सहृदयलीला

[[सहृदयलीला Source: EB]]

[

ऱुय्यक

श्रीमतां उत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकतासिद्धिः । युवत्यादीनां उत्कर्षो देहे । गुणालङ्कारजीवितपरिकरेभ्यः । तत्र शोभाविधायिनो धर्मा गुणाः ।

१ रूपं वर्णः प्रभा राग & आभिजात्यं विलासिता

लावण्यं लक्षणं छाया & सौभाग्यं चेत्यमी गुणाः

अवयवानां रेखास्पाष्ट्यं रूपं । गौरतादिधर्मविशेषो वर्णः । काचकाच्यरूपा। रविवत्कान्तिः प्रभा । नैसर्गिक स्मेरत्वमुखप्रसादादिः सर्वेषां एव चक्षुर्बन्धको धर्मो रागः । कुसुमधर्मा मार्दवादिर्लालनादिरूपः स्पर्शविशेषः पेशलताख्य आभिजात्यं । अङ्गोपाङ्गानां यौवनोद्भेदी मन्मथवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश्चेष्टाविशेषो विलासिता । तरङ्गिद्रवस्वभावाप्यायिनेत्रपेयव्यापिस्निग्धमधुर इव पीतिमोत्कर्षैकसार इव पूर्णेन्दुवदाह्लादको धर्मः संस्थानमुग्धिमव्यङ्ग्यो लावण्यं । अङ्गोपाङ्गानां असाधारणशोभाप्राशस्त्यहेतुरौचित्यात्मा स्थायी धर्मो लक्षणं । तस्य युक्तप्रमाणतादोषस्पर्शस्निग्धवक्त्रनियतलोमाङ्गसुश्लिष्टसंधानतानाहपरिणाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्रसिद्धाङ्गपूर्णतादोषवैकल्यधर्मसौन्दर्यप्रमाणौचित्यलोकाप्रसिद्धविशिष्टाङ्गयोगाख्याः क्रमेण षड्भेदाः । अग्राम्यतया वक्रिमत्वख्यापिनी ताम्बूलपरिधाननृत्तभणितिगमनादिस्थानकेषु सूक्ष्मा भङ्गिश्छाया । स्फुरल्लक्ष्म्युपभोगपरिमलादिगम्योऽन्तःसारो रञ्जकतया वशीकर्ता सहृदयसंवेद्यधर्मभेदश्च सौभाग्यं । तत्राद्ये स्मरमदपुलकादयो भेदाः अन्त्ये तु मणितरूपपरिभोगाधरऽस्वादसौरभऽदिभिर्युगपद्रसवत्त्वात्पञ्चैन्द्रियसुखलाभः । ।

इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां गुणोल्लेखः प्रथमः

********************

.

२ रत्नं हेमांशुके माल्यं & मण्डनद्रव्ययोजने

प्रकीर्णं चेत्यलङ्काराः & सप्तैव्[ऐ]ते मया मताः

तत्र वज्रमुक्तापद्मरागमरकतैन्द्रनीलवैदूर्यपुष्परागकर्केतनपुलकरुधिराक्षभीष्मस्फटिकप्रवालरूपाणि त्रयोदश रत्नानि । हेम नवधा । जाम्बूनदशातकोम्भहाटकवैणवशृङ्गीशुक्तिजजातरूपरसविद्धऽकरौद्गतभेदात् । चतुर्धा रत्नहेममयः, आवेध्यनिबन्धनीयप्रक्षेप्यऽरोप्यभेदात् । तत्र ताडीकुण्डलश्रवणवालिकऽदिरावेध्यः । अङ्गदश्रोणीसूत्रमूर्धमणिशिखादृढिकाआदिर्निबन्धनीयः ।

ऊर्मिकाकटकमञ्जीरसदृशः प्रक्षेप्यः । प्रालम्बमालिकाआहारनक्षत्रमालाप्रभृतिरारोप्यः । चतुर्धाअंशुकमयः । त्वक्फलक्रिमिरोमजत्वात्क्रमेण क्षोमकार्पासकौशेयराङ्कवऽदिभेदात् । पुनस्त्रिधा, निबन्धनीयप्रक्षेप्यऽरोप्यवैचित्र्यात् । तत्र निबन्धनीयः शिरह्शाटकजघनवसनऽदिः । प्रक्षेप्यः कञ्चुलिकऽदिः । आरोप्य उत्तरीयपटऽदिः । सर्वस्य अस्य अनेकविधत्वं वर्णविच्छित्तिनानात्वात् । ग्रथिताग्रथितवशाद्द्विविधः सन्नष्टधा माल्यमयः । वेष्टितविततसंघाट्यग्रन्थिमदवलम्बमुक्तकमञ्जीरस्तबकलक्षणमाल्यभेदेन । तत्र उद्वर्तितं वेष्टितं । पार्श्वतो विस्तारितं विततं । बहुभिः पुष्पैः समूहेन रचितं संघात्यं । अन्तरान्तरा विषमं ग्रन्थिमत् । स्पष्टोम्भितं (?) अवलम्भं । केवलं मुक्तकः । अनेकपुष्पमयी लता मञ्जरी । कुसुमगुलुच्छं स्तबकः । तस्य आवेध्यऽदयोऽपि चत्वारो भेदाः । कस्तूरीकुङ्कुमचन्दनकर्पूरागुरुकुलकदन्तसमपटवाससहकारतैलताम्बूलालक्तकाञ्जनगोरोचनऽदिनिर्वृत्तो मण्डनद्रव्यमयः । भ्रूघटनाअलकरचनाधम्मिल्लबन्धनऽदिर्योजनामयः । द्विधा प्रकीर्णमयः, जन्यनिवेश्यभेदेन । श्रमजलमधुमदऽदिजन्यः । दूर्वाशोकपल्लवयवाङ्कुररजतत्रपुशङ्खतालदलदन्तपत्त्रिकामृणालवलयकरक्रीडनकऽदिर्निवेश्यः | एतत्समवायो वेषः | स च देशकालप्रकृतिअवस्थासात्म्येन | एतेषां विच्छित्या यथाआस्थाननिवेशनपरभागलाभाद्रामणीयकवृद्धिः | |

इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां अलङ्कारोल्लेखो द्वितीयः ।

**************************

.

शोभायास् अनुप्राणकं यौवनऽख्यं जीवितं । बाल्यानन्तरं गात्राणां वैपुल्यसौष्ठवविभक्तताविधायी स्फुटितदाडिमौपमः स्मरवसतिरवस्थाभेदो यौवनं । तस्य वयःसंधिरारम्भः । मध्यं तु प्रौढिकालः । प्रथमे धम्मिल्लरचनाअलकभङ्गनीविनहनदन्तपरिकर्मपरिष्करणदर्पणईक्षणपुष्पौच्चयमाल्यौम्भनजलक्रीडाद्यूताश्लीलच्छेकभणितिअनिमित्तलज्जाअनुभावशृङ्गारशिक्षाआदय आवर्तमानाश्चेष्टाः । अन्त्ये तु शृङ्गारानुभावतारतम्यं श्रेयः । ।

इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस्तृतीयः ।

*************************************

.

शोभायास् आरादुपकारकत्वाद्व्यञ्जकः परिकरः । तस्य चेतनाचेतनयोः स्थाणुचलयोः प्रत्येकं श्लिष्टसंनिहितमात्ररूपत्वेन अष्टविधत्वं । उत्सङ्गौपासीनकान्तहयपरिवारवातायनविताननौच्छत्रऽदीनि दर्शनानि । तानि द्विधा, व्यस्तसमस्तभेदात् । एवं शोभासमुत्पादकसमुद्दीपकानुप्राणकव्यञ्जकाः क्रमाद्गुणालङ्कारजीवितपरिकराः । एवं परस्परौपकरकत्वादितरेतरानुग्राहकत्वं सिद्धं ।

इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश्चतुर्थः । ।

समाप्तेयं सहृदयलीला । ।

*****************************

]