व्यक्तिविवेकः

[[व्यक्तिविवेकः Source: EB]]

[

** व्यक्तिविव**

संस्कृत-हिन्दीन्दी-व्याख्याद्वयोपेतः

** _______*_______**

** प्रथमो बिमर्श**:

अनुमानेऽन्तर्भावं सव्स्यैव ध्वनेः प्रकाशयितुम् ।
व्यक्तविचेकं कुरुते प्रणम्प महिमा परां वायम् ॥ 1 ॥
युक्तोऽयमात्मसट्टशान् प्रति मे प्रयत्नो नास्त्येव तज्जगति सर्वमनोहरं यत् ।
केचिज्जवलन्ति विकसन्न्त्यपरे निमीलन्त्यन्ये यदभ्युयभाजि जगत्प्रदीपे ॥ 2 ॥
इह सम्प्रतिपत्तितोऽन्यथा वा ध्वनिकारस्य वचोविवेचनं नः ।
नियतं यशसे प्रपत्स्यते यन्महतां संस्तव एव गौरवाय ॥ 3 ॥
सहसा यशेऽभिसतु समुद्याताट्ठष्टदर्पणा मम धीः ।
स्वालङकारविकल्प्रकल्पने वेत्ति कथमिदावद्यम् ॥ 4 ॥
ध्वनिवर्त्मन्यतिगहने स्खलितं वाण्याः पदे पदे सुलभम् ।
रभसेन यत् प्रवृत्ता प्रकाशकं चन्द्रिकाद्यट्टष्टैव ॥ 5 ॥
किन्तु तदवधीर्यार्यैर्गुणलेशे सततमवहितैर्भाव्यम् ।
परिपवनवदथवा ते जात्यैव न शिखितास्तुधग्रहणाम् ॥ 6 ॥
तत्र ध्वनेरेव तावल्लक्षणं वक्तव्यमु । कोऽयं ध्वनिर्नामेति । तच्च ध्वनि-
कारेणैवोक्तम् । तद्यथा__
‘यत्रार्थः शाब्दो वा तमर्थमुसर्जनीकृतस्वार्थौ ।
व्यङकः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥’ इति ।
एतच्च विविच्यमानमनुमानस्यैव सङगच्छते, नान्यस्य ।
तथा हि_अर्थस्य तावदुपसर्जनीकृतात्मत्वमनुपादेयमेव । तस्यार्थान्तर-
प्रतीत्यर्थमुपात्तस्य तद्वचभिचाराभावात् । न ह्मग्न्यादिसिद्धौ धूमादिरुपादीय-
मानो गुणतामतिवर्तते । तस्य तन्मात्रलक्षणत्वात् ।
यत् पुनरस्य क्वचित् समासोक्त्यादौ प्राधान्यमुच्यते तत् प्राकरणिकत्वा-
पेक्षयैव । न प्रतीयमानापेक्षया । यथा__
‘उपोढरगेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा पुरोऽपि रागाद्रलितं न लक्षितम् ॥
अत्र हि प्रतीयमानेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपित-
नायिकानायकव्यवहारयोर्निशशशिनोरेव वाक्यार्थत्वात् इति ।
तदपेक्षया च तस्य लिङगत्वादुपसर्जनीभावाव्यभिचार एव ।

व्यभिचारेऽपि वैफल्यादनुपादेमेवैतद्, गुणीभूतव्यङगचेऽपि काव्ये
चारुत्वप्रकर्षदर्शनादिति वक्ष्यते ।
उक्तं गुणीकृतात्मत्वं यदर्थस्य विशेषणम् ।
गमकत्वान्न तत् तस्य युक्तमव्यभिचारतः ॥ 7 ॥
इति सङग्रहश्र्लोकः ।
?0शब्द-खण्डन
शब्दः पुनरनुपादे एव । तस्य स्वार्थाभिधानमन्तरेण व्यापारान्तरानु-
पपत्तेरुपपादयिष्यमाणत्वात् ।
न च तुस्यानुकरणव्यतिरेकेणोपसर्जनीकृतार्थत्वं सम्भवति यथा__
‘तं कर्णमूलमागत्य पलितच्छह्मना जरा ।
कैकेयीशङकयेवाह रामे श्रीर्न्यस्यतामिति ॥’
कुतस्तर्हि तदर्थावगतिः । अनुकार्यादिति व्रमूः तस्य सार्थकनिरर्थकत्व-
भेदेन द्वैविध्यतः । न वत्नुकरणात् , तस्येतिना व्यवच्छिन्नस्य स्वरूप-
मात्रेऽवम्थयानात् ।
अन्यस्य तूपसर्जनीभावाव्यभिचार एव, तस्य तदर्थमुपादानतः; यो हि
यदर्थमुपादीयते, नासौ तमेवोपसर्जनीकरोतीति युक्तं वक्तुम् । यथोदकाद्यु-
पादानार्थमुपात्तो घटादिस्तदेवोदकोदि । अन्यथा प्रधानेतरव्यवस्था निर्निब-
न्धनैव स्यात् । अत एव घटादिरेव प्रतिनिधीयते नोदकादीत्यसभ्सवो
खक्षणदोषः ।
व्यभिचारसम्भवयोरपि वा यत् स्वार्थयोरुपसर्जनीकृतत्ववचनं तत्
पुनरुक्तं, तयोरर्थान्तराभिव्यक्त्यार्थमुपात्तयोस्सामर्थ्यादेव तदवगतेरित्यु-
क्तम् । न च स्वरूपमात्रानुवादफलमेतदिति शक्यं वक्तुं तस्य पुनरुक्तिप्रकार-
त्वोपपादनतः ।
एवञ्च यत् ‘सुवर्णपुष्पां पृथिवी’मित्याद्युदाहरणमुपदर्शितं, तदसिद्ध-
साध्यसाधनर्मानुगतमित्यवगन्तव्यम् ।
किञ्च सथामिधेयोऽर्थस्तद्विशेषणं चानपात्तं तद्वदभिण्धाप्युपादानमर्हत्येव ।
अन्यथा यत्र दीनक्रादेरलङकारादलङकारान्तस्योपमादेः प्रतीतिस्तत्र ध्वनित्व-
मिष्टं न स्यात् , तल्लक्षणेनाव्याप्तेः । अलङकाराणां चाभिधात्मत्वमुपगतं तेषां
भङगीभणितिभेदरूपत्वात् ।
‘अलङकारान्तरस्यापि प्रततौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥’ 2127 ध्च0 ॥
इत्यादिना तत् प्रतिषिद्धमिति(चेद्)उच्यते__तत्प्रतिषेधहेतोः काव्यातत्प-
रतालक्षणस्यासिद्धत्वाद् ?0=?0 उपमानोपमेयभावाद्यभिधानपरतयैव दीपक्राद्यल.
ङकारभङगीभणितिसमाश्रयणतः, प्रतीयमानस्यैव चालङकारादेश्चारुत्वातिशययो-
गात् तावन्मात्रनिबन्धनत्वाच्च तद्ध्वन्व्यिचहारस्येति कथं तत्प्रतिषेधसिद्धिः ।
अथार्थप्रतीत्यन्यथानुपपत्त्यैष तत्सदभावावगमः, अर्थशब्दयोरुपसर्जनी-
कृतस्वार्थत्वाभिधानसमथर्याच्च तदुपसर्जनीभावावगतिः, तस्याः प्राधान्ये
तयोरुपसर्जनीभावइति व्यर्थस्तदुपादानप्रसङग इति । एधं तर्ह्मर्थस्यैवोपसर्ज-
नीभावोऽभिधेयो न शब्दस्य, तस्याभिधाया इव तदुपसर्जनीभावाभि-
धानसामर्थ्यादेव तदवगतिसिद्धेरिति लक्षणवाक्ये व्यर्थं शब्दग्रहण्धम् ,
अन्यथाभिधानग्रह?णमपि कर्तव्यं प्रसज्येत, विशेषाभावात् । न चास्य
स्वार्थाभिधानमात्रपर्यवसितसामर्थ्यस्य व्यापारान्तरमुपपद्यते, येनायमर्था-
न्तरमवगमयेत् , तदपेक्षं चोपसर्जनीकृतार्थत्वमियात् । अर्थस्यैव तदुपपत्ति-
समर्थनात् । ?0व्यज्जनाखण्डन
सर्व एव हि शाब्दो व्यवहारः साध्यसानभावगर्भतया प्रायेणानुमा-
नरूपोऽभ्युपगन्तव्यः, तस्य परप्रवृत्तिनिवृत्तिनिबन्धनत्वात् तयोश्च सम्म्र- त्ययासम्प्रत्ययात्मनोरन्यथाकर्तुमशक्यत्वतः । न हि युक्तिमनवगच्छन्
कश्चिद्विश्चिद्वचनमात्रात् सम्प्रत्ययथाग् भवति । ? द्विविधो हि शब्दः
नीयभेदात् ।
तत्र सत्त्वप्रधानानि नामानि । तान्यपि बहुप्रकाराणि सम्भवन्ति । जाति-
गुणक्रियाद्रव्याणं तत्प्रवृत्तिनिमित्तानां बहुत्वात् ॥ तद्यथा घटः पट इति
दण्डी विषाणीति द्रव्यशब्दः ।
केचित् पुनरेषां क्रियैवैका प्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमेव सर्वेषां
नामपदानामुपगच्छन्ति । तथा हि__घटादिशब्दाः स्वार्थे प्रवर्तमाना घट-
नादिकियामेवान्वयव्यतिरेकाभ्यां प्रवृत्तिनिमित्तभावेनावलम्बमाना टृश्यन्ते ।
न घटत्वादिसामान्यम् । सा चैषा घटनादिक्रिया घटत्वसामान्ययोगादन्यथा
वास्तु । नैतावता तस्याः प्रवृत्तिनिमित्तत्वव्याघातः । न च सत्यपि घटत्व-
सामान्ये स्वयमघटन् घटात्मतामनापद्यमान एवासौ घटव्यपदेशाविषयो
भवितुमर्हति । एवं हि पटोऽपि घटव्यपदेशविषयः स्यात् । घटनक्रिया-
कर्तृत्वाभावाविशेषात् । न हि शुक्लत्वमनापद्यमान एवार्थः शुक्ल इति व्यपदेष्टुं
शक्यते, अपचन्नेव पाचक इति । तस्माद् घटनक्रियाकर्तृत्वलक्षणमेव
घटत्वं घटशब्दस्य प्रवृत्तौ निमित्तमवसेयम् । न घटत्वमात्रम् । तदेव चेह
घटनमित्युक्तम् ।
ननु चेष्ठाद्यर्थात् घटतृयादेर्धातोरजादौ घटते इत्याद्यर्थे घटनादिकियैव
सर्वेषां घटादिशब्दानां प्रवृत्तिनिमित्तभावेनास्माभिरपीष्यत एवेति व्यर्थः
पक्षान्तरोपन्यासः । सत्यभिष्यत एव भवदिभाः । किन्तु सा शब्दस्य व्युतृप-
त्तिनिमित्तं, न प्रवृत्तिनिमित्तम् । अन्यद्धि व्युत्पत्ति?निमित्तम् , अन्यच्च
प्रवत्तिनिमित्तम् । यथैकेषां मते गमनादिक्रिया गवादिशब्दानां व्युत्पत्ति-
गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति ।
एवमिहरापि चेष्ठादिक्रया घटादिशब्दानां व्युत्पत्तिनिमित्तमिति सिद्धं
भवति ।
तदपेक्षभेव च विपच्य घटो भवतीत्यादी विपकादिक्रियायाः पौर्वकाल्यं
क्त्वाप्रत्ययस्य विषयो वेदितव्यः, यथाधिश्रित्य पाचको भवतीत्यादौ पाका-
द्यपेखमधिश्रयणादेर्न भवनक्रियापेक्षम् । सा हि नावश्यं प्रयुज्यते । प्रतीयते
तु पदार्थानां चत्ताऽव्यभिचारात् , न तु तावता तदपेक्षं तदिति मन्तव्यं,
तस्या बहिरङगवाद् अर्थस्यासङगतिप्रसङगाच्च ।
प्रयुज्यमानक्रियापेक्षमेव च प्रायेण पौर्वकाल्यं क्त्वो विषयो न प्रतीय-
मानापेक्षम् । इतरथा__
‘श्रुत्वापि नाम बधिरो ट्टष्टवाप्यन्धो जडो विदित्वापि ।
यो देशक्रालकार्यव्यपेक्षया पण्डितः स पुमान् ॥’
इत्यादि प्रयोगजातमनुपपन्नमेव स्यात् , श्रवणादीनां तत्पूर्वकालत्वा-
भावात् । अत्र तु श्रुत्यादिशक्तिविरहलक्षणबाधिर्यादिक्रियापेक्षमेव श्रवणा-
दीनां पौर्वकाल्यमिति न काचिदनुपपत्तिः ।
बह्वीषु च तामूत्तरोत्तरक्रियापेक्षं पूर्वपूर्वक्रियापौर्वकाल्यम्, यथा स्त्रात्वा

भुक्त्वा पीत्वा व्रजतीत्यादौ । अत्र च विपचनघटनभवरूपा बह्वचः क्रिया
इत्यत्रापि घटनापेक्षं विपचनस्य तद् भवितुमर्हंत्येव, उभयत्रापि कर्तृप्रत्यच-
निर्देशाविशेषात् ।
केवलं कृद्वाच्यमपास्य कर्तुरुपाधिभावं गमितेति भिन्नकर्त्तृकत्वभ्रमः। यथा-
‘शिशिरकालमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तारुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ॥’
इत्यत्र कुचोष्मणः कर्तुर्हरणक्रिया । अत एव केचदपास्येत्ययं ल्यबन्त-
प्रतिरूपको निपात इति व्यायख्यातवन्तः । यथा वा__
‘निरीक्ष्य संरग्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम् ।
असंस्कृतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥’
इत्यत्र निरीक्षणक्रियाकर्त्तुर्मृत्योर्भयपक्ष्पतनक्रिये विषयविषयिभाव-
भङगचोपात्ते ।
यथा वा ‘यां ट्टष्टापि समुत्सुके मनसि मे नान्या करोत्यास्पदम्’ इत्यत्र
दर्शनक्रियाकर्त्तु र्मनसोऽन्यकर्त्तृकास्पदक्रियानधिकरणभावेनोपात्तस्यौत्सुक्य-
क्रिया विशेषणभावेनोपात्ता ।
क्वचिद् कर्त्तुः सम्बन्धितामुपगतासौ भ्रमहेतुः । यथा ‘स्मर संस्मृत्य न
शान्तिरस्ति मे’ इति ।
केचित् पुनः कर्तृक्रिययोरनुपादनमपि हेतुमिच्छन्ति । तत्र कर्त्तुर्यथा__
“ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् ।
सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र ! को गुणः "
अत्र हि समवेक्षापूजयोरेको लोकः कर्त्ता । स च सामर्थ्यसिद्ध इति
नोपात्तः । पूजा चोपात्तापि कृद्वाच्यतया कर्मोपसर्जनीभूतेत्युभयं भ्रमहेतुः ।
क्रियाया यथा__
“अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं यत् स्वल्पमपि तद्वहु ॥”
अत्र हि प्रकरणादिगम्पाया लाभक्रियाया अनुपादानं करपणादीनां भिन्न-
कर्तृकत्वभ्रमहेतूः । तदुक्तम्__
‘कर्त्तुरुपाधितयोक्ता कृद्वाच्यतया गतान्यगुणतां वा ।
क्त्वो भिन्नकर्तृकत्वभ्रमाय भवति क्रियाऽवचश्च तयो ॥’
पौर्वापर्ये क्रियाणां यद् वास्तवं तदपेक्षिणि ।
कत्वः पौर्वकाल्ये किं तासां प्राधान्येतरचिन्तया ॥’
इत्यलमनेन ।
घटतीति? घटो ज्ञेयो नाघटन् घटतामियात् ।
अघटत्वाविशेषेण पटोऽपि स्याद् घटोऽन्यथा ॥ 8 ॥
घटनञ्च तदात्मत्वापत्तिरूपा क्रिया मता ।
मूलञ्च तदाश्चित्रार्थाभासाविष्कृतिरीशितुः ॥ 9 ॥
यः कश्चिदर्थःशब्दानां व्युत्पत्तौ स्यान्निबन्धनम् ।
प्रवृत्तौ तु क्रियैवैका सत्तासादनलक्षणा ॥ 10 ॥
तस्यामेव क्विबाद्याश्च विधेयाः कर्तृमात्रतः ।
न तूपमानादाचारे तयोरर्थात् प्रतीतितः ॥ 11 ॥
यथा ह्मश्चति बालेय इत्यतोऽर्थः प्रतीयते ।
अश्चत्वामासदयति खर इत्यर्थतः पुनः ॥ 12 ॥
अश्चतुल्यसमाचारः खर इत्यवसीयते ।
न तत्त्वसादनं युक्तं तदतुल्यक्रियस्य हि ॥ 13 ॥
सत्तायां व्यापृतिश्चैषा चित्रत्वपरिष्ठितेः ।
सङगच्छते जडस्यापि घटादेर्घटनादिवत् ॥ 14 ॥
नाम्रः सत्त्वप्रधानस्य धातुकारोऽत एब हि ।
शब्दवक्रैकदेशादेर्धात्वर्थत्वमवोचत ॥ 15 ॥
पवञ्च विपच्य घटो भवतीति क्त्वोऽस्य पूर्वकालत्वम् ।
घटनापेक्षं ज्ञेयं भवनापेक्ष्न्तु नासमन्वयतः ॥ 16 ॥
बहिरङगत्वाच्च यथा भवत्यधिश्रित्य पावकोऽयमिति ।
अत्र हि पाकापेक्षाधिश्रयतेः पूर्वकालतावगतिः ॥ 17 ॥
तस्मान्नामपदेभ्यो यः कश्चिदर्थः प्रतीयते ।
न स सत्तामनासाद्य शब्दाच्यत्वमर्हति ॥ 18 ॥
इत्थच्चास्तिभवचत्यादि क्रियासामान्यमुच्यते ।
नान्तरङगतयावश्यं वक्तारस्तत् प्रयुञ्जते ॥ 19 ॥
कियाविशेषो यस्त्वन्यः पा?कादिर्व्यभिचारभाक ।
बहिरङगतथा तस्य प्रयोगोऽवश्यमिष्यते ॥ 20 ॥
इति सङ्ग्राहश्लोकाः ॥
भावप्रधानमाख्यातम् । असत्त्वभूतार्था उपसर्गादयः । तेषामसत्वभूतार्थ-
त्वाविशेषेऽपि व्यापारनियमात् प्रयोगनियमाच्च त्रैराश्योपगमः । त थाहि__
क्रियारूपातिशयप्रतिपत्तिनिबन्धमुपसर्गाः प्रादयः । भावसत्त्वयोरात्मभेद-
प्रत्यायननिमित्तमवधृतरूपार्थविशेषाः स्वरादयो निपाताः ।
क्रियाविशेषोपजनितसम्बन्धावच्छेदहेतवः कर्मप्रवचनीयाः । तदुक्तम्__
‘द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधापि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥’ इति ।
एतच्च वक्ष्यते । वाक्यमेकप्रकारं, क्रियाप्रधान्यात् , तस्पश्चैकत्वात् ।
यदाहुः__
‘साकाङक्षवयवं भेदे परानकाङक्षशब्दकम् ।
क्रियाप्रधानं गुणवदेकार्थं वाक्यमिष्यते ॥’
अर्थोऽपि द्विविधो वाच्योऽनुमेयश्च । तत्र शब्दव्यापारविषयो वाव्यः ।
स एव मुख्य उच्यते । यदाहुः__
‘श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते ।
तं मुख्मर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥’
इति । तत एव तदनुमिताद्वा लिङभूताद्यदर्थान्तरमनुमीयते सोऽनुमेयः । स
च त्रिविधः । वस्तुमात्रमालङकारा रसादयश्चेति । तत्राद्यौ वाच्यावपि सम्भवतः ।
अन्यस्त्वनुमेय एवेति । तत्र पदस्यार्थो वाच्य एव नानुमेयः, तस्प निरंश-
त्वात् साध्यसाधनभावाभावतः ।

वाक्यार्थस्तु वाच्यस्यार्थस्यांशपरिकल्पनामंशानां विध्यनुवादभावेनाव-
स्थितेर्विधेयांशस्य सिद्धासिद्धतयोपपादनापेक्षसापेक्षत्वेन द्विविधो बोद्धव्यः॥
तत्र सिद्धौ विध्युनवादभावः स्वरूपमात्रानुवादाद्, यथा__
‘अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः, इत्यत्र ।
असिद्धो साध्यसाधनभावरूपोऽनूद्यमानस्यांशस्य साधनधुराधिरोहात् ।
साध्यसाधनभावश्चानयोरविनाभाववसायकृतोऽवगन्तव्यः ।
स च प्रमाणमूलः । तच्च त्रिविधम् । यदाहुः__
“लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् ।” इति ।
तत्र लोकप्रसिद्धार्थविषयो लोकः । यथा__
“कयासि कामिन् सरसापराधः पादानतः कोपनयावधूतः ।
यस्याः करिष्यामि ट्टढानुतापं प्रवालशय्याशरणं शरीरम् ॥”
अत्र हि पादानतितदवधूत्योः सरसापराधकोपनत्वयोश्च लोकप्रमाण-
सिद्धः कार्यकारणभावस्तन्मूलश्च साध्यसाधनभावः । यथा वा__
‘‘चन्द्रं गता पह्मगुणान् न भुङ्क्ते पह्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥”
अत्र हि पह्मगुणानां चान्द्रमस्या अभिख्यायाश्च युगपदभोगे लक्ष्म्या यत्
कारणद्वयं रात्रिसङकोचदिवानुदयलक्षणं तल्लोकप्रसिद्धमेवेति नोपादेयता- मर्द्दति
शास्त्रमात्रप्रसिद्धार्थविषयो वेदः । वेदग्रहणमितिहासपुराणधर्मशास्रा-
द्युपलखणं तेषां तन्मूलत्वोपगमात् । यथा__
‘‘अतयाचितारं नहि देवमद्रिः सुतां प्रतिग्राहयितुं शशक ।
अभ्यर्थनाभङगभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥"
अत्र हि कारणभूतस्य भगवद्गतस्य सम्प्रदानत्वनिबन्धनस्य याचन-
स्याभावे भूधरेन्द्रगतस्य कार्यस्य कन्याग्रहणशक्तत्वस्याभावोपनिबन्धः
शारूमूलः, तयोः कार्यकारणभावस्य तन्मूलत्वेन प्रसिद्धेः । यदाहुः__
“अयाचितानि देयानि सर्वद्रव्याणि भारत !
अन्नं विद्या तथा कन्या अनर्थिभ्यो न दीयते ॥’’
अर्थी च सम्प्रदानम् । यदुकम्__
“अनिराकरणात् कर्त्तुस्त्यागाङंग कर्मणोप्सितम् ।
प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम् ॥’’
एवञ्च कारणानुपलब्धिप्रयोगोऽयमार्थ इति मन्तव्यं, यथा नात्र धूमोऽग्ने- रभावादिति ।
आध्पात्मिकायर्थविषयमध्यात्मम् । यथा__
‘‘पशुपतिरपि तान्यहानि कृक्ष्छ्रादगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥’’
अत्र हि भगवत्पशुपगितस्य कृच्छ्राद्दिवसातिवाहनस्याद्रि सुतासमाग-
मोत्कत्वस्य चाध्यात्मसिद्धः कार्यकारणभावः यन्मूलोऽयमनयोस्साध्य- साधनभावः ।
स हि द्विविधः शाब्दश्चार्थश्चेति । सोऽपि च साध्यसाधनयोः प्रत्येकं
पदार्थकाक्यार्थरूपत्वात्, पदार्थस्य च जातिगुणक्रियाद्रव्यभेदेन भेदाद्,
धर्मधर्मितया च धर्मस्यापि सामानाधिकरण्य-वैयधिकरण्य-भेदाद्, वाक्या-
र्थस्य च क्रियात्मनः कारकवैचित्र्येण वैचित्र्याद्, यथायोग्यमन्योन्यसाङक-
र्याद्वहुविध इति तस्य दिङ्मात्रमिदमुपदर्श्यते ।
तत्र धर्ममात्रस्य साधनभावे शाब्दो यथा__
“प्रजानां विनयाधानाद्रक्षणाद् भरणादपि
स पिता पितरस्तासयां केवलं जन्महेतवः ॥’’ इति ।
तस्यैव धर्मस्य समानाधिकरणस्योपादाने सत्यार्थो यथा__
“द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरस्तु सृष्यते ।
न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥’’
इति । अत्र हि द्विषदुदयगतस्यास्वन्तत्वस्य सुमर्षणत्वस्य च तत्परिक्ष-
यगतस्य फलसाम्पत्प्रवणत्वस्य दुर्मर्षणत्वस्य चार्थः साध्यसाधनभावो

निबद्धः ।
धर्मधर्मिभावाभावे तु पादार्थमात्रस्य साधनत्वाच्छाब्द एव यथा__
“दुर्मन्त्रानृपतिर्विनश्यति यतिः सङगात् सुतो लालना-
द्विप्रोऽनध्ययनात् कुलं कुलनयाच्छीलं खलोपासनात् ।
हीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया-
न्मैत्रो चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम्’’ इति ।
एवं वाक्यार्थविषयोऽषि साध्यसाधनभावो द्विविधो बोद्धव्यः । तत्र
शाब्दो यथा__
“सरस्यामेतस्यामुदरबलिवीचीविलुलितं
यथा । लावण्याम्भो जघनपुलिनोल्लङछनरम् ।
यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर-
स्तथा मन्ये मग्नः प्रकटकुचकुम्भस्स्मरगजः ॥’’ इति ।
अनुमेयार्थविषयो यथा__
“सुवर्णपूष्पां पृथिर्वी चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्”
अत्र हि सर्वत्र सुलभा विभूतयः शूरादीनामित्ययमर्थोऽनुमीयत इत्यै-
तद्वितनिष्यते । अनुमितानुमेयार्थविषयो यथा__
’’ पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्चयित्वा वरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥’’
इत्यत्र हि नखरञ्जनान्तरं परिहासपूर्वं सख्या कृताशिषो देव्या यदे-
तदवचनं माल्येन हननं तत् तदनुभावभूतं तस्याः कौतुकौत्सुक्यप्रहर्षलज्जा-
दिव्यभिचारिसम्पदमनुमापयति । सा चानुमीयमाना सती भगवति भवे
भर्तरि रतिमनुमापयति । यथा च__
‘‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्रापि गणयामास पार्वती ॥’’
यथा वा__
“प्रयच्छतोच्चैः कुसुमानि मानिनी
विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं
लिलेख वाष्पाकुललोचना भुवम् ॥’’

यथा च वाक्यार्थविषये साध्यसाधनभावे साध्यसाधनप्रतीत्योः सुलक्षः
क्रमभावः तथा वस्तुमात्रादावनुमेयविषयेऽप्यवगन्तव्यः । केवलं रसादिष्व-
नुमेयेष्वयमसंलक्ष्यक्रमो गम्यगमकभाव इति सहभावभान्तिमात्रकृतस्तत्रा-
न्येषां व्यङगचव्यञ्जकभावभ्युपगमः, ?तन्निबन्धनश्च ध्वनिष्यपदेशः । स तु
तत्रौपचारिक एव प्रयुक्तो न मुख्यः तस्य वक्ष्यमाणनेय बाधितत्वात् ।
उपचारस्य च प्रयोजनं सचेतनचमत्कारकारित्वं नामं । तद्धि मुख्ये चित्रपु-
स्तकादौ व्यक्तिविष्ये परिट्टष्टमेव ।
वाच्यो ह्मर्थो न तथा चमत्कारमातनोति यथा स एव ? विधिनिषेधादिः
काक्वभिधेयतामनुमेयतां वावतीर्ण इति स्वभाव एवायमर्थानाम् । तथा हि__
‘मथ्रामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणी ॥’
इत्यतो
‘लाक्षागृहानलविषान्नसभाप्रवेशैः प्रणेणु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्त्तराष्ट्राः ॥’
इत्यतश्च यथा विधिनिषेधयोश्चारुतावगतिर्न तथा शब्दाभिधेययोरिति ।
यथा च प्रतियेधद्वयानुमितस्य प्रकृतस्यैवार्थस्य विधेश्चारुतावगतिर्न तथा
स्वशब्दवाच्यस्य । द्विचिधश्च प्रतिषेध उक्तः सुप्तिङन्तविषयत्वात् ।
तद्यथा__
‘अथाङगराजादवतार्य चक्षुर्यातेति जन्यामवदत् कुमारी ।
नासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥’
इति । सम्भाव्यनिषेधनिवर्तनं हि प्रतिषेधद्वयस्य विषय इति ।
तथा चाह ध्वनिकारः__‘साररूपो ह्मर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः
सुतरां शोभामावहति । प्रसिद्धिश्चैयमस्त्येव विदग्धपरित्सु यदभिमततरं
चस्तु व्यङगचत्वेन प्रकाश्यते न वाच्यत्वेन’ इति ।
आद्ययोस्तु क्रमस्य सुलक्षत्वाद् भ्रान्तिरपि नास्तीति ? निर्निबन्धन एव
तत्रव्यङगचव्यपदेशग्रहः । अत एव श्रूयमाणानां शब्दानां ध्वनिव्यपदेश्याना-
मन्तः सन्निवेशिनश्च स्फोटोभिमतस्यार्थस्य वंयङगचव्यञ्जकभावो न सम्भव-
तीति व्यञ्जकत्वसाम्याद् यः शब्दार्थात्मनि काव्ये ध्वनिव्यपदेशः सोऽप्यनुव-
पन्नः, तत्रापि कार्यकारणमृलस्य गम्यगमकभावस्योपगमात् ।
ननु विभावादिवाक्यर्थसमकालमेव रत्यादीनां भावानां प्रतीतिरुपजाय-
माबा सर्वैरेवावधार्यते । न तु तत्रान्तरा सम्बन्धम्मरणादिविघ्रव्यवधान-
संवित्तिः काचिद् ।
रत्यादिप्रतीतिरेव रसादिप्रतीतिरिति मुख्यवृत्त्यैव व्यङगचव्यञ्जकभावा-
भ्युपगमः । तत्र प्रदीपघटादिवदुपपन्नो गम्यगमकभावः । यत् स एवाह__
“व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयेति तदा स्वरूपं प्रकायान्नेवासा-
वन्यस्य प्रकाशकः प्रतीयते प्रदीपवद् । यथा__
‘लीलाकमलपत्राणि गणयामास पार्वती ।’
इत्यादौ’’ इति । पुनः स एवाह__‘नहि व्यङगचे प्रतीयमाने वाच्यवुद्धि-
र्दूरीभवति । वाच्याविनाभावेन तस्य प्रकाशनात् । तस्माद् घटप्रदीपन्याय-
स्तयोः।यथैव हि प्रदीपद्वारेण घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्वचङगचप्रतीतौ वाच्यावभास’ इति।
उच्यते । वाच्यप्रतीयमानयोरर्थयोर्यथा क्रमेणैव प्रतीतिर्न समकालं यथा
चानयोर्गम्यगमकभावः तथा तेनैव व्यक्तिवादिना तयोः स्वरूपं निरूपयितु__
कामेनाप्युक्तं, तदेवास्माभिः समाधित्सुभिरिह लिख्यते परम् ।
तद्यथा__‘न हि विभावानुभाव्यभिचारिण एव रसा इति कस्यचिद-
वगमः । अत एव विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति
तत्प्रतीत्योः कार्यकारणभावेनावस्थानात् क्रमोऽवश्यम्भावी । स तु लाघ-
यान्न लक्ष्यत इत्यलक्ष्यक्रमा एव सन्तो व्यङगचा रसादय इजत्युक्तम्’ इति ।
पुनश्च ‘तस्मादभिधानाभिधेप्रतीत्योरिव वाच्यव्यङगचप्रतीत्योर्निमित्त-
निमित्तिभावाद् नियमभवी क्रमः । स तूक्तयुक्तेः क्वचिल्लक्ष्यते क्वचित्तु न
लक्ष्यत’ इति ।
तदेवं वाच्यप्रतीयमानयोर्वक्ष्यमाणक्रमेण लिङगलिङिगभावस्य समर्थनात्
सर्वस्यैव ध्वनेरनुमानान्तर्भावः समन्वितो भवति तस्य च तदपेक्षया महा-
विषयत्वात् । महाविषयत्वं चास्य ध्वनिव्यतिरिक्तेऽपि विषये पर्यायोक्तावौ
गुणीभूतव्यङगचादौ च सर्वत्र सम्भवात् । तच्च वचनव्यापारपूमर्वकत्वात्
परार्थमित्यवगन्तव्यम् । त्रिरूपलिङगाख्यानं परार्थमनुमानमिति केवलमुक्त-
नयानभिज्ञतया तन्न लक्षयत्यविचक्षणो लोकः ।
अथ यदि सर्व एव वाक्यार्थः साध्यसाधनभावगर्भ इत्युच्यते.तद्, यथा
साध्यसाधनयोस्तत्र नियमेनोपादानं तथा ट्टष्टान्तस्यापि स्यात्, तस्यापि
व्याप्तिसाधनप्रमाणविषयतयावश्यापेक्षणीयत्वात् । न । प्रसिद्धसामर्थ्यस्य
साधनस्योपादानादेव तदपेक्षाया प्रतिक्षेपात् । तदुक्तम__
‘तदभावहेतुभावौ हि ट्टष्टान्ते तदवेदिनः ।
ख्याप्येते विदुषां वाच्यो हेतुरेव च केवलः ॥’
ननु कुतोऽयं रत्यादीनां सुखाद्यवस्थाविशेषाणां काव्यादौ सचेतनचम-
त्कारी सुखास्वादसम्भवः, यो रसादीनामनुमेयानां व्यङगचत्वोपचारस्य
प्रयोजनांशतया क्लप्यते । न हि लोके लिडगतः शोकादिष्वनुमीयमानेष्वनुमातुः
सुखास्वादलवोऽपि लक्ष्यते । प्रत्युत साधूनामुदासीनानामपि वा भयशोक-
दौर्मनस्यादिदुःखमसममुपजानमवधार्यते । न च लोकतः काव्यादौ कश्चि-
दतिशयः येनासौ तत्रैवोपगभ्येत, न लोके । त एव हि लौकिका विभावादयो
हेतुकार्यसहकारिरूपा गमकाः । त एव च रत्यादयोऽवस्थाविशेषरूपा भावा
गभ्याः । तत् कोऽतिशयः काव्यादौ, यत् तत्रैव रसास्वादो न लोक इति
प्रयोजशंशासम्भवाद् रत्यादिषु व्यङगचत्?वोपचारोऽनुपपन्न एव ।

उच्यते । यत्र विभावादिमुखेन भावानामवगमस्तत्रैव सहृदयैकसंवेद्यो
रसास्वादोदय इति वस्तुस्वभाव एवायं न यर्पनुयोगपदवीमवतरति प्रामाणि-
कानाम् । यदाह भरतः-‘विभावनुभावव्यभिचारसिंयोगाद्रसनिष्पत्तिः’इति ।
यथोक्ततम्__
‘भावसंयोजनाव्यङगचपरसंवितिगोचरः ।
आस्वादनात्मानुभवो रसः काव्यार्थ उच्यते ॥’

न च लोके विभावादयो भावा वा सम्भवन्ति हेत्वादीनामेव तत्र सम्भ-
वात् । न च विभावादयो हेत्वादयश्चेत्येक एवार्थ इति मन्तव्यम् । अन्ये हेत्?वा-
दयोऽन्या एव विभावादयः। तेषां भिन्नलक्षणत्वात् । तथा हि__ये लोके
रत्यादयो रामादिगताः स्थेमभाजोऽवस्थाविशेषाः केचित् त एव काव्यादौ
कविप्रभृतिभिर्वर्णनाद्यर्थमात्मन्?यनुसंहिताः सन्तो भावयन्ति तांस्तान् रसा-
निति भावा इत्युच्यन्ते । यदाह भरतः__
‘नानाभिनयसम्बन्धादभावयन्ति रसानिमान् ।
यस्मात्, तस्मादमी भावा विज्ञेया नाटचयोक्तृभिः ॥’’
ये च तेषां हेतवः सीताद्याः केचित्, त एव काव्यादिसमर्पिताः सन्तो
विभाव्यन्ते भावा एभिरिति विभावा इत्युच्यन्ते । यदाह भरतः__
‘बहवोऽर्था विभाव्यन्ते वागङगभिनयाश्रयाः ।
अनेन यस्मात् , तेनायं विभाव इति संज्ञितः ॥’
ये च तेषां केचित् कार्यरूपा मुखप्रसादादयोऽर्थास्त एव काव्याद्युपद-
र्श्यमानाः सन्तोऽनुभावयन्ति तांस्तान् भावानित्यनुभावा इत्युच्यन्ते ।
यदाह भरतः__
‘वागङगसत्त्वाभिनयैर्यस्मादर्थोऽनुभाव्यते ।
वागङगोपाङगसंयुक्तः सोऽनुभाव इति स्मृतः ॥’
ये च तेषामन्तरान्तरानवस्थायिनोऽवस्थाविशेषास्तदवान्तरहेतुजनिता
उत्कलिकाकराः केचिदुत्पद्यन्ते, ते एव निजनिजविभावानुभाववर्गमुखेनो-
पदर्श्यमानाः सन्तो विशेषेणाभिमुख्येन चरन्ति तेषु तेषु भावेष्विति व्यभि-
चारिण इत्युच्यन्ते । यदाह भरतः__‘विविधमाभिमुख्येन रसेषु चरन्तीति
व्यभिचारिणः’ इति ।
ये चैते स्थायिव्यभिचारिसात्त्विकमेदादेकोनपञ्चादभावा उक्तास्ते सर्वे
व्यथभिचारिण एव । केवलमेषां प्रतिनि??यतरूपापेक्षो व्यपदेशेभेदः । तथा हि
स्थायित्वं स्चायिष्धेव प्रतिमिपतं, न व्यभिचारिसात्विकेषु । व्यभिचारित्वं
व्यभिचारिष्वेव, नेतरयोः । सात्त्विकत्वमपि सात्त्विकेष्वेव, नेतरयोरिति ।
तत्र स्थायिभावानामुभयी गतिः । न व्यभिषारिसात्त्विकानाम् । ते हि नित्यं
व्यभिचारिण एव न जातुचित् स्थायिनः प्रकल्पन्ते ।
व्यभिचारिष्वेव, नेतरयोः । सात्त्विकत्वमपि सात्त्विकेष्वेव, नेतरयोरिति ।

यत्तु भावाध्याये स्थायिनां लक्षणमुक्तं तद्वचभिचारिदशापन्नानामेव तेषा-
मवगन्तव्यं नान्येषां, लक्षणवचनस्य वैयर्थ्यप्रसङगात् । स्थाय्यनुकरणात्मानो
हि रसा इष्यन्ते, ते च प्रधानमिति तल्लक्षणमुखेनैव तेषां स्वरूपावगमसिद्धेः,
तेषां बिम्बप्रतिबिम्बन्यायेनावस्?थानात्, स्थायिभावेषु च निर्वेदादिष्विव
व्यभिचारिणामनुपादानात् । तदुपादने हि तेषां स्थायित्वमेव स्यान्न व्यभि-
चापित्वं निर्वेदादिवत् । तस्माद्योग्यतामात्रप्रवर्तितोऽयं वर्गत्रयविभागोपदर्श-
नाय व्यभिचारिष्वपि स्थायिव्यपदेशः, तन्मात्रविप्रलम्भकृतोऽन्योषां स्थायि-
भावलक्षणभ्रम इत्यलप्रस्तुतवस्तुविस्तरेण ।

तदेवं विभावादीनां हेत्वादीनां च कृत्रिमाकृत्रिमतया काव्यलोकविष-
यतया च स्वरूपमेदे विष्यभेदे चावस्थिते सत्येकत्वासिद्धेर्यदा विभावा-
दिभ?र्भावेषु रत्यादिष्वसत्येष्वेव प्रतीतिरुपजन्यते तदा तेषां तन्मात्रसार-
त्वात् प्रतीयमाना इति गम्या इति च व्यपदेशा मुख्यवृत्त्योपपद्यन्त एव ।
तत्प्रतीतिपरामर्श एव च रंसास्वादः स्वाभाविक इत्युक्तम् ।
आस्तां वा रत्यादिर्नित्यपरोक्षः । प्रत्यक्षोऽपि ह्मर्थः साक्षात् संवेद्यमानः
सचेतसां न तथा चमत्कारमातनोति यथा स एव सत्कविना वचनगोचरतां
गमितः । यदुक्तम्__
‘कविशक्यर्पिता भावास्तन्मयीभावयुक्तितः ॥
यथा स्फुरन्त्यमी काव्यान्न तथाध्यक्षतः किल॥’ इति ।
सोऽपि च तेषां न तथा स्वदते, यथा तैरेवानुमेयतां नीत इति स्वभाव
एवायं न पर्यनुयोगमर्हति । तदुक्तम्__
‘नानुमितो हेत्वाद्यैः स्वदतेऽनुमितो यथा विभावाद्यैः ।
न च सुखयति वाच्योऽर्थः प्रतीयमानः स एव यथा ॥’
इति । ध्वनिकृताप्युक्तम्__‘साररूपो ह्मर्थः स्वशब्दानभिधेयत्वेन प्रका-
शितः सुतरां शोभामावहति’ इति । प्रतीतिमात्रपरमार्थं च काव्यादि तावतैव
विनेयेषु विधिनिषेध्वयुत्पत्तिसिद्धेः । तदुक्तम्__
‘भ्रान्तिरपि सम्बन्धतः प्रमा’ इति ।
‘मणिप्रदीपप्रभयोर्मणिवुद्धचाभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥’ इति च ।
तेनात्र गम्यगमकयोः सचेतसां सत्यासत्यत्वविचारो निरुपयोग एव ।
काव्यविषये च वाच्यव्यङगचप्रतीतीनां सत्यासत्यत्वविचारो निरुपयोग
एवेति तत्र प्रमाणान्तरपरीक्षोपहासायैव सम्पद्यत इति ।
तत्र हेत्वादिभिरकृत्रिमैकृत्रिमा एव प्रत्याय्यन्ते । तत्रैषामनुमेयत्वेमेव
न व्यङगचत्वगन्धोऽपीति, कुतस्तत्र सुखास्वादलधोऽपि सम्भवति । एष एव
लोकतः काव्यादावतिशय इत्युपपद्यत एव रत्यादौ गम्ये सुखास्वादप्रयोजनो
व्यङगचत्वोपचार इति ।
मुखयवृत्त्या द्विविध एवार्थो वाच्यो गम्यश्चे?ति । उपचारतस्तु व्यङगच-
स्तृतीयोऽपि समस्तीति सिद्धम् ।
वाचो गुणीकृतार्थत्वं न सम्भवति जातुचित् ।
तदर्थं तदुपादनादुदकार्थं ट्टतेरिव ॥ इति सङग्रहश्लोकः ।
नापि वाच्यप्रतीयमानयोर्मुख्यवृत्त्या व्यडगचव्यञ्चकभावः सम्भवति
व्यक्तिलक्षणानुपपत्तेः । तथा हि सतोऽसत एव वार्थस्य प्रकाशमानस्य
सम्बन्धस्भरणानवेक्षिणा प्रकाशकेन सहैव प्रकाशविषयतापत्तिरभिव्यक्ति-
रिति ल्लक्षणभाचक्षते । तत्र सतोऽभिव्यक्तिस्त्रिविधा, तस्य त्रैविध्यात् ।
तत्र कारणात्मनि कार्यस्य शक्यात्मनावस्थानात् तिरोभूतस्येन्द्रियगो-
चरत्वापत्तिलक्षण आविर्भाव पका, यथा क्षीराद्यवस्थायां दध्यादेः । तथाव-
स्थानानुपगमे तु सैवोत्पत्तिरित्युच्यते कैश्चित् । तस्यौवाविर्भुतस्य कुतश्चित्
प्रतिबन्धादप्रकाशमानस्य प्रकाशकेनोपसर्जनीकृतात्मना सहैव प्रकाशो
द्वितीया, यथा प्रदिपादिना घटादेः । तदुक्तम्__
‘स्वशानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः ।
यथा दीयोऽन्यथाभावे को विशेषोऽस्य कारकात् ॥’
इति । ध्वनिकारेणाप्युक्तं__‘स्वरूपं प्रकाशयन्नेव परार्थावभासनो व्यञ्जक
इत्युच्यते यथा प्रदिपो घटादेः इति ।
तस्यैवानुभूतपूर्वस्य संस्कारात्मनान्तर्विपरिर्तिनः कुतश्चिदव्यभिचारि-
णोऽर्थान्तरात् तत्प्रतिपादकाद्वा संस्कारप्रबोधमात्रं तृतीया, यथा धूमादग्रेः, यथा
चात्नेख्यपुस्तकप्रतिबिम्बानुकरणादिभ्यः, शब्दाच्च गवादेः । असतस्त्वेकप्रका-
रेव, तस्य प्रकारान्तरासम्भावाद्, यथार्कालोकादिनेन्द्रचापादेः । इति ।
न चैतल्लक्षणं वाच्ये सङगच्छते । तथा हि__सतोऽभिव्यक्तिरा[क्तेर्यदा]द्य-
योरर्थयोर्लक्षणं न त्प्रतीयमालनेष्वेकमपि संस्प्रष्दुं क्षमते तस्य दध्यादेरि-
वेन्द्रियविषयभावापत्तिप्रसाङगाद् घटादेरिव वाच्यार्थसहभावेनेन्ताप्रतीतेर-
सम्भवात् । न च स्वरूपासंस्पर्शि लक्षणं भवति ।
तृतीयस्यास्तु यल्लक्षणं तदनुमानस्यैव सङगच्छते, न व्यक्तेः । यदुक्तं__
?‘त्रिरूपाल्लिङगाद्यदनुमेये ज्ञानं तदनुमान’मिति । तच्चानुमानमेव । नह्मर्थादर्थान्त-
रप्रतीतिरनुमानमन्तरेणार्थान्तरमुपपद्यते । उपमानादीनां च तत्रैवान्तर्भावात् ।
यदाहुः_‘न चान्यदर्शनेऽन्यकल्पना युक्तातिप्रसङगात् । तस्य नान्तरीय-
कतायां स्यात् । हि यथाविधसिद्वः तथाविधसन्निधानं सूचयति । सामा-
न्येन च सम्बन्धिनार्थप्रतिपत्तिरनुमानमिति द्वे एव प्रमाणे’ इति ।
न च वाच्यादर्थादर्थान्तरप्रतीतिरविनाभावसम्बन्धस्मरणमन्तरेणैव
सम्भवति, सर्वस्यापि तत्प्रतीतिप्रसङगात् । नापि सहभावेन, धूमाग्रिप्रतीत्यो-
?रिव तत्प्रतीत्योरपि क्रमभावस्यैव संवेदनाद् हत्यसम्भावो लक्षणदोषः ।
अथ रसाद्यपेक्षया तयोः सहभावेन प्रकाशोऽभिमत इत्युच्यते, अव्याप्ति-
स्तर्हि लक्षणदोषः । वस्तुमात्रालङगारप्रकाशस्य प्रकाशकासहभावेनाब्याप्तेः ।
न च रसादिष्वपि विभावादिप्रकाशनसहभावेन प्रकाशनमुपपद्यते ।
यतस्तैरेव कारणादिभिः कृत्रिमैर्विभावाद्यभिधानैरसन्त एव रत्यादयः प्रति-
बिम्बकल्पाः स्थायिभावव्यपदेशभाजः कविभिः प्रतिपत्तृप्रतीतिपथमुपनीय-
माना हदयसंवादादास्वाद्यत्वमुपयन्तः सन्तो रसा इत्युच्यन्ते । न च कार-
णादिभिः कार्यादयः प्रतिबिम्बकल्पाः सहैव प्रकाशितुमुत्सहन्ते कार्यकारण-
भावावसायस्यैवावसादप्रसङगात् । यत्र तु तल्लक्षणं मुख्यतया सम्बभवबति तत्
काव्यमेव न भवतीति कुत एव तद्विशेषध्वनिरूपता स्यात् ।
द्विविधो हि प्रकशकोऽर्थ उपाधिरूपः स्वतन्त्रश्चेति । तत्र ज्ञानशब्दप्रदी-
पादिरुयाधिरूपः । तदुक्तं-‘त्रयः प्रकाशाः स्वपरप्रकाशा’ इति । अन्यः स्वतन्त्रो
धूमादिः । तत्राद्यस्तावद् भवदिभर्नाभ्युपगन्तव्य एव प्रत्?यक्षाभिधेययोरेवार्थयोः
काव्यतापत्तिप्रसङगात् । अन्यस्य तु लिङगत्वमेवोपपद्यते न व्यञ्जकत्वं व्यक्ते-
रनुपपत्तेः ।
न च त्रिविधस्यापि व्यङगचाभिमतस्यार्थस्य प्रकाशकसहभावेन प्रकाश-
स्तस्यापि ध्वनिकारस्याभिमतः। यदयमाह__‘न हि विभावानुभावव्यभिचा-
रिण एव रसा इति कस्याचिदवगमः । तत एव तत्प्रतीत्यविनाभाविनी
रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेनावस्थानात् क्रमोऽव-
श्यम्भावी । स तु लाघवान्न प्रकाशत इत्यलक्ष्यक्रमा एव सन्तो व्यङगया रसादय’ इति ।
अथैतद्दोषभयात् सहभावानपेक्षमेतल्लक्षणमुच्यते । तथाप्यनुमाने-
ऽतिव्याप्तिः । तत्राप्युपसर्जनीकृतात्मना धूमादिना प्रकाश्यस्य प्रकाशोऽ-
सत्येव । अथासद्ग्रहणेन सा निरस्तेत्युच्यते तर्हि घटप्रदीपयोस्तस्याव्याप्तिः
घटस्य सत्त्वात् ।
अथासद्ग्रहणं न करिष्यत इति तर्हि अर्कालोकेन्द्रचापादावव्याप्तिः ।
इन्द्रचापदेरसत्त्वात् ।
अथोभयोरपि ग्रहणं न करिष्यत इति तर्ह्मानुमानस्यैव तल्लक्षणं पर्य-
वस्यति, न व्यक्तेः । तच्चेष्टमेव नः, वाव्यप्रतीयमानयोः सतोरेव च क्रमेणैव
प्रकाशोपगमात् ।
तस्मात् तदवस्थ एवासम्भवो लक्षणदोषः । किञ्च सदसदभावेन प्रका-
श्यस्य विशेषणमनुपपन्नं व्यावर्त्याभावाद् इति ।
किञ्च यत्र वाच्यस्यसार्थस्य व्यञ्चकत्वं?0,?0 स चेद् ध्वनिस्तर्हि तदनुमितस्य
व्यञ्चकत्वे ध्वनित्वं न स्यात् तस्य वाच्यत्वाभावात् । ततश्च ‘एवं वादिनि
देवर्षौ’ इत्यादौ ध्वन्त्विमिष्टं न स्याद् इत्यव्याप्तिर्लक्षणदोषः । अथार्थशब्देनो-
‘अर्थः सहृदयश्लाध्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्या भेदावुभौ स्मृतौ ॥’
इति । सत्यम् । किन्तु तमर्थमिति तच्छब्देनानन्तर्यात् प्रतीयमानस्या-
र्थस्य परामर्शे सति पारिशेष्याद् ‘अर्थो वाच्यविशेष’ इति स्वयं विवृत-
त्वाच्च अर्थशब्दो वाच्यविषय एव विज्ञायते नोभयार्थविषय इति तद-
वस्यो दोषः__
अस्तु वोभयार्थविषयः । तथाप्यतिव्याप्तिर्लक्षणदोषः?0,?0 यत्र वाच्यार्था-
द्वस्तुमात्रेणैकेन द्वित्रैर्वान्तरिता वस्तुमात्रस्यैव साध्यस्य प्रतीतिस्तत्रापि
ध्वनित्वापत्तेः, तल्लक्षणनुगमाविशेषत् ।
न च तत् तत्रेष्यते, चारुतातिवृत्तेः । व्यभिचारिभावालङकारान्तरिताया
एव तस्या ध्वनिविषयभावाभ्युपगमात् ?0,?0 अन्यत्र तु तद्विपर्ययात् । चारुत्वा-
चारुत्वनिश्चये च काव्यतत्त्वविदः प्रमाणम् ।
तत्रैकेन वस्तुमात्रेणान्तरिता सा यथा__
?0 ‘?0सिहिपिञ्छकण्णऊरा बहुआ वाहस्य गव्विरी भमह ।
मुत्ताहलरइअपसाहणाण मज्ज्ञे सवत्तीणम् ॥?0’?0
अत्र हि वक्ष्यमाणप्रकारेण व्याधवध्वाः सपत्नीभ्यः सौभाग्यातिरेकोऽनु-
मेयः । स चाविरतसम्भोगसुखासङगनिस्सहतया पत्युर्मयूरमात्रमारणक्षमत-
यानुमीयमानयान्तरतः ।
द्वाभ्यामन्तरिता यथा__
‘वाणिअअ हत्थिदन्ता कत्तो अह्माण चग्घकित्ती अ ।
जावलुलिआमुही घरम्मि परिसक्वए सोह्णा ॥’
अत्र हि वक्ष्माणप्रकारेण वृद्धव्याधेन वाणिजकं प्रति हस्तिदन्ताद्यभाव-
प्रतिपादनाय व्यापकविरुद्धकार्योपलब्धिः प्रयुक्ता । यथा नात्र तुषारस्पर्शो
धूमादिति ।

हस्तिदन्तव्याघ्राजिनादिसदभावो ह्मस्मद्गृहे समर्थस्य सतः सुतस्य
तद्वचपापादनव्यापारपरतया व्याप्तः । तद्विरुद्धं च स्त्रुषासौभाग्यातिरेकप्रयुक्त-
मविरतसम्भोगसुखासङगनितमस्य निस्सहत्वम् । तत्कार्यं च स्तुषाया विलु-
लितालकमुखीत्वमिति ।
त्रिभिरन्तरिता यथा__
‘विवरीअसुरअसमए बह्मं दड्ठूण णाहिकमलम्मि ।
हरिणो दाहिणणअणं चुम्बइ हिलिआउला लच्छी ॥’
अत्र हि लक्ष्मीलजानिवृत्तिस्साध्या । तत्र च भगवतो हरेर्दक्षिणस्याक्ष्णः
सूर्यात्मनो लक्ष्मीपरिचुम्बनं हेतुः । तद्धि तस्य तिरोधानलक्ष्णमस्तमयमनु-
मापयति । सोऽपि च साहचर्यान्नालिनस्य सङकोचम् । सोऽपि व्रह्मणो
दर्शनव्यवधानमिति त्रयाऽन्तरितानुमेयार्थप्रति?पत्तिः । तदियमुपायपरम्परो-
पारो?हनिस्सहा न रसास्वादन्तिकमुपगन्तुमलमिति प्रहेलिकाप्रायमेतत्
काव्यमित्यतिव्याप्तिः ।
व्यभिचारिभावव्यवहिता यथा__
‘पत्युः शिरश्चन्द्रकलामनेन स्पूशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥’
अत्र ह्मुक्तप्रकारेणानुमितकौत्सुक्यप्रहर्षलज्जादिव्यभिचारिभावान्त-
रिता गौर्यामाभिलाषिकश्रृङगारावगतिः ।
अलङकारव्यहिता यथा__
‘लावण्यकान्तिपरिपूरितदिडुव्रखेऽस्मिन्
स्मेरेऽधुना तव मुखे तरलायताक्षि ! ।
क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जडराशिरयं पयोधिः ॥’
अत्रापि कस्याश्चिदुक्तक्रमेण वदनपूर्णोनुबिम्बयो रूप्यरूपकभावोऽनु-
मितः । तदन्तरिता चानुकार्यावगतिः । सैव ध्वनेर्विषयभावेनोपगन्तव्या,
नान्या ।
नया व्यवधानाविशेषाद्वचभिचार्यलङकारव्यधानपक्षेऽप्येतत् समानमिति
मन्तव्यं, वस्तुमात्रस्य व्यभिचार्यालङकारादीनां च भिन्नजातीयत्वात् । वस्तु-
मात्रं ह्मनुमेयादत्यन्तविलक्षणस्वभावमग्न्यादेरिव धूमादि । व्यभिचर्चादयस्तु
विलक्षणा एवेति तद्वचवधानमन्यदेव वस्तुव्यवधानादित्यसिद्धस्तद्विशेषः ।
अलङकारोऽप्यलङकार्यान्न पृथगवस्थातुमर्हति तयोराश्रयाश्रयिभावेनावस्थानाद्
इति तद्वचवधानस्याप्यविशेषोऽसिद्ध एवेति तदवस्थैवातिव्?तिव्याप्तिः ॥
यद्यर्थ इति वाच्योऽर्थोऽभिमतोऽव्याप्तिरेव सा ।
येनैवंवादिनीत्यादावर्थस्यार्थान्तराद्रतिः ॥ 21 ॥
अथोभौ तर्ह्मतिव्याप्तिद्विंत्रवस्तुव्यवायिनि । इति सङग्रहश्लोकौ ।
केवलमत्रैवार्थस्योभयात्मनः सामान्येन यः काव्यात्मत्वेन व्यपदेशः
सोऽनुपपन्नः । स हि प्रतीयमानार्थैकविषयो युक्तः, तस्यैव काव्यजीवित-
भूतस्य प्रधानतया ध्वनित्वेनेष्टत्यात् । यत् स एवाह ‘काव्यस्यात्मा
ध्वनिरि’ति । ‘काव्यरूपात्मा स एवार्थ’ इति । ‘प्रतयमाना त्वन्यैव भूषा
लज्जेव योषित’ इति च । तेन ‘यः काव्यस्य व्यवस्यित’ इति तत्रो- पाठ- !
किञ्चात्र वाशब्दो विकल्पार्थो वा स्यात् समुच्चयार्थो वा । न तावद्धि-
कल्यार्थः पक्षान्तरासम्भवस्य व्युत्पादित्वात् । सम्भवे वास्य द्विवचनानुप-
पत्तिः, तयोस्समुच्चायाभावाद् । यथा ‘शिरः श्वा काको वा द्रुपदतनयो वा
परिमृशेत्’ इत्यत्र बहुवचनस्य । समुच्चायर्थत्वे यत्र शब्दार्थयोरेकैकस्य
व्यञ्जकत्यं तत्र ध्वनित्वमिष्टं न स्यात् ।
शब्दस्य च विशेषणमनुपादेयमेव स्याद् अर्थस्य विशिष्टत्वेनैव तद-
वगतिसिद्धेः । अत एव च लक्षणवाक्ये दीपकाद्यलङकारमुखेनोपमाद्यभि-
व्यक्तौ ध्वनित्वमिच्छता गुणोकृतात्मनोऽभिधाया उपादानं न कृतम् । अन्यथा
तदपि कर्त्तव्यं स्यात् । तदाश्रितत्वादर्थस्यार्थाश्रितत्वाच्चालङकाराणामिति
पक्षद्वयमप्युपपन्नम् ।
अत्र केचिद्विद्वन्मानिनो द्विवचनसमर्थनामनोरथाक्षिप्तचित्ततया वाच्य-
वाचकयोर्विस्मृतसुप्रसिद्धप्रतीतिक्रमभावास्तयोरेककालिकातां शब्दस्योक्त-
नयनिरस्तापि व्यञ्जकतां पश्यन्तस्तन्निबन्धनां ध्वनिभेदयोरविवक्षितविव-
क्षितान्यपरावाच्ययोर्ध्वननव्यापारं प्रति पर्यायेणान्योन्यसहकारितां, तदपेक्षां
चानयोः प्रधानेतरतामुपकल्प्य सहकारितया व्यक्तिक्रियां प्रत्युभयोरपि
कर्तृत्वात् तदपेक्षो व्यङक इति द्विवचननिर्देशः, प्रधान्यापेक्षश्च ‘यत्रार्थः शब्दो
वेति’ विकल्प इति मन्यमानाः ‘व्यङक्त इति द्विवचनेनेदमाह__
यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्य सहकारिता न
त्रुटयति । अन्यथाऽशातार्थोऽपि शब्दस्तद्वचञ्जतकः स्यात् । विवक्षितान्यपर-
वाच्ये च शाब्दस्यापि सहकारित्वं भवत्येव । विशिष्टशब्दाभिधेयतया विना
तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोर्ध्वननव्यापारः । एवञ्च भट्टना-
यकेन द्विवचनं यद् दूषितं तद् गजनिमीलिकयैव । अर्थः शब्दो वेति तु
विकल्पाभिवानं प्राधान्याभिप्रायेण’ इति यदाहुस्तद् भ्रान्तिमात्रमूलं न तत्त्व- मित्यलमवस्तुनिर्बन्धेन
किञ्च तमिति तदः पुंस्त्वेन निर्देशोनुपपन्नः । तस्यानन्तरप्रक्रान्तार्थपरा-
मर्शिनस्तल्लिङगतापत्तेः । न चात्र तल्लिङगताविशिष्टः कश्चिदर्थः प्रकान्तः, वस्तुतो
नपुंसकलिङगस्यानन्तरं प्रकान्तत्वात् । तेन तत्रैव__
‘प्रतीयमानः पुनरन्य एव सोऽर्थोऽस्ति वाणीषु महाकवीनाम् ।
योऽसौ प्रसिद्धावावयवातिरिक्तश्चकास्ति लावण्यमिवाङगनासु ॥?0’?0इति?0,
‘सरस्वती स्वादुतमं तमर्थमि’ति च पाठविपर्यासः कर्तव्यः । न
त्वत्रैव ‘वस्तु तदिं’ति । तत्रैव हि पाठविपर्यासे पर्यायप्रकमभेदः पुंस्त्वनिर्दे-
शश्च परिहृतौ भवतः । अत्र त्वेक एव तदः पुंस्त्वनिर्देशदोषः । एषैव च
प्रमेयशय्या श्रेयसी ।
अपि च काव्यविशेष इत्यत्र काव्यस्य विशिष्टत्वमनुपपन्नम् ?0, ?0 काव्यमा-
त्रस्य ध्वनिव्यपदेशाविषयत्वेनेष्टत्वात् तस्य रसात्मकत्वोपगमात् । यत् स
एवाह__
‘काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥?0,
न च तस्य विशेषः सम्भवति ? निरतिशयसुखास्वादलक्षणत्वात् तस्य ।
यदाहुः__
‘पाठचादथ ध्रुवागानात् ततः सम्पूरिते रसे ।
तदास्वादभरैकाग्रो हृष्यत्यन्तर्मुखः क्षणम् ॥
ततो निर्विषयस्यास्य स्वरूपावस्थितौ निजः ।
व्यज्यते ह्लादनिष्यन्दो येन तृप्यन्ति योगिनः ॥?0’
इति । तदभावे चास्य काव्यतैव न स्यात् किमुत विशेष इति अनार-
म्भणीयमेवैतत् प्रेक्षावतां स्याद् वैफल्यात् ।
कविव्यापारो हि विभावादिसंयोजनात्मा रसाभिव्यक्त्यव्यभिचारी
काव्यमुच्यते । तच्चाभिनेयानभिनेयार्थत्वेन द्विविधम् ।
सामान्येनोभयमपि च तद् शास्त्स्रवद् विधिनिषेधविषयव्युत्पत्तिफलम् ।
केवलं व्युत्पाद्यजनजाडचाजाडचतारतम्यापेक्षया काव्यनाटचशास्त्ररूपोऽयमु-
यायमात्रभेदो न फलभेदः ।
तत्राद्यं प्रख्यातरामरावणादिनायकप्रतिनायकसमाश्रयेण प्रसिद्धविधि-
निषेधास्पदचरितवर्णनमात्रात्मकम् ।
अपरं पुनरनुकारक्रमेण साखात् तत्प्रदर्शनात्मकम् । यदाहुः__
‘अनुभावविभावानां वर्णना काव्यमुच्यते ।
तेषामेव प्रयोगस्तु नाटचं गीतादिरञ्जितम् ॥’
एवञ्च ये सुक्रुमारमतयः शस्त्रश्रवणादिविमुखाः सुखिनो राजपुत्र-
प्रभृतयः पूर्वत्राधिकृताः, ये चात्यन्ततोऽपि जडमतयस्तावता व्युत्पादयि-
तुमशक्यः स्त्रीनृत्यातोद्यादिप्रसक्ता उभयेऽपि तेऽभिमतवस्तुपुरस्कारेण
गुडजिह्विकया रसास्वादसुखं मुखे दत्त्‌वा तत्र कटुकौषधपानादविव प्रवर्त-
यितव्याः । अन्यथा प्रवृत्तिरेवैषां न स्यात् , किमुत व्युपत्तिः । काव्या-
रम्भस्य साफल्यमिच्छता तत्प्रवृत्तिनिबन्धनभावेनास्?य रसात्मकत्वमवश्य-
मुपगन्तव्यम् । तन्मात्रप्रयुक्तश्च ध्वनिव्यपदेशः ।
न च रसानां वैशिष्टचे तदात्मनः काव्यस्य विशिष्टत्वमिति युक्तं वक्तुम्
अव्याप्तेः । एवं हि प्रतिनियतरसात्मनः एव तस्य ध्वनित्वं स्यात् , नान्यस्या-
न्यरसात्मनः, वैशिष्टचाभावात् । इष्यते च तत्रा?पीत्यव्याप्तिर्लक्षणदोषः ।
अत एव च न गुणालङकारसंस्कृतशब्दार्थमात्रशरीरं तावत् काव्यम् ,
तस्य यथोक्तव्यङगार्थोपनिबन्धे सति विशिष्टत्वमिति शक्यं वक्तुम् ।
तस्य रसात्मताभावे मुख्यवृत्त्या काव्यव्यपदेश एव न स्यात्, किमुत
विशिष्टत्वम् ।
न च रसात्मनः काव्यस्य वस्तुमात्रादिभिर्दिशेषः शक्यम् आधार्तु, तेषां
विभावादिरूपतया रसाभिव्यक्तिहेतुत्वोपगमात् न च व्यञ्जकानां वैचित्र्ये
व्यडगचस्य विशेषोऽभ्युपगर्न्तु युक्तः शबलेयादीनामिव गोत्वस्य ।
ततोऽस्य विशिष्टतोपगमे वा यत्र तयोरुभायोरेकैकस्य वा व्यडगचता
तत्रैव ध्वनिव्यपदेशः स्यान्न केवलरसात्मनि काव्ये, वैशिष्टचाभावात् ।
इष्यते चासौ तत्रापि । प्रहेलिकादौ च नीरसे स्यात् । तत्राप्युक्तक्रमेण
वस्तुमात्रादेरभिव्यडगचत्वेनेष्टत्वाद् इत्यन्वयव्यतिरेकाभ्यां काव्यत्वमात्र-
प्रयुक्तोऽसावित्यनुमीयते ।

अतश्च समासोक्त्याप्यसावुपगन्तव्य एव, न प्रतिषेध्यः । प्रती-
यमानस्य चार्थस्य द्वैविध्यमेव । तृतीयस्य रसादेः प्रकारस्योक्तनयेन काव्य-
त्वादेव सिद्धत्वादिति । न च तस्य तदङगभावो भणितुं युज्यते अङिगत्वेनेष्टत्वाद्
इति काव्यत्वमेव ध्वनिव्यपदेशविषयोऽभ्युपगन्तुं युक्तो न तद्विशेषः ।
किञ्च मुख्ये रसात्मनि काव्ये सम्भवति न तस्य गौणस्याश्रयणं युक्तं
गौणमुख्ययोर्मुख्ये सम्प्रत्यय इति नियमात् ।
यस्तु मेघदूतादौ काव्यविशेषव्यपदेशः सोऽभिधेयार्थविशेषसमारोपकृतो
न मुख्यः ।
इत्थञ्च काव्यस्य विशिष्टतानुपपत्तावितरल्लक्षणविधायिमतातिरिक्तं न
कि?ञ्चिदनेनाभिहितं स्याद्, अन्यत्र ध्वनिव्यपदेशमात्रात् । न च तेनापि
कि?ञ्चित् । कथञ्चिद्वा तदुपपत्तौ तदवाच्यमेव तस्य तत्पर्यवसायिनो लक्षण-
विशेषसम्बन्धादेव तदवगतेः । यथा योऽश्वमारूढः स पुरुषो राजेत्यत्र ।
अथ पुरुषस्याश्विशिष्टस्यैव सतस्तल्लक्षणसम्बन्धो न तु तत एवास्य-
वैशिष्टचमिति, तथाप्यवाच्यंः काव्यत्वादेव तस्याप्यवगतत्वात् । तच्चोक्त-
मित्यवाच्यवचनं दोषः ।
किञ्च ‘सूरिभिः कथित’ इति कथनक्रियाक्रर्तृनिर्देशः पक्षद्वयेऽप्यावाच्य
एव । कर्तृमात्रत्रविवक्षायां क्रियायाः कर्त्रव्यभिचारात् कर्तृविशेषविवक्षाया-
मनन्तरोक्तक्रमेण व्यापारविशेषसम्बन्धादेव तदिशेषावगतिसिद्धेरित्यवाच्य-
वचनं दोषः ।
अर्थस्य विशिष्टत्वं, शब्दः सविशेषणस्तदः पुंस्त्वम् ,।
द्विवचनावाशब्दौ च, व्?यक्तिर्ध्वनिनाम, काव्यवैशिष्टचम् , ॥ 23 ॥
वचनञ्च कथनकर्तुः, कथिता ध्वनिलक्ष्मणीति दश दोषाः ।
ये त्वन्ये तदेभदप्रभेदलक्षणगता न ते गणिताः ॥ 24 ॥
तदेवं लक्षणदोषदुष्टपदव्युदासेन परिशुद्धो ध्वनिलक्षणवाक्यस्यायमर्थो-
ऽवतिष्ठते__
वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति ।
सम्बन्धतः कुतश्चित् सा काव्यानुमितिरित्युक्ता ॥ 25 ॥ इति ।
एतच्चानुमानस्यैव लक्षणं नान्यस्य । यदुक्तं ‘त्रिरूपलिङगाख्यानं परार्था-
नुमानमि’ति । केवलं संज्ञाभेदः ।
काव्यस्यात्मनि संज्ञिनि रसादिरूपे न कस्यचिद्विमतिः ।
संज्ञायां सा,
यतः__
केवलमेषापि व्यक्त्योगतोऽस्य कुतः ॥ 26 ॥
शब्दस्यैकाभिधा शक्तिरर्थस्यैकैव लिङगता ।
न व्यञ्जकत्वमनयोः समस्तीस्त्युपपादितम् ॥ 27 ॥
जक्तं वृथैव शब्दस्योपादानं लक्षणे ध्वनेः ।
न हि तच्छक्तिमूलेष्टा काचिदर्थान्तरे गतिः ॥ 28 ॥
न चोपसर्जनत्वेन तयोर्युक्तं विशेषणम् ।
यतः काव्ये गुणीभूतव्यङगचोऽपीष्टैव चारुता ॥ 29 ॥

अत एव विशेष्स्योपादानमपि नार्थवत् ।
संज्ञासम्बन्धमात्रैकफलं तदिति गम्यते ॥ 30 ॥
तदा चातिप्रसङगः स्यात् संज्ञायां यस्य कस्यचित् ।
यद्वाक्यवत्तिंनोऽन्यस्य विशेषस्य तदाप्तिः ॥ 31 ॥
तस्मात् स्फुटतया यत्र प्राधान्येनान्यथापि वा ।
वाच्यशक्यानुमेयोऽर्थो भाति तत् काव्यमुच्यते ॥ 32 ॥
वाच्यप्रत्येययोर्नास्ति व्यङगचव्यञ्जकतार्थयोः ।
तयोः प्रदीपघटवत् साहित्येनाप्रकाशनात् ॥ 33 ॥
पक्षधर्मत्वसम्बन्धव्याप्तिसिद्धिव्यपेक्षणात् ।
वृक्ष्त्वाम्रात्वयोर्यद्वद् यद्वचानलधूमयोः ॥ 34 ॥
अनुमानत्वमेवात्र युक्तं तल्लक्षणान्वयात् ।
असतश्चैन्द्रचापादेः का व्यक्तिः कृतिरेव सा ॥ 35 ॥
कार्यत्वं ह्मसतोऽपीष्टं हेतुत्वं तु विरुध्यते ।
सर्वसामर्थ्यविगमाद् गगनेन्दीवरादिवत् ॥ 36 ॥
शब्दप्रयोगः प्रायेण परार्थमुपयजुज्यते ।
नहि तेन विना शक्तयो व्यवहारयितुं परः ॥ 37 ॥
न च युक्तिनिराशंसात् ततः कश्चित् प्रवर्तते ।
निवर्तते वेत्यस्येष्टा साध्यसाधनगर्भता ॥ 38 ॥
ते प्रत्येकं ? द्विधा ज्ञेये शब्दत्वार्थत्वभेदतः ।
पदार्थवाक्यार्थतया ते अपि द्विविधे मते ॥ 39 ॥
तत्र साध्यो वस्तुमात्रमलङकारा रसादयः ।
इति त्रिधैव, तात्राद्यौ पदं शब्दानुमानयोः ॥ 40 ॥
अन्तोऽनुमेयो भक्त्या तु तस्य व्यङगचत्वमुच्यते ।
भक्तेः प्रयोजनांशो यश्चमत्कारित्वलखणः ॥ 41 ॥
स तत्रास्तीति, सोऽप्यस्य विभावाद्येकहेतुकः ।
अत एव न लोकेऽपि चमत्कारः प्रसज्यते ॥ 42 ॥
तत्र हेत्?वादयः सन्ति न? विभावादयो यतः ।
न चैकार्थत्वमाशङकचमेषां लक्षणभेदतः ॥ 43 ॥
स्वभावश्रायमर्थानां यन्न साक्षादमी तथा ।
स्वदन्ते सत्कविगिरां गता गोचरतां यथा ॥ 44 ॥
इति सङग्रहश्लोकाः ।
यत् पुनरस्यानेकशक्तिसमाश्रयत्वाद् व्यापारान्तरपरिकल्पनं तदर्थस्यैवोष-
पह्मते न शब्दस्य, तस्यानेकशक्तिसमाश्रयत्वासिद्धेः । तथा हि__एकाश्रयाः
शक्तयोऽन्योन्यानपेक्षप्रवृत्तयोऽप्राकृतपौर्वापर्यनियमा युगपदेव स्वकार्य-
कारिण्यो ट्टष्टाः यथा दाहकत्वप्रकाशकत्वादयोऽग्रेः । न च शब्दाश्रयाः-
शक्तयस्तथा टृश्यन्ते, अभ्युपगम्यन्ते वा, नियोगतोऽभिधाशक्तिपूर्वकत्वे-

नेतरशक्तिप्रवृत्तिददर्शनात् । तस्मादभन्नाश्रया एव ता न शब्दैकसमाश्रया
इत्यवसेयम् ।

यश्चासावाश्रयो भिन्नः सोऽर्थएवेति तद्व्यापारस्यानुमानान्तर्भावोऽभ्युप-
गन्तव्य एव । तथा हि । गौर्वाहीक इत्यादौ तावदग्रवादयोऽर्था बाधितवाही-
काद्यर्थान्तरैकात्म्यास्ताद्रूप्यविधानान्यथानुपपत्त्या केनचिदंशेन तत्र तत्त्वमनु-
मापयन्ति न सर्वात्मना ।
न ह्मनुन्मत्तः कश्चित् क्वचित् किञ्चत् कर्थचित् साधर्म्यमनुत्पश्यन्नेवा-
कस्मात् तत्त्वमारोपयतीति परिशीलितवक्तृस्वरूपः प्रतिपत्ता तत्त्वारोपनिमित्तं
साट्टश्यमात्रमेव प्रतिपत्तुमर्हति न तत्त्वम् ।
तद्धि वाच्यतयोप्रक्रम एव भासते, न प्रतीतिपर्यवसानास्पदं भवितुमर्हति,
तस्य बाधोपपत्तेः ।
तस्य चैवंविधस्योपक्रमस्य निमित्तं साधर्म्यमात्रप्रतिपादनम् । प्रयोजनञ्च
लाघवेन वाहीका?दौ गवादिगतजाडचादिधर्मप्रतिपादनंः यस्मादतिदेशप्रकारो-
यमर्थान्तरे शब्दविनिवेशो नाम । यदुक्तम्__
‘जातिशब्दोऽन्तरेणापि जातिं यत्र पुयुज्यते ।
सम्बन्धिसट्टशाद्धर्मात् तं गौणमपरे विदुः ॥ 45 ॥
एवं ‘कृशाङगचाः सन्तापं वदति बिसिनीपत्रशयनम्’ इत्यादाववग-
न्तव्यम् । अविनाभावावसायपूर्विका ह्मन्यतोऽन्यस्य प्रतीतिरनुमानमि-
त्यनुमालक्ष्णमुक्तम् तच्चात्रोपलभ्यत व ।
तथा हि वदतीत्यादौ वदनादेरर्थान्तरस्य प्रकाशादेः प्रतीतिः । तयो-
श्चाविनाभावः कार्यकारणभावकृतः प्रकाशनस्य वदनकार्यत्पप्रसिद्धेः ।
न च वदतेः प्रकाशो वाच्य इति शक्यं वक्तुं तस्य तत्रासमितत्वात् प्रकाशस्य
चातत्त्वात् । न चायं स्वार्थमेव प्रतिपादयति, तस्य बाधोपपत्तेः ।
अथोपचारत उपादानान्यथानुपपत्त्या वदनक्रियायाः सट्टशे प्रकाश-
नाख्ये क्रियान्तरे वर्त्ततेऽयं वदतिरित्युच्यते, तर्ह्मन्यथानुपपत्त्य वदना-
देः प्रकाशादिः प्रतीयमानोऽनुमेय एव भवितुमर्हति, अर्थापत्तेरनुमाना-
न्तर्भावाभ्युपगमादित्युक्तम् ।
तस्माद्योऽयं बाहीकादौ गवादिसाधर्म्यावगमः स तत्त्वारोपान्यथानु-
पपत्तिपरिकल्पितोऽनुमानस्यैब विषयः। न शब्दव्यापारस्येति स्थितम् ।
गोत्वारोपेण वाहीके तत्साम्यमनुमीयते ।
को ह्मतस्मिन्नतत्तुल्ये तत्त्वं व्यपदिशेद् बुधः ॥
इति सङ्ग्रहश्लोकः ।
गङगायां घोष इत्यादावपि गङगादयोऽर्थाः स्वात्मन्यनुपपत्तिबाधितघोषा-
धधिकरणभावास्तदुपादानसामर्थ्यात् सम्बन्धमात्रपिरकल्पिततत्त्वारेपं तद-
धिकरणभावोपगमयोग्यमर्थान्तरमेव तटादिरूपमनुमापयन्ति ।
न हि तत्साट्टश्यमेवैकं तत्त्वारोपनिबन्धनमिष्यते, किन्तर्हि, तत्स-
?म्बन्धादिरपि, इति तत्सम्बन्धमात्रमसारोपिततदभावस्तटादिरेव घोषाद्य-
धिकरणभावोपादानान्यथानुपपत्त्या गङगादीनामर्थानामनुमेय एव भवितुमर्हति ।
शब्दः पुनः स्वार्थाभिधानमात्रव्यापारपर्यवसितामर्थ्यो नार्थान्तरस्य
तटादेर्वार्तामपि वेदितुमुत्सहते, किं पुनः संस्पर्शमित्युक्तम् । प्रयोजनं
पुनरस्यैवंविधस्योक्तिवैचित्र्यपरिग्रहस्य तटादावारोपतिवषये वस्तुनि आया-
रोप्यमाणगङगदिगतपुण्यत्वशीतलत्वादिधर्मप्रतिपत्तिः, न साट्टश्यमिति पूर्व-
स्मादस्य विशेषः । उभयत्रापि च तत्त्वारोप एव हेतुः । स हि तत्साम्य-
तत्सम्बन्धादिनिबन्धनत्वाद् बहुविध इष्टः । यादहुः__
‘अभिधेयेन सम्बन्धात् साट्टश्यात्समवायतः ।
वैपरीत्यात् क्रियायोगाल्लक्षण पञ्चधा मता ॥’ इति ।

तस्य च तैरविनाभावनियमो लोकत एवावसित इति न तत्र प्रमा-
णान्तरापेक्षाप्रयासः । लोको हि तत्सट्टशमर्थं तत्सम्?ब्द्धं च तत्त्वेन व्यवहरन्
ट्टश्यते, तद्यथा दीर्घग्रीबं विकटकायं च कञ्चित् पश्यन् करभ इति व्यप-
दिशति, मञ्चसम्बद्धांश्च कांश्चित् क्रोशतो मञ्चाः क्रोशन्तीति ।
किञ्चोपचारवृत्तौ शब्दस्य मा भूदतिप्रसङग इत्यवश्यं किमपि निमित्त-
मनुसर्तव्यम् । अन्यथान्यत्र प्रसिद्धसम्बन्धः कथमसमितमेवार्थान्तरं प्रत्या-
ययेत् । यच्च तन्निमित्तं तदेवास्माभिरिह लिङगमित्याख्यातम् । युक्तञ्चैतत् ।
शब्दस्य तत्र व्यापाराभावात् । व्यापाराभावश्च सम्बन्धाभावात् । लिङगाच्च
लिङिगनः प्रतीतिरनुमानमेवेति न गुणवृत्तावर्थान्तरप्रतीतिः शाब्दीति तस्या
वाचकाश्रयत्वमसिद्धमेव ।
यः सतत्त्वसमारोपस्तत्सम्बन्धनिबन्धनः ।
मुख्यार्थबाधे सोऽप्यार्थं सम्बन्धमनुमापयेत् ॥ 46 ॥
तत्साम्यतत्सम्बन्धौ हि तत्त्वारोपैककारणम् ।
गुणवृत्तेद्विंरूपायास्तत्प्रतीतिरतोऽनुमा ॥ 47 ॥
किञ्च__
मुख्यवृत्तिपरित्यागो न शब्दस्योपपद्यते ।
विहितोऽर्थान्तरे ह्मर्थः स्वसाम्यमनुमापयेत् ॥ 48 ॥
तुल्यादिषु हि लोकोऽर्थेष्वर्थं तद्दर्शनस्मृतम् ।
आरोपयेन्न शब्दस्तु स्वार्थमात्रानुयायिनम् ॥ 49 ॥
इत्थमर्थान्तरे शब्दवृत्तेरनुपपत्तितः ।
फले लिङैगकगम्ये स्यात् कुतः शब्दः स्खलदगतिः ॥ 50 ॥
व्यापरोऽर्थे ध्वनेः साक्षान्मुख्या वृत्तिरुदाहृता ।
अर्थारोपानुगस्त्वेष गौणी तद्व्यवधानतः ॥ 51 ॥
आशुभावादनालक्ष्यं किन्त्?वर्थारोपमन्तरा ।
लोको गोश्चैत्र इत्यादौ शब्दारोपमवस्यति ॥ 52 ॥
प्रधानेतरभावेनावस्थानादर्थशब्दयोः ।
समशीर्षिकयारोपो न तयोरुपपद्यते ॥ 53 ॥
आरोपविषये यत्र विशेषः संप्रतीयते ।
आरोदारोपितात् यत्र गुणवृत्तिरुदाहृता ॥ 54 ॥
गुणवृत्तौ गिरां यावत् सामग्रीष्टा निवन्धनम् ।
सैव लिङगतयास्माभिरिष्यतेऽर्थान्तरं प्रति ॥ 55 ॥
न हि तत् समयाभावाद्वाच्यं शब्दम्य कल्प्यते ।
प्रतीयमानतायां च व्यक्तमस्यानुमेयता ॥ 56 ॥
तस्मात् स्वार्थातिरेकेण गतिर्नार्थान्तरे गिराम् ।
वाचकत्वाश्रयेणातो गुणवृत्तेरसम्भवः ॥ 57 ॥
किश्च__

भक्त्या विभर्ति चैकत्वं रूपाभेदादयं ध्वनिः ।
न च नाव्याप्त्यतिव्याप्तयोरभावाल्लक्ष्यते तथा ॥ 58 ॥
सुवर्णपुष्पामित्यादौ न चाव्याप्तिः प्रसज्यते ।
यतः पदार्थवाक्यार्थभेदात् भक्तिर्द्विधोदितां ॥ 59 ॥
अतस्मिंस्तत्समारेपो भक्तेर्लक्षणमिष्यते ।
अर्थान्तरप्रतीत्यर्थः प्रकारः सोऽपि शस्यते ॥ 60 ॥
ततश्च__
रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादापि ।
लावण्याद्याः प्रसक्तास्ते न भवन्ति पदं ध्वनेः ? ॥ 61 ॥
( भवन्त्येवेत्यर्थः ) यतः__
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्रकतिः ॥ 62 ॥
वाचकत्वाश्रयेणैव गुणवृत्तिरसङगता ।
गमकत्वैकमूलस्य ध्वनेः स्याद् विषयो न किम् ॥ 63 ॥
व्यञ्जकत्वैकमूलत्वमसिद्धञ्च ध्वनेर्यतः ।
गमकत्वाश्रयापीष्टा गुणवृत्तिस्तदाश्रयः ॥ 64 ॥
समिदिध्मादयः शब्दाः प्रसिद्धा गुणवृत्तयः ।
ध्वनेः पदादिव्यडगचस्य येनोदाहरणीकृताः ॥ 65 ॥
तस्माद् व्युत्पत्तिशक्तिभ्यां निबन्धो यः स्खलदगतेः ।
शब्दस्य सोऽपि विज्ञेयोऽनुमानविषयोऽन्यवत् ॥ 66 ॥
इति सङ्ग्रहश्लोकाः ।
‘विषं भक्षय मा चास्य गृहे भुक्था’ इत्यादावपि यदेतद् विषभक्षणानु-
ज्ञानं तदर्थप्रकरणादिसहायमेतद्गृहे भोजनस्य ततोऽपि दारुणतरप्ररिणाम-
त्वमनुमापयति । न ह्मनुन्मत्तः सुहृदादौ हितकामःसन्नस्य क्वचिद् भोजननिषेधं
विदधानः अकस्माद् विषभक्षणमनुजानातीत्यवगतवगतवक्तृप्रकरणादिस्वरूपः
प्रतिपत्ता विषभक्षणानुज्ञानादेव तद्गृहभोजनस्यात्यन्तमकरणीयत्वमनुमातु-
मर्हति । विषभक्षणानुज्ञानादेर्वाक्यार्थस्याप्रस्तुतस्यैवोपन्यासो हि पूर्षोक्तेन
नयेन प्रस्तुतातिरिक्तार्थान्तरप्रतिपादनपरत्वात् तत्र हेतुतयाऽवगन्तव्य इति
न शब्दस्य तत्र व्यापारः परिकल्पनीयः ।
विषभणादपि परामेतद्गृहभोजनस्य दारुणताम् ।
वाच्यादतोऽनुमिमते प्रकरणवक्तृस्वरूपज्ञाः ॥ 67 ॥
विषभक्षणमनुमनुते न हि क्वश्चिदकाण्ड एव सुहृदि सुधीः ।
तेनात्रार्थान्तरगतिरार्थी तात्पर्यंशक्तिजा न पुनः ॥ 68 ॥
इति सङ्ग्रहार्थे ।
यदप्यन्ये मन्यन्ते__वाच्यावगमोपक्रमः प्रतीयमानार्थान्तरावसायप-
र्यन्तोऽयमेक एव दीर्घदीर्धः शब्दस्योषोरिव व्यापार?0:;?0 न पुनरर्थान्तरस्य
कश्चित् संवेद्यते । यथा ह्मेक एवेषुर्बलवता धनुष्मता मुक्तः शत्रोरुरश्छद-
मुरश्च भित्त्वा जीवितमपहरति, न च तस्य वृत्तिभेदः, तथा शब्दोऽपि
सत्कविना सकृत् प्रयुक्त एव क्रमेण स्वार्थाभिधानमर्थान्तरप्रतीतिं चैकयैव
प्रवृत्त्या वितनोति । न च तस्य व्यापारभेदः कश्चित् ।
किञ्च यत्परः शब्दः स शब्दार्थ इति शब्दस्यैवासौ व्यापारो न्याय्यो
नार्थस्येति ।
यत् पुनः__
‘शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥’
इत्यादिना शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकि यद् वैचित्र्यं
तन्मात्रलक्षणं वक्रत्वं नाम काव्यस्य जीवितमिति सहृदयमानिनः केचिदा-
चक्षते तदप्यसमीचीनम् ।
यतः प्रसिद्धोपनिबन्धनव्यति?रेकित्वमिदं शब्दार्थयोरौचित्यमात्रपर्य-
वसायि स्यात् , प्रसिद्धाभिधेयार्थव्यतिरेकि प्रतीयमानाभिव्यक्तिपरं वा
स्यात् । प्रसिद्धप्रस्थानातिरेकिणः शब्दार्थोपनिबन्धनवैचित्र्यस्य प्रकारान्त-
रासम्भवात् ।
तत्राद्यस्तावत् पक्षो न शङकनीय एव, तस्य काव्यस्वरूपनिरूपणसाम-
र्थ्यसिद्धस्य पृथगुपादानवैयर्थ्यात् । विभावाद्युपनिवन्ध एव हि कविव्यापारो
नापरः । ते च यथाशास्त्रमुपनिबध्यमाना रसाभिव्यक्तेर्निबन्धनभावं भजन्ते,
नान्यथा । रसात्मकं च काव्यमिति कुतस्तत्रानौचित्यसंस्पर्शः सम्भाव्यते,
यन्निरासार्थमित्थं काव्यलक्षणमाचक्षीरन् विचक्षणम्मन्याः ।
द्वितीयपक्षपरिग्रहे पुनर्ध्वनेरेवेदं लक्षणमनया भङगचाभिहितं भवति,
अभिन्नत्वाद् वस्तुनः । अत एव चास्य त एव प्रभेदास्तान्येवोदाहरणानि
तैरुपदर्शितानि । तच्चयुक्तमित्युक्तं, वक्ष्यते च ।
प्रसिद्धं मार्गमुत्सृज्य यत्र वैचित्र्यसिद्धये ।
अन्यथैवोच्यते सोऽर्थः सा वक्रोक्तिरुदाहृता ॥ 69 ॥
पादवाक्यादिगम्यत्वात् स चार्थो बहुधा मतः ।
तेन तद्वक्रमापीष्टा बहुधैवेति तद्विदः ॥ 70 ॥
अत्रोच्यतेऽभिधासंज्ञः शब्दस्यार्थप्रकाशने ।
व्यापार एक एवेष्टो यस्त्वन्योऽर्थस्य सोऽखिलः ॥ 71 ॥
ततश्च__
वाच्यादर्थान्तरं भिन्नं यदि तल्लिङगमस्य सः ।
तन्नान्तरीयकतया निबन्धो ह्मस्य लक्षणम् ॥ 72 ॥ ?
अभेदे बहुता न स्यादुक्तेर्मार्गान्तराग्रहात् ।
तेन ध्वनिबदेषापि वक्रोक्तिरनुमा न किम् ॥ 73 ॥
इत्यन्तरश्लोकाः
नापि शब्दस्याभिधाव्यतिरेकेण व्यञ्जकत्वं व्यापारान्तमुपपद्यते,
येनार्थान्तरं प्रत्याययेद् , व्यक्तेरनुपपत्तेः सम्बन्धान्तरस्य चासिद्धेः । तदभा-
वेऽपि तदभ्युपगमे तस्यार्थनियमो न स्याद् निबन्धनाभावात् । न ह्मस्य
गेयस्येव रत्यादिभिर्भावैः स्वाभाविक एव सम्बन्धः, सर्वस्यैव तत्प्रतीति-
प्रसङगात् ।
नापि समयकृतः, व्यञ्जकत्वयौपाधिकत्वाद् उपाधीनां चार्थप्रकरणादि-
सामग्ररूपाणामानन्त्यादनियतत्वाच्च प्रतिपदमिव शब्दानुशासनस्य समयस्य कर्तुमशक्यत्वात् ।
एक एव हि शब्दः सामग्रीवैचित्र्याद् विभिन्नानर्थानवगमयति, यथा
‘रामोऽस्मि सर्वं सहे’ इति, ‘रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये !
नोचितम्’ इति, ‘रामस्य पाणिरसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा
कुतस्ते’ इति, ‘रामे तटान्तवसतौ कुशतल्पशायिन्यद्यापि नास्ति भगवन् !
भवतो व्यपेक्षा’ इत्यादावेक एव रामशब्दः ।
यथाह ध्वनिकारः__शब्दार्थयोर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाच-
कभावाख्यस्तमनुरुन्धान एव गमकत्वलक्षणो व्यापारः सामग्न्यन्तरसदभावादौ-
पाधिकः प्रवर्तते । अत एव च वाचकत्वात् तस्य विशेषः । वाचकत्वं हि
शब्दविशेषस्य नियत आत्मा, सङेकतव्युत्पत्तिकालादारभ्य तदविनाभावेन
तस्य प्रसिद्धत्वात् । सत्वनियत औपाधिकत्वात् प्रकरणाद्यवच्छेदेन तस्य
प्रतीतेरि( तरथात्वप्रतीतेरि )ति ।
न चानयोरन्यः सम्बन्धः सम्भवतीति तस्याः सामग्रचा एव सम्बन्ध-
यलात् तद्ग्रमकत्वमुपपन्नं न शब्दस्येति, नार्थपक्षादस्य कश्चिद्विशेष इति
व्यर्थस्तत्पक्षोपन्यासः ।
ननु यदि शब्दस्यार्थनिरपेक्षस्य व्यञ्जकत्वं नेष्यते, तत् कथं प्राप्तमि-
त्यादौ प्रादीनां द्योतकत्वमुक्तम्, न वाचकत्वम् । वाचकत्वे हि हलादि-
त्वाद् धातोर्यङादिप्रसङग स्यात् । द्योतकत्वं प्रकाशकत्वं व्यञ्जकत्वं चेत्येक
एवार्थ इति । सत्यम् । उक्तमुपचारतो न परमार्थत इति तस्य प्रदीपादि-
निष्ठस्य वास्तवस्य शब्दार्थविषयत्वस्य प्रतिक्षेपात् ।
अथोच्यते__पचत्यादयः क्रियासामान्यवचनाः । सामान्यानि चाशेष-
विशेषान्तर्भावभा?ञ्जि भवन्तीति तत्प्रतीतिनान्तरीयकतयैव विशेषसदभावः
सिद्ध एव । यदाहुः__‘निर्विशेषं न सामान्यं भवेच्छशविषाणवद्’ इति
केवलमर्थसामर्थ्यसिद्धोऽपि विशेषो द्योतनमपेक्षत इति तन्मात्रव्यापाराः
प्रादयो द्योतका एव भवतिमर्हन्ति न वाचका इति ।
सत्यम् । किन्तु यदप्रतीतौ सामान्यप्रतोतिरेव न पर्यवस्यति तद्विशेष-
मात्रं तेभ्यः प्रतीयतां नाम । न तु तावता व्यवहारसिद्धिः काचित् ।
तस्याः प्रतिनियतविशेषावसानिबन्धनत्वात् । स त्वपूर्वतया प्रादिभ्य
एवोदभवन्नवधार्यते । न पचत्यादिभ्यः । नार्थादपि तत्सदभावसिद्धिः काचित् ।
अस्याः प्रतिनियतविशेषावसायनिबन्धनत्वात् ।
तस्माद् यत्प्रयोगान्वयव्यतिरेकानुविधायिनी यस्य प्रतीतिस्तयोर्वाच्य-
वाचभावव्यवहारविषयत्वमेवोपगन्तुं युक्तं नाभिव्यक्तिविषयत्वम् । यथा
घटशब्दतदर्थयोः ।
प्रादिप्रयोगानुविधायिनी तत्र पचतीत्यादौ प्रकर्षादिप्रतीतिरिति तेऽपि
तथा भवितुमर्हन्त्येव । अन्यथा नीलोत्पलादौ सर्वस्यैव विशेषणाभिमतस्य
नीलादिशब्दस्य विशेष्यवाचिनश्चोत्पलादोर्विशेषणाविशेष्यभावव्यवहारोऽ-
स्तमुपगच्छेत् । तत्रापि ह्मेतच्छक्यं वक्तुम् । उत्पलादयः शब्दाः सामा-
न्यवचनाः । सामान्यानि च गर्भीकृतविशेषाणि भवन्तीति तेषां तत्र सदभाव-
सिद्धौ सत्यां नीलादिशब्दा अपि तत्तद्द्योतनमात्रव्यापाराः प्रादिवद् द्योतका
भवितुमर्हन्ति नाभिधायका इति ।

एवञ्चान्तर्मात्रविपरिवर्तितया सिद्धसदभावानां घटादीनां घटादिशब्दा
अपि द्योतका एव स्युः, न वाचका इति वाच्यवाचकव्यवहारोऽस्तमियात् ।
तस्मात् भाक्तिमेव द्योतकत्वमुपगन्तव्यं न मुख्यम् । भक्तेश्च प्रयोजनं वाच्य-
स्यार्थस्य स्फुटत्वप्रति?पत्तिः। निमित्तं च विशेषणविशेष्यप्रतीत्योराशुभ-
वितया क्रमानुपलक्षणात् सहभावप्रतीतिः ।
द्विविधं हि विशेषणमिष्टम् अन्तरङंग बहिरङंग चेति । तत्रा़द्यमव्यवहि-
तमेवार्थका?रि लाक्षादिवत् स्फटिकादेः। ?द्वितीयमुभयरूपमयस्कान्तमिव

लोहस्य । तद्धि व्यवहितमपि लोहे स्वां शक्तिमुपदधात्येव । तदपि द्विविधम्
समानाधिकरणं भिन्नाधिकरणं चेति । विशेष्योऽपि द्विविधो धात्वर्धो
नामार्थश्चेति । तत्रोपसर्गाणां प्रापो धत्वर्थो विषयो न नामार्थः । चादीनां
तु निपातानामुभयमपि । केवलं तेषां विशेष्यात् पूव्रं पश्चाच्च क्रमेण प्रयोगो
नियोगतोऽवगन्तव्यः । नान्येषां विशेषणानाम् ।
तदेवं विशेषणविशेष्यस्वरूपेऽवसिते यदेतदन्तरङंग विशेषणमुक्तं तद्
गवादौ गोत्वादिवद् विशेष्यस्वरूपान्तर्भूतमिवेति तत्प्रतीत्योराशुभावितया
क्रमानुपलक्षणात् सहभावावगमो द्योत्यद्योतकभावभ्रमहेतुः । अत एव
केचिदेषां धात्वन्तर्भावमिव मन्यमानाः__
‘उडादीनां व्यवस्यथार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धतुरेव च ताट्टशः ॥’
चादीनां चोपाधीनां विशेष्येभ्यो निर्मलेभ्यः स्फटिकोपलेभ्ये इव लाक्षा-
दीनामव्यवधानमेव । तेन ते यदनन्तरमुपाधीयन्ते, तेष्वेव विशेषमाधातुमलं
नान्यत्रेति यत्तेषां भिन्नक्रमतया क्वचिदुपादानं तदनुपपन्नमेव अयथास्थान-
विनिवेशिनो हि तेऽर्थान्तरमनभिमतमेव स्वोपरागेणोपरञ्जयेयुः । ततश्च
प्रस्तुतार्थस्यासामञ्जस्यप्रसङगः ।कथञ्चिद् वा भिन्नक्रमतयाप्यभिमतार्थसम्बन्धो-
पकल्पने प्रस्तुतार्थप्रतीतेर्विध्रितत्वात् ?तन्निबन्धने रसास्वादोऽपि विध्रितः
स्यात् शब्ददोषाणामनौचित्?योपगमात् तस्य रसभङगहेतुत्वात् । यथाहुः__
‘उनौचित्याट्टते नान्यद् रसभङग्रस्य कारणम् ।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा॥’ इति
स्वाभाविकं ध्वनेर्युक्तं व्यञ्जकत्वं न दीपवत् ।
धूमवत् किन्तु कृतकं सम्बन्धादेरपेक्षणात् ॥ 74 ॥
प्रादीनां द्योतकत्वं यत् कैश्चिदभ्युपगम्यते ।
तद् भाक्तमेव तत्रेष्टं न मुख्यं तदसम्भवात् ॥ 74 ॥
प्रादीनां द्योतकत्वं यत् कैश्चिदभ्युपगम्यते ।
तद् भक्तमेव तत्रेष्टं न मुख्यं तदसम्भवात् ॥ 75 ॥
तथा हि यस्य शब्दस्य भावाभावानुसारिणी ।
यदर्थबुद्धिस्तस्यासो वाच्योऽर्थ इति कथ्यते ॥ 76 ॥
गोशब्दस्येव गौरर्थः सान्यथा त्वव्यवस्थिता ।
वाच्यत्वव्यवहाराश्च न स्यादर्थस्य कस्यचित् ॥ 77 ॥
प्रादिप्रयोगानुगमव्यतिरेकानुसारिणी
प्रकर्षादौ मतिस्तेन तस्य तद्वाच्यता न किम् ॥ 78 ॥

विशेषावगमस्याशुभावादनुपलक्षणात् ।
क्रमस्य सहभावित्वं भ्रमो भक्तेर्निबन्धनम् ॥ 79 ॥
विशेषणं तु द्विविधमान्तरं बाह्ममेव च ।
तत्राव्यवहितं सद् यदर्थकारि तदान्तरम् ॥ 80 ॥
स्फटिकस्येव लाक्षादि द्वितीयमुभयात्मकम् ।
आयसस्येव तत्कान्तं तदपि द्विविधं मतम् ॥ 81 ॥
असमानसमानाधिकरणत्वविभेदतः ।
विशेष्योऽपि द्विधा ज्ञेयो धातुनामार्थभेदतः ॥ 82 ॥
शाब्दत्वार्थत्वभेदेन नामार्थोऽपि द्विधा मतः।
तत्रोपसर्गाणां प्रायो धात्वर्थो विषयो मतः ॥ 83 ॥
चादीनां तु निपातानामुभयं परिकीर्त्तितम् ।
केवलं तु विशेष्यात् स्युः पश्चाच्च ते क्रमात् ॥ 84 ॥
विशेषणानामन्येषां पौर्वापर्यमयन्त्रितम् ।
इत्थं स्थिते स्वरूपेऽस्मिन् विशेषणविशेष्ययोः ॥ 85 ॥
यदन्तरङगमुद्दिष्टमुभयात्?मा विशेषणम् ।
विशेष्ये मग्रमिव तद् गवि गोत्वमिव स्थितम् ॥ 86 ॥
अत एवाशुभावित्वात् तत्प्रतीत्योः क्रमाग्रहः ।
यन्मूलश्चायमनयोर्द्योत्यद्योतकताभ्रमः ॥ 87 ॥
प्रादीनां धतुगर्भत्वोपगमाच्च यदुक्तवान् ।
अडादीनां व्यवस्थार्थमित्यादि विदुषां बरः ॥ 88 ॥
अत एव व्यवहितैर्वुधा नेच्छन्ति चादिभिः ।
सम्बन्धं ते हि शक्तिं स्वामुपदध्युरनन्तरे ॥ 89 ॥
सान्तरत्वे तु तां शक्तिमन्यत्रैबादधत्यमी ।
ततश्चार्थासामञ्जस्यादनौचित्यं प्रसज्यते ॥ 90 ॥
बहिरङगान्तराङगत्वभेदात् तद् द्विविधं मतम् ।
तत्र शब्दैकविषयं बहिरङंग प्रचक्षते ॥ 91 ॥
द्वितीयमर्थविषयं तत् त्वाद्यैरेव प्रदर्शितम् ।
तत्स्?वरूपमतोऽस्माभिरिह नातिप्रतन्यते ॥ 92 ॥
पारम्पर्येण साक्षाच्च तदेतत् प्रतिपद्यते ।
कवेरजागरूकस्य रसभङगनिमित्तताम् ॥ 93 ॥
यत् त्वेतच्छब्दविषयं बहुधा परिट्टश्यत्ते ।
तस्या प्रकमभेदाद्या दोषाः पञ्चैव योनयः ॥ 94 ॥
तेषां संक्षेपतोऽस्माभिः स्वरूपमभिधास्यते ।
यस्तु प्रपञ्चः पञ्चानां स्वयं तमवधारयेत् ॥ 95 ॥
इति सङ्ग्रहश्लोकाः ।
किञ्च काव्यस्य स्वरूपं व्युत्पादयितुकामेन मतिमता तल्लक्षणमेव
सामान्येनाखातव्यभ् , यत्र वाच्यप्रतीयमानयोर्गम्यगमकभावसंस्पर्शस्तत्
काव्यमिति, तावतैव व्युत्पत्तिसिद्धेः । यत्तु तदनाख्यायै तयोः प्रधानेतर-
भावकल्पनेन प्रकारद्वयमुक्तं तदप्रयोजकमेव । यो हि यद्विशेषप्रतीतौ
निमित्तभावेन निश्चितः स एव तदर्थिनः प्रतिपाद्यो भवनि नान्य?0:;?0 अति-
प्रसङ्ग्रात्त् । यथा ददिडप्रतीतौ दण्डः। अनुमेयार्थसंस्पर्शमात्रं चान्चयव्यतिर-
काभ्या काव्यस्य चारुत्वहेतुर्निश्चितम् । अतस्तदेव वक्तव्यं भवति न त्वस्य
प्राधान्याप्राधान्यकृतो विशेषः ।
न हि तयोः सामान्यबिशेषयोस्त्रिष्वपि वस्तुमात्रादिष्वनुमेयेषु चेतन-
चमत्कारकारी कश्चिद्विशेषोऽवगम्यते ।
तत्र वस्तुमात्रस्य प्राधान्ये यथा__
‘वच्च मह व्यिअ एक्लाए होन्तु णीसासरोर्हअव्यवाइम् ।
मा तुज्ज्ञ वि तीए विण दक्खिण्णहअस्स जाअन्दु ॥’ इत्यत्र ।
तस्यैवाप्राधान्ये यथा__
‘लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
अन्मज्जति द्विरद्कुम्भतटी च यत्र
यत्रापरे कदलिकाण्डमृणालण्डाः ॥’
यथा व__
‘अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः’॥
अलङकारस्य प्राधान्ये यथा__
‘वीराण रमइ घुसृणारुणम्मि ण तहा पिआथाणुच्छङेग्र ।
दिट्ठी रिउगअकुम्भत्थलम्मि जह बहलसिन्दूरे ।
सथा च
‘तं ताण सिरिसहोअररअणाहरणम्मि हिअमेक्करसम् ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥’ इति ।
तस्यैवाप्राधान्ये यथा__
‘चन्दमऊएहि णिसा णलिणी कमलेहि कुसुमगुच्छेहि लआ ।
हंसेहि सरअसोहा कव्यकहा सज्जणेहि करइ गुरुई ॥’
रसादीनां प्राधान्ये यथा कुमारसभ्भवे मधुप्रसङेग वसन्तपुष्पाभरणं
वहन्त्या देव्या आगमनादिवर्णने मनोभवशरसन्धानपर्यन्ते, शम्भोश्च विवृत्त-
धैर्यस्य वचेष्टाविशेषवर्णनादौ ।
तेषामप्राधान्यं शुद्धसङकीर्णतादिभेदाद् द्विविधम् ।
तत्र शुद्धं यथा__
‘किं ? हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराहर्शनं
केयं निष्करुण ! प्रवासरुचिता केनासि दूरीकृतः ? ।
स्वप्रान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो
बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रजनः ॥’
इत्यत्र करुणस्य शुद्धस्यैवाङगभावः ।
सङकीर्णरसादवङगभूते यथा__
‘क्षिप्तो हस्तावलग्रः प्रसभमभिहतोऽप्याददार्नोऽशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङग्रन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शम्भवो वः शराग्रिः ॥’
अत्र हि त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्याविप्रलम्भस्य श्लेष-
सहितस्यैवाङग्रभावः ।
तदेवं प्रकारत्रयेऽप्यनुमेयार्थसंस्पर्श एव काव्यस्य वारुत्वहेकतुरित्यव-
गन्तव्यम् । यदाह ध्वनिकारः__‘सर्वथा नास्त्येव हृदयहारिणः काब्यस्य
स प्रकारः, यत्र प्रतीयमानार्थसंस्पर्शेन न सौभाग्यम् । तदिदं काव्यरहस्यं
परममिति समूरिभिर्विभावनीयम् ।
‘मुख्या महाकविगिरामलङ्कृतिभृतामपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥’ इति ।
सम्भवापेक्षया चास्य ध्वनेः स्वरूपमात्रप्रतिपादनार्थत्वोपगमेऽन्येषा-
मपि तद्वाक्यवर्त्तिनां पदवर्णसंख्यादीनां तदुपदर्शनप्रसङगो विशेषाभावा-
दिति संज्ञासंज्ञिसम्बन्धव्युत्तिमात्रफलमेतद् पर्यवस्यतीति न काव्य-
विशेषव्युत्पत्तिफलम् । न चायं प्रधानेतरभावेनोपनिबद्धस्तेषामनुमेयतां
प्रतिबध्नाति ।
तदेवञ्च नार्थशब्दयोरुपसर्जनीकृतस्वार्थत्वमव्यभिचारासम्भवदोषदुष्ट-
त्वात् । न वाच्यप्रतीयमानयोर्व्यङगचव्यञ्जकभावस्तल्लक्षणाभावात् । न च
काव्यविशेषस्य लक्षणकरणं प्रयोजनाभावात् । नापि ध्वनिव्यपदेशः व्यङग्रच-
व्यञ्जकभावभावादुपपद्यत इति सर्वमसमञ्जसमिव त्ल्लक्षणमुपलक्ष्यते ।
यदि काव्ये गुणभूतव्यङगचेऽपीष्टैव चारुता__
प्रकर्पशालिनी, तर्हि व्यर्थ एवादरो ध्वनौ ॥ 96 ॥
न हि काव्यात्मभूतस्य ध्वनेस्तत्रास्ति सम्भवः ।
तेन निर्जीवतैवास्य स्यात् प्रकर्षो कथैव का ॥ 97 ॥
अतोऽतदात्मभूतस्य येऽभावं जगदुर्ध्वनेः ।
ते मुधैव प्रतिक्षिप्ताः स्वोक्तिभावमपश्यता ॥ 98 ॥
अथेष्यते स तत्रापि रसादिव्यक्त्यपेक्षया ।
काव्यमेवान्यथा न स्याद्ररसात्मकमिदं यतः ॥ 99 ॥
इत्थञ्च गम्यमानार्थस्पर्शमात्रमलङ्कृतिः ।
वाच्यस्येत्येतदुक्तं स्यान्मता सैबानुमा ततः ॥ 100 ॥
इति सङ्ग्रहश्लोकाः ॥
किञ्च यत् अविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति ध्वनेः प्रकारद्वय-
मुक्तं, तत्र किमिदमविवक्षितत्वं नामेति तात्पर्यतोऽस्यार्थो वक्तव्यः । किम्
अविवक्षितत्वमनुपादेयत्वतम?उत्त, अन्यपरत्वम् ? अनुपादेयत्वं च किं सर्वा-
त्मना अंशेन वा ? सर्वात्मनुपादेयत्ये व्यञ्जकत्वमप्यस्यानुपादेयम् , तस्य
तदाश्रितत्वात् । ततश्च प्रयोग एवास्य दुष्टः स्याद् यथान्यस्य पुनरुक्तादेः ।
अथांशेनेत्युच्यते । वक्तव्यस्तर्ह्मसावंशः । स च निरूप्यमाणः स्वाप्राधान्य
एव पर्यवस्यति । ततश्चाविवक्षितत्वमन्यपरत्वमुपसर्जनीकृतात्मत्वं चेत्येक
यस्य हि यल्लक्षणानुगमे सति अवान्तरविशेषसंस्पर्शः स तस्य प्रकार
इत्युच्यते यथा गोत्वस्य शाबलेयत्वादि, न तु तस्यैव स एव प्रकारो भवितु-
मर्हति तदनवस्थाप्रसङग्रात् । न चात्र विशेषसंस्पर्शः कश्चिदिति कथमस्य
ध्वनिप्रकारत्वोक्तिर्युक्तिमती ।

किञ्चेदं विवक्षितान्यपरवाच्यत्वं नाम न बुध्यामहे । यदि विक्षितत्वं
नाम प्राधान्यमुच्यते तत् कथं तस्यान्यपरत्वं घटते । अन्यपरत्वं ह्मन्यस्याङग्र-
भावो भण्यते । यस्य चाङगभावःस कथं तदैव विवक्षितत्वात् प्राधान्यमनु-
भवेद्, इति यद् वाच्यस्य विवक्षितत्वमन्यपरत्वञ्चोपगतं तद् विप्रतिषिद्धं
विवक्षितान्यपरत्वयोर्विरोधात् ।
एकाश्रयत्वेन हि प्राधान्येतरयोगित्वं विशेषणाभिमतार्थविषयमेव
सङग्रच्छते नान्यविषयम् । तदेब हि विशेष्यस्योत्कर्षाधाननिबन्धनभावेन
विवक्षितत्वात् प्राधान्यम् उपाधिभावाच्च वास्तवादप्राधान्यमनुभवितु-
मलम्, यथा ‘रामस्य पाणिरसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा
कुतस्ते’ इत्युक्तम् ।
किञ्चास्य विवक्षितान्यपरवाच्यस्य ध्वनिप्रभेदत्वेऽभ्युपगम्यमाने वाच्य-
स्यान्यपरत्वमनुपादेयभेव तस्य तत्प्रभेदत्वादेव सिद्धेः । अन्यपरत्वं ह्मुप-
सर्जनीकृतात्मत्वम् । तच्च ध्वनेः सामान्यं रूपमुक्तमेव ।
यथात्र तदुपादीयते पूर्वत्रापि तदुपादीयताम् उभयत्रापि वा मोपादायि
उभयोरपि तत्प्रकारत्वाविशेषात् ।
किञ्चार्थान्तरसङक्रमितवाच्यस्य यदुदाहरणं तदग्रिर्माणवक इतिवद्
गुणवृत्तेरेव सङगच्छते तस्य गुणवृत्तिप्रकारत्वसमर्थनात् । तथा हि प्रसिद्धा-
न्यूनानतिरिक्तभावस्यान्यस्य साधर्म्यप्रतिपत्त्यर्थामन्यत्रारोप उपचारः । स
चायमारोप्यारोपकभावात्मकतया उभयार्थविषयो वेदितव्यः ।
ततश्च यदा एक अर्थ एकशब्दाभिधेयः सामान्यविशेषांशपरिकल्पने-
नोभयरूयोऽस्य विषयभावं भजते, तदार्थप्रकरणाद्यध्यवसितोत्कर्षापकर्षे
विशेषांश एव समारोपितस्तत्र साध्मर्यावगतिहेतुर्भवति यथा ‘तदमृतममृतं
स इन्दुरिन्दुः’ इति । न तु सामान्यांशः, विशेषस्य सामान्याव्यभिचारात् ।
अर्थान्तरसंक्रमितवाच्योऽप्यनुमान एवान्तर्भवति । रामादिशब्दा हि
प्रकरणाद्यवसितोत्कर्षापकर्षलक्षणधर्मविशिष्ठं संज्ञिनं प्रत्?याययन्ति, न संज्ञि-
मात्रम् , अर्थान्तरं यदनुमितं धर्मरूपं तत्र संक्रमितमाश्रयभावेन परिणतं
वाच्यमस्येति कृत्वा ।
द्विविधो ह्मनुमेयोऽर्थौ धर्मरूपो धर्मिरूपश्चेति । तत्राद्योऽस्य विषयः ।
तस्यैव वाच्यार्थनिष्ठतया प्रतीतेः । अन्यस्त्वन्यस्य, यथा अग्रिरत्र धूमा-
दिति । ततो धर्मविशेषप्रतिपत्तौ प्रकरणादिरेव हेतुतयावगन्तव्यः, न रामादि-
शब्दा इति ।
अत्यन्ततिरस्कृतवाच्यस्तु पादर्थोपचार एव यथा गौर्वाहीक इति ।
तस्याप्यनुमानान्तर्भावः समर्थित एव ।
शब्दशक्तिमूलानुरणनरूपव्यङगचस्तु न सम्भवत्येव । शब्दस्याभिधा-
शक्तिव्यतिरेकेण शक्त्यन्तरानभ्युपगमादित्येतदुक्तं, वक्ष्यते च ।
नावि?वक्षितवाच्यस्य ध्वनेर्युक्ता प्रकारता ।
न हि प्रकारस्तस्यैव स एवेत्युपपद्यते ॥ 101 ॥
भक्तिः पदार्थवाक्यार्थरूपत्वात् द्विविधा मता ।
तद्वुद्धिश्चानुमानान्तर्भुता यदुपापादिता ॥ 102 ॥
तत् तिरस्कृतवाच्यस्य ध्वनेर्भक्तेश्च का? भिदा ।
द्वितीयोऽपि प्रकारो यःसोऽपि सङग्रच्छते कथम् ॥ 103 ॥
परस्पराविरुद्धत्वाद् विवक्षातत्परत्वयोः ।
यः शब्दशक्तिमूलोऽन्यः प्रभेदो वर्णितो ध्वनिः ॥ 104 ॥
सोऽयुक्तोऽन्यत एवासौ तत्रेष्टार्थान्तरे मतिः।
शब्दे शक्त्यन्तराभावस्यासकृत् प्रतिपादनात् ॥ 105 ॥
इति सङ्ग्रहश्लोकाः ॥
इति श्रीराजानकमहिमभट्टविरचिते व्यक्तिविवेकाख्ये काव्याऽ-
लङकारे ध्वनिलक्षणाक्षेपो नाम प्रथमो विमर्शः ।

       ?0अथ द्वितीयो विमर्शः  

इह खलु द्विविधमनौचित्यमुक्तम् अर्थविषयं शब्दविषयं चेति । तत्र
विभावानुभावव्यभिचारिणामयथायथं रसेषु यो विनियोगस्तन्मात्रलक्षण-
मेकमन्तरङग्रमाद्यैरेवोक्तमिकति नेह प्रतन्यते ।
अपरं पुनर्बहिरङंग्र बहुप्रकारं सम्भवति । तद्यथा__विधेयाविमर्शः,
प्रक्रमभेदः, क्रमभेदः, पौनरुक्त्यं, वाचाच्यावचनं चेति ।
दुःश्रवत्वमपि वृत्तस्य शब्दानौचित्यमेव, तस्याप्यनुप्रासादेरिव रसानु-
गुण्येन प्रवृत्तेरिष्टत्वात् । केवलं वाचकत्वाश्रयमेतन्न भवतीति न तत्तुल्य-
कक्ष्यतयोपात्तम् ।
एतस्य च विवक्षितरसादिप्रतीतिविघ्रविधायित्वं नाम सामान्यलक्षणम् ।
अन्तरङगबहिरङग्रभावश्चानयोः साक्षात् पारभ्पर्येण च रसभङग्रहेतुत्वादिष्टः ।
त एते विधेयाविमर्शादयो दोषा इत्युच्यन्ते । तानिदानीमखिलान् खला
इव व्याख्यास्यामः ।
मुग्धः किं किमसभ्य एष भजते मात्सर्यमौनं नु किं
पृष्टो न प्रतिवक्ति यः किल जनस्तत्रेति सम्भावयेत ।
छात्राभ्यर्थनया ततोऽद्य सहसैवोत्सृज्य मार्गं सतां
पौरोभाग्यमभाग्यभाजनजनासेव्यं मयाङग्रीकृतम् ॥ 1 ॥
स्वकृतिष्वयन्त्रितः कथमनुशिष्यादन्यमयमिति न वाच्यम् ।
वारयति भिषगपथ्यादितान् स्वयमाचरन्नपि तत् ॥ 2 ॥ इति ।
तत्र विधेयाविमर्शो यथा__
‘संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः
सर्वस्यैव स जातिमात्रनियतो हेवाकलेशः किल ।
इत्याशाद्विरदक्षयाम्वुदघटाबन्धेऽप्यसंरब्?ध्वान्
योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसारी ॥’
अत्र ह्मसंरब्धवानिति नञ्समासस्तावदनुपपन्नः । तस्य हि पर्युदास
एव विषयः, तत्रैव विशेषणत्वान्नञः सुबन्तेनोतृतरपदेन सम्बन्धोपपत्तेः ।
तदुक्तम__
‘प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥’ इति ।
यथा__
‘जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥’
न प्रसज्?यप्रतिषेधः तस्य ?तद्विपरीतत्वात् । तदुक्तम्__
‘अप्राधान्य विधिर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥ ‘इति ।
यथा__
‘नवजलधरः सन्नद्धोऽयं न ट्टप्तनिशाचरः
सुरधनुरिदं दूराक्टष्टं न तस्य शरासनम् ।
अयमपि पदुर्धारासारो न बाणपरम्परा
कनकनिकषस्त्रिग्धा विद्युत् प्रिया न ममोर्वशी ॥’
इह च पर्युदासाश्रयणमसङगतम् अर्थस्यायुक्तत्वप्रसङगात् । संरब्धव-
त्प्रतिषेधो ह्मत्राभिमतः नासंरब्धवद्धिधिः, तत्रैव क्रियांशप्रतिषेधावगतौ नञः
क्रियाभिसम्बन्धोपपत्तेः। न चासौ प्रतीयतेः गुणीभूतसंरम्भनिषेधस्यार्था-
न्तरस्यैव संरब्धवत्सट्टशस्य विधौ प्रतीतेः,न च तत्प्रतीतौ विवक्षितार्थ-
सिद्धिः काचित् । तत्सिद्धिपक्षे च समासानुपपत्तिः, नञर्थस्य विधीय-
मानतया प्राधान्यादुत्तरपदार्थस्य चानूद्यमानतया तद्विपर्ययात् । समासे
च सति अस्य विध्यनुवादभावस्यास्तमयप्रसङग्रात् । यत्र तु विपर्ययस्तत्र
समासो भवत्येव । यथा__
‘काव्यार्थतत्त्वावगमो न वृद्धाराधनं विना ।
अनिष्टवान् राजसूयं कःस्वर्गं मुख्यमश्नुते ॥’ इति ।
क्रियाकर्त्रंशभागर्थो वाक्येऽपोह्मो नञा यदि ।
क्रियांश एवापोह्मः स्यान्नेष्टवानितिवत् तदा ॥ 3 ॥
अकुम्भकार इतिवद् वृत्तौ तु स्याद् विपर्ययः।
इत्येष नियमोऽर्थस्य शब्दशक्तिस्वभावतः ॥ 4 ॥
इत्यन्तरश्लोकौ ।
तत्रापि केचिद्व्यामोहान्न समासमाद्रियन्ते । यथा__
‘ननु साधु कृतं प्रजासृजा शशिकान्तेषु मनो न कुर्वता ।
न हि चेतनतामवाप्य ते विरमेयुर्गलितेन केवलम् ॥’
यथा वा__
‘गृहीतं येनासीः परिभवभयान्नोचितमपि’ इति ।
ननु ‘अश्राद्धभोजी’ त्यत्र प्रसज्यप्रतिषेधेऽपि यथा समास इष्यते तद्वदि-
हापि भविष्यति, संरब्धवन्निषेधश्च प्रतिपत्स्यते न असंरब्धवद्विधिरिति
प्रसज्यप्रतिषेध एवायमस्तु किं पर्युदासाश्रयणेन । नैवं शङ्क्यम् , यतो न
तावदत्र तन्नः श्राद्धेनोत्तरपदार्थेनाभिसम्बन्धः कश्चित् प्रतीयते, अपि तु
विशेष्यतया प्राधान्येन तदभोज्यर्थेनैव । तत्रापि कर्त्रंश एव प्रधानम् , न
क्रियांशः । श्चाद्धभोजनशीलो ह्मतः कर्ता प्रतीयते न तदभेजनमात्रम् , कर्त्तरि
णिनेर्विधानात् ।

ततस्तदभिसम्बन्ध एव शाब्दो न क्रियाभिसम्बन्धः । स हि सामर्थ्या-
दवसीयते, तदुपादानमन्तरेण कर्तृत्वानुपपत्तेः । तच्छ्रवणमात्रविप्रलम्भ-
कृतश्चायं प्रसज्यप्रतिषेधभ्रमः, न पुनराञ्जस्येन तत्र तद्रूपता नाम काचित्
सम्भवति । सा हि वाक्यादेवासीयते न वृत्तेः, तयोः सिद्धसाध्यार्थ-
निष्ठतया भिन्नार्थत्वादिति भवितव्यमेव तत्र समासेन । एवमसूर्यंपश्यादि-
ष्वपि द्रश्टव्यम् । इह तु प्रतिषेधस्य प्राधान्यविवक्षा, न विधेः । तत् कोऽव-
काशः समासस्य । यथा__
भुङेक्त सदा श्राद्धमयं पशंश्चोपतापयेदित्ययथार्थमेव ।
सम्यक् स्वभावोऽवगतोऽस्य यावन्न श्राद्धभोजी न परोपतापी ॥’ हत्यत्र ।
अत्र हि प्रतीयमानसत्तादिक्रियासमन्वयो नञर्थस्य प्राधान्येन प्रतीयते ।
न तु तद्विशिष्टस्योत्तरपदार्थस्य विधिरित्येव एव प्रसज्यप्रतिषेधविषयो
युक्तो नान्यः अन्यथात्रापि समासवैशसोपगमप्रसङग्र पूर्ववत् दुर्निवारः
स्याद् विशेषाभावात् ।
तस्मादस्य नञो विधेयार्थनिष्ठतया प्रधानस्यानूद्यमानार्थपरतया तद्विप-
रीतवृत्तिना संरब्धवत्पदेन सदाचारनिरतस्येव वतितेन त्तेर्विद्वदिभर्नेष्यत
एवेति स्थितम् ।
नञर्थस्य विधेयत्वे निषेध्यस्य विपर्यये ।
समासो नेष्यतेऽर्थस्य विपर्यासप्रसङगतः ॥ 5 ॥
इति सङ्ग्रहश्लोकः ।
किञ्च योऽसावित्यत्र यदः केवलस्यैव प्रयोगोऽनुपपन्नः । यत्र यत्त-
दोरेकतरनिर्देशेनोपक्रमस्तत्र तत्प्रयवमर्शिना तदितरेणोपसंहारो न्याय्यः
तयोरप्यनुवाद्यविधेयार्थत्वेनेष्टत्वात् तयोश्च परस्परापेक्षया नित्यत्वात् ।
अत एवाहुः_‘यत्तदो?र्नित्यमभिसम्बन्ध’ इति । स चायमनयोरुपक्रमोपसंहारो
द्विविधः शाब्दश्चार्थश्चेति । तत्रोभयोरुपादाने सति शाब्दः। यथा_
‘यदुवाच न तन्मिथ्या यद् ददौ न जहार तत् ।’
यथा च__
‘स दुर्मतिः श्रेयसि यस्य नादरःस पूज्यकर्मा सुहृदां श्रृणोति यः।’ इति ।
एकतरस्योपादाने सति आर्थः, तदितरस्य अर्थसामर्थ्योनाक्षेपात् ।
तत्र तदः केवलस्योपादाने सत्यार्थस्त्रिविधः प्रसिद्धानुभूतप्रकान्तवस्तु-
विषयतयोपकल्पितन्निधिना यदा तस्याभिसम्बन्धात् ।
तत्र प्रसिद्धार्थ-विषयो यथा__
‘द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥’
?Bअनुभूतविषयो यथा-‘ते लोचने प्रतिदिशं विधुरे क्षिपन्त’ति । यथा__
‘तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत् स्मितं का सुधा
सा ट्टष्टिर्यदि हारितं कुवलयैस्ताश्चेद्गिरो धिङ् मधु ।
सा चेत् कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रमहे
यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥’
प्रक्रान्तविषयो यथा__
‘कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥’
केचित् पुनरुपात्तवस्तुविषयतयोपकल्पितयोर्द्वयोरप्याक्षेपादस्य चतुर्थ-
मपि प्रकारमिच्छन्ति । यथा__
‘ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पस्यते तु मम कोऽपि समानधर्मा
कालो ह्मयं ? निरवधिर्विपुला च पृथ्वी ॥’
अत्र स कोऽप्युत्पत्सयते यं प्रति यत्नो मे सफलीभविष्यतीत्युभयोरपि
तयोरर्थादाक्षेपः ।
यश्चैकवाक्ये कर्तृत्वेनोक्तो यश्चेदमादिभिः ।
तच्छब्देन परामर्शो न तयोरुपपद्यते ॥ 6 ॥
यतोऽध्यक्षायमाणोऽर्थः स तेभ्यः प्रतिपद्यते ।
न चासौ तत्परामर्शसहिष्णुरसमन्वयात् ॥ 7 ॥
तद्यथा__
‘स वः शशिकलामौलिस्तादात्म्?योपकल्पताम् ।’
‘द्वैतबुद्धिमपास्येमां सा हि सर्वापदां पदम् ॥’
अत्रैवेमाम्तियत्रैतददसोः प्रयोगे तयोरष्येतदेवोदाहरणं द्रष्टव्यम् । अत्र
चैकात्म्यायेति एषा हि विपदां पदमिति च पाठौ पठितव्यौ ।
यदः पुनरार्थो द्विप्रकारः सम्भवति प्रक्रान्तवस्तुकल्पिततत्कर्मादि-
विषयेण तदा तस्याभिसम्बन्धात् । यथा ‘यं सर्वशैला’ इत्यादौ ‘स हिमा-
त्नयोऽस्ती’ति । यथा च ‘आत्मा जानति, यत् पापं माता जानाति यत्
पिता’ इत्यादौ तदात्मा जानातीत्यर्थावगतेः ।
‘त् तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥’
इत्यादौ च यद्यपि तदो द्विरुपादानं सकृच्च यदः तथापि तत्र तथोक्त-
सम्बन्धद्वैविध्यानतिवृत्तिः । तथा हि यदः प्रक्रंस्यमानविषयेण तदपीत्यनेन
तदामिसम्बन्धाच्छाब्दः । यत्तदित्यस्य तु प्रसिद्धतेजोनिष्टतयोपकल्पितेन
यदाऽभिसम्बन्धादार्थः ।
एवञ्च योऽयमिह ‘योऽसावि’त्यत्र यदः केवलस्यैव प्रयोगः स केना-
भिसम्बध्यताम् , न ह्मत्र मुक्तके तदभिसम्बन्धसहः प्रकान्तः कश्चिदर्थः
सम्भवति यदभिसम्बन्धोऽयं परिकल्प्येत । न च प्रकंस्यमानाम्बिकाकेसरि-
विषयोपकल्पितेन तदाऽस्याभिसम्बन्धः सम्भवी; तदुपादान एव तत्सम्बन्ध-
प्रतीतिदर्शनात् । इतरथा ‘यत्कोपाग्रौ शलभतां लेभे कामः शिवोऽवता’-
दित्यत्रापि शिवविषयतयोपकल्पितेन तदा तत्सम्बन्धप्रतीतौ सङगतार्थतैव
स्याद् इत्ययुक्त एवायं यदः प्रयोगः ।
‘मीलितं यदभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् ।
उद्यता जयिनि कामिमीमुखे तेन साहसमनुष्ठितं पुनः ॥’
इत्यत्र तु पादयोः प्रमादजः पौर्वापर्यविपर्यय एवायुक्तो द्रष्टव्यः, न यदो
यथोक्तविषयातिक्रमः ।

ननु केनेभुक्तं यदः केवलस्यैवात्र प्रयोगो न तद इति यावता तद-
भिन्नार्थोऽत्रादश्शब्दः प्रयुक्त एवासाविति । अतश्च तदपेक्षया वाक्यार्थ-
विश्रान्तेर्ज कश्चिदुक्तदोषावकाशः । साधो ! दुराशैषा । तस्य तदभिन्नार्थत्वा-
सिद्धेः । तत्सिद्धौ हि प्रतीतेर्निराकाङक्षतैव स्यात् ,न तु विवादः, यथा__‘न
केवलं योमहतोऽपभाषते श्रृणोति तस्मादपि यः स पापभाग्’ इत्यत्र ।
किञ्च तदभिन्नार्थत्वेऽस्योपगम्यमाने
‘असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तारामातुरट्टष्टिवीक्षितो बसन्तकालो हनुमानिवागतः ॥
इत्यत्र मुक्तके यच्छब्दपरामर्शापेक्षा प्रसज्येत, तस्य यथोक्तवस्तुविषय-
त्वासम्भावात् ।
‘यस्य प्रकोपशिखिना परिदीपितोऽभूदुत्फुल्लाकिंशुकतरुप्रतिमो मनोभूः ।
योऽसौ जगत्रयलयस्थितिसर्गहेतुः पायात् स वः शशिकलाकलितावतंसः ॥’
इत्यत्र च तच्?छब्दपरामर्शस्य पौनरुक्त्यं स्यात् ।
कथं तर्हि यत्तदोर्विषये कविभिरिदमेतददःपुभृतयः शब्दः प्रयुक्ताः,
प्रयुज्यन्ते च । न च ह्मसति पर्यायत्वे तस्मिन्नेवार्थे पादन्तरप्रयोगमा-
द्रियन्ते स्वस्थचेतस इति प्रयोगप्रवाहप्रामाण्यादेषां तदभिन्नार्थता
परिकल्प्यते । न हि तमन्तरेण शब्दानां तदतदर्थनिश्चयनिबन्धनमन्यत्
किञ्चिदुत्पश्यामः ।
अत्रोच्यते । उक्तनयेन तावत् तेषां तदभिन्नार्थतानुपपत्तिरुपपादितैव ।
यदि तु तामपह्नुत्य गतानुगतिकया__
‘योऽविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवद्वपुः ।
स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥’
इति ‘स्मृतिभूस्मृरिपूर्विहितो येनासो रक्षतात् क्षताद् युष्मान्’ इत्यादि-
प्रयोगदर्शनमात्रानुरोधेन तेषां सा परिकल्प्यते तर्हि यथादर्शनं व्यवहिता-
नामेव, अव्यवहितत्वे वा भिन्नविभक्तिकानामेव सा पिरकल्प्यताम् । हतरथा
तु तेषां तत्परिकल्पनमन्याय्यमेव ।
तत्र हि प्रत्युत सा तयोस्तदितरपरामर्शव्यपेक्षा सुतरामुन्मज्जति यथा
‘यदेतच्चन्द्रान्तजलदलवलीलां वितनुते तदाचष्टे लोकः’ इति ‘सोऽयं वटः
श्याम इति प्रकाशस्त्वया पुरस्तादुपयाचितो य’ इत्यादौ च ।
न चासाविहावश्यं प्रयोक्तव्यः सन् प्रयुक्त इति तदवस्य एव
दोषावकाशः ।
तस्मादपेतप्रक्रान्तसम्बन्धसहायस्यास्य यदोऽनुपपन्नप्रकंस्यमानवस्तु-
समन्वयस्यैकाकिनः सार्थभ्रष्टस्येव तपस्विनः पथिकस्य सन्मार्गोपदेशिकं
तच्छब्दध्याहारमेवैकं शरणमन्तरेण नापरोऽभिमतार्थसङगमोपायःसम्भवति ।
स चैवंविधेषु सूक्तिरत्नेषु कलङकायमानो मनागपि न काव्यमाणिक्य-
वैकटिकानां सचेतसां मनांस्यावर्जयितुमलमिति ।

   अनुक्त्वैव परामृश्यं प्रयोगो यत्र यत्तदोः ।  
   निरन्तरः पुनस्तत्र तयोरुर्न दुष्यति ॥ 8 ॥  
   तयोर्निरन्तरोपात्तेष्व्दिमेतददस्सु  च ।  

तयोस्तेषां च नापेक्षा तेष्वसत्स्विव शाम्यति ॥ 9 ॥
उदाहरणजातं यत् तत्साङकर्यसमुदभवम् ।
तस्य दिडचात्रमस्माभिरुक्तं विस्तरभीरुभिः ॥ 10 ॥
इति सङग्रहश्लोकाः ।
अपि च अम्बिकाकेसरीत्यत्र षष्ठीसमासो नोपपद्यते, यतः सर्वेषामेव
समासानां तावत् प्रायेण विशेषणविशेष्याभिधायिपदोपरचितशरीत्वं नाम
स च विशेषणविशेष्यभावो द्विधैव सम्भवति__समानाधिकरणो
व्यधिकरणश्चेति । तत्राद्यः कर्मधारयस्य विषयः यत्र तु द्वे बहूनि वा
पदान्यन्यस्य पदस्यार्थे विशेषणभावं भजन्ते सा बहुव्रीहेः सरणिः । तत्रैव यदा सङखचयाः प्रतिषेधस्य च विशेषणभावो भवेत् तदा स द्विगोर्नञ्स-
मासस्य च विषयः ।
द्वितीयः प्रकारः कारकाणां सम्बन्धस्य च विशेषणत्वाद् बहुविधः ।
य तत्पुरुषस्य पन्थाः । तत्रापि यदाऽव्यार्थस्य विशेष्यता स्यात् तदाऽ-
सावव्ययीभावस्य मार्गः ।
तदेवमेषां समासानां विशेषणविशेष्योभयांशसंस्पर्शित्वेऽपि यदा
विशेषणांशः स्वाश्रयोत्कर्षाधानमुखेन वाक्यार्थचमत्कारकारणतया प्रा-
धान्येन विवक्षितो विधेयधुरामधिरोहेद् इतरस्त्वनूद्यमानकल्पतया न्यग्भाव-
मेव भजेत् तदासौ न वृत्तेर्विषयो भवितुमर्हति । तस्यां हि स प्रधाने-
तरभावस्तयोरस्तमियादित्युक्तम् । तचैतद्विशेषणमेकमनेकं वाऽस्तु न
तयोर्विशेषः कश्चित् ।
ननु च विशेषणत्वमवच्छेदकत्वाद् गुणभावः विधेयत्वं च विवक्षित-
त्वात् प्राधान्यं तत्कथमनयोर्भावाभावयोरिवान्योन्यं विरोधादेकत्र समावेश
उपपद्यते येनैकत्र नियमेन समासो निषिध्येत अन्यत्र चोपकल्प्येत ।
नैष दोषः । विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णादिवत् । न चेह
सव्तुत्वमुभयोः सम्भवति, एकस्यैव वास्तवत्वाद् । अन्यस्य च वैवक्षिक-
त्वेन विपर्ययात् । न य वस्त्ववस्तुनोर्विरोधः । न हि सत्यहस्तिनः
कल्पनाकेसरिणश्च कश्चिदन्योन्यं ? विरोधमवगच्छति । फलभेदस्त्?वनयो- र्निर्विवाद एव ।
एकस्य हि सकलजगद्ग्रम्यं शाब्दिकैकविषयः पदार्थसम्बन्धमात्रम् ।
उपरस्य पुनः कतिपयसहृदयसंवेदनीयः सन् कवीनामेव गोचरो वाक्यार्थ- चमत्कारातिशय इति ।
अत्र क्रमेणोदाहरणानि तत्र कर्मधारये यथा__
‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।
भृयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङगच नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥’
इत्यत्र विगलितकबरीभारत्वमलसलसद्वाहुत्वं चांसवपुषोर्विशेषणे
रतेरुद्दीपनविभावतापादनेन वाक्यार्थस्य कामपि कमनीयतामावहत इति
प्राधान्येन विवक्षितत्वाद् न ताभ्यां सह समासे कविना न्यग्भावं गमिते ।
यथा चात्रैव तत्कालकान्तिद्विगुणितसुरतप्रतित्वं हेतुभावगर्भे विशेषणं
शौरेरुचिताचरणलक्षणमतिशयमादधद्विधेयतया प्राधान्येन विवक्षितमिति
न तेन सह समासे निमीलितम् ।
पदमेकमनेकं वा यद्विधेयार्थतां गतम् । न तत्समासमन्येन न चाप्यन्योन्यमर्हति ॥ 11 ॥
तत्रैकमुदाहृतमेव ।
अनेकं यथा__
‘अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य वक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥’ इति ।
यथा च__
‘विद्वान् दारसखः परं परिणतो नीवारमुष्टिपचः
सत्यज्ञाननिधिर्दधत् प्रहरणं होमार्जुनीहेतुतः ।
यथा वा__
‘राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्षणकरजक्षुण्णादसृग् वक्षसः ॥’
यथा च__
‘हे हस्त ! दक्षिण ! मृतस्य शिशोर्द्विजस्य
जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य पाणिरसि निर्भरगर्भखिन्न-
सीताविवासनपटोः करुणा कुतस्ते ॥’
‘एवमङगराज ! सेनापते ! राजवल्लभ ! द्रोणापहासिन् ! रक्ष भीमाद्
दुश्शासनम्’ इत्यादौ द्रष्टव्यम् ।
विध्यनुवादभावोऽपि वक्ष्यमाणनयेन विशेषणविशेष्यभावतुल्यफल
इति तत्रापि तद्वदेव समासाभावोऽवगन्तव्यः । यथा__
‘चापाचार्यस्त्रिपुरविजयी कार्त्तिकेयो विजेयः
शस्त्रव्यस्यतः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाण्ठचाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥’ इति ।
प्रत्युदाहरणं यथा__
‘तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वञ्च संहितममोघसायकं व्याजहार हरसनुसन्निभः ॥’ इति ।
तत्राप्यमोघमाशुगमिति युक्तः पाठः ।
यथा वा__
‘स्त्रस्तान्नितम्बादवलम्बमाना पुनः पुनः केसरपुष्पकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥’ इति ।
अत्र मौर्वी द्वितीयामिति युक्तः पाठः । न चैवं वृत्तभङगाशङका
कार्या । तस्य श्रव्यतामात्रलक्षणत्वात् । तदपेक्षयैव वसन्ततिलकादाविव
गुर्वन्ततानियमसरू सकर्ण्कैरत्राप्यनाट्टतत्वात् । अत एव यमकानुप्रास-
योरिव वृत्तस्यापि शब्दलङकारत्वमुगतमस्माभिः ।
यथा च__
‘कारणगुणानुवृत्त्या द्वौ ज्ञाने तपसि चातिशयमाप्तौ ।
व्यासः पाराशर्यः स च रामो जामदग्न्य इह ॥’ इति ।
ननु यदा विशेषणविशेष्योर्विध्यनुवादभावो नाभिमतस्तदा स्वरूपमा-
?त्रविवक्षायां नीलोत्पलादिवदत्रापि समासः प्रसज्येत, न चैष्यत इत्यत्र
हेतुर्वाच्यः ।
उच्यते । पाराशर्यत्वाद्यसाधारणविशेषणसामर्थ्यावसिता व्यासादय
इति तेषां पर्यायरूपत्वात् प्रयोग एव तावदनुपपन्नः किं पुनः समास इति
पर्यायत्वमात्रं तदभावे हेतुर्नान्यः ।
तद्यथा__
‘शशाङकशेखरः शम्भुः पह्मजन्मा पितामहः’ इत्यत्र ।
एवं तक्षकसर्प इत्यादाववगन्तव्यम् ।
लोहितस्तक्षक इति समासोऽत्रापि नेष्यते ।
लौहित्स्य विधावुक्तन्यायात्तस्यास्याप्रवृत्तितः ॥ 12 ॥
स्वरूपमात्रस्योक्तौ तु लौहित्याव्यभिचारतः ।
उष्णोऽग्रिरितिवत् पक्षो न चास्त्?यन्यस्तदत्यये ॥ 13 ॥
इत्यन्तरश्लोकौ ।
बहुव्रीहौ यथा__
येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः ।
वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥’ इति ।
अत्र विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेषणतयोपात्तं
तत्तत्कर्मकर्त्तुर्मुनेरतिदुष्करकारितया कमपि प्रभावप्रकर्षमवद्योतयति
विन्ध्यस्य प्रतिदिवससमुछ्रायाच्छदितार्कनप्रकाशस्य जगदान्ध्यविधायित्वात् ,
पयोनिधेरगाधत्वादपारत्वाच्च, वातापेः स्वमायापरिग्रहग्रस्तसमस्तलोक-
त्वात् । ततस्तत् प्राधान्येन विवक्षितमिति न तैः सह समासे निर्जीवी-
कृतम् ।
प्रत्युदाहरणं यथा__
‘यः स्थलीकृतविन्ध्याद्रिराचान्तापारवारिधिः ।
यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥’ इति ।
केचित् पुनः अनयोरुदाहरणप्रत्युदाहरणयोरर्थस्योत्कर्षापकर्षंप्रती-
तिभेदो प कश्चिदुपलक्ष्यत इति मन्यन्ते । त हदं प्रष्टव्याः । किं सर्वेष्वेव
समासेष्वियं तदप्रतीतिः उत बहुव्रीहावेवायं शाप इति । तत्र यदि सर्वेष्वे-
वेत्यभ्युमगमस्तर्हि सहृदयाः पृच्छचन्तां वयं तावन्महदन्तरमेतयोः प्रतीत्योः
पश्यामः ।
?अथ बहुव्रीहोवेवेत्युच्यते, तदयुक्तम् । न हि प्रीतिभेदहेतौ प्रतीति-
सामर्थ्ये सति अकस्मात् तदसम्भवो भणितुं न्याय्यः । एवं हि क्षित्यादिसा-
मग्रचामविकलायामङगरादिकार्योत्पादाभावाभ्युपगमोऽपि प्रसज्येतेति सर्वत्रै-
इह वा प्रतीतिवैचित्यं स्पष्ठतरमवधारयतु मतिमान् , यत्र विध्यनुवाद-
भावाभिधित्सयैव पादार्थानामुपनिबन्धस्तत्रापि हि प्रधानेतरभावविवक्षानिब-
न्धनौ समासस्य भावाभावावुपगतावेव । यथा__
“सूर्याचन्द्रमसौ यस्य माताहपितामहौ ।
स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥’’ इति ।

अत्र हि त्रैलोक्यैकालङकारभूतौ चराचरस्य जगतो जीविता-
यमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्माताहपितामहभावा
विहितस्ततोऽस्य पुरूरवसस्तौ लोकोत्तराभिजनजनितं महिमानं कामपि
काष्ठामधिरोपयतः यतो विशेषणविशेष्यभावाभिहितेनैव न्यायेनात्राप्य-
नूद्यमानगतोऽतिशयो वि?शेयमानाकारसङ्रकमणक्रमेण तत्सम्बन्धिनः
पर्यवस्यति । तयोर्हि स्वरूपमात्रं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्था-
त्कर्षलक्षणमविलक्षणमिति प्राधान्येन विवक्षितत्वात् न तौ ताभ्यां सह
समासे म्लानिमानीतौ ।
इह च__
“जनको जनको यस्या या तातस्योचिता वधूः ।
आर्यस्य गृहिणी या च स्तुतिस्तस्यास्त्रपास्पदम्’’ ॥ इ?ति ।
द्विगौ यथा ।
‘‘उपपन्नं ननु शिवं सप्तस्वङेगषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥’’ हति ।
अत्र हि संख्यायाः संख्येयेष्वङेगषु निरवशेष्ताप्रतिपत्तिफलमतिशय-
मादधानायाः प्राधान्येन विवक्षा । तत एव हि तेषु द्विविधापत्प्रतीकारेण
राज्ञः शिवोपपर्त्ति परिपुष्यतीति तस्यास्यतैः सह समासो न? विहितः ।
यथा च__
“निग्रहात् स्वसुराप्तांनां वधाच्च धनदानुजः ॥
रामेण निहितं मेने पदं दशसु मूर्धसु ॥’’ इति ।
प्रत्युदारणमेतदेवोदाहरणं कृतसमासवैशसं द्रष्टव्यम् ।
नञ्समासोदाहरणं यथा-“नवजलधरः सन्नद्धोऽयं न ट्टप्तनिशाचरः ।
इत्येवमादि पूर्वमेवोपदशितमुपपादितं च । प्रत्युदाहरणं यथा__
“वाचवैचित्र्यरचनाचारु वाचस्पतेरपि ।
दुर्वचं वचनं तेन बहु तत्राप्यनुक्तवान् ॥’’ इति ।
“देशाः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे
यद् रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥‘‘इति ।
अत्र रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं, तत्
तस्य दारुणतातिरेकात्मकमुत्कर्षं रौद्ररसपरिपोषपर्यवसायिनं समर्पयति,
तस्य निरतिशयशौर्यशालित्वेन घोरतरनैर्घृण्यनिघ्रतया च प्रसिद्धेः । तेन
तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतम् ।
कर्त्रादीनां कारकाणामनेकेषां समशीर्षिकया विशेषणभावेन यदुपादानं
स द्वन्द्वस्य विषय इति तत्स्वरूपनिरूपणावसर एव तेषां प्राधान्यमप्रा-
धान्यं चामिधास्यत इति न तदुदाहरणमिह प्रदर्शितम् । नापि विध्यनु-
वादभावोदाहरणं, तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समान-
वृत्तान्तत्वोपपादनात् ।
प्रत्युदाहरणं यथा__‘यस्यावमत्य गुरुदत्तमिदं कुठारं डिम्भोऽपि
राम इति नाम पदस्य हर्त्ता’ इति ।
कर्मणो यथा__
“कृतककुपितैर्बाष्पाम्भोतिभः सदैन्यविलोकितै-
र्वनमसि गता यस्य प्रीत्या धृतापि तथाम्बया ।
नवजलधरश्यामाः पश्यन् दिशो भवतीं विना
कठिनहृदयो जीवत्येव प्रिये ! स तव प्रियः ॥’’ हति ।
अत्र वनमिति यद् गमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन
विशेषणं तत् तस्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमाहिलादुर्लभं दुष्कर-
कारित्वं नामोत्कर्षमर्पयति वनवासदुःखस्यातिकष्ठत्वात् । स चोत्कर्षो
रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं, न गतेत्यनेन सह समासे
तिरस्कृताम् ।
यथा च__‘गुर्वर्थमर्थी श्रुतपारट्टश्वा रघोः सकाशादनवाप्य कामम्’
इ?ति । अत्र गुर्वर्थमित्यर्थिनोऽर्थनक्रियामुखेन यद्विशेषणं, तत् तस्य
श्लाध्यतातिशयाधानद्वारेण रघोरुत्साहपरिषोषे पर्यवस्व्यतीति प्राधान्येन
विवक्षितत्वान्नार्थिना सह समासे सतामवमततां गमितम् ।
यथा च__“संवर्धितानां सुतनिर्विशेषम्’’ इति ।
प्रत्युदाहरणं यथा__‘प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनः’ इति,
‘तमभ्यनन्दत् प्रथामप्रबोधितः प्रजेश्वरः शासनहारिणा हरेः’ इति, ‘यथा-
कामार्चितार्थिनाम्’ इति,यथाकालप्रबोधिनामिति च ।
करणस्य यथा__
“आलोकप्रार्गं सहसा व्रजन्त्या कयाचिदुद्धेष्टनवान्तमाल्यः ।
बद्धुं न सम्भावित एव तावत् करेण रुद्धोऽपि न केशहस्तः ॥’’ इति ।
अत्र करेणेति यत् केशहस्तकर्मकस्य सम्भावितस्य रोधनस्य करण-
भावेन विशेषणं तत् तस्याः कस्याश्चिद्रभसोत्सुक्यप्रहर्षप्रकर्षरूपमति-
शयं प्रतिपादयद् वधूवरयो रूपसम्पदमसाधारणीमभिव्यनक्ति यदवलोकन-
व्यवधानाधायिनीं तावतीमपि कालकलां विध्रायमानां मन्यमा
नयानया सततं स्वाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतः ।
तेन तत् प्रधानमिति न रुद्ध इत्यनेन सह समासेऽस्तुपनीतम् ।
यथा च__
“कर्त्तुमक्षमया मानं प्राणोशः प्रत्यभेदि यत् ।
सोऽयं सखि ! स्वहस्तेन समाकृष्टत्सवयानलः ॥’’
प्रत्युदाहरणं यथा__
“धात्रा स्वहस्तलिखितानि ललाटपट्टे । को वाऽक्षराणि परिमार्जयितुं समर्थः ॥’’ इति
सम्प्रदानस्य यथा__
“पौलस्त्यः स्वयमेव याचत इति श्रुत्वा मनो मोदते
देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद् वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रू?हि रसातलत्रिदिवयोर्निर्जित्य किं दीयताम् ॥’’ इति ।

द्विजेभ्ये इति निर्जयपूर्वकस्य भार्गवकर्तृकस्य महीदानस्य यम्प्र-
दानत्वेन यद्विशेषणपं तन्मह्माः पात्रसात्करणोत्कर्षमादधद् भार्गवशौर्यातिर-
कस्य व्यञ्जनेन दशाननस्य कोपोद्दीपनर्यवसायि भवतीति प्राधान्येन विव-
क्षितत्वान्न दत्तेत्यनेन सह समासे कविना विच्छायीकृतम् । प्रत्युदाहरणमे- तदेव पूर्ववद् द्रष्टव्यम् ।
अपादानस्य यथा__
‘ताताज्जन्म वपुर्विलङिघत?वियत् क्रौर्यं कृतान्ताधिकं
शक्तिः कृत्स्नसुरोष्मशमनी नीता तथोच्चैःपदम् ।
सर्वं वत्स ! तवातिशायि निधनं क्षुद्रात्तु यत् तापसात्
तेनाहं त्रपया शुचा च विवशः कष्टां दशामागतः ॥’
अत्र तातादिति क्षुद्रात्तु यत्तापसादिति च ये जन्मनिधनयोरपादा-
नभावेन विशेषणे ते तातस्य पितामहपितामहतया महामुनेः पुलस्तय-
स्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्षापकर्षद्वारेण
तद्वतः कुम्भकर्णस्य कामपि कुलीनतां शौर्यापकर्षं चादधाने भ्रातुर्दशान-
नस्य शोकत्रपापावकेन्धनभावेन परिणमत इति प्राधान्येन विवक्षिते न
ताभ्यां सह समासे गुणतां गमिते ।
प्रत्युदाहरणं यथा__अत्रैव ‘क्रौर्यं कृतान्ताधिकम्’ इति । यथा च
‘आसमुद्रक्षितीशानामिति’ ।
अधिकरणस्य यथा__
‘तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या ॥’
प्रयान्ति तामशुगतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः । इति ।
अत्र रणाश्वमेध इति यत् पशुताया यशस्विकर्तृकोपागमकर्मभूताया
अधिकरणभावेन ? विशेषणं तत् तस्या इतरपशुवैलक्षण्यलक्षणमतिशयमा-
दधानं शूराणां समरमणोत्साहमुद्दीपयतीति प्राधान्येन विवक्षितत्वान्न
तया सह समासे समशीर्षिकतां नीतम् ।
यथा च__
‘शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥’ इति ।
प्रत्युदाहरणं यथा__
रेणुरक्तविलिप्ताङगो विकृतो व्रणभूषितः ।
कदा दुष्प्रत्यभिज्ञानो भवेयं रणाभूषितः ॥ इति ।
सम्बन्धस्य यथा__
‘द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।’ इति ।
अत्र कपालिन इति यत् समागमप्रार्थनायाः शेचनीयातागतौ
हेतुत्वेनोपात्तायाः सम्बधिद्वारेण विशेषणं तत् तस्यास्तत्र यत् सामर्थ्यं
तत् सुतरामुपबृंहयति तस्य सकलामङगलनिलयतया निन्दिताचारनि-
रततया च दर्शनसम्भाषणादीनामपि प्रतिषिद्धत्?वात् । अतो विधेयार्थ-
तया प्राधान्येन विवक्षितं विशेष्येण सह समासे न प्रत्यवरीकृतम् ।
यथा च__
‘जनको जनको यस्या या यातास्योचिता वधुः ।
आर्यस्य गृहिणी या च स्तुतिस्तस्यास्त्रपास्पदम् ॥’ इति ।
‘स्कन्दस्य मातुः पयसां रसज्ञ’ इति । ‘कः क्षमेत तवानुज’ इति ।

प्रत्युदाहरणं यथा__
‘पृथ्वि ! स्थिरीभव भुजङगम ! धारयैनां
त्वं कूर्मराज ! तदिदं द्वितयं दधीयाः ।
दिक्तुञ्जराः ! कुरुत तत्रितये दिधीर्षां
देवः करोति हरकार्मुकमाततज्यम् ॥’ इति ।
यत्र हि हरसन्बन्धनिबन्धनः कार्मुकस्य गौरवातिरेको दुरारोपता चेति
तस्यैव विधेयतया प्राधान्यं न कार्मुकमात्रस्य, तच्च तस्य वृत्तावन्तरितं,
तेन ‘देवो धनुः पुररिपोर्विदधात्यधिज्यं मित्यत्र युक्तः पाठः। अस्मिंश्च पाठे
कल्पितार्थस्याप्रयुक्तस्य वाततज्?यस्य प्रयोगपरि?हारद् गुणान्तरलाभ इति ।
यथा__
‘किं लोभेन विलङिघतः स भरतो येनैतदेवं कृतं
मात्रा, स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥’
अत्र ह्मार्यस्यानुज इ?ति तातस्य कलत्रमित्युचितं वक्तुम् ।
यथा च__
‘जयाश यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः॥’ इति ।
अत्र हरेः सम्बन्धेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्राधान्य-
विवक्षा न चक्रमात्रस्य, तच्च तस्य समासेऽस्तमुपगतम् । विभक्त्यन्वय-
व्यतिरेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव
चैषां विशेष्ये प्रमाणान्तरसिद्धस्वोत्कर्षाधायिनां शाब्दे गुणभावेऽप्यार्थां
प्राधान्यं विशेष्याणां च शब्दे प्राधान्ये आर्थो गुणभावोऽनूद्यमानत्वा-
दित्युक्तम् । वक्ष्यते च ।
एतदाचार्यस्याप्यनुमतमेवेति ज्ञायते, यदयं ‘वृषल्याः कामुको’
‘दास्याः पुत्र’इत्यादौ कामुकादेराक्रोशादपकर्षप्रतिपत्तये समासेऽपि
विभक्तेरलुकमाह । कुतस्तर्हि दासीपुत्र इत्यतः पुत्रस्याक्रोशावगतिः, न ह्मत्र
विभक्तिरस्ति । को वा मन्यते । स्वरूपमात्रमेवातः पुत्रस्य प्रतीयते नाक्रोश
इति सूत्राराम्भप्रयोजनमेव चिन्त्यम् ।
समासे च विभक्तिलोपान्नोत्कर्षापकर्षावगतिरिति न तन्निबन्धना
रसादिप्रतीतिरिति तदात्मनः काव्यस्यायं विधेयाविमर्शो दोषतयोक्त इति ।

अव्यीभावे यथा__
‘सा दयितस्य समीपेऽवस्थातुं नापि चलितुमुत्सहते ।
ह्रीसाध्वसरसविवशा स्पृशति दशं कामपि नवोढा ॥’ इति
अत्र दयितस्येति सम्बन्धितया यत् समीपस्य विशेषणं तत् तस्य
सुकृतशतलभ्यतालक्षणमुत्कर्षमादधद्रतेरुहीपने पर्यवस्यतीति प्राधान्येन वि-
वक्षितत्वान्नोपदयितमितिवत् समीपार्थेनाव्येन सह समासेऽवसादं गमितम् ।

प्रत्युदाहरणं यथा__
‘मध्येष्योम त्रिशङकोः शतमखविमुखः स्वर्गसर्गं चकार’ । इति
अत्र हि भगवतो विश्वामित्रस्य तपसः प्रभाव्रकर्षप्रतिपादनं प्रस्तुतम् ।
स च तस्य निरुपकरणस्य सतः शून्ये व्योम्रि स्वर्गसर्गसामर्थ्येनैव प्रति-
पादितो भवतीति व्योमैव प्राधान्येन विवक्षितं, न तन्मध्यम् । तेनाविषय
एवायं समासः कविना कृत इति मध्ये व्योन्न इति युक्तः पाठः ।
बनेनैव न्यायेन कृत्तद्धित्तवृत्त्योरपि प्रतिषेधोऽवगन्तव्यः तत्राप्युक्तक्र-
मेण प्राधान्येतरभावविवक्षाविशेषात् ।
तयोरुदाहरणं यथा__
‘यः सर्वं कषति खलो, बिभर्त्ति यः कुक्षिमेव सत्यतिथौ ।
यश्च विधुं तुदति सदा, शीर्षच्देदं त्रयोऽपि तेऽर्हन्ति ॥’ इति ।
अत्र सर्वदीनां कषणादिषु कर्ममावेन विशेषणतयोपात्तानामुत्कर्षा-
धायितया प्राधान्ये विवक्षितत्वान्न तैः सह वृत्तौ न्यग्भावो विहितः ।
सर्वार्थस्य भुवनाभयदानदीक्षाब्द्धकक्ष्याणां बोधिसत्त्वानामपि चरितस्य
तदन्तःपातित्वात् । खलाः खलु दम्भादिदोषारोपेण तदपि तेषां कषन्त्येव ।
कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनिधानत्वाद्विनश्वरत्वाच्च । विधोश्च
सकर्षमादधतां प्राधान्येन विवक्षा षीर्षच्छेदस्य च शारीरेषु निग्रहेषु तदति-
रिक्तस्यान्यस्य निग्रहस्याऽसम्भवात् ।
यथा ‘रामोऽस्मि सर्वं सहे’ सहे ‘अचितकारित्वं प्रति किमुच्यते राम-
भद्रस्य दशारथस्य हि प्रसूतिरसावि’ ति च ।
प्रत्ययोत्पत्तौ पुनर्न्यग्भूतसर्वादिकर्मभावः कषणादिषु कर्त्रंश एवोन्मग्र-
तया प्रकाशते न कर्मांशः तत्रैव प्रत्ययोत्पत्तेः ।
वाक्ये तु यद्यपि शब्दवृत्तौ क्रियायाः प्रधाभावेन प्रतीतिस्तथापि
तत्रान्यो विवक्षाकृतः साधनानामपि स प्रतीसयत एव ।
न चैकस्मिन्नेव वाक्ये द्वयोः साध्याधनयोर्युगपत्?प्रधानभावोऽनुपपन्न
इति शक्यं व?क्तुं शब्दार्थसामर्थ्यविवक्षाकृतानां त्रयाणमप्येकस्यैव विवक्षा-
कृतस्य प्राधान्यस्य बलीयस्तया तयोः समशीर्षिकाभावात् ।
तदिदमत्र तापर्त्यं यत् कथञ्चिदपि प्रधानतया विवक्षितं न तन्नियमेने-
तरेण सह समासमर्हतीति । हतरत्तु विशेष्यमन्यद् वाऽस्तु न तत्र नियमः ।
तेन द्वन्द्वपदानां सरूपाणां च पदानामर्थस्यान्योन्यं विशेषणविशेष्यभ-
वाभवेऽपि यदा प्रत्येकं क्रियाभिसम्बन्धोपगमलक्षणं प्राधान्यं विवक्ष्यते तदा
तेषामपि समास एकशेषश्च नेष्यत एव । यथा__
‘किमञ्जनेनायतलोचनाया हारेण किं पीनपयोधरायाः ।
पर्याप्तमेतन्ननु मण्डनं ते रूपं च कान्तिश्च विदग्धता च ॥’
इत्यत्र रूपादीनां प्रत्येकं मण्डनक्रियाभिसम्बन्धकृतं प्राधान्यं रत्युही-
पनर्यवसायि विवक्षितमिति न तत् तेषां समासेऽवसादितम् । यथा च__
‘यान्त्या मुहुर्वलितकन्धरमाननं त-
दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽसूतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ॥’ इति ।
एकशेषे यथा__
‘प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
कश्च कश्च ?
अर्जुनश्च स कर्णारिः स च क्रूरो वृकोदरः ॥’
प्रत्युदाहरणमेतदेव कृतैकशेषमवगन्तव्यम् ।
यत्र पुनरेष प्रधानेतरभावो न विवक्षितः स्वरूपमात्रप्रतिपत्तिफलश्च
विशेषणविशेष्यभावस्तत्र समासासमासयोः कामचारः । यथा__
‘स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्रेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥
इत्यत्र तु भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च
सम्बन्धित्वेप यद्विशेषणं न ततस्तेषामुत्कर्षयोगः कश्चिद्विवक्षितः, अपि
तु तत्सम्बन्धप्रतीतिमात्रम् । तच्च व्रतमिव भवदरिवधूस्तनद्वितयमित्यतः
समासादपि तुल्यमेव । यथा चात्रैव रिपुस्त्रीणामिति रिपुसम्बन्धमात्रप्र- तीतिः स्त्रीणामिति ।
विनोत्कर्षापकर्षभ्यां स्वदन्तेऽर्था न जातुचित् ।
तदर्थमेव कवयोऽलङकारान् पर्युपासते ॥ 14 ॥
तौ विधेयानुवाद्यत्वविवक्षैकनिबन्धनौ
सा समासेऽस्तमायातीत्यसकृत् प्रतिपादितम् ॥ 15 ॥
अत एव च वैदर्भीरीतिरेकैव शस्यते ।
यतः समाससंस्पर्शस्तत्र नैवोपपद्यते ॥ 16 ॥
सम्बन्धमात्रमर्थानां समासो ह्मवबोधयेत् ।
नोत्कर्षमपकर्षं वा__
यथा__
‘ऊर्ध्वाक्षितापगलितेन्दुसुधालवाक्तजीवत्कपालचयमुक्तमहाट्टहास-
सन्त्रस्तमुग्धगिरिजावलिताङगसङगहृष्टं वपुर्जयति हारि पिनाकपाणेः ॥’ हति ।
वाक्यात्तूभयमप्यदः ॥ 17 ॥
यथा__
‘न्यक्कारो ह्मयमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग धिक् शक्रजितं प्रबोधितवाता किं कुम्?भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥’ इति ।
किन्तु प्रवृत्तिरेस्य रसाभिव्यक्त्यपेक्षया ।
शान्तश्रृङगारकरुणानन्तरेण प्रशस्यते ॥ 18 ॥
यतः समासो वृत्तं च वृत्तयः काकवस्तथा ।
वाचिकाभिनयात्मत्वाद्रसाभिव्यक्तिहेतवः ॥ 19 ॥
स चार्धान्तावधिः कार्यो नाधिको गद्यताप्तितः ।
गद्ये हि वृत्तवेकल्यं न्यूना तद्वचक्तिहेतुता ॥ 20 ॥
यथानन्तरोक्त उदाहरणे ।
तस्याच्छिः पदार्थानां सम्बन्धश्चेत् परस्परम् ।
न विच्छेदोऽन्तरा कार्यो रसभङगकरो हि सः ॥ 21 ॥

                      इत्यन्तरश्लोकाः ।  

यथा__
‘माद्यद्दिग्गजगण्डभित्तिकषणैर्भग्रस्त्रवच्चन्दनः’ । हति
अत्र हि क्षुण्ण्द्रवच्चन्दन हति युक्तः पाठः । क्वाप्ययमपि पाठो ट्टश्यते ।
विधेयत्वं चैतत् प्राधान्योपलक्षणमव्यभिचारात् । ततश्च प्रधाना-
विमर्शोपि दोषतयावगन्तव्यः । यथा__
‘स्नेहं सामपिबति कज्जलमादधाति
सर्वान् गुणान् दहति पात्रमधः करोति ।
योऽयं कृशानुकणसञ्चयसम्भृतात्मा
दीपः प्रकाशयति तत् तमसो महत्त्वम् ॥’
अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा नान्यासामिति तासां
तत्समशीषिकया निर्देशो दोष एव । स हि तत्र शत्रादिभिरेव वक्तुं न्या-
य्यो नाख्यातेन । यथा__
‘बिभ्राणः शक्तिमाशु प्रशमितबलवत्ताराकौर्जित्यगुर्वीं
कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्रगकान्तावभासम् ।
आधेयादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानां
बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥’ हत्यादौ ।
सर्वासां पुनः प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः । यथा__
‘सौधादुद्विजते, त्यजत्युपवनं, द्वेष्टि प्रभार्मन्दर्वी
द्वारान्नश्यति चित्रकेलिसदसो, वेषं विषं मन्यते ।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले
सङक्लोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥’
यत्रैककर्तृऽकानेका प्राधान्येतरभाक् क्रिया ।
तत्राख्यातेन वाच्याद्या शत्राद्यैरपरा पुनः ॥ 22 ॥
इत्यन्तरश्र्लोकः ।
ननु च, आचार्येणैवानिष्टनिवृत्त्यर्थं समासविधौ बहुलग्रहणं कृतम् ।
अतस्तेनैव क्वचिदेबंविधे विषये वृत्तिर्न भविष्यति, अन्यत्र भविष्यतीति कि-
मनेन प्रधानेतरभावपरिकल्पनप्रयासेन ?0??0
सत्यम् । किन्तु समासविधेः प्रधानेतरभावविवक्षानिबन्धनस्य च
तत्प्रतिषेधस्योत्सर्गापवादभावेनावस्थानं द्रष्टव्यमित्यपवादस्यैवायं विषयो
भवितुमर्हति न बहुलग्रहणस्य ।
यत्र तु क्वचिदुत्सर्गापवादयोर्विषयव्यवस्यथानियमः कथञ्चनापि कर्तुम-

शक्यः स स्य विषयो वेदितव्यः । अन्यथा गोदः कम्बलद इत्यत्राण-
भावोऽपि तद्विषयः स्यात् । इह तूक्तक्रमेण नियमः शक्यक्रिय एवेति नायं
बहुलग्रहणस्य विषयः कल्पनीयः ।
न चायमर्थः स्वमनोषिकयैवास्माभिरुपकल्पितः किन्तर्हि, आचार्य-
स्याप्यभिमत एव, यदयं समासविधौ समर्थग्रहणं कृतवान् । केवलं तदभि-
प्रायमनवगच्छदिभर्व्याख्यातृभिः सापेक्षतादिदोषान्तरव्यावृत्तिपरतयैव तद्
व्याख्यातं न पुनरेतद्वचावृत्तिपरतयापीति तदभिप्रायमेवास्माभिः प्रकट-
यदिभस्तस्योहार्थत्वमपि प्रतिपादितं न त्वपूर्वं किञ्चित् ।
विधेयोद्देश्यभावोऽयं वक्तुं वृत्त्या न पार्यते ।
यत् तेनानभिधानं वा समर्थग्रहणं च वा ॥ 23 ॥
कारणद्वयमेवेष्टं बहुलग्रहणं न तु ।
अशक्यनियमो ह्मर्थो विषयस्तस्य नेतरः ॥ 24 ॥
इति सङ्ग्रहश्लोकौ ।
यद्वा कवीनामेवैष विषयो न खण्डिकोपाध्यायानामित्यनवगततद-
भिप्रायैस्तैरुपेक्षितमेतत् । ते हि स्वमग्रऽप्यनासादितसाहित्यसुधारसास्वा-
दचमत्?काराः शुष्कशब्दव्युत्पत्तिमात्रोपजनिताभिमानदुर्विग्धा विधिधभिधा-
नाधानेद्धारा अभिधेयप्रतीतिवैचित्र्यविवेककौशलशालीनाः लक्षणमस्तीत्येव-
रसाभिव्यक्तिविध्रभूतमपर?मपि बहुतरमवकरप्रायं प्रयुञ्जत इति रसास्वादानु-
गुणप्रयोगावहितचेतसां कवीनामेव तच्चिन्तोचिता नान्येषाम् । अस्माभिस्तु
वितस्तरतस्तत् पुरस्तादभिधास्यते ।
प्रकरणकाक्कादिसखो यस्यार्थोऽर्थान्तरं प्रकाशयति ।
इष्टर्थभङगभीतेः शब्दो न समासमर्हति सः ॥ 25 ॥
इति सङग्रहार्या ।
इत्थमवस्थिते समासासमासयोर्विषयविभागप्रतिनियमे सति यदेतदिहा-
म्बिकायाः केसरिणो विशेषणभावेनोपादानं तत् किमि?तरकेसरिव्यावृत्ति-
मात्रफलम् आहोस्विदसमासे वा समासादितभगवतीपार्पणप्रसादोप-
नतविश्वातिशायिशौर्यातिरेकप्रतिपादनप्रयोजनम् ।
तत्र प्रथमपक्षे तस्य केसरिणो विवक्षितजातिमात्रविहितहेवाकातिरिक्त-
चमत्कारातिशयाभावोऽन्यकेसरिण इव निर्निबन्धन एव स्यात् ।
न हि इतरेभ्योऽन्यसम्बन्धिग्यः स्वतन्त्रेभ्योऽपि वा व्यावृत्तस्य तस्या-
म्बिकासम्बन्धमात्रात् तस्याः कामप्युपकारकणिकामनासादयत एवाकस्मात्
तधाविधचमत्काराविर्भावः सम्भावते ।

अथ जात्यन्तरावच्छिन्ने विशिष्ट एव केसरी केसरिशब्देनात्राभिमतः
यत्र स्वजीतिनियत एव स ताट्टशोऽतिशयो येनासावितरकेसरिसाधार-
णेन हेवाकलवेन लज्जमानः करकीटजलदशकलावज्ञया दिग्द्विरदप्रलय-
ययोदषटाबन्धेऽपि न संरभते, यथा ‘मोहन्तु हरेर्विङगमो हन्तु’ हत्यत्र
विहङगमशब्देन विहङगमविशेषो गरुडजात्यवच्दिन्नः कश्चिदेव प्रत्याय्यते ।
तत्र च यथा भगवतो हरेरतिशयाधानापेक्षयैव सम्बन्धमात्राद् विशे-
षणभावस्तद्वदिहापि भविष्यतीत्युच्यते, तदप्ययुक्तम् । भगवत्यनुग्रह-
यम्पत्सम्पर्कशून्यस्य कस्यचिदेवंविधस्य केसरिविशेषस्य भगवतीवाह-
नत्वेनाप्रसिद्धेः ।
न चायमर्थः कवेरभिप्रेतः । तथा ह्मसमाभियोगाभिमुखीभ्रूतभगवत्सर-
स्वतीप्रसादासादितासामान्यवैदुष्यातिशयशलिनमात्मानं मन्यमानस्य कस्य-
चित् कवेरिमनीषिमात्रसमुचितेनाचरितेन लज्जमानस्य महतोऽपि तज्जा-
तीयानगणयतो निजगुणगरिमोहामकण्डूविनोदसुसमाश्रयमनुरूपमपरमप-
श्यतः सहृदपचूडामणिमानिनो विमनसः समानधर्माणमप्रकृतमेवाम्बिकाकेस-
रिणं पुरस्कृत्य स्वाभिप्रायाविष्करणमेतत् ।
न च तत्र स्वभाविक एव कवेर्विद्याचमत्कारतिशयलाभोऽभिमतः अपि
तु सरस्वतीपादप्रसादजनित एव । तस्याश्चात्मनश्चेभयोरपि बिम्बप्रतिबिम्ब-
भावेनाम्बिकाकेसरिणोरुपादानात् ।
द्वितीयपक्षपरिग्रहे पुनर्न भवितव्यमेव समासेन, अम्बिकाया विशेष-
णभूताया उत्साहपरिपोषपर्यवसायिकेसरिचमत्कारातिशयाधाननिबन्धनभा-
येन विधेयतया प्राधान्येन विवक्षितत्वात् समासे चास्य विध्यनुवादभावस्य
निमज्जनादित्युक्तमेव ।
ननु च यदि विशेषणस्य विवक्षितत्वे सति विशेष्यस्य कोऽपि चमत्कारः
समुन्मिषति स च तस्य समासेऽस्तुपयातीत्युच्यते तर्हि समासादसौ न
प्राप्नोति, हष्यते च कैश्चित् ततोऽपीति वृत्तिवाक्ययोस्तस्य यदेतदुदयास्त-
मयपरिकल्पनं तदयुक्तमेव ।
उच्यते । उदयास्तमययोर्यत् तावदर्थस्य वैचित्र्यं तदुपदर्शितमेव प्राक् ।
यत् पुनः समासचमत्काराभावप्राप्तिप्रसञ्जनं,न तच्चोद्यम्, हष्टं हि नामप्राप्तचा
चोद्यते । न चास्माभिरसौ समासादीष्यते, वाक्यादेव तत्सिद्धेरिष्टत्वात्
यैस्तु ततोऽपीष्यते तेषां वृत्तिवाक्ययोर्नुनमिदमर्थर्थवैचित्र्यं न प्रतिभातमेव ।
या पुनरेषां वृत्तेरपि चमत्कारतिशयावगतिः यथा__
“मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम्’’ इति ।
अत्रार्यानुज इत्यतस्तातकलत्रमित्यतश्च सा भ्रान्तिरेवाभिमानिकी
शुक्तिरजप्रतीतिवत् । परमार्थतस्तु सा व्याख्यावक्यादेव तेषां, न समा-
सात्, केवलं तत्रारोपितेत्युदयास्तमयपरिकल्पनमुपपन्नमेवेति सिद्धम् ।
तस्मादेवमत्र पाठः कर्तव्यः__
“उद्योगः करिकीटमेघशकलोहेशेन सिंहस्य यः
सर्वस्यैव स जातिमात्रनियतो हेवाकलेशः किल ।
इत्याशद्विरदक्षयाम्बुदघटाबन्धेऽपि नोद्युक्तवान्
योऽसौ कुत्र चमत्कृतेरतिशयं गौर्या हरिर्यातु सः ॥’’ इति ।
इत्यञ्चोक्तदोषत्रयावकाशः प्रतिविहतो भवति ।
यद्यपि च योऽसावित्यत्र प्रतिपादिताभिसम्बन्धक्रममेकमेव तदमुपादाय
सोऽयमिपि पाठे विनपर्यासिते सत्येकवाक्यतायां न यथोक्तयत्तदभिसम्बन्ध- दोषावकाशः, यथा__
“तस्य प्रायातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोदुम् ।
वसुन्धरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥’’ इत्यत्र ।
तथापि तत्रार्थस्य चमत्कारातिशयो न्यग्भवत्येव।स हि भिन्नवाक्यताया-
मेव सहृदयैकसंवेद्यः समुन्मिषतीति तदनुगुणार्थोऽयमेव पाठः श्रेयानिति ।
यत्रोत्?कर्षोऽपकर्षो वा विशेष्यस्य विशेषणात् ।
तदेव वा विधेयं स्यात् समासस्तत्र नेष्यते ॥ 26 ॥
अन्यत्र त्वर्थसम्बन्धमात्रे वक्तुमभीप्सिते ।
कामचारस्तदर्थं हि समर्थग्रहणं मतम् ॥ 27 ॥
न तु सापेक्षताद्यन्यदोषजातनिवृत्तये ।
पित्रोः स्वतेव वन्धत्वे सा हि न्यायेन सिध्यति ॥ 28 ॥
इति सङ्ग्रहश्लोकाः
काव्यकाञ्चनकषाश्ममानितना कुन्तकेन निजकाव्यलक्ष्मणि ।
यस्य सर्वनिरवद्यतोदिता श्लोक एष स निदर्शितो मया ॥ 29 ॥
प्रकमभेदोऽपि शब्दानौचित्यमेव । स हि यथप्रक्रममेकरसप्रवृत्तायाः
प्रतिपत्तृप्रतीतेरुत्खात इव परिस्खलनखेददायी रसभङगाय पर्यवस्यति । किञ्च
सर्वत्रैव शब्दार्थव्यवहारे विद्वदिभरपि लौकिकक्रमोऽनुसर्त्तव्यः । लोकश्च मा
भूद्रसास्वादप्रतीतेः परिम्लानतेति यथाप्रकममेवैनमाद्रियते नान्यथा ।
स चायमनन्तप्रकारः सम्भवति । प्रकृतिप्रत्ययपर्यायाद्दीनां तद्विषय-
भावाभिमतानामानन्त्यात् ।
तत्र प्रकृतिप्रकमभेदो यथा__
“सततमनभिभाषणं मया ते परिपणतं भवतीमनानयन्त्या ।
गतधृतिरवलम्बितुं बतासूननलपनादहं भवत्याः ॥’’
अत्र हि भाषतिलपत्योरुभयोरपि वचनार्थाविशेषेऽपि भाषतिप्र-
योगक्रमेण वस्तु वक्तुमुपक्रान्तं तदा तेनैव निर्वाहः कर्तुमुचितो नेतरेण ।
एवंविधस्य प्रकमाभेदाख्यस्य शब्दौचित्यस्य विध्यनुवादभावप्रकारत्वो-
पगमात् यथा__
“ताला जाअन्ति गुणा जाला दे सहिअएहि घेष्पन्ति ।
रहकिरणाणुग्गहिआइ होन्प्ति कमलाइ कमलाइ ॥’’
यथा च__
“एमेअ जणो तिस्सा देउ कवोलोपमाइ शशिबिम्वम् ।
परमत्थविआरे उण चन्दो चन्दो विअ वराओ ॥’’
अत्र ह्मुत्कर्षमात्रविवक्षया परिकल्पितभेदेऽप्येकस्मिन्नर्थे विधेयानुवाद्य-
विषयेण एकेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार
एवायमिति मन्तव्यम् । केवलं पर्यायप्रकमभेदनिवृत्तये शशिबिम्बमित्यत्र
चन्दमिणमिति पाठः परिणमयितव्यः ।
यथा__
“एवप्तुक्तो मन्त्रिमुख्यै रावणः प्रत्यभाषत ।’’ इति ।
तेन प्रत्यवोचत इति अत्र पाठो युक्तः ।
यथा च__
“नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता ।
कुलाङगनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ॥’’ इति ।
अत्र हि ‘गता निशापी’ति युक्तः पाठः ।
न चैवं शब्दपुनरुक्तिदोषप्रसङगः-यथान्ये मन्यन्ते ‘नैकं पदं द्विः प्रयोज्यं
प्रायेण’ ( वामनस्य का0 सू0 5।1।1 ) इति, तयोर्भिन्नविषयत्वात् । यथोद्देशं
हि प्रतिनिर्देशोऽस्य विषयः । उद्देश्यप्रतिनिर्देश्यभावाभावविषयस्तु शब्द-
पुनरुक्तिदोष इति कुतस्तस्य प्रसङगः ।
“व्रजतः क्व तात ! वजसीति परिचयगतार्थमम्फुटम् ।
धैर्यमभिनदुदितं शिशुना जननीनिर्भर्त्सनविवृद्धमन्युना ॥’’
इत्यत्र शिशुना व्रजतिरेव प्रयुक्तो न वजतिः, तत्रैव परिचयगतार्थत्वा-
स्फुटत्वधैर्यभेदत्वसम्भवात् । केवलं शक्तिवैकल्याद्रेफोऽऽनेन नोच्चारि-
त इति प्रत्युदाहरणमेतत् ।
सर्वनामप्रक्रमभेदो यथा__
‘‘ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥’’
अत्र हि भगवन्तं शूलिनं प्रक्रान्तमिदमा परामृश्य तेनैवोक्तरीत्या
तत्परामर्शः कर्तुं युक्तो न तदा तयोर्देवदत्तयज्ञदत्तशव्ययोरिव भिन्नार्यत्वात् ।
न चासौ कृत इति सर्वनामप्रक्रमभेदः ।
न चैवं यत्तदोरिदमेतददसां चाभिन्नार्थत्वेऽप्येतद्दोषविषयत्वप्रसङगः ।
तेषामुक्तप्रकारेण स्वभावतोऽन्योन्यापेक्षसम्बन्धोपपादनात् । तेनेदमादि-
भिस्त्रिभिस्तस्य परामर्शे, न तदेति स्थितम् ।
प्रत्ययप्रकमभेदो यथा__
‘‘रुदता कुत एव सा पुनर्भवता नानुमृतेरवाप्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथाः शरीरिणाम् ॥’’ इति ।
अत्र हि ‘कुत एव तु सानुरोदना’दिति युक्तः पाठः।
यथा च__
“यशेऽधिगन्तुं सुखलिप्सया वा मनुष्यसंखामतिवर्त्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङकमुपैति सिद्धिः ॥’’
हदं चापरमत्र प्रकमभेदानुषङिग दोषान्तरमप्याविर्भवति, योऽयं विकल्पा-
र्थवृत्तेर्वाशब्दस्य समुच्चयार्थस्येव चशब्दस्याविषय एव प्रयोग इति वक्ष्यते ।
तेन ‘यशोऽधिगन्तुं सुखमीहितुं वे’ति युक्तः पाठः ।
‘‘पृथ्वि ! स्थिरा भव भुजङगम ! धारयैनां
त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः ! कुरुत ?तत्रितये दिधीर्षां
देवः करोति हरकार्मुकमाततज्यम् ॥’’
इत्यत्र पृथ्व्यादिविषयः प्रैषलक्षणोऽर्थः कविना वक्तुं प्रकान्तः । तस्य
प्रत्ययभेदेऽपि निर्व्युढत्वात् प्रैषार्थानां पदानामुद्देश्यप्रतिनिर्देश्यभावेनो-
पादानं न कृतमिति नैताट्टशः प्रत्?ययप्रक्रमभेददोषस्य विषयोऽवगन्तव्यः ।

यर्यायप्रकमभेदो यथा__
“महीभूतः पुत्रवतोऽपि ट्टष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङगा ॥’’
इत्यत्र हि पुत्रापत्?यशब्दावेव यर्यायत्वात् प्रक्रमभेदविषयौ, न पुष्पचूत-
शब्दौ, तयोः सामान्यविशेषवचनत्वादित्यपत्यवतोऽपीति गुक्तः पाठः ।
यथा च__
“उदन्वच्छिन्ना भूः स च निधिरपां योजनशतम्’’ इति ।
अत्र हि ‘मिता भूः पत्यापां स च पतिरपां योजनशतम्’ इति युक्तः
पाठः । एवञ्च छिदिक्रियाकर्त्तुरुदन्वत उक्तनयेन विधेयतया प्राधान्यात् समा-
सानुपपत्तिदोषोऽपि परिहृतो भवति ।
यथा वा__
“वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् ।
प्रकृत्या ह्म?मणिः श्रेयान् नालङकारश्च्युतोपलः ॥’’
एवं__
“खमिव जलं जलमिव खं हंस इव शरी शरीव कलहंसः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥’’
इत्यादावपि द्रष्टव्यम् ।
विभक्तिप्रक्रमभेदो यथा__
“धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनस्य तेषु न स्थानमवाप शोकः॥’’
न वायं समुच्चयस्य विषयः । स हि तुल्यकक्ष्यत्वदभिन्नविभक्तिकाने-
कार्थविषयो वेदितव्यः यदुक्तम्__
‘‘तुल्यकक्ष्यतया यत्र पदार्थाःस्युर्विवक्षिताः ।
समुच्चयो विकल्यो वा तत्रेष्टौ दुष्टतान्यथा ॥’’ हति ।
न चात्र तथाविचधोऽर्थस्समस्तीति समुच्चयार्थयोश्चशब्दयोरपि प्रयोगोऽ-
नुपपन्नः । तेनात्र ‘तीव्रेण विद्वेषिभुवागसा च’ ‘विद्वत्सु वीर्यं तनये मघोन’
इति पाठौ विपरिणमयितव्यौ ।
“बभूव भस्मैव सिताङगरागः कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङकः सिंहाजिनस्यैव दुकूलभावः ॥’’
अत्रापि ‘मृगेन्द्रचर्मैव दुकूलमस्यै’ति युक्तः पाठः। अस्मिश्च पाठे
रोचनाङकत्वस्य द्रव्यधर्मत्वाद् दुकूलभावविशेषणत्वानुपपत्तिपरिहाराद् गुणान्तरलाभः ।
उपसर्गप्रकमभेदो यथा__
‘‘विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न एदं नृपश्रियः ॥’’ इति ।
तेन ‘तदुपेतं विजहाति चायति’रिति युक्तः पाठः ।
वचनप्रक्रमभेदो यथा__
‘‘काचित् कीर्णा रजोभि?र्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्षमी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत् कम्पमानाः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥’’
अत्र हि ‘काश्रित् कीर्णा रजोभिर्दिवमनुविदण्धुर्मन्दवक्त्रेन्दुशोभाः?0’ ?0इति युक्तः पाठः ।
यथा च__
‘अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन’ इति ।
अत्र ह्मेकवचनेन भगवतीमेकां सम्बोध्य प्रसादसम्बन्धितया यस्तस्य
बहुतृवनिर्देशः स वचनप्रक्रमभेदो दोषः। तेनात्र भवतीप्रसादेनेति युक्तमः पाठः ।
तिङन्तप्रक्रमभेदो यथा अत्रैव ‘अपरा भूमिवत् कम्पमाना’ हति । अत्र
हि कम्पमापुरित्युचितः पाठः । एकस्याः क्रियायाः प्राधान्याभावादित्युक्तम् ।
कालविशेषप्रक्रमभेदो यथा__
“सस्नुः पयः पपुरनेनिजुरम्बराणि
जक्षुर्विसान्धृ?तविकासिबिसप्रसूनाः ।
सैन्याः श्रियामनुपभोगनिरर्थकत्व-
दोषप्रवादममृन्नगनिन्नगानाम्’’ ॥
अत्र हि स्त्रानादौ यः कालविशेषः प्रक्रान्तः स नेजनादौ भेदं नीत इति
प्रकमभेदा दोषः । तेन
‘‘सस्नु पयांसि पपुरम्बरमानिनेजु-
र्जश्लर्बिसान् धृतविकासिबिसप्रसूनाः ।
सैन्याः श्रियामनुपभोगनिरर्थकत्?व-
दोषं वनेषु सरितां प्रसभं ममार्जुः ॥’’ इति युक्तः पाठः ।
यदि वा दोषोऽयमनुदभावनीय एव । कालविशेषस्य विवक्षमात्रभावि-
तयाऽनवस्थितत्वात् । यदाहुः__
‘परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात् परोक्षस्या-
विवक्षायां लङ् भवत्येव । अजयज्जयन्तो भूतानि’ इति । सतोऽपि चासतो
वापि चाविवक्षा भवति यथा__‘अनुदरा कन्ये’ति ।
अर्थस्य तदतदभावो विवक्षामात्रतो भवेत् ।
यत्र, प्रकमभेदोऽयं न तत्रोदभाव्यते बुधैः ॥ 30 ॥
यथा विशेषकालस्य, शीलादिप्रत्ययेषु च ।
कर्तुश्च फलवत्तायां, तेन ते नोपदशिताः ॥ 31 ॥
इति सङ्ग्रहश्लोकौ-।
कारकशक्तिप्रक्रमभेदो यथा__
‘गाहन्तां महिषा निपानसलिलं शृङैहुस्ताडितं
छायाबद्धकदम्बलं मृगकुलं रोमन्थमभ्यस्यतु ।
विस्त्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥’ इति ।
अत्र हि ‘कुर्वन्त्वस्तभियो वराहततयो मुस्ताक्षतिम्’ इत्युपपन्नः पाठः ।
यथा च__
‘‘कृतवानसि विप्रियं न मे प्रतिकूलं च न ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥’’
अत्रापि ‘न च तेऽहं कृतवत्यसम्मतम्’ इति । यथा च__
‘‘सजलजलधरं नभो विरेजे विहृतिमियाय रुचिस्तडिल्लतानाम् ।
व्यवहितरतिविग्रहैर्वितेन जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥’’
शाब्दः प्रक्रमभेदो यथा__
‘‘चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङगमभूषः॥’’ इति ।
अत्र हि ‘तमपि वल्लभसङग’ इति युक्तः पाठः।
यथा च__
‘‘सस्नुः पयः पुरनेनिजुरम्बराणि
जक्षुर्बिसान् धृतविकासिबिसप्रसूनाः ।’’ इति ।
अत्रापि ‘जक्षुर्बिसं विकचमस्य दधुः प्रसूनम्’ हति युक्तः पाठः ।
अस्मिश्च पाठे बिसशब्दस्य पौनरुक्त्यदोषपरिहाराद् गुणान्तरलाभः ।
यथा च__
‘‘समतया सुवृष्टिविसर्जनैनिंयमनादसतां च नरधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥’’

अत्र हि अनुयातिक्रियाकर्मभावो वरुणास्यार्थः प्रकान्त इति तत्रास्य
ताट्टश एव हेतुरुपादातुं युक्तः । यस्त्वसन्नियमनलक्षणः शाब्दो हेतुरस्यान्ये-
षामिवोपात्तः स प्रक्रमभेदो दोषः तस्याप्युक्तयुक्तया र सभङगपर्यवसायि-
त्वात् । तेनायमत्र पाठः पठितव्यः__‘नियमयन्नसतः स नराधिप’ हति ।
एवञ्च विभक्तिप्रक्रमभेदश्चाब्दश्चोक्तनयनिरस्तसमुच्चयविषयभावः क्रमभेद-
दुष्टश्च परिहृतौ भवतः । एवमन्येऽप्यवगन्तव्याः ।
एषां चान्योन्यासाङकर्याल्लोष्टसञ्चारक्रमेण बहवः प्रकमभेदप्रकाराः
समुदभवन्ति । ते स्वयमेवाभ्यूह्माः । तद्यथा__
“नियता लधुता निरायतेरगरीयान्न पदं नृपश्रियः ॥’’ इति ।
अत्र हि द्वयोः प्रकृतिप्रत्यययोः प्रकमभेदः । तेन ‘न लधुर्जातु पदं
नृपश्रिय’ इति युक्तः पाठः ।
आर्थः प्रक्रमभेदो यथा अनन्तरोदाहरणयोराद्यमाहितविपर्ययम् ।
तद्यथा__
‘‘मत्तता दयितसङगमभूषा भूषयत्यसमसायकलक्ष्मीम् ।
साप्यनूननवयौवनयोगं तद् वपुस्तदपि चारुतरत्वम् ॥’’ हति ।
अत्रापि हि ‘मत्ततां दयितसङगतिरेषा’ इत्युचितः पाठः ।
क्रमप्रकमभेदो यथा__
‘‘तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं ट्टश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्रिमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥’’ इति ।
ननु च प्रकृतिप्रत्ययपर्यायादीनां प्रकान्तानां भेदेऽपि प्रधानभूतस्या-
र्थस्याभेदाच्छब्दमात्रस्य भेदे सति न किञ्चिदेकरसायाः प्रतीतेः परिस्ख-
लनमुपपद्यत इति कथमयं प्रकृत्यादिप्रक्रमभेदो नाम शब्दानौचित्यमित्यु-
क्तम् । यच्यते । सर्व एवायमेवञ्जातीयः प्रक्रमभेदः प्रायेण विध्युनवादभा-
वप्रकार इत्यवगन्तव्यम् । न च तत्राप्यसत्यप्यर्थभेदे शब्दभेदमाद्रियन्ते
वक्तारः । यथा__
‘‘यदधरदलमाश्रितं प्रियाया वदनसरोरुहसाम्यमेति यश्च ।
तदमृतममृतं स इन्दुर्विषमितरत् तमसा समस्तथान्यः ॥’’ इति ।
अस्त्वेवम् । यस्त्वयमन्यः शाब्द आर्थश्चेति द्विविधः प्रक्रमभेद
अक्तः सोऽनुपपन्नः। यतः ‘चारुता वपुरभूषयदासा’मित्यादौ भूषणभूष्य-
भावादिरूपं किमपि वस्तु प्रत्याय्यं वर्त्तते । तच्च शब्दादर्थादुभाभ्यामपि
वा प्रतीयताम् । कस्तत्र प्रक्रमभेदनियमं प्रत्यभिनिवेशः यदेभाभेदाभ्या-
मनौचित्यं स्यात् ।
न हि ।
‘शुचि भूषयति श्रुतंः वपुः प्रशमस्तस्य भवत्यलङ्क्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥’
हत्यादावसत्यपि प्रतीतिपरिस्खलनेऽनौचित्यसंस्पर्शः कश्चिदुपलभ्यत
इति तदेतदविदितशब्दार्थव्यापरीविभागस्यैवाभिधानम् ।

अन्यो हि शब्दव्यापारविषयोऽर्थोऽन्यश्चार्थव्यापारविषयः। तत्र यः
प्राधान्येन प्रतिपादयितुमिष्यते स शब्ददव्?यापारविषयः, तस्य साक्षात्
तदभिसम्बन्धसम्भवात् । अन्यस्त्वर्थव्यापारविषयो विपर्ययात् । एवञ्च
सति यदयं भूषणभूष्यभावः प्राधान्येन वक्तुं प्रक्रम्यते तदा शब्दव्यापार-
स्यैवासौ विषयो भवितुमर्हति नार्थव्यापारस्येति विषयविभागे व्यवस्थिते
सति तयोर्यदन्यथाकरणं तदेकरसायाः प्रतीतेः परिस्खलनहेतुर्भवत्यानौ-
चित्यमित्युक्तं यथा पूर्वोक्त उदाहरणद्वये ।
यत् पुनः ‘शुचि भूषयती’त्यादौ सत्यपि प्रक्रमभेददोषे नानौचित्य-
संस्पर्शः कशित् संवेद्यत इत्युक्तं, तत्र ‘वपुषः शुचि भूषणं श्रुत’मिति, ‘तां
मदस्तमपि वल्लभसङग’ इति चोभयत्रापि पाठविपर्यासात् प्रक्रमभेद-
दोषद्वये परिहृते सत्यनयोः प्रतीत्योर्याट्टशमौचित्यमनौचित्यं वाविर्भवति
तत्प्रतीतिपरमार्थविदः सहृदया एव विवेक्तुमलमिति त एव प्रष्टव्याः
नान्ये । ते ह्मुभयत्रापि सा ट्टश्यमेवावगच्छन्ति ।
यदि वा शुचि भूषयतीत्यादौ भूषणभूष्यभावपश्रृङखलायां यथासम्भवं
भङीगभणितिवैचित्र्यमात्रं कवेर्विवक्षितं, तच्च निर्व्यूढमिति तदपहृतचेतसां
प्रतीतिस्खलनखेदानवधारणम् ।
अथ यदि शब्दव्यापारविषयस्यैवार्थस्य प्राधान्यं नान्यस्येत्युच्यते,
तर्हि ‘चक्राभिघातप्रसभे’त्यादौ ‘लावण्यकान्पिरिपूरितदिङ्मुखेऽस्मिन्’
इत्यदौ ‘कृतककुपितैर्बाष्पाष्पाम्भोभि’रित्यादौ च वस्तुमात्रस्यालङकारस्य
रसादेश्च प्रतीयमानस्यार्थस्यावाच्यस्यैवाप्राधान्यं स्यात् । तच्चानिष्टं
भवति । तयोरग्रिधूमयोरिव गम्यगमकभावेनावस्थानात् प्रधानेतरभ-
वस्यावश्याभ्युपगम्यत्वात् ।
अत्रोच्यते । प्रतीत्यपेक्षमनयोः प्राधान्यमप्राधान्यं चावस्थाप्यते ।
वाच्यस्य प्रतीतिः शब्दव्यापरविषय इति तस्य प्राधान्यमवस्थाप्यते ।
प्रतीयमानस्य पुनन्यथेति तस्याप्राधान्यमेवेत्युक्तम् ।
यत् पुनर्वस्तुमात्रादीनां प्राधान्यमवस्थाप्यते, तद्वाच्यप्रतीयमानयो-
र्धूमाग्न्योरिव गम्यगमकभावापेक्षयैव न प्रतीत्यपेक्षया । तदपेक्षयैव च
क्कचिद्वाच्यस्याप्यप्राधान्यमुच्यते ।
ननु यदि प्रतीतेरेकरसप्रसृतायाः परिस्खलनहेतुत्वादयं प्रक्रमभेददो-
जोऽनौचित्यमित्युच्यते तदिदानीमेकस्मिन्नेव वस्तुनि निर्षर्ण्यमाने महा-
कवीनां या विचित्रा भङगीभणितयोऽलङकासंज्ञास्तास्वप्ययं प्रक्रमभेददोषो
दुर्निषेधः स्याद् विशेषाभावात् ।
मैवं वोचः ।
तत्राप्यस्माभिरयमिष्यत एव ।
कथं तर्डि वैरस्यं न प्रकाशते ।
तस्याङगनावदनेन्दुबिम्बगतस्येव कलङकलेशस्य स्वादिष्टाभिरलङकारप-
रम्पराभिरभिभूयमानत्वाद्वाक्यभेदाच्चेति । यदुक्तम्__
‘‘एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङक ॥’’ इति ।

न तु तावतासौ नास्त्येवेति शक्यं कल्पयितुं तत्सदभावस्य
न्यायसिद्धत्वात् । न हि भङीगभणितिविषमे वर्त्मनि प्रवर्त्तमाना प्रतीति-
रपरिस्खलितक्रमेणैव प्रवर्त्तत इत्युपपद्यते कारणभेदस्यापि कार्यभेदहेतु-
त्वोपगमात् । तदेतदुक्तं भवति सर्व एव भणितिप्रकारः प्रकमभेदस्य
विषय इति ।
स च विविच्यमानो वाच्यप्रतीयमानार्थनिष्ठ एव पर्यवस्यतीति
शाब्दश्चार्थश्चेति तथैव द्वैविध्येन प्रतिपादितः ।
वस्तुप्रकमभेदो यथा
‘इयं गेहे’ इति । अत्र प्रथमे पादे साक्षान्नायिकायाः स्वरूपं वर्ण-
यितुमुपक्रम्योत्तरत्र भेदेन तदीयस्पर्शादिवर्णनं निर्वाहितमिति वस्तुप्रकम-
भेदो दोषः ।
ननूभयत्राप्यर्थतस्तत्स्वरूपप्रकर्षप्रतीतिः पर्यवस्यतीति कथमयं दोषः ।
सत्यम् । स्यादेवं यद्यावुभयत्राप्यसञ्जातपरिस्खलनखेदवैरस्या सत्येकर-
सैव पर्यवस्येत् । न चोक्तनयेनैतत्सम्भवतीति दौषतयैवायमुक्तः । तेन मुखं
पूर्णश्चन्द्रो वपुरमृतवर्त्तिर्नयनयोः’ इत्येवमयं पाठः परिणमयितव्यः ।
यथा च__
“तरङगय ट्टशोऽङगने ! पततु चित्रमिन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विदुमः श्वेतताम् ।
क्षणं वपुरपावृणु स्पुशतु काञ्चनं कालिका-
मुदञ्चच मनाङ् मुखं भवतु च द्विचन्द्रं नभः ॥’’
त्र्त्रत्र . उपमानानामिन्दीवरादीनां निन्दाद्वारेण नयनादीनामुपमेयानां
यत् तेभ्योऽतिशयलक्षणं वस्तु वक्तुं प्रकान्तं तस्यानिर्वाहात् भेदः मुख-
चन्द्रयोः साट्टश्यप्रतिपादनमात्रपर्यवसानात् । तदेवमत्र पाठः पठितव्यः__
‘उदञ्चय मनाङ्मुखं भवतु लक्ष्यलक्ष्मा शरी’ ।
यथा च__
‘तद् वक्त्रं यदि मुद्रिता शशिकथा तच्चेत् स्मितं का सुधा
सा चेत् कान्तिरतन्त्रमेव कनकं ताश्चेद् गिरो धिङ् मधु ।
सा ट्टष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥’ इति ।
अत्राप्युपमानादुपमेयस्यातिरेकलक्षणं यद्वस्तु वक्ततुमिष्टं तस्यार्थान्तर-
न्यासमुखेन प्रक्रमभेदः वस्तुसर्गपौनरुक्त्यास्य साट्टश्यमात्रपर्यसनादिति ।
तेन ‘पुनरुक्तवस्तुविमुख’ इत्यत्र युक्तः पाठः । दोषोऽयमेवञ्जातीयकानामर्थ-
दोषाणामन्येषामप्युपलक्षणम् ।
तेन ‘तपेन वर्षा’ इत्याद्यपाकृतं भवति ।
ननु कर्तृप्रक्रमभेदोऽपीह कस्मान्न प्रदर्शितः ।
असम्भवादिति ब्रूमः । यस्तु क्वचित् कविभिः प्रयुज्यमानो ट्टश्यते स
कर्तृव्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं प्रकमभेदभ्रमो भवतां
तयोभिंन्नलक्षणत्वात् ।
यदा__

“प्रकृतमपि यत्र हित्वा कर्तृत्वंय युष्मदस्मदर्थस्य ।
चारुत्वायान्यत्रारोप्येत गुणः स तु न दोषः ॥’’
“यश्च यथा प्रकान्तोऽभिधातुमर्थस्तथैव तस्य न चेत् ।
निर्वाहः स प्रक्रमभेदो न प्रकरणावसितः ॥’’ इति ।
भिन्नलक्षणत्वान्न प्रकमभेददोषाशङकावकाशः ।
तत्र युष्मदर्थस्य यथा ‘यथाह सप्तमो वैकुण्ठावतार’ हति । अत्र हि
यथात्थ त्वमिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारुत्वाय ततोऽन्य-
त्रारोप्यैवमुक्तम् । दाशरर्थि रामं प्रति हि कस्यचित् समक्षमियमुक्तिः ।
अस्मदर्थस्य यथा__‘नाभिवादनप्रसाद्यो रेणुकापुत्रः, गरीयान् हि
गुरुधनुर्भङगापराध’ इति । अत्रापि हि नाभिवादनप्रसाद्योऽस्मीति वक्तव्ये
पूर्ववच्चारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः ।
यथा च__
“अयं जनः प्रष्टुमनास्तपोधने ! न चेद् रहस्यं प्रतिवक्तुमर्हसि’’ इति ।
अत्राप्यहं प्रष्टुमना इति वक्तव्येऽस्मदर्थस्य कर्तृत्वमन्त्रारोप्यैवमुक्तम् ।
द्विविधो ह्मन्यशब्दार्थश्चेतनाचेतनभेदात् । तत्र चेतनेऽन्यत्रारोपो हि
दर्शित एव । अचेतने तु यथा__
“चापाचार्यः पशुपतिरसौ कार्त्तिकेयो विजेयो
बाणव्यस्तः सदनमुदधिर्भुरियं हन्तकारः ।
अस्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लजते चन्द्रहासः ॥’’ इति ।
अत्र हि त्वं रेणुकाकण्ठबाधां कृतवानिति त्वया बद्धस्पर्धोऽहं लज्ज
इति वक्तव्ये वारुत्वाय युष्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयो-
रारोप्यैवमुक्तम् ।
यथा च__
“भो लङेकश्वर ! दीयतां जनकजा रामः स्वयं याचते
कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किञ्चिद् गतम् ।
नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङिकलः
पत्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः ॥’’ इति ।
अत्रापि हि ‘अहं न सदिष्य’ इति वक्तव्ये पर्वूवदस्मदर्थस्य कर्त्तृत्वम-
चेतने पत्रिणि समारोप्यैवमुक्तम्
क्रमभेदो यथा__
“तीर्थे तदीये गजसेतुबन्धात् प्रतीपगामुत्तरतोऽस्य गङगाम् ।’’ इति ।
अत्र हि परामर्शनीयमर्थमनुक्त्वैव यस्तस्य सर्वनामपरामर्शः स क्रम-
भेदो दोषः । तम्य हि प्रकान्तोऽर्थो विषय इष्टो न प्रक्रंस्यमानः तस्य स्मृति-
परामर्शरूपत्वात् । स्मृतेश्चानुभूत एवार्थो विषयो नानुभविष्यमाणः। अत्र च
प्रतीतिमात्रमनुभवोऽभिमतो नेन्द्रियविषयभावः । न स गङगार्थः प्रतीतपूर्वो,
यः परामृश्येतेति परामर्शप्रक्रमभेदो दोषः ।
ननु पदार्थबुद्धावुपक्रम एवायमवभासते दोषः यत्र पदार्थर्वापौपर्यप्रकाशः
यत्समाश्रयोऽयं दोष उद्धुष्यते, न वाक्यार्थविमर्शदशायाम् । तत्र हि न पौर्वापर्यप्रतिनियमावभासः तस्य निरंशत्वाद् । बहिरङगा च पदार्थबुद्धिरन्त- रङगश्च वाक्यार्थविमर्श इति कथमयं दोषः ?
यत्यम् , अस्त्?येतत् । किन्तु व वाक्यार्थविमर्शः प्रवर्त्तमानो वक्त्रभिप्रा-
यप्रतिरूप एव प्रवर्त्तते, नान्याट्टशः, तत्संचारमयत्वाच्छब्दव्यवहारस्य ।
यदाहुः__वक्तुरभिप्रायं सूचयेयुः’ इति । तत्र चासौ सूक्ष्मतयानभिव्यक्त-
पदार्थस्वरूपः स्थित एव पादार्थबुद्धौ स्थूलतया केवलं व्यक्तोऽवभासत
इति पदार्थसमाश्रयोऽयं दोषस्तत्रापि दुर्निषेध एव ।
न चात्र प्रमादजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम्
तत्रापि गङगाप्रतीपगमनहेतोः शाब्दस्य तदीयतीर्थाभिधानव्यवधाने सत्यन्यस्य
प्रक्रमभेददोषस्याविर्भावापत्तेः । तेन पादयोर्विपर्ययः शाब्दस्य च हेतोर्गङगा-
विशेषणमुखेनार्थत्वमित्युभयविपर्ययोऽत्र श्रेयानिति ।
परामृश्यमनुक्त्यैव परामर्शोऽस्य यस्तदा ।
स दोषो वक्ष्यमाणार्थसंवित्तावक्षमो हि सः ॥ 32 ॥
इति सङ्ग्रहश्लोकः ।
यथा च__
‘नवजलधरः सन्नद्धोयं न ट्टप्तनिशाचरं’ इति ।
अत्र हि आरोपनिवृत्तौ तद्विषयवाचिनोः सुरधनुर्धारासारशब्दयोरिव
नवजलधरपदस्यापि पूर्वं पश्चाद् वा ‘इदंशब्दः’ प्रयोक्तव्यः शुक्तिकेयं न
रजतमितिवद् इत्येष क्रमो न्याय्यः, यस्तु ट्टप्तनिशाचरविशेषणवाचिनः
सन्नद्धपदानन्तरं तस्य प्रयोगः स क्रमभेदो दोषः । एवमेव__
‘कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी’ हात ।
अत्र हि द्वितीयश्चशब्दो भिन्नक्रमः स हि त्वमित्यस्यानन्तरं प्रयोक्तव्यः ।
यथा च__‘मीलितं यदभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् ।
उद्यता जयिनि काभिनीमुखे तेन साहसमनुष्ठितं पुनः ॥’
इत्यत्र पुनश्शब्दः । स हि तेनेत्यतोऽनन्तरं वक्तव्यः ।
‘उक्खअदुमं व सेलं हिमअकमलरं व लच्छिविमुक्कम् ।
पीअमहरं व चसअं बहुलपओसं व मुद्धअंदविराहिअम् ॥’
इत्यत्र ह्मुपमानवाचिभ्यां शब्दाभ्यामेवानन्तरमिवशब्दः प्रयोक्तव्यः न
साधारणधर्मवाचिभ्याम् , यथात्रैव कमलाकरबहुलप्रदोषशब्दाभ्यामिति । स
हि यदनन्तरं श्रूयते तत्रैवोपमानतामाधातुमलमिति, अन्यथार्थस्यासङगति-
प्रसङ्गात् । न हि भवति ‘गौरमिवेन्दुबिम्बं तव मुखमि’ति । न चासौ तथा-
प्रयुक्त इति क्रमभभेपेदो दोषः । तेन ‘सेलं व उक्खअदुममि’ति च पाठः
पठितव्यः ।
यथा वा__
‘उपालब्धेवोर्च्चर्गिरिपतिरिति श्रीपतिमसा’विति ।
अत्र हि ‘इतीवोपालब्ध क्षितिधरपतिः श्रीपतिमसावि’ति पाठः श्रेयान् ।
यतो नात्रोपालब्धेवोच्चैर्गिरिपतिरित्येतत्पर्यंतोक्तिरवच्छेत्तुमभिमता । न च
पदसम्बन्धस्य पुरुषाधीनत्वात् प्रापिपयिषुपदेनैवास्याभिवास्याभिसम्बन्धो न गिरि-
पतिपदेनेति शक्यते वक्तुम् , तस्य तदधीनत्वासिद्धेरुपपादयिष्यमाणत्वात् ।
यथा च__
‘प्रतीक्ष्यं च प्रतीक्ष्यायै पितृस्वस्रे सुतस्य ते । सहिष्ये शतमागांसि प्रत्यश्रौषीः किलेति यत् ॥’ इति ।
अत्रापि हि ‘सहिष्ये शतमागांसीत्यभ्युपैर्यत् किल स्वय’मिति युक्तः पाठ इति ।
अनेनैव तज्जातीयर्थानामन्येषामव्ययानां प्रयोगनियमो व्यख्यात इति
तेषामपि क्रमभेदो दोष एव । तद्यथा__
‘किं क्रमिष्यति किलैष वामनो यावदित्?थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङिघतार्कशशिमण्छलः क्रमः ॥’
इतयत्रेत्थंशब्दस्य । स हि वामनशब्दादानन्तरं द्रष्ठटव्यः। यथा च__
‘स्तम्बेरमः परिणिनंसुरसावुपैति षिड्गैरगद्यत ससम्?भ्रममेवमेका’ ,
इत्यत्रैवंशब्दस्य । स ह्मुपेतीत्यतोऽनन्तरं द्रष्टव्यः । तने ‘स्तम्बेरमः
परिणिनंसुरसौ समभ्येत्येवं ससम्भ्रममभण्यत कापि षिड्गै’रिति युक्तः
पाठः । अच च यत् प्रतीतिवैचित्र्यं समतिमतामेव विषयः ।
उक्तिस्वरूपावच्छेदफलो यत्रेतिरिष्यते ।
न तत्र तस्मात् प्रोक् किञ्चिदुक्तेरन्यत् पदं वदेत् ॥ 33 ॥
उपाधिभावात् स्वां शक्तिं स पूर्वत्रादधाति हि ।
न च स्वरूपावच्छेदः पदस्यान्यस्य सम्मतः ॥ 34 ॥
इतिनैवेतरेषामप्ययानां गतिः समा ।
ज्ञेयेत्?थमेवमादीनां तज्जातीयार्थयोगिनाम् ॥ 35 ॥
यतस्ते चादय इव श्रूयन्ते यदनन्तरम् ।
तदर्थमेवावच्छिन्धुरासमञ्जस्यमन्यथा ॥ 36 ॥
यथानन्तर्यनियमस्तेषामर्थौचितीवशात् ।
अन्यतस्तर्हि तत्कार्यसिद्धेस्ते स्युरपार्थकाः ॥ 37 ॥
कैश्चिदेव हि केषा?ञ्चिद् दूरस्?थैरपि सङगतिः ।
न जातु सर्वैः सर्वेषामित्येतदभिपधास्यते ॥ 38 ॥
इति सङ्ग्रहश्लोकाः ।
पौनरुक्त्यमार्थमेकमेवाभ्युपगन्तुं युक्तं न शाब्दं तस्यार्थभेदे सत्सदुष्ट-
त्वात् । यदुक्तं ‘तच्च न शब्दपुनरुक्तं पृथग्वाच्यम् अर्थपुनरुक्तेनैव गतार्थ-
त्वाद् । न ह्मर्थभेदे शब्दसाम्येऽपि कश्चिद्दोषः । यथा__
हसति हसति स्वामिन्युच्चै रुदत्यपि रोदिति
द्रविणकणिकाक्रीतं यन्त्रं प्रनृत्यति नृत्यति ।’ इति ।
तदभेदे तु दुष्टतैव । अन्यत्र तात्पर्यभेदात् तच्च भूषणमेव न दूषणम् ।
तस्यानुप्रासविशेषविषयत्वेनेष्टत्वाद् । यथा__
‘वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङकाश ! काशाः
काशाभा भान्ति तासां नवनपुलिनगताः श्रीनदीहंस ! हंसाः ।
हंसाभोऽम्भोदमुक्तस्फरदमलवपुर्मेदिनीचन्द्र ! चन्द्र-
श्चन्द्राभः शारदस्ते जयकृदुपगतो विद्विषां काल ! कालः ॥’ इति ।
उभयाभावे तु पौनरुक्त्यं दूषणमेव यथा__
‘जक्षुर्बिसान्धृतविकासिबि?सप्रसूना’ हति ।
सर्वनामपरामर्शस्य ह्मयं विषयो विसार्थो न स्वशब्?द्स्य । न च घास-
क्रियाकर्मभावाभिधानपरः प्रथमो बिसशव्दः परश्च प्रसूनसम्बन्धाभिधानपरः
इत्यत्रापि तात्पर्यभेद इत्याशङकनीयम् । स्वार्थमभिदधत एव हि शब्दस्यार्था-
न्तरप्रतीतिप्रावण्यं तात्पर्यमुच्यते । न चात्रैतत् सम्भवति उक्तयोरर्थयोरभि-
धेयतयार्थन्तरत्वाभावात् । तदुक्तम्__
द्विविधा हि योग्यता शाब्दी चार्थी च । तत्र शब्दस्य प्राधान्ते सति
शाब्दी साक्षात्परामृश्याथप्रतीयेः । यथा__
‘चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदस्तमपि बलुभसङगः ॥’ इति
विपर्यये त्वार्थीं । सम्बन्धिप्रतीतिमुखेन तत्प्रतीतेः । यथा__
‘भाति सितभूतिलिप्तः शशाङकमौलिस्तदंशुनिचित इव’ । इति ।
अत्र हि शशाङकसम्बन्धिनामंशूनां निबन्धस्तत्परामर्शयोग्यता । स हि
समासे गुणीभूतः ।
यथा वा__
‘जयति निशापतिमौलिर्दधन्महाकालविभ्रममजस्त्रम् ।
तत्तमसामिव लक्ष्म्या कण्ठविषच्छाययाच्छुरितः ॥’ इति ।
अत्र हि निशसम्बन्धिनां तमसां निबन्धो योग्यता । सा हि गुणीभूत-
स्यापि गुणीभूता ।
सम्बन्धिनिबन्धाभावे त्वसमासगतस्यैव तस्य योग्यता यथा__
‘जयति जगत्र्त्रयजनको नगेन्द्रसुतया निरुद्धदेहार्धः ।
सा च भुवनैकजननी यथा विना सोऽपि हि विहस्तः ॥’ इति ।
समासगतस्य यथात्रैव नगेन्द्रतनयेति पाठे ।
अयं च योग्यायोग्यत्वविवेको न सर्वजनसंवेदनीय इति प्राधान्यमेव
तावत् प्रथमं योग्यतालक्षणम्, तदभावे तत्सम्बन्धिनिबन्ध इत्युभयं योग्यता-
लक्षणमुक्तम् हतरथा तत्प्रतीतेरसम्भवात् ।
अत्र तु सत्यपि सम्बन्?िबन्धने यत् पुनः स्व्शब्देनाभिधानं तच्छब्द-
पुनरुक्तमिति । तेन ‘जक्षुर्बिसं विकचमस्य दधुः प्रसूनमि’त्पत्र सयुक्तः पाठः ।
एवञ्चार्थप्रकमभेददोषोऽपि ?परिहृतो भवति ।
तच्चानेकप्रकारं सम्भवति । प्रकृतिप्रत्ययोभयपदवाक्यविषयत्वात् । तत्र
प्रकृतिविषयं यथा__
‘अश्वीयसंहतिभिरुद्धतमुद्धुराभिर्भुरेणुजालमखिलंवियदाततान’इति ।
अत्र हि समूहार्थायाः प्रकृतेः संहतेश्च पौनरुक्त्यम् ।
प्रत्ययविषयं यथा__‘बिसकिसलयच्छेदपाथेयवन्त’ हति’ ‘त्वगु-
त्तरासङगवतीमधीतिनीमि’ति च । अत्र हि मत्वर्थीयस्य पौनरुकत्यम् बहु-
व्रीहिसमाश्रयेणैव तदर्थावगतिसिद्धेः । यदाहुः__‘कर्मधारयमत्वर्थीयाभ्यां
बहुव्रीहिर्लधुत्वात् प्रक्रमस्य’ इति ।
‘मतोर्भुमादयो येऽर्थास्तेऽप्यस्त्यर्थानुयायिनः ।
गम्याः प्रकरणादिभ्य इति नोदाहृताः पृथक् ॥’ इति ।
यथा वा__
‘वासो जाम्बवपल्लवानि जघने गुञ्जास्त्रजो भूषणम्’ इति, ‘तदीयमातङग_
घटाविघट्टितै’ ?रिति, ‘येनाकुम्भनिमग्रवन्यकरिणां यूथैः पयः पीयते’ इति ।
इत्यादौ तद्धितप्रत्ययस्य पौनरुक्त्यं षष्टोसमासाश्रयेणैव तदर्थावगिसिद्धेः ।
यत्र त्वर्थान्तरं ?तद्धितस्योत्पत्तिर्न तत्र समासात् तत्प्रतीतिरिति न तस्य पौनरुक्त्यम् । यथा__
‘अथ भूतानि वार्त्रघ्रारेभ्यस्तत्र तत्रसुः’ । इति ।
अत्र ह्मपत्यार्थे तद्धितोत्पत्तिर्नेदमर्थ इति ।
उभयविषयं यथा__
‘छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्तरू-
णाम्’ अत्र हि समूहार्थायाः प्रकृतेर्बहुवचनस्य चोभयोः पौनरुक्त्यम् ।
पदविषयं यथा__

 'दलत्कन्दलभाग् भूमिस्सलम्बाम्बुम्बरम् ।  
  वाप्यः कुल्लाम्बुजयुजो जाता ट्टष्टेर्विषं मम ॥' इति ।  

अत्र हि भजिः सहशब्दो युजिश्च पुनरुक्तार्थः, पूर्ववद् बहुव्रीहिसमासा-
श्रयणेनैव तदर्थावगतेः ।
यत्र च विशेषणाद् विशेष्यमात्रप्रतिपत्तिरिष्यते तत्र तदुक्तेः पौनरुक्त्यं
यथा__‘पायात् स शी?तकिरणाभरणो भवो वः’ इत्यत्र भवशब्दस्य ।
यथा वा__
‘चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ।’
इत्यत्र नागेन्द्रन्द्रवाहनशब्दयोरेकतरस्य ।
यत्र तद्विशेषप्रतिपत्तिर्न तत्र पौनरुक्त्यम्__
‘तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्पच्युतिं के मम धन्विनोऽन्ये ॥’ हति ।
अत्र हरशब्दस्येति वक्ष्यते ।
अथ यथात्रैव ‘तव प्रसादात् कुसुमायुधोऽपी’त्यत्र विशेष्योपादान-
मन्तरेणाप्युभयार्थप्रतिपत्तिस्तदद्वदत्रापि भविष्यतीति तदयुक्तम् । उत्तम-
पुरुपेणैवास्मदर्थस्य विशेष्यस्य प्रतपादितत्वात् तदनुपादानासिद्धेः ।

******************************************

.

द्वितीय़ो विमर्शः

यथा च —
‘निर्याय विद्याथ दिनादिरम्याद् बिम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थननं वह्रिकणावदाता दीप्तिः स्फुरत्पह्ममिवाभिपेदे ॥’ इति ।
अत्र हि महर्षिमुखार्कविम्बयोर्विद्यादीप्त्योः पार्थाननपह्मयोश्चोपमानोप-
मेयभावावगतिरेकस्यैवेवशब्दस्य व्यापारः । तथा हि महर्षिमुखाद् विद्या
निर्याय पार्थाननमभिपेदे अर्कबिम्बादिव दीप्तिः पह्ममिति । एवं पदार्थसमन्वये
सति सर्वेषामुपमानोपमेयभावोऽभिमतः सिद्धचत्येवेति यत् तत्रान्येषां सा-
म्याभिधायिनामुपादानं तत् पुनरुक्तमेव अन्यथा विधा दीप्तिरिवेति तृतीय-
स्यापीवशब्दस्य प्रयोगः प्रसज्येतेति ‘स्फुरत्पह्ममभिप्रपेद’ इत्यत्र युक्तः
पाठः । यथा वा —
‘दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव रेखा ।
पुपोष लावण्यमयान् विशेषान् ज्योत्स्त्रान्तराणीव कलान्तराणि ॥’ इति ।

यथा च —
‘यं समेत्य च ललाटलेखया युञ्जतः सपदि शभ्भुविभ्रमम् ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद् विलोचनम् ॥’
अत्रापि ‘दैवपमर्चिरिव चण्डमारुतमि’ति युक्तः पाठः ।
यथा च —
‘नवचन्द्रिकाकुसुमकीर्णतमः–कबरीभृतो मलयजार्द्रमिव ।
दट्टशे ललाटतटहारि हरेर्हरितो मुखस्य हिमरश्मिदलम् ॥’
इत्यत्रापीशब्दप्रयोगंः पुनरुक्तो हारीत्यनेनैव तदभिन्नार्थेन तदर्थस्य
प्रतिपादितत्वात् । नचोभयोरभिन्नार्थत्वेऽपि हारीत्यस्य पौनरुक्त्यं युक्तं
वक्तुं तस्य यथास्थानमवस्थानादिवशब्दस्य च विपर्ययेण क्रमभेददुष्टत्वा-
दिति ‘दट्टशे ललोटतटमिन्द्रदिशो वदनस्य हारि हिमरश्मिदलमि’ति वरमत्र
पाठो युक्तः । यथा च —
‘वर्णैः कतिपयैरेव ग्रथितस्य स्वरेरिव ।
अननता वाडच्यस्याहो गेयस्येव विचित्रता ॥’
इत्यत्र द्वितीय इवशब्दः पुनरुक्तः। एवं ह्मत्र पाठो युक्तः ‘गेयस्य वाङ्ग्च-
यस्याहो अपर्यन्ता विचित्रता’ इति ।
एवमुपमारूपकेऽपि इवशब्दप्रयोगः पुनरुक्तोऽबगन्तव्यः। य था–‘निर्मो-
कमुक्तिमिव गगनोरगस्य लीलालाटिकामिव त्रिविष्टपविठस्य’ इति । यथा
च ‘शतः श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चि’रिति । अत्र हि
रूपकस्योपनिबन्धः श्रेयान् , नोपमायाः, तस्यास्तन्मुखेनैव प्रतीतिसिद्धेः । न
ह्मसति साट्टश्ये क्कचित् स्वस्थाधीरतस्मिंस्तत्त्वमारोपयति । यथा–
‘आलानं जयलक्षणस्य करिणः सेतुर्विपद्वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं रियः ।
सङग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजन् ! रालति वीरवैरिवनितावैधव्यदस्ते भुजः ॥’ इति ।

यथा च–
‘अङगुमलीभिरिव केशसञ्चयं सन्निगृह्म तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥’ ?इति ।
त्र्त्रत्र ? हि चुम्बतीवेत्यत्रेवशब्दः पुनरुक्तः चुम्बतेर्मुख्यार्थबाधे सति
तत्सट्टशार्थप्रतीतेस्सामर्थ्यसिद्धत्वोपपादनादिति ।
एवम्
‘स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः ।
निपतिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥’
इत्यत्रापि वेदितव्यम् ।
यथा च—
‘तृप्तियोगः परेणापि न महिम्रा महीयसाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी ट्टष्टान्तोऽत्र महार्णवः ॥’
अत्र हि प्रतिवस्त्वलङ्कारान्महार्णवमहीयसामुपमानोपमेयभावमवगम्य-
मानमवधीर्य यद् ट्टषान्तशब्देनपुनर्महार्णवस्योपमानत्ववचनं तत् पुनरुक्तम् ।
वाच्यो ह्मर्थो न तथा स्वदते, यथा स एव प्रतीयमानः । अत एवम्–
‘सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङगस्य मुनेश्च धेनुः ॥’
इत्यात्र प्रभाधेन्वोः ‘प्रभेव भानोः सुरर्भिर्महर्षे’रिति शब्दवाच्यामुपमा-
मनाट्टत्य कविना पूर्ववद् दीपकमुखेनोपमेयभावो भणितः । एवमलङ्कारान्त-
रेष्वपि यथायापेगमवगन्तव्यम् ।
वाच्यात् प्रतीयमानेऽर्थस्तद्विदां स्वदतेऽधिकम् ।
रूपकादिरतः श्रेयानलङ्कारेषु नोपमा ॥ 39 ॥
इति सङग्रहश्लोकः ।
यथा च—
‘शिशिरकालमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभि?रे घनमतो नमतोऽनुमतान् प्रियाः ॥’
इत्यत्र धीशब्दोऽत इति च हेत्वर्थः शब्दः पुनरुक्तौ, हेत्वर्थोन इतिनैव
तदर्थस्योक्तत्वात् ।
यथा ‘अश्वेतिविदुतमनुद्रवतान्यमश्वमि’ति । तेन वरम् ‘इति यतोऽस्त-
रुष’ इति युक्तः पाठः । यथा वा–
‘आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् ।
इति मत्वेव दुर्वेधाः परदुःखैरपूरयत् ॥’ हति ।
अत्र हि मननार्थःपुनरुक्तः, हतिनैव क्रोधपरामर्शिना तस्यावगमितत्वात् ।
तेन ‘इति क्रूधेव तद्वेधा’ इति युक्तः पाठः । एवञ्च वेधसो दुष्टत्वस्यानिबन्ध-
स्यावाच्यस्य यद्वचनं तदपि रिहृतं भवति ।
अव्यभिचारिणः कारकस्याविशेषणः प्रयोगः पुनरुक्तः । तत्र कर्त्तुर्यथा—
‘पतितोत्पतितैः शत्रुशिरोभिः समराङगणे ।
यः कन्दुकैरिवोच्चण्डः क्रीडन् लोकैर्व्यलोक्यत ॥’
इत्यत्र लोकशब्दस्य, विलोकनक्रियायास्तत्कर्तृकत्वाव्यभिचारात् ।
सविशेषणस्य न तस्य पौनरुक्त्यम् । यथा—
‘उवाच दूतस्तमचोदितोऽपि गां न हीड्गितज्ञोऽवसरेऽवसीदति ।’ इति ।
सविशेषणस्य यथा–‘शुचिस्मितां वाचमवोचदच्युत’ इति ।
करणस्य यथा—
‘यदा ट्टशा कृशाङगचास्मि ट्टष्टो, जातं तदैव मे ।
प्रजागरगरग्रस्तसमस्तप्रसरं मनः ॥’ इति ।
अस्यैव सविशेषणस्य यथा–
‘तं विलोक्य सुरसुन्दरीजनो विस्मयस्तिमितततारया ट्टशा ।’ इति ।
एवं कारकान्तरेष्वप्यवगनतव्यम् ।
एकैवालङ्कृतिर्यत्र शाब्दत्वार्थत्वभेदतः ।
द्विरुच्यते तां मन्यन्ते पुनरुक्तिमतिस्फुटाम् ॥ 40 ॥
तद् यथा–
‘उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुनन्दरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सट्टशेन तत्समौ ॥’
इत्यत्र ।
यस्य यद्रूपताव्यक्तिः सामर्थ्यादेव जायते ।
तस्योपमा रूपकं वा तदर्थं पौनरुक्त्यकृत् ॥ 41 ॥
तत्रोपमा यथा—
‘स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाज्जगतीधरम् ॥’
अत्र जगतीधरजलधराल्योः प्रियप्रणयिनीतुल्यत्वे समासोक्त्यैवाव-
सिते सति यदेतज्जगतीधरस्य प्रियतुल्यत्ववचनं तत् पुनरुक्तम् ।
यथात्र तथैवोत्तरेषु चोदाहरणेषु । यथा–
‘निद्रवशेन भवता ह्मनवेक्ष्यमाणा
पर्यत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
सोऽपि त्वदाननरुचिं विजहाति चन्द्रः॥’ इति ।
अत्र हि लक्षम्पा अवला खण्डितेवेति यदुपमानमुक्तं तत् पुनरुक्तं
तस्यास्तत्तुल्यवृत्तान्ताभिपधानसामर्थ्यादेवानन्तरोक्तनयेन
तदर्थावगतेः ।
यथा च–
‘सुरभिसङ्गमजं वनमालया नवपलाशमधार्यत भङ्गुरम् ।
रमणदत्तमिवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ॥’
इत्यत्रार्द्रनखतविशेषणं, प्रमादार्थः, तद्विशेषणं चेति त्रितयमपि
पुनरुक्तम् तदर्थस्योपमानादेव प्रती?तेर्गतार्थत्वात् । तथा हि—सुरभिशब्दात्
पुंस्त्वविशिष्टाद् रमणार्थोऽवगम्यते वनमालाशब्दाच्च स्त्रीत्?वविशिष्टात् कामि-
न्यर्थः । तद्विशेषणोपादानं तु व्यर्थमेव, व्यावत्?र्याभावात् । तेन यथा कामुक-
सङ्गमसमुत्थमङ्नया लोहितं वक्रं च नखक्षतं धार्यते, तद्वद्वनमालया वस-
न्तसमगमजनितं नवं भङ्गुरं च पलाशमधर्यतेति समुदायादयमर्थः सचेतः
सामुन्मिषत्येव यतोऽलङ्कारान्तरोपकृताल्लिङगविशेषनिर्देशादेवार्थानां स्त्रीपुंस-
त्वानुमितिरनुमतैव महाकवीनाम् ।

यथा च—
‘ऐन्द्रं धनुः पाण्हुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥’ इति ।
अत्र हि शरदो नायिकात्वस्येन्दो रवेश्च नायकत्वप्रतिनायकत्वयोर-
भिव्याक्तिः ।
यथा वा—
‘अत्यन्तपरिणाहित्वादत्यन्तश्लक्ष्णतावशात् ।
न काचिदुपमारोदुमूरू शक्रोति सुभ्रुवः ॥’ इति ।
अत्र ‘अङ्गनोरू मणिस्तम्भावि’ति ।
यथा च—
‘आभोगिनेत्रपरिवर्त्तनविभ्रमेण मूर्त्या नितम्बवलनाकुलतां वहन्त्या ।
यस्याशनैरविरलोत्कलिकाकलापपर्याकुलं हृदयमाम्बुनिधेर्मन्थे ॥’ इति ।
अत्र हि आरोहार्थो हृदयार्थश्च लक्षणयोपात्तौ, न मुख्यतया, तयो-
र्जीवव्यापारतत्कायैकदेशविशेषरूपत्वात् । लक्षणायाश्चाङ्कारान्तरत्वमुपपा-
दितमेव ।
यदर्थैकाश्रयो धर्मो यत्र स्यादधिरोपितः ।
उपमानोपमेयत्वं न तयोः शाब्दमिष्यते ॥ 42 ॥
यथा—
‘अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।
तरुवत् सुकरः सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥’
इत्यत्र तरुरिप्वोः । तद्धि सामर्थ्यादेव तयोः सिद्धचति, जन्मूलनस्य
तरुधर्मस्य रिपावारोपितत्वात् ।
रूपक यथा—
‘अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकायद् रविमपेतवसुं वियदालयादपरदिग्गणिका ॥’ इति ।
अत्र हि लिङ्गविशेषनिर्देशात् स्त्रीत्वस्य, कार्यतश्च तद्विशेषस्याभिव्यक्तौ
सामर्थ्यादेवापरदिशो गणिकारूपत्वे वियतशलयत्वेऽवगते यत् तयोस्ताद्रू-
प्यवचनं तत् पुनरुक्तम् । पुनस्तदद्वचने वा रेवरपि कामुकरूपतावचनप्रसङ्गः,
विशेषाभावात् । यदुक्तम—
‘उभयार्थपदनिबन्धो लिङ्गविशेषः पदञ्च गुणवृत्ति ।
उपमानविशेषाश्रयमर्थां गमयति स न हि पुनर्वाच्यः ॥ 43 ॥’ इति ।
यथा—
‘राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन-
व्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्‌मीर्वृथा ।
तेनाक्रोशत एव तस्य मुरजित् तत्कालोलानल-
ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रेण चक्रे वपुः ॥’ इति ।
अत्र हि अनुप्रासैकरसिकेन कविना पौनरुक्त्यदोषमपश्यता पर्यायो-
क्त्यनुमितोऽपि चक्रशब्दार्थः प्रयुक्तः । तेन ‘मूर्धविकलामस्त्रेण तेन तनुम्’
इति युक्तः पाठः । अनेनानुप्रासव्यसनिता काव्यस्य परिपुष्यत्येव । यतः—

'समासे चासमासे चानुप्रासेष्वखिलेष्वपि ।  
पदादिवर्णानुप्रासः कवीनामधिकं प्रियः ॥ 44 ॥' इति ।  

तत्र समासे यथा—
‘त्वत्कीर्त्तिकेतकीक्लृप्तकान्तकर्णावतंसकः ।
दिगङ्गनाणो राजन् ! राजत्यामोदनिर्भरः ॥’ इति ।
असमासे यथा—
‘कुतः कुवलयं कर्णो करोषि कलभाषिणि ! ।
किमपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे ॥’ इति । अलमनेन ।
यथा च–
‘तं जिगीषुरिव शात्रवं ततो लोकलोचनपथोपरोधकम् ।
रश्मिभिः कनकसायकोपमैरन्धकारमरुणोऽस्तमानयत् ’ इति ।
अत्र लोचनपथोपरोघापराधिनोऽन्धकारस्य कनकसायकोपमैः रश्मि-
भिर्यदेतदस्तनयनं तज्जिगीषोरेव व्यापार इत्यरुणस्यान्धकारस्य च यत्
कर्तृकर्मभावेनोपादानं तत् सामर्थ्याज्जिगीषुशात्रवतुल्यवृत्तान्ततामवगमय-
तीति यदेतत् तयोर्जिगीषुरिव शात्रवमित्युपमानोपमेयभावेनाभिधानं तत्
पुनरुक्ततां नातिवर्तते ।
यथा वा—
‘परिहासरतिर्यश्च यशः-कर्पूरपांसुभिः ।
दिक्वामिनीमुखान्यारात् पटवासैरिवाकिरत् ॥’ इति ।
अत्र परिहासरतेः कामुकस्य कर्पूरपांसुभिर्मुखावकिरणव्यापारः प्रायेण
कामिनीविषय एव प्रसिद्ध इति दिशां मुखमम्बन्धाल्लिङगविशेषनिर्देशाच्च
व्यञ्चकात् कामिनीरूपतावगतावपि यत्तासां कामिनीत्वेन रूपणं तत् पुनरु-
क्तम् अत एव कर्पूरपांसूनामपि पटवासरूपत्?वेऽवगते तेषां तद्रूपणमेव
तावत् पुनरुक्तं किं पुनरुपमानोपमेयभावोपनिबन्धः, सामथ्र्यादेव तत्सिद्धेः ।
न च सामर्थ्यसिद्धेऽर्थो शब्दप्रयोगमाद्रियप्यते सत्कवषः । यथा—
‘महदपि परुदुःखं शीतलं सम्यगाहुः
प्रणयमगणयित्वा यन्ममापद्रतस्य ।
अधारमिव मदान्धा पातुमेषा प्रवृत्ता
फलमभिनवपाकं राजजम्बू द्रुमस्य ॥’ इति ।
अत्रकतिशब्दस्य ।
यथा च—
‘चन्दनासक्तभुजगतिःश्वासनिलमूर्च्छितः ।
मूर्च्छत्येष पथिकान् मधौ मलयमारुतः ॥’ इति ।
अत्रोत्प्रेक्षायामिवशब्दस्य ।
यथा च—
‘अयं मन्दद्युमिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन् नरान् ॥’ इति ।
अत्र निदर्शने ममेवेति ।
‘स्वाभाविकं विनीतत्वं तेषां विनयकर्मणाम् ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ॥’ इति ।
अत्र विनीतत्वस्य यद्विशेषणं तद् बाधकसदभावाभावे ?सति समानविभ-
क्तिकत्वाविशेषात् तेजसाप्यनुषज्यत एवेति यत् पुनस्तेजस्तद्वचनं तत्पौ-
नरुक्यमावहति ।
धर्मस्तुल्यविभकीनामेकस्याप्युदितोऽखिलान् ।
तानन्वेतीति पर्यायैस्तदुक्तिः पौनरुक्त्यकृत् ॥ 45 ॥ इति ।
सङ्ग्रहश्लोकः ।
‘कैरवेन्दीवरच्छायौ नौम्युमाधवमाघवौ ।
ब्रह्मार्चितब्रह्मनुतौ निहतान्धककालियौ ॥’ इति ।
अत्र प्रथमो धवशब्दो द्वितीयश्च ब्रह्मशब्दः पुनरुक्तौ, तावन्तरेणापि
समासान्तराश्रयणेन विवक्षितार्थप्रतीतिसिद्धेः प्रत्युदाहरणयोः प्रथमचतुर्थ-
योरिव पादयोः । अन्यथा तत्रापि छायानिहतपदयोर्द्विरुपादानप्रसङ्गः स्याद्
विशेषाभावात् ।
अस्तु को दोषः ? उभयोरपि लक्षणानुगमसम्भवादिति चेत् । सत्यं,
किन्तु प्रतीतिरिह प्रण्धानमिति सैवानुसर्त्तव्या न लक्षणमात्रं, तस्य तदर्थ-
त्वादित्युक्तम् । सा च यावदिभरुपजायते तावतामेव प्रयोगो युक्तो नातिरि-
क्तानाम् ।
न च प्रतीतिमनाट्टत्यैव लक्षणमस्तीत्येवातिरिक्तपदप्रयोगो युक्तः,
तस्यार्थप्रयुक्तत्वाद्, अर्थस्य चाधिक्यात् । तदुक्तं ‘तदर्थावगत्यर्थो हि
शब्दप्रयोगः । अर्थश्चेदवगतः किं शब्दप्रयोगेणे’-ति । तस्मादुभयोरपि
लक्षणानुगमसम्भवे येनैव लधुनोपायेन प्रधानसिद्धिस्तदेव लक्षणमाश्रयणीयं
भवति नेतरत्, तत्पुरुषलक्षणाश्रयणेन चोपायलाघवमिति तदेवाश्रयितुं
युक्तं, न द्वन्द्वलक्षणम् ।
न चैवं तस्य विषयापहारः स्यादित्याशङ्कनीयं ‘जगतः पितरौ वन्दे
पार्वतीपरमेश्वरौ’ इत्यादावतज्जातीये विषये तस्य चरितार्थत्वादित्यलमवा-
न्तरचिन्तया ।
‘द्विषद्वधूलोचनचन्द्रकान्तनिष्?यन्दनेन्दूदयसन्निभोऽयम् ।’
इत्यत्रेन्दूदयस्य यश्चन्द्रकान्तविषयो निष्यन्दनव्यापारः स प्रसिद्ध इति
नोपादेयतामर्हति यथा ‘रजनीपुरन्ध्रीलोध्रतिलकः, तिमिरद्विपयूथकेसरी’-
त्यत्र प्रसाधननिर्मथनव्यापार उपादीयमानः पौनरुक्त्यमेव पुष्णाति ।
यस्त्वप्रसिद्धः, असावुपादीयत एव, यथा ‘संसारसम्भवनिराकरणै-
करेखे’-त्यत्र निराकरणम् । रेखा हि हेयोपादेययोरुभयोर्विभागहेतुः पादर्थः
प्रसिद्ध इत्यनभिमतपक्षप्रतिक्षेपाय तदनुगुणस्य व्यापारस्योपादानमुपपन्न-
मेव । अभिमतपक्षपरिग्रहायापि यथा—
‘त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसम्पत्प्रसरस्य- सीमा ।’
इत्यत्र प्रसरस्य ।
किञ्चात्र यद् ‘इन्दूदयस्येव सन्निभा यस्ये’तीन्दूदयतुल्यत्वं राज्ञः शाब्द-
मुक्तं तत् तस्य तत्त्वारोपादार्थमेव युक्तमित्युपात्तपदातिरिक्तस्य सन्निभाप-
दस्य पौनरुक्त्यमावहतीत्युक्तम्।
‘अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येतामितीवास्य नयने बाष्पवारिणा ॥’ इति ।
अत्र हि बाष्पस्य वारिरूपत्वाव्यभिचोरऽपि यद् वारित्वमुक्तं तदसति
प्रयोजने पौनरुक्त्यं करोति । न चात्र किञ्चित्प्रयोजनमुत्पश्यामः । तस्माद्
बाष्पसम्पदेत्ययमत्रोचितः पाठः। अस्मिन् हि सति पौनरुक्त्यपरिहारः
सम्पदः स्त्रीत्वात् सखीत्वव्यक्तौ लेशतोऽर्थान्तरावगतिश्चेत्?युभयं सिद्धं
भवति ।
सति तु प्रयोजने न दोषः । यथा–
‘पृथ्वीपाल ! प्रतापस्ते वैद्युतेनाग्रिना समः ।
यो वैरिवनिताबाष्पवारिणा वर्धतेऽधिकम् ॥’ इति ।
वैद्युताग्रिवृद्धेराधिक्यस्य वारिकार्यत्वेन प्रसिद्धेः ।
यथा च—
‘साहायकार्थमिव फत्कृतमारुतेन संधुक्षितः सपदि यस्य पृषत्कवह्निः ।’
इत्यत्राग्रिसन्धुक्षणस्य मारुतकार्यत्वेन प्रसिद्धेः ।
यथा च—
‘अवहितचेतसः पथि जनस्य कुतः स्खलितमि’ स्खलितमि?‘ति । अवहितत्वं नाम
चेतस एव धर्मो नान्यस्येति मुख्यवृत्त्या तत्रैवास्य वृत्तिरुपपन्ना । या
त्वन्यत्र पुरुषादावस्य ट्टश्यते सा तत्सम्बन्धादिति तद्विशिष्टेन चेतसा
जनस्य यद्विशेषणं तत्र चेतस उपादानं पुनरुक्तं तदुक्त्यैव तदवगतेः ।
यथा च—
‘अवगच्छति मूढचेतनः प्रियनाशं हृदि शक्यमर्पितम् ।’ इति ।
‘व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।’ इति ।
केवलादेव तत्सम्बन्धात् तदवगतिर्भवत्येव, यथा—
‘तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।’ इति ।
यथा च—
‘शरीकस्यापि कृते मूढाः पापानि कुर्वते ।’ इति ।
‘मूढोऽनात्ममयः क्वचि’दिति च ।
यथा च—
‘उदिवपुषि दिननाथे प्रविकसितात्मसु कुलेषु कमलानाम् ।
जगति प्रमुदितमनसि च कोऽन्यो विमनायते धूकात् ॥’ इति ।
अत्र हि वपुरात्ममनश्श्ब्दानां त्रयाणामपि पौनरुक्त्यम् । तत्र द्वयोः
स्वरूपमात्रवचनात् तस्य च पदार्थेष्वव्यभिचारात्, तृतीयस्यापि प्रमोदस्य
मनःकर्तृकत्वाव्यभिचाराद् इत्यनन्तरमेवोक्तम् ।
यथा वा—
‘किं पुनरीट्टशे दुर्जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः शोक-
क्रियाकरणस्ये’ति अत्र क्रियाकरणशब्दयोः ।
यथा च—
‘यातु वस्तारकाकन्तकलाकलितशेखरः ।
जगत्र्त्रयपरित्राणक्रियाविधिविचक्षणः ॥’ इति ।
अत्र क्रियाविधिशब्दयोः पौनरुक्त्यम् । तत्राद्यस्य तावत् परित्राणा-
क्रियाविशेषप्रतीतेरेव क्रियासामान्यप्रतीतिसिद्धेः विशेषस्य च सामान्याव्य-
भिचारात् ,द्वितीयस्यापि क्रियापर्यायत्वेन तत्तुल्यवृत्तान्तत्वात् ।
यथा च—
‘सङ्कल्पितां कान्तां सर्वत्रोत्पश्यतोऽनिशम् ।
वियोगदुःखानुभवक्लेशो वत तथापि मे ॥’ इति ।
अत्र हि सङ्कल्पानुभवक्लेशास्त्रयोऽपि पुनरुक्ताः । तत्राद्यस्य तावत् यत्
पौनरुक्त्यं, तदर्थस्य कल्पनायं करणभावाव्यभिचारात् । द्वितीयस्य दुःख-
स्यानुभवविशेषात्मत्वोपगमे सति व्यतिरेकाभावात् तन्निबन्धनः षष्ठीसमा-
सस्तेन सह न सम्भवतीति । न च विशेषस्य सामान्येन सह समास इष्यते
न हि भवति शाबलेयस्य गौरिति । नापि विशेषणसमासः । विशेषप्रतीतेरेव
सामान्यप्रतीतिसिद्धेतयोर्विशेषणविशेष्यभावात् , न हि भवति शाबलेयग-
वीति । तृतीयस्यापि दुःखपर्यायत्वात् तदुक्त्यैव गतार्थत्वात् पौनरुक्त्यम-
विवादसिद्धमेव ।
एवमेव—
‘अगाधापारसंसारसागरोत्तारसेतवे ।
देहार्धधृतकान्तया कन्दर्पद्वेषिणे नमः ॥’ इति ।
अत्र सागरोत्तारशब्दावुभावपि पुनरुक्तौ, एकस्यागाधत्वापारत्वलक्षणा-
साधारणसागरधर्माध्यारोपसामर्थ्यात् सेतुसम्बन्धाच्च संसारस्य तद्रूपताव-
गतेः । आर्थी एव हि अत्र रूपणा युक्ता अनुमेयत्वात् , न शाब्दी । यथा—
‘चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
विघ्रितेच्छमपि तस्य सर्वतो मन्यथेन्धनमभूद् वधूरतम् ॥’
इत्यत्र मन्मथस्यानलत्?वेन ।
इतरस्य च सोतोर्नियमेनात्तरणार्थत्वेन प्रसिद्धेः । अनेन च ‘सकलकला-
कनकनिकषपाषाण’ इत्यादौ कनकादिशब्दामनि नौनरुक्यं व्याख्यातम् ।
यथा च—
‘करकलिनिशातोत्खातखड्गाग्रधारा-
ट्टढतरविनिपताच्छिन्न्दुष्टारिकण्ठः ।’ इति ।
अत्र नवानां पादनामवक्ररत्वम् । तत्र यत् खङ्गस्य करकलितत्वादि-
विशेषणचतुष्टयं तत् पुनरुक्तं तत्र तस्य व्यापार्यमाणस्य तत्त्वाव्यभिचारात् ।
यच्चाग्रत्वविशिष्टाया धाराया वचनं तत् पुनरुक्तं खड्गस्यैव करणत्वविवक्षा-
यामौचित्यादेव तत्प्रतीतिसिद्धेः । यच्चात्रा ट्टढतरत्वविशिष्टो विनिपातः
करणाभावेनोपात्तो, यदवि दुष्टत्वमरीणां विशोषणं तदुभयमपि पुनरुक्तमेवार्थ-
सामर्थ्यसिद्धत्वात् । अतश्च खड्गच्छिन्नारिकण्ठ इति पदतुष्टयमेवात्र
सारम् । अन्यत्त्ववकरप्रायं वृत्तस्य पूरणायैव पर्यवस्यति नार्थविशेषस्य
कस्यचिदिति । यथा—
‘शीधुरसविषयपानक्रियावशावाप्तजन्ममदविवशा ।
गलदंशुकट्टश्यमुखी सुखायते कि?मपि कमितुरचिरोढा ॥’
इत्यत्र रसादीनां सप्तानामवकरत्वम् । यथा वा—
‘मदिराद्रवपानशावाप्तोदयमदविधूर्णितात्मैव ।
तव तरुणि ! मदनदीपनमिदमक्षियुगं समाभाति ॥’ इति ।
त्र्त्रत्र द्रवादीनां षोडशानामवकरपदानां पौनरुक्त्यं प्रयुक्तान्तर्गताभ्यां
द्धाभ्यामेव मदिराक्षिपदाभ्यां सम्बोधनीकृताभ्यां तदर्थप्रतीतिसिद्धेः । यथाह भरतः—
‘आघूर्णमानमध्या या क्षामा चा?ञ्चिततारका ।
ट्टष्टिविकसितापाङ्गा मदिरा तरुणे मदे ॥’ इति ।
एषां चावकरपदानां पर्यायेण यथायोगमेकादिप्रयोगे सति लोष्टसञ्चार-
क्रमेणातिबहवोऽवकरप्रकाराः समुदभवन्ति, येषु प्रयुक्तेष्वप्रयुक्तेष्वपि तुल्यै-
यार्थावगतिरिति ते तत्र शल्यायमानाः शब्दिकैः केवलमाद्रियन्ते ।
कविभिस्तु प्रस्तुतरसाभिव्यक्तिव्यवधाननिबन्धनधियावधीरणीया एव ।
यद्वा किं बहुनोक्तेन क्रियाकारकयोरपि ।
यदौचित्यादवगतिस्तत्रान्येषां कथैव का ॥ 45 ॥
तत्र क्रियाया यथा—
‘मा भवचन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।
वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥’ इति ।
कारकस्य यथा—
‘मा धाक्षीन्मा भाङ्क्षीन्मा भैत्सीज्जातुविद् वत भवन्तम् ।
सुकृतैरध्वन्यानां मार्गतरो ! स्वस्ति तेऽस्तु सह लतया ॥’ इति ।
वाक्यार्थविंषयं पौनरुक्त्यं यथा—
‘सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥’ इति ।
अत्र हि अविवेकप्रयुक्तमविमृश्यकारित्वलक्षणं सहसाकार्यकारित्वं
नामापदामविकलं कारणमिति तेषां कार्यकारणभावमन्वयवाक्येन प्रतिपाद्य
पुनः कारणाभावरूपं विमृश्यकारित्वमनूद्य तत्कार्यभूतविपदभावरूपाणां
सम्पदां सदभावो भणित इति व्यतिरेकवाक्येनापि तेषां कार्यकारणभाव
एवाभिहित इति तस्य पुनरुक्तता, अन्वयवाक्यादेव तदवगतेः । यदुक्तम्—
‘साधर्म्येणापि प्रयोगे अर्थाद् वैधर्म्येणान्वगतिः असति तस्मिन् साम्याभावे
हेत्वाभावस्यासिद्धेरिति नावश्यं वाच्यद्वयप्रयोग’ अति
किञ्चान्वयव्यतिरेकवाच्ययोरन्योन्यस्य न हेतुहंतुमदभावः सम्भवति ।
न हि यस्मिन् सति यस्यावगतिस्तस्य प्रत्युत स एव हेतुरिति युज्यते वक्तुं
हेतुहेतुमदभावविपर्यासप्रसङ्गाद् इति व्यतिरेकवाक्ये तदभिव्यकृतचर्थो हि-
शब्दोऽप्यपार्थक एवेति । कुतस्तर्हि द्वितीयेऽर्धेऽर्थस्य वारुतावगतिः ?
उच्यते । लिङ्गविशेषाद् धर्मविशेषाच्च सम्पदां नायिकात्वेऽवसिते सति समा-
सोक्तेरित्येजतद् वक्ष्यते ।
यथा च—
‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ति ।
अत्र हि धर्माधर्मयोश्छायातपयोरिव अन्योन्यपरिहारेणावस्थितयो-
र्यदैवैकस्य ग्लानिस्तदैवेतरस्याभ्युत्थानमिति तयोरेकस्मिन् वाच्ये यदुभयो-
र्वचनं तत् पुनरुक्तमिति ।
सामर्थ्यसिद्धस्यार्थस्य यथाऽऽर्थी पुनरुक्तता ।
तात्पर्यभेदाच्छब्दस्य द्विरुक्तिः शाब्धपीष्यते ॥ 46 ॥
पौनरुक्त्यमिति द्वेधा गौणमुख्यतया स्थितम् ।
तत्र दूषणमेवाद्यमपरं भूषणां स्मृतम् ॥ 47 ॥
शब्ददलङ्कारनिपूणैर्लाटानुप्राससंज्ञया ।
तच्चोदाहृतमेव प्राग् दूषणं तु वितन्यते ॥ 48 ॥
प्रकृतिप्रत्ययार्थोऽस्य पदवाक्यार्थ एव च ।
विषयो बहुधा ज्ञेयः स क्रमेणोपदर्श्यते ॥ 49 ॥
अभिन्न एव यत्रार्थः प्रकृतेः प्रत्ययस्य च ।
तत् पौनरुक्त्योपहतं तदमादौ विवर्जयेत् ॥ 50 ॥
विहितस्य बहुव्रीहेः कर्मधारयशङ्कया ।
शब्दस्य मत्वर्थीयादेर्व्यक्तैव पुनरुक्तता ॥ 51 ॥
यस्मिन् यत्तद्धितोत्पत्तिरर्थस्तेनैव जातुचित् ।
न तदन्तः समस्येत तद्वितव्यर्थताभयात् ॥ 52 ॥
विशेषणवशादिच्छेद् विशिष्टं यत्र संज्ञिनम् ।
युक्ता तत्र विशेषेक्तिरन्यथा पौनरुक्त्यकृत् ॥ 53 ॥
सकृदेव प्रयुक्तेन यत्र साम्याभिधायिना ।
अन्येषामुपमानत्वं सामर्थ्यादवगम्यते ॥ 54 ॥
तत्रासकृत् प्रयोगेऽस्य पौनरुक्तचाय कल्पते ।
यद्वदव्यमिचारस्य कारकस्याविशेषणा ॥ 55 ॥
अर्थस्यानुमितस्योक्तिर्नात्येति पुनरुक्तताम् ।
यद्वशाद् यदभिव्यक्तिस्तदुक्तौ नाददीत तत् ॥ 56 ॥
यो यद्वर्मोपचरेण यत्सम्बन्धान्वितोऽपि वा ।
तस्य तद्रूपणार्थीष्टा न शब्दी पौनरुक्त्यतः ॥ 57 ॥
प्रयुक्तान्तर्गतैरेव यत्र सोऽर्थः प्रतीयते ।
प्रयोगस्तत्र शेषाणां पदानां पौनरुक्त्यकृत ॥ 58 ॥
कर्त्तर्यङ्गिनि रूढायां तत्क्रियायां च नेष्यते ।
वाक् साधकततमाङ्गानामौचित्यादेव तद्ग्रतेः ॥ 59 ॥
दोषद्वयमिदं प्रायः समासविषयं मतम् ।
यतोऽवकरभूयिष्टा लक्षणैकपरायणैः ॥ 60 ॥
कृताः प्रतीतिविमुखैर्ट्टश्यन्तेऽनेकधा हि ते ।
समासमत एवाहुः कवीनां निकषं परम् ॥ 61 ॥
वृत्तावितरथा चोक्ते नान्यभजि विशेषणे ।
विशेष्योक्तिरयुक्तैव स्यात् तदव्यभिचारतः ॥ 62 ॥
यो यदात्मा तदुक्त्यैव तस्यार्थस्य गतिर्यतः ।
तेन प्रयोजनाभावे द्वयोक्तिः पुनरुक्तिकृत् ॥ 63 ॥
यो यस्य नियतो धर्मस्तस्य तेन न धर्मिणा ।
समासः शस्यतेऽन्यार्थस्तत एव हि तद्ग्रतेः ॥ 64 ॥
क्रियाप्रतीतिः करणप्रत्ययाव्यभिवारिणी ।
तदप्रतौ तदात्म्?यात् सैवानवसिता भवेत् ॥ 65 ॥
यदेतत् त्यागपाकादौ क्रियेत्युक्तेर्निबन्धनम् ।
तद्व्यक्तिर्यद्वशाद्यस्य तदुक्तौ नाददीत तत् ॥ 66 ॥
प्रयुक्ते चाप्रयुक्ते च यस्मिन्नर्थागतिः समा ।
न तत् पदमुपादेयं कविनाऽवकरो हि सः॥ 67 ॥
अन्योन्याक्षेपकत्वे सत्यन्वयव्यतिरेकयोः ।
उभयोरुक्तिरेकस्य नात्?येति पुनरुक्तताम् ॥ 68 ॥
पुनरुक्तिप्रकारापणामिति दिङ्मात्रमीरितम् ।
विवेक्तुं को हि कात्स्नर्येन शक्रोत्यवकरोत्करम् ॥ 69 ॥
इति सङ्ग्रहश्लोकाः ।
वाच्यस्यावचनं यथा—
‘कनकनिकषस्त्रिग्धा विद्युत् प्रिया न ममोर्वशी ।’ इति ।
अत्र हि भ्रान्तौ निवृत्तायां तद्विषयभूतयोः सुरधनुर्धारासारयोरिव विद्यु-
तोऽपि इदमा परामर्शे वाच्ये यत् तस्यावचनं स वाच्यावचनं दोषः। यथाच-
‘कमलमनम्भसि कमले कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥’
अत्र हि द्वितीयः कमलार्थः सर्वनामवाच्यः । तस्य यत् स्वशब्देन वचनं
स वाच्यावचनं दोषः । तेनात्र ‘तस्मिश्च कुवलये’ इति युक्तः पाठः ।
सर्वनामपरामर्शविषये योऽर्थवस्तुनि ।
स्वशब्दवाच्यतादोषः स वाच्यावचनाभिधः ॥ 70 ॥
इति सङ्‌ग्रहश्लोकः ।
‘द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिन’ इति । अत्र
हि कपालिशब्दो धर्मिधर्मोभयार्थवृत्तिः संज्ञिमात्रं वा प्रत्याययेत् , कपाल-
सम्बन्धकृतं वा गर्हितत्वम् , उभयमपि वेति त्रयः पक्षाः । तत्र प्रथमे पक्षे
विशेषप्रतिपत्तये कपालिग्रहणमपरमपि कर्तव्यं येनास्य गर्हितत्वं प्रतीयेत ।
द्वितीये पक्षे तस्याश्रयप्रतिपत्तये तेनै तत्पर्यायेण सर्वनाम्रा वा विशेष्यम-
वष्यमुपादेयं भवति येन तस्य विवक्षितार्थसिवद्धावार्थो हेतुभावोऽवकल्प्येत ।
तत्र तेनैवापेपादाने यथा—
‘सततमनङ्गोऽनङ्गो न वेत्ति परदेहदाहदुःखमहो ।
यदयमदयं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः ॥’ इति ।
पर्यायेणोपापदाने यथा—
‘कुर्यां हरस्यापि पिनकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ।’ इति ।
अत्र हरस्येति पर्यायशब्देनोपात्तस्यार्थस्या पिनाकपाणित्वं धैर्यच्युतेर-
शक्यकरणीयतायामार्थो हेतुः अन्यथा हरग्रहणस्य पैनरुक्यं स्यादिति ।
यथा च—
‘एकः शङ्कामहिकुलिपोरत्यजद्वैनतेनतेयादि’ति ।
सर्वनाम्रा यथा—
‘ट्टशा दग्धं मनसिजं जीवयन्ति ट्टशैव याः ।
विरूपाक्ष्स्य जयिनीस्ताः स्तुमो वामलोचनाः ॥’ इति ।
अत्रापि सर्वनाम्रोपात्तस्यार्थस्य वामलोचनात्वं मन्सिजदाहजीवनयोर-
न्योन्यविभिन्नयोरप्यभिन्नहेतुकत्वोपपत्तावार्थो हेतुः इतरथा वामलोचना- त्वस्य पुनरुपादानप्रसङ्गः ।
अत एव तृतीयः पक्षो न सम्भवत्येव एकस्यैव शब्दस्यावृत्तिमन्तरेणा-
नेकार्थप्रतिपादनसामर्थ्याभावात् । न चासवानिबन्धाना शक्या कलपयितु-
मिति वक्ष्यते । न चात्र किञ्चिन्निबन्धनमुक्तमिति तस्य वाच्यस्यावचनं दोषाः । तेन वरमयमत्र पाठः श्रेयान्
अल्पदोषत्वात् ‘द्वयं गतं सम्प्रति तस्य शोच्यतां समागमप्रार्थनया कपालिनः ।’ इति ।
अर्थभेदाद्द्वि?भिन्नेऽपि शब्दे साट्टश्यमात्रजः ।
आवृत्तिव्यवहारोऽयं मूलमस्यैकताभ्रमः ॥ 71 ॥
अतश्च—
तत्पर्यायेण तेनैव सर्वनाम्रा विनिर्दिशेत् ।
आर्थहेतुत्?वनिष्पत्तौ धर्मिधर्मोभयात्मकम् ॥ 72 ॥
इत्यन्तरश्लोकौ ।
यत्रान्यस्यालङ्कारस्य विषयेऽलङ्गारान्तनिबन्धः सोऽपि वाच्यावचनं
दोषः । तत्र समासोक्तिविषये श्लेषस्योपनिबन्धो यथा–
‘अलकालिकुलाकीर्णमारक्तच्छदसुन्दरम् ।
आमोदिकर्णिकाकान्तं भाति तेऽब्जभिवाननम् ॥’
अत्र हि अब्जसमुचितविशेषणोपादानसामर्थ्याक्षिप्तस्याब्सस्योपमान-
भावावगमः समासोक्तेरेब विषयो युक्तो न श्लेषस्य, तत्रैव तस्यानुमीय-
मानतया सचेतनचमत्कारकारित्वोपपत्तेः, श्लेषे तु तस्य वाच्यतया तद्धि-
परीतत्वादित्युक्तम् ।
यथा च—
‘बंहीयांसो गरीयांसः स्थवीयांसो गुणस्तव ।
गुणा इव निबध्नन्ति कस्य नाम न मानसम् ॥’ इति ।
अत्र हि मुख्यवृत्त्य निबन्धोऽप्रस्तुतरज्जवादिगुणैककार्यः शौर्यादिषु
गुणेष्वारोपितस्तेषां सामर्थ्यादेव तत्साम्यमवगमयतीत्ययमपि समासोक्तेरेव
विषयो युक्तो न श्लेषस्य ।
न हि विशेषणसाम्यमेवैकमप्रस्तुतार्थावगतिहेतुः, यथाहुः—
‘प्र?कृतार्थेन वाक्येन तत्समानैर्विशोषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥’ इति ।
किं तर्हि तत्कार्यसमारोपोऽपीति गुणा इवेत्यपास्यमेव ।
श्लेषस्य विषये उपमाया यथा—-
‘भैरवाचार्यस्तु दूरादेव ट्टष्टा राजानं शशिनमि?व जलनिधिश्चचाल’ इति ।
अत्र हि राजशब्द एवोभयार्थत्वाच्छशिनमाहेति श्लेषस्यायं विषयो
युक्तः । यदत्र पृथक् तमुपादाय राजशशिनोरुपमानोपमेयभावोपनिबन्धः
सोऽपि वाच्यावचनं दोषः । स ह्मार्थ एव तद्विदामधिकं स्वदते न शाब्द
इत्युक्तम् । एवं—
‘तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥’
इत्यत्रापि द्रष्टव्यम् । अत्र हि श्लेषविषये रूपकमासूत्रितमनाट्टत्योपमा-
नुरागिणा कविना सैवोपनिबद्धा । न चासौ ताभ्यां स्पर्धितुमुत्सहते तयो-
र्यथापूर्वं प्रतीयमानार्थसंस्पर्शातिरेकात् तदनुविधायिनः सहृदयैकसंवेद्यस्य
चमत्कारातिरेकस्य सम्भवादिति तस्य वाच्यस्यावचनं दोषः ।
रूपकस्य विषये उपमाया यथा—
‘ततो द्रतं वैरमदाभितप्तः सोऽतीव रम्याद् भवनाद्रिकुञ्जात् ।
विनिर्ययौ दानवगन्धहस्ती महाद्रिकुञ्चादिव गन्धहस्ती ॥’

न चात्राद्याविन्दुगन्धहस्तिशब्दौ प्रशंसावाचिनावपरौ पुनरुपमानवाचि-
नाविति तयोर्भिन्नार्थत्वान्न यथोक्तदोषावकाश इति युक्तं वक्तुम् आद्याभ्या-
मेव ताभ्यां तदुभयार्थावगतिसिद्धेः ।
नन्वेम्—
‘अनिराकृततासं पदं फलहीनां सुमनोभिरुज्ज्ञिताम् ।
खलतां खलतामिवासतीं प्रतिपद्यते कथं बुधो जनः ॥’
इत्यादिकाव्युक्तदोषयोगादसदेव स्यात् । मैवं वोचः। यत्र हि यदल-
ङ्कारप्रतिभानुगुणशब्दोपरचितः श्लेषस्तत्र तदलङ्कारनिबन्धस्तभेव श्लेषमभि-
व्यनक्ति नतु तस्य विषयमाक्रामतीति निबन्धनान्तराभावे सत्युपात्तस्यापि
शब्दस्य यदेतदुपमानाभिधायितया द्विरुपादानं सा श्लेषस्यैवाभिव्यक्तिः, न तु
तत्रालङ्कारान्तरसंस्पर्श इति तदतद्विषयताशङ्कैवात्र नावतरतीत्युक्तदोषद्वय-
योगासिद्धेः कथमिवास्य काव्यस्य दुष्टता स्यात् ।
यदलङ्कारव्यक्त्यै ये शब्दास्तदितरोऽपि तैरेव ।
व्यज्येताल्पतरैर्यदि तदसौ गृह्मेत लाघवान्नान्यः ॥ 73 ॥
न ह्मस्ति निजे कर्मण्यलङ्कृतीनां स कश्चनातिशयः ।
येन विधीयेतैका परा निषिध्येत वा कविभिः ॥ 74 ॥
इति सङ्ग्रहार्थे ।
किञ्च सौन्दर्यातिरेकनष्पत्तयेऽर्थस्य काव्यक्रियारम्भः कवेः, न त्वलङ्कार-
निष्पत्तये, तेषां नान्तरीयकतयैव निष्पत्तिसिद्धेः भङ्गिभणितिभेदानामेवालङ्का-
रत्वोपगमात् । तेनात्र समासोक्तिश्लेषभङ्गिभ्यामेवार्थस्य यथोक्तचमत्कारित्व-
सिद्धिः, नोपमयेति तयोर्वाच्ययोर्यदवचनं स दोष एव ।
न चालङ्कारनिष्पत्त्यै रसबन्धोद्यतः कविः ।
यतते ते हि तत्सिद्धिनान्तरीयकसिद्धयः ॥ 75 ॥
यतः—
रसस्याङ्गं विभावाद्याः साक्षान्निष्पादकत्वतः ।
तद्वैचित्र्योक्तिवपुषोऽलङ्कारास्तु तदाश्रयाः ॥ 76 ॥
तेनैषामप्रधानत्वादाधानोद्धरणादयः ।
चारुतापेक्षार्थस्य कल्प्यन्ते कविना स्वयम् ॥ 77 ॥
यदाहुः—-
‘मुख्या महाकविगिरामलङ्कृतिभृतामपि ।
प्रतीयमानच्छायैव भूषा लज्जेव योषिताम् ॥’ इति ।
अत एव बहुष्वन्येष्वलङ्कारेषु सत्स्वपि ।
कांश्चिदेव निबध्राति शक्तिमानपि सत्कविः ॥ 78 ॥
यतः सर्वेष्वलङ्कारेषूपमा जीवितायते ।
सा च प्रतीयमानैव तद्विदां स्वतेताराम् ॥ 79 ॥
रूपकादिरलङ्कारवर्गो यमक एव हि ।
तत्प्रपञ्चतया प्रोक्तः कैश्चित्तत्त्वार्थदर्शिभिः ॥ 80 ॥
इति सङग्रहश्लोकाः ।

स चायं द्विविधः श्लेषः शब्दार्थविषयतयोच्यते । तत्र शब्दविषयो यथा–
यत्रान्यूनातिरिक्तने साट्टश्यं वस्तुनोर्द्वयोः ।
शब्दमासत्रेण कथ्येत स शब्दश्लेष इष्यते ॥ 81 ॥
स शब्दैः कर्तृकर्मादिप्रधानार्थाविनाकृतैः ।
निबद्धो धर्मिधर्मार्थौर्द्विविधः परिकीर्त्तितः ॥ 82 ॥
इत्थं समासतो ज्ञेयं शब्दश्लेषस्य लक्षणम् ।
अपरस्तु प्रसिद्धत्वादिहास्माभिर्न लक्षितः ॥ 83 ॥
उभयत्राप्यभिव्यक्यै वाच्यं किञ्चिन्निबन्धनम् ।
अन्यथा व्यर्थ एव स्याच्छ्लेषबन्धोद्यमः कवेः ॥ 84 ॥
तत्र धर्म्यर्थस्य श्लेषादभिन्नत्यं यथा—-
‘अत्रान्तरे फुल्लमल्लिकाधवलाट्टहासः कुसुमसमयुगमुपसंहरन्नजृम्भत
ग्रीष्माभिधानो महाकालः । ’ इति ।
अत्र हि समासोक्तिनिबन्धना देवताविशेषवाचिनो महाकालशब्दस्यावृत्तिः,
न तु तस्यैवोभयार्थत्वनिबन्धनेति वक्ष्यते ।
निबन्धनाभावे तु तस्य दुष्टतैव यथा—
आच्छदितायतदिगम्बरमुच्चकैर्गामाक्रम्य च स्थितमुदग्रविशालाश्रृङ्गम् ।
मूर्ध्रि स्खलत्तुहिनदीधितिकोटिमेनमुद्वीक्ष्यको भुवि न विस्मयते गिरीशम् ॥’ इति ।
अत्र हि आवृत्तिनिबन्धनं न किञ्चिदुक्तमिति तस्य वाच्यस्यावचनं दोषः ।
न च सकृत्प्रयुक्तोऽयं गिरीशशब्द एवोभयार्थत्वाच्छ्वेतो धावतीतिवद्य-
थायोगं प्रदीपवत् तन्त्रेण प्रसङ्गेन वार्थान्तरप्रतीतिनिबन्धनमित्ति शक्यते
वक्तुं, तयोः प्रतिपत्तृपरामर्शनपेक्षं प्रदीपस्यापरपदार्थविषयत्वेन प्रवृत्तिदर्श-
नात् , न शब्दविषयतैवम्ः शब्दो हि प्रतिपत्तृपरमर्शमन्तरेण नार्थान्तरे
प्रतीतिमाधातुमलं, परामर्शश्च निर्निबन्धनो न भवितुमर्हति अतिप्रसङगात् ,
निबन्धनं चात्र न किञ्चिदुपकल्प्यत इति व्यर्थः श्लिष्टार्थशब्दान्वेषणप्रयासः कवेः ।
यथा च—
‘विदधतः पथिकक्षपणं प्रति स्मृतिभुवो निजशक्त्युपवृंहणम् ।
दधुराहार्यभटाः सहकारितामनवमा नवमाधवसङिगनः ॥’
अत्र हि सहकारिशब्देन सहकर्त्तुं शीलत्वं सहकारसम्बध्चेत्युभयोऽर्थः
श्लेषेण विवक्षितः । तत्र रम्यतातिरेकलक्षण एक एव ततः प्रतीयते नापरो
निबन्धनाभावादिति तस्य वाच्यस्यावचनं दोषः ।
एकोऽनेकार्थकृद् यत्र स्वभावेनैव दीपवत् ।
समयस्मुत्यनाकाङ्क्षस्तन्त्रस्य विषयो हि सः ॥ 85 ॥
शब्दे त्वसिद्धमेकत्वं प्रत्यर्थं तस्य भेदतः ।
साट्टश्यविप्रलब्धस्तु लोकस्तत्त्वमवस्यति ॥ 86 ॥
नैतावतावगन्तव्या तस्यानेकार्थवृत्तिता ।
नात एव प्रसङ्गस्य पदं शब्दोऽवकल्पते ॥ 87 ॥
न चानिबन्धना युक्ता शब्दस्यार्थान्तरे गतिः ।
तच्चानेकाविधं प्रोक्तमव्ययानव्ययात्मकम् ॥ 88 ॥
तस्मादर्थान्तरव्यक्तिहेतौ कस्मिंश्चनासति ।
यः श्लेषबन्धनिर्बन्धः कलेशायैव कवेरसौ ॥ 89 ॥
इति सङ्ग्रहश्लोकाः ।
धर्मार्थस्य यथा—-
‘प्रकटकुलिशकुन्तचक्रभास्वत्परबलभीहितमत्तवारणाङ्काः ।
दिशि दिश दट्टशे निशान्तपङ्क्तिः समरविमर्दभुवं विडम्वयन्ती ॥’
अत्र व्यतिरेकालङ्कारनिबन्धना श्लेषाभिव्यक्तिः।
यथा च—
‘उषसि विगलितान्धकरपङ्कप्लवशबलं घनवर्त्म दूरमासीत् ।
मधुरतरणितापयोगतारं कमलवनं मधुपायिनां च पङिक्तः ॥’ इति ।
अत्र चशब्दः श्लेषामिव्यक्तिहेतुः ।
केचित् पुनः धर्मिधर्मोभयार्थस्यापि शब्दस्य श्लेषमिच्छन्ति, यथा—
‘अनवरतनयनसलिलसिच्यमानस्तरुरिव विपल्लवोऽपि सहस्त्रधा
प्ररोहति ।’ इति ।
अत्र विपल्लवशब्दस्य । तच्चयुक्तम् । तथाहि—विपल्लावशब्दस्य धर्मिध-
र्मोभयार्थत्वेऽपि न धर्मार्थत्वम्, यतोऽयमुपमानस्य विशेषणभावमुपगन्तुं
नोत्सहते, तस्योपमेयाभिधाने चरितार्थस्यावृत्तेरनुपपत्तेस्तत्स्वरूपापाहारप्र-
सङगात् ।
यः पुनरप्रधानमेवार्थमभिक्षत्ते न प्रधानमसावुपयुक्तार्थोऽपि निबन्धन-
सदभावे सत्यावर्त्तत एव । यथा—
‘सानुस्थितिर्जनकराजसुतेव भास्वदङ्कोल्लवतया श्रियमेति यस्य ।’ इति ॥
अत्र भास्वङ्कोल्लपल्लवताशब्दः ।
इह पुनर्द्विरुपादानमेवैकमुपमानसम्बन्धबुद्धिनिबन्धनमवसेयं न चेवाद्य-
व्ययमनव्ययमलङ्कारान्तरं वा किञ्चित् ।
यत्र च प्रधानार्थसंस्पर्शमात्रादेवोभयार्थस्य शब्दस्य द्विरुपादानमवश्यं
कार्यं तत्र तदेकार्थस्य तत् स्थितमेव । यथा—
‘व्रध्रस्येद्धा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ।’ इति ।
यथा च—
‘खलतां खलतामिवासर्ती प्रतिपद्येत कथं बुधो जनः ।’ इति ।

न चावृत्तिनिबन्धनमिवशब्दोऽत्र प्रयुक्त एवेति कुतः प्रधानार्थसंस्पर्श-
वशाद्विपल्लवशब्दस्य द्विरुपादानप्रसङ्ग इति शक्यते वक्तुं, तस्य तरुविपल्ल्व-
योरुपमानोपमेयभावद्योतनमात्रचरितार्थस्य तयोर्विशेषणविशेष्यभावाभिधान-
सामर्थ्याभावात् ।
अथ विपल्लवशब्दस्य तरुविशेषणभावोपगमयोग्यार्थन्तरसम्भवे तस्य
तरुणा सामानाधिकरण्ये सत्याकाङ्क्षासन्निधियोग्यतावशात् तयोर्विशेषणवि-
शेष्यभावोऽवगम्यत इति चेत्, तन्नः वाक्यप्रभेदप्रसङ्गात् ‘विपल्लवस्तरुरिव
स च तरुर्विपल्लव’ इति ।
अथ समासोक्तिवशादुक्तनयेन तयोः सम्बन्धावगतिरिति । तदयुक्तम् ।
तस्या उपमानभूतधर्मिमात्रप्रतीतिसामथ्र्योपगमात् । इह तु तरुरिवेति तदु-
पात्तमेवेति व्यर्थ एवायमनेकार्थपादोपादानप्रयासः कवेः ।
तस्मात् सलिलसिच्यमानत्वसहस्त्रधाप्ररोहादिसमानधर्मापेक्ष्यैवात्र तरु-
विपल्लवयोरुपमानोपमेयभावोऽवगन्तव्यः न तु श्लेषः, स हि भ्रान्तिमात्रकृतः ।

यथा च—-
“क्वचित् तरुतलविवरवर्त्तिनो बभ्रव क्वचित् स्वच्छन्दचारिणो हरिणाः
क्वचिज्जटावल्कलावलम्बिनः कपिला’’ इति ।
एवमर्थश्लेषेऽष्यवगन्तव्यम् । यथा—-
‘समन्ततः केसरिणं वसन्तं भीमं च कान्तं च वपुर्वहन्तम् ।
विलोक्य दूरात् तरसाभिमानो दुर्वारणः क्वपि गतः स मत्तः ॥’ इति ।
अत्र हि केसरिदुर्वारणयोर्वसन्ताभिमानयोश्च धर्मिधर्मोभयार्थयोरन्योन्यं
विशेषणविशेष्यभावो रूप्यरूपकभावो वा निबद्धः । स चायुक्तः। न हि
स्वतन्त्रपरतन्त्रतालक्षणविशेषणविशेष्याद्यात्मकविरुभयार्थाभिधानं सकृ-
दुपात्तेनैकेनैव शब्देन शक्यते कर्त्तु म् अर्थयोरन्योन्यविरोधात् । द्विरुपादाने
तु तयार्भिन्नार्थत्वान्न कश्चित् दोषः । यथा—-
‘अलिभिरञ्चनबिन्द्रमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकास्तिलकः प्रमदामिव ॥’
इत्युक्तप्रायम् ।
न च तदुपात्तमिति तस्य वाच्यस्यावचनं दोषः ।
तदभिव्यक्तिनिबन्धनसदभावे तु तयोः प्रधानेतराभिव्यक्तौ विशेषणविशे-
ष्यप्रतिनियमो युक्त एव । यथा—-
‘अतिगम्भीरे भूपे कृप इव जनस्य निरवतारस्य ।
दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥‘इति ।
अत्र हि इवशब्दनिबन्धनो गुणवत्त्वघटकत्वयोर्विशेषाविशेष्यभावः, न
पार्थिवत्वस्यापि, तस्योपमेयतया प्राधान्यात् तस्य स्वरूपापहारातेरि-
त्युक्तम् ।
किञ्च मत्त इत्यस्य द्विरुपादानेऽपि नार्थश्लेषो घटते तयोन्नविभक्ति-
कत्वादिति भ्रान्तिमात्रकृतस्तत्रार्थश्?लेषाभिमतानः।
किञ्च लक्षणवाक्ये शब्दमात्रेणेति यन्मात्रग्रहणं तदुपमानसामानाधिकर-
ण्यतदितरयोग्ययोरुभयोरपि शब्दयोः परिग्रहार्थम् । तेन लिङ्गवचनविभक्ति-
विशेषयोगे सति यस्य तद्योग्यत्वमुपजायते तेनापि साट्टश्यं कथनीयमित्य-
भ्यनुज्ञातं भवति ।
तत्र लिङ्गविशेषयोगे सति यथा—
‘उषसि विगलितान्धकारपङ्कप्लवशबलं घनवर्त्म दूरमासीत् ।
मधुरतरणितापयोगतारं कमलवने मधुपायिनां च पङ्क्ति ॥’ इति ।
अत्र चशब्दनिबन्धना श्लेषाभिव्यक्तिः ।
वचनविशेषयोगे यथा—
‘वघटितिमिरौघदिक्प्रबन्धप्रकटनभस्यभवन्निशावसाने ।
स्फुटलनमनाश्च पह्मषण्डास्पदि हिमेतरदीधितिश्च तेषाणाम् ॥’ इति ।
अत्र चशब्दनिबन्धनावृत्तिः ।
यथा च—
‘तनुत्वरमणीयस्य मध्यस्य च भुजस्य च ।
अभवन्नितरां तस्या वलयः कान्तिवृद्धये ॥’ इति ।

विभक्तिविशेषयोगे यथा—-
‘सरसमन्थरतामरसोदरभ्रमरसज्जलया नलिनी मधौ ।
जलधिदेवतया सट्टशीं श्रियं स्फुटतरागतरागरुचिं दधौ ॥’ इति ।
अत्र साट्टश्यमनव्ययमावृत्तिनिबन्धनम् ।
न्यूनातिरिक्तप्रतिषेधश्चास्य प्रधानविशेषणसाम्यप्रतिपत्त्यर्थः । तेन यत्र
तन्न सम्भवति स दुष्ट एव श्लेष इत्यवसेयम् ।
तत्र न्यूनत्वं यथा—
‘इ?ह चटुलतया विलोचनौघैः स्फुटशितितारकविभ्रमैस्तरुण्यः ।
दधति मधुकरैश्च कोरकान्तस्थितिरमणीयतरैः श्रियं नलिन्यः ॥’ इति ।
अत्र मधुकरपक्षे न्यूनत्वम् ।
अतिरिक्तत्वं यथा—-
‘दिशि दिशि विहगास्तनूस्समन्तादनलसपक्षतयोपचोयमानाः ।
उषसि जिगमिषाकुलास्तदानीं दयितवियोगदशा वधूश्च देहुः ॥’ इति ।
अत्र दयितवियोगदशापक्षेऽतिरिक्तत्वम् । अव्ययमावृत्तिहेतुः ।
किञ्चात्र शब्दश्लेषे न कर्तृकर्मादिप्रधानार्थपदोपनि शब्दसाट्टश्य-
मुपकल्पनीयं प्रधानस्वपापहारप्रसङ्गात् । तत्र कर्तुः स्वरूपापाहारो यथा—
‘इह विबुधगजस्य कर्णतालस्खलनसमीरविधूतकुम्भधातोः ।
वहति मदनीपरागरक्ता रतिगृहभित्तिरिव श्रियं परार्ध्याम् ॥’ इति ।
यथा च—
‘सङ्ग्रमानाटककुतूहलिनां तदानीमुत्थापनेन दधतो मुदमुत्तमानाम् ।
विस्पष्टभाण्डरुचयोऽतिविचित्ररूपां लक्षमीं दधुर्जवनिकामहितास्तुरङ्गाः॥’ इति ।
एवम्—
‘अवन्धकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥’
इत्यावादापि द्रष्टव्यः। अत्र हि ‘न विद्विषा भीः सुहृदा च नादरः’ इति
युक्तः पाठः ।
कर्मणो यथा—
‘कुन्तालीभिर्युधमिव गहनामेतामासाद्योकच्चैश्शितशतशरशतसङ्कीर्णाः ।
अस्मिन् नाफलकवलनसंसक्ता वल्गन्तयेते दिशि दिशि हरिसैन्यौघाः॥‘इति ।
क्रियाया यथा—
‘कुसुमैः कृतवासनः समन्तादपनिद्रत्वमुपेयिदिभरस्मिन् ।
श्रुतिमन्त्रगणामिरामरूपैर्न ववौषट्पदशोभिमिः समीरः ॥’ इति ।
एष चार्थो न्यायासिद्धोऽपि मृदुमतीन् प्रति सुखप्रतिपत्तये वचनेन प्रतिपादितः ।
सा चेयमखिलस्यैव पदस्यावृत्तिरिष्यते ।
निबन्धनवलोदभूता न तर्दशस्य जातुचित् ॥ 90 ॥
उपयुक्तार्थता ह्मस्य पदस्येव न विद्यते ।
अधुना तूपयोगेऽस्य पूर्वस्यार्थस्तिरोभचेत् ॥ 99 ॥
अर्थप्रयोगो युगपल्लाघवेनोभयोरपि ।
स्यादयं कामचारो यद्येकेनोक्तिर्द्वयोर्मवेत् ॥ 92 ॥
इत्यन्तरश्लोकाः
‘यत्र च मातङ्गामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः
पह्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिनिश्वसिताश्च प्रमदा।’ इति ।
अत्र चशब्दावेदितो विरोधः तस्याप्यपिशब्दस्येच तदर्थाभिघानसामर्थ्यो-
पगमात् ।
‘खं येऽभ्युज्जवलयन्ति लूनतमसो ये वा नखेदभासिनो
ये पुष्णन्ति सरोरुह?श्रियमधिक्षिप्ताब्जभासश्रये ।
ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणं शिरां-
स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रियै सन्तु वः ॥’
इत्यात्रोभयेषां पादानां व्यतिरेकोऽनुमेयस्तत्र चैषां भिन्नविशेषणत्वमेव
हेतुः ।
अभिन्नविशेषणत्वे हि निबन्धनसदभावे सति साट्टश्यमात्रं प्रतीयते न
व्यतिरेकः, यथा—
‘भक्तिप्रहृविलोकनप्रणयिनी नीलोत्पलस्यर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लर्क्ष्मी ट्टशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥’ इत्यादौ ।
भिन्नविशेषणत्वे तु तेषामन्सयोन्यविशेषप्रतिपत्तिः । विशेषो हि न भेदम-
न्तरेण भवति स एव च व्यतिरेको नापर इति भिन्नविशेषणत्वानुमेय एवासौ
न शब्दशक्तिमूलः ।
तदभिव्यक्तिनिबन्धनं क्वचिदन्यदीयं वचनमपि भवति । यथा वेणीसंहारे-
‘रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।’
इति शैलूषवचनाकर्णनक्रुद्धं भीमसेनं सान्त्वयितुं सहदेवस्य ‘अकच !’
अनुमतमेव नो भरतपुत्रस्य वचनम्’ इति वचनम् ।
क्वचित् पुनः प्रतीयमानार्थस्तदभिव्यक्तिनिबन्धनं भवति यथा—
‘आलिङ्गादरचितस्थितिराबभौ या पत्युर्विकासिपरिखाजलीविबन्धा ।
विस्तारिसालजघनं परिवर्त्तमाननक्षत्ररत्नरशनागुणमुद्वहन्ती ॥’ इति ।
अत्र तदुचितविशेषणसामर्थ्योपस्थापितो नायिकार्थः पत्युरालिङ्गनादर-
चितस्थितस्य श्लेषस्य ।
यत्र तु आवृत्तिनिबन्धनगन्धोऽपि न सम्भवति न तत्रार्थान्तराबगतिरिति
वृथैव तत्र कवीनामुभयार्थदोपनिबन्धप्रयासः, वाच्यावचनदागेषदुष्टत्वात् ।
तत्र शब्दश्लेषे यथा–
‘क्ष्माभर्त्तु रस्य विकटः कटकः सपीलु-
पालीकुमस्सहरिसैन्यशतावमर्दः ।
लर्क्ष्मी विलासघटनां नयति व्यपास्त-
नानाधिकामचरामागधरजितश्रीः ॥’ इति ।
यथा च–‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो
यश्चोद्रिक्तभुजङ्गारवलयो गङ्‌गां च योऽधारयत् ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥’ इति ।

एवम्–‘कह णाम ण होसि तुम भाअणमसमञ्जसस्सण रणाह ! ।
णिच्चं चेअ कुणतो अहिच्छमत्थाण विणिओअम् ॥’
इत्यादावपि द्रष्टव्यः । न ह्मत्र चाटौ निन्दायां वा निश्चयो निबन्धनाभावा-
दिति ।
अर्यश्लेये यथा–
‘दत्तानन्दाः प्रजानां समुचितसमयाक्लिषृसृष्टैः पयोभिः
पूर्वाहणे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभयोदन्त्तारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥’ इति ।
अत्र हि गाव इत्यस्य विशेष्यवाचिन उपमानामिमतार्थानतरवृत्तित्वेऽपि
विशेषणानाञ्चोभयार्थानुगुण्येऽप्युमानस्य तत्सम्बन्धाभिधायिनश्चावश्यवाच्य-
स्यावचनं यत् स दोष इत्येतद्वितनिष्यते ।
उमयश्लेषे यथा—
‘सर्वैकशरणमक्षयमधीशमीशं वियां हरि कृष्णम् ।
चतुरात्?मानं निष्क्रियमरिमथनं नमत चक्रघरम् ॥’ इति ।
इहापि वाच्यावचनमवगन्तव्यम् ।
यथा—
‘पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषत इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥’ इति ।
अत्र नागयूथेन धर्मिणा सम्यं तमसां वक्तुमभिमतं कवेः, न तद्धर्मेण
मलिनत्वमात्रेण । मृगपतौ पतिते निष्प्रतिपक्षतया तस्यैव स्वेच्छाविहारित्वो-
पपत्तेः, न तद्वन्मलिनानां तमसां, पतङ्गस्य मृगराजरूपणवैयर्थ्यप्रसङ्गात् । न
च तत् मलिनादिशब्दाः शक्नुन्ति वक्तुं हारिसुन्दरसुभगसट्टशसन्निभादिश-
ब्दानामेव तदभिधानसामर्थ्यदर्शनात् ।
अन्यथा—
‘सरोजकर्णिकागौरीं गौरीं प्रति मनो दधौ ।’
इत्यादौ गौरादिशब्दा अपि धर्मिसाम्यमेवावगमयेयुः न धर्ममात्रसाम्यम् ।
तच्चानिष्टं गौरत्वमात्रसाधर्म्यकृतस्य गौर्याः सरोजकर्णिकासम्यस्य वै?वक्षि-
कत्वात् ।
अथोच्यते गौरादिशब्दा अपि सट्टशादिशब्दवत् साक्षाद् धर्मिताम्यमे-
वाभिदध्युः, सामर्थ्यात् तु धर्ममात्रसाम्यावगतिः कर्णिकाया गौरत्वाव्यभि-
चराद् इति । तदयुक्तम् । तन्निबन्धनभूतायाः श्रुतहानेरश्रुतकल्पनायाश्रान्या-
य्यत्वात् । युज्येत पुनरेवं, यदि प्रतीतिः क्षमेतेति ।
यत् पुनर्धर्मयोरेकनिर्देशेऽन्यधर्मप्रतिपत्तिः साहचर्यादित्यन्ये मन्यन्ते,
यथा—‘निवृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनां
लूतातन्तुतिच्छिदो मधुपृषत्पिङ्गाः पयोविन्दववः ॥’
इत्यत्र पयोबिन्दूनां मधुपृषत्पिङ्गत्वात् पिङ्गत्वसहचरितवृत्तत्वस्य प्रति-
पत्तिरिति, तदनुपपन्नम् । माधुर्यादेरपि प्रतिपत्तिप्रसङ्गात् साहचर्याविशे-
षात् । या तु रूपादेस्सतो गतिः सा हेतुधर्मानुमानेनेष्यते । इह तु हेतुहेतुम-
मदभावस्तयोरसिद्ध इति साहचर्याहसिद्धौ कुतोऽन्यधर्मप्रतिपत्तिसिद्धिः ।
सिद्धेऽपि वा तस्मिंस्तस्यैकस्य धर्मस्य साधननभावेनानिर्देशे कथमन्यधर्मप्रति-
सि?त्तिसिद्धिः ।
एवं हि—
‘दुःखाभितप्तस्य जनस्य जाने तुषारशीतः प्रतिभाति वहिः ।’
इत्यत्र वह्नावपि शीतत्वसाहचर्यात् पाण्हुतृवप्रतिपत्तिप्रसङ्गः ।
किञ्च सत्यामन्यधर्मप्रतिपत्तिद्धौ तद्धेतुः साहचर्यमन्यद्वा परिकल्प्येत ।
अत्र तु सैव न सिद्धेति व्यर्थस्तत्परिकल्पप्रयासः ।
किं हि तत्परिकल्पनं विनात्र परिहीयेत । पयोबिन्दूनां मधुपृषद्वृत्तत्व-
मिति चेत् , कामं परिहीयताम् । न च प्रयोजनवशात् प्रमाणव्यवस्था
भवितुमर्हति ।
तस्मादनेकधर्मन्वेऽष्यर्थस्य यस्यैव धर्मस्य निर्देशास्तस्यैव प्रतिपत्ति-
र्न्याय्या नान्यस्येत्यत्र तमसां नागयूथसाट्टश्ये वाच्ये यत् तेषां मलिनत्वमुक्तं
स वाच्यावचनं दोषः ।
एवं च पृषत्पदप्रयोगोऽत्रातिरिच्यमानोऽनुप्रासवृत्तपरिपूरणायैव पर्य-
वस्यति न बिन्दूनां वृत्तत्वप्रतिषत्तये इति ‘नागयूथसट्टशार्नी–त्वत्र पाठो
युक्त इति ।
यत्तु—
‘करिकरम ! विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो गुरुरुषरि क्रमते न तेऽङ्कुशः ॥’
इत्यत्राङ्‌कुशस्य मृगपतिनखकोटिमङ्गुरत्वं दुस्सहत्वं चेति मर्धद्वयं वक्तु-
ममिमतम् । न तदुक्तनयेन भङ्गुरशाब्द एवावगमयिनुं क्षमते, तस्य कौटिल्य-
मात्रामिधायित्वेनैव प्रसिद्धेः। यत् तु तस्य दुस्सहत्वं तत् मृगपतिपदसम्ब-
न्धसामर्थ्यादेव प्रतीयते न भङ्गुरत्वसाहचर्यादिति ।
एवम्—
‘प्रभवति च समरमूर्धनि नवनील एष तव खङ्गः ।
विशति च मानसममलं सतां हंसविसरसितम् ॥’
इत्यत्रापि खड्गस्य यशसश्च पूर्वोक्तेन नयेन नवनीरदहंसविसररूपत्वा-
प्रतीतौ तन्निबन्धनाया अर्थान्तरप्रतीतेरनुपपत्तिरिति भ्रान्तिमात्रकृतोऽसा-
चात्रानुगुणौ पाठौ ।
धर्मिसाम्याविवक्षायां धर्ममात्राभिधायिनाम् ।
नेष्टः प्रयोगः शब्दानां समासोपमितौ बुघैः ॥ 93 ॥
इति सङ्ग्रहश्लोकः ।
यथा च—
‘तेनावरोधप्रसमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥’ इति ।
अत्रानुयातिक्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः
कवेः । न चासौ तत्सम्बन्धस्तयोः साक्षादुक्तः, जललीलासम्बन्धमुखेन राज-
सम्बन्धस्योक्तत्वात् । अतोऽत्र साक्षात् तत्सम्बन्धो वा वाच्यः, तदर्थमन्यत्
क्रियान्तरं वा, येन कर्तृकर्मभावास्तयोर्घटनामियात् ।

न चोभयोरेकमप्युक्तामिति तस्य वाच्यस्यावचनं दोषः । तेन वरमत्र
पाठः श्रेयान् ‘आकाशगङ्गारतिरप्सरोभिर्वृतोऽनुयातो मघवा विलासैः’ इति ।
न चैवं क्रियान्तराकाङ्क्षाप्रसङ्गः ।
यथा वा—
‘लच्छी दुहिआ जामादुओ हरी तह घश्रल्लिआ गङ्गा ।
अमियमिअङ्का अ सुआ अहो ? कुहुम्बं महोअहिणो ॥’ इति ।
अत्र लक्ष्म्या दुहितृत्वममृतमृगाङ्कयोः सुतत्वं च विधीयमानं तेषां
त्रैलोक्यैकस्पृहणीयतया तत्कुटुम्बस्य महोदधेः श्लाघाया अस्पदत्वमुपपद्यत
इति द्वयमेवोपादेयं द्रष्टव्यं नान्यत् ।
तत्र हि भगवतो हरेर्गङ्गायाश्च सकलत्रैलोक्यालङ्कारत्पवेऽपि न तयोर्जा-
मातृगृहिणीभावेन विधानमिति न महोदधेः श्लाघातिशययोगः यन्निबन्धनमत्य-
दभुतास्पदत्वमस्य स्याद् इति तद्विधानस्य वाच्यस्यावचनं दोषः ।
अथ हरिर्जामाता गङ्गा गृहिणीत्येवं विपयेणात्र सम्बन्धः करिष्यते
तस्य पुरुषाधीनत्वात् । तथा च न यथोक्तदोषावकाशः इति । सत्यम् । किनतु
न सर्वविषयोऽयं सम्बन्धस्य पुरुषाधीनत्वेपगमः। तस्य हि विशेषणविशे-
ध्यभाव एव विषयोऽवगन्तव्यः । यत्र स्वसोन्दर्यादेव तयोरन्योन्यापेक्षो विध्य-
नुवादभावः तत्र हि यथाश्रुतपदार्थसबन्धनिबन्धनोऽर्थप्रतीतिक्रम इति तत्रैव
पदार्थपौर्वार्यनियमोऽवगन्तव्यः । यथा—
‘त्वक् तारवी निवसनं मृगचर्म श्य्या
गेहं गुहा विपुलपत्रपुटा घटाश्च ।
मूलं दलं च कुसुमं च फलं च भोज्यं
पुत्रस्य जातमटवीगृहमेधिनस्ते ॥’ इति ।
प्रत्युदाहरणं यथा—
‘शय्या शाद्वलमासनं शुचिशिला सह्म द्रुमाणामधः
शीतं निर्ज्ञरवारि पानमशनं कन्दाः सहाया मृगाः ।
इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने
दुष्प्रापार्थिनि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥’ इति ।
अत्रोदाहरणप्रत्युदाहरणप्रतीत्योत्योर्यदन्तरं तन्मतिमतोमेवावभासते अन्येषां
तु शपथप्रत्येयमेव ।
अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत् ।
न ह्मलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥ 94 ॥
विधेयोद्देश्यभावोऽयं रूप्यप्कतात्मकः ।
न च तत्र विघेयोक्तिरुद्देश्यात् पूर्वमिष्यते ॥ 95 ॥
इत्यन्तरश्लोकौ ।
यथा—
‘स्पष्टोच्छ्वसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसाविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावलि सञ्चुकोच ॥’
इत्यदौ केसरादेः ।
पदानामभिसम्बन्धस्यान्यथाभावमात्रतः।
यत्रानिष्टप्रतीतिः स्याद् रचनां तां परित्यजेत् ॥ 96 ॥
यथा—
‘तव कण्ठासृजासिक्ता करवाललता द्विषाम् ।
प्रसूते समरण्ये यशःकुसुमस्म्पदम् ॥’ इति ।
अत्र हि चाटुके युष्मदर्थस्य च पौर्वापर्यविपर्यये समासे वा वाच्ये यत्
तयोरवचनं तदेवानिष्टार्थप्रतिपत्तिमूलमिति दोषतयावगन्तव्यम् ।
यथा च—
‘मधुश्च ते मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव ।
समीरणः प्रेरयिता भवेति व्यादिश्यते केन हुताशनस्य ॥’ इति ।
अत एव—
‘‘येन यस्याभिसम्बन्धो दूरस्थेनापि तेन सः ।
पदानामस्मासानामानन्तर्यमकारणम् ॥’’
इति प्रतीत्योर्वैचित्र्यमनालोच्यैव चर्चितम् ।
गुणदोषमपश्यदिभर्दॅरादूरापेत्थोत्थयोस्तयोः ॥ 97 ॥
स्वरूपेऽवस्थितिर्येषां शब्दानामिति नेष्यते ।
न तानन्यव्यवहितान् प्रयुञ्जीत विचक्षणः ॥ 98 ॥
इति सङ्ग्रहश्लोकाः ।
तेन ‘द्विषत्कण्ठासृजासिक्ता त्वत्कृपाणलता वरा ।’ इत्येकत्र युक्तः पाठः,
उपरत्र ‘व्यादिश्यते केन समीरणो वा हविर्भुजश्चोदयिता भवे?‘ति ।
अनन्वयोऽप्यभ्यूहृमार्थत्वाद्रसभङ्गहेतुरिति सोऽपि वाच्यावचनं दोषः ।
यथा—
‘चिर्धातोमग्रैः कुञ्जलीनाम् जिघांसुजृर्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयायारोऽसौ वीर्योदग्रे राजशब्दे मृगाणाम् ॥’ इति ।
अत्र हि सिंहानां तावच्च राजशब्दसम्बन्धः सम्मवति तेषां तद्वाच्यत्वा-
भावात् तत्सम्बन्धाभावाच। तत्पर्यायस्य मृगराजशब्दस्य सन्नप्यसावनुपयुक्त
एव तस्य प्रकान्तत्वाभावाद् मृगाणामित्यत्र मृगराजानामित्येवमनुक्तेश्च ।
किञ्च मृगेषु राजत्वं भवतिसिहानां नतु शब्द इति चीर्योदूग्रत्वं तद्विशेषण-
मनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः । तेन न सिंहानां न मृगाणां न वीयोद-
ग्रत्वस्य च राजशब्दशब्देनान्वयः सङ्च्छत इत्यवाच्य एवासौ । तेन राज-
भाव इति मृगेष्विति वा वाच्ये तदवचनं दाषः । यथा—
‘तपेन वर्षाः शरदा हिमागमो
वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनक्लृप्तिं दघतः सदर्त्तवः
पुरेऽस्य वास्तव्यकुटुम्बितां दधुः ॥’ इति ।
अत्र हि तपर्त्तोर्लिङ्गविशेषानुमितपुरुषभावस्य कर्तृत्वात्प्राधान्यं वक्तुमु-
चितम् , वर्षाणां च स्त्रीत्वस्य सहभावेन निर्देशादप्राधान्यम् , यथान्येषां
हिमागमादीनाम् , अन्यथा तेषां कुटुम्बिरूपतानुपपत्तेः । न च तथोक्तमिति
तस्य वाच्यस्यावचनं दोषः ।
‘किमवेक्ष्य फलं पयोघरान् ध्वनतः प्रार्थयते मृगाधिपः ।
पुकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥’
इत्य महीयसामिति बहुवचनं वा वीप्सासमानफलं प्रयोक्तंव्यम्,
यथा—
‘यावदर्थपदां वाचमेवमादाय माघवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः॥’
इत्यत्रार्थान्तरन्यासे, सर्वादिशब्दो वा यथा—
‘छायामपास्य महतीमपि वर्त्तमाना-
मागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपनतमप्यपचीयमानं
वर्धिष्णुमाश्रयमनातमप्युपैति ॥
इत्यत्र । अन्यथा समर्थकस्य प्रकतिमहीयस्त्वस्य हेतोरन्यसमुन्नत्यस-
सर्वनामपरामर्शयोग्यस्यार्थस्य या पुनः ।
स्वशब्देनाभिधा दोषः स वाच्यावचनाभिधः ॥ 99 ॥
?Bयथा—
‘निशि नानितकस्भितामपि चक्राह्वः सहचरीं विलोकयति ।
चक्राहृपि न सहचरमहो सुदुर्लङ्घता नियतेः ॥’ इति ।
अत्र हि वक्राह्वासहचरौ न स्वशब्दपरामर्शविषयौ भवितुमर्हतः, तयो-
रुक्तनयेन सर्वनामपरामर्शविषयत्वोपपादनात् , अन्यथा तयोः पौनरुक्त्यं
सर्वनाम्रां च विषयापहारः स्यात् । न चात्र तथा परामर्शो विहित इति
वाच्यावचनं दोषः । तेन ‘विरहविधुरा न सापि त’मित्यत्रानुगुणः पाठः ।
एवम्—
‘परिपाति स केवलं शिशूनिति तन्नामनि मास्म विश्वसीः ।’
इत्यादावष्ययं दोषो द्रष्टव्यः। तस्य हि शिशुपाल इति नाम प्रसिद्धं न
तु शिशुपरिप इति । तेन ‘स शिशून् किल पालयत्यभीः’ इति युक्तः पाठः
इत्यलं बहुभाषितेन ।

        ?0( 6 ) अवाच्यवचन?0       

अनेन च वाच्यावचनेन सामर्थ्यादवाच्यवचनममपि सङ्गृहीतं वेदि-
तव्यम् । तस्यापीष्टार्थविपर्ययात्मकत्वात् । तद्यथा—
‘सरित्सुमुद्रान् सरसींश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि ।
तस्यापतन् मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः ॥’ इति ।
अत्र ह्मेकस्यैवार्थस्य यः पर्यायमात्रभेदेन भेदसुपकल्प्योपमनोपमेय-
भावो निबद्धः सोऽवाच्यवचनं दोषः, तस्य भिन्नार्थनिष्ठत्वात् । तदयमत्र पाठो
युक्तः ‘विन्ध्यस्य मेघप्रभवानि यद्वत्’ इति । अस्मिँश्च पाठे भिन्नलिङ्गत्वमुप-
मादोषोऽपि परिहृतो भवति ।
पर्यायमात्रभिन्नस्य यदेकस्यैव वस्तुनः ।
उपमानोपमेयत्वमवाच्यवचनं च तत् ॥ 101 ॥
इति सङ्ग्रहश्लोकः ।
यथा च—
‘इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो-
रसावस्यास्स्पर्शो वपुषि बहलश्चन्दनरसः ।
अयं कण्ठं बाहुः शिशिरमसृणो मौक्तिकसरः
किमस्य न प्रेयो यदि परमसह्मस्तु विरहः ॥’ इति ।
अत्र यत् साक्षान्नायिकावर्णनं तदवाच्यमेव । तत्सम्बन्धिनामेव स्पर्शा-
दीनामिव रम्याणामर्थानां विरहव्यतिरेकेणाङ्गभावोपगमाद् । न तस्या एव
विरहस्य तत्सम्बन्धित्वेऽप्यसह्मत्वाभिधानादिति तस्य वचनं दोषः। तेन
‘मुखं पूर्णश्चन्द्रो वपुरमृतवर्त्तिर्नयनयो’रित्यत्र युक्तः पाठः ।
यथा च—
‘शोकानलधूमसम्भारसम्भृताम्भोदभरितमिव वर्षति
नयनवारिधाराविसरं शरीरम् ।’ इति ।
अत्र हि शोकस्य केनचित् साधर्म्येण यदनलत्वेन रूपणं तत् तावद्-
रूप्यस्य सदभावाद्युक्तमेव । धूमस्य पुनर्न किञ्चिद् रूप्यमस्तीत्यवाच्य
एवासौ । यथा ‘शोकानलदाहभीतेव न हृदयमवतरती’त्यत्र ।
रूप्यान्तसदभावे तु न कश्चिद् दोषः । यथा—
‘तस्या धौताञ्जनश्यामा हृदयं दहतोऽनिशम् ।
शोकाग्नेर्धूमलेखेव गलत्यश्रुकणावलिः ॥’ इति ।
अनलकार्यत्वात् तस्य वाच्यत्वमदुष्टमिति चेत्, न, अनवस्थापत्तेरति-
प्रसङ्गाच्चेति तस्य वचनं दोष एव ।
यथा च–
‘तप्ते महाविरहवह्निशिखावलीभिरापाण्डुरं स्तनतटे हृदये प्रियायाः ।’ इत्यादि ।
उपारसहैकैव रूपकस्येष्यते क्रिया ।
यथानलस्य दाहादिर्न कार्यादिरसम्भवात् ॥ 102 ॥

                      इति सङ्ग्रहश्लोलः ।  
  'ट्टढतरनिबद्धमुष्टेः कोशनिण्णस्य सहजमलिनस्य ।  
  कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' इति ।  

अत्र कृपणकृपाणयोराकरामात्रतो व्यतिरेक उक्तः स चायुक्तः, द्विविधो
ह्माकारार्थः सन्निवेशलक्षणोऽक्षरविशेषलक्षणश्च ।
तत्राद्यस्तावदिहानुपादेयएव, सहानवस्थानवतोरर्थयोस्तद्वचभिचाराभा-
वादिति नासौ सचेतसां चमत्कारमाव?हति।द्वितीयस्तु न सम्भवत्येव, अक्षर-
कृतविशेषस्य शब्दैकविषयत्वात् । यद्यपि हि स्वरूपमपि शब्दस्यार्थ एव ।
यदाहुः—
‘विषयन्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।
न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥’ इति ।
तथापि तस्य तात्पर्येणाविवक्षितत्वात् न तदपेक्षमर्थविषयत्वमस्य शक्यं
वक्तुम् । वाच्यदशापत्तावपि तस्य शब्दस्वरूपतानपायादिति ।
यथा च—
‘येनालङकृतमुद्यानं विहारेणामुना तव ।
तेनैव निर्विकारेण ?करिकुम्भनिभौ कुचौ ॥ ’ इति ।

इह तु युक्त एवासौ—
‘अक्षराणामकारोऽहमिति यः स्वयमभ्यधात् ।
सोऽपि त्वयामुना स्वामिन्नाकारेण लघूकृतः ॥’ इति ।
तेनाक्षरविशेषात्मकाकारभेदलक्षणस्य शब्दधर्मस्यार्थविशेषणभावेनाव-
च्यस्य यद्वचनं सोऽपि दोष एवेति द्रष्टव्यम् ।
यद्यप्यर्थावुभौ शब्दः क्रमेणाभिदधात्ययम् ।
स्वरूपञ्चार्थरूपं च तथाप्यस्याभिध क्रिया ॥ 103 ॥
तत्परात्वाद् विवक्षाया विश्राम्यत्यर्थ एव हि ।
भिन्नधर्मतया तेन भिन्नकक्ष्यतयापि च ॥ 104 ॥
नार्हतो जातुचिदिमौ श्लिष्टमेकं विशेषणम् ।
मा भूदेकात्मतापत्तिदोषोऽसापवेतयोरिति ॥ 105 ॥
इति सङ्ग्रहश्लोकाः ।
‘यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं ?कशिपुं प्रचक्षते ॥’ इति ।
अत्र हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्वं कशिपुमित्युक्तं सोऽवाच्य-
वचनं दोषः ।
यतोऽत्र हिरण्यशब्दः कशिपुशब्दश्चाभिधेयप्रधानौ वा स्यातां स्वरूप-
मात्रप्रधानौ वा । तत्र न तावदभिधेयप्रधानौ अनभ्युपगमाद्, अर्थस्यासम-
न्वयात् : कशिपुशब्दस्य नपुंसकलिङ्गतापत्तेश्च । नापि स्वरूपप्रधानौ । नह्मे-
वमसुरविशेषस्य हिरण्यकशिपोरभिधानानुकारः प्रख्यानक्रियाकर्मभावेनाभि-
हितो भवति ।
द्विविधो हि शब्दानुकारः शाब्दत्वार्थत्वभेदात् । तत्रेतिना व्यवच्छेदे
शाब्दः प्रसिद्ध एव । अर्थावच्छेदभावादार्थः,यथा ‘महदपि परदुःखं शीतलं
इह चायमार्थोऽनुकारः, इतिनानवच्छेदात् । केचलं यत् तस्याभिधान-
मनुकार्थं तन्नानुकृतं, यच्चनुकृतं तत् तस्याभिधानमेव न भवति । लोके
हिरण्यकशिपुरिति तस्याख्यानं न हिरण्यपूर्वः कशिपुरिति,अतस्तस्यावाच्यस्य
वचनं दोषः । यथा वा—
‘क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव ।’ इत्यत्र ।
अत्र–‘क्षुण्णं यदन्तःकरणेन नाम तदेव कल्पूद्रुमकाः फलन्ति ।’ इति
युक्तः पाठः । अस्मिंश्च पाठे क्षुण्णस्यार्थस्य कल्प्रुमाणां चावज्ञावगतौ
गुणान्तरलाभः । एवम्—-
‘दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं प्रचक्षते ।’
इत्यादौ द्रष्टव्यम् ।
‘या धर्मभासस्तनयापि शीतलैः
स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धेरधिकं विधातृभि-
र्विहन्तुमंहांसि जलैः पटीयसी ॥’ इति ।
अत्र घर्मभासस्तनयत्वादीनां शीतलत्वादीनां च धर्माणामेकाश्रयत्वेन
विरोधो वक्तुं युक्तो, न भिन्नाश्रयत्वेन, तस्य तथानुपपत्तेः । नचासौ तथोक्तः,
एकेषां यमुनाश्रयत्वेन अन्येषां अलाश्रयत्वेनोपादानात्

यद्यपि यमुनायास्तज्जलानां च तात्त्विकमेवैक्यं, तथापि तेषां शब्देन
कर्तृकरणतया निर्देशाच्छाब्दं भिन्नत्वमस्त्येव । शाब्द एव विरोधो वक्तुमिष्टः
कवेरिति तस्यावाच्यस्य वचनं दोषः तेनायमत्र पाठः श्रेयान् ।
‘या घर्मभासस्तनयापि शीतला
स्वसा यमस्यापि जनस्य जीवनी ।
कृष्णापि शुद्धेरधिकं विधायिनी
विहन्तुमंहांसि जलैः पटीयसी ॥’ इ?ति ।
यथा च—
‘रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसेन्धवः’ अत्र हि
पयसामिति यत्प्रवाहस्य सम्बन्धितया विशेषणं तदवाच्यमेव तस्य हि तत्स-
म्बन्धिताऽव्यभिचारात् ।यच्चात्र सौरसंन्धव इति विशेषणं तत्र तद्धितनिर्देशोऽ-
प्यवाच्य एव, षष्ठीनिर्देशे एव षष्ठीनिर्देशेनैव तदर्थावगतिसिद्धेः । तेन ‘सुम-
हान् प्रवाह इव जह्नुजन्मनः’ इत्यत्र यचुक्तः पाठः । यथा च–
‘लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपासूदुमनाः प्रीतसञ्जहार ॥’
‘रहयिष्यति तं लक्ष्मीर्नयविमुखो नापदां पदं क इव ।
स च तव रिपुरेवमतो भावी तस्यापि तद्विरहः ॥’ इति ।
अत्र प्रतिज्ञानिगमनयोः पौनरुक्त्यम् । प्रसिद्धव्याप्तिकस्य हेतोर्घर्मिण्यु-
पसंहारवचनेनैव तदुभयार्थसिद्धेरिति । यदुक्त ‘प्रतिज्ञाया एव तावद्गम्य-
मानार्थाया वचनं पुनर्वचनं, किं पुनरस्याः पुनर्वचनमित्यपार्थकं निगमनम्’
इति ।
इह तु न दोषः—
‘यो यत्कथाप्रसङ्गे छिन्नच्छिन्नायतोष्णनिश्वसितः ।
स भवति तं प्रति रक्तस्त्वं च तथा ट्टश्यसे सुतनु ! ॥ ’ इति ।
यत्राप्रस्तुतादेव प्रस्तुतस्यार्थस्य प्रतिबिम्बादिव बिम्बस्य साम्यावगतिर्न
तत्रासौ वक्तव्यतामवतरति तदभिधानसामर्थ्यादेव तदवगमाद् उक्ताववाच्य-
वचनदोषानुषङ्गात् । यथा—
‘आहूतेषु विहङ्गेषु मशको नायान् पुरा वार्यते
मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां पदम् ।
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम्’ इति ।
अत्र प्रभुमिवेत्युपमानभावः प्रभोः । यथा च—
‘द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः ।
बहुविधार्थ्युपकारभरक्षमो भवति को?ऽपि भवानिव सन्मणिः ॥’ इति ।
अत्र भवदर्थस्योपमनभावः ।
प्रस्तुतात्तु तदन्यस्य प्रतीतिरनिबन्धना न सम्भवत्येवेति तत्र तस्यो-
क्तिरुपपद्यत एव ।

‘निम्रमुन्नतमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां हतान्तरम् ॥’ इति ।
अत्र तमसः प्रस्तुतत्वात्तदुक्तेरसात्पुरुषमहत्त्वप्रतीतावसामर्थ्यमिति तद्व-
क्तव्यमेव भवतीति न तत्रावाच्यनदोषानुषङ्गः ।
अप्रस्तुतोक्तिसामर्थ्यात् प्रस्तुतं यत्र गम्यते ।
प्रतिबिम्बाद् यथा बिम्बं तस्योक्तिस्तत्र नेष्यते ॥ 106 ॥
प्रस्तुतात्तु तदन्यस्य प्रतीतिरिनिबन्धना ।
न सम्भवत्येव तत्स्तदुक्तिस्तत्र शस्यते ॥ 107 ॥
इति सङ्ग्रहश्लोकौ ।
अप्रस्तुतोक्तिसामर्थ्यात् प्रस्तुतं यत्र गम्यते ।
प्रतिबिम्बाद् यथा बिम्बं तस्योक्तिस्तत्र नेष्यते ॥ 106 ॥
प्रस्तुतात्तु तदन्यस्य प्रतीतिरिनिबन्धना ।
न सम्भवत्येव ततस्तदुक्तिस्तत्र शस्यते ॥ 107 ॥
इति सङ्ग्रहश्लोकौ ।
किञ्च यत्राप्रस्तुतप्रशंसायामप्रस्तुतस्यार्थस्य श्लेषमुखेनासन्नेवोत्कर्षोऽ-
पकर्षो वा तदितरस्य तथाप्रतिपत्तयेऽभिधीयते नासौ तात्त्विक इति न
तत्र तामाधातुमुत्सहते तयोर्बिम्बप्रतिबिम्बभावेनावस्थानोपगमादित्यवाच्य
एवासौ, तस्य वचनं दोषः। तत्रोत्कर्षे यथा–
‘सद्वृत्ते महति स्वभावसरले बद्धोऽसि यस्मिन् गुणै-
र्युक्ते संयमहेतुतामुपगते यत्रापि विश्राम्यसि ।
तस्याक्षेपपरम्पराभिरभितो दोलायमानस्थिते-
रालानस्य मतङ्गजैष कतमो निर्मूलने हुर्ग्रहः ॥’ इति ।
अत्र सद्वृत्तादिभिर्विशेषणैररुन्तुदस्यालानस्याप्रस्तुतस्य श्लेषवबलोपक-
ल्पितेन सदाचारत्वादिधर्मसम्बन्धेनोत्कर्षोऽभिहितः, न चासौ वास्तव इति
तदुन्मूलनग्रहो गजस्योचित एव न दुष्ट इत्श्युपालम्भयोग्यत्वं तत्रासिद्ध-
मेव । यच्च बिम्बभूते तस्मिन्नसिद्धं, तत् कथं प्रस्तुतेऽर्थे दर्पणप्रतिमे प्रति-
बिम्बीभवेदिति श्लेषोत्कर्षस्यावाच्यस्य वचनं दोषः । तस्माच्छ्लेषमनाट्ट-
त्यैव निराकाङ्क्षकाकुक्रमेण किंशब्दस्यार्थो व्याखयेयः । तेन ‘कतमो निर्मुलने
दुर्ग्रह’ इत्यत्र ‘न खलु कश्चिदित्युचित एवायं निर्मूलनेऽभिनिवेशस्तव’
इत्ययमर्थोऽवष्ठित इति । एवमपकर्षेऽपि द्रष्टव्यम् ।
सर्वनाम्रा परामृष्टस्यर्थस्य यत्पुनः स्वशब्देन वचनं सोऽवाच्यवचनं
दोषः। यथा—
‘उदन्वच्छिन्ना भूः, स च निधिरपां योजनशतम् , इति ।
अत्र निधिरपामिति ।
यस्यार्थस्य समासोक्तित एवोपमानभावोऽवसितो न तस्यासौ पुन-
र्वाच्यो भवति अवाच्यवचनदोषानुषङ्गात् । यथा—
‘अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकास्तिलकः प्रमदामिव ॥’ इति ।
अत्र तिलकप्रमदयोरेकतरम्मिन् वाच्ये यदुभयोर्वचनं तदवाच्यवचनं
दोषः ।
ये तु गण्डस्योपरि पिटकोद्भेदमिव तत्राप्यार्थमेव तस्योपमानत्वमुपर-
चयन्ति, नमस्तेभ्यः कविवरेभ्यः । तद्यथा—
‘जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्त्तु र्नृत्तानुकारे जयति निजतनुस्स्वच्छलावण्यबापी-
सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्या’: ॥ इति ।
अत्र हि समासोक्त्यैव दण्डपादस्याम्भोजतुल्यत्वेऽवगते यत् तस्याम्भो-
जशोभां विदधदिति पुनर्वचनं तदवाच्यवचनदोषतां नातिपतति ।
यत् पुनस्तत्राप्यम्भोजस्यार्थमुपमानत्वमुपात्तं तदप्युक्तमेव, तसयोरु-
नालत्वादिधर्मसम्बन्धोपगमयोग्यतानुपपजत्तेः । केवलमेकेनैव समासान्त-
र्भावाद् वापीसम्भूतत्वेनास्य विशेषणविशेष्यभावः सङ्च्छते । किन्तु समास
एवात्रोक्तनयेनानुपपन्न इवावभासते सचेतसां प्रकमभेदपसङ्गादित्युक्तम् ।
न च दण्डपादस्य तत्सम्बन्धो घटिष्यत इति शक्यते वक्तुं, तस्य तद्ध-
र्मसम्बन्धासंभवात् । तेनात्राम्भोजस्य शाब्दमुपमानत्वं वा, दण्डपादस्य
वाम्भोजत्वेन रूपणं कर्तव्यम् , येनास्य प्राधान्ये सति विशेषणसम्बन्धापे-
गमयोग्यता स्यात् ।
किञ्च भर्तुर्नृत्तस्योद्धतस्य ताण्डवात्मनो योऽनुकारस्तस्य दण्डपविष-
यभावेनोपादानाद्, जङ्घाकाण्डनालत्वविशिष्ठतया संस्थानविशेषवशाच्च पादस्य
दण्डाकारता अभिनवत्वं चेत्युभयमप्यवगतमिति न तत्पुनरुपादेयतामर्हति ।
अतो वरमयमत्र पाठः श्रेयान्—
‘स्वच्छलावण्यवापीसम्भूतो भक्तिभाजां भवदवदहनः पादपज्ञो भवान्याः’ इति ।
एवञ्च धारणमात्रविवक्षायां विपूर्वस्य दधातेः प्रयोगः परिहृतो भवति,
स हि विपूर्वः करोत्यर्थो वर्त्तते न धारण इति ।
यत्रार्थस्योपमानत्वं समासोक्यैव गम्यते ।
न तत् तत्र पुनर्वाच्यमुक्तौ वा शब्दमस्तु तत् ॥ 108 ॥
अन्यथा त्वन्यधर्मैः कः सम्बन्धोऽन्यस्य वस्तुनः ।
तेन वाच्यत्वमार्थत्वं चेत्यस्य द्वयमप्यसत् ॥ 109 ॥
इति सङ्ग्रहश्लोकौ ।
‘पत्ता णिअंबफंसं ह्णाणुत्तिण्णाए सामलङ्गीए ।
चिहुरा रुअन्ति जलबिन्दुएहि बन्धस्स व भएण ॥’
इत्यत्र रोदनं बन्धनभयञ्चेति यद् द्वयमुत्प्रेक्षितं वर्तते, तत्र प्राधान्याद्-
रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावादिति पदे वाच्ये यत् तस्यान्यतो-
वचनं सोऽवाच्यवचनं दोषस्तस्य तादर्थ्येनाप्राधान्यात् । प्रधाने चोत्प्रेक्षिते
तदितरदर्थादुत्प्रेक्षितमेव भवति । यथा—
‘ज्योतीरसाश्मभवनाजिरदुग्धसिन्धुरभ्युन्मिषत्प्ररतुङ्गमरीचिवीचिः ।
वातायनस्थितवधूवदनेन्दुबिम्बसन्दर्शनादनिशमुल्लसतीव यस्याम् ॥’
इत्यत्रेन्दुबिम्बसन्दर्शनम् । तेन ‘जलबिन्दुएहि रुअइव चिहुरचयो बन्धण-
भएण’ इति अत्र युक्तः पाठः ।

एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः ।
तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यतः ॥ 110 ॥
इति सङ्ग्रहश्लोकः ।
‘तव वदनदार्थन्द्रशब्दार्थतुल्यो
हृदश्यकुमुदवस्तूज्जृम्भयत्येष यन्मे’
इत्यत्र समासान्तर्गतेन वदनशब्देनैकेनैव वदने वाच्ये यद् बहुभिः शब्दै-
स्तस्य वचनं सोऽवाच्यवचनं दोषः ।
तथा हि वदनं च तत् पदार्थश्चाशाविति कर्मधारयो वा कल्प्येत, वदन-
पदस्यार्थ इति तत्पुरुषो वा । तत्राद्यस्तावदर्थयोरन्योव्यवच्छेद्यव्यवच्छेद-
कभावाभावादनुपपन्नः, द्वितीयोऽपि प्रयोजनाभावात् । न हि समासे सत्य-
सति वार्थस्य कश्चिद्विशेषोऽवगम्यते अन्यत्र प्रतिपत्तिगौरवादित्यवाच्य-
वचनप्रकार एवायमिति ।
यथा च-‘कुशं द्विषामङ्कुशवस्तु विद्वान्’ इति
यत्स्वरूपानुवादैकफलं फल्यु विशेषणम् ।
अप्रत्यक्षायमाणार्थं स्मृतमप्रतिभोदभवम् ॥ 111 ॥
तदवाच्यमिति ज्ञेयं वचनं तस्य दूषणम् ।
तद् वृत्तपूरणायैव न कवित्वाया कल्पेत ॥ 112 ॥
यथा—
‘ककुभां मुखानि सहसोज्जवलयन् दददाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥’ इति ।
अत्र हि यदत्रिनयनप्रभवत्वमिन्दोर्विशेषणं तत् स्वरूपमात्रानुषादफल-
मित्यवाच्यमेव, तस्य तदव्यभिचारात् ।
न चाव्यभिचारिणोऽपि ततस्तस्योत्कर्षः कश्चिद्विवक्षितः कवेः, यथा—
‘अत्रेर्लोचनशुक्तिमौक्तिकमणेर्देवात्सुधादीधिते-
र्गोत्रं हेहयभुजां यदुदगात् तस्मिन्नभूदर्जुनः’
इत्यत्र सुधादीधितेरिति तस्यावाच्यस्य वचनं दोषः। यच्चात्र दहनस्या-
पर इति व्यतिरेकप्रतीतिफलदं विशेषणं तदवाच्यमेव तस्यात्रिनयनप्रभव
इति नञ्समासेनैव प्रतिपादितत्वात् । तस्मादुदित इति तत्रानुगुणः पाठः ।
यथा च–
‘नाडीजङ्घो निजध्ने कृततदुपकृतिर्यत्कृते गौतमेन’ इति ।
अत्र हि तच्छब्दपरामर्शो गौतमस्यावच्य एव तमन्तरेणाप्युपकारस्य
तद्विषयभावावगतेः । तेन परमपकृतवानिति वरमत्र युक्तः। यथा च–
‘कटस्थलप्रोषितदानवारिभि’रिति । अत्र हि दानवारिप्रवासस्य यदेतत्
कटस्थलमवधिभावेन विशेषणमुपात्तं तन्न वाच्यमव्यभिचारात् ।
एवम्–
‘उत्फुल्लकमलकेसरपरागौरद्युते ! मम हि गौरि ! ।
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ॥’
इत्यत्रापि द्रष्टव्यम् , उत्फल्लकेसरगौरशब्दानां पौनरुक्यात् ।
कथं तर्हि स्वभावेक्तेरलङ्कारत्वमिष्यते ।
न हि स्वभावमात्रोक्तौ विशेषः कश्चनानयोः ॥ 113 ॥
उच्यते वस्तुनस्तावद्द्वैरूप्यमिह विद्यते ।
तत्रैकमत्र सामान्यं यद्विकल्पैकगोचरः ॥ 114 ॥
स एव सर्वशब्दानां विषयः परिकीर्त्तितः ।
अत एवाभिधेयं ते सामान्यं बोधयन्तयलम् ॥ 115 ॥
विशिष्टमस्य यद्रूपं तत् प्रत्यक्षस्य गोचरः ।
स एव सत्कविगिरां गोचरः प्रतिभाभुवाम् ॥ 116 ॥
यतः—
रसानुगुणशब्दार्थचिन्तास्तिमितचेतसः ।
क्षणं स्वरूपस्पर्शोतृथा प्रज्ञैव प्रतिभा कवेः ॥ 117 ॥
सा हि चक्षुर्भगवतस्तृतीयमिति गीयते ।
येन साक्षात्करोत्येष भावांस्रैकाल्यवर्त्तिनः ॥ 118 ॥
इत्यादि प्रतिभातत्त्वमस्माभिरुपपादितम् ।
शास्रे तत्त्वोक्तिकोशाख्य इति नेह प्रपञ्चितम् ॥ 119 ॥
अर्थस्वभावस्योक्तिर्या सालङ्कारतया मता ।
यतः साक्षादिधाभान्ति तत्रार्थाः प्रतिभार्पिताः ॥ 120 ॥
यथा—
‘ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सास्मिताः कथा नयनोपान्तविलाकितं च तत् । ’ इति ।

*******************************************************

.

तृतीयो विमर्शः

‘देव्याअत्तम्मि फले किं कीरइ एत्तिअं उण भयामि ।
कङ्केल्लिपल्लवा पल्लवाण अण्णाण ण सरिच्छा ॥’
इत्यत्रार्थान्तरोपन्याससामर्थ्यादेव वस्तुनोः समर्थ्यसमर्थकभावावसायो
न शब्दशक्तिमूल इति । तदर्थस्य हिशब्दादेरप्रगोगो गतार्थत्वात् ।
‘हिअअट्ठाविअमण्णुं अवरुण्णमुहं पि मं पसाअन्त ! ।
अवरद्धस्य वि ण हु दे वहुजाणअ ! रोसिउं सक्कम् ॥’ इति ।
यत्रानाविष्कृतकोप?चिह्नायाः कस्याश्चिदन्तर्गतमन्योर्मानिन्याः केनचित्
कृतागसा प्रसाद्यमानाया यत् तत्र रोषविषयेऽपि न तव रोषितुं शक्यमि-
त्युक्तं तदनुपपद्यमानाया समर्थनीयमेवेति यत्तत्र वल्लभसम्बोधनद्वारेण
बहुज्ञत्वमर्थान्तरभूतमुपात्तं तदेव तत्समर्थकहेतुतामुपयातिः तत एव हि पर-
हृदयवेदिनि जने कः खलु कोपं कर्त्तु मर्हतीत्यस्यार्थस्य प्रतीतिसिद्धेः ।
द्विविधो हि हेतुरुक्तः शाब्दध्चार्थश्चेति । तेनेयमार्थस्य हेतोरुपानादर्था-
न्तरन्यासानुमितिरित्युच्यते ।
‘जाएज्ज वणुद्देसे खुज्जोच्चिअ पाअवो घडिअवत्तो ।
मा माणुसम्मि लोए ताएक्करसो दलिद्दो अ ॥’
इत्यत्र यथोक्तस्वरूपस्याप्रस्तुतस्यैव वनपादपस्य, पुंसश्च क?स्याचिद्
दरिद्रस्य प्रस्तुतस्यानुपयोगितया निष्फलयोरुभयोरप्यनभिनन्द्यजन्मता-
प्रतीतौ तुल्यायां यदेतदेकस्यैव जन्मानभिनन्दनं नेतरस्य तत् तस्या शेच्य-
तातिरेकलक्षणं व्यतिरेकमनुमापयतीत्यस्य व्यतिरेकरनुमितिव्यपदेशसिद्धिः ।
‘चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान् मधौ मलयमारुतः ॥’
इत्यत्र चन्दनासक्तभुजगनिःश्वासानिलसम्पर्कमात्रेण मूर्च्छाहेतुत्वं मलय-
मारुतस्य मुख्यमनुपपद्यमानं मूर्च्छाकारित्वलक्षणात् साधर्म्यात् सिंहो माण-
वक इत्यत्र सिंहत्वमिवोवचरितमाश्रीयत इतीवार्थमनुमापयति ।
मुख्यतानुपपत्तौ च निमित्तं भुजगनिःश्वाससमीरिसम्पर्कमात्रेण मलय-
मारुतस्य न्यग्भावभाजो बहलीभावासम्भवः ।
यद्वा मुख्यमर्थमनाट्टत्यार्थान्तरे प्रयुज्यमानः शब्दो यथाकञ्चित् साट्ट-
श्यमेवावगमयति ।
न चैवंविधे विषये इवादिप्रयोगमन्तरेणासम्बद्धार्थतैवेत्याशङ्कनीयं प्रक-
रणादितोऽप्यर्थस्य स्वसौन्दर्यादेव वार्थान्तरावगतेः, यथा—
‘ईसाकलुसस्स वि तूह मुहस्स णं एस पुण्णिमाचन्दो ।
अज्ज सरिसत्तणं पाविऊण अङ्गे व्विअ ण माइ ॥’
यथा च—‘त्रासाकुलः परिपतन् परितो निकेतान्
पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
तस्थौ तथापि न मूगः क्कचिदङ्गनाभि-
राकर्णपूर्णनयनेषुहतेक्षणाश्रीः ॥’ इत्यत्र ।
शब्दार्थव्यवहारे च प्रतीतिरेव प्रमाणम् । प्रतीतार्थश्च श्बदः प्रयुज्यमानः
पौनरुक्त्यमेवावहतीति अत्रेणर्थस्यावगमादुत्प्रे क्षानुमितिरित्येषा व्यापदिश्यते ।
एवम्–‘अत्युच्चपदाध्यसाः पतनायेत्यर्थशालिशं शंसत् ।

 आपाण्डु पतति पत्रं तरोहिदं बन्धनप्रन्थेः ॥' इति  

निदर्शनानुमितावप्यवसेयम् ।
‘रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥’
इत्यत्र वाक्यार्थप्रतीतेरनन्तरामुपमाप्रतिभोदनिबन्धनभूतं न किञ्चिद-
वधारयामः, यत्सामर्थ्याद् वध्व इव वलभ्य इत्यमुमर्थमवगच्छेम । न चोभ-
यार्थसाधारणस्य वलभीविशेषणकलापस्यैव तत्र निबन्धनभावोऽवगन्तुं
युक्तः; तस्य भिन्नविभक्तिकम्य वधूभिरभिसम्बन्धानुपपत्तेरित्युक्तमेव ।
अथ सममित्यस्य तुल्यार्थस्य वधूवलभिसम्बन्धबलात् । विभक्तिविपरि-
णामेन कल्पिततदुचितविभक्त्यन्तानां वधूनां विशेषणकलापाभिसम्बन्धसह-
त्वाद् वलभीभिरुपमानोपमेयभावावगतिर्भवति, यथा सममिन्दुना सकलक-
लोऽधब्धिरुत्थित इति ।
एवं तर्हि तुल्यतासम्बन्धावधारणनिबन्धनेयं वधूवलभीनामुपमानोपमेय-
भावावगतिरिति नासवनुमेयतामभिपततीति श्लेषानुमितित्युच्यते ।
‘अङ्कुरितः कोरकितः पल्लवितः कुसुमितश्च सहकारः ।
अङ्कुरितः कोरकितः पल्लवितः कुसुमितश्च हृदि मदनः ॥’
इत्यत्र मुख्यामुख्याङ्कुरितत्वादिधर्मविशिष्टयोः सहकारमदनयोः प्रमाणा-
न्तरावगतकार्यकारणभावयोरप्यतिशयोक्तिच्छायया यस्तुल्यकालतयोपनिब-
न्धस्तत्र कार्यकारणधर्माणां यथाश्रुतक्रमं संख्यासाम्यमेव यथासङ्ख्यमनुमाप-
यति, यथाश्रुतक्रमातिक्रमे प्रयोजनाभावात् निबन्धनानाभावाच्च ।
को ह्मविप्लुतमतिरस?ति बाधके श्रुतमर्थमनाट्टत्याश्रुतं परिकल्पयेदिति
यथासङ्ख्यानुमितिरितीयमुच्यते ।
यत्र प्रकरणादिप्रतिपत्त्यानुमितविशेषो वाच्योऽर्थः प्रतीयमानस्यार्थस्य
लिङ्गभावमुपयोति सोऽप्यनुमानस्यैव मार्गः ।
यथा—‘उच्चिणु पडिभं कुसुमं वा धुण सेहालिअं हलिअसोह्ण ? ।
अह दे विसमविराओ ससुरेण सुओ वलयसद्दो ॥’ इति ।
अत्र ह्मविनयपतिना सह रममाणा काचित् बहिश्श्रुतवलयकलकलया
सख्या प्रतिबोध्यत इत्येतदपेक्षणीयं वाच्यस्य प्रतिपत्तये प्रतिपत्तपन्ने च वाच्येऽर्थे
तस्याविनयप्रच्छादनतात्पर्येणाभिधीयमानत्वादनुमेयाङ्गत्वमेवेत्यस्यानुमान
एवान्तर्भावः ।
एवमन्यासामपि वाच्यव्यतिरेकिणीनामलङ्कृतीनां यथायोगमनुमानान्त-
र्भावः स्वयमेवानुसर्त्तव्यः ।
एवं वस्तुमात्रादीनां गम्यत्वं प्रतिपाद्येदानीं वर्णपदवाक्यसङ्घटनादीनां
गमकत्वं प्रतिपाद्यते ।
तत्र वर्णसङ्घटनानां तावद् गमकत्वमर्थद्वारकमेव । तथा हि विशिष्टवर्ण-
सङ्घटनोपकृतशब्दप्रतिपादितेनार्थेन रत्यादयः स्यायिनोऽनुमीयमानाः स्पष्टत-
रमवभासन्त इति शब्दोपाधिभूतयोर्वर्णसङ्घटनयोरपि गमकत्वमुपपन्नमेव
पारम्पर्येण, न साक्षात् ।
तथाविधशब्दसन्दर्भाभिहितस्यार्थस्य रत्यादेश्च भावस्य तार्णपार्णयोरिव
धूमाग्नयोः कार्यकारणभावेनावस्थानात् ।
तथा हि ये ये रतिशोकाक्रान्तान्तःकरणाः ये च क्रोधोत्साहादिविवशास्ते
मधुरतरवर्णविरचितामसमासप्रायां रेफशकारटकारकर्कशां दीर्घसमासभूयिष्ठां
च सङ्घटनामाश्रित्य भूम्रा भाषमाण ट्टश्यन्त इति स्वभाव एवायम् ।
सङ्घटनावर्णाहितविशेषवाचकसमर्पितादर्थात् ।
क्रोधादिविशेषगतिर्धूमविशेषादिव कृशानोः ॥ 28 ॥ इति सङ्ग्रहार्या ।
पदवाक्ययोः पुनः साक्षादर्थद्वारकं गमकत्वं न वर्णसङ्घटनयोरिव वाच-
कोपाधिभावनिबन्धनमिति न तुल्यकक्ष्यतया निर्देशस्तयोरुपपन्नः । पदवाक्य-
योर्हि द्वयमर्थान्तरप्रतीतौ निबन्धनमिष्यते, उपचारः प्रकरणादिसामग्री चेति ।
यत्र हि तत् समारोपितं तत्र यथाकथञ्चित् तत्साट्टश्यं तत्सम्बन्धादवग-
म्येत, न तत्त्वम्, तदभावे साट्टश्यानुपपत्तेरिति तदेतदत्रानुमेयमित्युक्तम् ।
एकोऽपि हि शब्दः सामग्रीवैचित्र्यात् तद्धर्मविशिष्टं स्वार्थमेवावगमय-
तीति तदेव तत्र लिङ्गमवगन्तव्यं न शब्दमात्रम् । तद्धि संज्ञिनमेव प्रत्याय-
यितुमलं न संज्ञिविशेषमित्येतदप्युक्तमेव ।
तत्र पदस्योपचारतो यथा महर्षेर्व्यासस्य ‘सप्तैताः समिधश्श्रिय’ इति,
यथा च वाल्मीकेः ??‘निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।’ इति, यथा च
कालिदासस्य ‘कः सन्नद्धे विरहविधुरां त्वप्युपेक्षेत जायाम्’ इति, यथा च—
‘सरविजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्षर्मी तनोति ।
इत्यमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥’
इत्यत्र समिदन्धसन्नद्धमधुरपदानि गमकत्वाभिप्रायेणैव प्रयुक्तानीति
उक्तमेव । तस्यैव वामग्री वैचित्र्ये यथा ‘रामेण प्रियजीवितेन तु कृतं प्रेम्णः
प्रियेणोचितम्’ इत्यत्र रामेणेत्येतत् पदं प्रकरणादिसामग्रीवशात् साहसै-
करसिकत्वादिधर्मविशिष्टस्य रामार्थस्य गमकम् ; अन्यथा हि मयेत्येव वक्तब्यं
स्यात् ।
यत्रापि चेकस्यैवार्थस्यैकाभिधानमुखेनोत्कर्षापकर्षतत्त्वाभिधित्सयोपक-
ल्पितभेदस्य विध्युनवादभावेनो?पनिबन्धः, तत्र प्रकरणादिभ्य एवास्योत्कर्षो-
ऽपकर्षः तत्त्वं वानुमेयम्ः न तु तत एव । न हि विधेयाभिधायिनः शब्दस्यैव
सा शक्तिस्तयोर्विरोधात् । तत्रोत्कर्षो यथा—
‘रइकिरणाणुग्गहिआह होन्ति कमलाइ कमलाइ।’ इति ।
अत्र द्वितीयः कमलशब्दः । अपकर्षो यथा—
‘एमेअ जणो त्तिस्सा देउ कवोलोपमाइ ससिबिम्बम् ।
परमत्थविआरे उण चन्द चन्दो विअ वराओ ॥’ इति ।
अत्र द्वितीयश्चन्द्रशब्दः । अत्र हि विधेयाभिधायिनो द्वितीयाच्चन्द्रशब्दाद्
यथापकर्षोऽवगम्यते न तथा हि पूर्वात्?कमलशब्दादित्यर्थप्रकरणादिरेव तत्र
हेतुभावेनोपगन्तुं युक्तो न शब्दशक्तिः । तस्या ह्मुत्कर्षापकर्षावगमः पूर्वाप-
रपदार्थनियत एव स्यात् , नानियतः । तत्त्वे यथा—
‘काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः ।
सन्ति ते सुघियो येषां काचः काचो मणिर्मणिः ॥’
इत्?यत्र द्वितीयौ काचमणिशब्दौ ।
शब्दशक्तिमूलाया अर्थान्तरप्रतीतेरनिबन्धनायाः पराकृतत्वान्न तन्मूला
पदवाक्यप्रकाशता सम्भवति । यथा–
‘प्रातुं धनेरर्थिजनस्य वाञ्छां देवेन सृष्टो यदि नाम नास्मि ।
पथि प्रसन्नाम्बुधरस्तटाकः कूपोऽथवा किन्न कृतो जडोऽहम् ॥’ इति ।
अत्र हि जह हत्येतत् पदं निर्विण्णेन केनचिद् वक्त्रा कूपसमानाधिकरण-
तचैव प्रयुक्तं, नात्मसमानाधिकरणतया ‘कूपोऽथवा किं न कृतो जडोह’-
मित्यात्मनो जडत्वाशंसास्पदत्वेनेष्टत्वाद्, इत्थमेव वाच्यस्य चारुत्वोपपत्तेः,
यतोऽयमत्रार्था विवक्षितः ‘किं ममानेन परदुःखभाजा हतचैतन्येन कृत्यं, जड-
स्तटाक एवास्मि कस्मान्न कृत’ इति ।
नचोक्तनयेन निबन्धनान्तरमन्तरेण स्वशक्त्यैवानुरणनरूपतयार्थान्तरसमा-
नाधिकरणतां प्रतिपत्तुमलमित्यनुदाहरणमेतत् ।
‘असमप्पिअं वि गहिअं कुसुमशरेण महुमासलच्छिमुहम् ।’ इति ।
अत्र ह्मसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पि-
तमपीत्येतदर्थाभिधापि पदमर्थशक्त्या कुसुमशरबलात्कारमनुमपयति ।
‘वाणिअअ ! ह्मत्थिदन्ता कत्तो अह्माणा वघ्घकित्ती अ ।
जाव लुलिआलुअमुही घरम्मि परिसक्कए सोण्णा ॥’
इत्यत्र द्विरदरदनव्याघ्राजिनानां प्रतिषेधावग?तिरुक्तक्रमेण व्यापकविरुद्ध-
कार्योपलब्धिनिबन्धनेत्यनुमान एवान्तर्भावमर्हति ।
केवलमिदमत्र निरूप्यते यदुत कस्येयमुक्तिः, किं श्वशुरयोरुत तटस्थ-
स्यैव कस्याचिदिति । तत्र श्वशुरस्य तावत् दुहितुरिव स्नुषायाः सौभाग्या-
तिशयवर्णनमिदमनुचितमेव । श्वश्र्वा अपि पुत्रस्नेहविक्लवायाः स्वसह्मसमृद्धिं
समीहमानाया वा तत्सौभाग्यातिरेकमसूयमानया वाणिजकं प्रति नास्ति
हस्तदन्तादि विक्रेयमिहेत्येतावति वक्तव्ये तद्वर्णनं निष्फलमनुचितं चेति
तटस्थस्यैवेयमुक्तिरुचिता तत्रैव लेशतो रसास्वादसम्भवात् । अन्यथा—
‘विवरीअसुरअसमए ब्रह्मं दठ्ठूण णाहिकमलम्मि ।
हरिणो दाहिणणअणं चुम्बइ हिलिआउला लच्छी ॥’ इति
प्रहेलिकादावपि मुख्यवृत्त्या काव्यव्यपदेशः स्यात् । केवलं तत्पक्षे
अह्माण इत्यत्र एआण इति पाठः परिणमयितव्यः ।
‘उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे द्विक्षपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्वितेन दहनेन न वीक्षितासि ॥’ इति ॥
अत्र ते इति योऽयमसमसौन्दर्यनिधानभूतयोः पुरःपरिस्फुरतेरिव लोच-
नयोः परामर्शः, स हि सामग्रीयोगान्नायकस्य शोकदहनोद्दीपनविभावतामेत-
योरनुमापयतीति सुख्यवृत्त्या तद्वाच्यस्यार्थस्यैव लिङ्गता, न पदस्य।यथा च-
‘ज्ञटिति कनकचित्रे तत्र ट्टष्टे कुरङ्गे
रभसविकसितास्ते ट्टष्टिपाताः प्रियायाः ।
पवनविलुलितानामुत्पलानां पलाश-
प्रकरमित्र किरन्तः स्मर्यमाण दहन्ति ॥’ इति ।

पदावयेऽपि विशिष्टः पदार्थ एव, न शब्दमात्रं तस्य व्यापरान्तरप्रति-
षेधात् । विशिष्टत्वं च ‘मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभाग’ इत्यत्र
चकितहरिणीहारिणा नेत्रेण सम्बन्धितया त्रिभागस्य विशेषितत्वात् तथा-
विधस्य चास्य गमकत्वात् ।
वाक्यस्य चोपचारतोऽर्थान्तरप्रकाशनं यथा–
‘या निश सर्वभूतानां तस्यां जागर्त्ति संयमी ।
यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः ॥’ इति ।
अनेन हि वाक्येन न निशार्थो नापि जागरणार्थः कश्चिद् विवक्षितः ?; किं
तर्हि ? तत्त्वज्ञानावहितत्वमतत्वपराङ्मुखत्वं च मुमेः प्रतिपाद्यत इति तिर-
स्कृतवाच्यस्यास्य गमकत्वम् । यथा च–
‘सुवर्णपुष्पां वृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥’ इत्युक्तम् ।
तस्यैव प्रकरणादितो यथा—
‘विसमइओ चच्चिअ काण वि काण वि वोलेइ अमअणिम्माओ ।
काण वि विसामअमओ काण वि अविसामओ कालो ॥’ इति
इत्यत्र वाक्ये प्रकरणादिवशाद् विषामृतशब्दाभ्यां सुखदुःखस्वरूप-
सङ्क्रमि?तवाच्याभ्यां व्यवहार इत्यर्थान्तरसंक्रमितवाच्यास्यास्य गमकत्वम् ।
शब्दस्याभिधातिरेकेण शक्यन्तरानुपपत्तेस्तन्मूलं पदस्येव वाक्यस्याप्य-
र्थान्तरप्रकाशनं न सम्भवत्येव, यथा हर्षचरिते सिंहनादवाक्ये—
‘प्रवृत्तेऽस्मिन् महाप्रलये धरणीधारणायाधुना त्वं शेष;’ इति ।
नह्मेतद्वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्यैवानिबन्धनं प्रकाशयितुं
क्षममित्युक्तमेव ।
‘सज्जेइ सुरहिमासो ण आ पणावेइ जुवइजणलख्खसहे ।
अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स सरे ॥’
इत्यत्र कविप्रौढोक्तिमात्रनिष्पन्नशरीरे सुरभिमाससम्भवानामाविर्भूताभि-
नवपल्लवानां तरूणामचिरभावियुवतिजनमदनोन्माददायित्वमनुमेयम् ।
तत्र च सहकारसुरभिमासमदनानां रूपकोपनिबन्धने शरशरकारधानुष्क-
तुल्यवृत्तान्तत्वे सति यदसम्पन्नसम्पूर्णरूपतया सम्प्रति सहकाराणां शरा-
णामिवानङ्गायासमर्पणां स हेतुः । तदसमर्पणमात्रान्तरायो हि तस्य तद्व्या-
पारः। कन्दर्पोद्दीपनसमर्थस्वभावभावसम्पादनमेव च तेषां सुरभिमासेन कन्दर्पा-
यासमर्पणं नान्यदिति ।
‘सिहिपिञ्छकण्णऊरा जाया वाहस्स गव्विरी भमइ ।
मोत्ताफलरइअपसाहणाण मज्ज्ञे सवत्तीण ॥’
इत्यत्र नवोढाया व्याधवध्वाः सपत्नीभ्यः सोभाग्यातिरेकोऽनुमेयः । तत्र
चास्याः शिखिपिच्छकर्णपूराया अपि सगर्वं भ्रमणं हेतुः, यतोऽयमभिप्राय-
स्तस्याः—मयि यत्यामयं सम्भोगैकरसिको व्याधो वारितान्यकर्त्तव्यो दिवा-
निशं मत्परायण एव केवलं मद्विनोदार्थं यट्टच्छयान्तिकापतितमयूरमात्र-
मारणव्यापरो वर्त्तत इति शिखिपिच्छमात्रकर्णपूराहं जाता. भवतीषु सतीषु
दूरदेशकलव्यवधानसाध्यमहारम्भमातङ्गमारणादिव्यापारनिरतोऽयमासीदिति
मुक्ताफलरचितप्रसाधना भवत्य इति । तेन यदेतत् सगर्वं भ्रमणं तदेव तस्याः
सपत्नीग्यः सौभाग्यातिरेकमनुमापयतीत्यवसेयम् ।
वाक्यार्थस्य विभावदिरूपस्य रसादीनां चालक्ष्यक्रमो गम्यगमकभाव
इति प्रसाधितमेव । स च वाक्यार्थः शुद्धोऽलङ्कारान्तरसङ्कीर्णश्चेति द्विधा
सम्भवति ।
तत्र शुद्धो यथा रामाभ्युदये ‘कृतककुपितै’—रित्यादिश्लोकः । एतद्धि-
वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रकाशयत् सर्वत एव एव परं रसत्त्वं
प्रकाशयति ।
अलङ्कारान्तरसङ्कीर्णो यथा—
‘स्मररसनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृता दुःखं तिष्ठन्तयपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयनलिनीलनालानीतं पिबन्ति रसं प्रियाः ॥’ इति ।
अत्र हि रूपकेण यथोक्तलक्षणगमकानुगतेनावगमितोऽयं रसः सुतरां
प्रकाशत इति मुख्यवृत्त्यार्थस्यैव गमकत्वं न शब्दस्येति स्थितम् ।
वाक्यर्थस्येव प्रबन्धस्यापि रसादीनां च योऽयमलक्ष्यक्रमो गम्यगमक-
भावो महाभारतरामायणादौ प्रसिद्धः तस्य विभावानुभावब्यभिचार्यौचित्य-
चारुणो वृत्तस्योत्प्रेक्षितस्य वा कथाशरीरस्य रसाभिब्यक्त्यानुगुण्यनेनोपनि-
बन्ध एव निबन्धनम् तस्य रसादीनां च कार्यकारणभावस्य प्रतिपादितत्वात् ।
यदाह ध्वनिकारः–
‘विभाबभावानुभावसञ्चार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोऽन्वयः ॥
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसंपादनेच्छया ॥
उद्दीपनप्रशमने यथावसरमन्तरा ।
अलङ्कूतीनां शक्तावप्यानुरूप्येण योजनम् ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥’ इति ।
सुबादीनामपोद्धारपक्षे अन्वयव्यतिरेकाभ्यामर्थवत्तावसाये सति अर्थस्य
च विभावादिरूपत्वाद् विभावादीनां रसादीनां च कार्यकारणभावस्योपपादि-
तत्वात् तन्मूलो लक्ष्यक्रमो गम्यगमकभावोऽभ्युपगन्तव्य एव । तेषामुदाहर-
णानि यथा—
‘न्यक्कारो ह्मयमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैण हिनन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन मे
स्वर्गग्रामटिकाविलुण्ठनवृ?थोच्छूनैः किमेभिर्भुजैः ॥’ इति ।
भून्ना सर्वेषां स्फुटमेव गमकत्वं ट्टश्यते । ‘तत्र मे यदरय’ इति सुप्सम्ब-
न्धवचनानामुक्तनयेन गमकत्वम्, यथायोगमुत्तरत्र च । ‘तत्राप्यसौ तापस’
इति तद्धितनिपातयोः ‘सोप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावण’ इति
तिङ्कारकशक्तनीनाम् ‘धिग् धिक् शक्रजितमि’त्यादौ श्लोकार्धे कृत्तद्धितसमासोप-
सर्गाणामिति ।
सुप्तिङ्सम्बन्धाद्याः क्रोधोत्साहादिकान् यथा भावान् ।
गमयन्ति, तद्विधेयाविमर्श एवोक्तमस्माभिः ॥ 29 ॥ इत्यन्प्तरार्या ।

निपातोपसर्गादीनामसत्त्वभूतार्थानामुपाधिरूपत्वादुपाधिमत्समाश्रयेणैवा-
र्थावगतिरिति पदवाक्ययोरर्थावगमकत्वेक्त्यैव तेषामपि गमकता प्रतिपादि-
तैव । केचित् पुनर्निपाताः क्रोधादभुतशोकादीन् भावान् प्रदीपवद् वक्त्तृगताने-
वावद्योतयन्ति न वाच्यगतान् । यथा—
‘आस्तिष्ठ रक्षः ! क्क मे प्रियतमामदाय गच्छसी’ति क्रोधः ।
‘अहो बतासि स्पृहणीयवीरर्य’ इति विस्मयः ।
‘हा धिक् कष्टमहो क्क यामि शारण्’ इति शोकः ।
अत एव तेषां द्वित्राणां त्रितुराणां वा प्रयोगे पुनरुक्तता नाशङ्कनीया
समुदितानां प्रदीपादीनामिव स्वकार्ये प्रकर्षदर्शनात् । तदुक्तम्—
‘नामवदुपसर्गास्ते किन्त्वन्योपहितमाहुरर्थं स्वम् ।
दीपकवत्तु निपाताः शोकादीन् द्योतयन्ति वक्तृगतान् ॥
गमयन्ति कार्यभूतान् गद्ग्रदिकादिवदवाचका एव ।
सङ्द्यटनावर्णाद्याः क्रोधोत्साहादिकान् भावान् ॥’ इ?ति।
तदेवं ध्वनेरनुमानान्तर्भावाभ्युपगमः श्रेयानिति ।
तदिदं विस्तरस्यास्य तात्पर्यमवधार्यताम् ।
?Bयार्थान्तराभिव्यक्तौ वस्सामग्रीष्टा निबन्धनम् ॥ 30 ॥
सैवानुमितिपक्षे नो गमकत्वेन सम्मता ।
अन्यतोऽन्यस्य हि ज्ञानमनुमैकसमाश्रयम् ॥ 31 ॥
वाच्यवाचकयोः स्वार्थप्राधान्यप्रतिषेधतः ।
ध्वनेः शक्त्यन्तराभावाद् व्यक्तेश्चानुपपत्तिता ॥ 32 ॥
प्राणभूता ध्वनेर्व्यक्तिरिति सैव विवेचिता ।
यत्त्वत्यत् तत्र वितिः प्रायो नास्तीत्युपेक्षितम् ॥ 33 ॥
प्रायः प्रतीतिवैचित्र्यरसास्वादविदः प्रति ।
सूपकारक्रियेयं मे साफल्युपयास्यति ॥ 34 ॥ इति सङ्ग्रहश्लोकाः ।
आधातुं व्युत्पत्तिं नप्तॄणां क्षेमयोगभोजानाम् ।
सत्सु प्रथितनयानां भीमस्यामितगुणस्य तनयानाम् ॥ 35 ॥
श्रीधैर्यस्याङ्गभुवा महाकवेः श्यामलस्य शिष्येण ।
व्यक्तिविवेका विदधे राजानकमहिमकेनायम् ॥ 36 ॥
प्रतिपाद्यबुद्ध्‌यपेक्षौ प्रायः संक्षेपविस्तरौ कर्त्तुः ।
तेन न बहुभाषित्वं विद्वदिभरसूयितव्यं नः ॥ 37 ॥
अन्यैरनुल्लिखितपूर्वमिदं ब्रुवाणो
नूनं स्मृतेर्विषयतां विदुषामुपेयाम् ।
हासैककारणगवेषणया नवार्थ-
तत्त्वावमर्शपरितोषसमीहया वा ॥ 38 ॥
इति श्रीराजानकमहिमभट्टविरचिते व्यक्तिविवेकाख्ये काव्यालङ्गारे
ध्वनेरनुमानेऽन्तर्भावोपदर्शनो नाम तृतीयो विमर्शः ।
?0__________*______________

***********************************************************************

]