॥ अथ नवम उल्लासः ॥
गुणविवेचने कृते ऽलङ्काराः प्राप्तावसराः, इति सम्प्रति शब्दालङ्कारानाह (सू- १०३)
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥७८॥
तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्व ।
तत्र पदभङ्गश्लेषेण यथा नारीणामनुकूलमाचरसि चेज्जानासि कश्वेतनो वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् ।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः ॥ ३५२ ॥
अभङ्गश्लेषेण यथा अहो केनेदृशी बुद्धिर्वारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ ३५३ ॥
काक्वा यथा गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमये ऽसौ ॥ ३५४ ॥
(सू- १०४)
वर्णसाम्यमनुप्रासः
स्वरवैसादृश्ये ऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् ।
रसाद्यनुगतः प्रकृष्टो न्यासो ऽनुप्रासः ।
(सू- १०५)
छेकवृत्तिगतो द्विधा ।
छेकाः, विदग्धाः ।
वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः ।
गत इति छेकानुप्रासो वृच्यनुप्रासश्व ।
किं तयोः स्वरूपम्, इत्याह–
(सू- १०६)
सो ऽनेकस्य सकृत्पूर्वः
अनेकस्य, अर्थात व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः ।
उदाहरणम् ततो ऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ ३५५ ॥
(सू- १०७)
एकस्याप्यसकृत्परः ॥७९॥
एकस्य, अपिशब्दादनेकस्य व्यज्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृच्यनुप्रासः ।
तत्र (सू- १०८)
माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते ।
(सू- १०९)
ओजःप्रकाशकैस्तैस्तु परुषा
उभयत्रापि प्रागुदाहृतम् ।
(सू- ११०)
कोमला परैः ॥८०॥
परैः शेषैः ।
तामेव केचित् ग्राम्येति वदन्ति ।
उदाहरणम् अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ ३५६ ॥
(सू- १११)
केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ।
एतास्तिस्रो वृत्तयः, वामनादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः ॥
(सू- ११२)
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥८१॥
शब्दगतो ऽनुप्रासः शब्दार्थयोरभेदे ऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः ।
एष पदानुप्रास इत्यन्ये ॥
(सू- ११३)
पदानां सः
स इति लाटानुप्रासः ।
उदाहरणम् यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ ३५७ ॥
(सू- ११४)
पदस्यापि
अपिशब्देन स इति समुच्चीयते ।
उदाहरणम् वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः ।
सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ॥ ३५८ ॥
(सू- ११५)
वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृच्यवृच्योश्च
एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् ।
उदाहरणम् सितकरकररुचितविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥ ३५९ ॥
(सू- ११६)
तदेवं पञ्चधा मतः ॥८२॥
(सू- ११७)
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः ।
यमकम्
समरसमरसो ऽयमित्यादावेकेषामर्थवच्वे, अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति, अर्थे सतीत्युक्तम् ।
सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता ।
(सू- ११८)
पादतद्भागवृत्ति तद्यात्यनेकताम् ॥८३॥
प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्वतुर्थे प्रथमस्त्रिष्वपीति सप्त ।
प्रथमो द्वितीये तृतीयश्वतुर्थे प्रथमश्वतुर्थे द्वितीयस्तृतीये, इति द्वे ।
तदेवं पादजं नवभेदम् ।
अर्धावृत्तिः श्लोकावृत्तिश्वेति द्वे ।
द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, अन्तभागो ऽन्तभागेष्विति विंशतिर्बेदाः श्लोकान्तरे हि नासौ भागावृत्तिः ।
त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत् ।
प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते, आद्यार्धादिभागे यम्यते, इत्याद्यन्वर्थतानुसरणेनानेकभेदम् अन्तादिकम् आद्यन्तिकम् तत्समुच्चयः, मध्यान्दिकम् आदिपध्यम् अन्तमध्यम् मध्यान्तिकं तेषां समुच्चयः ।
तथा तस्मिन्नेव पादे, आद्यादिभागानां मध्यादिभागेषु,अनियते च स्थाने, आवृत्तिरिति प्रभूततमभेदम् ।
तदेतत्काव्यान्तर्गडुभूतम् इति नास्य भेदलक्षणं कृतम् ।
दिङ्बात्रमुदाह्रियते सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणो ऽमायस्ततस्त्वं पृथिवीं जय ॥ ३६० ॥
विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना ।
महाजनो ऽदीयत मानसादरं महाजनोदी यतमानसादरम् ॥ ३६१ ॥
स त्वारम्भरतो ऽवश्यमबलं विततारवम् ।
सर्वदा रणमानैषीदवानलसमस्थितः ॥ ३६२ ॥
सच्वारम्भरतो ऽवश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः ॥ ३६३ ॥
अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् ।
या च मातेव भजते प्रणते मानवे दयाम् ॥ ३६४ ॥
यदानतो ऽयदानतो नयात्ययं न यात्ययम् ।
शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥ ३६५ ॥
सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति ।
सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ३६६ ॥
ससार साकं दर्पेण कन्दर्पेण ससारसा ।
शरन्नवाना विभ्राणा नाबिभ्राणा शरन्नवा ॥ ३६७ ॥
मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् ।
अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत् ॥ ३६८ ॥
एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम् ॥
(सू- ११९)
वाच्यभेदेन भिन्ना यत् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषो ऽसावक्षरादिभिरष्टधा ॥८४॥
“अर्थभेदेन शब्दभेदःऽ; इति दर्शने “काव्यमार्गे स्वरो न गण्यतेऽ; इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नुवते स श्लेषः ।
स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा ।
क्रमेणोदाहरणम्– अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥ ३६९ ॥
पृथुकार्तस्वरपात्रं भूषितनिः शेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ ३७० ॥
भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ३७१ ॥
एष वचनश्लेषो ऽपि ।
महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसरौमे सहमा ॥ ३७२ ॥
अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥ ३७३ ॥
रजनिरमणमौलेः पादपझावलोकक्षणसमयपराप्तापूर्वसम्पत्सहस्रम् ।
प्रमथनिवहमध्ये जातुचिच्वत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे ॥ ३७४ ॥
सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसाम्मुख्यमायासि तनुवर्तनम् ॥ ३७५ ॥
(सू- १२०)
भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् ।
नवमो ऽपीत्यपिर्भिन्नक्रमः ।
उदाहरणम्– यो ऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः ।
शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ॥ ३७६ ॥
अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ ॥
ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धे ऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषो ऽर्थश्लेषश्वेति द्विविधो ऽप्यर्थालङ्कारमध्ये परिगणितो ऽन्यैरिति कथमयं शब्दालङ्कारः ।
उच्यते–इह दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभागः सः, अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते ।
तथाहि–कष्टत्वादिगाढत्वाद्यनुप्रासादयः, व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधाय् इत्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।
स्वयं च पल्लवाताम्रभास्वत्करविरीजिता ।
इत्यभङ्गः प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥ ३७७ ॥
इति सभङ्गः इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम् न त्वाद्यस्यार्थश्लेषत्वम् ।
अर्थश्लेषस्य तु स विषयः, यत्र शब्दपरिवर्तने ऽपि न श्लेषत्वखण्डना ।
यथा स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ ३७८ ॥
न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा ।
तथाहि–यथा “कमलमिव मुखं मनोज्ञमेतत्कचतितराम्ऽ; इत्यादौ गुणसाम्ये क्रियासाम्ये, उभयसाम्ये वा, उपमा ।
तथा “सकलकलं पुरमेतञ्जातं सम्प्रति सुधाशुबिम्बमिवऽ; इत्यादौ शब्दमात्रसाम्ये ऽपि सायुक्तैव ।
तथा ह्युक्तं रुद्रटेन “स्फुटमर्थालङ्कारावेतावुतावुपमासमुच्चयौ किं तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः” ॥
इति ।
न च “कमलमिव मुखम्ऽ; इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम् पूर्णोपमाया निर्विषयत्वापत्तेः ॥
देव त्वमेव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥ ३७९ ॥
इत्यादिः श्लेषस्य चोपमाद्यलङ्कारविविक्तो ऽस्ति विषय इति ।
द्वयोर्योगे, सङ्कर एव ।
उपपत्तिपर्यालोचने तु, उपमाया एवायं युक्तो विषयः ।
अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् ।
न च “अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुकाऽ; इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः ।
न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः, द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात् ।
न च विरोधाबास इव विरोधः श्लेषाभासः श्लेषः ।
तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव ।
तथा च सद्वंशमुक्तामणिः ॥ ३८० ॥
नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान् ॥ ३८१ ॥
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्वित्रा तथापि न समागमः ॥ ३८२ ॥
आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
यश्वित्रमच्युतशरो लक्ष्यमबाङ्क्षीन्नमस्तस्मै ॥ ३८३ ॥
इत्यादौविलष्टपरम्परिनरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितम् न तु श्लेषत्वम् ॥
शब्द श्लेष इति चोच्यते, अर्थालङ्कारमध्ये च लक्ष्यते, इति को ऽयं नयः ।
किं च वैचित्र्यमलङ्कार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता, इति सैवालङ्कारभूमिः ।
अर्थमुस्वप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति ते ऽप्यर्थालङ्काराः किं नेच्यन्ते ।
रसादिव्यज्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वे ऽपि ह्यनुप्रासादीनामलङ्कारता ।
शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता ।
अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव व्यवस्थितिरिति ते ऽपि शब्दगतत्वेनोच्यन्ताम् ।
“विधौ वक्रे मूर्ध्निऽ; इत्यादौ च वर्णादिश्लेषे, एकप्रयत्नोच्चार्यत्वे ऽर्थश्लेषत्वं शब्दभेदे ऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम् ॥
(सू- १२१)
तच्चित्रं यत्र वर्णानां खढ्गाद्याकृतिहेतुता ॥८५॥
सन्निवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपझाद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् ।
कष्टं काव्यमेतदिति दिङ्भात्रं प्रदर्श्यन्ते ।
उदाहरणम्– मारारिशक्ररामेभमुखैरासाररंहसा ।
सारारब्धस्तवा नित्यं तदार्तिहरणक्षणा ॥ ३८४ ॥
माता नतानां सङ्घट्टः श्रियां बाधितसम्भ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥ ३८५ ॥
(खड्गबन्धः) सरला बहुलारम्भतरलालिबलारवा ।
वारलाबहुलामन्दकरलाबहुलामला ॥ ३८६ ॥
(मुरजबन्धः) भासते प्रतिभासार रसाभाताहताविभा ।
भावितात्मा शुभा वादे देवाभा बत ते सभा ॥ ३८७ ॥
(पझबन्धः) रसासार रसा सारसायताक्ष क्षतायसा ।
सातावात तवातासा रक्षतस्त्वस्त्वतङ्क्षर ॥ ३८८ ॥
(सर्वतोभद्रम्) सम्भविनो ऽप्यन्ते प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते ॥
(सू- १२२)
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव
भिन्नरूपसार्थकानर्थकश्ब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः ।
स च (सू- १२३)
शब्दस्य
सभह्गाभङ्गरूपकेवलशब्दनिष्ठः ।
उदाहरणम्– अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ ३८९ ॥
चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥ ३९० ॥
(सू- १२४)
तथा शब्दार्थयोरयम् ॥८६॥
उदाहरणम्– तनुवपुरजघन्यो ऽसौ करिकुञ्जररुधिररक्तखरनखरः ।
तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ॥ ३९१ ॥
अत्रैक्समिन् पदे परिवर्तिन्ते नालङ्कार इति शब्दाश्रयः, अपरस्मिस्तु परिवर्तिते ऽपि स न हीयते, इत्यर्थनिष्ठ इत्युभयालङ्कारो ऽयम् ॥
इति काव्यप्रकाशे शब्दालङ्कारनिर्णयो नाम नवम उल्लासः ॥