रससुधानिधिः

[[रससुधानिधिः Source: EB]]

[

** ॥ श्रीः ॥**

** ॥ श्रीमारभट्टविरचितः रससुधानिधिः ॥**

** ॥ प्रथमः प्रवाहः ॥**

कल्याणं घटयन्तु कैटभजितो लीलावलोकच्छटाश्च्योतच्चन्द्रमरीचिवीचय इवोद्भूताः सदा शीतलाः।

लक्ष्मीः कौस्तुभकैतवोदितदयाङ्कुरश्रियमाश्रये यस्य क्रीडति विश्वलोकजननी कामोत्सवैर्वक्षसि॥ 1 ॥

अपि. च-

श्रेयस्ते वितनोतु यातु पुरजिद्गोत्रात्मजायाः पतिः शुद्धात्मा मुनिरादिरागमवनीवाटीविहारे शिवः।

र्भूता रागवतीर्नवा इव सदा यो मूर्ध्नि धत्ते जटाः॥ 2 ॥

किं च-

निघ्नन्तु विघ्नमनिशं श्रुतिपुञ्जकुञ्जे लीलाञ्चनानि मम वाचि गजाननस्य।

पञ्चाननस्य हरिणाङ्करूचेरशाङ्कं योऽङ्के गजार्धवपुषः सुखमेधते स्म॥ 3 ॥

अनु च-

उल्लासाय गिरां सुधातिमधुरोद्गारस्फुरां भारतीं वन्दे पद्मभुवो मुखाम्बुजवने हंसी रिरंसाजुषम्।

नित्यं भक्तिमता प्रणामशारदुद्भेदप्रसादस्फुरद्यद्वक्त्रेन्दु मरीचिकाभिरविरादन्तस्तमो वार्यते॥ 4 ॥

श्रीमद्रामपदारविन्दभजनोन्निद्रः सुमित्रात्मभूक्लेशच्छिन्महनीयपावनतनुः सूर्यत्मजातप्रियः।

याबाजिप्रभुसूनुरेष हनुमन्मन्त्री शतानन्दता योग्यारोग्य चिरायु रञ्चतु जगद्रक्षोदयप्रक्रमः॥ 5 ॥

स एष (1)हनुमत्प्रभुर्निजसभामाधिष्ठाय(2) मां कदाचिदवदन्मुदा विदिततन्तिभिर्मन्त्रिभिः।

सनाभिभिरलोभिभिः सरससूरिभिर्भूरिभिर्वचः प्रसविभिः समं कविभिरिष्टगोष्ठीयुतः॥ 6 ॥

लोके शोम्ठिकुलारविन्दतरणे! श्रीमारभट्टारक! त्वत्तुल्योऽस्ति बुधो न कोऽपि मधुरोदाराष्टभाषाकविः।

विश्वख्यातिमुपैषि संस्तुता महाषड्दर्शनी मर्मभिर्वाचां नर्मभिरक्षयामितलसद्युक्तिप्रथामर्मभिः॥ 7 ॥

यशो मम विशोभयक्षितिषु काव्यमीमांसया बुधश्रुतिसमाख्यया(3) रससुधानिधिप्रख्यया।

अनायकसनायकाः कतिचनावनौ कल्पिता न तासु मम मानसं रसविनोदमासादति॥ 8 ॥

इत्थं सगौरवमुदीर्य वितीर्य हेमशाटीत्छभरणजालमति स्थिरेण।

तेन प्रमोदितमना अमनाक्प्रसादमास्थानमण्डपजुषां विदुषामुपेत्य॥ 9 ॥

शम्भोरनुग्रहकलामयि तिष्ठतीति निश्चित्य सोऽहमुररीकृतवानथास्मि।

कर्तुं तदेतदिति साहसमादरेण तत्तन्यमानबहुमानविशेषतोषात्॥ 10 ॥

दोषानेव खलाः कवीश्वरवचोगुम्फेषु संशेरते साधुष्वप्यधिक(4)गुणान्न गणयन्त्यन्तः प्रभूतानपि।

मोदन्ते रसपाकशुद्धिषु मनाक्प्राज्येषु भोज्येषु नो केचित् किं तु तृणादिकान्(5) बत कणानन्वेषयन्ते मुहुः॥ 11 ॥

लोकेऽम्बूनि समाविलानि कतकक्षोदो यथाऽधो नयन् पङ्कंनिर्मलयत्यपः परिहरन् गृह्णाति हंसः पयः।

तद्वत्साधुबुधाः कवीश्वरवचोगुम्फान् बहूकुर्वते दोषाधः करणादणूनपि गुणानुद्दीपयन्तो मुहुः॥ 12 ॥

बुधा रससुधानिधिं भुवि पिबन्तु शान्त्यै क्षुधां निजश्रुतिपुटैः स्फुटैः शुभविभोऽत्र शेते हरिः।

चमूपहनुमद्यशोमाय(6)तनुर्वहन्तेतमां(7) सुधा मधुरिमोद्धुरा मम गिरामुदारा झरी॥ 13 ॥

रयादमरलोकतस्त्रिपुरजिज्जटान्तः पतद्वियच्चरसरिज्झरोद्धुरविरावगर्वच्छिदाम्।

गिरां मम रसस्फुरां सरससूरयो भूरयो भगीरथ परिश्रमं भुवि भजन्तु संचारिणः॥ 14 ॥

मीमांस्यात्पदमेति काव्यमिह तद्भूयांसि कीर्त्यादिकान्याकल्पं तनुते फलानि बहुधा धत्ते परां निर्वृतिम्(8)।

कर्तव्यादिषु कामिनीव विदधात्येतत्प्रभुत्वादिकं(9) पुंसां हि प्रतिभाप्रभावविहतोन्मेषं कवोः कर्म तत्॥ 15 ॥

ननु-काव्यमीमांसारम्भो न युज्यते, तत्कर्तव्यताबोधकप्रमाणाभावात्, फलाभावात्, काव्यस्याशास्त्रत्वाच्च। शास्त्रस्यैव विचारार्हत्वादिति चेत्, न तागत् काव्यमीमांसाकर्तव्यताबोधक प्रमाणाभावः। (10)काव्यकर्तव्यताबोधक प्रमाणानां तदङ्गभूत तन्मीमांसाकर्तव्यतायामपि प्रमाणत्वात्। न हयङ्गनि प्रधानकर्तव्यताप्रमाणमन्तरेण स्वकर्तव्यतायां पृथक्प्रमाणमपेक्षन्ते। न च काव्यकर्तव्यतायामेव न प्रमाणमस्तीति वाच्यम्। बहुषु स्मृतीतिहासपुराणेषु पुण्यश्लोकप्रतिपादकस्य काव्यस्य कर्तव्यतायां प्रमाणभूतानां वचनानां सत्त्वात्।

तथा हि-पुण्यश्लोकस्य चरितमुदाहरणमर्हति।

कीर्तमेच्च जगन्नाथं वेदं चापि समीरयेत्॥

(11)क उत्तमश्लोक गुणानुवादात् पुमान् विरज्यते विना पशुघ्नात्।

प्रतिष्ठां काव्यबन्धस्य यशसः सरणीं विदुः।

तस्मात् कीर्तिमुपादातुमकीर्तिं च व्यपोहितुम्।

काव्यालंकारशास्त्रार्थः संपाद्यः कविपुंगवैः॥

इत्यादीनि बहूनि काव्यकर्तव्यताप्रतिपादकानि सन्ति। न च “काव्यालापांश्च वर्जयेदि"ति सामान्यनिषेधस्मृतिबाधितत्वेन वर्जनीयं वा “सोऽध्वर्युर्गृहणाती"ति वचनवदेतेषां रागमूलकत्वेनाप्रामाण्यमिति वाच्यम्। कथंचिदपि प्रामाण्यानिर्वाहे अप्रामाण्यस्य वक्तुमुचितत्वात्। प्रकृते तु व्यवस्थया प्रमाण्यस्य(12)निर्वोदुं शक्यत्वात्। यदि निषेधस्मृतिः काव्यमात्रमपि विषयीकुर्यात्तदा रामायणादेरपि क्षतिः स्यात्।

अस्ति हि श्रवणमनननिदिध्यासनादिभ्यो(13) विष्णुकथानिर्वर्तक काव्यनिर्माणमेव श्रेयः साधनमिति निश्चित्य भगवता परमयोगिना वाल्मीकिना चतुर्मुखानुज्ञया कृतस्य काव्यस्य रामायणस्य निर्विवादं प्रामाण्यमिति न्यायानुगृहीतविशेषस्मृतिवाक्यानां प्रबलतया सामान्यनिषेधस्मृतिवाक्यस्यासताप्यविषयतया च व्यवस्थयोभयेषां(14) संभवान्न विरोधः। अतोऽनुमित श्रुतिमूलकस्मृत्यादिकमेव तत्कर्तव्यतायां प्रमाणमस्ति। यदि च काव्यमीमांसाकर्तव्यतायां प्रमाणमस्ति। यदि च काव्यमीमांसाकर्तव्यतायां प्रत्यक्षश्रुतिं प्रमाणं विना नोत्सहन्ते तदा “स्वाध्यायोऽध्येतव्य” इति श्रुतिरेव तत्र प्रमाणमिति ब्रूमः। तथा हि-यथा अध्ययनविधेः फलवदर्थावबोधपर्यन्तत्वादर्थस्य, पदार्थवाक्यार्थरूपेण द्वैविध्याद्वाक्यार्थविचारस्य, परस्परव्यावृत्तपदार्थविचारपूर्वकत्वात् पदार्थविवारस्य, पदसाधुत्व विचारपूर्वकत्वात् पदसाधुत्व मीमांसान्यायवैशेषिकात्मक पदार्थमीमांसा, कर्मब्रह्मात्मकवाक्यार्थमीमांसारम्भेषु “स्वाध्यायोऽध्येतव्य” इति श्रुतिरेव मूलप्रमाणम्। तद्वत्प्रायशो वेदेषु काव्यलक्षणलक्षितान्यदोषानि सगुणानि सालंकाराणि सरसानि वाक्यानि सन्ति। तेषां दोषगुणालंकाररसानां विचारमन्तरेण दुर्बोधकत्वात् तद्बोधाय तद्विचारात्मककाव्यमीमांसारम्भोऽप्यावश्यक इति। तत्रापि सैव श्रुतिः प्रमाणमिति। अतस्तत्कर्तव्यतायां न प्रमाणा भावः नापि फलाभावः। पूर्वोक्तन्यायेन काव्यफलैरेव फलत्वादङ्गानां प्रधानफलैरेव फलवत्वनियमात्। काव्यफलभूयस्त्वं काव्यप्रकाशादिषु बहुधा प्रत्यपादि।

(15)काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।

सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥

इत्यालंकारिकवचनप्रामाण्याच्च काव्यस्यानेक श्रेयः-साधनत्वं बभणुः कवयः।

(16)परिविड्ढइ(17) विण्णाणं (18)संभाविज्जइ जसो विडप्पंदि गुणा।

सुव्वइ (19)सुपुरुसचरिअं किं तज्जेण ण हरन्ति कव्वालावा॥

छाया-

परिवर्धते विज्ञानं संभाव्यते यशोऽर्ज्यन्ते गुणाः।

श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः॥

इति तत्रैवोक्तत्वात् काव्यकर्तव्यत्वं बहुधा प्राचीनै र्भूरिभिस्सुरिभिराक्यातम्। इत्येवं कर्तव्यतां(20) (काव्यकर्तव्यतां?)निरूप्य पुनस्तदेव प्रतिपादयति-

(21)विश्वोल्लघनजाङ्घिकीं वितनुते कीर्तिं विधत्ते श्रियं हेलाधिक्कृत(22) यक्षराजविभवां(23) चिन्ताकरं हन्त्यघम्।

दुग्धे स्वादुतरान् रसान्वितरतिस्फआरं कलाकौशलं काव्यं निर्वृतिमावहत्यपि परिस्पन्दावहं चेतसः॥

(24)कृत्वा काव्यमवाप विश्वमहितां कीर्तिं कविग्रामणीः श्रीहर्षः श्रियमद्‌भुतां हरिहरो लेभेऽर्जुन क्ष्मा भृतः।

मृत्योस्तापमपाचकार मलयक्ष्माश्वण्डलाखण्डलस्तत्किंचिन्न विलोक्यते न किल यत्काव्यात्समुन्मीलति(25)॥

न च ऐहिकफलकमिदं नामुक्ष्मिकफलकमिति वाच्यम्। कीर्तिद्वारा स्वर्गादिफलकत्वात्।

“कीर्तिं स्वर्गफलमाहुरासंसारं विपश्चितः।

अकीर्तिं तु निरालोकनारकोद्देशकारिणीम्॥”

इत्युक्तत्वादिति। न च काव्यस्याशास्त्रत्वमिति। प्रतिकूलानुकूलयोर्हानोपादनलक्षणप्रवृत्तिनिवृत्तिव्युत्पत्तिजनकत्वात् काव्यमपि शास्त्रमेव। प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयत इत्युक्तलक्षणा सद्भावात्। तथा हि शास्त्रं त्रिविधम्। प्रभुसंमितं, सुहृत्संमितं कान्तासंमितं चेति। तत्र प्रभुसंमितं शास्त्रीं वेदः। यथा लोके प्रभुः कर्तव्याकर्तव्ययोः जनं प्रवर्तयति निवर्तयत्यन्यथा दण्डमापादयति एवं वेदवाक्यमपि विधिप्रत्ययोपलक्षितं चोदनात्मकं शब्दप्राधान्येनैव नियोज्यं प्रवर्तयति नञोपलक्षितं निवर्तयति सूचयति। अन्यथा पाठेऽन्यथानुष्ठानेऽननुष्ठाने च प्रत्यवाय इति वाक्यार्थप्रधानम्। अर्थवादात्मकं पुराणं वेदवदेवं कुर्यात् इति विधिबलात्प्रवर्तकं निवर्तकं वा न हि, किं तु पुरातनस्य पुरुषकथावर्णनद्वारा सुहृदिव युक्तिभीरनुनीय प्रवर्तयति निवर्तयति चेति सुहृत्संमितं शास्त्रम्। यथा कान्ता कामुकं कटाक्षविभ्रमादिनानुरञ्जयति व्यञ्जकव्यापारेणैव कार्यं कारयति अकार्यान्निवर्तयति (26)तद्वच्छब्दार्थोभयशक्तिमूलयासहृदयहृदयाहलादिन्या लोकोत्तरचमत्कारकारिण्या व्यञ्जनावृत्त्या सरसतामापाद्य रामादिवद्वर्तितव्यं न रावणादिवत् इति व्यञ्जयतस्तस्य कर्तव्याकर्तव्ययोः प्रवृत्तिनिवृत्तिव्युत्पत्त्युपयोगित्वात्। ननु शास्त्रान्तरेभ्य एव तादृग्व्युत्पतिसंभवे किमनेनावधारिताप्तभाव कविप्रणीतेन काव्येनेति चेत् ना। ये राजपुत्रप्रमुखा नीरसश्रुतिस्मृतिश्रवणविमुखाः सुखिनः सुकुमारमतयः प्रजापालनादि परिज्ञानार्थम् अवश्यं व्युत्पाद्याः ते मधुरास्वादद्वारेण कदुकौषधपानादाविव सरसकाव्यानुभवद्वारा पुरुषार्थपरिज्ञाने निवेशयितव्या इति तेषां काव्यस्योपयोगात्। तदुक्तम्-

(27)`स्वादुकाव्यरसोन्मिश्रं शास्त्रार्थमुपयुञ्जते।

प्रथमावलीढमधवः पिबन्ति कटुभेषजम्॥'

इति।

इतरेषामप्यक्लेश व्युत्पत्तिकारिणि रसास्वादनिर्भरे काव्ये प्रवृत्तिस्वारसिकीति इतरशास्त्रापेक्षयातिशायितत्वाच्च(28)। ननु प्रमाण भूत एव शब्दः शास्त्रं स्यात्, नहि कविप्रतिभाप्रभावमात्रप्रणीततया स्वाभिधेये प्रामाण्यमाप्नोतीति कथं काव्यं शास्त्रमिति चेत् न। पूर्वसंकेतित स्वार्थस्मारकाणां पदानां स्वार्थस्मृतिद्वारा वाक्यार्थप्रमाकरणत्वपदप्रमाभूतवाक्यार्थावगमावान्तरव्यापारस्यापि काव्यस्य स्वप्रकाशरसास्वादप्रवृत्तिकरणत्वेन शास्त्रत्वाविरोधात्। न च भाष्यादावारोपरूप धूमज्ञानात् तात्त्विक वह्नि ज्ञानानुदयवत् कविनिबद्धविभावादिज्ञानादतात्त्विकात् तात्त्विकरसप्रमितिः कथमिति वाच्यम्। निष्प्रपञ्च ब्रह्मात्मकत्ववादिनां(29) मते अभ्यासदशायामाविध्यकसरीरादि विविक्तात्मभावनया प्रमाभूतब्रह्मतत्त्व सा क्षात्कृतिवत्काव्यादिवर्णितविभावादि भावनया (30)तन्मयी भावयोगेन आनन्दस्य प्रकाशरसास्वादप्रमित्युत्पत्तेः संभवात्। तथा च आधुनिकं काव्यं प्रमाणं, रसास्वादप्रमिति जनकत्वात् काव्यत्वाद्वा। यदेवं तदेवं यथा रामायणादि तथा चेदम्। ततस्तदा यदि पुनः प्रमाणं न स्यात् (31) प्रहेलिकादिवदिति।

न च रसास्वादस्य प्रमात्वे सिद्धे सर्वमिदं संगच्छते। तदेव कुत इति वाच्यम्। नेदं रजतमिति पदोत्तरकालिबाधोदयाद्वा रसबुद्धेरप्रामाण्यं भवतोऽभिप्रेतम्। `अहं गौर’ इति प्रतीतेरिव प्रमाणान्तरेण विषयापहाराद्वा, प्रमाणव्यापारफल भूतहानोपादानबुदध्यजनकत्वाद्वा। न तावदाद्यद्वितीयावत्र संभवतः। किं तु तृतीयो विकलपोऽवशिष्यते। यथा सरभसप्राणेश्वराभिसरणप्रवृत्तानां मत्तमत्तकाशिनीनामध्वनि चैत्यचत्वरादेर्हानोपादानबुद्धिविरहेऽपी वस्तुपरिच्छितिमात्र पर्यवसन्नः प्रत्ययः प्रमाण्यं न जहाति। तथैवायमपि रसास्वादः (32)परमानन्दनिर्भरत्वेनात्ममात्रपर्यवसन्नोऽपि प्रामाण्यमात्मसात्कुरुते।

तथा चोक्तम्-

`विषयोऽस्य सुखज्ञानमुपेक्ष्य ज्ञानमेव वा।

हानोपादानहेतुत्वविरहेऽपि प्रमान्यथा॥'

इति।

ननु अस्तु काव्यं रसप्रमितिकारणम् तथापि हिताहितप्रवृत्तिनिवृत्तिव्युत्पादकं न भवति। न हि प्रवृत्तिनिवृत्तिरसास्वादमात्रात् किं त्वर्थानर्थोपदर्शनात्। न च नाविकादौ पारमार्थिकं वस्तु किंतूत्पाद्यम्। ततस्तद्‌वृत्तान्तेनार्थानर्थप्रतिपतिर्नसंभवतीति चेन्न। वर्णनाबलेन असत्यत्वं विहाय परिस्फुरता तेन वृत्तान्तेनार्थानर्थप्रतिपत्तेः। तादृग्व्युत्पतिसंभवात्। न हि रामायणे रामादिवृत्तान्तोऽपि व्युत्पादनदशायां सत्य एवायमित्याकारेण प्रतीयते। किं तु स्वरूपेण एवं प्रकृते कविकल्पिते नाविकादावपीति द्वयोरपि साम्यम्। अन्यत्राभिनिवेशात् कालान्तरे भवन्नपि सत्यासत्यत्व विभागोऽकिंचित्करः दृष्टश्च। लोके “भद्रवदन! घनपङ्कपिच्छिलां वाटिकां मा गाः। कोकस्तत्र प्रतिवसती"त्यादिभ्यः स्वार्थेष्वप्रमाणेऽभ्योऽपि बालबिभीषिकाप्रयोजनेभ्यो लौकिकवाक्येभ्यो व्युत्पत्त्याविर्भाव इति वेदादिवद्धिताहितप्रवृत्तिनिवृत्त्युत्पादकत्वात्। संभवति काव्यस्य शास्त्रत्वमिति तन्मीमांसारम्भो युज्यत इति सर्वमवदातम्।

तच्च काव्यमुत्तमनायकगुणवर्णना परत्वेनैव कीर्तिप्रतिष्ठयोरधिष्ठानं भवति। तदुक्तं भामहादिभिः-

“कवेरल्पापि वाग्वृत्तिर्विद्वत्‌कर्णावतंसति।

नायको यदि वर्ण्यते लोकोत्तरगुणोत्तरः॥”

“गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम्।

काव्यमाश्रयसंपत्त्या मेरुणेवामरसुरद्रुम॥”

इति।

अत एव भारतरामायणादेरपि परमपुरुषगुणवर्णनेनैव परमोत्कर्षः। तथा च नायकगुणाः क इत्यपेक्षायां लक्षणोदाहरणप्रतिपादनपुरः सरं ते निरूप्यन्ते।

महाकुलीनतौदार्यं महाभाग्यं प्रवीणता।

तेजस्विता धार्मिकत्वमुज्ज्वलत्वादि तद्‌गुणाः॥ 17 ॥

महाकुलीनता नाम महाकुलसमुद्‌भवः।

तद्यथा-

संभूता बलियाचना सह पुरा यद्वामनेनानिशं सत्रान्नैकभुजो भवाम इति तत्खेदात्सुरैरर्थ्यते। याबालि(याबाजि?) प्रभुसूनुना बलिजितोदारेण पातुं सतः सत्रैर्यत्र पुनर्भवो महदिदं गोत्रं क्षितौ पावकम्॥ 1 ॥

यद्वश्राणशीलत्वमौदार्यं तन्निगद्यते॥ 18 ॥

यथा-

औदार्यं हनुमत्प्रभोः कथमहो वाचां पदं मादृशां वाणी यद्बुधमन्दिरेषु वलते गन्तुं विनानुत्सुका।

मुक्तारत्नवितर्दिकासु(33) गलिता क्रीडत्कुमारावलीहारेभ्यः समुदीक्ष्य दाडिमभियोद्भ्रान्तां स्वलीलाशुकीम्॥ 2 ॥

विश्वंभराधिपत्यं यत्तन्महाभाग्यमुच्यते।

(यथा)-

तेकुमल्लहनुमत्प्रभुमौलेरिन्द्रतुल्यविभवस्य नृपाणाम्।

पुष्पमालतिशिरस्सु सदाज्ञाभाषणं नयविभूषणमुर्व्याम्॥ 3 ॥

कृत्यवस्तुषु चातुर्यं प्रावीण्यं परिकीर्त्यते॥ 19 ॥

यथा-

चातुर्यं हनुमत्प्रभो तव भुवि स्तोतुं न कोऽपि क्षमस्त्वं यद्विप्रकराप्बुजेषु युगपद्धारा मुहुः काञ्चनीः।

वर्षन्हर्षवशाद्दिशासु च यशः सस्यान्यलं वर्धयन् दुर्भिक्षं क्रतुभुक्पुरे परिहरन्नाकल्पमुद्योतसे॥ 4 ॥

विश्वप्रकाशकं तेजस्तेजस्वित्वं निगद्यते।

यथा-

स्फूर्जत्यूर्जितेऽस्मिन् त्रिजगति हनुमन्मान्त्रि तेजोऽपि भानावर्वागुर्वीधरान्तर्मदतिमिरहरे सूर्यकान्ता स्फुरन्ति।

मोदश्चक्रद्विजानां भवति निरवधर्विश्वदोषोपशान्तिर्नैवोद्यन्ति द्विजिह्वा विकसति भुवने नित्यपद्मानभासः॥ 5 ॥

धर्मैकप्रवणत्वं यद्धार्मिकत्वं तदुच्यते॥ 20 ॥

यथा-

सत्यं नोज्झति जात्वपि द्विषति वा दोषं न चारोपयत्यन्तश्चिन्तयते न कामपि वधूमर्थान्परेषामपि।

नैवार्तं शरणागतं त्यजति नो दुष्टैः सह क्रीडति श्रेयोऽर्थी हनुमत्प्रभुर्भुवि ततो नान्योऽस्ति धन्यो जनः॥ 6 ॥

विश्वातिशायि सौन्दर्यमोज्जवल्यं परिकीर्त्यते।

यथा-

याबाजिप्रभुसूनुरेष हनुमन्मन्त्री यतो बाडबज्येष्ठो राजवराभनन्दितनयः कल्यात्म हृत्सद्रतिः।

तद्रामाश्विनयक्षपात्मजनलश्रीजैकतानाकृतिः सौन्दर्यं कथमन्वयो यदि भवद्विश्वातिशायी दृशम्॥ 7 ॥

आदिपदेन महामहिमतापाण्डित्ये कथ्येते।

महामहिमता नाम या पुनर्देवतात्मतेति॥ 21 ॥

यथा-

विश्वामित्रवितानभेदनकृदतिस्थेयाननन्तात्मभू कान्तोपास्तखलोदयः प्रशमितोदग्राग्रधर्मप्रदः।

पातुं सत्कुलमात्मभक्तहनुमन्नाम्नावतीर्णोऽधुना याबाजिप्रभुनन्दनाग्रजतया जादर्ति रामः क्षितौ॥ 8 ॥

सर्वविद्यापरिज्ञानं पाण्डित्यं समुदीरितम्।

यथा-

हित्वा वाग्वनिता पितामहमहो वृद्धोऽमित्यन्वहं प्रज्ञासालिनि तेकुमल्लहनुमन्मन्त्रीश्वरे क्रीडति।

त्राता सत्यप्रदश्रियः शतधृतिः पद्माश्रयोऽयं बुधाराध्योऽपीत्यनुरागतोऽस्य न हि चेत्पाण्डित्यमीदृक् कुतः॥ 9 ॥

अथ नायकस्वरूपं निरूप्यते।

कीर्तिप्रभावसुभगो धर्मकामार्थतत्परः। 22 ॥

धुरंधरो गुणादयश्च नायकः परिकीर्तितः।

कीर्तिप्रतापसौभाग्यं यथा-

प्राग्दातासमयप्रवर्तकतया भानुं सुधाभानुमत्युत्पाद्याधिवियन्न चोज्ज्वलयतः सर्वं जगद्वाविमौ।

इत्युर्व्यां हनुमत्प्रधानमसृजत्तद्विश्रियायं यतो विश्वं द्योतयते हिमाहिमकरैः कीर्तिप्रतापात्मभिः॥ 10 ॥

धर्मकामार्थ(धर्मार्थकाम?)तत्परत्वं यथा-

धर्मं मघेन बहुधाप्यनघेन तन्वन्नर्थं नयेन विनयेन मुहुश्च चिन्वन्।

कामं धनेन विहतप्रदनेन धुन्वन् लोकं प्रवाति हनुमत्प्रभुरेष धिन्वन्॥ 11 ॥

धुरंधरत्वं यथा-

कूर्मक्रोडफणीन्द्रदिग्गजनगान् भाराधिकारे भुवः कृत्त्वा मन्दधियस्त इत्यनुशायात्सत्त्वाधिपोऽप्यात्मभूः।

हृत्वा तद्बलसंपदं च हनुमन्नाम्नावतीर्णोऽधुना धत्ते भूभरमन्यधा(मन्यथा?)स हि शतानन्दः कथं वा कृतिः॥ 12 ॥

गुणादयत्वं यथा-

याबाजिप्रभुनन्दनस्य हनुमन्त्रीशितुः(34) सद्‌गुणान् संख्यातुं क्षमते न कोऽपि भुवने सोऽयं परब्रह्मणः।

निर्दोषामितदिव्यमङ्गलगुणालंकारमूर्त्यन्तरं सत्यज्ञानसुयाद्वितीयगरिमा यस्मात्स्वयं द्योतते॥ 13 ॥

उदात्तश्चोद्घतश्चैव ललितः शान्त इत्यपि॥ 23 ॥

धीरपूर्वा इमे सर्वरसानुगुणनायकाः।

गम्भीरः सत्वसंपन्नः कृपावानविकत्थनः॥ 24 ॥

दाता परगुणग्राही धीरोदात्तो निगद्यते।

यथा-

एष श्रीहनुमत्प्रभुर्न विकृतिं धत्ते मुसे जातु वा हर्षामर्षविबोधिकां रिपुवधोद्यक्तेऽपि कृपाम्।

नार्थिभ्यो विमुखत्वमेति सहते श्लाघां पुरो न क्वचिच्छत्रौ वा बहुमन्यते गुणमतो धन्योऽस्ति नान्यो जनः॥ 14 ॥

धीरोद्धतस्य विज्ञेयो बली चण्डो विकत्थनः॥ 25 ॥

यथा-

यस्याजातरिपो हनूमदभिधाङ्कस्य प्रियः सोदरश्चण्डश्चण्डपराक्रमो निजभुजाटोपं मुहुः श्लाघयन्।

भिन्ते सिंहबलोऽप्यरातिनृपतीन् दुःशासनात्संगरे भीमाख्यः प्रभुरेष किं जितजरासन्धो न धीरोद्धतः॥ 15 ॥

स धीरललितो नेता निश्चिन्तो भोगलापटः।

(यथा)-

नित्यं श्रीहनुमत्प्रभौ प्रभवति क्षोणीभरं बिभ्रति भ्रातैतस्य विराजते जितमहागन्धर्वराड्वैभवः।

श्रेयोलाभरतो(35) गुणैर्भरतवत्सत्यप्रतिष्ठोन्नतिर्निश्चिन्तो बहुभोगलालसमना वीरप्रधानोऽधुना॥ 16 ॥

धीरशान्तः शान्तिविद्यादीप्रो विप्रो निगद्यते॥ 26 ॥

यथा-

वेदानावर्तयन्तः सकलमनुदिनं शास्त्रमालोचयन्तः सत्कर्माण्याचरन्तः श्रुतिपदविहितान्येव संतोषयन्तः।

ब्रह्मान्तश्चिन्तयन्तो निरुवधि(निरवधि?) हनुमन्मन्त्रिदत्ताग्रहारग्रामेषु ब्राह्मणौघा विमलशमधना विश्वमापादयन्ति॥ 17 ॥

अनूकूलो दक्षिणश्च शठो धृष्ट इतीरिताः।

चत्वारो नायकास्ते तु शृङ्गाररसगोचराः॥ 27 ॥

एकायत्तोऽनुकूलः स्यात्तुल्योऽनेकत्र दक्षिणः।

नायिकामात्रविज्ञात विप्रियाधायकः शठः॥ 28 ॥

व्यक्तेऽपराधे गतभीः स धृष्ट इति कथ्यते।

प्रत्येकमेषां क्रमेणोदाहरणानि।

यथा-

अश्रान्तां हनुमत्प्रभुः शुभमयानल्पञ्चने काञ्चने पर्यङ्के मृदुतल्पभाजि पुलकस्वेदप्रमोदोद्धुराम्।

आनीयाङ्कमुरोजयोर्विरचयन्पत्राङ्कुरान्‌ कुङ्कुमैर्धन्यः क्रीडयते निजां प्रियमधूं निःसीमकामोत्सवैः॥ 18 ॥

एकां नर्मवचोभिरङ्गजकथारङ्गे(36) रसांङ्गैः परामन्यां चोच्छिरसा सुखोत्सवरसावाणीतनोर्वीरुहः(37)।

कान्ताः सन्ततमानयन्नवनयन् श्रीवल्लभो वल्लभामात्यो लालयते च यस्य हनुमन्मन्त्रीशितुः सोदरः॥ 19 ॥

चेतोनाथ। कपोलयोर्मम कृता दृष्टिस्त्वया याऽद्य सा न प्रेम्णा मयि किन्तु तत्प्रतिफलन्मूर्तिं स्वपश्चाद्गताम्।

कान्तामीक्षितुमेव सा स्मितमुसो याताऽन्यतश्चन्मनाक्चक्षुर्न क्षिपति स्ववोऽनुविदितं शाठ्यावहं ते मनः॥ 20 ॥

प्रातर्मन्दिरमात्मनो गतवतः पत्युः समीक्ष्याक्षमा फालेऽलक्तक पङ्कमन्यरमणीपादानतिज्ञापकम्।

सद्योऽन्तः प्रतिमान मानविवशा मिथ्याशिरोवेदनाव्याजात्किंचिदनालपन्त्यधिगृहं शेते स्म काचिद्वधूः॥ 21 ॥

एतेषां नायकानुकूलकरणसहायाः क्रमात्पीठमर्दविटचेटकविदूषकाः। तत्र-

किंचिदूनः पीठमर्दः कलासु कुशलो विटः॥ 29 ॥

सन्धाननिपुणश्चेटो हास्यप्रायो विदूषकः।

तेषामुदाहरणानि स्पष्टानीत्युपेक्ष्यन्ते।

प्रसंगादथ नायिका निरूप्यन्ते।

स्वकीया परकीया च सामान्या वनितेति च॥ 30 ॥

नायिकाः प्रथमं तिस्रः शृङ्गाररससंमताः।

मुग्धा मध्या प्रगल्भा चेत्येतास्तिस्रः पृथक्पृथक्॥ 31 ॥

धीराऽधीरा तथा धीराधीरेति त्रिविधास्तु ताः।

ज्येष्ठा कानिष्ठा भेदेन ताः पुनर्द्विविधाः स्मृताः॥ 32 ॥

स्वाधीनपतिका चैका तथा वासकसज्जिका।

विरहोत्कण्ठिता चापि विप्रलब्धा च खण्डिता॥ 33 ॥

कलहान्तरिताप्येका तथा प्रोषितभर्तृका।

तथाभिसारिका चेति ताः स्मृताः पुनरष्टधा॥ 34 ॥

अवस्थाभेदतस्त्वेवं नायिका नहुधेरिताः।

तासां शृंगारतिलकरसमञ्जर्यादौ रुद्रटभानुदत्तादिभिः बहुधा प्रपञ्चितत्वात् दिङ्मात्रमुदाहरणान्युच्यन्ते।

पतिमात्रानुक्ता स्यात्स्वीया दृढपतिव्रता॥ 35 ॥

यथा-

माने मौनमपि क्षमं निजपदोपान्ते सखीभिः समं सल्लापः सतते हितार्थकरणे पत्युर्मनः संभ्रमः।

संचारो भवनान्तरे महति वा भोगेऽप्यनुत्सेकतेत्यश्रान्तं हनुमत्प्रभोः कुलभुवामेवद्व्रतं सुभ्रुवाम्॥ 22 ॥

परानुरक्तहृदया परकीया भवेद्वधूः।

यथा-

द्वारस्थान्ययुवानमंगणचरं पश्यत्यपाङ्गाञ्चलैर्ब्रूते नर्मवचो मनोजपिशुनं तेनोदिते कुप्यति।

जल्पत्यन्यगृहे हसत्यपि मुहुर्गायत्मनुच्चैस्तनुं भूयो भूषयते सती परवधूरिष्टं मुहुश्चेष्टते॥ 23 ॥

यथा (यथा वा?)-

दूतीव ते करगता तरवारिधारा निद्राप्यपैति नृपतीन् रणरङ्गभूमौ।

आनीय योजयति तच्चिरराजलक्ष्मीं शूरोपभोगरसिकां हनुमत्प्रभो त्वाम्॥ 24 ॥

धनैकायत्तहृदया वारस्त्री बहुवल्लभा॥ 36 ॥

यथा-

एकं कामुकमंङ्गजोत्सवकरैरीक्षाङ्कुरै रञ्जयत्यन्यं चित्तजधर्ममर्मपिशुनैर्नर्मोक्तिसंभावनैः।

उरूरोजनिदर्शिभिः परमहो लीलाङ्गसंवेलनैर्नैकत्राप्यनुरज्यते धनपरायत्तेव वाराङ्गना॥ 25 ॥

(यथा वा)-

आच्छाद्याशु भुजङ्गपुङ्गः वदृशो दक्षः फलानां विधेभूयस्तान् परिमोहयन्त्यतितरां शक्तस्य दातुं धनं शक्त्या ते हनुमत्प्रधानगणिकेवाभाति कीर्त्यङ्गना॥ 26 ॥

उदयद्यौवना मुग्धा लज्जा विजितमन्मथा।

यथा-

बाला श्रीहनुमत्प्रभुं निजमनोनाथं नवे संगमे साकूतं न विलोकते नच सुधास्यन्दी भाषते(38)।

नाश्लेषार्थमुरो ददाति तदपि प्रव्यक्तरोमोदृगमा चोष्टां चारु चमत्करोति मदनप्रोज्जीविनीं कामपि॥ 27 ॥

लज्जा मन्मथमध्यस्था मध्यमोदितयौवना॥ 37 ॥

यथा-

संपश्यत्यनुरज्यते वदति चेन्मन्दं सकृद्भाषते श्लिष्यत्यातनुते स्मितं मनोनाथे हनूमत्प्रभौ।

(39)नानाकेलिषु लोलयत्यपि मनो न प्रातिकूल्यं भजत्यन्तर्नोत्सहते स्वयं तु रमणी काचित्प्रमादिन्यपि॥ 28 ॥

स्मरमन्दीकृतप्राया प्रौढा संपूर्णयौवना।

यथा-

काचिच्चञ्चललोचना सपुलकस्विद्यत्कपोलस्थली कान्तं श्रीहनुमत्प्रभुं स्मितसुधा सम्भावितोद्यन्मुखी।

पश्यन्ती सविलासमङ्गजरणारम्भे समुत्साहयन्त्येकान्ते समपाययन्मुखसुधां सद्वीरपानं यथा॥ 29 ॥

स्वाधीनपतिका सा स्याद्या पत्या नित्यलालिता॥ 38 ॥

यथा-

चञ्चत्काञ्चनसौधसीमसु निजां कान्तां स्थिरात्मोद्भवामेष श्रीहनुमत्प्रभुर्धनपतेर्जेता व सूबुश्रियाम्।

रत्नालंकरणैर्हितानुसरणैर्लीला चदूदीरणै र्नित्मंक्रीडति लोलयन्मकरिकाशिल्पैरनल्पैरपि॥ 30 ॥

केलीगृहं तथात्मानं मण्डयन्ति मुहुः प्रियाम्।

प्रतीक्षते स्मरावेशा सा स्याद्वासकसज्जिका॥ 39 ॥

(यथा?)

कान्ता सज्जयते विहारसदने तल्पं गुणाकल्पनैरङ्गं भूषयते लसन्मणिमयैर्निर्दूषणैर्भूषणैः।

पृच्छन्ती हसनोन्मुखीं प्रियसखीमहनोऽवशेषं मुहुः कांक्षन्ती तव संगमद्य हनुमन्नाथाशु संभाव्यताम्॥ 31 ॥

चिरयत्यधिकं कान्ते विरहोत्कष्ठितोन्मनाः।

विद्वद्गोष्ठीविशेषैश्चिरयति हनुमन्मन्त्रिणि प्राणनाथे श्यामा हेलाभिरामा स्मरशारदहनायत्तचित्ता नितान्तम्।

तन्मार्गन्यस्तदृष्टिर्निजकरकमले श्रीविशालं कपोलं न्यस्यन्ती भावयन्ती युगपदगमयद्यामिनीं तां दुरन्ताम्॥ 32 ॥

विप्रलब्धा तु सा ज्ञेया या कान्ता कान्तवञ्चिता॥ 40 ॥

यथा-

आयामीति वचोऽबिधाय बहुधा संकेतमावेद्य मां नूनं वञ्चितवानसौ हि हनुमन्मन्त्री स्वतन्त्रप्रभुः।

मामानीतवतः स्मरस्य न पुनः शक्तिस्तमानेतुमप्यास्यायालमिह व्रजाम सखि निर्यातो निशीतोऽधुना॥ 33 ॥

क्वचिन्नीतक्षपे कान्ते खण्डितेर्ष्या कषायिता।

यथा-

नीत्वान्यत्र निशामुपागतवतः प्रातर्निजं मन्दिरं पत्युर्वीक्ष्य मुखं विनिद्रमुदयन्मानाति दूनात्मना।

कामिन्या परुषा गिरो न कथिता मुक्ता न बाष्पोद्धुरा दृष्टिः किंतु कृतं स्मितं तदभवत्तस्योग्रशल्यं हृदि॥ 34 ॥

निरस्य कान्तं कोपेन पश्चत्तापमुपागता॥ 41 ॥

कलहान्तरिता सा स्त्री विज्ञेया स्मरपीडिता।

(यथा)-

चेतः (40)प्राक्सवयो गिरा वत कया गोष्ठ्या निशामन्यतो नीत्वा प्रातरुपागतः स हनुमन्मन्त्री स्वतन्त्रस्त्वया।

आक्षिप्तो भज तत्फलं त्वमधुनेत्युदद्योषयन्त्यो मुहुः कामिन्या निहिताः सखीजनमुखे दीना नवीना दृशः॥ 35 ॥

देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका॥ 42 ॥

यथा-

कर्तव्येषु महामखेषु हनुमन्मन्त्रीन्द्र विश्राणितैरर्थैरागमवेदिभिर्दिविषदामाहूयमाने गणे।

तद्योषाश्चिरगण्डपाण्डिमजुषः शोषात् कृशाङ्गत्विषः कामार्ता विरहव्रतान्यतितरामश्रान्तमातन्वते॥ 36 ॥

यथा वा-

वैरिक्षोणिभुजां पुनर्निजपदप्रत्यर्पणाशंसिनां सेवायै हनुमत्प्रभोर्विजयिनः सान्निध्यमासेदुषाम्।

कान्ता कामशराभिघातविदलच्छित्तापहन्तेतरामुद्यन्म्लानिमपाण्डिमकृशिमसुस्वाङ्गेषु दीनां दशाम्॥ 37 ॥

अनुरक्ता स्वयं कान्तं याति या साभिसारिका।

(यथा?)-

चन्द्रश्चेन्मलिनान्तरोऽतिकठिनश्चिन्तामणिर्वा पशुर्धेनु(41)……..पटांतच्छन्नांग इत्यद्य तान्।(?)

हित्वा निर्मलकोमलाशयमतिप्रज्ञं खलानाश्रयं त्वामेवाभिसरन्त्युदारहनुमन्मन्त्रीन्द्र त(त्व?)त्कीर्तयाः॥ 38 ॥

यता वा-

प्राचीनान्यवदान्य कीर्तिललनाः कल्पप्रसूनस्त्रजोबिभ्राणा विशदावकुण्ठनपटाश्चिन्तामणिच्छायया।

त्वामद्याभिसरन्ति ते धवलिते स्फूर्जदगुणज्योत्स्नया त्रैलोक्यहनुमच्चमूपतिविधो गौरवधिया नात्र प्रपञ्च्यते॥

॥इति श्रीशोण्ठिकुलकमलभानुना पेरमाम्बाकृष्णभट्टारकसूनुना गौरीरमणभक्तिमासेदुषा मारभट्टविदुषा विरचिते श्रीमत्तेकुमल्लहनुमत्प्रभुशुभगुणोपचिते रससुधानिधि नामन्यलंकारशास्त्रललामन्यादिमः प्रवाहः॥

*********

॥ अथ द्वितीयप्रवाहः आरभ्यते ॥

अथेदानीमुक्तविशिष्टस्य नायकस्य कथाशरीरप्रतिपादकं काव्यं लिलक्षयिषुरादौ तत्सामग्रीं दर्शयति।

अनेकशास्त्राद्यवमर्शनेन काव्यज्ञशिक्षाभ्यसनेन तस्य॥ 43 ॥

हेतुः समुद्बोधवती स्वशक्तिः प्राज्ञैस्वादि प्रतिभापराख्या।

अनेकेषां शास्त्राणां काणादपाणिनीभादीनामादिपदेन गजतुरगखड्गादिग्रन्थानां च सम्यगवमर्शनेन काव्यं कर्तुमभिनन्दितुं च ये जानन्ति तेषां सम्यक्छिक्षया गुरूपदेशेन यदभ्यसनं तेन च समुद्बोधवती स्वकीया पूर्वजन्मसुकृतार्जिता प्रतिभापरनामधेया शक्तिस्तस्य काव्यस्य निदानमिति प्राज्ञैरवादि। इयमेव प्रधार्न कारणम्।

यतः-

प्रचरति न विना कवित्वमेनां प्रसृतथाप्यपहास्यतां प्रयाति।

हरति हि मतिमान्द्यजान् प्रदोषान् सततमिथं प्रतिभा समुन्मिषन्ती॥

तत्प्रयुक्तान् दोषान् सततसमुन्मेषशालिनी प्रतिभा नाम शक्तिर्निवारयति। तां विना कविता न प्रसरति प्रसृतापि वा उपहास्यतासाम्राज्यमधितिष्ठति। अतोऽस्याः प्राधान्यम्।

किं च काव्यश्रियो लोकवत् सामग्रीं दर्शयतिशब्दार्थाविह मूर्तिरात्मविभवं धत्ते रसादिध्वनिर्भूषा अप्युपमादयो बहुविधा माधुर्यमुख्या गुणाः।

शय्योदञ्चति वृत्तिरीतिगरिमा पाको मृदुर्यत्ततः सामग्री वितनोति लोकवदियं काव्यश्रियः कौतुकम्॥

लोके(काव्य) श्रियोऽप्यस्याः शब्दार्थौ शरीरमात्मा रसादिध्वनिरुपमादयो हारादिवदलंकाराः शौर्यादय इव माधुर्यादयो गुणा, रीतय इव वैदर्भ्यादयो रीतयस्सद्‌वृत्तय इव कैशिक्यादयो वृत्तयः शय्येव विश्रान्तिहेतुः शय्यापाक इव रसाद्यास्वादहेतुः पाक इति निर्दोषेयं सामग्री कस्य न कौतुकमातनोति।

अथ काव्यं लक्षयति।

अत्र संप्रदायविदः- `अपदोषौ शब्दार्थौ सगुणौ सालंकृती काव्यम्। दोषवर्जितौ सगुणौ सालंकृती काव्यमित्याहुः। तन्न विचारचारु। यथा किटविद्धे रत्ने कुसुमे वा प्रभासौरभविशेषसद्भावे रत्नत्वकुसुमत्वयोर्न निवृत्तिः य(न?)था शृतिकदुप्रभृति दोषविद्धे काव्ये रसादिसंभेद काव्यत्वक्षतेरभावात्। तदुक्तम्-

(2)`कीटापविद्धरत्नादि साधारण्येन काव्यता।

दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः॥’ इति।

न चैवं सति कीटविद्धमपि रत्नेषु दुष्टमिव जातिविशेषपरिकल्पितमूल्यभाजनं धारयितुर्वा फलविशेषविधानक्षमं स्यात्, कुसुमं वा देवताचरणसमर्पणयोग्यं स्यादिति वाच्यम्। तात्पर्यानवबोधात्। न ह्यस्माभिर्दुष्टानां रत्नकुसुमकाव्यानां अदुष्टवदहीनत्वमुच्यते। किं तर्हि? दुष्टत्वेऽपि रत्नत्वकुसुमत्वकाव्यत्वानामनिवृत्तिरिति। यथा दोषतारतम्ये रत्ने कुसुमे च मूल्यधारण प्रयोजनयोः सौरभस्य चापकर्षतारतम्यं तथा काव्येऽपि रसास्वादस्यापकर्षतारतम्यमस्ति। न च नास्ति दोषदुष्टेषु रत्नत्वादिकं तद्‌व्यवहारस्त्वाभासमात्रादतिप्रसङ्गात्। काचादावपि तादृशव्यपदेशापत्तेः। ननु काचादौ साधर्म्यवैधर्म्योरल्पत्वभूयस्त्वाभ्यां मरकतत्वाद्यारोपानन्तरं वैधर्म्यग्रहणेन नेदं तदिति बाधकोदयाच्च नाभासिको रत्नव्यपदेशोऽस्ति। दोषदुष्टे तु रत्नादौ भूयोऽवयवसाम्येन विशेषस्यातिनिर्मग्नतया कदाचिदत्यग्रहणेन च संभवत्याभासिको निर्विगीतो रत्नव्यवहारः। अत एव काचादावपि परीक्षकाणां विशेषाग्रहणदशायां गारुत्मकादि व्यपदेशः प्रवर्तत इति चेन्न। स च विशेषः किं प्रकृत एव दोषः तदन्यो वा। द्वितीयेऽपि ग्रहणयोग्यो नित्यपरोक्षो वा। न तावदाद्यः विवादपदत्वात् (विवादस्पदत्वात्?)। दुष्टेऽपि रत्नत्वादेरस्माभिरङ्गीकृतत्वात्। न द्वितीयः-अनुपलभ्यमानत्वात्। न तृतीयः-अदुष्टेऽपि तस्य सुवचत्वेन भासे सद्‌व्यवहारः। तस्योभयत्र तुल्यत्वात्। न च मुख्यव्यवहाराभावे गौणव्यवहारो न संभवति, भ्रान्तेरभ्रान्तिपूर्वकत्वादिति वाच्यम्। दुष्टेष्वेव तद्‌व्यवहारस्य मुख्यतयाप्यदुष्टेष्वेव गौणतायाः सुवचत्वात्। न च उत्कृष्टधर्मादध्यासोऽनुत्कृष्टेन चोत्कृष्टेऽनुत्कृष्टधर्माद्‌ध्यास इति नियमः। निसर्गनिर्मले रोहिणीरमणे मेदिनीप्रतिबिम्बगतकालिमावभासमात्रेण दर्पणादिगतकलङ्काद्यारोपस्य दुष्परीक्षककरतलगते मरकतादौ वंशपत्रप्रतिकृति प्रकाशमात्रसाम्येन काचत्वाद्यारोपस्य दुष्टत्वात्। तस्माद्विनिगमकाभावेनादुष्टवद्‌दुष्टेष्वपि रत्नकुसुमकाव्येषु रत्नत्वादेरक्षतिः। किं च यदि सदोषाणि रत्नकुसुमकाव्यानि काचादिफेनप्रहेलिकाकल्पानि स्युः, तदा तद्वदेव धारणफलसौरभरसास्वादशून्यानि स्युः। किंच पदतदवयववाक्यवाक्यार्थादिदोषाणां प्रायशो व्यापकत्वेन किंचित् कस्यचित् कदाचित् क्वचिद्वाक्यं निर्दोषं काव्यं स्याद्वा न वा। स्यादागोपालाज्जनप्रसिद्धं रामायणादिकं काव्यं न स्यात्। रामायण भारतकालिदास भावभूतिध्वनिकारप्रभृतिनिबन्धानां काव्यप्रबन्धानां पदतदवयवादि विषयदोषयोगिनां दृष्टत्वात्। दुर्लभं च केष्वपि काव्येषु निर्दोषत्वम्। अत एव-

`दोषोऽप्यस्ति गुणोऽप्यस्ति निर्दोषो नैव जायते।

सुकुमारस्य पद्मस्य नाला भवति कर्कशा॥'

इति सकलजनप्रसि।द्धोऽप्याभाणकोऽस्ति। निखिलकविराजराजः सरस्वतीसूनुः काव्यपुरुषावतारः कालिदासोऽप्याह- “प्रायेण सामग्य्रविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिरिति। तस्मादनिच्छन्तोऽपि दुर्विदग्धाः रसादिसंभेदे काव्यत्वं दुष्टेष्वप्यंगीकारयितव्यमिति

सिद्धान्तस्तु-

शब्दार्थौ तु यत्र वाक्ये तदलंकृतिगुणा अपि॥ 44 ॥

रसास्वादोन्मुखाः काव्यं तत्तदाभासतान्यथा।

यत्र पदकदम्बके शब्दोऽर्थश्च तयोरलंकृतयोः गुणाश्च स्वामिभृत्यन्याभेन रसास्वादमुखप्रेक्षिणो भवन्ति तत् काव्यम्। इतरत्तु काव्याभासः। अत्र रसपदेन साध्यसिद्धावप्यास्वाद्यपदोपादानमास्वादप्रधानानां रसाभासादीनामप्यवबोधार्थम्। तेन तेषामपि प्राधान्ये काव्यत्वं स्वीकृतमेव।

यत्र रसादीनां व्यङ्ग्ययोर्वस्त्वलंकारयोर्वा रसाद्यन्तरे गुणीभावः तत्र प्राधान्यकृत एव काव्यव्यपदेशः।

तदुक्तम्-

`प्रकारोऽयं(3) गुणीभूतव्यंग्योऽपि ध्वनिरूपताम्।

धत्ते रसादितात्पर्यपर्यालोचनया पुनः॥’ इति।

यत्र तु रसादीनां वस्तुमात्रेऽङ्गत्वं तत्र गुणीभूतरसापेक्षयैव काव्यत्वव्यपदेशः। न च तेषां कवितात्पर्यविश्रान्ति विषयत्वात् कथमेवमिति वाच्यम्। काव्यार्थस्याखण्डबुद्धिवेद्यस्य तन्मयीभावयोगेन आस्वाद्दशायां गुणप्रधानभावावभासस्तावन्नानुभूयते। प्रकरणादिपर्यालोचनया कालान्तरे भवन्नपि नासौ काव्यव्यपदेशं व्याहन्तुं क्षमते। काव्यव्यपदेशस्य रसाद्यास्वादमात्रायत्तत्वात्। किं च तत्कथं(4)मध्यमं काव्यम्। ननु रसादिध्वनिगुणीभूतव्यङ्ग्ययोः काव्यत्वं यद्यङ्गीक्रियते तदालंकृतिवस्तुध्वनिगुणीभूतव्यंग्ययोः तन्न स्यात् इति चेत्तत्रेयं व्यवस्था। यदि तयोरपि रसाद्यास्वादानुबन्धः तदा तत्पूर्वोक्त न्यायेन काव्यता। न च तत्रापि रसादेः प्राधान्येनालंकृतिवस्तुनोर्ध्वनित्वं न स्यादिति वाच्यम्। तदनादृत्य वाच्यतः प्राधान्यमात्रेण ध्वनित्वाङ्गीकारात्। यत्र त्वास्वाद्यमैत्री विना कृतयोस्तयोः प्राधान्यमप्राधान्यं वा तत्र तद्वत्साजात्यभ्रमकृतो ध्वन्यादि व्यपदेशः। तन्मूलश्च काव्यत्वव्यपदेश इति। तथा चोक्तम्-

`शब्दचित्रं(5) वाच्यचित्रमव्यङ्ग्यमवरं स्मृतम्।’ इति।

तत्राव्यंग्यमिति नञोऽभावार्थत्वं अल्पार्थत्वं वा। द्वितीयोऽप्यास्वादसंभेदे तद्राहित्ये वा आद्यान्त्ययोरकाव्यत्वमेव। मध्यमे तु प्राचीनयोः काव्यभेदयोरन्तर्भावः इति रसवत्प्रबन्धान्तर्गतमपि नीरसध्वनिगुणीभूतचित्राणामपि रसवद्‌गाथान्तर्गतनीरसैकपदवन्न काव्यावयवत्वहानिः। समुदायस्यैव तत्र काव्यत्वाङ्गीकारात्। यत्तूक्तं महिमभट्टेन-"(6) काव्यभेदवर्णनं तु प्रयासमात्रफलकम्। निरतिशय रसाद्यास्वादलक्षणस्य तस्य विशेषाभावादि"ति। तत्रोच्चते-किमास्वादजीवितत्वेनैक्यमभिमतमायुष्मतः। किं रसादिप्राधान्यादि भेदाभावाद्वा(रसा?)स्वाददशायामनवभासाद्वा। आद्ये इष्टापतिः। काव्यत्वेनैक्यस्वीकारात्। द्वितीये त्वनुभवस्याशक्यापह्नवत्वात्। न तृतीयः। तदानीमनवभासेऽपि विवेचनायां रसादिप्राधान्यादि विशेषस्य प्रतिभासमानत्वात्। तस्मात्सहृदयहृदयवेद्यस्यास्वादतारतम्यस्यापलापानर्हत्वेन दुरपह्नवः काव्यभेदः। तस्माद्रसादिरेव काव्यस्यात्मा। तद्‌ध्वनिप्राधान्यगुणीभावौ काव्यभिदा प्रयोजकौ। नीरसं तु सकलमाभास एवेति सर्वं समञ्जसम्।

अथादौ शब्दार्थौ निरूपयति।

वाचको लक्षकः शब्दो व्यञ्जकश्चेति स त्रिधा॥ 45 ॥

साक्षात्संकेतितं ब्रूवे योऽर्यं शब्दः स वाचकः।

यो गृहीतार्थसंबन्धशब्दः संकेतितस्य हि॥ 46 ॥

स च शब्दार्थसंबन्धः शक्तिरर्थावबोधिका।

ननु सा शक्तिरज्ञाता ज्ञाता वार्थस्मृतिं जनयति। नाद्यः-अव्युत्पन्नस्याप्यर्थस्मृत्युदयापत्तेः। न द्वितीयः। शक्तौ ज्ञातायां अर्थस्मृतिः। अर्थस्मृत्या शक्तिज्ञानमित्यन्योन्याश्रयमिति चेन्न। संगतिग्रहणकाल(7) एव मध्यमवृद्धस्य प्रवृत्त्या अर्थज्ञानं, तस्य चोत्तमवृद्धवाक्य जन्यत्वं च निश्चित्य तस्य वाक्यस्य तदर्थज्ञानजननशक्तिरवसीयते। तज्जनित संस्काराच्छब्दश्रवणसमुत्थादुत्तरोत्तरार्थानुस्मृतिरित्यन्योन्याश्रयादि दोषो नेति निरवद्यम्।

(अर्थो)वाच्यश्च लक्ष्यश्च व्यङ्गयश्चेति त्रिधा मतः॥ 47 ॥

साक्षाद्यत्रास्ति संकेतः स वाच्यार्थो निगद्यते।

(8)स चतुर्धा। जातिगुणक्रियाद्रव्यविभेदतः। सर्वेषां जातिरेवार्थः शब्दानां वेति निश्चयः।

आनन्त्याद्‌व्यभिचाराच्च-व्यक्तौ शक्तिर्न हीष्यते॥ 48 ॥

गौः शुक्लश्चल् इत्यादेः स्यादा पर्यायतान्यथा।

न्यायवैशेषिकादयुस्तु केवल जातेरर्थक्रियाशून्यतया पुरुषप्रवृत्त्ययोग्यत्वात् केवलव्यक्तेर्व्यभिचारानन्त्याज्जात्यालिङ्गिता व्यक्तिरेव शब्दार्थ इत्याहुः। तन्न विचाररमणीयम्। न हि सर्वोऽप्यर्थः प्रातिस्विकेन धर्मेण प्रत्यक्षेणेति वाच्यम्, जात्यैवेति। `विशेष्यं नाभिधागत्छेत् क्षणिशक्तिर्विशेषण’ इति न्यायेन विशेषणभूता जातिरेव शब्दार्थः। तस्या आत्मधर्मकतयैव प्रतीयमानव्यक्तिद्वारा अर्थक्रियाकारितया पुरुषप्रवृत्त्ययोग्यत्वात्। न च समानसंवित्संवेद्यत्वाज्जातावेति(व?)शक्तिः न व्यक्ताविति कथमिति वाच्यम्। जातेः परतन्त्रतया स्फुरदन्तर्भूतव्यक्तिधर्मिकतयैव प्रतीयमानतया तत्प्रतीता व्यक्तेरपि प्रतीयमानत्वेन पृथक्छक्त्यनपेक्षणात्। अनवरतं तस्यैव शब्दार्थत्वात्। उभयत्र शक्त्यङ्गीकारे गौरवापत्तेश्च। न चान्यापोहः शब्दार्थः। घटज्ञाने घटज्ञानमघतज्ञाने तदन्यत्वेन घटज्ञानमित्यन्योन्याश्रयात्। तस्माद्गौरित्यत्र गोत्वे, शुक्ल इत्यत्र गुणे, चल इत्यत्र क्रियायां, डित्थ इत्यत्र (9)द्रव्ये शक्तिरिति चतुर्धा शब्दानां मुख्योऽर्थः। (10)यद्वा प्रवृत्तिनिमित्तवैविध्यापत्त्या सर्वत्र गोत्वशुक्लत्वचलत्वडित्थत्वादि जातिरेवार्थ इति रमणीयम्।

वाच्यार्थगोचरा तस्य व्यापृतिः कथ्यतेऽभिधा॥ 49 ॥

द्विधा भवति सा (11)रूढिपूर्विका योगपूर्विका।

रूढिपूर्विका यथा-

त्वं मेदिनीन्दुस्तव कीर्तिपूराः सुधां क्षरन्तः शुचयो मयूखाः।

आलोक्य यानुल्ललयन्ति चञ्चूश्चिरं चकोरा हनुमत्प्रधानम्॥ 40 ॥

अत्र सर्वे शब्दाः रूढाः।

योगपूर्विका यथा-

नेत्रा श्रीहनुमत्प्रधानविभुना न्यायाद्गृहीते करे जायन्ते चिरवर्धमानविभवस्फूर्तेर्भुवो याः प्रजाः।

ता रत्नाकरमेखलाश्च विपुलाभिख्या भवन्ति स्थिरा गोत्रापा(12) वसुमत्य इत्यतितरां धन्या हि मात्रा समाः॥ 41 ॥

अथ लक्ष्यलक्षकशब्दौ तद्‌वृत्तिं च निरूपयतिः-

शब्दो लक्षणया योऽर्थं बोधयेत् स तु लक्षकः॥ 50 ॥

शब्दाल्लक्षणया योऽर्थौ बोध्यते लक्ष्य एव सः।

मुख्यार्थबाधयोगाभ्यां शब्दोऽन्यं बोधयेद्यया(13)॥ 51 ॥

व्याप्यत्वारूप लक्षणारूपो द्विधा रूढितः फलात्।

अत्र वाच्यार्थबाधो नाम न वाच्येन क्रियाद्यन्वया नुपपतिः। विषं भुङ्क्ष्वेत्यादौ सर्वेषां पदानां लक्ष (लक्षणया?) वाच्यार्थाभावात्। नापि मुख्यार्थस्वीकारे प्रत्यक्षादिप्रमाणविरोधो वा। `यावज्जीवम् अग्निहोत्रं जुहोती’त्यत्र अग्नहोलपदं नित्याग्निहोत्रनामत्वेन तत्प्रख्यनये प्रसिद्धम्। कुण्डपायिनामयने `मासमग्निहोत्रं जुहोती’त्यत्र कर्मान्तरे लक्षणया प्रवर्तक इति, प्रकरणान्तरे प्रयोजनान्यत्वमित्यत्र निर्णीतम्। तत्र तदर्थस्य प्रत्यक्षाद्यगोचरत्वेन मानान्तरविरोधाभावात्। अत एव तत्तत्क्षांगीकारिभिस्तत्तल्लक्षणालक्षणमुक्तम्। वाच्यस्यार्थस्य वाक्यार्थसंबन्धानुपपत्तितः तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते।

`मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे।

मुख्यार्थेनाविनाभूतप्रतीतिर्लक्षणोच्यते(14)॥’ इति।

तद्द्वयमप्युभयत्राव्याप्त्या(15) निरस्तम् इति वेदितव्यम्। किं तु मुख्यार्थपरिग्रहे वाक्यप्रामाण्यादुपपत्तिरेव। गङ्गायां घोषः, आदित्यो यूपः इत्यादि लौकिकवैदिकवाक्येष्वपि मुख्यार्थस्वीकारे वाक्यप्रामाण्यानुपपत्तेः सत्वात्। तथा चोक्तम्-

`वाक्यप्रामाण्यभङ्गः स्यात् स्वाभिधेयपरे पदे।

लक्षणा तत्र विज्ञेया वाक्ये लौकिके वैदिके च॥’ इति।

तद्योगपदेन संबन्धसामान्यं विवक्षितम्। फलं तु तत्र यथासंभवमूह्यम्। नात्र शब्दस्य वा लक्षकत्वं अर्थस्य वा। नाद्यः-स्वार्थप्रतिपादनेनोपरतव्यापारस्य पुनर्व्यापारान्तरा भावात्। न द्वितीयः शब्दव्यापारो लक्षणेत्यङ्गीकारो विरुद्धयतेति(16) चेत् न। शब्दप्रतिपादितस्यार्थस्य लक्षकत्वाच्छब्दव्यापार स्पर्शाभावेऽर्थस्यार्थान्तरलक्षकत्वाभावात्। अन्यथा प्रमाणान्तरोपनीतानामर्थानां लक्षकत्वप्रसङ्गाच्च। शब्दमहिम्ना प्राप्ताया अर्थव्यापारभूतामाः शब्दे समारोपेण शब्दधर्मताङ्गीकाराविरोधात्। अत एव काव्यप्रकाशिकायां (17)`सान्तरार्थनिष्ठः शब्दव्यापारो लक्षणे’त्यनुक्तम्।(18) न च अजहत्स्वार्थायां स्वार्थंशे वृत्तिविरोध इति वाच्यम्। केवलसमुदायभेदेन लक्ष्यलक्षकत्वसंभवादिति दिक्।

सा लक्षणा द्विधा।

तत्र रूढिपूर्विका यथा-

दातुं वनीयकजनाय हितानि नित्यं विद्वेषिणो रणमुखे तरसा निहन्तुम्।

त्रातुं चिराय शरणागतमार्तलोकं हस्तस्तवैव हनुमत्सचिवप्रवीणः॥ 42 ॥

अत्र प्रवीण इत्यत्र वीणाप्रकर्षस्य प्रकृतानुपयोगात् प्रसिद्धितो लक्षणाङ्गीक्रियते।

फलवातीलक्षणा शुद्धा सारोपा साध्यवसाना चेत्यादौ त्रिविधा। तत्र शुद्धा जहत्स्वार्था, अजहत्स्वार्था, जहदजहत्स्वार्था चेति त्रिविधा। इतरे तु शुद्धा गौणी चेति प्रत्येकं द्विविधे इति। फलतः सप्तविधा। तत्र जहत्स्वार्था-

श्वार्थं हित्वा परार्थं यः शब्दः स्वात्मानमर्पयेत्॥ 52 ॥

अन्यार्थे स जहत्स्वार्था सोक्ता लक्षणलक्षणा।

गङ्गायां घोष इत्यत्र बाधितंस्वार्थं हित्वा घोषाधिकरणतासिद्धये स्वात्मानं शैत्यपावनत्वादिद्योतनार्थं तटरूपेऽर्थे समर्पयति। सा जहत्स्वार्था इयं लक्षणलक्षणेत्युच्यते। यथा-

श्रीतेकुमल्लहनुमत्सचिव प्रतापाद्-

भीता द्विषन्नृपतयो वनिता समेताम्। हित्वा निजानि नगराणि वसन्ति दीनां विन्ध्याटवीविन्ध्याटवीतटवटीषु लतागृहेषु॥ 43 ॥

इयमप्रस्तुतप्रशंसादेरलंकारस्य बीजम्। यदि यः शब्दः स्वार्थविपरीतमर्थं लक्षयति तदा तत्रापि जहत्स्वार्था। सा विपरीतलक्षणेत्युच्यते। यथा-

नित्यं धनं न बुधसात्कुरुते तदन्यराज्यं करस्थमिति दानमहोत्सवेषु।

जल्पन्नवादि हनुमत्प्रभुणा न को वा बन्धुर्बहूपकृतमेव सखे त्वयेति॥ 44॥

अत्र अपकारिणं प्रति बहूपकृतमिति वचनं बाधितं सदपकृतमिति लक्षयति। इयं व्याजस्तुतेर्मूलम्।

शब्दः स्वार्थक्रियासिद्धयै परमर्थं विबोधयेत्॥ 53 ॥

तत्र स्यादजहत्स्वार्था सोक्तोपादानलक्षणा।

यथा-

हनुमन्मन्त्रिविभो तव विद्या हृष्टा(19) दशानवद्यतमाः।

रत्नसभान्तरसीमनि सततं संभाविता विजृम्भन्ते॥ 45 ॥

अत्र श्वार्थमजहदेव विद्या पदं स्वार्थीभूतानामष्टादशविद्यानां सभान्तरविजृम्भणसिद्धये तत्संभाविनो विदुषो लक्षयतीत्यजहत्स्वार्था। अत्र सभासदामुत्कर्षद्योतनं प्रयोजनम्। इयमेवोपादान लक्षणेत्युच्यते। इयं पुनः समासोक्त्यादेर्बीजम्। न च अत्र स्वार्थापरित्यागे स्वार्थाभिधानार्थान्तरे लक्षणेति पदस्यैकदैव वृत्तिद्वयापत्तिरिति वाच्यं, हित्वैव स्वार्थमन्यार्थे स्वार्थविशिष्टे लक्षणायाः स्वीकारात्। न च सा जहत्स्वार्थैव स्यादिति वाच्यम्। अर्थान्तरवैशिष्ट्येन विकृतस्य स्वार्थस्यैव लक्षणया बोध्यमानत्वात् इति।

जहात्येकेन शब्दोऽर्थमंशेन न जहति च॥ 54 ॥

तत्र स्याज्जहदजहत्स्वार्थाख्या लक्षणा मता।

यथा-

यस्तेकुमल्लहनुमत्प्रभुबाहुदण्डो युद्धे विरोधिभिरमन्यत युद्धे विरोधिभिरमन्यत कालदण्डः।

सोऽयं प्रसादसमये प्रणमद्भिरेतैः साक्षाददृश्यत वदान्यसाक्षाददृश्यत वदान्यतरुप्रकाण्डः॥ 46 ॥

अत्र बाहुदण्डस्य युद्धसमये युद्धे च कालवैशिष्ट्यमासीत्। तद्देशकालवैशिष्ट्यं प्रसादसमये नास्तीति। सोऽयमित्यत्र तत्तांशे स्वार्थं जहाति। इदंतांशेन जहातीति जहदजहत्स्वार्थेयम्। ननु इयं न लक्षणा। अभिधावल्लक्षणाया एकपदधर्मत्वेनास्याः पदद्वयधर्मत्वादिति चेन्न। यावता शब्देन यावानर्थः प्रतीयते तावानर्थ इति। सोऽयमित्यत्र तत्तेदन्ताविशिष्टं देवदत्तस्वरूपमवभासत इति तावदेवार्थः। तत्र तत्तांशबाधेन्यूनं सत् कथमिदं शब्देन बोध्यत इति तस्मिन् प्रतीयमाने तत्तोपलक्षितेदन्ता विशिष्टे अभिधाकुण्ठनाल्लक्षणावश्यं स्वीकर्तव्या। न च पूर्वोक्तयोरि(रे?)वान्तर्भवत्वियमिति वाच्यम्। स्वार्थस्य सर्वात्मना त्यागाभावेन स्वसिद्धये पराक्षेपाभावे न च तत्रान्तर्भावासंभवात्। विषं भुङ्क्ष्व अर्थमन्तर्वेद्यर्थं बहिर्वेदित्यादि लौकिकवैदिकवाक्ययोर्लक्षणादर्शनात्। अत एव वेदान्तिनोऽप्येतामेवांगीकार्य(कृत्य?)तत्वमस्यादिमहावाक्यार्थं वर्णयन्तीति दिक्।

आरोप्यारोपविषयौ सामानाधिकरण्यतः॥ 55 ॥

अनिह्नुतभिदावुक्तौ चेत्सा(सारोपिका)मता।

गौणी शुद्धेति भेदेन सा द्विधा परिकीर्त्यते॥ 56 ॥

आरोप्यारोपविषयावनिह्नुतभेदौ सामानाधिकरण्येन यत्र निर्दिश्येते तत्र सारोपालक्षणा। सा द्विविधा। गौणी शुद्धा चेति। गुणसादृश्यनिमित्ता गौणी। सादृश्येतरकार्यकारण भावादि निमित्ता शुद्धेति। एतेन लक्षणायाः पृथग्भूता गौणीवृत्तिरिति केषांचिन्मतमपास्तम्। `सिंहो माणवक’ इत्यत्रापि लक्षणाबीजानां संबन्धानुपपत्तिप्रयोजनानां सत्त्वेन यत्किंचिद्धर्मेणावान्तरभेदेऽपि वाप्यन्यतो लक्षणा। अतस्तस्याभेदस्य वक्तुमनर्हत्वात् इति। न चात्र संबन्धादि दुर्निरूपमिति वाच्यम्। सादृश्यस्य संबन्धवत्ताप्रतीतेः प्रयोजनत्वाच्चेति। सारोपा यथा-

मन्थायमान भवदुद्धत बाहुदण्ड संक्षोभितारिनृपसैन्यसमुद्र मध्यात्।

आविर्भवत्तमयशो हनुमत्प्रधान विश्वप्रकाशकम खण्डकलः सुधांशुः॥ 47 ॥

अत्र यशसि विश्वोद्दीपकत्वादि चन्द्रगतगुणसादृश्यं निमित्तीकृत्य सुधापरम्पराप्रवर्तक इति गौणी सारोपा।

कार्यकारणभावाद्युपचारवती शुद्धा सारोपा।

यथा-

हनुमत्सचिवेन्द्र ते प्रभावः सुहृदं नित्यमहोत्सवप्रकर्षः।

भवति द्विषतां विपद्विधानोरिव तेजोऽम्बुरुहां च कैरवाणाम्॥ 48 ॥

अत्र प्रभाते महोत्सवप्रकर्षादिवदप्रवृत्तिकार्यकारणाभावो निमित्तमिति शुद्धा। उभयत्रापि ताद्रूप्यप्रतिपत्तिः प्रयोजनम्। इयं द्विविधापि रूपकादेर्बीजम्। उपचारश्च पंचधा। कार्यकारणभावतादर्थ्यस्यादाववयवावयविभावतात्कर्म्यरूपनिमित्तपाञ्चविध्यात्। तत्राद्य उदाहृतः। द्वितीयो यथा-

इन्द्रार्था स्थूणा इन्द्रः। इष्टप्रदत्वमत्र फलम्।

तृतीयो यथा-

राजकीयः पुरुषो राजा। अत्रानुल्लङ्घ्यत्वं फलम्।

तुरीयो यथा-

अग्रहस्तो हस्तः। अत्र सामर्थ्यं फलम्।

पञ्चमो यथा-

अतक्षा तक्षा। अत्र कौशलविशेषः फलमिति।

आरोपविषये(योऽभि)न्नारोप्येण निगीर्यते।

तत्र साध्यवसाना स्यात् सा द्विधा पूर्ववन्मता स्यात् ॥ 57 ॥

विषयिणा विषयनिगरणेन अभेदप्रतिपत्तिरध्यवसायः, तत्सहिता साध्यवसानिका। तत्र गौणी साध्यवसाना यथाबुधःक्षमाभूरयमीहितानि फलानि दत्ते बहुधानुवेलम्।

इति द्विजैरेत्यदिगन्तरस्थैरासेव्यते यं हनुमत्प्रधानः॥ 49 ॥

अनवरतदानशीलत्वगुणसादृश्यात् अत्र हनुमत्प्रभुर्बुधक्षमाजतयाऽध्यवसीयते। अभिन्नत्वप्रतिपत्तिः प्रयोजनम्।

शुद्धा साध्यवसाना यथा-

याबाजि मन्त्रीश्वरतोऽवतीर्य निवारयस्वेष्वनघप्रसङ्गम्।

अयं प्रभूणां परमप्रमोदश्चिराय धत्ते क्षितिप्रतिष्ठाम्॥ 50 ॥

अत्र परमप्रमोदहेतुत्वात् प्रमोदपदेनाध्यवसीयते। अव्यभिचारेण कार्यनिष्पादकत्वं प्रयोजनम्। इयं अतिशयोक्तेर्निमित्तम्। इति सप्तविधा लक्षणा निरूपिता।

सा पुनः संकरेण त्रिरूपेणैकरूपया संसृष्ट्या संमेलने त्वष्टाविंशातिर्भेदाः। पुनरपि स्वैः शुद्धभेदैः संकलने पंचत्रिंशत्प्रकाराः। स्वैः स्वैरन्यैरलंकारैर्ध्वनिभेदैश्च……क(संकल)ने संख्यातुमेव न शक्यन्त इति। यथाहुः-

`संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया।

अस्याः संकलनेऽन्योन्यमष्टाविंशतिरीरिताः॥

पंचत्रिंशत्समाख्याताः शुद्धभेदैः समं पुनः।

स्वैः प्रभेदैरलंकारैर्ध्वनिभेदैश्च संगता॥

वितन्वति चमत्कारं संख्यामत्सरिणी मता।’ इति।

अङ्गाङ्गिभावेन संशायेनैकलक्षकानुप्रवेशेन त्रिविधः संकरः। कमेण यथा-

कीर्तिस्ते हनुमत्प्रभो त्रिभुवने रूपाणि नीलादिकान्यात्तांग(गान्य?)यथा चिरं धवलयन्त्युद्दामदर्पोद्धुरा। नीलग्रीवमजप्रियां सितकचां चक्षुः श्रवो नाथमप्येणाङ्कं समुपेत्य तत्परिसर भूयो हसत्यन्वहम्॥ 51 ॥

यतः कीर्तिरूद्दामदर्पोद्धुरा ततस्तान् हसतीत्यनयोः सजातीययोरङ्गाङ्गिभावेन संकरः।

संशयो यथा-

यद्ययं वसुमतिर्वायं जगत्प्राणसखोऽपि वा।

नो चेत् कथं भवेत् ईदृक्प्रतापो दुस्तमोवहः॥ 52 ॥

अत्र यद्ययमिति विशेष्यं तदा सारोपेयं आहोस्विद्विशेषणम्। तदा साध्यवसानेत्यन्यतरावधारणाभावेन संशयेन संकरः।

एकलक्षकानुप्रवेशेन यथा-

नित्यं श्रीहनुमत्प्रभो तव (20)यशोराकातुषारद्युतिक्रीडत्येष तथाप्यहो श्रुतितले पद्मावभासं तनोत्यन्तः प्रीणयतो द्विजान्विमलयन् धत्ते जगद्‌बन्धुताम्॥ 53 ॥

अत्र कीर्तिव्रजे विषयनिगरणं विना चोरत्वारोपात् सारोपा। सर्वस्वपदेनातिशयसमृद्धिर्लक्ष्यते। तत्क्रोडीकारेण प्रवृत्तत्वात् साध्यवसाना। समासे सत्येकपदवद्भावात्। सहासनोपवेशिनोरनयोरेकलक्षकानुप्रवेशेन संकरः। संसृष्टिर्यथा-

द्विर्भावो रतिवल्लभस्य धनदस्याम्रेडितं कर्णभूभर्तुर्द्वैतमहिप्रभोर्द्विरूदितं वीप्सा च वाणीपतेः।

इन्द्रस्यापि विकल्प इत्यधिधनं विद्वज्जनैः स्तूयते याबाजिप्रभुसूनुरेषहनुमन्मन्त्री गुणानां गणैः॥ 54 ॥

इयं सजातीयगौणसारोपाणां संसृष्टिः।

सजातीय शुद्धसारोपाणां यथा-

आनन्दः सज्जनानामतिशयगरिमा संपदां बन्धुकोटेर्मित्राणमुत्सवश्रीः(21) कविजनसमितेः कौतुकस्य प्रकर्षः।

कल्याणं कामिनीनामहितजनमनोगर्वपर्वातिलोपः क्षोण्यां याबाजिसूनोर्विलसति हनुमन्मन्त्रिभानोः प्रतापः॥ 55 ॥

अत्रानन्दादिपदानां प्रतापे विषयनिगरणं विना कार्यकारणभावेन प्रवृत्तित्वाच्छुद्धसारोपाणां संसृष्टिः। एवमन्यासामपि संसृष्टिसंकरौ द्रष्टव्यौ।

लक्षणायां सर्वत्र प्रयोजनं व्यङ्ग्यम्।

तदुक्तम्-

`प्रयोजनवती या तु लक्षणा तत्प्रयोजने।

न प्रभुर्व्यञ्जनादन्या गौण्या तु(गति) रीदृशी॥’ इति।

न च अभिधेयं तत् संकेताभावात्। नापि लक्ष्यम्, सामग्रीविरहात्। तदुक्तम्-

`(22)लक्ष्यं न मुख्यं नाप्यत्र बाधोयोगः फलेन नो।

न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः॥’ इति।

न च गङ्गायां घोष इत्यादौ सप्रयोजनमेव तटं न लक्ष्यते इति वाच्यम्। फलस्य प्रमाणाविषयत्वात्। प्रत्यक्षादेः प्रमाणस्य घटादिकं विषयः, प्राकदयं फलम्। न हि प्राकट्यं घटादिज्ञानविषयः। तस्मात् वाक्यार्थप्रमायाः फलस्य विषयत्वाभावेन लक्ष्यकोटिनिवेश इति। तदुक्तम्-

`(23)प्रयोजनेन सहितं लक्षणीयं न युज्यते।

ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम्॥’ इति।

तच्च व्यङ्ग्यं प्रयोजनं द्विवधम्। गूढमगूढं चेति।

गूढं यथा-

नॉत्यत्सत्यधिनाथमौलि विगलद्गंगातरङ्गध्वनिस्पर्धाबन्धुरकन्धरारवभरं कण्डूलजिह्वाञ्चलाः।

स्तोतुं त्वां न हि के भवन्ति हनुमन्मन्त्रिं त…न चा-(?) सेतोरानुहिनाचलाद्भुवि यतः कोऽपि प्रभुश्रेणिषु॥ 56 ॥

अत्र कण्डूलपदस्वार्थतिरस्कारेण स्तवनाभिलाषं लक्ष्यत् तत्पारवश्येऽपि विश्राम्यति। अगूढं यथा-

वदति निजसभासु त्वद्गुणान् वन्दिबृन्दे गणयति हृदि शोकज्वालया म्लनिमानम्।

घनविभव हनुमन्मन्त्रिप त्वद्रिपूणां मुखजलजसमुद्यत्पाण्डिमा सद्य एव॥ 57 ॥

अत्र वदतीत्यत्र यद्यपि व्यङ्ग्यमस्ति तथापि कविपरम्पराप्रयुज्यमानतया वाच्यायमानमगूढमिति।

अथ व्यञ्जकव्यङ्ग्यव्यञ्जनव्यापारा निरूप्यन्ते-

व्यापारो व्यञ्जनं यस्य स शब्दो व्यञ्जकः स्मृतः।

तेन हि व्यज्यते योऽर्थ स व्यङ्ग्य इति कथ्यते॥ 58 ॥

वाक्यार्थस्योपस्कृतये पदार्थेष्वन्वितेष्वपि।

(या)न्या बोधयेद् व्यञ्जना व्यापृतिस्तु सा॥ 59 ॥

केचन व्यञ्जनाव्यापारमसहमाना ध्वनिरेव नास्तीति ब्रुवते। तत्रैवं ब्रूमः-(नास्तीति च)

ध्वनिरिति विशेषोऽस्तीति, निषेधः त(द्द्वयो)र्विरुद्धयोरेकत्रासंभवात्। देशकालाभ्यां विरोधपरिहारस्यानङ्गीकारात्। किं च प्रतीतो वा ध्वनिरप्रतीतो वा नोभयथा निषेधः संभवति। व्याघातात्। ननु अस्तु ध्वनिः। स यदि काव्यकामनीयकं न करोति तदा किमनेनाजागलस्तनायमनेन। यदि करोति तदा कामनीयकहेतुत्वात् गुणालंकारेषु अन्तर्भवति। न च कामनीयकहेतुत्वेऽपि रीतय इव वृत्तय इव तेभ्यः पृथग्भवति स इति वाच्यम्। रीतीनां गुणेषु, वृत्तिनामलङ्कारेषु चान्तर्भूतत्वात् इति चेत्, न तावद्ध्वनेः गुणेष्वन्तर्भावः। तेषां रसधर्मत्वेन, धर्मिषु धर्मिणो अन्तर्भावाभावात्। नाप्यलङ्कारेषु। वाक्यार्थोपस्कारकतया उपसर्जनीयः स्यात्। ततः (तेषु?) प्रधानभूतस्य ध्वनेरन्तर्भावाभावात्। अलंकार्यतया कामनीयक हेतुत्वाभाववदलंकारान्तर्भावाभावात्, शंङ्काया दूरापास्तत्वाच्च। यत्पुनरनुमानतो नातिरिच्यते ध्वनिरित्यवादीन्महिमभट्टः तथापि न कमनीयम्। अनुमानस्य जीवितं व्याप्तिः। तस्याः खलु तादात्म्यम् उत्पत्तिर्वा मूलम्। न च अत्रोभयं संभवति। गमकत्वेनाभिमतयोः शब्दार्थयोः साध्यत्वेनाभिमतेन प्रतीयमानेन सह वृक्षोऽयम्, शिंशुपात्वादित्यत्रेव(24) तादात्म्यासंभवात्। प्रत्युत शब्दार्थन्यक्कारेणैव ध्वनेः प्रतीयमनत्वात्। अयं वह्निमान् धूमत्वादित्यत्रेव कार्यकारणभावाभावात्। न हि प्रतीयमानाद्ध्वनेः शब्दार्थयोरुत्पत्तिः। न च कृत्तिकोदये (25)रोहिण्यादिसक्तिवदन्वयव्यतिरेकनिमित्ता व्याप्तिरस्त्विति वाच्यम्। नियमेनान्वयव्यतिरेकयोरभावात्। न च अभिधेयो ध्वनिः(संके)ता भावात्। नापि लक्ष्यः। उपात्तशब्दार्थानां योग्यताविरहाणामन्वयानुपपत्त्या यत्र गंङ्गायां घोष इत्यादौ बाध्यता तत्र लक्षणाङ्गीक्रियते। न पुनः सर्वत्र। यथोक्तं न्यायकुसुमाञ्जलौ-

`(26)श्रुतान्वयादनाकाङ्क्षं न कार्यं हयन्यदिच्छति।

पदार्थान्वयवैधुर्यत्तदाक्षिप्तेन संगतिः॥’ इति।

प्रकृते तदन्वयानुपपतेरभावात् न च स तात्पर्यगम्यः। तात्पर्यस्य पदार्थसंसर्गमात्रप्रत्यायकत्वात्। सकलवृत्त्यनुगतस्य पृथग्वृत्तित्वायोगाच्च। यत्तु भक्तेरुपचारादागतोऽयमिति भाक्तवादिना कुन्तले(के?)न भक्तावन्तर्भावितो ध्वनिरित्युक्तम्। स तु (27)प्रष्टव्यः-यदि भक्तिर्व्यक्तिरिति न तत्त्वान्तरमित्यभिमतं तवायुष्मतः तदा भक्तिव्यक्त्योः किं तादात्म्यमुत भक्तिर्व्यक्तेर्लक्षणमुपलक्षणं वा। नाद्यः मुख्यार्थबादाद्यनुसन्धाननिमित्तत्वं भक्तेर्वक्तृबोद्धव्याद्यनुसन्धाननिमित्तत्वं व्यक्तेरिति परस्परविरुद्धधर्माक्रान्तयोरुभयोरनयोस्तादात्म्यासंभवात्। न द्वितीयः। लक्षणस्य केवलव्यतिरेकत्वेन व्यक्तिरितरेभ्यो भिद्यत भक्तिमत्वात्। यत्पुनरितरेभ्यो न तद्भक्तिमती यथाभिधादिरिति केवलव्यतिरेक्यनुमानरचनायामभिधैकमूले ध्वनौ भक्तेरभावात्। भागसिद्धेः। व्यक्तेरितरभिन्नत्वे साध्ये हेतोरितराभिन्नत्वे विवेचकत्वमात्रलक्षके कुशलादिपदे रूढेऽपि गतत्वाद्विरुद्धत्वमपि। न तृतीयः-विवक्षितान्यपरता चेत् ध्वनौ भक्त्युपलक्षितत्वाभावात् उपलक्षणत्वाभ्युपगमे भक्तिव्यक्त्योरभेदासंभवाच्च। अथ केचनान्विताभिधानवादिनोऽबिहितान्वयवादिनध ध्वनिमभिधेयमाहुझ। तत्र वदामः ये पुनरन्विताभिधानवादिनश्चैत्राश्वमानयेति (28)उत्तमप्रवृद्धप्रयोगानन्तरं मध्यमवृद्धे श्रीमन्तमेकशफोत्तमं व्यक्तिविशेषमानेतुं चेष्टमाने इयं प्रवृत्तिरर्थज्ञानपूर्विकाप्रवृत्त्यान्यत्प्रवृत्तिरित्ययमस्माद्वाक्यान्न जानाति। कथं तन प्रवर्तत अर्थापत्या पुनरखण्डस्य वाक्यार्थस्याखण्डमेवेदं वाक्यं वाचकमिति वाक्यतदर्थयोः प्रतिपाद्यप्रतिपादकबावमेवावधार्य बालः कालान्तरे देवदत्त सिन्धुरमानय चैत्राश्वं बधानेति प्रयोगेषु अन्वयव्यतिरेकाभ्यां तस्य तस्य पदस्य तत्र तत्रार्थे शक्तिमवधारयतीत्यन्वितेष्वेव संकेतग्रहणादन्वयंगतानामेवाभिधानमित्याहुः।

तदुक्तम्-

`(29)शब्दवृद्धाभिधांश्च(30) प्रत्यक्षेणात्र पश्यति।

श्रोतुश्च प्रतिपन्नत्वम् अनुमानेन चेष्टया॥'

`(31)अन्यथानुपपत्यावच्छेछशक्तिं(बोधेच्छक्ति?)द्वयात्मिकम्।

अर्थापत्या संबध्यते(अर्थापत्त्याबबोधेत?)संबन्ध त्रिप्रकारकम्॥’ इति।

तेषामपि मते विशेषणविशेष्यभावापन्नस्य कृत्युद्देशविशिष्टपदार्थरूपस्य वाक्यार्थस्य वाचकं वाक्यमसंकेतित्वाविशेषात् स्ववाच्यान्तर्गतमपि केवलपदार्थमभिधातुं नाक्षमिष्ट कथमत्यन्तविप्रकृष्टमर्थान्तरभूतं ध्वनिरूपमर्थमभिदधीत। किं चान्वितविशेषेष्वानन्त्यव्यभिचाराभ्यां संकेतस्य ग्रहीतुमशक्यतया कारकसामान्यान्विते क्रियासामान्ये क्रियासामान्यान्वितेषु कारकसामान्येषु अभिधानमुपक्षीणमिति। विशेषान्वितविशेषस्य प्रवृत्तिनिवृत्तियोग्यत्वात्। तत्प्रतिपत्त्यर्थं वृत्त्यन्तरानुसरणमावश्यकम्। ये पुनः अभिहितान्वयवादिनो नैयायिका आहुः-अभिधा संकेतपूर्विका। संकेतश्च व्यभिचारादानन्त्याच्च न व्यक्तिमात्रे, नापि जातिमात्रे प्रयोज्यप्रवृत्तिनिवृत्तियोग्यत्वाभावात्, किं तु जात्यालिङ्गितासु व्यक्तिष्विति। तेषामपि मते न वर्णानां सङ्केतः निरर्थकत्वात्। नापि वाक्यस्य अनियतरूपत्वात्। किं तु पदानामेव सङ्केतितैः पदैः अर्था अभिधीयन्ते। अभिहितैः पदार्थार्थैराकाङ्क्षावशात् सकलसमभिव्याहृतपदार्थानुरक्तेः प्रमाणान्तरागोचर संसर्गरूपो वाक्यार्थः प्रतिपाद्यते। किं च यानि पदानि अविशिष्ट रूपस्य स्वपदार्थमात्राबिधायकानि तानि स्वाभिहित पदार्थानु…(?)विशिष्टरूपवाक्यार्थमभिधातुं न शेकुः। कथमर्थान्तरभूतमत्यन्तविप्रकृष्टं (32)ध्वनिरूपमर्थमभिदातुमसङ्केतितस्याभिदानेऽतिप्रसङ्गाद्वाक्यस्याभिधायकत्वेऽप्यसिद्धान्ताच्च। ततो द्वे निरभिधेय(33) एव। किं च सामान्यलिङ्गतायां व्यक्तौ संकेताभ्युपगमे `विना गृहीत विशेषणाविशेष्यबुद्धिरिति(34) न्यायेन सकृत्प्रसृतया वृत्त्या विशिष्टबोधनं न संभवति। क्रमाङ्गीकारे विरम्यव्यापारापत्तेशअच। व्यक्तिविशेषप्रतिपत्यर्थं वृत्त्यन्तरमास्थेयम्। न च तस्य न्यायस्य पूर्वागृहीतवस्तुमात्रविश्रान्तत्वात्। अत एव न घट इति पूर्वानुभूतदशाविशिष्टा व्यक्तिः संस्कारसंनिहितविशेषणविशेष्यप्रतिपत्त्या(35) प्रथमत एव स्मर्यते। तथा च जातिविशिष्टायां व्यक्तौ संकेतितस्य गृहीततया उपदेशकाले तत्पदेन विशिष्टस्मृतेः संभवात् न व्यक्तिप्रतिपत्त्यर्थं वृत्त्यन्तरमङ्गीकार्यमिति वाच्यम्। सर्वत्रार्वाग्दृशां संकेतस्य ग्रहीनुमशक्यतया कस्याञ्चिदेव तद्ग्रहणेन स्मृतेरनुभवैक विषयत्वाद्यस्यां व्यक्तौ सङ्केतो गृहीतस्तया सहैवोपदेशकाले जातिः स्मर्यते जातिमात्रं वा। नाद्यः-तस्याः व्यक्तेरिदानीमसन्निहितत्वेनाप्रवृत्त्यापत्तेः। तथा भवद्भिरङ्गीकृतत्वाच्च। न द्वितीयः-जातिमात्रस्मरणे व्यक्तिप्रतिपत्त्यर्थं वृत्त्यन्तरस्यावश्यकत्वात्। अथ `निर्विशेषं न सामान्यं भवेच्छशविषणव’दिति न्यायेन यत् कृतकं तदनित्यमिति व्याप्तिज्ञानवत्सामान्यालिङ्गिताः सर्वा एव व्यक्तयः सङ्केतस्फुरणे स्फुरन्तीति चेत् तासां सर्वासामसन्निहितत्वात्। सन्निहितानामेव चाक्षुषबुद्धिवेद्यत्वात्। यदाहुः-भवन्त एव सन्नद्धं वर्तमानं च गृह्यते चक्षुरादिनेति। किं च भूतभविष्यत्तया कल्पलक्षकोद्यादन्तरितनानादेशवर्षद्वीपभुवनब्रह्माण्डनिक्षिप्ता व्यक्तायः स्वीयस्वीयाशेषसहिता एव स्फुरन्ति। तद्रहिता वा सामान्यमात्रेण। नाद्यः (36)तथानुभवाभावात्। सर्वसर्वज्ञापत्तेश्च। गवादिषु सामान्यस्याभावेन गोत्वमात्रस्फुरणे पूर्वानननुभूतव्यक्तिविशेषप्रतिपत्तये वृत्त्यन्तरस्यावश्यकत्वात्। किं च सङ्केतग्राहकविज्ञाने सकलस्वलक्षणस्फुरणाङ्गीकारे सर्वविषयिणी वा व्युत्पत्तिः कतिपयविषयिणी वा। आद्ये `यावती व्युत्पत्तिस्तावदभिधेयमि’ति न्यायेन सर्वेषां गोपिण्डानामुपदेशकालेऽभिधया स्फुरणे व्यक्तिनियमे कारणाभावान्निखिलानामानयनान्वये प्रतीयमानेऽनुपदेश एव स्यात्, अशक्यत्वात्। अपि च गामनयेत्यत्र निखिलगोपिण्डाक्षेपे आनयेत्यत्र गोमहिषतुरगादिनिष्ठसकलानयनक्रियास्वरूपाक्षेपे योग्यताविरहात् अन्वयबोध एव न स्यात्। न च नानार्थशब्दरीत्या विवक्षितदेशकालादिनियताया एव व्यक्तेरन्वयबोधः स्यादिति वाच्यम्। वक्तृविवक्षासधीचीनेनाभिधानेन विशेषस्मृतिरादीयते। आहोस्विदभिधया स्मारितासु सर्वव्यक्तिषु पश्चात्तत्सहितया लक्षणाया वा विशेष संसर्गावगमः किं वा अभिधातात्पर्ययोरन्तराले पदशक्तिसहकृतया विवक्षया अथवा केवलया वा। नाद्यः-सा सत्तामात्रेण उपयोगिनी प्रतीयमाना वा। प्रथमे प्रत्येतुरन्वयभ्रमसन्देहाभावप्रसङ्गः। नेतरः। सर्वत्र विवक्षाप्रतीतौ सामग्य्रभावात्। अथ तदप्रतीतौ विशेषसन्देहो भवत्येवेति वेत्, सत्यम्। वक्तृविशेषादिप्रतिपत्तिर्हि तत्सामग्री, तस्या एव सां कांचन वृत्तिमादायान्वयबोध सति तदुत्तरकालं व्यञ्जनसामग्रीत्वेन तदभावे विशेषसन्देहसंभवात्। तत्प्रतिपत्त्यर्थं व्यञ्जनाख्य वृत्त्यन्तरम् अङ्गीक्रियताम्। कृतमसान्दृष्टिकेन प्रचुरतर प्रयासदायिन्या। संकेतग्रहप्रत्यक्षस्य असंनिहितविषयकत्वात्। अनया समुद्भावितेन…..(?)ज्ञानस्य हेतुत्वकल्पने। न द्वितीयः। अस्यैव न्यायस्य तत्रापि तुल्यत्वात्। न तृतीयः- अभिधातात्पर्यातिरिक्तपदवृत्त्यङ्गीकारे अस्मन्मतस्यैवा(ङ्गीकारात्?)। न तुरीयः-व्यतिकरणत्वात्, अपदार्थान्वयप्रसङ्गाच्च। न चरमः-सर्वगतकतिपयव्युत्पत्त्यङ्गीकारेऽर्थवैशसप्रसङ्गात्। तस्मादन्वयाङ्गतया प्रतीयमानं स्वलक्षणमसङ्केतितत्वेन सङ्केतितमात्रे स्मारकाभिधावृत्तिविलक्षणवृत्तिवेद्यमेवेति व्यङ्य एव पदार्थः। यद्वा `तुष्यतु दुर्जन’ इति न्यायेन भवतु यथाकथञ्चिदविचारितरमणीयतया सामान्यालिङ्गितं स्वलक्षणं अभिधाविषयः। वाक्यार्थस्तु पदार्थान्तरविशिष्टः। पदार्थे व्यङ्ग्य एवेति सिद्धम्। नन्वेवं-वाक्यार्थप्रतीत्यनन्तरभाविनि(37) रसध्वन्यादौ प्रचुरतरव्यापारकल्पनं विरतव्यापाराङ्कुरणं वाङ्गीकार्यं स्यादिति चेत्, अत्र केचिदाहुः-सकृत्प्रसूतयैव (38)दीर्घदीर्घया व्यञ्जनया सर्वेषां बोधनमास्थेयमिति। अपरे पुनरेकयैव रसपर्यन्तप्रतीतिरीत्या आहुः। नवीनास्तु सकृत्प्रसृताया व्यञ्जनाया दीर्घदीर्घावस्थाभ्युपगमे दीर्घदीर्घया अभिधया सर्वविषयप्रतीतिसम्भवे लक्षणान्तरकल्पना वैयर्थ्यप्रसङ्गात्। वाक्यार्थबुद्धे रसादिबुद्धिं प्रति करणत्वाच्च। द्वयमेतदसाधीय इति मत्वा व्यञ्जनाव्यापारस्य व्यक्तिभेदमङ्गीकुर्वन्ति। विलम्ब्य व्यापाराभावात्। अनन्यथासिद्धवस्तूपपादकपदार्थकल्पनायां कल्पनागौरवस्यादोषत्वाच्चेति। केचन सोऽयमिषोरिव दीर्घदीर्घो व्यापार इति मन्वानाः शब्दश्रवणसमनन्तरं यावानर्थः प्रतीयते तावानर्थोऽभिधेय एवेति ध्वनेरभिधेयतामाहुः। विरतव्यापारमभिधालक्षणातिरिक्तव्यापारान्तरमप्यनिच्छतां तेषां प्रलापमात्रम्। पुत्रस्ते जात इति वाक्यश्रवणसमनन्तरं हर्षहेतु(मुख?)विकासादीनामपि प्रतीयमानतया तदर्थत्वापत्तेः। दीर्घदीर्घयैवाभिधया लक्ष्यादिप्रतिपत्तिसम्भवे लक्षणोच्छेदप्रसङ्गात्।

तस्मादस्ति ध्वनिः। स च वस्त्वलङ्काररसादिरूपतया त्रैविध्यं नातिवर्तते। वस्तुध्वनिरलङ्कारध्वनि रसादिध्वनिश्चेति। सोऽयं ध्वनिरादौ द्विविधः। लक्षणामूलोऽबिधामूलश्च। अत्राद्योऽविवक्षितवाच्य इत्युच्यते। लक्षणया वाच्यबाधादिपुरस्कारेण प्रवृत्ततया वाच्यस्याविवक्षितत्वात्। द्वितीये तु विवक्षित अन्यनिष्ठं व्यङ्ग्यगतं वाच्यं यस्मिन्निति विवक्षितान्यपरवाच्य इति संज्ञां निवेश्य व्यवहरन्ति। अत्राविवक्षितवाच्योऽपि अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसंक्रमितवाच्य इति द्विधा। वाच्यार्थस्य बाधात्तदभावेऽपि उपयोगाभावेन व्यञ्जनव्यापारसहकारिप्रभवेनार्थान्तरसंक्रमणाच्च। सोऽपि द्विविधः पदवाक्यगतत्वेन। द्विविधो भवन् फलतश्चतुर्विधः। प्रत्येकमुदाह्रियते-

यथा अत्यन्ततिरस्कृतवाच्यः पदगतः-

विहसति बलिकर्म खेचरेन्द्रद्रुमसुरधेनुमहामणिप्रतिष्ठाम्।

वितरणगुणसंभवं हनूमत्सचिव यशस्तव लङ्घ्यत्रिलोकीम्॥ 58 ॥

अत्र हसतीति पदं हसनस्य चेतनधर्मणा(39) (धर्मतया?) चेतनाचेतने (अचेतने?) यशस्यसंभवात्। ततोऽति शयं लक्षयत्तदाधिक्ये विश्राम्यति।

वाक्यगतो यथा-

युष्माभिः सुधियो विहाय हनुमन्मन्त्रीन्द्रमन्यान्प्रभूनाश्रित्योचितदक्षिणः कति कृता यागाः समं बन्धुभिः।

आरूढा गजवाजिनः कति चिरं भुक्ताश्च भोगाः कतीत्याप्तैः बन्धुजनैर्बुधाः सुखविधाशून्या महुर्जल्पिताः॥ 59 ॥

अत्र हनुमत्प्रभुमाश्रित्य इतरान्प्रभून् समाश्रितवतः सुखं न प्राप्तवतः बुधान् प्रति तदाप्तानां इयमुक्तिः। गजतुरगान्दोलिकादि भोगयागोचित सर्वसंपत्प्रधानदीक्षाधुरंधरं हनुमत्प्रभुमधुना सेवध्वमित्युपदेशो व्यज्यते।

अर्थान्तरसंक्रमितवाच्यः पदगतो यथा-

संसेव्यालमिलाभुजोऽल्पमपि वा दातुं न शक्तान्प(रान्?)

(किं तु?) हनुमत्प्रभुस्थिरदयाशाली परं सेव्यताम्। नान्यो हि प्रभुरेष किन्तु हनुमन्मन्त्रीति जल्पत्यलं(40) दैन्यार्तान् विदुषो दिशां जिगमिषूनात्माश्चि……..(?)षितः॥ 60 ॥

अत्र किन्तु हनुमत्प्रभुरिति पदं निरतिशयसाधारण वितरणयोगित्वमस्येति लक्षयद्वश्याश्रयणीयत्वं ध्यायति (ध्वनयति?)।

वाक्यगतो यथा-

वाचो वः कवयस्सुधारसमुचो राज्ञस्तुवन्तो परान्नप्रायो विपरीकुरुध्वमधुना(41) श्रयो ब्रवीमीहितम्।

स्तोतव्यो हनुमत्प्रभुः परमयं स्वल्पीभवत्कल्पकः सद्यो दृक्पथमागतान्वितनुते दीनान् सुरेन्द्रश्रियः॥ 61 ॥

यथा वा-

नित्यं मित्रतया ब्रवीमि भवतामर्थान्‌श्चिरोपार्जितान्पात्रताकुरुत(42) श्रियो हि जलदप्राया न चायुः स्थिरम्।

दानं कीर्तिनिदानमेव तनुते स्वर्गापवर्गादिकं श्रेयो हीति (43)धनादिकान्प्रभुजनान् ब्रूते हनुमत्प्रभुः॥ 62 ॥

अत्र ब्रवीमीति वचनादिकं उपदेशादिरूपतया परिणमदवश्यकर्तव्यतां व्यनक्ति।

विवक्षितान्यपरवाच्योऽपि द्विविधः। असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति। क्रमस्या संलक्ष्यत्वे न विवादः(44)। न हि विभावानुभावव्यभिचारिणा एव रसः। किं तु तेभ्योऽन्यस्तद्व्यङ्ग्य इति विद्यमानस्यापि क्रमस्य शतपत्रपत्रशतभेदवद्विभावादिप्रतीताऽशुभावित्वेनासंलक्ष्यमाणत्वात् असंलक्ष्यक्रम इत्युच्यते। स च रसादिध्वनिः। रस-भाव-रसाभास-भावाभास-भावशान्ति-भावोदय-भावसन्धि(45)-भावशबलताध्वनि भेदेनाष्टप्रकारोऽप्यसंलक्ष्यक्रमव्यङ्ग्यत्वेन सामान्येनैकविधः सन् प्रबन्ध-वाक्य-पद-तदवयव-रस(रजना?)वर्णानां व्यञ्जकानां षड्विधेन षड्विधो भवति। न च रसवदाद्यलङ्कारे ग्रहग्रस्तविषयतया रसादिध्वनेर्न विषयोऽस्तीति वाच्यम्। रसादि द्विविधम् अङ्गित्वेनालङ्कार्यम्। अङ्गत्वेनालङ्कारः।

यथाहुः-

`(46)रसभावतदाभास भावशान्त्यादिरक्रमः।

भिन्नो रसाद्यलङ्काराद्यलङ्का(दलङ्का?)र्यतया स्थितः॥'

`(47)प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः।

काव्ये तस्मिन् अलङ्कारो रसादिरिति मे मतिः॥’ इति।

स च रसादिध्वनिः रसोल्लासे प्रपञ्च्यत इति नात्र तदुपपादनारम्भः।

संलक्ष्यक्रमव्यङ्ग्मस्त्रिविधः। शब्दशक्तिमूलोऽर्थशक्तिमूल उभयशक्तिमूलश्चेति। शब्दशक्तिमूलानुरणनरूपोऽपि वस्त्वलङ्काररूपेण द्विविधोऽपि पदवाक्यगतत्वेन प्रत्येकं द्विविध इति चतुर्विधः। अत्र शब्दशक्तिमूले वस्तुध्वनावबिधायाः प्रकरणादिना नियमितत्वेन अर्थान्तरव्यञ्जना प्रवृत्तिराश्रयणीया।

तदुक्तम्-

`शब्दशक्तिसमुद्भानाद्यत्रानेकार्थधीर्भवेत्।

तत्रापि प्रकृतादन्यो नाभिधानातिगोचरः॥’ इति।

यत्तूक्तं महिमभट्टेन-

`(48)एकोऽनकार्थकृद् यत्र स्वभावेनैव दीपवत्।

समयस्मृत्यनाकाङ्क्षस्तन्त्रस्य(49) विषयो हि साः॥

शब्दे त्वसिद्धमेकत्वं प्रत्यर्थं तस्य भेदतः।

सादृस्यविप्रलब्धस्तु(50) लोकस्तत्त्वमवस्यति॥

नैतावतावगन्तव्या तस्यानेकार्थवृत्तिता।

नात एव प्रसङ्गस्य पदं शब्दोऽवकल्पते॥

न चानिबन्धना युक्ता शब्दादर्थान्तरे गतिः।

तच्चानेकविधं प्रोक्तमव्ययानव्ययात्मकम्॥

तस्मादर्थान्तरव्यक्तिहेतौ कस्मिंश्चनासति।

यः श्लेषबन्धनिर्बन्धः(51) क्लेशायैव कवेरसौ॥’ इति।

तन्न विचारसहम्।

मित्रात्मजातहितकृद्विजिताक्षोद्धतक्रमः।

रामानन्दकरोल्लासः पातु मां हनुमत्प्रभुः॥ 63 ॥

इत्यत्र किमर्थन्तरप्रतीतिर्नास्तीति वा निबन्धनायास्तस्या(52) अयुक्तत्वात् किंचिन्निबन्धनं वा वाच्यमिति वा। अर्थभेदे शब्दभेद इति मते शाब्दैकत्वादर्थान्तरप्रतिपत्तिः कथमिति वा अभिप्रेतमायुष्मतः। नाद्यः। सर्वलोकसाक्षिणार्थान्तरावगमस्य(53) दुरपह्नवत्वात्। न द्वितीयः। प्रकरणादिमाहात्म्यानां (54)आञ्जनेयाद्यर्थव्यावृत्ताभिधा शक्तयो हनुमत्प्रभ्वादि शब्दाः शब्दशक्तिस्वभावादेवाङ्कुरितशक्त्यन्तर सहकृताः शब्दान्तररूपनिबन्धनाभावेऽपि तमर्थं पुनर्बोधयन्तीत्यनुभवबलेनास्थेयत्वात्। न च अभिधैवेयमिति वाच्यम्। प्रकरणादिना नियमितायास्तस्या विरम्योत्थानाभावात्। यत्र पुनः-

तेजो(55)यः कृतमित्रोऽपि मित्रोच्चपददायकः।

विभाति हनुमन्मन्त्री बुधाप्तोऽपि कलानिधिः॥ 64 ॥

इत्यत्रापीति पदं निबन्धनमस्ति तत्रैवाभिधाया विरम्योत्थानाङ्गीकारात्। वस्तुतस्तु असंबन्धेन व्यञ्जानाङ्गीकाराप्रसङ्गधिया(56) तथाविधेऽर्थे संबन्धान्तराभावेन प्रकरणाभिरुद्धप्राचीनाभिधाया एव संबन्धत्वेनाङ्गीकारात्। न तृतीयः। एकशब्दस्य क्रमशो नानाशक्तिसहकारेण `पदार्थवाक्यार्थ’न्यायेन नानार्थज्ञापनसमर्थत्वात्। न च शब्दस्यार्थान्तरवाचकत्वाभावात्तस्य संबन्धत्वेनार्थान्तराभिधानं कथं कल्पनीयमिति वाच्यम्। `एकवृन्तगतफलद्वय’न्यायेन एकपदबोध्यनानार्थवादमाश्रित्योक्तत्वात्। यदि शब्दभेद एवाङ्गीक्रियते तदा प्रतिप्रसवन्यायेन अर्थान्तरप्रतीत्यन्यथानुपपत्त्या शब्दान्तरोत्पत्तिः कैश्चिदङ्गीकृता। सा चास्माभिरङ्गीक्रियते। `धर्मकल्पनातो धर्मकल्पनमेवमि’ति न्यायेन शब्दान्तरस्य श्रूयमाणत्वात् अश्रूयमाणशब्दोत्पत्तौ प्रमाणाभावेन तस्यैव द्वितीयेऽर्थव्यञ्जनावृत्तेरास्थेयत्वादिति। प्रकरणादिकं तु भर्तृहरिणा दर्शितम्।

`(57)संयोगोऽपि(संयोगो?)विप्रयोगश्च साहचर्यं विरोधिता।

अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥

सामर्थ्यमौचिती (58)दशः कालो व्यक्तिः स्वरादयः।

शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः॥’ इति।

संयोगेन यथा-

शङ्खचक्रपाणिर्हरिरित्यत्र विष्णावभिधा नियम्यते।

(59)विप्रयोगेन यथा-

चक्रं विना हरिरित्यत्र तत्रैव।

साहचर्येण यथा-

रामलक्ष्मणावित्यत्र दाशरथौ।

(60)विरोधेन यथा-

रामरावणाविति।

तत्रैवार्थेन यथा-

स्थाणुं भज भवभञ्जनायेति हरे (रौ?)।

प्रकरणेन यथा-

सर्वं जानाति देव इति युष्मदर्थे।

लिङ्गेन यथा-

कुपितो मकरध्वज इति कोपलिङ्गेन मन्मथ(मन्मथे?)।

शब्दान्तरसांनिध्येन यथा-

देवस्य शृंगारे(रि?)णेति तत्रैव।

(61)सामऽर्थेनेति यथा-

मधुना मत्तः कोकिल इति वसन्ते।

औचित्येन यथा-

पातु वो दयितामुखमिति सांमुख्यात्।

देशेन यथा-

भात्यत्र परमेश्वर इति राजधानिरूपाद्देशाद्राजनि।

कालेन यथा-

स्त्रीपुंनपुंसकरूपया व्यक्त्या यथा-

मित्रं दृश्यतामिति वयस्ये मित्र इति दिवाकरे।

स्वरस्तु वेद एव न काव्ये। आदिपदादभिनयपरिग्रह इति शब्दशक्तिमूलोऽनुरणनरूपो वस्तुध्वनिः। पदे यथा-

हनुमन्मन्त्रिमणे त्वत्प्रज्ञा तनुते न विस्मयं कस्य(62)।

धात्रीश प्रतिभाश्रियमतिवेलमपाकरोति या धरणौ॥ 65 ॥

अत्र (63)धातृमहेश्वरवाचकस्य धात्रीशपदस्य शक्त्या अप्राकरणिक भूपतिप्रतीतेः शब्दशक्तिमूलता।

यथा वा-

तेकुमल्लहनुमत्प्रभो भवन्मन्दिरे स्थितिमुपेत्य संपदः।

गोत्रविद्विषदगारसंस्थितिक्लेशमद्य गणयन्ति नात्मनि॥ 66 ॥

तत्रेन्द्रवाचकस्य गोत्रविद्विषत्पदस्य अप्राकरणिकवंशविद्वेषिप्रतीतेः संपदामनुचितस्थानवस्थानेनानुतापरूपं वस्तु व्यज्यते।

यथा वा-

तेकुमल्लहनुमत्प्रभो भवत्पुण्यगण्यचरितावलीकथा।

(64)पाकघातिनमतीव पावयत्याशु हन्त किमुतावनीजनान्॥ 67 ॥

अत्रेन्द्रघातिनः पाकघातिकपदस्य शक्या (65)शिशुघातिनमपि पावयतीति वस्तु व्यज्यते।

वाक्यगतो यथा-

मार्गणेषु फलिषु त्वया रणे (66)प्रेषितेषु निजथर्मतोऽभवन्।

दानप्रार्थिनोऽभवन्निति वस्तु वाक्यशक्त्या व्यज्यते।

अलंक्रियैकतानत्वं यत्र शब्दार्थयोर्भवेत् तत्र तुर्यां विना वृत्तिं का पुनः प्रभवेत् क्रिया? इत्यलंकृतिध्वनिस्थले व्यक्त्यन्तरमङ्गीकार्यम्। अतः शब्दशक्तिमूलोऽलंकारध्वनिः। पदगतो यथा-

तेकुमल्लहनुमत्प्रभो भवान् भूतभाविषु न कोऽपि ते समः।

यस्य पुण्यचरितस्य ते कथा राजशेखरसभाविभूषणम्॥ 69 ॥

अत्र राजशेखरपदेन राजश्रेष्ठरूपस्य विषयस्य(आरोप्य)माणचन्द्रशेखरसभारूपतया पुरुषमात्रसभाभूषणतारूपप्रकृतोपयोगितया परिणामालंकारो व्यज्यते।

यथा वा-

हनुमन्तमन्त्रिणः कीर्तिं स्तोतुं क्षोण्यां क्षमते कः।

यानन्तपदमाक्रम्य त्रिषु लोकेषु जृम्भते॥ 70 ॥

अत्र गगनस्थानस्य विषयस्य प्रस्तुतत्वेनारोप्यमाणस्य फणिलोकस्याप्रमाणरूपप्रकृतोपयोगितया परिणामालंकारो व्यज्यते।

वाक्यगतो यथा-

सततेष्टसूर्यतनयो जयति जगत्प्राणनन्दनो जगति।

भाविकनच्चतुरास्यो हनुमत्प्रभुरित्थं सत्यलोकेशः॥ 71 ॥

अत्र अभिधायाः प्रकृतमात्रनियन्त्रितत्वेन व्यज्यमानोऽर्थस्तावदप्रकृतत्वेनान्वितः सन् उपमां व्यञ्जयतीति हनुमत्प्रभुवायुनन्दनयोरुपमालंकारो व्यज्यते।

यथा वा-

पदवाक्यप्रकाश्याः क्रमेणोदाह्रियन्ते। वक्तृबोद्धव्यादिविशेषसहकृतेनार्थेनार्थान्तरावगतिर्व्यञ्जनमेव।

तदुक्तम्-

(67)`वक्तृबोद्धव्यकाकूनां वाच्यवाक्यान्यसन्निधेः।

प्रस्तावदेशकालादेर्वैशिष्ट्यात्प्रतिभाजुषाम्॥

योऽर्थस्यान्यार्थ धीहेतुर्व्यापारो व्यक्तिरेव सा।’ इति।

स्वतः संभव्यर्थशक्तिमूलानुरणनरूपः (68)पदप्रकाश्यो यथा-

सपदिमधुरसूक्तिः सत्कवेः काव्यकन्यामहितमिह(69) हनूमन्मन्त्रिणं कान्तमेत्य।

अनुगुणवरलाभादाप्नुवन्ती प्रमोदं भजति सफलभावं प्रार्थिताप्यन्यभूपैः॥ 73 ॥

अत्रेतरभूपतीनामननुकूलनायकत्वमिति वस्तु सफलभावमाप्नोतीति वस्तु सपदीति पदेन व्यज्यते।

यथा वा-

सन्त्वन्ये भुवि भूभुजो वितरणश्लाघासमुत्सेकिनः प्रायः श्रीहनुमत्प्रधानमधुना संश्रित्य सत्यव्रतम्।

अद्यर्णानि पितामहादिरचितान्यव्यातु निस्तीर्य साल्लक्ष्मीमेत्य पुरा बुधाऽभिलषितान्भोगांश्चिरं भुञ्जते॥ 74 ॥

अत्र विदुषामितरभूपालाश्रयणेन पितामहादिकृतमपि(ऋणं)निवर्तते। दूरत एव लक्ष्मीयोगो भोगानुभवश्चेति वस्त्वद्येति पदेन व्यज्यते।

यथा वा-

स्फूर्जत्यूर्जितवैभवे वितरणश्लाघा जितस्वस्तरावेतस्मिन्हनुमत्प्रभो क्षितितले सर्वेऽपि विद्याविदः। माद्यत्सिन्धुर सैन्धवोत्तम कनत्पल्लंकिकान्दोलिकाव्यूहारोहणनैपुणीमनुभवन्त्यद्य स्म सद्यश्चिरात्॥ 75 ॥

अत्र विदुषां पूर्वेतर प्रभुसमाश्रयणेन कदाप्यतिदुर्लभं गजतुरगादि निरतिशय वैभवं ददातीति वस्त्वद्येति पदेन व्यज्यते।

स एव वाक्यप्रकाश्यो यथा-

भूमौ चतुः षष्टिकलाभिरामे प्रकाशमाने हनुमत्प्रधाने।

प्रायः कृशाङ्गो दिवि वा शशाङ्कः प्रद्योतते जात्य(त्व?)पि नाकलङ्कः॥ 76 ॥

अत्र चन्द्रस्य हनुमत्प्रभुसाम्याभावबुद्ध्या निरन्तरपरितापरूपं वस्तु वाक्येन व्यज्यते।

वस्तुनालंकारध्वनिः पदे यथा-

हनुमन्मन्त्रिणि क्षोणीँ नयेन परिरक्षति।

त्रासो मणीनामभवत्फणीनां च द्विजिह्वता॥ 77 ॥

अत्र वस्तुना मणीनामेव त्रासो नान्यत्र। भुजङ्गनामेव द्विजिह्वता नान्यत्र मनुज इति। परिसंख्यालङ्कारै मणीनां फणीनामिति च प्रत्येकं पदद्वयेन व्यज्येते।

वाक्येन यथा-

आलोकः स्ववशीकरोति नितरामस्यैव पद्मश्रियं धत्ते सा(70) सततं कलाः कुवलयोल्लासाय जोज्जृम्भते। सर्वत्र प्रभया तमोपहरति श्यामासु विस्तारयत्यानन्दं हनुमत्प्रभुर्बत सतां भर्ता द्विजानामपि॥ 78 ॥

अत्र वस्तुना वाक्यन हनुमत्प्रभुरेव चन्द्र इति रूपकलंकारो व्यज्यते।

अलंकारेण वस्तुध्वनिः पदे यथा-

कलयति तेकुमल्लहनुमत्प्रभुमौलिमणे प्रथिततर प्रतापविभवस्तव युद्धभुवि।

विरसवसुन्धरावरदुरन्तचमूगहने प्रलयमहाशुशुक्षणि निरर्गलकेलिभरम्॥ 79 ॥

अत्र निदर्शनालंकारेण सर्वे शत्रवो निर्मूमुन्मूलिता इति वस्तु निरर्गल पदेन व्यज्यते।

अलंकारेण वस्तुध्वनिर्वाक्येन यथा-

नेतारो हरितांपुरो विकथिते निर्वारणैश्चारणैस्त्वत्कीर्तेस्त्वदरातिभूतलभुजां योगेव कीर्तेरपि।

मन्दाकिन्यरविन्दबन्धुतनया संगभ्रमादादरात्सद्यः श्रीहनुमत्प्रभो सरभसं स्नातुं समुद्युञ्जते॥ 80 ॥

अत्र भ्रान्तिमदलङ्कारेण त्वदरातिनृपावकीर्त्या सह त्वत्कीर्तिर्दिक्पालकानामत्यद्भुतम् आतनोतीति वस्तु व्यज्यते।

अलङ्कारेणालङ्कारध्वनिः पदे यथा-

पतन्त्यनन्ता हनुमत्प्रधान त्वद्धानधाराविदुषां करेषु।

हविर्भुजां हन्ति चिरं कृशानां दुर्भिक्षमन्नापगमात् सहर्षम्॥ 81 ॥

अत्र असंगत्यलङ्कारेण जलदोपपादितवर्षधाराविलक्षणा त्वद्दानधारेति व्यतिरेकालङ्कारोऽनन्तपदेन व्यज्यते।

यथा वा-

(71)पतत्यहो ते हनुमत्प्रधान हिरण्मयी विप्रकरेषु धारा।

निरन्तरं वर्धयते तदाप्तवधूकुचेणीमदवक्र(72)(क्त्र?)वल्लीः॥ 82 ॥

अत्राप्यसंगत्यलङ्कारेण अहो इति पदेन व्यतिरेको व्यज्यते।

वाक्येन यथा-

त्वभि स्वातिवर्षाणि विद्वद्‌द्विजानां करांक्षोजकोशेषु वर्षत्यजस्रम्।

हनुमत्प्रभो यशो मौक्तिकानि क्षमाभृत्सभा शुक्तिकासूद्भवन्ति॥ 83 ॥

अत्र रूपकानुप्राणितासंगत्यलङ्कारेण प्रसिद्धजलदात्प्रभोराधिक्यप्रतीतेर्व्यतिरेकालंकारो व्यज्यते।

कविप्रौढोक्तिनिष्पन्नशरीरार्थ शक्तिमूलोऽनुरणनरूपो वस्तुना वस्तुध्वनिः पदगतो यथा-

(73)सत्या या बलकर्मखेचरशिविक्षोणीभुजां कीर्तयो लीनास्तद्विरमे चरन्तिहि तपः कल्याणवत्यः श्रितौ।

तेषामेक नवावतारमधुना ताः श्री हनुमत्प्रभुं जृम्भन्ते चिरमेत्य योग्यपुरुषप्राप्तेः प्रमोदान्विताः॥ 84 ॥

अत्र पूर्वं बलिकर्णादीनां परस्परगतैकैकगुणशून्यतया तदाश्रयणे कीर्तीनामनुतापः इदानीं तदुचितसकलकलगुणाश्रयं हनूमत्प्रभुमाश्रित्य परमानन्द इति वस्तु वस्तुना योग्यपुरुषेति पदेन व्यज्यते।

वाक्येन यथा-

धीरः श्रीहनुमत्प्रधान तरणे त्वत्तेजसा भूयसा विश्वं द्योतयता निरस्तमधुना यत्तत्समस्तं तमः।

आश्रित्य द्विषतो नृपानपयशोरूपेण तैः संक्ष्रमाद्भीतैर्धावति साकमावलयभूभृद्देशमाशाः प्रति॥ 85 ॥

अत्र (74)सर्वे शत्रवः पलाय्य दिगन्तान् गताः, तेषामकीर्तिरपि दिगन्तविश्रान्तेति वस्तु वस्तुना व्यज्यते।

यथा वा-

लोकालोकगिरीन्द्रचन्दनवनस्तोमे हनूमत्प्रभो कीडत्सिद्धवधूजनेन परितो गीतासु ते कीर्तिषु।

तत्रत्यस्फुटकोटरान्तरचरच्चश्रुश्रवः प्रेयसीजालान्युल्लालयन्ति हन्त रसनाः श्रीरप्रसारभ्रमात्॥ 86 ॥

अत्र रसनोल्ललनरूपेण वस्तुना प्रकृष्टज्ञानशून्यानामपि चमत्कारं कुर्वन्तीति कीर्तय इति वस्तु वाक्येन व्यज्यते।

वस्तुनालंकारध्वनिः पदे यथा-

अद्य श्रीहनुमत्प्रभौ त्रिभुवनप्रख्यातचञ्चद्गुणै(णैः?)

विस्फूर्जत्यवनौ न (75)वारिधिरभूद्गाम्भीर्यसीमास्पदम्।

इन्द्रो नापि बभूव भोगविभवस्फूर्तेश्च काष्ठापराधैर्यस्यापि समुन्नतः(76) सुरगिरिर्नैवावधिः प्रागिव॥ 87 ॥

अत्र हनुमत्प्रभोः समुद्राद्यपेक्षया बहुतरं गाम्भीर्यादिकमिति व्यतिरेकालंकारो व्यज्यते आ(अ?)द्येति पदेन।

वाक्येन यथा-

हनुमन्मन्त्रिणा लोकव्यापकं तनुते यशः।

व्याप्तचञ्चूपुटान्(77) पातुं चकोरान् दिवसेष्वपि॥ 88 ॥

अत्र वस्तुना वाक्येन भ्रान्तिमदलङ्कारो व्यज्यते।

यथा वा-

प्रभया धवलीकृत्य जगन्ति हनुमत्प्रभो।

त्वत्कीर्तिर्विधिमाक्षिप्तुं सत्यलोकमियासति॥ 89 ॥

अत्र वस्तुना उत्प्रेक्षालङ्कारो व्यज्यते।

अलङ्कारेण वस्तुध्वनिः पदे यथा-

अद्य श्रीहनुमत्प्रभो बुधजनाभीष्टार्थदानोन्मुखे त्वय्येवापजय सुरगवीचिन्तामणीन्द्रद्रुमाः(78)।

(79)आकारानपरान् गता इति सुरास्त्यक्त्वा दिवं भूतले त्वद्विद्वन्मखसद्मसु प्रमुदिता हव्याशिनधासते॥ 90 ॥

अत्रातिशयोक्त्या सुरगव्यादीनामपि असाध्यमस्य वितरणमिति वस्त्वपरानाकारानिति पदेन व्यज्यते।

वाक्येन यथा-

तव (80)यशश्चतुर्दशजगद्गतघोरतमो हरविशदप्रभवस्य तुलनामधिगन्तु मनाः।

विपथचरो विदुर्बुधगणेन हृतात्मकलो हृदि हनुमत्प्रभो वहति (81)नित्यकलङ्कधरम्॥ 91 ॥

अत्रातिशयोक्त्या अस्य कीर्तेर्निष्कलङ्कत्वम् इति वस्तु वाक्येन व्यज्यते।

अलङ्कारेणालङ्कारध्वनिः पदे यथा-

नूनं कामगवी च कल्पकतरुश्चिन्तामणिः संप्रति त्वत्पाणेर्हनुमत्प्रधान तुलनाकामात्स्वतः कल्पनात्।

अधिक्यस्य च चिन्तया परिभवादात्मीयनामाक्षरश्रेणीनामुपयान्ति योगमुचितं विश्वप्रजाङ्गीकृतम्॥ 92 ॥

अत्रोत्प्रेक्षया कामगव्याद्यधिकवितरणप्रतीतेरुचित पदेन व्यतिरेकालङ्कारो व्यज्यते।

(82)वाक्येन यथा-

भानुस्त्वं हनुमत्प्रभो तव यतो धत्ते प्रतापो मुदं चक्राणां हृदये च तिष्ठति सदा देवोऽपि नारायणः।

अन्येषां हरसि प्रभां त्वदुदये दोषापनुत्यै चिरं युक्तः क्रीडसि संततोज्वलकलायुक्तैर्द्विजेन्द्रैः सह॥ 93 ॥

अत्र श्लेषानुप्राणितरूपकालंकारेण विरोधालङ्कारो व्यज्यते। विरोधद्योतकापि(83) शब्दाभावादिति। कविनिबद्धवक्तृप्रौढोक्तिसिद्धशरीरार्थशक्तिमूलो वस्तुना वस्तुध्वनिः पदे यथा-

रे दारिद्र्यपिशाच मामतिचिरादाक्रम्य संभ्रामयन् मौग्ध्यादन्यसमान एष हनुमन्मन्त्रीति चानीतवानद्यैतस्य पुरो बतासि नितरामेतेन निःशेषितः॥ 94 ॥

अत्रेतरप्रभुभिश्चिरकालाश्रयणेनापि विदुषां दारिद्र्यलेशामात्रनिवर्तकमपि धनं न दीयत इति वस्तु निर्भरपदेन हनुमन्मन्त्रिणा तु पुरोऽवस्थितिमात्रेणैवाशोषदारिद्र्यनिवर्तन (84)क्षममाकल्पावस्थायि सम्पद्वैभवं दीयत इति च वस्तु निःशेषितपदेन च वस्तुना व्यज्यते।

वाक्येन यथा-

भूपा रे रे प्रतीपाः समरभुवि मदारम्भवन्तो भवन्तः (85)संप्रत्यस्मत्प्रतीपानलमनुशलभीभूय भूयश्चलन्तु।

इत्युक्ता ()86श्रीविमुक्तान् झडिति तव भटैरुद्भदैः श्रीहनुमन्मन्त्रिन्नाशादुराशाकवलितमनसो गन्तुमन्तस्त्वरन्ते॥ 95 ॥

अत्र वाक्येन वस्तुना रिपूणां भयभ्रान्तत्वरूपं वस्तु व्यज्यते।

वस्तुनालंकारध्वनिः पदे यथा-

श्यामं चिह्नमिदं विधो तव कथं वक्षः स्थले नारदधाता भेदविवेचनाय हि मषीमुद्रामिमामातनोत्तन्मैत्र्या चतुरास्य वाक्पतिशतानन्दादि नामैक्यतः॥ 96 ॥

अत्र वस्तुना स्फूर्जन्त्यामिति पदेनातिशयोक्तिर्व्यज्यते।

वाक्येन यथा-

किं दारिद्र्य चिरं विषीदसि मुने स्वस्याश्रयाभावतो धाता कल्पितवांस्तदाश्रयतया सूरींस्तु भूरीन्ननु।

अद्य श्रीहनुमत्प्रभुः परिभवंस्तंस्ताननन्तश्रियामावासानकरोत्स किं नु कुरुते तस्याधिकारे पदम्॥ 97 ॥

अत्र वाक्येन वस्तुना ब्रह्मलिखितमपि अन्यथाकर्तुं शक्तमेतद्वितरणवैभवमित्यतिशयोक्तिः व्यज्यते।

अलंकारेण वस्तुध्वनिः पदे यथा-

भूपालोमि(पि?)कुतो न(87) ते मधु मदोद्रेकान्मुखे रक्तिमातस्मिन् किंनु निमित्तमद्य हनुमन्मन्त्रीन्द्र विश्रणनश्लाघाकर्णनलज्जया प्रतिदिनं म्लायन्ति कल्पद्रुमाः॥ 98 ॥

अत्रातिशयोक्त्या कल्पद्रुमेभ्योऽप्यतिशयितमेतस्य वितरणं इति वस्तु म्लायन्तीति पदेन व्यज्यते।

अलंकारेण वस्तुध्वनिर्वाक्येन यथा-

धाता भानुहुताशयोरुडुपतेरुत्पादने कारणाभावेन प्रतिकल्पमाकुलतया योऽबूत्प्रयासः पुरा। हेतुकृत्यवत्प्रतापयशसी स्वस्थः शतानन्द इत्याख्यामर्थवतीमिहाद्य हनुमन्मन्त्रिन्न मन्यते किम्॥ 99 ॥

अत्रातिशयोक्त्या भवत्प्रतापयशसोरेतत्कल्पमारभ्य सकलकलपावस्थायित्वं व्यज्यते।

अलंकारेणालंकारध्वनिः पदे यथा-

नायं सुधांशुर्हनुमत्प्रधान त्वत्कीर्तिपुञ्जप्रतिबिम्ब एव।

व्योमास्तितादर्शतले तदन्तर्मालिन्यमस्मिन्नत एव भाति॥ 100 ॥

अत्र मालिन्यपदेनापह्नवालंकारेण चन्द्रादप्यधिकधावल्यप्रतीतेर्व्यतिरेकालंकारो व्यज्यते।

वाक्येन यथा-

नूनं श्रीहनुमत्प्रभो तव भुजो निर्वोदुमुर्वीभरं दातुं कामितमर्थिनां प्रमथितुं सर्वारिगर्वाम्बुधीन्।

एकः शक्त इमे त्रयो भुवि वृथेत्यम्भोजभूः कल्पकं शोषं चोर्ध्वमधो नयन्नधिगिरिं (88)ग्रावान्तरे पातयत्॥ 101 ॥

अत्रोत्प्रेक्षया तद्भुजस्य शेषकल्पकमन्दरापेक्षया आधिक्यप्रतीतेर्व्यतिरेकालङ्कारो व्यज्यते।

एवं प्रबन्धप्रकाश्या अपि द्वादशभेदा द्रष्टव्याः।

उभयशक्तिमूलो यथा-

श्रीरामसेवानिस्तन्द्रो विश्वरक्षोदयक्रमः।

भासतां हनुमन्मन्त्रीमित्रजातहितार्थकृत्॥ 102 ॥

अत्र श्रीरामेत्यादि पदे अर्थशक्तिमूलता, अन्यत्र तु शब्दशक्तिमूलतेत्युभमशक्तिमूलता। स च ध्वननं नाम शब्दव्यापारः कथं तस्यार्थशक्तिमूलातेति वाच्यम्। यत्र शब्दस्य(89) व्यञ्जकत्वं तत्रार्थस्य सहकारित्वं यत्र पुनरर्थस्य व्यञ्जकता तत्र शब्दस्यापि न दोषः। एवं ध्वनिभेदेषु दिङ्मात्रमुदाहृतम्। न साकल्येनोदाहर्तुं शक्यन्ते। ध्वनीनां परस्परः(90) सहस्रत्वात्। तथा हि-लक्षणामूलध्वनिभेदाश्चत्वारः शब्दशक्तिमूलास्तावन्तोऽर्थशक्तिमूलेषु असंलक्ष्यक्रमध्वनिभेदाः षट्, संलक्ष्यक्रमव्यङ्ग्यार्थशक्तिमूलात् भेदा षट्त्रिंशत्। उभयशक्तिमूलस्त्वेकविध इति। मिलित्वा एकपञ्चाशद्ध्वनिबेदाः। तेर्षामेकैकस्य एकैकेन संबन्धे प्रथमभेदस्य एकपञ्चाशद्भेदाः, द्वितीये तु पञ्चाशत्। तृतीयस्य एकोनपञ्चाशत् इति क्रमेणोत्तरस्य एकैकह्रासे षड्‌विंशत्युत्तरशतत्रयाधिक सहस्रसंख्याका मिश्र भेदाः। तेषामपि त्रिरूपेण संकरेणैकरूपया संसृष्ट्या सम्मेलने चतुरधिकशतत्रयोत्तरपञ्चसहस्रसंख्याका भेदा भवन्ति। तेऽपि स्वैः प्रभेदैरलंकारैश्च मिलिताः संख्यामतिवर्तन्ते। व्यङ्ग्यस्य प्राधान्य एव ध्वनि व्यपदेशः।

(91)तदुक्तम्-

`काव्यमपि ध्वनिरित्युच्यते, स चोदाहृत’ इति।

॥ इति श्रीमारभट्टविदुषा विरचिते रससुधानिधौ द्वितीयः प्रवाहः ॥

*********

॥ अथ तृतीयः प्रवाहःआरभ्यते ॥

अथ गुणीभूतव्यङ्गयं(2) निरूप्यते। तच्चाष्टधा।

तदुक्तम्-

`(3)अगूढमपरस्याङ्गं वात्यसिद्ध्यङ्गमस्फुटम्।

संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम्॥

व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिधाः स्मृताः॥’ इति।

व्यङ्ग्यं गूढं तरुणीकुचमण्डलवञ्चमत्कुरुते।

वाच्यायमानमथ चेत्तदगूढं(4) स्याद्गुणीभूतम्॥ 60 ॥

यथा-

भूयः(5) श्रीहनुमत्प्रभो तव भटश्रेणीभुजापारुषं विन्ध्याद्रेरटवीषु भिल्लसुदृशाविद्वेषिणां योषितः।

व्याकुर्वन्ति निरस्तचन्दनरसोत्सेकैः प्रतीकैस्तथाव्यक्तत्यक्तविचित्रपत्रलतिकाजालैः कपोलैरपि॥ 103 ॥

अत्र व्याकरणस्यात्यन्ततिरस्कृतवाच्चस्यातिप्रसित्वादगूढम्।

वाक्यार्थस्य रसादेर्यत्र व्यङ्ग्यं भवेदङ्गम्।

अपराङ्गं तत्स्यादिह दधति पदं रसवदाद्यलङ्काराः॥ 61 ॥

यथा -

तेजोभास्कार तेकुमल्ल हनुमन्मन्त्रिन्प्रभो त्वद्विषां योषाः शोषरुदन्मुखीनिजसखीर्वीक्ष्याटवीवल्लयः(6)।

नो पुष्टैः स्मितमुद्‌गिरन्ति नतजान्वाञ्छन्ति वालिङ्गितुं नो रागं प्रथयन्ति कोमलदलैर्जल्पन्ति नातिस्वरैः॥ 104 ॥

अत्रारोपित सखीधर्माणां वनलतानां सख्यभेदाध्यवसायेन प्रतीयमानः (7) करुणो रसो वाक्यार्थस्य प्रभुगतवीररसस्याङ्गम्।

यथा वा-

जेतुः श्रीहनुमत्प्रभो रणजयप्रस्थानभेरीरवानाकर्ण्य प्रतिपक्षभूतलभुजो घोराटवीवाटिषु। धावन्तः समदर्शयन्तः परितश्चेष्टास्तु यास्ता मुहुर्भिल्लानां चिरहासविस्मयकृपावेशान् समातन्वति॥ 105 ॥

अत्र प्रभुगतवीररसस्य शत्रुगतभयानकरसोऽङ्गम्।

(यथा वा)-

मर्यादाद्रिदरीतटीषु तमसि क्रीडासु बद्धाशयैः सिद्धैः(8) श्रीहनुमत्प्रभो तव गुणज्योत्स्नासु गीतश्रियम्।

नीतासु स्मरकेलिलोलमानसो लीलावधूतां शुकास्तद्योषाः कृतसंभ्रमापसरणोन्मेषाश्चमत्कुर्वते॥ 106 ॥

अत्र लज्जादिसञ्चारिभावः प्रभुविषयरति भावस्याङ्गम्।

यथा वा-

त्वद्वैरिकान्ता विपिने भ्रमन्तीर्दृष्ट्वा भयाच्चञ्चललोचनान्ताः।

मुहुः किराता मदनोपघाताद्भवन्ति सद्यः पुलकाभिभूताः॥ 107 ॥

अत्र प्रभुविषयरतिभावस्य रसाभासोऽङ्गम्।

यथा वा-

तेजोभास्कर तेकुमल्लहनुमन्मन्त्रीन्द्र नस्त्वदालोकेनास्य भजन्ति कमलोल्लासा न तन्द्रालवः। इत्यन्तः विहितव्यथास्तव पदोपान्तं श्रयन्तेतरां वैरिक्षोणिभुजः (9)प्रणामशमितत्वद्भूरिरोषार्चितम्॥ 108 ॥

अत्र मृदुविषयरतिभावस्य भावाभासोऽङ्गम्।

किं च-

सुधावचस्ते हनुमत्प्रधान स्फुटं यथा(10) स्वाद्य नरा धरायाम्।

चिराय पूर्वं विरसा निरन्तर्यवन्ति सद्यः सरसं चिता च॥ 109 ॥

अत्र त्वद्वचनश्रवणमात्रेण चिरकालावस्थितस्य नराणां मनस्यमर्षाख्यभावस्य शान्तिः प्रभुविषयरतिभावस्याङ्गम्।

किं च-

पुरा क्रीडोद्याने वा सहचरीभिः प्रचलितुं न शक्ताः या वैरिक्षितिपतितरुण्यः सपदि ताः।

निशम्य त्वद्धाटीपटहरति तान्याशुगमनेनै(11)धावन्त्यः श्रान्तिं दधति हनुमत्पण्डितमणे॥ 110 ॥

अत्र रिपुस्त्रीणां भयाख्यभावोदयः प्रभुविषयरति भावस्याङ्गम्।

अपि च-

विहायनिजस(सु?)न्दरीरगदरीषु भीषोदयान्निलीय हनुमत्प्रभो निवसतामरिक्ष्माभृताम्।

मनः कबलयत्यलं स्मरशारोदितोऽप्येकत्रः परत्र दहनो महान्वनचराभिभूत्वाहितः॥ 11 ॥

अत्र परस्परविरुद्धयो रतिरोषभावयोः सन्धिः प्रभुविषयरतिभावस्याङ्गम्।

अपिच-

शौर्यं तस्य तदद्भुतं यदनिशं सर्वास्मदीयश्रियः स्वायत्तीकुरुते विधिर्विमुखतामस्मासु धत्तेऽधुना।

नोपायोऽस्ति परस्तदङ्घ्री कमलोपास्तैः पुनर्भावुकोद्भेदायेत्यरयो भजन्ति हनुमन्मन्त्रीश्वर त्वां नृपाः॥ 112 ॥

अत्र स्मृतिचिन्तानिर्वेदमतीनां वैरिगतानां शबलता प्रभुविषयरतिभावस्याङ्गम्।

हेतुर्वाच्यस्य संसिद्धेर्वाच्यसिद्ध्यङ्गमुच्यते।

यथा-

हनुमन्मन्त्रि! मार्ताण्डप्रतापस्तव भास्वति।

कवीनां येन विकसत्पद्मोच्चयविजृम्भणम्॥ 113 ॥

अत्र कवयितॄणां हंसादिजलपक्षित्वं व्यङ्ग्यम्। तच्च प्रभोर्मार्ताण्डत्वरूपेण लक्षणस्य वाच्यस्य (12)सिद्ध्यन्तरतामेति।

यथा वा-

चरसि किमिति साधो दैन्यभूतग्रहार्तः क्षतमतिरखिलेषु भ्रान्तवद्भूतलेषु।

व्रज सपदि हनूमन्मन्त्रिसान्निध्यमस्य प्रसरति यदि दृष्टिः सा तदार्तिः कुतस्ते॥ 114 ॥

हनूमन्मन्त्रिणो मन्त्रवेदित्वं व्यङ्ग्यम्। तच्च दैन्यभूतत्वेन रूपणस्य वाच्यस्य सिद्धिं करोति।

सपदि व्यङ्ग्यं यत्र न भजते स्फुटतां तदस्फुटाभिख्यम्॥ 62 ॥

यथा-

हनुमन्मन्त्रिमार्ताण्डतेजो वितनुते सदा।

सतामतितरां शो भां श्रियं कुवलयस्य च॥ 115 ॥

अत्र हनुमत्प्रभोः सूर्याधिक्यप्रतीतेर्व्यतिरेकालंकारो व्यङ्ग्यः। स च न प्रतीयते इत्यस्फुटत्वम्।

यत्र वाच्यं भवेद्‌व्यङ्ग्यमपि वा मुख्यताधिमः।

न पदं तत्र सन्दिग्धप्राधान्यमिति कथ्यते॥ 63 ॥

यथा-

प्रतापदहनोच्चलत्पृथुतरस्फुलिङ्गोपमानवेक्ष्य हनुमत्प्रभोभटांस्ते…(?)भटान्।

दृशो दिशि त्वराकुलितचेतसो विक्षिपन्त्यरातिधरणीभुजस्समरभुव्यभव्यश्रियः॥ 116 ॥

अत्र दिगवलोकनेन पलायितु(मिच्छ)न्तीति व्यङ्ग्यं प्रधानं, किं वा दिशि दिशि दृशो विक्षिपन्तीति भयानुभावरूपं वाच्यं प्रधानमिति संदिग्धम्।

वाच्यव्यङ्ग्यार्थयोस्तौल्यात्तुल्यप्राधान्यमिष्यते।

यथा-

ये तेकुमल्लहनुमत्प्रभुमाश्रयन्ते तेषां चिराय विदुषां विहरन्ति कान्ताः।

आरामसीममणिमन्दिरहेमवेदीडोलानुकूलशयनीयतलान्तरेषु॥ 117 ॥

अत्र विद्वदैश्वर्यस्य कार्यस्य वाच्यस्य व्यङ्ग्यस्य कारणस्य हनुमत्प्रधानौदार्यस्य च समप्राधान्यम्।

वाक्यनिषेधसहभावेन स्थितं काक्वाक्षिप्तम्॥ 64 ॥

(यथा?-)

बुधो मित्रो योऽभूद्वितरति कलामात्रमपि चेत्तदेकस्मिन्पक्षे मुहुरुपचितो मित्रवसुभिः।

स लज्जतेन्दुर्नो सततबुधमित्राद्यभिमतप्रदन्त्यामालोक्य(13) स्वमनसि हनूमत्प्रभुमणे॥ 118 ॥

अत्र कार्यानुसन्धानेन लज्जित एव व्यङ्ग्यम्।

वाच्यादसुन्दरं(14) व्यङ्ग्यं तदसुन्दरमुच्यते।

यथा-

जेतुः श्रीहनुमत्प्रभो रिपु महाराड्राजधानी गृहेष्वत्युच्चैर्मणिकुट्टिमान्प्रतिफलन्नीहाररोचिर्मृगात्।

आलोक्याधिनिशं यथोचित मृगभ्रान्त्या नितान्तोन्मदाः शार्दूला नखरैः खरैर्विदलयन्त्यन्तर्नदन्तो मुहुः॥ 119 ॥

अत्र भीत्या पलायमानानां रिपूणां नगराणि शून्यानीति व्यङ्ग्यम्।

तद्वाच्यान्न (15)सौन्दर्यमावहन्तीत्यष्टगुणीभूतव्यङ्ग्यानि दर्शितानि। एतेषामपि प्रागुक्तैर्ध्वनिभेदैः सह संकर संसृष्टिवशादसंख्येयता।

अव्यङ्ग्यमधमं काव्यम्।

तच्च शब्दचित्रमर्थचित्रमुभयचित्रं चेति त्रिविधम्।

शब्दचित्रं यथा-

(16)चण्डक्ष्माखण्डलालीघनहृदयदरीदण्डमानाभिमानाभीलक्ष्वेला हि जालोद्धननसमुद्दण्डकाम्डजेन्द्रः। ब्रह्माण्डाखण्डभाण्डान्तरनिहित मुहुः पिण्डितोन्मण्डनो (17)नूनख्यातिर्हनुमत्प्रभुरधिधरणीस्फूर्जदूर्जितश्रीः॥ 120 ॥

अर्थचित्रं यथा-

यत्ते तेजोऽनलार्चिन्युरगनरमरुत्सद्मना काञ्चनश्रीः इत्याहुः केचिदन्ये त्वभिदधति सुधाभावमासाद्य सद्यः पातीति त्वद्वितीर्णीश्रवणपरिचयान्म्लायतः कल्पकांस्तत्॥ 121 ॥

उभयचित्रं यथा-

शौर्योपेन्द्रे सर्वसंपन्महेन्द्रे शोभाचन्द्रे शास्त्रविद्यावितन्द्रे।

रामोदञ्चद्भक्तिसान्द्रे हनूमन्मन्त्रीं ललना मोदते कस्य चेतः॥ 122 ॥

यथा वा-

(18)श्रीमद्यद्वैरिभामाजनचिकुरतमोलुण्ठने चण्डधामारामाकामाभिरामाकृतिरखिलगुणग्रामसंवाससीमा।

आमर्यादाद्रिभूमावटनपटुयशाश्चारू धैर्यातिभूमा धीमानुद्दामधामा जयति यदनुजो (19)वेङ्कटाद्रीन्द्रनामा॥ 123 ॥

इदं काव्यभेदकथनं सम्प्रदायमतानुसारेण। वस्तुतस्तु रसादिध्वनेः प्राधान्ये तूत्तमं काव्यं वस्तुमात्रं प्रति गुणीभावे मध्यमं नीरसं(20) तु काव्याभास इति प्रागुक्तम्। न च चित्रकाव्यव्यपदेशः प्राचां कथमिति वाच्यम्। बन्धादिसाम्याद्गुण इति ब्रूमः।

अथ रीतयो वृत्तयश्च निरूप्यन्ते।

रीतयो वृत्तयश्चापि गुणालङ्कारमूर्तयः(21)।

व्यपदेशं पृथङ्नीतास्तथापि रसवेदिभिः॥ 65 ॥

रीतयस्तास्तु वैदर्भीगौडिपाञ्चालिकेति च।

बन्धपारुष्यरहिता शब्द(काठिन्यवर्जि…)ता॥ 66 ॥

नातिदीर्घसमासा च वैदर्भीरीतिरिष्यते।

ओजः कान्तिगुणोपेता गौडीयारीतिरिष्यते॥ 67 ॥

पाञ्चालीत्युत्त्यते गौडीवैदर्भ्योर्मेलनं बुधैः।

तत्र वैदर्भी यथा-

लक्ष्मीमङ्गतां पुरो ननु सतां त्यागोपभोगोत्सवैः प्राभः श्रीहनुमत्प्रभो तृणयसे नीत्यानुकूलामपि(22)। दूरस्थामधिकोद्धतां परग्रहक्रीडावतीमप्यहो कीर्तिं त्वं बहुमन्यसे परिचयोऽतीवावमानास्पदम्॥ 124 ॥

गौडी यथा-

जैत्रप्रस्थानवेलापटुपटहपटाराव बं (23)भज्यमानब्रह्माण्डखण्डभाण्ड प्रतिघटनसुधावज्रलेपी भवन्त्या।

त्वत्कीर्त्या चन्द्रमूर्त्या जगति धवलिते स्वस्य वस्तु ग्रहेषु व्यग्रः सर्वः समग्रभ्रममतिरघुना श्रीहनूमप्रभोऽभूत्॥ 125 ॥

पाञ्चाली यथा-

विप्रैराश्रितवद्विरध्य हनुमन्मन्त्रीन्द्रमाम्नायवाग्दिष्टेराचरितेषु यज्ञविधिषु स्वस्वांश संप्राप्तये।

आहूताद्युसदस्सदस्सु विवदद्विद्वन्नयप्रक्रियावादेषु स्वयमाचरन्ति मनुजाकारेण मध्यस्थताम्॥ 126 ॥

एतासामेव सांकर्यादावन्तिकादयो भवन्तीति ततः पार्थक्येन नास्माभिरभिधीयन्ते। तासां लक्षणं तु भोजराजेन उक्तम्। यथा-

(24)अन्तराले तु वैदर्भी पाञ्चाल्यो न्यापतिष्यति।

सावन्तिका समस्तैः स्यात् द्वित्रैस्त्रिचतुरैः पदैः॥

समस्तरीति(25)व्यामिश्रलाटीयारीतिरिष्यते

वूर्वरीतिरनिर्वाहात्पदरीतिस्तु (26)मागाधेति॥”

अथ वृत्तयो लक्ष्यन्ते।

कैशिक्यारभटीभारतीसात्त्वती चेति चतस्रो वृत्तयः॥ 68 ॥

तासां केवलशब्दगुणाश्रिताभ्यो रीतिभ्यो रसावस्थानसूचकतया भेदः स्फुट एव। तदुक्तम्-

`(27)कैशिक्यारभटी चैव भारती सात्त्वती तथा।

चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः॥'

तत्र-

अत्यन्तसुकुमारार्थसंदर्भा कैशिकी मता।

अत्यन्तसुकुमारावर्थौ शृंगारकरुणौ अत्यन्तसुकुमारपदसंदर्भया यया वृत्त्यानूद्यते(28) सा कैशिकी।

अत्युद्धतार्थसंदर्भा वृत्तिरारभटी मता॥ 69 ॥

अत्युद्धतार्थौ रौद्रबीभत्सौ या (29)अत्युद्धतपदसंदर्भवृत्त्या सूच्यते(30) सा आरभटी।

ईषन्मृद्वर्थसंदर्भा भारतीवृत्तिरिष्यते।

ईषन्मृद्वर्थसंदर्भा भारतीवृत्तिरिष्यते।

ईषन्मृद्वर्था हास्यशान्ताद्भुताः किंचित्सुकुमारपदसंदर्भया यया सूच्यन्ते सा भारती।

ईषत्प्रौढार्थसंदर्भा सात्त्वतीवृत्तिरिष्यते॥ 70 ॥

किंचित्प्रौढार्थौ वीरभयानकौ किंचित्प्रौढसंदर्भया यया सूच्यते(31) सात्त्वतीति। क्रमेणोदाह्रियन्ते।

यथा कैशिकी-

मानिन्यान्मर्थां(?)गिराविरचिता सादप्रसादोन्मुखी काचिते हनुमत्प्रभो प्रणयभूमानावसानक्षणे।

चेतश्चेतयते (32)मनोजगिलितं रागं चमत्कुर्वता सञ्चारेण निरर्गलसुधाधाराप्रकार स्पृशाम्॥ 127 ॥

आरभटी यथा-

युद्धे वद्धाग्रहस्य द्विषदवनिधरा श्रीहनुमत्प्रधान क्रोधोद्बोधारुण श्रीजुषि विषमनटद्भ्रूकुटीमानने ते।

वीक्ष्य स्वोत्पातहेतुः खरकिरण गता धूमरेखेति बुद्धेराशंकातङ्कवन्तः प्रतिदिशमवशा गन्तुमन्तस्त्वरन्ते(33)॥ 128 ॥

भारती यथा-

आस्ते काञ्चनवल्लरी वहति सा बिम्बं विधोः सारसद्वन्द्वं तत्र विभासते किरति तन्नीलोत्पलानां श्रियम्।

प्रेमाविष्कुरुते च सेयमतनोर्मायाधिरुह्याद्य सा तल्पं ते हनुमत्प्रभो वितनुतां संभोगलीलासुखम्॥ 129 ॥

सात्त्वती यथा-

(34)जैत्रप्रस्थानयात्रावार्तामनितर सदृशस्थेमधाम्नो हनूमन्नाम्नो मन्त्रीश्वरस्य द्विषदवनिभुजश्चारलोकान्निशम्य।

विन्ध्यारण्यान्यगण्यान्यतिरयपयसैराविशन्तो दिशन्ति प्रायो भूयस्तरूणामपि हृदि करुणाखेदनिर्वेददौस्थ्यम्॥ 130 ॥

एवं रसान्तरेऽप्यूह्यम्।

अथ पाको विविच्यते।

द्राक्षापाको नारिकेलपाकश्चेति द्विविधः।

द्राक्षापाकः स विज्ञेयो बहिरन्तः स्फुरद्रसः॥ 171 ॥

बहिः खरो नारिकेलपाकोऽन्तर्मसृणः स्मृतः।

द्राक्षापाको यथा-

आरुह्य द्विरदेन्द्रमन्तिकपुरा तुल्यप्रतोल्यां शनैरायान्तं हनुमत्प्रभुं शुभतरोत्सेधे स्वसौथे स्थिता।

श्यामा काचन जातकौतुकभरा साकूतमालोकते लीलापाङ्गतरङ्गितैः स्मरकलासंपत्समुज्जीविभिः॥ 131 ॥

नारिकेलपाको यथा-

चेतस्ते हनुमत्प्रधान यमुनापुरानुकारि श्रियातत्राकूतकृतस्मितामृतरसैरुज्जीवयन्ती शनैः का नीरे(र?)जमुखी न वा फलमतः कामं समाकाङ्क्षते॥ 132 ॥

एवं रसालापादि(35) पाकान्तराण्यूह्यानि।

अथ शय्या।

शय्येति गीयते मैत्री पदानां तु परस्परम्॥ 72 ॥

पदमैत्रीनाम पदविनिमयासहिष्णुत्वम्। तच्चास्मत्पद्येषु सर्वत्रापि द्रष्टव्यम्।

तच्च काव्यं त्रिविधम्। गद्यमयम्, पद्यमयम्, उभयमयं चेति।

गद्यमपादबन्धः सस्सपदसंदर्भः।

यथा-

जगति विजयानुसारी प्रचारः रजनीविज्ञापितस्वपरराष्ट्रवृत्तान्तः तान्तजनविश्रान्तिप्रदानोपचीयमानशुभोदयः दयोद्रेकचित्रपवित्रचरित्रसन्तानः सन्तानतरुचिरसुचिररुचिरश्लाघा(36) विश्लभीकरणचरणवितरणः (37)रणोर्वीमर्दित निर्दयाभियातिलोकः लोकोत्तरनिरवद्यविद्याविशेषः शेषोरगधराभरण श्रमहरणक्षमनिजभुजामहिमा हिमाचलजलाकरतुलितधैर्यगाम्भीर्यभूमा भूमानवतिमनो मनोभवोद्दीपकरूपलावण्यसीमा सीमाद्रितटप्रान्ते(38) विश्रान्तयशो निशाकरपदः पदोपनतजनावनप्रवीणः वीणादिवादनचतुरः चतुरानन इव सत्यपदस्थायी पुरन्दर इव समथिष्ठित सुधर्मः पावक इव सुचिशर्मा धर्म इव समवर्ती। निर्ऋतिरिव पुण्यजनानुवर्ती वरुम इव सर्वतोमुख विहारी पवन इव सदागतिः धनद(39) इव मित्रकृतदुर्गाधिपतिः ईशान इव सर्वमङ्गलालङ्कृततनुः महाभोगभूमिरप्यभुजङ्गः सुमित्रानन्दनोऽप्यतिचिरविचिरस्थापितावनिजारामः(40) वाहिनीशोऽपि भङ्गरहितः श्रीपतिरप्यगदाकरमूर्तिः वसुनिधिरपि कुवयोल्लासी द्विजेन्द्रोऽप्यदोषानुयायी, भीमानुजोऽपि सूर्यात्मजातप्रियः नयविनयाभिरामः, रामानुषक्तभक्तिप्रसादविभवविभवस्थेमा धीमानभिमानबीमाकारधामाऽयं हनुमत्प्रभुर्जयति। पद्यं निगधते पादचतुष्टयसमन्वितम्॥ 73 ॥

यथा-

न क्षय्योऽपि महावलैरिनमहस्थुत्तापके शीतलच्छायः सन् परिसेव्यते बहुजनैरत्युन्नतेरास्पदम्।

अस्य श्रीहनुमत्प्रभोः प्रियतया यः सोदरः क्ष्मातले नागोजीति समाख्यया विजयते के नैव न श्लाघ्यते॥ 133 ॥

तेषां रसानुकूलार्थसंदर्भः काव्यमिष्यते।

नगरार्णवशैलर्तुचन्द्रार्कास्तमयोदयाः॥ 74 ॥

उद्यानसलिलक्रीडामधुपानरतोत्सवाः।

विप्रलम्भविवाहौ च कुमारस्योदयस्तथा॥ 75 ॥

(41)मन्त्रद्यूतप्रयाणाजि (42)नायकाभ्युदया अपि।

यत्राष्टादश वर्ण्यन्ते तन्महाकाव्यमिष्यते॥ 76 ॥

वस्तु तत्रेतिहासादि सिद्धं तत्पुरुषाश्रयम्।

आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्॥ 77 ॥

सर्गैरनतिविश्तीर्णैः श्राव्यवृत्तैः सुकन्धिभिः।

सर्वत्र भिन्नसर्गान्तैर्युक्तं तल्लोकरञ्जकम्॥ 78 ॥

तत्र पद्यमयं काव्यं रघुवंशादि। गद्यमयः कादम्बर्यादि। उभयमयी चम्पूप्रबन्धरूपकादि। चम्पूप्रबन्धास्तु भोजरामायण-मुकुन्दानन्दादयः। रूपकाणि तु दश-नाटकप्रकरणभाणप्रहसनव्यायोगडिमसमवाकारवीथ्यङ्केहामृगभेदात्(43)। उपमा(उप?)। रूपकाणि नाटिकासदृकादीनि। तेषामष्टादशवर्णनानां मध्ये कतिपयवर्णनाराहित्येऽपि न महाकाव्यताक्षतिः। चाटुप्रबन्धास्तु कविप्रौढोक्तिकल्पिताः। (44)उदाहरणं चक्रवालचतुर्भद्रचतुरुत्तरभोगावलि(45), बिरुदावली, गुणावली, रंगघोषणजयघोषणत्यागघोषणादि भेदेन बहुप्रकाराः। ते तु ग्रन्थविस्तरभयान्नादाह्रियन्ते॥

॥ इति श्रीमारभट्टविदुषा विरचिते रससुधानिधौ तृतीयः प्रवाहः ॥

*********

॥ अथचतुर्थः प्रवाहो निरूप्यते ॥

एवं काव्यलक्षणं तद्भेदांश्च निरूप्य तस्य जीवितायमानं रसादिं निरूपयितुमारभते।

विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लसितस्थायिभावो रसः। तदुक्तं दशरूपके-

“(2)विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः।

आनीयमानस्वादुत्वं स्थायीभावो रसः स्मृतः।” इति तत्रैवोक्तम्-

“(3)सजातीयविजातीयैरतिरस्कृतमूर्तिमान्।

यावद्रसं वर्तमानः स्थायीभाव उदाहृतः॥” इति।

स च रसो न प्रत्यक्षेण लक्षीक्रियते, तत्र विशिष्टवाक्यार्थानुसन्धानलब्धसत्ताकस्य (4) विभावादिघटिततया प्रतीयमानत्वात् स्फुटसंवेद्यानन्दमयत्वात् वासनाधायकत्वाच्च। न निर्विकल्पकवेद्यता नापि सविकल्पकवेद्यता। स्वप्रकाशानन्दचमत्कारालम्बयमानानां विभावादीनां अभिलापसंसर्गयोग्यत्वाभावात्। न च उभयातिरिक्तं प्रत्यक्षमस्ति यद्विषयो रसः स्यात्। अस्तु वा यत्किंचित्प्रत्यक्षं तथापि तत्पूर्वसिद्धं वा रसं विषयीकुर्यात् विभावाद्यनुसन्धानेन तदानीमुत्पन्नं वा। न तावदाद्यः-विभावादिविशिष्टवाक्यार्थानुसन्धातॄणामपि सदा तत्प्रतीतिप्रसङ्गात्। न द्वितीयः-तस्य विभावादिनिमित्तकत्वे दण्डादिनिमित्तकारणनाशो घटस्यै(स्ये?)व विभावादि नाशेऽपि तस्यानुवृत्तिः स्यात्। न च अपेक्षाबुद्धिनाशे द्वित्वस्येव हस्तसंयोगापाये कटविवरणस्येव सूर्यकरसंयोगापाये कमलविकासस्येव विभावाद्यपाये तस्यापायः स्यादिति वाच्यम्। द्वित्वादिरूपादिवद्वस्तु सहभावितत्वात्। न च(5) अपेक्षाबुद्धिवैयर्थ्यं तस्याः द्वित्वादिप्रतीतिहेतुत्वात्। ह्रस्वत्वदीर्घत्वादिवत् द्वित्वत्रित्वादीनामपि सहावस्थानाविरोधात्। कटेऽपि चिरकालवेष्टनाहितसंस्कारसामर्थ्येनोत्पन्न संवेष्टनरूपकार्येण प्राक्प्रसरणापायसम्भवात्। सवितृकिरणसंयोगापाये मुकुलितभावलक्षणाविरोधिकार्योदयादेव कमलविकासाभावसंभवाच्च। अत एव रसस्य विभावैः कार्यकारणभावसंबन्धात् उत्पत्तिरनुभावैर्ज्ञाप्यज्ञापक भावसंबन्धात् ज्ञाप्तिः सञ्चारिभिः पौष्मपोषक(6) भावसंबन्धात् पुष्टिरिति “(7)विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरि"ति भरतसूत्र् व्याकुर्वन्तो ये भट्टलोल्लटादयः तैर्विभावादिभिरुत्पादितः प्रत्यायितश्चोपचितो रामादिगतो रसस्तदभेदभावनया नटेऽपि प्रतीयत इत्युत्पत्तिवादिनस्तेषां मतमपास्तम्। उत्पत्तिपक्षस्य दूषितत्वात्। किं च-तन्मतपर्यालोचने रसस्यानुकार्यकर्तृनिष्ठा प्रतीयते। सा च न युक्ता। अनुकार्यस्य माधवादेरतीतत्वात् लौकिकत्वेन तत्प्रतीतिर्दुःखात्मकत्वाच्च नटस्यानुकर्तुरपि अभिनयसभारञ्जन धनार्जनाद्यभिनिवेशवत्तया रसानुभावाभावात्। भावे वा तस्यापि सामाजिकान्तर्भावात्। नाप्यनुमानगम्यः। तथा हि-मालत्यादि वियोगयोग (योगवियोग?) जनित सुखदुःखपरवशमाधवादीभावानभिनयति। चित्रतुरगन्यायेन सम्यङ्‌मिथ्यासंशयसादश्यप्रत्ययवैलक्षण्येन माधवाद्यभेदभावित कोविदे बटे तत्प्रकाशितैर्विभावादिभिस्तद्दर्शनसमयसमाविर्भूतानुभूत तत्तत्स्वगतविभावाद्याहितसंस्कारवशात्, आत्मदृष्टान्तावलम्बनेन माधवः सुखदुःखातिशयपरवशस्तादृग्विभावादिकारणयोगित्वात्, यथा वयमिति प्रथमं माधवादे रसवत्तामनुमीयते नानुमीयमानेनापि लोकोत्तरस्वादुस्वभावतया वस्तुसौन्दर्यबलाच्चर्व्यमाणेनान्यानुमीयमानविलक्षणेन माधवादि निष्ठेन रसेन सामाजिकाः स्वयमपि सुख्यन्तीति अनुमितिवादिनः श्रीशङ्कुकस्य मतम्। तन्न घटते। लोकप्रसिद्धव्याप्तिप्रयोजकीभूतकारणत्वादिपरिहारेण स्थायिनं प्रति प्रत्यायकानां शास्त्रैकसमधिगम्यालौकिकस्वरूपाणां विभावादीनां लौकिककारणत्वादिनिवृत्तौ तद्व्याप्यत्वनिवृत्त्या लिङ्गत्वासिद्धेः। अत एव कृत्तिकोदये रोहिण्यासत्तिवदन्वयव्यतिरेकमहिम्ना विभावादीनां रसानुमापकत्वमिति निरस्तम्। विभावादिरूपताया लोक प्रसिद्धत्वाभावेन तद्व्याप्यताप्रयोजकान्वयव्यतिरेकानुसन्धानाभावात्। यच्चोक्तं वस्तुसौन्दर्यबलादन्यनिष्ठतया अनुमीयमानो रसः अपरोक्षतया चर्व्यमाणः सामाजिकान् सुखाकरोतीति। तदपि मन्दम्। न ह्यतिसुन्दरमपि वस्तु अन्यगतमनुमीयमानमत्यन्तपरोक्षमपरोक्षतया चर्वणीयं भवति। परोक्षत्वापरोक्षत्वयोरेकत्र विरोधात्। विभावादिप्रवृत्तिसहभावितया ततस्तस्य पूर्वं सिदध्यभावाच्च। नाप्युपमानं तत्र क्षमते। तस्य साधर्म्यवैधर्म्यमात्रविषयत्वात्। नापि शब्दगम्यः। रसस्यालौकिकत्वेन संकेतग्रहासम्भवेनाभिधायाः, मुख्यार्थबाधाद्ययोगेन लक्षणायाश्चाविषयत्वात्। ननु तात्पर्यगम्यो रस इति चेन्न। रसस्याभिधेयत्वानधिकरणत्वात्(8)। अभिहिते च तात्पर्यस्य प्रवृत्तेः(9) अभिधेयानुवाद्यसमभिव्याहारेणानुवाद्यमुपादायाभिधेयमप्राप्तं विधीयते। `लोहितोष्णीषआ ऋत्विजः प्रचरन्ती’त्यत्र प्रमाणान्तरतः प्राप्तमृत्विक्चरणमनूद्य अप्राप्तं लोहितोष्णीषत्वं विधेयम्। यथा वा (10)वधूं स पश्यन्नृजुनेव चक्षुषे’त्यत्र दर्शनसाधनत्वेन प्राप्ते चक्षुष्यप्राप्तमृजुत्वं तत्र विधीयते। एवमन्यत्रापि यावदप्राप्तमभिधेयं तावति शब्दस्यार्थे तात्पर्यं नाम व्यापारः प्रगल्भत इत्यङ्गीकारात्। किं च या तात्पर्यवृत्तिरन्विताभिधानवादिशशविषणायमानाभिहितान्वयवादिभिरङ्गीकृता सा कारकपदार्थसंसृष्टिक्रियापदार्थे क्रियाकारकपदार्थसंसर्गमात्रे वा वाक्यार्थे पर्यवस्येत्। न पुनः संवलितविभावादिभावनोदयिन्यानन्दविर्भरे(11) रसास्वादेन च काव्यशब्दाः तात्पर्यवृत्त्या विभावादिसंसर्गप्रत्यायनं कुर्वन्त एव रसादिं प्रकाशयन्तु। तदुक्तं धनिकेन “(12)तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः। यावत् कार्यं प्रसारित्वात्तात्पर्यं न तृलाधृतम्” इति वाच्यम्। काव्यशब्दैस्तात्पर्यशक्त्या युगपदेवविभावादिसंसर्गेण सह रसादिः प्रकाश्यते। गङ्गायां घोष इतिवद्विभावादिसंसर्गप्रत्यायनस्वलितया पुनः प्रकरणाद्यनुसन्धानसहया लम्बमानेन प्रकृतया वा संसर्गमात्रपर्यवसितयापि भूयः प्रादुर्भूतया वा संसर्गमात्रबोधकविलक्षणया कयाचिदन्यया वा। नाद्यः-तयोर्हेतुफलभावादङ्गीकारात्। यदाह मुनिः “(13)विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति"रिति। सह भावे सव्येतरविषाणवत् कार्यकारणभावाभावात्। न द्वितीयः-स्खलनहेतूनां मुख्यार्थबाधादीनामभावात्। न तृतीयः-विरम्यव्यापारङ्गीकारात्। अङ्गीकारेवायमेव भवत्वभिधाव्यापारः, कृतं तात्पर्यादिकल्पनप्रयासेन। न चरमः-`तुष्यतु दुर्जन’ इति न्यायेन प्रत्यायन गमनव्यञ्जनध्वननादिपर्यायमध्ये तात्पर्यमपि प्रतिशमनं ह्रयस्माकं सामान्याग्रहः। किं तु संसर्गप्रत्यायकतात्पर्यवृत्त्या रसबोधन एवेत्यलमतिप्रसङ्गेन। न च अर्थापत्तिगम्यः स(14) च `यो जीवति स कुत्राप्यवतिष्ठते। जीवति च अत्र गोष्ठ्यामविद्यमानचैत्र’ इतिवत्पूर्वार्धछायामुपजीव्यैव प्रवर्तते। न हि रसो विभावादिप्रवृत्तेः पूर्वं गम्यः। नाप्यनुपलब्धिगम्यः। तस्या अभावमात्रप्रत्यायकत्वात् इति। केचिदाहुः-वासनाख्यसंस्कारजन्यत्वाद्रसादिधीस्मृतेरेवेति। तन्न-संस्कारजन्यत्वेऽपि प्रत्यभिज्ञानप्रत्यक्षवत् स्मृतित्वाभावात्। संस्काराधानद्वारा पूर्वानुभवस्य कारणत्वेन वस्तुतो रसे तस्याभावाच्च। विभावादिगस्यैवानुभवे स्वरसगतत्वेन उपचर्यमाणत्वात्। अत्र भट्टनायकः-न ज्ञाप्यो रसः सिद्धस्य तस्याभावेनाप्रयत्वात्(नाप्रतीतत्वात्?)। अबाध्यत्वेनाभ्रमविषयत्वात्। अत एव न व्यङ्ग्यः। तस्य ज्ञेयविषयत्वात्(15)। नाप्यनुकार्यः। अनुकार्येऽप्यतीत्वेनाधुना रसभावनाया अभावात्। नानुकर्तरि नटीसभारञ्जनाद्यभिनिवेशवत्तया रसोत्पत्तेः तत्रासंभवात्। अत एव न कवितरि भावुके तु किं रत्याद्युत्पत्तेः सीतादिविषया स्वकान्ताविषया वा? सर्वस्त्रीविषया वा? आहोस्विन्निर्विषया वा? न तावदाद्यतृतीयौ। तस्य पातकित्वापत्तेः। न द्वितीयः-मध्ये स्वकान्तायाः नियमेनासंवेदनात्। यत्यादिष्वभावप्रसङ्गाच्च। नापि तुर्यः रत्यादेर्निर्विषयताया अनभ्युपगमादिति पक्षत्रयं दूषयित्वा काव्यशब्दव्यापारसहायेन साधरणीकृतविभावादिकेन (16)भावकव्यापारेण नटादिगतत्वपरिहारे साधारणतया अनुसन्धीयमानः स्थायी सत्त्वोद्रेक प्रकाशानन्दविस्मयेन भोगापरनाम्ना भावनाख्य व्यापारेण भुज्यत इति भोज्यो रसादिस्तत्र काव्यस्य भोगकृत्वं(17) व्यापार इति प्रतिपादितवान्। यदुक्तम्-

“व्यापारौ काव्यशब्दस्य कथितावधिकाविमौ।

तत्रैको भावकः प्रोक्तो द्वितीयो भावकृत्तथा॥

सीतादिकविभावादेर्नास्ति यत्रापि संभवः।

अभवद्भावना तत्र साधारण्योपपादनम्॥

इदं काव्यार्थसंदर्भ नाट्याभिनययोगतः।

वैचित्र्येण स सामग्य्राः पदार्थानां विचित्रता॥

निशाकरकरस्पर्शाच्चन्द्रकान्ते यथा द्रवः।

एवं कारणवैशिष्ट्यात्काव्ये साधरणीकृतिः॥

भावकत्वं बुधैर्युक्तमिति धारणात्मकम्।

साधारणैर्विभावाद्यैः स्थायी यद्विषयीकृतः॥

चर्व्यमाणः सहृदयैर्भोगकृत्कथितो बुधैः।

भोगश्चैषपरानन्दो ब्रह्मास्वाद सहोदरः॥

तस्माद्भोग्यो रसैः कैश्चिदुच्यते काव्यकोविदैः॥”

तत्र भुज्यत इत्यनेन भुजिधातुना रसविषयोऽभ्यवहाररूपः कश्चित् (18)क्रियाविशेषरूपो वा विवक्षितः, किंस्विदवगमविशेषो वा। नोभयमपि संभवति। अनुपलम्भवाधितत्वात्। न हि विभावाद्यनुसन्धानसमनन्तरभावि संविद्व्यतिरेकेण रसविषयः क्रियाविशेषो वा,(19) संविद्विशेषो वा कश्चिदुपलभ्यते। प्राथमिकसंविदैव रसव्यवहारोपपत्तौ तदतिरिक्तकल्पने गौरवाच्च। तथा च भोग्यत्वमानन्दनिर्भरस्वप्रकाशात्मकत्वमेव निर्वाच्यम्। जडत्वे अप्रामाणिकत्वप्रसङ्गात्। तदुक्तं लोचनकृता-"(20)अप्रतीतं हि पिशाचवदव्यहार्यं स्यादिति। ओदनं पचतीतिवत् रसाः (21)प्रतीयन्त इति व्यवहार इति वा नोभयथाप्यस्माकमविरोधाद्भूयसी क्षति"रिति। तस्माछ्श्रीमदभिनवगुप्ताचार्यपादैरभिव्यक्तिपक्ष एव सिद्धान्तितः स एव सकलपरीक्षकमनोरञ्जक इति तत्संप्रदायलोभेन तं पक्षमवलम्ब्य रसो निरूप्यते-लोक प्रसिद्धैः प्रमदादिभिरालम्बनकारणैरुत्पादितश्चन्द्रमलयानिलकोकिलालापकेलीकाननादिभिरुद्दीपनकारणैः संवर्धितः कान्ताकटाक्षभुजवेल्लनादिभिः कार्यैः प्रतीतिपदावीमानीतो निर्वेदादिभिः सहकारिभिः पल्लवितोऽयमस्यां रतिमान् तदुचितकारणयोगित्वात्। य एवं स एवं यथा वयमिति रत्याद्यनुमानाभ्यासपाटववतां श्रोत्रियादि व्यतिरिक्तानां काव्ये गुणालङ्कारमहिम्ना नाट्ये तु चतुर्विधाभिनयमहिम्ना च तैरेव कारणत्वादिरूपपरिहारेणालौकिकविभावनारूपव्यापारवशेनालौकिकविभावादिपदवाच्यैर्ममैवेते शत्रोरेवैते तटस्थश्यैवेते न (22)न ममैवेते शत्रोरेवैते न तटस्थस्यैवेत इति संबन्धिविशेषस्वीकारपरिहारनियमानवसाया(23)त्साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितो रत्यादिस्थायी नियतप्रमातृगतोऽपि वर्णनीयकवित्वभावकभेदानध्यवसायात्तत्कालविगलितिपरिमितप्रमातृभावेन तत्कालमुषितवेद्यान्तरसंपर्केण प्रमात्रा स्वाकार इवाभिन्नतया स्वादनैकप्रमाणो राग(गा?)द्यं शशबलित ब्रह्मास्वादसोदरस्वप्रकाशानन्दचमत्कारो रस इत्युच्यते। तदुक्तम्-

“कारणादितया लोके विखअयातैः(24) प्रमदादिभिः।

काव्ये नाट्ये च तैरेव विभावादिपदाभिधैः॥

अभिधात्रानुर्त्रा वा शब्देनाभिनयेन वा।

प्रकाश्यमानैः सभअयानां परामर्शवशं गतैः॥

विभावनादि रूपादि शक्तिमत्वादलौकिकैः।

ममैव न ममैवेत्याद्यसाधारणतां विना॥

सर्वसाधारणत्वेन प्रतीतैस्तैरतिद्रुतम्।

व्यक्तो रत्यादिकः स्थायी वासनात्मतया स्थितः॥

साधरणोपायबलात् साधरण्येन धीमताम्।

अशेषसभ्यसंघातहृत्संघातवशं गतः॥

स्रंसमानान्यवेद्यश्च चर्व्यमाणः स्वतेजसा।

विभावादिपरामर्शसमयावधिजीवितः॥

लोकोत्तरचमत्कारसारः पुर इव स्फुरन्।

रोमाञ्चकञ्चुकं मुञ्चन्नानन्दाश्रुतरङ्गयन्॥

सकलाङ्गमिवालिङ्गन् सुधाभिः स्नापयन्निव।

(25)रसः स कथितो धीरैर्ब्रह्मास्वादसहोदरः॥ इति।

रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते।” इति।

देशानाविष्टत्वात्मककाठिन्यबाह्यविषयपरित्यागरूपः कश्चिदान्तरो धर्मः सत्त्वम्। तदाविर्भावादात्ममात्रविश्रान्तेन प्रमात्रा अखण्डबुद्धिना ग्रह्यः काव्यार्थ इति न्यायेन समूहालम्बननिर्विकल्पकरूपसाधारण्याभिमानेन परमात्माद्वैतज्ञानवदात्मानन्दनिर्भरस्वप्रकाशचिन्मयो रसशिखरिणी पानकरस धूपकुलकामोदमदनोत्सवप्रसक्त प्रचुरतरनागरिक कलगीतिकाकाली(26) कोलाहल न्यायेन आस्वाद्यते। तत्र रसास्वादे नन्दीशबाभ्रव्यवात्स्यायनादि प्रतिपादितान्तरङ्गनिलयोरङ्ग रत्यादि वासनाया हेतुत्वम्। अन्यथा (27)मीमांसकश्रेत्रियब्रह्मचार्यादीनामपि रसास्वादः स्यात्। न चेष्टापत्तिः। `षण्डसंभोग’न्यायेनाभिमानमात्रम्, न पुनः काव्याङ्गोपाङ्गानभिज्ञेषु तेषु पारमार्थिरसास्वादचमत्कारः। अव्युत्पत्त्यसमग्रव्युत्पत्तिसमग्रव्युत्पत्तिदशास्वादविशेषाणां स्वानुभवसिद्धत्वात्। तदुक्तं धर्मदत्तेन-

“(28)सवासनानां सभ्यानां सरसास्वादनं भवेत्।

निर्वासनास्तु रङ्गान्तः काष्ठकुड्यादि संनिभाः॥” इति।

न च श्रोत्रियादिषु काव्यपरिशीलनाभावप्रयुक्त एवास्वादप्रकर्षाभावो न तु रत्यादिवासनाभावप्रयुक्ता इति वाच्यम्। रामायणभारतादि काव्यं सदा सेवमानानामपि पौराणिकानामास्वादप्रकर्षोदया भावात्। तस्मात् प्रवहदनादिवासनापरम्परापरिशीलितकाव्यामृतरसास्वादवासनावासितान्तः करणानामेव रसास्वाद इति सिद्धम्। तदुक्तम्-

“वासनानादिकालीना लीना हृदि सचेतसाम्।

स्वसामाग्रीं समासाद्य व्यक्ता सैति रसात्मताम्॥” इति।

न च अनादिर्वासनैव हेतुः कृतमर्वाचीनेनैवावान्तरेणेति वाच्यम्। न हयनादौ संसारे अस्यैव काव्यपरिशीलनामस्य नास्तीति ज्ञानुमशक्यतया तदुद्बोधायार्वाचीनान्वयव्यतिरेकदृष्टसामर्थ्यकाव्याङ्गोपाङ्गोपासनाङ्गविद्यानैपुणरागादिदादर्यदयो(29) हेतवोऽवश्यमुपास्याः। आस्वादश्च काव्यार्थसंभेदादात्मनन्दसमुद्रेकः। तदुक्तम्-

“(30)स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः।

विकासविस्तरक्षोभविक्षेपैः स चतुर्विधः॥” इति।

प्रमातृसाधारण्यं ममायं न ममायं इत्यादि संबन्धे स्वीकारपरिहारयोरपरिच्छेदेन वर्णनीयकवयितृ भावकभेदानध्यवसायः। तेन विभावादयोऽपि साधारण्येन प्रतीयन्ते। नाट्ये सम्यङ्मिथ्यासंशयसादृश्यप्रत्ययविलक्षणेन `चित्रतुरगादि’न्यायेन रामोऽयमिति प्रत्ययेन(31) नटस्य प्रतीतेः। काव्येऽपि ममामी न ममामीति संबन्धस्वीकारपरिहारपरिचेछेदाभावात्। तदुक्तं धनिकेन-"(32)तत्र सीतादि शब्दाः परित्यक्तजनकतनयात्वादि विशेषाः स्त्रीमात्रवाचकाः किमनिष्टं कुर्युः। तर्हि ते किमर्थमुपदीयन्त इति चेदुट्यते”-

“क्रीडतां मृण्मयैर्यद्वद्बालानां द्विरदादिभिः।

स्वोत्साहः स्वदते तद्विच्छेतॄणामर्जुनादिभिः॥” इति।

“याम्यसंभवनी लोके समुद्रोल्लंघनादिका।

कृतिःसापि न दोषाय साधारण्यप्रभावतः॥

साधारणकृतिर्नाम लोकातिक्रान्तगोचरः।

व्यापारोऽस्ति विभावादेस्तल्लोकोत्तरता मता॥

तेन रत्यादिकस्थायी साधारण्येन गृह्यते।

विप्रकर्षोऽपि कालादेस्तन्न दोषाय जायते॥

साधारण्यात्प्रमातुस्तदविधअयुल्लङ्घनादिकः।

असंभाव्यतया दोषानसभ्येषूपपद्यते॥

वस्तुतो यस्य संभूताः पादोदधिप्लवनादयः।

तदभेदेन यत्सद्यः स्वात्मानं प्रतिपद्यत॥” इति।

तदुक्तं काव्यप्रकाशकृतापि “(33)नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात्तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्क शून्यापरिमितभावेन प्रमात्रा सकलसहृदयहृदय(34)संवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि (35)गोचरीकृतश्चर्व्यमाणतैकप्राण” इति अनुभवैक रस इत्यर्थः। ब्रह्मानन्दसहोदर इत्यनेन ब्रह्मानन्दरूपत्वमुक्तम्। `रसो वै स’ इति श्रुतेः। अत एवानुभवाभिन्नतया स्वप्रकाशमानत्वात्साधारणतया प्रतीयमानत्वाच्च। प्रतिनियतप्रमातृनिष्ठतया प्रतीयमानस्य कारणजन्यलौकिकसुखविलक्षणत्वेनाखण्डचिदानन्दस्वरूपस्य रसस्यालौकिकत्वमुक्तं भवति। यथा योगिनां नित्यसिद्धोऽपि ब्रह्मानन्दो विजातीयैरतिरस्कृतात्मनि धारावाहिनि सजातियविज्ञानसन्तानेस्वयमेव प्रकाशते तथा शाखापि नित्यसिद्धा आत्मानन्दस्य रूपः काव्यानुसन्धानचतुरचेतसां व्यञ्जकव्यापारसत्कृतान्तः कारणवृत्तिनिरस्तावरणतया विगलितवेद्यान्तरत्वेन स्वयमेव भासते। न च लौकिकसुखमेवंविधमित्यलौकिकत्वसिद्धिः। न च रसः कथं स्वप्रकाशः? न हि तेनैव तत्प्रकाशनं शक्यमिति वाच्यम्। आत्मभूतसुखांशप्रकाशतया ज्ञानाकारावलम्बिनश्चिदंश प्रकाशने (36)कुण्ठीभावाभावात्। ज्ञानस्य स्वप्रकाशकत्वं वेदान्तिवैनायकमतसिद्धतया तैरेव व्यवस्थाप्यमिति ग्रन्थगौरवभिया नात्र व्यवस्थाप्यते। न चानुभवस्य न सुखरूपत्वम्। सुखस्य (37)प्रकाशभिन्नत्वे कार्यत्वं स्यात्। ततश्च तदनुभवस्य स्वसंवेदनसाक्षिकं समूहालम्बनत्वं न स्यात्। न हि कामिन्यादि परिशीलनाज्जायमानं सुखं कारणसामग्रीसाहित्येनैकस्यां संविद्यवभासते। न च समूहालम्बनमेव नास्ति विशकलितान्येव विभावादि रत्यादि सुखज्ञानानि शाखाचन्द्रबुद्धिवदाशुभाववशेनैकत्वभ्रान्त्या(38) प्रतिसन्धीयन्त इति वाच्यम्। एकत्वप्रतिसन्धानभ्रमे(39) प्रतिसन्धीयमानानि विज्ञानानि तद्विषयाश्चावभासन्त इत्यङ्गीकार्यम्। तथा च विभावादि रत्यादिसुखज्ञानानि तद्विषयांश्चावभासयतो ज्ञानस्यैकस्य सिद्धौ तदयथार्थं यथार्थं वेति विश्रामकाष्ठामवलम्बमानस्य विवादस्यापि (40)बाधकाभावेन तत्प्रामाण्यसिद्धौ निरास इति समूहालम्बनसिद्धेः। ननु भवतु समूहालम्बनम्। तस्य सुखं विषयः न तु स्वरूपमिति वाच्यम्। विशकलितविभावादि (41)भागज्ञानानन्तरं वा (42)सुखोत्पत्तिः सर्वसमूहालम्बनानन्तरं वा। (43)न तावदाद्यः-विशकलित विभावादिभागज्ञानानन्तरोत्पन्नसुखादि विषयकसमूहालम्बनविज्ञानस्य सुखांशे अपरोक्षानुभवत्वम्। विषयसंनिधानाभावाद्विभावादिभागांशे परोक्षमित(ति?)महद्वैरूप्यं स्यात्। न द्वितीयः-सुखस्य समूहालम्बनविषयता न स्यात्। न च सुखोत्पत्त्यनन्तरमपि पुनस्तद्विषयकं समूहालम्बनमिति वाच्यम्। सुखोत्पत्तिप्रकाशान्तरिताया विभावादि भावनाया विच्छिन्नत्वात्। अनास्वाद्यस्य प्रथमसमूहालम्बनस्याननुभावाच्च। न च समूहालम्बनात्पूर्वमेव सुखोत्पत्तिः तदनन्तरं तद्विषयक समूहालम्बनम्। रसस्यालौकिकत्वादेव विज्ञानवैरूप्यविरोधोऽपि नेति वाच्यम्। सुखोत्पत्तिप्रकारान्तरितत्वेन विभावादिवासनानां विच्छेदात्, समूहालम्बनस्यानुभवसिद्धत्वाच्च। लौकिकसुखादिविशेषप्रसङ्गाच्च। मत्पुनरुक्तं धर्मदत्तेन-

“भावितत्वविभावादि शब्देनाभिनयेन वा।

उत्पद्यते परामर्शात्सुखमात्रं सचेतसाम्॥

तदेव रसतां याति चमत्काराङ्गतां गतम्।

शृंगारादि विभावादिवशादेव विशेषभाक्॥

न तु रत्यादिस्थायी शृंगारादौ रसौ रसः॥” इति॥

तदप्यनेन पराकृतम्। सुखोत्पत्तेर्दूषितत्वात् आस्वाददशायां रत्याद्याकारसंबन्धस्यानुभूयमानत्वात्। आस्वादपरार्थानुगुणतया रत्यादिवासनादादर्योपपादनस्यवैयर्थ्यापत्तेश्च। यदुक्तं चमत्काराङ्गतां गतमिति तत्र चमत्कारः किं भोगापरपर्यायः, साक्षात्कारमात्रं वा, रत्याद्यंशशबलितचित्तविस्तारमयघनानन्दात्मक स्वप्रकाशो वा। न तावदाद्यः-लौकिकदशापन्न सुखनिर्विशेषतापत्यालौकिकत्वाभावप्रसङ्गात्। द्वितीये तु-सर्वात्मनास्मन्मतसमाश्रयणेन स्वप्रकाशानुभवाभिन्नसुखस्य जन्यत्वासम्भवात्। तस्माद्रसो न कार्यः। नापि ज्ञाप्यः। ज्ञानाबहिर्भावात्। न हि ज्ञाप्यकार्यबहिर्भावो विरुद्ध इति वाच्यम्। अलौकिकत्वादेव विरोधगन्धस्यास्फुरणात्। न चोत्पतिज्ञप्त्यनुपयोगिनो विभावादेः कुत्र हेतुत्वमिति वाच्यम्। वेदान्तानां ब्रह्मण्यावरणभञ्जन इव विभावादिनां चर्वणमात्र एवोपयोगस्य अङ्गीकारात्। विभावादिगत व्यञ्जनव्यापाराख्यालौकिकसहायलब्धसामर्थान्तः करणवृत्तिनिरस्तसमस्तावरणस्य लोकोत्तरचमत्कारकारिणो रसव्यपदेशस्यात्मानन्दसारस्य सकललोकिकप्रमाणनिरपेक्षस्वयंप्रकाशतविगलितवेद्यान्तरस्फुरणविशेषस्वादनापरपर्यायश्चर्वणं तन्मात्रोपयोगाद्धेतुता निर्वाहः। तदा तेषां व्यञ्जकत्वं व्यङ्ग्यत्वं रसस्येति चर्वणनिष्पत्त्या तन्निष्पत्तिरुपचर्यत इति कार्य इत्युच्यते। सर्वमलौकिकं, स व विभावादिपरामर्श विषयत्वात्, संस्काराधायकत्वाच्च। न निर्विकल्पकः। स्वप्रकाशानन्दचमत्कारावलम्ब्यमानानां विभावादि (44)भावानामभिलापसंसर्गयोग्यत्वाभावादनुभयात्मनश्च व्यवहारेषूभयात्मकत्वं न विरुध्यते। अलौकिकत्वात्। स्वसंवेदसिद्धोऽयमानन्दसाक्षात्कारः शब्दान्वयव्यतिरेकानुविधायीति प्रत्यक्षपरोक्षोभयात्मकताऽप्यलौकिकत्वादेव समाधेया। तथा चोक्तम्-

“यो लौकिकोऽप्यतिजनकारकसिद्धोऽप्यकार्यश्च।

स विकल्पोऽप्यविकल्पो रसः केनोपमीयते॥”

तस्माद्विभावादि संभिन्न स्वप्रकाशानन्दसाक्षात्कारो रस इति सिद्धम्।

केचित्तु-रामादि संभिन्नानन्दसाक्षात्कारानन्तरं प्रशान्तनिखिलप्रपञ्चचिदानन्दमय ब्रह्मतत्त्वाभिव्यक्तेः सुषुप्तिदशावत्समाधिवच्चेचछन्ति। यथाहुः-

“पाठ्याददथवा गानात्ततः संपूरिते रसे।

तदास्वादभरैकाग्रो हृष्यत्यन्तर्मुखेक्षणः॥

अतो निर्विषयस्यास्य स्वरूपावस्थितो निजः।

व्यज्यते ह्लादनिष्यन्दो येन तृष्यन्ति योगिनः॥

निरतिशयसुखास्वादलक्षणत्वादेक एव रसः न तु विशेषाः सन्तीति केचिन्मेनिरे। तन्न संभवति। प्रतिनियतानां विभावादीनां रसव्यञ्जकानां भेदस्य प्रत्यक्षसिद्धतया रसभेदस्य दुरपह्नवत्वात्। न च भावादीनां रसव्यञ्जकत्वं किमिति कल्पनीयं रसपदेन वा तद्विशेषवाचिना शृङ्गारादिपदेन वा रसोऽभिधीयतामिति वाच्यम्। बहुशस्तदुभयपदप्रयोगेऽपि काव्यार्थाननुसन्धातॄणां रसप्रादुर्भावाभावात्तदुभयकदा(था?)प्रयोगेऽपि विभावादिप्रतिपादने रसस्याभिव्यज्यमानत्वादन्वयव्यतिरेकाभ्यां विभावादिमात्रपर्यवसायेन तद्व्यङ्ग्यत्वं रसस्य सकलसहृदयैक संमतमिति स एव पक्षोऽङ्गीक्रियते। न च शृङ्गारादि पदानां निरर्थकता स्यादिति वाच्यम्। न हि वयं घटादिशब्दवत् सङ्केतबलादर्थबोधकत्वं निषेधामः। किं तु काव्यार्थानुसन्धान समनन्तरभाविनि ब्रह्मानन्दसब्रह्मचारिणी नित्यापरोक्षात्मानन्दप्रकाशात्मिका प्रतीतिरभिधावृत्तिनियमिता नेति निषेधाम इति संतोष्टव्यम्। विभावादिव्यङ्ग्यतया क्रमस्य विद्यमानत्वेऽपि रसास्वादातिशयमहिम्ना क्रमस्यासंलक्ष्यमाणत्वात् असंलक्ष्यक्रमो रस इत्युच्यत इति सर्वं रमणीयम्। ते च शृङ्गारादयो रसा नवैव। तदुक्तम्-

“(45)शृङ्गारहास्यकरुणवीररौद्रभयानकाः।

बीभत्साद्भुतशान्ताख्याश्च (46)नवाचार्यैः स्मृता रसाः॥” इति।

अत्र केचित् निरतिशयसुखास्वादलक्षणत्वात् शृङ्गार एव रसः करुणादयस्तु दुःखातिभूमिमया न रस्यन्त इत्यरसाः। तथा चाश्रुपातादयस्तत्प्रेक्षकाणां दृश्यन्त इति। यदाह धर्मदत्तः-

“(47)वैरिवीरशिरोरत्नराजिनीराजिताजिरः।

मालवाखण्डलस्त्वेतदाह भोजमहीपतिः॥

तात्पर्यमेव वचसि ध्वनिरेव काव्ये।

सोभाग्यमेव गुणसंपदि वल्लभस्य।

लावण्यमेव वपुषि स्वदतेऽङ्गनानाम्॥

शृङ्गार एव हृदि मानवतो जनस्य॥

शृङ्गारवीरकरुणाद्भुतहास्यरौद्रबीभत्सवत्सलभयानक शान्तनाम्नः।

(48)आम्नासिषुर्दश रसान् सुधियो वयं तु शृङ्गारमेव रसनाद्रसमामनाम॥

सान्द्रानन्दमयत्वेन रसः शृङ्गार एव तत्।

स्पष्टमृष्टातिदुःखत्वात्करुणादिः कुतो रसः॥” इति तदयुक्तम्। भोजदेवाभिमतमध्यमपद्यद्वयं शृङ्गार एव सर्वप्राणिनामनुभवविषयत्वेन सान्द्रानन्दमयत्वेन च रसानां मूर्धाबिषिक्तो मुनीनामपि विहितचमत्कार इति स्तुतिपरं, नत्वितरनिषेधपरम्। करुणेऽप्यानन्दसंभेदस्य स्वानुभवसाक्षिकस्यापलापानर्हत्वात्। यदुक्तम्भिनवगुप्ताचार्यसंप्रदायवेदिभिः-

“तथा च सति कारुणयकैवल्यकबलीकृताः।

तच्छिद्येरन् प्रबन्धास्ते ये श्रीरामायणादयः॥

तस्मादस्त्येव संभिन्न सुखं सामाजिके जने।

अश्रुपातादिकस्तत्र द्रुतत्वाच्चेतसो(49) भवेत्॥” इति।

तस्मात्करुणे शोकस्थायिन्यपि संमिश्रसुखविशेषो नखक्षतदशनखण्डनकेशाकर्षणस्तनमर्दनादिषु संभोगाङ्गेष्विव भावकचेतसि काव्यनिबद्धविभावादिमहम्ना वेद्यान्तरन्यक्कारेण निरतिशयचेतः पारवश्यलक्षणः कश्चिदाविर्भवतीति करुणस्यापि रसत्वमङ्गीकार्यम्। एवं क्रोधादिकस्थायिनोऽपि रौद्रा रसा अङ्गीकार्या इति।

ननु- न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छो।

रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रयाणः॥

इत्येवं रूपस्य शान्तस्यात्मस्वरूपप्राप्तिलक्षणायां मोक्षावस्थायामेव प्रादुर्भूतत्वेन तत्र संचार्यादीनामभावात् कथं रसत्वमिति चेन्न। शमस्यैव रसप्रकृतिभूतस्थायित्वाङ्गीकारात्। न यत्र दुःखं न सुखमिति वैषयिकसुखनिषेधपरत्वात् शान्तोऽपि निखिलविषयपरिहारजनितात्ममात्रविश्रामानन्दप्रादुर्भावसंभवात्। यथा भोजनादिजनित तृप्तियोगे समस्तेच्छाजनित परिहारदशायां परितोषातिशयः। तथाप्यानन्दस्यानुभवसिद्धत्वात्। तथा चोक्तम्-

“(50)यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।

तृष्णाक्षयसुखस्यैव नार्हतः षोडशीं कलाम्॥” इति।

निर्वेदादीनां सञ्चारिणां संभवाच्च। केचित्तस्य निर्वेदस्थायीति वदन्ति। तन्न। तस्य विषयेष्वलंप्रत्ययमात्ररूपत्वाद्वा युज्यते। केचित्तु वत्सलस्नेहभक्तीनामपि रसत्वमिच्छन्ति। (51)तदविचारचारु। कामिनीविषया रतिर्विभावादिसमुल्लासिता सती शृङ्गाररसत्वमापद्यते। (52)सैव देवतागुरुपुत्रादिविषया चेद्भावपदवाच्या भवति। तथा च वत्सलस्नेहभक्तीनां रतिभावान्तर्भूतानां विषयभेदमात्राद्भेदव्यपदेशान्नवरसभूमिकान्यायेन रस नवत्वविघटनपदुतेति। तदुक्तं काव्यप्रकाशिकाकारेण-"(53)रतिर्देवादिविषया व्यभिचारी तथाञ्चितः। भावः प्रोक्तः” इति। तस्मान्नवैव रसा इति सिद्धम्॥ तदुक्तम्-

“(54)रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा।

जुगुप्साविस्मयशमाः स्थायी भावा नवेरिताः॥” इति।

अत्र शृङ्गारस्य रतिः स्थायी भावः। रतिर्नाम संभोगविषयेच्छाविशेषः। सैव विभावादिः स्वादुतां नीतः शृङ्गार इत्युच्यते। शृङ्गं प्राधान्यमियर्तीति(ऋच्छती?)शृङ्गारः। ध्वनिकारेण तस्य प्राधान्यमभ्यधायि।

“(55)शृङ्गार एव मधुरः परः प्रह्लादको रसः।

यन्मयं काव्यमश्रित्य माधुर्यं प्रतितिष्ठति॥”

तत्रैवकारेम प्राधान्यमभिप्रेतमिति लोचनकारः। शृङ्गारस्तावत्-

रम्यदेशकलाकालवेषभोगादिसेवनैः।

प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः॥ 79 ॥

प्रकृष्यमाणः शृङ्गारो मथुराङ्गविचेष्टितैः।

उत्तमप्रकृतिप्रायः सः स्त्रीपुरुषेतुकः॥ 80 ॥

संभोगो विप्रयोगश्च शृङ्गारः कथितो द्विधा।

शृङ्गारः श्यामवर्णोऽयं कथितो विष्णुदेवतः॥ 81 ॥

अनुरक्तौ निषेवेते यत्रान्योन्यं विलोकितौ।

दर्शनस्पर्शनादीनि संभोगोऽयमुदाहृतः॥ 82 ॥

रमयेच्चादुकृत् कान्तो जलक्रीडादिभिः (56)प्रियाम्।

न ग्राम्यमाचरेत् किञ्चिन्मर्मतः सूचकं न वा॥ 83 ॥

दर्शनं सन्निधानं च सततयास्वावगाहनम्।

चुम्बनाधरपानं च समाश्लेषो रतेः पुरः॥ 84 ॥

स च संभोगः सप्तावस्थः॥

प्रेमाभिलाषो रागश्च स्नेहः प्रेम रतिस्तथा।

शृङ्गारश्चेति संभोगः सप्तावस्थः कीर्तितः॥ 85 ॥

विवृतं चैतद्रसाकरे-

“प्रेमादि दृक्षा रम्येषु तच्चिन्ता त्वभिलाषुकः।

रागस्तत्सङ्गबुद्धिः स्यात् स्नेहस्तत्प्रवणक्रिया॥

तद्वियोगासहं प्रेमरतिस्तत्सहवर्तनम्।

शृङ्गारस्तन्मयक्रीडाः संभोगः सप्त धा क्रमः॥” इति।

स द्विविधः-संक्षिप्तो विस्तृतश्चेति।

युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः।

उपचारान्निषेवन्ते स संक्षिप्त इतीरितः। 85 ॥

स च त्रिविधः। नवीनविरहमानानन्तरजत्वभेदात्। विस्तृतोऽपि त्रिविधः। मध्यप्रवासशापानन्तरजत्वभेदात्। तत्र नवीने, रतेः लज्जासाध्वससंभवेन, विरहानन्तरभाविनि प्रणयचित्ततया, मानानन्तरभाविनि प्रणयेर्ष्यामानानुवृत्त्या च कामशास्त्रप्रतिपादितसंभोगोपचाराणां संक्षेपात् संक्षिप्तः। तदतिरिक्तेषु मध्यमभाविषु संभोगेषु प्रवासशापानन्तरभाविनोस्तु तद्विस्ताराद्विस्तृत इति। नवीनः सम्भोगो यथा-

सखीप्रयतनैः शनैः स्मरकृतत्वरा विप्रियां निजान्तिकमुपागतां पदुचदूक्तिभिर्लालयन्।

स्पृहारतविमान्तराभरण भावमानीय तां वधूं प्रथमसंगमे प्रमदयत्यलं वल्लभः॥ 134 ॥

यथा वा-

रहसि स्ववशीकृतां सखीभिश्चदुवाचाभिमुखीं विधाय भूयः।

स्मरशास्त्ररहस्यमाशु बालां चतुरोऽध्यापयतिस्म सानुरागः॥ 135 ॥

विरहान्तरजो यथा-

स(57)अमदिकुमि अपि ए हणुमन्तपहुम्मि आ अअम्मिरहो।

सररह(58) सा उवहूकुण इत (59)आकिंप चेठि(60) अं बाला॥ 135 ॥

मानान्तरजो यथा-

राधे कान्ते प्रियराहचरे कल्पितमृषापन च ब्रूते(61) किंचिदहसि न समाश्लिष्यति वधूः स्मरायत्तस्वान्ता(62) तदपि तु(63) वैमुख्यमयते॥ 137 ॥

अथ विस्तृतः-

नवीनपिरहमानान्तरजेभ्योऽन्योऽनन्तरभावी मध्यजः।

यथा-

आगत्य केलिशयनं समुदीक्ष्य रागादाश्लिष्य गाढमनुचुम्ब्य मुखारविन्दम्।

आस्वादयन्त्यधरमङ्गजकेलिलोला लीलावती मदयते हनुमत्प्रधानम्॥ 138 ॥

सर्वोपचारसंपन्नत्वादयं विस्तृतः संभोगः। अयमेव प्रवासानन्तरं वर्ण्यमानः प्रवासज इत्युच्यते। शापानन्तरजस्त्वन्यत्र द्रष्टव्यः। द्विविधस्यापि संभोगस्य वात्स्यायनीयादौ द्वैविध्यमुक्तम्।

“बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते।

तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम्॥

द्वितीयं तु रतं साक्षान्नानाकरणकं मतम्।”

करणानि धेनुकबन्धादीनि। तानि कामशास्त्रप्रसिद्धानीति नात्रोच्यन्ते। परस्परदर्शनप्रेमदूतीप्रेषणवनविहारजलक्रीडामधुपानकेलीद्यूतकाव्यकथासमास्यचुम्बनालिङ्गनादि(64) भेदादनन्तभेदः संभोग इति।

अथ विप्रलंभः शृङ्गारः।

परस्परं गुमशृत्या स्वाप्नजाद्वा समागमात्॥ 87 ॥

साक्षाद्दर्शनयोगाद्वा सम्भोगानुभवेन वा।

दीर्घानुरक्तयोर्यूनोरसमागमहेतुतः॥ 88 ॥

भावो रतिर्यथा नामप्रकर्षमधिगच्छति।

नाधिगच्छति चाभिष्टं विप्रलम्भस्तथोच्यते॥ 89 ॥

न च विप्रलम्भस्य करुणात् कथं भेदः, निर्वेदग्लानिदैन्यानां(65) भावानामुभयत्र साधारण्यादिति वाच्यम्। कालान्तरभाविसंभोगापेक्षतदभावाभ्यामुभयभेदस्य स्फुटत्वादिति। स चाभिलाषविरहप्रणयमानेर्ष्यामानप्रवासहेतुकतया पञ्चविधः। तत्र अभिलाषोऽनुरागेऽपि नवयोरेकचित्तयोः पारतन्त्र्येण दैवाद्वा विप्रकर्षादसंगमः। असंगमो नाम संगमप्रादुर्भावः। तत्र रतिर्दशावस्थाप्राचुर्येण क्रमादुपचीयते।

दशावस्थास्तु दृङ्मनः सङ्गसंकल्पो जागरः कृशतारतिः।

हीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दशेति॥ 90 ॥

तासां क्रमेणोदाहरणानि।

दृक्संगो नाम स स्याद्यदादरेण निरीक्षणम्।

यथा-

मन्दोन्मेषनिमीलन व्यतिकरेदञ्चद्विलासेक्षणान्यन्तर्गुम्फित नीलमौक्तिकसराकाराणि सा सुन्दरी।

द्वित्राणि प्रसरन् मनोभवजयाभोगानि रागान्थितस्वान्ता स्वा(?) हनुमत्प्रधानमभितः स्वैरं किरत्यादरात्॥ 139 ॥

मनःसंगः प्रियतमे (66)नित्यचित्तस्य विभ्रम-॥ 91 ॥

यथा-

यदा राजमार्गसमारुह्य नागमुदैक्षिष्ट यान्तं हनुमत्प्रभुं सा।

तदारभ्य कृत्येषु सत्यं निकुर्वत्यलं चित्तमस्यास्तदायत्तमेव॥ 140 ॥

संकल्पो नाथविषयमनोरथ उदाहृतः।

यथा-

सखी मम गृहोत्सवोदयपराङ्मुखी सन्ततं कदा तव दृशां सदा लहरिवीचि (67)भङ्गस्पृहाम्।

भवेयमिति चिन्तया पदमवेक्ष्यमाणान्तया युगानि हनुमत्प्रभो गमयते युगानीव सा॥ 141 ॥

जागरो वीतनिद्रत्वं नायकासक्तचेतसा(68)॥ 92 ॥

यथा-

बिम्बादभिन्नमनुबिम्बमिति (69)ब्रुवन्तः सत्योक्तयस्तव विभो मुखचन्द्रबिम्बम्।

तस्या मनोमुकुरबिम्बितमन्वहं यन्निद्रातमांसि नयनोत्पलयोर्निहन्ति॥ 142 ॥

कार्श्यं सादस्तनोर्यस्या नाथसंभोगचिन्तया।

यथा-

धत्ते श्रीहनुमत्प्रधानतिलक त्वद्विप्रयोगोऽधुना सख्या मे बत चित्रशिल्पमतनोर्मायासहायोदयात्।

पाणौ यत् कनकाङ्गुलीयकमभूत्संधाय तत्कङ्कणं बाहावङ्गदमद्य तद्वितनुते पादे शनैर्नूपुरम्॥ 143 ॥

यथा वा-

सख्या मे हनुमत्प्रधानतिलक त्वद्विप्रयोगानले कामस्तापयति स्फुटं पटु पटीपाकश्रियाभिर्वपुः।

तस्याः काञ्चनगौरमङ्गमधुना धत्ते परिक्षीणतामत्रोदञ्चति किंचिदन्वहमहो वर्णश्रियां गौरवम्॥ 144 ॥

अरतिर्विषयद्वेषः कथितः पतिचिन्तया॥ 93 ॥

यथा-

न शिक्षयति विभ्रमान् गतिषु केकिनोऽध्यापयत्यनङ्गनिगमं शुकीमपि न वा विपञ्चीमपि।

न वादयति जातु वा मम सखी वियोगव्यथाविधूनहृदय विभो त्वरितमद्य संभाव्यताम्॥ 145 ॥

ह्रीत्यागः कथितो लज्जापरित्यागः (70)प्रियत्विषा।

यथा-

त्वद्दर्शनाभिसरणानुकथाभिषङ्गलीलासु सा मम सदा प्रतिकूलिनीति।

संत्यज्यतेऽद्य हनुमत्प्रभुचन्द्र तन्व्या कामाज्ञया परिचितापि चिराय लज्जाम्॥ 146 ॥

उन्मादश्चित्तविभ्रान्तिस्तद्वियोगानुचिन्तया॥ 94 ॥

(यथा?)-

उत्थाय गच्छति मुहुर्विकरोति गायत्युच्चैर्ब्रवीति तव नाम विलज्जते च।

वाहू प्रसारयति सा पुरतो भवन्तमालोकते नु हनुमत्प्रभुबन्द्र बाला॥ 147 ॥

वियोगचिन्तया ज्ञानभ्रंशो मूर्छेति कथ्यते।

(यथा?)-

सा मे सखी तव वियोगवशद्धतेन कामेन पीडितमना (71)न मनागपीयम्।

आलोकते न वलते शयने तथापि संज्ञवती भवति ते चरितप्रसङ्गे॥ 148 ॥

प्रियसंगमदौर्लभ्यं मन्यमाना(72) मृतिं सती॥ 95 ॥

या नायिकोधोजति तन्मरणं विबुधैः स्मृतम्।

साक्षात्तस्य रसविघातकत्वेन वर्णनानर्हत्वादिति।

यथा-

दीनोद्यताद्य पतितुं त्वदयोगमाना गङ्गाम्बुपूरवदुदञ्चति चन्द्रिकौघे।

त्वामेव जन्मनि परत्र पतिं विभाव्य द्रष्टुं ममेच्छति सखी रसिकप्रधाना(73)॥ 149 ॥

एकदेशस्थितयोर्यूनोर्मध्ये यूनि केनचिन्निमित्तेन विलम्बमाने नायिकायाः सन्तापो विरह इत्युच्यते। अत्र नायिका विरहोत्कण्ठिता। यथा-

“(74)विद्वद्गोष्ठी विशेषैश्चिरयति हनुमन्मन्त्रिणि प्राणनाथे” इत्यादि॥ 150 ॥

अथ मानजः। तदुक्तं नाटकसंजीवके-

“अपराधभवः कोपो यूनोर्मान उदाहृतः।

स च प्रणयमानः स्यादीर्ष्यामान इति द्विधा॥

तत्र प्रणयमानः स्यादन्योन्याज्ञाविलङ्घने।

रमणेन रमण्या वा कृतं तच्च द्विधआ भवेत्॥”

रमणकृतमाज्ञाविलङ्घनं यथा-

त्वमासन्नो भूयाः प्रियमदनपूजोत्सवविधाविति (75)स्वातीवाचा परिनियमितेऽस्मिंश्चिरयति।

मुखं तस्या बालारुणनिभमभूदागतवती स्फुटं सद्यो राकाहिमकिरणकल्पं मृगदृशः॥ 151 ॥

रमणीकृतं यथा-

मौलौ मे कुरु चम्पकस्तबकमित्युक्ते प्रियेणादरादादायास्य वधूजनोचितमधात् कर्णावतंसं ततः।

तस्मिन् कुप्यति सा वधूः स्मितमुखी जग्राह कण्ठं हठात्पूर्णानन्दपयोधिमग्नमनसा तेनापि तद्विस्मितम्॥ 152 ॥

अथेर्ष्यामानजः-

स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासंगिनि(76) प्रिये॥ 96 ॥

श्रुते वानुमिते दृष्टेऽश्रुतिस्तत्र सखीमुखात्।

उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः॥ 97 ॥

त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः।

मानस्य शान्त्युपायास्तु वैक्लब्यं, भुविलोखनम्, गाद्गदाभाषणं, बाष्पत्यागश्चरणवन्दनम्। अत्र दिङ्मात्रमुदाह्रियते। यथा-

शृत्वा गोत्रविपर्ययं प्रियकृतं (77)तस्येतरस्यां मनः संसक्तीं समवेत्य रोषविवशस्वान्ता सरोजेक्षणा।

एकस्मिन्परिवृत्य केलिशयने वैमुख्यतस्ताम्यती सद्यस्तत्कृतचाटुभिः स्मितमुखी जाता रतावुन्मुखी॥ 153 ॥

एकान्ते दयितस्य कङ्कणपदान्यालोक्य कण्ठे परा गाढालिङ्गशङ्कया शशिमुखी कुर्वन्तमप्यानती(78)।

तं रोषादवधीरयन्त्यपि तदा सद्यः समुद्यद्दयोवाहोच्चैः स्तनितं विशम्य सरमं जग्राह तत्कन्धराम्॥ 154 ॥

कार्यतः संभ्रमाच्छापात्प्रवासो भिन्नवेषता॥ 98 ॥

द्वयोस्तत्राश्रुनिश्वासाः कार्श्यलम्बालकादयः।

स च भावीभवन्भूतस्त्रि था यो बुद्धिपूर्वकः॥ 99 ॥

तत्र भूतप्रवासजो यथा-

(79)वैरिक्षोणिभुजां पूनर्निजपदप्रत्यर्पणाशंसिनां (80)सेवायै हनुमत्प्रभोर्विजयिनः सान्निध्यमासेदुषाम्।

कान्ताः कामशराभिघातविदलच्चित्तापहन्तेतरामुद्यन्म्लानिमपाण्डिमक्रशिमसुस्वाङ्गेषु दीनां दशाम्॥ 155 ॥

तत्र भाविप्रवासजो यथा-

आस्थान्यां प्रतिलम्बसे यदि जनान्नीत्या क्षणं लालयंस्तावन्तं विरहं न सोढुमबलाशक्ता हनुमत्प्रभो।

त्वं चेद्वैरिजनान्विजेतुमधुना दूरं चिरं यास्यसि स्थातुं सा क्षमते कथं स्मरशराघातातिदूनान्तरा॥ 156 ॥

शापविप्रलम्भस्तु मेघसन्देशादौ द्रष्टव्यः।

अथ विभावानुभावसात्विकव्यभिचारिणः कथ्यन्ते।

लौकिकानां रामादीनामालम्बनभूता ये सीतादयः त एव काव्यसमर्पिताः सन्तः साधारण्याभिमानेन भावनया भावकचेतसि साक्षादेव विपरिवर्तमाना विभाव्यन्ते, आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते एभिरिति विभावा इत्युच्यन्ते।

यथाह भर्तृहरिः-

“(81)शब्दावहि(82) सरूपांस्तान्बुद्धेर्विषयतां गतान्।

प्रत्यक्षाणीव कंसादीन् साधनत्वेन मन्यते॥” इति।

एवमुद्दीपनान्यपि रामादिगत रागाद्युत्कर्षाधानक्षमावनवासादयः काव्ये प्रतिपन्नश्चमत्काराङ्कुरणप्रकर्षमादधाना विभावतां भजन्ते। तदुक्तम्-

“अलौकिकत्वाद्द्रव्यादिभावमुत्पादयन्नसौ।

शास्ते द्विधा विभावस्तद्यल्लोके कारणं मतम्॥” इति।

भावाश्चास्वादाङ्कुरप्रकाशाभिमुखा एवात्मानं लभन्ते। यथाह भरतमुनिः-

“(83)नानाभिनयसंबन्धात् भावयन्ति सानिमान्।

यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः॥” इति।

ये च तेषां कार्यभूता मुखप्रसादभ्रूविभ्रमकटाक्षादयोऽर्थास्त एव काव्यादावुपनीयमानाः सन्तोऽनुभावभन्ति परिषोषयन्ति तांस्तान् भावानित्यनुभावाः। तदुक्तम्-

“भुजाक्षेपकटाक्षादिरन्तर्भावं प्रकाशयन्।

लोके तु कार्यमेवेदं शास्त्रे यात्यनुभावताम्॥”

धनिकोऽप्याह-

“(84)अनुभावो विकारस्तु (85) भावानां सूचनात्मकः।” इति।

समाहितमनस्त्वादुत्पाद्यमानालौकिकरत्यादिकार्याः स्तम्भादयः सात्त्विकाः। ते च काव्येन प्रतिपन्नाः सत्त्वोद्रेचनाय प्रभवन्तस्तथोच्यन्ते। यथाह-परगतसुखदुःखभावनायामत्यन्तानुकूलान्तः करणत्वं सत्त्वम्। तच्च समाहितमनस्त्वादुत्पाद्यते। एतदेवास्य सत्त्वम्। यदनुःखितेन प्रहर्षितेन अश्रुरोमाञ्चादयो निर्वर्त्यन्त इति। ते च-

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः।

वैवर्ण्यमश्रुप्रलय (86)इत्यष्टौ सात्त्विका मताः॥ 100 ॥

येन तेषामन्तरावस्थायिनोऽवस्था विशेषः तदवान्तरहेतुरहेतुजनितास्त एव निजविभावानुभाववर्गमुखेन काव्येषूपपन्नाः सन्तो विशेषणाभिमुख्येन चरन्ति तेषु तेषु भावेष्विति व्यभिचारिण इत्युच्यन्ते। यदाह-

“व्यज्यमानाविभावाद्यैः स्वैः स्वैरभिमुखं गताः।

विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः॥” इति। ते च-

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः।

आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः॥ 101 ॥

व्रीडा चपलता हर्ष आवेगो जडता तथा।

गर्वो विषादौत्सुक्यं निद्रा विस्मृतिरेव च॥ 102 ॥

स्वप्नः प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता।

मतिर्व्याधिस्तथोन्मादमरणे त्रास ए च॥ 103 ॥

वितर्कश्च त्रयस्त्रिंशद्विज्ञेया व्यभिचारिणः।

प्रादुर्भूतनिरोभूता भवन्ति व्यभिचारिणः॥ 104 ॥

स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारि धौ।

व्यभिचारिभिरन्योन्यैरुत्पन्नैरन्तरान्तरा॥ 105 ॥

न(87)तिरोधीयते स्थायी तैरसौ पुष्यते परम्। इति।

तत्र शृङ्गारस्यालम्बनविभावो यथा-

व्यस्तं वस्तुषु तेषु तेषु रचितं यद्यन्मृगाङ्कादिषु प्रागादाय तदद्य(88) रूपमखिलं तेनैव निर्मायताम्।

रामां रूपवतीं रतिप्रतिनिधिं तस्या हनुमत्प्रभुं कान्तं नूतनमन्मथं रचयतो धातुर्महत्कौशलम्॥ 157 ॥

अथोद्दीपनविभावाः-

आलम्बनगुणाश्चैव तच्चेष्टास्तदलङ्कृतिः॥ 106 ॥

तटस्थाश्चेति विज्ञेयाश्चतुर्थोद्दीपनक्रमः।

आलम्बनगुणो रूपयौवनादिरुदाहृतः॥ 107 ॥

तच्चेष्टा यौवनोद्भूता लीलाप्रभृतयो मताः।

नूपुराङ्गदहारादि तदलङ्करणं मतम्॥ 108 ॥

मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः।

चेष्टास्त्वनुभावेभ्योऽप्यभिन्ना अपि पृथग्व्यपदेशात्पृथगुच्यन्ते। तास्तु-

लीलाविलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम्॥ 109 ॥

मोद्दाभितं कुट्टमितं बिब्बोको विहतं तथा।

ललितं हावहेले च विक्षोपो मुग्धता तथा॥ 110 ॥

मदशअच तपनं चेति भावाः षोडश (89)योषिताः।

वाग्विशेषैरलङ्कारैः प्रेमभिः प्रीतियोजनैः॥ 111 ॥

प्रियस्यानुकृतिर्नार्मा लीलामाहुर्मनीषिणः।

यथा-

प्रियां बालामग्रे प्रियसहचरीणां निजवचः क्रियाभूषा वेषैरनुरहसमात्मानुकरणम्।

विलोक्यातन्वानां सपदि हनुमन्मन्त्रितिलकः स्थितो गूढं बाढं भजति परमानन्दपदवीम्॥ 158 ॥

यानस्थानासनादीनां नेत्रवक्त्रादिकर्मणाम्॥ 112 ॥

प्रियान्तिके विशेषो यः स विलासो मृगीदृशाम्।

यथा-

रहः शय्योपान्ते स्मितमधुरमीक्षाङ्कुरभरान् किरन्त्यम्भोजान्तः प्रचलदलिनी विभ्रमाजुषः।

कुचस्पर्शेयं सा कृतगतिचमत्कारमबला सदा स्वान्ते तस्मै स्पृहयति हनूमत्प्रभुमणिः॥ 159 ॥

आकल्परचनाल्पापि विच्छित्तिः कान्तिपोषकृत्॥ 113 ॥

यथा-

अन्यासां परिरञ्जनाय सुदृशां भूषा भवन्ति क्षितौ कान्ता या हनुमत्प्रभोस्तनुरुचा संयान्तिताभूष्यताम्।

तद्रूपं यदभूषयमेऽपि भवति प्रेयो मनोरञ्जकं (90)तद्रूपभरा हि सा रतिरिव ख्यातिं परां विन्दति॥ 160 ॥

विभ्रमसत्वरया काले भूषास्थानविपर्ययः।

यथा-

प्रत्यासन्ने दिनान्ते त्वरयति परितः कान्तदूतीजनेऽन्तः कामेन प्रेर्यमाणा निजतनुमशनैः संभ्रमाद्भूषयन्ती।

मुक्ताहारं नितम्बे मणिमयरशनां(91) कण्ठदेशे लताङ्गी पाण्योर्मञ्जीरयुग्मं चरणकमलयोः कङ्कणानि व्यधते(92)॥ 161 ॥

(93)क्षणशुष्करुदितहसितत्रासक्रोधश्रमाभिलाषाणाम्॥ 114 ॥

साङ्कर्यं प्रियदर्शनहर्षात् किलिकिञ्चितं प्राहुः।

(यथा)-

विजने दृढमवगूढा दयितेनानङ्गपरवशा बाला।

क्रुध्यति बिभेति रोदिति हृष्यति विहसत्यलं सुमुखी॥ 162 ॥

मोट्टायितं तु तद्भावनेष्टकथादिषु॥ 115 ॥

यथा-

कहि ए सहि हि बाला विजणे हनुमंत विहु गुणे।

हु केसोऽर्धणमणि अहावातणु गोवणिब्बरविपुलं एहिं॥ 163 ॥

स्तनाधरादिग्रहणे हर्षेत्कर्षेऽपि सुभ्रुवाम्।

नेति कुट्टमितं प्राहुश्शिरः करविधूननम्॥ 115 ॥

यथा-

जानासि किं कमलकोशगतां हिमांशो रेखामिति स्मितसुधामधुरं ब्रुवाणे।

कान्ते रहस्यबलया स्मरनाटकस्य नान्दीविधूतशिरसाभिदधे नकारः॥ 164 ॥

यथा-

स हिमाकरे हि चिन्तं मज्जक (94)एति लउवम्महे मभणि।

मण्ण(95) सुविससणिज्ज अणंकि अवस्सहो अ एतस्स॥ 165 ॥

प्राप्तकालं न यद्ब्रूते व्रीडया विहृतं हि तत्॥ 117 ॥

यथा-

पृष्टा सखीभिरसकृद्रहसि प्रवृत्तिं कान्तस्य नो कथयति स्म गिरा प्रभाते।

किन्तु स्मितं व्यतनुतेन्दुमुखी तदेव तासां मनः सुखयति प्रमदोपपादि॥ 165 ॥

सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत्।

(यथा)-

शिरीषदलकोमलैरवयवैः कुरङ्गीदृशा सलीलमुपकल्पिता रहसि योपचारक्रिया।

चिराय हनुमत्प्रभोः श्रितशुभानुभावश्रिया मनः सुखयतिस्म सा मदनदेशिकाध्यापिता॥ 167 ॥

प्रापितेत्यर्थः-

भ्रूविभ्रमादिसंभूतः संभोगेच्छाप्रकाशकः॥ 118 ॥

नेदीयसि प्रिये तन्व्याः स भावो हाव इष्यते।

यथा-

किंचिन्नम्रमुखी सखीजनपुरः कर्णान्तकण्डूयनव्याजात्सामिनिमीलदुत्पलदलोद्गच्छद्‌द्विरेफोपमान्।

लज्जालोलविलासवीक्षण भरानारात्किरन्ती मनागाकूतं हनुमत्प्रभोर्वरतनूरावेदयत्यादरात्॥ 168 ॥

याप्रौढे चाप्रगल्भानां नारीणां सुरतोत्सवे॥ 119 ॥

शृंगारशास्त्रतत्त्वज्ञैः सा हावेति मता पुनः।

यथा-

नीवी स्रंसति चक्षुरुन्मिषति मे वक्षोजयुग्मं स्मरत्यन्तः प्रेरयति स्मरः समुदयत्यङ्गे च रोमोद्गमः।

कान्ते याति निजान्तिकं कथमिथं मानस्य वार्ता भवेत्सख्यः किं करवाणि तिष्ठतु बहिर्वाणी प्रणामोऽस्तु वः॥ 169 ॥

हरिणीव समुत्रस्ता चकितं विष्वतगीक्षते॥ 120 ॥

यथा-

गतायामन्यत्र प्रियसहचरीसंसदि हठात्स्वमेकान्ते कान्ते नयति निज दोः पञ्जतलम्।

त्रपालोला बाला स चकितमथैक्षिष्ट यदिदं जयत्यानायान्तः पतितहरिणी वीक्षणभरम्॥ 170 ॥

यद्यथा कुरुते हास्यं भूषणादिष्वनादरम्।

रहस्यं किञ्चिदाचष्टे दृष्ट्या दृष्ट्वैव वल्लभम्॥ 121 ॥

विक्षेपन्तं विदन्ति स्म मुनयो भरतादयः।

यथा-

विलोक्य दयितं पुरो विततविभ्रमा सुन्दरी मुहुर्हसति चादरं न वितनोति भूषास्वपि।

ब्रवीति किमपि प्रियं प्रियसखी श्रुतैरन्तिके स्फुटं मदनविह्वलीकृतमना मनाक्सा बधूः॥ 171 ॥

उदारिमवचः स्त्रीणां सुप्रतीतेऽपि वस्तुनि॥ 122 ॥

वल्लभानां पुरः प्रोक्तं मौग्ध्यं(96) तत्तत्त्ववेदभिः।

यथा-

प्रभाते गच्छन्ती पतिरतिगृहद्वारनिकटे बहिः कामं भित्तौ परिलिखितमालोक्य सभया।

पुरोऽसौ मां हन्तुं धृतधनुरुपैति स्मर इति ब्रुवाणा प्राणेशं पुनरपि समालिङ्गदबला॥ 172 ॥

रूपयौवनसौभाग्याद्यवलेप समुद्भवः॥ 123 ॥

विकारो यः परस्त्रीणां मदं तं मुनयो विदुः।

यथा-

(97)अनन्य साधारणरूपगर्वात् प्रियं हनूमत्सचिवस्य बाला।

कृतेऽन्यकान्तासु(98) क्षमाप्रसङ्गे जनैः पुरस्तात्स्मितमातनोति॥ 173 ॥

प्रियस्यासन्निधानेन स्मरावेगसमुद्भवम्॥ 124 ॥

चेष्टितं यद्भवेत् तन्व्यास्तपनं तत्प्रकीर्तितम्।

यथा-

कवीनां साधूक्तिश्रवण परितोषेण हनुमत्प्रभो यात्यास्थानं क्षणमनितयागास्य दयिता।

बहिर्यात्याति प्रियसहचरीं श्लिष्यति मुहुः स्मरावेशात् किञ्चिद्वदति च वचः कामपिशुनम्॥ 174 ॥

अथाबु भावाः-

आकुञ्चित भ्रूलतमङ्गजन्मप्रसङ्गरङ्गैरलसैरपाङ्गैः॥ 125 ॥

आलोकते सा हनुमत्प्रधानमन्तर्गताकूतमुदञ्चयन्ती।

अथ सात्त्विकानां स्वरूपमुदाहरणं च। अत्र च कार्यत्वेऽपि अनुभावानां सात्त्तविकानां च केचन (99)भिदामिच्छन्ति तद्यत्नाविच्छाजीवनपूर्वकजातयः। द्विविधो हि प्रयत्नः। स च जीवनपूर्वक इच्छा द्वेषपूर्वकश्चेति(100)। तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानपूर्वकः। प्रबोधकाले चान्तः करणस्य इन्द्रियान्तरप्राप्तिहेतुः। अत्र जीवनपूर्वकस्य आत्ममनसोः संयोगाद्धर्माधर्मापेक्षोत्पत्तिः। इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः शरीरधारकश्च। स च आत्ममनसोः संयोगादिच्छापेक्षा द्वेषापेक्षा चोत्पद्यत इति। ततश्च रत्नादिकार्यत्वे समानेऽपि कटाक्षभुजाक्षेपादीनामनुभावानां स्तम्भस्वेदादीनां च (101)स्वसामग्रीनिविष्टप्रयत्नभेदाद्भेद इत्येके। केचित्तु अवान्तरकारणभेदोऽवान्तरस्वरूपभेदमेवाधत्ते। न तु सर्वथा वैजात्यम्। रत्नादिकार्यत्वसामान्यानुगमात्। अन्यथा संप्रतिपन्नानुभावेष्वपि बैजात्याङ्गीकारः स्यादिति मन्वानाः सात्त्विकानुभावयोर्भेदमनङ्गीकुर्वाणाः सात्त्विकान्न पृथग्गणयन्ति। इतरे पुनः अनुभावत्वेऽप्यवान्तरजातिभेदाद्गोबलीवर्दन्यायेन पृथग्गणयन्ति। ते च स्तम्भादयः पूर्वोक्ता ह्यष्टौ।

स्तम्भश्चेषअटाप्रतिघातो भयहर्षामयादिभिः॥ 126 ॥

वपुर्जलोद्गमः स्वेदो तिधर्मश्रमादिभिः।

हर्षाद्भुतभयादिभ्यो रोमाञ्यो रोमविक्रिया॥ 127 ॥

मदसम्मदपीडादेर्वैस्वर्यं गद्गदं विदुः।

रागरोषश्रमादिभ्यः कम्पो गात्रस्य वेपथुः॥ 128 ॥

विषादमदरोषादेवर्णान्यत्वं विवर्णता।

अश्रु नेत्रोद्भवं वारिक्रोधदुःखप्रहर्षजम्॥ 129 ॥

प्रलयः सुखदुःखाभ्यां चेषअटाज्ञानविनाकृतिः।

यथा स्तम्भः-

रहः शय्योपान्तं प्रियसहचरीभिर्नववधूः समानीता कान्तं सपदि पुरतो वीक्ष्य सभया।

विरेजे निर्मातुं निजविजयमुद्राक्षरलिपिं मनोजेन स्तम्भो निहित इव तत्राचल(लं?)वपुः॥ 175 ॥

स्वोदो यथा-

सतामधिपते शुभोज्ज्वलविभो हनूमत्प्रभो त्वमिन्दुरबला तु सा विधुशिलामयी पुत्रिका।

न चेत्तव कथं करव्यतिकरेण धर्मोदकच्छलात्किरति कांङ्कणान्विजितचारुमुक्तागणान्॥ 176 ॥

अथ रोमाञ्चवेपथू लक्षयति-

ज्ञातं ते हनुमत्प्रभो शुभनिधे पाणेर्महत्वौशलं क्रीडातल्पमुपागता नववधूर्याते(102) पतेः साध्वसात्।

यस्य स्वर्शमहोत्सवे समुदित रोमाञ्चिता सा परं सद्यः कञ्चुकितेव पुषअपधनुषो भुद्धे समुत्साहिनी॥ 177 ॥

वैस्वर्यं यथा-

कामिन्या विजये निजश्रवणयोरव्यक्तवर्णाः शनैरालापाः कथितास्तदर्थमतनुर्जानाति नान्यो जनः।

किं तेन प्रतिबोधितेन हनुमन्मन्त्री तदाकर्णनादात्मानन्दनिर्गले रससुधासिन्धौ परं मज्जति॥ 178 ॥

विवर्णता यथा-

एकत्र स्थितयो रहस्यतितरां संभावितायाः प्रियेणाश्लेषप्रियभाषणाधरसुधास्वादैः कुरङ्गीदृशः।

राकारात्रिसुधांशुनिर्मलमभूद्वक्त्रं परस्याः पुनर्मालिन्यं समपद्यताह्नि विगतच्छायेन्दुवत् तत्क्षणम्॥ 179 ॥

अश्रु यथा-

त्वद्धाटीषु बलान्यलं क्षितिरजः पुञ्जैः पयोधिं मरूकुर्वन्तीति तदीर्ष्यया च परितो विद्वेषिणां योषितः। तान् सद्यः परिपूरयन्ति विगलन्नेत्राम्बुधारा नदीपूरैः संप्रति तेकुमल्लहनुमन्मन्त्रीन्द्र ताभिर्जितम्॥ 180 ॥

प्रलयो यथा-

आनीय चित्तसदने मदनेन तन्व्याः संस्थापितं दयितमद्भुतरूपसारम्।

द्रष्टुं तदिन्द्रियगणो हनुमत्प्रधानमन्तः प्रविष्ट इव याति तदा विमोहम्॥ 181 ॥

अत्र द्विविधस्यापि शृङ्गारस्यानुगुणा व्यभिचारिभावाः शृङ्गारतिलके गणिताः।

“शङ्कासूयामदग्लानिव्याधिश्चिन्तास्मृतिर्धृतिः।

औत्सुक्यं विस्मयावेगो निद्रोन्मादो मदस्तथा॥

विषादो जडता व्रीडावहित्था चापलं धृतिः।

इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः॥” इति।

एतानग्रे निरूपयिष्यामः।

आदौ क्लेशेन पर्यस्तः पर्यन्ते यः सुखावहः॥ 130 ॥

प्रेम्णः पाकस्य विज्ञेयो नारिकेलेन साम्यभाक्।

यथा- पार्वतीपरमेश्वरयोः।

अन्ते क्लेशमयोऽन्यत्र स्वादुराम्रफलोपमः॥ 131 ॥

यथा- अजेन्दुमत्योः।

आदिमध्यावसानेषु स्वादुर्यस्त्वन्तरान्तरा।

किञ्चित्कठिनतां धत्ते स द्राक्षापाक संनिभः॥ 132 ॥

यथा- सत्याकृष्णयोः। इति प्रेमपाकाः।

यन्नातिशोभ यन्नावैति प्रेम मनोगतम्।

तं नीलिरागमाख्यान्ति॥ 133 ॥

यथा-श्रीरामसीतयोः।

कुसुम्भरागं तं प्राहुर्यदपैति च शोभते॥

मञ्जिष्ठरागं तं प्राहुर्यन्नापैत्यतिशोभते॥ 134 ॥

इति रागाः। एवमनन्तशृङ्गारस्य प्रपञ्चो ग्रन्थशतसहस्रेणापि निर्वक्तुमशक्य इति तत् दिङ्मात्रं निरूप्य तत्कार्यं हास्यं निरूपयति॥

शृङ्गारहास्ययोः कार्यकारणभाव शृङ्गारतिलके कथितः।

`हासो भवति शृङ्गारात्करुणो रौद्रकर्मणः।

अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः॥’ इति।

विकृताकृतिवाग्वेषैरात्मनो वा परस्य वा।

चेतो विकासो हासः स्याद्धास्यस्तत्प्रकृती रसः॥ 135 ॥

विकृताङ्गक्रियावाक्यं यमालोक्य पुमान् हसेत्।

तमालम्बनमिच्छन्ति तच्चोष्टोद्दीपनं मतम्॥ 136 ॥

कपोलस्पर्शनेत्रान्तसंकोचादिमदाहृतम्।

अनुभावतया तस्मिन् तदाक्षिप्ताश्च ये पुनः॥ 137 ॥

अवहित्यादयो भावाः विज्ञया व्यभिचारिणः।

निद्रालस्य श्रमग्लानिमूर्छास्तदनुगुणाः पुनः॥ 138 ॥

हास एभिरभिव्यक्तः पुंसो हास्यरसो भवेत्।

रस एव समुद्दिष्टो हासनैकसमाश्रयः॥ 139 ॥

कुन्देन्दुवर्णो विज्ञेयो हास्यः प्रमथदैवतः।

स्मितमिहाविकासिनयनं किञ्चिल्लक्ष्य द्विजंतु हसितं स्यात्॥ 140 ॥

मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम्।

अपहसितं सास्राक्षं विक्षिप्ताङ्गं च कथितमतिहसितम्॥ 141 ॥

द्वेद्वे कथिते चैषां श्रेष्ठे मध्येऽधमे क्रमशः।

यथा-

एकस्यां शरधित्रयो विनिगमाः साङ्गारत्वधीता गुरोर्व्याख्यातानि मयानधीत्य बहुधा शास्त्राणि षड्वादतः।

के के वा न जिता इति स्मयवशादाजल्पतो दुर्बुधस्याकर्ण्योदितमातनोति हसितं धीमान् हनुमत्प्रभुः॥ 182 ॥

(यथा वा-)

व्यर्थानन्विवाङ्निगुम्भनभरैर्द्राग्वञ्चयित्वा जनानज्ञांस्तत्प्रतिपादितानि निचयाकल्पादिकाडम्बरान्।

गर्वादेत्य रयाद्वयं कवय इत्यन्तः सभं जल्पतोऽसद्वाचः स्मितमातनोति कुकवीन् दृष्ट्वा हनूमत्प्रभुः॥ 183 ॥

संभोगशृंगारो मधुरः। मधुरतरो विप्रलम्भः। करुणो मधुरतम इति। मधुरमधुरतरनिरूपणानन्तरं मधुरतमस्य निरूपणीयत्वेन तत्रान्तरे शृङ्गारकाव्यतया प्रसङ्गात् हास्यं निरूप्य प्रकृतं करुणं निरूपयति।

अथ करुणः।

इष्टनाशादनीष्टाप्तेः शोकात्मा करुणो रसः॥ 142 ॥

शोच्यमानं तु यद्वस्तु तदालम्बनमुच्यते।

तस्य हासादिकावस्था(103) भवेदुद्दीपनं मतम्॥ 143 ॥

अनुभावा विधेर्निन्दा वैवर्ण्यक्षितिवेष्टने(104)।

निश्वासोछ्वासरुदितस्तम्भप्रलपनादयः॥ 144 ॥

निर्वेदमोहहृच्छोषाव्याधिर्ग्लानिस्मृतिः श्रमः।

स्वापापस्मारदैन्यादिमरणालस्य संभ्रमाः॥ 145 ॥

विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः।

एभिरेव परामृष्टैरिष्टनाशादिसम्भवः॥ 146 ॥

स्थायी शोकस्त्वभिव्यक्तस्तन्मयी भवनोदयात्।

आस्वाद्यमानः करुणः सभ्यानां व्यज्यते रसः॥ 147 ॥

कपोतवर्णो विज्ञेयः करुणो यमदैवतः।

तत्रेष्टनाशाद्यथा-

जेतुः श्रीहनुमत्प्रभोर्युधिभटैर्मर्त(भर्तृः?)वशीवर्तीकृतानाकर्ण्य स्वपतीनारातिनृपतिप्राणेश्वरीणां गणः।

दैवं निन्दति रोदिति प्रलपति श्रेयो गुणान्नेक्षते दीनानात्मशीशून्निमज्जयति शुक्सिन्धौ स्वनीशानपि॥ 184 ॥

अनिष्टाप्तेर्यथा-

जैत्रप्रस्थानवार्तामनितर सदृशस्थेमधाम्नो हनूमन्नाम्नो मन्त्रीश्वरस्य द्विषदवनि भुजश्चारलोकान्निशम्य।

विन्ध्यारण्यान्यगण्यान्यतिरय पयसैराविशन्तो दिशन्ति प्रायो भूयस्तरूणामपि हृदि करुणाखेदनिर्वेददौस्थ्यम्॥ 185 ॥

रौद्ररसः(105)-

एवं कार्यभूतकरुणनिरूपणानन्तरं तत्कारणं रौद्ररसो निरूप्यते।

संग्रामादि भवः शत्रुरत्रालम्बनमिष्यते॥ 148 ॥

एतस्यानिष्टचेष्टादिरुद्दीपनतया मतः।

मुष्टिप्रहारपातनविकृतच्छेदावधारणैश्चैव॥ 149 ॥

संग्राम संभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा।

अनुभावोः-सास्फालन विषमभृकुटीक्षणायुधक्षेपाः॥ 150 ॥

आत्मावदानकथनप्रतिपक्षक्षेपदलनानि।

उग्रतामर्षरोमाञ्चस्वेदवेपथवो मदः॥ 151 ॥

मोहावेगादयश्चात्र भावाः सञ्चारिणो मताः।

क्रोधस्थायी रक्तवर्णो रौद्रो रुद्राधिदेवतः॥ 152 ॥

रक्तास्यनेत्रता रात्रिभेदिनी युद्धवीरतः।

यथा-

युद्धे बद्धाग्रहस्य द्विषदवनिधरा श्रीहनूमत्प्रधानक्रोधाद्बाधारुणश्रीजुषि विषमनटट्भ्रूकुटीमानने ते।

वीक्ष्य स्वोत्पातहेतुः खरकिरणगता धूमरेखेति बुद्धेराशङ्कातङ्कवन्तः प्रतिदिनमवशा गन्तुमन्तस्त्वरन्ते॥ 185 ॥

करुणरसप्रस्तावाद्रौद्रानन्तरं वीररसो लक्ष्यते।

वीरः प्रतापविनयाध्यवसायसत्वामोहाविषादनयविस्मयविक्रमाद्यैः॥ 153 ॥

उत्साहभूर्मतिवितर्कधृतिप्रहर्षगर्वस्मृति प्रभृतयो व्यभिचारिणोऽस्य।

असदृक्षान्परित्यज्य युयुक्षोः सदृशेन तु॥ 154 ॥

अनुभावस्तु तादृक्षविपक्षान्वेषणं पुनः।

उत्साहोऽस्य भवेत्सा या जन्याद्यालम्बनं मतम्॥ 155 ॥

उद्दीपनतया जन्यचेष्टादीन् मुनयो विदुः।

निजशक्त्यनुभावेन कायेषूत्साहवर्धनः॥ 156 ॥

उत्तमप्रकृतिः श्रीमान् वीर एष रसो मतः।

महेन्द्रदैवतो हेमगौरोऽयं समुदाहृतः॥ 157 ॥

दानधर्मदयायुद्धमयो वीरश्चतुर्विधः।

प्रतापविनयादिभिरनुगुणितो दानधर्मपरदुःखापहारयुद्दैरनुभावितो हर्षधृतिमतिवितर्कगर्वामर्षस्मृतिक्रोधप्रभृतिभिः सञ्चारिभिः पुष्टिं नीतः सन् उत्साहस्थायीभावकमनोविस्ताराय प्रभवत्येष वीरस्तदनुभावप्रधानपात्रविशेषवशाच्चतुर्विधः प्राग्भिरुक्तः।

दानवीरो यथा-

(106)औदार्यं हनुमत्प्रभोः कथमहो वाचां पदं मादृशामित्यादि॥ 187 ॥

धर्मवीरो यथा-

(107)सत्यं नो झटिति जात्वपीत्यादिना॥ 188 ॥

दयावीरो यथा-

सद्यो दृष्टिश्रवणपदवीमागतानार्तलोकानन्यानन्यप्रभुभिरदयं शृङ्खलाद्यैर्निरुद्धान्।

नानोपायैर्जगति विपदं वारयित्वा हनूमन्मन्त्रीपाति श्रियमुपनयन् कस्ततोऽन्यः कृपालुः॥ 189 ॥

युद्धवीरो यथा-

युद्धोत्साहा हनुमत्प्रभुरयमयते जेत्रयात्रादिदानीं(108) भूपास्तत्पादमूलं भजत यदि बलं योद्धुमागच्छताशु।

(109)युष्माभिलङ्घ्यते चेज्जलधिरति भयात्तद्धयाङ्घ्रिक्षतोर्वीधूलिभिर्निर्जलः स्यात् स इति मुहुररीन् बोधयन्त्यस्य दूताः॥ 190 ॥

रौद्ररसकार्यत्वेन भयानकरसो निरूप्यते।

उच्चैर्भैरवसंरावारसप्र(प्रे?)तादिदर्शनेः॥ 158 ॥

शून्यागारमहारण्य वदबन्दनवीक्षणैः।

भयस्थायी भवेन्नारीनरादीनां भयानकः॥ 159 ॥

यस्मादुत्पद्यते भीतिस्तदालम्बनमुच्यते।

चेष्टा घोरतरा तस्य भवेदुद्दीपनं मतम्॥ 160 ॥

दिक्प्रेक्षणमुखशोषणवैवर्ण्यस्वेदगद्गदभाषण(म्)।

करपादकम्पपुलकमूकत्वपलायनानि स्युः॥ 161 ॥

शङ्कापस्मारसंमोहत्राससंभ्रमदीनताः।

जुगुप्सावेगसंग्लानिमृताधा व्यभिचारिणः॥ 162 ॥

असौ वर्णेन कृष्णः स्यात्तथा कालाधिदैवतः।

यथा-

दृष्ट्वा युद्धेषु रोषारुणविषमदृशः कालजिह्वा करालोत्तालासीन् (110)क्ष्वेलमानान् मुहुरपि हनुमन्मन्त्रिणो योधवीरान्।

अस्माकं वेपतेद्याह्यहह मन इति द्वेषिणः स्वात्म योषिल्लोकानभ्योत्य लीनाः सभयमनुदधत्युग्रध्याटवीषु॥ 191 ॥

जुगुप्सा स्थायीभावोऽयं बीभत्सः कथ्यते रसः॥ 163 ॥

विकृतोत्पूतिमांसादि तस्या आलम्बनं मतम्।

तत्रैव क्रिमिपाताद्यमुद्दीपनमुदाहृतम्॥ 164 ॥

निष्ठीवनास्यवलनगात्रसङ्कोचनादयः।

गाम्भीर्यान्नोत्तमेष्वेव पुनस्तस्य त्ववेक्षणम्॥ 165 ॥

मोहापस्मार आवेगदुर्व्याधिमरणादयः।

नीलवर्णो महाकालदैवतोऽयमुदाहृतः॥ 166 ॥

बीभत्सः क्रिमिपूतिगन्धवमधुप्रायैर्जुगुप्सैकभूरुद्वेगीरुधिरार्द्रकीकसवसामांसादिभिः क्षोभणः।

वैराग्याज्जघनस्तनादिषु घृणा शुद्धोऽनुभावैर्वृतो।

नासावक्त्रविकूणनादिभिरिहावेगादि शङ्कादयः॥ 167 ॥

यथा-

आयोधनेषु हनुमत्प्रभु योधवीरैराकल्पितेषु (111)वनितासहिताः पिशाचाः।

उत्कुत्यकृत्तिमरिभूमिभुजां निपीय मांसोपदंशम (112)सृगासवमानटन्ति॥ 192 ॥

(अथ अद्भुतो रसः)

स्यादेषविस्मयात्मा रसोऽद्भुतो विस्मयोऽप्यसंभाव्यात्।

स्वयमनुभूतादर्थादनुभूयात्तेन वा कथितात्॥ 168 ॥

लोकातिक्रान्तरूपं तत्तद्वस्त्वालम्बनं मतम्।

गुणानां तस्य महिमा भवेदुद्दीपनं पुनः॥ 169 ॥

रिपुदर्शनमायेन्द्रजालशिल्पादिदर्शनैः।

हृदयेप्सितसाभैश्च स्वप्नोल्कापतनादिभिः॥ 170 ॥

नयनविकासो बाष्पः पुलकस्वेदोऽनिमेषनयनत्वम्।

स्तम्भो गद्गदवाणी साध्विति वादगादयः कार्यम्॥ 171 ॥

वितर्कावेगसंभ्रान्तिर्षाधा व्यभिचारिणः।

गन्धर्वदैवततश्चायं पीतवर्ण उदाहृतः॥ 172 ॥

यथा-

अहो वपुः स्फूर्तिरमानुषोऽयं गणा गुणानामसदृक्प्रबोधः।

कोऽपि प्रभावः सहजोऽप्यकस्मात् क एष देवो हनुमत्प्रधानः॥ 193 ॥

समज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु।

स्थायी शमः समुद्दिष्टोऽनुभावाः पुलकादयः॥ 173 ॥

जन्मजरामरणादि त्रासो वैरस्य वासनाविषये।

सुखदुःखयोरनिच्छाद्वेषामैत्री सभूतदया॥ 174 ॥

हर्षस्मरणमत्याद्य (113)भवन्ति व्यभिचारिणः।

अनित्यत्वादिना कृत्स्नवस्तुधीः सारता तु मा॥ 175 ॥

परमार्थस्वरूपं वा तस्यालम्बनमुच्यते।

पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः॥ 176 ॥

महापुरुषसंगाद्यास्तस्योद्दीपनमुच्यते।

उत्तमप्रकृतः शुभ्रः स नारायणदैवतः॥ 177 ॥

सत्त्वानन्दसन्दोहकन्दः कमललोचनः।

यथा-

द्वन्द्वक्लेशराहस्तृणीकृतधनाः स्त्रैणे निरस्वस्पृहाः (114)कृष्णागौतमकन्यकोभयतटीपुण्याश्रमेषु स्थिताः।

नित्यं त्रातरि तेकुमल्लहनुमन्मन्त्रीश्वरे निर्भयाद्ध्यायन्ते हृदि योगिनो निरुपथि ब्रह्म प्रहृष्यत्यलम्॥ 194 ॥

दयावीरधर्मवीरदैवतविषयरत्यादीनां निरीहदशापन्नानामत्रान्तर्भावः स्यात् अहङ्कारदशायां वि(वी?)रादाविति विवेकः।

प्रतीतिभक्त्यादयो भावा मृगयाक्ष्यादयो रसाः॥ 178 ॥

हर्षोत्साहादिषु स्पषअटमन्तर्भावान्न कीर्तिताः।

स च रसः पूर्णो खण्डश्चेति द्विप्रकारः॥ 179 ॥

एक एव सो यत्र समग्रमास्वाद्यते स पूर्णः।

खण्डरसस्तु-

अङ्गं बाह्यार्थसंसर्गि (115)यद्यङ्गी स्याद्रसान्तरे॥ 180 ॥

नास्वाद्यते समग्रं यः ततः खण्डरसस्तथा।

तेषां रसानां परस्परविरोधप्रकारमाह-

आद्यः करुणबीभत्सरौद्रवीरभयानकैः॥ 181 ॥

भयानकेन करुणेनापि हास्यो विरोधभाक्।

करुणो हास्यशृङ्गाररसाभ्यामिति(116) तादृशः॥ 182 ॥

रौद्रस्तु हास्यशृङ्गारभयानकरसैरपि।

शृङ्गारवीररौद्राख्य शान्तहास्यैर्भयानकः॥ 183 ॥

भयानकेन शान्तेन तथा वीररसः स्मृतः।

शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः॥ 184 ॥

शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिताः।

तेषां परं मैत्रीप्रकारः कथ्यते-

विकासविस्तरक्षोभविक्षेपाखअयाश्चतुर्विधआः॥ 185 ॥

विकासमूलः शृङ्गारो वीरो विस्तरमूलकः।

संक्षोभोपाधिको रौद्रो बीभत्सः क्षेपमूलकः॥ 186 ॥

एतन्मूला हास्य चित्रे भयानकदयाः क्रमात्।

शृङ्गारहास्ययोः वीराद्भुतयो रौद्रभीमयो (बीभत्सयोः?)॥ 187 ॥

बीभत्सरौद्रया(117) कृपयोर्मैत्री स्यादेकोपाधिकत्वतः। इति। तत्र शृङ्गारवीराद्भुतानां लोकोत्तराश्रयत्वेन परितोषातिशयः। अत एव शृङ्गारस्य म्लेच्छादि विषयत्वेनाभासत्वम्। उक्तं च शृङ्गारतिलके-

“एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा।

योषितो बहुसक्तिश्चेद्रसा भासस्त्रिधा मता॥” इति।

विरुद्धैरविरुद्धैर्वा न तिरोधीयते चेद्रत्यादिस्तथा(दा?)स्थायीभावो भवति। यथा(दा?)नान्यैर्भावैः परितोषं नीतो नयत्यन्याङ्गमपि(118) भवति तथा(दा?)भावमात्रम्। यथा(दा?)न्याङ्गं भवति तथा(दा?)व्यभिचारिभाव इत्युच्यते। तदुक्तम्-

“अविरुद्धो विरुद्धो वा यं तिरोधातुमक्षमः।

आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीपदास्पदम्॥

रत्यादिश्चेन्निरङ्गं स्याद्देवादिविषयोऽपि वा।

अन्याङ्गभागभाग्या स्यात्तथा न स्थायि शब्दभाक्॥” इति।

अथ निर्वेदादयो व्यभिचारिभावा लक्षणोदाहरणपूर्वकं निरूप्यन्ते।

तत्तवज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम्॥ 188 ॥

तत्र चिन्ताश्रु निश्वासवैवर्म्यस्वापदीनताः।

यथा-

पाते चन्दनविप्रुषोऽपि वपुषि स्फोटोऽभिसारोपणे भङ्गश्चोच्चलति स्वयं कमलिनीपत्रावलीवीजने।

आस्तां वः शिशिरोपचाररचना सख्यः समानीयतामस्याः श्रीहनुमत्प्रभुः प्रियतमः शीतः सुधांशोरपि॥ 195 ॥

रत्या या सकलाभ्यास ग्लानिर्निष्प्राणता तथा॥ 189 ॥

आस्यवैवर्ण्यकम्पानुत्साहकार्श्यादयो मताः।

यथा-

गन्तुं नोत्सहते तदादिवदने वैवर्ण्यमेषा वधूश्चित्ते श्रीहनुमत्प्रभुं वहति किं सोऽयं क्षमायां क्षमा।

धैर्यक्षोणिधरो गिरीश्वरधनुर्नूनं यतः सन्ततज्ञानैश्वर्यस्मुन्नतो गुररतोज्यानिस्ततोऽस्माः(?)परम्॥ 196 ॥

अनर्थाशङ्कनं शङ्कापरक्रौर्यादिदुर्नयात्॥ 190 ॥

वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत्(119)।

यथा-

आलोकितुं केलिवनीं हनूमत्प्रभौ प्रयाति प्रतिपक्षभूपाः।

निशम्य तद्भेरिरवान् जिगीषाप्रयाणबुद्ध्या भयतश्चलन्ति॥ 197 ॥

परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजाः॥ 191 ॥

दोषोद्घोषभ्रूविभेदावज्ञा क्रोधोऽङ्गितादयः।

यथा-

भुजे क्षोणीं वाणीं वहति वदने चक्षुषि रमां समुद्दामप्रेमा नयविनयदाक्षिण्यमधुरः।

हनूमन्नामा मत्प्रभुरयमिमाः किं मदधिका गुणैः सख्यो मुख्योचितशुचिरुचिस्थैर्यविभवैः॥ 198 ॥

संमोहानन्दसंभेदस्खलदङ्गवचो गतिः॥ 192 ॥

मधुपानादितो ज्ञेयो मदो विविधभावकृत्।

उत्तमसत्त्वः प्रहसति गायति वा मध्यमप्रकृतिः॥ 193 ॥

यथा-

प्रलपत्यसङ्गतार्थं विहसत्येषा सविक्रियं भ्रमति।

यौवनजोऽस्या वपुषि स्फुरति मदो नूनमेणशावाक्ष्याः॥ 199 ॥

श्रमः खेदोऽध्वरत्यादेः श्वासनिद्रोद्धवादि कृत्।

श्रमग्लान्योर्विभेदं तु चक्रे कारणकार्यता॥ 194 ॥

श्रमस्यातिशयावस्थामथवा ग्लानिमूचिरे।

यथा-

रहसि सुरतवेगान्नश्वसन्ती श्रमाम्भः पृषतपरिचिताङ्गी सा निमीलालसाक्षी(120)।

चिरमुरसि निषण्णा श्रीहनुमत्प्रभोः सा स्मरपरवशचेताः प्रीतिमन्तस्तनोति॥ 200 ॥

आलस्यं श्रमगर्वादेः जैह्म्यं जुम्भादिभावकृत्॥ 195 ॥

यथा-

श्रुत्वा हनुमत्प्रभुजैत्रयात्रावार्तामरिक्षोणिभुजो दिशासु।

कर्तव्यमूढाः कलुषान्तरङ्गा भवन्ति कान्ताभरणेऽप्यत्नाः॥ 201 ॥

दौर्गत्यार(द?)सौजन्याद्दैन्यं कार्श्यमृजादिमत्।

यथा-

द्रन्यप्रभावयोरकारि नियमस्थितां पुरा ब्रह्मणा यस्तद्व्यत्ययमातनेति हनुमन्मन्त्री ततोद्यधिकः।

याचन्ते न परान् बुधा भुवि यमाश्रित्य श्रियामाश्रया भूपालास्तु विगृह्य दुर्गततरायत्प्राय (121)एते वरान्॥ 202 ॥

ध्यानं चिन्ता हितानाप्तेः शून्यता श्वासतापकृत्॥ 196 ॥

यथा-

सौन्दर्यं हनुमत्प्रभोर्न हि कविश्रेणीवचोगोचरं श्रुत्वा यद्यथ संगमाद्युवतयो वीतान्यचेतः(122) क्रिया।

नो पश्यन्ति पुरस्थितामपि सखीं पृष्टा नवैवालपन्त्युत्ताम्यन्ति मुहुः श्वसन्ति च करन्यस्तात्मगण्डस्थलाः॥ 203 ॥

मोहोविचित्रता भीतिदुःखावेशानुचिन्तनैः।

घूर्णनाज्ञानपतनभ्रमणादर्शनादिकृत्॥ 197 ॥

यथा-

श्रुत्वा भूपतयः समस्तसचिवोत्तंसप्रसङ्गे मुहुर्गीतां वन्दिजनैः पराक्रमकथां जेतुर्हनुमत्प्रभोः।

खिन्नास्तत्कृतपूर्वदुःखमधुना सद्योऽनुभूयोऽपतद्भीतेस्तत्(123) क्षणमानिते बत निजास्थानीषु निश्चेतसः॥ 204 ॥

सदृशज्ञानचन्ताद्यैः संस्काराज्जायते स्मृतिः।

(124)भ्रूसमुन्नामकरजवादनादिस्तदुद्भवः॥ 198 ॥

यथा-

अश्रान्तमर्थिसमिरेरमितान् हितार्थान् दातुं स्थिरीकृतमतिं हनुमत्प्रधानम्।

आलोक्य संसदि पुराणविदो वदान्यान् प्राञ्चः स्मरन्ति शिबिकर्णदधीचिपूर्वान्॥ 205 ॥

यथा वा-

किमकारि पुरा जनुष्यमन्दं सुकृतं सूरिभिरप्रतारिभिस्ते।

हनुमत्सचिवं प्रपद्य सद्यो निरवद्यामधुना श्रियं श्रयन्ते॥ 206 ॥

अभीष्टार्थस्य संप्राप्तौ स्पृहापर्याप्ता(125) धृतिः।

सौहित्यवदनोल्लाससहासप्रतिभादयः॥ 199 ॥

यथा-

कवयः सवयश्श्रियं प्रपन्न हमुमन्मन्त्रीमणेर्महीशमूर्तेः।

विभवैरधुना नवैः कुबेरं चरितार्था हृदि भावयन्त्यसारम्॥ 207 ॥

चेतः संकोचनं व्रीडाऽनङ्गरागस्तवादिभिः।

लत्राङ्गुलिकरस्पर्शभ्रूरेखाऽधोमुखादिकृत्॥ 200 ॥

मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः।

तत्र भर्त्सनपारुष्यस्वरोषाचरणादयः॥ 201 ॥

यथा-

दरुणकाविभाला हणुमन्तविहुं पुरं गणेयंतम्।

फणमु (126)उलद्धं वसणं पुणो पुणो विपसारेदि॥ 209 ॥

(127)प्रसक्तावुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः।

यथा-

पात्रद्विजेभ्यो बहुधा धनानि प्रदातुमुत्साहभरं निशम्य।

सर्वे हनूमत्सचिवस्य देवाः परान्नलाभात् प्रमदं भजन्ते॥ 210 ॥

आवेगो रागविद्रावरत्यादेः संभ्रमो मतः॥ 202 ॥

तत्र विस्मरणं स्तम्भः स्वेदः कम्पः खलद्गति।

(यथा)-

अस्य श्रीहनुमत्प्रभो रणजयप्रस्थानवेलारटद्भेरीभांकृतिपूर्णकर्णविवराः सद्यः समुद्यज्ज्वराः।

वैरिक्षोणिभुजो विसृज्य वनिता दुर्गेऽर्धमार्गे भटानुल्लङ्घ्यात्मशिशूनुपेक्ष्य च समारोहन्ति शैलाश्रयात्॥ 211 ॥

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः॥ 203 ॥

अनिमिषनमननिरीक्षणभूषाभावादयस्तत्र।

यथा-

कान्ते गृहानुपगते पुरतः सखीनामुद्यत्प्रमोदभरनिर्भरचित्तवृत्तिः।

नाला तदा तदुपचारविधिं विधातुं नो याति नो विरमति प्रतिपत्तिमूढा॥ 212 ॥

यथा वा-

विशम्यधरणीभुजो निजचरोत्करादुद्यमं विजेतुमवनीतलं विजयिनो हनूमत्प्रभोः।

स्वकीयनगरश्रियः सरभसं न वान्धन्त्यहो प्रहातुमविहातुमत्यतिभयाद्विमूढाशयाः॥ 213 ॥

गर्वोऽभिजनलावण्यधनैश्वर्यादिभिर्मदः॥ 204 ॥

सविलासाङ्गवीक्षाविनयावज्ञादिकृत्तु सः।

यथा-

श्रीमत्तेकुमल्लहनुमत्सचिवस्य भामा सौन्दर्यसारसमुदञ्चिगर्वभूमा।

न्यक्कुर्वती विजयते स्मितदृग्विलासै राजश्रियः कुवलयं दवधु(128) (च वधूं?)स्मरस्य॥ 114 ॥

प्रारब्धकार्यासिदृध्यादेर्विषादः सत्त्वसंक्षयः॥ 205 ॥

निश्वासोच्छ्वासहृत्तापसहायान्वेषणादयः।

यथा-

नैवाश्रयन्ते प्रथवोऽस्मदीया मुहुर्हनूमत्प्रभुपादमूलम्।

भङ्गः किमेषां भवति श्रियामित्यलं विषीदन्त्यरिमित्रवर्गाः॥ 215 ॥

कालाक्षमत्वमौत्सुक्यं रम्येच्छा पतिसंभ्रमैः॥ 206 ॥

तत्रोच्च्वासत्वराश्वासहृत्ताप स्वेदसंभ्रमाः।

यथा-

हो इदि णस्यविरामो तु वरि अ माणे हि धूइमन्थपि अं।

एषो किवाणपाणि आ आच्छि(129) इमं खुपीडि उम्म उणो॥ 216 ॥

मनः संमीलनं निद्राचिन्तालस्यभ्रमादिभिः॥ 207 ॥

तत्र जृम्भाङ्गभङ्गाक्षिमीलनोच्छ्वासनादयः।

यथा-

एतस्मिन् हनुमत्प्रभौ क्षितिसुरद्वारा सुराणां हितैरर्थैः संप्रति सौहितीचिरसुखं(130) कुर्वत्यखर्वोत्सवे। स्वानर्थागमचिन्तया सुरगवी तन्द्रां(131) सुरद्रोरथच्छायायां परिशुष्यतोऽपि कलयत्यज्ञातपूर्वोदयाम्॥ 217 ॥

विरोधिभावात् पूर्वस्य प्रस्मृतिर्विस्मृतिर्भवेत्॥ 208 ॥

ध्यानजाड्यप्रमोहादि परितापादिकृत्तु सा।

यथा-

दत्त्वा धनानि मुहुरर्थिजनस्य सद्यो भूयांसि विस्मरति चेतसि संप्रमोदात्।

वैरिण्यपि प्रणमति प्रचितामपि प्राक् तत्कल्पितामपकृतिं हनुमत्प्रधानः॥ 218 ॥

यथा-

एकस्मिन् शयने सहात्मपतिभिस्सुप्ता द्विषद्योषितं स्वप्ने वीक्ष्य तवाप्रियं रचयतस्तान् संभ्रमादुत्थिताः।

अस्मान्मङ्गलकण्ठसूत्रमधुना त्रायध्वमित्यादरात्प्रायो हन्त नमन्ति साध्वसयुजः स्वामिन् हनुमत्प्रभो॥ 219 ॥

निद्रापगमहेतुभ्यः प्रबोधश्चेतनागमः॥ 210 ॥

जृम्भाङ्गभङ्गनयनोन्मीलनाङ्गावलोककृत्।

यथा-

हनुमन्मन्त्रिणि क्षोण्यां दानदीक्षाधुरन्धरे।

उन्मीषन्ति हि साधूनामधुना भाग्यसंपदः॥ 220 ॥

अधिक्षेपावमानादेरमर्षोऽभिनिविष्टता॥ 211 ॥

तत्र स्वेदशिरः कम्पनेत्ररागाङ्गविक्रियाः।

यथा-

हनुमन्मन्त्रिणो योधाः सहन्ते न रिपुश्रियः।

स्वसात्कुर्वन्ति ता भानोर्महांसीवेतरत्विषः॥ 221 ॥

यथा वा-

रे रे वैरिनृपाः पलाय्य मृगवद्व्यालोक्य नः साध्वसाद्धावन्तो गिरिगह्वरेषु किमिति व्यर्थं चिरंजीवथ।

सद्योऽस्मत्प्रदरानले निपतिताश्चेत्प्राप्स्यथ स्वः सुखं युद्धेष्वित्थमथिक्षिपन्ति सरुषो योधा हनूमत्प्रभोः॥ 222 ॥

(यथा वा)-

आस्थाने हनुमत्प्रभोः स्वविजयव्यापारगाथा मुहुर्गीता मागधमण्डलैः क्षितिभुजस्तत्पादसेवाजुषः।

भुत्त्वापूर्वनिजार्तिसंस्मृतिभवान्यश्रूणि तत्कर्णनादानन्दादुदितान्यमूनि न इति प्रख्यापयन्त्यन्वहम्॥ 223 ॥

दुष्टापराधदौर्मुख्यचौर्यश्चण्डत्वमुग्रता॥ 212 ॥

तत्र स्वेदशिरः कम्पतर्जनाताडनादयः।

यथा-

पुरो निरीक्ष्यारिबलानि सद्यो रुषा हनूमत्प्रभुयोधवीराः।

यथानलो नीरसकाननानि तथोज्ज्वलन्ति त्वरया निदग्धुम्॥ 224 ॥

आन्ति छेदोपदेशाभ्यां शास्त्रादेस्तत्वधीर्मतिः॥ 213 ॥

स्मेरत्वं धृतिसंतोषौ बहुमानस्तथात्मनि।

यथा-

भोक्तुं भोगान्विधातुं विविधमखविधीन्(132) पातुमुर्वीं हनुमन्मन्त्रिन्! त्वं हि स्वतन्त्रो भुवि पुनरुदितः श्रीहनूमन्निदानीम्। नो चेदामङ्घ्रिभक्तिस्तव कथमुदयेन्मित्रजातानुरक्तिश्शक्तिर्दुष्टान्निहन्तुं(133) सततमनवधि ब्रह्मविद्याप्रसक्तिः॥ 225 ॥

व्याधयः सन्निपातास्ते तेषामन्यत्र विस्तरः॥ 214 ॥

प्रस्वेद्कम्पतापाद्या अनुभावतयोदिताः।

यथा-

हनुमन्मन्त्रिद्विषिनॉपयोषित्तनुज्वरः।

करोति हिमनीरात्रिस्तपर्तुं प्रभवा इह॥ 226 ॥

अप्रेक्ष्यकारितोन्मादः कामशोकभयादिभिः॥ 215 ॥

अस्मिन्नस्थानरुदितगीतहासस्मितादयः।

यथा-

उत्थाय गच्छति मुहुर्विकरोति गायत्युच्चैर्ब्रवीति तव नाम विलज्यते च।

बाहु प्रसारयति सा पुरतो भवन्तमालोकते नु हनुमत्प्रभुचन्द्र बाला॥ 227 ॥

जीवस्योद्गमनारम्भो मरणं परिकीर्तितम्॥ 216 ॥

यथा-

दीनोद्यताद्य पतितुं त्वदयोगदूना गंगाम्बुपूरवदुदञ्चितचन्द्रिकाघो।

त्वामेव जन्मति परत्र पतिं विभाव्य द्रष्टुं ममेच्छति रखी (सखी?)रसिकप्रधाना॥ 228 ॥

गर्जितादि मनः क्षेभस्त्रासोऽत्रोत्कम्पितादयः॥ 217 ॥

यथा-

आकालोच्चैर्गर्जद्भुना(ज?)रणितमाकर्ण्यविजयप्रयाणारम्भे ते पटहरवबुद्ध्या रिपुनृपाः।

गिरीनारोहन्ती दृतिमतिभयादेत्य नगरे वधूस्त्यक्त्वा बन्धून् पथि च हनुमत्पण्डितमणे॥ 229 ॥

तर्को विकारः सन्देहे भ्रूशिरोऽङ्गुलिनर्तकः।

यथा-

वाण्याः किमेष पुरुषाकृतिरात्मभाग्यमूर्त्यन्तरं नयनयोग्यमुतानुकल्पः।

कल्पस्य वेति बहुधा भवति प्रतर्को विद्वत्कवीन्द्रमनसां हनुमत्प्रधाने॥ 230 ॥

एतेषां रत्याद्यङ्गभावे(134) सञ्चारित्वम्। रत्याद्याभासाङ्गभावे सञ्चार्याभासत्वम्। कैमत्ये तु भावमात्रत्वमिति विवेकः।

अथ रसाभासादयो निरूप्यन्ते।

अपनयति सलीलं सल्लकी पल्लवानि स्नपयति मुहुरम्भोबिन्दुभिः पुष्करेण।

अनुसरति करेणुं कुञ्जरे मञ्जुगत्या वहति मुदमुदीक्ष्य श्रीहनुमत्प्रभुस्तम्॥ 231 ॥

अत्र तिर्यग्गतत्वेन शृङ्गाराभासः। युद्धे स्वः सुखमाप्यते वनभुवि स्थित्वा चिरंजीवनीं(135) व्यर्थं किं भजतेति(136) संकथयतो बन्धून् समुद्यञ्चति। रोषात्तम्रदृशो ललाटविकटभ्रूविक्रिया प्रस्खलद्वाचा हातुमुदीक्ष्य हन्त हनुमन्मन्त्री द्विषद्भूभुजः॥ 232 ॥

अत्र स्वबन्धून् प्रति क्रोधस्यानौचित्यादाभासत्वम्। तेषां सञ्चारिणां मध्ये कस्यचिल्लौकिकदशायामुदयव्ययधर्मिणः क्वचिद्विरोधिसद्भावेऽपि सामग्रीप्राबल्यादुद्गमावस्थादिकं चमत्कुरुते तत्र भावोदयः। क्वचिद्विरोधि सामग्री माहात्म्येन प्रशाम्यदवस्था समास्वाद्यते(137) तत्र भावशान्तिः। क्वचित्पुनरन्योन्यस्वर्धिनोर्भावयोः सन्धिरुद्रिक्तः समास्वाद्यते यत्र वा क्वचित्तु कस्यचित्प्रशाम्यत्वमन्यस्य विरोधिन उज्जिगमिष्येत्येवंरूपः सन्धिः स्वदते तत्र भावसन्धिः। क्वचित्पुनरनेकेषां भावानांपूर्वपूर्वोपमर्दनेनोदयशालिनां संभूय प्रकाशनमधिकं मनोविकासमातनुते तत्र भावशबलतेति। चतुर्णाममीषां क्रमेणोदाहरणानि।

एकान्ते दयितस्य कङ्कणपदान्यालोक्य कण्ठे परागाढालिङ्गनशङ्क्या शशिमुखी कुर्वन्तमप्युन्नतिम्।

तं रोषदवधीरयन्त्यपि तदा सद्यः समुद्यत्वयो वाहोच्चैःस्तनितं निशम्य सरयं जग्राह तत्कन्धराम्॥ 233 ॥

अत्रौत्सुक्याख्यस्य भावस्योदयः।

श्रुत्त्वा गोत्रविपर्ययं प्रियकृतं तस्यापरस्यां (138)मनः संसक्तिं समवेत्य रोषविवशस्वान्ता सरोजेक्षणा।

एकस्मिन् परिवृत्य केलिशयने वैमुख्यतस्ताम्यती सद्यस्तत्कृतचादुभिः स्मितमुखी जाता रतावुन्मुखी॥ 234 ॥

अत्र रोषाख्यभावस्य शान्तिः।

अथ भावसन्धिः।

सद्यश्चामुखात्कदाचिदहितक्षोणीभुजां दुर्मदं प्रेयस्यास्तु सखीमुखादृतुसुखस्नानोत्सवोद्येति च।

श्रुत्त्वा श्रीहनुमच्चमूपतिमनोहर्षाग्निना(139) प्रज्वलप्येकत्राप्यपरत्र हर्षपयसा स्कितं च शीतायते॥ 235 ॥

अत्र हर्षामषयोः सन्धिः।

यथा वा-

पादप्रणामविधिनानुनयन् परस्त्रीनामग्रहेण कुपितां दयितां तदानीम्।

विद्वड्जनो निजपुरे हनूमत्प्रभूद्यद्भेरीरवं क्षिपति दिक्षु दृशं निशम्य॥ 236 ॥

अत्र रतेर्भयस्य चोज्जिगमिषया सन्धिः।

अथ भावशबलता-

शौर्यं तस्य तदद्भुतं यदनिशं सत्वास्मदीयश्रियः स्वायत्तीकुरुते विधिर्विमुखतामस्मासु धत्तेऽधुना।

नोपायोऽस्ति परस्तदङ्घ्रिकमलोपास्तैः पुनर्भावुकं(140) देवायेत्यरयो भजन्ति हनुमन्मन्त्रीश्वर त्वां नृपाः॥ 237)

अत्र वैरिगतानां स्मृतिचिन्तादैन्यमतीनां शबलता।

॥ इति (141)श्रीमारभट्टविदुषाकृतसंख्यावत्कृतिषु रससुधानिधौ चतुर्थः प्रवाहः सम्पूर्णः ॥

**********************************************************************************

]