०५

॥ अथ पञ्चम उल्लासः ॥

एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह ।
(सू- ६६)

अगूढमपरस्याङ्गं वाच्यसिद्ध यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तम्मसुन्दरम् ॥४५॥

व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।

कामिनीकुचकलशवत् गूढं चमत्करोति, अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव ।
अगूढं यथा यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति कर्णौ ।
काञ्चीगुणग्रथनबाजनमेष सो ऽस्मि जीवन्न सम्प्रति भवामि किमावहामि ॥ ११३ ॥
अत्र जीवन्नित्यर्थान्तरसङ्क्रमितवाच्यस्य ।
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गायान्ति मञ्जु मधुपा गृहदीर्धिकासु ।
एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ॥ ११४ ॥
अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य ।
अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि तीडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥ ११५ ॥
(१) अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य ।
“तस्याप्यत्रऽ; इति युक्तः पाठः ।
अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि, अनुरणनरूपं वा ।
यथा अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनरुपर्शी नीवीनिस्रंसनः करः ॥ ११६ ॥
अत्र शृह्गारः करुणस्य ।
कैलासालयभाललोचनरुचा निर्वर्तितालक्तक- व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् ।
स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥ ११७ ॥
अत्र भावस्य रसः ।
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्वर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ ११८ ॥
अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य ।
बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति तेसैनिकाः ।
अस्माकं सुकृतैर्दृशोर्निपतितो ऽस्यौचित्यवारान्निधे विध्वस्ता विपदो ऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥ ११९ ॥
अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ ।
अविरलककवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ १२० ॥
अत्र भावस्य बावप्रशमः ।
साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥ १२१ ॥
अत्र त्रासोदयः ।
असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्बेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ १२२ ॥
अत्रावेगधैर्ययोः सन्धिः ॥
पश्येत्कश्विच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ भवद्विषो ऽरण्यवृत्तेः कन्या कञ्चित् फलकिसलयान्याददानाभिधत्ते ॥ १२३ ॥
अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता ।
एते च रसवदाद्यलङ्काराः ।
यद्यपि भावोदयभावसन्धिबावशबलत्वानि नालङ्कारतया, उक्तानि तथापि कश्वित् ब्रूयादित्येवमुक्तम् ।
यद्यपि स नास्ति कश्विद्विषयः, यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह सङ्करः संसृष्टिर्वा नास्ति तथापि प्रधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्वचवहारः ।
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ १२४ ॥
अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वाच्याङ्गतां नीतः ।
आगत्य सम्प्रति वियोगविसंष्ठुलाङ्गीमम्भोजिनीं व्सचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पस्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ १२५ ॥
(२) अत्र नायकवृत्तान्तो ऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः ॥
वाच्यसिद्ध्यङ्गं यथा भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ १२६ ॥
अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत् ।
यथा वा गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभह्गिसूचितवृथावस्थानखेदालसाम् आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥ १२७ ॥
(३) अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य ।
एतच्चैकत्र, एकवक्तृगतत्वेन, अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः ।
अस्फुटं यथा अदृष्टे दर्सनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ १२८ ॥
(४) अत्रादृष्टो यता न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम् ।
सन्दिग्धप्राधान्यं यथा हरस्तु किञ्चित्परिवृत्तधैर्यश्वन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ १२९ ॥
(५) अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानम् किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति सन्देहः ।
तुल्यप्राधान्यं यथा ब्राह्नणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यस्तथा मित्रम् अन्यथा दुर्मनायते ॥ १३० ॥
(६) अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीनि व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।
काक्वाक्षिप्तं यथा मथ्नामि कौरवशतं समरे न कोपात दुःशासनस्य रुधिरं न पिबाम्युरस्तः ॥
सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥ १३१ ॥
(७) अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम् ।
असुन्दरं यथा वाणीरकुडङ्गुड्डीणसौणिकोलाहलं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति अङ्गाइं ॥ १३२ ॥
(८) अत्र दत्तसङ्केतः कश्विल्लतागहनं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्यह्गानीति वाच्यं सचमत्कारम् ॥
(सू- ६७)

एषां भेदा यथायोगं वेदितव्याश्व पूर्ववत् ॥४६॥

यथायोगमिति “व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात्” इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालङ्कारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम् ।
(सू- ६८)

सालङ्कारैर्ध्वनेस्तैश्व योगः संसृष्टिसङ्करैः ।
सालङ्कारैरिति तैरेवालङ्कारैः, अलङ्कारयुक्तैश्व तैः ।
तदुक्तं ध्वनिकृता “स गुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा” ॥
इति ।
(सू- ६९)

अन्योन्ययोगादेवं स्याद्भेदसङ्ख्यातिभूयसी ॥४७॥

एवम् अनेन प्रकारेण, अवान्तरभेदगणने ऽतिप्रभूततरा गणना ।
तथाहि–शृङ्गारस्यैव भेदप्रभेदसणनायामानन्त्यम् ।
का गणना तु सर्वैषाम् ।
सङ्कलनेन पुनरस्य ध्वनेस्त्रयो भेदाः ।
व्यह्ग्यस्य त्रिरूपत्वात् ।
तथाहि–किञ्चिद्वाच्यतां सहते किञ्चिच्वन्यथा ।
तत्र वाच्यतासहमविचित्रं विचित्रं चेति ।
अविचित्रं वस्तुमात्रम् विचित्रं त्वलङ्काररुपम् ।
यद्यपि प्रादान्येन तदलङ्कार्यम् तथापि ब्राह्नणश्रमणन्यायेन तथोच्यते ।
रसादिलक्षणस्त्वर्थः स्वप्ने ऽपि न वाच्यः ।
स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत ।
न चाभिधीयते ।
तत्प्रयोगे ऽपि विबावाद्याप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगे ऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्वेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते, इति निश्वीयते तेनासौ व्यह्ग्य एव ।
मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः ।
अर्थान्तरसङ्क्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक् प्रतिपादितम् ।
शब्दशक्तिमूले तु, अभिधाया नियन्त्रणेननानभिधेयस्यार्थान्तरस्य तेन सहोपमादेरलङ्कारस्य च निर्विवादं व्यङ्ग्यत्वम् ।
अर्थशक्तिमूले ऽपि वेशेषे सङ्केतः कर्तुं न युज्यते, इति सामान्यरूपाणां पदार्थानामाकाङ्क्षासन्निधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थो ऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे का वार्ता व्यङ्ग्यस्याभिधेयतायाम् ।
ये ऽप्याहुः “शब्दबृद्धाभिधेयांश्व प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्व प्रतिपन्नत्वमनुमानेन चेष्टया ॥१॥

अन्यथानुपपच्या तु बोधेच्छक्तिं दुयात्मिकाम् ।
अर्थापच्यावबोधेत सम्बन्धं त्रिप्रमाणकम् ॥२॥

इति प्रतिपादितदिशा “देवदत्त गामानयऽ; इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सतिऽ; अनेनास्माद्वाक्यादेवंविधो ऽर्थः प्रतिपन्नःऽ; इति तच्चेष्टयानुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापच्या वाच्यवाचकभावलक्षणं सम्बन्धमवधार्य बालस्तत्र व्युत्पद्यते ।
परतः “चैत्र गामानय देवदत्त, अश्वमानय देवदत्त गां नयऽ; इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं तमर्थमवधारयतीति, अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानापन्वितैः पदार्थेरन्वितानामेव सङ्केतो गृह्यते, इति विशिष्टा एव पदार्था वाक्यार्थः ।
न तु पदार्थानां वैशिष्ट्यम् ।
यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येनैतानि पदानि निश्वीयन्ते, इति पदार्थान्तरमात्रेणान्वितः पदार्थः सङ्केतगोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः ।
तेषामपि मते सामान्यविशेषरूपः पदार्थः सङ्केतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतो ऽसङ्केतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे, अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्वर्चा ।
अनन्वितो ऽर्थो ऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने, अन्वितविशेषस्त्ववाच्य एव इत्युभयनये ऽप्यपदार्थ एव वाक्यार्थः ।
यदप्युच्यते “नैमित्तिकानुसारेण निमित्तानि कल्प्यन्तेऽ; इति ।
तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा शब्दस्य प्रकाशकत्वान्न कारकत्वम् ।
ज्ञापकत्वं तु-अज्ञातस्य कथम् ज्ञातत्वं च सङ्केतेनैव स चान्वितमात्रे ।
एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्वितम् तावन्नैमित्तिकस्य प्रतीतिरेव कथम् इति “नैमित्तिकानुसारेण निमित्तानि कल्प्यन्तेऽ; इत्यविचारिताभिधानम् ।
ये त्वभिदधति “सो ऽयमिषोरिव दीर्घदीर्घतरो व्यापारःऽ; इति “यत्परः शब्दः स शब्दार्थःऽ; इति च विधिरेवात्र वाच्य इति ।
ते ऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानाम्प्रियाः ।
तथाहि “भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यतेऽ; इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसम्बन्धात् साध्यायमानतां प्राप्नुवन्ति ।
ततश्वादग्धदहनन्यायेन यावदप्राप्तं तावदप्राप्तं तावद्विधीयते ।
यथा-ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इत्यत्र लोहितोष्णीषत्वमात्रं विधेयम् ।
हवनस्यान्यतः सिद्धेः “दध्ना जुहोति” इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् ॥
क्वचिदुभयविधिः ।
क्वचित्त्रिविधिरपि ।
यथा-“रक्तं पटं वयःऽ; इत्यादौ, एकविधिर्द्विविधिस्त्रिविधिर्वा ततश्व “यदेव विधेयं तत्रैव तात्पर्यम्ऽ; इत्युपात्तस्यैव शब्दस्यार्थे तात्पर्यं न तु प्रतीतमात्रे ।
एवं हि “पूर्वो धावतिऽ; इत्यादावपराद्यर्थे ऽपि क्वचित्तात्पर्यंस्यात् ।
यत्तु “विषं भक्षय मा चास्य गृहे भुङ्क्थाःऽ; इत्यत्र “एतद्गृहे न भोक्तव्यम्ऽ; इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते तत्र चकार एकवाक्यतासूचनार्थः, न चाख्यातवाक्ययोर्द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता सल्प नीयेति “विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाःऽ; इति, उपात्तशब्दार्थे, एव तात्पर्यम् ।
यदि चशब्दश्रुतेरनन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः, ततः कथं “ब्राह्नण पुत्रस्ते जातः, ब्राह्नण कन्या ते गर्भिणीऽ; इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् कस्माच्च लक्षणा लक्षणीये ऽप्यर्थे दीर्घदीर्घतराभिधाव्यापारेणैव प्रतीतिसिद्धेः ।
किमितिच श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वम् इत्यन्विताभिधानवादे ऽपि विधेरपि सिद्धं व्यङ्ग्चत्वम् ।
किं च “कुरु रुचिम्ऽ; इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् ।
न ह्नत्रासभ्यो ऽर्थः पदार्थान्तरैरन्वितः, इत्यनभिधेय एवेति, एवमादि, अपरित्याज्यं स्यात् ।
यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं सष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् ।
न चानुपपन्नम् सर्वस्यैव विभक्ततया प्रतिभासात् ।
वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात् क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था ।
“द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
ऽ; इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ।
अपि च वाच्यो ऽर्थः सर्वान प्रतिपत्त्ट्टन् प्रति, एकरूप एवेति नियतो ऽसौ ।
न हि “गतो ऽस्तमर्कःऽइत्यादौ वाच्यो ऽर्थः क्वचिदन्यथा भवति ।
प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं भजते ।
तथा च “गतो ऽस्तमर्कःऽ; इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति, अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामहे, इति सान्ध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्तामिति सन्तापो ऽदुना न भवतीति विक्रेयवस्तूनि संह्रियन्तामिति नागतो ऽद्यापि प्रेयानित्यादिरनवधिर्व्यङ्ग्ये ऽर्थः, तत्र तत्र प्रतिभाति ।
वाच्यव्यङ्ग्ययोः निःशेषेत्यादौ निषेधविध्यात्मना, “मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु ।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ १३३” ॥
इत्यादौ संशयशान्तशङ्गार्यन्तरगतनिश्वयरूपेण, “कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूध्ना विद्विषां स्वीकृता श्रीः ।
ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥ १३४” ॥
इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य, पूर्वपश्वाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसङ्घटनाशयत्वेन च, आश्रयस्य शब्दानुशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्व करणात् कार्यस्य गतो ऽस्तमर्क इत्यादौ प्रदर्शितनयेन सङ्ख्यायाः, “कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरं ।
सभमरपडमग्घाइणि वारिअवामे सहसु एण्हिं ॥ १३५” ॥
इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदे ऽपि यद्येकत्वम् तत् क्वचिदपि नीलपीतादौ भेदो न स्यात् ।
उक्तं हि “अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्व” इति ।
वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम् ।
किं च वाणीरकुडङ्ग्वित्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूपे, एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्ग्ये ऽतात्पर्यभूतो ऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति ।
ननु “रामो ऽस्मि सर्वं सहेऽ; इति “रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्ऽ; इति “रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्ऽ; इत्यादौ लक्षणीयो ऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्व भवति तदवगमश्व शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्वेति को ऽयं नूतनः प्रतीयमानो नाम ।
उच्यते–लक्षणीयस्यार्थस्य नानात्वे ऽपि, अनेकार्थशब्दाभिधेयवन्नियतत्वमेव ।
न खलु मुख्येनार्थेनानियतसम्बन्धो लक्षयितुं शक्यते ।
प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियतसम्बन्धः, अनियतसम्बन्धः सम्बद्धसम्बन्धस्व द्योत्यते ।
न च “अत्ता एत्थ णिमञ्जै एत्थ अहं दिअहए पलोएहि ।
मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ॥ १३६” ॥
इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः ।
तत्कथमत्र लक्षणा ।
लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम् ।
यथा च समयसव्यपेक्षा, अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा, अत एवाभिधापुच्छभूता सेत्याहुः ।
न च लक्षणात्मकमेव ध्वननम् तदनुगमेन तस्य दर्शनात् ।
न च तदनुगतमेव, अभिधावलम्बनेनापि तस्य भावात् ।
न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः, न च शब्दानुसार्येव, अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेरिति, अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारो ऽनपह्नवनीय एव ।
तत्र “अत्ता, एत्थ” इत्यादौ नियतसम्बन्धः “कस्स व ण होइ रोसो” इत्यादौ, अनियतसम्बन्धः ।
“विपरीअरए लच्छी बम्हं दट्ठूण णाहिकमलठ्ठं ।
हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ ॥ १३७” ॥
इत्यादौ सम्बद्धसम्बन्धः ।
अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते तन्निमीलनेन सूर्यास्तमयः, तेन पझस्य सङ्कोचः, ततो ब्रह्नणः स्थगमन् तत्र सति गोप्याङ्गस्यादर्शनेन, अनिर्यन्त्रणं निधुवनविलसितमिति ।
“अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः, वाक्यमेव च वाचकम्ऽ; इति ये ऽप्याहुः, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षे ऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्ग्य एव ।
ननु वाच्यादसम्बद्धं तावन्न प्रतीयते यतः कुतश्वित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् ।
एवं च सम्बन्धात् व्यङ्ग्यव्यञ्जकभावो ऽप्रतिबन्धे ऽवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिह्गाल्लिङ्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति ।
तथाहि– “भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥ १३८” ॥
अत्र गृहे श्वनिवृत्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति ।
यत् यत् भीरुभ्रमणं तत्तद्भयकारणनिवृच्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः ।
अत्रोच्यते–भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण, अन्येन चैवम्भूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुः शुनो बिभ्यदपि वीरत्वेन सिंहान्न बिभेतीति विरुद्धो ऽपि गोदावरीतीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्वितः, अपि तु वचनात् न चवचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धश्व तत्कथमेवंविधाद्धेतोः साध्यसिद्धिः ।
तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतो ऽपि भवन्ति, अतश्वात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे, एव प्रतिबद्धानीत्यनैकान्तिकानि ।
व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम् ।
न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम् ।
एवंविधादर्थादेवंविधो ऽर्थ उपपच्यनपेक्षत्वे ऽपि प्रकाशते, इति व्यक्तिवादिनः पुनस्तत् अदूषणम् ॥

इति काव्यप्रकाशे धवनिगुणीभूतव्यङ्ग्यसङ्कीर्णभेदनिर्णयो नाम पञ्चम उल्लासः ॥५॥