बालबोधिनी

काव्यप्रकाशः

प्रथम उल्लासः

ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति —-

नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ ङ्क्प्र्-क्_१ ॥

नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्मणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यते इति तां प्रत्यस्मि प्रणत इति लभ्यते ॥१॥

इहाभिधेयं सप्रज्योजनमित्याह —-

काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ ङ्क्प्र्-क्_२ ॥

कालिदासादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनम् राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणम् ।

सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादन-समुद्भूतं विगलितवेद्यान्तरमानन्दम् प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ॥२॥

एवमस्य प्रयोजनमुक्त्वा कारणमाह —-

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ ङ्क्प्र्-क्_३ ॥

शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत् प्रसृतं वा उपहसनीयं स्यात् । लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य । शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम् । काव्यानां च महाकविसम्बन्धिनाम् । आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः । काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति । त्रयः समुदिताः न तु व्यस्ताः तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः ॥३॥

एवमस्य कारणमुक्त्वा स्वरूपमाह —-

तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।

दोषगुणालङ्काराः वक्ष्यन्ते । क्वापीत्यनेनैतदाह यत् सर्वत्र
सालङ्कारौ क्वचित्तु स्फुटालङ्कारविरहे ऽपि न काव्यत्वहानिः ।

यथा

{यः कौमरहरः स एव हि वरस्ता एव चैत्रक्षपास्ते
चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविदौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥१॥}
([शीलाभट्टारिका], एत्च्।)

अत्र स्फुटो न कश्चिदलङ्कारः । रसस्य च प्राधान्यान्नालङ्कारता ।

तद्भेदान् क्रमेणाह

इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥ ङ्क्प्र्-क्_४ ॥

इदमिति काव्यम् । बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिर् इति व्यवहारः कृतः । ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य ।

यथा

{निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोछरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२॥}
(अमरुशतक १०५)

अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते ॥४॥

अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।

अतादृशि वाच्यादनतिशायिनि । यथा —-

{ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥३॥}
(रुद्रटस्य काव्यालङ्कार ७।३९)

अत्र वञ्जुललतागृहे दत्तसङ्केता न गतेति व्यङ्ग्यं गुणीभूतं
तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ॥

शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ ङ्क्प्र्-क्_५ ॥

चित्रमिति गुणालङ्कारयुक्तम् । अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम् ।
अवरम् अधमम् । यथा —-

{स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः ।
भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयापि यम् ।
ससम्भ्रमेन्द्र्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥५॥}
(मेण्ठकृतं हयग्रीववधम्)

इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम
प्रथम उल्लासः ॥ १ ॥

==================================================

क्रमेण शब्दार्थयोः स्वरूपमाह

स्याद्वाचको लाक्षणिकः शब्दो ऽत्र व्यञ्जकस्त्रिधा ।

अत्रेति काव्ये । एषां स्वरूपं वक्ष्यते ॥

वाच्यादयस्तदर्थाः स्युः ॥।

वाच्यलक्ष्यव्यङ्ग्याः ॥

॥। तात्पर्यार्थो ऽपि केषुचित् ॥ ङ्क्प्र्-क्_६ ॥

आकाङ्क्षायोग्यतासन्निधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थो ऽपि वाक्यआर्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम् ॥
वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः ॥६॥

सर्वेषां प्रायशो ऽर्थानां व्यञ्जकत्वमपीष्यते ।

अत्र वाच्यस्य यथा

{मा_ए घरोव_अरणं अज्ज हु णत्थि त्ति साहि_अं तुम_ए ।
ता भण किं करणिज्जं एमे_अ ण वासरो ठा_इ ॥६॥}
[मातः गृहोपकरणं अद्य खलु नास्तीति साधितं त्वया ।
तद्भण किं करणीयं एवमेव न वासरः स्थीयी ॥]
(हालस्य गाथासप्तशती)

अत्र स्वैरविहारार्थिनीति व्यज्यते ।
लक्ष्यस्य यथा

{साहेन्ती सहि सुह_अं खणे खणे दुम्मिआसि मज्झक_ए ।
सब्भावणेहकरणिज्जसरिस_अं दाव विर_इ_अं तुम_ए ॥७॥}
[साधयन्ती सखि सुभगं क्षणेक्षणे दूनाऽसि मत्कृते ।
सद्भावस्नेहकरणीयसदृशं तावत् विरचितं त्वया ॥]
(हालस्य गाथासप्तशती)

अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् । व्यङ्ग्यस्य यथा

{उ_अ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहै वला_आ ।
णिम्मलमरग_अभा_अणपरिट्टिआ सङ्खसुत्तिव्व ॥८॥}
[पश्य निश्चलनिष्पन्दा विसिनीप्त्रे राजते बलाका ।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥]
(हालस्य गाथासप्तशती १।४)

अत्र निष्पन्दत्वेन आश्वस्तत्वम् । तेन च जनरहितत्वम् । अतः सङ्केतस्थानमेतदिति कयाचित् कञ्चित्प्रत्युच्यते । अथवा मिथ्या वदसि न त्वमत्रागतोभूरिति व्यज्यते ॥

वाचकादीनां क्रमेण स्वरूपमाह ।

साक्षात्सङ्केतितं यो ऽर्थमभिधत्ते स वाचकः ॥ ङ्क्प्र्-क्_७ ॥

इहागृहीतसङ्केतस्य शब्दस्यार्थप्रतीतेरभावात्सङ्केतसहाय एव शब्दो ऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन सङ्केतो गृह्यते स तस्य वाचकः ॥७॥

सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ।

यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाप्यानन्त्याद् व्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यत इति
गौः शुक्लश्चलो डित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च । तदुपाधावेव सङ्केतः ।

उपाधिश्च द्विविधः —- वस्तुधर्मो वक्तृयदृच्छासन्निवेशितश्च । वस्तुधर्मो ऽपि द्विविधः —- सिद्धः साध्यश्च । सिद्धो ऽपि द्विविधः —- पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । तत्राद्यो जातिः । उक्तं हि वाक्यपदीये —-
{न हि गौः स्वरूपेण गौर्नाप्यगौः । गोत्वाभिसंवन्धातु गौः} इति ।

द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः ।
डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा तदृच्छया डित्थादिष्वर्थेषूपाधित्वेन सन्निवेश्यत इति सो ऽयं सञ्ज्ञारूपो यदृच्छात्मक इति ।

{गौःशुक्लश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः} इति महाभाष्यकारः । परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुत एकरूपाणाम् अप्याश्रयभेदाद् भेद इव लक्ष्यते । यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् ।

हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम् । गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि ।
बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यऽर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये । तद्वान् अपोहो वा शब्दार्थः कैश्चिदुक्तं इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम् ॥७॥

स मुख्यो ऽर्थस्तत्र मुख्यो व्यापारो ऽस्याभिधोच्यते ॥ ङ्क्प्र्-क्_८ ॥

स इति साक्षात्सङ्केतितः । अस्येति शब्दस्य ॥८॥

मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् ।
अन्यो ऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ङ्क्प्र्-क्_९ ॥

{कर्मनि कुशलः} इत्यादौ दर्भग्रहणाद्ययोगात् {गङ्गआयां घोषः} इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासम्भवात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च सम्बन्धे रूढितः प्रसिद्धेः
तथा गङ्गातटे घोष इत्यादैः प्रयोगात् येषां न तथा प्रतिपत्तिः तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्यो ऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो
लक्षणा ॥९॥

स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ ङ्क्प्र्-क्_१० ॥

{कुन्ताः प्रविशन्ति} {यष्टयः प्रविशन्ति} इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेने ऽयं लक्षणा ।
{गौरनुबन्ध्यः} इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते
{विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे} इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या ।
न ह्यत्र प्रयोजनमस्ति न वा रूढिरियम् । व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता । कुर्वित्यत्र कर्म । प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च ।

{पीनो देवदत्तो दिवा न भुङ्क्ते} इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् ।
{गङ्गायां घोषः} इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति इत्येवमादौ लक्षणेनैषा लक्षणा । उभयरूपा चेयं शुद्धा । उपचारेणामिश्रितत्वात् ।

अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः । गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः ॥१०॥

सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा ।

आरोप्यमाणः आरोपविषयश्च यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा ॥

विष्यय्यन्तःकृते ऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ ङ्क्प्र्-क्_११ ॥

विषयिणारोप्यमाणेनान्तःकृते निगीर्णे अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात् ॥११॥

भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौ ॥।

इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ {गौर्वाहीकः} इत्यत्र {गौरयम्} इत्यत्र च ।
अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तिं इति केचित् । स्वार्थसहचारिगुणाभेदेन पदार्थगता गुणा एव लक्ष्यन्ते न
परार्थो ऽभिधीयते इत्यन्ये । साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते इत्यपरे ।
उक्तं चान्यत्र
{अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणताम्} इति ।
([कुमारिल, तन्त्रवार्तिक ३,४।१२])

अविनाभावो ऽत्र सम्बन्धमात्रं न तु नान्तरीयकत्वम् । तत्त्वे हि {मञ्चाः क्रोशन्ति} इत्यादौ न लक्षणा स्यात् ।
अविनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम् ।
{आयुर्धृतम्} {आयुरेवेदम्} इत्यादौ च सादृश्यादन्यत् कार्यकारणभावादि सम्बन्धान्तरम् । एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने ।

अत्र गौणभेदयोर्भेदे ऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम् । शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि ।

क्वचित् तादर्थ्यादुपचारः । यथा इन्द्रार्था स्थूणा इन्द्रः । क्वचित् स्वस्वामिभावात् । यथा राजकीयः पुरुषो राजा । क्वचित् अवयवावयविभावात् । यथा अग्रहस्त इत्यत्राग्रमात्रे ऽवयवे हस्तः । क्वचित् तात्कर्म्यात् । यथा अतक्षा तक्षा ॥

॥। लक्षणा तेन षड्विधा ॥ ङ्क्प्र्-क्_१२ ॥

आद्यभेदाभ्यां सह ॥१२॥

सा च

व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने ।

प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव ॥

तच्च गूढमगूढं वा ॥।

तच्चेति व्यङ्ग्यम् । गूढं यथा

{मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः ।
उरो मुकुलितस्तनं जघनमंसवन्धोद्धुरं
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥९॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन)

अगूढं यथा

{श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि ॥१०॥}
(वल्लभदेवस्य सुभाषितावलि)

अत्रोपदिशतीति ॥

॥। तदेषा कथिता त्रिधा ॥ ङ्क्प्र्-क्_१३ ॥

अव्यङ्ग्या गूढव्यङ्ग्या अगूढव्यङ्ग्या च ॥१३॥

तद्भूर्लाक्षिणिकस् ॥।

शब्द इति सम्बध्यते । तद्भूस्तदाश्रयः ॥

॥। तत्र व्यापारो व्यञ्जनात्मकः ।

कुत इत्याह

यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ ङ्क्प्र्-क्_१४ ॥

फले शब्दैकगम्ये ऽत्र व्यञ्जनान्नापरा क्रिया ।

प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव शब्दात् ।
न चात्र व्यञ्जनादृते ऽन्यो व्यापारः ॥

तथाहि

नाभिधा समयाभावात् ॥।

गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः सङ्केतिताः ॥

हेत्वभावान्न लक्षणा ॥ ङ्क्प्र्-क्_१५ ॥

मुख्यार्थबाधादित्रयं हेतुः ॥१५॥

तथा च

लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो ।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥ ङ्क्प्र्-क्_१६ ॥

यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वत् यदि तटे ऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत् ।
न च तटं मुख्यो ऽर्थः । नाप्यत्र बाधः । न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः सम्बन्धः । नापि प्रयोजने लक्ष्ये किञ्चित् प्रयोजनम् । नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ॥१६॥

एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ।

एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेणेति तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृत् अनवस्था भवेत् ॥
ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते । {गङ्गायास्तटे घोषः} इत्यतो ऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति विशिष्टे लक्षणा तत्किं व्यञ्जनयेत्याह

प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ ङ्क्प्र्-क्_१७ ॥

कुत इत्याह

ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् ।

प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रक्टता संवित्तिर्वा ॥

विशिष्टे लक्षणा नैवं ॥।

व्याख्यातम् ॥

॥। विशेषाः स्युस्तु लक्षिते ॥ ङ्क्प्र्-क्_१८ ॥

तटादौ विशेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः । तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम् ॥१८॥

एवं लक्षणामूलं व्यञ्जकत्वमुक्तम् ॥ अभिधामूलं त्वाह —-

अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ ङ्क्प्र्-क्_१९ ॥

{संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥}
([भर्तृहरि, वाक्यपदीय २।३१५-३१६])

इत्युक्तदिशा
सशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्युच्यते । रामलक्ष्मणाविति दाशरथौ । रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः । स्थाणुं भज भवच्छिदे, इति हरे । सर्वं जानाति देव इति युष्मदर्थे ।
कुपितो मकरध्वज इति कामे । देवस्य पुरारातेरिति शम्भौ । मधुना मत्तः कोकिल इति वसन्ते । पातु वो दयितामुखमिति साम्मुख्ये । भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि । चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ ।
मित्रं भातीति सुहृदि मित्रो भातीति रवौ । इन्द्रशत्रुरित्यादौ वेदे एव न काव्ये स्वरो विषेषप्रतीतिकृत् ।

आदिग्रहणात्

{एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं ।
एद्दहमेत्तावत्था एद्दहमेत्तेहिं दिअएहिं ॥११॥}
[एतावन्मात्रस्तन्का एतावन्मात्राभ्यामक्षिपत्राभ्याम् ।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥]
(हालस्य गाथासप्तशती ९७३)

इत्यादावभिनयादयः ।
इत्थं संयोगादिभिरर्थान्तराभिधायकत्वे निवारिते ऽप्यनेकार्थस्य शब्दस्य यत् क्वचिदर्थान्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः । न च लक्षणा मुख्यार्थबाधाद्यभावात् । अपि त्वञ्जनं व्यञ्जनमेव व्यापारः । यथा

{भद्रात्मनो दुरधिरोहतनोर्विशाल
वंशोन्नतेःकृतशिलीमुखविग्रहस्य ।
यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोभूत् ॥१२॥}
(शिवस्वामिन्स्य कप्फिनाभ्युदय १।३८)

॥१९॥

तद्युक्तो व्यञ्जकः शब्दो ॥।

तद्युक्तो व्यञ्जनयुक्तः

॥। यत्सो ऽर्थान्तरयुक् तथा ।
अर्थो ऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ ङ्क्प्र्-क्_२० ॥

तथेति व्यञ्जकः ॥२०॥

इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ॥२॥

===========================================

तृतीय उल्लासः

अर्थाः प्रोक्ताः पुरा तेषाम् ॥।

अर्थाः वाच्यलक्ष्यव्यङ्ग्याः । तेषां वाचकलाक्षणिकव्यञ्जकानाम् ॥

॥। अर्ह्तव्यञ्जकतोच्यते ।

कीदृशीत्याह —-

वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ ङ्क्प्र्-क्_२१ ॥

प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
यो ऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ ङ्क्प्र्-क्_२२ ॥

बोद्धव्यः प्रतिपाद्यः । काकुर्ध्वनेर्विकारः । प्रस्तावः प्रकरणम् ।
अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः ।
क्रमेणोदाहरणानि ।

{अ_इपिहुलं जलकुम्भं घेत्तूण समागदह्मि सहि तुरि_अं ।
समसे_असलिलणीसासणीसहा वीसमामि खणं ॥१३॥}
[अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् ।
श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥]
(हालस्य गाथासप्तशती ९८९)

अत्र चौर्यरतहोपनं गम्यते ।

{ओण्णिद्दं दोब्बल्लं चिन्ता अलसत्तणं सणीससि_अं ।
मह मन्दभा_इणी_ए केरं सहि तुह वि अहह परिहव_इ ॥१४॥}
[औन्निद्र्यं दौर्बल्यं चिन्तालसत्वं सनिश्चसितम् ।
मम मन्दभागिन्याः क्र्टे सखि त्वामप्यहह परिभवति ॥]
(हालस्य गाथासप्तशती ९५६)

अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ।

{तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥१५ [=२२०]॥}
(भट्टनारायणस्य वेणीसंहार १।११)

अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते ।
न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्ग्यम् ।
प्रश्नमात्रेणापि काकोर्विश्रान्तेः ।

{त_इ_आ मह गण्डत्थलणिमिअं दिट्ठिं ण णेसि अण्णत्तो ।
एण्हिं सच्चे_अ अहं ते अ कवाला ण सा दिट्ठी ॥१६॥}
[तदा मम गण्डस्थलनिमग्नां दृष्टिं नानैषीरत्न्यत्र ।
इदानीं सैवाहं तौ च कपोलौ न च सा दृष्टिः ॥]
(हालस्य गाथासप्तशती ९३९)

अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते इति व्यज्यते ।

{उद्देशो ऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥१७॥}
(कुन्तकस्य वक्रोक्तिजीवित १।९३)

अत्र रतार्थं प्रविशेति व्यङ्ग्यम् ।

{णोल्ले_इ अणोल्लमणा अत्ता मं घरभरम्मि स_अलम्मि ।
खणमेत्तं ज_इ सञ्झा_इ हो_इ ण व हो_इ वीसामो ॥१८॥}
[नुदत्यनार्द्रमनाः श्वश्रूर्मां गृहभरे सकले ।
क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥]
(हालस्य गाथासप्तशती ८७५)

अत्र सन्ध्या सङ्केतकाल इति तटस्थं प्रति कयाचिद्द्योत्यते ।

{सुव्व_इ समागमिस्सदि तुज्झ पि_ओ अञ्जं पहरमेत्तेण ।
एमे अ कित्ति चिट्ठसि ता सहि सञ्जेसु करणिज्जं ॥१९॥}
[श्रूयते समागमिष्यति तव प्रियो ऽद्य प्रहरमात्रेण ।
एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ॥]
(हालस्य गाथासप्तशती ९६२)

अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते ।

{अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोञ्जलिर्वः ॥२०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र विविक्तो ऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति आश्वस्तां प्रति कयाचिन्निवेद्यते ।

{गुरु_अणपरवस पि_अ किं भणामि तु_इ मन्दभाइणी अह_अं ।
अज्ज पवासं वच्चसि वच्च स_अं जेव्व सुणसि करणिज्जं ॥२१॥}
[गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिनी अहकम् ।
अद्य प्रवासं व्रजसि व्रज स्वयमेव श्रोष्यसि करणीयम् ॥]
(हालस्य गाथासप्तशती ८५१)

अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न भवामि
तव तु न जानामि गतिमिति व्यज्यते । ॥

आदिग्रहणाच्चेष्टादेः । तत्र चेष्टाया यथा —

{द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् ।
आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने
वाचस्तत्र निवारितं प्रसरणं सङ्कोचिते दोर्लते ॥२२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र चेष्टया प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते ।
निराकाङ्क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते । वक्त्रादीनां मिथःसंयोगे द्विकादिभेदेन ।
अनेन क्रमेण लक्ष्यव्यङ्ग्ययोश्च व्यञ्जकत्वमुदाहार्यम् ॥२१-२२॥

शब्दप्रमाणवेद्यो ऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥ ङ्क्प्र्-क्_२३ ॥

शब्देति । नहि प्रमाणान्तरवेद्यो ऽर्थो व्यञ्जकः ॥२३॥

इति श्रीकाव्यप्रकाशे ऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ॥३॥

=================================================================

चतुर्थ उल्लासः

यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणाल।अङ्काराणां स्वरूपमभिधानीयं तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदात् आह —-

अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ ङ्क्प्र्-क्_२४ ॥

लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव अविवक्षितं वाच्यं यत्र स ऽध्वनौऽ; इत्यनुवादात् ध्वनिरिति ज्ञेयः ।
तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम् । यथा

{त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥२३॥}
(रुद्रटस्य काव्यालङ्कार ६।१५)

अत्र वचनादि उपदेशादिरूपतया परिणमति ।
क्वचिदनुपपद्यमानतया अत्यन्तं तिरस्कृतम् । यथा —-

{उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम् ॥२४॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन)

एतद् अपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति ॥२४॥

विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः ।

अन्यपरं व्यङ्ग्यनिष्ठम् । एष च

को ऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ ङ्क्प्र्-क्_२५ ॥

अलक्ष्येति । न खलु विभावानुभावव्यभिचारिण एव रसः । अपि तु रसस्तैः इत्यस्ति क्रमः । स तु लाघवान्न लक्ष्यते ॥२५॥

अत्र

रसभावतदाभावभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ ङ्क्प्र्-क्_२६ ॥

आदिग्रहणाद् भावोदयभावसन्धिभावशबलत्वानि । प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः यथोदाहरिष्यते । अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्ग्ये
रसवत्प्रेयऊर्जस्विसमाहितादयो ऽलङ्काराः । ते च गुणीभूतव्यङ्ग्याभिधाने उदाहरिष्यन्ते ॥२६॥

तत्र रसस्वरूपमाह –

कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ ङ्क्प्र्-क्_२७ ॥

विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ ङ्क्प्र्-क्_२८ ॥

उक्तं हि भरतेन {विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः} इति

एतद्विवृण्वते —- {विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः रत्यादिको भावो जनितः अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्त्या रामादावनुकार्ये तद्रूपसन्धानान्नर्तके ऽपि प्रतीयमानो रसः} इति भट्टलोल्लटप्रभृतयः ।

राम एवायम् अयमेव राम इति {न रामो ऽयम्} इत्यौत्तरकालिके बाधे रामो ऽयम् इति रामः स्याद्वा न वायम् इति रामसदृश्यो ऽयम् इति च सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामो ऽयमिति प्रतिपत्त्या ग्राह्ये नटे

{सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः ।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥२५॥}
(सुभाषितरत्नभाण्डागार २७३।६)

{दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च ।
अचिरलविलोलजलदः कालः समुपागतश्चायम् ॥२६॥}
(रुद्रटस्य काव्यालङ्कार ७।२९)

इत्यादिकाव्यानुसन्धानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः {संयोगात्}, गम्यगमकभावरूपात् अनुमीयमानो ऽपि वस्तुसौदर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः ।

न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्त्वेन भोगेन भुज्यते इति भट्टनायकः ।

लोके प्रमदाभिः स्थाय्यनुमाने ऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते
न शत्रोरेवैते न तटस्थस्यैवैते इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितो ऽपि
साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसम्पर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नो ऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणोविभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत्
सर्वमिव तिरोदधत् ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः । स च न कार्यः । विभावादिविनांशे ऽपि तस्य सम्भवप्रसङ्गात् । नापि ज्ञाप्यः सिद्धस्य तस्यासम्भवात् ।
अपि तु विभावादिभिर्व्यञ्जितश्चर्वणीयः । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत् न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम् । चर्वणानिष्पत्त्या तस्य निष्पत्तिरुपचरितेति कार्यो ऽप्युच्यताम् ।
लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयो ऽप्यभिधीयताम् । तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात् । नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात् । उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु
विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः ॥

व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयो ऽनुभावाः शृङ्गारस्येव करुणभयानकयोः
चिन्तादयो व्यभिचारिणः शृङ्गारस्यएव वीरकरुणभयानकानाम् इति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः ।

{वियदलिमलिनाम्बुगर्भमेघं
मधुकरकोकिलकूजितैर्दिशां श्रीः ।
धरणिरभिनवाङ्कुराङ्कटङ्का
प्रणतिपरे दयिते प्रसीद मुग्धे ॥२७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)
इत्यादौ

{परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
कथमपि परिवारप्रार्थनाभिः क्रियासु ।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीं
अभिनवकरिदन्तच्छेदकान्तः कपोलः ॥२८॥}
(भवभूतिस्य मालतीमाधव १।२२)
इत्यादौ

{दुरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किञ्चाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥२९॥}
(अमरुशतक ४४)

इत्यादौ च
यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकान्तिकत्वमिति ॥२८॥

तद्विशेषानाह —-

सृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसञ्ज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ ङ्क्प्र्-क्_२९ ॥

तत्र शृङ्गारस्य द्वौ भेदौ । सम्भोगो विप्रलम्भश्च । तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य
एक एव गण्यते । यथा

{शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर्-
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥३०॥}
(अमरुशतक ७७)

तथा

{त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥३१॥}
(अमरुशतक २३)

अपरस्तु —- अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः । क्रमेणोदाहरणम् —-

{प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः
तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणात्
आशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥३२॥}
(भवभूतिस्य मालतीमाधव ५।७)

{अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद्
यो मां नेच्छति नागतश्च हहहा को ऽयं विधेःप्रक्रमः ।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥३३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

एषा विरहोत्कण्ठिता ।

{सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥३४॥}
(अमरुशतक २९)

{प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥३५॥}
(अमरुशतक ३५)

{त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥३६॥}
(कालिदासस्य मेघदूत, उत्तरमेघ ४४)

{आकुञ्च्य पाणिमशुच्ञ्चि मम मूर्ध्नि वेश्या
मन्त्राभसां प्रतिपदं पृषतैः पवित्रे ।
तारस्वरं प्रथितथूत्कमदात्प्रहारं
हाहा हतो ऽहमिति रोदिति विष्णुशर्मा ॥३७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः
धिक् प्राणान् पतितो ऽशनिर्हुतवहस्ते ऽङ्गेषु दग्धे दृशौ ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर-
श्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥३८॥}
(नारायणभट्ट,जयन्तभट्टोल्लेखः)

{कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्ध तेषां सभीमकिरीटिना-
मयमह[म]सृङ्मेदोमांसैः करोमि दिशां बलिम् ॥३९॥}
(भट्टनारायणस्य वेणीसंहार ३।२४)

{क्षुद्रा सन्त्रासमेते विजहित हरयः क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥४०॥}
(हर्षस्य नागानन्द ११।२)

{ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥४१॥}
(कालिदासस्य अभिज्ञानशकुन्तलम् १।७)

{उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥४२॥}
(भवभूतिस्य मालतीमाधव ५।१६)

{चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥४३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २९)

एषां स्थायिभावानाह—-

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ ङ्क्प्र्-क्_३० ॥

स्पष्टम् ॥३०॥

व्यभिचारिणो ब्रूते —-

निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ ङ्क्प्र्-क्_३१ ॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ङ्क्प्र्-क्_३२ ॥

सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ङ्क्प्र्-क्_३३ ॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ ङ्क्प्र्-क्_३४ ॥

निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वे ऽप्युपादानं व्यभिचारित्वे ऽपि स्थायिताभिधानार्थम् । तेन

निर्वेदस्थायिभावो ऽस्ति शान्तो ऽपि नवमो रसः ।

यथा

{अहौ वा हारे वा कुसुमशयने वा दृषदि वा
मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥४४॥}
(उत्पलराज, उत्पलराजीय)

रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ ङ्क्प्र्-क्_३५ ॥

भावः प्रोक्तः ॥।

आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया । कान्ताविषया तु व्यक्ता शृङ्गारः ।
उदाहरणम्

{कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥४५॥}
(उत्पलराज, उत्पलराजीय)

{हरत्यघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥४६॥}
(माघस्य सिशुपालवध १।२६)

एवमन्यदप्युदाहार्यम् । अञ्जितव्यभिचारी यथा

{जाने कोपपराङ्मुखी प्रियतमा स्वप्नेद्य दृष्टा मया
मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥४७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र विधिं प्रत्यसूया ।

॥। तदाभासा अनौचित्यप्रवर्त्तिताः ।

तदाभासा रसाभासा भावाभासाश्च । तत्र रसाभासो यथा

{स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्
तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥४८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३३)

अत्रानेककामुकविषयमभिलापं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति । भावाभासो यथा

{राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी ।
तत् किं करोमि विदधे कथमत्र मैत्रीं
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥४९॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३४)

अत्र चिन्ता अनौचित्यप्रवर्तिता । एवमन्ये ऽप्युदाहार्याः ॥

भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ ङ्क्प्र्-क्_३६ ॥

करमेणोदाहरणम्

{तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत् सम्प्रमार्ष्टुं मया
साश्लिष्टा(च्x: संश्लिष्टा) रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥५०॥}
(अमरुशतक २६)

अत्र कोपस्य ।

{एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं
मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥५१॥}
(अमरुशतक २२)

अत्रौत्सुक्यस्य ।

{उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः
सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः ।
वैदैहीपरिरम्भ एष च मुहुर्श्चैतन्यमामीलयन्
आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥५२॥}
(भवभ्तूतिस्य महावीरचरित २।१६)

अत्रावेगहर्षयोः ।

{क्वाकार्यं शशलक्षणः क्व च कुलं भूयो ऽपि दृश्येत सा
दोषाणां प्रशमाय न श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति ॥५३॥}
(कालिदासस्य विक्रमोर्वशीय ४।४)

अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता ।
भावस्थितिस्तूक्ता उदाहृता च ॥३६॥

मुख्ये रसे ऽपि ते ऽङ्गित्वं प्राप्नुवन्ति कदाचन ।

ते भावशान्त्यादयः । अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत् ॥

अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ ङ्क्प्र्-क्_३७ ॥

शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।

शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यः, अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यः,
उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्चेति त्रिविधः ॥३७॥

तत्र

अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥ ङ्क्प्र्-क्_३८ ॥

प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।

वस्त्वेति, अनलङ्कारं वस्तुमात्रम् । आद्यो यथा

{उल्लास्य कालकरवालमहाम्बुवाहं
देवेन येन जरठोर्जितगर्जितेन ।
निर्वापितः सकल एव रणे रिपूणां
धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥५४॥}
(शिवस्वामिन्स्य कप्फिनाभ्युदय १।२४)

अत्र वाक्यस्यासम्बद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः ।

{तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः ।
मतिमानतत्त्ववृत्तिःप्रतिपदपक्षाग्रणीर्विभाति भवान् ॥५५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः ।

{अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामसि ॥५६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रापि विरोधाभासः ।

{निरुपादानसम्भारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥५७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र व्यतिरेकः ।
अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेनालङ्कारता । वस्तुमात्रं यथा

{पन्थि_अ ण एत्थ सत्थरमैत्थि मणं पत्थरत्थले गामे ।
उण्ण_अप_ओहरं पेख्खिऊण ज_इ वससि ता वससु ॥५८॥}
[पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रक्स्।य यदि वससि तदा वस ॥]
(हालस्य गाथासप्तशती ८७९)

अत्र यद्युपभोगक्षमोसि तदा आस्स्वेतिं व्यज्यते ।

{शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः स भात्युदारोनुदारश्च ॥५९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते ।

अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः सम्भवी स्वतः ॥ ङ्क्प्र्-क्_३९ ॥

प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालङ्कृतिर्वेत्य् षड्भेदो ऽसौ व्यनक्ति यत् ॥ ङ्क्प्र्-क्_४० ॥

वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः ।

स्वतःसम्भवी न केवलं भणितमात्रनिष्पन्नो यावद्बहिरप्यौचित्येन सम्भाव्यमानः । कविना प्रतिभामात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधोपर इति त्रिविधः । वस्तु वालङ्कारो वासाविति षोढा व्यञ्जकः । तस्य वस्तु वालङ्कारो वा व्यङ्ग्य इति द्वादशभेदो ऽर्थशक्त्युद्भवो ध्वनिः । क्रमेणोदाहरणम् —-

{अलसशिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिम_ओ ।
इ_अ भणि_एण ण_अङ्गी पप्फुल्लविलो_अणा जा_आ ॥६०॥}
[अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः ।
इति भणितेननताङ्गी प्रफुल्लविलोचना जाता ॥]
(हालस्य गाथासप्तशती ९७०)

अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते ।

{धन्यासि या कथयसि प्रियसङ्गमे ऽपि
विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि ॥६१॥}
(शार्ङ्गधरपद्धति)

अत्र त्वमधन्या अहं तु धन्येति व्यतिरेकालङ्कारः ।

{दर्पान्धगन्धगजकुम्भकपाटकूट-
सङ्क्रान्तिनिघ्नघनशोणितशोणशोचिः ।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः
कालीकटाक्ष इव यस्य करे कृपाणः ॥६२॥}
(शिवस्वामिन्स्य कप्फिनाभ्युदय १।३७)

अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात् करिष्यते इति वस्तु ।

{गाढकान्तदशनक्षतव्यथासङ्कटादरिवधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ॥६३॥}
(विश्वनाथस्य साहित्यदर्पण ४।९)

अत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते इत्युत्प्रेक्षा च ।
एषूदाहरणेषु स्वतःसम्भवी व्यञ्जकः ।

{कैलासस्य प्रथमशिखरे वेणुसम्मूर्छनाभिः
श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम् ।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसञ्जातशङ्काः
दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥६४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते ।

{केसेसु बलामोडि_अ तेण अ समरम्मि ज_असिरी गहि_आ ।
जह कन्दरांहि विहुरा तस्स दढं कण्ठ_अम्मि सण्ठवि_आ ॥६५॥}
[केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहीता ।
यथा कन्दराभिर्विधुरास्तस्य दृढं कण्ठे संस्थापिता ॥]
(हालस्य गाथासप्तशती ९७१)

अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति इत्युत्प्रेक्षा । एकत्र सङ्ग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलङ्कारः । न पलाय्य गतास्तद्वैरिणो ऽपि तु ततः पराभवं सम्भाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्च ।

{गाढालिङ्गणरहसुज्ज-अम्मि द-इ-ए लहु समोसर-इ ।
माणंसिणीण माणो पीलणभी-अ व्व हि-अ-आहिं ॥६६॥}
[गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति ।
मनस्विन्याः मानः पीडनभीत इव हृदयात् ॥]
(हालस्य गाथासप्तशती ९३४)

अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते इति वस्तु ।

{जा ठेरंव्व हसन्ती क-इव-अणम्बुरुहवद्धविणिवेसा ।
दावे-इ भु-अणमण्डलमण्णं वि-अ ज-अ-इ सा वाणी ॥६७॥}
[या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा ।
दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी ॥]
(हालस्य गाथासप्तशती ९८२)

अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते इति व्यतिरेकः । एषु कविप्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः ।

{जे लङ्कागिरिमेहलासे खलि-आ सम्भोगखिण्णोर-इ-
फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणं ।
ते एह्णिं मल-आनिला विरहिणीणीसाससम्पक्किणो
जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा वि-अ ॥६८॥}
[ये लङ्कागिरिमेखलासु स्खलिताः सम्भोगखिन्नोरगी-
स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् ।
त इदानीं मलयानिला विरहिणीनिःश्वाससम्पर्किणः
जाता झटिति शिशुत्वे ऽपि बहलास्तारुण्यपूर्णा इव ॥]
(राजशेखरस्य कर्पूरमञ्जरी १।१९)

अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते ।

{सहि विर-इ-ऊण माणस्स मज्झ धीरत्तणेण आसासं ।
पि-अदंसणविहङ्खलेलक्खणम्मि सहसत्ति तेण ओसरि-अं ॥६९॥}
[सखि विरचय्य मानस्य मम धीरत्वेनाश्वासम् ।
प्रियदर्शनविशृङ्खलक्षणे सहसेति तेनापसृतम् ॥]
(हालस्य गाथासप्तशती ९३६)

अत्र वस्तुनाकृते ऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते इत्युत्प्रेक्षा वा ।

{ओल्लोल्लकर-अर-अख्ख-एहि तुह लो-अणेसु मह दिण्णं ।
रत्तंसु-अं पसा-ओ कोवेण पुणो इमे ण अक्कमि-आ ॥७०॥}
[आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम् ।
रक्तांशुकं प्रसादः कोपेन पुनरिमे नाक्रान्ते ॥]
(हालस्य गाथासप्तशती ९७१)

अत्र किमिति लोचने कुपिते वहसि इति उत्तरालङ्कारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु ।

{महिलासहस्सभरि-ए तुह हि-अ-ए सुह-अ सा अमा-अन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तणु-अं वि तणु-ए-इ ॥७१॥}
[महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तनुकमपि तनयति ॥]
(हालस्य गाथासप्तशती २।८२)

अत्र हेत्वलङ्कारेण तनोस्तनूकरणेपि तव हृदये न वर्तते इति विशेषोक्तिः । एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः । एवं द्वादश भेदाः ॥

शब्दार्थोभयभूरेको ॥।

{अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ॥७२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रोपमा व्यङ्ग्या ॥

॥। भेदा अष्टादशास्य तत् ॥ ङ्क्प्र्-क्_४१ ॥

अस्येति ध्वनेः ॥४१॥

ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह ।

रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।

अनन्तत्वादिति । तथाहि —- नव रसाः । तत्र शृङ्गारस्य द्वौ भेदौ । सम्भोगो विप्रलम्भश्च । सम्भोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यास्तमयचन्द्रोदयषडृतुवर्णनादयो बहवो भेदाः । विप्रलम्भस्याभिलाषादय उक्ताः । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् । तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम् । तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम् ।
का गणना त्वन्येषां । क्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते ॥

वाक्ये द्व्युत्थः ॥।

द्व्युत्थ इति शब्दार्थोभयशक्तिमूलः ॥

॥। पदे ऽप्यन्ये ॥।

अपिशब्दाद्वाक्येपि । एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते । तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि —-

{यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्योनुकम्प्यश्च स जातः स च जीवति ॥७३॥ (१)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसङ्क्रमितवाच्याः ।

{खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणं ।
हि_अ_अव_अस्सवहुम_आ ण हु ववसा_आ विमुज्झन्ति ॥७४॥ (२)}
[खलव्यवहाराः दृश्यन्ते दारुणाः यद्यपि तथापि धीराणाम् ।
हृदयवयस्यबहुमताः न खलु व्यवसायाः विमुह्यन्ति ॥]
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र विमुह्यन्तीति ।

{लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान् ॥७५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते । यथा वा

{मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैःशम्स हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥७६॥ (३)}
(अमरुशतक ७०)

अत्र भीताननेति । एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते । भावादीनां पदप्रकाश्यत्वे ऽधिकं न वैचित्र्यमिति न तदुदाह्रियते ।

{रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः ।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम ॥७७॥ (४)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र भीषणीयस्य भीमसेन उपमानम् ।

{भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥७८॥ (५)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

काचित् सङ्केतदायिनमेवं मुख्यया वृत्त्या शंसति ।

{सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं
यातो ऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना
नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति तेनासितुम् ॥७९॥ (६)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र वस्तुना कृतपुरुषपरिचया क्लान्तासीति वस्तु अधुनापदद्योत्यं व्यज्यते ।

{तद्प्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ॥८०॥
चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥८१॥ (७)}
(विष्णुपुराण ५,१३।२१,२२)

अत्र जन्मसहस्तैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम् ।
एवं चाशेषचयपदद्योत्ये अतिशयोक्ती ।

{क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम् ।
बत वीर तव द्विषतां पराङ्मुखे त्वयि पराङ्ङ्मुखं सर्वम् ॥८२॥ (८)}
(सुभाषितरत्नभाण्डागार १०३।७४)

अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन {विधिरपि त्वामनुवर्तते} इति सर्वपदद्योत्यं वस्तु ।

{तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो ।
इ-अ णववहु-आ सो-ऊण कुण-इ व-अणं महिसम्मुहं ॥८३॥ (९)}
[तव वल्लभस्य प्रभात आसीदधरो म्लानकमलदलम् ।
इति नववधूः श्रुत्वा करोति वदनं महीसम्मुखम् ॥]
(हालस्य गाथासप्तशती ९९८)

अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतं येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम् । एषु स्वतः- सम्भवी व्यञ्जकः ।

{रा-ईसु चन्दधवलासु ललि-अमप्फालि-ऊण जो चावं ।
एकच्छत्तं वि-अ कुण-इ भु-अणरज्जं विजम्भन्तो ॥८४॥ (१०)}
[रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम् ।
एकच्छत्रमिव करोति भुवनराज्यं विजृम्भमाणः ॥]
(हालस्य गाथासप्तशती ९९२)

अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्चिदपि तदादेशपराङ्मुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते इति भु_अणरज्जपदद्योत्यं वस्तु प्रकाश्यते ।

{निशितशरधियार्पयत्यनङ्गो
दृशि सुदृशः स्वबलं वयस्यराले ।
दिशि निपतति यत्र सा च तत्र
व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥८५॥ (११)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र वस्तुना युगपदवस्थाः प्रस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः ।

{वारिज्जन्तो वि पुणो सन्दावकदत्थि-एण हि-अ-एण ।
थणहरव-अस्म-एण विसुद्धजा-ई ण चल-इ से हारो ॥८६॥ (१२)}
[वार्यमाणो ऽपि पुनः सन्तापकदर्थितेन हृदयेन ।
स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः ॥]
(हालस्य गाथासप्तशती ९९४)

अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारो ऽनवरतं कम्पमान एवास्ते इति ण चल-इ-पदद्योत्यं वस्तु ।

{सो मुद्धसामलङ्गो धम्मिल्लो कलि-अललिअणि-अदेहो ।
ती-ए खन्धाहि बलं गहि-अ संरो सुर-असङ्गरे ज-अ-इ ॥८७॥ (१३)}
[स मुग्धश्यामलाङ्गः धम्मिल्लः कलितललितनिजदेहः ।
तस्याः स्कन्धाद्बलं गृहीत्वा स्मरः सुरतसङ्गरे जयति ॥]
(हालस्य गाथासप्तशती ९९८)

अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः काङ्को ऽभूदिति खन्ध-पदद्योत्या विभावना ॥ एषु कविप्रौढोक्तिमात्रनिष्पन्नशरीरः ॥

{णवपुण्णिमामि-अङ्कस्स सुह-अ को तं सि भणसु मह सच्चं ।
का सोहग्गसमग्गा प-ओसर-अणिव्व तुह अज्ज ॥८८॥ (१४)}
[नवपूर्णिमामृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम् ।
का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य ॥]
(हालस्य गाथासप्तशती ९८६)

अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादि - प-ओसेत्यादिपदद्योत्यं वस्तु व्यज्यते ॥

{सहि णवणिहुवणसमरम्मि अङ्कवालीसही-ए णिविडा-ए ।
हारो णिवारि-ओ वि-अ उच्छेरन्तो तदो कहं रमि-अं ॥८९॥ (१५)}
[सखि नवनिधुवनसमरे ऽङ्कपालीसख्या निबिडया ।
हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमितम् ॥]
(हालस्य गाथासप्तशती ९९६)

अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहम्पदगम्यः ॥

{प्रविसन्ती घरवारं विवलि-अव-अणा विलो-इ-ऊण पहं ।
खन्धे घेत्तूण घडं हा हा णट्ठोत्ति रु-असि सहि किन्ति ॥९०॥}
[प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम् ।
स्कन्धे गृहीत्वा घटं हा हा नष्ट इति रोदिषि सखि किमिति ॥]
(हालस्य गाथासप्तशती ८८०)

अत्र हेत्वलङ्कारेण सङ्केतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा अपरं घटं गृहीत्वा गच्छेति वस्तु किन्ति-पद-द्योत्यम् । यथा वा

{विहलङ्खलं तुमं सहि दट्ठूण कुडेण तरलतरदिट्ठिं ।
वारप्फंसमिसेण अ अप्पा गुरु-ओत्ति पाडि-अ विहिण्णो ॥९१॥ (१६)}
[विशृङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम् ।
द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः ॥]
(हालस्य गाथासप्तशती ८८०)

अत्र नदीकूले लतागहने कृतसङ्केतमप्राप्तं गृहप्रवेशावसरे पश्चादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितं तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु ।

{जोह्णा-इं महुरसेण अ वि-इण्णतारुण्च्छु-अमणा सा ।
वुड्ढावि णवोढव्वि-अ परवहु-आ अहह हर-इतुह हि-अ-अं ॥९२॥ (१७)}
[ज्योत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा ।
वृद्धापि नवोढेव परवधूरहह हरति तव हृदयम् ॥]
(हालस्य गाथासप्तशती ९८४)

अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलषसीति त्वदीयमाचरितं वक्तुं न शक्त्यमित्याक्षेपः परवहूपदप्रकाश्यः ।

एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः ॥
वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् ॥
शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति
पञ्चत्रिंशद्भेदाः ॥

॥। प्रबन्धे ऽप्यर्थशक्तिभूः ॥ ङ्क्प्र्-क्_४२ ॥

यथा गृध्रगोमायुसंवादादौ ।

{अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसङ्कुले ।
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥९३॥}
(महाभारत शान्तिपर्वन् १५३-११)

{न चेह जीवितः कश्चित् कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥९४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ५२)

इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ॥

{आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ॥९५॥}
(महाभारत, गित प्रेस्स्। शान्तिपर्वन् १५३-१९)

{अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ॥९६॥}
(महाभारत, गित प्रेस्स्। शान्तिपर्वन् १५३-६५?)

इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते ॥
अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतोनुसर्तव्याः ॥

अपिशब्दात्पदवाक्ययोः ॥४२॥

पदैकदेशरचनावर्णेष्वपि रसादयः ।

तत्र प्रकृत्या यथा

{र-इकेलिहि-अणिवसणकरकिसल-अरुद्धण-अणजु-अलस्स ।
रुद्धस्स त-इ-अण-अणं पव्व-ईपरिचुम्बि-अं ज-अ-इ ॥९७॥}
[रतिकेलिबृतनिवसनकरकिसलयरुद्धनयनयुगलस्य ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितञ्जयति ॥]
(हालस्य गाथासप्तशती ५।५३)

अथ जयतीति न तु शोभते इत्यादि । समाने ऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति
तदेवोत्कृष्टम् । यथा वा

{प्रेयान् सो ऽयमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
तावत्प्रत्युत पाणिसम्पुटगलन्नीवीनिबन्धं धृतो
धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥९८॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ३,२।१५)

अत्र पदानीति न तु द्वाराणीति ॥
तिङ्सुपोर्यथा

{पथि पथि शुकचञ्चूचारुराभाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
नरि नरि किरति द्राक् सायकान् पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥९९॥}
(सुभाषितरत्नभाण्डागार ३३३।८५)

अत्र किरतीति किरणस्य साध्यमानत्वं निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते । यथा वा

{लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः
तवावस्था चेयं विसृज कठिने मानमध्हुना ॥१००॥}
(अमरुशतक ६)

अत्र लिखन्निति न तु लिखतीति तथा आस्ते इति न तु आसीत इति अपि तु प्रसादपर्यन्तमास्ते इति भूमिमिति न तु
भूमाविति न हि बुद्धिपूर्वकमपरं किञ्चिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् ।
सम्बन्धस्य यथा

{गामारुहम्हि हामे वसामि ण-अरट्ठि-इं ण जाणामि ।
णा-अरि-आणं प-इणो हरेमि जा होमि सा होमि ॥१०१॥}
[ग्रामरुहास्मि ग्रामे वसामि नगरस्थितिं न जानामि ।
नागरिकाणां पतीन् हरामि या भवामि सा भवामि ॥]
(हालस्य गाथासप्तशती ७०५)

अत्र नागरिकाणामिति षष्ठ्याः ।
रमणीयः क्षत्रियकुमार आसीत् इति कालस्य । एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रतिकुपितस्य भार्गवस्योक्ति । वचनस्य यथा ।

{ताणं गुणग्गअणाणं ताणुक्कण्ठाणं तस्स पेम्मस्स ।
ताणं भणि-आणं सुन्दर एरिसि-अं जा-अमवसाणं ॥१०२॥}
[तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्नः ।
तासां भणितीनां सुन्दर ईदृशं जातमवसानम् ॥]
(हालस्य गाथासप्तशती ९४०)

अत्र गुणग्रहणादीनां बहुत्वं प्रेम्णश्चैकत्वं द्योत्यते ॥
पुरुषव्यत्ययस्य यथा

{रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर-
प्रेमाणं महिमानमेणयनामालोक्य किं नृत्यसि ।
किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम्
एषा कण्ठतटे कृता खलु शिला संसारवारान्निधौ ॥१०३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र प्रहासः ।
पूर्वनिपातस्य यथा

{येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः ।
ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमास् —-
ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ॥१०४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र पराक्रमस्य प्राधान्यमवगम्यते ।
विभक्तिविशेषस्य यथा

{प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् ।
दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥१०५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र दिवसेनेत्यपवर्गतृतीया फलप्राप्तिं द्योतयति ।

{भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं यत्
गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥१०६॥}
(भवभूतिस्य मालतीमाधव १।३०)

अत्रानुकम्पावृत्तेः करूपतद्धितस्य ।

{परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः को ऽप्यन्तर्जडयति च तापं च कुरुते ॥१०७॥}
(भवभूतिस्य मालतीमाधव १।३०)

अत्र प्रशब्दस्योपसर्गस्य ।

{कृतं च गर्वाभिमुखं मनस्त्वया
किमन्यदेवं निहताश्च नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्
न यावदायात्युदयाद्रिमौलिताम् ॥१०८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र तुल्ययोगिताद्योतकस्य [च] इति निपातस्य ।

{रामोसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा-
मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति-
श्रेणीभूतविशालतालविवरोद्गीर्णैःस्वरैःसप्तभिः ॥१०९॥}
([विशाखदत्त])

अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति अपि अस्मदित्यस्य सर्वाक्षेपिणः भाग्यविपर्ययादित्यन्यथासम्पत्तिमुखेन न त्वभावमुखेनाभिधानस्य ।

{तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे ।
अधिवसति सकलललनामौलिमियं चकितंहरिणचलनयना ॥११०॥}
(महिमभट्टस्य व्यक्तिविवेक)

अत्र इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ वसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्चित् स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति ।
एवमन्येषामपि बोद्धव्यम् ।
वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते अपिशब्दात् प्रबन्धेषु नाटकादिषु ।
एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड् भेदाः ।

भेदास्तदेकपञ्चाशत् ॥।

व्याख्याताः ॥

॥। तेषां चान्योन्ययोजने ॥ ङ्क्प्र्-क्_४३ ॥

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।

न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति । यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन सङ्करेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्[भिर्]गुणने ।

वेदखाब्धिवियच्चन्द्राः ॥।

शुद्धभेदैः सह

॥। शरेषुयुगखेन्दवः ॥ ङ्क्प्र्-क्_४४ ॥

तत्र दिङ्मात्रमुदाह्णियते ।

{क्खणपाहुणि-आ दे-अर जा-आ-ए सुह-अ किम्पि दे भणि-आ ।
रु-अ-इ पडोहरवलहीघरम्मि अणुणिञ्ज-उ वरा-ई ॥१११॥}
[क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणिता ।
रोदिति गृहपश्चाद्भागवलन्भीगृहे ऽनुनीयतां वराकी ॥]
(हालस्य गाथासप्तशती ९६३ ; अभिनवगुप्तस्य ध्वन्यालोकलोचन ३)

अत्रानुनयः किमुपभोगलक्षणे ऽर्थान्तरे सङ्क्रमितः किमनुरणनन्यायेनोपभोगे एव व्यङ्ग्ये व्यञ्जकः इति सन्देहः ।

{स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥११२॥}
(आनन्दवर्दनस्य ध्वन्यालोक २)

अत्र लिप्तेति पयोदसुहृदामिति च अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह रामो ऽस्मीत्यर्थान्तरसङ्क्रमितवाच्यस्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसङ्क्रमितवाच्यरसध्वन्योः सङ्करः । एवमन्यदप्युदाहार्यम् ॥

इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ॥४॥

==========================================================

अथ पञ्चम उल्लासः

एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह ।

अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ ङ्क्प्र्-क्_४५ ॥

व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।

कामिनीकुचकलशवत् गूढं चमत्करोति । अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव । अगूढं यथा

{यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त-
सूचीव्यधव्यतिकरेण युनक्ति कर्णौ ।
काञ्चीगुणग्रथनभाजनमेष सो ऽस्मि
जीवन्न सम्प्रति भवामि किमावहामि ॥११३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र जीवन्नित्यर्थान्तरसङ्क्रमितवाच्यस्य ।

{उन्निद्रकोकनदरेणुपिशङ्गितान्गा
गायन्ति मञ्जु मधुपा गृहदीर्घिकासु ।
एतच्चकास्ति च रवेर्नवबन्धुजीव-
पुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ॥११४॥}
(कुन्तकस्य वक्रोक्तिजीवित २।३)

अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य ।

{अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः
केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥११५॥ (१)}
(राजशेखरस्य बालरामायण १०।२०)

अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य । {तस्याप्यत्र} इति युक्तः पाठः ।
अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि अनुरणनरूपं वा । यथा

{अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥११६॥}
(महाभारत)

अत्र शृङ्गारः करुणस्य ।

{कैलासालयभाललोचनरुचा निर्वर्तितालक्तक-
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् ।
स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥११७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र भावस्य रसः ।

{अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाभ्योधय-
स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव-
स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥११८॥}
(पञ्चाक्षरीप्रशस्ति)

अत्र भू।विषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य ।

{बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां
श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः ।
अस्माकं सुकृतैर्दृशोर्निपतितोस्यौचित्यवारान्निधे
विध्वस्ता विपदोखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥११९॥}
(सुभाषितरत्नभाण्डागार ११२।२६८)

अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ ।

{अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥१२०॥}
(विश्वनाथस्य साहित्यदर्पण)

अत्र भावस्य भावप्रशमः ।

{साकं कुरङ्गकदृशा मधुपानलीलां
कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते ।
अन्याभिधायि तव नाम विभो गृहीतं
केनापि तत्र विषमामकरोदवस्थाम् ॥१२१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र त्रासोदयः ।

{असोढा तत्कालोल्लसदसहभावस्य तपसः
कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात् कपटबटुवेषापनयने
त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥१२२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रावेगधैर्ययोः सन्धिः ॥

{पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी
हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ भवद्विद्विषोरण्यवृत्तेः
कन्या कञ्चित् फलकिसलयान्याददानाभिधत्ते ॥१२३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता । एते च रसवदाद्यलङ्काराः । यद्यपि भावोदयभावसन्धिभावशबलत्वानि नालङ्कारतया उक्तानि तथापि कश्चित् ब्रूयादित्येवमुक्तम् । यद्यपि स नास्ति कश्चिद्विषयः यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह सङ्करः संसृष्टिर्वा नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्व्यवहारः ।

{जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषुघटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥१२४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ६६)

अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो
वाच्याङ्गतां नीतः ।

{आगत्य सम्प्रति वियोगविसंष्ठुलाङ्गी
मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥१२५॥ (२)}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ६७)

अत्र नायकवृत्तान्तो ऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः ॥
वाच्यसिद्ध्यङ्गं यथा

{भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥१२६॥}
(आनन्दवर्दनस्य ध्वन्यालोक २।३)

अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत् । यथा वा

{गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनःसम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसाम्
आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥१२७॥ (३)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य । एतच्चैकत्र एकवक्तृगतत्वेन अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः ॥
अस्फुटं यथा

{अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥१२८॥ (४)}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रादृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम् ॥
सन्दिग्धप्राधान्यं यथा

{हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥१२९॥ (५)}
(कालिदासस्य कुमारसम्भव ३।६७)

अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानं किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति सन्देहः ॥
तुल्यप्राधान्यं यथा

{ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥१३०॥ (६)}
(भवभूतिस्य महावीरचरित २।८)

अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ॥
काक्वाक्षिप्तं यथा

{मथ्नामि कौरवशतं समरे न कोपात्
दुःशासनस्य रुधिरं न प्बाम्युरस्तः ॥
सञ्चूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ॥१३१॥ (७)}
(भट्टनारायणस्य वेणीसंहार १।१५)

अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम् ॥
असुन्दरं यथा

{वाणीरकुञ्जुड्डीणस-उणिकोलाहलं सुणन्ती-ए ।
घरकम्मवावडा-ए बहु-ए सी-अन्ति अङ्गा-इं ॥१३२॥ (८)}
[वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥]
(हालस्य गाथासप्तशती ८७६)

अत्र दत्तसङ्केतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्यङ्गानीति वाच्यं सचमत्कारम् ॥

एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ ङ्क्प्र्-क्_४६ ॥

यथायोगमिति
{व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ॥}
इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालङ्कारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम् ।

सालङ्कारैर्ध्वनेस्तैश्च योगः संसृष्टिसङ्करैः ।

सालङ्कारैरिति तैरेवालङ्कारैः अलङ्कारयुक्तैश्च तैः । तदुक्तं ध्वनिकृता
{स गुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥}
इति ।

अन्योन्ययोगादेवं स्याद्भेदसङ्ख्यातिभूयसी ॥ ङ्क्प्र्-क्_४७ ॥

एवमनेन प्रकारेण अवान्तरभेदगणनेतिप्रभूततरा गणना । तथाहि–शृङ्गस्यैव भेदप्रभेदगणनायामानन्त्यम् । का गणना तु सर्वेषाम् ।

सङ्कलनेन पुनरस्य ध्वनेस्त्रयो भेदाः । व्यङ्ग्यस्य त्रिरूपत्वात् । तथाहि–किञ्चिद्वाच्यतां सहते किञ्चित्त्वन्यथा । तत्र वाच्यतासहम् अविचित्रं विचित्रं चेति । अविचित्रं वस्तुमात्रं विचित्रं त्वलङ्काररूपम् ।
यद्यपि प्राधान्येन तदलङ्कार्यं तथापि ब्राह्मणश्रमणन्यायेन तथोच्यते । रसादिलक्षणस्त्वर्थः स्वप्ने ऽपि न वाच्यः । स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत । न चाभिधीयते तत्प्रयोगे ऽपि विभावाद्यप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगे ऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्चेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते इति निश्चीयते ।

तेनासौ व्यङ्ग्य एव । मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः । अर्थान्तरसङ्क्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक् प्रतिपादितम् । शब्दशक्तिमूले तु अभिधाया नियन्त्रणेनानभिधेयस्यार्थान्तरस्य तेन सहोपमादेर[रं]लङ्कारस्य च निर्विवादं व्यङ्गत्वम् । ([रम्] इस् नेएद्लेस्स्)

अर्थशक्तिमूले ऽपि विशेषे सङ्केतः कर्तु[म्] न युज्यते इति सामान्यरूपाणां पदार्थानामाकाङ्क्षा-सन्निधि-योग्यतावशात्परस्परसंसर्गो यत्रापदार्थो ऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे
का वार्त्[त्]आ व्यङ्ग्यस्याभिधेयतायाम् ।

यंअप्याहुः
{शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥१॥
अन्यथानुपपत्त्या तु बोधेच्छक्तिं द्वयात्मिकाम् ।
अर्थापत्त्यावबोधेत सम्बन्धं त्रिप्रमाणकम् ॥२॥}
([कुमारिलभट्ट,श्लोकवार्तिक१४१])

इति प्रतिपादितदिशा देवदत्त गामानय इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सति अनेनास्माद्वाक्यादेवंविधो ऽर्थः प्रतिपन्नः इति तच्चेष्टयानुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापत्त्या वाच्यवाचकभावलक्षणं सम्बन्धमवधार्य बालस्तत्र व्युत्पद्यते । परतः चैत्र गामानय देवदत्त अश्वमानय देवदत्त गां नय इत्यादिवाक्यप्रयोगे तस्य तस्य
शब्दस्य तं तमर्थमवधारयतीति अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदा[र्]थैरन्वितानामेव सङ्केतो गृह्यते इति विशिष्टा एव पदार्था वाक्यार्थाः ।
न तु पदार्थानां वैशिष्ट्यम् ।

यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्त इति पदार्थान्तरमात्रेणान्वितः पदार्थः सङ्केतगोचरः । तथापि सामान्यावच्छादितो विशेषरूप एवासौ
प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः ।

तेषामपि मते सामान्यविशेषरूपः पदार्हः सङ्केतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोसङ्केतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्चर्चा ।
अनन्वितो ऽर्थो ऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने अन्वितविशेषस्त्ववाच्य एव इत्युभयनये ऽप्यपदार्थ एव वाक्यार्थः ।
यदप्युच्यते नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते इति ।
तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा शब्दस्य । प्रकाशकत्वान्न कारकत्वम् । ज्ञापकत्वं तु अज्ञातस्य कथम् । ज्ञातत्वञ्च सङ्केतेनैव स चान्वितमात्रे एवं च निमित्तस्य नियतनिमित्तत्वं
यावन्न निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथम् इति ऽनैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते ऽ; इत्यविचारिताभिधानम् ।

ये त्वभिदधति सो ऽयमिषोरिव दीर्घदीर्घतरो व्यापारः इति यत्परः शब्दः स शब्दार्थः इति विधिरेवात्र वाच्य इति । ते ऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानाम्प्रियाः । तथाहि {भूतव्यसमुच्चारणे भूतं भव्यायोपदिश्यते} इति कारकपदार्थाः क्रियाभिसण्बन्धात् साध्यामानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे
{लोहितोष्णीषा ऋत्विजः प्रचरन्ति} इत्यत्र लोहितोष्णीषत्वमात्रं विधेयं हवनस्यान्यतः सिद्धेः {दध्ना जुहोति} इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् ॥
क्वचिदुभयविधिः क्वचित्त्रिविधिरपि यथा {रक्तं पटं वयः} इत्यादौ एकविधिर्द्विविधिस्त्रिविधिर्वा । ततश्च {यदेव विधेयं तत्रैव तात्पर्यम्} इत्युपात्तस्यव शब्दस्यार्थे तात्पर्य न तु प्रतीतमात्रे एवं हि {पूर्वो धावति} इत्यादावपराद्यथपि क्वचित्तात्पर्यं स्यात् ।

यत्तु {विषं भक्षय मा चान्य गृहे भुङ्क्थाः} इत्यत्र {एतद्गृहे न भोक्तव्यम्} इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते तत्र चकार एकवाक्यतासूचनार्थः न चाख्यातवाक्ययोर् द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता कल्पनीयेति {विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाः} इति, उपात्तशब्दार्थे एव तात्पर्यम् ।

यदि शब्दश्रुतेरन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः ततः कथं ऽब्राह्मण पुत्रस्ते जातः ब्राह्मण कन्या ते गर्भिणीऽ; इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच्च लक्षणा लक्षणीये ऽप्यर्थे दीर्घदीर्घतराभिधाव्यआपारेणैव प्रतीतिसिद्धेः । किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वम् इत्यन्विताभिधानवादे ऽपि विधेरपि सिद्धं व्यङ्ग्यत्वम् ॥

किं च {कुरु रुचिम्} इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न ह्मत्रासभ्यो ऽर्थः पदार्थान्तरैरन्वितः इत्यनभिधेय एवेति एवमादि अपरित्याज्यं स्यात् ।

यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति
विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात् । वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात् क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था ॥
{द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।}

इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ।

अपि च वाच्यो ऽर्थः सर्वान् प्रतिपत्तॄन् प्रति एकरूप एवेति नियतो ऽसौ । न हि {गतोस्तमर्कः} इत्यादौ वाच्यो ऽर्थः क्वचिदन्यथा भवति । प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं
भजते । तथा च {गतो ऽस्तमर्कः} इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामह इति सान्ध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्तामिति सन्तापोधुना न भवतीति विक्रेयवस्तूनि संह्रियन्तामिति नागतोद्यापि प्रेयानित्यादिरनवधिर्व्यङ्ग्यो ऽर्थः तत्र तत्र प्रतिभाति ।

वाच्तव्तञ्ज्ययोः निःशेषेत्यादौ निषेधविध्यात्मना
{मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु ।
सेव्यानितम्बाः किमुभूधराणामुतस्मरस्मेरविलासिनीनाम् ॥१३३॥}
(भर्तृहरिस्य शृङ्गारशतक ३६)

इत्यादौ संशयशान्तशृङ्गार्यन्तरगतनिश्चयरूपेण,

{कथमवनिप दर्पो यन्निशातासिधारा-
दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः ।
ननु तव निहतारेरप्यसौ किं न नीता
त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥१३४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य ।

पूर्वपश्चाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णघटनाश्रयत्वेन च आश्रयस्य शब्दानुशासबज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात् कार्यस्य “गतो ऽस्तमर्कः” इत्यादौ प्रदर्शितनयेन सङ्ख्यायाः

{कस्स व ण हो-इ रोसो दट्ठूण पि-आ-इ सव्वणं अहरं ।
सभमरपडमग्धा-इणि वारि-अवामे सहसु एण्हिं ॥१३५॥}
[कस्य वा न भवति रोषो दृष्ट्वा प्रियाया सव्रणमषरम् ।
सभ्रमरपद्माघ्रायिणि वारितवासे सहस्वेदानीम् ॥]
(अभिनवगुप्तस्य ध्वन्यालोकलोचन)
इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदे ऽपि यद्येकत्वम् तत् क्वचिदपि नीलपीतादौ भेदो न स्यात् ।
उक्तं हि {अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च} इति ।
([ज्ञानश्रीमित्रनिबन्धावलौ,क्षणभङ्गाध्यायः])

वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम् । किं च {वाणीरकुडङ्गु} – इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूप एव यत्र विश्राम्यति तत्र
गुणीभूतव्यङ्ग्येतात्पर्य्भूतो ऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति ।
ननु {रामो ऽस्मि सर्वं सहे} इति {रामेण प्रियजीवितेन तु कृतं
प्रेम्णः प्रिये नोचितम्} इति {रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्} इत्यादौ लक्षणीयो ऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति । तदवगमश्च शब्दार्थायत्तः
प्रकरणादिसव्यपेक्षश्च इति को ऽयं नूतनः प्रतीयमानो नाम ।

उच्यते —- लक्षणीयस्यार्थस्य नानात्वे ऽपि अनेकार्थशब्दाभिधेयवन्नियतत्वमेव । न खलु मुख्येनार्थेनानियतसम्बन्धो लक्षयितुं शक्यते । प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियत सम्बन्धः अनियतसम्बन्धः सम्बद्धसम्बन्धश्च द्योत्यते ।

न च

{अत्ता एत्थ णिमज्ज-इ एत्थ अहं दि-अह-ए पलो-एहि ।
मा पहि-अ रत्ति-अन्ध-अ सेज्जा-ए मह णिमज्जहिसि ॥१३६॥}
[श्वश्रूतत्र निमज्जति अत्राहं दिवसके प्रलोकय ।
मा पथिक रात्र्यन्धक शय्यायामावयोर्निमङ्क्ष्यसि ॥]
(हालस्य गाथासप्तशती ७।६७)

इत्यादु विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः । तत्कथमत्र लक्षणा । लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम् ।
यथा च समयसव्यपेक्षा अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा । अत एवाभिधापुच्छभूता सेत्याहुः ।
न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात् । न च तदनुगतमेव अभिधावलम्बनेनापि तस्य भावात् । न चोभयानुसार्येव अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्येव अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेः इति अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोनपह्नवनीय एव ॥

तत्र {अत्ता एत्थ} इत्यादौ नियतसम्बन्धः {कस्य व ण हो-इ रोसो} इत्यादौ, अनियतसम्बन्धः ।

{विपरी-अर-ए लच्छी बम्हं दटठूण णाहिकमलट्ठं ।
हरिणो दाहिणण-अणं रसा-उला झत्ति ढक्के-इ ॥१३७॥}
[विपरीतरते लक्ष्मीर्व्रह्माणं दृष्ट्वा नाभिकमलस्थम् ।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥]
(हालस्य गाथासप्तशती ८१६)

इत्यादौ सम्बद्धसम्बन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते । तन्निमीलनेन सूर्यास्तमयः । तेन पद्मस्य सङ्कोचः । ततो ब्रह्मणः स्थगनम् । तत्र सति गो ऽप्याङ्गस्यादर्शनेन अनिर्यन्त्रणं निधुवनविलसितमिति ।
{अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः वाक्यमेव च वाचकम्} ॥
([बृहद्देवी])

इति ये ऽप्याहुः तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षे ऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्ग्य एव ।

ननु वाच्यादसम्बद्धं तावन्न प्रतीयते यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवं च सम्बन्धात् व्यङ्ग्यव्यञ्जकभावोप्रतिबन्धेवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिङ्गाल्लिङ्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति । तथाहि—-

{भम धम्मि-अ वीसद्धो सो सुण-ओ अज्ज मारि-ओ तेण ।
गोलाण-इकच्छकुडङ्गवासिणा दरि-असीहेण ॥१३८॥}
[भ्रम धार्मिक विश्रब्धः स शूनको ऽद्य मारितस्तेन ।
गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन ॥]
(हालस्य गाथासप्तशती १७५(२।७५))

अत्र गृहे श्वनिवृत्त्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति । यत् यत भीरुभ्रमणं तत्तद्भयकारणनिवृत्त्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः ।

अत्रोच्यते —- भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण अन्येन चैवम्भूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुःशुनो बिभ्यदपि बीरत्वेन सिंहान्न बिभेतीति विरुद्धो ऽपि गोदावरीतीरे
सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्चितः । अपि तु वचनात् । न च वचनस्य प्रामाण्यमस्ति ।
अर्थेनाप्रतिबन्धादित्यअसिद्धश्च तत्कथमेवंविधाद्धेयोः साध्यसिद्धिः ।
तथा {निःशेषच्युत- } इत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतो ऽपि भवन्ति । अतश्चात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे एव प्रतिबद्धानीत्यनैकान्तिकानि ।
व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम् । न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम् । एवंविधादर्थादेवंविधो ऽर्थ उपपत्त्यनपेक्षत्वे ऽपि प्रकाशते इति व्यक्तिवादिनः पुनस्तत् अदूषणम् ॥

इति काव्यप्रकाशे ध्वनिगुणीभूतव्यङ्ग्यसङ्कीर्णभेदनिर्णयो नाम पञ्चम उल्लासः ॥ ५ ॥

=============================================================
अथ षष्ठ उल्लासः

शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ ङ्क्प्र्-क्_४८ ॥

न तु शब्दचित्रे अर्थस्याचित्रत्वमर्थचित्रे वा शब्दस्य । तथा चोक्तम्

{रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥
रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥}
इति ॥
शब्दचित्रं यथा

{प्रथममरुणच्छायस्तावत्ततः कनकप्रभ-
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥१३९॥}
([भवभूति,मालिनीमाधव)

अर्थचित्रं यथा

{ते दृष्टिमात्रपतिता अपि कस्य नात्र
क्षोभाय पक्ष्मलदृशामलकाः खलाश्च ।
नीचाः सदैव सविलासमलीकलग्ना
ये कालतां कुटिलतामिव न त्यजन्ति ॥१४०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

यद्यपि सर्वत्र काव्येन्ततः विभावादिरूपतयैव पर्यवसानं तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम् । अत्र च शब्दार्थालङ्कारभेदाद्बहवो भेदाः ते चालङ्कारनिर्णये निर्णेष्यन्ते ॥

इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः ॥ ६ ॥

=============================================================

अथ सप्तम उल्लासः

काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह

मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ङ्क्प्र्-क्_४९ ॥

हतिरपकर्षः । शब्दाद्याः इत्याद्यग्रहणाद्वर्णरचने ।
विशेषलक्षणमाह

दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥ ङ्क्प्र्-क्_५० ॥

सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ ङ्क्प्र्-क्_५१ ॥

(१) {श्रुतिकटु} परुषवर्णरूपं दुष्टम् । यथा

{अनङ्गमन्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥१४१॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

अत्र कार्तार्थ्यमिति ॥

(२) {च्युतसंस्कृति} व्याकरणलक्षणहीनम्
यथा

{एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥१४२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रानुनाथते इति । {सर्पिषो नाथते} इत्यादावाशिष्येव नाथतेरात्मनेपदं विहितम् । {आशिषि नाथः} इति ।
अत्र तु याचनमर्थः । तस्मात् {अनुनाथति स्तनयुगम्} इति पठनीयम् ।

(३) {अप्रयुक्तम्} तथा आम्नातमपि कविभिर्नादृतम् । यथा

{यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये दैवतो ऽस्य पिशाचो राक्षसो ऽथ वा ॥१४३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र दैवतशब्दो {दैवतानि पुंसि वा} इति पुंस्याम्नातो ऽपि न केनचित्प्रयुज्यते ॥

(४) {असमर्थम्} यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः । यथा

{तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः ।
सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम् ॥१४४॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र हन्तीति गमनार्थम् ॥

(५) {निहतार्थम्} यदुभयार्थमप्रसिद्धे ऽर्थे प्रयुक्तम् । यथा

{यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन ।
मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥१४५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ७७)

अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपो ऽर्थो व्यवधीयते ॥

(६) {अनुचितार्थम्} यथा

{तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्त्रिभिरिष्यते च या ।
प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधेपशुतामुपागताः ॥१४६॥}
(महिमभट्टस्य व्यक्तिविवेक)

अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् ॥

(७) {निरर्थकम्} पादपूरणमात्रप्रयोजनं चादिपदम् । यथा

{उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥१४७॥}
(हर्षस्य नागानन्द १।१४)

अत्र हिशब्दः ॥

(८) {अवाचकम्} यथा

{अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥१४८॥}
(भारविस्य किरातार्जुनीय १।३३)

अत्र जन्तुपदमदातर्यर्थे विवक्षितं तत्र च नाभिधायकम् । यथा वा

{हाधिक सा किल तामसी शशिमुखी दृष्टा मया यत्र सा
तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् ।
किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं
तादृग्यामवतीमयो भवति मे नो जीवलोकोधुना ॥१४९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र दिनमिति प्रकाशमयमित्यर्थे वाचकम् ।

यच्चोपसर्गसंसर्गादर्थान्तरगतम्
यथा

{जङ्घाकाण्डोरुनालो नखकिरणलसत्जेसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसकयो मञ्जुमञ्जीरभृङ्ग ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी-
सम्भूताम्भोजशोभां विदधदभिबवो दण्डपादो भवान्याः ॥१५०॥}
(महिमभट्टस्य व्यक्तिविवेक)

अत्र दधदित्यर्थे विदधदिति ॥

(९) {अश्लीलम्} त्रैधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् । यथा

{साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः को ऽन्यः सहतारालितां भ्रुवम् ॥१५१॥(१)}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

{लीलातामरसाहतो ऽन्यवनितानिःशङ्कदष्टाधरः
कश्च्वित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा
भ्रान्त्या धूर्ततयाथ वानतिमृतेतेनानिशञ्चुम्बिता ॥१५२॥(२)}
([अमरुशतक ७२(ओर् ७०),ओर् ८८)])

{मृदुपवनविभिन्नो मत्प्त्रियाया विनाशाद्
घनरुचिरकलापो निःसपत्नो ऽद्य जातः ।
रतिविगलितबन्धे केशपाशे सुकेश्याः
सति कुसुमसनाथे कं हरेदेष बर्ही ॥१५३॥(३)}
(कालिदासस्य विक्रमोर्वशीय ४।२२)

एषु साधनवायुविनाशशब्दाः व्रीडादिव्यञ्जकाः ॥

(१०) {सन्दिग्धम्} यथा

{आलिङ्गितस्तत्रभवान् सम्पराये जयश्रिया ।
आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥१५४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

अत्र वन्द्यां किं हठहृतमहिलायां किं वा नमस्यामिति सन्देहः ॥

(११) {अप्रतीतम्} यत्केवले शास्त्रे प्रसिद्धम् । यथा

{सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः ।
विधीयमानमप्येतन्न भवेत्कर्मबन्धनम् ॥१५५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

(१२) {ग्राम्यम्} यत्केवले लोके स्थितम् । यथा

{राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम् ।
तपनीयशिलाशोभा कटिश्च हरते मनः ॥१५६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ८६)

अत्र कटिरिति ॥

(१३) {नेयार्थम्}
{निरूढा लक्षणाः काश्चित् सामर्थ्यात् अभिधानवत् ।
क्रियन्ते साम्प्रतं काश्चित् काश्चिन्नैव त्वशक्तितः ॥}
(कुमारिल,तन्त्रवार्तिकपूर्व ७००)
इति
यन्निषिद्धं लाक्षणिकम् । यथा

{शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम् ।
करोति ते मुखं तन्वि चपेटापातनातिथिम् ॥१५७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते ।
अथ समासगतमेव दुष्टमिति सम्बन्धः, अन्यत् केवलं समासगतं च ॥

(१४) {क्लिष्टम्} यतः अर्थप्रतिपत्तिर्व्यवहिता । यथा

{अत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः ।
सदृशं शोभतेत्यर्थं भूपाल तव चेष्टितम् ॥१५८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रात्रिलोचनसम्भूतस्य चन्द्रस्य ज्योतिरुद्गमेन भासिभिः कुमुदैरित्यर्थः ॥

(१५) {अविमृष्टविधेयांशम्} अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । यथा

{मूर्द्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् ।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्रयासः ॥१५९॥}
(हर्षस्य नागानन्द ८)

अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम् । यथा वा

{स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥१६०॥}
(कालिदासस्य कुमारसम्भव ३।५५)

अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम् । मौर्वीं द्वितीयामिति युक्तः पाठः । यथा वा

{वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥१६१॥}
(कालिदासस्य कुमारसम्भव ५।१२)

अत्र {अलक्षिता जनिः} इति वाच्यम् । यथा वा

{आनन्दसिन्धुरतिचापलशालिचित्त-
सन्दाननैकसदनं क्षणमप्यमुक्ता ।
या सर्वदैव भवता तदुदन्तचिन्ता
तान्तिं तनोति तव सम्प्रति धिग्धिगस्मान् ॥१६२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र {न मुक्ता} इति सन्नद्धो ऽयं विधेयः । यथा

{नवजलधरः सन्नद्धो ऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥१६३॥}
(कालिदासस्य विक्रमोर्वशीय ४।७)

इत्यत्र । न त्वमुक्ततानुवादेनान्यदत्र किञ्चिद्विहितम् । यथा

{जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत् ॥१६४॥}
(कालिदासस्य रघुवम्श १।२१)

इत्यत्र अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि ॥

(१६) {विरुद्धमतिकृत्} यथा

{सुधाकरकराकारविशारदविचेष्टितः ।
अकार्यमित्रमेको ऽसौ तस्य किं वर्णयामहे ॥१६५॥}
(शार्ङ्गधरपद्धति)

अत्र {कार्यं विना मित्रम्} इति विवक्षितम् {अकार्ये मित्रम् इति} तु प्रतीतिः । यथा वा

{चिरकालपरिप्राप्तलोचनानन्ददायिनः ।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥१६६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र {कण्ठग्रहम्} इति वाच्यम् । यथा वा

{न त्रस्तं यदि नाम भूतकरुणासन्तानशान्तात्मनः
तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः ।
तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियो ऽहमथ वा शिष्यः कथं विस्मृतः ॥१६७॥}
(भवभ्तूतिस्य महावीरचरित २।२८)

अत्र भवानीपतिसब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति । यथा वा

{गोरपि यद्वाहनतां प्राप्तवतः सो ऽपि गिरिसुतासिंहः ।
सविधे निरहङ्कारः पायाद्वः सो ऽम्बिकारमणः ॥१६८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति ॥

{श्रुतिकटु} ससासगतं यथा

{सा दूरे च सुधासान्द्रतरङ्गितविलोचना ।
बहिर्निर्ह्रादनार्हो ऽयं कालश्च समुपागतः ॥१६९॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ९३)

एवमन्यदपि ज्ञेयम् ॥

अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन ॥ ङ्क्प्र्-क्_५२ ॥

केचन न पुनः सर्वे । क्रमेणोदाहरणम्

[(१) श्रुतिकटु]

{सो ऽध्यौष्ट वेदांस्त्रिदशानयष्ट पितृनतार्प्सीत्सममंस्त बन्धून् ।
व्यजेष्ट षडवर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ॥१७०॥}
(भट्टिकाव्य १।२)

[(२) अप्रयुक्तम्)]

{स रातु वो दुश्च्यवनो भावुकानां परम्पराम् ।
अनेडमूकताद्यैश्च द्यतु दोषैरसम्मतान् ॥१७१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र दुश्च्यवन इन्द्रः अनेडमूको मूकबधिरः ॥

[(३) निहत-अर्थम्]

{सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः ।
अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः ॥१७२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र सायकादयः शब्दः खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धः ॥

[(४) अनुचित-अर्थम्]

{कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो
यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो ।
शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥१७३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र कुविन्दादिशब्दो ऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्यनुचितार्थः ।

[(५) निरर्थकम्]

{प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम् ।
निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥१७४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र प्राभ्रभ्राड्विष्णुधामच्विषमाश्वनिद्रापर्णशब्दाः प्रकुष्टजलदगगनसप्ताश्वसङ्कोचदलानामवाचकाः ॥

[(६) अश्लीलम्, व्रीड]

{भूपतेरुपसर्पन्ती कम्पना वामलोचना ।
तत्तत्प्रहरणोत्साहवती मोहनमादधौ ॥१७५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडादायित्वादश्लीलाः ।

[जुगुप्सा]

{तेन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुञ्जते ।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥१७६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।

[अमङ्गल]

{पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे ।
भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥१७७॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ८३)

अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् ।

[(७) सन्दिग्धम्]

{सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः ।
मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥१७८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः इति सन्देहः ॥

[(८) अप्रतीतम्]

{तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।
दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ॥१७९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः ॥

[(९)वुल्गर् (ग्राम्यम्)]

{ताम्बूलभृतगल्लोयं भल्लं जल्पति मानुषः ।
करोति खादनं पादं सदैव तु यथा तथा ॥१८०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र गल्लादयः शब्दाः ग्राम्याः ॥

[(१०) नेयार्थम्]

{वस्त्रवैदूर्यचरणैः क्षतसत्त्वरजःपरा ।
निष्कम्पा रचिता नेत्रयुद्धं वेदय साम्प्रतम् ॥१८१॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३७)

अत्राम्बररत्नपादैः क्षततमा अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता ॥

[(११) क्लिष्टम्]

{धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥१८२॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति २,१।२२)

अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति सम्बन्धे क्लिष्टत्वम् ॥

[(१२) अविमृष्टविधेयांशम्]

{न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गगामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥१८३॥}
(हर्षस्य नागानन्द ९।५५ ; अभिनवगुप्तस्य ध्वन्यालोकलोचन)

अत्र ऽअयमेव न्यक्कारःऽ; इति वाच्यम् । उच्छूनत्वमात्रं चानुवाद्यम्, न वृथात्वविशेषितम् । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य । यथा वा

{अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् ।
विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति यो ऽसौ सुभगे तवागतः ॥१८४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र यो ऽसाविति पदद्वयमनुवाद्यमात्रप्रतीतिकृत् ।

तथाहि —- प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते । क्रमेणोदाहरणम् ।

{कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥१८५॥}
(कालिदासस्य रघुवम्श १७।४७)

{द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥१८६[=२५२]॥}
(कालिदासस्य कुमारसम्भव ५।७१)

{उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि ॥१८७॥}
(हर्षस्य रत्नावलि ; आनन्दवर्दनस्य ध्वन्यालोक)

यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते । यथा

{साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके ।
उद्यता जयनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥१८८॥}
(अभिनन्दस्य रामचरित २।९५)

प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः । यथा अत्रैव श्लोके आद्यपादयोर्व्यत्यासे । द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम् । अनुपादाने ऽपि सामर्थ्यात्कुत्रचिद्द्वयमपि गम्यते । यथा

{ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यतेस्ति मम को ऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥१८९॥}
(भवभूतिस्य मालतीमाधव १।७)

अत्र य उत्पत्स्यते तं प्रतीति । एवं च तच्छब्दानुपादाने ऽत्र साकाङ्क्षत्वम् । न चासाविति
तच्छब्दार्थमाह ।

{असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥१९०॥}
(हर्षस्य नागानन्द ६।४)

अत्र हि न तच्छब्दार्थप्रतीतिः ।

प्रतीतौ वा

{करबालकरालदोः सहायो युधि योसौ विजयार्जुनैकमल्लः ।
यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ॥१९१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र स इत्यस्यानर्थक्यं स्यात् ।

अथ

{योविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥१९२॥}
(महिमभट्टस्य व्यक्तिविवेक)

इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते इति उच्यते । तर्ह्यत्रैव वाक्यान्तरे उपादानमर्हति न तत्रैव । यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति । यथा

{यत्तदूर्जितमत्युग्रं क्षात्रं तेजोस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपिं हारितम् ॥१९३॥}
(भट्टनारायणस्य वेणीसंहार १।१३)

इत्यत्र तच्छब्दः ।
ननु कथम्

{कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते
धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ॥१९४॥}
(भवभूतिस्य मालतीमाधव १।४)
अत्र यद्यदित्युक्त्वा तन्मे इत्युक्तम् । उच्यते —- यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तं तथाभूतमेव तच्छब्देन परामृश्यते ।
यथा वा

{किं लोभेब विलङ्घितः स भरतो येनतदेवं कृतं
मात्रा स्त्रीलघुतां गता किमथ वा मातैव मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतं ॥१९५॥}
(धनञ्जयस्य दशरूपक ३।२९ ; भवभूतिस्य उत्तररामचरित)

अत्रार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरे ऽप्युदाहार्यम् ॥

विरुद्धमतिकृद्यथा

[(१३) विरुद्धमतिकृत्)]

{श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः ।
विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ॥१९६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ९७)

अत्र क्षमादिगुणयुक्ताः सुखमासते इति विवक्षिते हता इति विरुद्धा प्रतीतिः ॥
पदैकदेशे यथासम्भवं क्रमेणोदाहरणम्

[(१) श्रुतिकटु]

{अलमतिचपलत्वात्स्वप्नमायोपमत्वात्
परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः ।
इति यदि शतकृत्वस्तत्त्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥१९७॥}
(बिल्हणचरित[ओर् बिल्हणकाव्य] ५८)

अत्र त्वादिति । यथा वा

{तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थो ऽयमर्थान्तरलभ्य एव ।
अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ॥१९८॥}
(कालिदासस्य कुमारसम्भव ३।१८)

अत्र द्ध्यै व्ध्यै, इति कटु ॥

[(२)]

{यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागाङ्कालसन्ध्यामिव धातुमत्ताम् ॥१९९॥}
(कालिदासस्य कुमारसम्भव १।४)

अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः ॥

[(३)]

{आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिल्लोल्लासित-
प्रोत्सर्पद्धिरहानलेन च ततः सन्तापितानां दृशाम् ।
सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेत्तोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥२००॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र दृशामिति बहुवचनं निरर्थकम् कुरङ्गेक्षणाया एकस्या एवोपादानात् । न चालसवलितैरित्यादिवत् व्यापारभेदाद्बहुत्वम् व्यापाराणामनुपात्तत्वात् । न च व्यापारेत्र दृक्शब्दो वर्तते । अत्रैव ऽकुरुते ऽ; इत्यात्मनेपदमप्यनर्थकम् । प्रधानक्रियाफलस्य कर्त्रसम्बन्धे कर्त्रभिप्रायक्रियाफलाभावात् ॥

[(४)]

{चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥२०१॥}
(राजशेखरस्य बालरामायण २।३७)

अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थवाचकः ॥

[(५)]

{अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥२०२॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

अत्र पेलवशब्दः ॥

{यः पूयते सुरसरिन्मुखतीर्थसार्थ-
स्नानेन शास्त्रपरिशीलनकीलनेन ।
सौजन्त्यमान्यजनिरूर्जितमूर्जितानां
यो ऽयं दृशोः पतति कस्यचिदेव पुंसः ॥२०३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र पूयशब्दः ॥

{विनयप्रणऐककेतनं सततं योभवदङ्ग तादृशः ।
कथमद्य स तद्वदीक्ष्यतआं तदभिप्रेतपदं समागतः ॥२०४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १०४)

अथ प्रेतशब्दः ॥

[(६)]

{कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।
अयं साध्य्चरस्तस्मादञ्जलिर्बध्यतामिह ॥२०५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

अत्र किं पूर्वं साधुः उत साधुषु चरतीति सन्देहः ॥

[(७)]

{किमुच्यते ऽस्य भूपालमौलिमालामहामणेः ।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥२०६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र खलु न केवलं पूर्वपदम् यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्यादावुत्तरपदमेव वडवानलादौ पूर्वपदमेव ॥

यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः तथाप्यन्यैरालङ्कारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः ॥५२॥

[वाक्यदोष]

प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ ङ्क्प्र्-क्_५३ ॥

अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।
अपदस्थपदसमासं सङ्कीर्णं गर्भितं प्रसिद्धिहतम् ॥ ङ्क्प्र्-क्_५४ ॥

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।

(१) रसानुगुणत्वं वर्णानां वक्ष्यते । तद्विपरीतं प्रतिकूलवर्णम् । यथा शृङ्गारे

{अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥२०७॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १०७,३२५)

रौद्रे यथा

{देशः सो ऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥२०८॥}
(भट्टनारायणस्य वेणीसंहार ३।३३)

अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम् । यथा

{प्राग्प्राप्तनिशुम्भशाम्भवधनुर्द्वेधाविधाविर्भवत्-
क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्स्।अणात् ।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि-
र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥२०९॥}
(भवभ्तूतिस्य महावीरचरित २।३३)

यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ॥

(२) उपहत उत्वं प्राप्तो (३) लुप्तो वा विसर्गो यत्र तत् । यथा

{धीरो विनीतो निपुणो वराकारो नृपो ऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥२१०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

(४) विसन्धि सन्धेर्वैरूप्यम् विश्लेषोश्लीलत्वं कष्टत्वं च । तत्राद्यं यह्ता

{राजन्विभान्ति भवतश्चरितानि तानि
इन्दोर्द्युतिं दधति यानि रसातलेन्तः ।
धीदोर्बले अतितते उचितानुवृत्ती
आतन्वती विजयसम्पदमेत्य भातः ॥२११॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १०९)

यथा वा

{तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः ।
निजवम्श उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः ॥२१२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

संहितां न करोमीति स्वच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे त्वसकृत् ॥

{वेगादुड्डीय गगने चलण्डामरचेष्टितः ।
अयमुत्तपते पस्त्री ततो ऽत्रैव रुचिङ्कुरु ॥२१३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र सन्धावश्लीलता ॥

{उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
मात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥२१४॥}
(रुद्रटस्य काव्यालङ्कार २।१०)

(५) हतं लक्षणानुसरणे ऽप्यश्रव्यम् । अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् । क्रमेणोदाहरणम् —-

{अमृतममृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥२१५॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ३,२।१०)

अत्र ऽयदिहान्यत्स्वादु स्यात्ऽ; इत्यश्रव्यम् । यथा वा

{जं परिहरि_उं तीर_इ मण_अम्पि ण सुन्दरत्तणगुणेण ।
अह णवरं जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ॥२१६॥}
[यत् परिहर्तुं तीर्यते मनागपि न सुन्दरत्वगुणेन ।
अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ॥]
(आनन्दवर्धनस्य विषमबाणलीला ; हालस्य गाथासप्तशती)

अत्र द्वितीयततीयगणौ सकारभकारौ ।

{विकसितसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीहरति मुनेरपि मानसं वसन्तः ॥२१७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र हारिशब्दः । हारिप्रमुदितसौरभेति पाठो युक्तः । यथा वा

{अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा
सम्भाराः खलु तेन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलात्
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥२१८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र ऽवस्त्राण्यपिऽ; इति पाठे लघुरपि गुरुतां भजते ॥

{हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव ।
मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥२१९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

हास्यरसव्यञ्जकमेतद्वृत्तम्

(६) न्यूनपदं यथा

{तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥२२०[= १५]॥}
(भट्टनारायणस्य वेणीसंहार १।११)

अत्रास्माभिरिति “खिन्न” इत्यस्मात्पूर्वमित्थमिति च ॥

(७) अधिकं यथा

{स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसङ्क्रान्तनिशातशास्त्रतत्त्वः ।
अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स को ऽपि ॥२२१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र आकृतिशब्दः । यथा वा

{इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः ।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥२२२॥}
(भर्तृहरिस्य शृङ्गारशतक २७)

अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावहति । तथा च ऽयदपि च न कुरङ्गलोचनानाम्ऽ; इति पाठे निराकाङ्क्षैव प्रतीतिः ॥

(८) कथितपदं यथा

{अधिकरतलतल्पं कल्पितस्वापलीला-
परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव
स्मरनरपतिलीलायौवराज्याभिषेकम् ॥२२३॥}
(कुन्तक, वक्रोक्तिजीवित १।१०९)

अत्र लीलेति ॥

(९) पतत्प्रकर्षं यथा

विश्वास-प्रस्तुतिः

{कः कः कुत्र न घुर्घुरायित-घुरी घोरो घुरेत् सूकरः
कः कः कं कमलाकरं विकमकं कर्तुं करी नोद्यतः ।
के के कानि वनान्य् अरण्य-महिषा नोन्मूलयेयुर् यतः
सिंही-स्नेह-विलास-बद्ध-वसतिः पञ्चाननो वर्तते ॥२२४॥}+++(5)+++
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ११५)

मूलम्

{कः कः कुत्र न घुर्घुरायितघुरी घोरो घुरेत् सूकरः
कः कः कं कमलाकरं विकमकं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥२२४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ११५)

(१०) समाप्तपुनरात्तं यथा

{क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवः
झङ्कारो रतिमञ्करीमधुलिहां लीलाचकोरीध्वनिः ।
तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण-
क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥२२५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ११६)

(११) द्वितीयार्धगतैकवाचकशेषप्रथमार्धं यथा

{मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः ।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥२२६॥}
(राजशेखरस्य बालरामायण ६।३६)

(१२) अभवन् मतः (इष्टः) योगः (सम्बन्धः) यत्र तत् । यथा

{येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि-
र्लीलापानभुवश्च नन्दनवनच्छायासु यैः कल्पिताः ।
येषां हुङ्कृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
किं तैस्त्वत्परितोषकारि विहितं किञ्चित्प्रवादोचितम् ॥२२७॥}
(महिमभट्टस्य व्यक्तिविवेक)

अत्र {गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्} इत्युक्तनयेन यच्छब्दनिदश्यानामर्थानां परस्परसमन्वयेन यैर् इत्यत्र विशेषस्याप्रतीतिरिति । {क्षपाचारिभिः} इति पाठे युज्यते समन्वयः । यथा वा

{त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वाम्
अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ॥२२८॥}
(भवभूतिस्य मालतीमाधव)

अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति । {चेत्स्यात्} इति युक्तः पाठः । यथा वा

{सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥२२९॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य
कर्मत्वे कोदण्डः शरा इति प्राप्तम् । न च यच्छब्दार्थस्तद्विशेषणं
वा कोदण्डादि । न च केन केनेत्यादि प्रश्नः । यथा वा

{“चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः” ॥२३०॥}
(राजशेखरस्य बालरामायण २।३७)

इत्यादौ भार्गवस्य निन्दायां तात्पर्यम् । कृतवतेति परशौ सा प्रतीयते । ऽकृतवतःऽ; इति तु पाठे मतयोगो भवति । यथा वा

{चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः
सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
कौरव्याः पशवः प्रियापरिरभवक्लेशोपशान्तिः फलं
राज्यन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः ॥२३१॥}
(भट्टनारायणस्य वेणीसंहार १।२५)

अत्राध्वरशब्दःसमासे गुणीभूत इति न तदर्थः सर्वैः संयुज्यते । यथा वा

{जङ्घाकाण्डोरुनालो नखकिरणलसत्लेसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकार जयति निजतनुस्वच्छलावण्यवापी-
सम्भूताम्भोजशोभां विदधवभिनवो दण्डपादो भवान्याः ॥२३२[=१५०]॥}
(महिमभट्टस्य व्यक्तिविवेक)

अत्र दण्डपादगता निजतनुःप्रतीयते भवान्याः सम्बन्धिनी तु विवक्षिता ॥

(१३) अवश्यवक्तव्यमनुक्तं यत्र । यथा

{अप्राकृतस्य चरितातिशयैश्च दृष्टै-
रत्यद्भुतैरपहृतस्य तथापि नास्था ।
को ऽप्येष वीरशिशुकाकृतिरप्रमेय-
सौन्दर्यसारसमुदायमयः पदार्थः ॥२३३॥}
(भवभ्तूतिस्य महावीरचरित २।३९)

अत्र ऽअपहृतो ऽस्मिऽ; इत्यपहृतत्वस्य विधिर्वाच्यः तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः । यथा वा

{एषो ऽहमद्रितनयामुखपद्मजन्मा
प्राप्तः सुरासुरमनोरथदूरवर्ती ।
स्वप्नेनिरुद्धघटनाधिगताभिरूप-
लक्ष्मीफलामसुरराजसुतां विधाय ॥२३४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः । यथा वा

{त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः ।
कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥२३५॥}
(कालिदासस्य विक्रमोर्वशीय ४।५५)

अत्र ऽअपराधस्य लवमपिऽ; इति वाच्यम् ॥

(१४) अस्थानस्थपदं यथा

{प्रियेण सङ्ग्रथ्य विपक्षसन्निधा-
वुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां
वसन्ति हि प्रेम्णि गुणा न वस्तुषु ॥२३६॥}
(भारविस्य किरातार्जुनीय ८।३७)

अत्र ऽकाचिन्न विजहौऽ; इति वाच्यम् । यथा वा

{लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्त।ग्कप्पोलस्थलम् ।
पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितह्रीतया
प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ॥२३७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र नखलक्ष्मेत्यतः पूर्वं ऽकुटिलताम्र ॥।ऽ; इति वाच्यम् ॥

(१५) अस्थानस्थसमासं यथा

{अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥२३८॥}
(हर्षस्य नागानन्द २।४१)

अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः ॥

(१६) सङ्कीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति । यथा

{किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम् ।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥२३९॥}
(रुद्रटस्य काव्यालङ्कार ६।४२)

अत्र पादगतं बहुगुणं हृदयनार्थं किमिति न पश्यसि । इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति । एकवाक्यतायां तु क्लिष्टमिति भेदः ॥

(१७) गर्भितम् यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति । यथा

{परापकारनिरतैर्दुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कथञ्चन ॥२४०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा

{लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं ते ऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥}
(वेणिदत्तस्य पद्यवेणी २)

अत्र {विदितं तेस्तु} इति एतत्कृतम् । प्रत्युत लक्ष्मीस्ततोपसरतीति विरुद्धमतिकृत् ॥

(१८)
{मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥}
इति प्रसिद्धिमतिक्रान्तम् । यथा

{महाप्रलयमारुतक्षुभितपुष्करावर्तक-
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः ।
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
कुतो ऽद्य समरोदधेरयम्भूतपूर्वः पुरः ॥२४२॥}
(भट्टनारायणस्य वेणीसंहार ३।४)

अत्र रवो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे ॥

(१९) भग्नः प्रक्रमः प्रस्तावः यत्र । यथा

{नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता ।
कुलाङ्गनानां हि दशानुरूपं नातःपरं भद्रतरं समस्ति ॥२४३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२२)

अत्र {गते} इति प्रक्रान्ते {याता} इति प्रकृतेः । {गता निशापि} इति तु युक्तम् ।

ननु {नैकं पदं द्विः प्रयोज्यं प्रायेण} इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् । तत्कथमेकस्य पदस्य द्विःप्रयोगः । उच्यते । उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य । तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्रो वा प्रयोगं विना दोषः । तथाहि —-

{उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥२४४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२३)

अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थो ऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति ॥ यथा वा

{यशोधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥२४५॥}
(भारविस्य किरातार्जुनीय ३।४०)

अत्र प्रत्ययस्य । ऽसुखमीहितुं वाऽ; इति युक्तः पाठः ।

{ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्धिसृष्टा क्खमुद्ययुः ॥२४६॥}
(कालिदासस्य कुमारसम्भव ६।९४)

अत्र सर्वनाम्नः । ऽअनेन विसृष्टाःऽ; इति तु वाच्यम् ।

{महीभृतः पुत्रवतो ऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥२४७॥}
(कालिदासस्य कुमारसम्भव १।२७)

अत्र पर्यायस्य । {महीभृतोपत्यवतो ऽपि} इति युक्तम् । {अत्र सत्यपि पुत्रे कन्यारूपे ऽप्यपत्ये स्नेहो ऽभूत्} इति केचित्समर्थयन्ते ।

{विपदो ऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥२४८॥}
(भारविस्य किरातार्जुनीय २।१४)

अत्रोपसर्गस्य पर्यायस्य च । {तदभिभवः कुरुते निरायतिम्} । लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः ॥ इति युक्तम् ।

{काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवज्त्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥२४९॥}
(माघस्य सिशुपालवध १५।९६)

अत्र वचनस्य । ऽकाशिचित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेन्दुशोभा निःश्रीकाःऽ; इति ऽकम्पमानाःऽ; इत्यत्र ऽकम्पमापुःऽ; इति च पठनीयम् ।

{गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतां ।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥२५०॥}
(कालिदासस्य अभिज्ञानशकुन्तलम् २।६)

अत्र कारकस्य । {विश्रब्धा रचयन्तु शूकरवरा मुस्ताक्षतिम्} इत्यदुष्टम् ।

{अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा-
ववितथमदाध्माते रोषान्मुनावभिगच्छति ।
अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे
स्फुरति रभसात्पाणिः पादोपसङ्ग्रहणाय च ॥२५१॥}
(भवभ्तूतिस्य महावीरचरित २।३०)

अत्र क्रमस्य । पादोपसङ्ग्रहणायति पूर्वं वाच्यम् । एवमन्यदप्यनुसर्तव्यम् ॥

(२०) अविद्यमानः क्रमो यत्र । यथा

{द्वयं गतं सम्प्रति शोचनीयतां
समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः
त्वमस्य लोकस्य च नेत्रकौमुदी ॥२५२[=१८६]॥}
(कालिदासस्य कुमारसम्भव ५।७१)

अत्र त्वंशब्दानन्तरं चकारो युक्तः । यथा वा

{शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री-
र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः ।
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते
प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥२५३॥}
(वेणिदत्तस्य पद्यवेणी २)

अत्र {इत्थं प्रोच्येव} इति न्याय्यम् । तथा

{लग्नं रागावृताङ्ग्या- ॥॥॥ ॥२५३ (क) ॥}

इत्यदौ {इति श्रीनियोगात्} इति वाच्यम् ॥

(२१) अमतः प्रकृतविरुद्धः परार्थो यत्र । यथा

{राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥२५४॥}
(कालिदासस्य रघुवम्श ११।२०)

अत्र प्रकृते रसे विरुद्धस्य शृङ्गारस्य व्यञ्जकोपरो ऽर्थः ॥५४॥

अर्थदोषानाह

अर्थो ऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ ङ्क्प्र्-क्_५५ ॥

सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ ङ्क्प्र्-क्_५६ ॥

साकाङ्क्षो ऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः ।
विध्यनुवादायुक्तस्त्यक्तपुनःस्वीकृतो ऽश्लीलः ॥ ङ्क्प्र्-क्_५७ ॥

दुष्ट इति सम्बध्यते । क्रंएणोदाहरणम् —-

(१) [अपुष्ट]

{अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥२५५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२६)

अत्रातिविततत्वादयो ऽनुपादाने ऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः न त्वसङ्गताः पुनरुक्ता वा ॥

(२) [कष्ट-अर्थ]

{सदा मध्ये यासामियममृतनि[ः]स्यन्दमधुरा
सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् ।
प्रसादं ता एता घनपरिचिताः केन महतां
महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ॥२५६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२७)

अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् प्रसन्ना भवन्तु । यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति सङ्क्षेपार्थः ॥

(३) [व्याहत-अर्थ]

{जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ॥२५७॥}
(भवभूतिस्य मालतीमाधव १।३६)

अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वम् उत्कर्षार्थमारोपयतीति व्याहतत्वम् ॥

(४) [पुनरुक्तः]

{कृतमनुमतमित्यादि ॥२५८[=३९]॥}
[कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्ध तेषां सभीमकिरीटिना-
मयमह[म]सृङ्मेदोमांसैः करोमि दिशां बलिम् ॥३९॥]
(भट्टनारायणस्य वेणीसंहार ३।२४)

अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः । यथा वा

{अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे
सेनानाथे स्थितेस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
कर्णालं सम्भ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां
ताते चापद्धितीये वहति रणधुरं को भयस्यावकाशः ॥२५९॥}
(भट्टनारायणस्य वेणीसंहार ३।७)

अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः ॥

(५) [दुष्क्रमः]

{भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव ।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ॥२६०॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२६)

अत्र मातङ्गस्य प्राङ्निर्देशो युक्तः ।

(६) [ग्राम्यः]

{स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते ।
तदपि साम्प्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम् ॥२६१॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

एषो ऽविदग्धः ॥

(७) [सन्दिग्धः]

{मात्सर्यमुत्सार्येत्यादि ॥२६२[=१३३]॥}
[मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु ।
सेव्या नितम्बाः किमु भूधराणाम् उत स्मरस्मेरविलासिनीनाम् ॥१३३॥]
(भर्तृहरिस्य शृङ्गारशतक, सुभाषितत्रिशती ३६)

अत्र प्रकरणाद्यभावे सन्देहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः ॥

(८) [निर्हेतुः]

{गृहीतं येनासीः परिभवभयान्नोचितमपि
प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया-
द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥२६३॥}
(भट्टनारायणस्य वेणीसंहार ३।१९)

अत्र [द्वितीय]शस्त्रमोचने हेतुर्नोपात्तः ॥

(९) [प्रसिद्धिविरोधः]

{इदं ते केनोक्तं कथय कमलातङ्कवदने
यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् ।
इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥२६४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र कामस्य चक्रं लोके ऽप्रसिद्धम् । यथा वा

(९अ)

{उपपरिसरं गोदावर्याः परित्यजताध्वगाः
सरणिमपरो मार्गस्त्वद्भवद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया
चरणलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥२६५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र पादाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः ।

({सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतोस्तमभूद्चिधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥२६६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२१)
अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुष्टम् ॥)

(१०) [विद्याविरोधः]

{सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः ।
नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥२६७॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १३२)

ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रण विरुद्धम् ।

(१० अ)

{अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते ।
षाडगुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ॥२६८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप २४०)

एतत् अर्थशास्त्रेण ।

(१० आ)

{विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना ।
बभार कान्तेन कृतां करजोल्लेखमालिकाम् ॥२६९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र केयूरपदे नखक्सटं न विहितमिति । एतत्कामशास्त्रेण ।

(१० इ)

{कष्टाङ्गयोगपरिशीलनकीलनेन
दुःसाधसिद्धिसविधं विदधद्विदूरे ।
आसादयन्नभिमतामधुना विवेक-
ख्यातिं समाधिधनमौलिमर्णिर्विमुक्तः ॥२७०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र विवेकख्यातिस्ततः सम्प्रज्ञातसमाधिः पश्चादसम्प्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ । एतत् योगशास्त्रेण ॥

एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम् ॥

(११) [अनवीकृतः]

{प्राप्ताः श्रियः सकलकामदुघास्ततः किम्
दत्तं पदं शिरसि विद्विषतां ततः किम् ।
सन्तर्पिताः प्रणयिनो विभवैस्ततः किम्
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥२७१॥}
(भर्तृहरिस्य वैराग्यशतक ६७)

अत्र ततः किमिति न नवीकृतम् । तत्तु यथा

{यदि दहत्यनलोत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥२७२॥}
(आनन्दवर्धनस्य देविशतक)

(१२) [सनियमपरिवृत्तः]

{यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधेर्-
उत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा ।
याताः प्राणभृतां मनोरथगतीरुल्लङ्घ्य यत्सम्पदस्
तस्याभासमणीकृताश्मसुमणेरश्मत्वमेवोचितम् ॥२७३॥}
(कुन्तकस्य वक्रोक्तिजीवित [१।२९])

अत्र {छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता} इति सनियमत्वं वाच्यम् ॥

(१३) [अनियमपरिवृत्तः]

{वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्षणं
स्वच्छेन्तर्मानसेस्मिन् कथमवनिपते तेम्बुपानाभिलाषः ॥२७४॥}
(बल्लालस्य भोजप्रबन्ध २३०)

अत्र {शोण एव} इति नियमो न वाच्यः ॥

(१४) [विशेषपरिवृत्तः]

{श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैर्
मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् ।
चन्द्रं चर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥२७५॥}
(राजशेखरस्य विद्धशालभञ्जिका ३।१)

अत्र ऽज्यौत्स्नीम्ऽ; इति श्यामाविशेषो वाच्यः ॥

(१५) [अविशेषपरिवृत्तः]

{कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम
या[ञ्च्]आप्रसारितकरः पुरुषोत्तमे ऽपि ॥२७६॥}
(भल्लटशतक ६२)

अत्र {एकेन किं न विहितो भवतः स नाम} इति सामान्यं वाच्यम् ।

(१६) [साकाङ्क्षः]

{अर्थित्वे प्रकटीकृते ऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥२७७॥}
(भवभ्तूतिस्य महावीरचरित २।९)

अत्र स्त्रीरत्नम् ऽउपेक्स्।इतुम्ऽ; इत्याकाङ्क्षति । नहि परस्येत्यनेन सम्बन्धो योग्यः ॥

(१७) [अपदयुक्तः]

{आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते
स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥२७८॥}
(राजशेखरस्य बालरामायण १।३६)

अत्र ऽस्याच्चेदेष न रावणःऽ; इत्यत्र एव समाप्यम् ॥

(१८) [सहचरभिन्नः]

{श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा ।
निशा शशाङ्केन धृतिःसमाधिना नयेन चालङ्क्रियते नरेन्द्रता ॥२७९॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १४०)

अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् ।

(१९) [प्रकाशितविरुद्धः]

{लग्नं रागावृताङ्ग्या- ॥॥॥। ॥२८०[=२४१]॥}
[लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥]
(वेणिदत्तस्य पद्यवेणी २)

इत्यत्र विदितं तेस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते ॥

(२०) [विध्ययुक्तः]

{प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा-
मकेशवमपाण्डवं भुवनमद्य निःसोमकम् ।
इयं परिसमाप्यते रणकथाद्य दोःशालिना-
मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥२८१॥}
(भट्टनारायणस्य वेणीसंहार ३।३४)

अत्र {शयितः प्रयत्नेन बोध्यसे} इति विधेयम् । यथा वा

{वाताहारतया जगद्विषधरैराश्वास्य निःशषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
ते ऽपि क्रुरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्-
दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥२८२॥}
(भल्लटशतक ८७)

अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम् ॥

(२१) [अनुवादायुक्तः]

{अरे रामाहस्ताभरण भसलश्रेणिशरण
स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन ।
सरोहंसोत्तम्स प्रचलदल नीलोत्पल सखे
सखेदो ऽहं मोहं श्लथय कथय क्वेन्दुवदना ॥२८३॥}
(कालिदासस्य विक्रमोर्वशीय)

अत्र ऽविहहिप्राणदमनऽ; इति नानुवाद्यम् ॥

(२२) [त्यक्तपुनःस्वीकृतः]

{लग्नं रागावृताङ्ग्येत्यादि ॥२८४=४१॥}
[लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥]
(वेणिदत्तस्य पद्यवेणी २)

अत्र {विदितं तेस्तु} इत्युपसंहृतो ऽपि तेनेत्यादिना पुनरुपात्तः ॥

(२३) [अश्लीलः]

{हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथास्य जायते पातो न तथा पुनरुन्नतिः ॥२८५॥}
(भामहस्य काव्यालङ्कार १।५१)
अत्र पुंव्यञ्जनस्यापि प्रतीतिः ॥

यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम् ॥५५-५७॥

कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
सन्निधानादिबोधार्थं ॥।

अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये । यथा

{अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् ।
तथैव शोभतेत्यर्थमस्याः श्रवणकुण्डलम् ॥२८६॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति २,२।१४)

{अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ॥२८७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र कर्णश्रवणशिरःशब्दाः सन्निधानप्रतीत्यर्थाः ॥

{विदीर्णाभिमुखारातिकराले सङ्गरान्तरे ।
धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ॥२८८॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति २,२।१३)

अत्र धनुःशब्द आरूठत्वावगतये ॥
अन्यत्र तु

{ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वमद्वक्त्रपरम्परेण ।
कारागृहे निर्जितवासवने लङ्केश्वरेणोषितमा प्रसादात् ॥२८९॥}
(कालिदासस्य रघुवम्श ६।२०)

इत्यत्र केवलो ज्याशब्दः ।

{प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥२९०॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति २,२।१५)

अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः ।

{सौन्दर्यसम्पत् तारुण्यं यस्यास्ते ते च विभ्रमाः ।
षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे ॥२९१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः । निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते ॥

॥। स्थितेष्वेतत्समर्थनम् ॥ ङ्क्प्र्-क्_५८ ॥

{न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते ।
जगाद मधुरां वाचं विशदाक्षरशालिनीम् ॥२९२॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति २,२।१८)

इत्यादौ क्रियाविशेषणत्वे ऽपि विवक्षितार्थप्रतीतिसिद्धौ {गतार्थस्यापि विशेष्यस्य विशेषणदानार्थं क्वचित्प्रयोगः कार्यः} इति न युक्तम् । युक्तत्वे वा

{चरणत्रपरित्राणरहिताभ्यामपि द्रुतम् ।
पादाभ्यां दूरमध्वानं व्रजन्नेष न खिद्यते ॥२९३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

इत्युदाहार्यम् ॥५८॥

ख्याते ऽर्थे निर्हेतोरदुष्टता- ॥।

यथा

{चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥२९४॥}
(कालिदासस्य कुमारसम्भव १।४३)

अत्र रात्रौ पद्मस्य सङ्कोचः दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति ऽन भुङ्क्ते ऽ; इति हेतुं नापेक्षते ॥

॥। अनुकरणे तु सर्वेषाम् ।

सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् । यथा

{मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् ।
पश्यैष च गवित्याह सूत्रामाणं यजेत च ॥२९५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १४७)

वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ ॥ ङ्क्प्र्-क्_५९ ॥

वकृप्रतिपाद्यव्यङ्गवाच्यप्रकरणादीनां महिम्ना दोषो ऽपि क्वचिदगुणः क्वचिन्न दोषो न गुणः । तत्र व्याकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्गे कष्टत्वं गुणः । क्रमेणोदाहरणम् —-

{दीर्घीङ्वेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते ॥२९६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ४३)

{यदा त्वामहमद्राक्षं पदविद्याविशारदम् ।
उपाध्यायं तदास्मार्षं समस्प्राक्षं च सम्मदम् ॥२९७॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १४९)

{अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण-
प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस-
द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥२९८॥}
(भवभ्तूतिस्य महावीरचरित १।३५)

वाच्यवशाद्यथा

{मातङ्गाः किमु विल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजथ किं शून्येषु शरा न के ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः
सिन्धुध्वानिनि हुङ्कृते स्फुरति यत् तद्गर्जितं गर्जितम् ॥२९९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र सिंहे वाच्ये परुषाः शब्दाः ॥
प्रकरणवशाद्यथा

{रक्ताशोक कृशोदरी क्क नु गता त्यक्त्वानुरक्तं जनं
नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः ।
उत्कण्ठाघटमानषड्पदघटासङ्घट्टदष्।टच्छद-
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमो ऽयं कुतः ॥३००॥}
(कालिदासस्य विक्रमोर्वशीय ४)

अत्र शिरोधूननेन कुपितस्य वचसि ॥
क्वचिन्नीरसे न गुणो न दोषः । यथा

{शीर्णघ्राणाङ्घ्रपाणीन् व्रणिभिरपघनैर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वोन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेर्
दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥३०१॥}
(मयूरस्य सूर्यशतक ६)

अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ । यथा

{येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो
यश्चोद्धृत्तभुजङ्गहारवलयोगङ्गां च योधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्युत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥३०२॥}
(वल्लभदेवस्य सुभाषितावलि ; अभिनवगुप्तस्य ध्वन्यालोकलोचन [२।२१,२२])

अत्र माधवपक्षे शशिमदन्धकक्षयशब्दाप्रयुक्तनिहतार्थौ ॥

अश्लीलं क्वचिद्गुणः । यथा सुरतारम्भगोष्ठ्याम् {द्व्यर्थेः
पदैः पिशुनयेच्च रहस्यवस्तु} इति कामशास्त्रस्थितौ

{करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥३०३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १५४)

शमकथासु

{उत्तानोच्छनमण्डूकपाटितोदरसन्निभे ।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥३०४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १५५)

{निर्वाणवैरदहनाः प्रशमादरीणां
नन्दन्तु पाण्डुतनया सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥३०५॥}
(भट्टनारायणस्य वेणीसंहार १।७)

अत्र भाव्यमङ्गकसूचकम् ॥

सन्दिग्धमपि वाच्यमहिम्ना क्वचिन्नियतार्थप्रतीतिकृत्त्वेन व्याजस्तुतिपर्यवसायित्वे गुणः । यथा

{पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥३०६॥}
(सुभाषितरत्नाकर १६४४)

प्रतिपाद्यप्रतिपादकयोर्ज्ञत्वे सत्यप्रतीतं गुणः । यथा

{आत्मारामा विहितरतयो निर्विकल्पे समादौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणं ॥३०७॥}
(भट्टनारायणस्य वेणीसंहार १।२३)

स्वयं वा परामर्शे । यथा

{षडधिकदशनाडीचक्रमध्यस्थितात्मा
हृदि विनिहितरूपः सिद्धिदस्तद्धितां यः ।
अविचलितमनोभिः साधकैर्मृग्यमाणः
स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥३०८॥}
(भवभूतिस्य मालतीमाधव ५।१)

अधमप्रकृत्युक्तिषु ग्राम्यो गुणः । यथा

{फुल्लुक्करं कलमकूरणिहं वहन्ति
जे सिन्धुवारविडवा मह वल्लहा दे ।
जे गालिदस्स महिसीदहिणो सरिच्छा
दे किं च मुद्धवि_अ_इल्लपसूणपुञ्जा ॥३०९॥}
[पुष्पोत्करं कलमभक्तनिभं वहन्ति
ये सिन्धुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदघ्नः सदृक्षा
स्तेकिं च मुग्धविचकिलप्रसूनपुञ्जाः ॥]
(राजशेखरस्य कर्पूरमञ्जरी १।१९)

अत्र कलमभक्तमहिषीदधिशब्दा ग्राम्या अपि विदूषकोक्तौ ॥
न्यूनपदं क्वचिद्गुणः । यथा

{गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३१०॥}
(अमरुशतक ३६)
क्वचिन्न गुणो न दोषः । यथा

{तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावाद्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः ॥३११॥}
(कालिदासस्य विक्रमोर्वशीय ४।९)

अत्र पिहिता इत्यतोनन्तरं ऽनैतद्यतःऽ; इत्येतैर्न्यूनैः पदैर्विशेषबुद्धेरकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते इति न दोषः ॥

अधिकपदं क्वचिद्गुणः । यथा

{यद्वञ्चनाहितमतिर्बहुचाटुगर्भं
कार्योन्मुखः खलजनः क्र्टकं ब्रवीति ।
तत्साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥३१२॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।१६)

अत्र {विदन्ति} इति द्वितीयमन्ययोगव्यवच्छेदपरम् । यथा वा

{वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति ।
चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ॥३१३॥}
(रुद्रटस्य काव्यालङ्कार ६।३०)

इत्येवमादौ हर्षभयादियुक्ते वक्तरि ॥

कथितपदं क्वचिद्गुणः लाटानुप्रासे अर्थान्तरसङ्क्रमितवाच्ये विहितस्यानुवाद्यत्वे च । क्रमेणोदाहरणम् —-

{सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥३१४(च्फ़्।३५९)॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १९५)

{ताला जा_अन्ति गुणा जाला दे सहि_अ_एंहि घेप्पन्ति ।
र_इकिरणाणुग्गहि_आ_इं होन्ति कमला_इं कमला_इं ॥३१५॥}
[तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥]
(हालस्य गाथासप्तशती ९८९ ; अभिनवगुप्तस्य ध्वन्यालोकलोचन; आनन्दवर्धनस्य विषमबाणलीला)

{जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥३१६॥}
(वल्लभदेवस्य सुभाषितावलि)

{पतत्प्रकर्षमपि क्वचिद्गुणः । यथा उदाहृते प्रागप्राप्त-इत्यादौ ॥३१७॥}
(भवभ्तूतिस्य महावीरचरित २।३३)

समाप्तपुनरात्तं क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थः पुनर्ग्रहणम् अपि तु वाक्यान्तरमेव क्रियते । यथा

{अत्रैव प्रागप्राप्त इत्यादौ ॥३१८॥}

अपदस्थसमासं क्वचिद् गुणः । यथा

{उदाहृते रक्ताशोकैत्यादौ ॥३१९॥}

गर्भितं तथैव । यथा —-

{हुमि अवहत्थि_अरेहो णिरङ्कुसो अह विवे_अरहि_ओ वि ।
सिविणे वि तुमम्मि पुणो पत्तिहि भत्तिं ण पसुमरामि ॥३२०॥}
[भवाम्यपहस्तितरेखो निरङ्गुशो ऽथ विवेकरहितो ऽपि ।
स्वप्ने ऽपि त्वयि पुनः प्रतीहि भक्तिं न प्रस्मरामि ॥]
(आनन्दवर्धनस्य विषमबाणलीला ; अभिनवगुप्तस्य ध्वन्यालोकलोचन)

अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय । एवमन्यदपि लक्ष्याल्लक्ष्यम् ॥५९॥

व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ ङ्क्प्र्-क्_६० ॥

प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ ङ्क्प्र्-क्_६१ ॥

अङ्गिनो ऽननुसन्धानं प्रकृतीनां विपर्ययः ।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ ङ्क्प्र्-क्_६२ ॥

(१) स्वशब्दोपादानं व्यभिचारिणो यथा
{सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रे ऽमृतस्यन्दिनि ।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥३२१॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १६४)

अत्र व्रीडादीनाम् ।

{व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे
सोत्कम्पा भुजगे निमेषरहिता चन्द्रेमृतस्यन्दिनि ।
मीलद्भूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे}

इत्यादि तु युक्तम् ॥

(२) रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम् । क्रमेणोदाहरणम् —-

{तामनङ्गजयमङ्गलश्रियं किञ्चिदुच्चभुजमूललोकिताम् ।
नेत्रयोः कृतवतो ऽस्य गोचरे को ऽप्यजायत रसो निरन्तरः ॥३२२॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १६६)

{आलोक्य कोमलकपोलतलाभिषिक्त
व्यक्तानुरागसुभगामभिराममूर्तिम् ।
पश्यैष बाल्यमतिवृत्य विवर्तमानः
शृङ्गारसीमनि तरङ्गितमातनोति ॥३२३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

(३) स्थायिनो यथा

{सम्प्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
ठणत्कारैः श्रुतिगतैरुत्साहस्तस्य को ऽप्यभूत् ॥३२४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १६७)

अत्रोत्साहस्य ॥

(४)

{कर्पूरधूलिधवलद्युतिपूरधौत-
दिङ्मण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरो ऽंशुकनिवेशविशेषकॢ।प्ति-
व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥३२५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावपर्यवसायिनः स्थिता इति कष्टकल्पना ॥

(५)

{परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥३२६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र रतिपरिहारादीनामनुभावानां करुणादावपि सम्भवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः ॥

(६)
{प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥३२७॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ; शार्ङ्गधरपद्धति)

अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी उपात्तः ॥

{णिहु_अरमणम्मि लो_अणपहम्मि पडि_ए गुरु_अणमज्झम्मि ।
स_अलपरिहारहि_अ_आ वणगमणं एव्व मह_इ वहू ॥३२८॥}
[निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये ।
सकलपरिहारहृदया वनमनमेवेच्छति वधूः ॥]
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत् न दोषः ॥

(७) दीप्तिः पुनः पुनर्यथा कुमारसम्भवे रतिविलापे ॥

(८) अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेङ्केनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम् ।

(९) अकाण्डे छेदो यथा वीरचरिते द्वितीयेङ्के राघवभार्गवयोर्धाराधिरूढे वीररसे {कङ्कणमोचनाय गच्छामि} इति राघवस्योक्तौ ॥

(१०) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् । यथा हयग्रीववधे हयग्रीवस्य ॥

(११) अङ्गिनो ऽननुसन्धानम् । यथा रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ॥

(१२) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च वीररौद्रशृङ्गारशान्तरसप्रधाना
धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः उत्तमाधममध्यमाश्च । तत्र रतिहासशोकाद्भुतानि अदिव्योत्तमप्रकृतिवत् दिव्येष्वपि । किं तु रतिः सम्भोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम् ।

{क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥३२९॥}
(कालिदासस्य कुमारसम्भव ३।३२)

इत्युक्तवत् भ्रुकुट्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगसमुद्रोल्लङ्घनाद्युत्साहश्च दिव्येष्येव । अधिकं तु निबध्यमानमसत्यप्रतिभासेन ऽनायकवद्वर्तितव्यं न प्रतिनायकवत्ऽ; इत्युपदेशे न पर्यवस्येत् । दिव्यादिव्येषु उभयथापि । एवमुक्तस्यौचित्यस्य दिव्यादीनामिव धीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः । तत्रभवन् भगवन्नित्युत्तमेन न अधमेन मुनिप्रभृतौ न राजादौ भट्टारक-इति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम् । एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबन्द्धव्यम् ॥

(१३) अनङ्गस्य रसानुपकारकस्य वर्णनम् । यथा कर्पूरमञ्जर्या नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञा प्रशंसनम् ॥
{ईदृशाः} इति । नायिकापादप्रहारादिना नायककोपादिवर्णनम् । उक्तं हि ध्वनिकृता

{अनौचित्यादृत्ते नान्यद् रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥} इति ॥६०-६२॥

इदानीं क्वचिददोषा अप्येते इत्युच्यन्ते ।

न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचिद् ।

यथा

{औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥३३०॥}
(हर्षस्य रत्नावलि १।२)

अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एव ऽदूरादुत्सुकम्ऽ; इत्यादौ व्रीडाप्रेमाद्यनुभावानां । विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ॥

सञ्चार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ ङ्क्प्र्-क्_६३ ॥

बाध्यत्वेनोक्तिर्न परमदोषः यावत् प्रकृतरसपरिपोषकृत् । यथा

{ऽक्वाकार्यं शशलक्ष्मणः क्व च कुलम्ऽ; इत्यादौ ॥३३१[=५३]॥}
[क्वाकार्यं शशलक्षणः क्व च कुलं भूयो ऽपि दृश्येत सा
दोषाणां प्रशमाय न श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति ॥५३॥]
(कालिदासस्य विक्रमोर्वशीय ४।४)

अत्र वितर्कादिषु उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः ॥

{पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥३३२॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन)

इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥

{सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥३३३॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।३०)

इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्यम् । जीवितादपि अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभङ्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेर्ः । न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात् । नापि काव्यशोभाकरणं रसान्तरादनुप्रासमात्राद्वा तथाभावात् ॥६३॥

आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ ङ्क्प्र्-क्_६४ ॥

वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिप्रक्षगतत्वेन भयानको निवेशयितव्यः । शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् यथा नागानन्दे शान्तस्य जीमूतवाहनस्य ऽअहो गीतम् अहो वादित्रम्ऽ; इत्यद्भूतमन्तर्निवेश्य
मलयवतीं प्रति शृङ्गारो निबद्धः । न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते । यथा

{भूरेणुदिग्धान् नवपारिजात-
मालारजोवासितबाहुमध्या ।
गाढं शिवाभिः परिरभ्यमाणान्
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥३३४॥}
(आनन्दवर्दनस्य ध्वन्यालोक)

{सशोणितैः क्रव्यभुजां स्फुरद्भिः
पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसेकैः
सुगन्धिभिः कल्पलतादुकूलैः ॥३३४॥(अ)॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{विमानपर्यङ्कतले निषण्णाः
कुतूहलाविष्टितया तदानीम् ।
निर्दिश्यमानान् ललनाङ्गुलीभिर्-
वीराः स्वदेहान् पतितानपश्यन् ॥३३५॥}
(आनन्दवर्दनस्य ध्वन्यालोक)

अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः ॥६४॥

स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ ङ्क्प्र्-क्_६५ ॥

{अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥३३६॥}
(महाभारत स्त्रीपर्वन् २४-१९)

एतद् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ । अत्र पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं परिपोषयति ॥

{दन्तक्षतानि करजैश्च विपाटितानि
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥३३७॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।४३)

अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य । यथा वा परः शृङ्गारी तदलोकनात्सस्पृहस्तद्वत् एतद्दृशो मुनय इति साम्यविवक्षा ॥

{क्रामन्त्यः क्षतकोमललाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौतानना ।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योधुना
दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥३३८॥}
(आनन्दवर्दनस्य ध्वन्यालोक ३।२०)

अत्र चाटुके राजविषया रतिः प्रतीयते । तत्र करुण इव शृङ्गारो ऽप्यङ्गमिति तयोर्न विरोधः । यथा

{एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः ॥३३९॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।४४)

इत्यत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोः आगमनगमनयोर्न विरोधः ।

{क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानो ऽंशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् योवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाभवो वः शराग्निः ॥३४०॥}
(अमरुशतक २)

इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणो ऽङ्गम् । तस्य तु शृङ्गारः । तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव । अथवा प्राक् यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेण मुख्य एवार्थ उपोद्बल्यते ।
उक्तां हि

{गुणः कृतात्मसंस्कारः प्रधानं प्रतिमद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥} इति ॥
(ध्वन्यालोकलोचन ३।२२)

प्राक्प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः नाप्यङ्गाङ्गिभावो भवति इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते ॥६५॥

इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः ॥७॥

====================================================

अथ अष्टम उल्लासः

एवं दोषानुक्त्वा गुणालङ्कारविवेकमाह –

ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ ङ्क्प्र्-क्_६६ ॥

आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् ॥
क्वचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनात् ऽआकार एवास्य शूरःऽ; इत्यादेर्व्यवहारादन्यत्राशूरे ऽपि वितताकृतित्वमात्रेण {शूरःऽ; इति क्वापि शूरे ऽपि मूर्तिलाघवमात्रेण ऽअशूरः} इति अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां
वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां
तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिबन्ध्या
व्यवहरन्ति । अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु
वर्णमात्राश्रयाः । यथैषां व्यञ्जकत्वम् तथोदाहरिष्यते ॥६६॥

उपकुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयः ॥ ङ्क्प्र्-क्_६७ ॥

ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं सम्भविनम् उपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणो ऽपि उपकारका हारादय इवालङ्काराः । यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः । क्वचित्तु सन्तमपि नोपकुर्वन्ति ।
यथाक्रममुदाहरणानि —-

{अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥३४१॥}
(दामोदरगुप्तस्य कुट्टनीमत १०२)

इत्यादौ वाचकमुखेन

{मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥३४२॥}
(भवभूतिस्य मालतीमाधव २।१)

इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः ॥

{चित्ते चिहुत्टदि ण टुट्टदि सा गुणेसुं
सेज्जासु लोट्टदि विसप्पदि दिमुंहेसुं ।
बोलम्मि वट्टदि पवट्टदि कव्वबन्धे
झाणेण टुट्टदि चिरं तरुणी तरट्टी ॥३४३॥}
[चित्ते विघटते न त्रुट्यति सा गुणेषु
शय्यासु लुठति विसर्पति दिङ्मुखेषु ।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ॥]
(राजशेखरस्य कर्पूरमञ्जरी २।४)

इत्यादौ वाचकमेव ।

{मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् ।
चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता
कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥३४४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १७६)

इत्यादौ वाच्यमेव न तु रसम् । अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा ॥
एष एव च गुणालङ्कारप्रविभागः । एवं च “समवायवृत्त्या शौर्यादयः संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेदः । ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरिति
गड्डलिकाप्रवाहेणैवैषां भेदः” इत्यभिधानमसत् ॥

यदप्युक्तम् {काव्यशोभायाः कर्तारो धर्मा गुणास् तदतिशयहेतवस्त्वलङ्काराः} इति तदपि न युक्तम् । यतः किं समस्तैर्गुणैः काव्यव्यवहारः उत कतिपयैः । यदि समस्तैः तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः काव्यस्यात्मा ।
अथ कतिपयैः ततः

{अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ॥३४५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ११४)

इत्यादावोजः प्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः ।

{स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी ।
अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥३४६॥}

इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ ॥६७॥

इदानीं गुणानां भेदमाह

माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।

एषां क्रमेण लक्षणमाह

आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ ङ्क्प्र्-क्_६८ ॥

शृङ्गारे अर्थात् सम्भोगे । द्रुतिर्गलितत्वमिव । श्रव्यत्वं पुनरोजःप्रसादयोरपि ॥६८॥

करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।

[अतिशयान्वितमिति] अत्यन्तद्रुतिहेतुत्वात् ॥

दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ङ्क्प्र्-क्_६९ ॥

चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः ॥६९॥

बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।

वीराद्वीभत्से ततो सातिशयमोजः ॥

शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ ङ्क्प्र्-क्_७० ॥

व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ।

अन्यदिति । व्याप्यमिह चित्तम् । सर्वत्रेति । सर्वेषु रसेषु सर्वासु रचनासु च ॥

गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ ङ्क्प्र्-क्_७१ ॥

गुणवृत्त्या उपचारेण । तेषाङ्गुणानाम् । आकारे शौर्य्स्येव ॥७०-७१॥

कुतस्त्रय एव न दश इत्याह

केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ ङ्क्प्र्-क्_७२ ॥

बहुनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः यश्चारोहाबरोहक्रमरूपः समाधिः या च विकटत्वलक्षणा उदारता यश्चौजोमिश्रितशैथिल्यात्मा प्रसादः
तेषामोजस्तन्तर्भावः । पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम् । प्रसादेनार्थव्यक्तिर्गृहीता । मार्गाभेदरूपा समता क्वचिद्दोषः । तथाहि {मातङ्गाः किमु वल्गतैः} इत्यादौ सिंहाभिधाने मसृणमार्गत्वायो गुणः । कष्टत्वग्राम्यत्वयोर्दुष्टाभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्च स्वीकृता ॥

एवं न दश शब्दगुणाः ॥

{पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा ।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥}
(वामन, काव्यालङ्कारसूत्रवृत्ति ३,२।२)

इति या प्रौढिः ओज इत्युक्तं तद् वैचित्र्यमात्रम् न गुणः । तदभावे ऽपि काव्यव्यवहारप्रवृत्तेः । अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च
साभिप्रायत्वरूपमोजः अर्थवैमल्यात्मा प्रसादः उक्तिवैचित्र्यरूपं माधुर्यम् अपारुष्यरूपं सौकुमार्यम् अग्राम्यत्वरूपा उदारता च स्वीकृतानि । अभिधास्यमानस्वभावोक्त्यलङ्कारेण रसध्वनिगुणीभूतव्यङ्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्तिः, दीप्तरसत्वरूपा कान्तिश्च स्वीकृता । क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषो ऽपि विचित्रत्वमात्रम् । अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः । कः खल्वनुन्मत्तोन्यस्य
प्रस्तावेन्यदभिदध्यात् । अर्थस्यायोनेर्ऽन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् इत्यर्थदृष्टिरूपः समाधिरपि न गुणः ॥७२॥

तेन नार्थगुणा वाच्याः ॥।

न वाच्याः न वक्तव्याः ॥

॥। प्रोक्ताः शब्दगुणाश्च ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ ङ्क्प्र्-क्_७३ ॥

के कस्य इत्याह

मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ ङ्क्प्र्-क्_७४ ॥

टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः तथा रेफणकारौ ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका ॥ उदाहरणम्

{अनङ्गरङ्गप्रतिअं तदङ्गं
भङ्गीभ्रङ्गीकृतमानताङ्ग्याः ।
कुर्वन्ति यूनां सहसा यथैताः
स्वान्तानि शान्तापरचिन्तनानि ॥३४७॥७४॥।}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १७९)

योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ ङ्क्प्र्-क्_७५ ॥

वर्गप्रथमतृतीयाभ्यामन्त्ययोः द्वितीयचतुर्थयोः रेफेण अध उपरि उभयत्र वा यस्य कस्यचित् तुल्ययोः तेन तस्यैव सम्बन्धः टवर्गो ऽर्थात् णकारवर्जः शकारषकारौ दीर्घसमासः विकटा सङ्घटना ओजसः ।
उदाहरणम् —-

{मूर्ध्नामुद्धृत्तक्र्ट्त_इत्यादि ॥३४८[=१५९(इन्चोर्र्।२८५)]॥७५॥}
[मूर्द्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् ।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्रयासः ॥१५९॥]
(हर्षस्य नागानन्द ८)

श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥ ङ्क्प्र्-क्_७६ ॥

समग्राणां रसानां सङ्घटनानां च । उदाहरणम्

{परिम्लानं पीनस्तनजघनसङ्गादुभयतस्-
तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ॥३४९॥७६॥}
(कालिदासस्य रघुवम्श २।१२)

यद्यपि गुणपरतन्त्राः सङ्घटनादयस्तथापि

वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ ङ्क्प्र्-क्_७७ ॥

क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । यथा

{मन्थायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।
कृष्।णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोसौ ॥३५०॥}
(भट्टनारायणस्य वेणीसंहार १।२२)

अत्र हि न वाच्यं क्रोधादिव्यञ्जकम् । अभिनेयार्थं च च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः । वक्ता चात्र भीमसेनः ॥
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रचनादयः ॥
यथा

{प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात-
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।
कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥३५१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते ॥
तथाहि —-
आख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः । कथायां रौद्रे ऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रे ऽपि न दीर्घसमासादयः ॥
एवमन्यदपुऔचित्यमनुसर्तव्यम् ॥७७॥

इति काव्यप्रकाशे गुणालङ्कारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः ॥८॥

=======================================================

अथ नवम उल्लासः

गुणविवेचने कृते ऽलङ्काराः प्राप्तावसराः इति सम्प्रति शब्दालङ्कारानाह —-

यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा ॥ ङ्क्प्र्-क्_७८ ॥

तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तर पदभङ्गश्लेषेण यथा

{नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो
वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् ।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः
सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः ॥३५२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अभङ्गश्लेषेण यथा

{अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥३५३॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

काक्वा यथा

{गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमये ऽसौ ॥३५४॥७८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १९१)

वर्णसाम्यमनुप्रासश् ॥।

स्वरवैसादृश्ये ऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् । रसाद्यनुगतः प्रकृष्टो न्यासो ऽनुप्रासः ॥

॥। छेकवृत्तिगतो द्विधा ।

छेकाः विदग्धाः । वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः । गत इति छेकानुप्रासो वृत्त्यनुप्रासश्च ॥
किं तयोः स्वरूपम् इत्याह —-

सो ऽनेकस्य सकृत्पूर्वः ॥।

अनेकस्य अर्थात् व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः । उदाहरणम्

{ततो ऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥३५५॥}
(कुन्तकस्य वक्रोक्तिजीवित १।१९)

॥। एकस्याप्यसकृत्परः ॥ ङ्क्प्र्-क्_७९ ॥

एकस्य अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्त्यनुप्रासः ॥७९॥
तत्र

माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते ।
ओजःप्रकाशकैस्तैस्तु परुषा ॥।

उभयत्रापि प्रागुदाहृतम् ।

॥। कोमला परैः ॥ ङ्क्प्र्-क्_८० ॥

परैः शेषैः । तामेव केचित् ग्राम्येति वदन्ति । उदाहरणम्

{अपसारस्य घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणाकैरिति वदति दिवानिशं बाला ॥३५६[=३४१]॥}
(दामोदरगुप्तस्य कुट्टनीमत १०२)
॥८०॥

केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ।

एतास्तिस्रो वृत्तयः वामानादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः ॥

शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ ङ्क्प्र्-क्_८१ ॥

शब्दगतो ऽनुप्रासः शब्दार्थयोरभेदे ऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः । एष पदानुप्रास इत्यन्ये ॥८१॥

पदानां सः ॥।

स इति लाटानुप्रासः । उदाहरणम्

{यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥३५७॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १६१)

॥। पदस्यापि ॥।

अपिशब्देन स इति समुच्चीयते । उदाहरणम्

{वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः ।
सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ॥३५८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १९४)

॥। वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृत्त्यवृत्त्योश्च ॥।

एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । उदाहरणम्

{सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥३५९ [=३१४]॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १९५)

॥। तदेवं पञ्चधा मतः ॥ ङ्क्प्र्-क्_८२ ॥

अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।
यमकं ॥।

समरसमरसो ऽयमित्यादावेकेषामर्थवत्त्वे अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति अर्थे सतीत्युक्तम् । सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता ।

॥। पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ ङ्क्प्र्-क्_८३ ॥

प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति सप्त । प्रथमो द्वितीये तृतीयश्चतुर्थे प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वे । तदेवं पादजं नवभेदम् । अर्धावृत्तिः श्लोकावृत्तिश्चेति द्वे ।

द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु अन्तभागो ऽनन्तभागेष्विति विंशतिर्भेदाः श्लोकान्तरे हि नासौ भागावृत्तिः । त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत् ।

प्रथमपादादिगतान्त्यार्घादिभागो द्वितीयपादादिगते आद्यार्धादिभागे यम्यते इत्याद्यन्वर्थतानुसरणेनानेकभेदम् । अन्तादिकम् । आद्यन्तिकम् । तत्समुच्छयः । मध्यादिकम् । आदिमध्यम् । अन्तमध्यम् । मध्य्ञ्तिकम् । तेषां समुच्चयः । तथा तस्मिन्नेव पादे
आद्यादिभागानां मध्यादिभागे अनियते च स्थाने आवृत्तिरिति प्रभूततमभेदम् । तदेतत्काव्यान्तर्गडुभूतम् इति नास्य भेदलक्षणं कृतम् । दिङ्मात्रमुदाह्रियते ।

{सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणोमायस्ततस्त्वं पृथिवीं जय ॥३६०॥}
(रुद्रटस्य काव्यालङ्कार १०।२७)

{विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना ।
महाजनोदीयत मानसादरं महाजनोदी यतमानसादरम् ॥३६१॥}
(रुद्रटस्य काव्यालङ्कार ३।५)

{स त्वारम्भरतोवश्यमबलं विततारवम् ।
सर्वदा रणमानैषीदवानलसमस्थितः ॥३६२॥}
(रुद्रटस्य काव्यालङ्कार ३।१८)

{सत्त्वारम्भरतोवश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः ॥३६३॥}
(रुद्रटस्य काव्यालङ्कार३-१९)

{अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् ।
या च मातेव भजते प्रणते मानवे दयाम् ॥३६४॥}
(आनन्दवर्धनस्य देविशतक १)

{यदानतो ऽयदा नतो नयात्ययं न यात्ययम् ।
शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥३६५॥}
(आनन्दवर्धनस्य देविशतक ४९)

{सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति ।
सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥३६६॥}
(आनन्दवर्धनस्य देवीशतक ५०)

{ससार साकं दर्पणे कन्दर्पेण ससारसा ।
शरन्नवाना बिभ्राणा नाविभ्राणा शरन्नवा ॥३६७॥}
(रुद्रटस्य काव्यालङ्कार ३।३५)

{मधुपराजिपराजितमानीजनमनःसुमनःसुरभि श्रियम् ।
अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत् ॥३६८॥}
(रत्नाकरस्य हरविजय ३।५७)

एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम् ॥८३॥

वाच्यभेदेन भिन्ना तद् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषो ऽसावक्षरादिभिरष्टधा ॥ ङ्क्प्र्-क्_८४ ॥

{अर्थभेदेन शब्दभेदः} इति दर्शने {काव्यमार्गे स्वरो न गण्यते} इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नुवते स श्लेषः ।
स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचन्ञनां भेदादष्टधा । क्रमेणोदाहरणम् —-

[(१) वर्ण]

{अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी अव्सु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोर्ऽपि भवति सर्वामरगुरोर्-
विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥३६९॥}
(सुभाषितरत्नाकर १३४४)

[(२) पद]

{पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥३७०[=३०६]॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

[(३) लिङ्ग, (८) वचन]

{भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥३७१॥}
(वल्लभदेवस्य सुभाषितावलि)

एष वचनश्लेषो ऽपि ।

[(४) भाषा]

{महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसर_उमे सहसा ॥३७२॥}
[मम देहि रसं धर्मे तमोअशाम् आशां गमागमात् हर नः ।
हरवधु शरणं त्वं चित्तमोहो ऽपसरतु मे सहसा ॥]
(हालस्य गाथासप्तशती ९९१ ; आनन्दवर्धनस्य देविशतक)

[(५) प्रकृति]

{अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥३७३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

[(६) प्रत्यय]

{रजनिरमणमौलेः पादपद्मावलोक-
क्षणसमयपराप्तापूर्वसंसहस्रम् ।
प्रमथनिवहमध्ये जातुचित्त्वत्प्रसादाद्
अहमुचितरुचिः स्यान्नन्दिता सा तथा मे ॥३७४॥}

[(७) विभक्ति]

{सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसाम्मुख्यमायासि तनुवर्तनम् ॥३७५॥८४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् ।

नवमोपीत्यपिर्भिन्नक्रमः । उदाहरणम् —-

{योसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः ।
शतकोटिदतां बिभ्रद्चिबुधेन्द्रः स राजते ॥३७६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २०१)

अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ ॥

ननु स्वरितादिगुणभेदाद् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धे ऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषो ऽर्थश्लेषश्चेति द्विविधो ऽप्यर्थालङ्कारमध्ये परिगणितो ऽन्यैरिति कथमयं शब्दालङ्कारः ।

उच्यते —- इह दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभागः सः अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथाहि —- कष्टवादिगाढत्वाद्यनुप्रासादयः व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।

स्वयं च पल्लवाताम्रभास्वत्करविराजिता । इत्यभङ्गः
{प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥३७७॥}
इति सभङ्गः इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नं
न त्वाद्यस्यार्थश्लेषत्वम् । अर्थश्लेषस्य तु स विषयः यत्र शब्दपरिवर्तने ऽपि न श्लेषत्वखण्डना । यथा

{स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥३७८॥}
(कालिदासस्य पञ्चस्तवी १।१५०)

न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा । तथापि —- यथा
{कमलमिव मुखं मनोज्ञमेतत्कचतितराम्} इत्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा । तथा ऽसकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिवऽ; इत्यादौ शब्दमात्रसाम्ये ऽपि सा युक्तैव । तथा ह्युक्तं रुद्रटेन

{स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ किं तु ।
आश्रित्य शब्दमात्रं स्श्मान्यमिहापि सम्भवतः ॥} इति ।
(रुद्रट, काव्यालङ्कार)

न च {कमलमिव मुखम्} इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तं युक्तं पूर्णोपमाया निर्विषयत्वापत्तेः ॥

{देव त्वमेव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥३७९॥}

इत्यादिः श्लेषस्य चोपमाद्यलङ्कारविविक्तोस्ति विषय इति । द्वयोर्योगे सङ्कर एव । उपपत्तिपर्यालोचने तु उपमाया एवायं युक्तो विषयः । अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् ।
न च ऽअबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुकाऽ; इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात् । न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः ।
तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव । तथा च

{ सद्वंशमुक्तामणिः ॥३८०॥}
(रुद्रटस्य काव्यालङ्कार १०।२७)

{नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान् ॥३८१॥}

{अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥३८२॥}
(आनन्दवर्दनस्य ध्वन्यालोक १।९)

{आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ॥३८३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

इत्यादावेकदेशविवर्तिरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितं न तु श्लेषत्वम् ॥
शब्दश्लेष इति चोच्यते अर्थालङ्कारमध्ये च लक्ष्यते इति को ऽयं नयः । किं च चैचित्र्यमलङ्कार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रेव विचित्रता इति सैवालङ्कारभूमिः । अर्थमुखप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति ते ऽप्यर्थालङ्काराः किं नोच्यन्ते । रसादिव्यञ्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वे ऽपि ह्यनुप्रासादीनाम्
अलङ्कारता । शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता । अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव व्यवस्थितिरिति ते ऽपि शब्दगतत्वेनोच्यन्ताम् । {विधौ वक्रे मूर्ध्नि} इत्यादौ च वर्णादिश्लेषे एकप्रयत्नोच्चार्यत्वे ऽर्थश्लेषत्वं शब्दभेदे ऽपि प्रसज्यतामित्येवमादि स्वयं
विचार्यम् ॥

तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ ङ्क्प्र्-क्_८५ ॥

सन्निवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् । कष्टं काव्यमेतदिति दिङ्मात्रं प्रदर्श्यते । उदाहरणम् —-

{मारारिशक्ररामेभमुखैरासाररंहसा ।
सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ॥३८४॥}
(रुद्रटस्य काव्यालङ्कार ५।६)

{माता नतानां सङ्घट्टःश्रियां बाधितसम्भ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥३८५॥}
(रुद्रटस्य काव्यालङ्कार ५।७)
(खङ्गबन्धः)

{सरला बहुलारम्भतरलालिबलारवा ।
वारलाबहुलामन्दकरलाबहुलामला ॥३८६॥}
(रुद्रटस्य काव्यालङ्कार ५।१९)
(मुरजबन्धः)

{भासते प्रतिभासार रसाभाताहताविभा ।
भावितात्मा शुभा वादे देवाभा बत ते सभा ॥३८७॥}
(रुय्यकस्य अलङ्कारसर्वस्व)
(पद्मबन्धः)

{रसासार रसा सारसायताक्षक्षतायसा ।
सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥३८८॥}
(रुद्रटस्य काव्यालङ्कार ३।३९९)
(सर्वतोभद्रम्)

सम्भविनो ऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते ॥८५॥

पुनरेक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव ॥।

भिन्नरूपसार्थकानर्थकशब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः । स च

॥। शब्दस्य ॥।

सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः । उदाहरणम् —-

{अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥३८९॥}
(उद्भटस्य काव्यालङ्कारसारसङ्ग्रह १)

{चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥३९०॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २०७)

॥। तथा शब्दार्थयोरयम् ॥ ङ्क्प्र्-क्_८६ ॥

उदाहरणम् —-

{तनुवपुरजघन्यो ऽसौ करिकुञ्जररुधिररक्तखरनखरः ।
तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ॥३९१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रैकस्मिन् पदे परिवर्तिते नालङ्कार इति शब्दाश्रयः अपरस्मिंस्तु परिवर्तिते ऽपि स न हीयते इत्यर्थनिष्ठ इत्युभयालङ्कारो ऽयम् ॥८६॥

इति काव्यप्रकाशे शब्दालङ्कारनिर्णयो नाम नवम उल्लासः ॥

=========================================================

अथ दशम उल्लासः

अर्थालङ्कारानाह

साधर्म्यमुपमा भेदे ॥।

उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्यं भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा ।

॥। पूर्णा लुप्ता च ॥।

उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता ॥

॥। साग्रिमा ।

श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ ङ्क्प्र्-क्_८७ ॥

अग्रिमा पूर्णा ।
यथेवादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमानविशेषणान्येते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत् सम्बन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा ।
तथैव {तत्र तस्येव} इत्यनेनेवार्थे विहितस्य वतेरुपादाने ॥

{तेन तुल्यं मुखम्} इत्यादावुपमेये एव {तत्तुल्यमस्य} इत्यादौ चोपमाने एव {इदं च तच्च तुल्यम्} इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिशन्दोपादाने आर्थी तद्वत् ऽतेन तुल्यं क्रिया चेद्वतिःऽ; इत्यनेन
विहितस्य वतेः स्थितौ ।

{इवेन नित्यसमासो विभक्त्यपोलः पूर्वपदकृतिस्वरत्वं च} इति नित्यसमासे इवशब्दयोगे समासगा ॥ क्रमेणोदाहरणम् —-

{स्वप्ने ऽपि समरेषु त्वां विजयश्रीर्न मुञ्छति ।
प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥३९२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति ।
सरसिजमिदमाननं च तस्याः सममिति चेतसि सम्मदं विधत्ते ॥३९३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २११)

{अत्यायतैर्नियमकारिभिरुद्धतानां
दिव्यैः प्रभाभिरनपायमयैरुपायैः ।
शौरिर्भुजैरिव चतुर्भिरदः सदा यो
लक्ष्मीविलासभवनैर्भुवनं बभार ॥३९४॥}
(शिवस्वामिन्स्य कप्फिनाभ्युदय १।३९)

{अवितथमनोरथपथप्रथनेषु प्रगुण गरिमगीतश्रीः ।
सुरतरुसदृशः स भवान् अभिलषणीयः क्षितीश्वरो न कस्य ॥३९५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{गाम्भीर्यगरिमा तस्य सत्यङ्गङ्गाभुजङ्गवत् ।
दुरालोकः स समरे निदाघाम्बररत्नवत् ॥३९६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

स्वाधीनपतिका कान्तं भजमाना यथां लोकोत्तरचमत्कारभूः तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम् । वैचित्र्यं चालङ्कारः । तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः । अपि तु वाच्य वैचित्यप्रतिभासादेव ॥
रसादिस्तु व्यङ्ग्योर्ऽर्थालङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलङ्कारा उदाहृताः । तद्रहितत्वेन तु उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरचिरुद्धाभिधानमिति न चोदनीयम् ॥८७॥

तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः ।

धर्मः साधारणः । तद्धिते कल्पवादौ त्वार्थ्येव ॥ तेन पञ्च ॥
उदाहरणम् —-

{धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः ।
करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥३९७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{आकृष्टकरवालो ऽसौ सम्पराये परिभ्रमन् ।
प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥३९८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{करवाल इवाचारस्तस्य वागमृतोपमा ।
विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे ॥३९९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

उपमानानुपादाने वाक्यगाथ समासगा ॥ ङ्क्प्र्-क्_८८ ॥

{स_अलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स ।
दीस_इ अह वा णिसम्म_इ सरिसं अंसंसमेत्तेण ॥४००॥}
[सकलकरणपरचिश्रामश्रीवितरणं न सरसकाव्यस्य ।
दृश्यते ऽथ वा निशम्यते सदृशमंशांशमात्रेण ॥]
(हालस्य गाथासप्तशती ९९५)

कव्वस्सेत्र्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे एषैव समासगा ॥८८॥

वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुलि ॥।

वाशब्दः उपमाद्योतक इति । वादेरुपमाप्रतिपादकस्य लोपे षट् समासेन कर्न्णो ऽधिकरणाच्चोत्पन्नेन क्यचा कर्तुः क्यङा कर्मकर्त्रोरुपपदयोर्णमुला च भवेत् ॥
उदाहरणम् —-

{ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥४०१॥}
(महाभारत द्रो।[१८४-४६])

तथा

{असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेयमासीत् ॥४०२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{पौरं सुतीयति जनं समरान्तरेसा-
वन्तःपुरीयति विचित्रचरित्रचुञ्चुः ।
नारीयते समरसीम्नि कृपाणपाणेर्
आलोक्य तस्य चरितानि सपत्नसेना ॥४०३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २१७)

{मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे ।
स पुनः पार्थसञ्चारं सञ्चरत्यवनीपतिः ॥४०४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २१८)

॥। एतद्द्विलोपे क्विप्समासगा ॥ ङ्क्प्र्-क्_८९ ॥

एतयोर्ध्र्मवाद्योः । उदाहरणम् —-

{सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥४०५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २१९)

{परिपन्थिमनोज्यशतैरपि दुराक्रमः ।
सम्परायप्रवृत्तौसौ राजते राजकुञ्जरः ॥४०६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

॥८९॥

धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।

{टुटुण्णन्तो मरिहिसि कण्टअकलिआइं केऐवणाइं ।
मालैकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥४०७॥}
[टुण्टुणायमानो मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालतीकुसुमसदृक्षं भ्रमर भ्रमन् न प्राप्स्यसि ॥]
(हालस्य गाथासप्तशती ९७९ ; अभिनवगुप्तस्य ध्वन्यालोकलोचन)

कुसुमेण सममिति पाठे वाक्यगा ।

क्यचि वाद्युपमेयासे ॥।

आसे निरासे ।

{अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥४०८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)
अत्रात्मा उपमेयः ।

॥। त्रिलोपे च समासगा ॥ ङ्क्प्र्-क्_९० ॥

त्रयाणां वादिधर्मोपमानानाम् । उदाहरणम् —-

{तरुणमनि कृतावलोकना ललितविलासवितीर्णविग्रहा ।
स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ॥४०९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतः । तदेदमुदाहरणम् ॥

क्रूरस्याचारस्यायःशूलतयाध्यवसायाद् अयःशूलेनान्विच्छति {आयःशूलिकः} इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपे ऽयमुपमा ।
एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः ॥

{अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता ।
मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ॥४१०॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २२२)

इत्यभिन्ने साधारणे धर्मे ॥

{ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् ।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥४११॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

इत्य् भिन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा ।
यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नधर्मत्वे

{अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥४१२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता ।
तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥४१३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २२३)

इत्यादिका रशनोपमा च न लक्षिता एवंविधवैचित्र्यसहस्रसम्भवात्
उक्तभेदानतिक्रमाच्च ॥९०॥

उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयः ॥।

उपमानान्तरसम्बन्धाभावो ऽनन्वयः । उदाहरणम् —-

{न केवलं भाति नितान्तकान्तिर्नितम्बनी सैव नितम्बिनीव ।
यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ॥४१४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

॥। विपर्यास उपमेयोपमा तयोः ॥ ङ्क्प्र्-क्_९१ ॥

तयोः उपमानोपमेययोः । परिवृत्तिः अर्थात् वाक्यद्वये । इतरोपमानव्यवच्छेदपरा उपमेयेनोपमा इति उपमेयोपमा । उदाहरणम् —-

{कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ॥४१५॥
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २२५)

॥९१॥

सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।

समेन उपमानेन । उदाहरणम् —-

{उन्मेषं यो मम न सहते जातिवैरी निशायाम्
इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतिः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल्
लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥४१६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥४१७॥}
(शूद्रकस्य मृच्छकटिका १।३२)

इत्यादौ व्यापनादि लेपनादिरूपतया सम्भावितम् ॥

ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ङ्क्प्र्-क्_९२ ॥

भेदोक्तौ यथा

{अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति चिरं
समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥४१८॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो यावन्निश्चयान्तो ऽपि सन्देहः स्वीक्र्टः ।
यथा

{इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥४१९॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

किं तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो
भट्टोद्भटेन । तदनुक्तौ यथा

{अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥४२०॥}
(कालिदासस्य विक्रमोर्वशीय १।८)
॥९२॥

तद्रूपकमभेदो य उपमानोपमेययोः ।

अतिसाम्याद् अनपह्नुतभेदयोः अभेदः ।

समस्तवस्तुचिष्यं श्रौता आरोपिता यदा ॥ ङ्क्प्र्-क्_९३ ॥

आरोपविषया इव आरोप्यमाणाः यदा शब्दोपात्ताः तदा समस्तानि वस्तूनि विषयोस्येति समस्तवस्तुविषयम् । आरोपिता इति बहुवचनमविवक्षितम् । यथा

{ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्यच्छलेन ॥४२१॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र पादत्रये, अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीतितत्सङ्कराशङ्का न कार्या ॥९३॥

श्रौता आर्थश्च ते यस्मिन्नेकदेशविवर्ति तत् ।

केविदारोप्यमाणाः शब्दो ऽपात्ताः केचिदर्थसामर्थ्यादवसेयाः इत्येकदेशविवर्तनात् एकदेशविवर्ति । यथा

{जस्स रणन्ते_उर_ए करे कुणन्तस्स मण्डलग्गल_अं ।
रससम्मुही वि सहसा परमुही हो_इ रि_उसेणा ॥४२२॥}
[यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससम्मुख्यपि सहसा पराञ्मुखी भवति रिपुसेना ॥]
(हालस्य गाथासप्तशती ९८०)

अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दो ऽपात्तम् मण्डलाग्रलतायाः नायिकात्वम् रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते इति एकदेशे विशेषेण वर्तनादेकदेशविवर्ति ।

साङ्गमेतत् ॥।

उक्तद्विभेदं सावयवम् ॥

॥। निरङ्गं तु शुद्धं ॥।

यथा

{कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां
प्रवृत्तो ऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥४२३॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ; अभिनवगुप्तस्य अभिनवभारती)

॥। माला तु पूर्ववत् ॥ ङ्क्प्र्-क्_९४ ॥

मालोपमायामिवैकस्मिन् बहव आरोपिताः । यथा

{सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः
कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
वाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥४२४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

॥९४॥

नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ॥ ङ्क्प्र्-क्_९५ ॥

यथा

{विद्वन्मानसहम्स वैरिकमलासङ्कोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥४२५॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र मानसमेव मानसम् कमलायाः सङ्कोच एव कमलानामसङ्कोचः दुर्गाणाममार्गणमेव दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रतीतिरेव सत्यामप्रीतिः विजयः परपराभव एव विजयोर्जुनः एवमारोपणनिमित्तो हंसादेरारोपः ।
यद्यपि शब्दार्थालङ्कारो ऽयमित्युक्तं वक्ष्यते च तथापि प्रसिद्ध्यनुरोधादत्रोक्तः । एकदेशविवर्ति हीदमन्यैरभिधीयते ॥

भेदभाजि यथा

{आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः ।
सङ्ग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥४२६॥}
(महिमभट्टस्य व्यक्तिविवेक)

अत्र जयादेर्भिन्नशब्दवाच्यस्य कुञ्जरत्वाद्यारोपे भुजस्य आलानत्वाद्यारोपो युज्यते ।

{अलौकिकमहालोकप्रकाशितजगत्त्रयः ।
स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥४२७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रप्ञ्चम् ।
प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥४२८॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ३,४।३२)

इति च अमालारूपोअकमपि परम्परितं द्रष्टव्यम् ॥

{किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति ।
नलिनीनां कमलमुखैः मुखेन्दुभिर्योषितां मदनः ॥४२९॥}
(रुद्रटस्य काव्यालङ्कार ८।५०)

इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम् ॥९५॥

प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।

उपमेयम् असत्यं कृत्वोपमानं सत्यतया यत् स्थाप्यते सा तु अपह्नुतिः उदाहरणम् —-

{अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥४३०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

इत्थं वा

{बत सखि कियदेतत् पश्य वैरं स्मरस्य
प्रियविरहकृशेस्मिन् रागिलोके तथा हि ।
उपवनसहकारोद्भासिभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥४३१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र हि न सभृङ्गाणि सहकाराणि अपि तु सकालकूटा शरा इति प्रतीतिः । एवं वा

{अमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गारणां प्रथमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणम्मति रोमावलिवपुः ॥४३२॥}
(वल्लभदेवस्य सुभाषितावलि, बोम्बय् सन्क्रित् अन्द् प्रक्रित् सेरिएस्। १५५८)

अत्र न रोमावलिः धूमशिखेयमिति प्रतिपत्तिः ॥
एवमियं भङ्ग्यन्तरैरप्यूह्या ॥

श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ ङ्क्प्र्-क्_९६ ॥

एकार्थप्रतिपादकानामेव शब्दानां यत्रानेको ऽर्थः स श्लेषः । उदाहरणम् —-

{उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
रचयतितरां स्वैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥४३३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २३७)

अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ ॥९६॥

परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर् ॥।

प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्म्यात् न तु विशेष्यस्य सामर्थ्यादपि यत् अप्रकृतस्यार्थस्याभिधानम् सा समासेन सङ्क्षेपेणार्थद्वयकथनात् समासोक्तिः । उदाहरणम् —-

{लहिऊण तुज्झ बाहुप्फंसं जीए स को वि उल्लासो ।
जअलच्छी तुब विरहे ण हुज्जला दुब्बला णं सा ॥४३४॥}
[लब्ध्वा तव बाहुस्पर्श यस्याः स को ऽप्युल्लासः ।
जयलक्ष्मीस्तव विरहे न खलूज्ज्वला दुर्बला ननु सा ॥]
(हालस्य गाथासप्तशती, निर्नय सगर् प्रेस्स्। ४२८)

अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ॥

॥। निदर्शना ।
अभवन्वस्तुसम्बन्ध उपमापरिकल्पकः ॥ ङ्क्प्र्-क्_९७ ॥

निदर्शनं दृष्टान्तकरणम् । उदाहरणम् —-

{क्व सूर्यप्रभावो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥४३५॥}
(कालिदासस्य रघुवंश१-२)

अत्र उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति ।

यथा वा

{उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥४३६॥}
(माघस्य सिशुपालवध, निर्नय सगर् प्रेस्स्। ४।२०)

अत्र कथ्मन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् ।

{दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गम्
आदातुमिच्छति करे हरिणाङ्कबिम्बम् ।
मेरुंलिलङ्घयिषति ध्रुवमेष देव
यस्ते गुणान् गदितुमुद्यममादधति ॥४३७॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २४१)

इत्यादौ मालारूपाप्येषा द्रष्टव्या ॥९७॥

स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा ।

क्रिययैव स्वस्वरूपस्वकारणयोः सम्बन्धो यदवगम्यते सा अपरा निदर्शना । यथा

{उन्नतं पदमवाप्य यो लघुहेलयैव पतेदिति ब्रुवन् ।
शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥४३८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २४२)

अत्र पातक्रियया पतनस्य लाघवे सति उन्नतपदप्राप्तिरूपस्य च सम्बन्धः ख्याप्यते ॥

अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ ङ्क्प्र्-क्_९८ ॥

अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपो ऽप्रस्तुतप्रशंसा ॥९८॥

कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ ङ्क्प्र्-क्_९९ ॥

तदन्यस्य कारणादेः । क्रमेणोदाह्यणम् —-

{याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥४३९॥}
(अमरुशतक १०)

अत्र प्रस्थानात्किमिति निवृत्तो ऽसीति कार्ये पृष्टे कारणमभिहितम् ।

{राजन्राजसुता न पाठयति मां देव्यो ऽपि तूष्णीं स्थिताः
कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्थं नाथ शुकस्तवारिभवने मुक्तोध्वगैः पञ्जराच्
चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥४४०॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताः इति कारणे प्रस्तुते कार्यमुक्तम् ।

{एतत्तस्य मुखात्कियत् कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमंस्त स जडःशृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः
कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥४४१॥}
(भल्लटशतक ९४)

अत्रास्थाने जडानां ममत्वसम्भावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः ।

{सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः ।
स एव पूज्यः स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः ॥४४२॥}
(उद्भटस्य काव्यालङ्कारसारसङ्ग्रह)

अत्र ऽकृष्णं निहत्य नरकासुरवधूनां यदि दुःखम् प्रशमयसि तत् त्वमेव श्लाघ्यःऽ; इति विशेषे प्रकृते सामान्यमभिहितम् । तुये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः । श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः । क्रमेणोदाहरणम् –

{पुंस्त्वादपि प्रविचलेत् यदि यद्यधो ऽपि
यायाद् यदि प्रणयने न महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
केनापि दिक् ओरकटिता पुरुषोत्तमेन ॥४४३॥}
(भल्लटशतक ७९)

{येञास्यभ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते
युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः ।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग्
अस्त्वेवं जडधामता तु भवतो यद् व्योम्नि विस्फूर्जसे ॥४४४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवादहने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च ॥४४५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति । यथा

{अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः
पोतोपाया इह हि बहवो लङ्घने ऽपि क्षमन्ते ।
आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं
को नाम स्यादवटकुहरालोकने ऽप्यस्य कल्पः ॥४४६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

क्वचिदध्यारोपेणैव । यथा

{कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे॥४४७॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।५१)

क्वचिदंशेष्वध्यारोपेण । यथा

{सो ऽपूर्वो रसनाविपर्ययविधिः तत् कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा ।
सर्वं विस्मृतवानसि भ्रमर हे यद्वारणो ऽद्याप्यसौ
अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥४४८॥}
(भल्लटशतक १८)

अत्र रसनावपर्यासः शून्यकर्त्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवते निमित्तम् ॥९९॥

निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ ङ्क्प्र्-क्_१०० ॥

कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा ॥।

उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका । यथा

{कमलमनम्भसि कमले च कुबलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥४४९॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र मुखादि कमलादिरूपतयाध्यवसितम् । यच्च तदेवान्यत्वेनाध्यवसीयते सा अपरा । यथा

{अण्णं लडहत्तण_अं अण्णा वि_अ का वि वत्तणच्छा_आ ।
सामा सामण्णप_आव_इणो रेहच्चि_अ ण हो_इ ॥४५०॥}
[अन्यत्सौकुमार्यम् अन्यैव च कापि वर्तनच्छाया ।
श्यामा सामान्यप्रजापतेः रेक्षैव च न भवति ॥]
(हालस्य गाथासप्तशती ९६९)

(अर्थात् असम्भविनो ऽर्थस्य) सा तृतीया । यथा

{राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥४५१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी । यथा

{हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥४५२॥}
(दामोदरगुप्तस्य कुट्टनीमत ९६)

॥। प्रतिवस्तूपमा तु सा ॥ ङ्क्प्र्-क्_१०१ ॥

सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।

साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात् शब्दभेदेन यत् उपादीयते सा वस्तूनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा । यथा

{देवीभावं गमिता परिवारपदं कथं भजत्वेषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥४५३॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ४,२।४)

{यदि दहत्यनलो ऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥४५४[=२७२]॥}
(आनन्दवर्धनस्य देविशतक)

इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या । एवमन्यत्राप्यनुसर्तव्यम् ॥

दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ ङ्क्प्र्-क्_१०२ ॥

एतेषां साधारणधर्मादीनां दृष्टो ऽन्तो निश्चयो यत्र स दृष्टान्तः ।

{त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्वत्याः ॥४५५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २५१)

एष साधर्म्येण । वैधर्म्येण तु

{तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः ।
भटः परेषां विशरारुतामगुः दधत्यवाते स्थिरतां हि पांसवः ॥४५६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)
॥१००-१०२॥

सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ ङ्क्प्र्-क्_१०३ ॥

प्राकरणिकाप्राकरणिकानाम् अर्थात् उपमानोपमेयानां धर्मः क्रियादिः एकवारमेव यत् उपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनाद् दीपकम् । यथा

{किवणाणं धणं णागाणं फणमणी केशरा_इं सीहाणं ।
कुलबालि_आणं त्थण_आ कुत्तो छिप्पन्ति अमु_आणं ॥४५७॥}
[कृपणानां धनं नागानां फणमणिः केसरा सिंहानाम् ।
कुलबालिकानां स्तनाः कुतः स्पृश्यन्ते ऽमृतानाम् ॥]
(हालस्य गाथासप्तशती, निर्नय सगर् प्रेस्स्। ९७६)

कारकस्य च बह्वीषु क्रियासु सकृद्वृत्तिदीर्पकम् । यथा

{स्विद्य[त्]इ कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बतुमिच्छति नवपरिणया वधूः शयने ॥४५८॥}
(सुभाषितरत्नभाण्डागार ३१७।३)

॥१०३॥

मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् ।

पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चेदुपक्रियते तत् मालादीपकम् । यथा

{सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाक्रणय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥४५९॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ ङ्क्प्र्-क्_१०४ ॥

नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा । क्रमेणोदाहरणम् —-

{पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥४६०॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन)

{कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्दृशोः पुरः का ।
अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ॥४६१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

॥१०४॥

उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।

अन्यस्योपमेयस्य व्यतिरेक आधिक्यम् ।

{क्षीणः क्षीणो ऽपि शशी भूयो भूयो विवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥४६२॥}
(अमरुशतक)

तद्युक्तम् । अत्र यौवनगतास्तैर्याधिक्यं हि विवक्षितम् ॥

हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ ङ्क्प्र्-क्_१०५ ॥

शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।

व्यतिरेकस्य हेतुः उपमेयगतमुत्कर्षनिमित्तम् । उपमानगतमपकर्षकारणम् । तयोर्द्वयोरुक्तिः, एकतरस्य द्वयोर्वा अनुक्तिरित्यनुक्तित्रयम् । एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदाः । आक्षिप्ते चौपम्ये तावन्त एव । एवं द्वादश ॥ एते श्लेषे ऽपि भवन्तीति चतुर्विशतिर्भेदाः । क्रमेणोदाहरणम् —-

{असिमात्रसहायस्य प्रभूतारिपराभवे ।
अन्यतुच्छजनस्येव न स्मयो ऽस्य महाधृतेः ॥४६३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानपादानेन्यत् भेदत्रयम् । एवमन्येष्वपि द्रष्टव्यम् । अत्र इवशब्दस्य सद्भावाच्छाब्दमौपम्यम् ।

{असिमात्रसहायो ऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वो ऽयं महाधृतिः ॥४६४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र् त्रुल्यार्थे वतिरित्यार्थमौपम्यम् ।

{इयं सुनयना दासीकृततामरसश्रिया ।
आननेनाकलङ्केन जयतीन्दुं कलङ्किनम् ॥४६५॥}
(उद्भटस्य काव्यालङ्कारसारसङ्ग्रह)

अत्रेवादितुल्यादिपदविरहेण आक्षिप्तैवोपमा ।

{जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः ।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ॥४६६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रेवार्थे वतिः । गुणशब्दः श्लिष्टः । शाब्दमौपम्यम् ॥

{अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवज्जातु कलावैकल्यमागतः ॥४६७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र तुल्यार्थे वतिः । कलाशब्दः श्लिष्टः ।

मालाप्रतिवस्तूपमावत् मालाव्यतिरेको ऽपि सम्भवति । तस्यापि भेदा एवमूह्याः । दिङ्मात्रमुदाह्रियते । यथा

{हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः ।
रतिवन्न चातिदुःसहकरतापितभूः कदाचिदसि ॥४६८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २५६)

अत्र तुल्यार्थे वतिः । विषमादयश्च शब्दाः श्लिष्टाः ।

{नित्योदितप्रतापेन त्रियामामीलितओरभः ।
भास्वतानेन भूपेन भास्वानेष विनिर्जितः ॥४६९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र ह्याक्षिप्तैवोपमा भास्वतेतिश्लिष्टः । यथा वा

{स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं
बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम् ।
यूनामतीव पिबतां रजनीषु यत्र
तृष्णां जहार मधु नाननमङ्गनानाम् ॥४७०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रेवादीनां तुल्यादीनां च पदानामभावे ऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते । एवञ्जातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथग्पादाने ऽन्येपि भेदाः सम्भवन्ति । ते ऽपि अनयैव दिशा द्रष्टव्याः ॥

निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ ङ्क्प्र्-क्_१०६ ॥

वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।

विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्तव्यत्वम् अतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विधा आक्षेपः ।
क्रमेणोदाहरणम् —-

{ए एहि किंअपि कीएवि अ_एण णिक्किव भणामि अलमह वा ।
अविआरि_अकज्जारम्भ_आरिणी मरौ ण भणिस्सं ॥४७१॥}
[ए एहि किमपि कस्या अपि कृते निष्कृप भणामि अलमथ वा ।
अविचारितकार्यारम्भकारिणी म्रियतां न भनिष्यामि ॥]
(हालस्य गाथासप्तशती ७।२)

{ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः ।
अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर-
व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ॥४७२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

क्रियायाः प्रतिषेधे ऽपि फलव्यक्तिर्विभावना ॥ ङ्क्प्र्-क्_१०७ ॥

हेतुरूपक्रियायाः निषेधे ऽपि तत्फलप्रकाशनं विभावना । यथा

{कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि ।
परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ॥४७३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा)

॥१०५-१०७॥

विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।

मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः । अनुक्तनिमित्ता उक्तनिमित्ता अचिन्त्यनिमित्ता च । क्रमेणोदाहरणम् —-

{निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते ।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोङ्गना सा ॥४७४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{कर्पूर इव दग्धो ऽपि शक्तिमान् यो जने जने ।
नमो ऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥४७५॥}
(राजशेखरस्य बालरामायण ३।११)

{स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न बलं हृतम् ॥४७६॥}
(भामहस्य काव्यालङ्कार ३।२४)

यथासङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ ङ्क्प्र्-क्_१०८ ॥

यथा

{एकस्त्रिधा वससि चेतसि चित्रमत्र
देव द्विषां च विदुषां च मृगीदृशां च ।
तापं च सम्मदरसं च रतिं च पुष्णन्
शौर्योष्मणा च विनयेन च लीलया च ॥४७७॥}
(सुभाषितरत्नाकर १४३८)

॥१०८॥

सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सो ऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ ङ्क्प्र्-क्_१०९ ॥

साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते विशेषो वा सामान्येन सो ऽर्थान्तरन्यासः । क्रमेणोदाहरणम् —-

{निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥४७८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २६५)

{सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतो ऽस्तमभूद्विधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥४७९[=२६६]॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १२१)

{गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते ।
असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ॥४८०॥}
(भोजस्य सरस्वतीकाण्ठाभरण ४।१२५)

{अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥४८१॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

॥१०९॥

विरोधः सोविरोधे ऽपि विरुद्धत्वेन यद्वचः ।

वस्तुवृत्तेनाविरोधे ऽपि विरुद्धयोरिव यदभिधानं स विरोधः ।

जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ ङ्क्प्र्-क्_११० ॥

क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।

क्रमेणोदाहरणम् —-

{अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः ।
सुभग कुरङ्गदृशोस्या विधिवशतस्त्वद्वियोगपविपाते ॥४८२॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप २६७)

{गिरयो ऽप्यनुन्नतियुजो मरुदप्यचलोब्धयो ऽप्यगम्भीराः ।
विश्वम्भराप्यतिलघुर्नरनाथ तवान्तिके नियतम् ॥४८३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{येषां कण्ठपरिग्रहप्रणयितां सम्प्राप्य धाराधरस्
तीक्ष्णः सो ऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च ।
तेषां सङ्गरसङ्गसक्तमनसां राज्ञां त्वया भूपते
पांसूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम् ॥४८४॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् ।
अवसरवशतः शफरो जनार्दनः सो ऽपि चित्रमिदम् ॥४८५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ॥४८६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{पेशलमपि खलवचनं दहतितरां मानसं सत्तत्त्वविदाम् ।
परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥४८७॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{कौञ्चाद्रिरुद्दामदृषद्दृढोसौ यन्मार्गणानर्गलशातपाते ।
अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥४८८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः को ऽप्यन्तर्जडयति च तापं च कुरुते ॥४८९॥}
(भवभूतिस्य मालतीमाधव १।३०)

{अयं वारामेको निलय इत रत्नाकर इति
श्रितोस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥४९०॥}
(भल्लटशतक १०८)

{समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक त्वयि तटजुषि शङ्करचूडापगापि कालिन्दी ॥४९१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ ङ्क्प्र्-क्_१११ ॥

स्वयोस्तदेकाश्रयोः । रूपं वर्णः संस्थानं च । उदाहरणम् —-

{पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैर्
आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूभ्रां विधूय ।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥४९२॥}
(बाणस्य हर्षचरित ३।५)

॥११०-१११॥

व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।

व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम् —-

{हित्वा त्वामुपरोधबन्ध्यमनसां मन्ये न मौलिः परो
लज्जावर्जनमन्तरेण न रमामन्यत्र सन्दृश्यते ।
यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः
प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः ॥४९३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥४९४॥}
(कुन्तकस्य वक्रोक्तिजीवित १।९०; पुञ्जराज, वाक्यपदीयटीका २।२४९)

सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ ङ्क्प्र्-क्_११२ ॥

एकार्थाभिधायकमपि सहार्थबलात् यत् उभयस्याप्यवगमकं सा सहोक्तिः । यथा

{सह दिअहणिसांहि दीहरा सासदण्डा
सह मणिवलयेंहि बाहधारा गलन्ति ।
तुह सुहअ विओए तीअ उब्बिग्गिरीए
सह अ तणुलदाए दुब्बला जीविदासा ॥४९५॥}
[सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः
सह मणिबलयैर्वाष्पधारा गलन्ति ।
तव सुभग वियोगे तस्या उद्विग्नायाः
सह च तनुलतया दुर्बला जीविताशा ॥]
(राजशेखरस्य कर्पूरमञ्जरी २।९)

श्वासदण्डादिगतं दीर्घत्वादि शाब्दम् दिवसनिशादिगतं तु सहार्थसामर्थ्यात्प्रतिपद्यते ॥११२॥

विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः ।

क्वचिदशोभनः क्वचिच्छोभनः । क्रमेणोदाहरणम् —-

{अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः ।
उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥४९६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)
{मृगलोचनया विना विचित्रच्व्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयो ऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥४९७॥}
(रुय्यकस्य अलङ्कारसर्वस्व ५०)

परिवृत्तिर्विनिमयो यो ऽर्थानां स्यात्समासमैः ॥ ङ्क्प्र्-क्_११३ ॥

परिवृत्तिरलङ्कारः । उदाहरणम् —-

{लतानामेतासामुदितकुसुमानां मरुदयं
मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् ।
लतास्त्वध्वन्यानामहह दृशमादय सहसा
ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥४९८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र प्रथमेर्घे समेन समस्य द्वितीये उत्तमेने न्यूनस्य ।

{नानाविधप्रहरणैर्नृप सम्प्रहारे
स्वीकृत्य दारुणनिनादवतः प्रहारान् ।
दृप्तारिवीरविसरेण वसुन्धरेयं
निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा ॥४९९॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र न्यूनेनोत्तमस्य ॥११३॥

प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं ॥।

भूताश्च भाविनश्चेति द्वन्द्वः । भावः कवेरभिप्रायो ऽत्रास्तीति भाविकम् । उदाहरणम् —-

{आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम् ॥५००॥}
(भल्लटशतक ६९)

आद्ये भूतस्य द्वितीये भाविनो दर्शनम् ॥

॥। काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ ङ्क्प्र्-क्_११४ ॥

वाक्यार्थता यथा

{वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान् ।
नमन् मुक्तः सम्प्रत्यहमतनुरग्रे ऽप्यनतिभाङ्
महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥५०१॥}
(सुभाषितरत्नाकर ३६)

अनेकपदार्थता यथा

{प्रणयिसखी सलीलपरिहासरसाधिगतैर्
ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥५०२॥}
(भवभूतिस्य मालतीमाधव ५।३१)

एकपदार्थता यथा

{भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं
हा सोपानपरम्परां गिरिसुताकान्तालयालङ्कृतिं ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा-
लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५०३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

एषु अपराधद्वये पूर्वापरजन्मनोरनमनम् भुजपाते शस्त्रोपक्षेपः महामोहे सुखावलोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः ॥११४॥

पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ।

वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत् प्रतिपादनं तत् पर्यायेण भङ्ग्यन्तरेण कथनात् पर्यायोक्तम् । उदाहरणम् —-

{यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झता ।
मदेनैरावणमुखे मानेन हृदये हरेः ॥५०४॥}
(मेण्ठ,हयग्रीववधम्)

अत्र ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते । तेन यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते । यथा गवि शुक्ले चलति दृष्टे {गौः शुक्लश्चलति} इति विकल्पः । यदेव दृष्टं तदेव विकल्पयति न तु यथा दृष्टं तथा ।
यतो ऽभिन्नासंसृष्टत्वेन दृष्टम् भेदसंसर्गाभ्यां विकल्पयति ॥

उदात्तं वस्तुनः सम्पत् ॥।

सम्पत् समृद्धियोगः । यथा

{मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हृताः
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधिंयः कर्षन्ति केलीशुकाः
यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ॥५०५॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

॥। महतां चोपलक्षणम् ॥ ङ्क्प्र्-क्_११५ ॥

उपलक्षणमङ्गभावः अर्थादुपलक्षणीये ऽर्थे । उदाहरणम् —-

{तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी ।
निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ॥५०६॥}
(रुद्रटस्य काव्यालङ्कार ७।१०४)

न चात्र वीरो रसः तस्येहाङ्गत्वात् ॥११५॥

तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयो ऽसौ ॥।

तस्य प्रस्तुतस्य कार्यस्य एकस्मिन् साधके स्थिते साधकान्तराणि यत्र सम्भवन्ति स समुच्चयः । उदाहरणम् —-

{दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोत्युत्सुकं
गाढं प्रेम नवं वयोतिकठिनाः प्राणाः कुलं निर्मलम् ।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोक्षमो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥५०७॥}
(शार्ङ्गधरपद्धति)

अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति । तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् ॥
एष एव समुच्चयः सद्योगे ऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक् लक्ष्यते । तथाहि —-

{कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्पं राजन् त एव तवाङ्कुशाः ॥५०८॥}
(भोजस्य सरस्वतीकाण्ठाभरण ५।३६८)

अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः ।

{शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिकं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥५०९॥}
(भर्तृहरिस्य नीतिशतक ४५)

अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः ॥

॥। स त्वन्यो युगपद् या गुणक्रियाः ॥ ङ्क्प्र्-क्_११६ ॥

गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम् —-

{विदलितसकलारिकुलं तव बलमिदमभवदा‘उ विमलं च ।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥५१०॥}
(रुद्रटस्य काव्यालङ्कार ७।२८)

{अयमेकपदे तया वियोगः प्रयया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥५११॥}
(कालिदासस्य विक्रमोर्वशीय ४।१०)

{कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः ।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥५१२॥}
(विश्वनाथस्य साहित्यदर्पण १०।८५)

{धुनोति चासिं तनुते च कीर्तिम्} इत्यादेः {कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये} इत्यादेश्च दर्शनात् {व्यधिकरणे} इति {एकस्मिन् देशे} इति च न वाच्यम् ॥११६॥

एकं क्रमेणानेकस्मिन् पर्यायः ॥।

एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः । क्रमेणोदाहरणम् —-

{नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणो ऽथ
कण्ठेधुना वससि वाचि पुनः खलानाम् ॥५१३॥}
(भल्लटशतक ४)
यथा वा

{बिम्बोष्ट एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना हृदये ऽप्येष मृगशावाक्षि लक्ष्यते ॥५१४॥}
(पद्मगुप्त अलिअस् परिमलस्य नवसाहसाङ्कचरित ६।६०)

रागस्य वस्तुतो भेदे ऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम् ।

{तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसं ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण ॥५१५॥}
[तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् ।
विम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥]
(आनन्दवर्धनस्य विषमबाणलीला)

॥। अन्यस्ततो ऽन्यथा ।

अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सो ऽन्यः ॥
क्रमेणोदाहरणम् —-

{मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति ।
अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥५१६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा २८६)

{तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः
सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः ।
स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिताम्
आश्चर्यं दिवसैर्द्विजोयमियतीं भूमिं समारोपितः ॥५१७॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।१६)

अत्र एकस्यैव हानोपादानयोरविवक्षितत्वात् न परिवृत्तिः ॥

अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ ङ्क्प्र्-क्_११७ ॥

पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् । धर्मिणि अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम् । यथा

{यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं
यत् तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥५१८॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

साध्यसाधन्योः पौर्वापर्यविकल्पे ने किञ्चिद्वैचित्र्यमिति न तथा दर्शितम् ॥११७॥

विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।

अर्थाद्विशेष्यस्य । उदाहरणम् —-

{महौजसो मानधना धनार्चिता
धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयह्
प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥५१९॥}
(भारविस्य किरातार्जुनीय १।१९)

यद्यप्युष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः तथाप्येकनिष्ठत्वेन बहुनां विशेषणानामेवमुपन्यासे वैचित्र्यम् इत्यलङ्कारमध्ये गणितः ॥

व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ ङ्क्प्र्-क्_११८ ॥

निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपह्नूयते सा व्याजोक्तिः ।
न चैषापह्नुतिः प्रकृताप्रकृतो ऽभयनिष्ठस्य साम्यस्येहासम्भवात् । उदाहरणम् —-

{शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-
रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टो ऽवताद्वः शिवः ॥५२०॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसङ्ख्या तु सा स्मृता ॥ ङ्क्प्र्-क्_११९ ॥

प्रमानान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृशवस्त्वनतरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसङ्ख्या । अत्र च कथनं प्रश्नपूर्वकं तदन्यथा च परिदृष्टम् ।
तथा उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः ॥ क्रमेणोदाहरणम् —-

{किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः ।
किमाराध्यं पुण्यं किंअभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभ[व्]अति ॥५२१॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

{किं भूषणं सुदृढमत्र यशो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वददपरः सदसद्विवेकम् ॥५२२॥}
(विश्वनाथस्य साहित्यदर्पण १०।८२)

{कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥५२३॥}
(रुद्रटस्य काव्यालङ्कार ७।८१)

{भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥५२४॥}
(रुय्यकस्य अलङ्कारसर्वस्व)
॥११९॥

यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता ।
तदा कारणमाला स्यात् ॥।

उत्तरमुत्तरं प्रति यथोत्तरम् । उदाहरणम् —-

{जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनो ऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥५२५॥}
(वल्लभदेवस्य सुभाषितावलि ; श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा १६२)

{हेतुमता सह हेतोरव्हिधानमभेदयो हेतुः ।}
इति हेत्वलङ्कारो न लक्षितः । आयुर्धृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् ।

{अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः ।
रम्यो ऽयमेति सम्प्रति लोकोत्कण्ठाकरः कालः ॥५२६॥}
(रुद्रटस्य काव्यालङ्कार ७।८३)

इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः ॥

॥। क्रियया तु परस्परम् ॥ ङ्क्प्र्-क्_१२० ॥

वस्तुनोर्जनने ऽन्योन्यम् ॥।

अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति अन्योन्यनामा अलङ्कारः । उदाहरणम् —-

{हंसाणं सरेहिं सिरी सारिज्जै अह सराण हंसेहिं ।
अण्णोण्णं विअ एए अप्पाण्णं णवर गरुअन्ति ॥५२७॥}
[हंसानां सरोभिः श्रीः सार्यते अथ सरसां हंसैः ।
अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ॥]
(हालस्य गाथासप्तशती, निर्नय सगर् प्रेस्स्। ९५३)

अत्रोभयेषानपि परस्परजनकता मिथः श्रीसारतासम्पादनद्वारेण ॥

॥। उत्तरश्रुतिमात्रतः ।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ ङ्क्प्र्-क्_१२१ ॥

असकृद् यदसम्भाव्यमुत्तरं स्यात् तदुत्तरम् ।

प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम् । उदाहरणम् —-

{वाणिअ_अ हत्थिदन्ता कुत्तो अम्हाण वग्धकित्ती अ ।
जाव लुलिआल_अमुही धरम्मि परिसक्कए सोण्हा ॥५२८॥}
[वाणिजक हस्तिदन्ताः कुतो ऽस्माकं व्याघ्रकृतयश्च ।
यावत् लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥]
(हालस्य गाथासप्तशती ९५१; अभिनवगुप्तस्य ध्वन्यालोकलोचन ३।१७)

हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी ताः मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयत ॥
न चैतत् काव्यलिङ्गम् उत्तरस्य ताद्रूप्यानुपपत्तेः । नहि प्रश्नस्य प्रतिवचनं जनको हेतुः । नापीदमनुमानम् एकधर्मिनिष्ठतया साद्यसाधनयोरनिर्देशादित्यलङ्कारान्तरमेवोत्तरं साधीयः ।
प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असम्भाव्यरूपं प्रतिवचनं स्यात् तत् अपरमुत्तरम् । अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम् । उदाहरणम् —-

{का विसमा देव्वगरि किं लब्धं जं जणो गुण्ग्गाही ।
किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लो_ओ ॥५२९॥}
[का विषमा दैवगतिः किं लब्धव्यं यत् जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः ॥]
(हालस्य गाथासप्तशती, निर्नय सगर् प्रेस्स्। ९७५)

प्रश्नपरिसङ्ख्यायामन्यव्यपोहे एव तात्पर्यम् । इह तु वाच्ये एव विश्रान्तिरित्यनयोर्विवेकः ॥

कुतो ऽपि लक्षितः सूक्ष्मो ऽप्यर्थो ऽन्यस्मै प्रकाश्यते ॥ ङ्क्प्र्-क्_१२२ ॥

धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते ।

कुतो ऽपि आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः ॥
उदाहरणम् –

{वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥५३०॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम् पुंसामेव कृपाणपाणिता योग्यत्वात् ॥
यथा वा

{सङ्केतकालमनसं विट्।अम् ज्ञात्वा विदग्धया ।
ईषन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥५३१॥}
(अभिनवगुप्तस्य ध्वन्यालोकलोचन २।३६)

अत्र जिज्ञासितः सङ्केतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतिपादितः ॥

उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ ङ्क्प्र्-क्_१२३ ॥

परः पर्यन्तभागः अवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः । उदाहरणम् —-

{राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥५३२॥}
(रुद्रटस्य काव्यालङ्कार ७।९७)
॥१२३॥

भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसङ्गतिः ॥ ङ्क्प्र्-क्_१२४ ॥

इह यद्देशं करणं तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् यथा धूमादि । यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनं सा तयोः स्वभावोत्पन्नपरस्परसङ्गतित्यागात् असङ्गतिः । उदाहरणम् —-

{जस्से_अ वणो तस्से_अ वे_अणा भणै तं जणो अलि_अं ।
दन्तक्ख_अं कवोले बहु_ए वे_अणा सवत्तीणं ॥५३३॥}
[यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनो ऽलीकम् ।
दन्तक्षतं कपोले वध्वाः वेदना सपत्नीनाम् ॥]
(हालस्य गाथासप्तशती ९८१)

एषा च विरोधबाधिनी न विरोधः भिन्नाधरतयैव द्वयोरिह विरोधितायाः प्रतिभासात् । विरोधे तु विरोधित्वम् एकाश्रयनिष्टमनुक्तमपि पर्यवसितम् अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः । तथा चैवं निदर्शितम् ॥१२४॥

समाधिः सुकरं कार्यं कारणान्तरयोगतः ।

साधनान्तरोपकृतेन कर्त्रा यत् अक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम । उदाहरणम् —-

{मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ॥५३४॥}
(दण्डिन्स्य काव्यादर्श २।२९९)

समं योग्यतया योगो यदि सम्भावितः क्वचित् ॥ ङ्क्प्र्-क्_१२५ ॥

इदमनयोः श्लाघ्यमिति योग्यतया सम्बन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् तत् सद्योगे ऽसद्योगे च ॥
उदाहरणम् —-

{धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
रूपे देवो ऽप्ययमनुपमो दत्तपत्रः स्मरस्य ।
जातं दैवात्सदृशमनयोः सङ्गतं यत् तदेत-
च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥५३५॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता ।
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥५३६॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ ङ्क्प्र्-क्_१२६ ॥

गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ ङ्क्प्र्-क्_१२७ ॥

द्वयोरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयते (१) यच्च किञ्चिदारभमाणः कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत् फलं न लभेत् यावदप्रार्थितमप्यनर्थं विषयमासादयेत् (२) तथा सत्यपि कार्यस्य कारणरूपानुकारे तत् तयोर्गुणौ क्रिये च परस्परं विरुद्धतां व्रजतः (३।४) स समविपर्ययात्मा चतूरूपो विषमः ॥
क्रमेणोदाहरणम् —-

{शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना ।
अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥५३७॥}
(पद्मगुप्तस्य नवसाहसाङ्कचरित १।२८)

{सिंहिकासुतसन्त्रस्तः शशः शीतांशुमाश्रितः ।
जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥५३८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३०३)

{सद्यःकरस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ॥५३९॥}
(पद्मगुप्तस्य नवसाहसाङ्कचरित १।६२)

{आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥५४०॥}
(रुद्रटस्य काव्यालङ्कार ९।४७)

अत्रानन्ददानं शरीरतापेन विरुध्यते ।
एवम्

{विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥५४१॥}
(माघस्य सिशुपालवध १३।४०)

इत्यादावपि विषमत्वं यथायोगभवगन्तव्यम् ॥१२७॥

महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वे ऽप्यधिकं तु तत् ॥ ङ्क्प्र्-क्_१२८ ॥

आश्रितम् आधेयम् आश्रयस्तदाधारः । तयोर्महतोरपि विषये तदपेक्षया तनू अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविअव्क्षया यथाक्रमं यत् अधिकतरतां व्रजतः । तदिदं द्विविधम् अधिकं नाम ।
क्रमेणोदाहरणम् —-

{अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्यो ऽपि यशोराशिर्यदत्र ते ॥५४२॥}
(दण्डिन्स्य काव्यादर्श २।२९७)

{युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत ।
तनौ मनुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥५४३॥}
(माघस्य सिशुपालवध १।२३)
॥१२८॥

प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ ङ्क्प्र्-क्_१२९ ॥

न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम् तत् अनीकप्रतिनिधितुल्यत्वात् प्रत्यनीकमभिधीयते । यथा अनीके अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोन्यो विजीयते इत्यर्थः । उदाहरणम् —-

{त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता ।
पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥५४४॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३०६)

यथा वा

{यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥५४५॥}
(माघस्य सिशुपालवध १४।७८)

इन्दोरत्र तदीयता सम्बन्धिसम्बन्धात् ॥१२९॥

समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते ।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ ङ्क्प्र्-क्_१३० ॥

सहजम् आगन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वारेण यत् किञ्चित् केनचिद्वस्तु वस्तुस्थित्यैव वलीयस्तया तिरोधीयते तत् मीलितमिति द्विधा स्मरन्ति ॥

{अपाङ्गतरले दृशौ मधुरवक्रवर्णागिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशःस्वतो लीलया
तदत्र न मदोदयः कृतपदो ऽपि संलक्ष्यते ॥५४६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकं साधारणं च महोदयेन तत्राप्येतस्य दर्शनात् ।

{ये कन्दरासु निवसन्ति सदा हिमाद्रेस्
त्वत्पातशङ्कितधियो विवशा द्विषस्ते ।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो बत भियां न बुधो ऽप्यभिज्ञः ॥५४७॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

अत्र तु सामर्थ्यादवसितस्य शैत्यस्य आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात् ॥१३०॥

स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ ङ्क्प्र्-क्_१३१ ॥

पूर्वं पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं निषेधो वा सम्भवति सा द्विधा बुधैरेकावली भण्यते । क्रमेणोदाहरणम् —-

{पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥५४८॥}
(पद्मगुप्तस्य नवसाहसाङ्कचरित १।२२)

{न तज्जलं यन्न सुचारुपङ्कजं
नपङ्कजं तद् यदलीनषट्पदम् ।
च षट्पदो ऽसौ कलगुञ्जितो न यो
न गुञ्जितं तन्न जहार यन्मनः ॥५४९॥}
(भट्टिकाव्य २।१९)

पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपम् तस्य विलासाः तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते । उत्तरत्र प्रतिषेधे ऽप्येवं योज्यम् ॥१३१॥

यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः ।
स्मरणं ॥।

यः पदार्थः केनचिदाकारेण नियतः यदा कदाचित् अनुभूतो ऽभूत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत् तथैव स्मर्यते तत् भवेत् स्मरणम् । उदाहरणम् —-

{निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः ।
तद्भवैः कुहरुतैः सुरनार्यः स्मारिता सुरतकण्ठरुतानाम् ॥५५०॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३१०)

यथा वा

{करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स ।
समरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चं ॥५५१॥}
[करयुगगृहीतयशोदास्तनमुखविनिवेशिताधरपुटस्य ।
संस्मृतपाञ्चजन्यस्य नमत कृष्णस्य रोमाञ्चम् ॥]
(हालस्य गाथासप्तशती ९७४)

॥। भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥ ङ्क्प्र्-क्_१३२ ॥

तदिति अन्यत् अप्राकरणिकं निर्दिश्यते । तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते । तस्य तथाविधस्य दृष्टौ सत्यां यत् अप्राकरणिकतया संवेदनं स भ्रान्तिमान् ।
न चैष रूपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च, अर्थानुगमनेन सञ्ज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् । उदाहरणम् —-

{कपाले मार्जारः पय इति करान् लेढि शशिनस्
तरुच्छिद्रप्रोतान् बिसमिति करी सङ्कलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥५५२॥}
(भोजस्य सरस्वतीकाण्ठाभरण ३।३८ ; सुभाषितरत्नाकर ९०५)

आक्षेप उपमानस्य प्रतीपमुपमेयता ।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ ङ्क्प्र्-क्_१३३ ॥

अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यत् उपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योपमानप्रतिकूलवर्तित्वात् उभ्यरूपं प्रतीपम् । क्रमेणोदाहरणम् —-

{लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥५५३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

{ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जं ।
तुज्झ मुहेण किसोअरि चन्दो उअमिज्जै जणेण ॥५५४॥}
[अयि एहि तावत् सुन्दरि कर्णन्दत्त्वा शृणुष्व वचनीयम् ।
तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥]
(हालस्य गाथासप्तशती ९७२)

अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वात् उपमित्यनिष्पत्त्या ऽव_अणिज्जंऽ; इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः ।

क्कचित्तु निष्पन्नैवोपमितिक्रिया अनादरनिबन्धनम् । यथा

{गर्वमसंवाह्यमिमं लोच्रनयुगलेन किं वहसि मुग्धे ।
सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥५५५॥}
(रुद्रटस्य काव्यालङ्कार ८।७८)

इहोपमेयीकरणमेवोत्पलानामनादरः ।
अनयैव रीत्या यत् असामान्यगुणयोगात् नोपमानभावमपि अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम् । यथा

{अहमेव गुरुः सुदारुणानाम्
इति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो
भुवनेस्मिन् वचनानि दुर्जनानाम् ॥५५६॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र हालाहलस्योपमानत्वमसम्भाव्यमेवोपनिबद्धम् ॥

प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ ङ्क्प्र्-क्_१३४ ॥

अतादृशमपि तादृशतया विवक्षितुं यत् अप्रस्तुतार्थेन सम्पृक्तमपरित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते तत् समानगुणनिबन्धनात् सामान्यम् । उदाहरणम् —-

{मलयजरसविलिप्तनवो नवहारलताविभूषिताः
सिततरदन्तपत्र कृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः ।
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियो ऽभिसारिकाः ॥५५७॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ४,३।१०)

अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः । अत एव पृथग्भावेन न तयोरुपलक्षणम् । यथा वा

{वेत्रत्वचा तुल्यरुचां चधूनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गा सहेलं यदि नापतिष्यन् कोवेदयिष्यन्नवचम्पकानि ॥५५८॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३११)

अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युद्सितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्च बाधायोगात् ॥

विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः ।
एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा ॥ ङ्क्प्र्-क्_१३५ ॥

अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः ।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ ङ्क्प्र्-क्_१३६ ॥

प्रसिद्धार्धपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः ।
उदाहरणम् —-

{दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ॥५५९॥}
(रुद्रटस्य काव्यालङ्कार ९।६)

एवमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः । उदाहरणम् —-

{सा वसै तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेसु ।
अह्मारिसाण सुन्दर ओसासो कत्थ पावाणं ॥५६०॥}
[सा वसति तव हृदये सैवाक्षिषु सा च वचनेषु ।
अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ॥]
(हालस्य गाथासप्तशती ९४७)

यद्यपि किञ्चिद्रभसेन आरभमाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते सोपरो विशेषः । उदाहरणम् —-

{स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुविसत्यं सविता वृहस्पतिश्च ॥५६१॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३१५)

यथा वा

{गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृतम् ॥५६२॥}
(कालिदासस्य रघुवम्श ८।६७)

सर्वत्र एवंविधविषये ऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्राउएणालङ्कारत्वायोगात् । अत एवोक्तम्
{सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना ॥} इति ॥

स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ ङ्क्प्र्-क्_१३७ ॥

वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसम्पदोपरक्तं तत्प्रतिभासमेव यत्समासादयति स तद्गुणः । तस्याप्रकृतस्य गुणोत्रास्तीति । उदाहरणम् —-

{विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥५६३॥}
(माघस्य सिशुपालवध, निर्नय सगर् प्रेस्स्। ४।१४)

अत्र रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता ॥१३७॥

तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः ।

यदि तु तदीयं वर्णं सम्भवन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृहणीयात् तदा भवेदतद्गुणो नाम । उदाहरणम् —-

{धवलोसि जहवि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअं ।
राअभरिएवि हिअए सुहअ णिहित्तो ण रत्तोसि ॥५६४॥}
[ध्वलो ऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् ।
रागभरिते ऽपि हृदये सुभग निहितो न रक्तो ऽसि ॥]
(हालस्य गाथासप्तशती [६६५,७-६४])

अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः ।

किञ्च तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते । तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुत्प्ऽपि निमित्तात् नानुविधीयते सो ऽतदगुण इत्यपि प्रतिपत्तव्यम् । यथा

{गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहम्स तव सैव शुभ्रता चीयते न च न चापचीयते ॥५६५॥}
(रुय्यकस्य अलङ्कारसर्वस्व)

यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ ङ्क्प्र्-क्_१३८ ॥

तथैव यद्विधीयेत स व्याघात इति स्मृतिः ।

येनोपायेन यत् एकेनोपकल्पितम् तस्यान्येन जिगीषुतया तदुपायकमेव यत् अन्यथाकरणम् स साधितवस्तुव्याहतितेतुत्वात् व्याघातः । उदाहरणम् —-

{दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥५६६॥}
(राजशेखरस्य विद्धशालभञ्जिका १।४)

सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ ङ्क्प्र्-क्_१३९ ॥

एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासम्भवनन्योन्यनिरपेक्षतया यत् एकत्र शब्दभागे एव अर्थविषये एव उभयत्रापि वा अवस्थानम् सा एकार्थसमवायस्वभावा संसृष्टिः ।
तत्र शब्दालङ्कारसंसृष्टिर्यथा

{वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसम्भृतशोभया ।
चलितया विदधे कलमेखलाकलकलोलकलोलदृशान्यया ॥५६७॥}
(माघस्य सिशुपालवध ६।१४)

अर्थालङ्कारसंसृष्टिस्तु

{लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥५६८[=४१७]॥}
(शूद्रकस्य मृच्छकटिका १।३२)

पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः उत्तरत्र तु तथाविधे उपमोत्प्रेक्षे ।
शब्दार्थालङ्कारयोस्तु संसृष्टिः ।

{सो णत्थि एत्थ गामे जो ए_अं महमहन्तला_अण्णं ।
तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारे_इ ॥५६९॥}
[स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्याम् ।
तरुणानां हृदयलुण्ठाकिं परिष्वक्कमाणां निवारयति ।]
(हालस्य गाथासप्तशती ९९७)

अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे । संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात् ॥१३९॥

अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः ।

एते एव यत्रात्मनि अनासादितस्वतन्त्रभावाः प्रस्परम् अनुग्राह्यानुग्राहकतां दधति स एषां सङ्कीर्यमाणस्वरूपत्वात् सङ्करः । उदाहरणम् —-

{आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते ।
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥५७०॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम् तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः । यथा वा

{जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो
वियोगिव्यापत्तेरिव कलितवैराग्यविशदः ।
परिप्रेङ्खत्तारापरिकरकपालाङ्किततले
शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति ॥५७१॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

उपमा रूपकम् उत्प्रेक्षा श्लेषश्चेति चत्वारो ऽत्र पूर्ववत् अङ्गाङ्गितया प्रतीयन्ते ।
कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते । अस्य हि रूपकत्वे तिरोहितकलङ्करूपम् अक्षवलयमेव मुख्यतयावगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः । श्लेषच्छायया तु कलङ्गस्य कलङ्कस्य मूर्त्यैव उद्वहनात् । कलङ्को ऽक्षवलयमिवेति तु, उपमायां
कलङ्कस्य, उत्कटतया प्रतिपत्तिः । न चास्य करधृतत्वं तत्त्वतोस्तीति मुख्ये ऽप्युपचार एव शरणं स्यात् ।
एवंरूपश्च सङ्करः शब्दालङ्कारयोरपि परिदृश्यते । यथा

{राजति तटीयमभिहतदानवरासातिपातिसारावनदा ।
गजता च यूथम्विरतदानवरा सातिपाति सारा वनदा ॥५७२॥}
(रत्नाकरस्य हरविजय ५।१३७)

अत्र यमकामनुलोमप्रतिलोमश्च चित्रभेदः पादद्वयगते परस्परापेक्षे ।

एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ ङ्क्प्र्-क्_१४० ॥

द्वयोर्बहूनां वा अलङ्काराणामेकत्र समावेशे ऽपि विरोधात् न यत्र युगपदवस्थानम् न चैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति येनैकतर एव परिगृह्यते स निश्चयाभावारूपो
द्वितीयः सङ्करः समुच्चयेन सङ्करस्यैवाक्षेपात् । उदाहरणम् —-

{जह गहिरो जह रअणणिव्भरो जह अ णिम्मलच्छाओ ।
तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ ॥५७३॥}
[यथा गभीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः ।
तथा किं विधिना एष सरसपानीयो जलनिधिर्न क्र्टः ॥]
(हालस्य गाथासप्तशती ९७६)

अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किम् अब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः इयमप्रस्तुतप्रशंसा इति सन्देहः । यथा वा

{नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति ।
अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥५७४॥}
(क्षेमेन्द्रस्य औचित्यविचारचर्चा)

अत्र किं कामस्योद्दीपलः कालो वर्तते इति भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तम् । उत वदनस्येन्दुबिम्बतया अध्यवसानात् अतिशयोक्तिः किं वा । एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात् रूपकम् । अथवा तयोः समुच्चयविवक्षायां दीपकम् ।अथवा तुल्ययोगिता । किमु प्रदोषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः । आहोस्वित् मुखनैर्मल्यप्रस्तावात् अप्रस्तुतप्रशंसा इति बहूनां सन्देहादयमेव सङ्करः ।
यत्र तु न्यायदोषयोरन्यरस्यावतारः तत्र एकतरस्य निश्चयात् न संशयः ॥
न्यायश्च साधकत्वम् अनुकूलता दोषो ऽपि बाधकत्वं प्रतिकूलता । तत्र

{सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः ॥५७५॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३२१)

इत्यत्र मुख्यतया अवगम्यमाना हासद्युतिर्वक्त्रे एवानुकूल्यं भजते इत्युपमायाः साधकम् । शशिना तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता ।

{वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ॥५७६॥}
(हर्षस्य रत्नावलि [३।२३ च्द्])

इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम् ।

{राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ॥५७७॥}
(उद्भटस्य काव्यालङ्कारसारसङ्ग्रह)

इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदृशं प्रति परप्रेयसीप्रयुक्तस्यालोङ्गनस्यासम्भवात् ।

{पादाम्बुजं भवतु नो विजयाय मञ्जु-
मञ्जीरशिज्जितमनोहरमम्बिकायाः ॥५७८॥}
(कालिदास, पञ्चस्तवी ३।१)

इत्यत्र मञ्जीरशिञ्जितम् अम्बुजे प्रतिकूलम् असम्भवादिति रूपकस्यबाधकम् न तु पादे ऽनुकूलमित्युपमायाः साधकमभिधयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः ॥

एवमन्यत्रापि सुधीभिः परीक्ष्यम् ॥१४०॥

स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् ।
व्यवस्थितं च ॥।

अभिन्ने एव पदे स्फुटतया, यत् उभावपि शब्दार्थालङ्कारौ व्यवस्थां समासादयतः सो ऽप्यपरः सङ्करः । उदाहरणम् —-

{स्पष्टोल्लसत्किरणकेसरसूर्यबिम्ब-
विस्तीर्णकणिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतार-
बद्धान्धकारमधपावलि सञ्चकोच ॥५७९॥}
(रत्नाकरस्य हरविजय १९।१)

अत्र एकापदानुप्रविष्टौ रूपकानुप्रासौ ॥

॥। तेनासौ त्रिरूपः परिकीर्तितः ॥ ङ्क्प्र्-क्_१४१ ॥

तदयमनुग्राह्यानुग्राहकतया सन्देहेन एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकार एव सङ्करो व्याकृतः । प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः
शब्दार्थोभयगतत्वेन त्रिविध्यजुषो ऽलङ्काराः ॥

कुतः पुनरेष नियमो यदेतेषां तुल्ये ऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य कश्चिदर्थस्य कश्चिच्चोभयस्य इति चेत् । उक्तन्त्र यथा काव्ये दोषगुणाऌअङ्काराणां शब्दार्थोभयगतत्वेन
व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः निमित्तान्तरस्याभावात् । ततश्च यो ऽलङ्कारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यते इति ।

एवं च यथा पुनरुक्तवदाभासः परम्परितरूपकं चोभयोर् भावानुविधायितया, उभयालङ्कारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयो ऽपि द्रष्टव्याः । अर्थस्य तु तत्र वैवित्र्यम् उत्कटतया प्रतिभासते, इति वाच्यालङ्कारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः ॥

यो ऽलङ्कारो यदाश्रितः स तदलङ्कार इत्यपि कल्पनायाम् अन्वयव्यतिरेलावेव समाश्रयितव्यौ तदाश्रयणमन्तरेण विशिष्टस्याश्रयिभावस्याभावादित्यलङ्काराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान् ॥१४१॥

एषां दोषा यथायोगं सम्भवन्तो ऽपि केचन ।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ ङ्क्प्र्-क्_१४२ ॥

तथाहि —- अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः । ते प्रसिद्धिविरुद्धताम् अपुष्टाथत्वम् प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् । क्रमेणोदाहरणम् —-

{चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजाग्रान्
अक्षं नक्षत्रनाथोरुणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोन्वहमहिमरुचेः सोवतात्स्यन्दनो वः ॥५८०॥}
(मयूरस्य सूर्यशतक ७१)

अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः ॥

{भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे ॥५८१॥}
(रुद्रटस्य काव्यालङ्कार २।२२)

{अनुणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥५८२ (=२०७)॥}
(रुद्रटस्य काव्यालङ्कार २।२३)

अत्र वाव्यस्य विचिन्त्यमानं न किञ्चिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैफल्यम् ॥
अकुण्ठोत्कण्ठया इति अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यते इति परुषानुप्रासो ऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः ॥
यमकस्य पादत्रयगतत्वेन यमनमप्रयुतत्वं दोषः ॥ यथा

{भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः ।
दुरन्ततां निर्णयतो ऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः ॥५८३॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

उपमायाम् उपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादृशी अनुचितार्थत्वं दोषः । धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः ॥ क्रमेणोदाहरणम् –

{चण्डालैरिव युष्माभिः साहसं परमं कृतम् ॥५८४॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ४,२।९)

{वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ॥५८५॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ४।२)

{अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥५८६॥}
(भामहस्य काव्यालङ्कार २।२५; वामनस्य काव्यालङ्कारसूत्रवृत्ति ४,२।११)

{पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥५८७॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ४,२।११)

अत्र चण्डालादिभिरुपमानः प्रस्तुतो ऽर्थो ऽत्यर्थमेव कदर्थित इत्यनुचिताथन्ता ॥

{स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥५८८॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति ४,२।९)

अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम् ॥

{स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥५८९॥}
(भामहस्य काव्यालङ्कार २।५८)

अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमतिरिच्यते इत्यधिकपदत्वम् ॥

लिङ्गवचनभेदो ऽपि उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात् । तदा एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण
प्रतीयते इति प्रकान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम् । यथा —-

{चिन्तारत्नमिव च्युतोसि करतो धिङ्मन्दभाग्यस्य मे ॥५९०॥}
(रुद्रट, काव्यालङ्कार ११।२०)

{सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ॥५९१॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३३४)

यत्र तु नानात्वे ऽपि लिङ्ग्गवचनयोः सामान्याभिधायि पदं द्वरूपभेदं नापद्यते न तत्रैतद्दूषणावतारः उभयथापि अस्य अनुगमक्षमस्वभावत्वात् । यथा

{गुणैरनर्घ्यैः प्रथितो रत्नैरिव महार्णवः ॥५९२॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३३५)

{तद्वेषोसदृशोन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥५९३॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३३६)

कालपुरुषविध्यादिभेदे ऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नप्रक्रमतयैव व्याप्तः । यथा

{अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती ।
पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना ॥५९४॥}
(कालिदासस्य रघुवम्श १७।१)

अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः ।

{प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः
कौसुम्भरागरुचिरस्फुरदंशुकान्ताः ।
विभ्राजसे मकरकेतनमर्चयन्ती
बालप्रबालविटपप्रभवा लतेव ॥५९५॥}
(हर्षस्य रत्नावलि १।२०)

अत्र लता विभ्राजते न तु विभ्राजसे इति सम्बोध्यमाननिष्ठस्य परभागस्य असम्बोध्यमानविषयतया व्यत्यासात् पुरुषभेदः ।

{गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥५९६॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३३९)

इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु इति अप्रवृत्तप्रवर्तनात्मनो विधेः । एवञ्जातीयकस्य चान्यस्यार्थस्य उपमानगतस्यासम्भवाद्विध्यादिभेदः ॥

ननु समानम् उच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायाम् उपमायाम् उपमेयस्य प्रकृतधर्मामिसम्बन्धान्न कश्चित्कालादिभेदो ऽस्ति । यत्राप्युपात्तेनैव सामान्यधर्मेण उपमा
अवगम्यते यथा {युधिष्ठिर इवायं सत्यं वदति} इति तत्र युधिष्थिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे । सत्यवादी सत्यं वदतीति च न पौनरुक्त्यम् आशङ्कनीयम् रैपोषं पुष्णातीतिवत्
युधिष्थिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात् । सत्यमेतत् किं तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम् प्रस्तुतवस्तुप्रतीतिव्याधातादिति सवेतस एवात्र प्रमाणम् ॥
असादृश्यासम्भवावप्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः । यथा

{ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ॥५९७॥}
(वामनस्य काव्यालङ्कारसूत्रवृत्ति २,४।१६)

अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम् ।

{निपेतुरास्यादिव तस्य दीप्ताः
शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधारा
दिनार्धभाजः परिवेषिणोर्कात् ॥५९८॥}
(गोविन्दठक्कुरस्य काव्यप्रदीप)

अत्रापि ज्वलन्त्योम्बुधाराः सूर्यमण्डलात् निष्पतन्त्यो न सम्भवन्तीत्युपनिबध्यमानो ऽर्थो ऽनौचित्यमेव पुष्णाति ॥
उत्प्रेक्षायामपि सम्भावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दो ऽपि केवलस्यास्य साधार्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः ।
यथा

{उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यशङ्कासङ्कुचितम्य था ॥५९९॥}
(श्रिवत्सलाञ्छनाचार्यस्य काव्यपरीक्षा ३४०)

उत्प्रेक्षितमपि तात्त्विकेन रूपेण परिवर्जितत्वात् निरुपाख्यप्रख्यम् । तत्समर्थनाय यत् अर्थान्तरन्यासोपादानम् तत् आलेख्यमिव गगनतलेत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य । अनुचितार्थतैव दोषः । यथा

{दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रे ऽपि नूनं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥६००॥}
(कालिदासस्य कुमारसम्भव १।१२)

अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न सम्भवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् । सम्भावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः ।
साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत् तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः । यथा

{स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया ।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥६०१॥}
(रत्नाकरस्य हरविजय ३।३७)

अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियो ऽपि प्रतिनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन ॥
श्लेषोपमायास्तु स विषयः यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः । यथा

{स्वयं च पल्लवाताम्र भास्वत्करविराजिता ।
प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥६०२॥} इति॥
(उद्भटस्य काव्यालङ्कारसारसङ्ग्रह ४।१५)

अप्रस्तुतप्रशंसायामपि उपमेयम् अनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम् । यथा

{आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते
मध्येवारिधि वावसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥६०३॥}
(भल्लटशतक ६७)

अत्र अचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम् ॥
तदेत अलङ्कारदोषाः यथासम्भाविनोन्ये ऽप्येवञ्जातीयकाः पूर्वोक्तयैव दोषजात्या अन्तर्भाविताः न पृथग् प्रतिपादनमर्हन्तीति सम्पूर्णमिदं काव्यलक्षणम् ॥१४२॥

{इत्येष मार्गो विदुषां विभिन्नो ऽप्यभिन्नरूपः प्रतिभासते यत् ।
न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता सङ्घटनैव हेतुः ॥१॥}

इति काव्यप्रकाशे ऽर्थालङ्कारनिर्णयो नाम दशम उल्लासः ॥

॥ समाप्तश्चायं काव्यप्रकाशः ॥

॥ समाप्तो ऽयं ग्रन्थः ॥