०७

॥ अथ सप्तम उल्लासः ॥

काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह (सू- ७१)

मुश्यार्थहतिर्देषो रसश्व मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥४९॥

हतीरपकर्षः ।
शब्दाद्याः, इत्याद्यग्रहणाद्वर्णरचने ।
विशेषलक्षणमाह (सू- ७२)

दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्र युक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥५०॥

सन्दिग्धमप्रतीतं ग्राम्यं नोयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्वमतिकृत्समासगतमेव ॥५१॥

(१) “श्रुतिकटुऽ; परुषवर्णरूपं दुष्टं यथा अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥ १४१ ॥
अत्र कार्तार्थ्यमिति ॥
(२) “च्युतसंस्कृतिऽ; व्याकरणलक्षणहीनं यथा एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥ १४२ ॥
अत्रानुनाथते, इति ।
“सर्पिषो नाथतेऽ; इत्यादाविवाशिष्येव नाथतेरात्मनेपदं विहितम् “आशिषि नाथः” इति ।
अत्र तु याचनमर्थः ।
तस्मात् “अनुनाथति स्तनयुगम्ऽ; इति पठनीयम् ।
(३) “अप्रयुक्तंऽ; तथा, आम्नातमपि कविभिर्नादृतम् ।
यथा यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये दैवतो ऽस्य पिशाचो राक्षसो ऽथ वा ॥ १४३ ॥
अत्र दैवतशब्दो “दैवतानि पुंसि वाऽ; इति पुंस्याम्नातो ऽपि न केनचित्प्रयुज्यते ।
(४) “असमर्थंऽ; यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः ।
यथा तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः ।
सुनस्रोतस्विनीमेष हन्ति सम्प्रति सादरम् ॥ १४४ ॥
अत्र हन्तीति गमनार्थम् ॥
(५) “निहतार्थंऽ; यदुभयार्थमप्रसिद्धे ऽर्थे प्रयुक्तम् ।
यथा यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन ।
मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १४५ ॥
अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोञ्ज्वलीकृतत्वरूपो ऽर्थो व्यवधीयते ।
(६) “अनुचितार्थंऽ; यथा तपस्विभिर्या सुचिरेण लब्यते प्रयत्नतः सत्त्रिभिरिष्यते च या ।
प्रयान्ति तामाशु गतिं यशस्विनो रणास्वमेधे पशुतामुपागताः ॥ १४६ ॥
अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् ॥
(७) “निरर्थकंऽ; पादपुरणमात्रप्रयोजनं चादिपदम् ।
यथा उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥ १४७ ॥
अत्र हिशब्दः ॥
(८) “अवाचकंऽ; यथा अवन्धयकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ १४८ ॥
अत्र जन्तुपदमदातर्यर्थे विवक्षितम् तत्र च नाभिधायकम् ।
यथा वा हाधिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् ।
किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोको ऽधुना ॥ १४९ ॥
अत्र दिनमिति प्रकाशमयमित्यर्थे ऽवाचकम् ।
यच्चोपसर्गसंसर्गादर्थान्तरगतम् ।
यथा जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥ १५० ॥
अत्र दधदित्यर्थे विदधदिति ॥
(९) “अश्लीलम्ऽ; त्रिधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् ।
यथा साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः को ऽन्यः सहेतारालितां भ्रुवम् ॥ १५१ ॥
(१) लीलातामरसाहतो ऽन्यवनितानिःशह्कदष्टाधरः कश्वित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता ॥ १५२ ॥
(२) मृदुपवनविभिन्नो मत्प्रियाया निनाशात् घनरुचिरकलापो निःसपत्नो ऽद्य जातः ।
रतिविगलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बर्ही ॥ १५३ ॥
(३) एषु साधनवायुविनाशशब्दाः, व्रीडादिव्यञ्जकाः ॥
(१०) “सन्दिग्धंऽ; यथा आलिङ्गितस्तत्रभवान् सम्पराये जयश्रिया ।
आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥ १५४ ॥
अत्र वन्द्यां किं हठहृतमहिलायाम् किं वा नमस्यामिति सन्देहः ॥
(११) “अप्रतीतंऽ; यत्केवले शास्त्रे प्रसिद्धम् ।
यथा सम्यग्ज्ञानमाहाज्योतिर्दलिताशयताजुषः ।
विधीयमानमप्येतन्न भवेत्कर्म बन्धनम् ॥ १५५ ॥
अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्तः ॥
(१२) “ग्राम्यंऽ; यत्केवले लोके स्थितम् ।
यथा राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम् ।
तपनीयशिलाशोभा कटिश्व हरते मनः ॥ १५६ ॥
अत्र कटिरिति ॥
(१३) “नेयार्थंऽ; “निरूढा लक्षणाः काश्वित् सामर्थ्यादभिधानवत् ।
क्रियन्ते साम्प्रतं काश्वित् काश्विन्नैव त्वशक्तितः” ॥
इति यन्निषिद्धं लाक्षणिकम् ।
यथा शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम् ।
करोति ते मुखं तन्वि चपेटापातनातिथिम् ॥ १५७ ॥
अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते ॥
अथ समासगतमेव दुष्टमिति सम्बन्धः, अन्यत् केवलं समासगतं च ॥
(१४) “क्लिष्टंऽ; यतः, अर्थप्रतिपत्तिर्व्यवहिता ।
यथा अत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः ।
सदृशं शोभते ऽत्यर्थं भूपाल तव चेष्टितम् ॥ १५८ ॥
अत्रात्रिलोचनसम्भूतस्य चन्द्रस्य ज्योतिरुद्घमेन भासिभिः कुमुदैरित्यर्थः ॥
(१५) “अविमृष्टविधेयांशंऽ; अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् ।
यथा मूर्ध्नमुद्वृत्तकृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा- धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् ।
कैलासौल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषां किमतत् फलमिह नगरीरक्षणे यत् प्रयासः ॥ १५९ ॥
अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम् ।
यथा वा स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ १६० ॥
अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम् ।
मौर्वीं द्वितीयामिति युक्तः पाठः ।
यथा वा वपुर्विरूपाक्षणलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ १६१ ॥
अत्र “अलक्षिता जनिःऽ; इति वाच्यम् ।
यथा वा आनन्दसिन्धुरतिचापलशालिचित्तसन्दाननैकसदनं क्षणमप्यमुक्ता ।
या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव सम्प्रति धिग्धिगस्मान् ॥ १६२ ॥
अत्र “न मुक्ताऽ; इति निषेधो विधेयः ।
यथा नवजलधरः सन्नद्धो ऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥ १६३ ॥
इत्यत्र ।
न त्वमुक्ततानुवादेनान्यदत्र किञ्चिद्विहितम् ।
यथा जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत् ॥ १६४ ॥
इत्यत्र, अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि ॥
(१६) “विरुद्धमतिकृत्ऽ; यथा सुधाकरकराकारविशारदविचेष्टितः ।
अकार्यमित्रमेको ऽसौ तस्य किं वर्णयामहे ॥ १६५ ॥
अत्र “कार्म्य विना मित्रम्ऽ; इति विवक्षितम् “अकार्ये मित्रम् इतिऽ; तु प्रतीतिः ।
यथा वा चिरकालपरिप्राप्तलोचनानन्ददायिनः ।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ १६६ ॥
अत्र “कण्ठग्रहम्ऽ; इति वाच्यम् ।
यथा वा न त्रस्तं यदि नाम भूतकरुणासन्तानशान्तात्मनः तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः ।
तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियो ऽहमथ वा शिष्यः कथं विस्मृतः ॥ १६७ ॥
अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति यथा वा गोरपि यद्वाहनतां प्राप्तवतः सो ऽपि गिरिसुतासिंहः ।
सविधे निरहङ्कारः पायाद्वः सो ऽम्बिकारमणः ॥ १६८ ॥
अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति ॥
“श्रुतिकटुऽ; समासगतं यथा सा दूरे च सुधासान्द्रतरङ्गितविलोचना ।
बर्हिनिर्ह्रादनार्हे ऽयं कालश्व समुपागतः ॥ १६९ ॥
एवमन्यदपि ज्ञेयम् ॥
(सू- ४७)

अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषा सन्त्येते पदस्यांशे ऽपि केचन ॥५२॥

केचन न पुनः सर्वे ।
क्रमेणोदाहरणम् सो ऽध्यैष्ट वेदांस्त्रिदशानयष्ट पित्ट्टनतार्प्सीत्सममंस्त बन्धून् ।
व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्व ॥ १७० ॥
स रातु वो दुश्व्यवनो भावुकानां परम्पराम् ।
अनेडमूकताद्यैश्व द्यतु दोषैरसम्मतान् ॥ १७१ ॥
अत्र दुश्व्यवन इन्द्रः, अनेडमूको मूकबधिरः ॥
सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः ।
अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः ॥ १७२ ॥
अत्र सायकादयः शब्दाः खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धाः ॥
कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो ।
शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥ १७३ ॥
अत्र कुविन्दादिशब्दो ऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्युनुचितार्थः ।
प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम् ।
निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥ १७४ ॥
अत्र प्राभ्रभ्राड्विष्णुधामविषमाश्वनिद्रापर्णशब्दाः प्रकृष्टजलदगगनसप्ताश्वसङ्कोचदलानामवाचकाः ॥
भूपतेरुपसर्पन्ती कम्पना वामलोचना ।
तत्तत्प्रहरणोत्साहवती मोहनमादधौ ॥ १७५ ॥
अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडादायित्वादश्लीलाः ।
ते ऽन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुञ्चते ।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥ १७६ ॥
अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।
पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे ।
भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥ १७७ ॥
अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् ॥
सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः ।
मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥ १७८ ॥
अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः, इति सन्देहः ॥
तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।
दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ॥ १७९ ॥
अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः ॥
ताम्बूलभृतगल्लो ऽयं भल्लं जल्पति मानुषः ।
करोति खादनं पानं सदैव तु यथा तथा ॥ १८० ॥
अत्र गल्लादयः शब्दाः ग्राम्याः ॥
वस्त्रवैदूर्यचरणैः क्षतसच्वरजःपरा ।
निष्कम्पा रचिता नेत्रयुद्धं वेदय साम्प्रतम् ॥ १८१ ॥
अत्राम्बाररत्नपादैः क्षततमा, अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता ॥
धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ १८२ ॥
अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति सम्बन्धे क्लिष्टत्वम् ॥
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहौ रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ १८३ ॥
अत्र “अयमेव न्यक्कारःऽ; इति वाच्यम् ।
उच्छूनत्वमात्रं चानुवाद्यम्, न वृथात्वविशेषितम् ।
अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य ।
यथा वा अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् ।
विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति यो ऽसौ सुभगे तवागतः ॥ १८४ ॥
अत्र यो ऽसाविति पदद्वयमनुवाद्यमोत्रप्रतीतिकृत् ।
तथाहि–प्रक्रान्तप्रसिद्धानुभूतार्थविष्यस्तच्छब्दो यच्छब्दोपादानं नापेक्षते ।
क्रमेणोदाहरणम् ।
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताम्यामुभाब्यामन्वियेष सः ॥ १८५ ॥
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ १८६ ॥
उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥ १८७ ॥
यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते ।
यथा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ १८८ ॥
प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः ।
यथा अत्रैव श्लोके, आद्यपादयोर्व्यतयासे ।
द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम् ।
अनुपादाने ऽपि सामर्थ्यात्कुत्रचिद्द्वयमपि गम्यते ।
यथा ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यते ऽस्ति मम को ऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ १८९ ॥
अत्र य उत्पत्स्यते तं प्रतीति ।
एवं च तच्छब्दानुपादाने ऽत्र साकाङ्क्षत्वम् ।
न चासाविति तच्छब्दार्थमाह ।
असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥ १९० ॥
अत्र हि न तच्छब्दार्थप्रतीतिः ।
प्रतीतौ वा करकालकरालदोःसहायो युधि यो ऽसौ विजयार्जुनैकमल्लः ।
यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ॥ १९१ ॥
अत्र स इत्यस्यानर्थक्यं स्यात् ।
अथ यो ऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
आत्मपक्षरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १९२ ॥
इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते, इति, उच्यते ।
तर्ह्यत्रेव वाक्यान्तरे, उपादानमर्हति न तत्रैव ।
यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति ।
यथा यत्तदूर्जितमत्युग्रं क्षात्रं तेजो ऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ १९३ ॥
इत्यत्र तच्छब्दः ।
ननु कथम् कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ॥ १९४ ॥
अत्र यद्यदित्युक्त्वा तन्मे, इत्युक्तम् ।
उच्यते–यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तम् तथाभूतमेव तच्छब्देन परामृश्यते ।
यथा वा किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजो ऽसौ गुरुर्- माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥ १९५ ॥
अत्रार्यस्येति तातस्येति च वाच्यम् न त्वनयोः समासे गुणीभावः कार्यः ।
एवं समासान्तरे ऽप्युदाहार्यम् ॥
विरुद्धमतिकृद्यथा श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः ।
विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ॥ १९६ ॥
अत्र क्षणादिगुणयुक्ताः सुखमासते, इति विवक्षिते हता इति विरुद्धा प्रतीतिः ॥
पदैकदेशे यथासम्भवं क्रमेणोदाहरणम् अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः ।
इति यदि शतकृत्वस्तच्वमालोचयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ १९७ ॥
अत्र त्वादिति ।
यथा वा तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थो ऽयमर्थान्तरलभ्य एव ।
अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ १९८ ॥
अत्र द्ध्यै ब्ध्यै, इति कटु ॥
यश्वाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभार्ति ।
बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ॥ १९९ ॥
अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः ॥
आदावञ्जनपुज्जलिप्तवपुषां श्वासानिल्लोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् ।
सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ २०० ॥
अत्र दृशामिति बहुवचनं निरर्थकम् ।
कुरङ्गेक्षणाया एकस्या एवोपादानात् ।
न चालसवलितैरित्यादिवत् व्यापारभेदाद्बहुत्वम् व्यापाराणामनुपात्तत्वात् ।
न च व्यापारे ऽत्र दृक्शब्दो वर्तते ।
अत्रैव “कुरुतेऽ; इत्यात्मनेपदमप्यनर्थकम् ।
प्रधानक्रियाफलस्य कर्त्रसम्बन्धे कर्तरभिप्रायक्रियाफलाभावात् ॥
चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ २०१ ॥
अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः ॥
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः ।
परमार्थतः सहृदयं वहति पुनः कालकूटघटितमिव ॥ २०२ ॥
अत्र पेलवशब्दः ॥
यः पूयते सुरसरिन्मुखतीर्थसार्थस्नानेन शास्त्रपरिशीलनकीलनेन ।
सौजन्यमान्यजनिरूर्जितमूर्जितानां सो ऽयं दृशोः पतति कस्यचिदेव पुंसः ॥ २०३ ॥
अत्र पूयशब्दः ॥
विनयप्रणयैककेतनं सततं यो ऽभवदङ्ग तादृशः ।
कथमद्य स तद्वदीक्ष्यतां तदभिप्रेतपदं समागतः ॥ २०४ ॥
अथ प्रेतशब्दः ॥
कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥ २०५ ॥
अत्र किं पूर्वं साधुः, उत साधुषु चरतीति सन्देहः ॥
किमुच्यते ऽस्य भूपालमौलिमालामहामणेः ।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ २०६ ॥
अत्र वचःशब्देन गीःशब्दो लक्ष्यते ।
अत्र खलु न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते ।
जलध्यादावुत्तरपदेमेव वडवानलादौ पूर्वपदमेव ॥
यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः, तथाप्यन्यैरालङ्कारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः ॥
(सू- ७५)

प्रतिकूलवक्तुम्पहतलुप्तावेसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥५३॥

अर्धान्तरैकवाचकम भवन्मतयोगमनबिहितवाच्यम् ।
अपदस्थपदसमासं सङ्कीर्णं गर्भितं प्रसिद्धिहतम् ॥५४॥

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।

(१) रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं प्रतीकूलवर्णम् ।
यथा शृङ्गारे अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ २०७ ॥
रौर्दे यथा देशः सो ऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः क्षत्र्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ २०८ ॥
अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम् ।
यथा प्रागप्राप्तनिशुम्भशाम्भवधनुर्द्वेधाविधानिर्भवत्- क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात् ।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥ २०९ ॥
यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ॥
(२) उपहत उत्वं प्राप्तो (३) लुप्तो वा विसर्गो यत्र तत् ।
यथा धीरो विनीतो निपुणो वराकारो नृपो ऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥ २१० ॥
(४) विसन्धि सन्धेर्वैरूप्यम् विश्लेषो ऽश्लीलत्वं कष्टत्वं च ।
तत्राद्यं यथा राजन्विभान्ति भवतश्वरितानि तानि इन्दोर्द्युतिं दधति यानि रसातले ऽन्तः ।
धीयोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसम्पदमेत्य भातः ॥ २११ ॥
यथा वा तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः ॥
निजवम्श उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः ॥ २१२ ॥
संहितां न करोमीते स्वेच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे त्वसकृत् ॥
वेगादुड्डीय गगने चलण्डामरचेष्टितः ।
अयमुत्तपते पत्त्री ततो ऽत्रैव रुचिङ्कुरु ॥ २१३ ॥
अत्र सन्धावश्लीलता ॥
उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥ २१४ ॥
(४) हतं लक्षणानुसरणे ऽप्यश्रव्यम् अप्राप्तगुरुभावान्तलधु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् ।
क्रमेणोदाहरणम्– अमृतममृतं कः सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तराविज्जनो वदतु यदुहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २१५ ॥
अत्र “यदिहान्यत्स्वादु स्यात्ऽ; इत्य श्रव्यम् ।
यथा वा जं परिहरिउं तीरै मणअं पि ण सुन्दरत्तणगुणेण ।
अह णवरं जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ॥ २१६ ॥
अत्र द्वितीयतृतीयगणौ सकारभकारौ ।
विकसिदसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः ॥ २१७ ॥
अत्र हारिशब्दः ।
हारिप्रमुदितसौरभेति पाठो युक्तः ।
यथा वा अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां च ॥ २१८ ॥
अत्र “वस्त्राण्यपिऽ; इति पाठे लघुरपि गुरुतां भजते ॥
हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव ।
मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥ २१९ ॥
हास्यरसव्यञ्जकमेतद्वृत्तम् (६) न्यूनपदं यथा तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ २२० ॥
अत्रास्माभिरिति “खिन्ने” इत्यस्मात्पूर्वमित्थमिति च ॥
(७) अधिकं यथा स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसङ्क्रान्तनिशातशास्त्रतच्वः ।
अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स को ऽपि ॥ २२१ ॥
अत्र, आकुतिशब्दः ।
यथा वा इदमनुचितमक्रमश्व पुंसां यदिह जरास्वपि मान्मथा विकाराः ।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ २२२ ॥
अत्र कृतमिति ।
कृतं प्रत्युत प्रक्रमभङ्गमावहति ।
तथा च “यदपि च न कुरङ्गलोचनानाम्ऽ; इति पाठे निराकाङ्क्षैव प्रतीतिः ॥
(८) कथितपदं यथा अधिकरतलतल्पं कल्पितस्वापलीला- परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥ २२३ ॥
अत्र लीलेति ॥
(९) पतत्प्रकर्षं यथा कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २२४ ॥
(१०) समाप्तपुनरात्तं यथा क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवः झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः ।
तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण- क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥ २२५ ॥
(११) द्वितीयार्धगतैकवाचकशेषप्रथमार्न्ध यथा मसृणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः ।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥ २२६ ॥
(१२) अभवन् मतः (इष्टः) योगः (सम्बन्धः) यत्र तत् ।
यथा येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिर्- लीलापानभुवश्व नन्दनवनच्छायासु यैः कल्पिताः ।
येषां हुङ्कृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोष्कारि विहितं किञ्चित्प्रवादोचितम् ॥ २२७ ॥
अत्र “गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्” इत्युक्तनयेन यच्छब्दनिर्देश्यानामर्थानां परस्परमसमन्वयेन यैरित्यत्र विशेषस्याप्रतीतिरिति ।
“क्षपाचारिभिःऽ; इति पाठे युज्यते समन्वयः ।
यथा वा त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वाम् अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ॥ २२८ ॥
अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति ।
“चेत्स्यात्ऽ; इति युक्तः पाठः ।
यथा वा सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ २२९ ॥
अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इति प्राप्तम् ।
न च यच्छब्दार्थस्ताद्विशेषणं वा कोदण्डादि ।
न च केन केनेत्यादि प्रश्नः ।
यथा वा “चापाचार्यस्त्रिपुरविजयी-” ॥ २३० ॥
इत्यादौ भार्गवस्य निन्दायां तात्पर्यम् ।
कृतवतेति परशौ सा प्रतीयते ।
“कृतवतःऽ; इति तु पाठे मतयोगो भवति ।
यथा वा चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजयन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः ॥ २३१ ॥
अत्राध्वरशब्दः समासे गुणीभूत इति न तदर्थः सवैः संयुज्यते ।
यथा वा जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥ २३२ ॥
अत्र दण्डपादगता निजतनुः प्रतीयते भवान्याः सम्बन्धिनी तु विवक्षिता ॥
(१३) अवश्यवक्तव्यमनुक्तं यत्र ।
यथा अप्राकृतस्य चरितातिशयैश्व दृष्टैरत्यद्भुतैरपहृतस्य तथापि नास्था ।
को ऽप्येष वीरशिशुकाकृतिरप्रमेयसौन्दर्यसारसमुदायमयः पदार्थः ॥ २३३ ॥
अत्र “अपहृतो ऽस्मिऽ; इत्यपहृतत्वस्य विधिर्वाच्यः, तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः ।
यता वा एषो ऽहमद्रितनयामुखपझजन्मा प्राप्तः सुरासुरमनोरथदूरबतीं ।
स्वप्ने ऽनिरुद्धघटनाधिगताभिरूपलक्ष्भीफलामसुरराजसुतां विधाय ॥ २३४ ॥
अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः ।
यथा वा त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्भुखचेतसः ।
कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥ २३५ ॥
अत्र “अपराधस्य लवमपिऽ; इति वाच्यम् ॥
(१४) अस्थानस्थपदं यथा प्रियेण सङ्ग्रथ्य विपक्षसन्निधानुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु ॥ २३६ ॥
अत्र “काचिन्न विजहौऽ; इति वाच्यम् ।
यथा वा लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम् ।
पार्वत्या नखलक्ष्मशह्कितसखीनर्मस्मितह्रीतया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ॥ २३७ ॥
अत्र नखलक्ष्मेत्यतः पूर्वं “कुटिलताम्र-” इति वाच्यम् ॥
(१५) अस्थानस्थसमासं यथा अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ २३८ ॥
अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः ॥
(१६) सङ्कीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति ।
यथा किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम् ।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥ २३९ ॥
अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पस्यसि, इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति ।
एकवाक्यतायां तु क्लिष्टमिति भेदः ॥
(१७) गार्भितम् यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति ।
यथा परापकारनिरतैर्दुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तच्वं न विधेया कदाचन ॥ २४० ॥
अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः ।
यथा वा लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं ते ऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥ २४१ ॥
अत्र “विदितं ते ऽस्तुऽ; इति एतत्कृतम् ।
प्रत्युत लक्ष्मीस्ततो ऽपसरतीति विरुद्धमतिकृत् ॥
(१८) “मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितभणितादि सुरते मेघादिषु गर्जितप्रमुखम्” ॥
इति प्रसिद्धिमतिक्रान्तम् ।
यथा महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः ।
रवःश्रवणभैरवः स्थगितरोदसीकन्दरः कुतो ऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ २४२ ॥
अत्र रवो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे ॥
(१९) भग्नः प्रक्रमः प्रस्तावः, यत्र ।
यथा नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता ।
कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ॥ २४३ ॥
अत्र “गतेऽ; इति प्रक्रान्ते “याताऽ; इति प्रकृतेः ।
“गता निशापिऽ; इति तु युक्तम् ।
ननु “नैकं पदं द्विः प्रयोज्यं प्रायेणऽ; इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् ।
तत्कथमेकस्य पदस्य द्विःप्रयोगः, ।
उच्यते ।
उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः ।
तथाहि–उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ २४४ ॥
अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थो ऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति ॥
यथा वा यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ २४५ ॥
अत्र प्रत्ययस्य ।
“सुखमीहितुं वाऽ; इति युक्तः पाठः ।
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ २४६ ॥
अत्र सर्वनाम्नः ।
“अनेन विसृष्टाःऽ; इति तु वाच्यम् ।
महीभृतः पुत्रवतो ऽपि दृष्टिस्तस्मिन्नपबत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ २४७ ॥
अत्र पर्यायस्य ।
“महीभृतो ऽपत्यवतो ऽपिऽ; इति युक्तम् ।
“अत्र सत्यपि पुत्रे कन्यारूपे ऽप्यपत्ये स्नेहो ऽभूत्ऽ; इति केचित्समर्थयन्ते ।
विपदो ऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ २४८ ॥
अत्रोपसर्गस्य पर्ययस्य च ।
“तदभिभवः कुरुते निरायतिम् ।
लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः ॥
ऽ; इति युक्तम् ।
काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मी- रश्रीकाः काश्विदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसच्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसः ॥ २४९ ॥
अत्र वचनस्य ।
“काश्वित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेनदुशोभा निःश्रीकाःऽ; इति “कम्पमानाःऽ; इत्यत्र “कम्पमापुःऽ; इति च पठनीयम् ।
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम् ।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विक्षान्तिं लभतामिदं च शिथिलझ्याबन्धमस्मद्धनुः ॥ २५० ॥
अत्र कारकस्य ।
" विश्रब्धा रचयन्तु सूकरवरा मुस्ताक्षतिम्ऽ; इत्यदुष्टम् ।
अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिगच्छति ।
अमिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसङ्ग्रहणाय च ॥ २५१ ॥
अत्र क्रमस्य ।
पादोपसङ्ग्रहणायेति पूर्वं वाच्यम् ।
एवमन्यदप्यनुसर्तव्यम् ॥
(२०) अविद्यमानः क्रमो यत्र ।
यथा द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः तव्मस्य लोकस्य च नेत्रकौमुदू ॥ २५२ ॥
अत्र त्वंशब्दानन्तरं चकारो युक्तः ।
यथा वा शक्तिर्निस्त्रिशजेयं तव भुजयुगले नाथ दोषाकरश्री- र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खह्गयष्टिः ।
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥ २५३ ॥
अत्र “इत्थं प्रोच्येवऽ; इति न्याय्यम् ।
तथा “लग्नं रागावृताह्ग्या- ॥
ऽ; २५३ (क) ॥
इत्यादौ “इति श्रीनियोगात्ऽ; इति वाच्यम् ॥
(२१) अमतः प्रकृतविरुद्धः परार्थो यत्र ।
यथा राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २५४ ॥
अत्र प्रकृते रसे वलिरुद्धस्य शृङ्गारस्य व्यज्जको ऽपरो ऽर्थः ।
अर्थदोषानाह (सू- ७६)

अर्थो ऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥५५॥

सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्व ।
अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः ॥५६॥

साकाह्क्षो ऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्वः ।
विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतो ऽश्लीलः ॥५७॥

दुष्ट इति सम्बध्यते ।
क्रमेणोदाहरणम्– (१) अतिविततगगनसरणिप्रसरणपरिमुक्तविक्षमानन्दः ।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ २५५ ॥
अत्रातिविततत्वादयो ऽनुपादाने ऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः, न त्वसङ्गताः पुनरुक्ता वा ॥
(२) सदा मध्ये यासामियममृतनिस्यन्दसुरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् ।
प्रसादं ता एता घनपरिचिताः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ॥ २५६ ॥
अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः, गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् प्रसन्ना भवन्तु ।
यासामादित्यप्रभाणां मध्ये त्रिपथगा वहतिताः, मेघपरिचिताः कथं प्रसन्ना भवन्तीति सङ्क्षेपार्थः ॥
(३) जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ २५७ ॥
अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति व्याहतत्वम् ॥
(४) कृतमनुमतमित्यादि ॥ २५८ ॥
अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः ।
यथा वा अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थिते ऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
कर्णालं कम्भ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥ २५९ ॥
अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः ॥
(५) भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव ।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ॥ २६० ॥
अत्र मातह्गस्य प्राङ्निर्देशो युक्तः ।
(६) स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते ।
तदयि साम्प्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम् ॥ २६१ ॥
एषो ऽविदग्धः ॥
(७) मात्सर्यमुत्सार्येत्यादि ॥ २६२ ॥
अत्र प्रकरणाद्यभावे सन्देहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्वयः ॥
(८) गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्विन्न विषयः ।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ २६३ ॥
अत्र शस्त्रमोचने हेतुर्नोपात्तः ॥
(९) इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् ।
इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥ २६४ ॥
अत्र कामस्य चक्र लोके ऽप्रसिद्धम् ।
यथा वा (९ अ) उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवाद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥ २६५ ॥
अत्र पादाघातेनाशोकस्य पुष्पोद्घमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः ।
(सुसितवसनालङ्कारायां कदायन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतो ऽस्तमभूद्विधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥ २६६ ॥
अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुप्टम् ॥)॥
(१०) सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः ।
नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥ २६७ ॥
ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम् ।
(१० अ) अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते ।
षाड्गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ॥ २६८ ॥
एतत् अर्थशास्त्रेण ।
(१० आ) विधाय दूरे केयूरमनङ्गाङ्गणमह्गना ।
बभार कान्तेन कृतां करजोल्लेखमालिकाम् ॥ २६९ ॥
अत्र केयूरपदे नखक्षतं न विहितमिति, एतत्कामशास्त्रेण ।
(१० इ) अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे ।
आसादयन्नभिमतामधुना विवेकख्यातिं समाधिधनमौलिमणिर्विमुक्तः ॥ २७० ॥
अत्र विवेकख्यातिस्ततः सम्प्रज्ञातसमाधिः पश्वादसम्प्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ एतत् योगशास्त्रेण ।
एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम् ॥
(११) प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ।
सन्तर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ २७१ ॥
अत्र ततः किमिति न नवीकृतम् ।
(तत्तु यथा यदि दहत्यनलो ऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥ २७२ ॥)॥
(१२) यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधे- रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा ।
याताः प्राणभृतां मनोरथगतीरुल्लह्घ्य यत्सम्पद- स्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥ २७३ ॥
अत्र “छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिताऽ; इति सनियमत्वं वाच्यम् ॥
(१३) वक्त्राम्भोजं सरस्वत्य धिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छे ऽन्तर्मानसे ऽस्मिन् कथमवनिपते ते ऽम्बुपानाभिलाषः ॥ २७४ ॥
अत्र “शोण एवऽ; इति नियमो न वाच्यः ॥
(१४) श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैर्- मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् ।
चन्द्रं चूर्णयत श्रणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्र्मुद्राङ्किताः ॥ २७५ ॥
अत्र “ज्यौत्स्नीम्ऽ; इति श्यामाविशेषो वाच्यः ॥
(१५) क्ललोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि ॥ २७६ ॥
अत्र “एकेन किं न विहितो भवतः स नामऽ; इति सामान्यं वाच्यम् ।
(१६) अर्थित्वे प्रकटीकृते ऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्फं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥ २७७ ॥
अत्र स्त्रीरत्नम् “उपेक्षितुम्ऽ; इत्याकाङ्क्षति ।
नहि परस्येत्यनेन सम्बन्धो योग्यः ॥
(१७) आज्ञा शक्रशिखामणिप्रणयिनी शास्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ २७८ ॥
अत्र “स्याच्चेदेष न रावणःऽ; इत्यत्र, एव समाप्यम् ।
(१८) श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा ।
निशा शशाङ्केन धृतिः समाधिना नयेन चालङ्क्रियते नरेन्द्रता ॥ २७९ ॥
अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् ।
(१९) लग्नं रागावृताङ्ग्या- ॥ २८० ॥
इत्यत्र विदितं ते ऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते ॥
(२०) प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा- मकेशवमपाण्डवं भुबनमद्य निःसोमकम् ।
इयं परिसमाप्यते रणकथाद्य दो ऽशालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥ २८१ ॥
अत्र “शयितः प्रयत्नेन बोध्यसेऽ; इति विधेयम् ।
यथा वा वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं तेग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
ते ऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै- र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥ २८२ ॥
अत्र वाताहारादित्रयं व्युत्क्रमे वाच्यम् ।
(२१) अरे रामाहस्ताभरण भसलश्रेणिशरण स्मारक्रीडाव्रीडाशमन विरहिप्राणदमन ।
सरोहंसोत्तम्स प्रचलदल नीलोत्पल सखे सखेदो ऽहं मोहं श्लथय कथय क्वेन्दुवदना ॥ २८३ ॥
अत्र “विरहिप्राणदमनऽ; इति नानुवाद्यम् ॥
(२२) लग्नं रागावृताङ्ग्येत्यादि ॥ २८४ ॥
अत्र “विदितं ते ऽस्तुऽ; इत्युपसंहृतो ऽपि तेनेत्यादिना पुनरुपात्तः ॥
(२३) हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथास्य जायते पातो न तता पुनरुन्नतिः ॥ २८५ ॥
अत्र पुंव्यज्जनस्यापि प्रतीतिः ।
यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम् ॥
(सू- ७७)

कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
सन्निधानादिबोधार्थम्

अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये ।
यथा अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् ।
तथैव शोभते ऽत्यर्थमस्याः श्रवणकुण्डलम् ॥ २८६ ॥
अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ॥ २८७ ॥
अत्र कर्णश्रवणशिरःशब्दाः सन्निधानप्रतीत्यर्थाः ॥
विदीर्णाभिमुखारातिकराले सङ्गरान्तरे ।
धनुर्ज्याकिणचिह्वेन दोष्णा विस्फुरितं तव ॥ २८८ ॥
अत्र धनुःशब्द आरूढत्वावगतये ।
अन्यत्र तु ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वत्त्कपरम्परेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥ २८९ ॥
इत्यत्र केवलो ज्याशब्दः ।
प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥ २९० ॥
अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः ।
सौन्दर्यसम्पत् तारुण्यं यस्यास्ते ते च विभ्रमाः ।
षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे ॥ २९१ ॥
अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः ।
निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते ॥
(सू- ७८)

स्थितेष्वेतत्समर्थनम् ॥५८॥

न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते ।
जगाद मधुरां वाचं विशदाक्षरशालिनीम् ॥ २९२ ॥
इत्यादौ क्रियाविशेषणत्वे ऽपि विवक्षितार्थप्रतीतिसिद्धौ “गतार्थस्यापि विशेष्यस्य विशेषणदानार्न्थ क्वचित्प्रयोगः कार्यः” इति न युक्तम् ।
युक्तत्वे वा चरणत्रपरित्राणरहिताभ्यामपि द्रुतम् ।
पादाभ्यां दूरमध्वानं ब्रजन्नेष न खिद्यते ॥ २९३ ॥
इत्युदाहार्यम् ॥
(सू- ७९)

ख्याते ऽर्थे निर्हेतोरदुष्टता

यथा चन्द्रं गता पझगुणान्न भुह्क्ते पझाश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ २९४ ॥
अत्र रात्रौ पझस्य सङ्कोचः, दिवा चन्दरमसश्व निष्प्रभत्वं लोकप्रसिद्धमिति “न भुङ्क्तेऽ; इति हेतुं नापेक्षते ॥
(सू- ८०)

(अ)नुकरणे तु सर्वेषाम् ।

सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् ।
यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् ।
पश्यैष च गवित्याह सुत्रामाणं यजेति च ॥ २९५ ॥
(सू- ८१)

वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ ॥५९॥

वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिम्ना दोषो ऽपि क्वचिद्गुणः क्वचिन्न दोषो न गुणः ।
तत्र वैयाकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्ग्ये कष्टत्वं गुणः ।
क्रमेणोदाहरणम्– दीधीङ्वेवीङ्समः कश्विद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्विद्यत्र सन्निहिते न ते ॥ २९६ ॥
यदा त्वामहमद्राक्षं पदविद्याविशारदम् ।
उपाध्यायं तदास्मार्षं समस्प्राक्षं च सम्मदम् ॥ २९७ ॥
अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण- प्रायप्रेह्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्मारघोरोल्लस- द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ २९८ ॥
वाच्यवशाद्यथा मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजथ किं शून्येषु शूरा न के ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः सिन्धुध्वानिनि हुङ्कृते स्फुरति यत् तद्गर्जितं गर्जितम् ॥ २९९ ॥
अत्र सिंहे वाच्ये परुषाः शब्दाः ॥
प्रकरणवशाद्यथा रक्ताशोक कृशोदही क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः ।
उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्घमो ऽयं कुतः ॥ ३०० ॥
अत्र शिरोधूननेन कुपितस्य वचसि ॥
क्वचिन्नीरसे न गुणो न दोषः ।
यथा शीर्णग्राणाङ्ग्रिपाणीन् व्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वो ऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेर्- दत्तार्घाः सिद्धसङ्घर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ ३०१ ॥
अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ ।
यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्वोद्वृत्तभुजङ्गहारवलयोगङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामाराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ ३०२ ॥
अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थौ ।
अश्लीलं क्वचिद्गुणः ।
यथा सुरतारम्भगोष्ट्याम् “व्द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु” इति कामशास्त्रस्थितौ करिहस्तेन सम्बाधे सम्बाधे प्रविश्यान्तर्विलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥ ३०३ ॥
शमकथासु उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे ।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ ३०४ ॥
निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्व स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ३०५ ॥
अत्र भाव्यमङ्गलसूचकम् ॥
सन्दिग्धमपि वाच्यमहिम्ना क्वचिन्नियतार्थप्रतीतिकृच्वेन व्याजस्तुतिपर्यवसायित्वे गुणः ।
यथा पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ ३०६ ॥
प्रतिपाद्यप्रतिपादकयोर्ज्ञत्वे सत्यप्रतीतं गुणः ।
यथा आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सच्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता- त्तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥ ३०७ ॥
स्वयं वा परामर्शे ।
यथा षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः ।
अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥ ३०८ ॥
अधमप्रकृत्युक्तिषु ग्राम्यो गुणः ।
यथा फुल्लुक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडवा मह वल्लहा दे ।
जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धविऐल्लपसूणपुञ्जा ॥ ३०९ ॥
अत्र कलमभक्तमहिषीदधिशब्दा ग्रम्या अपि विदूषकोक्तौ ॥
न्यूनपदं क्वचिद्गुणः ।
यथा गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ३१० ॥
क्वचिन्न गुणो न दोषः ।
यथा तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः ॥ ३११ ॥
अत्र पिहितेत्यतो ऽनन्तरं “नैतद्यतःऽ; इत्येतैर्न्यूनैः पदैर्विंशेषबुद्धेरकरणान्न गुणः ।
उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते, इति न दोषः ।
अधिकपदं क्वचिद्गुणः ।
यथा यद्वञ्चनाहितमतिर्बहु चाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति ।
तत्साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥ ३१२ ॥
अत्र “विदन्तिऽ; इति द्वितीयमन्ययोगव्यवच्छेदपरम् ।
यथा वा वद वद जितः स शत्रुर्न हतो जल्पंश्व तव तवास्मीति ।
चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ॥ ३१३ ॥
इत्येवमादौ हर्षभयादियुक्ते वक्तरि ॥
कथितपदं क्वचिद्गुणः, लाटानुप्रासे, अर्थान्तरसङ्क्रमितवाच्ये विहितस्यानुवाद्यत्वे च ।
क्रमेणोदाहरणम्– सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥ ३१४ ॥
ताला जाअन्ति गुणा जाला दे सहिअएहिं धेप्पन्ति ।
रैकिरणाणुग्गहिआइं होन्ति कमलाइं कमलाइं ॥ ३१५ ॥
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनो ऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ३१६ ॥
पतत्प्रकर्षमपि क्वचिद्गुणः ।
यथा, उदाहृते प्रागप्राप्तेत्यादौ ॥ ३१७ ॥
समाप्तपुनरात्तं क्वचिन्न गुणो न दोषः ।
यत्र न विशेषणमात्रदानार्थं पुनर्ग्रहणम् अपि तु वाक्यान्तरमेव क्रियते ।
यथा, अत्रैव प्रागप्राप्तेत्यादौ ॥ ३१८ ॥
अपदस्थसमासं क्वचिद्गुणः यथा, उदाहृते रक्ताशेकेत्यादौ ॥ ३१९ ॥
गर्भितं तथैव ।
यथा हुमि अवहत्थिअरेहो णिरङ्कुसो अह विवेअरहिओ वि ।
सिविणे वि तुमम्मि पुणो पत्तिहि भत्तिं ण पसुमरामि ॥ ३२० ॥
अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय ।
एवमन्यदपि लक्ष्याल्लक्ष्यम् ॥
(सू- ८२)

व्यभिचारिरसस्थायिबावानां शब्दवाच्यता ।
कष्टकल्पनया व्यत्त्किरनुबावविभावयोः ॥६०॥

प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदौ अङ्गस्याप्यतिविस्तृतिः ॥६१॥

अङ्गिनो ऽननुसन्धानं प्रकृतीनां विपर्ययः ।
अनह्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥६२॥

(१) स्वशब्दोपादानं व्यभिचारिणो यथा सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भूजगे सविस्मयरसा चन्द्रे ऽमृतस्यन्दिनि ।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ ३२१ ॥
अत्र व्रीजादीनाम् ।
“व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रे ऽमृतस्यन्दिनि ।
मीलद्भ्रूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरेऽ; इत्यादि तु युक्तम् ॥
(२) रसस्य स्वशप्देन वा वाच्यत्वम् ।
क्रमेणोदाहरणम्– तामनह्गजयमङ्गलश्रियं किञ्चिदुच्चभूजमूललोकिताम् ।
नेत्रयोः कृतवतो ऽस्य गोचरे को ऽप्यजायत रसो निरन्तरः ॥ ३२२ ॥
आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम् ।
पश्यैष बाल्यमतिष्त्य विवर्तमानः शृह्गारसीमनि तरङ्गितमातनोति ॥ ३२३ ॥
(३) स्थायिनो यथा सम्प्रहारे प्रहरणैः प्रहाराणा परसपरम् ठणत्कारैः श्रुतिकतैरुत्साहस्तस्त को ऽप्यभूत् ॥ ३२४ ॥
अत्रोत्माहस्य ॥
(४) कर्पूरधूलिधवलद्युतिपूरधौतदिङ्नण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरोंऽगुकनिवेशविशेषकॢप्तिव्यक्तससस्तनोन्नतिरभून्नयानपो सा ॥ ३२५ ॥
अत्रोद्दीपनालम्बनरूपाः सृङ्गायोग्या विभावा अनुभावपरलपसाचयिनः स्थिता इति पष्टकल्पना ॥
(५) परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥ ३२६ ॥
अत्र रतिपरिहारादीनामनुभावानां करुणादावपि सम्भवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः ॥
(६) प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चति वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ३२७ ॥
अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्व व्यभिचारी, उपात्तः ॥
णिहुअरमणम्मि लोअणपहम्मि पडिए गुरुअणमज्झम्मि ।
सअलपरिहारहिअआ वणगमणं एव्व महै वहू ॥ ३२८ ॥
अत्र सकलपरिहारवनगमने शान्तानुभावौ ।
इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत् न दोषः ॥
(७) दीप्तिः पुनःपुनर्यथा कुमारसम्भवे रतिविलापे ॥
(८) अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीये ऽङ्के ऽनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुयार्धेनस्य शृङ्गारवर्णनम् ॥
(९) अकाण्डे छेदो यथा वीरचरिते द्वितीये ऽङ्के राघवभार्गवयोर्धाराधिरूढं वीररसे “कङ्कणमोजनाय गच्छामिऽ; इति राघवस्योक्तौ ॥
(१०) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् ।
यथा हयग्रीववधे हयग्रीवस्य ॥
(११) अङ्गिनो ऽननुसन्धानम् ।
यथा रत्नावल्यां चतुर्थे ऽङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ॥
(१२) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्व वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः, उत्तमाधममध्ममाश्व ।
तत्र रतिहासशोकाद्भुतानि, अदिव्यात्तमप्रकृतिवत् दिव्येष्वपि ।
किं तु रतिः सम्भोगशृङ्गाररूपाम्, उत्तमदेवताविषया न वर्णनीया ।
तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम् ।
क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ३२९ ॥
इत्युक्तवत् भ्रुकुठ्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगनसमुद्रोल्लङ्घनाद्युत्साहश्व दिव्येष्वेव ।
अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबन्द्धव्यम् ।
अधिकं निबध्यमानमसत्यप्रतिभासेन “नायकवद्वर्तितव्यं न प्रतिनायकवत्ऽ; इत्युपदेशे न पर्यवस्येत् ।
दिव्यादिव्येषु, उभयथापि ।
एवमुक्तस्यौचित्यस्य दिव्यादीनामिव दीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः ।
तत्रभवन् भगवन्नित्युत्तमेन न, अधमेन मुनिप्रभृतौ न राजादौ भट्टारकेति नोत्तमेति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम् ।
एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबन्द्धव्यम् ॥
(१३) अनह्गस्य रसानुपकारकस्य वर्णनम् ।
यथा कर्पूरमञ्जर्यां नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञा प्रशंसनम् ॥
“ईदृशाः” इति ।
नायिकापादप्रहारादिना नायककोपादिवर्णनम् ।
उक्तं हि ध्वनिकृता “अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा” ॥
इति ॥
इदानीं क्वचिददोषा अप्येते, इत्युच्यन्ते ।
(सू- ८३)

न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचित् ।
यथा औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ३३० ॥
अत्रौत्सुक्यशब्द इव तदनुभावो न तथाप्रतीतिकृत् ।
अत एव “दूरादुत्सुकम्ऽ; इत्यादौ व्रीडाप्रेमाद्यनुभावानां विवलितत्वादीनामिवपोत्सुकत्वानुभावस्य सहसाप्रसरणादिरूपस्य तथा- प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ॥
(सू- ८४)

सञ्चार्यादोर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥६३॥

बाध्यत्वेनोक्तिर्न परमदोषः, यावत् प्रकृतरसपरिपोषकृत् ।
यथा “क्वाकार्यं शशलक्ष्मणः क्व च कुलम्ऽ; इत्यादौ ॥ ३३१ ॥
अत्र वितर्कादिषु, उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः ॥
पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥ ३३२ ॥
इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ ३३३ ॥
इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्तम् ।
जीवितादपि, अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभह्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः ।
न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात् ।
नापि काव्यशोभाकरणम् रसान्तरादनुप्रासमात्राद्वा तथाभावात् ॥
(सू- ८५)

आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥६४॥

वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन भयानको निवेशयितव्यः ।
शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् यथा नागानन्दे शान्तस्य जीमूतवाहनस्य “अहो गीतम् अहो वादित्रम्ऽ; इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रतिशृह्गारो निबद्धः ।
न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते ।
यथा भूरेणुदिग्धान् नवपारिजातमालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ ३३४ ॥
सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्वन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥ ३३४ (अ) ॥
विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानान् ललन्ह्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ॥ ३३५ ॥
अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः ।
(सू- ८६)

स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥६५॥

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजधनस्पर्शी नीवीविस्रंसनः करः ॥ ३३६ ॥
एतत् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ ।
अत्र पूर्वावस्थास्मरणं षृङ्गाराङ्गमपि करुणं परिपोषयति ॥
दन्तक्षतानि करजैश्व विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥ ३३७ ॥
अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य ।
यथा वा परः शृङ्गारी तदवलोकनात्सस्पृहस्तद्वत् एतद्दृशो मुनय इति साम्यविवक्षा ॥
क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौतानना ।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्यो ऽधुना दावाग्रिं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ३३८ ॥
अत्र चाटुके राजविषया रतिः प्रतीयते ।
तत्र करुण इव शङ्गारो ऽप्यङ्गमिति तयोर्न विरोधः ।
यथा एहि गच्छ पतोत्तिष्ट वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः ॥ ३३९ ॥
इत्यत्र, एहीति क्रीढन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोरागमनगमनयोर्न विरोधः ।
क्षिप्तो हस्तावलग्रः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्वरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ ३४० ॥
इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणो ऽङ्गम् तस्य तु शृङ्गारः, तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव ।
अथवा प्राक् यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोद्बल्यते ।
उक्तं हि “गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्ततेऽ; ॥
इति ॥
प्राक् प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः, नाप्यङ्गाङ्गिभावो भवति, इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते ॥

इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः ॥७॥