०८

॥ अथ अष्टम उल्लासः ॥

एवं दोषानुक्त्वा गुणालङ्कारविवेकमाह (सू- ८७)

ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥६६॥

आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् ।
क्वचितु शौर्यादिसमुचितस्याकारमहच्वादेर्दर्शनात् “आकार एवास्य शूरःऽ; इत्यादेर्व्यवहारादन्यत्राशूरे ऽपि वितताकृतित्वमात्रेण “शूरःऽ; इति क्वापि शूरे ऽपि मूर्तिलाघवमात्रेण “अशूरःऽ; इति, अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिवन्ध्या व्यवहरन्ति, अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु वर्णमात्राश्रयाः ।
यथैषां व्यञ्जकत्वम् तथोदाहरिष्यते ॥
(सू- ८८)

उपकुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयः ॥६७॥

ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं सम्भविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणो ऽपि, उपकारका हारादय इवालङ्काराः ।
यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः ।
क्वचित्तु सन्तमपि नोपकुर्वन्ति ।
यथाक्रममुदाहरणानि– अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैः इति वदति दिवानिशं बाला ॥ ३४१ ॥
इत्यादौ वाचकमुखेन मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ ३४२ ॥
इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः ॥
चित्ते विहट्टदि ण टुट्टदि सा गुणेसुं सेज्जासु लोट्टदि विसट्टदि दिम्मुहेसुं ।
बोलम्मि वट्टदि पवट्टदि कव्वबन्धे झाणेण टुट्टदि चिरं तरुणी तरट्टी ॥ ३४३ ॥
इत्यादौ वाचकमेव ।
मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् ।
चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ ३४४ ॥
इत्यादौ वाच्यमेव न तु रसम् ।
अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा ॥
एष एव च गुणालङ्कारप्रविभागः ।
एवं च “समवायवृच्या शौर्यादयः संयोगवच्यातु हारादय इत्यस्तु गुणालङ्काराणां भेदः, ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समबायवृच्या स्थितिरिति गड्डलिकाप्रवाहेणैवैषां भेदः” इत्यभिधानमसत् ॥
यदप्युक्तम् “काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः” इति तदपि न युक्तम् ।
यतः किं समस्तैर्गुणैः काव्यव्यवहारः, उत कतिपयैः ।
यदि समस्तैः, तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः काव्यस्यात्मा ।
अत कतिपयैः, ततः अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ॥ ३४५ ॥
इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः ।
स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी ।
अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥ ३४६ ॥
इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ ॥
इदानीं गुणानां भेदमाह (सू- ८९)

माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
एषां क्रमेण लक्षणमाह (सू- ९०)

आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥६८॥

शृङ्गारे अर्थात् सम्भोगे ।
द्रुतिर्गलितत्वमिव ।
श्रव्यत्वं पुनरोजःप्रसादयोरपि ॥
(सू- ९१)

करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
अत्यन्तद्रुतिहेतुत्वात् ॥
(सू- ९२)

दीप्त्यात्मविस्तृतेर्हेतुरोज वीररसस्थिति ॥६९॥

चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः ॥
(सू- ९३)

बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
वीराद्बीभत्से ततो रौद्रे सातिशयमोजः ॥
(सू- ९४)

शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥७०॥

(सू- ९५)

व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ।
अन्यदिति ।
व्याप्यमिह चित्तम् ।
सर्वत्रेति ।
सर्वेषु रसेषु सर्वासु रचनासु च ॥

गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥७१॥

गुणवृच्या, उपचारेण ।
तेषां गुणानाम् ।
आकारे शौर्यस्येव ॥
कुतस्त्रय एव न दश इत्याह (सू- ९६)

केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचित् न ततो दश ॥७२॥

बहूनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः, यश्वारोहावरोहक्रमरूपः समाधिः, या च विकटत्वलक्षणा, उदारता यश्वौजोमिश्रितशैथिल्यात्मा प्रसादः, तेषामोजस्यन्तर्भावः ।
पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम् ।
प्रसादेनार्थव्यक्तिर्गृहीता ।
मार्गाभेदरूपा समताक्वचिद्दोषः ।
तथाहि “मातङ्गाः किमु वल्गितैःऽ; इत्यादौ सिंहाभिधाने मसृणमार्गत्यागौ गुणः ।
कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्व स्वीकृता ।
एवं न दश शब्दगुणाः ॥
“पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा ।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥
ऽ; इति या प्रौढिः ओज इत्युक्तं तत् वैचित्र्यमात्रम् न गुणः ।
तदभावे ऽपि काव्यव्यवहारप्रवृत्तेः ।
अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च साभिप्रायत्वरूपमोजः, अर्थवैमल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं माधुर्यम् अपारुष्यरुपं सौकुमार्यम् अग्राम्यत्वरुपा, उदारता च स्वीकृतानि ।
अभिधास्यमानस्वभावोक्त्यलङ्कारेण रसध्वनिगुणीभूतव्यह्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा, अर्थव्यक्तिः, दीप्तरसत्वरुपा कान्तिश्व स्वीकृता ।
क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषो ऽपि विचित्रत्वमात्रम् ।
अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः ।
कः खल्वनुन्मत्तो ऽन्यस्य प्रस्यावे ऽन्यदभिदध्यात् ।
अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् इत्यर्थदृष्टिरूपः समाधिरपि न गुणः ॥
(सू- ९७)

तेन नार्थगुणा वाच्याः वाच्याः वक्तव्याः ॥
(सू- ९८)

प्रोक्ताः शब्दगुणाश्व ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥७३॥

के कस्य इत्याह (सू- ९९)

मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥७४॥

टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः, तथा रेफणकारौ ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः, तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका ।
उदाहरणम् अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः ।
कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥ ३४७ ॥
(सू- १००)

योग आद्यतृतीयाब्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्ध्यं गुम्फ उद्धत ओजसि ॥७५॥

वर्गप्रथमतृतीयाभ्यामन्त्ययोः, द्वितीयचतुर्थयोः, रेफेण, अध उपरि, उभयत्र वा यस्य कस्यचित् तुल्ययोः, तेन तस्यैव सम्बन्धः टवर्गो ऽर्थात् णकारवर्जः शकारषकारौ दीर्घसमासः, विकटा सङ्घटना, ओजसः ।
उदाहरणम्–मूर्ध्नामुद्वृत्तकृत्तेत्यादि ॥ ३४८ ॥
(सू- १०१)

श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥७६॥

समग्राणां रसानां सङ्घटनानां च ।
उदाहरणम् परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्र्लथभुजलताक्षेपवलनैः कृशाह्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ॥ ३४९ ॥
यद्यपि गुणपरतन्त्राः सङ्घटनादयस्तथापि (सू- १०२)

वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥७७॥

क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः ।
यथा मन्तायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।
कृष्णाक्रोधाग्रडूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽसौ ॥ ३५० ॥
अत्र हि न वाच्यं क्रोधादिब्यञ्जकम् ।
अभिनेयार्थं च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः ।
वक्ता चात्र भीमसेनः ॥
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रजनादयः ।
यथा प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात- त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।
कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाह्गम् ॥ ३५१ ॥
क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते ।
तथाहि–आख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः कथायां रौद्रे ऽपि नात्यन्तमुद्धताः, नाटकादौ रौद्रे ऽपि न दीर्घसमासादयः ।
एवमन्यदप्यौचित्यमनुसर्तव्यम् ॥

इति काव्यप्रकाशे गुणालङ्कारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः ॥८ ॥ ॥