०३

॥ अथ तृतीय उल्लासः ॥

(सू- ३५)

अर्थाः प्रोक्ताः पुरा तेषाम्
अर्थाः, वाच्यलक्ष्यव्यङ्ग्याः ।
तेषां वाजकलाक्षणिकव्यञ्जकानाम् ॥
(सू- ३६)

अर्थव्यञ्जकतोच्यते ।

कीदृशीत्याह (सू- ३७)

वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ २१ ॥

प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
यो ऽर्तस्यान्यार्थधीहेतुर्व्यापारो व्यक्तितरेव सा ॥ २२ ॥

बोद्धव्यः प्रतिपाद्यः ।
काकुर्ध्वनेर्विकारः ।
प्रस्तावः प्रकरणम् ।
अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः ।
क्रमेणोदाहरणानि ।
ऐपिहुलं जलकुम्भं घेत्तूण समागदह्नि सहि तुरिअम् ।
समसेअसलिलणीसासणीसहा वीसमामि खणम् ॥१३॥

अत्र चौर्यरतगोपनं गब्यते ।
ओण्णिद्दं दोब्बल्लं चिन्ता अलसत्तणं सणीससिअम् ।
मह मन्दभाइणीए केरं सहि तुह वि अहह परिहवै ॥१४॥

अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्जालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥१५॥

अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते ।
न च वाच्यसिद्धयङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्क्यम् ।
प्रश्र्नमात्रेणापि काकोर्विश्रान्तेः ।
तैआ मह गण्डत्थलणिमिअं दिठ्ठिं ण णेसि अण्णत्तो ।
एण्हिं सच्चेअ अहं ते अ कवाला ण सा दिठ्ठी ॥१६॥

अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते, इति व्यज्यते ।
उद्देशो ऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुदृदस्तन्वि दे वान्ति वाता येषामग्रे सरति कलिताकाण्जकोपो मनोभूः ॥१७॥

अत्र रतार्थं प्रविशेति व्यङ्ग्यम् ।
णोल्लेइ अणोल्लमणा अत्ता मं घरभरम्मि ।
खणमेत्तं जै सञ्झाइ होइ ण व होइ वीसामो ॥१८॥

अत्र सन्ध्या सङ्केतकार इति तटस्थं प्रति कयाचिद्दयोत्यते ।
सुव्वह समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण ।
एमे अ कित्ति चिठ्ठसि ता सहि सज्जेसु करणिज्जम् ॥१९॥

अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते ।
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितो ऽञ्जलिर्वः ॥२०॥

अत्र विविक्तो ऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति, आश्वस्तां प्रति कयाचिन्निवेद्यते ।
गुरुअणपरवस पिअ किं भणामि तुइ मन्दभाइणी अहकम् ।
अज्ज पवासं वच्चसि वच्च सअं जेव्व सुणसि करणिज्जम् ॥२१॥

अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न बवामि तव तु न जानामि गतिमिति व्यज्यते ।
आदिग्रहणाच्चेष्टादेः ।

तत्र चेष्टाया यथा द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् ।
आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने वाचस्तत्र निवारितं प्रसरणं सङ्कोचिते दोर्लते ॥२२॥

अत्र चेष्टया प्रच्छन्नकान्तविष्य आकूतविशेषो ध्वन्यते ।
निराकाह्क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते ।
वत्त्कादीनां मिथःसंयोगे द्विकादिभेदेन ।
अनेन क्रमेण लक्ष्यव्यङ्ग्यपोश्व व्यञ्जकत्वमुदाहार्यम् ॥
(सू- ३८)

शब्दप्रमाणवेद्यो ऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता ॥ २३ ॥

शब्देति ।
नहि प्रमाणान्तरवेद्यो ऽर्थो व्यञ्जकः ॥

इति श्रीकाव्यप्रकाशे ऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ॥ ३ ॥