०६

॥ अथ षष्ठ उल्लासः ॥

(सू- ७०)

शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्वित्रार्थशब्दयोः ॥४८॥

न तु शब्दचित्रे ऽर्थस्याचित्रत्वम् अर्थचित्रे वा शब्दस्य ।
तथा चोक्तम् “रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥
रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥
तदेतदाहुः सौशब्द्यं नार्थन्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः” ॥
इति ॥
शब्दचित्रं यथा प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ १३९ ॥
अर्थचित्रं यथा ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्व ।
नीयाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति ॥ १४० ॥
यद्यपि सर्वत्र काव्ये ऽन्ततः, विभावादिरूपतयैव पर्यवसानम् तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम् ।
अत्र च शब्दार्थालङ्कारभेदाद्बहवो भेदाः, ते चालङ्कारनिर्णये निर्णेष्यन्ते ॥

इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः ॥६ ॥