०१ शास्त्रसङ्ग्रहः

शास्त्रसङ्ग्रहः प्रथमो ऽध्यायः १

काव्यमीमांसा ऽप्रकाशऽ अथ कविरहस्यम् प्रथमो ऽध्यायः १

शास्त्रसङ्ग्रहः
अथातः काव्यं मीमांसिष्यामहे, यथोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्तुःषष्टयोः ।
सो ऽपि भगवान्स्वयम्भूरिच्छाजन्मभ्यः स्वान्तेवासिभ्यः ।
तेषु सागस्वतेयो वृन्दीयसामपि वन्द्यः काव्यपुरुष आसीत् ।

तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थदशिनं भूर्भुवःस्वस्त्रितयवर्त्तिनीषु प्रजासु हतिकाम्यया प्रजापतिः काव्यविद्याप्रवर्त्तनायै प्रायुङ्क्त ।
सो ऽष्टादशाधिकरणीं दिव्येभ्यः काव्यविद्यास्नातकेभ्यः सप्रपञ्चं प्रोवाच ।
तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्तिकमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेता, यमकं यमः, चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तुवं पुलस्त्यः, औपभ्यमौपकायनः, अतिशयं पराशरः, अर्थश्लेषम्रुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रुपकनिरुपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणोपादानिकमुपमन्युः, औपनिषदिकं कुचुचारः, इति ।
ततस्ते पृथक् पृथक् स्वशास्त्राणि विरचयाञ्चक्रुः ।
इत्थङ्कारञ्च प्रकीर्णत्वात्वात् सा किञ्चिदुच्चिचच्छिदे ।
इतीयं प्रयोजकाङ्गवती सङ्क्षिप्य सर्वमर्थमल्पग्रन्थेन अष्टादशप्रकरणी प्रणीता ।
तस्या अयं प्रकरणाधिकरणसमुद्देशः ।
१ शास्त्रसङ्ग्रहः, २ शास्त्रनिर्देशः, ३ काव्यपुरुषोत्पत्तिः, ४ शिष्यप्रतिभे, ५ व्युत्पत्ति-विपाकाः, ६ पदवाक्यविवेकः, ७ वाक्यविधयः, ८ काकुप्रकाराः, ९ पाठप्रतिष्ठा, १० काव्यार्थयोनयः, ११ अर्थानुशासनं, १२ कविचर्याः, १३ राजचर्या, १४ शब्दार्थहरणोपायाः, १५ कवि विशेषः, १६ कविसमयः, १७ देशकालविभागः, १८ भ्रुवनकोशः, इति कविरहस्यं प्रथममधिकरणमित्यादि ।
इति सूत्राण्यथैतेषां व्याख्याभाष्यं भविष्यति ।
समासव्यासविन्यासः सैष शिष्यहिताय नः ॥
चित्रोदाहरणैर्गुर्वी ग्रन्थेन तु लघीयसी ।
इयं नः काव्यमीमंसा काव्यव्युत्पत्तिकारणम् ॥
इयं सा काव्यमीमांसा मीमांसा यत्र वाग्लवः ।
वाग्लवं न स जानाति न विजानाति यस्त्विमाम् ॥
यायावरीयः सङ्क्षिप्य मुनीनां मतविस्तरम् ।
व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे प्रथमो ऽध्यायः शास्त्रसङ्ग्रहः ॥