॥ अथ द्वितीय उल्लासः ॥
क्रमेण शब्दार्थयोः स्वरूपमाह– (सू- ५)
स्याद्वाचको लाक्षणिकः शब्दो ऽत्र व्यञ्जकस्त्रिधा ।
अत्रेति काव्ये ।
एषां स्वरुपं वक्ष्यते ॥
(सू- ६)
वाच्यादयस्तदर्थाः स्युः
वाच्यलक्ष्यव्यङ्ग्याः ॥
(सू- ७)
तात्पर्यार्थो ऽपि केषुचित् ॥ ६ ॥
आकाह्क्षायोग्यतासन्निधिवशाद्वक्ष्यमाणस्वरूम्पाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थो ऽपि वाक्यार्थः समुल्लसतीत्यभिहिनान्वयवादिनां मतम् ॥
वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः ॥
(सू- ८)
सर्वेषां प्रायशो ऽर्थानां व्यञ्जकत्वमपीष्यते ।
तत्र वाच्यस्य यथाऽ
माए घरोवअरणं अज्ज हु णत्थि त्ति साहिअं तुमए ।
ता भण किं करणिज्जं एमेअ ण वासरो ठाइ ॥६॥
अत्र स्वैरविहारार्थिनीति व्यज्यते ।
लक्ष्यस्य यथा साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए ।
सब्भावणेहकरणिज्जसरिसअं दाव विरैअं तुमए ॥७॥
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् ।
व्यङ्ग्यस्य यथा उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगअभाअणपरिठ्ठिआ सङ्खसुत्ति व्व ॥८॥
अत्र निष्पन्दत्वेन, आश्वस्तत्वम्, तेन च जनरहितत्वम्, अतः सङ्केतस्थानमेतदिति कयाचित् कञ्चित्प्रत्युच्यते ।
अथवा मिथ्या वदसि न त्वमत्रागतो ऽभूरिति व्यज्यते ॥
वाचकादीनां क्रमेण स्वरूपमाह (सू- ९)
साक्षात्सङ्केतितं यो ऽर्थमभिधत्ते स वाचकः ॥ ७ ॥
इहागृहीतसङ्केतस्य शब्दस्यार्थप्रतीतेरभावात्सङ्केतसहाय एव शब्दो ऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन सङ्केतो गृह्यते स तस्य वाचकः ।
(सू- १०)
सङ्केतितस्वतुर्भेदो जात्यादिर्जातिरेव वा ।
यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तयाप्यानन्त्याव्द्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यते, इति गौः शुक्लश्वलो डित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव सङ्केतः ।
उपाधिश्व द्विविधः–वस्तुधर्मो वक्तृयदृच्छासन्निवेशितश्व ।
वस्तुधर्मो ऽपि द्विविधः–सिद्धः साध्यश्व ।
सिद्धो ऽपि द्विविधः–पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्व ।
तत्राद्यो जातिः उक्तं हि वाक्यपदीये " न हि गौः स्वरूपेण गौर्नाप्यगौः, गोत्वाभिसम्भन्धात्तु गौः" इति ।
द्वितीयो गुमः ।
शुक्लादिना हि लब्धसत्तार्क वस्तु विशिष्यते ।
साध्यः पूर्वापरीभूतावयवः क्रियारूपः ।
डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन सन्निवेश्यत इति सो ऽयं सञ्ज्ञारूपो यदृच्छात्मक इति ।
“गौःशुक्लश्वलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः” इति महाभाष्यकारः ।
परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् ।
गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद्भेद इव लक्ष्यते ।
यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् ।
हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम् ।
गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि ।
बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये ।
तद्वान् अपोहो वा शब्दार्थः कैश्विदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम् ॥
(सू- ११)
स मुख्यो ऽर्थस्तत्र मुख्यो व्यापारो ऽस्याभिधोच्यते ॥ ८ ॥
स इति साक्षात्सङ्केतितः ।
अस्येति शब्दस्य ॥
(सू- १२)
मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात ।
अन्यो ऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ९ ॥
“कर्मणि कुशलःऽ; इत्यादौ दर्भग्रहणाद्ययोगात् “गङ्गायां घोषःऽ; इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासम्भवोत् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च सम्बन्धे रूढितः प्रसिद्धेः, तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्यो ऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा ।
(सू- १३)
स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ १० ॥
“कुन्ताः प्रविशन्तिऽ; “यष्टयः प्रविशन्तिऽ; इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते ।
तत उपादानेनेयं लक्षणा ।
“गौरनुबन्ध्यः” इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते “विशेष्यं नाभिधा गच्छेत् श्रीणशक्तिर्विशेपणे” इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या ।
न ह्यत्र प्रयोजनमस्ति न वा रुढिरियम् ।
व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते ।
यथा क्रियतामित्यत्र कर्ता ।
कुर्वित्यत्र कर्म ।
प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च ।
“पीनो देवदत्तो दिवा नभुङ्क्तेऽ; इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् ।
“गङ्गायां घोषःऽ; इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवमादौ लक्षणेनैषा लक्षणा ।
उभयरुपा चेयं शुद्धा ।
उपचारेणामिश्रितत्वात् ।
अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थयम् ।
तटादीनां गङ्गादिशब्दैः प्रतिपादने तच्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः ।
गह्गासम्बन्धमात्रप्रातीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः ॥
(सू- १४)
सारोपान्या तु यत्रोक्तौ विषयी विषयस्यथा ॥
आरोप्यमाणः, आरोपविषयश्व यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा ॥
(सू- १५)
विषय्यन्तःकृते ऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ ११ ॥
विषयिणारोप्यमाणेनान्तःकृते निगीर्णे, अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात् ॥
(सू- १६)
भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौ
इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ “गौर्वाहीकःऽ; इत्यत्र “गौरयम्ऽ; इत्यत्र च ।
अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तेत्वमुपयान्ति, इति केचित् ।
स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न परार्थो ऽभिधीयते, इत्यन्ये ।
साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते, इत्यपरे ।
उक्तं चान्यत्र “अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता” इति ।
अविनाभावो ऽत्र सम्बन्धमात्रं न तु नान्तरीयकत्वम् ।
तेच्वे हि मञ्चाः क्रोशन्तिऽ; इत्यादौ न लक्षणा स्यात् ।
अवनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम् ।
“आयुर्गृतम्ऽ; “आयुरेवेदम्ऽ; इत्यादो च सादृश्यादन्यत् कार्यकारणबावादि सम्बन्धान्तरम् ।
एवमादौ च कार्यकारणभावादिलक्षणपूर्वे, आरोपाध्यवसाने ।
अत्र गौणभेदयोर्भेदे ऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्व प्रयोजनम् ।
शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि ।
क्वचित् तादर्त्यादुपचारः ।
यथा, इन्द्रार्था स्थूणा, इन्द्रः ।
क्वचनतम स्वस्वामिभावात् ।
यथा, राजकीयः पुरुषो राजा ।
क्वचित्, अवयवावयविभावात् ।
यथा, अग्रहस्त इत्यत्राग्रमात्रे ऽवयवे हस्तः ।
क्वचित् तात्कर्म्यात् ।
यथा, अतक्षा तक्षा ॥
(सू- १७)
लक्षणा तेन षड्विधा ॥ १२ ॥
आद्यभेदाभ्यां सह ॥
सा च (सू- १८)
व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने ।
प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव ॥
(सू- १९)
तच्च गूढमगूढं वा
तच्चेति व्यङ्ग्यम् ।
गूढं यथा मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंश्था मतिः ।
उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥९॥
अगूढं यथा श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि ॥१०॥
अत्रोपदिशैतीति ॥
(सू- २०)
तदेषा कथिता त्रिधा ॥ १३ ॥
अव्यङ्ग्या गूढव्यङ्ग्या, अगूढव्यह्ग्या च ॥
(सू- २१)
तद्भूलक्षिणिकस्
शब्द इति सम्बध्यते ।
तद्भूस्तदाश्रयः ॥
(सू- २२)
तत्र व्यापारो व्यञ्जनात्मकः ।
कुत इत्याह (सू- २३)
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ १४ ॥
फले शब्दैकगम्ये ऽत्र व्यञ्जनान्नापरा क्रिया ।
प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव सब्दात् ।
न चात्र व्यञ्जनादृते ऽन्यो व्यापारः ॥
तथाहि (सू- २४)
नाभिधा समयाभावात्
गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः सङ्केतिताः ॥
(सू- २५)
हेत्वभावान् लक्षणा ॥ १५ ॥
मुख्यार्थबाधादित्रयं हेतुः ॥
तथा च (सू- २६)
लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो ।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥ १६ ॥
यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वत् यदि तटे ऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत् ।
न च तटं मुख्यो ऽर्थः ।
नाप्यत्र बाधः ।
न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः सम्बन्धः ।
नापि प्रयोजने लक्ष्ये किञ्चित् प्रयोजनम् ।
नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ॥
(सू- २७)
एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ।
एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेणेति तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृत् अनवस्था भवेत् ॥
ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते ।
“गङ्गायास्तटे घोषःऽ; इत्यतो ऽधिकस्यार्थस्य प्रतीतिश्व प्योजनमिति विशिष्टे लक्षणा त्त्किं व्यञ्जनयेत्याह ।
(सू- २८)
प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ १७ ॥
कुत इत्याह (सू- २९)
ज्ञानस्य विषयो ह्नन्यः फलमन्यदुदाहृतम् ।
प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रकटता संवित्तिवा ॥
(सू- ३०)
विशिष्टे लक्षणा नैवं
व्याख्योतम् ॥
(सू- ३१)
विशेषाः स्युस्तु लक्षिते ॥ १८ ॥
तटादौ ये विषेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः ।
तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम् ॥
एवं लक्षणामूलं व्यञ्जकत्वमुक्तम् ॥
अभिधामूलं त्वाह ।
(सू- ३२)
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ १९ ॥
“संयोगो विप्रयोगश्व साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” ॥
इत्युक्तदिशा सशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्यच्युते ।
रामलक्ष्मणाविति दाशरथौ ।
रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः ।
स्थाणुं भज भवच्छिदे, इति हर ।
सर्वं जानाति देव इति युष्मदर्थे ।
कुपितो मकरध्वज इति कामे ।
देवस्य पुरारादेरिति सम्भौ ।
मधुना मत्तः कोकिल इति वसन्ते ।
पातु वो दयितामुखमिति साम्मुख्ये ।
भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि ।
चित्रबानुर्विभातीति दिने रवौ रात्रौ वह्नौ ।
मित्रं भातीति सुहृदि, मित्रो भातीति रवौ ।
इन्द्रशत्रुरित्यादौ वेते एव, न काव्ये, स्वेरो विशेषप्रतीतिकृत् ।
आदिग्रहणात् एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं ।
एद्दहमेत्तावत्था एद्दहमेत्तेहि दिअएहिं ॥११॥
इत्यादावभिनयादयः ।
इत्थं संयोगादिभिरर्धान्तराभिधायकत्वे निवारिते ऽप्यनेकार्थस्य शब्दस्य यत् क्वचिदर्थान्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः ।
न च लक्षणा मुख्यार्थबाधाद्यभावात् ।
अपि त्वञ्जनं व्यञ्जनमेव व्यापारः ।
यथा भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसङ्ग्रहस्य ।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करो ऽभूत् ॥१२॥
(सू- ३३)
तद्युक्तो व्यञ्जकः शब्दः
तद्युक्तो व्यञ्जनर्युक्तः (सू- ३४)
यत्सो ऽर्थान्तरयुक् तथा ।
अर्थो ऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ २० ॥
तथेति व्यञ्जकः ॥
इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ॥ २ ॥