०४

॥ अथ चतुर्थ उल्लासः ॥

यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालङ्काराणां स्वरूपमभिधानीयम् तथापि धर्मिणि प्रदर्शिते धर्माणां हेर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह ।
(सू- ३९)

अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४ ॥
लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव, अविवक्षितं वाच्यं यत्र स “ध्वनौऽ; इत्यनुवादात् ध्वनिरिति ज्ञेयः ।
तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम् ।
यथा त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥२३॥

अत्र वचनादि, उपदेशादिरूपतया परिणमति ।
क्वचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम् ।
यथा उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम् ॥२४॥

एतद् अपकारिणं प्रति विपरीतलक्षणया कश्विद्वक्ति ॥
(सू- ४०)

विवक्षितं चान्यपरं वच्यं यत्रापरस्तु सः ।
अन्यपरं व्यङ्ग्यनिष्ठम् ॥
एष च (सू- ४१)

को ऽप्यलयक्रमव्यङ्ग चो लक्ष्यव्यङ्ग्यक्रमः परः ॥ २५ ॥
अलक्ष्येति ।
न खलु विभावानुभावव्यभिचारिण एब रसः ।
अपि तु रसस्तैः, इत्यस्तिक्रमः ।
स तु लाघवान्न लक्ष्यते ॥
अत्र (सू- ४२)

रसभावतदाभासभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ २६ ॥
आदिघणाद्भावोदयभावसन्धिभावशबलत्वानि ।
प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः, यथोदाहरिष्यते ।
अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गये रसवत्प्रेयऊर्जस्विसमाहितादयो ऽलङ्काराः ।
ते च गुणीभूतव्यङ्ग्याभिधाने, उदाहरिष्यन्ते ॥
तत्र रसस्वरूपमाह (सू- ४३)

कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाठ्यकाव्ययोः ॥ २७ ॥

विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ २८ ॥

उक्तं हि भरतेन “विभावानुभावव्यमिचारिसंयोगाद् रसनिष्पत्तिः” इति ।
एतद्द्विवृण्वते ।
“विभावैर्ललनोद्यानादि भिरालम्बनोद्दीपनकारणैः, रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः, व्यभिचारिमिर्निर्वेदादिभिः सहकारिमिरुपचितो मुख्यया वृच्या रामादावनुकार्ये तद्रूपतसन्धानान्नर्तके ऽपि प्रतीयमानो रसः” इति भट्टलोल्लटप्रभृतयः ।
राम एवायम् अयमेव राम इति “न रामो ऽयम्ऽ; इत्यौत्तरकालिके बाधे रामो ऽयमिति रामः स्याद्वा न वायमिति रामसदृशो ऽयमिति च सम्यङ्भिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामो ऽयमिति प्रतिपच्या ग्राह्ये नटे “सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः ।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥२५॥

दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्व ।
अविरलविलोलजलदः कालः समुपागतश्वायम्ऽ; ॥२६॥

इत्यादिकाव्यानुसन्धानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकाय्रप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः “संयोगात्ऽ; गम्यगमकभावरूपात् अनुमीयमानो ऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः ।
न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नामिव्यज्यते, अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेनन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सच्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतच्वेन भोगेन भुज्यते, इति भट्टनायकः ।
लोके प्रमदिमिः स्थाय्यनुमाने ऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारव्च्वादलौकिकविभावादिशब्दव्यवहायैर्र्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितो ऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसम्पर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नो ऽपि गोचरीकृतश्वर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रह्नास्वादमिवानुबावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः ।
स च न कार्यः ।
विभावादिविनाशे ऽपि तस्य सम्भवप्रसङ्गात् ।
नापि ज्ञाप्यः सिद्धस्य तस्यासम्भवात् ।
अपि तु विभावादिभिर्व्यज्जितश्वर्वणीयः ।
कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत्, न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम् ।
चर्वणानिष्पच्या तस्य निष्पत्तिरुपचरितेति कार्यो ऽप्युच्यताम् ।
लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसम्बेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्ये ऽप्यभिधीयताम् ।
तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात् ।
नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात् ।
उभयाभावस्वरूपस्य चो भयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः ॥
व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयो ऽनुभावाः शृङ्गारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः ।
वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः ।
धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥२७॥

इत्यादौ परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु ।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥२८॥

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किञ्चाञ्जितभ्रूलतम् ।
मानिन्याश्वरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥२९॥

इत्यादौ च यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकन्तिकत्वमिति ॥
तद्विशेषानाह– (सू- ४४)

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसञ्ज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ २९ ॥
तत्र शृह्गारस्य द्वौ भेदौ ।
सम्भोगो विप्रलम्भश्व ।
तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य एक एव गण्यते ।
यथा शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुङ्खम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ३० ॥
तथा त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ ३१ ॥
अपरस्तु, अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः ।
क्रमेणोदाहरणम्– प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्वेष्टा भवेयुर्मयि ।
यास्वन्तःकरणस्य वाह्यकरणव्यापाररोधी क्षणा- दाश्सापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ ३२ ॥
अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहद् यो मां नेच्छति नागतश्व हहहा को ऽयं विधेः प्रक्रमः ।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ ३३ ॥
एषा विरहोत्कण्ठिता ।
सा पुत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ३४ ॥
प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्वितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३५ ॥
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ३६ ॥
हास्यादीनां क्रमेणोदारहणम्– आकुञ्व्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे ।
तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतो ऽहमिति रोदिति विष्णुशर्मा ॥ ३७ ॥
हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः धिक् प्राणान् पतितो ऽशनिर्हुतवहस्ते ऽङ्गेषु दग्धे दृशौ ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर- श्वित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ ३८ ॥
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ ३९ ॥
क्षुद्राः सन्त्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ॥
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः किञ्चिद्भ्रूभह्गलीलानियमितजलधिं राममन्वेषयामि ॥ ४।० ॥
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्वार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दभैंरर्धावलीढैः श्रमविवृतमुखभ्रंशिमिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥ ४।१ ॥
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दह्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ४।२ ॥
चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रबावः काप्याकृतिर्नूतन एष सर्गः ॥ ४।३ ॥
एषां स्थायिभावानाह– (सू- ३३)

रतिर्हासश्व सोकश्व क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्तिताः ॥३०॥

स्पष्टम् ।
व्यभिचारिणो ब्रूते– (सू- ४६)

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्य च चिन्ता मोहः स्मृतिर्धृतिः ॥३१॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥३२॥

सुप्तं प्रबोधो ऽमर्षश्वाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥३३॥

त्रासश्वैव वितर्कश्व विज्ञेया व्यभिचारिणः ।
यस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥३४॥

निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वे ऽप्युपादानं व्यमिचारित्वे ऽपि स्थायिताभि धानार्थम् ।
तेन (सू- ४७)

निर्वेदस्थायिभङावो ऽस्ति शान्तो ऽपि नवमो रसः ।
यथा अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुदृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ ४।४ ॥
(सू- ४८)

रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥३५॥

भावः प्रोक्तः

आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया ।
कान्ताविषया तु व्यक्ता शृङ्गारः ।
उदाहरणम् कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ ४।५ ॥
हरत्यघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥ ४।६ ॥
एवमन्यदप्युदाहार्यम् ।
अञ्जितव्यभिचारी यथा जाने कोपपराह्भुखी प्रियतमा स्वप्ने ऽद्य दृष्टा मया मा मां संस्पृस पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ ४।७ ॥
अत्र विधिं प्रत्यसूया ।
(सू- ४९)

तदाभासा अनौचित्यप्रवर्तिताः ।
तदाभासा रसाभासा भावाभासाश्व ।
तत्र रसाभासो यथा स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिह्गसि बलात् तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ ४।८ ।
अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति ।
भावाभासो यथा राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गिविभ्रमाङ्गी ।
तत् किं करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ ४।९ ॥
अत्र चिन्ता, अनौचित्यप्रवर्तिता ।
एवमन्ये ऽप्युदाहार्याः ॥
(सू- ५०)

भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥३६॥

क्रमेणोदाहरणम् तस्याः सान्द्रविलेपनस्तनतटप्र श्लेषमुद्राङ्कितं किं वक्षश्वरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत् सम्प्रमार्ष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥ ५० ॥
अत्र कोपस्य ।
एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ ५१ ॥
अत्रौत्सुक्यस्य ।
उत्सिक्तस्य तपःपराक्रमनिधेरब्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्व मां कर्षतः ।
वैदैहीपरिरम्भ एष च मुहुश्वैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥ ५२ ॥
अत्रावेगहर्षयोः ।
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय नःश्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थयमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति ॥ ५३ ॥
अत्र वितकारैत्सुक्यमतिस्मरणशह्कादैन्यधृतिचिन्तानां शबलता ।
भावस्थितिस्तूक्ता उदाहृता च ॥
(सू- ५१)

मुख्ये रसे ऽपि ते ऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
ते भावशान्त्यादयः ।
अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत् ॥
(सू- ५२)

अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥३७॥

शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।

शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यःष अर्थशक्तिमूलानुरणनरूपव्यङ्गयः उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्वेति त्रिविधः ॥
तत्र

अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥३८॥

(सू- ५३)

प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भ वो द्विधा ।

वस्त्वेवेति, अनलङ्कारं वस्तुमात्रम् ।
आद्यो यथा उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन ।
निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥ ५४ ॥
अत्र वाक्यस्यासम्बद्धार्थाबिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः ।
तिरमरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः ।
मतिमानतच्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥ ५५ ॥
अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः ।
अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामसि ॥ ५६ ॥
अत्रापि विरोधाभासः ।
निरुपादानसम्भारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ५७ ॥
अत्र व्यतिरेकः ।
अलङ्कार्यस्यापि ब्राह्नणश्रणणन्यायेनालङ्कारता ।
वस्तुमात्रं यथा पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअपओहरं पेख्खिऊण जै वससि ता वससु ॥ ५८ ॥
अत्र यद्युपभोगक्षमो ऽसि तदा, आस्स्वेति व्यज्यते ।
शनिरशनिश्व तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः स भात्युदारो ऽनुदारश्व ॥ ५९ ॥
त्र अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यते ।
(सू- ५४)

अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः सम्भवी स्वतः ॥३९॥

प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालङ्कृतिर्वेति षड्भेदो ऽसौ व्यनक्ति यत् ॥४०॥

वस्त्वलङ्कारमथ वा तेनायं द्वादशात्मकः ।

स्वतःसम्भवी न केवलं भणितिमात्रनिष्पन्नो यावब्दहिरप्यौचित्येन सम्भाव्यमानः ।
कविना प्रतिभाणमात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधो ऽपर इति त्रिविधः ।
वस्तु वालङ्कारो वासाविति षोढा व्यञ्जकः ।
तस्य वस्तु वालङ्कारो वा ब्यङ्ग्य इति द्वादशभङेदोर् ।
आथशक्त्युद्भवो ध्वनिः ।
क्रमेणोदाहरणम्– अलसशिरोपणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ ।
इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ॥ ६० ॥
अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते ।
धन्यासि या कथयसि प्रियसङ्गमे ऽरि विस्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ॥ ६१ ॥
अत्र त्वमधन्या, अहं तु धन्येति व्यतिरेकालङ्कारः ।
दर्पान्धगन्धगजकुम्भकपाटकूटसङ्क्रान्तिनिघ्नघनशोणितशोणशोचिः ।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ॥ ६२ ॥
अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात् करिष्यते, इति वस्तु ।
गाढकान्तदशनक्षतव्यथासङ्कटादरिवधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ॥ ६३ ॥
अत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते, इत्युत्प्रेक्षा च ।
एषूदाहरणेषु स्वतऋसम्भवी व्यञ्जकः ।
कैलासस्य प्रथमशिखरे वेणुसम्मूर्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम् ।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसञ्जातशङ्का दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥ ६४ ॥
अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते ।
केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ ।
जह कन्दराहिं विहुरा तस्स दढं कण्ठअम्मि सण्ठविआ ॥ ६५ ॥
अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति, इत्युत्प्रेक्षा ।
एकत्र सङ्ग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलङ्कारः ।
न पराय्य गतास्तद्वैरिणो ऽपि तु ततः पराभवं सम्भाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्व ।
गाढालिङ्गणरहसुज्जुअम्मि दैए लहुं समोसरै ।
माणंसिणीण माणो पीलणभीअ व्व हिअआहिं ॥ ६६ ॥
अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते, इति वस्तु ।
जा ठेरं व हसन्ता कैवअणम्बुरुहबद्धविणिवेसा ।
दावेइ भुअणमण्डलमण्णं विअ जऐ सा वाणी ॥ ६७ ॥
अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते, इति व्यतिरेकः ।
एषु कव्प्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः ।
जे लङ्कागिरिमेहलासु खलिआ सम्भोगखिण्णोरई– फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम् ।
ते एङ्णिं मलआनिला विरहिणीणीसाससम्पक्किणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥ ६८ ॥
अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते ।
सहि विरैऊण माणस्स मज्झ धीरत्तणेण आसासम् ।
पिअदंसणविहलङ्खलखणम्मि सहसत्ति तेण ओसरिअम् ॥ ६९ ॥
अत्र वस्तुनाकृते ऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते, इत्युत्प्रेक्षा वा ।
ओल्लोल्लकरअरअख्खएहि तुह लोअणेसु मह दिण्णम् ।
रत्तंसुअं पआओ कोवेण पुणो इमे ण अक्कमिआ ॥ ७० ॥
अत्र किमिति लोचने कुपिते वहसि, इति, उत्तरालङ्कारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु ।
महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ ॥ ७१ ॥
अत्र हेत्वलङ्कारेण “तनोस्तनूकरणे ऽपि तव हृदये न वर्ततेऽ; इति विशेषोक्तिः ।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः ।
एवं द्वादश भेदाः ॥
(सू- ५५)

शब्दार्थो भयभूरेकः

यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ॥ ७२ ॥
अत्रोपमा व्यङ्ग्या ॥
(सू- ५६)

भेदा अष्टादशास्य तत् ॥४१॥

अस्येति ध्वनेः ॥
ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह ।
(सू- ५७)

रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
अनन्तत्वादिति ।
तथाहि-नव रसाः ।
तत्र शृह्गारस्य द्वौ भेदौ ।
सम्भोगो विप्रलम्भश्व ।
सम्भोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यांस्तमयचन्द्रोदयषडृतुवर्णनादयो बहवो भेदाः ।
विप्रलम्भस्याभिलाषादय उक्ताः ।
तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् ।
तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम् ।
तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम् ।
का गणना त्वन्येषाम् ।
असंलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते ॥
(सू- ५८)

वाक्ये द्वचुत्थः

द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः ॥
(सू- ५९)

पदे ऽप्यन्ये

अपिशब्दाद्वाक्ये ऽपि ।
एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते ।
तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि– यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्यो ऽनुकम्प्यश्व स जातः स च जीवति ॥ ७३ ॥
(१) अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसङ्क्रमितवाच्याः ।
खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम् ।
हिअअवअस्सवहुमआ ण हु ववसाआ विमुज्झन्ति ॥ ७४ ॥
(२) अत्र विमुह्यन्तीति ।
लावण्यं तदसौ कान्तिस्तुद्रूपं स वचःक्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान् ॥ ७५ ॥
अत्र तदादिपदैरनुभवैकगौचरा अर्थाः प्रकाश्यन्ते ।
यथा वा मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं शम्स हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ७६ ॥
(३) अत्र भीताननेति ।
एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते ।
भावादीनां पदप्रकाश्यत्वे ऽधिकं न वैचित्र्यमिति न तदुदाह्रियते ।
रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः ।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम ॥ ७७ ॥
(४) अत्र भीषणीयस्य भीमसेन उपमानम् ।
भूक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥ ७८ ॥
(५) काचित् सङ्केतदायिनमेवं मुख्यया वृच्या शंसति ।
सायं स्नानमुपासितं महयजेनाङ्गं समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः ।
आश्वर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्रोति ते नासितुम् ॥ ७९ ॥
(६) अत्र वस्तुना कृतपुरुषपरिचया क्लान्तासीति वस्तु, अधुनापदद्योत्यं व्यज्यते ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ॥ ८० ॥
चिन्तयन्ती जगत्सूतिं परब्रह्नस्वरुपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ८१ ॥
(७) अत्र जन्मसहस्रैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम् ।
एवं चाशेषचयपदद्योत्ये, अतिशयोक्ती ।
क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम् ।
बत वीर तव द्विषतां पराह्नुखे त्वयि परङ्भुखं सर्वम् ॥ ८२ ॥
(८) अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन “विधिरपि त्वामनुवर्ततेऽ; इति सर्वपदद्योत्यं वस्तु ।
तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो ।
इअ णववहुआ सोऊण कुणै वअणं महिसम्मुहम् ॥ ८३ ॥
(९) अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतम् येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम् ।
एपु स्वतःसम्भवी व्यञ्जकः ।
राईसु चन्दधवलासु ललिअमप्फालिऊण जो चावम् ।
एकच्छत्तं विअ कुणै भुअणरज्जं विजम्भन्तो ॥ ८४ ॥
(१०) अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्विदपि तदादेशपराङ्भुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते, इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते ।
निशितशरधियार्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले ।
दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥ ८५ ॥
(११) अत्रवस्तुना युगपदवस्थाः परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः ।
वारिज्जन्तो वि पुणो सन्दावकदत्थिएण हिअएण ।
थणहरवअस्सएण विसुद्धजाई ण चलै से हारो ॥ ८६ ॥
(१२) अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारो ऽनवरतं अम्पमान एवास्ते, इति ण चलैपदद्योत्यं वस्तु ।
सो मुद्धसामलङ्गो धम्मिल्लो कलिअललिअणिअदेहो ।
तीए खन्धाहि बलं गहिअ सरो सुरअसङ्गरे जऐ ॥ ८७ ॥
(१३) अत्र रूपकेण मुद्दुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः, यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुको ऽभूदिति खन्धपदद्योत्या विभावना ।
एषु कविप्रौढोक्तिममात्रनिष्पन्नशरीरः ।
णवपुण्णिमामिअङ्कस्स सुहअ को त्तं सि भणसु मह सच्चम् ।
का सोहग्गसमग्ग पओसरअणि व्व तुह अज्ज ॥ ८८ ॥
(१४) अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुक्तस्त्वं न तत इति णवेत्यादिपओसेत्यादिपदद्योत्यं वस्तु व्यज्यते ।
सहिं णवणिहुवमसमपम्मि अङ्कवालीसहीए णिबिडाए ।
हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ॥ ८९ ॥
(१५) अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहम्पदगम्यः ।
प्रविसन्ती घरवारं विवलिअवअणा विलोइऊण पहम् ।
खन्धे घेत्तूण घडं हा हा णठ्ठोत्ति रुअसि सहि किं ति ॥ ९० ॥
अत्र हेत्वलङ्कारेण सङ्केतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा, अपरं घटं गृहीत्वा गच्छेति वस्तु किन्तिपदद्योत्यम् ।
यथा वा विहलङ्खलं तुमं सहि दट्ठूण कुढेण तरलतरदिट्ठिम् ।
वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ विहिण्णो ॥ ९१ ॥
(१६) अत्र नदीकूले लतागहने कृतसङ्केतमप्राप्तं गृहप्रवेशावसरे पस्वादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितम् तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज, अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये, इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु ।
जोङ्णाइ महुरसेण अ विवण्णतारुण्णौत्सुअमणा सा ।
बुड्ढा वि णवोढव्विअ परवहुआ अहह हरै तुह हिअअम् ॥ ९२ ॥
(१७) अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभितषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः परवहूपदप्रकाश्यः ।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः ।
वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति पञ्चत्रिंशद्भेदाः ।
(सू- ६०)

प्रबन्धे ऽप्यर्थशक्तिभूः ॥४२॥

यथा गृद्रगोमायुसंवादादौ ।
अलं स्थित्वा श्मसाने ऽस्मिन् गृध्रगोमायुसङ्कुले ।
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥ ९३ ॥
न चेह जीवितः कश्वित् कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ ९४ ॥
इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ॥ ९५ ॥
अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कर्थ मूढास्त्यजध्वमविशङ्किताः ॥ ९६ ॥
इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते ।
अन्ये त्वेकादश भेदा ग्रन्धविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतो ऽनुसर्तव्याः ।
अपिशब्दात्पदवाक्ययोः ॥
(सू- ६१)

पदैकदेशरचनावर्णेष्वपि रसादयः ॥
तत्र प्रकृत्या यथा रैकेलिहिअणिअसणकरकिसलअरुद्धणअणजुअलस्स ।
रुद्दस्स तैअणअणं पव्वईपरिचुम्बिअं जऐ ॥ ९७ ॥
अथ जयतीति न तु शोभते, इत्यादि ।
समाने ऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम् ।
यथा वा प्रेयान् सो ऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
तावत्प्रत्युत पाणिसम्पुटगलन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥ ९८ ॥
अत्र पदानीति न तु द्वाराणीति ।
तिङ्सुपोर्यथा पथि पथि शुकचञ्चूचारुपाभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्व ।
नरि नरि किरति द्राक् सायकान् पुष्पधन्बा पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥ ९९ ॥
अत्र किरतीति किरणस्य साध्यमानत्वम् निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते ।
यथा वा लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितः निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः तवावस्था चेयं विसृज कठिने मानमधुना ॥ १०० ॥
अत्र लिखन्निति न तु लिखतीति तथा, आस्ते, इति न तु, आसित इति, अपि तु प्रसादपर्यन्तमास्ते, इति, भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किञ्चिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् ।
सम्बन्धस्य यथा गामारुहम्मि गामे वसामि णअरठ्ठिइं ण जाणामि ।
णाअरिआणं पैणो हरेमि जा होमि सा होमि ॥ १०१ ॥
अत्र नागरिकाणामिति षष्ठ्याः ।
“रमणीयः क्षत्रियकुमार आसीत्ऽ; इति कालस्य ।
एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः ।
वचनस्य यथा ताणं गुणग्गहणाणं ताणुक्कण्ठाणं तस्स पेम्मस्स ।
ताणं भणिआणं सुन्दर एरिसिअं जाअमवसाणम् ॥ १०२ ॥
अत्र गुणग्रहणादीनां बहुत्वम् प्रेम्णश्वैकत्वं द्योत्यते। ।
पुरुषव्यत्ययस्य यथा रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयमानालोक्य किं नृत्यसि ।
किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम् एषा कण्ठतटे कृता खलु शिला संसारवारान्निधौ ॥ १०३ ॥
अत्र प्रहासः ।
पूर्वनिपातस्य यथा येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः ।
ये क्ष्याशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमा- स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ॥ १०४ ॥
अत्र पराक्रमस्य प्राधान्यमवगम्यते ।
विभक्तिविशेषस्य यथा प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुररैयोधि तव दिवसम् ।
दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥ १०५ ॥
अत्र दिवसेनेत्यपवर्गतृतीया फलप्राप्तिं द्योतयति ।
भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं यत् गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १०६ ॥
अत्रानुकम्पावृत्तेः करूपतद्धितस्य ।
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
निवेकप्रध्वंसादुपचितमहामोहगहनो विकारः को ऽप्यन्तर्जडयति च तापं च कुरुते ॥ १०७ ॥
अत्र प्रशब्दस्योसर्गस्य ।
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्व नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ॥ १०८ ॥
अत्र तुल्ययोगिताद्योतकस्य “चऽ; इति निपातस्य ।
रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति सरुद्यस्यैकबाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥ १०९ ॥
अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति, अपि, अस्मदित्यस्य सर्वाक्षेपिणः, भाग्यविपर्ययादित्यन्यथासम्पत्तिमुखेन न त्वभावमुखेनाभिधानस्य ।
तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे ।
अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ॥ ११० ॥
अत्र, इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ बसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्वित् स्वरूपस्य विशेषी यश्वमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति ।
एवमन्येषामपि बोद्धव्यम् ।
वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते ।
अपिशब्दात् प्रबन्धेषु वाजकादिषु ।
एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड्भेदाः ।
(सू- ६२)

भेदास्तदेकपञ्चाशत्

व्याख्याताः ॥
(सू- ६३)

तेषां चान्योन्ययोजने ॥४३॥

सङ्करेण त्रिरूपेण संसृष्ठ्या चैकरूपया ।

न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन सङ्करेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्भिर्गुणने ।
(सू- ६४)

वेदखाब्धिवियच्चन्द्राः

(१०४०४) शुद्धबेदैः सह (सू- ६५)

शरेषुयुगखेन्दवः (१०४५५) ॥४४॥

तत्र दिङ्भात्रमुदाह्रियते ।
खणपाहुणिआ देअर जाआए सुहअ किम्पि दे भणिआ ।
रुऐ पडोहरवलहीघरम्मि अणुणिज्जौ वराई ॥ १११ ॥

अत्रानुनयः किमुपभोगलक्षणे ऽर्थान्तरे सङ्क्रमितः किमनुरणनन्यायेनोपभेगे, एव व्यङ्गये व्यञ्जकः, इति सन्देहः ।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥ ११२ ॥
अत्र लिप्तेति पयोदसुहृदामिति च, अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः ।
ताभ्यां सह रामो ऽस्मीत्यर्थान्तरसङ्क्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसङ्क्रमितवाच्यरसध्वन्योः सङ्करः ।
एवमन्यदप्युदाहार्यम् ॥

इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ॥४ ॥ ॥