चये॥

तत्रैवावृत्त्या ये भेदाः संभवन्ति तानाह—

आद्यर्धान्यन्योन्यं पादावृत्तिक्रमेण जनयन्ति।
दश यमकान्यपरस्मिन्परिवृत्त्यातद्वदन्यानि॥२१॥

आद्यर्धनीति। श्लोकपादचतुष्टयस्य प्रथमार्धान्यपरस्मिन्पादेऽन्योन्यं परस्परं पादावृत्तिक्रमेण समस्तपादद्वययमकवद्दश यमकानि जनयन्ति। तद्वत्तथैव चान्त्यान्यपि दश जनयन्ति। तानि च मुखसंदंशावृतिगर्भसंदष्टकपुच्छपङ्तिपरिवृत्तियुग्मकसमुद्गकसंज्ञानि॥

किं पुनेरषामुदाहरणानि नोक्तानीत्याह—

एतदुदाहरणानां पादावृत्त्यैव दर्शितो मार्गः।
इह विंशतिभेदमिदं यमकं नोदाहृतं तेन॥२२॥

एतदिति। समस्तपादावृत्तियमकोदाहरणैरेव पूर्वोक्तैरेतदुदाहरणानां दिक्प्रदर्शनं कृतमितीह विंशतिभेदं यमकं नोदाहृतमिति। यद्यपि चोभयत्राप्यत्रैकादशोऽपि भेदः संभवति। यथा यादृशानि प्रथमश्लोक आद्यन्तानि चार्धानि कृतानि तादृशान्येव तानि लोकान्तरे क्रियन्त इति कृत्वा तथापि महाकवीनां न क्वचिदेवंविधं लक्ष्यं दृश्यत इति दशैव भेदा उक्ताः॥

इदानीमन्यत्र देश आवृत्त्या तानाह—

प्रथमतृतीयान्त्यार्धे तदनन्तरभागयोः परावृत्ते।
अन्तादिकमिति यमकं व्यस्तसमस्ते त्रिधा कुरुतः॥२३॥

प्रथमेति। प्रथमपादान्त्यार्धे द्वितीयपादाद्यर्धेतृतीयपादान्त्यार्घेच चतुर्थपादाद्यर्धे परावृत्तं प्रत्येकं युगपच्चेत्यन्तादिकं नाम त्रिविधं यमकमन्ताद्योर्यमकनाद्भवतीति॥

तत्रोदाहरणानि—

नारीणामलसं नाभि लसन्नाभि कदम्बकम्।
परमास्त्रमनङ्गस्य कस्य नो रमयेन्मनः॥२४॥

नारीणामिति। नारीणां कदम्बकं स्त्रैणं कस्य मनश्चित्तं नो रमयेत्प्रीणयेत्। कीदृशम्। अलसं मन्थरगमनम्। तथा नाभि अबलात्वात्सभयम्। तथा लसन्ती मनोज्ञा नाभिर्यस्य तत्तथा। तथा परमास्त्रं प्रकृष्टायुधमनङ्गस्य॥

द्वितीयोदाहरणमाह—

पश्यन्ति पथिकाः कामशिखिधूमशिखामिव।
इमां पद्मालयालीनां लयालीनां महावलीम्॥२५॥

पश्यन्तीति। पद्मान्यालयो येषां ते च तेऽलयश्च भ्रमराश्च तेषां महावलीं दीर्घश्रेणीमिमां पथिकाः पान्थाः पश्यन्ति। कीदृशीम्। लयेनान्योन्यश्लेषेणालीनां संबद्धाम्। कामशिखिधूमशिखामिव स्मरानलधूमलेखामिव। इति व्यस्तोदाहरणे॥

समस्तोदाहरणमाह—

पुष्यन्विलासं नारीणां सन्नारीणां कुलक्षयम्।
आ कल्पं वसुधासार सुधासार जगज्जय॥२६॥

पुष्यन्निति। हे वसुधासार भूप्रधान नृप, आ कल्पं युगान्तं यावज्जगद्भुवनं जय। कीदृश। सुधासार अमृतवेगवर्ष। किं कुर्वन्। पुष्यन्पुष्टिं नयन्। कम्। विलासम्। कासाम्। नारीणाम्। तथा सन्नानामवसादं गतानामरीणां रिपूणां कुलक्षयमन्वयान्तं पुष्यन्। अन्तर्भावितकारितार्थोऽत्र पुषिः सकर्मकः॥

भेदान्तराण्याह—

द्वैतीयमन्यमर्धं परिवृत्तमनन्तरे भवेन्मध्यम्।
मध्यसमस्तान्तादिकयोगादपि जायते वंशः॥२७॥

द्वैतीयमिति। द्वितीयपादस्यान्त्यार्धे तृतीयपादाद्यर्धे परिवृत्तं मध्याख्यं यमकं जनयति। एतस्य मध्यस्य पूर्वोक्तसमस्तान्तादिकस्य योगे वंशो नाम यमकम्। समस्तग्रहणं व्यस्तान्तादिकनिवृत्त्यर्थम्। तन्निवृत्तिस्तु लक्ष्यादर्शनात् न त्वसंभवात्। एवमन्यत्रापि द्रष्टव्यम्। अपिः समुच्चये॥

तत्रोदाहरणमाह—

समस्तभुवनव्यापियशसस्तरसेह ते।
रसेहते प्रियं कर्तुं प्राणैरपि महीपते॥२८॥

समस्तेति। हे महीपते भूपते, तवेहात्र रसा पृथ्वी प्राणैरपि। आस्तां धनादिभिः प्रियं हितं कर्तुमीहते चेष्टते। तरसा झगिति। कीदृशस्य ते। समस्तभुवनव्यापियशससकलजगद्व्यापिश्लोकस्य। इति मध्यः॥

अथ वंशः—

ग्रीष्मेण महिमानीतो हिमानीतोयशोभितः।
यशोऽभितः पर्वतस्य पर्व तस्य हि तन्महत्॥२९॥

ग्रीष्मेणेति। ग्रीष्मेण निदाधेन पर्वतस्य शैलस्य महिमा माहात्म्यमानीतः। कीदृशः। महद्धिमं हिमानी ततः स्रुतेन तोयेनाम्बुना शोभितो राजितः। हि यस्मात्तस्य पर्वतस्य तद्धिमानीतोयमभितः समन्ताद्यशो वर्तते। तथा पर्व महोत्सवश्च महन्महाप्रमाणम्॥

पुनर्भेदमाह—

आवृत्तं प्रथमादौ द्वितीयमर्धं चतुर्थपादस्य।
वंशश्र चक्रकाख्यं षष्ठं चान्तादिकं यमकम्॥३०॥

आवृत्तमिति। चतुर्थपादद्वितीयार्धेप्रथमपादाद्यर्धेन सहावृत्तं पूर्वोक्तवंशश्चेति यमकयोगे चक्रकं नाम यमकम्। षष्टोऽन्तादिकभेदः। एकश्चकारो वंशकसमुच्चये द्वितीयश्च चक्रस्यान्तादिकमध्ये समुच्चयार्थः॥

सभाजनं समानीय स मानी यः स्फुटन्नपि।
स्फुटं न पिहितं चक्रे हितं चक्रे सभाजनम्॥३२॥

सभाजनमिति। स एव मानी मनस्वी यश्चकेराष्ट्रे हितं चक्रेऽनुकूलं चकार। किं कृत्वा। सभाजनं सभालोकं समानीय सम्यगात्मसमीपं प्रापय्य। सभ्यानां विदितं कृत्वेत्यर्यः। कथं हितं चक्रे। पिहितं गुप्तम्, न स्फुटं प्रकटम्। अविकत्थनात्। किं कुर्वन्नपि। स्फुटन्नपि पीडितोऽपि। कीदृशं संभाजनम्। सभाजनं प्रीतिदर्शनम्। लक्षणं सर्वत्र स्वधिया योज्यम्। अत्र च सप्तमोऽप्येष भेदः संभवति। यत्र केवलमेव प्रथमाद्यर्धे चतुर्थान्त्यार्धेमावर्त्यते स तु पूर्वकविलक्ष्येषु दृश्यमानोऽपि कथमपि नोक्तः॥

अथाद्यन्तकभेदानाह—

प्रथमादिप्रथमार्धैःपरिवृत्तान्यत्र सार्धमर्धानि।
अन्त्यान्यनन्तराणां जनयन्त्याद्यन्तकं नाम॥३२॥

प्रथमादीति। प्रथमद्वितीयतृतीयपादप्रथमार्धैःसार्धमनन्तराणां द्वितीयतृतीयचतुर्थपादानामन्त्यार्धानि परिवृत्तानि यमकितानि सन्त्याद्यन्तकसंज्ञकं यमकं जनयन्ति॥

किमेकभेदमेवेदम्। नेत्याह—

इदमप्यन्तादिकवत्क्रमेण षोढैव भिद्यते भूयः।
अस्योदाहरणानां तेनैव च दर्शितो मार्गः॥३३॥

इदमिति। न केवलमन्तादिकमिदमप्याद्यन्तकं तेनैव क्रमेण षोढा षड्भिर्भेदैर्भिद्यते। भूयः पुनः। यथा प्रथमाद्यर्धे द्वितीयपादान्त्यार्धेन सह यमकिते तृतीयाद्यर्धे चतुर्थन्त्यार्धेन सह व्यस्तमाद्यन्तकं द्विधा। तदुभययोगे समस्तमिति तृतीयो भेदः। द्वितीयाद्यार्धे तृतीयान्त्यार्धेन सह मध्यनामा चतुर्थः। मध्यसमस्ताद्यन्तकयोगे वंशः पञ्चमभेदः। प्रथमान्त्यार्धचतुर्थाद्यर्धसारूप्ये वंशे च युगपत्कृते चक्रकं नाम षष्ठः। पूर्ववच्च सप्तमो भेदः संभवतीति। यत्र प्रथमाद्यर्धचतुर्थान्त्यभागयोः सारूप्यम्। अस्य च निदर्शनानां तेनैवान्तादिकेन मार्गो दर्शितो दिक्प्रदर्शनं कृतमिति नोदाहरणं दत्तम्॥

भूयो भेदमाह—

प्रथमतृतीयाद्यर्धे तदनन्तरचरमयोः परावृत्ते।
भवति समस्तान्तादिकयोगादप्यर्धपरिवृत्तिः॥३४॥

प्रथमेति। प्रथमाद्यर्धे द्वितीयपादान्त्यार्धेन तृतीयाद्यर्धे चतुर्थान्त्यार्धेन यमकितं समस्तान्तादिकं चेत्युभययोगेऽर्धपरिवृत्तिर्नाम भवति॥

यथा—

ससार साकं दर्पेण कंदर्पेण ससारसा।
शरन्नवाना विभ्राणा नाविभ्राणा शरं नवा॥३५॥

ससारेति। कंदर्पेण कामेन साकं सार्धं दर्पेण वेगेन शरत्ससार प्रसृता। कीदृशी सा। ससारसा सह सारसैः पक्षिविशेषैर्वर्तते या सा। तथा नवानि नूतनान्यनांसि शकटानि यस्यां सा नवानाः। तथा शरं काण्डतृणविशेषं विभ्राणा धारयमाणा। तथा भ्राणनं भ्राणः शब्दः। वीनां पक्षिणां भ्राणो विभ्राणो न विद्यते विभ्राणो यस्यां साविभ्राणा नैवंविधा। सपक्षिरुतेत्यर्थः। तथा नवा प्रत्यग्रा। तत्कालप्रवृत्तत्वात्॥

पुनर्भेदान्तराण्याह—

पादसमुद्गकसंज्ञं तत्रावृत्तानि कुर्वते तच्च।
अन्तरितानन्तरितव्यस्तसमस्तेषु पादेषु॥३६॥

पादेति। चतुर्णामपि पादानां यान्यर्धानि तानि तत्रैव पादे परिवृत्तानि सन्ति। पादे पादे समुद्रकसादृश्यात्पादसमुद्गकं नाम यमकं कुर्वन्ति। तच्च पादेष्वन्तरितेषु व्यवहितेध्वनन्तरितेषु च तथा व्यस्तेषु केवलेषु समस्तेषु च पादेषु बहुधा भवति। ते च बहवः प्रकाराः पञ्चदश। कथमन्तरितं तावत्पञ्चधा। प्रथमतृतीययोर्द्वितीयेन, द्वितीयचतुर्थयोस्तृतीयेन, प्रथमतृतीयचतुर्थानां द्वितीयेन, प्रथमद्वितीयचतुर्थानां तृतीयेनान्तरणम्। इत्येकान्तरितं चतुर्भेदम्। प्रथमचतुर्ययोस्तु द्वितीयतृतीयाभ्यामिति व्द्यन्तरितमेकमेव। इत्यन्तरितं पञ्चभेदम्। अनन्तरितमपि प्रथमद्वितीययोर्युगपद्द्वितीयतृतीययोर्वा तृतीयचतुर्थयोर्वेति द्वियोगे त्रिभेदम्। त्रियोगेण तु प्रथमद्वितीयतृतीयानां द्वितीयतृतीयचतुर्थानां चेति द्विभेदम्। एवमेकत्रानन्तरितं तत्पञ्चधा। तथा व्यस्तेषु चतुर्षु पादेषु चत्वारो भेदाः, समस्तेषु त्वेक एव भेदः। इत्येवं सर्वे पञ्चदश॥

तत्राद्येऽन्तरितभेदद्वये तथा पञ्चदशे समस्तजभेदे च दिक्प्रदर्शनायोदाहरणत्रयमाह। यथा—

मुदा सेनामुदासेनादसौ तामसमञ्जसम्।
महीनाथमहीनाथ जयश्रीरालिलिङ्ग तम्॥३७॥

मुदेति। असौमहीनाथो राजा तां सेनां मुदा हर्षेण इनात्स्वामिनः सेनाभर्तुः सकाशादुदास चिक्षेप। वियोजितवानित्यर्थः। कथम्। असमञ्जसमितस्ततः। अथानन्तरं महीनाथमहीना संपूर्णा जयलक्ष्मीरालिलिङ्ग परिषध्वजे॥

द्वितीयोदाहरणमाह—

यत्त्वया शात्रवं जन्ये मदायतमदायत।
तेन त्वामनुरक्तेयं रसायत रसायत॥३८॥

यदिति। कश्चिद्राजानमाह— यद्यस्मात्त्वया शात्रवं शत्रुगणो जन्ये रणेऽदायतालूयत। तेन हेतुनेयं रसा पृथ्व्यनुरक्ता सती त्वामयतागता। ‘अय गतौ’ इत्यस्य रूपम्। कीदृशम्। शात्रवं मध्नातीति मत् रिपुमथनसमर्थम्। आयतं विस्तीर्णम्। यद्वा मदेनायतम्। कीदृशी रसा। आयतरसा त्वां प्रति दीर्घाभिलाषा॥

तृतीयोदाहरणमाह—

रसासार रसासार विदा रणविदारण।
भवतारम्भवतारं महीयतमहीयत॥३९॥

रसासारेति। हे रसासार भूश्रेष्ठ, तथा रसानां शृङ्गारादीनामासार वेगवर्षतुल्य, तथा रणविदारण समरभेदक, भवता त्वया, विदा पण्डितेन, आरम्भवता सोद्योगेन, आरं शात्रवमद्दीयत हानि नीतम्। जितमित्यर्थः। कीदृशम्। मह्यां पृथिव्यां यतं संबद्धम् दृर्म्यादिवियोजितत्वादिति। अन्यदेशावृत्तौमनोहारित्वमाश्रित्यैते त्रिंशद्भेदा जाताः। ययान्तादिके षट्कमाद्यन्तके षट्कमिति द्वादश संभवन्ति। सप्तमभेदाभ्यां सह चतुर्दश।

पञ्चदशार्धपरिवृत्तिः। तथामी पादसमुद्रकभेदाश्च पञ्चदशेति। यथेष्टं चावृत्तावसंख्याता भेदाः संभवन्ति। ते तु नोक्ताः। कविलक्ष्येष्वदर्शनादरम्यत्वाच्चेति॥

अधुना प्रकारान्तरमाह—

आवृत्तानि तु तस्मिन्नाद्यर्धान्यर्धशो विभक्तानि।
वक्रं तथा शिखान्त्यान्युभयानि च जायते माला॥४०॥

आवृत्तानीति। पादानामाद्यान्यर्धान्यर्धशः खण्डितानि तस्मिन्नेव खण्डितेऽर्धे यमकितानि वक्रं नाम यमकं जनयन्ति। तथान्त्यार्धान्यर्धीकृतानि तस्मिन्नेव यमकितानि शिखां जनयन्ति। वक्रशिखयोश्च युगपद्योगे माला भवति॥

क्रमेणैषामुदाहरणत्रयमाह—

घनाघनाभिनीलानामास्थामास्थाय शाश्वतीम्।
चलाचलापि कमले लीनालीनामिहावली॥४१॥

घनेति। इह कमले पद्मेऽलीनां भ्रमराणामावली पङ्क्तिर्लीना श्लिष्टा। कीदृक्। चलाचलापि चञ्चलापि। कीदृशामलीनाम्। घनाघना वार्षुकमेघास्तद्वदभिनीलानां श्यामानाम्। किं कृत्वा। लीनां शाश्वतीं स्थिरामास्यां वृत्तिमास्थाय कृत्वा। वक्रमिदम्॥

यासां चित्ते मानोऽमानो नारीर्भूयोऽरं ता रन्ता।
सारप्रेमा सन्नासन्ना जायेतैवानन्ता नन्ता॥४२॥

यासांमिति। सन्ना सत्पुरुषो भूयः पुनररं शीघ्रं जायेतैव भवेदेव। कीदृशः। रन्ता रमणशीलः।रमेरन्तर्भूतकारितार्थाद्रमयितेत्यर्थः। कास्ताः। नारीः। कीदृशीः। अनन्ताः प्रचुरास्तथा आसन्ना अभ्यर्णाः। यासां नारीणां चित्ते मनसि मानोऽहंकारोऽमानोऽतिबहुः। कीदृशः। सन्ना नन्ता नम्रः। सारप्रेमा स्थिरप्रीतिः। इति शिखा॥

भीतभीता सन्नासन्ना सेना सेनागत्यागत्या।
धीराधीराह त्वा हत्वा संत्रासं त्रायस्वायस्वा॥४३॥

भीतेति। कश्चिद्दुतो राजानमाह— हे धीर निर्भय, आधीर मनोदुःखप्रेरक, सा परकीया सेना चमूः सेना सस्वामिका त्वा भवन्तमाह ब्रूते। कीदृशी। भीता त्रस्ता, अभीता संमुखमागता, सन्ना सखेदा, आसन्ना निकटवर्तिनी, आगत्य समेत्य, अगत्या गत्यन्तराभावेन। किं तदाह— हत्वा विनाश्य, संत्रासं भयम्, त्रायस्व पालय। पुनः कीदृशी। आयस्वा आयस्त्वत्सकाशादागमनमेव स्वं धनं यस्याः। इति माला॥

भूयोऽप्याह—

मध्यान्यर्धार्धानि तु मध्यं कुर्वन्ति तत्र परिवृत्त्या।
आद्यन्तान्याद्यन्तं काञ्चीयमकं तथैकत्र॥४४॥

मध्यानीति। तुः पुनरर्थे। मध्यान्यर्धार्धानि पुनस्तत्रैव मध्ये परिवृत्या मध्यं नाम

यमकं जनयन्ति। एवमाद्यन्तान्यर्धर्धानि परिवृत्त्याद्यन्तं नाम कुर्वन्ति। तदुभययोगे समकालं काञ्चीयमकं जनयन्ति। तथाशब्दः समुच्चये॥

तत्रोदाद्दरणंत्रयं क्रमेणाह—

सन्तोऽवत वत प्राणानिमानिह निहन्ति नः।
सदाजनो जनोऽयं हि बोद्धुंसदसदक्षमः॥४५॥

सन्त इति। कश्चिदाह— हे सन्तः शिष्टाः, नोऽस्माकं प्राणानवत रक्षत। हि यस्मादयं जनो लोक इहात्रेमान्प्राणान्निहन्ति हिनस्ति। घतेति खेदे। कीदृशो जनः। सदाजनः सतां क्षेप्ता। तथा सच्चासच्च युक्तायुक्तं बोद्धुं ज्ञातुमक्षमोऽसमर्थः। इति मध्यम्॥

दीना दूनविषादीना शरापादितभीशरा।
सेना तेन परासे ना रणे पुंजीवितेरणे॥४६॥

दीना इति। कश्चित्कस्यापि कथयति— हे नः पुरुष, तेन केनापि वीरेण रणे समरे सेना चमूः परासे क्षिप्ता। कीदृशे रणे। पुंजीवितस्येरणे क्षेप्तरि। सेना कीदृशी। दीना निष्पौरुषा। तथा दूनः परितप्तो विषादी विषण्ण इनःस्वामी यस्याः सा तथाभूता। तथा शरैर्वाणैरापादिता भीर्भयं शरो हिंसा च यस्याः सा तथा। इत्याद्यन्तम्॥

या मानीतानीतायामा लोकाधीरा धीरालोका।
सेनासन्नासन्ना सेना सारं हत्वाह त्वा सारम्॥४७॥

येति। कश्चिद्दूतः स्वसेनासंदेशं राज्ञः कथयति— सा त्वदीया सेना पृतना, आरं रिपुसमूहम्, हत्वा विनाश्य, आह ब्रवीति। त्वा भवन्तम्। किं ब्रवीति। सारं प्रधानं वस्तु। शत्रवो जिता इति निवेदयतीत्यर्थः। तस्यैव सारत्वादिति। कीदृशी। या मानिभिर्मनस्विभिरिताधिष्टिता। तथा आनीतः संपादितः परवलस्वीकारेणायामो विस्तारो यस्याः सा तथाभूता। लोकानामाधीर्मनःपीडा ईरयति सा लोकाधीरा। तथा धीरो निर्भय आलोकः प्रेक्षणं यस्याः सा तथाभूता। सेना सदण्डनायका, आसन्ना सोत्साहा, आसन्ना निकटा। इति काञ्चीयमकम्। पादसमुद्रकभेदवदन्तादिकादियमकभेदवच्चेहापि सर्व एव भेदा द्रष्टव्या इति॥

‘पादं द्विधा त्रिघा वा विभज्य’ (३/२०) इत्युक्तम्, तत्र द्विधा विभक्ते यमकान्याख्यायेदानीं त्रिधा विभक्तस्याह—

पादस्त्रिधाविभक्तः सकलस्तस्यादिमध्यपर्यन्ताः।
तेष्वपरत्रावृत्त्यादश दश यमकानि जनयन्ति॥४८॥

पाद इति। यस्य पादस्य त्रिधा भागः संभवति स त्रिधा खण्डितस्ततश्च तस्यादिमध्यान्तभागा अपरत्र पादान्तरे तेष्वेव प्रथमद्वितीयतृतीयभागेषु यथाक्रमं यमकिता दश दश यमकानि पूर्ववज्जनयन्ति। एवं त्रिंशद्यमकानि भवन्ति॥

एतदाह—

सुमतिरिमानि त्रीण्यपि पादावृत्तिक्रमेण दशकानि।
यमकानां जानीयात्तदुदाहरणानि तद्वच्च॥४९॥

सुमतिरिति। एतानि यमकानां त्रीणि दशकानि प्राज्ञः पादावृत्तिक्रमेण मुखसंदंशादिसंज्ञाभिर्जानीयात्। तदुदाहरणान्यपि तद्वदेव तेनैव प्रकारेण। सर्वे चैतद्द्विधा विभक्तपाद इव यमकजातं ज्ञेयम्। केवलं तृतीयभागकृतो विशेषः॥

तदेवाह—

अन्तादिकमिव षोढा विभिन्नमेतत्करोति तावन्ति।
यमकान्याद्यन्तकवत्तथापरामर्धपरिवृत्तिम्॥५०॥

अन्तादिकमिति। यथान्तादिकमाद्यन्तकं च पूर्वत्रषोढा भिन्नं सत्प्रत्येकं षङ्यमकानि जनितवत्तथेदमपि। तथापरामन्यामर्धपरिवृत्तिं द्वेधाविभक्तपादवज्जनयति। तथाशब्दस्योभयत्र योगः। इति त्रयोदश यमकानि॥

एषामुदाहरणानि कानीत्याह—

तद्वदुदाहरणान्यपि मन्तव्यानि त्रयोदशैतेषाम्।
कृत्वार्धशश्च भागानिहापि सर्वं तथा रचयेत्॥५१॥

तद्वदिति। उदाहरणान्यपि तद्वदेव त्रयोदश ज्ञेयानि। उपलक्षणं चैतत्। पादसमुद्गकवदिहापि पञ्चदशानां भेदानां संभवात्केवलमिह भागत्रयस्य सादृश्यम्। तत्र तु द्वयस्य पुनरपि भेदानाह— कृत्वार्धशश्चेत्यादि। यथा पूर्वत्रार्धार्धानि कृत्वा वक्रशिखामालामध्याद्यन्तकाञ्चीयमकानि कृतान्येवमिहापि कर्तव्यान्युदाहरणानि च देवानीति॥

भूयो भेदान्तराण्याह—

स्थानाभिधानभाञ्जित्रीण्यन्यानीति सन्ति यमकानि।
आदिर्मध्येऽन्ते वा मध्योऽन्ते तत्र परिवृत्तः॥५२॥

स्थानेति। त्रिधा विभक्ते पादेऽन्यानि त्रीणि वक्ष्यमाणानि यमकानि सन्ति। किंनामधेयानीत्याह– स्थानाभिधानभाञ्जीति। स्थानकृतमभिधानं भजन्ते यानि। कथमित्याह— आदिभागे मध्यभागेन यमकिते आदिमध्ययमकम्। आदिभागेऽन्त्येन चेत्तदाद्यन्तयमकम्। मध्यभागेऽन्त्येन यदि तदा मध्यान्तयमकम्॥

तदुदाहरणत्रयं क्रमादाह—

स रणे सरणेन नृपो वलितावलितारिजनः।
पदमाप दमात्स्वमतेरुचितं रुचितं च निजम्॥५३॥

स इति। स कश्चिन्नृपो रणे समरे सरणेन यानेन तथा दमादुपशमाच्च हेतोः स्वमते-

निजयुद्धेरुचितं योग्यं रुचितमिष्टं च निजं स्वकीयं पदं स्थानमाप लेभे। कीदृशोऽसौ। वलिता बलित्वं तया वलितो वेष्टितोऽरिजनः शत्रुलोको येन स तथाविधः। इत्यादिमध्यम्॥

घनाघ नायं न नभा घनाघनानुदारयन्नेति मनोऽनु दारयन्।
सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे॥५४॥

घनेति। एतत्प्रावृषिपथिकस्य सुहृदोच्यते— हे घनाघ गृहाननुसरणाद्वहुपाप, अयमसौ नभाः श्रावणो मासो न नैति। अपि त्वायात्येव। नभःशब्दो मासवाचकः पुंलिङ्गः। कीदृशो नभाः। घनाघनान्सजलजलदानुदारयन्विस्तारयन्। अनु पश्चाच्चमनश्चित्तं दारयन्विपाटयन्। तथा हे सखे अविलास निर्लोल, तां कान्तामदयं निर्दयं खेदयन्नुद्वेजयन्नीयसे सर्पायसे। अथवा गोर्बलीवर्दान्न हीयसे। बलीवर्द एवासीत्यर्थः। इत्याद्यन्तयमकम्॥

असतामहितो महितो युधि सारतया रतया।
स तयोरुरुचे रुरुचे परमेभवते भवते॥५५॥

असतामिति। हे उरुरुचे विस्तीर्णकान्ते। अथवा उर्वी रुग्यस्य स तस्मै विस्तीर्णकान्तये। स कश्चिद्वीरो भवते तुभ्यं रुरुचे प्रीतिमुत्पादितवान्। तया जनप्रसिद्धेया युधि रणे सारतयोत्कृष्टतया हेतुभूतया। कीदृश्या। रतया सक्तया। संबद्धयेत्यर्थः। कीदृशोऽसौ। असतां दुर्जनानामहितो द्रोहकारी। अत एव महितः पूजितः। भवते कीदृशाय। परमा उत्कृष्टा इभा हस्तिनो विद्यन्ते यस्य स तथा तस्मै॥

अथोपसंहारं कुर्वन्ननियतदेशावयवयमकानामानन्त्यमाह—

यमकानां गतिरेषा देशावयवावपेक्षमाणानाम्।
अनियतदेशावयवं त्वपरमसंख्यं सदेवास्ति॥१६॥

यमकानामिति। देश आदिमध्यान्तलक्षणः। अवयवोऽर्धत्रिभागादिः। तौ देशावयवावपेक्षमाणानामत्यजता॑ यमकानां गतिरेषां परिपाटीयं पूर्वोक्ता। यत्तु यमकं देशावयवौ नापेक्षते तदपरमसंख्यमसंख्यातम्। तच्चमहाकविलक्ष्येषु सदेव साध्वेवास्ति विद्यते। एतदुक्तं भवति— स्वेच्छाकृतत्वेनानन्तत्वात्तस्य लक्षणं कर्तुं न शक्यते। केवलं महाकविलक्ष्यदर्शनाज्ज्ञेयम्॥

अत्र तु दिङ्मात्रप्रदर्शनार्थमाह—

कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम्।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥१७॥

कमलिनीति। सालिनी भ्रमरी दयितं प्रियं विना कमलिनीं पद्मिनीं न सहते न क्षमते। तां दृष्ट्वा तप्यत इत्यर्थः। कीदृशीं कमलिनीम्। तेन दयितेन सह समं निषेवि

ताम्। किं तर्हीदानीं करोतीत्याह— तं प्रियमधुनेदानीं मधुना वसन्तेन हृदि मनसि निहितमर्पितं रतिसारं रतप्रधानं सा स्मरति ध्यायति। अहर्निशं दिवानिशम्। अत्र न देशविभागेनावृत्तिर्नाप्यवयवविभागेन। यतो द्रुतविलम्विताख्यं द्वादशाक्षरमेतद्वृत्तम्। अस्यार्धे षडक्षराणि। अत्र च प्रथममक्षरं मुक्त्वा त्रीणि यमकितानि॥

तथा—

कमलिनी सरसा सरसामियं विकसितानवमं नवमण्डनम्।
किमिति नाधिगता धिगतादृशं मधुकरेण बताणवता कृतम्॥५८॥

कमलिनीति।इयं कमलिनी पद्मिनी किमिति कस्मान्मधुकरेण भृङ्गेन नाधिगता न संप्राप्ता। धिक्कष्टम्। तेनांणवता शब्दवतातादृशमयुक्तं कृतम्। धिग्बतशब्दावत्र खेदाधिक्यं सूचयतः। कीदृशी। सरसा नूतना। विकसिता प्रफुल्ला। अत एव सरसां जलाशयानामनवमं श्रेष्ठं नवमण्डनं प्रत्यग्रालंकरणम्। अत्रापि देशावयवानपेक्षयावृत्तिः॥

अध्यायमुपसंहरन्यमकस्वरूपं विषयं चाह—

इति यमकमशेषं सम्यगालोचयद्भिः
सुकविभिरभियुक्तैर्वस्तु चौचित्यविद्भिः।
सुविहितपदभङ्गं सुप्रसिद्धाभिधानं
तदनु विरचनीयं सर्गबन्धेषु भूम्ना॥५९॥

इतीति। इति पूर्वोक्तं यमकमशेषं सर्वे समस्तपादैकदेशजं सम्यग्यथान्यायमालोचयद्भिः सत्कविभिरभियुक्तैःसावधानैः। तथा वस्तु च विषयभागमालोचयद्भिः। यथा कस्मिन्रसे कर्तव्यम्, क्व वा न कर्तव्यम्। यमकश्लेषचित्राणि हि सरसे काव्ये क्रियमाणानि रसखण्डनां कुर्युः। विशेषतस्तु शृङ्गारकरुणयोः। कवेः किलैतानि शक्तिमात्रं पोषयन्ति, न तु रसवत्ताम्। यदुक्तम्— ‘यमकानुलोमतदितरचक्रादिभिदो हि रसविरोधिन्यः। अभिधानमात्रमेतद्गड्डरिकादिप्रवाहो वा॥’ प्रयोगस्तु तेषां खण्डकाव्येषु देवतास्तुतिषु रणवर्णनेषु च। तदेवाह्— औचित्यविद्भिरिति। औचित्यं यमकादिविधानास्थानस्थानादिकं विदन्ति ये तैः। कीदृशं यमकम्। सुष्ठु विहिता हृदयंगमाःपदभङ्गा यत्र तत्तथाभूतम्। तथा सुप्रसिद्धान्यभिधानानि वस्तुवाचकशब्दा यत्र तत्तथाभूतं यमकम्। तदनु चौचित्यादिज्ञानानन्तरं विरचनीयम्। भूम्ना बाहुल्येन सर्गबन्धेषु महाकाव्येषु। नाटककथाख्यायिकादिषु पुनः स्वल्पमेवेत्यर्थः॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत–

स्तृतीयोऽध्यायः समाप्तः।

चतुर्थोऽध्यायः।

यमकं व्याख्याय श्लेषंव्याचिख्यासुराह—

वक्तुं समर्थमर्थं सुश्लिष्टाक्लिष्टविविधपदसंधि।
युगपदनेकं वाक्यं यत्र विधियेत श्लेपः॥१॥

वक्तुमिति। यत्रालंकारे युगपत्तुल्यकालमेकप्रयत्नेनैवानेकं द्वयादिकं वाक्यं विधीयेत स श्लेषः। युगपत्पदग्रहणान्महायमकादीनां श्लेषत्वनिवृत्तिः। कीदृशम्। वाक्यमर्थमभिधेयं वक्तुं भणितुं समर्थं शक्तम्। अनेकमितीहापि द्रष्टव्यम्। तथा सुष्ठु श्लिष्टः सुप्रयोजितऽक्लिष्टः कष्टकल्पनारहितो विविधो नानाविधः पदानां सुप्तिङन्तानां संधिरेकीभावो यत्र तत्सुश्लिष्टाक्लिष्टविविधपदसंधोति।

सामान्यलक्षणमभिधाय विशेषाभिधानाय श्लेषप्रकारानाह—

वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम्।
अत्रायं मतिमद्भिर्विधीयमानोऽष्टधा भवति॥२॥

वर्णपदेति। अत्र शब्दालंकारेष्वयं श्लेषो मतिमद्भिर्विधीयमानो धीमद्भिः क्रियमाणोऽष्टधाष्टप्रकारो भवति। केषां विधीयमान इत्याह— वर्णेत्यादि। वर्णश्च पदं च लिङ्गं च भाषा च प्रकृतिश्च प्रत्ययश्च विभक्तिश्च वचनं च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानि तेषाम्। वर्णपदादिविषयभेदात्तन्नामाष्टधा श्लेषइत्यर्थः। अत्रेति परमतनिरासार्थम्। अन्यैर्ह्यविशेषेण शब्दार्थयोः श्लेषोऽभ्यधायि। वर्णादिनिर्देशादेवाष्टविधत्वे लब्धेऽष्टधेति नियमार्थम्। भेदे सत्यष्टधैव नान्ययेत्यर्थः। केचिद्धि पदेषु लिङ्गमन्तर्भावयन्ति। प्रत्यये च विभक्तिवचने। विभक्तौ च वचनम्। तदेतन्न चारु। भेददर्शनात्। तथाहि हार इति भूषणं मुक्ताकलापः, हरणं हारो मोषः, हरस्यायं हारः, कोऽप्यर्थः। इत्यंत्र पदश्लेषेऽपि लिङ्गश्लेषोन विद्यते सर्वत्र पुंलिङ्गत्वात्। तथा पद्मोनिधिः, पद्मं कमलम्, पद्मा श्रीरिति लिङ्गश्लेषेऽपि पदमभिन्नम्। तथा तपनस्यायं तापयतीति वा तापनः। इत्यादिषु प्रत्ययभेदेऽपि विभक्तिवचनभेदो न विद्यते। तथा सतां मुख्यः पुरःसरः सन्मुख्यः सच्छोभनं मुखं यासां ताः सन्मुख्यः। इत्यत्र वचनभेदेऽपि विभक्तिभेदो न विद्यते। इति भेदप्रतीतेर्न शोभनोऽन्तर्भाव इति॥

यथोद्देशस्तथा निर्देश इत्यादी वर्णश्लेषलक्षणमाह—

यत्र विभक्तिप्रत्ययवर्णवशादैकरूप्यमापतति।
वर्णानां विविधानां वर्णश्लेषःस विज्ञेयः॥३॥

यत्रेति। यत्र विविधानां नानारूपाणां वर्णानामैकरूप्यं साम्यमागच्छति स वर्णश्लेषः। विरूपाणां कथं सादृश्यमित्याह— विभक्तिबलात्प्रत्ययबलाद्वर्णबलाच्चेति।

उदाहरणमिदम्—

साधौ विधावपर्तावपराहावास्थितं विषादमितः।
आयासि दानवत्त्वं तद्धर्म्यं परमकुर्वाणः॥४॥

साधाविति। अत्र महासत्त्वो दरिद्रो वर्ण्यते— कश्चिन्नरो दानवतो भावो दानवत्त्वं दातृत्वं तत्पुराकृतमकुर्वाणोऽसंपादयन्विषादमितः प्राप्तः। कीदृशं दातृत्वम्। विधिर्दैवं तस्मिन्नास्थितमायत्तम्। दैवाधीनमित्यर्थः। दैवेऽनुकूले भवतीति भावः। कीदृशे विधौ। सहाधिभिर्वर्तत इति साधिस्तस्मिन्। नित्यमेव मनःपीडावह इत्यर्थः। तथापर्तौ सदा संनिधानादपगतोऽर्तुः कालविशेषो यस्य सोऽपर्तुस्तस्मिन्। तथापराहावविद्यमानः परः प्रतिपक्षो यस्यासावपरः स चासावहिश्च सर्पश्च पीडाकारित्वादपराहिस्तस्मिन्। अपरस्याहेर्नकुलादिर्हिसको भवति, अस्य तु नैव। अन्यच्च कीदृशं दानवत्त्वम्। आयास्यघटनादभीक्ष्णं खेददायि। तथा धर्म्यं स्वभावतो धर्मादनपेतम्, अत एव परं श्रेष्टम्। एष एकस्य वाक्यस्यार्थः॥ अपरस्य तु— साधावित्यादि कश्चिद्वाणासुरमाह— हे दानव दनुसुत, त्वं बाणी वाणाख्य इतोऽस्मात्प्रदेशाद्विषादं कालकूटभक्षकं शिवमायास्यागच्छसि। कीदृशं शिवम्। विधौ चन्द्रमस्यास्थितमास्था संजातास्येति तम्। कीदृशे विधौ। साधौ सुन्दरे। तथापगता ऋतिर्गमनं यस्यासावपर्तिस्तस्मिन्। सदावस्थिते। तथापगतो राहुर्विधुंतुदो यस्मादसौ तथाविधस्तस्मिन्। किमिति तत्सकाशमायासीत्याह— तस्य हर्म्यं स्थानं तद्धर्म्यंयतः परमोत्कृष्टा कुर्भूमिः। निर्वाणपदमित्यर्थः। साधावित्यादाविकारोकारयोः सप्तमीविभक्तिवशादैकरूप्यम्। आस्थितमितः प्रभृतिषु प्रत्ययवशात्। तद्धर्म्यमित्यत्र धकारहकारवर्णवशादिति। परमकुर्वाण इत्यत्रैकत्रौष्ट्योऽन्यत्र दन्त्यौष्ठ्यो वकारस्तत्कथमेकरूपता वर्णानाम्। सत्यम्। यमकश्लेषचित्रेषु बवकारयोरोष्ट्यदन्त्यौष्ट्ययोरभेदो दृश्यते। यथा— ‘तस्यारिजातं नृपतेरपश्यदबलं वनम्। ययौ निर्भरसंभोगैरपश्यदवलम्बनम्।’ तथा नकारणकारयोश्च न भेदः। यथा— ‘वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम्’ इति शिवभद्रस्य। विसर्जनीयभावाभावयोश्च न विशेषः। यथा— ‘द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः। द्विषद्भ्यस्त्रस्यसि कथं वृकयूयादजा यथा॥’ अत्र ह्येकत्राजायथा इति विसर्गान्तं क्रियापदम्, अपरत्र यथाशब्दोऽव्ययम्। तथान्त्ययोर्मकारनकारयोश्च न भेदः। यथा— ‘प्रापयाशुरथं वीर समीरसमरंहसम्। द्विषतां जहि निःशेषपृतनाः समरं हसन्॥’ अत्र हि समरंहसमिति मान्तम्, हसन्निति नान्तं पदम्। तथा व्यञ्जनात्परस्यैकस्य व्यञ्जनस्य द्वयोर्वा न विशेषः। यथा— ‘शुक्ले शुक्क्लेशनाशं दिशति’ इत्यादौशुक्ले शुक्क्ले यमकः। तस्मिंश्चैकत्र शुक्लगुणयुक्ते, अन्यत्र शुचः क्लेशस्य च नाशं दिशतीत्यर्थः। अत्र ह्येकत्र ककाराल्लकार एवैकं व्यञ्जनम्, अन्यत्र ककारो लकारश्च द्वयमिति॥

अथ पदश्लेषः—

यस्मिन्विभक्तियोगः समासयोगश्च जायते विविधः।
पदभङ्गेषु विविक्तो विज्ञेयोऽसौ पदश्लेषः॥५॥

यस्मिन्निति। यत्र वाक्ये विभक्तियोगो विविधो नानासमासयोगश्च जायते। केषु। पदभङ्गेषु सत्सु। विविक्तः स्फुटः स पदश्लेषः॥

उदाहरणमिदम्—

सुरतरुतलालसगलन्नयनोदकलालसत्कुचारोहम्।
समराजिदन्तरुचिरस्मिते नमदसौ शरीरमदः॥६॥

नवरोमराजिराजितवलिवलयमनोहरतरसारं भाः।
धवलयति रोहितानवमद्ध्यानमदाहितस्तनि ते॥७॥(युग्मम्)

सुरेति। नवरोमेति। कश्चिच्चाटुकृत्प्रियामाह— हे समराजिदन्तरुचिरस्मिते अविषमदन्तपङ्क्तिकान्तहसिते, तवासौभा एषा दीप्तिरद एतच्छरीरं वपुर्धवलयति शुक्लयति। कीदृशम्। सुरतरुतेषु निधुवनमणितेषु लालसो लम्पटोगलः कण्ठो यस्य तत्तथाभूतम्। तथा प्रियसंनिधानाद्यन्नयनोदकमानन्दलोचनवारि तस्य यो लालः प्रसरणं तेन सञ्शोभनः कुचारोहः स्तनोच्छ्रायो यत्र तत्तथाभूतम्। तथा नमत्स्तनाभोगभारान्नम्रम्। तथा नवा नूतना या रोमराजी रोमलेखा तथा राजितं भूषितं यद्वलिवलयं वलयाकारं वलित्रयं तेन मनोहरतरं रम्यतरं तच्च तत्सारमुत्कृष्टं चेति समासः। रोहत्युत्तिष्ठतीति रोहि तानवं कृशत्वं यस्य तद्रोहितानवं यन्मध्यमुदरं तत्रानमन्तौ कठिनत्वादलम्बमानावाहिताववस्थितौ स्तनौ यस्यास्तस्याआमन्त्रणं हे रोहितानवमध्यानमदाहितस्तनि। एषएकस्य वाक्यस्यार्थः॥ अपरस्य तु यथा— कश्चित्खङ्गप्रहरणो धानुष्कं स्पर्धिनमुद्दिश्य वयस्यानाह— यतोऽहमेवंविशिष्टस्तेन हेतुना मदसावस्मत्खङ्गे न वरो नं श्रेष्ठः कोऽसौ शरीरमदः। शरा विद्यन्ते येषां ते शरिणो धानुष्कास्तानीरयति क्षिपत्यभिभवतीति शरीरस्तस्य मदः। जितधनुर्धरोऽहमिति कृत्वा यो दर्प इत्यर्थः। यतः कीदृशोऽहम्। सुरतरुतलेषु देववृक्षाघोभागेष्वलसा मन्दा ये गलन्नया भ्रश्यन्नीतयः। विषयासक्ता इत्यर्थः। तेषांनोदस्ततः पातनं तत्र या कला विज्ञानं तया लसञ्शोभमानः कौपृथिव्यां चारो वल्गनं यस्य स तथाविधोऽहम्। खड्गविद्यया स्वर्गस्थानपि पातयात्यर्थः। तथा समरं रणमा समन्ताज्जयन्त्यभिभवन्तीति समराजितो ये शूरास्तेषामप्यन्ते विनाशे रुचिरभिलाषो यस्य स एवंविधोऽस्मि भवामीति। अधुना वयस्यानामन्त्रयतेअमराजिरेषु देवाङ्गनेष्वजितमपराभूतं यद्वलिबलं बलिदानवसैन्यं तस्य यमनं बन्धनं तत्रोहस्तर्कश्चिन्ता तत्र रतो विष्णुस्तस्यैव रसस्तात्पर्यमारम्भश्चानुष्ठानं येषां ते तथाभूता भवन्त आमन्त्र्यन्ते। कीदृशे मदसौ। धवा वृक्षविशेषास्तेषु लयो दुर्गधिया संश्रयस्तेन तिरोहितमन्तरितमनवं बहुदिवसभवं यन्मद्ध्यानं मदीयचिन्तनम्। दुर्गस्था वयमतः स किं करिष्यतीति कृत्वा। तेन मच्चिन्तान्तर्धानेन मदो येषां ते च तेऽहिताश्च शत्रवश्च तेषु स्तनिते तद्दारणाच्छणच्छणायमाने। खड्ग इत्यर्थः। अथवा धवाः पुरुषास्तेषां लयः स्वपौरुषकर्मेकौशलम्। अनवम उत्कृष्टो ध्यानमदो नीतिशास्त्रचिन्तादर्षोयेषां तेऽनवम-

ध्यानमदा मन्त्रिप्राया उच्यन्ते। धवलयेन कर्मकौशलेन तिरोहिता न्यक्कृता अनवमध्यानमदा यैस्ते तथा ते च तेऽहिताश्चशत्रवस्तेषु स्तनिते शब्दिते। अन्योऽप्यत्र यदि भङ्गः संभवति सोऽपि तद्विदा विचार्य कर्तव्य एव॥

अथ लिङ्गश्लेषः—

स्त्रीपुंनपुंसकानां शब्दानां भवति यत्र सारूप्यम्।
लघुदीर्घत्वसमासैर्लिङ्गश्लेषः स विज्ञेयः॥८॥

स्त्रीपुमिति। यत्र स्त्रीपुंनपुंसकलिङ्गानां सारूप्यं भवत्यसौ लिङ्गश्लेषः। कैः कृत्वा। लघुदीर्घत्वसमासैरिति क्वचिद्दीर्घस्य लघुत्वेन। ह्रस्वत्वेनेत्यर्थः। क्वचिद्ध्रस्वस्य दीर्घत्वेन क्वचित्समासेन चेति॥

उदाहरणम्—

देवी मही कुमारी पद्मानां भावनी रसाहारी।
सुखनी राज तिरोऽहितमहिमानं तस्य सद्धारी॥९॥

देवीति। कश्चिद्राजानमाशास्ते— त्वं राज शोभस्व। तथा तिरश्चीनं यथा भवत्येवमहितं शत्रुं तस्य क्षयं नय। ‘तसु उपक्षये’ इत्यस्य रूपम्। कीदृशस्त्वम्। दीव्यतीति देवी क्रीढारतः, मही उत्सववान्, कुत्सितांश्चौरादीन्मारयतीति कुमारी। अथवा कुः पृथ्वी मारः कामस्तौ विद्येते यस्य स कुमारी। तथा पद्मानां श्रियां भावं सत्तां नयति भृत्येष्विति भावनी। सेवकानां लमक्षीप्रद इत्यर्थः। रसां भुवमाहरत्यात्मसात्करोतीति रसाहारी। यदि वा रसैर्मधुरादिभिराहरतीति रसाहारी। सुखं नयति भृत्यानिति सुखनीः, सतः शिष्टान्धारयति पोषयतीति सद्धारी, शोभनहारवान्वा। कीदृशम्। अहितमहिमानमहेर्वृत्रस्येव मानोऽहंकारो यस्य तं तथाविधम्। अयमेकस्य वाक्यस्यार्थः॥ अपरस्य तु— मही पृथ्वी राजति शोभते। देवीति पूजापदम्। कीदृशी ॊमही। कुमार्यकृतविवाहा नित्यतरुणी वा। पद्मानां नलिनानां भावन्युत्पादिका। रसाञ्जलादीनाहरति गृह्णातीति। ‘कर्मण्यणन्तादी’। सुखनिः शोभनाकरा। तथानन्तस्य शेषस्य रोहित आरोपितो महिमा माहात्म्यं यया। स्वयमात्मधारणे शक्तयाप्यनन्तस्य लोके माहात्म्यख्यापनार्थमात्मभरस्तयार्पित इत्यर्थः। सद्विद्यमानं वस्तुजातं धरतीति। ‘कर्मण्यणन्तादी।’ देवीत्यादौ दीर्घत्वे रसाहारीत्यादौ दीर्घत्वे समासे च सारूपं दीर्घस्य। ह्रस्वत्वं त्वन्यत्र स्वधिया द्रष्टव्यम्॥

अथ भाषाश्लेषः—

यस्मिन्नुच्चार्यन्ते सुव्यक्तविविक्तभिन्नभापाणि।
वाक्यानि यावदर्थं भाषाश्लेषः स विज्ञेयः॥१०॥

यस्मिन्निति। यत्र यावदर्थे कवेर्यावन्तोऽर्था विवक्षितास्तावन्ति वाक्यान्युच्चार्यन्ते स

भाषाश्लेष इति। कीदृशानि। सुव्यक्तं स्फुटं यथा भवत्येवं विविक्ताः पृथगुपलभ्यमानविवेका भिन्ना द्वित्राद्या भाषा येषु तानि तथाविधानि॥

तत्र संस्कृतप्राकृतश्लेषोदाहरणम्—

सरसबलं7 स हि सूरोऽसङ्ग्रामे माणवं धुरसहावम्।
मित्तमसीसरदवरं ससरणमुद्धर इमं दवलम्॥११॥

सरसबलमिति। कश्चित्कंचिदाह— स सूरो रविरिमं तं माणवं रोगित्वात्कुत्सितमनुष्यमसीसरत्सारयामास। गतियुक्तं चकारेत्यर्थः। कीदृशम्। सरसं गतिलाभात्प्रत्ययं बलं शक्तिर्यस्य तं तथाभूतम्। हि स्फुटम्। क्व सति पूर्वमसीसरदसङ्गामे न विद्यते सङ्गो यत्रासावसङ्गः स चासावामश्च तस्मिन्। असंपर्कयोग्ये रोगे सतीत्यर्थः। पुनः कीदृशं माणवम्। धुरसहावं धुरि प्रथममसहासमर्था अवा रक्षितारो वैद्या यस्य। पूर्व वैद्यत्यक्तमित्यर्थः। सूरः कीदृशः। मिन्मेद्यति स्निह्यति। कृपणेषु दयापर इत्यर्थः। कीदृशम्। तमवरं सरोगत्वादश्रेष्ठम्। तथा दवं लातीति दवलमुपतापयुक्तम्। कीदृशः। ससरणमुद्धरः सह सरणेन ज्ञानेन वर्तन्ते ये ते ससरणा योगिनस्तेषां मुदं हर्षे धारयति पुष्णातीति कृत्वेति संस्कृतवाक्यार्थः। प्राकृतस्य तु— काचिद्भर्तारमुद्दिश्य सखीमाह— हे सखि, स शूरोऽस्मद्भर्ता मिश्रंसुहृदं सङ्ग्रामे रण उद्धरति रक्षति। कीदृशम्। शरैर्बाणैः शबलं कर्बुरम्। तथा मानेन गर्वेण बन्धुरो रम्यः स्वभावो यस्य तं तथाभूतम्। तथासीश्वराणां खङ्गयोधिनां दवरमुपतापदम्। तथा सह शरणेन वर्तते यस्तं सशरणं परित्राणार्थिनामार्तिहरम्। यद्येवंविधं तत्किमिति तेनोद्ध्रियत इत्याह— मन्दवलं मन्दमसमर्थे बलं यस्य तं तथाभूतम्। बहुयोधनादक्षमसैन्यमिति॥

इदानीं संस्कृतमागध्युदाहरणम्—

कुललालिलावलोले8 शलिलेशे शालशालिलवशूले।
कमलाशवलालिवलेऽमाले दिशमन्तकेऽविशमे॥१२॥

कुलेति। कश्चिज्जातसंसारभयो वक्ति— एवंविधेऽन्तके मृत्यौसति ए विष्णौ विषये या दिङ्मार्गस्तां दिशमविशं प्रविष्टोऽस्मि। कीदृशेऽन्तके। कुलानि लालयन्ति पोपयन्ति तच्छीलाः कुललालिनः सत्पुरुषास्तेषां लावे छेदे कर्तव्ये लोलो लम्पटो यस्तस्मिन्। तथा शलन्तीति शलाः सोद्यमास्ते विद्यन्ते यत्र देशे स शली। यद्वा शलं खङ्गकोषवध्नोऽस्ति येषां ते शलिनः खङ्गयोधास्तांल्लिशत्यल्पीकरोतीति शलीलेशस्तस्मिन्। तथा शालैर्गृहैः शालन्ते श्लाघन्त इत्येवंशीलाः शालशालिनस्तांल्लुनातीति शालशालि लवः स चासौ शूलं च। पीडाकरत्वात्। तथा कमला लक्ष्मीस्तस्याः शवा दरिद्रा

स्तेष्वपि ललति विलसतीत्येवंशीलं बलं सैन्यं यस्य स तथा तस्मिन्। तथामाले। ‘मल धारणे।’ मलनं मालो न विद्यते मालो यस्यासावमालस्तस्मिन्। अनिवार्य इत्यर्थः। एष संस्कृतवाक्यार्थः॥ मागधस्य तु— शे शलिले तत्सलिलं जलं शमन्तके शाम्यतः शमिनोऽपि मालेदि मारयति। कीदृशं तत्। कुरराः पक्षिविशेषास्तेषामालिः पङ्क्तिस्तदीयै रावैः शब्दै रोलः कलकलो यत्र तत्तथाभूतम्। तथा सारसालिरवेण सारसश्रेणिवाशितेन शूरं तद्विरहिमारणसमर्थम्। तथा कमलानां पद्मानामासवं मकरन्दाख्यं लान्ति ये ते च तेऽलिनश्च भ्रमरास्तैर्वरं श्रेष्ठं यत्तत्। तथा विषमं वियोगिभीषणमेवंविधं शरदि सलिलं विलोक्य मुनयोऽपि क्षुभ्यन्ति। इति मागधवाक्यार्थः॥

इदानीं संस्कृतपिशाचभाषाश्लेषोदाहरणमाह—

कमनेकतमादानं9 सुरतनरजतु च्छलं तदासीनम्।
अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम्॥१३॥

कमिति। कस्यचित्केनचित्पौरुषस्तुतिः कृता। ततोऽन्यस्तामसहमान आह— हे सुरतनः निधुवनपुरुष, ते तत्र पौरुषंन रणे इत्यामन्त्रणपदाभिप्रायः। तथा खमते शुन्यबुद्धे, यस्त्वया वर्ण्यते स कं नरं जेतुमजतु गच्छतु। नास्त्येवासौ पुरुषो यं सोऽभिभविष्यतीत्यर्थः। कीदृशं नरम्। अनेकतमान्यादानान्युत्पत्तिस्थानानि यस्य तं तथाभूतम्। तथा छलं तदासीनं तां मायामाश्रितम्। आश्रयणार्थः ‘आसिः’ सकर्मकः। तथाषां पतेरप्पतेर्वरुणस्येव मानो गर्वोयस्य तम्। तथागस्येव मन्दरस्येव निकाना दीप्तिर्यस्य तम्। अथवा न गच्छतीत्यगो निकानो यस्येत्यन्यथास्य वाक्यस्यार्थः। अथवा यदा न सन्त्येविविधास्तदा सर्वमेव तेन यतो जितमतः स कमिव नरं जेतुमजत्विति स्तुतिरेवात्रार्थः। इति संस्कृतवाक्यार्थः॥ पैशाचस्य तु— केनचिद्वेश्यानामुपकारः कृतः। ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते— स पूजितगणिकः पुरुपो गणिकानां वेश्यानामप्पतिमानमप्रतीपमपूजनं न क्षमते न सहते। किमर्थम्। रञ्जयितुमात्मरञ्जनाय। इदानीं मां ताः पूजयन्त्वित्यवमर्थम्। कीदृशीनां गणिकानाम्। कामविषये कृतामोदानां कृतद्दर्षाणाम्। तथा सुरन (स्वर्ण) रजताभ्यामुच्छलन्त्यो विलसन्त्यो दास्यो वासाम्। पिशाचभाषायां कगचजतदपयवानां लोपो न क्रियत इत्यादिपूर्वोक्तं लक्षणम्॥

इदानीं संस्कृतसूरसेनीवाक्योदाहरणमाह—

तोदी10 सदिगगणमदोऽकलहं स सदा वलं विदन्तरिदम्।
आर दमेहावसरं सासदमारं गदासारम्॥१४॥

तोदीति। कश्चिन्नरो रणस्थो वर्ण्यते— स कश्चिच्छूरो वित्पण्डित इदमारमरिसक्तं

बलं सैन्यमन्तर्मध्य आर ससार। कीदृशोऽसौ। तुदति परानिति तोदी। तथा देशनं दिगुपदेशो व्यूहरचनादिविषयः सह दिशा वर्तत इति सदिक्। तथा न गणेन सहायवर्गेण मदो यस्यासावगणमदः। स्वभुजबलसहायकापेक्ष इत्यर्थः। सदा सर्वकालमेव। कीदृशं बलम् \। अकलहं परिभूतत्वान्निर्वैरम्। अत एव दमेहाया उपशमचेष्टाया अवसरः कालो यस्य तत्तथाभूतम्। तथास्यन्ते क्षिप्यन्त इत्यासाः शरास्तान्द्यन्ति खण्डयन्तीत्यासदा धानुष्काःसह तैर्वर्तत इति सासदम्। तथा गदाभिः सारमुत्कृष्टम्। एष संस्कृतवाक्यार्थः॥सूरसेन्यास्तु— शरदि नभो वर्ण्यते— तो इति ततः प्रावृषोऽनन्तरं दृश्यतेऽवलोक्यते। गगनं नभः। अद एतत्। कीदृशम्। कलहंसशतैरवलम्बितं चान्तरितं च। तथा आरतो निवृत्तो मेघानां घनानामवसरः कालो यत्र। यदि वा आरता उपरता मेघानामाप एवशरा बाणा यत्र तत्तथाभूतम्। तथा शाश्वतः स्थिरो मारः कामो यत्र। तथा गत आसारो वेगवर्षो यतस्तत्तथाभूतम्॥

अथ संस्कृतापभ्रंशयोः श्लेषोदाहरणमाह—

धीरागच्छदुमे11 हतमुदुद्धरवारिसदःसु।
अभ्रमदप्प्रसराहरणुरविकिरणा तेजःसु॥१५॥

धीरेति। अत्र काचिद्गौरीसखी गङ्गायाः सपत्न्या व्यसनेन गौरीमानन्दयति— यथा हे उमे गौरी, धीरा स्वस्था भवेति क्रिया गम्यते। यतः, अभ्रे गगने माद्यत्युद्धतो भवति यः स तथाविधोऽपां जलानां प्रसरो यस्याः सा अभ्रमदप्प्रसरा गङ्गा अवेरिव गड्डरि काया इव किरणं विक्षेपणं निर्वासनं यस्याः साविकिरणा। अहर्दिवसमपि। ‘कालाध्वनोरत्यन्तसंयोगे—’ इति कर्म। अत एव हलमुद्गतहर्षा। तत एव चाणुः कृशा सत्यगच्छदपतत्। क्व। तेजःसु। कीदृशेषु। उद्गता धरा पृथ्वी प्रलयापन्निमग्नासती यस्मात्तदुद्धरं तच्च तद्वारि च समुद्रजलं च तदेव सदो गृहं येषां तानि तथाविधानि तेषु। ववानलतेजःस्वित्यर्थः। हरनिर्वासनदुःखिता सती गङ्गात्मानं वडवानलेन्धनीचकारे भावार्थः। एष संस्कृतवाक्यार्थः॥अथवा काचित्सखी गौर्याः पुरतो हरसमरं वर्णयति— हे उमे, धीर्बुद्धिरागच्छदागता। कथमह्तमुदनष्टहर्षे यथा भवति तथोद्गता निवृत्ता हरवा, रिणो हरनिषेधकाः शत्रवो यत्र कर्मणि तदुद्धरवारि यथा भवति। यथास्माकं बुद्धिस्तुष्टिश्चाभूत्तथा हरेणारयो जिता इत्यर्थः। सा च धीः सदःसु सभासु तेजःसु च परतेजोविषयेऽभ्रमत्प्रसृता। तेजस्तस्तारेत्यर्थः। कीदृशी धीः। सर्वगत्वादषामिवप्रसरो गतिर्यस्याः साप्प्रसरा। अहर्दिवसम्। सदेत्यर्थः। अणुः कुशाग्रीया। तथाविधि निरसितुमशक्या। इति संस्कृतवाक्यार्थः॥ अपभ्रंशस्य तु— वर्षावर्णनम्— हे धीराः गच्छत्वपसरतु। किम्। तन्मेघकृतं तमो मेघतमः। कीदृशम्।दुर्धरा दुर्वारा वार्षिका वर्षासु भवा दस्यवश्चोरा यत्र। यदि वा वार्षिका मेघा एव दस्यवश्चौरास्तेजसो हरणाद्यत्र।

तथा यस्य मेघतमसस्ते रविकिरणाः सूर्यकरा हरणं हर्तारः। कीदृशाः। अभ्रमदप्रसरा भ्रमो भ्रान्तिर्न भ्रमो निश्चयस्तं ददातीत्यभ्रमदः प्रसरो येषां ते तथाविधाः। यथावस्थितं वस्तुस्वरूपं ये प्रकाशयन्तीत्यर्थः॥

अथ भाषाश्लेषस्य प्रकारान्तरमाह—

वाक्ये यत्रैकस्मिन्ननेकभाषानिबन्धनं क्रियते।
अयमपरो विद्वद्भिर्भाषाश्लेषोऽत्र विज्ञेयः॥१६॥

वाक्यः इति। यत्रैकस्मिन्नैव वाक्येऽनेकभाषा निबध्यन्ते सोऽयमपरः पूर्वस्मादन्यो भाषाश्लेषोऽत्र ज्ञातव्यः। पूर्वत्रानेकार्थोऽनेकाभिर्भाषाभिरुक्तः, इह त्वेक एवार्थो बह्वीभिर्भाषाभिरुच्यत इति तात्पर्यार्थः॥

उदाहरणम्—

समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम्।
सारं सभासु सूरिं तमहं सुरगुरुसमं वन्दे॥१७॥

समर इति। तमहं सूरिं वन्दे स्तौमि। कीदृशम्। समरे रणे भीमारम्भं भीषणोद्योगम्। विमलासु कलासु सुन्दरं निर्मलकलाविषये शोभनम्। सरसं शृङ्गारादिरसोपेतम्। तथा सभासु सदःसु सारमुत्कृष्टम्। अत एव सुरुगुरुसमं बृहस्पतितुल्यम्। अयमेकत्रार्थे संस्कृतप्राकृतश्लेषः। समसंस्कृतप्राकृतशब्दरचितत्वात्। एवमुत्तरत्रापि समसंस्कृतमागधशब्दरचितत्वादित्यादि द्रष्टव्यम्॥

समसंस्कृतमागधशब्दोदाहरणमाह—

शूलं शलन्तु शं वा विशन्तु शवला वशं विशङ्का वा।
अशमदशं दुःशीला दिशन्ति काले खला अशिवम्॥१८॥

शूलमिति। दुःशीला दुष्टचारित्राः खलाः शत्रवोऽशिवं पीडादिकं दिशन्ति ददति यतोऽतस्ते शबलाः पातकिनः शूलं वा शलन्त्वधिरोहन्तु। शं वा सुखं वा विशन्त्वधिगच्छन्तु। वशं पराधीनतां वा यान्तु। विशङ्काः स्वच्छन्दा वा भवन्तु तच्चिन्तामपि न कुर्मः। कीदृशमशिवम् \। अविद्यमानः शम उपशमो यस्यां सा तथाविधा दशावस्था यत्र तदशमदशम्॥

संस्कृतपैशाचिकयोः श्लेषोदाहरणमाह—

चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी।
इच्छति गजपतिगमना चपलायतलोचना लपितुम्॥१९॥

चम्पकेति। काचिन्नायिका गजेन्द्रसमगमना।चञ्चलदीर्घलोचना च। तथा चम्पककलिकावत्कोमलकान्ती रम्यरुचो कपोलौ यस्याः सा तथाविधा। तथानङ्गस्येयमानङ्गी दीपिका। तया कामस्य प्रकाशितत्वात्। सा लपितुं वक्तुमिच्छति॥

अथ संस्कृतसूरसेनीश्लेषमाह—

अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्।
साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे॥२०॥

अधरेति। मदिरामदेन मधुरा वाणी यस्याः सा संबोध्य भण्यते। ते तवाधरदलमोष्टपल्लवं तरुणा युवानः साधु यथा भवत्येवं पिबन्तु चुम्बन्तु। कीदृशम्। सामोदं सुगन्धि। किविशिष्टे। सुष्ठु पीवरो मांसलः परिणाही परिमण्डलः पयोधरारम्भः कुचाभोगो यस्याः सैवमामन्त्रयते॥

संस्कृतापभ्रंशश्लेषमाह—

क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति॥२१॥

क्रीडन्तीति। कश्चित्कंचिदाह— हे मित्र, भ्रमरा मत्ताः सन्तः क्रीडन्ति विचरन्ति। प्रसरन्तीतस्ततो गच्छन्ति। तथा मधु मकरन्दं कमलप्रणयि पद्मसंबद्धं लिहन्त्यास्वादयन्ति। कीदृशाः। सुष्ठु विभ्रमो येषां ते तथाविधाः। तथा भूरि प्रभूतं रसन्ति शब्दायन्ते। अन्योऽपि मत्त एवंविधो भवति॥

भाषाश्लेषमुपसंहरन्नाह—

एवं सर्वासामपि कुर्वीत कविः परस्परं श्लेषम्।
अनयैव दिशा भाषाख्यादी रचयेद्यथाशक्ति॥२२॥

एवमिति। यथा संस्कृतभाषाया अन्याभिर्भाषाभिः सह श्लेषः कृतः एवमन्यासामपि परस्परं कर्तव्योऽसौ। तद्यथा— प्राकृतभाषाया मागधिकापैशाचीसूरसेन्यपभ्रंशैः सह, मागधिकायाः पैशाचीसूरसेन्यपभ्रंशः, पैशाच्याः सूरसेन्यपभ्रंशाभ्याम्, सूरसेन्या अपभ्रंशेन। एते दश भेदाः प्राच्यैः सह द्वियोगे सर्व एव पञ्चदश भेदा भवन्ति। तथानयैव दिशानेनैव न्यायेन त्र्यादीस्तिस्रश्चतस्रःपञ्च षड्वायुगपच्छ्लिष्टा भाषा यथा— सामर्थ्यमेकवाक्यतया भिन्नवाक्यतया वा रचयेत्। तत्र त्रियोगे विंशतिर्भेदाः। यथा— सं० प्रा० मा० १, सं० प्रा० पै० २, सं० प्रा० सू० ३, सं० प्रा० अ० ४, प्रा० मा० पै० ५, प्रा० मा० सू० ६, प्रा० मा० अ०७, मा० पै० सू० ८, मा० पै० अ० ९, पै० सू० अ० १०, सं० मा० पै० ११, सं० मा० सू० १२, सं० मा० अ० १३,प्रा० पै० सू० १४, प्रा० पै० अ० १५, प्रा० सू० अ० १६. सं० पै० सू० १७ सं० पै० अ० १८, प्रा० सू० अ० १९, सं० सू० अ० २०। चतुर्योगे तु पञ्चदश तद्यथा— सं० प्रा० मा० पै० १, सं० प्रा० मा० सू० २, सं० प्रा० मा० अ० ३, प्रा मा० पै० सू० ४, प्रा० मा० पै० अ० ५ मा० पै० सू० अ० ६, सं० मा० पै सू० ७, सं० मा० पै० अ०८, सं० पै० सू० अ० १.प्रा० पै० सू० अ० १ सं० प्रा० सू० अ० ११, सं० मा० सू० अ० १२, सं० प्रा० पै० सू० १३,सं०

प्रा० पै० अ० १४, प्रा० मा० सू० अ० १५। पञ्चायोगे षट्। तद्यया— सं० प्रा० मा० पै०सू० १, सं० प्रा० मा० पै० अ० २, सं०मा० पै० सू० अ० ३, सं० प्रा० पै० सू० अ० ४, सं० प्रा० मा० सू० अ० ५, प्रा० मा० पै० सू० अ० ६। षड्योगे त्वेक एव भेदः॥

तत्र षढ्योगादिकप्रदर्शनायैकार्थश्लेषमेकमुदाहरणमाह—

अकलङ्ककुल कलालय बहुलीलालोल विमलबाहुबल।
खलमौलिकील कोमल मङ्गलकमलाललाम लल॥२३॥

अकलङ्केति। हे एवंविध, त्वं लल क्रीड। कीदृश। अकलङ्ककुल निर्मलान्वय। कलालय कलावास। बहुलीलालोल प्रचुरविलासलम्पट। विमलबाहुबलं प्रकटभुजपराक्रम खलमौलिकील दुर्जनशिरःशङ्को। कोमल कमनीय। मङ्गलकमलाललाम जयलक्ष्मीचिह्न अत्रैकस्मिन्नर्थे भाषाषट्कस्यापि समानं रूपम्॥

अथ प्रकृतिश्लेषमाह—

सिद्धयति यत्रानन्यैः सारूप्यं प्रत्ययागमोपपदैः।
प्रकृतीनां विविधानां प्रकृतिश्लेषः स विज्ञेयः॥२४॥

सिद्ध्यतीति। यत्र प्रत्ययैरागमैरुपपदैश्चानन्यैस्तैरेव प्रकृतीनां तु नानाप्रकाराणां सारूप्यं समानरूपता सिद्ध्यति स प्रकृतिश्लेषः॥

तत्रोदाहरणमाह—

परहृदयविदसुरहितप्राणनमत्काव्यकृत्सुधारसनुत्।
सौरमनारं कलयति सदसि महत्कालचित्सारम्॥२५॥

परेति। देवासुरयुद्धं वर्ण्यते— सौरं सुरसमूहः कर्तृ कलयति कलिंगृह्णाति। युद्ध्यत इत्यर्थः। क्व सन्तः। अस्यन्ते क्षिप्यन्ते यत्र तत्सदस्तत्र सदसि युद्धे। सौरं कीदृशम्। परहृदयानि रिपुवक्षांसि विध्यतीति परहृदयवित्। तथासुरहितानां दानवपक्षपातिनां प्राणनं जीवनं मथ्नातीत्यसुरहितप्राणमत्। तथा काव्यं दानवगुरुं कृन्तति पीडयतीति काव्यकृत्। तथा सुधारसममृतरसं नौति स्तौतीति सुधारसनुत्। तथा देवत्वान्न विद्यते नारं नरसमूहो यत्र तदनारम्। तथा महत्प्रभूतम्। तथा काले कृत्यकरणसमये चिच्चैतन्यं ज्ञानं यस्य तत्कालचित्। तथा सहारेणारिसमूहेन वर्तते यत्तत्सारं यथा भवत्येवं कलयति। एषएकस्य वाक्यस्यार्थः॥ परस्यापि तादृशान्येव पदानि। सौरं सूरिसमूहः सारमुत्कृष्टं वस्तु न्याय्यं वा सदसि सभायां कलयति परिच्छिनत्ति। किं कुर्वत्सौरम्। महत्पूजयत्पूज्यजनम्। तथा परहृदयवित्परचित्तज्ञम्। तथासुरहितानां प्राणवर्जितानां प्राणनेन प्रत्युज्जीवनेन माद्यति हृष्यतीत्यसुरहितप्राणनमत्त्। तथा काव्यं कविकर्म करोतीति काव्यकृत्। तथा शोभनो धारो मर्यादादिधारणं येषां ते सुधाराः सुजनास्तान्स्यन्ति घ्रन्ति ये ते सुधारसाः खलास्तान्नुदति प्रेरयतीति सुधारसनुत्। तथा न विद्यत आरमरिसमूहो यस्य

दनारम्। तथा कलानां समूहः कालं चिनोत्यर्जयतीति कालचित्। अत्र प्रकृतयो व्यधिविदिप्रभृतयो भिन्नाः। प्रत्ययाः क्विबादय उभयत्रापि त एव। परहृदयादीन्युपपदानि च तान्यैव। आगमश्च कालचिदादिपदेऽतोऽन्तागमादिकोऽनन्यः। ननु चैकत्र पक्षेऽतोऽन्तोऽस्ति द्वितीये नास्तीति कथमनन्यः। सत्यम्। नास्यान्योऽस्तीत्यनन्यो द्वितीयपक्षेऽन्यागमाभावादुच्यत इति सुस्थम्॥

अथप्रत्ययश्लेषः—

यत्र प्रकृतिप्रत्ययसमुदायानां भवत्यनेकेषाम्।
सारूप्यं प्रत्ययतः स ज्ञेयः प्रत्ययश्लेषः॥२६॥

यत्रेति। यत्र प्रकृतिप्रत्ययसमुदायानां बहूनां प्रत्ययात्सकाशात्सारूप्यं समानरूपता भवति स प्रत्ययश्लेषोज्ञातव्यः॥

उदाहरणम्—

तापनमाजं पावनमारं हारं पराप दासेयः।
कारं चारणमाहितमाजदरं साधनं बहुशः॥२७॥

तापनमिति। एषदासेयो दासीपुत्रश्चौरो हारं मुक्ताकलापं ह्नियमाणं वा वस्तु पराप मुषित्वा प्राप्तवान्। कीदृशम्। तापयतीति तापनम्। बन्धादिहेतुत्वात्। तथा अज्यते क्षिप्यतेऽनेनेत्याजयतीति वा आजम्। चौरो हि चारकादौ क्षिप्यते। तथा पावयतीति पावनः शुद्धिकृन्मारो मरणं यत्र तत्पावनमारम्। तथा स दासेयो हरणकाले दरं भयमाज चिक्षेप त्यक्तवान्। कीदृशं दरम्। सधनादीश्वरादागतं साधनम्। आहितं हृदये निहितम्। पुनः कीदृशं दरम्। करयोरिदं कारम्। तथा चरणयोः पादयोरिदं चारणम्। करचरणखण्डनादिभयं नाजोगणदित्यर्थः। यतोऽसौ पहूञ्श्यतीति बहुशः। बहवस्तेन धनाद्यपहारतस्तनूकृता इत्यर्थः। एष एकोऽर्थः॥ द्वितीयस्तु— आसेय आरं गति परापत्प्राप्तवान्। ‘षिञ् बन्धने’। आसेतव्य आसेयो मोक्षमप्राप्तो ज्ञानी भण्यते। ईषत्कर्मबन्धनात्। कीदृशमारम्। तपनस्येमं तापनम्। अजस्येममाजम्। पवनस्येमं पावनम्। हरस्येमं हारम्। सूर्यविष्णुवायुरुद्राणां संबन्धिनीं गतिं लेभ इत्यर्थः। यतोऽसौकारं क्रियामाजत्यक्तवान्। कीदृशं कारम्। चारयति गमयति संसारे प्राणिनमिति चारणम्। पुनः कीदृशम्।अहितानां रागादीनामिदमाहितम्। किं तत्। साध्यतेऽनेनेति साधनम्। रागादीनामुपकरणमित्यर्थः। कथं साधनम्। बहुशोऽनेकशः। अरं शीघ्रम्। अत्र प्रत्ययवशात्प्रकृतिप्रत्ययसमुदायानां सारूप्यम्॥

अथ विभक्तिवचनश्लेषः—

सारूप्यं यत्र सुपां तिङां तथा सर्वथा मिथो भवति।
सोऽत्र विभक्तिश्लेषो वचनश्लेषस्तु वचनानाम्॥२८॥

सारूप्यमिति। यत्र सारूप्यं समानरूपता सुपां स्यादीनां तिङां त्यादीनां मिथः पर–

स्परं सर्वथा सर्वप्रकारैर्भवति सोऽत्र श्लेषाधिकारे विभक्तिश्लेषोज्ञेयः। वचनानां त्वेकवचनादीनां मिथः सारूप्ये वचनश्लेषः॥

तत्र तावद्विभक्तिश्लेषोदाहरणम्—

आयामोदानवतां सरति बले जीवतां न नाकिरताम्।
नयदानवाल्ँललामः किमभूरसि दारुणः सहसा॥२९॥

आयाम इति। जीवतां प्राणभृतां दानवतां दानं ददतां सतां संबन्धिनि बले सैन् आयामोविस्तारः सरति प्रसरति। न नाकिरतां न विक्षिपताम्। कार्पण्येन गलेऽर्थिनं गृह्णतां नेत्यर्थः। कुतः। यतो नयश्च दानं च ते विद्येते यस्यासौ नयदानवान्पुरुषो ललामो भूषणं जगतः। तथा किमः कुत्साया अभूरस्थानं किमभूः। तथा सहसा बलेनासिदारुणः खभीषणश्च ललामः। इत्येकोऽर्थः॥ अपरस्तु— केचित्सुरा बलिनामानमसुरमूचुः— हे बले वैरोचन, दानवतामसुरत्वमायाम आगच्छामः। कथम्। सरति सप्रीतीति कृत्वा। न पुनर्जीवतां बृहस्पतिताम्। किंभूताम्। नाकिषु देवेषु रतां सक्तां नाकिरताम्। तस्मान्नय प्रापय दानवानसुरान्। येन तेषांमध्ये ललामो विलसामः। किमसि त्वं दारुणः काष्ठादभूः संजातः सहसा। येनास्माकं वचनं न शृणोषीत्यर्थः। अत्रायाम इत्यादयो य एव स्याद्यन्तास्त एव त्याद्यन्ताः शब्दा इति सारूप्यम्॥

अथ वचनश्लेदाहरषोणम्—

आर्योऽसि तरोमाल्यः सत्योऽनतकुक्षयः स्तवावाच्यः।
सन्नाभयो युवतयः सन्मुख्यः सुनयना वन्द्यः॥३०॥

आर्य इति। कचिदुत्साह्यते—असि त्वं वन्द्यो वन्दनीयः, यत आर्यो विशिष्टः। तथा तरो बलं माल्यमलंकरणं यस्यासौ तरोमाल्यः। सत्योऽवितथवाक्। अनतानामप्रणतानां कोर्भूमेः क्षयो नाशहेतुरनतकुक्षयः। स्तवैः स्तुतिभिरवाच्यो वक्तुमशक्यः। तथा सन्नानां क्षीणानामभयो न विद्यते भयं यस्मादिति सन्नाभयः। तथा यूनस्तरुणांस्तयतेऽभियुङ्क्तइति युवतयः। सतां साधूनां मुख्य आद्यः। तथा शोभनो नयोऽस्येति सुनयः स चासौ ना च। सुनीतिपुरुष इत्यर्थः। एष एकवचनेनैकस्य वाक्यस्यार्थः॥ अपरस्य तु— कश्चिद्राजानमाह— तव संबन्धिन्य आर्योऽरिसक्ता युवतयस्त्रियो बन्द्योग्रहानीता एवंविधाः। असिता रोमाली यासां तास्तथाभूताः। तथा सत्यः साध्व्यः। नतकुक्षयः कृशोदर्यः। अवाच्योऽधोमुख्यः। तथा सती रम्या नाभिर्यासां ताः सन्नाभयः। तथा सच्छोभनं मुखं यासां ताः सन्मुख्यः। शोभने नयने यासां ताः सुनयनाः। अत्रार्य इत्यदीनि पदानि बहुवचनान्तानीति वचनश्लेषः॥

एवं श्लेषलक्षणमभिधाय पूर्वकविलक्ष्यसंग्रहाय लक्षणशेषमाह—

भाषाश्लेषविहीनः स्पृशति प्रायोऽन्यमप्यलंकारम्।
धत्ते वैचित्र्यमयं सुतरामुपमासमुच्चययोः॥३१॥

भाषेति। अयं पूर्वोक्तश्लेषो भाषाश्लेषरहितः प्रायो बाहुल्येनान्यमप्यलंकारमर्थविषयं व्यतिरेकादिकं स्पृशति। श्लेषस्याप्यौपम्यादिभिः सह संकरो भवतीत्यर्थः। अपिशब्दो विस्मये। प्रायोग्रहणमसाकल्यप्रतिपादनार्थम्। अन्यमलंकारं स्पृशति परं न सर्वमेवेत्यर्थः। तत्रापि सुतरामतिशयेन वैचित्र्यं रम्यत्वमयं श्लेषउपमासमुच्चययोर्धत्ते धारयति। उपमासाहचर्यात्समुच्चयोऽप्यत्रौपम्यभेदो गृह्यते॥

नन्वत्र श्लेषवाक्यद्वये शब्दमात्रं श्लिष्टं भवति, न त्वर्थ इति साम्याभावस्ततश्च कथमुपमासमुच्चयाभ्यां स्पर्शो घटत इत्याशङ्कयाह—

स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः॥३२॥

स्फुटेति। स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि स्वरूपं त्यजतः। किं तु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः। ताभ्यां योगो घटत इत्यर्थः। अर्थतो न सादृश्यं किं तु वाक्यद्वयसाधारणशब्दाश्रयं सादृश्यं विद्यत इति तात्पर्यार्थः॥

उदाहरणमाह—

यदनेकपयोधिभुजस्तवैव सदृशोऽस्यहीनसुरतरसः।
ननु बलिजितः कथं ते सदृशस्तदसौ सुराधिकृतः॥३३॥

यदिति। कश्चिदुच्यते— त्वं तवैव सदृशो नान्यस्येत्यनन्वयानामुपमाविशेषणद्वारेण साम्यमाह— कीदृशस्त्वम्। अनेकपानां द्विषानां योद्धा भुजो बाहुर्यस्यासावनेकपयोधिभुजः। तथाहीनः परिपूर्णःसुरतरसो निधुवनरसो यस्यासावहीनसुरतरसः। तव कीदृशस्यअनेकांश्चतुरः पयोधीन्समुद्रान्भुनक्ति रक्षतीत्यनेकपयोधिभुक्तस्य। तथाहीनामिनो नागराजः सुरा देवास्तेषामिव तरो बलं यस्यासावहीनसुरतरास्तस्य। अत्र प्रथमानिर्दिष्टमुपमेयं पष्ठीनिर्दिष्टमुपमानमनयोस्तु न वस्तुतः किंचिदपि साम्यमस्ति, किं तु तत्प्रतिच्छायशब्दप्रयोगात्साम्यं प्रतिभासते। एवमुत्तरत्रापि योज्यम्। किमिति त्वं तवैव सदृशो न त्विन्द्रस्येत्याह— नन्वित्यादि। ते तव कथमसौ सदृश इति व्यतिरेकोऽयमलंकारः। कीदृशस्य ते। बलिनः समर्थञ्जयत्यभिभवतीति वलिजित्तस्य बलिजितः तथा सुराणामाधीन्मनःपीडाः कृन्ततीति सुराधिकृत्तस्य सुराधिकृतः। इन्द्रस्तु कीदृशः। बलिनाम्ना दानवेन जितः पराभूतः। तथा सुरैरधिकृतो राज्ये नियोजितः। एवं त्वं सुराणामाधीञ्छिनत्सि, स तु सुरैरधिकृत इति स्फुट एव तवेन्द्रस्य चं विशेषः। यत्तच्छब्दौहेत्वर्थौ। नन्वमर्षे। यस्मात्त्वं तवैव सदृशस्तस्मात्तव कथमिन्द्रः सदृशो भवतीत्यर्थः॥

उपमासमुच्चयोदाहरणमाह—

वसुधामहितसुराजितनीरागमना भवांश्च वर्षाश्च।
सुरचितवराहवपुषस्तव च हरेश्चोपमा घटते॥३४॥

वसुधेति। त्वं वर्षाश्च सदृशौ। त्वं तावत्कीदृशः। वसु धनम्, धाम तेजः, ताभ्यां हितमनुकूलं सुरैर्देवैरजितमपराभूतं नीरागं रागरहितं मनश्चित्तं यस्य स तथोक्तस्त्वम्। वर्षास्तु वसुधायां भुवि महितं पूजितं सुष्टु राजितं शोभितं नोरागमनं जलागतिर्यासु तास्तथोक्ताः। चशब्दावत्र समुच्चयार्थौ। साधारणविशेषणादौपम्यस्य सद्भावः। शुद्धाया उपमाया उदाहरणमाह— सुरचितेत्यादि। तव विष्णोश्च साम्यं घटते। कीदृशस्य तव। सुष्टुरचितं वरं श्रेष्ठमाहवं समरं पुष्णाति पुष्टिं नयतीति यस्तस्य सुरचितवराहवपुषः। हरेस्तु सुरैर्देवैश्चितं व्याप्तं वराहवपुः सूकरशरीरं यस्य स तथा तस्य। अत्रापि साधारणशब्दयोगात्साम्यम्, न त्वर्थतः॥

अथ श्लेषमुपसंहरन्नाह—

शब्दानुशासनमशेषमवेत्य सम्य–
गालोच्य लक्ष्यमधिगम्य च देशभाषाः।
यत्नादधीत्य विविधानभिधानकोषा–
ञ्श्लेषं महाकविरिमं निपुणो विदध्यात्॥३५॥

शब्दानुशासनमिति। इदमिदं च कृत्वा ततो महाकविरिमं श्लेषं कुर्यात्। किं कृत्वा। शब्दानुशासनं व्याकरणं समग्रंसम्यग्ज्ञात्वा। तथा लक्ष्यमुदाहरणं महाकविकृतमालोच्य। तथा सूरसेन्यादिदेशभाषा विदित्वा। तथाभिधानकोषान्नाममाला अधीत्य पठित्वेति। एतच्च कृत्वा निपुणः कुशलो महाकविश्चयः स श्लेषंकुर्यादिति॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत-

चतुर्थोऽध्यायः समाप्तः।
————

पञ्चमोऽध्यायः।

वकोक्त्यनुप्रासयमकश्लेषान्निरूप्य क्रमप्राप्तं चित्रं प्रतिपादयितुमाह—

भङ्गयन्तरकृततत्क्रमवर्णनिमित्तानि वस्तुरूपाणि।
साङ्गानि विचित्राणि च रच्यन्ते यत्र तच्चित्रम्॥१॥

भङ्गयन्तरेति। यत्र काव्ये वस्तूनां चक्रादीनां रूपाणि संस्थानानि रच्यन्ते निवध्यन्ते तच्चित्रसादृश्यादाश्चर्याद्वा चित्रं नामालंकारः। काव्ये कथं वस्तुरूपाणि रच्यन्त इति प्रश्न विशेषणद्वारेण युक्तिमाह— भङ्ग्यन्तरेण चक्रादिविच्छित्तिलक्षणेन प्रकारेण कृतःस सकललोकप्रसिद्धः क्रमो रचनापरिपाटी येषां ते च ते वर्णाश्चाक्षराणि च ते निमित्तं कारणं येषां वस्तुरूपाणां तानि तथोक्तानि। तथा सहाङ्केन स्वनामचिह्नेन वर्तन्त इति साङ्कानि। तथा विचित्राणि चान्यानि च सर्वतोभद्रानुलोमप्रतिलोमादीनि। चकारो वस्तुरूपेषु मध्ये सर्वतोभद्रादिसमुच्चयार्थः॥

सामान्यतश्चित्रलक्षणमभिधाय विशेषेणाभिधातुं तद्भेदानाह—

तच्चक्र खङ्गमुसलैर्बाणासनशक्तिशूलहलैः।
चतुरङ्गपीठविरचितरथतुरगगजादिपदपाठैः॥२॥

अनुलोमप्रतिलोमैरर्धभ्रममुरजसर्वतोभद्रैः।
इत्यादिभिरन्यैरपि वस्तुविशेषाकृतिप्रभवैः॥३॥

भेदैर्विभिद्यमानं संख्यातुमनन्तमस्मि नैतदलम्।
तस्मादेतस्य मया दिङ्मात्रमुदाहृतं कवयः॥४॥

तदिति। अनुलोमेति। भेदैरिति। तदेतच्चित्रं यस्मादित्यादिभिरुक्तैरन्यैरनुक्तैरपि। भेदैः कीदृशैः। वस्तुविशेषाकारात्प्रभवन्ति जायन्ते ये तैर्विभिद्यमानं भेदेन व्यवस्थाप्यमानमनन्तमसंख्यातं तत्संख्यातुं संख्यया प्रतिपादयितुं नालं न समर्थोऽस्म्यहम्। तस्मादेतस्य मया दिङ्मात्रमुदाहृतं दर्शितं हे कवयः। इत्यादिभिर्भेदैरित्युक्तं तानेव दर्शयति— तच्चक्रेत्यादि। चकादीनि प्रतीतानि न वरम्। बाणासनं धनुः। चतुरङ्गपीठं द्यूतकारिविदितचतुरङ्गफलकस्तत्र रचितैरथतुरगगजादिपदपाठैः। पठ्यतेऽनेनेति पाठः श्लोकः। आदिग्रहणान्नरपदसंग्रहः। क्रमव्युत्क्रमाभ्यां यः सदृशः सोऽनुलोमप्रतिलोमश्लोकः। अर्धभ्रमणादर्धभ्रमः। सर्वतस्तु भ्रमणात्सर्वतोभद्रः। आदिग्रहणात्पद्मगोमूत्रिकादिसंग्रहः॥

किं पुनस्तेषां वस्तुरूपाणां विरचने लक्षणमित्याह—

यन्नाम नाम यत्स्यात्तदाकृतिर्लक्षणं मतं तस्य।
तल्लक्ष्यमेव दृष्ट्वावधार्यमखिलं तदन्यदपि॥५॥

यदिति। चक्रादिकं प्रसिद्ध नाम संज्ञा यस्येति विग्रहः। तद्यन्नाम। द्वितीयस्तु नामशब्दःप्राकाश्ये। तदेवंविधं वस्तु यत्स्यात्तदाकृतिस्तदाकारस्तस्य चित्रस्य लक्षणमभिहितम्। यदनुकार्यस्य चक्रादेर्नाम संस्थानं च तदेवानुकरणस्य करणीयमित्यर्थः। तच्च चित्रलक्षणमखिलं समग्रंमाघादिमहाकविरचितं लक्ष्यमुदाहरणमेव दृष्ट्वावधार्यंज्ञेयम्। ततो वस्तुरूपादन्यदपि सर्वतोभद्रादिकं लक्ष्यमेव दृष्ट्वावधार्यम्।अथवा ततो लक्ष्योक्ताद्वस्तुरूपादन्यदपि मत्स्यबन्धादिकं स्वधियैवाभ्युह्यम्। मार्गंदृष्ट्वान्यथापि करणं न दोषायेत्यर्थः। तेन चकारनेमिपद्मदलादावनियम उक्तो भवतीति स्थितमेतत्॥

तत्राष्टभिः श्लोकैर्गर्भीकृतखङ्गादिवस्तुरूपान्तरैश्चक्रमाह—

मारारिशक्ररामेभमुखैरासाररंहसा।
सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा॥६॥

माता नतानां संघट्टःश्रियां वाधितसंभ्रमा।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिना॥७॥खङ्गबन्धः॥(युग्मम्)

मारेति। मातेति। उमा गौरी शं सुखं मे मह्यं दिश्याद्देयात्। कीदृशी। आदिजा जगदादिभवा। तथा मारारिः शंभुः, शक्र इन्द्रः, रामो जामदग्न्यो दाशरथिर्वा, इभमुखो गणाधिपस्तैरासाररंहसा वेगवर्षवद्वेगेनादरावेशात्सार उत्कृष्ट आरब्धः प्रकृतः स्तवः स्तुतिर्यस्याः सा। तथा नित्यं सदा तेषां मारारिप्रभृतीनामर्तेःपीडाया हरणेऽपनयने क्षमा समर्था। तथा नतानां मातेव माता। वत्सलत्वात्। तथा संघट्टः समूहः। कासां श्रियामृद्धीनाम्। तथा बाधितो नाशितो भक्तानां संभ्रमो भयं यया सा तथाभूता। तथा मान्या पूज्या।अथ सीमा मर्यादा रामाणां स्त्रीणाम्। सर्वोत्तमेत्यर्थः। अनेन संदानितकेन12 खङ्गउत्पद्यते। आयः श्लोकः फलरूपोऽपरो मुष्टिरूपः। ‘सा’ शब्दःफलान्ते तैक्ष्ण्याकारी ‘दिजा’ इति मुष्टेरुपरि ‘मा’ शब्दौ तत्र साधारणौ। अस्य13 न्यासः॥

अथ मुसलधनुषी—

मायाविनं महाहावा रसायातं लसद्धुजा।
जातलीलायथासारवाचं महिषमावधीः॥८॥ मुसलम्॥

मामभीदा शरण्या मुत्सदैवारुक्प्रदा च धीः।
धीरा पवित्रा संत्रासात्रासीष्ठा मातरारम॥९॥ धनुः॥(युग्मम्)

मायाविनमिति। मामिति। हे मातः, सा त्वं संत्रासाद्भयान्मां त्रासीष्टा रक्ष। आरेम व्यापारान्तरान्निवर्तस्व। पश्य मामित्यर्थः। यां त्वं महिषंमहिषासुरमावधीर्हतवतीति संबन्धः। कीदृशं महिषम्। मायाविनं छद्मपरम्। त्वंतु महाहावा महान्हावश्चेष्टाविशेषो यस्याः सा। रसेन दर्पेणायातं महिषम्। त्वं तु लसद्भुजा लसन्तौ भुजौ यस्याः। तथा जातलीला संपन्नविलासा। महिषमयथासारवाचमयथासारा मर्यादोल्लङ्घिनी वाग्यस्य। तथा त्वमभियमभयं ददासीत्यभीदा। शरणे साधुः शरण्या। मुत्प्रहृष्टा। सदैव सर्वकालमरुक्प्रदा नीरोगत्वदायिनी। चः समुच्चये। धीर्बुद्धिः। तद्धेतुत्वात्। धीरा निर्भया। पवित्रा पावनी। अत्राद्यश्लोकेन मुसलम्— मध्ये तनु पार्श्वयोः स्थूलमेकत्र प्रान्ते तीक्ष्णम्।तत्र मध्ये ‘वारसा’ इत्यक्षरत्रयं साधारणमन्ते ‘जा’ इति। द्वितीयश्लोकेन धनुः— तत्राद्यमर्धेकुटिलं वंशभागे, द्वितीयं गुणाकारं ‘मा’ शब्दोऽधस्तनकोटिप्रान्ते, तदुपान्ते च मकारो द्विरावृत्ति, ‘धी’ शब्दश्च शिखारूपः। न्यासः॥

अथ शरः—

माननापरूषंलोकदेर्वीसद्रस सन्नम।
मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम्॥१०॥शरः॥

माननेति। अङ्गेति कोमलामन्त्रणे। हे सद्रस सुभक्तिभरेणार्द्रहृदय, सर्वदा सदा सादरं सप्रयत्नं मनसा चेतसा तां लोकदेवीं भुवनदेवतां सन्नम सम्यक्प्रणम। दासभावं गत्वाभ्युपेत्य। माननया पूजनयापगता रुट् क्रोधो यस्यास्तां माननापरूषम्। सापराधेऽपि

पूजया सप्रसादामित्यर्थः। अत्र प्रथमपादेन दण्डः, द्वितीयेन फलम्, तृतीयचतुर्याभ्यां वाजावटनी च। न्यासः॥

अथ शूलम्—

मा मुषोराजस स्वासुंल्लोककूटेशदेवताम्।
तां शिवावाशितां सिद्धयाध्यासितां हि स्तुतां स्तुहि॥११॥शूलम्॥

मा मुषइति। हे राजस रजोगुणयुक्त, स्वासुनात्मप्राणान्मा मुषोमा हार्षीः। तां लोककूटानां जनसमूहानामीशा राजानस्तेषां देवतां स्तुहि नुहि। कीदृशीम्। शिवे शंभुना वाशितामाहूतां शिवाभिर्वा वाशितां कृतकलकलाम्। सिद्धया कार्यसिद्धयाध्या सितां समधिष्ठिताम्। स्तुतां जगतेति। त्रिशिखमेतेन शूलमुत्पद्यते। प्रथममर्धंदण्डभागे द्वितीयं त्वावर्तपरावर्तैःशिखासु। तत्र सर्वशिखामूले ‘तां’ शब्दो वारपञ्चकमुच्चार्यते। शिखायामेकस्यां ‘शिवा’, द्वितीयायां ‘सिद्धया’, मध्यमायां ‘स्तुहि’। न्यासः।

अथ शक्त्यादीनि—

माहिपारूये रणेऽन्या नु सा नु नानेयमत्र हि।
हिमातङ्कादिवामुं च कं कम्पिनमुपप्लुतम्॥१२॥शक्तिः॥

मातङ्गानङ्गविधिनामुना पादं तमुद्यतम्।
तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा॥१३॥हलम्॥

इतीक्षिता सुरैश्चक्रेया यमामममायया।
महिषं पातु वो गौरी सायतासिसितायसा॥१४॥रथपदम्॥(विशेषकम्)

माहिषेति। मातङ्गेति। इतीति। सा गौरी वो युष्मान्पातु रक्षतु। या सुरैरित्यमीक्षिता सती महिषंयमामं यमगामिनं मृतममाययाच्छद्मना चक्रे कृतवती। किंभूता। आयतैदीर्घैरसिभिः सितो बद्ध आयोऽर्थागमो यैस्तान्दानवादीन्स्यति हिनस्ति या स तथोक्ता। के्वक्षिता। माहिषाख्ये रणे महिषासुरसंबन्धिनि समरे। कथमीक्षिता। नानानेकप्रकारम्। तदेव नानात्वमाह— अन्या नु सा न्विति। नुर्वितर्के। अत्र रण इयं देवी किमन्या स्यादुत सैव। भयानकत्वादनिश्चयः। तथैवंवादिभिः सुरैरीक्षिता यथार्मु महिषं कंकुत्सितम्। कम्पिनं कम्पयुक्तम्। कुत इव। हिमातङ्कादिव हिमर्तेरिव। तथोपप्लुतंमदोद्धतमाहन्ति मारयति। केनाहन्ति। अमुना प्रत्यक्षदृष्टेन मातङ्गानङ्गविधिना। सदर्पत्वाद्गजविधिना, सलीलत्वादनङ्गविधिना। किं कृत्वा। तं लोकप्रसिद्धं पादमुद्यतमुत्पाटितं तङ्गयित्वा भ्रमयित्वा। तदनन्तरं चास्य महिषस्यशिरसि रंहसा वेगेन निपात्य निःक्षिप्य। इत्यादि जल्पद्भिः सुरैरीक्षिता यमामं चक्र इति संबन्धः। देवतास्तुत्या चैतदत्रसुच्यते— यथा प्रावेण चित्रस्य देवतास्तुतिर्विषयो न सरसं काव्यमिति। अत्राद्यश्लोकेन मध्यतन्वी तीक्ष्णप्रान्ता शक्तिरुत्पद्यते। तत्र ‘हिमातं’ इत्यक्षरत्रयं मध्ये, ‘नुसा’

अधः, ‘कं’ उपरि। तत्र ‘हि’ द्विरावृत्तिः, ‘मातंनुकं’ एते द्विरावृत्तयः। द्वितीयश्लोकेन हलम्। तत्र हलप्रविष्टेषाशल्यभागे ‘तं’ शब्दः, ‘मा’ तस्य पृष्ठे, ‘नामु’ फलतीक्ष्णाग्रे, ‘गानङ्गविधि पादं तमुद्य’ वर्णाः फलेऽनुलोमविलोमश्रेणिद्वयस्थाः, ‘गयित्वा शिरस्वस्य’ इतीषायाम्, ‘निपात्या’ हलोर्ध्वभागे, हकारो हलोर्ध्वभागे कीलिकाशल्यमध्ये, हकारोर्ध्वे ‘न्ति’, हकाराग्रे ‘रं’, हकारपृष्ठे ‘सा’। मारारिप्रमुखैरेभिरष्टभिः श्लोकैरष्टारं चक्रमुत्पद्यते। अत्र पूर्वार्धान्यष्टाराः। अन्त्यार्धानि त्वेका नेमिः। ‘मा’ शब्दो नाभिः सर्वसाधारणः। अर्धान्त्यश्लोकान्त्याक्षराणि च। अत्र च चक्रे स्वनामाङ्कभूतोऽयं श्लोकः कविनान्तर्भावितो यथा—

‘शतानन्दापराख्येन भट्टवामुकसूनुना।
साधितं रुद्रटेनेदं सामाजा धीमतां हितम्॥’

अस्यार्थः— वामुकाख्यभट्टसुतेन शतानन्द इत्यपरनाम्ना रुद्रटेन कविना साधितं निष्पादितमिदं चक्रं काव्यं वा। कीदृशेन। साम गीतिविशेषमजति प्राप्नोतीति सामाक्, तेन सामाजा। सामवेदपाठकेनेत्यर्थः। तञ्चधीमतां बुद्धिमतां हितमुपकारकम्। न्यासः। तृतीयश्लोकेन रथपदानि पूर्यन्ते। रथपदन्यायेन युक्पादयोरावृत्तिनिवृत्तिभ्यां पाठः॥

अथ तुरगपदपाठः—

सेना लीलीलीना नाली लीनाना नानालीलीली।
नालीनालीले नालीना लीलीली नानानानाली॥१५॥

सेनेति। तत्र— सेना, लीलीलीनाः, न, आली, लीनानाः, नानालीलीली, न, आलीनाली, ईले, ना, आलीनाः, लीलीली, नानाना, अनाली, इति पदानि। पदार्थस्त्वयं यथा— कश्चिद्वक्ति— अहं ना पुरुषः सेनाः पृतनां ईले स्तौमि। ‘ईड स्तुतौ’। वर्तमानायां ए। सेनाः स्तौम्यहमिति संबन्धः। यद्वा परोक्षायां ‘ईले’ इति रूपम्। बहुलत्वादाम्प्रत्ययाभावः। ततः कश्चिन्ना सेना ईले। तुष्टावेत्यर्थः। कीदृशीः सेनाः। लीला विद्यते येषां लीलिनस्तीतीत्येवंशीलो लीलीली स इनः स्वामी यासां ता लीलीलीनाः। ना कीदृशः। आलमनर्थोऽसत्यं वा विद्यते यस्य स आली एवंविधो न। तथा लीनानि संबद्धान्यनांसि शकटानि शकटारूढा वा जना यस्य स लीनानाः। तथा नानाप्रकारा आल्यःपङ्कयो नानाल्यस्तासां लीः श्लेषस्तां लान्ति गृह्णन्ति ये ते नानालीलीलाः पुरुषा विद्यन्ते यस्य स नानालीलीली। व्यूहाश्रितनरनायक इत्यर्थः। तथा आलीनानामाश्रितानामाली अनर्थकरः आलीनाली एवंविधो न। सेवकानुकूल इत्यर्थः। कीदृशीः सेनाः। आलीना आश्लिष्टाः। ना कीदृशः। लीलिनी लीलावती सुखितत्वात्प्राणिनामिला भूर्येषां ते लीलीला नृपास्ते यस्य सन्ति स लीलीली। तथा नानाप्रकारो ना मनुष्यो यस्य स नानाना। तथा आली मूर्ख उच्यते आलमस्यास्तीति वा न आली अनाली। प्राज्ञ इत्यर्थः। अत्र तुरगपदपरिज्ञानाय श्लोको यथा— ‘कशझे-

नागभटाय तयखेवेञराघवे। षजेथाढेपचेमेठे दोणसछलडेफडे॥’ अमुं श्लोकं ‘सेनाली’ इत्यादि प्रस्तुतश्लोकोपरिभागे यथाक्रमाक्षरं लिखित्वा तत एतच्छ्लोकगतमातृकापठितकादिवर्णक्रमानुमिततुरगपदक्रमेण प्रस्तुतः श्लोक उच्चेय इति॥

अथ गजपदपाठमाह—

ये नानाधीनावा धीरा नाधीवा राधीरा राजन्।
किं नानाशं नाकं शं ते नाशङ्कन्तेऽशं ते तेजः॥१६॥

य इति। अत्र— ये, नानाधीनावाः, धीराः, न, अधीवाः, राधीराः, राजन्, किं नानाशं, नाकं, शं, ते, न, आशङ्कन्ते, अशं, ते, तेजः, इति पदानि। पदार्थस्त्वेवम्— यथा कश्चिद्राज्ञः कस्यापि सेवकानभिनन्दति— हे राजन्, ये तदीयभृत्या एवंगुणयुक्तास्ते किं नाकस्येदं नाकं स्वर्गसक्तं शं शिवं सुखमाशङ्कते। नञ उत्तरत्र संबन्धः। किंशब्दकाक्वावश्यं तेषां स्वर्गसुखं भवतीत्यर्थः। कीदृशा ये। नानाविधा आधयो यस्य स नानाधिःस चासाविनश्च प्रभुस्तमवन्ति विनाशाद्रक्षन्तीतिनानाधीनावाः। तथा धीराः सत्त्वयुक्ताः। तथा दुष्टा धीर्बुद्धिरधीस्तां वान्ति गच्छन्त्याश्रयन्त्यधीवा एवंविधा न। तथा ‘राधो हिंसायाम्’। राधिनो हिंसकास्तानीरयन्तीति राधीराः। शं कीदृशम्। नानाविधा आशाः सुखाभिलाषा यत्र तन्नानाशम्। किं च ते तव संबन्धि यत्तेजस्तदशं दुःखरूपमित्येवं नाशङ्कन्ते। प्रभुतेजोऽस्माकं नाशायेति चेतसि नैव कुर्वन्तीत्यर्थः। अत्र गजपदन्यायेन लोक उत्पद्यते। स च श्लोकगतप्रथमनवमद्वितीयदशमतृतीयैकादशचतुर्थद्वादशादिक्रमेण उच्चेय इति॥

अथ प्रतिलोमानुलोमपाठं स्रग्धरावृत्तमाह—

वेदापन्ने स शक्ले रचितनिजरुगुच्छेदयत्नेऽरमेरे
देवासक्तेऽमुदक्षो वलदमनयदस्तोददुर्गासवासे।
सेवासर्गादुदस्तो दयनमदलवक्षोदमुक्ते सवादे
रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे॥१७॥

वेदापन इति। स कश्चिद्गुणिप्रियो रत्ने गुणवति जने रेमे ननन्द। ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते’। वेदानापन्नो वेदापन्नस्तत्र। अधीतवेद इत्यर्थः। तथा शक्ले प्रियंवदे। तथा रचितः कृतो निजाया रागद्वेषात्मिकाया रुजो वाधाया उच्छेद उन्मूलने यत्नो येन तस्मिन्रचितनिचरुगुच्छेदयत्ने। तथा न रमन्ते सुजनेषु धर्मे वा ये ते अरमा दुर्जनास्तानीरयति यस्तस्मिन्नरमेरे। तथा देवेष्वासक्तो देवासक्तस्तस्मिन्देवासक्ते। देव पूजोद्यत इत्यर्थः। स कीदृशः। न मोदन्ते प्रमोदं यान्तीत्यमुन्दि अक्षाणीन्द्रियाणि यस्य सोऽमुद्रक्षो जितेन्द्रियः। तथा बलदमनयदः शक्त्युपशमनीतिदाता। रत्ने कीदृशे। तोदस्य व्यथाया दुर्गा इव दुर्गाःपरानभिभूतास्तानप्यस्यन्ति क्षिपन्तीति तोददुर्गासास्तेषां वाते निलये। शुराणामपि शूरा यमाश्रिता इत्यर्थः। स कीदृशः। सेवायां परप्रणतौसर्गः

उत्साहस्तत उदस्तो निवृत्तः। स्वाधीन इत्यर्थः। रत्ने कीदृशे। दयनं दानं रक्षा वा तेन यो मदलवो गर्वकणिका तेन यः क्षोदः परिकत्थनं तेन मुक्ते रहिते। प्रियं कृत्वाप्यगर्वित इत्यर्थः। यद्वा अदयनेन निर्दयत्वेन मदलवेन गर्वलेशेन क्षोदेन हिंसया च मुक्ते। तथा सह वादेन वर्तते सवादस्तस्मिन्। प्रमाणशास्त्रज्ञ इत्यर्थः। तथा अयन्नगच्छन्नच्छो नैर्मल्यं यस्य तत्रायदच्छे। शुद्धिमतीत्यर्थः। तथा गुरुभिः पूज्यैर्जनितो यश्चिरं क्लेशः शुश्रूषाश्रमस्तेनैव सन्ने श्रान्ते। न त्वन्येन। तत्र वा सन्ने सक्ते। तथा अपदान्पदभ्रष्टानवतीत्यपदावः। यदि वापगतो दाव उपतापो यस्य तस्मिन्निति। यथैवायं श्लोकः क्रमेण पठ्यते, एवं व्यतिक्रमेणापीति प्रतिलोमानुलोमः॥

अथार्धभ्रममाह—

सरसायारिवीरालीरसनव्याध्यदेश्वरा।
सा नः पायादरं देवी याव्यायागमदध्यरि॥१८॥

सरसेति। सा ईश्वरा देवी गौरी नोऽस्मानरं शीघ्रं पायादव्यात्। या अगमद्गता। कथम्। अध्यरि रिपूनधिकृत्य। कीदृश्यगमत्। अव्याया विगत आयोऽर्थागमो यस्याः सा व्याया, न व्याया अव्याया। सलाभेत्यर्थः। तथा अयनमायः, सरसः सरोष आयो रणे गमनं यस्याः सा सरसाया, सा चासावरिवीराली च शत्रुसुभटपङ्किस्तस्या रसनेनास्वादनेन हिंसया विशेषेण भक्तानामाधीर्मनोदुःखान्यत्ति नाशयतीति सरसायारिवीरालीरसनव्याध्यदा। यदि वा सरसाया अरिवीराल्या रसेन भावेन नव्या स्तुत्या। आध्यदा दुःखनाशिका। अर्धभ्रमणादर्धभ्रमोऽयम्। न तु सर्वतोभद्रवत्सर्वत्र भ्राम्यति। न्यासः॥

अथ मुरजबन्धः—

सरलावहलारस्भतरलालिवलारवा।
वारलाबहलामन्दकरला वहलामला॥१९॥

सरलेति। सर्वभाषाभिरमागधिकाभिः शरद्वर्णने श्लोकोऽयम्। तत्र कीदृशी शरद्वर्तते। सरलो दीर्घ आ समन्ताद्वहलेन प्रभूतेनारम्भेण तरलानां चञ्चलानामलिबलानां भ्रमरसैन्यानामारवः शब्दो यस्यां सा सरलाबहलारम्भतरलालिबलारवा। तथा वारलाभिर्हेसीभिर्बहला संतता। यदि वा वारेण परिपाट्या लावो लवनं येषां तानि तथाविधानि हलानि हलकृष्टधान्यक्षेत्राणि यस्यां सा तथाविधा। तथा करं लान्ति गृह्णन्ति ये ते करला नृपाः। अमन्दा यात्रायां सोद्यमाः करला यस्यां सा तथाविधा। तथा बहलानि प्रभूतान्यामलान्यामलकीफलानि यस्यां सा तथाविधा। यदि वा बहलमत्यर्थममला निर्मला बहलामला। अत्र मुरजंत्रयमर्धमुरजौ चान्ते भवतः। न्यासः॥

अथ सर्वतोभद्रमाह—

रसा साररसा सार सायताक्ष क्षतायसा।
सातावात तवातासा रक्षतस्त्वस्त्वतक्षर॥२०॥

रसेति। कश्चिद्राजानमाह— हे सार उत्कृष्ट, तव रक्षतः पालयतः सतः सा रसा पृथ्वी साररसा उत्कृष्टरसास्तु भवतु। हे आयताक्ष दीर्घलोचन, तथा सा क्षतायसा चास्तु।क्षतो नाशित आयोऽर्थागमो यैस्ते क्षतायाश्चौरादयस्तान्स्यत्यन्तं नयतीति कृत्वा। तथा सातं सुखमवतीति सातावा। श्रेयस्करीत्यर्थः। अस्त्विति सर्वत्र योज्यम्। हे अत। अतति नित्यमेवोद्यमं भजत इत्यर्थः। तथा अतासा अक्षया रसा। भवत्वित्यत्रापि योगः। तुर्नियमे। रक्षत एव, न त्ववलिप्तस्य। तथा हे अतक्षर तक्षणं तक्षस्तनुकरणं तं राति ददातीति तक्षरः, न तक्षरोऽतक्षरः। पुष्टिद इत्यर्थः। चतुर्दिशं वाच्यत्वात्सर्वभद्रोऽयं श्लोकः॥

आदिग्रहणसंग्रहीतं पद्माद्युदाहरणमाह—

या पात्यपायपतितानवतारिताया
यातारितावपति वाग्भुवनानि माया।
यामानिना वपतु वो वसु सा स्वगेया
यागे स्वसासुररिपोर्जयपात्यपाया॥२१॥

येति। सा इना स्वामिनी गौरी वो युष्मभ्यं यामानष्टावपि प्रहरान्नित्यं वसु धनं वपतु जनयतु। या अपायपतितानांपद्गतान्प्राणिनः पाति रक्षतीति। किंभूता सती। अवतारितः प्रापित आयोऽर्थागमो यया सावतारिताया। तथा याता निवृत्तारिता शत्रुभावो यस्यां सा यातारिता। निर्मत्सरेत्यर्थः। तथा या वाक् वचनरूपा सती भुवनानि जगन्त्यावपति व्याप्नोति। या च तत्त्वतो ज्ञातुमशक्यत्वान्मायेव माया। या च यागे यज्ञे स्वेनात्मनैव गेया स्तुत्यां। वाग्रूपत्वात्तस्याः। तथा या चासुररिपोर्विष्णोः स्वसा भगिनी। या च जयं सर्वोत्कर्षवर्तनं भक्तानां पाति रक्षतीति जयषा। तथातिक्रान्ता अपाया अनर्थायया सात्यपाया। निरापदेत्यर्थः। इदमष्टदलं पद्ममिति पूर्वे भणन्ति तन्न सम्यग्बुध्यते। चतुर्दलं तु बुध्यते। यथा ‘या’ शब्दोऽत्र कर्णिका अष्टवारान्परावर्त्यते। दलानि द्वादशाक्षराणि। तत्र पार्श्ववर्तिनश्चत्वारश्चत्वारो वर्णा दलसंधिगतत्वाद्द्विरावर्त्यन्ते॥

अथानुलोमविलोमविपर्यस्ताक्षरपाठेन लोकाच्छ्लोकान्तरोत्पत्तिमाह। तत्राद्यः श्लोकः—

समरणमहितोपा यास्तनामारिपाता
वनरतिसरमाया वानरा माषसारम्।
अमरततवरालीमानमासाद्य नेदू
रणमहिमतताशा धीरभावेऽसिराते॥२२॥

समरणेति। सुग्रीवाङ्गदप्रभृतयोऽत्र वानरा वर्ण्यन्ते— वानरा नेदुः। जगदुरित्यर्थः। कीदृशाः। समौतुल्यौरणमहौसङ्ग्रामोत्सवौयेषां ते समरणमहा इन्द्रजित्प्रभृतयस्ते विद्यन्ते येषां ते समरणमहिनो रावणादयस्तांस्तूपन्ति हिंसन्ति ये ते समरणमहितोपाः।

तथा यान्ति गच्छन्तीति या अभियोगिनः, अस्तः परित्यक्तो नामो नतिर्यैस्तेऽस्तनामा, याश्च तेऽस्तनामाश्च ते च तेऽरयश्च शत्रवश्च तान्पातयन्ति नाशयन्तीति यास्तनामारिपाताः। यदि वा समशब्दःसर्वनामसु। ततः समरणेषु सर्वसमरेषु महितः पूजित उपायो येषां ते च तेऽस्तनामारिपाताश्चेति समासः। तथा वने रतिर्येषां ते वनरतयो मुनयस्तान्सरन्ति जिघांसयाभिगच्छन्तीति वनरतिसरा राक्षसादयस्तान्मीनन्तीति कर्मण्यणि वनरतिसरमायाः। कथं नेदुः। माषसारम्। मा प्रतिषेधे ततश्चाविद्यमानोऽपसारश्छेदो यत्र कर्मणि तन्मापसारम्। किं कृत्वा नेदुः। अमरैर्देवैस्तता विस्तारिता दत्ता या वराली वरपरम्परा तथा मानं पूजां गर्वे वासाद्य प्राप्य। तथा रणमहिम्ना युद्धमाहात्म्येन तता व्याप्ता आशा दिशो यैस्ते तथोक्ताः। कदा नेदुः। धीरभावे धैर्येऽसिना खङ्गेन राते दत्ते सति॥

अस्माच्छ्लोकादेकाक्षरव्यवधानेन द्वयोर्द्वयोश्च विपर्ययपाठेनायं श्लोको निर्याति। यथा—

सरमणहिमतोयापास्तमानारितापा
वरनतिरसमावायानमारा परं सा।
अरमत बत रामा लीनसामाद्यदूने
रमणहितमताधीशारवे भासितेरा॥२३॥

सरमणेति। काचिन्मानिनी प्रसन्नात्र वर्ण्यते— सा रामा युवतिरधीशारवेदयितवचसि परमतिशयेनारमत प्रीतिं कृतवती। वत विस्मये। चित्रं मानिन्यपि प्रसन्ना यत्। कीदृशी। रमणो दयितः स एव संतापापहारित्वाद्धिमतोयं नीहारजलम्, सह तेन वर्तते या सा सरमणहिमतोया। अत एवापास्तो निरस्तो मानारितापो गर्वशत्रुजनितोपतापो यया सापास्तमानारितापा। तथा वरा श्रेष्ठा नतिर्मानपरित्यागेन प्रणतिर्यस्याः सा वरनतिः। यद्वा वरे भर्तरि नतिर्यस्याः। तथा असमा सर्वोत्कृष्टा। तथा अवति रक्षत्यात्मानं प्रियं वेत्यवा। न विद्यते यानं गमनमस्येत्ययानः स्थिरो भारः कामो यस्याः सायानमारा। तथा लीनं संबद्धं साम कोमलवचनं यस्याः सा लीनसामा। प्रियभाषिणीत्यर्थः। कीदृशेऽधीशारवे। आद्यः प्रधानभूतः, दून उपतप्तो गद्गदः, आद्यश्च दूनश्च तत्राद्यदूने। रामा कीदृशी। रमणस्य प्रियस्य हिता च मता च। अनुकूलत्वादिष्टेत्यर्थः। तथा भासिता शोभिता इरा वाणी यस्याः सा भासितेरा। मधुरवागित्यर्थः। अस्माच्छ्लोकात्तथैव पूर्वश्लोको निर्याति। एवमन्येऽपि चित्रप्रकारा महाकाव्येभ्योऽवधार्याः। सर्वेषां स्वरूपदर्शनं कर्तुमशक्यमानन्त्यादिति। एतेषु यमकश्लेषचित्रोदाहरणेषु व्याख्यानान्तराण्यपि महामतिकृतानि दृष्टानि, परमेकैकमेव चार्वित्येकैकमेव लिखितम्। यत् उक्तं सुधीभिः— ‘व्याख्यानमनेकविधं लिङ्गमबोधस्य धूम इव वह्वेः। स्पष्टं मार्गमजानन्स्पृशत्य’नेकान्पथोमुह्यन्’ इति॥

अथ वएते मात्राच्युतादयस्ते किमलंकाराः, उत नेत्याशङ्कयाह—

मात्राविन्दुच्युतके प्रहेलिका कारकक्रियागूढे।
प्रश्नोत्तरादि चान्यक्रीडामात्रोपयोगमिदम्॥२४॥

मात्रेति। च्युतकशब्दो गूढशब्दश्चोभयत्र संबध्यते। ततश्च मात्राच्युतकविन्दुच्युतकप्रहेलिकाकारकगूढक्रियागूढानि प्रश्नोत्तरादि। चः समुच्चये। अन्यत्पूर्वालंकारेभ्यो व्यतिरिक्तं तत्क्रीडामात्रोपयोगम्। मात्रग्रहणेनाल्पप्रयोजनतां सूचयति। अल्पप्रयोजनत्वादेवालंकारमध्ये न संगृहीतम्। काव्येषु च दर्शनाद्वक्तव्यमिति॥

तल्लक्षणं यथाक्रममाह—

मात्राविन्दुच्यवनादन्यार्थत्वेन तच्च्युते नाम।
स्पष्टप्रच्छन्नार्था प्रहेलिकाव्याहृतार्था च॥२५॥

प्रच्छन्नत्वाद्भवतस्तद्रूढे कारकक्रियान्तरयोः।
प्रश्नानां च बहूनामुत्तरमेकं भवेद्यत्र॥२६॥

प्रश्नोत्तरं तदेतद्व्यस्तसमस्तादिभिर्भवेद्बहुधा।
भेदैरनेकभाषं………………………च भिद्यते॥२७॥

मात्राविन्दुच्यवनादिति। प्रच्छन्नत्वादिति। प्रश्नोत्तरमिति। मात्रायाः स्वरस्य, तथा विन्दोरनुस्वारस्य च्यवनाद्भ्रंशाद्धेतोरन्यार्थत्वेन भिन्नाभिधेयत्वेन तच्च्युते मात्राविन्दुच्युते भवतो नाम। प्रहेलिकाद्विधा। स्पष्टप्रच्छन्नार्थाव्याहृतार्था च। तत्र स्पष्टः पदारूढत्वात्प्रच्छन्नश्च प्रश्नवाक्य एवान्तर्गतत्वेन भ्रमकारित्वादर्थो यस्याः सा तथाविधा। तथासाधारणविशेषणोपादानादेवाधिगतत्वेनाव्याहृतः साक्षादनुक्तोऽर्थो यस्यां सा तथाभूता द्वितीया। तथा कर्तादिकारकाणां गूढत्वादप्रकटत्वात्कारकगूढम्। क्रियापदानां तु प्रच्छन्नत्वातक्रियागूढम्। तथा प्रश्नोत्तरमेतद्यत्र बहूनां प्रश्नानां वचनस्यातन्त्रत्वादेकस्य द्वयोर्वैकमेवोत्तरं भवेत्। एतच्च प्रश्नोत्तरं व्यस्तसमस्तादिभिः, आदिग्रहणाद्गतप्रत्यागतैकालापकप्रतिलोमानुलोमादिभिर्भेदैर्बहुधा भवेत्। तथैकभाषत्वेनानेकभाषत्वेन च भिद्यते॥

अधुनैतेषामेव यथाक्रममेकैकमुदाहरणं दिक्प्रदर्शनार्थमाह—

नियतमगम्यमदृश्यं भवति किल त्रस्यतो रणोपान्तम्।
कान्तो नयनानन्दी बालेन्दुः खे न भवति सदा॥२८॥

नियतेति। त्रस्यतो विभ्वतो नरस्य। किलेति सत्ये। रणोपान्तं समरनिकटं नियतं निश्चितमगम्यमप्राप्यमदृश्यमनवलोकनीयं भवति। इत्येकवाक्यार्थः। अत्र मात्रया ककारगतेकाररूपवा च्युतयान्य एवार्थो भवति। मात्राच्युतके च सर्वत्र मात्रापगमेऽप्यकारान्तत्वावस्थितिः। उच्चारणार्थत्वादकारस्य। तत्रान्योऽर्थो यथा— कलत्रस्य दाराणां तो-

रणोपान्तं तोरणनिकटं राजपथो नियतमगम्यमदृश्यं च भवति। कुलवधूत्वादिति। बिन्दुच्युतकमाह— कान्त इत्यादि। कश्चित्कंचिदाह— एषबालेन्दुरपूर्णचन्द्रः खे वियति सदा न भवति। कान्तः कमनीयः। अत एव नयनानन्दी नयनानन्दकरः। अत्र बिन्दौ च्युतेऽर्थान्तरं भवति। इदं काचित्सखीमाह— हे बाले मुग्धे, कान्तो वल्लभो नयनानन्दी दुःखेन क्लेशेन भवति सदा। तस्मान्मैनं तिरस्कार्षोरिति शेषः। व्यञ्जनच्युतकाक्षरच्युतकेत्यादिग्रहणात्संगृहीते तदुदाहरणे अध्यनयैव दिशा द्रष्टव्ये॥

अथ स्पष्टप्रच्छन्नार्थप्रहेलिकामाह—

कानि निकृत्तानि कथं कदलीवनवासिना स्वयं तेन।
कथमपि न दृश्यतेऽसावन्वक्षं हरति वसनानि॥२९॥

कानीति। कदलीवनवासिना रम्भावनगतेन नरेण कानि निकृत्तानि कानि च्छिन्नानि। कथं केन प्रकारेणेति प्रश्ने। स्पष्टोऽपि प्रच्छन्नोऽर्थः। स चायम्— कानि शिरांसि मस्तकानि निकृत्तानि। कथम्। कदलीव रम्भेव। केन। असिना खङ्गेन। क्रियन्ति। नव नवसंख्यानि। स्वयमात्मना। तेन दशाननेन। कथंशब्दोऽत्र विस्मये। चित्रमिदं यत्स्वयं तृणराजवदात्मनः शिरांसि च्छिन्नानीत्यर्थः। प्रश्नोत्तरात्त्वस्या अयमेव विशेषो यत्प्रश्नवाक्येनैवोत्तरदानम्। अथ व्याहृतार्थमाह— कथमपीत्यादि। असौ कश्चिदन्वक्षं प्रत्यक्षमेव वसनानि वस्त्राणि हरति। अथ च कथमपि न दृश्यते नावलोक्यते। अतः कोऽयं स्यात्। अत्रासाधारणविशेषणोपादानाद्वायुरिति गम्यते। नान्यस्य चौरादेरेवंविधा शक्तिरिति। प्रश्नोत्तराच्चास्या वायुर्वातः समीर इत्याद्यनियतशब्दत्वं विशेषः॥

अथ कारकगृहमाह—

पिबतो वारि तवास्यां सरिति शरावेण पातितौ केन।
वारि शिशिरं रमण्यो रतिखेदादपुरुषस्येव॥३०॥

पिबत इति। कश्चित्कंचिदाह— तवास्यां सरिति नद्यां शरावेण वर्धमानकेन भाजनविशेषेण जलं पिबतः केन पातितौ। कौ पातिताविति साकाङ्क्षत्वात्कर्मात्र गूढम्। त च्चैवं प्रकटम्— हे एण मृग, तवास्यां सरिति वारि पिबतः केन शरौ बाणौ पातिताविति। अथ क्रियागूढम्— वारि शिशिरेत्यादि। वारि जलम्, शिशिरं शीतलम्, रमण्यो नार्यः, रतिखेदान्निधुवनायासादपुरुषस्येव। अत्र क्रिया गुप्ता। सा चेयम्— रमण्यो रतिखेदाद्वारि शिशिरमुषस्येव प्रभात एवापुः पीतवत्यः॥

अथ प्रश्नोत्तरमाह—

उद्यन्दिवसकरोऽसौ किं कुरुते कथय मे मृगायाशु।
कथयानिन्द्राय तथा किं करवाणि क्वणितुकामः॥३१॥

अहिणवकमलदलारुणिण माणु फुरत्तिण केण।
जाणिज्जई तरुणीअणस्स निद्धा (?) भण अहरेण॥३२॥

उद्यन्निति। अहिणवेति। कश्चिन्मूर्खत्वेन मृगः सत्कंचन पृच्छति— यथा मह्यं मृगाय त्वं कथय। एप दिवसकरःसूर्य उद्यन्नुदयं प्राप्नुवन्किं कुरुत इत्येकः प्रश्नः। अपरमाह— अनिन्द्रायाशकाय मत्यं कथय निवेदय। क्वणितुकामः शब्दितुकामः सन्नहं किं करवाणि किं करोमीति द्वितीयः। उत्तरानुरोधेन चात्र मृगायेत्यनिन्द्रायेति च प्रश्नवाक्येऽभिहितम्। वक्तृबहुत्वख्यापनार्थमनेकभाषत्वख्यापनार्थंतृतीयप्रश्नोऽयं प्राकृतेच। यथा— अहिणवेत्यादि। कश्चित्सुहृदमाह— अभिनवकमलदलारुणेन स्फुरता केन तरुणीजनस्य मानो लक्ष्य इति भण वद। निद्धेत्यामन्त्रणपदम् (?)। अत्र यथाक्रमं यथाभाषं चोत्तरमाह— अहरेणेति। तत्र— अहर्दिनम्। एण हे मृग। तथा अहरेऽनिन्द्र। अण शब्दं कुरु। तथा प्राकृतोत्तरम्— अहरेणाधरेण। ओष्ठेनेत्यर्थः। इत्युत्तरत्रयं युगपदुक्तम्। एतदनेकवक्तृकमनेकभाषंव्यस्तसमस्तं च प्रश्नोत्तरम्। एकवक्तृकं त्र्यदिभाषंच प्रश्नोत्तरजातमन्यत्र विस्तरादवगन्तव्यम्॥

अथाध्यायमुपसंहरन्नाह—

इत्थं स्थितस्यास्य दिशं निशम्य शब्दार्थवित्क्षोदितचित्रवृत्तः।
आलोच्य लक्ष्यं च महाकवीनां चित्रं विचित्रं सुकविर्विदध्यात्॥३३॥

इत्यमिति। अस्य चित्रस्येत्थंपूर्वोक्तप्रकारेण स्थितस्य दिशं मार्गेनिशम्य श्रुत्वा तथा महाकवीनां लक्ष्यमुदाहरणं चालोच्य विमृश्य ततः सुकविश्चित्रमलंकारं चित्रं नानाविधं विदध्यात्कुर्यात्। किंविशिष्टः सन्। शब्दार्थौवेत्ति शब्दार्थवित्। तथा क्षोदितानि पर्यालोचितानि चित्राणि नानाविधानि वृत्तानि तनुमध्यादीनि येन स तथाविधः। यतः किल न सर्वेण वृत्तेन सर्वंचित्रं कर्तुं पार्यते। तथालोच्य वीक्ष्य, लक्ष्यमुदाहरणम्, महाकवीनां सुकवीनाम्। चित्रकरणे किल लक्षणाभावाल्लक्ष्यदर्शनमेव महानुपाय इति कृत्वा॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः

पञ्चमोऽध्यायः समाप्तः।
————

पष्टोऽध्यायः।

शब्दस्यालंकारानभिधायेदानीं तद्दोषानभिधित्सुराह—

पदवाक्यस्थोदोषो वाक्यविशेषप्रयोगनियमेन।
यः परिहृतस्ततोऽन्यस्तदतिव्याप्तिश्चसंह्नयते॥१॥

पदवाक्यस्थ इति। पूर्वम् ‘अन्यूनाधिक—’ (२।८) इत्यादिना ग्रन्थेन काव्योपयोगिना’ वाक्यविशेषस्य प्रयोगे नियमेन यः पदस्थो वाक्यस्थश्च दोषः परिहृतः, ततो दोषादन्यो-

ऽसमर्थाप्रतीतादिकः समिति संप्रति ह्नियते परिह्नियते। तथा तस्मान्न्युनादिकस्यासमर्थादिकस्य च दोषस्य यातिव्याप्तिरतिप्रसक्तिः सा च संह्नियते संकोच्यते। ननु पूर्वत्र वाक्यस्थ एव दोषः परिहृतो न पदस्थस्तत्कथमिहोच्यते पदवाक्यस्थ इति। सत्यम्। अन्यूनाधिकविशेषणविशिष्टैः पदैर्वाक्यस्य नियमितत्वात्पदस्थोऽपि दोषस्तेन परिहृत एवेति। तर्हि पदग्रहणमत्र न कर्तव्यमाशङ्कानिरासार्थम्। यतः कश्चिदाशङ्क्येत यथा वाक्यस्थ एव दोषस्तेन परिहृतो न पदस्य इति। तथा पदग्रहणाभावे ततोऽन्य इति। वक्ष्यमाणदोषोऽपि पदस्योक्तो न स्यादिति। पृथक्करणं तु तस्य दोषस्य महीयस्त्वख्यापनार्थम्। न्यूनाधिकादिदोषो हि नेत्रोत्पाटतुल्यः। असमर्थादिकस्तु पटलनिभः॥

अथ तानेवान्यान्दोषानाह—

असमर्थमप्रतीतं विसंधि विपरीतकल्पनं ग्राम्यम्।
अव्युत्पत्ति च देश्यं पदमिति सम्यग्भवेद्दृष्टम्॥२॥

असमर्थमिति। इतिशब्दो हेतौ, स च प्रत्येकं संबध्यते। असमर्थमिति हेतोः पदं दुष्टं भवेत्। एवमप्रतीतमित्यादौ बोध्यम्। सम्यक्शब्दो नियमार्थः। अवश्यं दुष्टमित्यर्थः। चशब्दः समुच्चये। अन्यैरनुक्तं व्युत्पत्तिरहितं देश्यमसमर्थादिदोषमध्ये समुच्चीयत इत्यर्थः॥

यथोद्देशस्तथा लक्षणमिति पूर्वमसमर्थलक्षणमाह—

पदमिदमसमर्थं स्याद्वाचकमर्थस्य तस्य न च वक्तुम्।
तं शक्नोति तिरोहिततत्सामर्थ्यं निमित्तेन॥३॥

पदमिति। यत्पदं तस्य निर्दिष्टार्थस्य वाचकम्। अथ च तमेवार्थंवक्तुं न शक्नोति तदसमर्थम्। वाचकं चेत्कथं न शक्नोतीत्याह— निमित्तेन केनचिच्छब्दान्तरसंबन्धादिना तिरोहितं स्थगितं तत्रार्थे सामर्थ्येवाचकत्वं यस्य तत्तमभिधातुं न शक्नोतीति। एतेनावाचकत्वदोपादसामर्थ्येदोषभेद उक्तः॥

सामान्येनाभिधायैतदेव विशेषेणाह—

धातुविशेषोऽर्थान्तरमुपसर्गविशेषयोगतो गतवान्।
असमर्थः स स्वार्थे भवति यथा प्रस्थितः स्थास्त्रौ॥४॥

धातुविशेष इति। धातुविशेषस्तिष्ठत्यादिरुपसर्गविशेषेण प्रादिना योगतः संबन्धाद्धेतोरर्थान्तरं गतिनिवृत्त्यादिलक्षणादन्यमर्थे गतवान्प्राप्तः सन्स्वार्थेऽसमर्थो भवति। तमर्थं वक्तुं न शक्नोतीत्यर्थः। यथा प्रस्थितशब्दः स्थास्त्रावर्थे। विशेषग्रहणमुभयत्र न सर्वो धातुः सर्वेणोपसर्गेण संबन्धे सत्यर्थान्तरं याति। अपि तु कश्चिदेव केनचिदेवेत्यस्यार्थस्यसूचनार्थम्। तथाहि प्रेण योगे तिष्ठत्यादिरेवार्थान्तरं याति न तु यातिप्रभृतिः। तथा तिष्ठतिरपि प्रेण योगेन त्ववादिना। आकुलनिधनादीनि कलधौतकार्तस्वरवच्छन्दान्तराण्येव। न नामोपसर्गयोग उदाहृतः॥

प्रकारान्तरेणासमर्थमाह—

इदमपरमसामर्थ्यं धातोर्यत्पठ्यते तदर्थोऽसौ।
न च शक्नोति तमर्थं वक्तुं गमनं यथा हन्ति॥५

इदमिति। इदमन्यदसामर्थ्यं धातोः, यत्तदर्थोऽसौधातुः पठ्यते न च तं निर्दिष्टमर्थेवक्तुं शक्नोति। यथा ‘हन् हिंसागत्योः’ इति पाठेऽपि। हन्तीत्युक्ते हिनस्तीति प्रतीयते न च गच्छतीति। यमकश्लेषचित्रेषु गत्यर्थोऽपि दृश्यते। अत एवाल्पोऽयं दोषः॥

पुनः प्रकारान्तरमाह—

शब्दप्रवृत्तिहेतौ सत्यप्यसमर्थमेव रूढिबलात्।
यौगिकमर्थविशेषं पदं यथा वारिधौ जलभृत्॥६॥

शब्देति। यौगिकं संबन्धजं क्वचिदर्थविशेषेऽसमर्थमेवावाचकमेव पदम्। तत्र तदर्थस्याभाव इति चेन्न। शब्दप्रवृत्तिहेतौ सत्यपि विद्यमानेऽपि। अपिर्विस्मये। चित्रमिदमित्यर्थः। यदि शब्दप्रवृत्तिहेतुत्वं कथं तर्ह्यसमर्थत्वमित्याह—रूढिबलात्प्रसिद्धिबलात्। क्वचिदेव किंचिदेव शब्दरूपं वाचकत्वेन रुढमतस्तत्रैव प्रवर्तते नान्यत्र। एवकारोऽवधारणे। असमर्थमेव न तु समर्थम्। उदाहरणं यथा वारिधौजलभृदिति। जलधारण क्रियालक्षणे प्रवृत्तिनिमित्ते सत्यपि जलभृच्छब्दो वारिधिं समुद्रमभिधातुमसमर्थः। मेघ एव तस्य रूढित्वादिति॥

भूयोऽपि भेदान्तरमाह—

निश्चीयते न यस्मिन्वस्तु विशिष्टं पदे समानेन।
असमर्थं तच्च यथा मेघच्छविमारुरोहाश्वम्॥७

निश्चीयत इति। यस्मिन्पदे तदर्थाभिधायिन्यपि विशिष्टं वस्तु न निश्चीयते तदप्यसमर्थम्। कथं न निश्चीयत इत्याह— समानत्वात्। समानस्तुल्यो मानः परिच्छेदो विवक्षितेऽन्यत्र च वस्तुनि येन पदेन तत्तथा तद्भावस्तत्त्वम्। तस्मादनेकार्थवाचकत्वादित्यर्थः यथा मेघच्छविमारुरोद्दाश्वमित्युक्त मेघानामनेकवर्णानां दर्शनान्ननिश्चयः कर्तुं पार्यते। यत्र तु निश्चयस्तत्समानार्थमपि साध्वेव। यथा—

‘लक्ष्मीकपोलसंक्रान्तकान्तपत्रलतोज्ज्वलाः। दोर्द्रुमाः पान्तु वः शौरेर्धनच्छाया महाफलाः॥’ अत्र हि शौरिः कृष्णवर्ण इति॥

इदानीमस्यैवासमर्थदोषस्यातिव्याप्तिं संहर्तुमाह—

यत्पदमभिनयसहितं कुरुतेऽर्थविशेषनिश्चयं सम्यक्।
नैकमनेकार्थतया तस्य न दुष्येदसामर्थ्यम्॥८

यदिति। यत्पदं विशेषणभूतमनेकार्यतया विवक्षितविशिष्टार्थविशेषनिश्चयं सम्यक्कुरुते। किभूतं सदभिनयसहितम्। तस्य। सामर्थ्य ‘निश्चीयते न यस्मिन्’ (६।७) इत्यनेन प्राप्तं दोषाय न भवति॥

नन्वर्थस्य शब्दो वाचको न त्वभिनयः, तत्कथं तेनार्थविशेषनिश्चयः क्रियत इत्याह—

शब्दानामत्र सदानेकार्थानां प्रयुज्यमानानाम्।
निश्चीयते हि सोऽर्थः प्रकरणशब्दान्तराभिनयैः॥९॥

शब्दानामिति। हि यस्मादत्र काव्येऽनेकार्थानां शब्दानां प्रयुज्यमानानां स विवक्षितोऽर्थः प्रकरणेन प्रस्तावेन शब्दान्तरसंनिधानेन वाभिनयेन वा निश्चीयते। तत्र प्र करणे यथा— ‘महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्’। इत्यत्र हिमवानेव महीभृदुच्यते। शब्दान्तरेण यथा— ‘कोपादेकतलाघातनिपतन्मत्तदन्तिनः। हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः॥’ अत्र दन्तिहरिणशब्दसंनिधानात्सिह एव हरिर्निश्चीयते। अभिनयने त्वर्थविशेषप्रतीतावुदाहरणं सूत्रकार एव दास्यति। यतः प्रकरणशब्दान्तरे प्रसिद्धत्वादुपमाने। अभिनयस्तु प्रस्तुतत्वादुपमेयः। तथा ताभ्यां विवक्षितार्थनिश्चयस्तथाभिनयेनापीत्यर्थः॥

तदेवोदाहरणमाह—

सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि।
एतावतीमवस्थां याता दिवसैरियन्मात्रैः॥१०॥

सेति। अत्रेयन्मात्रैतावच्छब्दौ महति स्वल्पे च वर्तेते। ततोऽभिनयेन विशेषप्रतीतिर्यथा— हे सुन्दर सा सुतनुस्तव विरहे इयन्मात्रलोचना। प्रसृत्यभिनयेन विशाललोचनेति निश्चीयते। तथैतावतीमवस्थां यातेति। अत्रोर्ध्वीकृतकनिष्ठिकाङ्गुल्या कृशत्वं प्रतीयते। दिवसैरियन्मात्रैरित्यत्र पञ्चाङ्गुलिदर्शनेन स्वल्पत्वं चेति॥

अथाप्रतीतमाह—

युक्त्या वक्ति तमर्थं न च रूढं यत्र यदभिधानतया।
द्वेधा तदप्रतीतं संशयवदसंशयं च पदम्॥११॥

युक्त्येति। तदप्रतीतं यद्युक्त्या गुणक्रियायोगेन तं विवक्षितमर्थेवक्ति प्रतिपादयति। अथ च तत्रार्थाभिधानतया वाचकत्वेन न रूढं न प्रसिद्धं तच्चाप्रतीतं द्वेधा। कथं संशयवदसंशयं वेति॥

तत्र संशयवद्यथा—

साधारणमपरेष्वपि गुणादि कृत्वा निमित्तमेकस्मिन्।
यत्कृतमभिधानतयार्थे संशयवद्यथा हिमहा॥१२

साधारणमिति। यत्पदं गुणक्रियादिनिमित्तमुद्दिश्यान्येष्वप्यर्थेषु साधारणं सदेकस्मिन्विशिष्टेऽर्थेऽभिधानतया संज्ञात्वेन कृतं न तु विशेषणत्वेन तदनेकार्थतयैकत्र निश्चेयानुत्पादनात्संशयवदप्रतीतम्। उदाहरणं यथा— हिमहेति। अत्र हिमहननलक्षणया क्रिययैतत्पदं रवौ वह्नौच साधारणम्। अभिधानतया चैकत्रापि न रूढम्। अत एकत्र

प्रयुज्यमानं संशयं कुर्वीत। अथ किमेतत् ‘शब्दप्रवृत्तिहेतौसत्यपि’ (६/६) इत्यनेनासमर्थलक्षणेन न परिहृतम्। नेत्युच्यते। यतो यदेकत्र रूढमन्यत्र तु तदर्थसद्भावेऽपि न प्रयोगार्हे तत्तस्य विषयः। इहतु यत्क्वचिदपि न रूढंयुक्त्या च तदर्थवाचकत्वं तदेकत्रार्थेऽनुचितमिति स्फुट एवं भेदः। तथा ‘निश्चीयते न यस्मिन्’ (६।७) इत्यस्याप्ययमविषयः। यतस्तत्र विशेषणपदं संशयकारि निषेध्यम्॥

अथासंशयमाह—

पदमपरमप्रतीतं यद्यौगिकरूढशब्दपर्यायैः।
कल्पितमर्थे तस्मिन्यथाश्वयोषिन्मुखार्चिष्मान्॥१३

पदमिति। अपरमिदं पदमप्रतीतं यद्यौगिकानां संबन्धजानामथ च रूढानां संज्ञात्वेन प्रसिद्धानां पर्यायैस्तस्मिन्विवक्षितेऽर्थे कल्पितमभिधानतया प्रयुक्तम्। यथा वडवामुखानलशब्दे वाच्येऽश्वयोषिन्मुखार्चिष्मानिति शब्दः। स ह्यश्विमुखसादृश्यादौर्वाग्नौ यौगिको रूढिशब्दश्च। तत्र वडवापर्यायोऽश्वयोषिदिति, अनलस्याचिष्मानिति। मुखशब्दः स्वरूपेण प्रयुक्तः। केचित्त्वश्वयोषिद्वनबहिरिति पठन्ति। एवंविधं पदं विवक्षितमर्थे निविकल्पमेव प्रत्यापयति। केवलं न तथा रूढमिति दुष्टम्। यथा माघस्य—‘तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्लास’। अल्पश्चायं दोषः, महाकविभिरपि प्रयुक्तत्वात्। अथ किमेतावसमर्थाप्रतीतदोषाववाचकत्वेन परिहृतौ। नेत्युच्यते। यतो यत्किंचिदपि तमर्थे नाभिधत्ते तदवाचकम्। इह तु पदमर्थाभिधायकमेव। केवलं पदान्तरसंनिधाना- दसामर्थ्यमरूढ्याचाप्रतीतत्वमागतमिति॥

अथ विसंधिपदमाह—

यस्यादिपदेन समं संधिर्न भवेद्भवेद्विरुद्धो वा।
तदिति विसंधि स इत्थं मन्थरया भरत आहूतः॥१४॥

यस्येति। यस्य द्वितीयपदस्यादिपदेन सार्धं संधिः संधानं न भवेद्भवन्नपि विरुद्धार्थत्वाविरुद्धो वा भवेत्तत्पदं विसंधि विरुद्धार्थोविशब्दः। ननूभयाश्रयत्वात्संधेकिमिति द्वितीयपदमेव विसंधि भण्यते, न त्वाद्यम्। सत्यम्। यतो द्वितीयपदे सत्येव विसंधित्वमायाति। ततस्तस्य तदुक्तम्। उभयत्रोदाहरणमाह—स इत्यादि। स भरतो मन्थरया कुब्जयेत्यमाहूत आकारितः। स इत्यमिति, भरत आहूत इति चासंध्युदाहरणम्। मन्ययाभरत इति तु विरुद्धसंधिनिदर्शनम्। संहितापाठे सति पदभङ्गवशान्मन्थरे याभे मैथुने रत इति प्रतीपोऽर्थो गम्यते॥

नन्वेवं विसंधिपदे दूषिते सति सर्वमेव पूर्वकविलक्ष्यं दूषितं स्यादित्याशङ्कय विशेषमाह—

तत्रासत्संधि पदं कृतमसकदयुक्तितो भवेद्दुष्टम्।
दूरं तु वर्जनीयं विरुद्धसंधि प्रयत्नेन॥१५॥

तत्रेति। तत्र द्वयोर्मध्याद्यदसंधि तदसकृत्कृतं पुनः पुनः प्रयुक्तमयुक्तितः पूर्वोत्तरपदासंश्लेषाद्दुष्टं भवति। यथा— कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी। पातां वः शंभुशर्वाण्यावितो दुःखाकुलाद्भवात्॥’ इत्यादि। विरुद्धसंधि पुनः पदं दूरमतिशयेन प्रयत्नतोवर्जनीयमेव॥

अथ विपरीतकल्पनमाह—

पूर्वार्थप्रतिपन्थी यस्यार्थः स्पष्ट एव संभवति।
विपरीतकल्पनं तद्भवति पदमकार्यमित्रमिव॥१६

पूर्वार्थेति। यस्य पदस्य पूर्वार्थप्रतिपन्थी विवक्षितार्थविरोधी स्पष्ट एवाव्याख्यात एवार्थः संभवति तद्विपरीतार्थप्रतिभासनाद्विपरीतकल्पनम्। निदर्शनमाह—अकार्यमित्त्रमिवेति। अत्र ह्यकार्यमकृत्रिमं मित्रमकारणबन्धुरित्ययमर्थो विवक्षितोऽप्यकार्ये पापे मित्रमिति विरोध्यर्थो झगित्येव प्रतिभाति। ननु विरुद्धसंधित्वेन किं न परिहृतमेतत्। न परिहृतम्। तत्र हि पदद्वयसंधिविषयं पूर्वार्थविरोधित्वम्, इह तु संध्यभावेऽपीति॥

अथ ग्राम्यमाह—

यदनुचितं यत्र पदं तत्तत्रैवोपजायते ग्राम्यम्।
तद्वक्तृवस्तुविषयं विभिद्यमानं द्विधा भवति॥१७

यदिति। यत्पदं यत्र विषयेऽनुचितमयोग्यं तत्तत्रैव ग्राम्यमुपजायते। एतदुक्तं भवति न स्वाभाविकं पुरुषस्येव शब्दस्य ग्राम्यत्वम्, अपि तु विषयभेदेन। तच्च ग्राम्यं वक्तृवस्तुविषयत्वेन भिद्यमानं सद्द्विधा द्विभेदं भवति। अत्र यद्वस्तुनि वक्तुमुचितं वक्तरि त्वनुचितं तद्वक्तृविषयं ग्राम्यम्। विपरीतं तु वस्तुविषयमिति॥

तत्र वक्तृग्राम्यमाह—

वक्ता त्रिधा प्रकृत्या नियतं स्यादधममध्यमोत्तमया।
तत्र च कश्चित्किंचिन्नैवार्हति पदमुदाहर्तुम्॥१८॥

वक्तेति। वक्ताधममध्यमोत्तमया प्रकृत्या स्वभावेन त्रिधा त्रिप्रकारो भवति। तत्राधमा हीनजातयो दासचेटादयः, मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः, उत्तमा मुनिनृपतिप्रभृतयः। अथ बालयुवबृद्धलक्षणादिकापि प्रकृतिः किं नोच्यते। तत्रापि हि परस्परं व्यवहाराद्यनौचित्यमस्त्येव। सत्यम्। अर्थविषयमेव तद्ग्राम्यत्वम्। तच्च तत्रैव परिहरिष्यते ‘ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्’ इत्यनेन। तत्र तेष्वधममध्यमोत्तमेषु वक्तृष मध्ये कश्चिद्वक्ता किंचित्पदमुदाहर्तुं वक्तुं नैवार्हति न योग्यो भवति॥

तत्र दिङ्मात्रप्रदर्शनायाह—

तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम्।
भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः॥१९॥

तत्रभवन्निति। गरीयस उत्तमान्सुरमुनिप्रभृतींस्तत्रभवन्भगवन्शब्दवाच्यानप्यधमो वक्तैत्रमादिभिः शब्दैर्वक्तुं नार्हति न योग्यो भवति। वक्तृविषयं पदमिदमनुचितम्। तथैतान्गरीयसो भट्टारकशब्दयोग्यानप्यन्य उत्तमस्वभावो राजादिर्वक्तुं नार्हति। इतिशब्दौ स्वरूपनिर्देशार्थौ। चशब्दोऽनुक्तस्वामिप्रभृतिशब्दसमुच्चयार्थः। भट्टारकेति स्वामिन्नित्यादि वेत्यर्थः॥

इदानीं वस्तुविषयं ग्राम्यमाह—

तत्रभवन्भगवन्निति नैवार्हत्युत्तमोऽपि राजानम्।
वक्तुं नापि कथंचिन्मुनिमपि परमेश्वरेशेति॥२०॥

तत्रभवन्निति। उत्तमो मुनिमन्त्रिप्रभृतिस्तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि राजानमेभिः पूजापदैर्वक्तुं नार्हति। वस्तुविषयमेतदनौचित्यम्। राजा हि परमेश्वरादिभिः शब्दैर्वाच्यो न तु तत्रभवदादिभिरिति। तथा स एवोत्तमो राजा मुनिं तपोधनं परमेश्वरेशेत्यादिभिरामन्त्रणपदेैःकदाचिदपि वक्तुं नार्हति। नियतविषया हि शब्दास्तेऽन्यत्र केलि बिना प्रयुज्यमाना अनौचित्यज्ञतां गमयेयुरिति ग्राम्यत्वं तेषाम्। आस्तां तावदधम उत्तमोऽपि नार्हतीत्यपिशब्दार्थः। दिङ्मात्रप्रदर्शनं चैतत्। विस्तरस्तु भरतादवगन्तव्यः॥

भूयोऽपि ग्राम्यविशेषमाह—

पदमिदमनुचितमपरं सभ्यासभ्यार्थवाचि सभ्येऽर्थे।
तद्धि प्रयुज्यमानं निदधाति मनस्यसभ्यमपि॥२१॥

पदमिति। इदमपरं पदमनुचितं ग्राम्यं यत्सभ्यासभ्यार्थवाचकं सत्सभ्येऽर्थे प्रयुज्यमानम्। सभायां पर्षदि वक्तुं योग्यः सभ्यस्ततोऽन्योऽसभ्योऽर्थः। कुतोऽनुचितम्। हिर्यस्मादर्थे। यतस्तत्प्रयुज्यमानं सन्मनसि चेतस्यसभ्यमप्यर्थेनिदधाति स्फुरयति। नन्वेवंविधस्य पदस्योभयार्थवाचकत्वादसभ्योऽपि प्रयोगो न स्यात्ततश्चास्य प्रयोगोच्छेद एवागतः। नैतत्। अदुष्टो ह्यर्थो दुष्टेन दूष्यते न तु दुष्टः साधुनेति॥

निदर्शनमाह—

वारयति सखी तस्या यथा यथा तां तथा तथा सापि।
रोदितितरां वराकी बाष्पभरक्लिन्नगण्डमुखी॥२२॥

वारयतीति। तस्या नायिकायाः सखी यथा यथा तां वारयति तथा तथा सा वराकीरोदितितराम्। कीदृशी। बाष्पभरेण क्लिन्नगण्डमार्द्रकपोलं मुखं यस्याः सा तथाविधा। अत्र क्लिन्नगण्डशब्दावार्द्रकपोले सभ्येऽर्थे प्रयुक्तावपि पूययुक्तपिटकत्वलक्षणमसभ्यमप्यर्थेस्कुरयतः। यतोऽसभ्यद्वययोगाच्चात्र विशेषणविशेष्यभावे सति दुष्टतरार्थत्वम्॥

अथैतदतिव्याप्तिपरिहारार्थमाह—

अर्थविशेषवशाद्वा सभ्येऽपि तथा क्वचिद्विभक्तेर्वा।
अनुचितभावं मुञ्चति तथाविधं तत्पदं संदपि॥२३॥

अर्थेति। ग्राम्यं यत्पदं तत्तथाविधं ग्राम्यं सदपि क्वचित्सभ्येऽर्थे उचितभावं ग्राम्यत्वं मुञ्चति। कुतोऽर्थविशेषवशाद्वा विभक्तेर्वा। वाशब्दौ विकल्पार्थौ। विशिष्टसभ्यार्थप्रयोगाद्वा विभक्तिविशेषाद्वेत्यर्थः। अपिर्विस्मये संभावने वा। तथाशब्दः समुच्चयार्थः। पदमेतद्दोषाभावमध्ये समुच्चीयते। क्वचिच्छब्दो विरलत्वप्रतिपादनार्थः। क्वचिदेवार्थविशेषे न सर्वत्रेत्यर्थः॥

निदर्शनमाह—

कथमिव वैरिगजानां मदसलिलक्लिन्नगण्डभित्तीनाम्।
दुर्वारापि घटासौ विशांपते दारिता भवता॥२४॥

कथमिति। निगदसिद्धम्। अत्रार्थविशेषो गजो वीररसश्च। कथं तर्हि नायिकायां बाहुल्येन दृश्यते। यथा— ‘धृतविसवलये निधाय पाणौ मुखमधिरूपितपाण्डुगण्डलेखम्।नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ॥’ कामिनीलक्षणोऽर्थविशेषोऽत्रापीति चेत्तर्हि ‘वारयति सखी तस्याः’ (६।२२) इति दुष्टत्वे कथमुदाहरणम्। पाण्डुशब्दसंनिधानादत्रानुप्रासत्वेन रम्यत्वाददोष इति नोत्तरम्। विनापि पाण्डुशब्दप्रयोगं दर्शनात्। ‘दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः’ इत्यादिषु। तस्मात्पूर्वकविलक्ष्याणां बहूनां दुष्टत्वमायाति। अत्रोच्यते— क्लिन्नशब्दसंनिधानादेव गण्डशब्दस्यासभ्यत्वं स्फुरति न त्वन्यदा। इत्येतदेव दर्शयितुमुदाहरणे तथैव प्रयुक्तवानिति। विशांपते इत्यत्र षष्ठीबहुवचनवशान्न विट्शब्देन विष्ठालक्षणोऽसभ्यार्थोमनसि निधीयते॥

भूयोऽपि ग्राम्यविशेषानाह—

मञ्जीरादिषु रणितप्रायान्पक्षिषु च कूजितप्रभृतीन्।
मणितप्रायान्सुरते मेघादिषु गर्जितप्रायान्॥२५॥

दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत।
अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि॥२६॥ (युग्मम्)

मञ्जीरादिष्विति। दृष्ट्वेति। वाच्येऽर्थे तुल्येऽप्येतेष्वेतान्धातून्पूर्वकविभिः प्रयुज्यमानान्दृष्ट्वा तेष्वेव निवघ्नीयात्। नान्यत्र। यतस्तल्लक्ष्यमेवान्यत्र व्यवस्थाकारि। मञ्जीरंनूपुरम्। आदिग्रहणाद्रशनाघण्टाभ्रमरादिसंग्रहः। रणितप्रायानिति प्रायग्रहणं सदृशार्थंवृत्तिक्वणिशिञ्जिगुञ्जत्याद्यर्थम्। प्रभृतिग्रहणं वाशत्याद्यर्थम्। सुरतग्रहणं व्यापारान्तरनिवृत्यर्थम्। मेघादिष्वित्यत्रादिग्रहणं सिंहगजाद्यर्थम्। प्रायग्रहणं ध्वनत्याद्यर्थम्। एवंप्रायानिति ये शास्त्रेषु सामान्येन पठ्यन्ते। अथ च विशेष एव दृश्यन्ते। यथा— हेषति -

रश्वेषु। भणतिः पुरुषेषु।कणतिः पीडितेषु। वातिर्वायौ। न त्वन्यत्र। नहि दृश्यते पुरुषो वातीति। एवमन्येऽपि द्रष्टव्याः। अन्यत्रैतेऽनुचिताः। मेघादिषु रणत्यादय इत्यर्थः। अपिशब्द विस्मये। चित्रमिदं यच्छब्दार्थेसमानेऽपि ग्राम्यत्वमेषां वस्तुविषयेणैव। ग्राम्यत्वे नास्मिन्दोषेपरिहृते पुनर्वचनं प्रपञ्चार्थम्॥

अथ देश्यमाह—

प्रकृतिप्रत्ययमूला व्युत्पत्तिर्नास्ति यस्य देश्यस्य।
तन्मडहादि कथंचन रूढिरिति न संस्कृते रचयेत्॥२७॥

प्रकृतीति। विशिष्टदेशे भवं देश्यम्। महाराष्ट्रादिदेशप्रसिद्धम्। देशीयं पदं संस्कृते न रचयेत्। यस्य पदस्य प्रकृतिप्रत्यवमूला व्युत्पत्तिर्न विद्यते तच्च मडहादि। तत्र मडहडहोरणघुंघुलमकंदोट्टएलहुक्कसयरुयअलंवकुसुमालवाणवालादिकं यथाक्रमं सूक्ष्मश्रेष्ठवसपटमण्डपपद्महरिद्राञ्जलिसुवर्णकारकुक्कुटचौरशक्रादिवाचकं कथंचिदपि नैव रचयेदित्यर्थः। ननु देश्यप्राकृतभेदत्वात्कथं संस्कृते प्रयोगप्रसङ्ग इत्याह— रुढिरिति। रुढिभ्रान्त्यान बध्नीयात्। कश्चिद्ध्यात्मदेशप्रसिद्धार्थं शब्दं सर्वत्रायं वाचक इति मन्यमानः प्रयुञ्जीत। ‘व्युत्पत्तिर्यस्य नास्ति’ इति वचनात्तु सव्युत्पत्तिकं देश्यं कदाचित्प्रयुञ्जीतेत्युक्तं भवति। यथा दूर्वायां छिन्नोद्भवाशब्दः। तालै भूमिपिशाचः। शिवे महानटः। वृक्षे परशुरुजः। समुद्रनवनीतं चन्द्रामृतयोः। जले मेघक्षीरशब्दः। एवमन्येऽपि॥

अथ दोषानुपसंहर्तुमाह—

इत्थं पददोषाणां दिङ्मात्रमुदाहृतं हि सर्वेषाम्।
तस्मादनयैव दिशा ततोऽन्यदभ्यूह्यमभियुक्तैः॥२८॥

इत्यमिति। इत्थमनेन पूर्वोक्तप्रकारेण पददोषाणां सर्वेषां दिगेव दिङ्मात्रं हिर्यस्मादुदाहृतं निदर्शितं तस्मादनयैव दिशान्यदपि दोषजातं स्वयमूहनीयम्॥

पूर्वमुक्तमधिकपदं वाक्यं न प्रयोक्तव्यमथ च दृश्यते क्वचिदसकृत्प्रयोगस्तदतियाप्तिसंहारमाह—

वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन।
यत्पदमसकृद्ब्रूयात्तत्पुनरुक्तं न दोषाय॥२९॥

वक्तेति। वक्ता प्रतिपादको हर्षभयादिभिराक्षिप्तचित्तः सन्यत्पदमेकस्मिन्नेवार्थे पुनः पुनर्वक्ति तत्पुनरुतत्वं दोषाय न भवति। अपि त्वलंकारायेत्यर्थः। आदिग्रहणाद्विस्मयशोकादिसंग्रहः। तथाशब्दः समुच्चये॥

निदर्शनमाह—

वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति।
चित्रं चित्रमरोदीद्धा हेति परा हते पुत्रे॥३०॥

जय जय वैरिविदारण कुरु कुरु पादं शिरःसु शत्रूणाम्।
धिग्धिक्तमरिं यस्त्वामंप्रणमन्स्वं विनाशयति॥३१॥

वदेति। जयेति। अत्र वद वदेति हर्षे। तव तवास्मीति भये। चित्रं चित्रमिति विस्मये। हा हेति शोके। जय जयेति स्तुतौ। कुरु कुर्विति त्वरायाम्। धिग्धिगिति निन्दायाम् ।अन्यन्निगदसिद्धम्॥

भूयोऽप्याह—

यत्पदमर्थेऽन्यस्मिंस्तत्पर्यायोऽथवा प्रयुज्येत।
वीप्सायां च पुनस्तन्न दुष्टमेवं प्रसिद्धं च॥३२॥

यदिति। यत्पदमन्यमर्थमभिधातुं द्विः प्रयुज्यते तत्। तथा तस्य प्रयुक्तपदस्य पर्यायो वाचको यः प्रयुज्येत। तथा वीप्साप्रतिपादनार्थं वा यत्पुनः पदं प्रयुज्येत तत्पदं न पुनरुक्तदोषदुष्टं भवति। एवं प्रसिद्धं च। इत्येवं वीप्सातुल्यरूपेण प्रकारेण यत्कविलक्ष्येषु प्रसिद्धं तदपि पुनरुक्तं न दोषाय। यथा कलकलरणरणकादिकम्। तथैव लोके प्रसिद्धत्वादिति। ननु तुल्यपदस्य तत्पर्यायपदस्य वान्यार्थत्वेन वीप्सावाचकस्य वीप्साप्रतिपादकत्वेन तदर्थत्वादेव पुनरुक्तिर्न दुष्टा तत्किमनेनेति सत्यम्। किं तु कश्चिदतिमन्दमतिः पुनः प्रयोगं दृष्ट्वा दुष्टत्वमाशङ्केतेति॥

क्रमेण निदर्शनमाह—

गजरक्तरक्तकेसरभारः सिंहोऽत्र तनुशरीरोऽपि।
दिशि दिशि करिकुलभङ्गं वारंवारं स्वरैः कुरुते॥३३॥

गजेति। प्रथमेऽत्र पादे रक्तशब्दावन्यार्थौ। एको रुधिरवाचकोऽपरस्तु रञ्जनक्रियाभिधायी। तनुशरीर इत्यत्र तनुशब्दस्तानवाभिधायी तत्पर्यायः शरीरशब्दः कायवाचकः। दिशि दिशीति वीप्सायाम्। सर्वस्यां दिशीत्यर्थः। वारंवारमिति लोकप्रसिद्धम्। अन्यदपि लोकप्रसिद्धं दृश्यते। यथा—‘मानिनीजनविलोचनपातानुष्णवाष्पकलुषान्प्रतिगृह्णन्। मन्दमन्दमुदितः प्रययौ खं भीत भीत इव शीतमयूखः॥‘तथा—‘ता किंपि किंपि ता कह विअब्बो निमीलियच्छीहिम्। कडुओसहं व पिज्जइ अहरो घेरस्स तरुणीहिम्॥’ उद्भटस्तु सर्वत्रात्र पुनरुक्ताभासालंकारत्वमाचष्टे॥

प्रकारान्तरमाह—

यच्च प्रतिपत्ता वा न प्रतिपद्येत वस्तु सकृदुक्तम्।
तत्र पदं वाक्यं वा पुनरुक्तं नैव दोषाय॥३४॥

यदिति। यद्वस्तु सकृदेकवारमुक्तं सत्प्रतिपत्ता। वाशब्दोऽवधारणे। प्रतिपत्तैव न प्रतिपद्येत। तत्र वस्तुनि वाच्ये पदं वाक्यं वा नैव दोषाय। चः समुच्चये। तच्च पदं निर्दोषपदमध्ये समुच्चीयत इत्यर्थः॥

उदाहरणमाह—

किं चिन्तयसि सखे त्वं वच्मि त्वामस्मि पश्य पश्येदम्।
ननु किं न पश्यसीदृक्पश्य सखे सुन्दरं स्त्रैणम्॥३५

किमिति। कश्चिन्मिप्रमाह—हे सखे, इदमीदृक्सुन्दरं रम्यं स्त्रैणं स्त्रीसमूहं पश्येति। तेन त्वन्यगतचित्तत्वान्न श्रुतमतः स पुनराह—किं चिन्तयसीत्यादि। अत्र पश्य पश्येति पदपौनरुक्त्यंनन्वित्यादि तु वाक्यपौनरुक्त्यम्। ननुरभिमुखीकरणे॥

भूयोऽप्याह—

अन्याभिधेयमपि सत्प्रयुज्यते यत्पदं प्रशंसार्थम्।
तस्य न दोषाय स्यादाधिक्यं पौनरुक्त्यं वा॥३६

अन्येति। प्रशंसालक्षणादर्थादन्यदभिधेयं वाच्यं यस्य पदस्य तदित्थंभूतमपि सत्प्रशंसार्थंप्रयुज्यते यतस्तस्याधिक्यं पौनरुक्त्यं वा दोषाय न भवति। अन्याभिधेयस्य हिं प्रस्तुतार्थानुपयोगिनः प्रयोगे सत्याधिक्यं स्यात्। पदान्तरेणैवोक्ततदर्थस्य तु पौनरुक्त्यं स्यात्। ननु यद्यन्याभिधेयं कथं प्रशंसार्थेप्रयोगः, प्रयोगश्चेन्नान्याभिधेयमिति। सत्यम् ।अन्याभिधेयस्यापि प्रशंसार्थगमकतास्तीति। यथा मुनिशार्दूलः, कर्णतालः, केशपाशः, नृपपुंगवः, गोनागः, अश्वकुञ्जरः। तथा चूतवृक्षः, मलयाचलः, इत्यादिषु शार्दूलादिशब्दानां व्याघ्रादिवाचित्वेनान्याभिधेयत्वेऽपि, वृक्षादीनां तु पदान्तरोक्तार्थत्वेऽपि प्रशंसार्थगमकत्वेन न दुष्टतेति॥

निदर्शनमाह—

नासीरोद्धतधूलीधवलितसकलारिकेशहस्तस्य।
अविलङ्घ्योऽयं महिमा तव मेरुमहीधरस्येव॥३७॥

नासीरेति। नासीरं सैन्यं तदुत्खातल्या धवलिताः सकलारीणां केशहस्ताःकेशकलापा येन तस्य तवाविलङ्घनीयो महिमा कस्येव। मेरुमहीधरस्येव मेरुपर्वतस्य यथा। अत्र हस्तशब्दस्य पाणिवाचकस्यान्यार्थस्यापि नाधिक्यम्। महीधरशब्दस्य च मेरुपदान्तरेण गतार्थस्य न पौनरुक्त्यम्। प्रशंसार्थत्वादिति॥

परस्परं संबद्धपदं वाक्यं प्रयुञ्जीतेति यदभ्यधायि तदतिव्याप्तिं संजिहीर्षुराह—

यस्मिन्ननेकमर्थं स्वयमेवालोचयेत्तदर्थानि।
जल्पन्पदानि तेषामसंगतिर्नैव दोषाय॥३८॥

यस्मिन्निति। यस्मिन्वाक्ये वक्तानेकार्थवाचकानि पदानि जल्पन्स्वयमेवानेकमर्थमालोचयति तेषां तद्वाक्यपदानामसंगतिर्नैव दोषाय। विवक्षावशेन हि शब्दाः प्रयुज्यन्ते। वक्ता चेत्स्वयं विलक्षणमनेकमर्थं वक्तुकामोऽन्योन्यमसंबद्धानि पदानि ब्रूते तत्किमसांगत्यम्।असंबद्धत्वाच्च दोषाशङ्का चेति स्वयंग्रहणात्परेण यत्र प्रतिपाद्यस्तत्रासंगतिर्दु-

ष्टैव। यथा— ‘आषाढी कार्तिकी माघी वचा हिङ्गु हरीतकी। पश्यतैतन्महच्चित्रमायुर्मर्माणि कृन्तति॥

उदाहरणमाह—

कुसुमभरः सुतरूणामहो नु मलयानिलस्य सेव्यत्वम्।
सुमनोहरः प्रदेशो रूपमहो सुन्दरं तस्याः॥३९॥

कुसुमभर इति। एतत्कश्चित्कामी मलयोद्याने तरुणीं दृष्ट्वा स्वयमेव पर्यालोचयति। तन्निगदसिद्धम्॥

इदानीं वाक्यदोषमाह—

वाक्यं भवति तु दुष्टं संकीर्णं गर्भितं गतार्थं च।
यत्पुनरनलंकारं निर्दोषं चेति तन्मध्यम्॥४०॥

वाक्यमिति। तुः पुनरर्थे। वाक्यं पुनः संकीर्णगर्भितगतार्थरूपं दुष्टं भवति। ननु वाक्यस्य पदात्मकत्वात्पदद्वारेणैव तद्दोष उक्त इति किं पुनरुच्यते। सत्यम्। किं तु सन्ति तादृशानि वाक्यानि येषु पददोषाभावेऽपि वाक्यस्य दुष्टता भवति। यथा— ‘गौरीक्षणं भूधरजाहिनाथः पत्त्रं तृतीयं दयितोपबीतम्। यस्याम्बरं द्वादशलोचनाख्यः काष्ठासुतः पातु सदा शिवो वः॥’ कुसुमभर इत्यादौ वाक्यार्थानामसंगतिरिह तु वाक्यानामिति विशेषः। ननूपादेयत्वादलंकारनिर्देश एवं न्याय्यः, ततोऽन्यत्सर्वमनुपादेयमिति सेत्स्यति, किं संकीर्णादिलक्षणोक्तिप्रयासेनेत्यत आह—यत्पुनरित्यादि। यदलंकारशून्यं निर्दोषं च तन्मध्यमवाक्यम्। एतदुक्तं भवति— यदि हेयोपादेयपक्षद्वयमेव स्यात्तदालंकारनिर्देश एव। यावता तृतीयं मध्यमपि वाक्यं विद्यत एवेति सर्वमेव वक्तव्यम्॥

अथ संकीर्णलक्षणमाह—

वाक्येन यस्य साकं वाक्यस्य पदानि सन्ति मिश्राणि।
तत्संकीर्णं गमयेदर्थमर्थं न वा गमयेत्॥४१॥

वाक्येनेति। यस्य वाक्यस्य वाक्यान्तरेण सह मिश्राणि पदानि भवन्ति तत्संकीर्णं नाम। किमित्येतावता तस्य दुष्टत्वमत आह—गमयेदनर्थम्। यतः कारणाद्विवक्षितमर्थं वा नगमयेत्ततस्तद्दुष्टमित्यर्थः॥

उदाहरणमाह—

किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम्।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम्॥४२॥

किमिति। काचित्सखी मानिनींवक्ति—किमिति कस्मात्पादगतं हृदयनाथं प्रियं बहुगुणं न पश्यसि। ननु मनसस्तमोरूपं कोषंमुञ्च त्यज। एनं च प्रियं कण्ठे गृहाण। इत्येवंविधो वाक्योऽत्र विवक्षितः। पदानां तु मिश्रत्वाद्दुष्टोऽर्थो गम्यते। यथा— पाद-

पतितंकोषं कस्मान्न पश्यति। एनं च कोषं बहुगुणं गृहाण।मनसोहृदयाच्च तमोरूपं हृदयनाथं वल्लभं मुञ्च त्यजेति॥

गर्भितमाह—

यस्य प्रविशेदन्तर्वाक्यं वाक्यस्य संगतार्थतया।
गद्गर्भितमिति गमयेन्निजमर्थं कष्टकल्पनया॥४३॥

यस्येति। यस्य वाक्यस्यान्यद्वाक्यं समृद्धार्थत्वेनान्तर्मध्ये प्रविशेत्तद्गर्भितं नाम। का तस्य दुष्टतेत्याह—

गमयेन्निजमर्थमभिधेयं कष्टकल्पनया क्लेशेनेति॥

निदर्शनमाद—

योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया।
रक्षैनं मृत्युमुखं प्रसह्य लघु नीयते विवशः॥४४॥

योग्य इति। अङ्गदमुखेन लक्ष्मणो रावणमाह—

हे दशवदन, योग्यो यस्ते तव पुत्रः सोऽयं मया लक्ष्मणेन प्रसह्य हठान्मृत्युमुखं विवशः परवशःसंल्लघु शीघ्रं नीयते तस्माद्रक्षैनम्। अत्र रक्षैणमिति गर्भवाक्यं यावन्मध्यान्नोद्धृत्य पृथक्कृतेतावन्मूलवाक्यं कष्टकल्पनयार्थे गमयति॥

गतार्थमाह—

यस्यार्थः सामर्थ्यादन्यार्थैरेव गम्यते वाक्यैः।
तदिति प्रबन्धविषयं गतार्थमेतत्ततो विद्यात्॥४५॥

यस्येति। यस्य वाक्यस्यार्थोऽभिधेयं प्रयोजनं वान्याभिधेयैर्वाक्यैर्गम्यते। एवकारो भिन्नक्रमे। गम्यत एवेत्येवं द्रष्टव्यम्। कथं गम्यते सामर्थ्यात्। अन्यार्थानामपि तदर्थाभिधानशक्तियुक्तत्वादित्यर्थः। तदित्येवंप्रकारं वाक्यं गतार्थम्। अथ कथमत्र नोदाहृतमित्याह—

तदेतत्प्रबन्धविषयं विपुलग्रन्थगोचरमतस्ततः प्रवन्धादेव विद्याज्जानीयात्। नान्यथाख्यातुं शक्यत इति। प्रबन्धे दर्श्यते यथा किरातार्जुनीयकाव्ये हिमाचलवर्णने—

‘मणिमयुखचयांशुकभासुराः सुरबधूपरिभुक्तलतागृहाः। दधतमुच्चशिलान्तरगोपुराःपुर इवोदितपुष्पवना भुवः॥’ इत्यनेन श्लोकेन मणयोऽप्सरस उद्यानानि च सन्त्यतः सेव्योऽयं पर्वत इति प्रतिपाद्यते। एतच्चान्यार्थैर्वाक्यान्तरैरेव कथितम्। तद्यथा—

‘रहितरलचयान्न शिलोच्चयानपलताभवना न दरीभुवः। विपुलिनाम्बुरुहा न सरिद्बधुरकुसुमान्दधतं न महीरुहः॥’ ‘दिव्यस्त्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः। पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः॥’

अत्र यदेतन्मध्यमं वाक्यमुक्तमेतत्कविना किं कर्तव्यमुत नेत्याह—

पुष्टार्थालंकारं मध्यममपि सादरं रचयेत्।
गामभ्याजेति यथा यत्किंचिदतोऽन्यथा तद्धि॥४६॥

पुष्टेति। मध्यममपि वाक्यं सादरं रचयेत्। किमविशेषेण नेत्याह—

पुष्टो हृदयावर्जकोऽर्थ एवालंकारो यस्य तत्तथाभूतम्। एतदुक्तं भवति—

यद्यपि वक्रोक्त्यादयोऽलंकारा न सन्ति तथापि तद्विवक्षितोऽर्थः सरस उत्कृष्टो वा विधेयः। यथा—

‘भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः। धैर्ये कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता॥’ अपिशब्दो मध्यवाक्यस्यादुष्टवाक्यमध्ये समुच्चयार्थः। अन्यालंकारविरहात्तत्र कस्यचिदनादरः स्यादिति सादरग्रहणम्। अथ किमित्यपुष्टार्थंमध्यं नाद्रियत इत्याह—

यत्किंचिदित्यादि। हि यस्मादतः पुष्टार्थालंकाराद्यदन्यथान्यादृशमपुष्टार्थंतद्यत्किचित्। नात्यादरणीयमित्यर्थः। किमिव। यथा—

गामभ्याजेति। ‘देवदत्त गामभ्याज शुक्लां दण्डेन’ इत्यत्र न शब्दार्थदोषो नापि कश्चिदलंकारो न चैतत्पुष्टार्थमतोऽत्र नादरो नाप्यनादरः। विषयस्त्वस्य कथासंधिसंहारौ। यथा—

‘श्रियः कुरूणामधिपस्य पालनीम्’ इत्यादि। यथा च—

‘इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे’ इत्यादि॥

अथ सर्वेषामेव शब्ददोषाणां विषयविशेषे साधुत्वं दर्शयितुमाह—

अनुकरणभावमविकलमसमर्थादि स्वरूपतो गच्छन्।
न भवति दुष्टमतादृग्विपरीतक्लिष्टवर्णं च॥४७॥

अनुकरणेति। असमर्थादिदोषैर्दुष्टमपि पदं वाक्यं वाविकलं परिपूर्णे स्वरूपतोऽनुक्रियमाणं दोषाय न भवति। अर्थभेदेन शब्दान्तरत्वादिति भावः। अनुचिकीर्षया प्रयुक्तमथ च प्रतिपादनायासमर्थेतदविकलग्रहणेन दुष्टमिति दर्श्यते। तथातादृशा भिन्नस्वरूपत्वादसदृशा विपरीता दुष्टक्रमाः क्लिष्टा लुप्ता वर्णा यस्य तत्तथाविधम्। तदपि पदं न दोषाय। यथा विकटनितम्बायाः पतिमनुकुर्वाणा सखी प्राह—

‘काले माषं संस्येमासं वदति शकाशं यश्च सकाशम्। उष्ट्रे लुम्पति रं वा षं वा तस्मै दत्ता विकटनितम्बा॥’ इत्यादि॥

इतिश्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः
षष्ठोऽध्यायः समाप्तः।
________

सप्तमोऽध्यायः।

शब्दार्थौकाव्यमित्युक्तम्। तत्र शब्दलक्षणप्रभेदालंकारदोषा अभिहिताः। इदानीमर्थस्य तान्विवक्षुराह—

अर्थः पुनरभिधावान्प्रवर्तते यस्य वाचकः शब्दः।
तस्य भवन्ति द्रव्यं गुणः क्रिया जातिरिति भेदाः॥१॥

अर्थ इति। पुनः शब्दो लक्षणविभागार्थः। वर्णसमुदायात्मकः शब्दः। अभिहितोऽर्थः पुनः। स यस्य वाचकोऽभिधायकः शब्दः प्रवर्तते। इत्यनेन त्वर्थस्य शब्दवाच्यत्वाभि-

धानेन शब्दार्थयोर्भिन्नत्वंवाच्यवाचकभावश्च दर्शितो भवति। श्रोत्रेन्द्रियग्राह्यो हि शब्दः। तदन्येन्द्रियग्राह्यस्त्वर्थः।शब्दे चोच्चारिते सत्यर्थः प्रतीयत इति। तथा शब्दार्थौकाव्यमित्युक्तम्, अतश्चक्षुर्निकोच मूर्धकम्पाङ्गुलिदर्शनादिप्रतिपादितार्थस्य काव्यत्वनिवृत्त्यर्थं प्रवर्तते यस्य वाचकः शब्द इत्युक्तम्। वाचकस्यापि वाच्यसिद्ध्यर्थे विशेषणमाह—

अभिधाप्रतीतिः सा विद्यते यत्यं स तथा। ध्वनौहि प्रतीत्यमानार्थसंभव इति। प्रतीतिश्च यस्य यो विद्यमानस्तेन यः सन्सोऽर्थः। यस्तु न विद्यते तत्र प्रतीत्यभावान्नासावर्थ इत्युक्तं भवति। लक्षणमभिधाय प्रभेदांनाह— तस्येत्यादि। इति परिसमाप्त्यर्थः। तस्यार्थस्यैतावत एव द्रव्यगुणकियाजातिलक्षणाश्चत्वारः प्रभेदाः॥

तेषां च यथोद्देशं लक्षणं वाच्यमिति कृत्वा द्रव्यस्य तावदाह—

जातिक्रियागुणानां पृथगाधारोऽत्र मूर्तिमद्द्रव्यम्।
दिक्कालाकाशादि तु नीरूपमविक्रियं भवति॥२॥

जातीति। अत्रैतेषु मध्ये द्रव्यं मूर्तिमदिन्द्रियग्राह्यमुच्यते। गुणस्य द्रव्यत्वनिवृत्त्यर्थमाह—पृथक्प्रत्यकें जातिगुणक्रियाणामाधार आश्रयः। जात्यादयो हि न कदाचिदपि द्रव्यं विना भवन्तीति। पृथग्ग्रहणं तु केवलानामपि जात्यादीनामाधारत्वे द्रव्यत्वप्रतिपत्त्वर्थम्।अन्यथा हि समुदितानामेव य आधारस्तदेव द्रव्यं स्यात्। ततश्च निष्क्रियत्वात्पापाणादीनां द्रव्यत्वं न स्यात्। मूर्तिमदिति वचनाद्दिगादीनां द्रव्यत्वं न स्यात्। अथचेप्यतेऽत आह—

दिक्कालेत्यादि। तुः पूर्वस्माद्विशेषे। मूर्तेद्रव्यमुच्यते। दिक्कालाकाशात्ममनांसि पुनर्नीरूपाण्यपि द्रव्यमित्यर्थः। तत्र नीरूपत्वादविक्रियं भवति। मूर्तिमत्पुनः सविकारमेव॥

अय द्रव्यभेदानाह—

नित्यानित्यचराचरसचेतनाचेतनैर्बहुभिः।
भेदैर्विभिन्नमेतद्द्विधा द्विधा भूरिशो भवति॥३॥

नित्येति। एतद्द्रव्यं नित्यानित्यादिभिर्भदैर्बहुभिर्द्विधा द्विधा विभिन्नं सद्भूरिशोऽनेकशो भवति। आदिग्रहणात्सवचनावचनव्यक्ताव्यक्तस्थूलसूक्ष्मनक्तंचरदिवाचरस्थलजजलजंप्रभृतयो भेदा गृह्यन्ते। बहुग्रहणमानन्त्यप्रतिपादनार्थम्। न च वाच्यं चराचरयोः सचेतनाचेतनयोश्चन विशेष इति। वृक्षादयो ह्यचरा अपि सचेतनाः॥

अथ गुणः—

द्रव्यादष्टथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः।
सहजाहार्यावस्थिकभावविशेषादयं त्रेधा॥४॥

द्रव्यादिति। द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणो भवति। जातिक्रिययोद्रव्यस्थत्वाद्रुपत्वं स्वादित्याह—

सततमिन्द्रियग्राह्यः सर्वदैव प्रत्यक्षगम्यः। नानुमेयः इत्यर्थः। जातिक्रिये तु न प्रत्यक्षगम्ये। गुणं च केचिदुत्पाद्यसहजत्वेन द्विधेति ब्रुवते तन्निरासार्थ-

माह— सहजेत्यादि। तत्र सहजो गुणो यथा—

क्षत्रिये शौर्यम्। काके काष्र्ण्यम्। आहार्योयथा—

शास्त्राभ्यासात्पाण्डित्यम्। पटे रागः। आवस्थिको यथा—

फलानां लौहित्यम्। केशानां शौक्ल्यम्॥

अथ क्रिया—

नित्यं क्रियानुमेया द्रव्यविकारेण भवति धात्वर्थः।
कारकसाध्या द्वेधा सकर्मिकाकर्मिका चेति॥५॥

नित्यमिति। धात्वर्थः क्रिया भवति। '

क्रियाभावो धातुः’ इति वचनात्। सा तु न प्रत्यक्षा। किं तु द्रव्यस्य तण्डुलादेर्विकारेण वैक्लेदादिनानुमेया। गमनादिका तु देशान्तरप्रात्यादिनेति। सा च कारकैः कर्तृकर्मादिभिः साध्या निष्पाद्या। यदुक्तम्—

सर्वकारकनिर्वर्त्या कर्तृकर्मद्वयाश्रया। आख्यातशब्दनिर्देश्या धात्वर्थः केवलं क्रिया॥’

सापि सकर्मिकाकर्मिकात्वभेदेन द्वेधा। आद्या ग्रामं गच्छतीत्यादिका। द्वितीया आस्ते शेते इत्यादिका। नियतानियतकर्मिकात्वसमुच्चयार्थश्च शब्दः। तत्राद्या कटं करोतीति। द्वितीया वहति भारम् वहति नदी॥

अथ जातिः—

भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगात्रेषु।
एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः॥६॥

भिन्नेति। बहुषु द्रव्येषु यतो यद्वशादेकाकारा समाना बुद्धिर्भवति सा जातिर्भवेदिति। कदाचित्समानगुणक्रियायोगात्सा बुद्धिर्भवेदित्याह— भिन्नेत्यादि। भिन्नौ विलक्षणौ क्रियागुणौयेषु तेष्वपि। कदाचिदत्यन्तमवयवसादृश्याद्वा सा स्यादित्याह— चित्रगात्रेष्विति। चित्रं नानारूपं काणकुशकुब्जादिकं गात्रं येषां तेषु। सा च जातिस्त्रिष्वपि द्रव्यक्रियागुणेषु समवेतेति त्र्याश्रया॥

अथासामेव द्रव्यगुणक्रियाजातीनामन्यथात्वनियममाह—

सर्वः स्वं स्वं रूपं धत्तेऽर्थो देशकालनियमं च।
तं च न खलु बध्नीयान्निष्कारणमन्यथातिरसात्॥७॥

सर्व इति। सर्वोऽर्थो द्रव्यगुणक्रियाजातिलक्षणः स्वं स्वमात्मीयं स्वभावं देशकालनियमं च धत्ते। नियते क्वापि देशे काले च नियताकारश्चार्थो भवतीत्यर्थः। ततः किमित्याह — तं चेत्यादि। चशब्दों हेतौ। खल्ववधारणे। ततः कारणात्तमर्थमन्यथा नैव बध्नीयादित्यर्थः। तत्र ये नित्या भावास्तेषां वर्तमानेन निर्देशो न्याय्यः।अतीतानां तु भूतेन। अनागतानां भविष्यत्कालेन। एवं चराचरसचेतनाचेतनादिषु द्रष्टव्यम्। देशकालनियमश्च यथा—

हिमवति हिमस्य सदा सद्भावोऽन्यत्र तु शीतकाले। एवमन्यदपि। निष्कारणग्रहणं कारणसद्भावेऽन्यथात्वस्यादुष्टत्वख्यापनार्थम्। यथा शुकसारिकादीनां व्यक्तवचनत्वे मनुष्यप्रयत्नः कारणमिति। कुतः पुनर्निष्कारणस्यान्यथाभिधानप्रसङ्ग

इत्याह—

अतिरसादिति। अतिरसहृतहृदयानां हि प्रायशो मर्यादोल्लङ्घमपि भवति। एतदुक्तम्—

गणयन्ति नापशब्दं न वृत्तभङ्ग क्षयं न वार्यस्य।रसिकत्वेनाकुलिता वेदयापतयः कुकवर्यश्व’॥

यद्यन्यथात्वं निवार्यते तर्हि कथं दिगाकाशादिष्वमूर्तेषु मूर्तधर्माः कविभिर्वर्ण्यन्ते। यथा—

निर्मला दिशः। निर्मलं नभ इति। तथा विचेतनेषु सचेतनधर्मा इत्याह—

सुकविपरम्परया चिरमविगीततयान्यथा निवद्धं यत्।
वस्तु तदन्यादृशमपि बध्नीयात्तत्प्रसिद्ध्यैव॥८॥

सुकवीति। पूर्वसुकवीनां परम्परया समूहेन चिरं बहुपूर्वकालेऽविगीततयाविगानेन निर्दोषतयेति यावत्। यद्वस्त्वन्यथा निबद्धं तदन्यादृशमपि तत्प्रसिद्ध्यैव बध्नीयात्। न त्वात्मबलेन। महाकविप्रसिद्धिरेवात्र प्रमाणमित्यर्थः॥

सप्रभेदमर्यमभिधाय सांप्रतं तदलंकारानाह—

अर्थस्यालंकारा वास्तवमौपम्यमतिशयः श्लेषः।
एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः॥९॥

अर्थस्येति। उक्तलक्षणस्यार्थस्यवास्तवादयश्चत्वारोऽलंकारा भवन्ति। चतुर्भिः प्रकारैरसौभूष्यत इत्यर्थः। नन्वन्येऽपि रूपकादयोऽलंकाराः सन्ति तत्किमिति चत्वार एवोक्ता इत्याह—

एषामेवेत्यादि। तुर्हेतौ। एषामेव सामान्यभूतानां चतुर्णोते भेदा यतस्ततो मूलभेदत्वेन नोक्ता इत्यर्थः॥

यथोद्देशस्तथा लक्षणमिति वास्तवलक्षणमाह—

वास्तवमिति तज्ज्ञेयं क्रियते वस्तुस्वरूपकथनं यत्।
पृष्टार्थमविपरीतं निरुपममनतिशयमश्लेषम्॥१०॥

वास्तवमिति। यद्वस्तुस्वरूपकथनं क्रियते तद्वास्तवमिति ज्ञेयम्। वस्तुन इदं वास्तवमिति कृत्वा। इतिशब्दोऽर्थनिर्देशे। वास्तवशब्दवाच्यः सोऽर्थ इत्यर्थः। पुष्टार्थग्रहणमपुष्टार्थनिवृत्त्यर्थम्। तेन ‘गोरपत्यं बलीवर्दस्तृणान्यत्ति मुखेन सः। मूत्रं मुञ्चति शिश्नेन अपानेन तु गोमयम्॥’ अस्य वास्तवत्वं न भवति। अविपरीतग्रहणं विवक्षितविपरीतार्थस्य वास्तवत्वनिवृत्त्यर्थम्। यथा—

‘दन्तान्निर्दलवद्रसां च जडयत्तालु द्विधा स्फोटगन्नाड्यः संघटयद्गलद्गलबिलादान्त्राणि संकोचयत्। इत्थं निर्मलकर्करीस्थमसहप्रालेवाताहतं नाधन्याः प्रचुरं पिवन्त्यनुदिनं प्रोन्मुक्तधारं पयः॥’ अत्र हि पयसः शीतलत्वामाहादकत्वं च विवक्षितम्। तद्वैपरीत्यं च प्रतीयते। निरुपमादिग्रहणं त्वनुवा

दमात्रम्। न तूपमातिशयश्लेषाणां वास्तवत्वनिवृत्तये। पृथगुपादानादेव तेषामन्यत्वसिद्धेः॥

अथवास्तवप्रभेदानाह—

तस्य सहोक्तिसमुच्चयजातियथासंख्यभावपर्यायाः।
विषमानुमानदीपकपरिकरपरिवृत्तिपरिसंख्याः॥११॥

हेतुः कारणमाला व्यतिरेकोऽन्योन्यमुत्तरं सारम्।
सूक्ष्मं लेशोऽवसरो मीलितमेकावली भेदाः॥१२॥(युग्मम्)

तस्य वास्तवस्य वक्ष्यमाणलक्षणाः सहोक्त्यादयस्त्रयोविंशतिरिमे भेदा भवन्ति॥

सांप्रतमेषां परिपाट्या लक्षणमाह—

तत्र सहोक्तिः—

भवतिं यथारूपोऽर्थः कुर्वन्नेवापरं तथाभूतम्। ·
उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा॥१३॥

भवतीति। योऽर्थः कर्तृभूतः प्रधानं यथारूपो यादृगात्मा यद्गुणयुक्तो भवति। कथं भवति— अपरमन्यमर्थे कर्मलक्षणमप्रधानं तथाभूतम्। तथाशब्दः प्रकारे। तथाप्रकारमात्मगुणसदृशं कुर्वन्नेवेति। एवकारोऽन्यकालनिवृत्त्यर्थः। कुर्वन्नेव भवति। न तु भूत्वा करोति, कृत्वा भवतीत्यर्थः। अतस्तस्य कुर्वतोऽर्थस्य तेन कार्येणार्थेन समं समाना तुल्या योक्तिः सा सह सार्धमुक्तिः सहोक्तिः। हेतुहेतुमद्भावोऽत्र सहार्थः। एकवचनमिहातन्त्रम्। तेन बहूनामप्यर्थानां सहोक्तिर्भवतीति॥

निदर्शनमाह—

कष्टं सखे क्व यामः सकलजगन्मन्मथेन सह तस्याः।
प्रतिदिनमुपैति वृद्धिं कुचकलशनितम्बभित्तिभरः॥१४॥

कष्टमिति। कश्चिद्विरही मित्रमिदमाह—

हे सखे, कष्टं क्व व्रजामः। यतस्तस्यास्तरुण्याः स्तनकलशभरो नितम्बभित्तिभरश्चानुदिनं सकलस्य जगतो यो मन्मथस्तेन सह वृद्धिमुपैति। तां प्रति कामो वर्धत इत्यर्थः। अत्र प्रधानभूतः कुचकलशनितम्बभित्तिभरोवृद्धिगुणयुक्तोऽपरमर्थे मन्मथाख्यं वृद्धियुक्तं करोतीति। ततस्तस्य तथा कुर्वतः सहोक्तिरिति लक्षणयोजना॥

अस्या एव प्रकारान्तरमाह—

यो वा येन क्रियते तथैव भवता च तेन तस्यापि।
अभिधानं यत्क्रियते समानमन्या सहोक्तिः सा॥१५॥

य इति। योऽर्थः कर्मभूतो येन कर्तृभूतेन क्रियते तस्य कर्मभूतस्य तेन कर्तृभूतेनार्थेन। कीदृशेन। तथैव तादृशधर्मयुक्तेन भवता। सहाभिधानं यत्क्रियते सान्या सहोक्तिः। वाशब्दः प्रकारार्थः। प्रकारान्तरेण सहोक्तिरित्यर्थः॥

उदाहरणमाह—

भवदपराधैः सार्धं संतापो वर्धतेतरां तस्याः।
क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन॥१६॥

भवदिति। कस्याश्चिन्मानिन्याः सखी नायकमन्यचित्तमिदमाह— तस्यास्त्वत्कान्तायाः संतापस्त्वदीयापराधैः सहातीव वर्धते। अत एव सा वराकी त्वदीयेन स्नेहे-

न सार्धंक्षयं गच्छति। अत्र संतापस्य वराकीक्षयस्य च शब्देन प्राधान्यम्। अपराधस्नेहयोस्तु तत्कारणयोरप्राधान्यम्। अत एव तृतीया। तत्त्वतस्तु भवदपराधा वर्धन्ते तस्याः संतापेन सह। भवत्स्नेह क्षीयते तया सहेति। यदा त्वेवमुच्यते तदा पूर्वैव सहोक्तिरिति। पूर्वस्यां कर्तुः प्राधान्यं क्रियमाणस्य गुणभावः। इह तु क्रियमाणस्य प्राधान्यं कुर्वतस्त्त्वप्राधान्यमिति भेदः॥

प्रकारान्तरमाह—

अन्योन्यं निरपेक्षौ यावर्थावेककालमेकविधौ।
भवतस्तत्कथनं यत्सापि सहोक्तिः किलेत्यपरे॥१७॥

अन्योन्यमिति। यावर्थौ पूर्वोक्तिसहार्थाभावात्परस्परं निरपेक्षावेकविधौसमानधर्मयुक्तौतुल्यकालं भवतस्तयोर्यत्सह कथनं सापि किल सहोक्तिरित्यपरे केचित्। किलशब्दोऽत्रारुचौ। अरुचिश्चोक्तसहार्थाभावादिति॥

निदर्शनमाह—

कुमुददलैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि।
सह कमलैर्ललनानां मानः संकोचमायाति॥१८॥

कुमुददलैरिति। प्रदोषवर्णनमेतत्सुगममेव। अत्र न कुमुददलैश्चक्रवाकाणां तैर्वा तेषां विघटना क्रियते। अपि तु कालेन। तथा न कमलैर्मानस्य मानेन वा तेषां संकोचों जन्यते। अपि तु रात्र्या, शशिना वा। औपम्यं न विवक्षितम्॥

अथसमुच्चयमाह—

यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव।
ज्ञेयः समुच्चयोऽसौ त्रेधान्यः सदसतोर्योगः॥१९॥

यत्रेति। यत्र समुच्चये एकत्राधारेऽनेकं वस्तु द्रव्यगुणक्रियाजातिलक्षणं परमुत्कृष्टं शोभनत्वेन वा स्यात्स समुच्चयः। तथा सुखावहाद्येवेति। सुखमावहत्युत्पादयतीति सुखावहम्।आदिग्रहणाद्दुःखावहादिपरिग्रहः। एवशब्दः समुच्चये। सुखावहादि च यत्रानेकं द्रव्यादि स्यात्सोऽपि समुच्चय इत्यर्थः। तथा त्रेधान्यः सदसतोर्योगः। त्रेधा त्रिविधः, अन्यः प्रकारान्तरेण समुच्चयः। कीदृशः। सदसतोर्योग इति। सतोःसुन्दरयोर्योग इत्येकः। असतोरसुन्दरयोर्योग इति द्वितीयः। सदसतोः सुन्दरासुन्दरयोर्योगस्तृतीयः। अत्र च सदसतां योग इति बहुवचनेन निर्देशे न्याय्ये द्विवचननिर्देशो द्वयोरेव सतीरसतोः सदसतोर्वासमुच्चयो, नान्यथा इति ख्यापनार्थः॥

एतदुदाहरणानि क्रमेणाह—

दुर्गं त्रिकूटं परिखा पयोनिधिः प्रभुर्दशास्यः सुभटाश्च राक्षसाः।
नरोऽभियोक्ता सचिवैः प्लवंगमैः किमत्र वो हास्यपदे महद्भयम्॥२०॥

दुर्गमिति। निगदसिद्धमेव। अत्रैकं वस्त्वत्र शब्दवाच्यम्। अनेकं तु त्रिकूटदुर्गादिकम्। शोभनत्वेनोत्कृष्टं यथा— ‘उमा वधूर्भवान्दाता याचितार इमे वयम्’ इत्यादि। अशोभनत्वेन यथा— ‘क्लीवो विरूपो मूर्खश्च मर्महा मत्सरान्वितः। चित्रं तथापि न धनी दुर्भगः खलु मानवः॥’ इति। गुणाद्युत्कर्षोदाहरणानि स्वयमूह्यानि॥

सुखावहाद्युदाहरणान्याह—

सुखमिदमेतावदिह स्फारस्फुरदिन्दुमण्डला रजनी।
सौधतलं काव्यकथा सुहृदः स्निग्धा विदग्धाश्च॥२१॥

सुखमिति। एष सुखावहद्रव्यसमुच्चय आधारोऽत्रेह शब्दवाच्यः। वस्तूनि सितरजनीप्रभृतीनि॥

तरलत्वममालिन्यं पक्ष्मलतामायतिं सुमाधुर्यम्।
आधास्यन्नस्त्रत्वं मदनस्तव नयनयोः कुरुते॥२२

तरलत्वमिति। कामस्त्वदीयनयनयोरस्त्रत्वं करिष्यंस्तरलत्वादीनि कुरुत इति तात्पर्यार्थः। एष गुणसमुच्चयः। तरलत्वादिगुणानां सुखावहानां नयनाधारे समुच्चितत्वादिति॥

प्रस्फुरयन्नधरोष्ठं गात्रं रोमाञ्चयन्गिरः स्खलयन्।
मण्डयति रहसि तरुणीः कुसुमशरस्तरलयन्नयने॥२३॥

प्रस्फुरयन्निति। एष क्रियासमुच्चयः। तरुणीष्वाधारेषु स्फुरणादिक्रियाणां समुच्चितत्वादिति। द्रव्यादीनां तूद्देशो वस्तुग्रहणेन कृतः। जातिसमुच्चयस्तु न संभवति। नह्येकत्रानेका जातिर्विद्यते। दुःखावह इत्याद्युदाहरणानि तु ‘राज्यभ्रंशो वने वासो दूरे माता पिता मृतः। एकैकमपि तद्दुःखं यदब्धिमपि शोषयेत्॥’ इत्यादीनि द्रष्टव्यानि॥

अथ सतोर्योगः—

सामोदं मधु कुसुमे जननयनानन्दने सुधा चन्द्रे।
क्वचिदपि रूपवति गुणा जगति सुनीतं विधातुरिदंम्॥२४॥

सामोद इति। स्रष्टुरिदं सुनीतं सुकृतं भद्रकं यत्सामोदकुसुमादिषु मध्वादोनां सतां योगः कृत इत्यर्थः॥

अयासतोर्योगः—

आलिङ्गिताः करीरैः शम्यस्तप्तोषपांसुनिचयेन।
मरुतोऽतिखरा ग्रीष्मे किमतोऽन्यदभद्रमस्तु मरौ॥२९॥

आलिङ्गिता इति। ग्रीष्मकाले मरुदेशे यत्करीरैः शमीवृक्षा मिश्रीभूताः। तथा तप्तानामूषपांसूनां चयैर्मिश्राः प्रचण्डा वायवः। किमतोऽन्यदपरमभद्रमशिवम्। इत्यसतोर्योगः॥

अथसदसतोर्योगः—

कमलवनेषु तुषारो रूपविलासादिशालिनीषु जरा।
रमणीष्वपि दुश्चरितं धातुर्लक्ष्मीश्चनीचेषु॥२६॥

कमलेति। सुगममेव योजनम्॥

प्रकारान्तरमाह—

व्यधिकरणे वा यस्मिन्गुणक्रिये चैककालमेकस्मिन्।
उपजायेते देशे समुच्चयः स्यात्तदन्योऽसौ॥२७

व्यधिकरण इति। वाशब्द एवशब्दार्थे भिन्नक्रमः। ततश्च यस्मिसन्मुच्चये गुणक्रिये भिन्नाधिकरणे एकस्मिन्देशे समकालमुपजायेते असौ समुच्चयस्तदन्यः। ततः पूर्वसमुच्चयादपर इत्यर्थः। गुणक्रिये एवं व्यधिकरणे इत्यवधारणं तु गुणक्रियाधिकरणयोर्वस्तुनोदेशाधिकरणमेकमेवेति कृत्वा॥

निदर्शनमाह—

विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि॥२८॥

विदलितेति। अत्र नैर्मल्यगुणस्य बलमाधारो मालिन्यस्य तु खलमुखानीति। चशब्दावेककालव सूचनार्थौ। एवं गुणसमुच्चयः॥

क्रियासमुच्चयस्तु यथा—

दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च।
अविरलविलोलजलदः कालः समुपागतश्चायम्॥२९॥

दैवादिति।अत्र वियोगक्रिया वियोगिनि स्थिता, समुपागमनक्रिया तु वर्षाकाले॥

अथ जातिः—

संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति।
लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः॥३०॥

संस्थानेति। यस्य पदार्थस्य यत्संस्थानादि यादृशं भवति तस्य यदनन्यथा तेनैव प्रकारेण कथनं सा जातिरिति योगः। यच्छन्दस्तु सर्वनामत्वात्सामान्येन सर्वसंग्रहार्थः। विशेषरूपतया हि तत्संस्थानादि कथयितुमानन्त्यान्न शक्यते। अनुक्तं तर्हि कथं कविना ज्ञातव्यमित्याह—

लोके चिरप्रसिद्धमिति। यद्यपि पुराणादिषु किंचिदुक्तं तथापि लोकरुढिवशात्सम्यक्तदवगम इति। तत्र संस्थानं स्वाभाविकं रूपम्। यथा—

एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृकानुत्पुष्णत्परितो नृमांसविघसैराघर्घरं क्रन्दतः। खर्जूरद्रुमदघ्नज्ञङ्घमसितत्वग्बद्धविष्वक्ततन्त्रायुग्रन्थि घनास्थिपञ्जरजरत्कङ्कालमालोक्यते॥’ इत्यादि। अवस्यानं स्थानकादि। यथा—

‘स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम्।’

ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥’ इत्यादि। क्रियांव्यापारी यथा—

‘प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति। मुहुरविशदवर्णो निद्रया शून्यशून्यां दददपिं गिरमन्तर्बुध्यते नो मनुष्यः॥’ इत्यादि। आदिग्रहणाद्विभववेषादिकं च द्रष्टव्यम्। यथा—

‘वल्लीवल्कपिनद्धधूसर शिराः स्कन्धे दधद्दण्डकं ग्रीवालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः। एकः कोऽपि पटच्चरं चरणयोर्बद्ध्वाध्वगः श्रान्तवानायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन्॥’ इत्यादि। अथ वास्तवस्य जातेश्च को विशेषः, यो वृक्षस्य धवस्य च। वास्तवं हि वस्तुस्वरूपकथनम्, तच्च सर्वेष्वपि तद्भेदेषु सहोक्त्यादिषु स्थितम्। जातिस्त्वनुभवं जनयति। यत्र परस्थं स्वरूपं वर्ण्यमानमेवानुभवमिवैतीति स्थितम्॥

अथैतद्विशेषप्रतिपादनार्थमाह—

शिशुमुग्धयुवतिकातरतिर्यक्संभ्रान्तहीनपात्राणाम्।
सा कालावस्थोचितचेष्टासु विशेषतो रम्या॥३१॥

शिश्विति। सा जातिः शिशुप्रभृतीनां याः कालोचिता अवस्थोचिताश्च चेष्टाः क्रियास्तास्वतिशयतो रम्या भवति॥

तत्र शिशूनां यथा—

धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः।
कृतमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं डिम्भाः॥३२॥

धूलीति। एषा शिशूनामवस्थोचिता चेष्टा। कालोचिता तु स्वयं द्रष्टव्या॥ मुग्धयुवतीनां यथा—

हरति सुचिरं गाढाश्लेषे यदङ्गकमाकुला
स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्वने।

यदतिबहुशः ष्टष्टा किंचिद्ब्रवीत्यपरिस्फुटं
रमयतितरां तेनैवासौ मनोऽभिनवा बधूः॥३३॥

हरतीति। एषा मुग्धयुवतीनामवस्थोचिता चेष्टा। मुग्धग्रहणं मुग्धयुवतीनामेव जातिसौन्दर्ये न प्रौढानां चेष्टास्विति ज्ञापनार्थमिति। कातराद्युदाहरणानि ग्रन्थान्तराद्द्रष्टव्यानि। ‘नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपामन्तः कञ्चुक्रिकञ्चुकस्य विशति त्रासादयं वामनः। त्रस्यद्भिः सहसा निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः॥’ एषा कातरचेष्टा। तिरश्चां यथा—

‘उत्खाय दर्पचलितेन सहैव रज्ज्वा कोलं प्रयत्नपरमानवदुर्ग्रहेण। आकुल्यकारि कटकस्तुरगेण तूर्णमश्चेति विद्रुतमनुद्रवतान्यमश्वम्॥’ अतर्कितोपनतभय सुखदुःखकुतूहला दिहृत चित्तानां संभ्रान्तानां यथा—

‘प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव। उत्सृष्टलीलागतिरा

गवाक्षदलक्तव्यङ्गांपदतींततान॥’ इत्यादि। हीनपात्राणां यथा— ‘उत्कृत्वोत्कृत्य कृति प्रथममथपृथुच्छोफभूयांसि मांसान्यंसस्फिक्पृष्टपिण्डाद्यवयवसुलभान्युग्रपूतीनि जगत्या। आर्तःपर्यस्तनेत्रः प्रकटितदर्शनः प्रेतरङ्कः करङ्कादङ्कस्यादस्थिसंस्थं स्थपुटगतमपि कव्यमव्यप्रमत्ति॥’ एवमन्यदपि द्रष्टव्यमिति॥

अथयथासंख्यमाह—

निर्दिश्यन्ते यस्मिन्नर्था विविधा ययैव, परिपाट्या।
पुनरपि तत्प्रतिबद्धास्तयैव तत्स्याद्यथासंख्यम्॥३४

निर्देिदयन्त इति। यत्र विविधा नानारूपा अर्था ययैव परिपाट्या येनैव क्रमेण पूर्वं निर्दिश्यन्ते पुनरपि तथैव परिपाट्या तत्प्रतिषद्धास्तेषु पूर्वनिर्दिष्टेषु विशेष्यस्य विशेषणभावैन प्रतिबद्धास्तदनुयायिनो निर्दिश्यन्ते तद्यथासंख्यं स्यात्। अर्था इति बहुवचनस्यातन्वात्वाद्द्वयोरपि ययासंख्यं भवति। ययैव परिपाट्येति परिपाटी कवेः क्रमविवक्षा गुद्यते॥

अथैतस्यैव विशेषार्थमाह—

तद्द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम्।
यत्तेषु तथैव ततो द्वयोस्तु बहुशोऽपि बध्नीयात्॥३५॥

तदिति। तद्यथासंख्यं बहुषूद्दिष्टेषु प्रधानार्थेषु यद्यस्माद्द्विगुणं त्रिगुणं वा रम्यं जायते, तस्माद्धेतोस्तेद्दिष्टेषु तथैव द्विस्त्रिर्वा बध्नीयात्। नान्यथा। द्वयोः पुनरुद्दिष्टयोर्बहुशोऽपि वध्नीयात्। सुखावहत्वादिति॥

तत्र त्रिगुणोदाहरणमाह—

कज्जलहिमकनकरुचः सुपर्णनृपहंसवाहनाः शं वः।
जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु॥३६॥

कज्जलेति। अत्र हरिहरब्रह्मास्त्रय उद्देशिनः। त्रिविशेषणयोगाच्च त्रैगुण्यम्॥

द्वयोर्वहुगुणोदाहरणमाह—

दुग्धोदधिशैलस्थौ सुपर्णवृषवाहनौ वनेन्दुरुची।
मधुमकरध्वजमथनौ पातां वः शार्ङ्गशूलधरौ॥३७॥

दुग्धेति। अत्र मधुमथनमकरध्वजमथनौद्वावुद्देशिनौ, चत्वारि तद्विशेषणानीति॥

अथभावः—

यस्य विकारः प्रभवन्नप्रतिबन्दन हेतुना येन।
गमयति तदभिप्रायं तत्प्रतिबन्धं च भावोऽसौ॥३८॥

यस्येति। यस्य विकारयतो वेनाप्रतिबद्धेनानैकान्तिकेन हेतुना विकारः कार्यं प्रभवन्नुत्वाद्यमानस्तस्य विकारवतः संवन्धिनमभिप्रायं प्रतिपत्तुर्गमयति, तथा स एव विकार-

स्तयोर्विकारहेतुविकारयोः प्रतिबन्धं च कार्यकारणभावं गमयति, असावेवंरूपो भावनामालंकारो भण्यते। भवत्यस्मादभिप्रायनिश्चय इति कृत्वा। ननु विरुद्धमिदम्। अप्रतिबद्धश्चेत्कथं हेतुरथ हेतुः कथमप्रतिबद्धो नाम। अपि च योऽप्रतिबद्धेन हेतुना जन्यते स कुतस्तत्प्रतिबन्धं गमयति, विद्यते चेत्प्रतिबन्धों न तर्ह्यप्रतिबद्धो हेतुरिति। सत्यमेतत्। किं तु महाकविलक्ष्यमेवंविधं दृश्यतेऽनुभूयते च। न च दृष्टे किंचिदनुपपन्नं नाम॥

निदर्शनमाह—

ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया॥३९॥

ग्रामेति। कस्याश्चित्तरुण्या नववञ्जुलमञ्जरीसनाथकरं ग्रामतरुणं पश्यन्त्या मुखमालिन्यमभवदित्यर्थः। वञ्जुलो वृक्षविशेषः। अत्र विकारो मुखमालिन्यं तस्य हेतुर्वञ्जुलमञ्जरीदर्शनं तच्चाप्रतिबद्धम्। सर्वदा तद्दर्शने तदभावादिति। तच्च मालिन्यं तरुण्या भावं प्रतिपत्तुः प्रकाशयति। नूनमनया तस्य तरुणस्य वञ्जुलगहने संकेतोऽकारि, कर्मान्तरव्यासङ्गाच्च न तत्र संप्राप्ता, तं च मञ्जर्या गतप्रत्यागतं विज्ञाय सुखाद्वञ्चितास्मीति खिन्ना संपन्ना ।मुखमालिन्यं चास्य मञ्जरीसनाथकरत्वस्य प्रतिबन्धं गमयति। अन्यथा कथं तद्दर्शनेन तदुत्पद्यते॥

प्रकारान्तरमाह—

अभिधेयमभिदधानं तदेव तदसदृशसकलगुणदोषम्।
अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः॥४०॥

अभिधेयमिति। यद्वाक्यं कर्तृ, तदेव पदारूढमेवाभिधेयं वाच्यमभिदधानं प्रतिपादयत्सदर्थान्तरं वक्त्रभिप्रायरूपं गमयति सोऽपरोऽन्यो भावभेदः। कीदृशमर्थान्तरम्। तेन पदारूढेनार्थेनसदृशा विलक्षणा गुणदोषा विधिप्रतिषेधादयो यस्य तत्तथोक्तम्। एतेन चान्योक्तिसमासोत्तयोर्भावत्वं निषिद्धम्। तत्र हीतिवृत्तसादृश्यं वर्तते। औपम्यभेदात्तयोरिति॥

निदर्शनमाह—

एकाकिनी यदवला तरुणी तथाह-
मस्मिन्गृहे गृहपतिश्च गतो विदेशम्।

किं याचंसे तदिह वासमियं वराकी
श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ॥४१॥

एकाकिनीति।तरुणपथिकस्य वासं याचमानस्य काचित्साभिलाषा योषिदिदं प्रकटप्रतिषेधार्थं वाक्यमाह। एतेन चोक्तपदार्थेन विलक्षणो वासानुमतिविधिलक्षणो भावोऽवगम्यते॥

अथपर्यायः—

वस्तु विवक्षितवस्तुप्रतिपादनशक्तमसदृशं तस्य।
यदजनकमजन्यं वा तत्कथनं यत्स पर्यायः॥४२॥

वस्त्विति। यद्वस्तु विवक्षितस्य मनोगतस्य वस्तुनः प्रतिपादनसमर्थेतस्य कथनं यत्स पर्यायोऽलंकारः। समासोक्त्यत्योक्त्योः पर्यायत्व निवृत्त्यर्थमाह—

असदशंतस्य। तस्य वाच्यस्ववस्तुनोऽसदृशदामतुल्यम् भावसूक्ष्मयोः पर्यायोक्तनिवृत्त्यर्थमाह—

अजनकमजन्यं विति। अयमर्गः—

प्रथमभावे विकारलक्षणेन कार्येण विकारवतोऽभिप्रायो यथा गम्यते तथा स्वजनकेन सह प्रतिबन्धश्चेति गमकस्य जन्यतास्ति। द्वितीयभावसूक्ष्मयोस्तु वस्त्वन्तरप्रतीतिजननाज्जनकतेति तेषां व्यवच्छेदकमिदं विशेषणद्वयम्। इह तु विवक्षितवस्तुप्रतिपादकं वस्तु न तथाभूतम्। वाच्यवाचकभावशून्यमित्यर्थः। द्वितीयभावे हि वक्तुरभिप्रायरूपमर्थान्तरं वाक्येन गम्यते। सूक्ष्मे तु युक्तिमदर्थोऽपि शब्दोऽर्थान्तरमुपपत्तिमद्गमयति। इह तु स एवार्थः पर्यायेणोच्यते। न त्वभिप्रायरूपार्थान्तरप्रतीतिरिति॥

उदाहरणमाह—

राजञ्जहासि निद्रां रिपुबन्दीनिबिडनिगडशब्देन।
तेनैव यदन्तरितः स कलकलो बन्दिवृन्दस्य॥४३॥

राजन्निति। राज्ञश्चाटुवचनमिदम्। अत्र बन्दीनिगडरवेण निद्रामोक्षकथनं यद्वस्तु तस्य तावन्मात्रमेव न तात्पर्यमपि तु त्वया रिपूञ्जित्वातन्नार्यो हृता इति निखिलरिपुविजयः पर्यायेण प्रतिपाद्यते॥

प्रकारान्तरमाह—

यत्रैकमनेकस्मिन्ननेकमेकत्र वा क्रमेण स्यात्।
वस्तु सुखादिप्रकृति क्रियेत वान्यः स पर्यायः॥४४॥

यत्रेति। अनेकस्मिन्नाधारे क्रमेणैकं वस्तु यत्र स्वयमेव स्यात्स पर्यायः।अथवैकस्मिन्नाधारेऽनेकं यत्र स्यात्सोऽपि पर्यायः। कीदृशमेकमनेकं वा वस्त्वित्याह—

सुखादिप्रकृति।सुखदुःखादिस्वरूपमित्यर्थः। स्यादिति कर्तुनिर्देशात्कर्मण्यप्राप्तं पर्यायत्वमाह—

क्रिय

त वेति। तदेवं चतुर्विधः पर्यायः॥

उदाहरणमाह—

कमलेषु विकासोऽभूद्भुदयति भानावुपेत्य कुमुदेभ्यः।
नमोऽपसार तमो बभूव तस्मिन्नथालोकः॥४९॥

कमलेष्विति। अत्रैको विकासोऽनेकस्मिन्वस्तुनि कुमुदकमलाख्ये क्रमेण भवति।तथैकस्मिन्नमसि तमः प्रकाशश्च।अनेकवस्तु सुखरूपम्। एते कर्तर्युदाहरणे॥

कर्मण्याह—

आच्छिद्य रिपोर्लक्ष्मीः कृता त्वया देव भृत्यभवनेषु।
दत्तं भयं द्विषद्भ्यः पुनरभयं याचमानेभ्यः॥४६॥

आच्छिद्येति। अत्रैका लक्ष्मीरनेकत्र रिपुषु भृत्येषु च कृता। तथैकस्मिन्द्विषल्लक्षणे वस्तुनि भयाभये च दुःखसुखरूपे क्रमेण दत्ते। पूर्वत्र पर्यायशब्दस्य शब्दान्तरेण कथनमर्थः। इह तु परिपाटी॥

अथ विषममाह—

विषम इति प्रथितोऽसौ वक्ता विघटयति कमपि संबन्धम्।
यत्रार्थयोरसन्तं परमतमाशङ्कय तत्सत्त्वे॥४७॥

विषम इति। असावलंकारो विषम इति प्रथितो विषमनामा प्रसिद्धो यत्रार्थयोः संबन्धं घटनां वक्ता प्रतिपादको विघटयति। कीदृशं संबन्धम्। असन्तमविद्यमानम्। ननु यद्यसंबन्धस्तर्हि स्वयं विघटित एव किमस्य विघटनीयमित्याह—

तस्य सत्त्वे सद्भावे परमतं पराभिप्रायमाशङ्क्य। परमतेन सन्तं कृत्वेत्यर्थः॥

उदाहरणमाह—

यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः।
सततं खलेषु भवतां क्व खलाः क्व च सज्जनस्तुतयः॥४८॥

य इति। केनचित्कस्यचिदग्रे उक्तममुना खलेनासौ सज्जनः स्तुत इति। स त्वसहमानस्तमाह—

अहो भवतां खलेषु दुर्जनविषये बलात्कारः पक्षपातः। यतस्तदनुकूलं ब्रूथ। कस्मात्ते तत्स्तुतिं न कुर्वन्तीत्याह—

यस्य खलस्य यो न विषयः सज्जनस्तवादिः स तं नैव कुर्यात्। किमिति खलानां शिष्टस्तवादिर्न विषय इत्याह—

क्व खलाः क्व च सज्जनस्तुतय इति। अत्र खलस्तुत्योरसन्नेव संबन्धः परमते सत्त्वाशङ्कया विघटितः। इदं चात्रोदाहरणम्—

‘निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः’ इत्यादि॥

प्रकारान्तरमाह—

अभिधीयते सतो वा संबन्धस्यार्धयोरनौचित्यम्।
यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा॥४९॥

अभिधीयत इति। यत्रार्थयोर्विद्यमानस्य संबन्धस्य केवलमनौचित्यमुच्यते सोऽन्योऽयं विषमाख्योऽलंकारः।अथवा यत्रासंभाव्यस्य भावः सत्ताभिधीयते सोऽपि विषमः। अनुचितार्थोऽत्र विषमशब्दः॥

उदाहरणमाह—

रूपं क्वमधुरमेतत्क्व चेदमस्याः सुदारुणा व्यसनम्।
इति चिन्तयन्ति पथिकास्तव वैरिवधूंवने दृष्ट्वा॥५०॥

रूपमिति। अत्र रूपव्यसनयोरर्षयोरेकत्र रिपुस्त्रियां विद्यमानयोरनौचित्यम्। यत्र हि रूपं न तत्र व्यसनम्। यदा—

‘अलभ्यशोकाभिभवेयमाकृतिः’ इति। अथवासंभाव्यस्य रूपस्यातिव्यसनस्य च भावोऽत्र कथ्यत इति साधारणमेकमुदाहरणम्॥

भूयोऽपि भेदान्तराण्याह—

तदिति चतुर्धा विषमंयत्राण्वपि नैव गुर्वपि च कार्यात्।
कार्यं कुर्यात्कर्ताहीनोऽपि ततोऽधिकोऽपि न वा॥५१॥

तदिति।तद्विषममिति वक्ष्यमाणेन प्रकारेण चतुर्धा चतुष्प्रकारम्। कथमित्याह—

यत्र कुतश्चित्कार्याद्धेतोररावपि स्वल्पमपि कार्ये कर्ता नैव कुर्यादित्येकः प्रकारः। गुर्वपि कुर्यादिति द्वितीयः। अत्र च हीनाधिकत्वं कर्ता नापेक्षते। तथा हीनोऽशक्तोऽपि कर्ता तत्कार्यं कुर्यादिति तृतीयः। तथाधिकोऽपि न वा नैव कुर्यादिति चतुर्थः। अत्र कार्ययोरणुत्वगुरुत्वापेक्षा न कर्तव्या। कार्यादिति च सर्वेषु योज्यम्। अन्यत्र वैषम्यनिरासार्थम्। अपिशब्दा विस्मयार्थाः। चशब्दः समुच्चये पूर्वापेक्षः। अत्रानौचित्यमशक्यकर्तृत्वं च विषमशब्दार्थः। विषममिति नपुंसकनिर्देशो विषमालंकारयुक्तकाव्यापेक्षयेति॥

एतदुदाहरणानि चत्वार्यार्याद्वयेनाह—

त्यद्धृत्यावयवानपि सोढुं समरे क्षमा न ते क्षुद्राः।
असिधारापथपतितं त्वं तु निहन्या महेन्द्रमपि॥५२॥

त्वं तावदाःस्वदूरे भृत्यावयवोऽपि ते निहन्त्यहितान्।
का गणना तैः समरे सोढुं शक्रोऽपि न सहस्त्वाम्॥५३॥

त्वदिति। त्वमिति। अत्राणुत्वख्यापनार्थोऽवयवशब्दः। ततोऽरावपि भृत्यावयवसहनलक्षणं कार्ये रिपवः कर्तुमशक्ताः। नृपभयाशङ्कनात्कार्याद्धेतोः। तथा गुर्वपि शक्रहननंकार्यात्सत्त्वान्नृपेण क्रियते। तथा होनोऽपि भृत्यावयवो रिपुवधं कार्येतेजस्विनृपसंपर्कात्कील्याशया वा करोति। तथाधिकोऽपि शक्रः कर्ता राजसहनलक्षणं तद्भयात्कार्यान्नकरोति॥

भूयोऽप्याह—

यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत्।
कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम्॥५४॥

यत्रेति। यत्र क्रियाविपत्तेः कर्मनाशाद्धेतोर्न केवलं तावत्कर्तुः क्रियाफलं न भवेद्यावतानश्च भवेत्तदपरमन्यद्विषममभिधीयते। दारुणार्थश्चात्र विषमशब्दः। यया—

‘विषममिदं वनम्’ इति॥

निदर्शनमाह—

उत्कण्ठा परितापोरणरणकं जागरस्तनोस्तनुता।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा॥५५॥

उत्कण्ठेति। अत्र सुखाय मृगलोचनां स्त्रियं दृष्ट्वा न केवलं सुखं न प्राप्तं यावदनर्थ उत्कण्ठादिकः प्राप्तः। क्रियाविपत्तिरत्र दर्शनच्छेदः॥

अथानुमानम्—

वस्तु परोक्षं यस्मिन्साध्यमुपन्यस्य साधकं तस्य।
पुनरन्यदुपन्यस्येद्विपरीतं चैतदनुमानम्॥५६॥

वस्त्विति। साध्यं परोक्षं वस्तु यत्र प्रथममुपन्यस्य पुनस्तस्य साधकं हेतुं कविरुपन्यस्येत्तदनुमानमलंकारः। तथापि विपरीतं चेति पूर्वे साधकोपन्यासः पश्चात्साध्यनिर्देशो यत्र तच्चानुमानम्। वास्तवलक्षणेनैवापुष्टार्थस्य परिहृतत्वादग्निरत्र धूमादित्यलंकारत्वं न भवति। साधकमिति जातावेकवचनम्। तेन द्वयोर्बहुषु च साधकेषु भवति। यथा—

‘स्पष्टाक्षरमिदं यत्नान्मधुरं स्त्रीस्वभावतः।अल्पाङ्गत्वादनिर्ह्रादि मन्ये वदति सारिका॥’ साधकग्रहणादेव वस्तुनः साध्यत्वे लब्धे साध्यग्रहणमवस्तुत्वेन सिद्धस्याभावस्यापि वस्तुत्वप्रतिपत्त्यर्थम्। यत्साध्यं तद्भावरूपमभावरूपं वा भवत्विति क्त्वाप्रत्ययेनैव पुनः शब्दार्थे लब्धे साध्यसाधकयोश्च विलक्षणत्वादन्यत्वे सिद्धे पुनरन्यपदग्रहणं बहूनां साधकानामुपन्यासे सत्यनुमानोज्ज्वलत्वख्यापनार्थम्। साधकमुपन्यस्येत्पुनश्चान्यदुपन्यस्येदिति शब्दशक्त्यैव वा भूयस्ता प्रतीतिः॥

उदाहरणमाह—

सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः।
कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम्॥५७॥

सावज्ञमिति। अत्र पादपतनं साध्यमुपन्यस्य ललाटगतयावकरसतिलकपङ्क्तिः साधकमुपन्यस्तम्॥

तथा—

वचनमुपचारगर्भं दूरादुद्गमनमासनं सकलम्। .
इदमद्य मयि तथा ते यथासि नूनं प्रिये कुपिता॥५८॥

वचनमिति। अत्र वचनादीनि पूर्वेसाधकान्युपन्यस्तानि पश्चात्कुपितत्वं साध्यमिति वैपरीत्यम्॥

अथ भेदान्तराण्याह—

यत्र वलीयः कारणमालोक्याभूतमेव भूतमिति।
भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम्॥५९॥

यत्रेति। यत्रालंकारे बलवत्तरकारणदर्शनेनान्यदिति कार्यमभूतमेवानुत्पन्नमेव भूतत्वेन भावित्वेन वा कथ्येत तत्तथेति पूर्ववद्यथापूर्वे साध्यमुपन्यस्य साधकोपन्यासः साधकं चोपन्यस्य साध्योपन्यास इत्येवं चतुर्धा तदन्यत्पूर्वोक्तादपरमनुमानम्॥

उदाहरणान्याह—

अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः॥६०॥

अविरलेति। अत्रादौवलवतः कालस्य साधकस्योपन्यासः पश्चात्साध्यस्य मरणस्य भाविनोऽपि मृता इति भूतत्वेन निर्देशः॥

तथा—

दिष्ट्या न मृतोऽस्मि सखे नूनमिदानीं प्रिया प्रसन्ना मे।
ननु भगवानयमुदितस्त्रिभुवनमानन्दयन्निन्दुः॥६१॥

दिष्ट्येति। अत्र प्रिया प्रसादस्य साध्यस्य भाविनो भूतत्वेनादावुपन्यासः पश्चाच्चन्द्रोदवस्य पलवतः साधनस्येति भूतोदाहरणम्॥

भाविन्याह—

यास्यन्ति यथा तूर्णंविकसितकमलोज्ज्वलादमी सरसः।
हंसा यथैवमेतां मलिनयति घनावली ककुंभम्॥६२॥

यास्यन्तीति। अत्र हंसगमनस्य साध्यस्यादौ भावित्वेन निर्देशः पश्चात्साधनस्य बलवतो घनावलीलक्षणस्येति॥

तथा—

वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि।
प्रियसखि तथेह न चिरादेप्यति तव वल्लभो नूनम्॥६३॥

बहतीति। अत्र पूर्व बलवतो मलयवातादिकस्य साधकस्य निर्देशः। पश्चाद्वल्लभागमनस्य साध्यस्य भावित्वेनेति॥

अथ दीपकम्—

यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति।
तद्वत्कारकपदमपि तदेतदिति दीपकं देवा॥६४॥

यत्रेति। यत्रानेकेषां वाक्यार्थानामेकं क्रियापदं भवति तद्वत्कर्त्रादिकारकपदं वा त दिव्यमुना प्रकारेण दीपकं द्वेधा।क्रियादीपकं कारकदीपकं चेत्यर्थः॥

अथास्यान्वर्थभेदान्दर्शयितुमाह—

आदौ मध्येऽन्ते वा वाक्ये तत्संस्थितं च दीपयति।
वाक्यार्थानिति भूयस्त्रिधैतदेवं भवेत्षोढा॥६५॥

आदाविति। तदिति द्विविधं दीपकं पद्यादिलक्षणवाक्यस्यादौमध्येऽन्ते वावस्थितं

वाक्यार्थान्दीपयति प्रकाशयतीत्यन्वर्थबलादादिदीपकं मध्यदीपकमन्तदीपकं चेति त्रिविधम्। एवं चैतत्षोढा षड्विधं भवेदिति॥

तदुदाहरणानि यथाक्रममाह—

कान्ता ददाति मदनं मदनः संतापमसममनुपशमम्।
संतापो मरणमहो तथापि शरणं नृणां सैव॥६६॥

कान्तेति। इदमादिक्रियादीपकम्॥

तारुण्यमाशुमदनं मदनः कुरुते विलासविस्तारम्।
स च रमणीषु प्रभवञ्जनहृदयावर्जनं बलवत्॥६७॥

तारुण्यमिति। इदं मध्यक्रियादीपकम्॥

नवयौवनमङ्गेषु प्रियसङ्गमनोरथो हि हृदयेषु।
अथ चेष्टासु विकारः प्रभवति रम्यः कुमारीणाम्॥६८॥

नवेति। इदमन्तक्रियादीपकम्॥

निद्रापहरति जागरमुपशमयति मदनदहनसंतापम्।
जनयति कान्तासंगमसुखं च कोऽन्यस्ततो बन्धुः॥६९॥

निद्रेति। इदमादिकर्तृदीपकम्॥

स्रंसयति गात्रमखिलं ग्लपयति चेतो निकाममनुरागः।
जनमसुलभं प्रति सखे प्राणानपि मङ्क्षु मुष्णाति॥७०॥

संसयतीति। इदं मध्यकर्तृदीपकम्॥

दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते।
त्रस्यन्ति वेपमानाः शयने नवपरिणया वध्वः॥७१॥

दूरादिति। इदमन्तकर्तृदीपकम्॥ एवं कर्मादिषु कारकेषूदाहरणानि द्रष्टव्यानि। अस्य च दीपकस्य प्रायोऽलंकारान्तरैः समावेश इष्यते। तथा ह्याद्ययोरुदाहरणयोः कारणमालायाः सद्भावः। तृतीयचतुर्थपञ्चमेषु वास्तवसमुच्चयस्य। षष्ठे जातेः॥

अथ परिकरः—

साभिप्रायैः सम्यग्विशेषणैर्वस्तु यद्विशिष्येत।
द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति॥७२॥

सेति। यद्द्रव्यगुणक्रियाजातिलक्षणं चतुविधं वस्तु साभिप्रायैर्विशेषणेःसम्यग्विशिष्येत स इत्यमुना प्रकारेण चतुष्प्रकारः परिकरालंकारो भवति। साभिप्रायग्रहणं वस्तुस्वरूपमात्राभिधानकल्पितानां विशेषणानां निरासार्थम्। यथा—

‘न्यस्ताक्षरां धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।’ इत्यत्र भूर्जत्वचांकुञ्जरबिन्दुशोणाः इति विशेषणं

वस्तुस्वरूपमात्राख्यापकमिति। सम्यग्ग्रहणं तु कविविवक्षिताभिप्रायाप्रत्यायकविशेषणानां निवृत्यर्थम्। तस्य भवन्ति द्रव्यमित्याद्यर्थचातुर्विघ्याभिधानादेव तत्त्वावगमे सति द्रव्यादिभेदभिनं चतुर्विध इति यत्कृतं तत्कैश्चित्क्रियाया अवस्तुत्वमुक्तं त्रिविधश्चपरिकरोऽभ्यभावि तन्मतनिरासार्थमिति॥

तदुदाहरणानि यथाक्रममाह—

उचितपरिणामरम्यं स्वादु सुगन्धि स्वयं करे पतितम्।
फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधेदानीम्॥७३॥

उचितेति। काचित्सखीमाह— हे मुग्धे स्वल्पप्रज्ञे, एवंविधं फलं तदानीमुत्सृज्येदानीं मुथैव वृथैव ताम्यसि खिद्यस इत्यर्थः। अत्र फलवस्तुनो विशेषणानि साभिप्रायाणि। अयं चाभिप्रायः— योग्यपरिपाकसुन्दरता सुस्वादुरसता सौगन्ध्यं स्वयं हस्तपतनं चैकैकमपरित्यागकारणम्।त्वया त्वेतत्सकलगुणयुतं फलं त्यजन्त्या स्वयं जानन्त्यैव महाननुतापोऽङ्गीकृत एव। तत्किमिदानीं खेदेनेति। अथवात्रेदमुदाहरणम्— ‘कर्ता द्यूतच्छलानां जतुमयभवनादीपनो योऽभिमानी कृष्णा केशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः। राजा दुःशासनादेगुरुरनुजशतस्याङ्गराजस्य मित्त्रं क्वास्ते दुर्योधनोऽसौकथय न तु रुषा द्रष्टुमभ्यागती स्वः॥ इदं द्रव्योदाहरणम्॥

कार्येषु विघ्नितेच्छं विहितमहीयोपराधसंबरणम्।
अस्माकमधन्यानामार्जवमपि दुर्लभं जातम्॥७४॥

कार्येष्विति। मानिनी नायकमिदमाह। अत्रार्जवं गुणस्तद्विशेषणान्यन्यानि साभिप्रायाणि। तथाह्यार्जवे सति मुग्धतया यदेव कार्येषु सुरतेषु युष्मदादिरिच्छति तदेव क्रियते। तथा महीयसां गुरुणामपराधानां संवरणमाच्छादनं भवति। तच्चार्जवमस्माकमधन्यानां दुष्प्रापं जातम्। अयमभिप्रायः—

नाहमृज्वी येनैतानार्जवगुणान्मयि संभाव्य मां प्रसादयसीति॥

क्रियापरिकरस्तु—

सततमनिर्वृतमानसमायाससहस्त्रसंकटक्लिष्टम्।
गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम्॥७५॥

सततमिति। अत्र जीवतीति क्रिया। तद्विशेषणान्यनिर्वृतमानसमित्यादीनि। तेषामभिप्रायो राज्यगर्हादिकः। एवं विधं राज्ञो जीवनं गर्हितमित्यर्थः॥

अथजातिपरिकरमाह—

अत्यन्तमसहनानामुरुशक्तीनामनिघ्नवृत्तीनाम्।
एकं सकले जगति स्ष्टहणीयं जन्म केसरिणाम्॥७६॥

अत्यन्तमिति। अत्र केसरिणामिति सिंहजातिः। तद्विशेषणान्यसहनानामित्यादीनि।

अभिप्रायस्तु तैः सिंहानां महत्त्वप्रतिपादनमेव। कथमन्यथा तज्जन्मनि स्पृहा भवेत्। अथवात्रैवमुदाहरणम्—

‘कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः क्षुधाक्षामो बृद्धः पिठरककपालार्दितगलः। व्रणैः पूतिक्लिन्नैः कृमिकुलचितः स्वापबहुलः शुनीमन्वेति श्वा तमपि मदयत्येव मदनः ‘॥

अथ परिवृत्तिः—

युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते यत्।
क्वचिदुपचर्येते वा प्रसिद्धितः सेति परिवृत्तिः॥७७॥

युगपदिति। यदन्योन्यं परस्परं वस्तुनोर्युगपत्समकालं दानादाने त्यागग्रहणे क्रियेते सेत्यमुना प्रकारेण परिवृत्तिर्नामालंकारो भवति। अथवा क्वचिदसती दानादाने यदुपचर्येते सा परिवृत्तिः। कथमसत उपचार इत्याह—

प्रसिद्धितः। प्रसिद्ध्या हि न किंचिदपि विरुध्यते। अन्यथा गगनादीनामपि मूर्तधर्मवर्णनमयुक्तं स्यादिति भावः l

उदाहरणे द्वाभ्यामार्यार्धाभ्यामाह—

दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः।
किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत्॥७८॥

दत्त्वेति। कश्चिद्व्यसनी वक्ति। इदमत्र दर्शनसमकालमेव प्राणक्रयस्तथा चित्तहरणसमकालमेव हृदयोत्कलिकादानमुपचरितम्॥

अथ परिसंख्या—

ष्टष्टमष्टष्टं वा सद्गुणादि यत्कथ्यते क्वचित्तुल्यम्।
अन्यत्र तु तदभावः प्रतीयते सेति परिसंख्या॥७९॥

पृष्टमिति। यद्गुणादि गुणक्रियाजातिलक्षणं वस्तु क्वचिन्नियतैकवस्तुन्याधारे विद्यमानं कथ्यते। कीदृशम् \। सत्तुल्यं साधारणम्। अन्यत्रापि विद्यमानं सदित्यर्थः। यद्येवं कस्मात्क्वचित्कथ्यत इत्याह—

अन्यत्र वस्त्वन्तरे तस्याभावः प्रतीयते। कथने कृते सति तच्च ‘क्वचित्पृष्टं कथ्यते क्वचिदपृष्टमिति द्विधा। पृष्टग्रहणं वाक्ये प्रश्नस्योपादानार्थम्। सेत्यमुना प्रकारेण परिसंख्या भण्यते॥

उदाहरणानि यथा—

किं सुखमपारतन्त्र्यं किं धनमविनाशि निर्मला विद्या।
किं कार्यं संतोषो विप्रस्य महेच्छता राज्ञाम्॥८०॥

किमिति। अत्र सुखो गुणं धनं त्वविनाशित्वगुणयुक्तं पृष्टम्। तथा किं कार्यमित्यत्र द्विजनृपकर्तृका क्रिया पृष्टा। तेषां चान्यत्रं सत्त्वेऽप्यपारतन्त्र्ये विद्यायां संतोषे महेच्छतायां च सद्भावः कथितः। अन्यत्र तदभाव एव प्रतीयते। अपारतन्त्र्यमेव सुखमित्याद्यवधारणप्रतीतेरिति। जाती तु के ब्राह्मणा येषां सत्यमित्यादि द्रष्टव्यम्॥

अपृष्टोदाहरणमाह—

कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥८१॥

कौटिल्यमिति। इदं कौटिल्यादिषु गुणेषूदाहरणम्। द्रव्यक्रियाजातिषु तु स्वयं द्रष्टव्यानि। लक्षणयोजना च कर्तव्येति॥

अथहेतुः—

हेतुमता सह हेतोरभिधानमभेदकृद्भवेद्यत्र।
सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः॥८२॥

हेत्विति। हेतुमता कार्येण सह हेतोः कारणस्य यत्राभिधानमभेदकृदभेदेन भवेत्स हेतुर्नामालंकारः। अन्येभ्योऽलंकारेभ्यः पृथग्भूतो विलक्षणः। अत्र वालंकारग्रहणमन्येभ्यः पृथग्भूत इति च परमतनिरासार्थम्। तथा हि नाम हेतुसूक्ष्मलेशानामलंकारत्वं नेष्टम्। एषां चालंकारत्वं विद्यते। वाक्यार्थालंकरणान्न चान्यत्रान्तर्भावः शक्यते कर्तुमिति॥

उदाहरणमाह—

अविरलकमलविकासः सकलालिमदश्चकोकिलानन्दः।
रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः॥८३॥

अविरलेति। अविरलानां कमलानां विकासहेतुत्वाद्वसन्तकाल एव तथोच्यते। एवं सकलालिमदश्चेत्यादावपि द्रष्टव्यम्। न त्वविरलानां कमलानां विकासो यत्रेत्यादि बहुब्रीहिः कर्तव्यः। तदा त्वभेदो न स्यात्। उदाहरणदिगियम्। इदं तूदाहरणं यथा—‘आयुर्धृतं नदी पुण्यं भयं चौरः सुखं प्रिया। वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणपूजनम्’॥

अथकारणमाला—

कारणमाला सेयं यत्र यथा पूर्वमेति कारणताम्।
अर्थानां पूर्वार्थाद्भवतीदं सर्वमेवेति॥८४॥

कारणेति। सेयं कविप्रसिद्धा कारणमाला यस्यामर्थानां मध्याद्यथापूर्वंयो यः पूर्वः स स उत्तरेषामर्थानां कारणभावं याति। कथं याति पूर्वस्मादर्थादिदमुत्तरोत्तरार्थजातं सर्वमेव भवतीत्यमुना प्रकारेणेति॥

उदाहरणमाह—

विनयेन भवति गुणवान्गुणवति लोकोऽनुरज्यते सकलः।
अभिगम्यतेऽनुरक्तः ससहायो युज्यते लक्ष्म्या॥८५॥

विनयेनेति। अत्र पूर्वः पूर्वो विनयादिरुत्तरोत्तरस्य गुणवत्त्वादेर्निमित्तम्॥

अथ व्यतिरेकः—

यो गुण उपमेये स्यात्तत्प्रतिपन्थी च दोष उपमाने।
व्यस्तसमस्तन्यस्तौ तौ व्यतिरेकं त्रिधा कुरुतः॥८६॥

य इति। उपमेये यो गुणः स्यादुपमाने च तस्य गुणस्य प्रतिपन्थी विरुद्धो यो दोषस्तौ गुणदोषौ व्यतिरेकमलंकारं त्रिधा त्रिविधं कुरुतः। कथमित्याह—व्यस्तसमस्तन्यस्ताविति। तत्र गुण एवोपमेये न्यस्यते न तूपमाने दोष इत्येकः प्रकारः। तथोपमाने दोषो न्यस्यते, न तूपमेये गुण इति द्वितीयः। एवं व्यस्तभेदौ द्वौ। तथोपमेये गुणोऽपि न्यस्यते, उपमाने च दोषोऽपीति समस्तन्यासे एक एव प्रकार इति त्रैविध्यम्। गुणश्चात्र हृदयावर्जकार्थविशेषो गृह्यते, न तु द्रव्यगुणक्रियाजातिषु प्रसिद्धः।दोषोऽपि चोक्तगुणविपक्ष एव। न चात्रौपम्यालंकारभेदत्वमाशङ्कनीयम्। सादृश्याभावात्। उपमानोपमेयपदोपादानं तु व्यतिरेकसिद्ध्यर्थम्। नह्यन्यथा संघटते गुणिनः सदोषेण सहौपम्यविघटनं व्यतिरेक इति कृत्वा॥

तदुदाहरणान्याह—

सकलङ्केन जडेन च साम्यं दोषाकरेण कीदृक्ते।
अभुजंगः समनयनः कथमुपमेयो हरेणासि॥८७॥

सकलङ्केनेति। सकलङ्केत्यार्यार्धम्। अत्रोपमाने दोषन्यास उपमेये गुणवत्ता प्रतीयते। अभुजंग इत्याद्युत्तरार्धम्। अत्रोपमाने सदोपत्वं गम्यते॥

तरलं लोचनयुगलं कुवलयमचलं किमेतयोः साम्यम्।
विमलं मलिनेन मुखं शशिना कथमेतदुपमेयम्॥८८॥

तरलमिति। अत्रोपमेये गुण उपमाने दोषश्च न्यस्त इति समस्त भेदः॥

भेदान्तरमाह—

यो गुण उपमाने वा तत्प्रतिपन्थी च दोष उपमेये।
भवतो यत्र समस्तौ स व्यतिरेकोऽयमन्यस्तु॥८९॥

य इति। सोऽयं व्यतिरेकोऽन्यः पूर्वविलक्षणः, यत्रोपमाने गुणस्य न्यास उपमेये च दोषस्य। तौ समस्तौ न्यसनीयौ। व्यस्तयोरपि केचिदिच्छन्ति। यथा—‘अभ्यर्णवर्ति दाह्यं वस्तु तदानीं विदह्याग्निः। शाम्यति यस्तेन कथं समो ननुं स्यात्प्रियाविरहः॥’ तथा—‘स्वदन्नेव तदात्वेऽपि वाधितोऽपि न शाम्यति। यः स दासेरकः क्षुद्रक्ष्वेडतुल्यः किमुच्यते॥’ तदेतद्युक्तम्। पूर्वेणैव सिद्धत्वात्। सर्वोऽप्यात्मीयधर्मोत्कर्षो गुणः। स चात्रोपमेये विद्यत इति॥

उदाहरणमाह—

क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम्।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु॥९०॥

क्षीण इति। अत्र शश्युपमानं क्षीणोऽपि वृद्धिगुणयुक्तो निर्दिष्टः। यौवनं तूपमेयं क्षयदोषयुक्तमिति॥

अथान्योन्यमाह—

यत्र परस्परमेकः कारकभावोऽभिधेययोः क्रियया।
संजायेत स्फारिततत्त्वविशेषस्तदन्योन्यम्॥९१॥

यत्रेति। यत्राभिधेययोः पदार्थयोः परस्परमन्योन्यं क्रियया हेतुभूतयैको निर्विलक्षणः कारकभावः कर्त्रादिकारकत्वं संजायेत। कीदृशः। स्फारितः परिपोषितस्तत्त्वविशेषो विशिष्टधर्मो येन स तथाभूतः। तदन्योन्यमलंकारः। परस्परग्रहणं ‘सिंहः प्रसेनमवधीत्सिंहोजाम्बवता हतः’ इत्यन्योन्यनिवृत्यर्थम्। एकग्रहणं तु ‘कृष्णद्वैपायनं पार्थः सिषेवे शिष्यवत्ततः। असावध्यापयेत्तं तु विद्यां योगसमन्विताम्॥’ इत्येतन्निवृत्त्यर्थम्॥

उदाहरणमाह—

रूपं यौवनलक्ष्म्या यौवनमपि रूपसंपदस्तस्याः।
अन्योन्यमलंकरणं विभाति शरदिन्दुसुन्दर्याः॥९२॥

रूपमिति। अत्र रूपयौवनयोरलंकरणक्रिययैकः कारकभावः कर्तृत्वलक्षणः। तेन च रूपस्य दीर्घनयनत्वादिको विशेषः स्फारितः। यौवनस्यापि वपुर्विभागश्चतुरस्रशोभादिकत्वविशेषः स्फारितः॥

अधोत्तरम्—

उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम्।
क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र॥९३॥

उत्तरेति। उत्तरवचनानि श्रुत्वा यत्र पूर्ववचनानि निश्चीयन्ते तदुत्तरम्। तथा प्रश्नाच्चोत्तरं यत्र स्यात्तदप्युत्तरम्। इति द्विधेदम्। अस्य चाद्योत्तरभेदस्यानुमानस्य चायं विशेषो यत्तत्र सामान्येन हेतुहेतुमद्भावः साध्यते। अत्र तु न हेतुहेतुमद्भावो वाक्ये निवध्यते। किं तु श्रोता श्रुत्वोत्तरवचनानि तदनुसारेण पूर्ववचनानि निश्चिनोतीति॥

उदाहरणम्—

भण मानमन्यथा मे भ्रुकुटिं मौनं विधातुमहमसहा।
शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखीभवितुम्॥९४॥

भणेति। अत्रास्मान्नायिकोक्तादुत्तरात्सखीवचनान्युच्चीयन्ते। नूनमस्याः सखीभिरुक्तं यथासापराधस्य प्रियस्य भ्रुकुटिमौनपराङ्मुखीभावान्कुरुष्वेति॥

द्वितीयोदाहरणमाह—

किं स्वर्गादधिकसुखं बन्धुसुहृत्पण्डितैः समं लक्ष्मीः।
सौराज्यमदुर्भिक्षं सत्काव्यरसामृतास्वादः॥९५॥

किमिति। इति प्रश्नादुत्तरम्। अथास्य परिसंख्यायाश्चायं विशेषो यत्तत्र नियमप्रतीतिरेतदेवात्रैव वेति। इह तु प्रश्नादुत्तरमात्रम्, न तु नियमप्रतीतिः॥

अथ सारम्—

यत्र यथासमुदायाद्यथैकदेशं क्रमेण गुणवदिति।
निर्धार्यते परावधि निरतिशयं तद्भवेत्सारम्॥९६॥

यत्रेति। यो यः समुदायो यथासमुदायम्, यो य एकदेशो यथैकदेशमित्यव्ययीभावः। यथासमुदायाद्यथैकदेशं क्रमेण निर्धार्यते पृथक्क्रियते। कथम्, परावधि। परमुत्कृष्टतममेकदेशमवधिं कृत्वा। निर्धारणं च गुणक्रियाजातिभिः संभवति। अत आह— गुणवदिति। गुणवत्त्वेन, न तु क्रियाजातिभ्याम्। क्रमेणेति चाक्रमनिवृत्त्यर्थम्। तेनेह सारत्वं न भवति यथा— ‘नदीषु गङ्गा नगरीषु काञ्ची पुष्पेषु जाती रमणीषु रम्भा। सदोत्तमत्वं पुरुषेषु विष्णुरैरावणो गच्छति वारणेषु॥’ नह्यत्र शृङ्खलाकटकवन्निर्धारणम्। कस्तर्ह्येषोऽलंकारः, साराभास इत्युच्यते। सर्वत्र हि संपूर्णलक्षणाभावे आभासत्वं कविभिर्व्यवस्थापितम्। निरतिशयग्रहणमतिशयालंकारत्वनिवृत्त्यर्थम्।अन्यरूपत्वात्तस्य। सारत्वमुत्कर्षस्तत्र चातिशयालंकाराशङ्केति। अथवाप्याक्षेपिकगुणवत्त्वनिवृत्त्यर्थमिति॥

उदाहरणम्—

राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम्।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्॥९७॥

राज्य इति। अत्र सप्ताङ्गराज्यसमुदायाद्वसुधाख्यैकदेशस्य, ततोऽपि पुरस्येत्यादि गुणवत्त्वेन निर्धारणम्॥

अथ सूक्ष्मम्—

यत्रायुक्तिमदर्थोगमयति शब्दो निजार्थसंबद्धम्।
अर्थान्तरमुपपत्तिमदिति तत्संजायते सूक्ष्मम्॥९८॥

यत्रेति। प्रतिपाद्येऽर्थे यस्य युक्तिर्न विद्यतेऽसावयुक्तिमदर्थः शब्दो यत्रात्मीयांर्थसंबद्धमर्थान्तरं गमयति प्रत्यापयति तत्सूक्ष्मम्। ननु यस्य निजार्थेऽपि युक्तिर्नास्ति तस्य कुतस्तत्संबन्धे स्यादित्याह—उपपत्तिमदिति। इतिर्हेतौ। यतोऽर्थान्तरे तत्संबद्धे घटना विद्यते। अत एव सूक्ष्मावगमकारणात्सूक्ष्ममिति नाम॥

उदाहरणमाह—

आदौ पश्यति बुद्धिर्व्यवसायोऽकालहीनमारभते।
धैर्यं व्यूढमहाभरमुत्साहः साधयत्यर्थम्॥९९॥

आदाविति। व्यवसायः कर्मण्युद्योगः। धैर्यमसंमोहः। उत्साहः शक्तिः। अत्र पुनर्बुद्धेर्दर्शनम्, व्यवसायस्यारम्भः, धैर्यस्य भरवहनम्, उत्साहस्य च साधनमचेतनत्वान्न घटते।

इत्येतेशब्दा यथोक्तेऽर्थेऽनुपपन्नाः। करणभावो ह्येषां घटते, न कर्तुत्वम्। बुद्ध्यादिसंपदे तु देवदत्तादौ सर्वमुपपद्यत इति कृत्वा। यदा बुद्धिमानर्थं पश्यति तदा बुद्धिः पश्यतीत्याद्युच्यत इति॥

अथलेशः—

दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः।
अभिधीयते तथाविधकर्मनिमित्तः स लेशः स्यात्॥१००॥

दोषीभाव इति। यस्मिन्गुणस्य दोषभावो दोषस्य च गुणभावो विधीयते। कीदृशः। तथाविधं गुणस्य दोषीकरणं दोषस्य गुणीकरणं वा कर्म निमित्तं यस्य स तथोक्तः। वाशब्द एकयोगेऽपि लेशत्वख्यापनार्थः। अन्यथा यत्रोभययोगस्तत्रैव स्यादिति॥

उदाहरणमाह—

अन्यैव यौवनश्रीस्तस्याः सा कापि दैवहतिकायाः।
मथ्नाति यया यूनां मनांसि दूरं समाकृष्य॥१०१॥

अन्येति। अत्र यौवनस्य गुणस्यापि युवचेतोमथनाद्दोषीभावः॥

अथ दोषस्य गुणभावोदाहरणमाह—

हृदयं सदैव येषामनभिज्ञं गुणवियोगदुःखस्य।
धन्यास्ते गुणहीना विदग्धगोष्ठीरसापेताः॥१०२॥

हृदयमिति। सुगममेव॥

अथावसरः—

अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणं क्रियते।
अर्थस्य तदभिधानप्रसङ्गतो यत्र सोऽवसरः॥१०३॥

अर्थान्तरमिति। तत्रार्थस्य न्यूनस्य यद्युत्कृष्टमुदात्तं सशृङ्गारादिकं वार्थान्तरमुपलक्षणं क्रियते सोऽवसरालंकारः। किमर्थं क्रियत इत्याह—तस्योत्कृष्टत्वादेरभिधानप्रसङ्गेन। उत्कृष्टत्वंसरसत्वं वा न्यूनस्याभिधातुमित्यर्थः॥

उदाहरणम्—

तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी।
निवसन्वाहुमहायश्चकार रक्षः क्षयं रामः॥१०४॥

तदिति। अत्र साक्षाद्रामवासस्तत्कृतश्च राक्षसक्षय उत्कृष्टो वनस्योत्कृष्टत्वख्यापनायोपलक्षणत्वेन कृतः॥

द्वितीयोदाहरणमाह—

सा सिप्रानाम नदी यस्यां सङ्क्षूर्मयो विशीर्यन्ते।
मज्जन्मालबललनाकुचकुम्भास्फालनव्यसनात्॥१०५॥

सेति। अत्र मालवतरुणीलक्षणं सशृङ्गारं वस्तु सरसत्वाभिधानायोपलक्षणं सिप्रायाः कृतम्॥

अथ मीलितम्—

तन्मीलितमिति यस्मिन्समानचिह्नेन हर्षकोपादि।
अपरेण तिरस्क्रियते नित्येनागन्तुकेनापि॥१०६॥

तदिति। तन्मीलितमित्यलंकारः, यत्र हर्षकोपभयाद्यमपरेण वस्तुना हर्षादितुल्यचिह्नेन स्वाभाविकेन कृत्रिमेण वा तिरस्क्रियते। अपिर्विस्मये। इतिः प्रकारे॥

उदाहरणम्—

तिर्यक्प्रेक्षणतरले सुस्निग्धे च स्वभावतस्तस्याः।
अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत॥१०७॥

तिर्यगिति। अत्र नयनयुगस्य स्वाभाविकतिर्यक्प्रेक्षणादियुक्तस्य यादृशी चेष्टा तादृश्येवानुरागयुक्तस्येत्यसौ नित्येन तेनापह्नुयते॥

मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु।
कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन्॥१०८॥

मदिरेति। अत्र कोपसदृशचिह्नेन मदिरामदेनागन्तुकेन कोपस्तिरस्क्रियते॥

अथैकावली—

एकावलीति सेयं यत्रार्थपरम्परा यथालाभम्।
आधीयते यथोत्तरविशेषणा स्थित्यपोहाभ्याम्॥१०९॥

एकेति। सेयमेकावलीनामालंकारो यत्रार्थानां परम्परा यथालाभमाधीयते न्यस्यते। कीदृशी सा। यो य उत्तरोऽर्थः स स पूर्वस्य विशेषणं यस्यां सा तथाविधा। एतेन समुच्चयस्यैकावलीत्वं निषिद्धम्। कथं यथोत्तरविशेषणा, कथं वाधीयत इत्याह— स्थित्यपोहाभ्यामिति। स्थितिर्विधिरपोहो व्यवच्छेदस्ताभ्यामिति॥

यथाक्रममुदाहरणे—

सलिलं विकासिकमलं कमलानि सुगन्धिमधुसमृद्धानि।
मधु लीनालिकुलाकुलमलिकुलमपि मधुररणितमिह॥११०॥

सलिलमिति। अत्र सलिलाद्यर्थपरम्परा यथोत्तरकमलादिविशेषणा यथालाभं विधिमुखेन निर्दिष्टा॥

नाकुसुमस्तरुरस्मिन्नुद्याने नामधूनि कुसुमानि।
नालीनालिकुलं मधु नामधुरक्वाणमलिवलयम्॥१११॥

नेति। अत्र निषेधरूपेण तर्वादिकार्यपरम्परा यथोत्तरकुसुमादिविशेषणा निहितेति॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः

सप्तमोऽध्यायः समाप्तः।

______________________

अष्टमोऽध्यायः।

वास्तवं सप्रभेदमाख्यायेदानीमौपम्यमाह—

सम्यक्प्रतिपादयितुं स्वरूपतो वस्तु तत्समानमिति।
वस्त्वन्तरमभिदध्याद्वक्ता यस्मिंस्तदौपम्यम्॥१॥

सम्यगिति। यत्र प्रस्तुतं वस्तुस्वरूपविशेषेण सम्यगनन्यथा प्रतिपादयितुं वस्त्वन्तरमप्रस्तुतं वक्ताभिदध्यात्तदौपम्यं नामालंकारः। ननु वस्त्वन्तरोक्त्या कथं वस्तुस्वरूपं विशेषतः प्रतिपाद्यत इत्याह—तत्समानमिति। इतिहेतौ। यतो वस्त्वन्तरं प्रकृतवस्तुसदृशमतस्तेन तत्सम्यक्प्रतिपाद्यते। ‘सर्वः स्वं स्वं रूपम्’(७।७) इत्यादिना सम्यक्त्वे लब्धे सम्यग्ग्रहणं विशिष्टसम्यक्त्वार्थम्। अभिदध्यादिति। कर्तृपदेनैव वक्तरि लब्धे वक्तृग्रहणं रक्तविरक्तमध्यस्थादिवक्तृविशेषप्रतिपत्त्यर्थम्। तेन यो यादृशो वक्ता येन स्वरूपेण वक्तुमिच्छति तादृशमेव वस्त्वन्तरमभिदध्यात्तदौपम्यम्। रक्तो यथा— ‘अमृतस्यैव कुण्डानि सुखानामिव राशयः। रतेरिव निधानानि योषितः केन निर्मिताः॥’ इत्यादि। विरक्तो यथा—‘एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च नरं न च विश्वसन्ति। तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः॥’ इत्यादि। मध्यस्थस्तु स्वरूपमात्रं वक्ति यथा— ‘दर्शनादेव नटवद्धरन्ति हृदयं स्त्रियः। सुविश्वस्तेऽप्यविश्वस्ता भवन्ति च चरा इव॥’ यत्रोपमानोपमेयभावः श्रौतः प्रातीतिको वा तदौपम्यमिति तात्पर्यम्। तेन संशयादयोऽप्येतद्भेदा एवेति॥

सामान्यमभिधाय तद्भेदानाह—

उपमोत्प्रेक्षारूपकमपह्नुतिः संशयः समासोक्तिः।
मतमुत्तरमन्योक्तिः प्रतीपमर्थान्तरन्यासः॥२॥

उभयन्यासभ्रान्तिमदाक्षेपप्रत्यनीकदृष्टान्ताः।
पूर्वसहोक्तिसमुच्चयसाम्यस्मरणानि तद्भेदाः॥३॥

उपमेति। उभयेति। तस्यौपम्यस्योपमादय एते एकविंशतिर्भेदाः॥

यथोद्देशस्तथा लक्षणमिति पूर्वमुपमालक्षणमाह—

उभयोः समानमेकं गुणादि सिद्धं भवेद्यथैकत्र।
अर्थेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा॥४॥

उभयोरिति। उभयोः प्रस्तावादुपमानोपमेययोः समानं साधारणमेकमद्वितीयं गुणादि गुणसंस्थानादि यथा येन प्रकारेणैकत्रोपमाने सिद्धं प्रतीतम्, तथा तेनैव प्रकारेणान्यत्रार्थ उपमेये साध्यत इत्येवं प्रकारोपमा। सा च त्रेधा— वाक्योपमा, समासोपमा, प्रत्ययोपमेति। अभिधानस्य मानभेदेनेत्यत्र चैकत्रेति सामान्योक्तावपि ‘प्रसिद्धमुपमानम्’ इति न्यायादुपमानं लभ्यते॥

अथैतद्भेदत्रयमाह—

वाक्योपमात्र षोढा तत्र त्वेका प्रयुज्यते यत्र।
उपमानमिवादीनामेकं सामान्यमुपमेयम्॥५॥

वाक्येति। अत्रोपमायां वाक्योपमा तावत्षट्प्रकारेति। एतच्च ब्रुवता वाक्योपमा प्रथमेत्युक्तं भवति। तेन पृथगुद्देशाभावो न दोषाय। तत्र तासु षट्सु मध्यादियमेका प्रथमा, यस्यामुपमानःप्रयुज्यते। तथेवादीनामिववत्सदृशयथातुल्यनिभादीनां साम्यवाचकानां मध्यादेकम्। तथा सामान्यमुपमानोपमेययोः साधारणधर्माभिधायकं पदम्। तथोपमेयमिति चतुष्टयम्। तुशब्दो लक्षणान्तरेभ्योऽस्य विशेषणार्थः। ननु यदीवादीनामेकमेव प्रयुज्यते कथं तर्हि ‘दिने दिने सा परिवर्धमाना’ इत्यादिष्वनेकेषां प्रयोगः। सत्यम्। औपम्यानामनेकत्वात्। अत्र ह्यनेकं कारकमुपमानोपमेयतया निर्दिष्टम्। यथा— ‘ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम्। शरैरुस्रैरिवादीच्यानुद्धरिष्यत्रसानिव॥’ अत्रेवादीनामपि बहूनां प्रयोगो न्याय्यः। एवं हि परिपूर्णमौपम्यं भवति। यत्र तु बहूनामप्यौपम्य एक एवेवादिः प्रयुज्यते तत्र गतार्थत्वादप्रयोगो बोद्धव्यः। यथा—‘सा भूधराणामधिपेन तस्याम्’ इत्यादौ। अत्र हि नीताविव मेनायाम्, उत्साहगुणेनेव नगेन, संपदिव पार्वती जनितेति व्याख्यानम्। इत्यलं विस्तरेण॥

उदाहरणमाह—

कमलमिव चारुवदनं मृणालमिव कोमलं भुजायुगलम्।
अलिमालेव सुनीला तवैव मदिरेक्षणे कवरी॥६॥

कमलमिति। अत्र कश्चित्कामी मुखादिकं वस्तु सम्यक्स्वरूपतः कमलादिगतचारुत्वादियुक्तं प्रतिपादयितुं वस्त्वन्तरं कमलादिकं तत्समानत्वात्प्रायुक्तवानित्यौपम्यम्। तथोभयोः कमलमुखयोः समानमेकं चारुत्वं यथैकत्र कमले सिद्धं तथोपमेये मुखे साध्यत इत्युपमालक्षणम्। तथा कमलमुपमानम्, इवशब्दः, चार्विति सामान्यम्, वदनमुपमेयम्, इति चतुष्टयं समस्तमिति वाक्योपमालक्षणम्। एवमन्यत्रापि लक्षणयोजना कर्तव्या॥

अथ द्वितीयामाह—

इयमन्या सामान्यं यत्रेवादिप्रयोगसामर्थ्यात्।
गम्येत सुप्रसिद्धं तद्वाचिपदाप्रयोगेऽपि॥७॥

इयमिति। इयमन्या द्वितीया वाक्योपमा, यस्यां सामान्यं साधारणो धर्मस्तद्वा-

निषदाप्रयोगेऽपि गम्यते।नन्वप्रयुक्तस्य पदस्य कथमर्थोगम्यत इत्याह— इवादिप्रयोगसामर्थ्यात्। इवादयो हिकस्य सादृश्यप्रतिपादनाय प्रयुज्यन्ते। यदि च प्रयुक्तैरतैरसौन गम्यते तदानर्थकस्तेषांप्रयोगः स्यात्। यद्यैवमुच्छेद एवं सामान्यपदप्रयोगस्येताह—सुप्रसिद्धमिति। लोकप्रसिद्धमेव गम्यते नान्यदिति॥

उदाहरणमाह—

शशिमण्डलमिव वदनं मृणालमिव भुजलतायुगलमेतत्।
करिकुम्भाविव च कुचौ रम्भागर्भाविवोरूते॥८॥

शशीति। अत्र यथाक्रमं चारुत्वकोमलत्वोत्तुङ्गत्वगौरत्वान्यनुक्तान्यपि प्रसिद्धत्वात्प्रतोयन्ते॥

तृतीयामाह—

वस्त्वन्तरमस्त्यनयोर्न सममिति परस्परस्य यत्र भवेत्।
उभयोरुपमानत्वं सक्रममुभयोपमा सान्या॥९॥

वस्त्वन्तरमिति। अनयोर्वस्तुनोर्वस्त्वन्तरं समं तुल्यं नास्तीत्यतः कारणाद्यस्यामुभयोरुपमानोपमेययोः क्रमेण परस्परमुपमानत्वंस्यात्सोभयोपमा। अन्या पूर्वविलक्षणा। इयमपि सामान्यस्य प्रयोगाप्रयोगाभ्यां द्विविधा॥

प्रयोगोदाहरणं स्वयमाह—

शशिमण्डलमिव विमलं वदनं ते मुखमिवेन्दुबिम्बमपि।
कुमुदमिव स्मितमेतत्स्मितमिव कुमुदं च धवलमिदम्॥१०॥

शशिमण्डलमिति। अप्रयोगे तु यथा—‘खमिव जलं जलमित्र खं हंस इव शशी शशाङ्कइव हंसः। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि’॥

चतुर्थीमाह—

सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदृशमिति।
स्वस्य स्वयमेव भवेदुपमानं चोपमेयं च॥११॥

मेति। न विद्यतेऽन्वयो वस्त्वन्तरानुगमो यस्यामित्यनन्वयसंज्ञा सोपमा, यस्यामेकमेव वस्तु स्वयमेवोपमानमुपमेयं चात्मन एव भवेत्। कस्मात्, अनन्यसदृशमिति हेतोः। ननु यद्यन्यस्यात्रानुगमाभावस्तत्कथमौपम्पलक्षणमुपमालक्षणं वा घटते। नैष दोषः। यतोऽनन्यसमत्वंलक्षणं वस्तुनः सम्यक्स्वरूपं च यदा युगपद्विवक्षति वक्ता तदा सम्यक्त्वरुपप्रतिपादनं वस्त्वन्तराभिधानं विना न घटते। तदभिधाने चानन्यसमत्वं दुर्घटमिति कृत्वैकमेव वस्तूपमानोपमेयरूपतयाविभिद्य वक्ति। अतः सामान्यमौपम्यलक्षणमुपमालक्षणं चास्ति। वस्त्वन्तरानन्ववश्चेत्यनन्वयोपमालक्षणम्॥

सुश्लिष्टमुदाहरणमाह—

आनन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु।
इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसरा॥१२॥

आनन्देति। है करिकरोरु, त्वमिवत्वं सरसि गच्छसोत्याद्यन्वयः॥

पञ्चमीमाह—

सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम्।
तावद्भिस्तादृग्भिः स्यादुपमानं तथा यत्र॥१३॥

सेति। यैर्यादृशैर्यत्संख्यैश्चविशेषणैर्युक्तमुपमेयम्, तादृग्भिरेव तत्संख्यैश्चोपमानमपि युक्तं यस्यां सा कल्पितोपमाख्या। कल्पिता चासावुपमा च तथाविधाख्या संज्ञा यस्या इति। विशेषणैरित्यतन्त्रम्। तेनैकस्य द्वयोश्च संग्रहः। किं तु बहुभिरौज्ज्वल्यं भवति॥

उदाहरणम्—

मुखमापूर्णकपोलं मृगमदलिखितार्धपत्रलेखं ते।
भाति लसत्सकलकलं स्फुटलाञ्छनमिन्दुबिम्बमिव॥१४॥

मुखमिति। अत्र मुखमुपमेयं परिपूर्णकपोलं मृगमदलिखितार्धपत्रलेखमिति विशेषणद्वयोपेतम्। शशिबिम्बमुपमानमपि स्फुरत्षोडशकलं स्फुटकलङ्कं चेति॥

षष्ठीमाह—

अनुपममेतद्वस्त्वित्युपमानं तद्विशेषणं चासत्।
संभाव्य सयद्यर्थं या क्रियते सोपमोत्पाद्या॥१५॥

अनुपममिति। उत्पाद्यत इत्युत्पाद्या। उत्पाद्यानामोपमा सा, या क्रियते। किं कृत्वा। उपमानमुपमानविशेषणं च संभाव्य संभवि कृत्वा। कुतः। अनुपममुपमानविकलमेतद्वस्त्विति कारणात्। कीदृशम्। अपमानसदविद्यमानम्। असतः कथं संभव इत्याह— सयद्यर्थंयदिचेदादिशब्दसहितमित्यर्थः। उपलक्षणं च सयद्यर्थशब्दः। यस्मादभूतपूर्वासंभवादिप्रयोगेऽपि भवति। यथा माघस्य—‘मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः। भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वांरुचमम्बुराशेः॥’ इत्यादि॥

उदाहरणम्—

कुमुददलदीधितीनां त्वक्संभूय च्यवेत यदि ताभ्यः।
इदमुपमीयेत तया सुतनोरस्याः स्तनावरणम्॥१६॥

कुमुदेति। अत्र कुमुददलदीधितित्वगुपमानम्, तद्विशेषणं च्यवनं च द्वयमपि सयद्यर्थं संभावितम्। तथा— ‘सुवृत्तमुक्ताफलजालचित्रितं भवेदखण्डं यदि चन्द्रमण्डलम्। श्रमाम्बुबिन्दूत्करराजितं ततो मुखं रतावित्युपमीयते प्रिये॥’ ‘ततो मुखं तेन तवोपमीयते’

नि वापाठः। अत्र पूर्णचन्द्रमण्डलस्य सुवृत्तमुक्ताफलजालचित्रितत्वं विशेषणमेव संभावितमिति॥

एवं वाक्योपमां षड्विधामभिधायेदानीं समासोपमामाह—

सामान्यपदेन समं यत्र समस्येत तूपमानपदम्।
अन्तर्भूतेवार्थासात्र समासोपमा प्रथमा॥१७॥

सामान्येति। उपमानपदं चन्द्रकमलादिकं सामान्यपदेन सुन्दरशब्दादिना यत्र समस्येन सा समासोपमासुमध्ये प्रथमा। तुर्विशेषे। विशेषस्तु वाक्योपमातः समासकृत एव।यद्युपमा कथमिवादिपदं न श्रूयत इत्याह— अन्तर्भूत इवार्थ औपम्यं यस्याः सा तवोक्ता॥

उदाहरणम्—

मुखमिन्दुसुन्दरमिदं विसकिसलयकोमले भुजालतिके।
जवनस्थली च सुन्दरि तव शैलशिलाविशालेयम्॥१८॥

मुखमिति। अत्रेन्दुरिव सुन्दरमित्यादि विग्रहः॥

प्रकारान्तरमाह—

पदमिदमन्यपदार्थे समस्यतेऽथोपमेयवचनेन।
यस्यां तु सा द्वितीया सर्वसमासेति संपूर्णा॥१९॥

पदमिति। इदं पूर्वोक्तं सामान्योपमानसमासपदमथानन्तरमुपमेयवचनेनान्यपदार्थे यत्र समस्यते सा सर्वपदसमासात्संपूर्णा समासोपमा द्वितीया॥

उदाहरणम्—

शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे।
दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः॥२०॥

शरदिति। अत्र शरदिन्दुशब्दसुन्दरशब्दयोः पूर्ववत्समासं कृत्वा ततो मुखेनोपमेयेन सहनायिकायामन्यपदार्थे समासः॥

भूयःप्रकारान्तरमाह—

उपमानपदेन समं यत्र समस्येत चोपमेयपदम्।
अन्यपदार्थे सोदितसामान्येवाभिधेयान्या॥२१॥

उपमानेति। उपमानपदेन सह यत्रोपमेयपदमन्यपदार्थेन सह समस्यते सान्या समानोपमा। यः पुनरर्थेभिन्नक्रमः। सा पुनः समासेनोक्तौसामान्यमिवार्थश्च यस्यां तथोक्ता॥

उदाहरणम्—

नवविकसितकमलकरे कुवलयदललोचने सितांशुमुखि।
दहसि मनो यत्तत्किं रम्भागर्भोरु युक्तं ते॥२२॥

नवेति। अत्र नवविकसितकमलमिव रम्यौ करौ यस्या इति बहुव्रीहिः॥

अथ प्रत्ययोपमामाह—

उपमानात्सामान्ये प्रत्ययमुत्पाद्य या प्रयुज्येत।
सा प्रत्ययोपमा स्यादन्तर्भूतेवशब्दार्था॥२३॥

उपमानादिति। उपमानादुपमानपदादन्यतो वा धात्वादिकात्प्रत्ययं सामान्येन साधारणधर्मविषय उत्पाद्य या प्रयुज्यते सा प्रत्ययोपमा। सा च प्रत्ययान्तशब्देऽन्तर्भूतेवशब्दा॥

उदाहरणम्—

पद्मायते मुखं ते नयनयुगं कुवलयायते यदिदम्।
कुमुदायते तथास्मितमेवं शरदेव सुतनु त्वम्॥२४॥

पद्मायत इति। पद्ममिवाचरतीत्यादि वाक्यम्। एवं धातोः प्रत्यये उष्ट्रक्रोशीत्यादि द्रष्टव्यमिति॥

एवमुपमात्रयमभिधायेदानीमेतद्भेदान्सामान्येनाह—

मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम्।
उपमीयेतानेकैरुपमानैरेकसामान्यैः॥२५॥

मालोपमेति। यत्रैकमुपमेयं वस्त्वनेकसामान्यमनेकधर्मकमेकसामान्यैरेकैकधर्मयुक्तैरनेकैरुपमानैरुपमीयते सेयमित्यमुना प्रकारेण मालोपमा। अथायं कोऽलंकारः—‘गायन्ति किंनरगणाः सह किंनरीभिरुत्तुङ्गशृङ्गकुहरेषु हिमाचलस्य। क्षीरेन्दुकुन्ददलशङ्खमृणालनालनीहारहारहरहाससितं यशस्ते॥’ मालोपमैवेत्याहुः। यत एकत्वेऽपि शौक्ल्यस्यानेकसामान्यं विद्यत एव। तस्यानेकरूपत्वादन्यादृशमेव हि तच्छङ्खेऽन्यादृशं चन्द्रादौ तच्च सर्वंयशसि विद्यत इति। केचित्तु मालोपमाभास इत्याहुः॥

उदाहरणम्—

श्यामालतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे।
हंसीव कलालापा चैतन्यं हरति निद्रेव॥२६॥

श्यामालतेति। अत्रोपमेया कान्ता तनुत्वाद्यनेकधर्मयुक्ता। श्यामालतादीन्येकैकधर्मयुक्तान्युपमानानि। एषावाक्योपमा। अन्ये त्विमे—‘नवश्यामालतातन्वीशरच्चन्द्रांशुसप्रभा। मत्तहंसीकलालापा कस्य सा न हरेन्मनः॥’ समासोपमेयम्। ‘शरच्च-

न्द्रायसे मूर्तौत्वं कृतान्तायसे युधि। दाने कणीयसे राजन्सुनीतौ भास्करायसे॥’ प्रत्यगोपमेयम्॥

भेदान्तरमाह—

अर्थानामौपम्ये यत्र बहूनां भवेद्यथापूर्वम्।
उपमानमुत्तरेषां सेयं रशनोपमेत्यन्या॥२७॥

अर्थानामिति। यत्रार्थानामुपमानोपमेयानां बहूनां सादृश्ये सति तेषामेव मध्याद्यथापूर्वं योयः पूर्वः स स उत्तरेषामुपमानं भवेत्सेयं रशनासादृश्याद्रशनोपमेत्यन्या। यथा रशनायां परस्परमाभरणानां शृङ्क्षलाकटकवत्संबन्ध एवमिहार्थानामिति पूर्ववत्॥

उदाहरणम्—

नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम्।
शशिबिम्बमिव लसद्द्युति तरुणीवदनं शरत्कुरुते॥२८॥

नभ इति। अत्र गगनादिरर्थः पूर्व उत्तरेषां सलिलादीनामुपमानम्। एषा वाक्यरशनोपमा। अन्ये त्विमे— ‘शरत्प्रसन्नेन्दुसुकान्ति ते मुखं मुखश्रि लीलाम्बुजमम्बुजारुणौ। करौकरश्रीरवतंसपल्लवोवरानने पल्लवलोहितोऽधरः॥’ समासरशनोपमेयम्। ‘चन्द्रायते शुक्लरुचाद्य हंसो हंसायते चारुगतेन कान्ता। कान्तायते तस्य मुखेन वारि वारीयते स्वच्छतयाविहायः॥’ प्रत्ययरशनोपमेयम्॥

भूयोऽपि भेदान्तरमाह—

क्रियतेऽर्थयोस्तथा या तदवयवानां तथैकदेशानाम्।
परमन्या ते भवतः समस्तविषयैकदेशिन्यौ॥२९॥

क्रियत इति। अर्थयोरुपमानोपमेययोरवयविनोस्तदवयवानां च सहजाहार्योभयरूपाणां या क्रियते, न त्ववयविनोः एषान्या एकदेशविषया। इति द्वितीयः प्रकारः॥

उदाहरणम्—

अलिवलयैरलकैरिव कुसुमस्तवकैः स्तनैरिव वसन्ते।
भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि॥३०॥

अलिबलयैरिति। अत्र लता ललनां अवयविन्योऽलिवलयादयश्चावयवाः सर्व एवोपमिताः। इत्येषा समस्तविषया॥

कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते।
अलिबलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः॥३१॥

कमलदलैरिति। अत्रावयवानामेव कमलदलादीनामौपम्यं न त्ववयविन्या नलिन्याः प्रतीयते॥ [वास्या] इत्येपैकदेशविषया। द्विविधापि वाक्योपमेयम्। अन्ये त्विमे— ‘मृ-

णालिकाकोमलबाहुयुग्मा सरोजपत्रारुणपाणिपादा।सरोजिनीचारुतनुर्बिभाति प्रियालिनीलोज्ज्वलकुन्तलासौ॥’ तथा— ‘पद्मचारुमुखी भाति पद्मपत्रायतेक्षणा। दशनैः केसराकारैरलिनीलशिरोरुहा॥’ समासोपमेयं द्विधा। ‘लतायसेऽतितन्वी त्वमोष्ठस्ते पल्लवायते। सितपुष्पायते हासो भृङ्गायन्ते शिरोरुहाः॥’ ‘मुखेन पद्मकल्पेन भाति सा हंसगामिनी। दोर्भ्यां मृणालकल्पाभ्यामलिनीलैः शिरोरुहैः॥’ प्रत्ययोपमेयं द्विधा॥

अथोत्प्रेक्षा—

अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भावम्।
आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा॥३२॥

अतिसारूप्यादिति। उपमानोपमेययोरतिसादृश्याद्धेतोरैक्यमभेदं विधाय। कीदृशं तत्। सिद्ध उपमानस्यैव, न तूपमेयस्य, सद्भावः सत्त्वं यत्र तत्तथाविधम्। अनन्तरं च तस्मिन्नुपमाने तस्योपमानस्य ये गुणक्रिये न संभवतस्ते समारोप्येते यत्र सा। इत्यमुना प्रकारेणोत्प्रेक्षा भण्यते। चशब्दोऽतद्गुणाद्यनध्यारोपितस्यापि समुच्चयार्थः। येन सिद्धोपमानसद्भावे तयोरभेदमात्रेऽप्युत्प्रेक्षा दृश्यते। यथा— ‘तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः। व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः॥’ इत्यादि॥

उदाहरणम्—

चम्पकतरुशिखरमिदं कुसुमसमूहच्छलेन मदनशिखी।
अयमुच्चैरारूढः पश्यति पथिकान्दिधक्षुरिव॥३३॥

चम्पकेति। अत्रोपमेयश्चम्पकराशिरुपमानं मदनाग्निस्तयोर्लौहित्येन सारूप्यादैक्यं सिद्धोपमानसद्भावं विधाय ततोऽग्नेर्यद्दर्शनमचेतनत्वादसंभवि तदारोपितमिति॥

प्रकारान्तरमाह—

सान्येत्युपमेयगतं यस्यां संभाव्यतेऽन्यदुपमेयम्।
उपमानप्रतिबद्धापरोपमानस्य तत्त्वेन॥३४॥

सेति। इतीत्थं सान्योत्प्रेक्षा यत्रोपमेयस्थमुपमेयान्तरमुपमानप्रतिबद्धस्योपमानान्तरस्य तत्त्वेन ताद्रूप्येण संभाव्यते॥

उदाहरणम्—

आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण।
शशिशङ्कयेव पतितं लाञ्छनमस्या मुखे सुतनोः॥३५॥

आपाण्डुगण्डेति। अत्र शश्युपमानं तत्प्रसिद्धमपरं लाञ्छनमुपमानान्तरम्। तत्सादृश्येनोपमेयं नायिकामुखगतमन्यदुपमेयं मृगनाभिपत्रलक्षणं संभावितमिति॥

भूयोऽपि भेदान्तरमाह—

यत्र विशिष्टे वस्तुनि सत्यसदारोप्यते समं तस्य।
वस्त्वन्तरमुपपत्त्यासंभाव्यं सापरोत्प्रेक्षा॥३६॥

यत्रोत्पेक्षायां शोभनत्वेनाशोभनत्वेन वा विशेषणेन विशिष्टे वस्तुन्युपमेयरूपे सत्यविद्यमानमेव वस्त्वन्तरमुपमानलक्षणं समं समानमारोप्यते सापरान्योत्प्रेक्षा। ननु यद्यविद्यमानं कथं सममित्यारोपस्तस्येत्याह— उपपत्त्या युक्त्या संभाव्यं सावसरत्वात्संभावनायोग्यंयत इत्यर्थः॥

उदाहरणम्—

अतिघनकुङ्कुमरागा पुरः पताकेव दृश्यते संध्या।
उदयतटान्तरितस्य प्रथयत्यासन्नतां भानोः॥३७॥

अतिधनेति। अत्र विशिष्टे संध्याख्ये वस्तुन्यसदेव वस्त्वन्तरं पताकाख्यं साम्यादारोपितम्। तच्च युक्त्या संभाव्यम्। यतो रविरथे पताकया भाव्यम्, साप्युदयाचलव्यवहितस्य रवेर्दृश्यमाना सती नैकट्यं प्रकटयति। अथ यत्र साम्यमात्रेसति विनैवोपपत्त्या संभावना भवति न चोपमाव्यवहारस्तत्र कोऽलंकारः। यथा—‘यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीशिखरैर्विभर्ति। बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्॥’ तथा—‘आवर्जिता किंचिदिव स्तनाभ्याम्’ इत्यादिषु। अत्र ह्यकालसंध्यादीनां संभावने नकाचिदुपपत्तिर्निर्दिष्टा। न चाप्युपमाव्यवहारः। यतः सिद्धमुपमानं भवति। न वा काले सिद्धत्वम्। तथा यद्यर्थाश्रवणान्नाप्युत्पाद्योपमाव्यवहारः। न चाप्यतिशयोत्प्रेक्षा संभवोऽस्ति। अत्रोच्यते—उपमायामसंभव उत्प्रेक्षायां त्वनुपपत्तिरत उभयत्रापि लक्षणस्य न्यूनतायामुपमाभासो वा स्यादुत्प्रेक्षाभासो वा। एवम् ‘पृथिव्या इव मानदण्डः’ इत्यादावपि द्रष्टव्यम्।सूत्रकारेणानुक्तं भेदान्तरमपि चास्यां विद्यते—‘कर्तुरुपमानयोगः सत्यौपम्येऽनिवादिरपि यत्र। संभाव्यतेऽनुरोधाद्विज्ञेया सा परोत्प्रेक्षा॥’ यथा—‘यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः। ग्लानिदोषच्छिदः स्वच्छाः स मूढःपङ्कयत्यपः॥’ तथा— ‘अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थले कमलरोपणं सुचिरमूपरे वर्षितम्। श्वपृच्छमवनामितं वधिरकर्णजापः कृतः कृतान्धमुखमण्डना यदबुधो जनः सेवितः’॥

अथ रूपकम्—

यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा।
अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम्॥३८॥

यत्रेति। यत्रोपमानोपमेययोर्गुणानां साम्ये तुल्यत्वे सति विद्यमाने प्रतीतिपथवारिण्या भिदा तयोरैक्यंकल्प्यते तदित्यमुना प्रकारेण रूपकं प्रथमम्। उत्तरत्रसमासग्रहणादिह प्रथमशब्देन वाक्यरुपकं विवक्षितम्। उत्प्रेक्षायामप्यभेदो विद्यते, ततस्तन्निरासार्थमाह— अविवक्षितसामान्येति। सदप्यत्र सामान्यं न विवक्ष्यते। सिंहो देवदत्त इति। उत्प्रेक्षायां

तु छद्मलक्ष्मव्याजव्यपदेशादिभिः शब्दैरुपमानोपमेययोरभेदो भेदश्च विवक्षित इति। परमार्थतस्तूभयत्राभेद एवेति॥

उदाहरणम्—

साक्षादेव भवान्विष्णुर्भार्या लक्ष्मीरियं च ते।
नान्यद्भूतसृजा सृष्टं लोके मिथुनमीदृशम्॥३९॥

साक्षादिति। सुगममेव॥

अथ भेदान्तरमाह—

उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः।
यत्तु प्रयुज्यते तद्रूपकमन्यत्समासोक्तम्॥४०॥

उपसर्जनेति। एतयोरुपमानोपमेययोः समासं कृत्वा यत्पुनः प्रयुज्यते तदपरं समासोक्तं रूपकम्। समासोपमाया रूपकत्वनिवृत्त्यर्थमाह—उपसर्जनमप्रधानमुपमेयं यत्र। यथा— दुर्जन एव पन्नगो दुर्जनपन्नगः। समासोपमायां तूपमानमुपसर्जनम्। यथा— शशीव मुखं यस्याः सा शशिमुखी। तुः शब्दः समुच्चये। उभयग्रहणं नियमार्थम्। उभयोरेव समासे, न तृतीयस्यापि सामान्यपदस्येत्यर्थः॥

सामान्यं रूपकभेदद्वयमेतदभिधायेदानीमेतद्विशेषानाह—

सावयवं निरवयवं संकीर्णं चेति भिद्यते भूयः।
द्वयमपि पुनर्द्विधैतत्समस्तविषयैकदेशितया॥४१॥

सावयवमिति। एतद्वाक्यसमासलक्षणं रूपकद्वयं भूयः सावयवं निरवयवं संकीर्णंचेत्यमुना प्रकारेण त्रिधा भिद्यते। पुनश्च द्वयमपि वाक्यसमासलक्षणमेतद्रूपकं समस्तविषयतयैकदेशितया च द्विधा भिद्यते। न तु सावयवादिभेदभिन्नं सत्। निरवयवादिषु सर्वत्रासंभवात्। तेनात्र भेदद्वये सावयवादिप्रभेदानुप्रवेशो यथासंभवमेव भवतीति॥

इदानीमेषामेव लक्षणमाह—तत्र सावयवम्—

उभयस्यावयवानामन्योन्यं तद्वदेव यत्क्रियते।
तत्सावयवं त्रेधा सहजाहार्योभयैस्तैः स्यात्॥४२॥

उभयस्येति। उभयस्योपमानोपमेयलक्षणस्य येऽवयवास्तेषां परस्परं यद्रूपणं तद्वदेवेति समस्तोपमावत्क्रियते तत्सावयवं रूपकम्। यथा समस्तोपमायामुपमानोपमेययोस्तदवयवानां चौपम्यम्, एवमिहापि रूपणमित्यर्थः। तच्च सहजैराहार्यैरुभयैश्चतैरवयवैस्त्रेधा स्यात्त्रिविधं भवेत्॥

उदाहरणम्—

ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः।
अधरैर्दलैश्च तासां नवविसनालानि बाहुलताः॥४३॥

ललना इति। एतद्वाक्यरूपकं सावयवं समस्तविषयं सहजावयवं च। आहार्यावयवं तु यथा— ‘गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि। यन्ता सिंहोऽभिशोभन्ते भ्रमरा हरिणास्तथा॥’ उभयावयवं यथा—‘यस्या बीजमहंकृतिर्गुरुतरं मूलं ममेति ग्रहो नित्यं तु स्मृतिरदुरः सुतसुहृज्ज्ञात्यादयः पल्लवाः।स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलंदुर्गतिः सा मे त्वत्स्तुतिसेवया परशुना तृष्णालता लूयताम्॥’ इदानीं समासरूपकं सावयवं समस्तविषयं सहजावयवमुदाहर्तुमुचितम्, ग्रन्थकृता तु नोदाहृतम्। तच्चेत्थं यथा—‘वचनमधु नयनमधुकरमधरदलं दशनकेसरं तस्याः। मुखकमलमनुस्मरतः स्मरहतमनसः कुतो निद्रा’॥

समासरूपकाहार्योदाहरणमाह—

विकसितताराकुमुदे गगनसरस्यमलचन्द्रिकासलिले।
विलसति शशिकलहंसः प्रावृड्विपदपगमे सद्यः॥४४॥

विकसितेति। अत्र गगनमुपमेयं सर उपमानम्। तयोश्च समासः। ताराज्योत्स्नाशशिनो गगनस्याहार्यवयवाः। उपमानस्य तु ते यादृशास्तादृशा भवन्तु। नात्र तद्विवक्षा। प्रावृड्विपदिति रूपकमपि नोदाहरणत्वेन योज्यम्। अवयवत्वाभावात्॥

अथसमासरूपकोभयोदाहरणमाह—

अलिकुलकुन्तलभाराः सरसिजवदनाश्चचक्रवाककुचाः।
राजन्ति हंसवसनाः संप्रति वाणीविलासिन्यः॥४५॥

अलीति। अत्र वाप्य उपमेया विलासिन्य उपमानभूताः। तयोः समासोऽत्र। वाप्या अलिकुलचक्रवाकहंसाः। कृत्रिमा अवयवाः। सरसिजानि तु सहजा विवक्षिताः। विलासिन्यश्चयथातथा भवन्तु। न तद्विवक्षा॥

अथनिरवयवमाह—

मुक्त्वावयवविवक्षां विधीयते यत्तु तत्तु निरवयवम्।
भवति चतुर्धाशुद्धं माला रशना परम्परितम्॥४६॥

मुक्त्येति। यत्त्ववयवविवक्षां त्यक्त्या विधीयते तन्निरवयवं रूपकम्। तच्चतुर्धा। कथमित्याह—शुद्धमित्यादि॥

अथतल्लक्षणम्—

शुद्धमिदं सामाला रशनाया वैपरीत्यमन्यदिदम्।
यस्मिन्नुपमानाभ्यां समस्यमुपमेयमन्यार्थे॥४७॥

शुद्धमिति। इदमिति ‘मुक्त्वावयवविवक्षाम्’ इति पूर्वलक्षणकं सा मालेति। यत्रैकंयस्त्यनेकसामान्यम्। ‘उपमीयेवेतानेकैरुपमानैरेकसामान्यैः’ इत्येतदुपमालक्षणं यत्र रूपके तदित्यर्थः। रशनाया वैपरीत्यमिति। यो यः पूर्वोऽर्थः स स उत्तरेषामुपमानमित्युपमाल-

क्षणवैपरीत्यम्। रूपकरशनायां हि यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेय इति। अन्यत्परम्परितमिदं वक्ष्यमाणलक्षणकम्। तदेव लक्षणमाह—यस्मिन्नित्यादि। यत्र द्वाभ्यामुपमानाभ्यां सहैकमुपमेयमन्यस्य द्वितीयस्योपमेयस्यार्थे वर्तमानं समस्यते। यत्र हि द्वे उपमाने तत्रावश्यमुपमेयद्वयेनैव भाव्यमित्युपमेयार्थे उपमेयं समस्यते। यथा—रजनिपुरंध्रिरोध्रतिलकश्चन्द्र इति॥

एतेषामुदाहरणानि चत्वारि यथाक्रममाह—

कः पूरयेदशेषान्कामानुपशमितसकलसंतापः।
अखिलार्थिनां यदि त्वं न स्याः कल्पद्रुमो राजन्॥४८॥

क इति। अत्र राजा शाखादिभिरवयवैर्विना कल्पद्रुमेण रूपितः। एतच्छुद्धं वाक्यरूपकम्। समासरूपकं तु यथा—‘नीचोऽपि मन्दमतिरप्यकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि। त्वत्पादपद्मयुगले भुवि सुप्रसन्ने संदृश्यते ननु सुरैरपि गौरवेण’॥

मालामाह—

कुसुमायुधपरमास्त्रं लावण्यमहोदधिर्गुणनिधानम्।
आनन्दमन्दिरमहो हृदि दयिता स्खलति मे शल्यम्॥४९॥

कुसुमेति। अत्रैका दयिता विरहिहृदयदारणाद्यनेकधर्मयोगात्कुसुमायुधपरमास्त्रादिभिरनेकैरुपमानैरेकैकधर्मयुक्तै रूपिता। अत्र वाक्यमेव। रशनापरम्परितयोः समास एव संभव इति॥

रशनारूपकमाह—

किसलयकरैर्लतानां करकमलैः कामिनां जगज्जयति।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः॥५०॥

किसलयकरैरिति। अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्तरेषां करादीनामुपमेय इति॥

परम्परितमाह—

स्मरशबरचापयष्टिर्जयति जनानन्दजलधिशशिलेखा।
लावण्यसलिलसिन्धुः सकलकलाकमलसरसीयम्॥५१॥

स्मरेति। अत्रैकः स्मर उपमेयो द्वाभ्यामुपमानाभ्यां शबरचापयष्टिभ्यामन्यस्य नायिकालक्षणस्य पदार्थस्यार्थे समस्यते। स्मरस्य शबर उपमानम्, नायिकायाश्चापयष्टिः। स्मर एव शबरस्तस्य नायिका चापयष्टिः। यथा शबरश्चापयष्ट्या हरिणादीन्विध्यति, एवं स्मरस्तया कामिन इत्यर्थः। एवमन्यत्रापि योज्यम्॥

संकीर्णमाह—

उपमेयस्य क्रियते तदवयवानां च साकमुपमानैः।
उभयेषां निरवयवैर्विज्ञेयं तदिति संकीर्णम्॥५२॥

उपमेयस्यैति। उपमेयस्योपमेयावयवानां च सहजाहार्योभयरूपाणामुपमानैरुभयेषामपि निरवयवैः सह यद्रूषणं क्रियते तत्संकीर्णं नाम ज्ञेयम्। एवं च सहजाद्यवयवभेदजत्वाविधा भवति। उभयेषामित्यनेनोपमेयस्तदवयवाश्च निर्दिश्यन्ते॥

उदाहरणानि—

लक्ष्मीस्त्वं मुखमिन्दुर्नयने नीलोत्पले करौ कमले।
केशाः केकिकलापो दशना अवि कुन्दकलिकास्ते॥५३॥

लक्ष्मीरिति। नायिकात्रोपमेया। तदवयवाश्च सहजा मुखादयः। लक्ष्मीचन्द्रप्रभृतीनि चोभयेषामुपमानानि निरवयवानि। नहि लक्ष्म्याश्चन्द्रादयोऽवयवाः। उपमेयं सावयवमुपमानेषु विपर्यय इति संकीर्णत्वमिति॥

अथाहार्यावयवोदाहरणमाह—

सुतनु सरो गगनमिदं हंसरवो मदनचापनिर्घोषः।
कुमुदवनं हरहसितं कुवलयजालं दृशः सुदृशाम्॥५४॥

सुतन्विति। हे सुतनु, इदं सरः शरदि निर्मलत्वाद्विस्तीर्णत्वाच्च गगनसदृशमित्यर्थः। अत्र च गगनकामधनुर्ध्वनिहरहसिततरुणीदृशो निरवयवोपमानानि। उपमेयं सरः। तदवयवा हंसरवकुमुदवनकुबलयजालान्याहार्याणि विवक्षितानीति॥

अथोभयावयवमाह—

इन्द्रस्त्वं तवबाहू जयलक्ष्मीद्वारतोरणस्तम्भौ।
खङ्गः कृतान्तरसना जिह्वा च सरस्वती राजन्॥५५॥

इन्द्र इति। अत्र राजोपमेयः। तदवयवाश्चबाहुखड्गजिह्वाःसहजाहार्याः। इन्द्रजयलक्ष्मीद्वारतोरणस्तम्भादीनि निरवयवोपमानानि। एतेषु वाक्यभेद एवेति॥

समस्तविषयरूपकं निरूप्येदानीमेकदेशिरूपकमाह—

उक्तं समस्तविषकं लक्षणमनयोस्तथैकदेशीदम्।
कमलाननैर्नलिन्यः केसरदशनैः स्मितं चक्रुः॥५६॥

उक्तमिति। अनयोर्वाक्यसमासरूपकयोर्यत्समस्तविषयं लक्षणं तत्सावयवं रूपयद्भिरुक्तम्। तथैकदेशीदमार्योत्तरार्धेनोदाह्रियते। यथा—कमलेत्यादि। अत्रावयवानामेव कमलकेसराणांमुखदर्शनैरूपणं कृतम्, न तु पद्मिन्या अङ्गनयेत्येकदेशित्वमिति। अन्यदपि रुपकं संगतं नाम विद्यते। यत्र संगतार्थतया रूप्यरूपकभावः। यथा कालिदासस्य—‘रावणावग्रहक्लान्तमिति वागमृतेन सः। अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरो-

दधे॥’ अत्र न सावयवादिव्यपदेशः। तत्क्वेदमन्तर्भवतीत्युच्यते—सामान्ये रूपकलक्षणमभिधाय तस्य वाक्यसमासभेदौ व्यापकावुक्तौ। तयोश्च सावयवादिभेदा यथासंभवं योज्याः। ततस्तस्मिन्मूलभेदद्वये संगताद्यनुक्तभेदानामन्तर्भावः॥

अथापह्नुतिः—

अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि।
उपमानमेव सदिति च विज्ञेयापह्नुतिः सेयम्॥५७॥

अतिसाम्यादिति। यस्यामुपमानोपमेययोरत्यन्तसाम्यादुपमेयं प्रस्तुतं वस्त्वविद्यमानं कथ्यते, उपमानमेव सत्तया, सेयमपह्नुतिर्नाम। उत्प्रेक्षायां व्याजादिशब्दैरुपमेयस्य सत्त्वमप्युच्यते, इह तु सर्वथैवापह्नव इति विशेषः॥

उदाहरणम्—

नवविसकिसलयकोमलसकलावयवा विलासिनी सैषा।
आनन्दयति जनानां नयनानि सितांशुलेखेव॥५८॥

नवेति। अत्रातिसादृश्याद्विलासिनीमुपमेयमपह्नुत्य शशिकलाया उपमानस्यैव सद्भावः कथितः॥

अथ संशयः—

वस्तुनियत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः।
प्रतिपत्तुः सादृश्यादनिश्चयः संशयः स इति॥५९॥

वस्तुनीति। यत्रैकस्मिन्वस्तुन्युपमेये प्रतिपत्तुरनेकविषयः सादृश्यात्संदेहो भवति, अनिश्चयान्तः स इत्येवंप्रकारः संशयनामालंकारः। तुर्विशेषे॥

उदाहरणम्—

किमिदं लीनालिकुलं कमलं किं वा मुखं सुनीलकचम् \।
इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम्॥६०॥

किमिति। अत्रैकस्मिन्मुखे कमलमुखविषयः सादृश्यादनिश्चयसंशयः॥

प्रकारान्तरमाह—

उपमेये सदसंभवि विपरीतं वा तथोपमानेऽपि।
यत्र स निश्चयगर्भस्ततोऽपरो निश्चयान्तोऽन्यः॥६१॥

उपमेय इति। यत्रोपमेये यद्वस्तु नैव संभवति तत्सत्कथ्यते, विपरीतं वा यत्सत्तदसंभविकथ्यते, अथोपमाने यदसंभवि तत्सत्, यच्च सत्तदसंभवि कथ्यते सनिश्चयगर्भाख्यः संशयो भवति। ततोऽन्यथा तु यत्र पर्यन्ते निश्चयो भण्यते सोऽन्यो निश्चयान्ताख्यः संशयो द्वितीयः। पूर्वोक्तं सामान्यं संशयलक्षणमुभयत्र योज्यम्॥

निश्चयगर्भोदाहरणमाह—

एतत्किं शशिबिम्बंन तदस्ति कथं कलङ्कमङ्केऽस्य।
किं वा वदनमिदं तत्कथमियमियती प्रभास्य स्यात्॥६२॥

किं पुनरिदं भवेदिति सौधतलालक्ष्यसकलदेहायाः।
वदनमिदं ते वरतनु विलोक्य संशेरते पथिकाः॥६३॥( युग्मम्)

एतदिति। किं पुनरिति। अत्रोपमाने शशिनि संभविनः कलङ्कस्याभावः, उपमेये त्वसंभविनः प्रभाबाहुल्यस्य सद्भाव उक्तः। वैपरीत्यंतु नोक्तम्। तदन्यत्र द्रष्टव्यम्॥

निश्चयान्तमाह—

किमयं हरिः कथं तद्गौरः किं वा हरः क्व सोऽस्य वृषः।
इति संशय्य भवन्तं नाम्ना निश्चिन्वते लोकाः॥६४॥

किमिति। अत्रोपमाने कृष्णे गौरत्वमसंभवि विद्यते। हरे च संभविनो वृषस्याभावः। नामग्रहणाच्च निश्चयः। अस्मिन्निश्चयान्ते संशयगर्भलक्षणापेक्षा न कार्येति। तेन ‘उपमेये सदसंभवि’ (८।६१) इत्यादिलक्षणाभावेऽपि भवति। यथा माघस्य—‘किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चिद्विच्योकैर्यकसहवासिनां परोक्षैः॥’ इति। अन्येऽपि संशयभेदाविद्यन्त एव। यथा— ‘यत्रोक्तेऽपि निवर्तेत संदेहो नैव साम्यतः। संशयोऽन्यः स विज्ञेयः शेषगर्भः स्फुटो यथा॥’ ‘प्रत्यग्राहितचित्रवर्णकृतकच्छायो मयाद्येक्षितः सौधे तत्र स कोऽपि कः पुनरसावेतन्न निश्चीयते। वाक्यं वक्ति न वक्त्रमस्ति न शृणोत्यंसावलम्बिश्रुतिश्चक्षुष्मांश्च निरीक्षते न विदितं तत्स ध्रुवं पार्थिवः॥’ तथा— ‘उपमेयमपह्नुत्य संदेग्धुर्यत्र कथ्यते। उपमानमसावन्यः संशयोदृश्यते यथा॥’ ‘यो गोपीजनवल्लभः स्तनतटव्यासङ्गलब्धास्पदश्छायावान्नवरक्तको बहुगुणश्चित्रश्चतुर्हस्तकः। कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य में किं राधे मधुसूदनो नहि नहि प्राणाधिकश्चोलकः॥’ तथा ‘अतिशयकारिविशेषणयुक्तं यत्रोपमेयमुच्येत। साम्यादुपमानगते संदेहे संशयः सोऽन्यः॥’ यथा—‘भुजतुलिततुङ्गभूभृत्स्वविक्रमाक्रान्तभूतलो जयति। किमयं जनार्दनो नहि सकलजनानन्दनो देवः॥’ एवमन्येऽपि संशयप्रकारा लक्ष्यानुसारेण बोद्धव्या इति॥

भूयोऽपि भेदान्तरमाह—

यत्रानेकत्रार्थे संदेहस्त्वेककारकत्वगतः।
स्यादेकत्वगतो वा सादृश्यात्संशयः सोऽन्यः॥६५॥

यत्रेति। सोऽयमन्यः संशयो यत्रानेकत्रोपमानोपमेयलक्षणेऽर्थे कर्त्रादिकारकत्वविषयः संशयो भवति। अस्याः क्रियायाः किमुपमानं कारकं स्यादुतोपमेयमिति, इत्थं यत्र

भ्रान्तिरित्यर्थः। तथैकत्वगतौ वेति। यत्रोपमानोपमेययोरैक्ये संभाव्यमान एकस्य तात्त्विकमन्यस्यातात्त्विकमिति संदेह इत्यर्थः॥

उदाहरणद्वयमप्यार्ययैकयाह—

गमनमधीतं हंसैस्त्वत्तः सुभगे त्वया नु हंसेभ्यः।
किं शशिनः प्रतिबिम्बंवदनं ते किं मुखस्य शशी॥६६॥

गमनमिति। अत्राद्यार्धेऽध्ययनक्रियां प्रति कर्तृत्वसंदेह उक्तः। द्वितीये तु मुखशशिनोस्तात्त्विकातात्त्विकत्वमेकत्र संदिग्धमिति। अथायं कोऽलंकारः। यथा भारवेः ‘रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण॥’ औपम्याभास इति केचित्। उत्प्रेक्षैवेयमित्यन्ये॥

अथ समासोक्तिः—

सकलसमानविशेषणमेकं यत्राभिधीयमानं सत्।
उपमानमेव गमयेदुपमेयं सा समासोक्तिः॥६७॥

सकलेति। यत्रैकमुपमानमेवोपमेयेन सह सकलसाधारणविशेषणमभिधीयमानं सदुपमेयं गमयेत्सा समासोक्तिः। सकलग्रहणं मिश्रत्वनिवृत्त्यर्थम्। एकग्रहणं तूपमेयवाचिपदप्रयोगनिवृत्त्यर्थम्। सद्ग्रहणं प्रतिपादनसमर्थत्वख्यापनार्थम्॥

उदाहरणमाह—

फलमविकलमलधीयो लघुपरिणति जायतेऽस्य सुस्वादु।
प्रीणितसकलप्रणयिप्रणतस्य सदुन्नतेः सुतरोः॥६८॥

फलमिति। फलमाम्रादिकम्। दृष्टार्थश्चेत्यत्र तरुरुपमानं गुणसाधर्म्यात्सत्पुरुषमेव गमयति॥

अथ मतम्—

तन्मतमिति यत्रोक्त्वा वक्तान्यमतेन सिद्धमुपमयम्।
ब्रूयादथोपमानं तथा विशिष्टं स्वमतसिद्धम्॥६९॥

तदिति। तन्मतनामालंकारः। इत्यमुना वक्ष्यमाणप्रकारेण। यत्र वक्तान्यमतेन पराभिप्रायेण सिद्धं लोकप्रतीतमुपमेयमुक्त्वा प्रतिपाद्योपमानं ब्रूयात्। किंभूतम्। तथाविशिष्टमुपमेयधर्मसदृशम्। पुनश्च कीदृशम्। स्वमतेन स्वाभिप्रायेण तथोपमानत्वेन सिद्धम्। उपमेयमेव तत्त्वतस्तदित्यर्थः॥

उदाहरणमाह—

मदिरामदभरपाटलमलिकुलनीलालकालिधम्मिल्लम्।
तरुणीमुखमिति यदिदं कथयति लोकः समस्तोऽयम्॥७०॥

मन्येऽहमिन्दुरेषः स्फुटमुदयेऽरुणरुचिः स्थितैः पश्चात्।
उदयगिरौ छद्मपरैर्निशातमोभिर्गृहीत इव॥७१॥(युग्मम्)

मदिरेति।मन्य इति। अत्र मुखमुपमेयं लोकमतेनोक्त्वा स्वमतेनेन्दुमाह। विशेषणानि तुल्यानि। तथा हि मुखं मदिरामदभरेण लोहितमिन्दुरुदयारुणकान्तिः। मुखं कृष्णकेशकलापेन युक्तं शशी निशातमोभिः॥

अथोत्तरम्—

यत्र ज्ञातादन्यत्ष्टष्टस्तत्त्वेन वक्ति तत्तुल्यम्।
कार्येणानन्यसमख्यातेन तदुत्तरं ज्ञेयम्॥७२॥

यत्रेति। यत्र वक्ता ज्ञानात्प्रसिद्धादुपमानलक्षणादन्यदुपमेयभूतं वस्तु पृष्टः संस्तत्त्वेन तद्भावेन तत्तुल्यमुपमानसदृशं वक्ति। तत्तुल्यतापि कुत इत्याह—कार्येण। कीदृशेन। अनन्यसमेन ख्यातेन च। तदुपमानं वर्जयित्वान्यत्राविद्यमानेन। तत्र च प्रसिद्धेनेत्यर्थः। अथपरिसंख्याया वास्तवोत्तरस्यास्य चोत्तरस्य को विशेषः। उच्यते—परिसंख्यायामज्ञातमेव पृच्छति नियमप्रतीतिश्चौपम्याभावश्च। ‘किं सुखमपारतन्त्र्यम्’ (७।८०) इत्यत्र ह्यपारतन्त्र्यमेव सुखं नान्यदित्यर्थः। इह तु ज्ञातादन्यत्पृच्छ्यते, न च नियमप्रतीतिरस्ति, औपम्यं च विद्यते। यथा ‘किं मरणम्’ (८।७३) इत्यादि। वास्तवोत्तरे तु न नियमप्रतीतिनीप्यौपम्यसद्भावः। केवलं प्रश्नादुत्तरमात्रकथनमेव। यथा लक्ष्मीसौराज्यादि तत्र कथितम्॥

अथोदाहरणमाह—

किं मरणं दारिद्र्यं को व्याधिर्जीवितं दरिद्रस्य।
कः स्वर्गः सन्मित्रं सुकलत्रं सुप्रभुः सुसुतः॥७३॥

किमिति। अत्र मरणात्प्राणत्यागसकाशात्प्रतीतादन्यत्पृष्टो वक्ता कार्येणाकिंचित्करस्वदुःखकारित्वादिना तत्तुल्यं दारिद्र्यं मरणमिवकथितवान्॥

अथान्योक्तिः—

असमानविशेषणमपि यत्र समानेतिनृत्तमुपमेयम्।
उक्तेन गम्यते परमुपमानेनेति सान्योक्तिः॥७४॥

असमानेति। यत्रासाधारणविशेषणमप्युपमेयमुपमानेनोक्तेन परं केवलं गम्यते प्रतीयते सेत्युक्तेन प्रकारेणान्योक्तिर्भवति। ननु यद्यसमानविशेषणं तत्कथंतेन गम्यत इत्याह—समानवृत्तमिति। समानं सदृशमितिवृत्तमर्थशरीरं यस्य तत्तथोक्तम्। यत उपमानवृत्यव्यवहारमुपमेयमतस्तेन गम्यत इत्यर्थः। अपिशब्दात्किंचित्समानविशेषणत्वेऽपि क्वापि भवतीति सूच्यत इति॥

उदाहरणमाह—

मुक्त्वा सलीलहंसं विकसितकमलोज्ज्वलं सरः सरसम्।
वकलुलितजलं पल्वलमभिलषसि सखे न हंसोऽसि॥७५॥

मुक्त्वेति। अत्र हंसेनोपमानेनोक्तेन सज्जनः प्रतीयते। विशेषणानि चात्र सलीलहंसादीन्यसमानानि। नहि पुरुषः सरो मुक्त्वा पल्वलमभिलषति। इतिवृत्तं तु समानम्। यतस्तस्य शिष्टजनाधिष्ठितं स्थानं त्यजतः खलमन्यं चाश्रयतस्तत्तुल्य उपालम्भ इति॥

अथ प्रतीपमाह—

यत्रानुकम्प्यते सममुपमाने निन्द्यते वापि।
उपमेयमतिस्तोतुं दुरवस्थमिति प्रतीपं स्यात्॥७६॥

यत्रेति। यत्रोपमेयमनुकम्प्यते निन्द्यते वा तत्प्रतीपं नामालंकारः। कस्मात्तस्य निन्दानुकम्पे क्रियेते इत्याह— सममुपमाने इति कृत्वा। यत उपमानेन तुल्यमतो निन्दानुकम्पे तस्येत्यर्थः। तादृशं तर्हि किमर्थमुपमानं क्रियत इत्याह—अतिस्तोतुं सातिशयमुपमेयं ख्यापयितुम्। ननु यदि सातिशयं तर्ह्युपमानेन सह साम्यं नास्तीत्याह— दुरवस्थमिति। इतिर्हेतौ। यतो दुष्टामवस्थां प्राप्तम्। उपमेयमुपमानेन समम्, अत एव निन्द्यतेऽनुकम्प्यते वेत्यर्थः। अपिर्विस्मये। एतदेव चालंकारस्य प्रतीपत्वं यदन्येनान्यद्गम्यते॥

उदाहरणम्—

वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत्।
मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत्॥७७॥

वदनमिति। अत्राञ्जनवारिमलिनत्वान्मुखस्य दौरवस्थ्यम्, अत एवेन्दुनोपमीयते। अनुकम्प्यते। तत्त्वत्तः स्तुतिर्मुखस्य कृता॥

निन्दोदाहरणमाह—

गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥७८॥

गर्वमिति। अत्र बाहुल्योपलभ्यमाननलिननिभनयनवत्तया गर्ववहनान्निन्दा स्तुतिप्रातीतिकी। दुरवस्थं कस्मादपि कारणाद्बोद्धव्यम्॥

अर्थान्तरन्यासमाह—

धर्मिणमर्थविशेषं सामान्यं वाभिधाय तत्सिद्ध्यै।
यत्र सधर्मिकमितरं न्यस्येत्सोऽर्थान्तरन्यासः॥७९॥

धर्मिणमिति। यत्रोपमेयं धर्मिणमर्थविशेषरूपं सामान्यरूपं वा केनचिद्धर्मेण परोपकारादिना युक्तमभिधाय तस्य धर्मस्य दृढीकरणार्थमितरं यथोक्रममेव सामान्यं विशेषरूपं च समानधर्मकमुपमानभूतमर्थं कविर्न्यस्येत्सोऽर्थान्तरन्यासोऽलंकारः॥

उदाहरणमाह—

तुङ्गानामपि मेघाः शैलानामुपरि विदधते छायाम्।
उपकर्तुं हि समर्था भवन्ति महतां महीयांसः॥८०॥

तुङ्गानामिति। अत्रोपमेयविशेषं मेघपर्वताख्यं तुङ्गत्वादि युक्तमभिधाय सामान्यमुपमानं महणक्षणनुपन्यस्तम्॥

द्वितीयमाह—

सकलमिदं सुखदुःखं भवति यथावासनं तथाहीह।
रमयन्तितरां तरुणीर्नखक्षतादीनि रतिकलहे॥८१॥

सकलमिति। अत्र सामान्यरूपेणैव सुखदुःखादियुक्तं सकलमुपमेयमुक्त्वा ततो विशिष्टं नखक्षताद्युपमानमुक्तम्॥

अयं चार्थान्तरन्यासः साधर्म्यप्रयुक्तसामान्यविशेषद्वारेण चतुर्विधो भवति। तत्र साधर्म्येण भेदद्वयमुक्तम्। वैधर्म्याेणाह—

पूर्ववदभिधायैकं विशेषसामान्ययोर्द्वितीयं तु।
तत्सिद्धयेऽभिदध्याद्विपरीतं यत्र सोऽन्योऽयम्॥८२॥

पूर्ववदिति। यत्र विशेषसामान्ययोर्मध्यादेकं पूर्ववत्केनचिद्धर्मेणोपेतमुक्त्वा ततस्तद्धर्मसिद्धये द्वितीयं सामान्यं विशेषं वा विपरीतं विधर्मकं कविर्ब्रूयात्सोऽन्योऽयमर्थान्तरन्यासः॥

उदाहरणमाह—

अभिसारिकाभिरभिहतनिविडतमा निन्द्यते सितांशुरपि।
अनुकूलतया हि नृणां सकलं स्फुटमभिमतीभवति॥८३॥

अभिसारिकाभिरिति। अत्र शशी अभिसारिकाश्चविशेषावुपमेयौ पूर्वमुक्तौ, ततो नृणां सकलमिति सामान्यं वैधर्म्येणोक्तम्। निन्द्यत इत्यस्य ह्यभिमतीभवतीति विरुद्धम्॥

द्वितीयमाह—

हृदयेन निर्वृतानां भवति नृणां सर्वमेव निर्वृतये।
इन्दुरपि तथाहि मनः खेदयतितरां प्रियाविरहे॥८४॥

ह्यदयेनेति। अत्र सामान्यमुक्त्वा विशेषो वैधर्म्येणोक्तः। अथायं कोऽलंकारः। यथा— ‘प्रियेण संप्रथ्यविपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने। स्रजं न काचिद्विजहौजलाशिलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥’ नह्यत्रौपम्यसद्भावोऽस्तीत्यर्थान्तरन्यासाभास इति व्रूमः। भामहादिमतेन त्वर्थान्तरन्यास एव। ‘अर्थद्वयस्य न्यासः सोऽर्थान्तरन्यासः’ इति तदीयलक्षणात्॥

अथोभयन्यासमाह—

सामान्यावप्यर्थौ स्फुटमुपमायाः स्वरूपतोऽपेतौ।
निर्दिश्येते यस्मिन्नुभयन्यासः स विज्ञेयः॥८५॥

सामान्याविति। यत्र प्रकटं विद्यमानसामान्यावपि द्वावर्थौ तुल्यकक्षतया कृत्वा तथाप्युपमाया यत्स्वरूपं ततो व्यपेतौ निर्दिश्येते। उपमायां हि सामान्यस्येवादेश्चप्रयोगः, इह तु नैवेत्यर्थः। स उभयन्यासो ज्ञेयः॥

उदाहरणमाह—

सकलजगत्साधारणविभवा भुवि साधवोऽधुना विरलाः।
सन्ति कियन्तस्तरवः सुस्वादुसुगन्धिचारुफलाः॥८६॥

सकलेति। अत्र साधव उपमेयास्तरव उपमानानि। तेषां तुल्यकक्षतया निर्देशः। न तु सताप्युपमानोपमेयभावेनेति॥

अथ भ्रान्तिमान्—

अर्थविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम्।
निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति॥८७॥

अर्थेति। यत्र प्रतिपत्तार्थविशेषमुपमेयलक्षणं पश्यंस्तत्सादृश्यादन्यमेवार्थमुपमानलक्षणं निःसंशयमवबुध्येत स इत्यमुना प्रकारेण भ्रान्तिमान्नामालंकारः॥

उदाहरणम्—

पालयति त्वयि वसुधां विविधाध्वरधूममालिनीः ककुभः।
पश्यन्तो दूयन्ते घनसमयाशङ्कया हंसाः॥८८॥

पालयतीति। अत्र यज्ञधूमधारिण्यो दिश उपमेया वर्षाकालउपमानम्। तत्रैवावगतिः॥

अथाक्षेपः—

वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य।
अन्यत्तथात्वसिद्ध्यै यत्र ब्रूयात्सं आक्षेपः॥८९॥

वस्त्विति। यत्र वक्ता यत्किमपि लोके प्रसिद्धमिति विरुद्धमिति वा कारणाद्वस्तु भूतं वर्तते, अस्य वचनमाक्षिप्य ततश्चान्यद्वस्वन्तरं तथात्वसिद्ध्यै तस्य स्वरूपस्य सिद्ध्यर्थं ब्रूयात्स आक्षेपो नामालंकारः।

तत्र प्रसिद्धस्योदाहरणमाह—

जनयति संतापमसौ चन्द्रकलाकोमलापि मे चित्रम्।
अथवा किमत्र चित्रं दहति हिमानी हि भूमिरुहः॥९०॥

जनयतीति। अत्र चन्द्रकलाकोमलत्वेनापि संतापकत्वेसति विस्मयः। अथ च विरहेप्रतीयमानत्वाद्वस्तुत्वं प्रसिद्धम्। ततश्चकिमत्र चित्रमित्येतेनाक्षिप्य तथात्वसिद्धौहिमानीलक्षणमुपमानमुक्तम्॥

अथविरुद्धोदाहरणमाह—

तव गणयामि गुणानहमलमथवासत्प्रलापिनीं धिङ्माम्।
कः खलु कुम्भैरम्भो मातुमलं जलनिधेरखिलम्॥९१॥

तवेति। अत्र समस्तगुणगणनशक्यत्वाद्विरुद्धमथवेत्यादिनाक्षिप्य तद्विरुद्धत्वसिद्ध्यर्थमन्यदुपमानमुक्तं इत्यादिना॥

अथप्रत्यनीकम्—

वक्तुमुपमेयमुत्तममुपमानं तज्जिगीषया यत्र।
तस्य विरोधोत्युक्त्या कल्प्येत प्रत्यनीकं तत्॥९२॥

वक्तुमिति। यत्रोपमेयमुत्तमं वक्तुंतज्जिगीषयोपमेयविजयेच्छया हेतुभूतया तस्योपमेयस्य विरोधीति विपक्षभूतमित्युपमानं कल्प्येत तत्प्रत्यनीकनामालंकारः।ननु विरुद्धयोःकथमौपम्यमित्याह— उक्ता वचनमात्रेण विरोधो न तत्त्वतः। उपमेयस्तुतिस्तत्र तात्पर्यार्थः॥

उदाहरणम्—

यदि तव तया जिगीषोस्तद्वदनमहारि कान्तिसर्वस्वम्।
मम तत्र किमापतितं तपसि सितांशो यदेवं माम्॥९३॥

यदीति। अत्र मुखमुत्तमं वक्तुं तज्जिगीषया शशी उपमानं कल्पितः। एतच्च वचनमात्रेण, न तत्वतः॥

अथदृष्टान्तः—

अर्थविशेषः पूर्वं यादृङ् न्यस्तो विवक्षितेतरयोः।
तादृशमन्यं न्यस्येद्यत्र पुनः सोऽत्र दृष्टान्तः॥९४॥

अर्थेति। विवक्षितेतरयोःप्रस्तुताप्रस्तुतयोरर्थविशेषयोर्मध्याद्यादृशो येन धर्मेण युक्तोऽर्थविशेषः पूर्वमादौ न्यस्तो भवेत्तादृशं तद्धर्मयुक्तमेव पुनस्तमर्थविशेषमन्यं यत्र वक्ता न्यस्येत्सदृष्टान्तो नामालंकारः। विशेषग्रहणमर्थान्तरन्यासादस्य भेदख्यापनार्थम्। तत्र हि सामान्यविशेषयोर्मध्यादेकमुपमानमन्यदुपमेयम्। इह तु द्वयमपि विशेषरूपमिति। उभयन्यासस्यास्मात्मत्सामान्यत्वादिविशेषः॥

विवक्षितोदाहरणमाह—

त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्।
आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः॥९५॥

त्वयीति। अत्रार्थविशेषो नायिकामनोलक्षणः पूर्वं कान्तदर्शनान्निर्वृतिधर्मयुक्तो यादृशो निर्दिष्टः पुनस्तादृशमेव चन्द्रदर्शनात्कुमुदं विकासयुक्तमिति॥

अविवक्षितोदाहरणम्—

लोकं लोलितकिसलयविषवनवातोऽपि मङ्क्षुमोहयति।
तापयतितरां तस्या हृदयं त्वद्गमनवार्तापि॥९६॥

लोकमिति। अत्राप्राकरणिकस्य विषवनवातस्य मोहकत्वधर्मयुक्तस्य पूर्वमुपन्यासः। पश्चात्प्रस्तुतस्य तापकारित्वयुक्तस्य [गमनवृत्तस्य]।अर्थवैधर्म्येण दृष्टान्तः कथं नोक्तः। असंभवादिति ब्रूमः। यत्र हि विशिष्टोऽर्थो विधर्मकश्च दृष्टान्तस्तादृशं लक्ष्यं न पश्यामः। दृश्यते चेत्तदा समुच्चय एव ज्ञेयः॥

अथ पूर्वम्—

यत्रैकविधावर्थौजायेते यौ तयोरपूर्वस्य।
अभिधानं प्राग्भवतः सतोऽभिधीयेत तत्पूर्वम्॥९७॥

यत्रेति। यत्र द्वावर्थावुपमानोपमेयलक्षणावेकविधौतुल्यकर्मकौयौजायेते भवतस्तयोर्मध्यादपूर्वस्य सह पश्चाद्भाविनो वार्थस्योपमेयस्य प्राक्पूर्वं भवतः सतोऽभिधानं क्रियेत तत्पूर्वं नामालंकारः॥

उदाहरणम्—

काले जलदकुलाकुलदशदिशि पूर्वं वियोगिनीवदनम्।
गलदविरलसलिलभरं पश्चादुपजायते गगनम्॥९८॥

काल इति। अत्रार्थौ गगनवदनलक्षणौ। तत्र वदनमुपमेयम्। तच्चगगनसमकालं पश्चाद्वा गलत्सलिलभरं भवति। अथ च विरहासहत्वप्रतिपादनार्थं प्रागुक्तम्॥

अथ सहोक्तिः—

सा हि सहोक्तिर्यस्यां प्रसिद्धदूराधिकक्रियो योऽर्थः।
तस्य समानक्रिय इति कथ्येतान्यः समं तेन॥९९॥

सेति। इति वक्ष्यमाणप्रकारेण सा सहोक्तिर्नामालंकारः। यस्यां प्रसिद्धा दूरमतिशयेनाधिका क्रिया यस्य स तथाविध उपमानलक्षणो योऽर्थस्तेन सार्धमन्य उपमेयार्थस्तस्योपमानस्य समानक्रिय इत्यमुना प्रकारेण कथ्यत इति। अथ वास्तवसहोक्तेरस्याश्च को विशेषः। उच्यते— तत्र कार्यकारणभाव औपम्याभावश्च समस्ति। अस्यां तु तद्विपर्ययः॥

उदाहरणमाह—

मधुपानोद्धतमधुकरमदकलकलकण्ठदीपितोत्कण्ठाः।
सपदि मधौ निजसदनं मनसा सह यान्त्यमी पथिकाः॥१००॥

मधुपानेति। अत्रोपमानं मनः शीघ्रगमनक्रिययादूराधिकमपि परिकैः सह समानक्रियमुक्तम्॥

भेदान्तरमाह—

यत्रैककर्तृका स्यादनेककर्माश्रिता क्रिया तत्र।
कथ्येतापरसहितं कर्मैकंसेयमन्या स्यात्॥१०१॥

यत्रेति। यत्रैककर्तृकानेककर्माश्रिता क्रिया भवति, तत्र चैकं प्रधानमुपमेयाख्यं कमोपरेण कर्मणोपमानेन सहोच्यते सेयमन्या पुनः सहोक्तिः॥

उदाहरणम्—

स त्वां विभर्ति हृदये गुरुभिरसंख्यैर्मनोरथैः सार्धम्।
ननु कोपनेऽवकाशः कथमपरस्या भवेत्तत्र॥१०२॥

सइति। अत्रैका क्रिया धारणलक्षणानेकं कर्म नायिकां मनोरथांश्चाश्रिता। तथैक एवनायकस्तस्यां कर्ता। प्रधानमेकं चात्र कर्म नायिकाख्यमुपमेयमपरैर्मनोरथैरुपमानैः सहकथितम्॥

अथसमुच्चयः—

सोऽयं समुच्चयः स्याद्यत्रानेकोऽर्थ एकसामान्यः।
अनिवादिर्द्रव्यादिः सत्युपमानोपमेयत्वे॥१०३॥

न इति। सोऽयं समुच्चयो नामालंकारो यत्रानेकव्यादिकोऽर्थउपमानोपमेयलक्षणो द्रव्यादिर्द्रव्यगुणक्रियाजातिरूप एकसामान्य एकेन साधारणेन धर्मेण युक्तः स्यादिति। उपमायाः समुचयत्वनिवृत्त्यर्थमाह— अनिवादिः। उपमायामिवादिशब्दप्रयोग इत्यर्थः। एवमपि रूपकत्वं स्यादित्यत आह—सत्युपमानोपमेयत्व इति। रूपके ह्यभेद एव हेतुभेदः। तयोरनेकग्रहणमत्र त्राद्यर्थपरिग्रहार्थम्। त्रिचतुराः पञ्चपावा यत्रार्थानिर्दिश्यन्ते ससमुच्चयः शोभामावहतीति भावः॥

उदाहरणम्—

जालेन सरसि मीना हिंस्रैरेणा वने च वागुरया।
संसारे भृतसृजास्नेहेन नराश्चवध्यन्ते॥१०४॥

जालेनेति। अत्र जालादीनां करणानां सरःप्रमुखाणामधिकरणानां हिंस्रादीनां कतृृणांवहूनामुपमानोपमेयभावे बन्धनमेकं सामान्यमिति॥

अयं साम्यम् —

अर्थक्रियया यस्मिन्नुपमानस्येति साम्यमुपमेयम्।
तत्सामान्यगुणादिककारणया तद्भवेत्साग्यम्॥१०५॥

अर्थक्रिययेति। तयोरुपमानोपमेययोर्यत्सामान्यं साधारणं गुणक्रियासंस्थानादि तत्कारणं यस्यास्तया तथाविधयार्थक्रियया यत्रोपमानस्योपमेयसाम्यमिति तत्साम्यं भवेत्॥

उदाहरणम्—

अभिसर रमणं किमिमां दिशमैन्द्रीमाकुलं विलोकयसि।
शशिनः करोति कार्यं सकलं मुखमेव ते मुग्धे॥१०६॥

अभिसरेति। अत्र शश्युपमानं मुखमुपमेयम्, प्रकाश्यमर्थक्रियासामान्यं कान्तिमत्त्वं गुणः॥

भेदान्तरमाह—

सर्वाकारं यस्मिन्नुभयोरभिधातुमन्यथा साम्यम्।
उपमेयोत्कर्षकरं कुर्वीत विशेषमन्यत्तत्॥१०७॥

सर्वाकारमिति। यस्मिन्नुपमेयोत्कर्षकराद्विशेषादन्यथा प्रकारान्तरेणोभयोरुपमानोपमेययोः सर्वाकारं सर्वात्मना साम्यमभिधातुमुपमेयोत्कर्षकरविशेषं कंचन कविः कुर्वीत तदन्यत्साम्यमलंकारः॥

उदाहरणम्—

मृगं मृगाङ्कः सहजं कलङ्कं बिभर्ति तस्यास्तु मुखं कदाचित्।
आहार्यमेवं मृगनाभिपत्रमियानशेषेण तयोर्विशेषः॥१०८॥

मृगमिति। अत्राहार्यकादाचित्कमृगनाभिपत्ररूपकालंकारभणनविशेषेणोपमेयस्य मुखस्योत्कर्षःप्रतिपादितः। अन्यथा तु नयनाह्लादनादिगुणैः सर्वथा साम्यमुक्तमिति॥

अथस्मरणम्—

वस्तुविशेषं दृष्ट्वा प्रतिपत्ता स्मरति यत्र तत्सदृशम्।
कालान्तरानुभूतं वस्त्वन्तरमित्यदः स्मरणम्॥१०९॥

वस्त्विति। यत्र प्रतिपत्ता विशिष्टं वस्तु किंचनावलोक्य कालान्तरानुभूतं वस्त्वन्तरं स्मरति, अद एतत्स्मरणं नामालंकारः। अथभ्रान्तिमतोऽस्य च को विशेषः। उच्यते— तत्रोपमानावगतिरेव नतूपमेयावगतिः। इह तूपमानस्मरणमात्रं न भ्रान्तिरिति॥

उदाहरणम्—

तव भवने पश्यन्तः स्थूलस्थूलेन्द्रनीलमणिमालाः।
भूभृन्नाथ मयूराः स्मरन्त्यमी कृष्णसर्पाणाम्॥११०॥

तवेति। अत्रेन्द्रनीलमणिमालादर्शनात्तत्सदृशं कृष्णसर्पाख्यं वस्त्वन्तरं मयूराः स्मरन्तीति लक्षणयोजना॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो

ऽष्टमोऽध्यायः समाप्तः।

________________________

नवमोऽध्यायः।

अथ क्रमप्राप्तमतिशयालंकारं वक्तुमाह—

यत्रार्थधर्मनियमः प्रसिद्धिबाधाद्विपर्ययं याति।
कश्चित्क्वचिदतिलोकं स स्यादित्यतिशयस्तस्य॥१॥

यत्रेति। यत्रालंकारेऽर्थधर्मयोर्नियमो नियतं स्वरूपं विपर्ययमन्यथात्वं गच्छति। नियमश्चेत्कथंविपर्ययं यातीत्याह—प्रसिद्धेरुष्णंदहतीत्यादिकायाः ख्यातेर्यो बाधो बाधनं तस्माद्धेतोः। स इत्यनेन प्रकारेणातिशयो नामालंकारः स्यात्। ननु यदि नियमस्यान्यथात्वतिशयस्तर्हि स नास्त्येव। नियमस्यान्यथाभावादित्यत आह—कश्चित्क्वचिदिति। न सर्वः सर्वत्रेत्यर्थः। कथं विपर्ययंयातीत्याह—अतिलोकं लोकातिक्रान्तं यथा भवति। अत एवातिशयनामकत्वम्। तस्येत्युत्तरेण संबन्धः॥

अथसामान्यस्यैव विशेषानाह—

पूर्वविशेषोत्प्रेक्षाविभावनातद्गुणाधिकविरोधाः।
विषमासंगतिपिहितव्याघाताहेतवो भेदाः॥२॥

पूर्वेति। एते तस्य पूर्वादयो द्वादशभेदाः॥

तत्र पूर्वस्य तावल्लक्षणमाह—

यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य।
प्रादुर्भावः पश्चाज्जनकस्य तु तद्भवेत्पूर्वम्॥३॥

यत्रेति। यत्र प्रागेव जन्यस्य कार्यस्य प्रादुर्भावो विवक्ष्यते जनकस्य तु कारणस्य पश्चात्तत्पूर्वंनामालंकारः।विवक्षापि कथं तथा भवतीत्याह—अतिप्रबलतया [हेतुभूतया। तत्र जनकव्यापारं विना जन्योत्पत्तिरिति जन्यस्यातिप्रबलता।] जन्यं जनयित्वा स्वयमुत्पद्यत इति जनकस्याप्रबलता। विवक्ष्यत इत्यनेन विवक्षामात्रमेतन्न परमार्थ इति सूचयति॥

उदाहरणम्—

जनमसुलभमभिलषतामादौ दन्दह्यते मनो यूनाम्।
गुरुरनिवारप्रसरः पश्चान्मदनानलो ज्वलति॥४॥

जनमिति। अत्र दाहः कार्यं पूर्वंजातम्, मदनाग्निज्वलनं तु दाहकारणं पश्चादिति विशेषलक्षणम्। ज्वलितोऽग्निर्दहतीत्येवंविधश्च योऽर्थधर्मनियमः स क्वचिदेव कामिनि विपर्यय यात इतीदं सामान्यलक्षणम्। अत्र चातिप्रबलत्वं हेतुः॥

अथ विशेषमाह—

किंचिदवश्याधेयं यस्मिन्नभिधीयते निराधारम्।
तादृगुपलम्यमानं विज्ञेयोऽसौ विशेष इति॥५॥

किंचिदिति। यस्मिन्नलंकारे किंचिद्वस्त्ववश्याधेयमिति विद्यमानाधारमेव सन्निराधारमित्यभिधीयते स इत्यनेन प्रकारेण विशेषनामालंकारो ज्ञेयः। ननुतथाभूतस्यान्यथा कथनं दोष एव स्यान्नत्वलंकार इत्याह— तादृगुपलभ्यमानमिति। तथा दर्शनान्न किंचिदनुपपन्नमित्यर्थः। वस्त्वन्तरेभ्यो विशिष्टधर्माभिधानाद्विशेषसंज्ञा॥

उदाहरणम्—

दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः॥६॥

दिवमिति। अत्र गिर आधेयाः। प्राण्याश्रितत्वात्। अथ च विनापि कविभिराधारैरमयन्तीत्युपलब्ध्या कथितम्॥

प्रकारान्तरमाह—

यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया।
युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति॥७॥

यत्रेति। यत्रानेकस्मिंस्त्रादिक आधारे वस्तु सत्तया कथ्यते सोऽत्रान्यः प्रकारान्तरेण विशेष इति। कदाचिद्वस्त्वप्यनेकं स्यात्तत्रातिशयत्वमित्यत आह— एकमिति। एकमपि पर्यायेणानेकत्र तिष्ठत्येवेति न विशेष इत्याह—युगपदित्यादि॥

उदाहरणम्—

हृदये चक्षुषिवाचि च तव सैवाभिनवयौवना वसति।
वयमत्र निरवकाशा विरम कृतं पादपतनेन॥८॥

हृदय इति। अत्रैका तरुणी युगपदनेकस्मिन्नाधारे हृदयादिके वसन्ती कथिता। अत एव परस्या निरवकाशत्वम्॥

भूयोऽपि भेदान्तरमाह—

यत्रान्यत्कुर्वाणो युगपत्कार्यान्तरं च कुर्वीत।
कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः॥९॥

यत्रेति। असावन्यो विशेषो ज्ञेयः, यत्र कर्तान्यत्कर्म कुर्वाणः सन्कर्मान्तरं कुर्वीत। पर्यायेणान्यदपि करिष्यति कोऽतिशय इत्यत आह— युगपत्समकालमिति। एवमपि हसन्पठतीत्यादिवद्भविष्यति तत्किमत्रातिशयत्वमित्याह— कर्तुमशक्यमिति। अशक्यक्रियान्तरकरणादतिशय इत्यर्थः॥

उदाहरणम्—

लिखितं बालमृगाक्ष्या मम मनसि तया शरीरमात्मीयम्।
स्फुटमात्मनो लिखन्त्या तिलकं विमले कपोलतले॥१०॥

लिखितमिति। अत्र नायिकया कर्त्र्यानिजकपोले तिलकलेखनं कुर्वाणया तदैव कर्तुमशक्य

नायकचित्तेशरीरलेखनलक्षणं कर्मान्तरं कृतम्॥

अथोत्प्रेक्षा—

यत्रातितथाभूते संभाव्येत क्रियाद्यसंभाव्यम्।
संभूतमतद्वति वा विज्ञेया सेयमुत्प्रेक्षा॥११॥

यत्रेति। यत्रासंभाव्यं क्रियादिकं वस्तुनि क्वापि संभाव्यते सेयमुत्प्रेक्षा। यद्यत्र न संभवति कथंतस्य तत्र संभावनेत्याह— अतितथाभूत इति। अतिशयेन तथाभूते। तथात्वमसंभाव्यसंभावनायोग्यं प्रकारं प्राप्त इत्यर्थः। प्रकारान्तरमाह— संभूतमतद्वति वेति। यत्र वा वस्तुन्यतद्वत्यविद्यमानतक्रियादिकेऽप्यसंभाव्यं क्रियादि तथाभूतत्वात्संभूतमेवोच्येत सान्योत्प्रेक्षा॥

प्रथमोदाहरणमाह—

घनसमयसलिलधौते नभसि शरच्चन्द्रिका विसर्पन्ती।
अतिसान्द्रतयेह नृणां गात्राण्यनुलिम्पतीवेयम्॥१२॥

घनेति। अत्र चन्द्रिकाया अनुलेपनमसंभाव्यमेव संभावितमनुलिम्पतीवेति। नैर्मल्यान्नमसः, घनत्वेन च तस्यास्तथाभूतत्वम्॥

द्वितीयोदाहरणमाह—

पल्लवितं चन्द्रकरैरखिलं नीलाश्मकुट्टिमोर्वीषु।
ताराप्रतिमाभिरिदं पुष्पितमवनीपतेः सौधम्॥१३॥

पल्लवितमिति। अत्र सौधाख्येवस्तुन्यपल्लवितेऽपुष्पिते च चन्द्रतारकाप्रतिबिम्बसंपकात्तद्योग्ये सत्यसंभाव्यमपि पल्लवितत्वं पुष्पितत्वं च संभूतं कथितम्। इवार्थश्च सामर्थ्याद्गम्यते॥

प्रकारान्तरमाह—

अन्यनिमित्तवशाद्यद्यथा भवेद्वस्तु तस्य तु तथात्वे।
हेत्वन्तरमतदीयं यत्रारोप्येत सान्येयम्॥१२॥

अन्येति। नेयमन्योत्प्रेक्षा यस्यां तद्वस्त्वन्यनिमित्तवशात्कारणाद्यथा येन रूपेण भवति तस्य वस्तुतस्तथा भवने तत्स्वरूपतोत्पत्तौकारणान्तरमतदीयं यत्तस्य सक्तं न भवति तदारोप्येतेति॥

उदाहरणम्—

सरसि समुल्लसदम्भसि कादम्बवियोगदूयमानेव।
नलिनी जलप्रवेशं चकार वर्षागमे सद्यः॥१५॥

सरसीति। अत्र नलिन्या जलप्रवेशे निजं जलोल्लासाख्यं कारणं विमुच्य हंसवियोगाख्यं हेत्वन्तरमारोपितम्। या किलान्यापीष्टेन वियुज्यते सा प्रायो जलप्रवेशादि कुरुते॥

अथ विभावना—

सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम्।
अभिधीयते यतः स्यात्तत्कारणमन्तरेणैव॥१६॥

सेति। सेयमेषाविभावना, यस्यामभिधेयः पदार्थो यतः कारणान्निजाद्धेतोर्भवति स पदार्थस्तत्कारणमन्तरेणाप्यभिधीयत इति। ननु तत्कारणं चेत्कथं तद्विनोत्पत्तिरित्याह— उपलभ्यमानं दृश्यमानमिति। अत एवातिशयत्वमिति॥

उदाहरणम्—

निहतातुलतिमिरभरः स्फारस्फुरदुरुतरप्रभाप्रसरः।
शं वो दिनकृद्दिश्यादतैलपूरो जगद्दीपः॥१७॥

अत्राभिधेयं दीपलक्षणं यतः कारणात्तैलाख्याद्भवति तद्विनापि कथितमतैलपूर इति। अत्र च दीप इव दीप इति सत्यपि रूपकत्वेऽतैलपूर इति विभावनाविभागः॥

प्रकारान्तरमाह—

यस्यां तथा विकारस्तत्कारणमन्तरेण सुव्यक्तः।
प्रभवति वस्तुविशेषे विभावना सेयमन्या तु॥१८॥

यस्यामिति। सेयमेषान्या विभावना, यस्यां तथेति यतः कारणाद्विकारः क्वचिद्वस्तुनि प्रभवति तत्कारणमन्तरेणापि सुव्यक्तः प्रकटः स विकारः कथ्यत इति॥

उदाहरणम्—

जाता ते सखि सांप्रतमश्रमपरिमन्थरा गतिः किमियम्।
कस्मादभवदकस्मादियममधुमदालसा दृष्टिः॥१९॥

जातेति। अत्र गतिदृष्टिलक्षणे वस्तुविशेषे मन्यरत्वालसत्वलक्षणो विकारो यतः कारणाच्छ्रममधुमदलक्षणाद्भवति तेन विनैवोक्तः। अथ पूर्वतोऽस्याः को विशेषः। उच्यते—पूर्वत्राभिधेयं कारणमन्तरेणोक्तमिह तु विकार इति॥

भूयोऽपि भेदान्तरमाह—

यस्य यथात्वं लोके प्रसिद्धमर्थस्य विद्यते तस्मात्।
अन्यस्यापि तथात्वं यस्यामुच्येत सान्येयम्॥२०॥

यस्येति। यस्यार्थस्य यथात्वं यादृग्धर्मत्वं लोके प्रसिद्धं ततोऽर्थादन्यस्यापि तथात्वं तादृग्धर्मता कथ्यते सेयमन्या विभावना॥

उदाहरणम्—

स्फुटमपरं निद्रायाः सरसमचैतन्यकारणं पुंसाम्।
अपटलमान्ध्यनिमित्तं मदहेतुरनासवो लक्ष्मीः॥२१॥

स्फुटमिति। अत्राचैतन्यनिमित्तत्वं निद्रायाः प्रसिद्धम्। आन्ध्यहेतुत्वं पटलस्य। मदकारणत्वमासवस्य। अथ चान्यस्यार्थस्य लक्ष्मीलक्षणस्योक्तमिति॥

अथ तद्गुणः—

यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम्।
संसर्गे नानात्वं न लक्ष्यते तद्गुणः स इति॥२२॥

यस्मिन्निति। यत्राभिन्नगुणानामर्थानां संबन्धे सति नानात्वं भेदो न लक्ष्यत इत्युच्यते स तद्गुणोनामालंकारः स्यात्। स एव गुणो यत्रेति कृत्वा। ननु दुग्धतक्रादीनां संसर्गे नानात्वं न लक्ष्यत एवं तत्किमतिशयत्वमित्याह— योगलक्ष्यरूपाणामिति। यत्र योगे सति रूपं लक्षयितुं शक्यमथवा लक्ष्यमिति कथ्यत इत्यर्थः॥

उदाहरणम्—

नवधौतधवलवसनाश्चन्द्रिकयासान्द्रया तिरोगमिताः।
रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि॥२३॥

नवेति। अत्रज्योत्स्नाभिसारिकालक्षणावर्थावेकेन सहजाहार्येण शुक्लगुणेन युक्तौ संसर्गे लक्ष्यरूपावप्यलक्ष्यतयोक्तौ॥

भेदान्तरमाह—

असमानगुणं यस्मिन्नतिबहलगुणेन वस्तुना वस्तु।
संसृष्टं तद्रुणतां धत्तेऽन्यस्तद्गुणः स इति॥२४॥

असमानेति। यत्र वस्तुनान्येन संसृष्टं वस्तु तद्गुणतां धत्ते तदीयगुणं भवतीति कथ्यते स इत्यन्यस्तद्गुणः। कदाचिदेकगुणता तयोर्भविष्यति, अतो नातिशयत्वमित्याह— अदिवहलगुणेनेति। अतिबहुगुणता तद्गुणत्वहेतुः क्रियते इत्यर्थः॥

उदाहरणमाह—

कुब्जकमालापि कृता कार्तस्वरभास्वरे त्वया कण्ठे।
एतत्प्रभानुलिप्ता चम्पकदामभ्रमं कुरुते॥२५॥

कुब्जकमालेति। अत्र शुक्लगुणा कुब्जकमाला गौरवर्णकण्ठेन संपृक्ता गौरमेव वर्णंधत्ते।

अथाधिकम्—

यत्रान्योन्यविरुद्धं विरुद्धबलवत्क्रियाप्रसिद्धं वा।
वस्तुद्वयमेकस्माज्जायत इति तद्भवेदधिकम्॥२६॥

यत्रेति। यत्रैकस्मात्कारणाद्वस्तुद्वयमुत्पद्यत इत्युच्यते तदधिकम्। किमेतावतातिशयत्वमित्याह— अन्योन्यविरुद्धम्। परस्परविरुद्धस्वभावमित्यर्थः। प्रकारान्तरमाह—विरुद्धाभ्यां बलवतीभ्यां क्रियाभ्यां प्रसिद्धं वा यत्रैकस्मात्कारणाद्वस्तुद्वयं जायते तदप्यधिकम्॥

उदाहरणम्—

मुञ्चति वारि पयोदो ज्वलन्तमनलं च यत्तदाश्चर्यम्।
उदपद्यत नीरनिधेर्विषममृतं चेति तच्चित्रम्॥२७॥

मुञ्चतीति। अत्र पूर्वार्धे एकस्मान्मेघाद्वस्तुद्वयं वारिज्वलनलक्षणं विरुद्धं जायमानमुक्तम्। उत्तरार्धे त्वेकस्मात्समुद्राद्वस्तुद्वयं विषामृतलक्षणमन्योन्यविरुद्धक्रियमुक्तम्। विषामृतवोर्हि न परस्परं विरोधः। किं तु मारणजीवनक्रिये विरुद्धे। इत्युदाहरणद्वयमेतत्॥

भेदान्तरमाह—

यत्राधारे सुमहत्याधेयमवस्थितं तनीयोऽपि।
अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम्॥२८॥

यत्रेति। यत्र सुमहत्यप्याघारेऽतिशयवत्यप्याधेयं वस्त्ववस्थितं कुतश्चित्कारणान्न भाति तदपरमधिकं बोद्धव्यम्॥

उदाहरणम्—

जगद्विशाले हृदि तस्य तन्वी प्रविश्य सास्ते स्म तथा यथा तत्।
पर्याप्तमासीदखिलं न तस्यास्तत्रावकाशस्तु कुतोऽपरस्याः॥२९॥

जगदिति। अत्र जगद्विस्तीर्णेऽपि हृदये आधारे तन्वीलक्षणमाधेयं स्वल्पमपि न भाति। तस्यास्तत्रामानमनुरागाद्वहिरपि सर्वत्र दर्शनात्। तन्वीति साभिप्रायमत्र नाम॥

अथ विरोधः—

यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम्।
एकत्रावस्थानं समकालं भवति स विरोधः॥३०॥

यस्मिन्निति। यत्र द्रव्यगुणक्रियाजातीनां विरुद्धानामेकत्राधारेऽवस्थानं भवति स विरोधः। परस्परमन्योन्यम्। न त्वाधारेण सह। तथा सर्वप्रकारं सजातीयैर्विजातीयैश्च सहेत्यर्थः। समकालमिति युगपत्। अत एवातिशयत्वं भवति॥

एवं सर्वथा विरोधे सति कियन्तो भेदा इति तत्संख्यामाह—

अस्य सजातीयानां विधीयमानस्य सन्ति चत्वारः।
भेदास्तन्नामानः पञ्च त्वन्ये तदन्येषाम्॥३१॥

अस्येति। अस्य विरोधस्य सजातीयानां द्रव्यादीनां विधीयमानस्य चत्वारो भेदाः सन्ति। यथाद्रव्ययोर्विरोधो द्रव्यविरोधः। एवं गुणविरोधः क्रियाविरोधो जातिविरो-

पक्ष। अत एवतन्नामानः। तथा तेभ्यः सजातीयेभ्योऽन्येषां विजातीयानां पुनर्विधीयमानस्य पञ्चभेदाभवन्ति। यथा द्रव्यगुणयोर्द्रव्यक्रिययोर्गुणक्रिययोर्गुणजात्योः क्रियाजात्योश्चेति॥

ननु द्रव्यजात्योरपि षष्ठोभेदः समस्ति तत्कथं पञ्चेत्युक्तं तत्राह—

जातिद्रव्यविरोधो न संभवत्येव तेन न षडेते।
अन्ये तु वक्ष्यमाणाः सन्ति विरोधास्तु चत्वारः॥३२॥

जातीति। नित्यमेव द्रव्याश्रितत्वाज्जातेर्नजातिद्रव्ययोर्विरोध इत्यर्थः। एवं नव भेदाः। तथात्रान्ये वक्ष्यमाणाश्चत्वारो विरोधाः सन्ति॥

तद्यथा—

यत्रावश्यं भावो ययोः सजातीययोर्भवेदेकः।
एकत्र विरोधवतोस्तयोरभावोऽयमन्यस्तु॥३३॥

यत्रेति। यत्राधारे विरुद्धयोः सजातीययोरर्थयोर्मध्यादेकोऽवश्यंभावी निश्चितो भवति, तयोर्द्वयोरप्यभावो यत्र कथ्यते सोऽपरो विरोधश्चतुर्धा द्रव्यगुणक्रियाजातिभेदेन। इत्येवं त्रयोदशसंख्योऽयं विरोधालंकारः॥

अथैषामेवयथाक्रममुदाहरणान्याह—

अत्रेन्द्रनीलभित्तिषु गुहासु शैले सदा सुवेलाख्ये।
अन्योन्यानभिभूते तेजस्तमसी प्रवर्तेते॥३४॥

अत्रेति। अत्र तेजस्तमसोर्विरुद्धद्रव्ययोरेकत्र गुहाधारेऽवस्थितिरुक्ता।

सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि।
ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि॥३५॥

सत्यमिति। अत्र सरलत्वकुब्जत्वादिविरुद्धगुणावस्थितिः॥

बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम्।
जडयति संतापयति च दूरे हृदये च मे वसति॥३६॥

पालेति। अत्र जढीकरणसंतापनादिक्रिये विरुद्धे॥

एकस्यामेव तनौ विभर्ति युगपन्नरत्वसिंहत्वे।
मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति॥३७॥

एकस्यामिति। अत्र नरत्वादिजातिविरोधः॥

न विजातीयोदाहरणान्याह—

तेजस्विना गृहीतं मार्दवमुपयाति पश्य लोहमपि।
पात्रं तु महद्विहितं तरति तदन्यच्च तारयति॥३८॥

तेजस्विनेति। अत्र कठिनस्य लोहद्रव्यस्य मार्दवगुणस्य च विरोधेऽप्येकत्रावस्थितिः। अत्र लोहद्रव्यस्य तरणक्रियायाश्च विरोधेऽवस्थितिः॥

सा कोमलापि दलयति मम हृदयं पश्यतो दिशः सकलाः।
अभिनवकदम्बधूलीधूसरशुभ्रभ्रमदभ्रमराः॥३९॥

सेति। अत्र कोमलगुणस्य दलनक्रियायाश्च विरोधेऽप्यवस्थितिः। अत्र भ्रमरजातेः शुक्लत्वगुणस्य च विरोधः॥

वरतनु विरुद्धमेतत्तव चरितमदृष्टपूर्वमिह लोके।
मथ्नासि येन नितरामबलापि बलान्मनो यूनाम्॥४०॥

वरतन्विति। अत्राबलत्वजातेर्मथनक्रियायाश्च विरोधः॥

अन्ये तु भेदाश्चत्वारः सन्तीत्युक्तम्। तेषामुदाहरणान्याह—

अविवेकितया स्थानं जातं न जलं न च स्थलं तस्याः।
अनुरज्यचलप्रकृतौ त्वय्यपि भर्ता यया मुक्तः॥४१॥

अविवेकितयेति। अत्र द्रव्ययोर्जलस्थलयोर्विरोधित्वादेकस्याभावेऽवश्यमेवेतरस्यावस्थानेन भाव्यम्। अत्र चोभयोरप्यभाव उक्तः॥

न मृदु न कठिनमिदं मेहतहृदयं पश्य मन्दपुण्यायाः।
यद्विरहानलतप्तं न विलयमुपयाति न च दार्ढ्यम्॥४२॥

नेति। यदि मद्धृदयं मृदु भवेत्ततो विरहाग्नितप्तं जतुवद्विलीयेत। कठिनं स्यात्ततो घनवद्द्ढिमानमाप्नुयादिति। अत्र मार्दवकाठिन्ययोर्गुणयोरेकस्याप्यभावः॥

नास्ते न याति हंसः पश्यन्गगनं घनश्यामम्।
चिरपरिचितां च विसिनीं स्वयमुपभुक्तातिरिक्तरसाम्॥४३॥

नेति। यथा पूर्वत्र गुणयोरेवमत्र क्रिययोरासनगमनलक्षणयोर्विरुद्धयोर्मध्यादेकस्या अप्यभाव इति॥

न स्त्री न चायमस्त्री जातः कुलपांसनो जनो यत्र।
कथमिव तत्पातालं न यातु कुलमनवलम्बितया॥४४॥

नेति। कुलपांसनः। कुलनाशन इत्यर्थः। अत्रापि स्त्रीत्वपुरुषत्वजात्योर्विरुद्धयोर्मध्यादेकस्या अप्यभावः॥

अथ विषममाह—

कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः।
तद्वत्क्रिययोरथवा संजायेतेति तद्विषमम्॥४५॥

कार्यस्येति। यत्र कार्यकारणसंबन्धिनोर्गुणयोः क्रिययोर्वा परस्परमन्योन्यं विरोधो

भवेत्तद्विषमनामालंकारः। ननु यदि वस्तुनोः कार्यकारणभावः, कथं तद्गुणयोः क्रिययौर्वा विरोधः। सत्यम्।अत एवातिशयत्वम्॥

उदाहरणम्—

अरिकरिकुम्भविदारणरुधिरारुणदारुणादतः खड्गात्।
वसुधाधिपते धवलं कान्तं च यशो बभूव तव॥४६॥

अरीति। अत्र कारणत्य खड्गस्य गुणौलौहित्यदारुणत्वे, कार्यस्य यशसो धवलत्वकान्तत्वे, तेषां चान्योन्यं विरोधः॥

तथा—

आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे॥४७॥

आनन्देति। अत्र कारणस्य नायिकायाः क्रिया आनन्ददानम्, कार्यस्य तु विरहस्य तापनम, तयोश्चान्योन्यं विरोधः॥

अथासंगतिः—

विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र।
यस्यामुपलभ्येते विज्ञेया संगतिः सेयम्॥४८॥

विस्पष्ट इति। सेयमसंगतिर्योद्धव्या, यस्यां विस्पष्टे प्रकटे समकालमेव च कार्यमन्यत्रोपलभ्यते कार्यं वान्यत्रेति। अत एवासंगतिर्नाम, अतिशयत्वं च॥

उदाहरणम्—

नवयौवनेन सुतनोरिन्दुकलाकोमलानि पूर्यन्ते।
अङ्गान्यसंगतानां यूनां हृदि वर्धते कामः॥४९॥

नवेति। अत्राङ्गपूरणाख्यं कारणं तन्वीस्थम्, मदनवर्धनं कारणं युवस्थं विस्पष्टमेवोपलभ्यते॥

अथ पिहितम्—

यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम्।
अर्थान्तरं पिदध्यादाविर्भूतमपि तत्पिहितम्॥५०॥

यत्रेति। यत्रैकाधारमर्थान्तरं कर्मभूतं गुणः कर्ततिप्रबलतया हेतुभूतया पिदध्यात्स्थमयेतत्पिहितं नामालंकारः। ननु तुल्यं गुणान्तरं स्थग्यत एव किमतिशयत्वमित्याह— असमानम्। असदृशमित्यर्थः। कदाचिदसमानमप्यलब्धपाटवं स्यादित्यत आह— आविर्भुतमपीत्यर्थः।असमानग्रहणेन प्रथमातद्गुणालंकाराद्विशेषः ख्याप्यते, तत्र ह्येकगुणानामर्थानासंसर्गेनानात्वं लक्ष्यत इत्युक्तम्। द्वितीयात्तर्हि कोऽस्य विशेषः। उच्यते— तत्रासमानगुणं वस्तु वस्त्वन्तरेण प्रबलगुणेन संसृष्टं तद्गुणतां प्राप्यते, न त-

द्विधीयत इति। मीलितात्तर्हि कोऽस्य भेदः। उच्यते—असमानचिह्नत्वमेव। तत्र हि समानचिह्नेन वस्तुना हर्षकोपादि तिरस्क्रियत इति सर्वंसमञ्जसम्॥

उदाहरणम्—

प्रियतमवियोगजनिता कृशता कथमिव तवेयमङ्गेषु।
लसदिन्दुकलाकोमलकान्तिकलापेषु लक्ष्येत॥५१॥

प्रियेति। अत्र कान्तिगुणेनार्थान्तरं कृशताख्यमेकाधारमसमानगुणमतिप्रबलत्वात्पिहितमिति॥

अथव्याघातः—

अन्यैरप्रतिहतमपि कारणमुत्पादनं न कार्यस्य।
यस्मिन्नभिधीयेत व्याघातः स इति विज्ञेयः॥५२॥

अन्यैरिति। यत्र कारणं कार्यस्याजनकमुच्येत स कार्यव्याघाताख्योऽलंकारः।कदाचित्कारणं केनचित्प्रतिहतं भविष्यतीत्यत आह—अन्यैः कारणैरप्रतिहतमपीति। अत एवातिशयितमिति॥

उदाहरणमाह—

यत्र सुरतप्रदीपा निष्कज्जलवर्तयो महामणयः।
माल्यस्यापि न गम्या हृतवसनवधूविसृष्टस्य॥५३॥

यत्रेति। अत्र दीपः कारणं कार्यस्य कज्जलस्य नोत्पादकम्। तच्च कारणं कारणान्तरैर्माल्यादिभिरप्रतिहतमिति॥

अथाहेतुः—

बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम्।
यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसावहेतुरिति॥५४॥

बलवतीति। असावहेतुर्नामालंकारः, यत्रार्थोविकारमन्यथात्वं नायाति। कदाचिद्विक्रियाकारणं न स्यादित्याह—विकारहेतौ सत्यपि। कदाचिदसौहेतुः प्रबलो न स्यादित्याह—बलवतीति। अत एवातिशयत्वमिति। कथं नायाति, स्थैर्यादिति॥

उदाहरणम्—

रूक्षेऽपि पेशलेन प्रखलेऽप्यखलेन भूषिता भवता।
वसुधेयं वसुधाधिप मधुरगिरा परुषवचनेऽपि॥५५॥

रूक्ष इति। अत्र रूक्षादिके बलवति विकारकारणे सत्यपि विकारमपेशलत्वादिकं राजा महासत्त्वान्नायातीति॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो

नवमोऽध्यायः समाप्तः।

_________________

दशमोऽध्यायः।

वास्तवौषम्यातिशयान्व्याख्यायाधुना क्रमप्राप्तं श्लेषं व्याचिख्यासुराह—

यत्रैकमनेकार्थैर्वाक्यंरचितं पदैरनेकस्मिन्।
अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः॥१॥

यत्रेति। यत्रैकमेव वाक्यं रचितं सदनेकस्मिन्नर्थे निश्चयं कुरुते सोऽर्थश्लेषोविज्ञेयः। नन्वेकं चेद्वाक्यं कथमनेकार्थनिश्चयं करोतीत्याह—अनेकार्थैःपदै रचितमिति कृत्वा। एकं वाक्यमित्येकग्रहणं शब्दश्लेषादस्य विशेषख्यापनार्थम्। तत्र हि ‘युगपदनेकं वाक्य यत्र विधीयेत स श्लेषः’ (४।१) इत्युक्तम्। किं च तत्र शब्दानां श्लेषः,अत्र त्वर्थानामिति॥

अथास्यैव भेदानाह—

अविशेषविरोधाधिकवक्रव्याजोक्त्यसंभवावयवाः।
तत्त्वविरोधाभासाविति भेदास्तस्य शुद्धस्य॥२॥

अविशेषेति। तस्य श्लेषस्य शुद्धस्याविशेषादयो दश भेदाः। इतिशब्दः समाप्त्यर्थो निर्देशार्थोवा। शुद्धग्रहणं परमतनिरासार्थम्। यतः कैश्चित् ‘तत्सहोक्त्युपमाहेतुनिर्देशात्रिविधम्’ इति संकीर्णत्वेन त्रैविध्यमुक्तमिति शुद्धस्यैव सतोऽस्य दश भेदाः। अलंकारान्तरसंस्पर्शेऽनन्ता इत्यर्थः॥

यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमविशेषं लक्षयितुमाह—

अविशेषः श्लेषोऽसौ विज्ञेयो यत्र वाक्यमेकस्मात्।
अर्थादन्यं गमयेदविशिष्टविशेषणोपेतम्॥३॥

अविशेष इति।असावविशेषश्लेषो ज्ञेयः, यत्र वाक्यमेकस्मात्प्रक्रान्तादन्यमर्थंगमयेत्। कीदृशम्।अविशिष्टैः समानैर्विशेषणैरुपेतं युक्तम्। यादृशानि चैकस्य विशेषणानि तादृशान्येवापरस्यापीत्यर्थः। ननु प्रकृतानुपयोग्यर्थान्तरमुन्मत्तवाक्यवदसंबद्धमवगतमपि क्वोपयुज्यते। सत्यम्। एतदेवास्यालंकारत्वम्। एवं हि सहृदयावर्जकत्वमस्य। अत्र च महाकवय एवं प्रमाणम्॥

उदाहरणम्—

शरदिन्दुसुन्दररुचं सुकुमारां सुरभिपरिमलामनिशम्।
निदधाति नाल्पपुण्यः कण्ठेनवमालिकां कान्ताम्॥४॥

शरदिति।नवा प्रत्यग्रामाला यत्यास्तां नवमालिकां कान्तां प्रियतमामल्पपुण्यः कण्ठेन करोतीति। एतत्प्रकृतं वाक्यं कान्तानवमालिकाशब्दयोरनेकार्थत्वादिदमर्थान्तरगमयति। यथा—नवमालिकाख्यां सुमनोजातिं कान्तां हृद्यामल्पपुण्यः कण्ठेन कुरुत इति। शरदिन्दुसुन्दररुचमित्यादीन्यविशिष्टानि विशेषणानि॥

अथ विरोधश्लेषः—

यत्र विरुद्धविशेषणमवगमयेदन्यदर्थसामान्यम्।
प्रक्रान्तमतोऽन्यादृग्वाक्यश्लेषो विरोधोऽसौ॥५॥

यत्रेति। असौ विरोधाख्यश्लेषः, यत्र प्रक्रान्तवाक्यमन्यदर्थसामान्यं विरुद्धविशेषणमवगमयेत्। कीदृग्वाक्यम्। अतोऽर्थान्तरादन्यादृशम्। विशेषरूपमविरुद्धं चेत्यर्थः। तेन यत्र प्रक्रान्तोऽर्थविशेषोऽन्यदर्थसामान्यं विरुद्धविशेषणमवगमयति स विरोधश्लेष इति तात्पर्यार्थः॥

उदाहरणम्—

संवर्धितविविधाधिककमलोऽप्यवदलितनालिकः सोऽभूत्।
सकलारिदाररसिकोऽप्यनभिमतपराङ्गनासङ्गः॥६॥

संवर्धितेति। अत्रायं प्रक्रान्तोऽर्थः— स कश्चिद्राजा एवंविधोऽभूत्। यथा संवर्धित नानाभ्यधिकलक्ष्मीकोऽवदलितमुर्खश्च। तथा सकलशत्रुविदारणरसिकोऽनिष्टपरस्त्रीसङ्गश्चेति। इदं तु विरुद्धमर्थसामान्यं गम्यते—यदि संवर्धितानि विविधान्यधिकं कमलानि पद्मानि येन, कथमवदलितानि नालिकानि पद्मानि तेनैवेति। तथा यदि सकलेष्वरिदारेषु शत्रुकलत्रेषु रसिकः कथमनभिमतपराङ्गनासङ्ग इति। सामान्यरूपता चास्य विशेष्याविशेषणादिति॥

अथाधिकश्लेषः—

यत्राधिकमारब्धादसमानविशेषणं तथा वाक्यम्।
अर्थान्तरमवगमयेदधिकश्लेषः स विज्ञेयः॥७॥

यत्रेति। यत्र वाक्यं कर्तृभूतमारब्धात्प्रकृतादन्यदर्थान्तरमधिकमुत्कृष्टं गमयेत्सोऽधिकश्लेषः। अविशेषश्लेषादस्य विशेषमाह—असमानविशेषणमिति। तत्र हि समानार्थानि विशेषणान्युक्तानि॥

उदाहरणम्—

प्रेम्णा निधाय मूर्धनि वक्रमपि विभर्ति यः कलावन्तम्।
भूतिंच वृषारूढः स एव परमेश्वरो जयति॥८॥

प्रेम्णेति। यः कलावन्तं विदग्धं वक्रमनृजुहृदयमपि बिभर्ति, प्रेम्णा प्रीत्या शिरसि कृत्वा।तथा भूतिंसमृद्धिं च विभर्ति। कीदृशः सन्। वृषे धर्मे समारूढः। स एव परमेश्वरो नायको जयति। एतत्प्रकृतं वाक्यमिदं तूत्कृष्टमर्थान्तरं गमयति—यथा स एव परमेश्वरो महादेवो जयति, यः कलावन्तं चन्द्रं वक्रं कलाशेषमपि प्रेम्णा मूर्ध्नि निधाय वहति। भूतिंच भस्म वहति। वृषेवृषभे समारूढ इति। उत्कृष्टत्वं चात्र देववर्णनात्। नृभ्यो हि देवा अधिकाः। विशेषणान्यपि भिन्नार्थान्यत्रेति॥

अथ वक्रश्लेषः—

यत्रार्थादन्यरसस्तत्प्रतिबद्धश्च गम्यतेऽन्योऽर्थः।
वाक्येन सुप्रसिद्धो वक्रश्लेषःस विज्ञेयः॥९॥

यत्रेति। यत्र वाक्येन स्वमर्थं ब्रुवतान्योऽर्थः प्रासङ्गिको गम्यते। कीदृशः। प्रकृतादन्यासः। तथातेन प्रकृतार्थेन प्रतिबद्धः। प्रतिबद्धता चैकविषयत्वेन। तथा सुप्रसिद्धस्तत्प्रतिबद्धत्वेनसुष्टुप्रतीतः॥

उदाहरणम्—

आक्रम्य मध्यदेशं विदधत्संवाहनं तथाङ्गानाम्।
पतति करः काञ्च्यामपि तव निर्जितकामरूपस्य॥१०॥

आक्रम्येति। तव निर्जितकामरूपाख्यजनपदस्य संबन्धी करो नृपदेयभागः काञ्चीनाक्षियावद्देशे पतति। काञ्च्यपि त्वया जितेत्यर्थः। किं कृत्वा। मध्यदेशं कान्यकुब्जादिकमाक्रम्याभिभूय। अनन्तरमङ्गानां देशविशेषाणां संवाहनमुपमर्दनं कुर्वन्निति। अथ गम्यमर्थान्तरं भण्यते—यथा तव तिरस्कृतमदनरूपस्य करो हस्तः काञ्च्यांरशनाप्रदेशे पतति। मध्यदेशमुदरमात्रम्। अङ्गानामूरुस्तनादीनां संवाहनं परिमलनं कुर्वन्। अयं चार्थःशृङ्गाररसयुक्तः। एकविषयत्वेन च पूर्वार्धप्रतिबद्धः। पूर्वत्र तु रसो वीराभिधः॥

अथ व्याजश्लेषः—

यस्मिन्निन्दा स्तुतितो निन्दाया वा स्तुतिः प्रतीयेत।
अन्या विवक्षिताया व्याजश्लेषःस विज्ञेयः॥११॥

यस्मिन्निति। यत्र स्तुतेर्विवक्षिताया अन्या प्रासङ्गिकी निद्रा प्रतीयते निन्दाया वा विवक्षितायाः प्रासङ्गिकीस्तुतिः स व्याजश्लेषः॥

उदाहरणमाह—

त्वया मदर्थे समुपेत्य दत्तमिदं यथा भोगवते शरीरम्।
तथास्य ते दूति कृतस्य शक्या प्रतिक्रियानेन न जन्मना मे॥१२॥

त्वयेति। अत्र कयापि नायिकया दूती दयितपार्श्वेप्रेषिता। सा तु तत्र स्वार्थं कृतवती। समागत्य चाधरक्षतादिकमुद्दिश्योत्तरं दत्तवती यथाहं तत्र त्वदर्थे गता सती सर्पेण दष्टा, परं वैद्यैश्चिकित्सितेति जीविता। ततस्तां कृतदोषां दूतीं नायिका स्तुतिद्वारेण निन्दति त्वयेत्यादिना। भोगवते दत्येकत्रसर्पाय, अन्यत्र विलासिने। प्रतिक्रिया त्वेकत्रोपकारः, अन्यत्रापकारः॥

निन्दास्तुतिमाह—

नो भीतं परलोकतो न गणितः सर्वः स्वकीयो जनो
मर्यादापि च लङ्घिता न च तथा मुक्ता न गोत्रस्थितिः।

भुक्ता साहसिकेन येन सहसा राज्ञां पुरः पश्यतां
सा मेदिन्यपरैः परं परिहृता सर्वैरगम्येति या॥१३॥

नो इति। अत्र निन्दा तावत्—या सर्वैरेव लोकैरगम्यत्वात्परिहृतां सा मेदिनी शिल्पिविशेषनारी येन साहसिकेन राज्ञां पुरतः सहसैव भुक्ता। तेन किं कृतम्। न परलोकाद्भीतम्, न स्वजनो गणितः, मर्यादा च लङ्घिता, गोत्रस्थितिर्मुक्तेति। अतोऽपि निन्दायाः प्रासङ्गिकी स्तुतिरेव गम्यते। यथा—सा मेदिनी भूर्येन साहसिकेन राज्ञां पुरः पश्यतां सहसा भुक्तात्मवशीकृता। या सर्वैरेव राजभिर्दुर्गमत्वाद्दूरं परिहृता। तेन किं कृतम्। परलोकतः शत्रुलोकान्नो भीतम्। तथातिबलवत्त्वादात्मीयजनोऽपि साहाय्ये नापेक्षितः। तथा मर्यादा स्वदेशसीमा लङ्घिता। तथा गोत्राः पर्वतास्तेषु स्थितिश्च मुक्ता। दुर्गंमुक्तमित्यर्थः॥

अथोक्तिश्लेषः—

यत्र विवक्षितमर्थं पुष्यन्ती लौकिकी प्रसिद्धोक्तिः।
गम्येतान्या तस्मादुक्तिश्लेषःस विज्ञेयः॥१४॥

यत्रेति। यत्र तस्माद्विवक्षितार्थादन्या लोकप्रसिद्धोक्तिर्वचनं गम्यते स उक्तिश्लेषः। का तर्ह्यस्यालंक्रियेत्याह—विवक्षितमर्थंपुष्यन्ती। एतदुक्तं भवति—प्रकृतोऽर्थो रम्यो भवतु, मा वा भूत्, लौकिकी चेदुक्तिर्गम्यते तयैव तस्य पोषः क्रियत इति॥

उदाहरणमाह—

कलावतः संभृतमण्डलस्य यया हसन्त्यैव हृताशु लक्ष्मीः।
नृणामपाङ्गेन कृतश्च कामस्तस्याः करस्था ननु नालिकश्रीः॥१५॥

कलावत इति। कस्याश्चिद्रूपवर्णनं क्रियते—कलावतश्चन्द्रस्य पूर्णबिम्बस्य यया हसन्त्यैवाशु शीघ्रं लक्ष्मीः शोभा हृताभिभूता। नृणां चापाङ्गेन कटाक्षेण कामः कृतः। तस्या नालिकश्रीःपद्मशोभा करस्यैव। यया मुखेनाखण्डःशशी जितस्तया हस्तशोभया पद्ममपि नूनं जीयेतेत्यर्थइति। एषोऽत्र विवक्षितोऽर्थः। एतस्यैव परिपोषं कुर्वाणान्या लौकिकी प्रसिद्धोक्तिर्गम्यते। यथा—यया नर्तक्या कलावतो विदग्धस्य संभृतमण्डलस्य ससहायवृन्दस्य हंसन्त्यैवाक्लेशेनैवाशु लक्ष्मीर्हृता धनं भक्षितम्। नृणां चापाङ्गेन हेलयैव कामः कृतः। तस्या नालिकश्रीर्मुग्धजनसंपत्करस्थितैवेति। एष एव चात्र पूर्वार्थपोषोयल्लोकप्रसिद्ध्योक्त्यवगम इति॥

अथासंभवश्लेषः—

गम्येत प्रक्रान्तादसंभवत्तद्विशेषणोऽन्योऽर्थः।
वाक्येन सुप्रसिद्धः स ज्ञेयोऽसंभवश्लेषः॥१६॥

गम्येतेति। सोऽसंभवश्लेषोज्ञेयः, यत्र वाक्येन प्रक्रान्तादर्थादन्योऽप्रस्तुतोऽर्थो

गम्यते। कीदृशः। असंभवत्तद्विशेषण इति। असंभवन्ति तस्यप्रस्तुतार्थस्य संबन्धीनि विशेषणानि यस्य स तथोक्तः। तथासुप्रसिद्धः ख्यात इति॥

उदाहरणमाह—

परिहृतभुजंगसङ्गः समनयनो नकुरुषेनृपं चाधः।
नन्वन्य एवदृष्टस्त्वमत्र परमेश्वरो जगति॥१७॥

परिहृतेति। अत्र प्रकृतान्नृपलक्षणादर्धादन्योऽर्थोमहादेवलक्षणोऽसंभवद्विशेषणः प्रसिद्धोगम्यते। महादेवो हि विद्यमानवासुकिसङ्गतिनयनो वृषवाहनश्च।राजा तु दूरोकृतविटः समदृष्टिः पूजितधर्मश्च। अस्य चालंकारस्यान्यैर्व्यतिरेक इति नाम कृतम्। अत्र तु न व्यतिरेकरूपेण साम्यं प्रतिपिपादयिषितम्। अन्यत्वमेव विशेषणान्तरयुक्तमिति। रूपकताशङ्काप्यत्र न कार्या। सान्यस्य स्वयमेवाप्रकृतत्वादिति॥

अथावयवश्लेषः—

यत्रावयवमुखस्थितसमुदायविशेषणं प्रधानार्थम्।
पुष्यन्गम्येतान्यः सोऽयं स्यादवयवश्लेषः॥१८॥

यत्रेति। यत्र प्रधानार्थं पुष्यन्प्रकृतार्थपोषं कुर्वाणोऽन्योऽर्थोगम्यते सोऽवयवश्लेषः। कीदृशं प्रधानार्थम्। अवयवमुखेनावयवद्वारेण स्थितानि कृतानि समुदायस्य विशेषणानि यत्र तत्तथोक्तम्॥

उदाहरणम्—

भुजयुगले बलभद्रः सकलजगल्लङ्घने तथा बलिजित्।
अक्रूरो हृदयेऽसौराजाभूदर्जुनो यशसि॥१९॥

भुजयुगल इति। स राजा भुजयुगले बलेन हेतुना भद्रः श्रेष्ठः। तथा सकलस्य जगतो लङ्घने आक्रमणे कर्तव्ये बलिनः शक्तानपि जगत्यभिभवतीति बलिजित्। तथा हृदये मनस्यक्रूरो मृदुः। यशति चार्जुनः शुक्लः। अत्रैतानि विशेषणान्यवयवद्वारेण समुदायस्य स्थितानि। यस्मान्नात्र बलभद्रत्वादिकं भुजादीनान्। अपि तु राजैवयदा भुजयुगले बलेन भद्रस्तदा स एव बलभद्र इत्युच्यते। तथा सकलजगलङ्घेन वलिजयनाद्वलिजित्।एवं हृदयस्याक्रूरत्वात्स एवाक्रूरः। यशसोऽर्जुनत्वात्स एवार्जुन इति। एवं प्रधानार्थंपोषयन्नयमन्योऽर्थोऽवगम्यते। यथा— बलभद्रोहलधरः। बलिजिद्वासुदेवः। अक्रूरो वृष्णिविशेषः।अर्जुनःपाण्डवः। एष एव चात्र प्रधानार्थपोषो वदन्येषांयानि नामानि तान्येवास्यान्वर्थेन प्रशंसाकारीणीति॥

अथ तत्त्वश्लेषः—

यस्मिन्वाक्येन तथा प्रक्रान्तस्य प्रसाधयत्तत्त्वम्।
गम्येतान्वद्वाच्यं तत्त्वश्लेषः स विज्ञेयः॥२०॥

यस्मिन्निति। यत्र वाक्येन पूर्ववत्प्रक्रान्तस्यार्थस्य तत्त्वं परमार्थं प्रसाधयदलंकुर्वाणमन्यद्वाच्यमर्थान्तरं गम्यते स तत्त्वश्लेषो विज्ञेयः॥

उदाहरणमिदम्—

नयने हि तरलतारे सुतनु कपोलौ च चन्द्रकान्तौ ते।
अधरोऽपि पद्मरागस्त्रिभुवनरत्नं ततो वदनम्॥२१॥

नयन इति। हे सुतनु, तव नयने चञ्चलकनीनिके। कपोलौ च चन्द्रवत्कान्तौ। पद्मवल्लोहित ओष्ठः। ततो वदनं मुखं त्रिभुवने रत्नं सारम्। जातौयद्यदुत्कृष्टं तत्तद्रत्नमुच्यते। एनमर्थंप्रसाधयन्नयमन्योऽर्थो गम्यते। तव नयने तरले च तारे च। तरलो हारमध्यमणिः। तथा चन्द्रकान्तो मणिभेदः, पद्मरागश्च। यतश्चैतेऽवयवा रत्नरूपास्ततो वदनं त्रिभुवनरत्नं चिन्तामणिरेव। अस्माच्च पूर्वत्र विशेषोऽवयवमुखस्थितसमुदायविशेषणत्वमिति॥

अथ विरोधाभासः—

स इति विरोधाभासो यस्मिन्नर्थद्वयं पृथग्भूतम्।
अन्यद्वाक्यं गमयेदविरुद्धं सद्विरुद्धमिव॥२२॥

स इति। स इत्यनेन प्रकारेण विरोधाभासोऽलंकारः, यस्मिन्नेकमेव वाक्यमन्यदर्थद्वयं पृथग्भूतं गमयति। कीदृशमर्थद्वयम्। स्वरूपेणाविरुद्धमपि विरुद्धमिव लक्ष्यमाणम्॥

उदाहरणमाह—

तव दक्षिणोऽपि वामो बलभद्रोऽपि प्रलम्ब एषभुजः।
दुर्योधनोऽपि राजन्युधिष्ठिरोऽस्तीत्यहो चित्रम्॥२३॥

तवेति। हे राजन्, तवबाहुर्भक्तान्प्रत्यनुकूलत्वाद्दक्षिणोऽपि शत्रून्प्रति प्रतिकूलतया वाम इत्यविरुद्धमर्थद्वयम्। तथा स एव बलेन भद्रोऽपि श्रेष्ठोऽपि प्रलम्बो दीर्घः। तथा दुःखेन योध्यत इति दुर्योधनोऽपि युधि समरे स्थिरोऽचञ्चल इत्यविरोधः। विरोधप्रतिभासश्च दक्षिणवामयोः सव्येतररूपयोरन्यत्वात्, तथा बलभद्रप्रलम्बयोर्हलधरासुरयोरन्यत्वात्, तथा दुर्योधनयुधिष्ठिरयेर्धार्तराष्ट्रपाण्डवयोर्भिन्नत्वाल्लक्ष्यते। अथ विरोधादस्य को विशेषः। उच्यते—

तत्र यादृग्विशेषणमादौ निर्दिष्टं तत्प्रत्यनीकं पुनरुच्यते। यथा— संवर्धितकमलोऽप्यवदलितनालिक इति। अत्र तु वाक्यान्तरार्थपर्यालोचनया विरोधच्छायास्तीति। अत्रापि भवति, यदि दुर्योधनोऽपि सुयोधन इत्युच्यते। अत एव विरोधाभाससंज्ञा॥

एवं शुद्धानलंकारान्सप्रभेदानाख्यायाधुना पूर्वकविलक्ष्यसिद्ध्यर्थं संकीर्णांस्तानाह—

एषां तु चतुर्णामपि संकीर्णानां स्युरगणिता भेदाः।
तन्नामानस्तेषां लक्षणमंशेषु संयोज्यम्॥२४॥

एषामिति। एषां चतुर्णां वास्तवौपम्यातिशयश्लेषाणां संकीर्णानां मिश्राणां भेदाः स्युर्भवन्ति। कियन्तइत्याह—अगणिताः। बाहुल्यपरमेतद्वचनम्। संख्या तु विद्यते। एषां त्विति तुरवधारणे। एषामेव। नान्यदलंकारजातमस्तीत्यर्थः। किं तेषां भेदानां नामेत्याह—तन्नामान इति। येषामलंकाराणां मिश्रभावस्त एव मिलितास्तेषां नामेत्यर्थः। यदि सहोक्तेःसमुच्चयस्य च संकरस्तदा सहोक्तिसमुच्चय इति नाम। उत सहोक्तेर्व्यतिरेकस्य च तदा सहोक्तिव्यतिरेक इति नाम। एवमन्यत्रापि दृश्यम्। किं तेषां तर्हि लक्षणमित्याह— तेषामित्यादि। तेषां संकरभेदानां लक्षणमंशेषु भागेषु संयोज्यम्। यस्यालंकारस्य योंऽशस्तदीयमेव तत्र लक्षणमित्यर्थः॥

अथ संकरस्यैव भेदानाह—

योगवशादेतेषांतिलतण्डुलवच्च दुग्धजलवच्च।
व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेधा॥२५॥

योगवशादिति। एतेषां वास्तवादीनां संकरोव्यक्ताव्यक्तांशत्याद्धेतोर्द्वेधा द्विप्रकारो भवति। व्यक्ताव्यक्तांशत्वमपि कुत इत्याह— योगवशात्। तथाविधसंबन्धवशादित्यर्थः। केषां यथा स स्यादित्याह—तिलतण्डुलवदित्यादि। तिलतण्डुलानां यथा व्यक्तांशः संकरः, दुग्धजलयोश्चाव्यक्तांशस्तद्वदेतेषामपीत्यर्थः॥

अत्र हि दिङ्मात्रप्रदर्शनार्थमाह—

अभियुज्य लोलनयना साध्वसजनितोरुवेपथुस्वेदा।
अबलेव वैरिसेना नृप जन्ये भज्यते भवता॥२६॥

अभियुज्येति। त्वया सेनाभियुज्याक्रम्य भज्यते भङ्ग नीयते। कीदृशी। भयवशाल्लोलनयना चञ्चलाक्षी। तथा साध्वसेन भयेन जनित उरुर्महान्वेपथुः कम्पः स्वेदश्च यस्याः।अत्राबलेव सेनेति। यथा येन केनचिद्वनिता भज्यते सेव्यते तेनाभियुज्याभिसृत्यादौ ततो भज्यते। तथा सापि प्रथमसमागमवशाच्चालनेत्रा भवति। तस्या अपि साध्वसेनोर्वोर्वेपथुस्वेदौभवत इति। इहाबलेवेत्येष उपमाविभागः। अभियुज्येत्यादिकस्तु श्लेषविभागः। तयोर्लक्षणं स्वधिया योज्यम्। एतौतिलतण्डुलवत्प्रकटौ॥

तथान्यदप्यत्रैवाह—

सन्नारीभरणो भवानपि न किं किं नाधिरूढो नृपं
किं वा नो भवता निकामविषमा दग्धाः पुरो विद्विषाम्।
इत्थं द्वौ परमेश्वराविह शिवस्त्वं चैकरूपस्थिती
तत्किं लोकविभो न जातु कुरुषेसङ्गं भुजंगैः सह॥२७॥

सन्नारीति। हे लोकविभो राजन्,इत्यमुक्तप्रकारेण त्वं हरश्चपरमेश्वरौ। यस्मादेकरूपस्थिती तुल्यस्वभावव्यवहारौ। तत्कदाचिदपि भुजंगैः सह सङ्गंन कुरुषे। तदेव

तुल्यत्वं वक्ति—स हि हरः सतीं नारीमुमाख्यां बिभर्ति धारयति। भवानपि शोभना नारी बिभर्ति पोषयत्येव। अथवा सन्ना अवसादं गता अरीभारिपुकरिणो रणे यस्य स तथाविधः। हरोवृषं जरद्गवमधिरूढः। भवानपि वृषं धर्मम्। तथा हरेण विद्विषां त्रिपुरंवासिनां विषमास्तिस्रः पुरो दग्धाः। भवतात्यन्तदुर्गाः शत्रूणां पुरो दग्धाः। सर्वत्र किंशब्दः प्रश्ने। तथा तस्य परमेश्वर इति संज्ञा। त्वमपि परम उत्कृष्ट ईश्वरोऽर्थवान्। एवं यादृशो हरस्तादृशो भवानपि। तद्यथा तेन भुजंगैः सह संपर्कः कृतस्तथा त्वयापि खिङ्गैः कथं न कृत इति व्यतिरेकस्य श्लेषस्य चात्र संकरः। साधारणविशेषणयोगात् (श्लेषणयोगात्) श्लेषसद्भावः। हरे उपमाने भुजंगसङ्गस्य दोषस्य सत्त्वाद्राजनि चासत्त्वाद्गुणत्वे सति व्यतिरेकसद्भावः। एतौ चात्र तिलतण्डुलवत्प्रकटौ॥

इदानीमव्यक्तसंकरोदाहरणमाह—

आलोकनं भवत्यां जननयनानन्दनेन्दुकरजालम्।
हृदयाकर्षणपाशः स्मरतापप्रशमहिमसलिलम्॥२८॥

आलोकनमिति। भवत्या आलोकनं जननयनानन्दनेन्दुकरजालमेवेति रूपकम्। गुणानां साम्ये सत्युपमानोपमेययोरभिदेति रूपकलक्षणात्। अथवा भवत्या आलोकनं जननयनानन्दने इन्दुकरजालमिवेत्युपमा। एतौ चालंकारावव्यक्तांशौ। अत्र प्रमाणाभावादेकत्रानिश्चयः। दोषाभावाच्चोभयमप्याश्रयितुं योग्यम्। एवं हृदयाकर्षणपाश एव, पाश इव वा। स्मरतापप्रशमने हिमसलिलमेव तदिव वेति। रूपकोपमासंकरोऽयमलंकारः॥

तथा—

आदौ चुम्बति चन्द्रबिम्बविमलां लोलः कपोलस्थलीं
संप्राप्य प्रसरं क्रमेण कुरुते पीनस्तनास्फालनम्।
युष्मद्वैरिवधूजनस्य सततं कण्ठे लगत्युल्लस-
न्किं वा यन्न करोत्यवारितरसः कामीव वाष्पः पतन्॥२९॥

आदाविति। हे नृप, युष्मद्वैरिवधूजनस्य संबन्धी बाष्पः पतन्प्रसरन्कामीव किं वा यन्न करोति। वा इवार्थे। किमिव यन्न करोतीत्यर्थः। बाष्पस्तावत्पतन्प्रथमं कपोलस्थलीं चुम्बति। कामुकोऽपि तथैव। ततो बाष्पः प्रसरं प्राप्य क्रमेण पीनस्तनास्फालनं कुरुते। काम्यपि तदेव। ततः कण्ठे च द्वावपि लगतः। ततश्चावारितरसो बाष्पः कामीव किमिव न कुरुते। जघनस्थलमपि स्पृशतीत्यर्थः। अत्र रूपकोपमाश्लेषपर्यायाणां संकरः। तत्र कपोलस्थलीमिति रूपकम्। कामीव चन्द्रबिम्बविमलामिति चोपमा। बाष्पकामिनोः साधारणविशेषणयोगाच्छ्लेषः। शत्रवश्च त्वया जिता इति तात्पर्यतःपर्यायसद्भावं इति। अत्र चालंकारसंकरे पूर्वकविलक्ष्यांणि भूरिशो दृश्यन्त इत्यत्र महानादरः कार्यः। तथा च— ‘दिवाकराद्रक्षति यो गुहासु’ इत्यादि। अत्रोत्प्रे-

क्षार्थान्तरन्यासोपमानां संकरः। यथा च—‘रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैःप्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोःसर्वंतुल्यमशोक केवलमहं धात्रासशोकः कृतः॥’ एतौश्लेषव्यतिरेकौ। एवमन्यदपि बोद्धव्यमिति॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो

दशमोऽध्यायः समाप्तः।

____________

एकादशोऽध्यायः।

अर्थस्यालंकारा अभिहिताः। संप्रति दोषाः कथ्यन्ते। नन्वर्थालंकारप्रतिपादनात्प्रागेवार्थदोषाःपरिहृता एव तत्किमिति पुनस्ते कभ्यन्त इत्याह—

परिहृत एव प्रायो दोषोऽर्थस्यान्यथोक्तिपरिहारात्।
अयमुच्यते ततोऽन्यस्तत्कारणमन्यथोक्तौ च॥१॥

परिहृत इति। ‘सर्वः स्वं स्वं रूपम्’ (७। ७) इत्यादिना ग्रन्थेनार्थस्य विपरीतकथनलक्षणो यो महान्दोषःसोऽस्माभिः ‘तं च न खलु बध्नीयान्निष्कारणमन्यथातिरसात्’ (७।७) इत्यनेनान्यथोक्तिपरिहारात्परिहृत एव। यस्तु ततोऽन्यथोक्तेरन्यः स्वल्पदोषः सोऽयमधुनोच्यते। तथा तस्यार्थस्यान्यथोक्तौयत्कारणं तदप्युच्यते। परिहृतमेव सर्वं दोषजातमन्यथोक्तिपरिहारद्वारेण। किंचिदेव दुर्लक्ष्यमपरिहृतमस्तीति प्रायोग्रहणेन सूच्यते। यत्तु विद्यते तदधुना परिह्रियते॥

अथ तानेव दोषानुद्दिशति—

अपहेतुरप्रतीतो निरागमो बाधयन्नसंबद्धः।
ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः॥२॥

अपहेतुरिति। अपहेत्वादयो नवार्थदोषाः। इतिशब्दो हेत्वर्थेप्रत्येकमभिसंवध्यते। यतोऽपहेतुरतो दुष्ट इत्यर्थः। एवमन्यत्रापि योज्यम्॥

यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमपहेतुलक्षणमाह—

अपहेतुरसौ यस्मिन्केनचिदंशेन हेतुतामर्थः।
याति तथात्वे युक्त्या बलवत्या बाध्यते परया॥३॥

अपहेतुरिति। असावपहेतुर्दोषः, यत्र केनचित्प्रकारेणार्थस्तथात्वेतद्धर्मतायां हेतुत्वं याति। स च हेतुतां गतः सन्नपरया बलिष्ठया युक्त्या प्राध्यते। यदा चार्थहेतुत्वराद्भावस्तदान्यथोक्तिपरिहारेण न परिहृतः॥

उदाहरणम्—

तव दिग्विजयारम्भे बलधूलीबहलतोयजनितेषु।
गगनस्थलेषु भानोश्चक्रमभूद्रथभराभिज्ञम्॥४॥

तवेति। गतार्थमेव। अत्र धूलेर्बहलत्वलक्षणोऽर्थः स्थलत्वे हेतुतां यात्येव। किं तु स्थलस्य गगने निराधारत्वादवस्थानं न संभवतीत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या वाध्यते॥

अथाप्रतीतः—

अर्थोऽयमप्रतीतो यः सन्नपि न प्रयुज्यते वृद्धैः।
शरदिव विभाति तन्वी विकसत्पुलकोत्करेयमिति॥५॥

अर्थ इति। अयमप्रतीतोऽर्थो भण्यते यो विद्यमानोऽपि वृद्धैः पूर्वकविभिर्न प्रयुज्यते। उदाहरणम्—[शरदिति।] प्रसरद्रोमाञ्चनिबहा तन्वी भाति। शरच्च पुष्प्यत्पुलकाख्यवृक्षविशेषनिबहा। अत्र पुलकशब्दो वृक्षविशेषवाचकोऽपि तद्वाचकत्वेन पूर्वकविभिर्न प्रयुक्त इति न प्रयोज्यः॥

अथ निरागमः—

आगमगम्यस्तमृते य उच्यतेऽर्थो निरागमः स इति।
सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च॥६॥

आगमेति। योऽर्थ आगमात्सिद्धान्ताद्गम्यते, अथ चागमनिरपेक्ष एवोच्यते, स इत्यनेन प्रकारेण निरागमः। उदाहरणम्— सततमिति। अत्र विप्रस्य राजसूयाश्वमेधौ यागौ कथितौ। तौ च वेदगम्यौ। वेदे च तयोर्नृपस्यैवाधिकारो न ब्राह्मणस्येत्युक्तम्॥

अथ बाधयन्—

यः पूर्वमन्यथोक्तं तद्वक्तृकमेव बाधयेदर्थम्।
अर्थः स बाधयन्निति मृगाक्षि नेत्रे तवानुपमे॥७॥

य इति। योऽर्थ उत्तरकालं भण्यमानः समानवक्तृकं पूर्वमन्यथोक्तमर्थंबाधयेत्सं बाधयन्निति भण्यते। यथा—मृगाक्षि नयने तवानुपमे, अत्र येनैव वक्त्रा प्रथमं मृगाक्षीत्युक्तं तेनैव पुनस्तव नयने अनुपमे इति पूर्वस्य बाधकमुक्तम्। इदं चात्र निदर्शनम्। यथा— ‘वपुरनुपमं नाभेरूर्ध्वं विधाय मृगीदृशो ललितललितैरङ्गन्यासैः पुरा रभसादिव। तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली॥’ अत्र नाभेरूर्ध्वमनुपमं वपुरित्याद्युक्त्वा मृगीदृश इत्युक्तम्॥

अथासंबद्धः—

प्रक्रान्तानुपयोगी प्राप्तो यस्तत्क्रमादसंबद्धः।
स इति गता ते कीर्तिर्बहुफेनं जलधिमुल्लङ्घ्य॥८॥

प्रक्रान्तेति। योऽर्थः प्रक्रान्तार्थक्रमायातोऽपि प्रक्रान्तेऽर्थेऽनुपयोगी सोऽसंबद्ध इत्युच्यते। उदाहरणम्—गता ते कीर्तिरित्यादि। अत्र जलधौ संबद्धत्वात्फेनानां बहुफेनत्वं क्रमप्राप्तम्। अथ च प्रस्तुतेऽर्थेऽनुपयोगि। यदि बहुफेनत्वं जलधेर्दुस्तरत्वे

हेतुर्भवेत्तदा भवेदपारजलधिलङ्घनं कीर्तेरतिशयाय। न चैवमस्ति। तस्माद्बहुफेनमित्येतदकिंचित्करम्॥

अथ ग्राम्यः—

ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्।
देशकुलजातिविद्यावित्तवयःस्थानपात्रेषु॥९॥

ग्राम्यत्वमिति। यद्व्यवहाराकारवेषवचनानां चतुर्णामपि प्रत्येकं देशकुलजातिविद्यावित्तवयःस्थानपात्रेष्वष्टसु विषयेष्वनौचित्यं तद्ग्राम्यत्वं दोषः। तत्रव्यवहारश्चेष्टा।आकारः स्वाभाविकं रूपम्। कृत्रिमं तु वेषः। वचनं भाषा। तथा देशो मध्यदेशादिरार्यानार्यभिन्नः। कुलं गोत्रमिक्ष्वाक्वादिः। देवदैत्यादिकमित्यन्ये। जातिः खीपुंसादिका। ब्राह्मणत्वादिका वा। विद्या शास्त्रज्ञता। वित्तं धनम्। वयः शैशवादिकम्। स्थानं पदमधिकारः। पात्राणि भरतोक्तान्युत्तममध्यमादीनि। तत्रार्यदेशेष्यकरुणो व्यवहारः, भयंकर आकारः, उद्धतो वेषः, पुरुषवचनमनुचितम्। म्लेच्छेषु त्वेतदेवोचितम्। तथा ग्रामेषु यदुचितं तदेव नगरेषु ग्राम्यम्। एवं कुलजेषु परिभवसहत्वादिको व्यवहारः, असौम्य आकारः, विकृतो वेषः, वितथं वचनमनुचितानि। जातौतु ब्राह्मणादीनां निजनिजजातिविहितव्यवहाराकारवेषवचनान्युचितानि तदन्यथा त्वनुचितानि। पुरुषेषु शूद्रवर्जमन्नपाकादिको व्यवहारः, स्थूलस्तनश्मश्रुरहितं च रूपमाकारः, कौसुम्भवस्त्रं काचाद्याभरणं च वेषः, समन्मथादिवचनमनुचितम्। स्त्रीषु तदेवोचितम्। एवमन्येषामपि। तथा विद्यायां पण्डितेषु शस्त्रग्रहणपूर्वको व्यवहारः, सव्याधिवपुराकारः, उद्भटो वेषः, असंस्कृतवचनमनुचितानि। मूर्खेषु तान्येवोचितानि। वित्ते धनिनां दानोपभोमरहितो व्यवहारः, दुःस्पर्शादिराकारः, मलिनवस्त्रादिको वेषः, दीनं वचनमनुचितानि। द्रमकेषु (?) तान्येवोचितानि। वयसि वृद्धेषु सेवादिव्यवहारः, इन्द्रियपाटवादिराकारः, कुण्डलादिधारणं वेषः, समन्मथं वचनमनुचितानि। तरुणेषु तान्येवोचितानि। स्थाने राज्ञां सक्रोधलोभादिको व्यवहारः, निर्लक्षण आकारः, कुण्डलादिरहितो वेषः,परुषंदीनं वचनमनुचितानि। एवं पात्रेषु यानि भीमसेने व्यवहारादीन्युचितानि तान्येव युधिष्ठिरे ग्राम्याणीत्यादि। एतत्तु ग्राम्यत्वमन्यथोक्तिपरिहारेण न परिहृतम्॥

अथात्रैव दिक्प्रदर्शनार्थमाह—

प्रागल्भ्यं कन्यानामव्याजो मुग्धता च वेश्यानाम्।
वैदग्ध्यं ग्राम्याणां कुलजानां धौर्त्यमित्यादि॥१०॥

प्रागल्भ्यमिति। कन्याशब्देन नवोढालक्ष्यते। कन्यानां नवोढाङ्गनानां प्रागल्भ्यं वैयात्यम्। तथा वेश्यानां पण्यस्त्रीणामव्याजमकृत्रिमं मौग्ध्यम्। तथा ग्राम्याणां वैदग्ध्यम्। तथा कुलीनानां धूर्तत्वमनुचितम्। ग्राम्यमित्यर्थः॥

ततश्च किमित्याह—

एतद्विज्ञाय बुधैः परिहर्तव्यं महीयसो यत्नात्।
हि सम्यग्विज्ञातुं शक्यमुदाहरणमात्रेण॥११॥

एतदिति। एतद्ग्राम्यत्वं विशेषेण ज्ञात्वा महीयसो यत्नादादरेण परिहर्तव्यम्। महाकवयो यत्र मुह्यन्तीत्यतो महीयसो यत्नादित्युक्तम्। तर्ह्युदाहरणानि किमेतेषु नोच्यन्त इत्याह—नहीत्यादि। यस्मादुदाहरणमात्रेण न यथावद्विज्ञातुं शक्यते। ततः स्वधिया विज्ञाय यथा ग्राम्यत्वं न भवति तथा प्रयोज्यम्। यथा—‘व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका। सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥’ तथा—‘उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसंपदः पुंसः। पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि॥ एवमादि॥

अथ विरसः—

अन्यस्य यः प्रसङ्गे रसस्य निपतेद्रसः क्रमापेतः।
विरसोऽसौ स च शक्यः सम्यग्ज्ञातुं प्रबन्धेभ्यः॥१२॥

अन्यस्येति। रसान्तरप्राप्तौ सत्यां यो रसः शृङ्गारादि निपतति स विरसोऽर्थदोषः। ननु सर्वरसयुक्तत्वान्महाकाव्यस्य रसान्तरापातोऽभ्युपगत एव। तत्कथमत्र विरसोऽर्थदोष इत्याह— क्रमापेतः प्रसङ्गविरुद्धः। यस्य रसस्य तत्रानवसरः स दुष्ट इत्यर्थः। किमत्रोदाहरणमित्याह—स चेत्यादि। चो हेतौ। यस्मात्स विरसोऽर्थदोषः प्रबन्धेभ्यो महाकाव्यादिभ्यः सम्यग्विज्ञातुं शक्यते। अत इह नोदाहृत इत्यर्थः॥

सूचीमात्रमाह—

तव वनवासोऽनुचितः पितृमरणशुचं विमुञ्च किं तपसा।
सफलययौवनमेतत्सममनुरक्तेन सुतनु मया॥१३॥

तवेति। हयग्रीवसुतो नरकासुरानयनाय तत्पुरीं गतः, तत्र च हरिहतं नरकासुरं जनेभ्यः श्रुत्वा तत्सुतां च पितृमरणदुःखेन वनगतां बुद्ध्वासमाश्वासनाय गतः, तत्र दृष्ट्वा च तां सकामः सन्नाह—तववनवास इत्यादि। पातनिकयैव गतार्थम्॥

प्रकारान्तरमाह—

यः सावसरोऽपि रसो निरन्तरं नीयते प्रबन्धेषु।
अतिमहतीं वृद्धिमसौ तथैव वैरस्यमायाति॥१४॥

य इति। यः काव्यादौ क्वापि प्रस्तुतो रसो नैरन्तर्येण महतीं वृद्धिं नीयते स श्रोतृृणां वैरस्यमावहतीति विरसो भवति। अत्र वेणीसंहारषष्ठोऽङ्को निदर्शनम्॥

अथ तद्वान्—

यो यस्याव्यभिचारी सगुणादिस्तद्विशेषणं क्रियते।
परिपूरयितुं छन्दो यत्र स तद्वानिति ज्ञेयः॥१५॥

य इति। यो गुणादिर्यस्य पदार्थस्याव्यभिचारी नित्यस्थः स गुणादिस्तस्य विशेषणतया यत्र क्रियते स दोषस्तद्वानिति ज्ञेयः। यद्यव्यभिचारी तर्हि किमर्थं क्रियत इत्याह—परिपूरयितुं छन्दः। तस्य हि छन्दःपूरणमात्रमेवार्थ इति॥

उदाहरणम्—

क्व नु यास्यन्ति वराकास्तरुकुसुमरसैकलालसा मधुपाः।
भस्मीकृतं वनं तद्देवदहनेनातितीव्रेण॥१६॥

क्वेति। अत्र दवदहनस्यातितीव्रेणेति विशेषणं छन्दःपूरणार्थमेव। तत्राव्यभिचारादिति॥

अथातिमात्रः—

अतिदूरमतिक्रान्तो मात्रां लोकेऽतिमात्र इत्यर्थः।
तव विरहे हरिणाक्ष्याः प्लावयति जगन्ति नयनाम्बु॥१७॥

अतिदूरमिति। योऽर्थो लोकप्रसिद्धां मात्रां परिमाणमतिदूरमत्यर्थमतिक्रान्त उल्लङ्घितः सोऽतिमात्रोऽर्थदोषः। उदाहरणम्—तवेत्याद्युत्तरार्धम्। अत्राश्रुलक्षणोऽर्थौमात्रात्यक्तवान्। परा ह्यश्रूणां भूयस्ता यद्वस्त्राद्रींकरणम्। न तु प्रलयजलदवज्जगत्प्लावनम्॥

अथ यत्पूर्वमुक्तम् ‘तत्कारणमन्यथोक्तौ च’ (११। १) इति तदाह—

अत्यन्तमसंबद्धं परमतमभिधातुमन्यदश्लिष्टम्।
संगतमिति यद्व्रूयात्तत्रायुक्तिर्न दोषाय॥१८॥

अत्यन्तमिति। असंबद्धार्थता महान्दोषः। तस्यापवादोऽयम्। यत्र परकीयं मतमतिशयेनासंबद्धं प्रतिपादयितुमन्वदात्मीयमश्लिष्टमसंबद्धमर्थंवक्ता वक्ति तत्रायुक्तिरसंगतता न दोषाय। अथ कथं तेनासंबद्धेन परमतस्यासंबद्धता प्रतिपाद्यत इत्याह— संगतमिति। इतिर्हेतौ। यतस्तस्यासंबद्धस्याश्लिष्टमेव संगतं सदृशतया दर्शयितुम्॥

उदाहरणम्—

किमिदमसंगतमस्मिन्नादावन्यत्तथान्यदन्ते च।
यत्नेनोप्ता माषाःस्फुटमेते कोद्रवा जाताः॥१९॥

किमिदमिति। कश्चिदसंबद्धं परवचनं क्षिपन्नाह— अस्मिन्वस्तुनि किमिदमसंगतं भवतोच्यते। कुतः। आदौ प्रारम्भेऽन्यत्तथान्ते च निर्गमे चान्यदिति। किमिनासंभवमिति तत्सदृशमाह—यथा माषाउप्ताः कोद्रवाश्चोत्पन्ना इत्यसंबद्धम्, एवं तनापि वचनमित्यर्थः॥

भूयोऽप्याह—

अभिधेयस्यातथ्यं तदनुपपन्नं निकाममुपपन्नम्।
यत्र स्युर्वक्तृृणामुन्मादो मौर्ख्यमुत्कण्ठा॥२०॥

अभिधेयस्येति। यत्र वक्तुरुन्मादो मौर्ख्यमुत्कण्ठा च दोषः स्यात्तत्रातथ्यमवथार्थतानुपपन्नापि निकाममतिशयेनोपपन्ना युक्ता। स्वस्थस्य ह्यन्यथावचनं दोषाय। उन्मत्तादीनां तु तदेव भूषायै॥

एतदुदाहरणानि यथाक्रममाह—

भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिवामि वियत्।
हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यामि॥२१॥

भुक्ता इति। इत्युन्मादे॥

किं मां ब्रवीषि मूर्खं पश्येदं शिशिरमेव ननु तिमिरम्।
सुस्वादुरयं गन्धस्तमसा त्वेनं न पश्यामि॥२२॥

किमिति। इति मौर्ख्ये॥

हे हंस देहि कान्तां सा मे भवता हृतेति किं मिथ्या।
ननु गतिरियं तदीया वाणी सैवेयमतिमधुरा॥२३॥

हे इति। इत्युत्कण्ठायाम्। अत्र गिरिभोजनं वह्निस्नानमाकाशपानमजादिपुत्रत्वं च, तथा तिमिरस्य शीतलत्वम्, गन्धस्य सुस्वादुत्वम्, तस्य चान्धकारेण दर्शनम्, तथा हंसेन कान्ताहरणं च सर्वमेवासंबद्धमुन्मत्तमूर्खोत्कैश्चोक्तत्वाच्चार्वेव॥

एवं सर्वार्थालंकारसाधारणान्दोषानभिधायेदानीं केवलोपमादोषानाह—

सामान्यशब्दभेदो वैषम्यमसंभवोऽप्रसिद्धिश्च।
इत्येते चत्वारो दोषानासम्यगुपमायाः॥२४॥

सामान्येति। औपम्यभेदस्योपमाया इत्येते सामान्यशब्दभेदादयश्चत्वारो दोषाः। ते च नासम्यक्। अपि तु स्फुटा एव। अत्र च स्वरूपोपादाने सत्यपि चत्वारइति ग्रहणाद्यन्मेधाविप्रभृतिभिरुक्तं यथा—“लिङ्गवचनभेदौ हीनताधिक्यमसंभवो विपर्ययोऽसादृश्यमिति सप्तोपमादोषाः। तत्र लिङ्गवचनभेदावन्योन्यमुपमानोपमेययोः। यथा— ‘भक्षिताः सक्तवो राजञ्शुद्धाः कुलवधूरिव। परमातेव निःस्नेहाः शीतलाः परकार्यवत्॥’ उपमेयादुपमानस्य यत्रोनानि विशेषणानि सा हीनता। यथा—‘स मारुताकम्पितपीतवासा विभ्रत्सलीलं शशिभासि शङ्खम्। यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवावभासे॥’ एवं यत्रोपमेयादुपमानस्याधिकानि विशेषणानि तदाधिक्यम्। यथा—‘स पीतवासाः प्रगृहीतशार्ङ्गो मनोन्यभीमं (?) वपुराप कृष्णः। शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनैवं मेघः॥’ अत्रोपमाने मेघे शशियोगोऽधिकः। यत्र विनैव यद्यर्थमसंभवद्विशेषणमुपमानं क्रियते सोऽसंभवः। यथा— ‘निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः। जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात्॥’ नहि वारिधाराणामयद्यर्थं जाज्वल्यमानत्वं रविबिम्बद्वा वारिधारापतनं

संभवति। यत्रोपमेयाद्धीनमुत्कृष्टं वोपमानं क्रियतेऽसौ विपर्ययः। तत्र हीनं यथा— ‘स्फुरन्ति निखिला नीले तारका गगने निशि। भास्कराभीशुसंस्पृष्टाःकृमयः कर्दमे यथा॥’ उत्कृष्टं यथा—‘अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौभगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः॥’ यत्रोपमानोपमेययोः साम्यं नास्ति तदसादृश्यम्। यथा— ‘वनेऽथ तस्मिन्वनिताविहारिणः प्रभिन्नदानार्द्रकटा मतङ्गजाः। विचित्रवर्हामरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः॥’ अत्र न किंचिद्दन्तिनां मयूराणां च ग्रहैःसारूप्यमस्तीति”। तदेतन्निरस्तम्। यतश्चत्वार एवामी संग्राहका भेदाः। न त्वन्ये। तथाहि सामान्यशब्दभेदं विना लिङ्गवचनभेदमात्रं न दुष्टम्। इह हि का दुष्टता। यथा— ‘अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः। पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥’ किं च लिङ्गवचनभेदे दोषत्वेनाश्रीयमाणे कालकारकविभक्तिभेदा नाश्रिताः। सामान्यशब्दभेदे तु तेऽपि संगृहीताः। तथा हीनताधिक्ये चोपमानोपमेयसाम्याभावाद्दोषत्वेनाश्रिते परेण। तत्र च वैषम्यमेवोभयदोषसंग्राहकमेकमुक्तमस्माभिः। तथा योऽपि हीनताधिक्यविशिष्टो विपर्यय उक्तः सोऽपि न तावन्मात्रेण दोषहेतुः। अतिप्रसङ्गात्। अपि त्वप्रसिद्धित एव। अन्यथा हि निन्दास्तुती यत्र चिकीर्षिते भवतस्तत्रापि यथाक्रमं निकृष्टस्योत्कृष्टस्य चोपमानस्य दुष्टत्वं स्यात्। यथा—‘चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन। निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः॥’स्तुतौयथा—‘जित्वासपत्नानुक्षायं धेन्वा सह विराजते। यथा क्षपितदैत्येन्द्रः श्रियासाकं जनार्दनः॥’ न चात्र काचिददुष्टता। यस्त्वर्थो यत्रोपमानत्वेन न प्रसिद्धः स सादृश्ये सत्यपि न कर्तव्यः। तथाहि सिंहादधिकोऽपि शरभः शौर्येणोपमानं न केनचिन्निबद्धः। असादृश्यस्य तु दोषत्वेऽप्युपमानलक्षणेनैव निरस्तत्वादिहोपादानमनर्थकम्। को हि ज्ञातोपमालक्षणः सादृश्याभावे उपमां कुर्वीत। तस्मादेतन्निरासाच्चत्वार एवामी दोषाः, न तु सप्तेति स्थितम्। अत एव नासम्यगित्युक्तम्॥

इदानीमेतेषामेव दोषाणां लक्षणमाह—

सामान्यशब्दभेदः सोऽयं यत्रापरत्र शक्येत।
योजयितुं नाभग्नं तत्सामान्याभिधायिपदम्॥२५॥

सामान्येति। सोऽयं सामान्यशब्दभेदाख्यो दोषः, यत्र तयोरुपमानोपमेययोःसामान्यवाचिपदं यावन्न भग्नं तावदपरत्रोपमाने योजयितुं वाचकीकर्तुं न शक्यते॥

अथ सामान्याभिधायिपदभेदे हेतुमाह—

तल्लिङ्गकालकारकविभक्तिवचनान्यभावसद्भावात्।
उभयोः समानयोरिति तस्यां भिद्येत किंचित्तु॥२६॥

तदिति। तत्सामान्याभिधायिपदं लिङ्गादीनामन्यथात्वाद्धेतोस्तस्यामुपमायां भिद्येत। ननु तर्हि वैषम्यमेवेदं तत्किमस्य पृथक्पाठेनेत्याह—उभयोरुपमानोपमेययोः। समानयो-

रिति। वैषम्ये पुनरुभेअप्यसमाने ते। तर्हि लिङ्गादिभेद एव स्वरूपेणं किं नोक्त इत्याह—भिद्येत किंचित्तु। तुरवधारणे। तत्सामान्याभिधायिपदं लिङ्गादिभेदेऽपि किंचिदेव भिद्यते, न सर्वम्। ततो यत्रैव तस्य भेदस्तत्रैव दोषः, न सर्वत्र॥

एतदुदाहरणानि यथाक्रममाह—

चन्द्रकलेव सुगौरो वात इव जगाम यः समुत्सृज्य।
दहतु शिखीव स कामं जीवयसि सुधेव मामालि॥२७॥

चन्द्रकलेति। काचिद्विरहिणी सखीं ब्रूते—आलि सखि, यथा चन्द्रकला सुगौरी तथायं सुगौरः। इति लिङ्गभेदे। यथा वातो गच्छति तथा मां समुत्सृज्य यो जगाम। इति कालभेदे। भूतकालो वर्तमानेन भग्नः सन्नुपमाने योज्यते। दहतु शिखीव स कामम्। इति कारकभेदे। विधिविशिष्टो हि कर्ता कर्तृमात्रेण शिखिनोपमितोऽत्र। जीवयसि सुधेव मामालि। इति विभक्तिभेदे। मध्यमपुरुषो हि प्रथमपुरुषेण विपरिणम्योपमाने योज्यते॥

कुवलयदलमिव दीर्घे तव नयने इत्ययं तु सुव्यक्तः।
युक्त्या तावद्दोषोविद्वद्भिरपि प्रयुक्तश्च॥२८॥

कुवलयेति। कुवलयदलमिवदीर्घे तव नयने। इति वचनभेदे। दीर्घे इति द्विवचनान्तं ह्येकवचनान्तं कृत्वा योज्यते। नन्वेवं लिङ्गादिभेदे दोषीकृते महाकविलक्ष्यम् ‘तां हंसमालाः शरदीव गङ्गाम्’ इत्यादिकं कालादिभेदस्य विद्यमानत्वात्प्रायशः सर्वमेव दूष्यत इत्याह—इत्ययं त्वित्यादि। तुरवधारणे। युक्त्या तावदयं सुव्यक्त एव दोषः। ततोऽस्माभिरुक्तः। उक्तं च पूर्वमेव ‘काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति’ (१।२) इति। विद्वद्भिरपि प्रयुक्तश्चेत्यनेन दोषस्याप्यपरिहार्यतामाह॥

वैषम्यमाह—

अकृतविशेषणमेकं यत्स्यादुभयोस्तदन्यवैषम्यम्।
संभवति कल्पितायामुत्पाद्यायां च नान्यत्र॥२९॥

अकृतेति। उभयोरुपमानोपमेययोर्मध्यादेकमुपमानमुपमेयं वा निर्विशेषणं भवेत्तदस्याकृतविशेषणस्य कृतविशेषणेन सह वैषम्यम्। तच्च कल्पितायामुत्पाद्यायां चोपमायां संभवति॥

विपरीतरते सुतनोरायस्ताया विभाति मुखमस्याः।
श्रमवारिबिन्दुजालकलाञ्छितमिव कमलमुत्फुल्लम्॥३०॥

विपरीतरत इति। इवशब्दो भिन्नक्रमे। कमलस्योपमानस्य न किंचिदवश्यायजलकणनिकुरम्वाञ्चितत्वादिकं कृतम्। कल्पितोपमेयम्॥

उत्पाद्यामाह—

मुक्ताफलजालचितं यदीन्दुबिम्बं भवेत्ततस्तेन।
विपरीतरते सुतनोरुपमीयेताननं तस्याः॥३१॥

मुक्ताफलेति। अत्रोपमानस्येन्दुबिम्बस्य मुक्ताफलजालचितमिति विशेषणं कृतम्। न तु मुखस्योपमेयस्य श्रमवारिकणचितत्वादि॥

अथासंभवः—

उपमानं यत्र स्यादसंभवत्तद्विशेषणं नियमात्।
संभूतमयद्यर्थं विज्ञेयोऽसंभवः स इति॥३२॥

उपमानमिति। स इत्यनेन प्रकारेणासंभवो नाम दोषः। यत्रोपमानमसंभवत्तद्विशेषणमसंभाव्यविवक्षितधर्मकमपि नियमान्निश्चयेन संभूतं तद्विशेषणयुक्तं स्यात्। ननु तर्हि ‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्यम्’ इत्याद्यपि दुष्टं स्यादित्याह— अयद्यर्थम्। यद्यर्थविकलं यदि क्रियते। सयद्यर्थे तु न दोषः॥

उदाहरणमाह—

सुतनुरियं विमलाम्बरलक्ष्योरुमृणालमूललालित्या।
अजलप्रकृतिरदूरस्थितमित्त्रा गगननलिनीव॥३३॥

सुतनुरिति। अत्र विशेषणत्रयमपि तन्वीगगननलिन्योः समानम्। परं यदि गगने नलिनी संभवेत्तदा तन्वीसदृशी भवेत्। अतो यद्यर्थंविना दुष्टता॥

अथाप्रसिद्धिः—

उपमानतया लोके वाच्यस्य न तादृशं प्रसिद्धं यत्।
क्रियते यत्र तदुत्कटसामान्यतयाप्रसिद्धिः सा॥३४॥

उपमानयेति। यत्किमपि वस्तु लोके वाच्यस्योपमेयार्थस्योपमानतया न प्रसिद्धमथ च तथा क्रियते साप्रसिद्धिर्दोषः। कदाचिद्वाच्येन सह विसदृशं स्यादथवा तादृशं तुल्यमपि यदि न प्रसिद्धं कथं क्रियत इत्याह—उत्कटसामान्यतया। अतिसादृश्यादित्यर्थः॥

उदाहरणमाह—

पद्मासनसंनिहितोभाति ब्रह्मेव चक्रवाकोऽयम्।
श्वपचश्यामं वन्दे हरिमिन्दुसितो वकोऽयमिति॥३५॥

पद्मेति। इह ब्रह्मकेशवचन्द्राणां क्रमेण पद्मासनत्वेन श्यामत्वेन सितत्वेन च चक्रवाकश्वपचवकाः समाना अपि न तदुपमानत्वेन प्रसिद्धाः। यत्र तु प्रसिद्धिस्तत्र भवत्येव। यथा—‘नमामि शंकरं काशसंकाशं शशिशेखरम्। नमो नुताय गोर्वाणैरलिनीलाय विष्णवे॥’ इत्यादि। ननु कथम् ‘भवन्तमेतर्हिमनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि। कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः॥’ इत्वादिष्वौपम्यम्।

अत्र ह्येकत्र विधिरपरत्र निषेधः। यथा शमीतरुमग्निर्दहत्येवं त्वां मन्युः कथं न दहतीति। सत्यम्। प्रथममौपम्ये विहिते पश्चादुपमेयप्रतिषेधे न किंचिदनुपपन्नम्। केचित्तु व्यतिरेकोऽयमित्याहुः॥

अथ सर्वमेव शास्त्रोक्तमुपसंहरन्नाह—

शब्दार्थयोरिति निरूप्य विभक्तरूपा -
न्दोषान्गुणांश्च निपुणो विसृजन्नसारम्।
सारं समाहितमनाः परमाददानः
कुर्वीत काव्यमविनाशि यशोऽधिगन्तुम्॥३६॥

शब्दार्थयोरिति। इति पूर्वोक्तेन युक्तिमता प्रकारेण शब्दार्थयोर्दोषान्गुणांश्च निपुणः प्रवीणः कविर्निरूप्य पर्यालोच्य। किंभूतान्। विभक्तरूपान्विभागेन स्थितरूपान्। शब्दस्य हि वक्रोक्त्यादयः पञ्च गुणाः।दोषास्त्वसमर्थादयः षट्। अर्थस्य पुनर्गुणा वास्तवादयश्चत्वारः। दोषास्त्वपहेतुत्वादयो नव। ततश्चासारं दोषान्विसृजन्, परमुत्कृष्टं सारमलंकारानाददानो गृह्णन्। किंभूतः सन्। समाहितं सावधानं मनो यस्य स तथाविधः। अनवधाने हि महाकवीनामपि स्खलितं भवति। किमर्थंपुनरेवं कुर्वीतेत्याह—अविनाश्यविनश्वरं यशः प्राप्तुमिति। अत्र च वास्तवादीनां चतुर्णामपि ये सहोक्त्यादयः प्रभेदा उक्तास्ते बाहुल्यतो न पुनरेतावन्त एव। उक्तं च ‘न हुघटु इताणअवही नयने दीसन्ति कहवि पुणरुत्ता। जेवि सनापियआणं अत्था वा सुकईवाणीए॥’ ततो यावन्तो हृदयावर्जका अर्थप्रकारास्तावन्तोऽलंकाराः। तेनेत्याद्यपि सिद्धं भवति। यथा—क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः। ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं परानतिपरैस्तैस्तैः फलैर्वञ्चितम् ‘॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत

एकादशोऽध्यायः समाप्तः।

___________________________

द्वादशोऽध्यायः।

ननु काव्यकरणे कवेः पूर्वमेव फलमुक्तम्, श्रोतॄणां तु किं फलमित्याह—

ननु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे।
लघु मृदु च नीरसेभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः॥१॥

नन्विति। ननुशब्दः पृष्टप्रतिवचने। काव्येन हेतुना चतुर्वर्गे धर्मार्थकाममोक्षलक्षणेऽवगमोऽवबोधः क्रियते। ननु तत्र धर्मादिशास्त्राण्येव हेतुरस्ति, किंकाव्येनेत्याह—लघु मृदु चेति क्रियाविशेषणम्। शीघ्रं कोमलोपायं च यथा भवतीत्यर्थः। तथापि धर्मादिसारसंग्रहशास्त्रेभ्यो लघु मृदु च भविष्यतीत्याह—सरसानां शृङ्गारादिप्रियाणाम्। ननु

धर्मादिशास्त्रेभ्यस्तेषामपि किं न भवतीत्याह—नोरसेभ्यः शास्त्रेभ्यो हिर्यस्मात्ते सरसास्त्रस्यन्ति बिभ्यति॥

ततः किमित्याह—

तस्मात्तत्कर्तव्यं यत्नेन महीयसा रसैर्युक्तम्।
उद्वेजनमेतेषां शास्त्रवदेवान्यथा हि स्यात्॥२॥

तस्मादिति। गतार्थम्। नन्वेवं सति सरसार्थमेव काव्यं स्यान्न तु नीरसार्थमितिनास्य सर्वजनीनत्वं स्यात्। नैष दोषः। सरसानां प्रवृत्त्युपाय एषोऽस्माभिरुक्तः, न तु नीरसप्रवृत्तिनिषेधः कृत इति। तेऽपि प्रवर्तन्त एव।अथालंकारमध्ये एवरसा अपि किं नोक्ताः। उच्यते— काव्यस्य हि शब्दार्थौ शरीरम्। तस्य च वक्रोक्तिवास्तवादयः कटककुण्डलादय इव कृत्रिमा अलंकाराः। रसास्तु सौन्दर्यादय इव सहजा गुणाः इति भिन्नस्तत्प्रकरणारम्भः॥

अथ क एते रसास्तानेवोद्दिशति—

शृङ्गारवीरकरुणा वीभत्सभयानकाद्भुता हास्यः।
रौद्रः शान्तः प्रेयानिति मन्तव्याः रसाः सर्वे॥३॥

शृङ्गारेति। गतार्थंन वरम्। शृङ्गारस्य प्राधान्यख्यापनार्थः प्रागुपन्यासः। इतिशब्द एवंप्रकारार्थः। एवंप्रकारा अन्येऽपि भावा रतिनिर्वेदस्तम्भादयः सर्वेऽपि रसा बोद्धव्याः। तत्र रत्यादयः स्थायिनः। निर्वेदादयो व्यभिचारिणः। स्तम्भादयः सात्त्विकाः। तद्यथा—‘रतिर्हासश्च शोकश्च क्रोधोत्साहौभयं तथा। जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः। आलस्यं चैव न दैन्यं च चिन्ता मोहःस्मृतिर्धृतिः॥ व्रीढाचपलता हर्षआवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च॥ सुप्तं प्रबोधोऽमर्षश्राप्यवहित्थस्वयोग्रता।मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः। त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः॥ स्तम्भः स्वेदोऽथ रोमाशःस्वरभेदोऽय वेपथुः। वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः॥’ तत्र शृङ्गारादिषु रत्यादयो यथासंख्यं भवन्ति। निर्वेदस्तम्भादयस्तु सर्वेष्विति॥

ननु कथं तर्हि निर्वेदादयो रसतां यान्तीत्याह—

रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः।
निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः॥४॥

रसनादिति। आचार्यैर्भरतादिभिरेषां स्थायिभावानां रसनादास्वादनाद्धेतो रसत्वमुक्तम्। केषामिव। मधुराम्लादीनामिव। मधुरादयो ह्यास्वाद्यमानाः सन्तो रसतां यान्तीति। उक्तं च—‘अनेकद्रव्यसंयुक्तैर्व्यङ्गनैर्बहुभिश्चितम्। आस्वादयन्ति भु़ञ्जाना भक्तं भक्तभुजो यथा॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा रसान्। आस्वादयन्ति मनसा

तस्मान्नाट्ये रसाः स्मृताः॥’ स्यादेतत्। स्थायिभावानामेव रसनं भविष्यतीत्याह— निर्वेदादिष्वपि तद्रसनं निकाममस्तीति हेतोस्तेऽपि रसा ज्ञेयाः। यस्य तु परिपोषं न गतास्तस्य भावा एवते। अयमाशयो ग्रन्थकारस्य—यदुत नास्ति सा कापि चित्तवृत्तिर्या परिपोषं गता न रसीभवति। भरतेन सहृदयावर्जकत्वप्राचुर्यात्संज्ञां चाश्रित्याष्टौनव वा रसा उक्ता इति॥

अथ शृङ्गारलक्षणम्—

व्यवहारः पुंनार्योरन्योन्यं रक्तयो रतिप्रकृतिः।
शृङ्गारः स द्वेधा संभोगो विप्रलम्भश्च॥५॥

संभोगः संगतयोर्वियुक्तयोर्यश्च विप्रलम्भोऽसौ।
पुनरप्येष द्वेधा प्रच्छन्नश्च प्रकाशश्च॥६॥

व्यवहार इति। संभोग इति। गतार्थंन वरम्। मातृसुतयोः पितृदुहित्रोर्भ्रातृभगिन्योः शृङ्गारनिवृत्त्यर्थंरक्तयोरिति पदम्। रतिः कामानुविद्धा प्रकृतिः कारणं यस्य। अथ शृङ्गारभेदव्याख्या संभोग इत्यादिका। पुनरप्येष इत्यादिना प्रभेदकथनम्॥

शृङ्गारश्च नायकाश्रय इति तस्य गुणानाह—

रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुङ्मानी।
अग्राम्योज्ज्वलवेषोऽनुल्वणचेष्टः स्थिरप्रकृतिः॥७॥
सुभगः कलासु कुशलस्तरुणस्त्यागी प्रियंवदो दक्षः।
गम्यासु च विस्रम्भी तत्र स्यान्नायकः ख्यातः॥८॥ (युग्मम्)

रत्युपचार इति। सुभग इति। सुगमम्। एतैः षोडशाभिर्गुणैर्युतो नायकः स्त्रीणामभिगम्यत्वाच्छृङ्गाराश्रय इति॥

अथैवंगुणस्यास्य भेदान्सलक्षणानार्याचतुष्टयेनाह—

एवं स चतुर्धा स्यादनुकूलो दक्षिणः शठो धृष्टः।
तत्र प्रेम्णः स्थैर्यादनुकूलोऽनन्यरमणीकः॥९॥

खण्डयति न पूर्वस्यां सद्भावं गौरवं भयं प्रेम।
अभिजातोऽन्यमना अपि नार्यां यो दक्षिणः सोऽयम्॥१०॥

वक्ति प्रियमभ्यधिकं यः कुरुते विप्रियं तथा निभृतम्।
आचरति निरपराधवदसरलचेष्टः शठः स इति॥११॥

कृतविप्रियोऽप्यशङ्को यः स्यान्निर्भर्त्सितोऽपि न विलक्षः।
प्रतिपादितेऽपि दोषेवक्ति च मिथ्येत्यसौ धृष्टः॥१२॥

एवमिति। खण्डयतीति। वक्तीति। कृतेति। गतार्थम्॥

अथ तस्य नर्मसचिवः क्रीडासहायो भवति, तस्य चाष्टौगुणाः। तानाह—

भक्तः संवृतमन्त्रो नर्मणि निपुणः शुचिः पटुर्वाग्मी।
चित्तज्ञः प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु॥१३॥

भक्त इति। गतार्थार्या॥

अथ तस्यैव भेदानाह—

त्रिविधः स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु।
नायकगुणयुक्तोऽथ च तदनुचरः पीठमर्दोऽत्र॥१४॥

विट एकदेशविद्यो विदूषकः क्रीडनीयकप्रायः।
निजगुणयुक्तो मूर्खो हासकराकारवेषवचाः॥१५॥

त्रिविध इति। विट इति। गतार्थमार्याद्वयम्॥

अथ नायिकानां स्वरूपं भेदान्प्रभेदांश्च भेदप्रभेदस्वरूपं चाह—

आत्मान्यसर्वसक्तास्तिस्त्रो लज्जान्विता यथोक्तगुणाः।
सचिवगुणान्वितसख्यस्तस्य स्युर्नायिकाश्चेमाः॥१६॥

शुचिपौराचाररता चरित्रशरणार्जवक्षमायुक्ता।
आत्मीया तु त्रेधा मुग्धा मध्या प्रगल्भा च॥१७॥

मुग्धा तत्र नवोढा नवयौवनजनितमन्मथोत्साहा।
रतिनैपुणानभिज्ञा साध्वसपिहितानुरागा च॥१८॥

तल्पे परिवृत्यास्ते सकम्पमालिङ्गनेऽङ्गमपहरति।
वदनं च चुम्बने सा ष्टष्टा बहुशोऽस्फुटं वक्ति॥१९॥

अन्यां निपेवमाणे सा कुप्यति नायके ततस्तस्य।
रोदिति केवलमग्रे मृदुनोपायेन तुष्यति च॥२०॥

आरूढयौवनभरा मध्याविर्भूतमन्मथोत्साहा।
उद्भिन्नप्रागल्भ्या किंचिद्धृतसुरतचातुर्या॥२१॥

व्याप्रियते सायस्ता सुरते विशतीव नायिकाङ्गेषु।
सुरतान्ते सानन्दा निमीलिताक्षी विमुह्यति च॥२२॥

कुप्यति तत्र सदोषेवक्रोक्त्या प्रतिभिनत्ति तं धीरा।
परुषवचोभिरधीरा मध्या सास्त्रैरुपालम्भैः॥२३॥

लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा।
आक्रान्तनायकमना निर्व्यूढविलासविस्तारा॥२४॥

सुरतेनिराकुलासौ द्रवतामिव याति नायकस्याङ्गे।
न च तत्र विवेक्तुमलं कोऽयं काहं किमेतदिति॥२५॥

तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते।
कोपमपह्नुत्यास्ते धीरा हि रहस्युदासीना॥२६॥

मध्या तु साधुवचनैस्तमीदृशं प्रतिभिनत्ति सोल्लुण्ठैः।
ताडयति मङ्क्ष्वधीरा कोपात्संतर्ज्य संतर्ज्य॥२७॥

ज्येष्ठकनिष्ठत्वेन तु पुनरपि मध्या द्विधा प्रगल्भा च।
मुग्धा त्वनन्यभेदा काव्येषु तथा प्रसिद्धत्वात्॥२८॥

दाक्षिण्यप्रेमभ्यां व्यवहारो नायकस्य काव्येषु।
दृष्टस्तयोरवश्यं सन्नपि न पुनर्भवो भेदः॥२९॥

परकीया तु द्वेधा कन्योढा चेति ते हि जायेते।
गुरुमदनार्ते नायकमालोक्याकर्ण्य वा सम्यक्॥३०॥

साक्षाच्चित्रे स्वप्ने स्याद्दर्शनमेवमिन्द्रजाले वा।
देशे काले भङ्ग्या साधु तदाकर्णनं च स्यात्॥३१॥

द्रष्टुं न समुखीनं कन्या शक्नोति नायकं हृष्टा।
वक्तुं न च ब्रुवाणं वक्ति सखी तं सखीचासौ॥३२॥

पश्यत्यवीक्षमाणं सुस्निग्धस्फारलोचना सततम्।
दूरात्पश्यति तस्मिन्नालिङ्गति बालमङ्कगतम्॥३३॥

अनिमित्तं च हसन्ती सादरमाभाषते सखीं किमपि।
रम्यं वा निजमङ्गं सव्यपदेशं प्रकाशयति॥३४॥

सख्या पर्यस्तं वा रचयत्यलकावतंसरशनादि।
चेष्टां करोति विविधाममुल्वणैरङ्गभङ्गैर्वा॥३५॥

अन्योढापि तथैतत्सर्वं कुरुतेऽनुरागमापन्ना।
नायकमभियुङ्क्ते सा प्रगल्भभावेन पुरतश्च॥३६॥

उद्भूतानन्दभरा प्रस्नुतजघनस्थलार्द्रवसना च।
निःष्पन्दतारनयना भवति तदालोकनादेव॥३७॥

कन्या पुनरभियुङ्क्ते न स्वयमेनं गतापि दुरवस्थाम्।
सुस्निग्धा तदवस्थां सखी तु तस्मै निवेदयति॥३८॥

सर्वाङ्गना तु वेश्या सम्यगसौ लिप्सते धनं कामात्।
निर्गुणगुणिनोस्तस्या न द्वेष्योन प्रियः कश्चित्॥३९॥

गम्यं निरूप्य सा स्फुटमनुरक्तेवाभियुज्य रञ्जयति।
आकृष्टसकलसारं क्रमेण निष्कासयत्येनम्॥४०॥

आत्मेत्याद्यार्यापञ्चविंशतिः सुगमा न वरम्॥आत्मीया परकीया वेश्या चेति मूलभेदत्रयम्। आत्मीया च, मग्धा मध्या प्रगल्भा चेति पुनस्त्रेधा। पुनश्च मध्याप्रगल्भयोर्धीराधीरा मध्या चेति प्रत्येकं भेदत्रयम्। पुनश्च ज्येष्टाकनिष्ठात्वेन मध्याप्रगल्भयोर्भेदद्वयम्। मुग्धा त्वेकभेदैव।काव्येषु तथा प्रसिद्धेः। अक्षतयोनित्वात्पुनर्विवाहिता पुनर्भूः। परकीया, कन्या परिणीता चेति द्विभेदा। वेश्या त्वेकरूपैवेति। तल्लक्षणं च स्वयं योजनीयमिति॥

[ता एवाधीनपतिर्वासकसज्जाभिसारिकोत्का च।
अभिसंधिता प्रगल्भा प्रोषितपतिखण्डिते चाष्टौ॥

यस्याः सुरतविलासैराकृष्टमनाः पतिः स्थितः पार्श्वे।
विविधक्रीडासक्ता साधीनपतिर्भवेत्तत्र॥

निश्चितदयितागमना सज्जितनिजगेहदेहशयनीया।
ज्ञेया वासकसज्जा प्रियप्रतीक्षेक्षितद्वारा॥

अभिसारिकेति सेयं लज्जाभयलाघवाननालोच्य।
अभिसरति प्राणेशं मदनेन मदेन चाकृष्टा॥

नोपगतः प्राणेशो गुरुणा कार्येण विघ्नितागमनः।
यस्याः किं तु स्यादित्याकुलचित्तेत्यसावुत्का॥

अनुनयकोपं कृत्वा प्रसाद्यमानापि न प्रसन्नेति।
यस्या रुपेव दयितो गच्छत्यभिसंधिता सेयम्॥

यस्या जीवितनाथः संकेतकमात्मनैव दत्त्वापि।
नायात्युपागतायां तस्यामिति विप्रलब्धेयम्॥

सेयं प्रोषितनाथा यस्या दयितः प्रयाति परदेशम्।
दत्त्वावधिमागमने कालं कार्यावसानं वा॥

कार्यान्तरकृतविघ्नो नागच्छत्येव वासकस्थायाः।
तस्मिञ्जीवितनाथो यस्याः सा खण्डिता ज्ञेया॥

पुनरन्यास्तास्तिस्रः सन्त्युत्तममध्यमाधमा भेदात्।
इति सर्वा एवैताः शतत्रयं चतुरशीतिश्च॥

अपराधे प्रमितं या कुप्यति मुञ्चति च कारणात्कोपम्।
स्निह्यति नितरां रमणे गुणकार्यात्सोत्तमा ज्ञेया॥

आलोच्य दोषमल्पं कुप्यत्यधिकं प्रसीदति चिरेण।
स्निग्धापि कारणेन च महीयसा मध्यमा सेयम्॥

स्निह्यति विनापि हेतुं कुप्यत्यपराधमन्तरेणैव।
स्वल्पादप्यपकाराद्विरज्यते साधमा प्रोक्ता॥

संबन्धिसखिश्रोत्रियराजोत्तमवर्णनिर्वसितदाराः।
भिन्नरहस्या व्यङ्गाः प्रव्रजिताश्चेत्यगम्याः स्युः॥

एताश्चतुर्दशार्या मूले प्रक्षिप्ताः॥ ]

अथ सर्वासामपि संविधानकवशाद्भेदान्तरमाह—

द्वेधाभिसारिकाखण्डितात्वयोगाद्भवन्ति तास्तासु।
स्वीया स्वाधीनपतिः प्रोषितपतिका पुनर्द्वेधा॥४१॥

[ द्वेधेति ]। ताः सर्वा अभिसारिकाः खण्डिताश्च भवन्ति। अथात्मीयाभेदान्तरमाह—तासु स्वीया, स्वाधीनपतित्वप्रोषितपतिकात्वभेदतो द्वेधा॥

अभिसारिकाया लक्षणमभिसरणक्रमं चाभिधातुमाह—

अभिसारिका तु सा या दूत्या दूतेन वा सहैका वा।
अभिसरति प्राणेशं कृतसंकेता यथास्थानम्॥४२॥

काञ्च्यादिरणत्कारं व्यक्तं लोके प्रयाति सर्वस्त्री।
वृष्टितमोज्योत्स्नादिच्छन्नं स्वीया परस्त्री च॥४३॥

इत्यार्याद्वयं सुगमम्॥

खण्डितालक्षणमाह—

यस्याः प्रेम निरन्तरमन्यासङ्गेन खण्डयेत्कान्तः।
सा खण्डितेति तस्याः कथाशरीराणि भूयांसि॥४४॥

सुगमं न वरम्। तस्याः कथाशरीराणि भूयांसि। तेन विप्रलब्धाकलहान्तरिते अत्रान्तर्भूते। तल्लक्षणं चेदम्। यथा— ‘यस्यादूतीं प्रियः प्रेक्ष्य दत्त्वा संकेतमेव वा। नागतः कारणेनेह विप्रलब्धा तु सा स्मृता॥ ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः। सामर्पवशसंतप्ता कलहान्तरिता मता॥’ एवंविधानि संविधानकवशाद्भूयांसि कथाशरीराणि तस्या भवन्ति। ततश्च यदुक्तं भरतेन यथा—‘तत्र वासकसज्जा च विरहोत्कण्ठितापि च। स्वाधीनभर्तृका चापि कलहान्तरिता तथा॥खण्डिता विप्रलब्धा च तथा प्रोषितभर्तृका। तथाभिसारिका चैवइत्यष्टौ नायिकाः स्मृताः॥’ तदत्रापि संगृहीतम्॥

स्वाधीनपतिप्रोषितपतिकयोर्लक्षणमाह—

यस्याः पतिरायत्तः क्रीडासु तया समं रतौ मुदितः।
सा स्यात्स्वाधीनपती रतिमण्डनलालसासक्ता॥४५॥
सा स्यात्प्रोषितपतिका यस्या देशान्तरं पतिर्यातः।
नियतानियतावधिको यास्यति यायेत्युपैष्यति च॥४६॥

सुगमम्॥.

अथाध्यायमुपसंहरन्नन्यथाकरणनिषेधमाह—

इति कथितमशेषं लक्षणं नायकाना-
मनुगतसचिवानां हीनमध्योत्तमानाम्।
अतिरसिकतयेदं नान्यथा जातु कुर्या-
त्कविरविहतचेताः साधुकाव्यं विधित्सन्॥४७॥

प्रकटार्थमेव॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो

द्वादशोऽध्यायः समाप्तः।

_____________________

त्रयोदशोऽध्यायः।

संभोगः संगतयोरिति वचनात्संपर्क एव नायकयोः शृङ्गारो न त्वालोकनादीत्याशङ्क्याह—

अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिद्धमुदौ।
आलोकनवचनादि स सर्वः संभोगशृङ्गारः॥१॥

अन्योन्यस्येति। नायकौ दंपती सचित्तौतुल्यमानसौयदालोकनवचनोद्यानविहारपुष्पोच्चयजलक्रीडामधुपानताम्बूल- सुरतादिकं परस्परसंबन्ध्यनुभवतः स सर्वः, न तु

निधुवनमात्रं संभोगशृङ्गार इति। प्रवासविप्रलम्भस्य संभोगशृङ्गारत्वनिषेधार्थमाह— इद्धमुदाविति। प्रमुदितावित्यर्थः॥

अथास्य संभोगशृङ्गारस्यानुभवमाह—

तत्र भवन्ति स्त्रीणां दाक्षिण्यस्नेहसौकुमार्याणाम्।
अविरोधिन्यश्रेष्टा देशे काले च सर्वासाम्॥२॥

तत्रेति। सुगमं न वरम्। दाक्षिण्यमनुवृत्तिः। स्नेहः प्रेम। सौकुमार्यं मार्दवम्। देशो वनोद्यानादिः। कालो वसन्तसुरतादिः॥

दयितचेष्टानुकारो नाम लीला स्त्रीणां भवतीति दर्शयितुमाह—

दयितस्य सखीमध्ये चेष्टां मधुरैर्वचोभिरुचितैस्ताः।
ललितैरङ्गविकारैः क्रीडन्त्यो वानुकुर्वन्ति॥३॥

दयितस्येति। सुगमम्॥

तत्रापि तदनुकार्यंयदनुकर्तुं शक्यते, न तूल्वणमपि। तदाह—

अनुकार्यं न तु नार्या यत्प्रेरणकर्म तत्परोक्षे सा।
अनुकुर्वती विजह्यान्माधुर्यं सौकुमार्यं च॥४॥

अनुकार्यमिति। सुगमं न वरम्। तुरवधारणे। नैवेत्यर्थः॥

चेष्टान्तराण्याह—

अपहारे वसनानां कुचकलशादिग्रहे रतान्ते च।
अन्तर्निहितानन्दाः पुरुषेषु रुषेव वर्तन्ते॥५॥

अपहार इति। सुगमम्॥

समकालं निन्दन्ति त्रस्यन्ति हसन्त्यहेतुलज्जन्ति।
अस्यन्त्यालिङ्गन्ति च दयितान्भूतैरिवाविष्टाः॥६॥

समकालमिति। सुगमम्॥

पूर्वमुक्तम् ‘ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्’ (११।९) इति तत्क्वचित्साध्वेवेति दर्शयितुमाह—

समये त्वरावतीनामपदेषु विभूषणादिविन्यासः।
भवति गुणाय विभाविततात्पर्यस्मेरितालिरपि॥७॥

समय इति। सुगमम्॥

अननुकूलाचरणं सर्वत्र दोषत्वेन प्रसिद्धम्, तस्य विशेषगुणत्वमाह—

कुर्वन्ति प्रतिकूलं रहसि च यद्यत्प्रियं प्रति प्रमदाः।
तत्तद्गुणाय तासां भवति मनोभूप्रसादेन॥८॥

कुर्वन्तीति। सुगमम्॥

नवोढानां स्वरूपमाह—

दृष्ट्वा प्रियमायान्तं तन्मनसस्तेन संवदन्त्यो वा।
मन्मथजनितस्तम्भाः प्रतिहतचेष्टाश्च जायन्ते॥९॥

किमपि प्रियेण ष्टष्टास्तस्याथ ददत्यसंस्तुतस्येव।
साध्वससादितकण्ठ्यः स्खलितपदैरुत्तरं वाक्यैः॥१०॥

यत्किमपि रहस्यतमं कर्णे कथयेत्प्रियः सखीमध्ये।
शृण्वन्ति स्फारदृशस्तदुदितघनकण्टकस्वेदाः॥११॥

मदनव्याकुलमनसः सकलं तस्यार्थमनवगत्यैव।
हुंकारं तदपि मुहुः कुर्वन्त्यवधारयन्त्य इव॥१२॥

दृष्ट्वेति। किमिति। यदिति। मदनेति। सुगमम्॥

नवपरिणीता वध्वो यत्नादपनीय साध्वसं साम्ना।
नीता अपि विस्रम्भं रहः सुनिर्बन्धिभी रमणैः॥१३॥

प्रेर्य प्रेर्य सखीभिर्नीयन्ते वासवेश्म दयितस्य।
तत्संगमाभिलाषेभूयसि लज्जाहतप्रसरे॥१४॥(युग्मम्)

[नवेति। प्रेर्येति। सुगमम्॥]

ननु किमिति सखीभिः प्रार्थनया नीयन्ते नायकः कथं हठादेव न प्रवर्तयतीत्याह—

सुकुमाराः पुरुषाणामाराध्या योषितः सदा तल्पे।
तदनिच्छया प्रवृत्तः शृङ्गारं नाशयेन्मूर्खः॥१५॥

सुकुमारा इति॥

तस्मात्किं कर्तव्यमित्याह—

वाग्मी सामप्रवणश्चाटुभिराराधयेन्नारीम्।
तत्कामिनां महीयो यस्माच्छृङ्गारसर्वस्वम्॥१६॥

वाग्मीति। सुगमम्॥

अध्यायमुपसंहरन्कवेरुपदेशमाह—

सुकविभिरभियुक्तैः सम्यगालोच्य तत्त्वं
त्रिजगति जनताया यत्स्वरूपं निबद्धम्।

तदिदमिति समस्तं वीक्ष्य काव्येषु कुर्या-
त्कविरविरलकीर्तिप्राप्तये तद्वदेव॥१७॥

सुकविभिरिति। सुगमम्॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत

स्त्रयोदशोऽध्यायः समाप्तः।

_____________________

चतुर्दशोऽध्यायः।

अथ संभोगं व्याख्याय विप्रलम्भशृङ्गारं व्याचिख्यासुराह—

अथ विप्रलम्भनामा शृङ्गारोऽयं चतुर्विधो भवति।
प्रथमानुरागमानप्रवासकरुणात्मकत्वेन॥१॥

अथेति। अथशब्द आनन्तर्ये। संभोगानन्तरम्। विप्रलम्भोऽयं शृङ्गारश्चतुर्विधो भवति। कथं चतुर्विध इत्याह—प्रथमानुरागादय आत्मा स्वरूपं यस्य तद्भावस्तत्त्वं तेन हेतुना।प्रकारनिर्देशादेव चातुर्विध्ये लब्धे चतुर्विधग्रहणं चतुर्विधस्याप्यस्य शृङ्गारत्वनियमार्थम्। चतुर्विधोऽपि शृङ्गार एवायम्। केचिद्धि करुणरस एव विप्रलम्भभेदं करुणमन्तर्भावयन्ति। तदसत्। वैलक्षण्यात्। शुद्धे हि करुणे शृङ्गारस्पर्श एव न विद्यते। करुणविप्रलम्भस्तु शृङ्गार एव। यथा कालिदासस्य—‘प्रतिपद्य मनोहरं वपुःपुनरप्यादिश तावदुत्थितः। रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम्॥’

अथैषामेव यथाक्रमं लक्षणमाह—

आलोकनादिमात्रप्ररूढगुरुरागयोरसंप्राप्तौ।
नायकयोर्या चेष्टा स प्रथमो विप्रलम्भ इति॥२॥

आलोकनेति। सुगमम्॥

ता एव काश्चिच्चेष्टा आह—

हिमसलिलचन्द्रचन्दनमृणालकदलीदलादि तत्रैतौ।
दुर्वारस्मरतापौ सेवेते निन्दतः क्षिपतः॥३॥

हिमेति। सुगमम्॥

अथास्य सूचकानवस्थाभेदानाह—

आदावभिलाषः स्याच्चिन्ता तदनन्तरं ततः स्मरणम्।
तदनु च गुणसंकीर्तनमुद्वेगोऽथ प्रलापश्च॥४॥

उन्मादस्तदनु ततो व्याधिर्जडता ततस्ततो मरणम्।

इत्थमसंयुक्तानां रक्तानां दश दशा ज्ञेयाः॥५॥(युग्मम्)

आदाविति। उन्माद इति। सुगमम्। एताश्च दशाः कादम्बरीकथायां प्रकटाः।

मरणं तु केचिन्नेच्छन्ति दशाम्। मृतस्य हि कीदृशः शृङ्गारः। यैरुक्तं ते तु मन्यन्ते। नवमीं दशां प्राप्तस्य निरुद्यमस्य मरणमेव दशमी दशा स्यात्। ततस्तामप्राप्तेन नायकेन तन्निषेधार्थं यतितव्यमिति दर्शनार्थंदशमी दशोक्ता॥

अथ कस्तत्र प्रयत्न इति प्रयत्नक्रममाह—

अथ नायकोऽनुरक्तस्तस्यागर्जयति परिजनं तस्याः।
उद्दिश्य हेतुमन्यं साम्नादानेन मानेन॥६॥

तस्य पुरतोऽथ कुर्वन्गृहीतवाक्यस्य नायिकाविषयाम्।
चिरमनुरागेण कथां स्वयमनुरागं प्रकाशयति॥७॥

तदभावे प्रव्रजिता मालाकारादि योषितो वापि।
उभयप्रत्ययितगिरः कर्मणि सम्यङ्गियुङ्क्ते च॥८॥

तद्द्वारेण निवेदितनिजभावो विदितनायिकाचित्तः।
त्वरयति तामुपचारैः स्वावस्थासूचकैर्लेखैः॥९॥

सिद्धां च तां विविक्ते दृष्ट्वाथकलाभिरिन्द्रजालैर्वा।
योगैरसकृत्क्रमशो विस्मापयति प्रसङ्गेषु॥१०॥

गतार्थम्॥

यदा तु सा कन्या नानेन क्रमेण प्राप्यते तदा किमित्याह—

मन्येत यदा नेयं कथमपि लभ्येत नायिका नाथात्।
क्षीणसमस्तोपायः कन्यां स तदेति साधयति॥११॥

मन्येतेति। सुगमं न वरम्। नाथाज्जनकादिकात्॥

ननु कन्यायाः स्वीकारक्रमोपदेशो न दृष्टः परदाराणां तु विरुद्ध एव महापापत्वादित्यत आह—

नहि कविना परदारा एष्टव्या नापि चोपदेष्टव्याः।
कर्तव्यतयान्येषांन च तदुपायोऽभिधातव्यः॥१२॥

किं तु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति।
आराधयितुं विदुषस्तेन न दोषः कवेरत्र॥१३॥(युग्मम् )

नेति। किमिति। सुगमम्॥

ननु पारदारिकवृत्ताख्यानमपि न युक्तमित्याह—

सर्वत एवात्मानं गोपायेदिति सुदारुणावस्थः।
आत्मानं रक्षिष्यन्प्रवर्तते नायकोऽप्यत्र॥१४॥

सर्वत इति। यत्र शास्त्रे भणितं परदारा न गन्तव्यास्तत्रैवोक्तं सर्वत एवात्मानं गोपायेदित्यस्माद्वचनान्नायकोऽप्यात्मरक्षार्थमत्र परदारेषु प्रवर्तत इति॥

प्रथमानुराग उक्तः। अथ मानमाह—

मानः स नायके यं विकारमायाति नायिका सेर्ष्या।
उद्दिश्य नायिकान्तरसंबन्धसमुद्भवं दोषम्॥१५॥

मान इति सुगमम्॥

दोषस्यैव सारेतरविभागानाह—

गमनं ज्यायान्दोषः प्रतियोषिति मध्यमस्तथालापः।
आलोकनं कनीयान्मध्यो ज्यायान्स्वयं दृष्टः॥१६॥

गमनमिति। सुगमम्॥

दोषस्यैव लिङ्गान्याह—

वसनादि नायकस्थं तदीयमार्द्रक्षतं च तस्याङ्गम्।
दोषस्य तथा गमकं गोत्रस्खलनं सखीवचनम्॥१७॥

वसनादीति। सुगमम्॥

अथासौ दोषो ज्ञातस्तस्याः किं कुरुत इत्याह—

देशं कालं पात्रं प्रसङ्गमवगमकमेत्य सविशिष्टम्।
जनयति कोपमसाध्यं सुखसाध्यं दुःखसाध्यं वा॥१८॥

देशमिति। सुगमं न वरम्। यदि ज्यायांसो देशकालपात्रप्रसंङ्गा भवन्त्यसाध्यस्तदा कोपः स्यात्। अथ मध्यास्तदा कृच्छ्रसाध्यः। अथ कनीयांसस्तदा सुखसाध्य इति॥

अथ क एते देशादयो ज्यायांस इत्याह—

ज्वलदुज्ज्वलप्रदीपं कुसुमोत्करधूपसुरभि वासगृहम्।
सौधतलं च सचन्द्रिकमुद्यानं सुरभिकुसुमभरम्॥१९॥

इति देशा ज्यायांसो मधुरजनी स्मरमहोदयः कालः।
पात्रं तु नायकौ तौ ज्यायो मध्याधमावुक्तौ॥२०॥( युग्मम् )

ज्वलदिति। इतीति। सुगमं न वरम्। ताविति पूर्वोक्तनायकौ। तत्रानुकूलदक्षिणादिश्चतुर्धा नायकः। आत्मान्यसर्वसक्ताश्च नायिकाः। तत्रानुकूलेन दक्षिणेन च नायकेन ज्यायस्या नायिकाया दोषः कृतोऽसाध्यः। शठेन धृष्टेन च ज्यायस्याः कृच्छ्रसाध्यः। शठेन च ज्यायस्याः सुखसाध्य इत्यादि चिन्त्यम्॥

प्रसङ्गं ज्यायांसमाह—

सकलसखीपरिवृतता रत्यभिमुखता च तत्प्रशंसा च।
जायेतनायिकायां यत्र ज्यायान्प्रसङ्गोऽसौ॥२१॥

सकलेति। सुगमम्। मध्याधमौ तु प्रसङ्गौ स्वयमुन्नेयौ॥

तत्र प्रत्यक्षदोषदर्शने परिहारो नास्ति लिङ्गगम्ये त्वस्तीत्याह—

परिहारो वसनादावन्यस्मादागमोऽन्यदिदमिति वा।
परिहर्तुं कृतमस्मिन्न लक्ष्यते नायिकां रमयेत्॥२२॥

तदनु त्वत्कृतमिदमिति परिहारः पूर्वमेव वा सुरतम्।
शब्दान्तरनिष्पत्तिर्गोत्रस्खलने तु केलिर्वा॥२३॥

अभियोज्यायां मयि वा कुपितेयमनेन हेतुना तेन।
वक्ति सखी ते मिथ्या किलेति तद्वचसि परिहारः॥२४॥

परिहार इति। तदन्विति। अभियोज्यायामिति। सुगमम्॥

अथ यतः कोपान्नायकाय कुरुते (?) तदाह—

ज्यायोभिः सह दोषोज्यायाञ्जनयत्यसाध्यमतिकोपम्।
तस्मान्म्रियते सद्यो मनस्विनी त्यजति वा पुरुषम्॥२५॥

ज्यायोभिरिति। सुगमम्॥

अथास्याः कोपस्य साध्यासाध्यविभागः कथं ज्ञेय इत्याह—

दोषस्य सहायानामालोच्य बलावलं समेतानाम्।
बुध्येत कोपमस्याः सुखसाध्यं कृच्छ्रसाध्यं वा॥२६॥

दोषस्येति। सुगमम्॥

अथ जाते कोपे उपायाः प्रयोक्तव्याः, क्व वा के प्रयोक्तव्याः, कथं वा प्रयोक्तव्या इत्येतदाह—

साम प्रदानभेदौ प्रणतिरुपेक्षा प्रसङ्गविभ्रंशः।
अत्रैतेपडुपाया दण्डस्त्विह हन्ति शृङ्गारम्॥२७॥

दासोऽस्मि पालनीयस्तवैव धीरा बहुक्षमा त्वं च।
अहमेव दुर्जनोऽस्मिन्नित्यादि स्तुतिवचः साम॥२८॥

कालेऽलंकारादीन्दद्यादुद्दिश्य कारणं त्वन्यत्।
बन्धुमहादिकमिति यत्तद्दानं साधु लुब्धासु॥२९॥

तस्या गृहीतवाक्यं परिजनमाराध्य दानसमानैः।
तेन सदोषःकोपे तां बोधयतीत्ययं भेदः॥३०॥

दैन्येन पादपतनं प्रणतिरुपेक्षावधीरणं तस्याः।
सहसात्युत्सवयोगो भ्रंशः कोपप्रसङ्गस्य॥३१॥

मृदुरत्र यथा पूर्वं सर्वेषु यथोत्तरं तथा बलवत्।
साध्येत यो न मृदुना बलवांस्तत्र प्रयोक्तव्यः॥३२॥

सुगमम्॥

अथ प्रवासमाह—

यास्यति याति गतो यत्परदेशं नायकः प्रवासोऽसौ।
एष्यत्येत्यायातो यथर्त्ववस्थोऽन्यथा च गृहान्॥३३॥

यास्यतीति। सुगमं न वरम्। यथर्त्ववस्थ इति ऋत्वनतिक्रमेणावस्था दशा प्रत्यावृत्तिव्यवस्था वा यस्य स तथाभूतः। अन्यथा चेति ऋतुविवक्षामन्तरेणेत्यर्थः॥

अथ करुणमाह—

करुणः स विप्रलम्भो यत्रान्यतरो म्रियेत नायकयोः।
यदि वा मृतकल्पः स्यात्तत्रान्यस्तद्गतं प्रलपेत्॥३४॥

करुण इति। सुगमं न वरम्। नायको म्रियते नायिका वा, तथा नायको मृतकल्पो नायिका वा भवतीति चत्वारः प्रकाराः॥

अथ यस्तत्रैको जीवति तस्य सदृशचेष्टो जनो भवतीत्याह—

सर्वेष्वेषु जनः स्यात्स्रस्तावयवो विचेतनो ग्लानः।
अच्छिन्ननयनसलिलः सततं दीर्घोष्णनिःश्वासः॥३५॥

सर्वेष्विति। सुगमं न वरम्। सर्वेष्विति चतुर्ष्वपि करुणप्रकारेष्विति रसोत्पत्तिश्च विभागभावानुभावसंयोगाद्भवति। तत्र शृङ्गारे विभागः संभोगविप्रलम्भादिकः। भावस्तु स्थायी रतिः। इतरस्तु निर्वेदादिः। अनुभावस्तु ‘तत्र भवन्ति स्त्रीणाम्’ (१३।२) इत्यादिनोक्तः। एवं वीरादिष्वपि योज्यम्॥

अन्योन्यानुरक्तपुंनार्योः शृङ्गारोऽन्यथात्वे तु शृङ्गाराभास इत्याह—

शृङ्गाराभासः स तु यत्र विरक्तेऽपि जायते रक्तः।
एकस्मिन्नपरोऽसौ नाभाष्येषु प्रयोक्तव्यः॥३६॥

शृङ्गाराभास इति। सुगमं न वरम्। आभाष्येषूत्तमेष्वसौ न प्रयोक्तव्यः॥

अथात्र रीतीनामनुप्रासवृत्तीनां चावसरे विषयविभागमाह—

इह वैदर्भी रीतिः पाञ्चाली वा विचार्य रचनीया।
मधुराललिते कविना कार्ये वृत्ती तु शृङ्गारे॥३७॥

इहेति। सुगमम्॥

अथाध्यायमुपसंहरन्सर्वरसेभ्यः शृङ्गारस्य प्राधान्यं प्रचिकटयिषुराह—

अनुसरति रसानां रस्यतामस्य नान्यः
सकलमिदमनेन व्याप्तमाबालवृद्धम्।

तदिति विरचनीयः सम्यगेप प्रयत्ना-
द्भवति विरसमेवानेन हीनं हि काव्यम्॥३८॥

अनुसरतीति। सुगमम्॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत

श्चतुर्दशोऽध्यायः समाप्तः।


पञ्चदशोऽध्यायः।

शृङ्गारं व्याख्यायाधुना वीरादीनां विभागभावानुभावलक्षणं कारणत्रयं तथा नायकानायकगुणांश्च प्रत्येकं क्रमेणाह—

उत्साहात्मा वीरः स त्रेधा युद्धधर्मदानेषु।
विषयेषु भवति तस्मिन्नक्षोभो नायकः ख्यातः॥१॥

नयविनयवलपराक्रमगाम्भीर्यौदार्यशौर्यशौटीर्यैः।
युक्तोऽनुरक्तलोको निर्व्यूढभरो महारम्भः॥२॥

उत्साहात्मेति। नयेति। गतार्थे न वरम्। उत्साहः स्थायी भावः। धर्मदानयुद्धलक्षणं च विषयत्रयं विभागः। नायकगुणा एवानुभावः। तेजो रणे च सामर्थ्यं बलम्। रिपूणां वलादाक्रमणं पराक्रमः। गाम्भीर्यमलब्धमध्यता। ‘दानमभ्युपपत्तिश्चतथा च प्रियभाषणम्। स्वजनेऽथ परे वापि तदौदार्यंप्रचक्षते॥’ समरैकत्वं शौर्यम्। सत्यपि त्यागकारणे योग्यकार्यस्यात्यागः शौटीर्यम्। धैर्यमित्यर्थः॥

अथ करुणः—

करुणः शोकप्रकृतिः शोकश्च भवेद्विपत्तितः प्राप्तेः।
इष्टस्यानिष्टस्य चविधिविहतो नायकस्तत्र॥३॥

अच्छिन्ननयनसलिलप्रलापवैवर्ण्यमोहनिर्वेदाः।
क्षितिचेष्टनपरिदेवनविधिनिन्दाश्चेति करुणे स्युः॥४॥

करुण इति। अच्छिन्नेति। सुगमं न वरम्। शोकः स्थायिभावः। इष्टानिष्टविपत्तिप्राप्ती विभागः। अच्छिन्ननयनाश्रुप्रभृतिरनुभावः॥

अथ बीभत्सः—

भवति जुगुप्साप्रकृतिर्बीभत्सः सा तु दर्शनाच्छ्रवणात्।
संकीर्तनात्तथेन्द्रियविषयाणामत्यहृद्यानाम्॥५॥

हृल्लेखननिष्ठीवनमुखकूणनसर्वगात्रसंहाराः।
उद्वेगः सन्त्यस्मिन्गाम्भीर्यान्नोत्तमानां तु॥६॥

भवतीति। हृदिति। सुगमं न वरम्। जुगुप्सा स्थायिभावः। विभागस्त्वहृद्यदर्शनादिः। अनुभावो हृल्लेखनादिः। हृल्लेखनं हृदयकम्पः॥

अथ भयानकः—

संभवति भयप्रकृतिर्भयानको भयमतीव घोरेभ्यः।
शब्दादिभ्यस्तस्य च नीचस्त्रीबालनायकता॥७॥

दिक्प्रेक्षणमुखशोषणवैवर्ण्यस्वेदगद्गदत्रासाः।
करचरणकम्पसंभ्रममोहाश्च भयानके सन्ति॥८॥

संभवतीति। दिगिति। सुगमं न वरम्। भयं स्थायिभावः। घोरशब्दादिर्विभागः। दिक्प्रेक्षणादिरनुभावः॥

अथाद्भुतः—

स्यादेष विस्मयात्मा रसोऽद्भुतो विस्मयोऽप्यसंभाव्यात्।
स्वयमनुभूतादर्थादनुभूयान्येन वा कथितात्॥९॥

नयनविकासो वाष्पः पुलकः स्वेदोऽनिमेषनयनत्वम्।
संभ्रमगद्गदवाणीसाधुवचांस्युत्तमे सन्ति॥१०॥

स्यादिति। नयनेति। सुगमं न वरम्। विस्मयः स्थायिभावः। विभागश्चासंभवि। अनुभावो नयनविकासादिः॥

अथ हास्यः—

हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः।
भवति परस्थाभ्यः स च भूम्ना स्त्रीनीचबालगतः॥११॥

नयनकपोलविकासी किंचिल्लक्ष्यद्विजोऽप्यसौ महताम्।
मध्यानां विवृतास्यः सशब्दवाष्पश्च नीचानाम्॥१२॥

हास्य इति। नयनेति। सुगमं न वरम्। हास्यः स्थायिभावः। विभावस्तु विकृताङ्गवेषादिः। अनुभावो नयनकपोलविकासादिः॥

अथ रौद्रः—

रौद्रः क्रोधप्रकृतिः क्रोधोऽरिकृतात्पराभवाद्भवति।
तत्र सुदारुणचेष्टः सामर्षो नायकोऽत्युग्रः॥१३॥

तत्र निजांसस्फालनविषमभ्रुकुटीक्षणायुधोत्क्षेपाः।
सन्ति स्वशक्तिशंसाप्रतिपक्षाक्षेपदलनानि॥१४॥

रौद्रइति। तत्रेति। सुगमं न वरम्। क्रोधः स्थायिभावः। विभावो रिपुकृतपराभवादिः। अनुभावो निजांसास्फालनादिः॥

अथ शान्तः—

सम्यग्ज्ञानप्रकृतिः शान्तो विगतेच्छनायको भवति।
सम्यग्ज्ञानं विषये तमसो रागस्य चापगमात्॥१५॥
जन्मजरामरणादित्रासो वैरस्यवासना विषये।
सुखदुःखयोरनिच्छाद्वेषाविति तत्र जायन्ते॥१६॥

सम्यगिति। जन्मेति। सुगमं न वरम्। सम्यग्ज्ञानं स्थायिभावः। विभावस्तु शब्दादिविषयस्वरूपम्। अनुभावो जन्मादित्रासादयः। कैश्चिच्छान्तस्य रसत्वं नेष्टम्। तदयुक्तम्। भावादिकारणानामत्रापि विद्यमानत्वात्। एवं प्रेयोरसेऽपि द्रष्टव्यमिति॥

अथ प्रेयान्—

स्नेहप्रकृतिः प्रेयान्संगतशीलार्यनायको भवति।
स्नेहस्तु साहचर्यात्प्रकृतेरुपचारसंबन्धात्॥१७॥

निर्व्याजमनोवृत्तिः सनर्मसद्भावपेशलालापाः।
अन्योन्यं प्रति सुहृदोर्व्यवहारोऽयं मतस्तत्र॥१८॥

प्रस्यन्दिप्रमदाश्नुः सुस्निग्धस्फारलोचनालोकः।
आर्द्रान्तःकरणतया स्नेहपदे भवति सर्वत्र॥१९॥

सुगमं न वरम्। स्नेहः स्थायिभावः। विभावः साहचर्यादिः। अनुभावः प्रस्यन्दिप्रमदाश्रुप्रभृतिः॥

अथ वीरादिषुरीतिनियममाह—

वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे भयानकाद्भुतयोः।
लाटीयागौडीये रौद्रे कुर्याद्यथौचित्यम्॥२०॥

वैदर्भीति। प्रेयःकरुणभयानकाद्भुतेषु चतुर्षु रसेषु वैदर्भी पाञ्चाली चेति रीतिद्वयं कुर्यात्। तथा रौद्रे रसे लाटीया गौडीया च कर्तव्या। शेषरसेषु न रीतिनियमः। सर्वा अपि कथं कार्या इत्याह— यथौचित्यमिति। औचित्यं रसस्वरूपपरिपोषः। तदनतिक्रमेणेत्यर्थः। रसानामलंकाराणां च लक्षणस्य मात्रयापि न्यूनत्वेतदाभासता बोद्धव्या॥

अध्यायमुपसंहरंस्तद्रचनाक्रममाह—

एते रसा रसवतो रमयन्ति पुंसः
सम्यग्विभज्य रचिताश्चतुरेण चारु।
यस्मादिमाननधिगम्य न सर्वरम्यं
काव्यं विधातुमलमत्रतदाद्रियेत॥२१॥

एत इति। एते रसाः सम्यग्विभज्य चतुरेण कविना चारु यथा भवति तथा रचिताः सन्तो रसिकान्पुंसो रमयन्ति यस्मात्। तथेमाननधिगम्याविज्ञाय सर्वथा रम्यं काव्यं विधातुं कविर्नालं न समर्थः। तत्तस्मादत्रैतेष्वाद्रियेतादरं कुर्यात्॥

इतिश्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः

पञ्चदशोऽध्यायः समाप्तः।


षोडशोऽध्यायः।

‘ननु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे’ (१२।१) इत्युक्तम्, तत्र कश्चतुर्वर्गः कथं च तं रसैः सह निबध्नीयादित्याह—

जगति चतुर्वर्ग इति ख्यातिर्धर्मार्थकाममोक्षाणाम्।
सम्यक्तानभिदध्याद्रससंमिश्रान्प्रबन्धेषु॥१॥

जगतीति। सुगमम्॥

प्रबन्धेष्वित्युक्तम्, अथ के ते प्रबन्धाः कियन्तो वेत्येतन्मुखेन महाकाव्यादिलक्षणं वक्तुमाह—

सन्ति द्विधा प्रबन्धाः काव्यकथाख्यायिकादयः काव्ये।
उत्पाद्यानुत्पाद्या महल्लघुत्वेन भूयोऽपि॥२॥

सन्तीति। द्विधा प्रबन्धाः सन्ति। प्रबध्यते नायकचरितमेतेष्विति कृत्वा। के च ते। काव्यकथाख्यायिकादय इति। आदिग्रहणं कुलकनाटकाद्यर्थे। क्व ते प्रबन्धाः। काव्ये कविकर्मणि। कथम्। द्विधा। उत्पाद्यानुत्पाद्यभेदात्। तथा महल्लघुत्वेन भूयोऽपि पुनरपि। उत्पाद्या महान्तो लघवश्चानुत्पाद्या महान्तो लघवश्चेत्यर्थः॥

अथोत्पाद्यलक्षणमाह—

तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम्।
कल्पितयुक्तोत्पत्तिं नायकमपि कुत्रचित्कुर्यात्॥३॥

तत्रेति। तत्र काव्यादिषु मध्ये उत्पाद्यास्ते येषां शरीरमितिवृत्तं सकलं कविरुत्पादयेत्। नायकं प्रसिद्धं गृहीत्वा तद्व्यवहारः सर्व एवापूर्वोयत्र निबध्यत इत्यर्थः। यथा माघकाव्ये।प्रकारान्तरमाह—कल्पिता युक्ता घटमानोत्पत्तिर्यस्य तमित्थंभूतं नायकमपि कुत्रचित्कुर्यात्, आस्तामिति वृत्तम्। अत्र च तिलकमञ्जरी14 बाणकथा वा निदर्शनम्॥

अथानुत्पाद्यलक्षणमाह—

पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेशं वा।
परिपूरयेत्स्ववाचा यत्र कविस्ते त्वनुत्पाद्याः॥४॥

पञ्जरमिति। तेषु काव्यादिमध्ये तेऽनुत्पाद्याः, येषां पञ्जरं कथाशरीरमखिलं सर्वमितिहासादिप्रसिद्धं रामायणादिकथाप्रसिद्धं कविः स्ववाचा परिपूरयेत्। वदेदित्यर्थः। यथार्जुनचरिते15। अथवा तदेकदेशं वा, इतिहासाद्येकदेशं वा स्ववाचा यत्र पूरयेत्तदप्यनुत्पाद्यम्। यथा किरातार्जुनीयं काव्यम्॥

अथ महान्तः—

तत्र महान्तो येषु च विततेष्वभिधीयते चतुर्वर्गः।
सर्वे रसाः क्रियन्ते काव्यस्थानानि सर्वाणि॥५॥

तत्रेति। सुगमं न वरम्। काव्यस्थानानि पुष्पोच्चयजलक्रीडादीनि भण्यन्ते॥

अथ लघवः—

ते लघवो विज्ञेया येष्वन्यतमो भवेच्चतुर्वर्गात्।
असमग्रानेकरसा ये च समग्रैकरसयुक्ताः॥६॥

त इति। सुगमं न वरम्। ते मेघदूतादयो लघवः। महान्तस्तु शिशुपालबधादयः॥ अथानुत्पाद्येषु पुराणादिक्रमेणैवेतिवृत्तनिबन्धः, केवलं तत्र कविः स्ववाचा चतुर्वर्गरसकाव्यस्थानवर्णनं नमस्कारपूर्वकं करोतीति न तद्विषयनिबन्धोपदेशो जायते। ये पुनरुत्पाद्यास्तत्र कथं निबन्ध इत्यनुपदिष्टं न ज्ञायत इति तन्निबन्धक्रमोपदेशमाह—

तत्रोत्पाद्ये पूर्वं सन्नगरीवर्णनं महाकाव्ये।
कुर्वीत तदनु तस्यां नायकवंशप्रशंसां च॥७॥

तत्र त्रिवर्गसक्तं समिद्धशक्तित्रयं च सर्वगुणम्।
रक्तसमस्तप्रकृतिं विजिगीषुंनायकं न्यस्येत्॥८॥

विधिवत्परिपालयतः सकलं राज्यं च राजवृत्तं च।
तस्य कदाचिदुपेतं शरदादि वर्णयेत्समयम्॥९॥

स्वार्थं मित्त्रार्थं वा धर्मादिसाधयिष्यतस्तस्य।
कुल्यादिष्वन्यतमं प्रतिपक्षं वर्णयेद्गुणिनम्॥१०॥

स्वचरात्तद्दूताद्वा कुतोऽपि वा शृण्वतोऽरिकार्याणि।
कुर्वीत सदसि राज्ञां क्षोभं क्रोधेद्धचित्तगिराम्॥११॥

संमन्त्र्य समं सचिवैर्निश्चित्य च दण्डसाध्यतां शत्रोः।
तं दापयेत्प्रयाणं दूतं वा प्रेषयेन्मुखरम्॥१२॥

अथ नायकप्रयाणे नागरिकाक्षोभजनपदाद्रिनदीः।
अटवीकाननसरसीमरुजलधिद्वीपभुवनानि॥१३॥

स्कन्धावारनिवेशं क्रीडां यूनां यथायथं तेषु।
रव्यस्तमयं संध्यां संतमसमथोदयं शशिनः॥१४॥

रजनीं च तत्र यूनां समाजसंगीतपानशृङ्गारान्।
इति वर्णयेत्प्रसङ्गात्कथां च भूयो निबध्नीयात्॥१५॥

प्रतिनायकमपि तद्वत्तदभिमुखममृष्यमाणमायान्तम्।

अभिदध्यात्कार्यवशान्नगरीरोधस्थितं वापि॥१६॥

योद्धव्यं प्रातरिति प्रबन्धमधुपीति निशि कलत्रेभ्यः।
स्ववधं विशङ्कमानान्संदेशान्दापयेत्सुभटान्॥१७॥

संनह्य कृतव्यूहं सविस्मयं युध्यमानयोरुभयोः।
कृच्छ्रेणसाधु कुर्यादभ्युदयं नायकस्यान्ते॥१८॥

गतार्थंन वरम्। कुल्यादिष्विति कुल्यो गोत्रजः। आदिशब्दात्कृत्रिमादिः। तथा संमन्त्र्य निश्चित्य चेत्यत्रान्तर्भूतः कारितार्थोद्रष्टव्यः। अन्यथा भिन्नकर्तृकत्वात्क्त्वा न स्यात्। नायकमुखेन कविरेव मन्त्रयते निश्चिनोति चेति केचित्। तथा नद्यः सरितः। अटवीनिर्जनो देशः। काननमुद्यानवनम्। सरस्यो महान्ति सरांसि। मरुर्निर्जलो देशः। द्वीपं जलमध्यस्थभूप्रदेशः। भुवनानि लोकान्तराणि। तथा यूनां दंपतीनां क्रीडा। सा च वनेषु क्रीडा, नदीषु जलकेलिः, अटव्यां विहार इत्यादिका। तथा यूनां समाजः संगमः। संगीतं गेयम्। पानकं सरकम्। शृङ्गारः सुरतादिः। तथा कलत्रेभ्यः सुभटान्संदेशान्प्रदापयेत्। कथं दापयेत्। प्रबन्धेन मधुपीतिर्मधुपानं यत्र कर्मणि। मधुपानमपि कुत इत्याह—योद्धव्यं प्रातरिति। तथा नायकस्येति नायकस्यैव विजयं कुर्यान्न विपक्षस्येति सूचनार्थम्॥

अथकिमयं प्रबन्धोऽनवच्छेद एव कर्तव्यो नेत्याह—

सर्गाभिधानि चास्मिन्नवान्तरप्रकरणानि कुर्वीत।
संधीनपि सुश्लिष्टास्तेषामन्योन्यसंबन्धात्॥१९॥

सर्गेति। सुगमं न वरम्। सर्गाभिधानि सर्गनामकानि। यतः ‘सर्गबन्धो महाकाव्यम्’ इत्युक्तम्। तथा संधीन्मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्यान्भरतोक्तान्सुश्लिष्टान्सुरचनान्कुर्वीत। कथं तथा ते स्युरित्याह— अन्योन्यसंबन्धादिति॥

महाकाव्यलक्षणमाख्याय कथालक्षणमाह—

श्लोकैर्महाकथायामिष्टान्देवान्गुरून्नमस्कृत्य।
संक्षेपेण निजं कुलमभिदध्यात्स्वं च कर्तृतया॥२०॥

श्लोकैरिति। सुगमं न वरम्। संक्षेपेण निजं कुलमभिदध्यात्। न त्वाख्यायिकायामिव विस्तरेण।स्वं चेति चकारोऽनुक्तसमुच्चये। तेन सुजनखलस्तुतिनिन्दादिकं चाभिदध्यादिति सूच्यते॥

ततश्च—

सानुप्रासेन ततो भूयो लघ्वक्षरेण गद्येन।
रचयेत्कथाशरीरं पुरेव पुरवर्णकप्रभृतीन्॥२१॥

सानुप्रासेनेति। सुगमं न वरम्। भूयो लघ्वक्षरेण॥

प्रकारान्तरमाह—

आदौ कथान्तरं वा तस्यां न्यस्येत्प्रपञ्चितं सम्यक्।
लघु तावत्संधानं प्रक्रान्तकथावताराय॥२२॥

आदाविति। गतार्थंन वरम्। लघु तावत्संधानं लाघवयुक्तं संधानं यत्र कथान्तरे। अथवादौ तावत्कथान्तरं न्यस्येत्। ततो लघु शीघ्रं प्रक्रान्तकथावताराय संधानमिति। यथा कादम्बर्याम्॥

तथा—

कन्यालाभफलां वा सम्यग्विन्यस्तसकलशृङ्गाराम्।
इति संस्कृतेन कुर्यात्कथामगद्येन चान्येन॥२३॥

कन्येति। वाशब्दः पक्षान्तरसूचकः। तेन राज्यलाभादि फलमपि क्वचित्। सम्यग्विन्यस्तसकलशृङ्गारामित्यनेन शृङ्गारस्तत्र प्राधान्येन निबन्धनीय इत्युक्तं भवति। इत्येवं संस्कृतेन कथां कुर्यात्। अन्येन प्राकृतादिभाषान्तरेण त्वगद्येन गाथाभिः प्रभूतं कुर्यात्। चकाराद्गद्यमपि किंचिदित्यर्थः॥

आख्यायिकालक्षणमाह—

पूर्ववदेव नमस्कृतदेवगुरुर्नोत्सहेत्स्थितेप्वेषु।
काव्यं कर्तुमिति कवीव्शंसेदाख्यायिकायां तु॥२४॥

तदनु नृपे वा भक्तिं परगुणसंकीर्तनेऽथवा व्यसनम्।
अन्यद्वा तत्करणे कारणमक्लिष्टमभिदध्यात्॥२५॥

पूर्ववदिति। तदन्विति। सुगमम्॥

आख्यायिकाया एवलक्षणशेषमाह—

अथ तेन कथैव यथा रचनीयाख्यायिकापि गद्येन।
निजवंशं स्वं चास्यामभिदध्यान्न त्वगद्येन॥२६॥

अथेति। एवोऽभिन्नक्रमे। ततश्चायमर्थः— अथ तेन कविना यथैव कथाख्यायिकापि तथैव गद्येन रचनीया। तुरवधारणे। ततो निजवंशमात्मानं च गद्येनैवास्यामभिदध्यात्। यथा हर्षचरिते॥

अपि च—

कुर्यादत्रोच्छ्वासान्सर्गवदेषां मुखेष्वनाद्यूनाम् (?)।
द्वे द्वे चार्ये श्लिष्टे सामान्यार्थे तदर्थाय॥२७॥

कुर्यादिति। सुगमं न वरम्। तदर्थाय प्रस्तुतार्थसूचनाय॥

संशयशंसावसरे भवतो भूतस्य वा परोक्षस्य।
अर्थस्य भाविनस्तु प्रत्यक्षस्यापि निश्चितये॥२८॥

संशयितुः प्रत्यक्षं स्वावसरेणैव पाठयेत्कंचित्।
अन्योक्तिसमासोक्तिश्लेषाणामेकमुभयं वा॥२९॥

तत्र च्छन्दः कुर्यादार्यापरवक्त्रपुष्पिताग्राणाम्।
अन्यतमं वस्तुवशादथवान्यन्मालिनीप्रायम्॥३०॥

संशयेति। संशयितुरिति। तत्रेति। वर्तमानस्यातीतस्य च परोक्षस्य भाविनस्तु प्रत्यक्षस्यापि संदेहकथनावसरे सति निश्चयाय कंचित्प्राणिनमवसरेणैवान्योक्तिसमासोक्तिश्लेषाणां मध्यादेकमुभयं वालंकारं पाठयेत्। तत्र चार्यादिच्छन्दः कुर्यात्॥

एवं काव्यादित्रयस्य लक्षणानाख्याय तच्छेषमाह—

साभिप्रायं किंचिद्विरुद्धमिव वस्तुसत्प्रसङ्गेन।
अन्तः कथाश्च कुर्यात्त्रिष्वप्येषु प्रबन्धेषु॥३१॥

साभिप्रायमिति। सुगमं न वरम्। विरुद्धमिव न तु विरुद्धम्। त्रिष्वपीति काव्यकथाख्यायिकासु॥

कुर्यादभ्युदयान्तं राज्यभ्रंशादि नायकस्यापि।
अभिदध्यादेषु तथा मोक्षं च मुनिप्रसङ्गेन॥३२॥

सुगमम्॥

अथ लघूनां काव्यादीनां लक्षणमाह—

कुर्यात्क्षुद्रे काव्ये खण्डकथायां च नायिकं सुखिनम्।
आपद्गतं च भूयो द्विजसेवकसार्थवाहादिम्॥३३॥
अत्र रसं करुणं वा कुर्यादथवा प्रवासशृङ्गारम्।
प्रथमानुरागमथवा पुनरन्ते नायकाभ्युदयम्॥३४॥

सुगमम्॥

अथ किमेतल्लक्षणं सर्वेषामपि काव्यादीनां सामान्यं स्यान्नेत्याह—

नैतदनुत्पाद्येषु तु तंत्र ह्यभिधीयते यथावृत्तम्।
अल्पेषु महत्सु च वा तद्विषयो नायमुपदेशः॥३५॥

सुगमम्॥

अथ काव्यकथाख्यायिकादय इत्यत्रादिग्रहणसंगृहीतं दर्शयितुमाह—

अन्यद्वर्णकमात्रं प्रशस्तिकुलकादिनाटकाद्यन्यत्।
काव्यं तद्बहुभाषंविचित्रमन्यत्र चाभिहितम्॥३६॥

अन्यदिति। सुगमं न वरम्। तत्रयस्यामीश्वरकुलवर्णनं यशोर्थंक्रियते साप्रशस्तिः। यत्र च पञ्चादीनां चतुर्दशान्तानां श्लोकानां वाक्यार्थः परिसमाप्यते तत्कुलकम्। आदिग्रहणादेकस्मिञ्छन्दसि वाक्यसमाप्तौ मुक्तकम्, द्वयोः संदानितकम्, त्रिषुविशेषकम्, चतुर्षु कालापकम्। तथा मुक्तकानामेव प्रघट्टकोपनिबन्धः पर्याययोगः कोषः। तथा बहूनां छन्दसामेकवाक्यत्वे तद्वाक्यानां च समूहावस्थाने परिकथा। भूयोऽप्याह—नाटकाद्यन्यदिति। अत्र भरताद्यभिहितम्। नाटकादीत्यत्रादिशब्दान्नाटकप्रकरणेहामृग- समवकारभाणव्यायोगडिमवीथीप्रहसनादिसंग्रहः। तद्बहुभाषंच वह्वीभिर्भाषाभिर्निबध्यते। विचित्रं च। नानासंधिसंध्यङ्गाभिनयादियुक्तत्वादिति॥

महाकाव्यादिलक्षणमभिधायेदानीं काव्यगुणातिशयविवक्षायांमा कश्चिदसंभवि वोचदिति तन्निषेधार्थमाह—

कुलशैलाम्बुनिधीनां न ब्रूयाल्लङ्घनं मनुष्येण।
आत्मीययैव शक्त्या सप्तद्वीपावनिक्रमणम्॥३७॥

कुलेति। सुगमम्॥

ननु भरतहनूमत्प्रभृतीनां सर्वमेतच्छ्रूयते, ततश्च यथा तेषां तथान्यस्यापि भविष्यतीति को दोष इत्याह—

येऽपि तु लङ्घितवन्तो भरतप्रायाकुलाचलाम्बुनिधीन्।
तेषां सुरादिमुख्यैः सङ्गादासन्विमानानि॥३८॥

य इति। सुगमं न वरम्। सुरादिमुख्यैः सुरादिप्रधानैः। आदिशब्दात्सिद्धविद्याधरकिंनरगन्धर्वादिसंग्रहः॥

ननु च सत्त्वचित्तादिहीनत्वान्मनुष्याणां कथं सुरादिभिः सह सङ्गोऽपीत्याह—

शक्तिश्च न जात्वेषामसुरादिवधेऽधिका सुरादिभ्यः।
आसीत्ते हि सहाया नीयन्ते स्मामरैः समिति॥३९॥

शक्तिरिति। सुगमं न वरम्। चशब्दोहेतौ॥

भूयोऽप्याह—

दारिद्र्यव्याधिजराशीतोष्णाद्युद्भवानि दुःखानि।
वीभत्सं च विदध्यादन्यत्र न भारताद्वर्षात्॥४०॥

दारिद्र्येति। सुगमं न वरम्। भारतं भरतक्षेत्रम्॥

अन्यत्र त्विलावृतादौ कुतो न विदध्यादित्याह—

वर्षेष्वन्येषु यतो मणिकनकमयी मही हितं सुलभम्।
विगताधिव्याधिजराद्वन्द्वा लक्षायुषो लोकाः॥४१॥

वर्षेष्विति। सुगमं न वरम्। द्वन्द्वानि शीतोष्णादीनि॥

अथ शास्त्रपरिसमाप्तिमङ्गलार्थं देवताः संकीर्तयन्नाह—

जयति जनमनिष्टादुद्धरन्ती भवानी
जयति निजविभूतिव्याप्तविश्वो मुरारिः।
जयति च गजवक्त्रः सोऽत्र यस्य प्रसादा-
दुपशमति समस्तो विघ्नवर्गोपसर्गः॥४२॥

जयतीति। सुगमम्॥

एवं रुद्रटकाव्यालंकृतिटिप्पणकविरचनात्पुण्यम्।
यदवापि मया तस्मान्मनः परोपकृतिरतिः भूयात्॥

थारापद्रपुरीयगच्छतिलकः पाण्डित्यसीमाभव-
त्सूरिर्भूरिगुणैकमन्दिरमिह श्रीशालिभद्राभिधः।

तत्पादाम्बुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः
पुंसो मुग्धधियोऽधिकृत्य रचितं सट्टिप्पणं लघ्वदः॥

अज्ञानाद्यद्वितथं विवृतं किमपीह तन्महामतिभिः।
संशोधनीयमखिलं रचिताञ्जलिरेष याचेऽहम्॥

सहस्रत्रयमन्यूनं ग्रन्थोऽयं पिण्डितोऽखिलः।
द्वात्रिंशदक्षरश्लोकप्रमाणेन सुनिश्चितम्॥
पञ्चविंशतिसंयुक्तैरेकादशसमाशतैः (११२५)।
विक्रमात्समतिक्रान्तैः प्रावृषोदं समर्थितम्॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः

षोडशोऽध्यायः समाप्तः।

समाप्तोऽयं ग्रन्थः।


<MISSING_FIG href=”../books_images/U-IMG-17288836321.png"/>

<MISSING_FIG href="../books_images/U-IMG-17288837062.png"/>

<MISSING_FIG href="../books_images/U-IMG-17288838073.png"/>

<MISSING_FIG href="../books_images/U-IMG-17288838954.png"/>

<MISSING_FIG href="../books_images/U-IMG-17288839745.png"/>

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-17288840446.png"/>

<MISSING_FIG href="../books_images/U-IMG-17288841167.png"/>

]


  1. “ख्रिस्तसंवत्सरीयैकादशशतकोद्भूतभोजदेवप्रणीते सरस्वतीकण्ठाभरणे ‘कि गौरि मां प्रति रुषा’ इत्याद्या रुद्रटश्लोकाः समुपलभ्यन्ते तेनैकादशशतकात्प्राचीनो रुद्रटः.” ↩︎

  2. “नमिसाधुरस्य ग्रन्थस्य टिप्पणं १०६९ मिते ख्रिस्तसंवत्सरे रचितवानिति टिप्पणसमाप्तौ स्थितात् ‘पञ्चविंशतिसंयुक्तैरेकादशसमाशतैः। विक्रमात्समतिक्रान्तैः प्रावृपीदं समर्थितम्॥’ इत्यस्माच्छ्लोकाज्ज्ञायते. राजकीयसंग्रहान्तर्वर्तिनि तालपन्नलिखिते टिप्पणपुस्तके तु ‘षट्सप्ततिसंयुक्तैरेकादशसमाशतैः’ इति पाठो वर्तते. अत्र तु छन्दोभङ्गः” ↩︎

  3. “माघश्लोकस्य महामालिनीछन्दः, भारविश्लोकस्य च क्षमाछन्द इति टोकायां मल्लिनाथः.” ↩︎

  4. " ‘अक्षणहेतोरिव पांसुतल्पान्’ इति विक्रमाङ्कदेवचरितम् (७।४० ↩︎

  5. “उदाहृतोऽयं श्लोकः सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजेन.” ↩︎

  6. “नवीनेषु धातुपाठसिद्धान्तकौमुद्यादिपुस्तकेषु ‘सभाज प्रीतिदर्शनयोः’ इति पाठो दृश्यते.” ↩︎

  7. “प्राकृतच्छाया—‘शरशबलं सखि शूरोऽसङ्ग्रामे मानबन्धुरस्वभावम्। मित्रमसी श्वरदवरं सशरणमुद्धरति मन्दबलम्॥’” ↩︎

  8. “मागधीछाया—‘कुररालिरावरोलं सलिलं तत्सारसालिरवशूरम्। कमलासवलालिवरं मायति शाम्यतो विषमम्॥’” ↩︎

  9. “पैशाचीछाया—‘कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम्॥’” ↩︎

  10. “सूरसेनीछाया—‘ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम्। आर तमेधावसरं शाश्वतमारं गतासारम्॥’” ↩︎

  11. “अपभ्रंशच्छाया—‘धीरा गच्छतु मेघतमो दुर्धरवार्षिकदस्यु। अभ्रमदप्रसराहरणं रविकिरणास्ते यस्य॥’” ↩︎

  12. " संदानितकमिति युग्मस्य संज्ञान्तरम्." ↩︎

  13. " सर्वेषां बन्धानां न्यासो ग्रन्थसमाप्तौ द्रष्टव्यः." ↩︎

  14. “तिलकमञ्जरीकथा धनपालकविप्रणीता, बाणकथा तु कादम्बरी सुप्रसिद्धैव.” ↩︎

  15. “अर्जुनचरितमानन्दवर्धनाचार्यकृतं प्राकृतकाव्यम्.” ↩︎