विस्तारः (द्रष्टुं नोद्यम्)
This etext is based upon the following four editions:
- RG with Sanskrit commentaries by Nāgeśa Bhaṭṭa and Mathurā Nāth Śāstrī, Delhi: Motilal Banārsīdās, 1983 (reprint).
- RG with Sanskrit and Hindi Commentaries by Badarinath Jha and Madan Mohan Jha, Varanasi: Chowkhamba Vidyabhawan, 1990 (reprint).
- RG with Sanskrit commentary by Kedāranātha Ojhā, Varanasi: Sampurnanand Sanskrit Vishvavidyalaya, 1977.
- RG with Sanskrit and Hindi Commentaries by Madhusūdan Śāstrī, Varanasi: Banaras Hindu University, 1962.
Edited and proofread by Timothy C. Cahill.
जगन्नाथ पण्डितराजः रसगङ्गाधर, आनन १:
स्मृतापि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर् विद्युताम्।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥
श्रीमज्ज्ञानेन्द्रभिक्षोर् अधिगतसकलब्रह्मविद्याप्रपञ्चः
काणादीराक्षपादीर् अपि गहनगिरो यो महेन्द्रादवेदीत्।
देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
शेषाङ्कप्राप्तशेषामलभणितिर् अभूत् सर्वविद्याधरो यः॥
पाषाणाद् अपि पीयूषं स्यन्दते यस्य लीलया।
तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं
महागुरुम्॥
निमग्नेन क्लेशैर् मननजलधेर् अन्तरुदरं
मयोन्नीतो लोके ललितरसगङ्गाधरमणिः।
हरन्न् अन्तर्ध्वान्तं हृदयम् अधिरूढो गुणवताम्
अलङ्कारान् सर्वान् अपि गलितगर्वान् रचयतु॥
परिष्कुर्वन्त्व् अर्थान् सहृदयधुरीणाः कतिपये
तथापि क्लेशो मे कथम् अपि गतार्थो न भविता।
तिमीन्द्राः सङ्क्षोभं विदधतु पयोधेः पुनर् इमे
किम् एतेनायासो भवति विफलो मन्दरगिरेः॥
निर्माय नूतनम् उदाहरणानुरूपं
काव्यं मयात्र निहितं न परस्य किञ्चित्।
किं सेव्यते सुमनसां मनसापि गन्धः
कस्तूरिकाजननशक्तिभृता मृगेणा॥
मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः
रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम्
रसागङ्गाधरनामा सन्दर्भो ऽयं चिरं जयतु।
किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु॥
तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोर् आवश्यकतया गुणालङ्कारादिभिर् निरूपणीये तस्मिन् विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन् निरूप्यते–
रमणीयार्थप्रतिपादकः शब्दः काव्यम्॥
रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। लोकोत्तरत्वं चाह्लादगतश् चमत्कारत्वापरपर्यायो ऽनुभवसाक्षिको जातिविशेषः। कारणां च तदवच्छिन्ने भावनाविशेषः पुनःपुनर् अनुसन्धानात्मा। “पुत्रस् ते जातः,” “धनं ते दास्यामि” इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम्। अतो न तस्मिन् वाक्ये काव्यत्वप्रसक्तिः। इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेणा चमत्कारत्ववत्त्वम् एव वा काव्यत्वम् इति फलितम्। यत् तु प्राञ्चः “अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम्” इत्य् आहुः, तत्र विचार्यते– शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात्। काव्यम् उच्चैः पठ्यते, काव्याद् अर्थो ऽवगम्यते, कव्यं श्रुतम् अर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश् च। व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्याद् अप्य् एवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किम् अपि प्रमाणां स्यात्। तद् एव तु न पश्यामः। विमतवाक्यं त्व् अश्रद्धेयम् एव। इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे, प्राग् उक्ताद् व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुम् ईष्टे। एतेन विनिगमनाभावाद् उभयत्र शक्तिर् इति प्रत्युक्तम्। तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पितस्य काव्यपदार्थस्य। एषैव च वेदपुराणादिलक्षणेष्व् अपि गतिः। अन्यथा तत्रापीयं दुरवस्था स्यात्। यत् त्व् आस्वादोद्बोधकत्वम् एव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टम् इत्य् आहुः, तन् न। रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालङ्कारिकसम्मतत्वेन प्रकृते लक्षणीयत्वापत्तेः। किं बहुना नाट्याङ्गानां सर्वेषाम् अपि प्रायशस् तथात्वेन तत्वापात्तिर् दुर्वारैव। एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्वम् इत्य् अपि परास्तम्। अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्
व्यासक्तम्, प्रत्येकपर्याप्तं वा। नाद्यः। एको न द्वाव् इति व्यवहारस्येव श्लोकवाक्यं न काव्यम् इति व्यवहारस्यापत्तेः। न द्वितीयः। एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद् वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता।
लक्षणे गुणालङ्कारादिनिवेशो ऽपि न युक्तः। “उदितं मण्डलं विधोः” इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरिते ऽभिसरणविधिनिषेधजीवनाभावादिपरेः “गतो ऽस्तम् अर्कः” इत्यादौ चाव्याप्त्यापत्तेः। न चेदम् अकाव्यम् इति शक्यं वदितुम्। काव्यतया पराभिमतस्यापि यथा वक्तुं शक्यत्वात्। काव्यजीवितं चमत्कारित्वं चाविशिष्टम् एव। गुणत्वालङ्कारत्वादेर् अननुगमाच् च। दुष्ट काव्यम् इति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच् च। न च संयोगाभाववान् वृक्षः संयोगीतिवद् अंशभेदेन। दोषरहितं दुष्टम् इति व्यवहारे बाधकं नास्तीति वाच्यम्। “मूले महीरूहो विहङ्गमसंयोगी, न शाखायाम्” इति प्रतीतेर् इवेदं पद्यं पूर्वार्धे काव्यम् उत्तरार्धे तु न काव्यम् इति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहाद् अव्याप्यवृत्तिताया अपि तस्यायोगात्। शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवद् उपस्कारकाणाम् अलङ्काराणां च शरीरघटकत्वानुपपत्तेश् च। यत् तु “रसवद् एव काव्यम्” इति साहित्यदर्पणे निर्णीतम्, तन् न। वस्त्वलङ्कारप्रधानानां काव्यानाम् अकाव्यत्वापत्तेः। न चेष्टापत्तिः, महाकविसम्प्रदायस्याकुलीभावप्रसङ्गात्। तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर् वर्णितानि कपिबालादिविलसितानि च। न च तत्रापि यथाकथञ्चित् परम्परया रसस्पर्शो ऽस्त्य् एवेति वाच्यम्। ईदृशरसस्पर्शस्य “गौश् चलति”, “मृगो धावति” इत्यादाव् अतिप्रसक्तत्वेनाप्रयोजकत्वात्। अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वाद् इति दिक्। तस्य च कारणं कविगता केवला प्रतिभा। सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः। तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं
वाखण्डम्। तस्याश् च हेतुः क्वचिद् देवतामहापुरुषप्रसादादिजन्यम् अदृष्टम्। क्वचिच् च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ। न तु त्रयम् एव। बालादेस् तौ विनापि केवलान् महापुरुषप्रसादाद् अपि प्रतिभोत्पत्तेः। न तत्र तयोर् जन्मान्तरीययोः कल्पनं वाच्यम्। गौरवान् मानाभावात् कार्यस्यान्यथाप्य् उपपत्तेश् च। लोके हि बलवता प्रमाणेनागमादिना सति कारणातानिर्णाये पश्चाद् उपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयम् अन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते। अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णाये भ्रमत्वप्रतिपत्तिर् एव जायते। नापि केवलम् अदृष्टम् एव कारणम् इत्य् अपि शक्यं वदितुम्। कियन्तञ्चित् कालं काव्यं कर्तुम् अशक्नुवतः कथम् अपि सञ्जातयोर् व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात्। तत्राप्य् अदृष्टस्याङ्गीकारे प्राग् अपि ताभ्यां तस्याः प्रसक्तेः। न च तत्र प्रतिभायाः प्रतिबन्धकम् अदृष्टान्तरं कल्प्यम् इति वाच्यम्। तादृशानेक स्थलगतादृष्टद्वयकल्पनापेक्षया कॢप्तव्युत्पत्त्यभ्यासयोर् एव प्रतिभाहेतुत्वकल्पने लाघवात्। अतः प्रागुक्तसरणिर् एव ज्यायसी। तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश् च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः। प्रतिभात्वं च कवितायाः कारणातावच्छेदकम्, प्रतिभागतवैलक्षण्यम् एव वा विलक्षणकाव्यं प्रतीति नात्रापि सः। न च सतोर् अपि व्युत्पत्यभ्यासयोर् यत्र न प्रतिभोत्पत्तिस् तत्रान्वयव्यभिचार इति वाच्यम्। तत्र तयोस् तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात्। पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद् वा न दोषः। प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश् चाविशिष्टा। प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात्।
तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच् चतुर्धा।
शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थम् अभिव्यङ्क्तस् तद् आद्यम्॥
कमपीति चमत्कृतिभूमिम्। तेनातिगूढस्फुटव्यङ्ग्ययोर् निरासः। अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाव् इति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम्।
उदाहरणम्–
शयिता सविधे ऽप्यनीश्वरा सफलीकर्तुम् अहो मनोरथान्।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षयते॥
अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेर् उद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेर् अनुभावस्य, त्रपौत्सुक्यादेश् च व्यभिचारिणः, संयोगाद् रतिर् अभिव्यज्यते। आलम्बनादीनां स्वरूपं वक्ष्यते। न च यद्य् अयं शयितः स्यात् तदास्याननाम्बुजं चुम्बेयम् इति नायिकेच्छाया एव व्यङ्गयत्वम् अत्रेति वाच्यम्। मनोरथान् सफलीकर्तुम् असमर्थेत्यनेन मनोरथाः सर्वे ऽस्या हृदि तिष्टन्ति इति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात्। न च मनोरथपदेन मनोरथत्वाकारेणा सामान्येच्छाया अभिधाने ऽपि चुम्बेयम् इति विषयविशेषविशिष्टेच्छात्वेन व्यङ्ग्यत्वे किं बाधकम् इति वाच्यम्। चमत्कारो न स्याद् इत्यस्यैव बाधकत्वात्। न हि विशेषाकारेण व्यङ्ग्यो ऽपि सामान्याकारेणाभिहितो ऽर्थः सहृदयानां चमत्कृतिम् उत्पादयितुम् ईष्टे। कथम् अपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालङ्कारिकैः स्वीकारात्। चुम्बनेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने चुम्बामीति शब्दबलाच् चुम्बनेच्छावद् अचमत्कारित्वाच् च। एवं त्रपाया अपि न प्राधान्येन व्यङ्ग्यत्वम्। अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात्। न च दरमीलन्नयनात्वविशिष्टनिरीक्षणं विधेयम् इति नानुवाद्यतावच्छेदकत्वं तस्या इति वाच्यम्। एवम् अपि नयनगतदरमीलनस्य तत्कार्यत्वे ऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात्। त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेर् अनतिप्रयोजनकत्वापत्तेः।
वाच्यवृत्त्या रतेर् अनुभावे निरीक्षणो त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात्।
यथा वा–
गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्।
दरकुण्डलताण्डवं नतभ्रूलतिकं माम् अवलोक्य घूर्णितासीत्॥
अत्र घूर्णितासीद् इत्यनेनासमीक्ष्यकारिन् किमिदम् अनुचितं कृतवान् असीत्य् अर्थसम्वलितो ऽमर्षश् चर्वणाविश्रान्तिधामत्वात् प्राधान्येन व्यज्यते। तत्र शब्दो ऽर्थश् च गुणः।
यथा वा–
“तल्पगतापि च सुतनुः श्वासासङ्ग न या सेहे।
सम्प्रति सा हृदयगतं प्रियपाणिं मन्दम् आक्षिपति॥”
इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षम् इति दिङ्मात्रेण व्याख्यायते — या नववधूः पल्यङ्कशयिता श्वासस्यासङ्गमात्रेणापि सङ्कुचद् अङ्गलतिकाभूत् सा सम्प्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्याद् आक्षिपति, परं तु मन्दम्। अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यते। उपपादयिष्यते च स्थाय्यादीनाम् अपि संलक्ष्यक्रमव्यङ्गयत्वम्। अमुम् एव च प्रभेदं ध्वनिम् आमनन्ति।
यत् तु चित्रमीमांसायाम् अप्पय्यदीक्षितैः “निःशेषच्युतचन्दनम्” इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्– उत्तरीयकर्षणेन चन्दन-च्युतिर् इत्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम्। ततश् चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन सम्भोगचिह्नोद्धाटनाय तटग्रहणम्।
स्नाने हि सर्वत्र चन्दन च्युतिः स्यात्, तव तु स्तनयोस् तट उपरि भाग एव दृश्यते। इयम् आश्लेषकृतैव। तथा निर्मृष्टरागो ऽधर इत्य् अत्र ताम्बूलग्रहणविलम्बात् प्राचीनरागस्य किञ्चिन् मृष्टतेत्य् अन्यथासिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्नानसाधारण्यवर्तनेन सम्भोगचिह्नोद्घाटनायाधर इति विशिष्य ग्रहणम्। उत्तरोष्ठे सरागे ऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव इत्यादिना, “इदम् अपि ध्वनेर् उदाहरणम्” इत्यन्तेन सन्दर्भेण। “तटादिघटिता वाक्यार्थाः स्नानव्यावृत्तिद्वारा सम्भोगाङ्गानाम् आश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकम् आचरन्ति इति, तद् एतद् अलङ्कारशास्त्रतत्त्वानवबोधनिबन्धनम्। प्राचीनसकलग्रन्थविरुद्धत्वाद् उपपत्तिविरोधाच् च। तथा हि– पञ्चमोल्लासशेषे “निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्य् उपात्तानि तानि कारणान्तरतो ऽपि भवन्ति। यतश् चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्य् अनैकान्तिकानि इति काव्यप्रकाशकृतोक्तम्। तथा तत्रैव तेन–
“भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण॥”
इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च सन्दिह्यमानाद् अपि लिङ्गाद् व्यञ्जनम् अभ्युपगतम्। इत्थम् एव च ध्वनिकृतापि प्रथमोद्द्योते। एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपादयतस् तव ग्रन्थस्य विरोधः स्फुटः। किं च यद् इदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यङ्ग्यासाधारण्यं सम्पाद्यते तत् किम् अर्थम् इति पृच्छामः। व्यङ्ग्यस्य व्यञ्जनार्थम् इति चेन् न। व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात्।
“औणिद्दं दोब्बल्लं चिन्ता अलसन्तणं सणीससिअम्
मह मन्दभाइणीए केरं सहि तुह परिभवै॥”
इत्यादौ साधारणानाम् एवौन्निद्र्यादीनां वक्त्रादिवैशिष्ट्यवशाद् अर्थविशेषव्यञ्जकताया अभ्युपगतेः। प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच् च। अथ तटादिघटितत्वे ऽपि न निःशेषेत्यादिवाक्यार्थानाम् असाधारण्यम्। सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्सम्भवाद् इति चेत् तर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः। एकत्रानैकान्तिकत्वस्येव बहुष्व् अनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद् व्यक्त्यप्रतिकूलत्वाच् च। अपि चात्र हि तदन्तिकम् एव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं रमणरूपफलांशश् चेति द्वयं घटकम्। तत्र तावत् तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम्। त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेत्यादिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद् वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश् च प्रतीतेर् उपपत्तेः। न हि मुख्यार्थबाधेनोन्मीलिते ऽर्थे व्यक्तिवेद्यतोचिता। यथा “अहो पूर्णं सरो यत्र लुठन्तः स्नान्ति मानवाः” इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे पूर्णत्वाभावे।
अथ तदन्तिकगमनस्य लक्षणावेद्यत्वे ऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वम् अव्याहतम् एवेति चेत्, “अधमत्वम् अप्रकृष्टत्वं तच् च जात्या कर्मणा वा भवति। तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वाक्ति” इत्यादिना सन्दर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात्। अन्यलभ्यस्यच शब्दार्थताया अस्वीकृतेः। अन्यच् च यथा कथञ्चिद् अङ्गीकुरु वात्र व्यञ्जनाव्यापारं तथापि न तवेष्टसिद्धिः। वाच्यानां
निःशेषच्युतचन्दनस्तनतटत्वादीनाम् अधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसम्भोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्ग्यत्वप्रसङ्गात्। एवं चोपपत्तिविरोधो ऽपि स्फुटतर एव। तस्माद् वाच्यार्थसाधारण्यम् एवोचितम् अतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम्। तथा हि– अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोर् अन्तिकम् अगत्वैव वापीं स्नातुम् इतो ममान्तिकाद् गतासि, न पुनस् तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम्। यतो निःशेषच्युतचन्दनं स्तनयोस् तटम् एव नोरःस्थलम्, वापीगतबहुलयुवजनत्रपापारवश्याद् अंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुर् आमर्षात्। एवं त्वरया सम्यग् अक्षालनेनोत्तरोष्ठो न निर्मृष्टरागो ऽधरस् तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनाम् अधिकसम्मर्दम् आवहतीति तथा। किं च सम्यग् अक्षालनेन नेत्रे जलमात्रसंसगद् दूरम् उपरिभाग एवानञ्जने। शीतवशात् तानवाच् च तव तनुः पुलकितेति। एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिर् उचिता, अन्यथा वैदग्ध्यभङ्गापत्तेः। एवं साधारणोष्व् एषु वाक्यार्थेषु मुख्यार्थे बाधाभावात् तात्पर्यार्थस्य झटित्य् अनाकलनात् कुतो ऽत्र लक्षणावकाशः। अनन्तरं च वाच्यार्थप्रतिपत्तेर् वक्तृबोद्धव्यनायकादीनां वैशिष्ट्यस्य प्रतीतौ सत्याम् अधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशयाम् अपराधान्तरानिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसम्भोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्य् आलङ्कारिकसिद्धान्तनिष्कर्षः। एतेन “अधमत्वम् अपकृष्टत्वं तच् च जात्या कर्मणा वा भवति। तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वक्ति। नापि स्वापराधपर्यवसायिदूतीसम्भोगादिहीनकर्मातिरिक्तेन कर्मणा। तादृशं च दूतीसम्प्रेषणात् प्राचीनं
सोढम् एवेति नोद्घाटनार्हम् इतीतरव्यावृत्या सम्भोगरूपम् एव पर्यवस्यति” इति यद् उक्तम्, तद् अपि निरस्तम्। विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुम् अतितमाम् अनौचित्येन प्राचीनानाम् एव सोढानाम् अप्य् अपराधानाम् असह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वाद् इति दिक्।
यत्र व्यङ्ग्यम् अप्रधानम् एव सच्चमत्कारकारणं तद् द्वितीयम्॥
वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरम् आदय गुणीभूतं व्यङ्ग्यम् आदायातिव्याप्तिवारणायावधारणम्। तेन तस्य ध्वनित्वम् एव। लीनव्यङ्ग्यवाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि। यत् तु “अतादृशि गुणीभूतव्यङ्ग्यम्” इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर् दत्तम्, तन् न। पर्यायोक्तसमासोक्त्यादिप्रधानकाव्येष्व् अव्याप्त्यापत्तेः। तेषां गुणीभूतव्यङ्गतायाश् चित्रतायाश् च सर्वालङ्कारिकसम्मतत्वात्।
उदाहरणम्–
“राघवविरहज्वालासन्तापितसह्यशैलशिखरेषु।
शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय॥”
अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यम् आकस्मिककपिकर्तृकहनुमद्विषयककोपोपपादकतया गुणीभूतम् अपि दुर्दाइववशतो दास्यम् अनुभवद् राजकलत्रम् इव काम् अपि कमनीयताम् आवहति।
नन्व् एवं प्राग् उक्तम् आक्षेपगतं मान्द्यम् अपि नववधूप्रकृतिविरोधाद् अनुपपद्यमानं व्यङ्ग्येनैवोपपाद्यत इति कथम् उत्तमोत्तमता तस्य काव्यस्येति चेत्, न। यतो ह्य् अनुदिनसख्युपदेशादिभिर् अनतिचमत्कारिभिर् अप्य् उपपद्यमानं मान्द्यम् इदं
प्रथमचित्तचुम्बिनीं विप्रलम्भरतिम् अप्रकाशयन् न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरताम् आधातुम्। इत्थम् एव निःशेषच्युतचन्दनम् इत्यादिपद्येष्व् अधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः। अनयोर् भेदयोर् अनपह्नवनीयचमत्कारयोर् अपि प्राधान्याप्राधान्याभ्याम् अस्ति कश्चित् सहृदयवेद्यो विशेषः।
यत् तु चित्रमीमांसाकृतोक्तम्–
प्रहरविरतौ मध्ये वाह्नस्ततो ऽपि परेण वा
किम् उत सकले याते वाह्नि प्रिय त्वम् इहैष्यसि।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः॥
इत्य् अत्र सकलम् अहः परमावधिस् ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गम् अतो गुणीभूतव्यङ्ग्यम्” इति। तन् न। स बाष्पगलज्जलानां प्रहरविरताव् इत्याद्यालापानाम् एव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात्। आलापैर् इति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः। न च व्यङ्ग्यस्यापि वाच्यसिद्ध्यङ्गतात्र सम्भवतीति तथोक्तम् इति वाच्यम्। निःशेषच्युतचन्दम् इत्यादाव् इवाधमत्वरूपवाच्यसिद्ध्यङ्ग्यताया दूतीसम्भोगादौ सम्भवाद् गुणीभावापत्तेः। अस्तु वा ततः परं प्राणान् धारयितुं न शक्नोमीति व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस् तथापि नायकादेर् विभावस्य बाष्पादेर् अनुभावस्य चित्तावेगादेश् च सञ्चारिणः संयोगाद् अभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत्।
यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो
वाच्यचमत्कारस् तत्तृतीयम्॥
यथा यमुनावर्णने–“तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी” इति। अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः। श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्न् अप्य् उत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पितकाश्मीरद्रवाङ्गरागनि गीर्णो निजाङ्गगौरिम् एव प्रतीयते। न तादृशो ऽस्ति को ऽपि वाच्यार्थो यो मनाग् अनामृष्टप्रतीयमान एव स्वतो रमणीयताम् आधातुं प्रभवति। अनयोर् एव द्वितीयतृतीयभेदयोर् जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलम् अलङ्कारप्रधानं काव्यम्।
यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तद् अधमं चतुर्थम्॥ यथा–
“मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे।
गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः॥” इति।
अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना। यद्य् अपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस् तत्पञ्चमम् अधमाधमम् अपि काव्यविधासु गणयितुम् उचितम्, यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि, तथापि रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन महाकविभिः प्रचीनपरम्पराम् अनुरुन्धानैस् तत्र तत्र काव्येषु निबद्धम् अपि नास्माभिर् गणितम्, वस्तुस्थितेर् एवानुरोध्यत्वात्। केचिद् इमान् अपि चतुरो भेदान् अगणयन्त उत्तममध्यमाधमभावेन त्रिविधम् एव काव्यम् आचक्षते। तत्रार्थचित्रशब्दचित्रयोर् अविशेषेणाधमत्वम् अयुक्तं वक्तुम्, तारतम्यस्य स्फुटम् उपलब्धेः। को ह्य् एवं सहृदयः सन् “विनिर्गतं मानदम् आत्ममन्दिरात्”, “स च्छिन्नमूलः क्षतजेन रेणुः” इत्यादिभिः काव्यैः “स्वच्छन्दोच्छलद्” इत्यादीनां पामरश्लाघ्यानाम् अविशेषं ब्रूयात्। सत्य् अपि तारतम्ये यद्य् एकभेदत्वं कस् तर्हि ध्वनिगुणीभूतव्यङ्ग्योर् ईषदन्तरयोर् विभिन्नभेदत्वे दुराग्रहः। यत्र च
शब्दार्थचमत्कृत्योर् ऐकाधिकरण्यं तत्र तयोर् गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम्। समप्राधान्ये तु मध्यमतैव।
यथा–
“उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पन्धयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्।
उत्पातस् तामसानाम् उपहतमहसां चक्षुषां पक्षपातः
सङ्घातः को ऽपि धाम्नाम् अयम् उदयगिरिप्रान्ततः प्रादुरासीत्॥”
अत्र वृत्त्यनुप्रासप्राचुर्याद् ओजोगुणप्रकाशकत्वाच् च शब्दस्य, प्रसादगुणयोगाद् अनन्तरम् एवाधिगतस्य रूपकस्य हेत्वलङ्कारस्य वा वाच्यस्य, चमत्कृत्योस् तुल्यस्कन्धत्वात् समम् एव प्राधान्यम्।
तत्र ध्वनेर् उत्तमोत्तमस्यासङ्ख्यभेदस्यापि सामान्यतः के ऽपि भेदा निरूप्यन्ते– द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश् च। तत्राद्यास् त्रिविधः। रसवस्त्वलङ्कारध्वनिभेदात्। रसध्वनिर् इत्यलक्ष्यक्रमोपलक्षणाद् रसभावतदाभासभावशान्तिभावोदयभावसन्धिभावशबलत्वानां ग्रहणम्। द्वितीयश् च द्विवीधः। अर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश् च। एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेस् तदात्मा रसस् तावद् अभिधीयते–
समुचितललितसन्निवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविष्टैस् तदीयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीत्वादिभिर् अलौकिकविभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिर् आलम्बनकारणैः, चन्द्रिकादिभिर् उद्दीपनकारणैः, अश्रुपातादिभिः कार्यैः, चिन्तादिभिः सहकारिभिश् च सम्भूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणाज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्रग्विनिविष्टवासनारूपो रत्यादिर् एव रसः॥
(१) तथा चाहुः- “व्यक्तः स तैर् विभावाद्यैः
स्थायीभावो रसः स्मृतः” इति। व्यक्तो व्यक्तिविषयीकृतः। व्यक्तिश् च भग्नावरणा चित्। यथा हि शरावादिना पिहितो दीपस् तन्निवृत्तौ सन्निहितान् पदार्थान् प्रकाशयति स्वयं च प्रकाशते, एवम् आत्मचैतन्यं विभावादिसंवलितान् रत्यादीन्। अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः। विभावादीनाम् अपि स्वप्नतुरगादीनाम् इव रङ्गरजतादीनाम् इव साक्षिभास्यत्वम् अविरुद्धम्। व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्याम् उत्पत्तिविनाशौ रसे उपचर्येते वर्णनित्यतायाम् इव व्यञ्जकताल्वादिव्यापारस्य गकारादौ। विभावादिचर्वणावधित्वाद् आवरणभङ्गस्य, निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद् विद्यमानो ऽपि स्थायी न प्रकाशते।
यद् वा विभावादिचर्वणामाहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाव् इव योगिनश् चित्तवृत्तिर् उपजायते, तन्मयीभवनम् इति यावत्। आनन्दो ह्य् अयं न लौकिकसुखान्तरसाधारणः, अनन्तःकरणवृत्तिरूपत्वात्। इत्थं चाभिनवगुप्तमम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायी भावो रस इति स्थितम्।
वस्तुतस् तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्न भग्नावरणा चिद् एव रसः। सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशम् आदाय नित्यत्वं स्वप्रकाशत्वं च सिद्धम्। रत्याद्यंशम् आदाय त्व् अनित्यत्वम् इतरभास्यत्वं च। चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणवृत्तिर् वा। इयं च परब्रह्मास्वादात् समाधेर्विलक्षणा, विभावादिविषयसंवलितचिदानन्दालम्बनत्वात्। भाव्या च काव्यव्यापारमात्रात्। अथास्यां सुखांशभाने किं मानम् इति चेत् समाधाव् अपि तद्भाने किं मानम् इति पर्यनुयोगस्य तुल्यत्वात्। “सुखम् आत्यन्तिकं यत् तद्बुद्धिग्राह्यम् अतीन्द्रियम्”, इत्यादिः शब्दो ऽस्ति तत्र मानम् इति चेत्, अस्त्य् अत्रापि “रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति” इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति
प्रमाणद्वयम्।
येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच् छाब्दी। अपरोक्षसुखालम्बनत्वाच् चापरोक्षात्मिका। तत्त्वं वाक्यजबुद्धिवत्। इत्याहुर् अभिनवगुप्ताचार्यपादाः।
(२) भट्टनायकास् तु “ताटस्थ्येन रसप्रतीताव् अनास्वाद्यत्वम्। आत्मगतत्वेन तु प्रत्ययो दुर्घटः। शकुन्तलादीनां सामाजिकान् प्रत्यविभावत्वात्। विना
विभावम् अनालम्बनस्य रसादेर् अप्रतिपत्तेः। न च कान्तात्वं साधारणविभावतावच्छेदकमत्राप्यस्तीति वाच्यम्। अप्रामाण्यनीश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदककोटाववश्यः निवेश्यत्वात्। अन्यथा स्वस्रादेर् अपि कान्तात्वादिना तत्त्वापत्तेः। एवम् अशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ।
तादृशज्ञानानुत्पादस् तु तत्प्रतिबन्धकान्तरनिर्वचनम् अन्तरेण दुरुपपादः। स्वात्मनि दुष्यन्ताद्यभेदबुद्धिर् एव तथेति चेत्, न। नायके धराधौरेयत्वधीरत्वादेर् आत्मनि चाधुनिकत्वकापुरुषत्वादेर् वाइधर्म्यस्य स्फुटं प्रतिपत्तेर् अभेदबोधस्यैव दुर्लभत्वात्। किं च केयं प्रतीतिः। प्रमाणन्तरानुपस्थानाच् छाब्दीति चेत्, न। व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनाम् इवास्या अप्य् अहृद्यत्वापत्तेः। नापि मानसी। चिन्तोपनीतानां तेषाम् एव पदार्थानां मानस्याः प्रतीतेर् अस्या वैलक्षण्योपलम्भात्। न च स्मृतिः। तथा प्राग् अननुभवात्। तस्माद् अभिधया निवेदिताः पदार्था भावकत्वव्यापारेणागम्यात्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्ते। एवं साधारणीकृतेषु दुःष्यन्तशकुन्तलादेशकालवयोवस्थादिषु, पङ्गौ पूर्वव्यापारमहिमनि, तृतीयस्य भोगकृत्त्वव्यापारस्य महिम्ना निगीर्णयो रजस्तमसोर् उद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन
साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः। तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयम् एव रसः। सो ऽयं भोगो विषयसंवलनाद् ब्रह्मास्वादसविधवर्तीत्युच्यते। एवं च त्रयो ऽम्शाः काव्यस्य– “अभिधा भावना चैव तद्भोगीकृतिर् एव च” इत्य् आहुः। मतस्यैतस्य पूर्वस्मान् मताद् भावकत्वव्यापारान्तरस्वीकार एव विशेष। भोगस् तु व्यक्तिः। भोगकृत्त्वं तु व्यञ्जनाद् अविशिष्टम्। अन्या तु सैव सरणिः।
(३) नव्यास् तु “काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायाम् अनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्य् अज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानो ऽनिर्वचनीयः साक्षिभास्यः शकुन्तलादिविषयकरत्यादिर् एव रसः।
अयं च कार्यो दोषविशेषस्य। नाश्यश् च तन्नाशस्य। स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात् सुखपदव्यपदेश्यो भवति। स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात् तद्रतित्वेनैकत्वाध्यवसानाद् वा व्यङ्ग्यो वर्णनीयश् चोच्यते। अवच्छादकं दुष्यन्तत्वम् अप्य् अनिर्वचनीयम् एव। अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम्। एतेन दुष्यन्तादिनिष्ठस्य रत्यादेर् अनास्वाद्यत्वान् न रसत्वम्। स्वनिष्ठस्य तु तस्य शकुन्तलादिभिर् अतत्सम्बन्धिभिः कथम् अभिव्यक्तिः। स्वस्मिन् दुष्यन्ताद्यभेदबुद्धिस् तु बाधबुद्धिपराहतेत्यादिकम् अपास्तम्।
यद् अपि विभावादीनां साधारण्यं प्राचीनैर् उक्तं तद् अपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम्। अतो ऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिर् अपि सूपपादा।
नन्व् एवम् अपि रतेर् अस्तु नाम दुष्यन्त इव सहृदये ऽपि सुखविशेषजनकता करुणरसादिषु तु स्थायिनः शोकादेर् दुःखजनकतया प्रसिद्धस्य कथम् इव
सहृदयाह्लादहेतुत्वम्। प्रत्युत नायक इव सहृदये ऽपि दुःखजननस्यैवौचित्यात्। न च सत्यस्य शोकादेर् दुःखजनकत्वं कॢप्तं न कल्पितस्येति नायकानाम् एव दुःखम्, न सहृदयस्येति वाच्यम्।
रज्जुसर्पादेर् भयकम्पाद्यनुत्पादकतापत्तेः। सहृदये रतेर् अपि कल्पितत्वेन सुखजनकतानुपपत्तेश् चेति चेत्। सत्यम्। शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्यो ऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकस् तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल् लोकोत्तरकाव्यव्यापारस्यैवाह्लादप्रयोजकत्वम् इव दुःखप्रतिबन्धकत्वम् अपि कल्पनीयम्।
अथ यद्य् आह्लाद इव दुःखम् अपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम्। स्वस्वकारणवशाच् चोभयम् अपि भविष्यति। अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुम्, कथं प्रवृत्तिः। अनिष्टसाधनत्वेन निवृत्तेर् उचितत्वात्। इति चेत्। इष्टस्याधिक्याद् अनिष्टस्य च न्यूनत्वाच् चन्दनद्रवलेपनादाव् इव प्रवृत्तेर् उपपत्तेः। केवलाह्लादवादिनां तु प्रवृत्तिर् अप्रत्यूहैव। अश्रुपातादयो ऽपि तत्तदानन्दानुभवस्वाभाव्यात्। न तु दुःखात्। अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनाद् अश्रुपातादय उपपद्यन्ते। न हि तत्र जात्वपि दुःखानुभवो ऽस्ति।
न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्य् आह्लादस् तदा स्वप्नादौ सन्निपातादौ वा स्वात्मनि तदारोपे ऽपि स स्यात्। आनुभविकं च तत्र केवलं दुःखम्। इतीहापि तद् एव युक्तम् इति वाच्यम्। अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादम् अलौकिकं जनयन्ति।
विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजाद् अनुभवात्। जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम्। तेन रसास्वादस्य काव्यव्यापाराजन्यत्वे ऽपि न क्षतिः। शकुन्तलादाव् अगम्यात्वज्ञानोत्पादस् तु स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतिबध्यते” इत्य् आहुः।
(४) परे तु “व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्
चानभ्युपगमे ऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः विलक्षणविषयिताशाली रसः। स्वाप्नादिस् तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः। तेन तत्र न तादृशाह्लादापत्तिः।
एवम् अपि स्वस्मिन्न् अविद्यमानस्य रत्यादेर् अनुभवः कथं नाम स्यात्। मैवम्। न ह्य् अयं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावो ऽपेक्षणीयः स्यात्। अपि तु भ्रमः। आस्वादनस्य रसविषयकत्वव्यवहारस् तु रत्यादिविषयकत्वालम्बनः” इत्य् अपि वदन्ति।
एतैश् च स्वात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिवैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर् वाइशिष्ट्यावगाही, वा त्रिविधो ऽपि बोधो रसपदार्थतयाभ्युपेयः। तत्र “रतेर् विशेषणीभूतायाः शब्दाद् अप्रतीतत्वाद् व्यञ्जनायाश् च तत्प्रत्यायिकाया अनभ्युपगमाच् चेष्टादिलिङ्गकम् आदौ विशेषणज्ञानार्थम् अनुमानम् अभ्युपेयम्।
(५) “मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते” इत्य् एके। मते ऽस्मिन् साक्षात्कारो दुष्यन्तो ऽयं शकुन्तलादिविषयकरतिमान्” इत्यादिः प्राग्वद् धर्म्यंशे लौकिक आरोप्यांशे त्व् अलौकिकः।
(६) दुष्यन्तादिगतो रत्यादिर् नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैर् अप्य् अकृत्रिमतया गृहीतैर् भिन्ने विषये ऽनुमितिसामग्र्या बलवत्त्वाद् अनुमीयमानो रसः” इत्य् अपरे।
(७) “विभावादयस् त्रयः समुदिता रसाः” इति कतिपये।
(८) “त्रिषु य एव चमत्कारी स एव रसो ऽन्यथा तु त्रयो ऽपि न” इति बहवः।
(९)
“भाव्यामानो विभाव एव रसः इत्य् अन्ये।
(१०) “तथा अनुभावस् तथा इतीतरे।
(११) “तथा व्यभिचार्य् एव तथा परिणमति” इति केचित्।
तत्र “विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः” इति सूत्रं तत्तन्मतपरतया व्याख्यायते– “विभावानुभावव्यभिचारिभिः संयोगाद् व्यञ्जनाद् रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्” इत्य् आद्ये।
“विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद् भावकत्वव्यापारेण भावनाद् रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिर् भोगाख्येन साक्षात्कारेण विषयीकृतिः” इति द्वितीये।
“विभावानुभावव्यभिचारिणां संयोगाद् भावनाविशेषरूपाद् दोषाद् रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिर् उत्पत्तिः” इति तृतीये। “विभावादीनां संयोगाज् ज्ञानाद् रसस्य ज्ञानविशेषात्मनो निष्पत्तिर् उत्पत्तिः” इति चतुर्थे। विभावादीनां सम्बन्धाद् रसस्य रत्यादेर् निष्पत्तिर् आरोपः इति पञ्चमे।
विभावादिभिः कृत्रिमैर् अप्य् अकृत्रिमतया गृहीतैः संयोगाद् अनुमानाद् रसस्य रत्यादेर् निष्पत्तिर् अनुमितिर् नटादौ पक्ष इति शेषः” इति षष्ठे। “विभावादीनां त्रयाणां संयोगात् समुदायाद् रसनिष्पत्ती रसपदव्यवहारः” इति सप्तमे। “विभावादिषु सम्यग्योगाच् चमत्कारात्” इत्य् अष्टमे। तद् एवं पर्यवसितस् त्रिषु मतेषु सूत्रविरोधः।
विभावानुभावव्यभिचारिणाम् एकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकतानुपपत्तेः सूत्रे मिलितानाम् उपादानम्। एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे यत्र क्वचिद् एकस्माद् एवासाधारणाद् रसोद्बोधस् तत्रेतरद्वयम् आक्षेप्यम्। अतो नानैकान्तिकत्वम्। इत्थं नानाजातीयाभिः
शेमुषीभिर् नानारूपतयावसितो ऽपि मनीषिभिः परमाह्लादाविनाभावितया प्रतीयमानः प्रपञ्चे ऽस्मिन् रसो रमणीयताम् आवहतीति निर्विवादम्।
स च–
“शृङ्गारः करुणः शान्तो रौद्रो वीरो ऽद्भुतस् तथा।
हास्यो भयानकश् चैव बीभत्सश् चेति ते नव॥”
इत्य् उक्तेर् नवधा। मुनिवचनं चात्र मानम्।
केचित् तु–
“शान्तस्य शमसाध्यत्वान् नटे च तदसम्भवात्।
अष्टाव् एव रसा नाट्ये न शान्तस् तत्र युज्यते॥”
इत्य् आहुः। तच् चापरे न क्षमन्ते। तथा हि– नटे शमाभावाद् इति हेतुर् असङ्गतः। नटे रसाभिव्यक्तेर् अस्वीकारात्। सामाजिकानां शमवत्त्वेन तत्र रसोद्बोधे बाधकाभावात्। न च नटस्य शमाभावात् तदभिनयप्रकाशकत्वानुपपत्तिर् इति वाच्यम्। तस्य भयक्रोधादेर् अप्य् अभावेन तदभिनयप्रकाशकताया अप्य् असङ्गत्यापत्तेः। यदि च नटस्य क्रोधादेर् अभावेन वास्तवतत्कार्याणां वधबन्धादीनाम् उत्पत्त्यसम्भवे ऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकम् इति निरीक्ष्यते, तदा प्रकृते ऽपि तुल्यम्।
अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात् सामाजिकेष्व् अपि विषयवैमुख्यात्मनः शान्तस्य कथम् उद्रेक इति चेत्, नाट्ये शान्तरसम् अभ्युपगच्छद्भिः फलबलात् तद्गीतवाद्यादेस् तस्मिन् विरोधिताया अकल्पनात्। विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानीत्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेर् अपि विषयत्वेन विरोधित्वापत्तेः। अत एव चरमाध्याये सङ्गीतरत्नाकरे–
“अष्टाव् एव रसा नाट्येष्व् इति केचिद् अचूचुदन्।
तदचारु यतः कञ्चिन् न रसं स्वदते नटः॥”
इत्यादिना नाट्ये ऽपि शान्तो रसो ऽस्तीति व्यवस्थापितम्। यैर् अपि नाट्ये शान्तो रसो नास्तीत्य् अभ्युपगम्यते तैर् अपि बाधकाभावान् महाभारतादिप्रबन्धानां शान्तरसप्रधानतया अखिललोकानुभवसिद्धत्वाच् च काव्ये सो ऽवश्यं स्वीकार्यः। अत्र एव “अष्टौ नाट्ये रसाः स्मृताः” इत्य् उपक्रम्य “शान्तो ऽपि नवमो रसः” इति मम्मटभट्टा अप्य् उपसमहार्षुः।
अमीषां च–
“रतिः शोकश् च निर्वेदक्रोधोत्साहश् च विस्मय।
हासो भयं जुगुप्सा च स्थायिभावाः क्रमाद् अमी॥”
रसेभ्यः स्थायिभावानां घटादेर् घटाद्यवच्छिन्नाकाशाद् इव प्रथमद्वितीययोर् मतयोः, सत्यरजतस्यानिर्वचनीयरजताद् इव तृतीये, विषयस्य (रजतादेः) ज्ञानाद् इव चतुर्थे भेदो बोध्यः। तत्र आ प्रबन्धं स्थिरत्वाद् अमीषां भावानां
स्थायित्वम्। न च चित्तवृत्तिरूपाणाम् एषाम् आशुविनाशित्वेन स्थिरत्वं दुर्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्व् अतिप्रसक्तम् इति वाच्यम्। वासनारूपाणाम् अमीषां मुहुर्मुहुर् अभिव्यक्तेर् एव स्थिरपदार्थत्वात्। व्यभिचारिणां तु नैव, तदभिव्यक्तेर् विद्युदुद्द्योतप्रायत्वात्।
यदाहुः–
“विरूद्धैर् अविरुद्धैर् वा भावैर् विच्छिद्यते न यः।
आत्मभावं नयत्याशु स स्थायी लवणाकरः॥
चिरं चित्ते ऽवतिष्ठन्ते सम्बध्यन्ते ऽनुबन्धिभिः।
रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनो ऽत्र ते॥”
चिरम् इति व्यभिचारिवारणाय। अनुबन्धिभिर् विभावाद्यैः।
तथा–
“सजातीयविजातीयैर्
अतिरस्कृतमूर्तिमान्।
यावद् रसं वर्तमानः स्थायिभाव उदाहृतः॥” इति।
केचित् तु रत्याद्यन्यतमत्वं स्थायित्वम् आहुः। तन् न। रत्यादीनाम् एकस्मिन् प्ररूढे ऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात्। प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्वे।
तदुक्तं रत्नाकरे–
“रत्यादयः स्थायिभावाः स्युर् भूयिष्ठविभावजाः।
स्तोकं विभावैर् उत्पन्नास् त एव व्यभिचारिणः॥ इति।
एवं च वीररसे प्रधाने क्रोधो, रौद्रे चोत्साहः, शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश् च। यदा तु प्रधानपरिपोषार्थं सो ऽपि बहुविभावजः क्रियते तदा तु रसालङ्कार इत्यादि बोध्यम्।
तत्र–
स्त्रीपुंसयोर् अन्योन्यालम्बनः प्रेमाख्यश् चित्तवृत्तिविशेषो रतिः स्थायिभावः॥
गुरुदेवतापुत्राद्यालम्बनस् तु व्यभिचारी।
पुत्रादिवियोगमरणादिजन्मावैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः॥
स्त्रीपुंसयोस् तु वियोगे जीवितत्वज्ञानदशायां वैक्लव्यपोषिताया रतेर् एव प्राधान्याच् छृङ्गारो विप्रलम्भाख्यो रसः। वैक्लव्यं तु सञ्चारिमात्रम्। मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव। यदा तु सत्य् अपि मृतत्वज्ञाने देवताप्रसादादिना पुनर् उज्जीवनज्ञानं कथञ्चित् स्यात्, तदालम्बनस्यात्यन्तिकनिरासाभावाच् चिरप्रवास इव विप्रलम्भ एव, न स करुणः। यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु। केचित् तु रसान्तरम् एवात्र करुणविप्रलम्भाख्यम् इच्छन्ति।
नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः॥
गृहकलहादिजस् तु व्यभिचारि।
गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः॥
अयं च परविनाशादिहेतुः। क्षुद्रापराधजन्मा तु परुषवचनासम्भाषणादिहेतुः। अयम् एवामर्षाख्यो व्यभिचारीति विवेकः।
परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः॥
अलौकिकवस्तुदर्शनादिजन्मा विकासाख्यो विस्मयः॥
वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः॥
व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम्॥
परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारि। अपरे तु औत्पातिकप्रभवस् त्रासः, स्वापराधद्वारोत्थं भयम् इति भयत्रासयोर् भेदम् आहुः।
कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश् चित्तवृत्तिविशेषो जुगुप्सा॥
एवम् एषां स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्य् एषु काव्यनाट्ययोर् व्यज्यमानेषु विभावशब्देन व्यपदिश्यन्ते॥
विभावयन्तीति व्युत्पत्तेः।
यानि च कार्यतया तान्य् अनुभावशब्देन॥
अनु पश्चाद् भाव उत्पत्तिर् येषाम्। अनुभावयन्तीति वा व्युत्पत्तेः।
यानि सह चरन्ति तानि व्यभिचारिशब्देन॥
तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने। चन्द्रिकावसन्तविविधोपवनरहःस्थानादय उद्दीपनविभावाः। तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयो ऽन्ये सात्त्विकभावाश् चानुभावाः। स्मृतिचिन्तादयो व्यभिचारिणः।
करुणस्य बन्धुनाशादय आलम्बनानि। तत्सम्बन्धिगृहतुरगाभरणदर्शनादयस् तत्कथाश्रवणादयश् चोद्दीपकाः। गात्रक्षेपाश्रुपातादयो ऽनुभावा ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः।
शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम्। वेदान्तश्रवणतपोवनतापसदर्शनाद्युद्दीपनम्। विषयारुचिशत्रुमित्त्राद्यौदासीन्यचेष्टाहानिनासाग्रदृष्ट्यादयो ऽनुभावाः। हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः।
रौद्रस्यागस्कृत्पुरुषादिर् आलम्बनम्। तत्कृतो ऽपराधादिर् उद्दीपकः। वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिर् अनुभावः। अमर्षवेगौग्र्यचापलादयः सञ्चारिणः।
एवं यस्याश् चित्तवृत्तेर् यो विषयः स तस्या आलम्बनम्। निमित्तानि चोद्दीपकानीति बोध्यम्।
तत्र शृङ्गारो द्विविधः। सम्भोगो विप्रलम्भश् च। रतेः संयोगकालावच्छिन्नत्वे प्रथमः। वियोगकालावच्छिन्नत्वे द्वितीयः। संयोगश् च न दम्पत्योः सामानाधिकरण्यम्। एकतल्पशयने ऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्णनात्। एवं वियोगो ऽपि न वैयधिकरण्यम्। दोषस्योक्तत्वात्। तस्माद् द्वाव् इमौ संयोगवियोगाख्याव् अन्तःकरणवृत्तिविशेषौ। यत् संयुक्तो वियुक्तश् चास्मीति धीः। तत्राद्यो यथा “शयिता सविधे ऽप्यनीश्वरा” इत्य् अत्र निरूपितः।
यत् तु चित्रमीमांसायाम्–
“वागर्थाविव सम्पृक्तौ” इत्यत्र रसध्वनिः।
निरतिशयप्रेमशालिताव्यञ्जनात्” इतितद्ध्वनिमार्गानाकलननिबन्धनम्। पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात्। न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम्। “भिन्नो रसाद्यलङ्काराद् अलङ्कार्यतया स्थितः” इति सिद्धान्तात्।
द्वितीयो यथा–
“वाचो माङ्गलिकीः प्रयाणसमये जल्पत्य् अनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा।
निःश्वासग्लपिताधरोपरिपतद्बाष्पार्द्रवक्षोरुहा
बाला लोलविलोचना शिव शिव प्राणेशम् आलोकते॥”
अत्राप्य् आलम्बनस्य नायकस्य, निःश्वासाश्रुपातादेर् अनुभावस्य, विषादचिन्तावेगादेश् च व्यभिचारिणः, संयोगाद् रतिर् अभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद् विप्रलम्भरसव्यपदेशहेतुः।
यथा वा–
“आविर्भूता यदवाधि मधुस्यन्दिनी नन्दसूनोः
कान्तिः काचिन् निखिलनयनाकर्षणे कार्मणज्ञा।
श्वासो दीर्घस् तदवाधि मुखे पाण्डिमा गण्डयुग्मे
शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत्॥”
यथा वा–
“नयनाञ्चलावमर्शं या न कदाचित् पुरा सेहे।
आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन॥”
इहापि सहजचाञ्चल्यनिवृत्तिर् जडता चानुभावव्यभिचारिणौ। इमं च पञ्चविधं प्राञ्चः प्रवासादिभिर् उपाधिभिर् आमनन्ति। ते च प्रवासाभिलाषविरहेर्ष्याशापानां विशेषानुपलम्भान् नास्माभिः प्रपञ्चिताः।
करुणो यथा–
“अपहाय सकलबान्धवचिन्ताम् उद्वास्य गुरुकुलप्रणयम्।
हा तनय विनयशालिन् कथम् इव परलोकपथिको ऽभूः॥”
अत्र प्रमीततनय आलम्बनम्। तत्कालावच्छिन्नबान्धवदर्शनाद्य् उद्दीपनम्। रोदनम् अनुभावः। दैन्यादयः सञ्चारिणः।
शान्तो यथा–
“मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः।
श्वपनात्मभुवोर् निरन्तरा मम जाता परमात्मनि स्थितिः॥”
अत्र प्रपञ्चः सर्वो ऽप्य् आलम्बनम्। सर्वत्र साम्यम् अनुभावः। मत्यादयः सञ्चारिणः। यद्य् अपि प्रथमार्धे उत्तमाधमयोर् उपक्रमा द्वितीयार्धे ऽधमोत्तमवचनं क्रमभङ्गम् आवहति, तथापि वक्तुर् ब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं सम्पन्नम् इति द्योतनाय क्रमभङ्गो गुण एव।
इदं पुनर् नोदाहार्यम्–
“सुरस्रोतस्विन्याः पुलिनम् अधितिष्ठन् नयनयोर्
विधायान्तर्मुद्राम् अथ सपदि विद्राव्य विषयान्।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्याञ्चन नवनभस्याम्बुदरुचि॥”
अत्रापि यद्य् अपि विषयगणालम्बनः सुरस्रोतस्विनीतटाद्युद्दीपितो नयननिमीलनादिभिर् अनुभावितः स्थायि निर्वेदः प्रतीयते, तथापि
भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः। इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्याम् उपनिबद्धम् इति तत्प्रधानभावप्राधान्यम् एवार्हति। शान्तरसाननुगुणश् चायम् ओजस्वी गुम्फ इति चानुदाहार्यम् एवैतत्। पूर्वपद्ये तु “परमात्मनि स्थितिः” इत्य् अनेन तत्ताद्रूप्यावगमाद् रतेर् अप्रतिपत्तिः।
रौद्रो यथा–
“नवोच्छलितयौवनस्फरदखर्वगर्वज्वरे
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति।
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः॥”
अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम्। अत एव विशेष्यानुपादानम्। गुरुद्रुहो नामग्रहणानौचित्यात्, क्रोधाविष्काराद् वा। ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः। परुषोक्तिर् अनुभावः। गर्वोग्रत्वादयः सञ्चारिणः। एषा च धनुर्भङ्गध्वनिभग्नसमाधेर् भार्गवस्योक्तिः।
वृत्तिर् अप्य् अत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति। अन्यत्र गुरुस्मरणे सत्य् अहम्भावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्य् अनेन गर्वोत्कर्षस्यैव प्रकाशनात् स्फुटं गम्यमानेन विवेकशुन्यत्वेन क्रोधस्याधिक्यं गम्यते।
इदं तु नोदाहार्यम्–
“धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भवन्
महागुरुवधस्मृतिः श्वसनवेगधूताधरः।
विलोचनविनिःसरद्बहलविस्फुलिङ्गव्रजो
रघुप्रवरम् आक्षिपञ् जयति जामदग्न्यो मुनिः॥”
अत्राप्य् अपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिर् अनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश् च सञ्चारितः क्रोधो यद्य् अपि व्यज्यते, तथाप्य् असौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः। काव्यप्रकाशगतरौद्ररसोदाहरणे तु “कृतम् अनुमतं दृष्टं वा यैर् इदं गुरुपातकम्” इति पद्ये रौद्ररसव्यजनक्षमा नास्ति वृत्तिः, अतस् तत्कवेर् अशक्तिर् एव।
वीरश् चतुर्धा। दानदयायुद्धधर्माइस् तदुपाधेर् उत्साहस्य चतुर्विधत्वात्।
तत्राद्यो यथा–
“कियद् इदम् अधिकं मे यद्द्विजायार्थयित्रे
कवचम् अरमरमणीयं कुण्डले चार्पयामि।
अकरुणम् अवकृत्त्य द्राक्कृपाणेन निर्यद्-
बहलरुधिरधारं मौलिम् आवेदयामि॥”
एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान् सभ्यान् प्रत्युक्तिः। अत्र याचमान आलम्बनम्। तदुदीरिता स्तुतिर् उद्दीपिका। कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः। मे इत्य् अर्थान्तरसङ्क्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश् च सञ्चारिणौ। वृत्तिर् अप्य् अत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी। तथा हि–उत्साहपोषकं कवचकुण्डलार्पणयोर् लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका। उत्तरार्धे तु मौलितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता। ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव। अत एवावेदयामीत्य् उक्तम्। न तु ददामि वितरामीति वा।
इदं तु नोदाहरणीयम्–
यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथाम्
आकर्ण्यावनिमण्डलागतवियद्बन्दीन्द्रवृन्दाननात्।
ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्रवत्-
पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते॥
अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतविषयवन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्नुतपीयूषप्रकरैर् अनुभावितः, असूयादिभिः सञ्चारिभिः परिपोषितो ऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः।
अत एवेदम् अपि नोदाहरणम्–
“साब्धिद्वीपकुलाचलां वसुमतीम् आक्रम्य सप्तान्तरां
सर्वां द्याम् अपि सुस्मितेन हरिणा मन्दं समालोकितः।
प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस् तत्क्षणं
व्यानम्रीकृतकन्धरो ऽसुरवरो मौलिं पुरो न्यस्तवान्॥”
इह च भगवद्वामनालम्बनः तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिर् अनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानो ऽपि गुणः। प्राग् अन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात्। एतेन
“त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः” इति श्रीवत्सलाञ्छनोक्तम् उदाहरणं परास्तम्। तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गे ऽनुदाहरणीयत्वात्। ननु “अकरुणम् अवकृत्य-” इत्य् अत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात् कथं ध्वनित्वम् इति चेत्, सत्यम्। अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन
कर्णस्तुतौ तात्पर्यविरहात्। कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिर् अवाक्यार्थ एव। परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते। राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद् वाक्यार्थतैव तस्याः।
द्वितीयो यथा–
“न कपोत भवन्तम् अण्व् अपि स्पृशतु श्येन समुद्भवं भयम्।
इदम् अद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम्॥”
अथवैवं विन्यासः–
“न कपोतकपोतकं तव स्पृशतु श्येन मनाग् अपि स्पृहा।
इदम् अद्य मया समर्पितं भवते चारुतरं कलेवरम्॥”
एषा शिवेः कपोतं श्येनं प्रति चोक्तिः। अत्र कपोत आलम्बनम्। तद्गतं व्याकुलीभवनम् उद्दीपनम्। तस्य कृते स्वकलेवरार्पणम् अनुभावः। न चात्र शरीरदानप्रत्ययाद् दानवीरध्वनित्वापत्तिर् इति वाच्यम्। श्येनकपोतयोर् भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनो ऽभावात् तदप्रतिपत्तेः। श्येन शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात्।
तृतीयो यथा–
“रणे दीनान् देवान् दशवदन विद्राव्य वहति
प्रभावप्रागल्भ्यं त्वयि तु मम को ऽयं परिकरः।
ललाटोद्यज्ज्वालाकवलितजगज्जालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु॥”
एषा दशवदनं प्रति भगवतो रामस्योक्तिः। इह भव आलम्बनम्। रणदर्शनम् उद्दीपनम्। दशवदनावज्ञानुभावः। गर्वः सञ्चारी। वृत्तिर् अत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतये ऽनुद्धतैव।
दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि
तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान् न प्रकर्षवती। भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात् तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता।
चतुर्थो यथा–
“सपदि विलयम् एतु राज्यलक्ष्मीर् उपरि पतन्त्व् अथवा कृपाणधाराः।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर् न मनाग् अपैति धर्मात्॥”
एषाधर्मेणापि रिपुर् जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अत्र धर्मविषय आलम्बनम्। “न जातु कामान् न भयान् न लोभाद् धर्मं त्यजेज् जीवीतस्यापि हेतोः” इत्य् आदिवाक्यालोचनम् उद्दीपनम्। शिरश्छेदाद्यङ्गीकारो ऽनुभावः। धृतिः सञ्चारिणी। इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचाम् अनुरोधात्।
वस्तुतस् तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते। तथा हि–प्राचीन एव “सपदि विलयम् एतु” इत्यादि पद्ये “मम तु मतिर् न मनाग् अपैति सत्यात्” इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि सम्भवात्। न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्य् अन्तर्भाव इति वाच्यम्। दानदययोर् अपि तदन्तर्गततया तद्वीरयोर् अपि धर्मवीरात् पृथग्गणनानौचित्यात्।
एवं पाण्डित्यवीरो ऽपि प्रतीयते।
यथा–
“अपि वक्ति गिरां पतिः स्वयं यदि तासाम् अधिदेवतापि वा।
अयम् अस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः॥”
अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण सञ्चारिणा पोषित उत्साहो वक्तुः प्रतीयते। ननु चात्र युद्धवीरत्वम्। युद्धत्वस्य वादसाधारणस्य वाच्यत्वाद् इति चेत्। क्षमावीरे किं ब्रूयाः।
यथा–
अपि बहलदहनजालं मूर्ध्नि रिपुर् मे निरन्तरं धमतु।
पातयतु वासिधाराम् अहम् अणुमात्रं न किञ्चिद् आभाषे॥”
क्षमावत उक्तिर् इयम्।
बलवीरे वा किं समादध्याः।
यथा–
“परिहरतु धरां फणिप्रवीरः सुखमयतां कमठो ऽपि तां विहाय।”
अहम् इह पुरुहूत पक्षकोणे निखिलम् इदं जगद् अक्लमं वहामि॥
पुरुहूतं प्रत्येषा गरुत्मत उक्तिः। ननु “अपि वक्ति-“परिहरतु धराम्-” इति पद्यद्वये गर्व एव नोत्साहः। मध्यस्थपद्ये तु धृतिर् एव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत् तर्हि युद्धवीरादिष्व् अपि गर्वादिध्वनिताम् एव किं न ब्रूयाः। रसध्वनिसामान्यम् एव वा किं न तद्व्यभिचारध्वननेन गतार्थयेः। स्थायिप्रतीतिर् दुरपह्नवा चेत् तुल्यं प्रकृते ऽपि। अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते। दयावीरादिषु प्रतीयत इति तु राजाज्ञामात्रम्।
अद्भुतो यथा–
“चराचरजगज्जालसदनं वदनं तव।
गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना॥”
कदाचिद् भगवतो वासुदेवस्य वदनम् आलोकितवत्या यशोदाया इयम् उक्तिः। अत्र वदनम् आलम्बनम्। अन्तर्गतचराचरजगज्जालदर्शनम् उद्दीपनम्। हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः। त्रासादयो व्यभिचारिणः। नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते। व्यञ्जकाभावात्।
प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते। एवं कश्चिन् महापुरुषो ऽयम् इति भक्तिर् अपि तस्याः ममायं बाल इति निश्चयेन प्रतिबन्धाद् उत्पत्तम् एव नेष्टे। अतस् तस्याम् अपि विस्मयस्य गुणीभावो न शङ्क्यः।
यत् तु सहृदयशिरोमणिभिः प्राचीनैर्
उदाहृतम्–
“चित्रं महान् एष नवावतारः, क्व कान्तिर् एषाभिनवैव भङ्गिः।
लोकोत्तरं धैर्यम् अहो प्रभावः काप्य् आकृतिर् नूतन एष सर्गः॥ इति,
तत्रेदं वक्तव्यम्– प्रतीयतां नामात्र विस्मयः परं त्व् असौ कथङ्कारं अद्भुतरस] ध्वनिव्यपदेशहेतुः। प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तः प्रकर्षकत्वेनास्य गुणीभूतत्वात्। यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य “पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूतविशेषसङ्घान्” इत्य् आदौ वाक्यसन्दर्भे। इत्थं चास्य रसालङ्कारत्वम् उचितम्। भक्तिर् नैवात्र प्रतीयत इति चेद् दरमुकुलितलोचनं विदाङ्कुर्वन्तु सहृदयाः।
हास्यो यथा–
“श्रीतातपादैर् विहिते निबन्धे निरूपिता नूतनयुक्तिर् एषा।
अङ्गं गवां पूर्वम् अहो पवित्रं न वा कथं रासभधर्मपत्न्याः॥”
तार्किकपुत्रो ऽत्रालम्बनम्। तदीया निःशङ्कोक्तिर् उद्दीपिका। रदनप्रकाशादिर् उद्वेगादयश् चानुभावव्यभिचारिणः।
अत्राहुः-
“आत्मस्थः परसंस्थश्चेत्य् अस्य भेदद्वयं मतम्।
आत्मस्थो द्रष्टुर् उत्पन्नो विभावेक्षणमात्रतः॥
हसन्तम् अपरं दृष्ट्वाविभावः चोपजायते।
यो ऽसौ हास्यरसस् तज्ज्ञैः परस्थः परिकीर्तितः॥
उत्तमानां मध्यमानां नीचानाम् अप्य् असौ भवेत्।
त्र्यवस्थः कथितस् तस्य षड्भेदाः सन्ति चापरे॥
स्मितं च हसितं प्रोक्तम् उत्तमे पुरुषे बुधैः।
भवेद् विहसितं चोपहसितं मध्यमे नरे॥
नीचे ऽपहसितं चातिहसितं परिकीर्तितम्।
ईषफुल्लकपोलाभ्यां कटाक्षैर् अप्य् अनल्बणैः॥
अदृश्यदशनो हासो मधुरः स्मितम् उच्यते।
वक्त्रनेत्रकपोलैश् चेद् उत्फुल्लैर् उपलक्षितः॥
किञ्चिल्लक्षितदन्तश् च तदा हसितम् इष्यते।
सशब्दं मधुरं कायगतं वदनरागवत्॥
आकुञ्चिताक्षि मन्द्रं च विदुर् विहसितं बुधाः।
निकुञ्चितांसशीर्षश् च जिह्मदृष्टिविलोकनः॥
उत्फुल्लनासिको हासो नाम्नोपहसितं मतम्।
अस्थानजः साश्रुदृष्टिर् आकम्पस्कन्धमूर्धजः॥
शार्ङ्गदेवेन गदितो हासो ऽपहसिताह्वयः।
स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः।
करोपगूढपार्श्वश् च हासो ऽतिहसितं मतम्॥ इति॥
भयानको यथा–
“श्येनम् अम्बरतलाद् उपागतं शुष्यदाननबिलो विलोकयन्।
कम्पमानतनुर् आकुलेक्षणाः स्पन्दितुं न हि शशाक लावकः॥”
अत्र श्येन आलम्बनम्। सवेगापतनम् उद्दीपनम्। आननशोषादयो ऽनुभावाः। दैन्यादयः सञ्चारिणः।
बीभत्सो यथा–
“नखैर् विदारितान्त्राणां शवानां पूयशोणितम्।
आननेष्व् अनुलिम्पन्ति हृष्टा वेतालयोषितः॥”
शवा इहालम्बनम्। अन्त्रविदारणाद्य् उद्दीपनम्। आक्षिप्ता रोमाञ्चनेत्रनिमीलनादयो ऽनुभावाः। आवेगादयः सञ्चारिणः।
ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदेषु प्राग् उदाहृतेषु यथालम्बनाश्रययोः सम्प्रत्ययः न तथा हासे जुगुप्सायां च। तत्रालम्बनस्यैव प्रतीतेः। पद्यश्रोतुश् च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेर् इति चेत्। सत्यम्। तदाश्रयस्य द्रष्टृपुरुषविशेषस्य तत्राक्षेप्यत्वात्। तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्याद् इव रसोद्बोधे बाधकाभावात्।
एवं सङ्क्षेपेण निरूपिता रसाः। एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वम् गुणीभावे तु रसालङ्कारत्वम्। केचित् तु “प्राधान्य एवैषां रसत्वम् अन्यथालङ्कारत्वम् एव। रसालङ्कारव्यपदेशस् त्व् अलङ्कारध्वनिव्यपदेशवत्,
ब्राह्मणश्रमणन्यायात्। एवम् असंलक्ष्यक्रमतायाम् एव। अन्यथा तु वस्तुमात्रम्” इत्य् आहुः। एते चासंलक्ष्यक्रमव्यङ्ग्याः सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतो ऽपि सूचीशतपत्त्रशतवेधक्रमस्येवालक्षणात्, न त्व् अक्रमव्यङ्ग्यः, व्यक्तेस् तद्धेतूनां च हेतुहेतुमद्भावासङ्गत्यापत्तेः।
अथ कथम् एत एव रसाः। भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिर् अनुभावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्भक्तैर्
अनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात्। भगवदनुरागरूपा भक्तिश् चात्र स्थायिभावः। न चासौ शान्तरसे ऽन्तर्भावम् अर्हति। अनुरागस्य वैराग्यविरुद्धत्वात्। उच्यते– भक्तेर् देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः।
“रतिर् देवादिविषया व्यभिचारी तथाञ्जितः।
भावः प्रोक्तस् तदाभासा ह्य् अनौचित्यप्रवर्तिताः॥”
इति हि प्राचां सिद्धान्तात्। न च तर्हि कामिनीविषयाया अपि रतेर् भावत्वम् अस्तु, रतित्वाविशेषात्। अस्तु वा भगवद्भक्तेर् एव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम् विनिगमकाभावात्, इति वाच्यम्। भरतादिमुनिवचनानाम् एवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन्त्र्ययोगात्।
अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात्। न स्याद् वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम् इत्य् अखिलदर्शनं व्याकुली स्यात्। रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रम् एव ज्यायः।
एतेषां परस्परं कैर् अपि विरोधः। तत्र वीरशृङ्गारयोः, शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश् चाविरोधः। शृङ्गारबीभत्सयोः शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश् च विरोधः। अत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम्। यथा हि सति तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत। सुन्दोपसुन्दन्यायेन वोभयोर् उपहतिः स्यात्। यदि तु विरुद्धयोर् अपि रसयोर् एकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः। तथा हि– विरोधस् तावद् द्विविधः। स्थितिविरोधो ज्ञानविरोधश् च। आद्यस्
तदधिकरणावृत्तितारूपः।
द्वितीयस् तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः।
तत्राधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तते। यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायके भयानकस्य। रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते। रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात्। अद्वितीयानन्दमयत्वेन विरोधासम्भवाच् च।
उदाहरणम्–
“कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस् तव।
मृगारातेर् इव मृगाः परे नैवावतस्थिरे॥”
रसान्तरस्याविरोधिनः सन्धिकर्तुर् इवान्तराले ऽवस्थाने द्वितीयो ऽपि निवर्तते। यथा मन्निर्मितायाम् आख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोर् महर्षेः शान्तरसप्रधाने वर्णने प्रस्तुते “किम् इदम् अनाकलितपूर्वं रूपम्, को ऽयम् अनिर्वाच्यो वचनरचनाया मधुरिमा” इत्य् अद्भुतस्यान्तरवस्थापनेन वरवर्णिनीं प्रत्यनुरागवर्णने।
यथा वा–
“सुराङ्गनाभिर् आश्लिष्टा व्योम्नि वीरा विमानगाः।
विलोकन्ते निजान् देहान् फेरुनारीभिर् आवृतान्॥”
अत्र सुराङ्गनामृतशरीरालम्बनयोः शृङ्गारबीभत्सयोर् अन्तः स्वर्गलाभाक्षिप्तो वीररसो निवेशितः। अन्तर्निवेशश् च तदुभयचर्वणाकालान्तर्वर्तिकालगतचर्वणाकत्वम्। तच् च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणाद् अनन्तरं च द्वितीयार्धे बीभत्सस्येति स्फुटम् एव। “भूरेणुदिग्धान्” इत्य् आदि काव्यप्रकाशगतपद्यकदम्बेतु प्रथमश्रुतबीभत्ससामग्रीवशाद् बीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य वीरस्य चर्वणे शृङ्गारचर्वणेति
विवेकः। इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितो ऽर्थः। अङ्गाङ्गिनोः, अङ्गिन्य् अन्यस्मिन्न् अङ्गयोर् वा न विरोधः। अङ्गत्वानुपपत्तिप्रसङ्गात्।
यथा–
प्रत्युद्गता सविनयं सहसा सखीभिः स्मेरैः स्मरस्य सचिवैः सरसावलोकैः।
माम् अद्य मञ्जुरचनैर् वचनैश् च बाले हा लेशतो ऽपि न कथं वद सत्करोषि॥
इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः। इह नायिकालम्बना, अश्रुपातादिभिर् अनुभावैर् आवेगविषादादिभिः सञ्चारिभिश् च व्यज्यमाना नायकगता रतिस् तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात् प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वाद् अङ्गम्। यदि तु नायकगता रतिर् नात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वाद् इत्य् आगृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिर् एव तत्राङ्गम् अस्तु। नायिकागतरतेर् नायकशोकप्रकर्षहेतुतायाः सर्वसम्मतत्वात्। न च नायिकाया नाशात् तद्गताया रतेर् असन्निधानात् कथम् अङ्गतेति वाच्यम्। सन्निधानस्याङ्गतायाम् अतन्त्रत्वेन स्मर्यमाणायास् तस्या अङ्गत्वोपपत्तेः।
अङ्गयोर् यथा–
“उत्क्षिप्ताः कबरीभरम्, विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः॥”
अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम्। किं च प्रकृतरसपरिपुष्टिम् इच्छता विरोधिनो ऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यम् एव। तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा सम्पद्यते। बाध्यत्वं च रसस्य प्रबलैर् विरोधिनो रसस्याङ्गैर् विद्यमानेष्व् अपि स्वाङ्गेषु निष्पित्तेः प्रतिबन्धः। व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात्, न त्व् अनभिव्यत्तया। आभिव्यक्तौ बाधकाभावात्।
न च विरोध्यङ्गाभिव्यत्या प्रतिबन्धान् नाभिव्यक्तिर् इति वाच्यम्। तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासन्निधानात्। प्रतिबध्यप्रतिबन्धकभावकल्पने मानाभावात्, भावशबलताया उच्छेदापत्तेश् च। रसनिष्पत्तेः प्रतिबन्धस् त्व् अनुभवसिद्ध इति तां प्रत्य् एव विरोध्यङ्गानां बलवताम् अभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम्। अपि च यत्र साधारणविशेषणमहिम्ना विरुद्धयोर् अभिव्यक्तिस् तत्रापि विरोधो निवर्तते।
यथा–
“नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे।
वसुन्धरां समालिङ्ग्य शेरते वीर ते ऽरयः॥”
इत्थम् अविरोधसम्पादनेनापि निबध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर् वा नाभिधातुम् उचितः, अनास्वाद्यतापत्तेः। तदास्वादश् च व्यञ्जनमात्रनिष्पाद्य इत्य् उक्तत्वात्। यत्र विभावादिभिर् अभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र को दोष इति चेत्, व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात्। आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच् च। एवं स्थायिव्यभिचारिणाम् अपि शब्दवाच्यत्वं दोषः। एवं विभावानुभावयोर् असम्यक्प्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर् दोषत्वम्। समबलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकम् इति दोषः। प्रबन्धे प्रकृतस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः। तथा तत्तद्रसप्रस्तावनानर्हे ऽवसरे प्रस्तावः,
विच्छेदानर्हे च विच्छेदः। यथा सन्ध्यावन्दनदेवयजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानुरागवर्णने। यथा च समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचनान्य् उद्गिरत्सु नायकस्य सन्ध्यावन्दनादिवर्णने चेत्य् उभयम् अनुचितम्।
एवम् अप्रधानस्य प्रतिनायकादेर् नानाविधानां चरितानाम् अनेकविधायाश् च सम्पदो नायकसम्बन्धिभ्यस् तेभ्यो नातिशयो वर्णनीयः। यथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्ध्येत्। तत्प्रयुक्तो रसपोषश् च न स्यात्। न च प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात् कथम् अवर्णनीयत्वम् इति वाच्यम्। यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासम्पादकत्वं तादृशस्येष्टत्वात्। तद्विरोधिन एव निषेध्यत्वात्। न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानो ऽप्य् उत्कर्षः स्वाश्रयहन्तृतामात्राद् एव प्रकृतगतम् उत्कर्षम् अतिशाययेत्, अतो न दोषावह इति वाच्यम्। एवं हि सति महाराजं कम् अपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव प्रकृतस्य नायकस्य न को ऽप्य् उत्कर्षः स्याद् इति। तथा रसालम्बनाश्रययोर् अनुसन्धानम् अन्तरान्तरा विरता न चेद्, दोषः। तदनुसन्धानाधीना हि रसप्रतिपत्तिधारा तदननुसन्धाने विरता स्यात्। एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनम् अपि प्रकृतरसविरामहेतुत्वाद् दोष एव। अनौचित्यं तु रसभङ्गहेतुत्वात् परिहरणीयम्। भङ्गश् च पानकादिरसादौ सिकतादिनिपातजनितेवारुन्तुदता। तच् च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य तस्य यस्य यल्लोकशास्त्रसिद्धम् उचितद्रव्यगुणक्रियादि, तद्भेदः। जात्यादेर् अनुचितं यथा–गवादेस् तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश् च साधुभावादीनि। स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि। शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा। ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम्। ब्रह्मचारिणो यतेश् च ताम्बूलचर्वणम्, दारोपसङ्ग्रः। बालवृद्धयोः स्त्रीसेवनम्, यूनश् च विरागः। दरिद्राणाम् आढ्याचरणम्, आढ्यानां च दरिद्राचारः। प्रकृतयो दिव्याः,
अदिव्याः, दिव्यादिव्याश् च। धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्रोधकामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश् च। तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वे ऽपि रतेः सम्भोगरुपाया मनुष्येष्व् इवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनम् अनुचितम्।
क्रोधस्य च लोकभस्मीकरणपटोर् दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्व् इवादिव्येषु। आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः। न च साधारणीकरणाद् आराध्यत्वज्ञानानुत्पत्तिर् इति वाच्यम्। यत्र सहृदयानां रसोद्बोधः प्रमाणसिद्धस् तत्रैव साधारणीकरणस्य कल्पनात्। अन्यथा स्वमातृविषयकस्वपितृरतिवर्णने ऽपि सहृदयस्य रसोद्बोधापत्तेः। जयदेवादिभिस् तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसम्मतोऽयं समयो मदोन्मत्तमतङ्गजैर् इव भिन्न इति च तन्निदर्शनेनेदानीन्तनेन तथा वर्णयितुं साम्प्रतम्। तथा विद्यावयोवर्णाश्रमतपोभिर् उत्कृष्टैः स्वतो ऽपकृष्टेषु न सबहुमानेन वचसा व्यवहर्तव्यम्। व्यवहर्तव्यं चापकृष्टैर् उत्कृष्टेषु। तत्रापि तत्रभवन् भगवन्न् इत्यादिभिः सम्बोधनैर् मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर् द्विजैर् एव, नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसम्बोधनैश् चक्रवर्तिन एव, न मुनिप्रभृतयः सम्बोध्याः।
तथा नाहुः–
“अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम्।
प्रसिद्धौचित्यबन्धस् तु रसस्योपनिषत्परा॥” इति।
यावता त्व् अनौचित्येन रसस्य पुष्टिस् तावत् तु न वार्यते, रसप्रतिकूलस्यैव तस्य निषेध्यत्वात्। अत एव–
“ब्रह्मन्न् अध्ययनस्य नैष समयस् तूष्णीं बहिः
स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः।
वीणां संहर नारद स्तुतिकथालापैर् अलं तुम्बुरो
सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लङ्केश्वरः॥”
इति कस्यचिन् नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः। एवम् एव “अले ले सद्दःसमुप्पाडिअ हरियकुसग्गन्थिमयाच्छमालापै वित्तिविस्सम्भिअ बालविहवन्दःकअणा बम्हणा” इत्य् आदिविदूषकवचने ऽपि रेशब्दादिप्रयोगस्य तत्तथा, हास्यानुगुणत्वात्। एषा हि दिगुपदर्शिता। अनया सुधीभिर् अन्यद् अप्य् ऊह्यम्।
रसेषु चैतेषु निगदितेषु माधुर्यौजःप्रसादाख्यांस् त्रीन् गुणान् आहुः। तत्र “शृङ्गारे संयोगाख्ये यन्माधुर्यं ततो ऽतिशयितं करुणे, ताभ्यां विप्रलम्भे , तेभ्यो ऽपि शान्ते। उत्तरोत्तरम् अतिशयितायाश् चित्तद्रुतेर् जननात्। संयोगशृङ्गारात् करुणशान्तयोस् ताभ्याम् अपि विप्रलम्भे” इत्य् अपरे। संयोगशृङ्गारात् करुणविप्रलम्भशान्तेष्व् अतिशयितम् एव न पुनस् तत्रापि तारतम्यम्” इत्य् अन्ये। तत्र प्रथमचरमयोर् मतयोः “करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्” इति प्राचां सूत्रम् अनुकूलम्। तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्यापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य सम्भवात्। मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयानाम् अनुभवो ऽस्ति साक्षी तदा स प्रमाणम्।
वीरबीभत्सरौद्रेष्व् ओजसो यथोत्तरम् अतिशयः, उत्तरोत्तरम् अतिशयितायाश् चित्तदीप्तेर् जननात्। अद्भुतहास्यभयानकानां गुणद्वययोगित्वं केचिद् इच्छन्ति। अपरे तु प्रसादमात्रम्। प्रसादस् तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः।
गुणानां चैषां द्रुतिदीप्तिविकासाख्यास् तिस्रश् चित्तवृत्तयः क्रमेण प्रयोज्याः। तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत्। एवम् एतेषु गुणेषु रसमात्रधर्मेषु
व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्य् आदयो व्यवहारा आकारो ऽस्य शूर इत्य् आदिव्यवहारवद् औपचारिका इति मम्मटभट्टादयः।
ये ऽमी माधुर्यौजः प्रसादारसमात्रधर्मतयोक्तास् तेषां रसधर्मत्वे किं मानम्? प्रत्यक्षम् एवेति चेत्, न। दाहादेः कार्याद् अनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस् तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्यो ऽन्येषां रसगतगुणानाम् अननुभवात्। तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात् कारणतावच्छेदकतया गुणानाम् अनुमानम् इति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात्। शृङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वम्, प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतम् इति तु न वाच्यम्। परेण
मधुरतरादिगुणानां पृथग् द्रुततरत्वादि कार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूतत्वात्। इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम्।
किं चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनाम् अनुपपन्नम्। एवं तदुपाधिरत्यादिगुणत्वम् अपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच् च। अथ शृङ्गारो मधुर इत्य् आदिव्यवहारः कथम् इति चेत्, एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासम्बन्धेन द्रुत्यादिकम् एव वा माधुर्यादिकम् अस्तु। व्यवहारस् तु वाजिगन्धोष्णेतिव्यवहारवद् अक्षतः।
प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागतम् एव ग्राह्यम्। अतो न व्यवहारातिप्रसक्तिः। तथा च शब्दार्थयोर् अपि माधुर्यादेर् ईदृशस्य सत्त्वाद् उपचारो नैव कल्प्य इति तु मादृशाः।
जरत्तरास् तु–
श्लेषः प्रसादः समता माधुर्यं सुकुमारता।
अर्थव्यक्तिर् उदारत्वम् ओजःकान्तिसमाधयः॥”
इति दशा शब्दगुणान्, दशैव चार्थगुणान् आमनन्ति। नामानि पुनस् तान्य् एव, लक्षणं तु भिन्नम्।
तथा हि–
शब्दानां भिन्नानाम् अप्य् एकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः॥
यदाहुः- “श्लिष्टम् अस्पष्टशैथिल्यम्” इति। यथा–“अनवरतविद्वद्द्रुमद्रोहिदारिद्र्यमाद्यद्द्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननः इति।
गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः॥
यथा–
“किं ब्रूमस् तव वीरतां वयम् अमी, यस्मिन् धराखण्डल-
क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यसि।
माणिक्यावलिकान्तिदन्तुरतरैर् भूषासहस्त्रोत्सरैर्
विन्ध्यारण्यगुहागृहावनिरुहास् तत्कालम् उल्लासिताः॥”
अत्र यस्मिन्न् इत्यन्तं शैथिल्यम्, भ्रुशब्दान्तं गाढत्वम्, पुनर् नयनेत्यन्तं प्रथमम् इत्यादि बोध्यम्।
उपक्रमाद् आसमाप्ते रीत्यभेदः समता॥
यथा वक्ष्यमाणमाधुर्योदाहरणे। तत्र ह्य् उपनागरिकयैवोपक्रमसंहारौ।
संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम्॥
यथा–
“नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि।
यदि कोमलता तवाङ्गकानाम् अथ का नाम कथापि पल्लवानाम्॥”
अपरुषवर्णघटितत्वं सुकुमारता॥
यथा–
स्वेदाम्बुसान्द्रकणशालिकपोलपालिदोलायितश्रवणकुण्डलवन्दनीया।
आनन्दम् अङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः॥”
अत्र पूर्वार्धे। उत्तरार्धे तु माधुर्यम् अपि।
झगिति प्रतीयमानार्थान्वयकत्वम् अर्थव्यक्तिः॥
यथा “नितराम्” इत्यादौ।
कठिनवर्णघटनारूपविकटत्वलक्षणोदारता॥
यथा–
“प्रमोदभरतुन्दिलप्रमथदत्ततालावली-
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि।
ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो
हठोद्धतजटोद्भटो गतपटो नटो नृत्यति॥”
“पदानां नृत्यत्प्रायत्वं विकटता” इति काव्यप्रकाशटीकाकारा व्याचक्षते। उदाहरन्ति च “स्वचरणविनिविष्टैर् नूपुरैर् नर्तकीनां झटिति रणितम् आसीत्” इत्यादि। तत्र तेषाम् एतादृशीं विकटत्वलक्षणाम् उदारताम् ओजस्य्
अन्तर्भावयन् काव्यप्रकाशकारः कथम् अनुकूल इति त एव जानन्ति। न ह्य् अत्रौजसो वैपुल्येन प्रतिभानम् अस्ति।
“विनिविष्टैर् नूपुरैर् नर्त-” इत्य् अत्र सन्नप्य् ओजसो लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानाम् अनुभवन्ति सहृदयाः। अंशान्तरे तु माधुर्यम् एव।
संयोगपरह्रस्वप्राचुर्यरूपं गाढत्वम् ओजः॥
यथा–
“साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वङ्कषाः।
तृष्णाताम्यदमन्दतापसकुलैः सानन्दम् आलोकिता
भूमीभूषण भूषयन्ति भूवनाभोगं भवत्कीर्तयः॥”
यथा वा “अयं पततु निर्दयम्” इत्यादिप्राग् उदाहृते।
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपम् औज्ज्वल्यं कान्तिः॥
यथा “नितराम्” इत्यादि प्राग् उदाहृते।
बान्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः॥
अनयोर् एव प्राचीनैर् आरोहावरोहव्यपदेशः कृतः। क्रम एव हि तयोः प्रसादाद् अस्य भेदकः। तत्र हि तयोर् व्युत्क्रमेण वृत्तेः।
यथा–
स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गुभङ्गुरतरङ्गसखानाम्।
केवलामृतमुचां वचनानां यस्य लास्यगृहम् आस्यसरोजम्॥”
अत्रारोहः प्रथमे ऽर्धे। तृतीयचरणे त्व् अवरोहः। गङ्गेत्य् आदौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्व् अपि दीर्घसमासान्तःपातितयान तस्य प्ररोहः। उत्तरार्धे तु सो ऽपि। एते दश शब्दगुणाः।
एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश् च सामानाधिकरण्यरूपः संसर्गः श्लेषः॥
यावद् अर्थकपदत्वरूपम् अर्थवैमल्यं प्रसादः॥
यथा– “कमलानुकारि वदनं किल तस्याः” इत्यादि। प्रत्युदाहरणं तु “कमलकान्त्यनुकारि वक्त्रम्” इत्यादि ।
प्रक्रमाभङ्गेनार्थघटनात्मकम् अवैषम्यं समता॥
यथा–
“हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत्।
हरिं सर्वत्र पश्यामि हरेर् अन्यन् न भाति मे॥”
अत्र विष्णुर् भ्रातेत्य् आदिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम्।
एकस्या एवोक्तेर् भङ्ग्यन्तरेण पुनः कथनात्मकम् उक्तिवैचित्र्यं माधुर्यम्॥
यथा–
“विधत्तां निःशङ्कं निरवधिसमाधिं विधिर् अहो
सुखं शेषे शेतां हरिर् अवीरतं नृत्यतु हरः।
कृतं प्रायश्चित्तैर् अलम् अथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती॥”
अत्र विध्यादिभिर् नास्ति किम् अपि प्रयोजनम् इत्य् एषो ऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः। अन्यथानवीकृतत्वापत्तेः।
अकाण्डे शोकदायित्वाभावरूपम् अपारुष्यं सुकुमारता॥
यथा– “त्वरया याति पान्थो ऽयं प्रियाविरहकातरः”।
“प्रियामरणकातरः” इत्य् अत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात् पारुष्यम्। इदं चाश्लीलतादोषव्याप्यम्।
वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर् वर्णनम् अर्थव्यक्तिः॥
यथा–
गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम्।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयाञ्चक्रे॥”
अयम् एवेदानीन्तनैःस्वभावोक्त्यलङ्कार इति व्यपदिश्यते।
“चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये” इत्य् आदिग्राम्यार्थपरिहार उदारता॥
एकस्य पदार्थस्य बहुभिः पदैर् अभिधानम्, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर् वाक्यैः, बहुवाक्यार्थस्यैकवाक्येनाभिधानम्, विशेषणानां साभिप्रायत्वं चेति पञ्चविधम् ओजः॥
यद् आहुः–
पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा।
प्रौढिर् व्याससमासौ च साभिप्रायत्वम् अस्य च॥ इति।
पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारम् ओज इत्य् अर्थः। प्रौढिः प्रतिपादनवैचित्र्यम्।
यथा–
“सरसिजवनबन्धुश्रीसमारम्भकाले
रजनिरमणराज्ये नाशम् आशु प्रयाति।
परमपुरुषवक्त्राद् उद्गतानां नराणां
मधुमधुरगिरां च प्रादुरासीद् विनोदः॥”
अत्रोषसीत्य् एकपदार्थस्याभिधानाय प्रथमचरणः। इत्य् आद्यग्रे ऽपि बोध्यम्।
“खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः।
मण्डिताखिलदिक्प्रान्ताश् चण्डांशोर् भान्ति भानवः॥”
अत्र “यस्याः पराङ्गनागेहात् पतिः प्रातर्गृहे ऽञ्चति” इति वाक्यार्थे खण्डितापदाभिधानम्।
“अयाचितः सुखं दत्ते याचितश् च न यच्छति।
सर्वस्वं चापि हरते विधिर् उच्छृङ्खलो नृणाम्॥”
अत्र दैवाधीनं सर्वम् इत्य् एकस्मिन् वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः।
“तपस्यतो मुनेर् वक्त्राद् वेदार्थम् अधिगत्य सः।
वासुदेवनिविष्टात्मा
विवेश परम् पदम्॥”
अत्र “मुनिस् तपस्यति”, “तद्वक्त्रात् स वेदार्थम् अधिगतवान्”, “तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्”, “ततश् च मुक्तो ऽभूद्” इति वाक्यार्थकलापः शतृ-क्त्वा-बहुव्रीहिभिस् तिङन्तेन चानुवाद्यविधेयभावेनैकवाक्यार्थीकृतः। साभिप्रायत्वं चप्रकृतार्थपोषकता।
यथा–
“गणिकाजामिलमुख्यानवता भवता बताहम् अपि।
सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः॥”
अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम्। पापिष्ठवात् करुणाया अभावे प्रकृते ऽस्याः सम्पादनाय गणिकेत्य् आदि सीदन्न् इति च।
दीप्तरसत्वं कान्तिः॥
तच् च स्फुटप्रतीयमानरसत्वम्। उदाहरणं च वर्णितम् एव रसप्रकरणे, वर्णयिष्यते च।
अवर्णितपूर्वो ऽयम् अर्थः पूर्ववर्णितच्छायो वेति कवेर् आलोचनं समाधिः॥
ज्ञानस्य विषयतासम्बन्धेनार्थनिष्ठत्वाद् अर्थगुणता।
आद्यो यथा– “तनयमैनाकगवेषण” इत्यादौ, द्वितीयस् तु प्रायशः सर्वत्रैवेत्य् आहुः। अपरे त्व् एषु गुणेषु कतिपयान् प्रागुक्तैस् त्रिभिर् गुणैर् वक्ष्यमाणदोषाभावालङ्कारैश् च गतार्थयन्तः कांश्चिद् वैचित्र्यमात्ररूपतया, क्वचिद् दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति। तथा हि– श्लेषोदारताप्रसादसमाधीनाम् ओजोव्यञ्जकघटनायाम् अन्तर्भावः। न च श्लेषोदारतयोः सर्वांशे गाढबन्धात्मनोर् ओजोव्यञ्जकघटनान्तर्भावो ऽस्तु नाम, प्रसादसमाध्योस् तु
गाढशिथिलात्मनोर् अंशेनौजोव्यञ्जकान्तर्भावे ऽप्य् अंशान्तरेण कुत्रान्तर्भाव इति वाच्यम्। माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात्। माधुर्यं तु परेषाम् अस्मदभ्युपगतमाधुर्यव्यञ्जकम् एव। एवं च सर्वत्र व्यञ्जके व्यङ्ग्यशब्दप्रयोगो भाक्तः। समता तु सर्वत्रानुचितैव। प्रतिपाद्योद्भटत्वानुद्भटत्वाभ्यामेकस्मिन्न् एव पद्ये मार्गभेदस्येष्टत्वात्।
यथा–
“निर्माणे यदि मार्मिको ऽसि नितराम् अत्यन्तपाकद्रवन्-मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम्।
काव्यं तर्हि सखे सुखेन कथय त्वं सम्मुखे मादृशां
नो चेद् दुष्कृतम् आत्मना कृतम् इव स्वान्ताद् बहिर् मा कृथाः॥”
अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यम् एव गुणः। ग्राम्यत्वकष्टत्वयोस् त्यागात् कान्तिसौकुमार्ययोर् गतार्थता। प्रसादेन चार्थव्यक्तेर् इति।
अर्थगुणेष्व् अपि– श्लेषः ओजस आद्याश् चत्वारो भेदाश् च उक्तिवैचित्र्यमात्ररूपा इति न गुणान्तर्भावम् अर्हन्ति। अन्यथा प्रतिश्लोकम् अर्थवैचित्र्यवैलक्षण्याद् गुणभेदापत्तेः। अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर् माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश् च, अधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलत्वग्राम्य-भग्नप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलङ्कारस्य रसध्वनिरसवदलङ्कारयोश् च स्वीकरणेन च गतार्थानि। समाधिस् तु कविगतः काव्यस्य कारणं न तु गुणः, प्रतिभाया अपि काव्यगुणत्वापत्तेः। अतस् त्रय एव गुणा इति मम्मटभट्टादयः।
तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिर् अन्तस्थैश् च घटिता, नैकट्येन प्रयुक्तैर् अनुस्वारपरसवर्णाइः शुद्धानुनासिकैश् च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश् च निषिद्धैः संयोगाद्यैर् अचुम्बिता, अवृत्तिर् मुदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका। द्वितीयचतुर्थास् तु वर्ग्या गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया सन्निवेशिताश् चेत्। नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तो नानुप्रासः। अन्ये तु वर्गस्थानां पञ्चानाम् अप्य् अविशेषेण माधुर्यव्यञ्जकताम् आहुः।
उदाहरणम्–
तां तमालतरुकान्तिलङ्घिनीं किङ्करीकृतनवाम्बुदत्विषम्
स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम्॥"
यथा वा–
“स्वेदाम्बुसान्द्रकणशालिकपोलपालिर् अन्तःस्मितालसविलोकनवन्दनीया।
आनन्दम् अङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः॥”
प्रथमे पद्ये ऽतिशयोक्त्यलङ्कृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर् वा ध्वन्यमानायाः शान्त एव पर्यवसानात् तद्गतमाधुर्यस्याभिव्यञ्जिका रचनेयम्। द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य। नैकट्येन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर् वर्णाइर् घटितो झय्रेफान्यतरघटितसंयोगपरह्रस्वैश् च नैकट्येन प्रयुक्तैर् आलिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः। अस्मिन् पतिताः प्रथमतृतीयवर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश् चेत्।
तद्घटकास् त्व् अनुकूला एव। एवम् अनुस्वारपरसवर्णा अपि। यथा– “अयं पततु निर्दयं दलितदृप्त-” इत्य् आदौ प्रागुदाहृते। श्रुतमात्रा वाक्यार्थम् करतलबदरम् इव निवेदयन्ती घटना प्रसादस्य। अयं च सर्वसाधारणो गुणः। उदाहरणान्य् अत्र प्रायशो मदीयानि सर्वाण्य् एव पद्यानि। तथापि यथा–
“चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनर् असाव् आस्तां समस्ता कथा।
एतत् त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे
मुग्धे मा कुरु मानम् आननम् इदं राकापतिर् जेष्यति॥”
अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वम् अंशभेदेन तु माधुर्यौजोभिव्यञ्जकत्वम् अपि, मनसिजान्तस्य मा कुर्व् आदेश् च माधुर्याभिव्यक्तिहेतुत्वात्। सख्य इत्यादेर् ओजोगमकत्वात्। नन्व् अत्र शृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तदनुकूलास् तु नाम रचना, ओजसस् तु कः प्रसङ्गो यद् अर्थं तदनुकूलवर्णविन्यास इति चेत्।
नायिकामानोपशान्तये कृतानेकयत्नायास् तदीयं हितम् उपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात्। किं बहुना रसस्यौजस्विनो ऽमर्षादेर् भावस्य चाविवक्षायाम् अपि वक्तरि क्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा, परुषवर्णघटनेष्यते। यथा वा–
वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदास्
तां स्वप्ने ऽपि न संस्पृशाम्य् अहम् अहम्भावावृतो निस्त्रपः।
इत्य् आगःशतशालिनं पुनर् अपि स्वीयेषु मां बिभ्रतस्
त्वत्तो नास्ति दयानिधिर् यदुपते मत्तो न मत्तः परः॥"
अत्र गुणान्तरासमानाधिकरणः प्रसादः। इदानीं
तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश् च वर्जनीयं किञ्चिन् निरूप्यते– वर्णानां स्वानन्तर्यं सकृदेकपदगतत्वे किञ्चिद् अश्रव्यम्। यथा– “ककुभसुरभिः, विततगात्रः, पललम् इवाभाति” इत्य् आदौ। असकृच् चेद् अधिकम्॥ यथा– “वितततरस्तरुर् एष भाति भूमौ”। एवं भिन्नपदगतत्वे ऽपि। यथा– “शुक करोषि कथं विजने रुचिम्” इत्य् आदौ। असकृद्भिन्नपदगतत्वे ततो ऽप्य् अधिकम्। यथा– “पिक ककुभो मुखरीकुरु प्रकामम्”। एवं स्वसमानवर्ग्यानन्तर्यं सकृद् एकपदगतत्वे किञ्चिद् अश्रव्यम्। यथा– “वितथस् ते मनोरथः”। असकृच् चेद् अधिकम्। यथा– “वितथतरं वचनं तव प्रतीमः”। एवं भिन्नपदगतत्वे। यथा– “अथ तस्य वचः श्रुत्वा” इत्य् आदौ। असकृद् भिन्नपदगतत्वे तु ततो ऽप्य् अधिकम्। “अथ तथा कुरु येन सुखं लभे”। एतच् च वर्गाणां प्रथमद्वितीययोस् तृतीयचतुर्थयोर् आनन्तर्यम्। प्रथमतृतीययोर् द्वितीयतृतीययोर् वानन्तर्यं तु तथा नाश्राव्यम्। किं त्व् ईषत्, निर्माणमार्मिकैकवेद्यम्। एतद् अप्य् असकृच् चेत् ततो ऽधिकत्वात् साधारणैर् अपि वेद्यम्। यथा– “खग कलानिधिर् एष विजृम्भते”। “इति वदति दिवानिशं स धन्यः”। पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्यं न तथा। यथा– “तनुते तनुतां तनौ”। स्वानन्तर्यं त्व् अश्रव्यम् एव। यथा– “मम महती मनसि व्यथाविरासीत्”। एतानि चाश्रव्यत्वानि गुरुव्यवायेनापोद्यन्ते। “सञ्जायतां कथङ्कारं काके केकाकलस्वनः”।
यथा वा–
“यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता।
तथा तथा तत्त्वकथेव सर्वतो विकृष्य माम् एकरसं चकार सा॥”
इदं तु दीर्घव्यवाये। संयोगपरव्यवाये तु–
सदा जयानुषङ्गाणाम् अङ्गानां सङ्गरस्थलम्।
रङ्गाङ्गाणम् इवाभाति तत्तत्तुरगताण्डवैः॥
इदं तु बोध्यम्– गुरुर् ययोर् व्यवधायकस् तयोर् एव वर्णयोर् आनन्तर्यकृतम् अश्रव्यत्वम् अपवदति। तेनात्र थकारतकारानन्तर्यकृतदोषापवादे ऽपि
तकारथकारानन्तर्यकृतम् अश्रव्यत्वम् अनपोदितम् एव। एवं त्र्यादीनां संयोगो ऽपि प्रायेणाश्रव्यः। “राष्ट्रे तवोष्ट्र्यः परितश् चरन्ति” इत्य् एवमादयः शृउतिकाटवभेदा अन्ये ऽप्य् अनुभवानुसारेण बोध्याः। अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदगतस्य सकृद् अप्य् अश्रव्यम्, असकृत् तु सुतराम्।
“हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते।
सेवितं सर्वसम्पद्भिर् अपि तद्भवनं वनम्॥”
एकपदगतस्य तु तथा नाश्रव्यत्वम्। यथा– “जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः”। परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्
भिन्नपदगतत्वाभावान् मधुरत्वाच् चानन्तर्यं न मनाग् अप्य् अश्रव्यम्। यथा– “तान्तमालतरुकान्ति-” इत्य् आदिपद्ये। अत्र ताम् इत्य् अत्र नीम् इत्य् अत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः। प्रत्येकं संयोगसञ्ज्ञेति पक्षे ऽपि भिन्नपदगतः संयोगो न दीर्घाद् अव्यवहितपरः। नवाम्बुदेत्य् अत्र त्व् एकादेशस्य पदद्वयभक्ततया दीर्घाद् भिन्नपदगतत्वे सत्य् अव्यवहितोत्तरत्वं यद्य् अपि परसवर्णकृतसंयोगस्य भवति तथाप्य् अत्र भिन्नपदगतत्वम् एकपदगतभिन्नत्वं विवक्षितम् इत्य् अदोषः। असकृत् तु सुतराम्। यथा– “एषां प्रिया मे क्व गता त्रपाकुला”। इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वम् इव प्रतीयते।
अथ स्वेच्छया सन्ध्यकरणं सकृद् अप्य् अश्रव्यम्। यथा– “रम्याणि इन्दुमुखि ते किलकिञ्चितानि। प्रगृह्यताप्रयुक्तं त्व् असकृद् एव। अहो अमी इन्दुमुखीविलासाः”। एवम् एव च य-व-लोपप्रयुक्तम् “अपर इषवएते कामिनीनां दृगन्ताः”।
कथं तर्हि–
“भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण।
तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः॥”
इति भवदीयं काव्यम् इति चेद् अकृत्वैव यलोपं
पाठान् न दोषः।
एवं रोरुत्वस्य हलि लोपस्य यण्गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन बाहुल्यम् अश्रव्यताहेतुः। एवम् इमे सर्वे ऽप्य् अश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः।
अथ विशेषतो वर्जनीयाः। तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजस्विष्व् अनुकूलाः, ये चानुकूलतयोक्तास् ते प्रतिकूला इति सामान्यतो निर्णयः। मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्रस्वस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहकारान्यतरघटितसंयोगस्य हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत्। सवर्णझय्द्वयघटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सकृद् अपीति सङ्क्षेपः।
दीर्घसमासो यथा–
“लोलालकावलिवलन्नयनारविन्द-लीलावशंवदितलोकविलोचनायाः।
सायाहनि प्रणयिनो भवनं व्रजन्त्याश् चेतो न कस्य हरते गतिर् अङ्गनायाः॥”
झय्घटितसंयोगपरह्रस्वानां प्राचुर्यं नैकट्येन यथा–
“हीरस्फुरद्रदनशुभ्रिमशोभि किं च सान्द्रामृतं वदनम् एणविलोचनायाः।
वेधा विधाय पुनर् उक्तम् इवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः॥”
अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम्। शिष्टं तु रमणीयम्। उत्तरार्धे ककारतकाररूपझय्द्वयसंयोगस्य सत्त्वे ऽपि प्राचुर्याभावान् न दोषः। यदि तु “दन्तांशुकान्तम् अरविन्दरमापहारि
सान्द्रामृतम्, इत्य् आदि क्रियते तदा सर्वम् एव रमणीयम्।
विसर्गप्राचुर्यं यथा–
सानुरागास् सानुकम्पाश् चतुराश् शीतलाः।
हरन्ति हृदयं हन्त कान्तायास् स्वान्तवृत्तयः॥
अत्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम्।
जिह्वामूलीप्राचुर्यं यथा–
“कलितकुलिशघाताẖ के ऽपि खेलन्ति वाताः कुशलम् इह कथं वा जायतां जीविते मे।
अयम् अपि बत गुञ्जन्नालि माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः॥”
अत्र द्वितीयजिह्वामूलीयपर्यन्तम् अननुगुणं माधुर्यस्य। यदि च “कथय कथम् इवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः” इति विधीयते, तथा नायं दोषः।
उपध्मानीयप्राचुर्यं यथा–
“अलकाḫ फणिशावतुल्यशीला नयनान्ताḫ परिपुङ्खितेषु लीलाः।
चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा॥”
अत्र द्वाव् उपध्मानीयाव् एव न शान्तानुगुणौ।
टवर्गझयां प्राचुर्यं यथा–
“वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमले ऽभूत्।
अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत्॥”
अधुना सखि तत्र हा कथं वा गतिर् अन्यैव विलोक्यते गुणानाम्” इति त्व् अनुगुणम्।
रेफघटितसंयोगस्यासकृत् प्रयोगो यथा–
तुलाम् अनालोक्य निजाम् अखर्वं गौराङ्गि गर्वं न कदापि कुर्याः।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु॥
यदि तु “तुलाम् अनालोक्य महीतले ऽस्मिन्” इति निर्मीयते तथा साधु।
हलां ल-म-न-भिन्नानांस्वात्मना संयोगस्यासकृत् प्रयोगो यथा– “विगणय्य मे निकाय्यं ताम् अनुयातो ऽसि नैव तन्न्याय्यम्।” ल-म-नानां स्वात्मना संयोगस् तु न तथा पारुष्यम् आवहति।यथा–
“इयम् उल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते।
जलदालिम् अयं जगद्वितन्वन् कलितः क्वापि किम् आलि नीलमेघः॥”
झय्द्वयघटितसंयोगस्य यथा–
“आ सायं सलिलभरे सवितारम् उपास्य सादरं तपसा।
अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याप्ता॥”
अत्र द्वितीयार्धम् अरम्यम्। “सरसिजकुलेन सम्प्रति भामिनि ते मुखतुलाधिगता” इति तु साधु।
सवर्ण झय्द्वयघटितसंयोगस्य सकृत् प्रयोगो यथा–
अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक् कुरुषे।
अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम्॥
नन्व् अत्र
ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात् क-खसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात् तृतीयसंयोगस्य चासम्भवात् सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत्, न। सकृत् प्रयोगविषयत्वेनास्य पार्थक्यात्। आन्यथा “मनाक् कुरुषे” इति निर्दोषं स्यात्।
महाप्राणघटितसंयोगो यथा–
“अयि मृगमदबिन्दुं चेद्भाले बाले समातनुषे।”
उत्तरार्धं तु प्राचीनम् एव।
एवं त्वप्रत्ययम्, यङन्तानि, यङलुगन्तान्य् अन्यानि च शाब्दिकप्रियाण्य् अपि मधुररसे न प्रयुञ्जीत। एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततो ऽधिकचमत्कारिणो ऽनुप्रासनिचयान् यमकादींश् च सम्भवतो ऽपि कविर् न निबध्नीयात्। यतो हि ते रसचर्वणायाम् अनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन्।विप्रलम्भे तु सुतराम्। यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयान् अपि स्वातन्त्र्यम् आवहन् पदार्थः सहृदयहृदयारुन्तुदतयान सर्वथैव सामानाधिकरण्यम् अर्हति।
यद् आहुः–
“ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम्।
शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः॥”
ये तु पुनर् अक्लिष्टतयानुन्नतस्कन्धतया च न पृथग् भावनाम् अपेक्षन्ते, किं तु रसचर्वणायाम् एव सुसुखं गोचरीकर्तुं शक्याः, न तेषाम् अनुप्रासादीनां त्यागो युक्तः।
यथा–
“कस्तूरिकातिलकम्
आलि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्।
प्रौढिं भजन्तु कुमुदानि मुदाम् उदाराम् उल्लासयन्तु परितो हरितो मुखानि॥”
इत्थम् एते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां सङ्क्षेपेण निरूपिता दोषाः।
“एभिर् विशेषविषयैः सामान्यैर् अपि च दूषणै रहिता।
माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा॥
व्युत्पत्तिम् उद्गिरन्ती निर्मातुर् या प्रसादयुता।
तां विबुधा वैदर्भीं वदन्ति वृत्तिं गृहीतपरिपाकाम्॥
अस्याम् उदाहृतान्य् एव कियन्त्य् अपि पद्यानि।
यथा वा–
“आयातैव निशा निशापतिकरैः कीर्णं दिशाम् अन्तरं
भामिन्यो भवनेषु भूषणगणैर् उल्लासयन्ति श्रियम्।
वामे मानम् अपाकरोषि न मनाग् अद्यापि रोषेण ते
हा हा बालमृणालतो ऽप्य् अतितमां तन्वी तनुस् ताम्यति॥”
अस्याश् च रीतेर् निर्माणे कविना नितराम् अवहितेन भाव्यम्। अन्यथा तु परिपाकभङ्गः स्यात्। यथामरुककविपद्ये–
“शून्यं वासगृहं विलोक्य शयनाद् उत्थाय किञ्चिच्छनैर्
निद्राव्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम्।
विस्त्रब्धं परिचुम्ब्य जातपुलकाम् आलोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥”
अत्रोत्थाय किञ्चिच्छनैर् इत्य् अत्र सवर्णझय्द्वयसंयोगस् तत्रापि नैकट्येनेति सुतराम् अश्रव्यः। एवं
झय्घटितसंयोगपरह्रस्वस्यापि। तथा शनैर् निद्रेत्य् अत्र, निर्वर्ण्य पत्युर् मुखम् इत्य् अत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्रस्वस्य च प्राचुर्यम्। विस्त्रब्धम् इत्य् अत्र महाप्राणघटितस्य, लज्जेत्य् अत्र स्वात्मसवर्णझय्द्वयघटितस्य, मुखी प्रियेणेत्य् अत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश् च धातोर् द्विः प्रयोगः कवेर् निर्माणसामग्रीदारिद्र्यं प्रकाशयति। इत्य् अलं परकीयकाव्यविमर्शनेन। इति सङ्क्षेपेण निरूपिता रसाः।
अथ भावध्वनिर् निरूप्यते। अथ किं भावत्वम्। विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वम् इति चेत्, रसकाव्यवाक्ये ऽतिव्याप्त्यापत्तेः। अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात्। द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्व् असम्भवः प्रसज्येत। भावस्यापि भावनाद्वारैव व्यञ्जकत्वात्, भावनायाम् अतिव्याप्त्यापत्तेश् च। अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः। प्रधानध्वन्यमानभावे रसव्यञ्जकताभावाद् अव्याप्त्यापत्तेश् च।
न च तत्रापि प्रान्ते रसो ऽभिव्यज्यत एवेति वाच्यम्, भावध्वनिविलोपप्रसङ्गात्। भावचमत्कारप्रकर्षाद् भावध्वनित्वम्। रसस् तु तत्र व्यज्यमानो ऽप्य् अचमत्कारित्वान् न ध्वनिव्यपदेशहेतुर् इत्य् अपि न शक्यं वदितुम्। चमत्काररहितरसव्यक्तौ मानाभावात्। रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्राग् एवावेदनात्।
अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम्। तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथाप्य् अतिव्याप्तिः। तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात्। नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम्।भावादिचर्वणायाम् अतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणम् इति वाच्यम्।
कालागुरुद्रवं सा हालाहलवद्विजानती नितराम्।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामुनते॥
इत्यत्र
हालाहलसदृशत्वप्रकारज्ञाने अतिव्याप्तेः। तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच् च। नाप्य् अखण्डम्। तत्त्वे मानाभावात्। अत्रोच्यते–
विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्त्वम्॥
यद् आहुः– “व्यभिचार्यञ्जितो भावः” इति।
हर्षादीनां च सामाजिकगतानाम् एव स्थायिभावन्यायेनाभिव्यक्तिः। सापि रसन्यायेनेति केचित्। व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्ते। विभावानुभावौ चात्र व्यञ्जकौ। न त्व् एकस्मिन् व्याभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यम् अपेक्ष्यते, तस्यैव प्राधान्यापत्तेः। वस्तुतस् तु प्रकरणादिवशात् प्राधान्यम् अनुभवति कस्मिंश् चिद् भावे तदीयसामग्रीव्यङ्ग्यत्वेन नान्तरीयकतया तनिमानम् आवहतो व्यभिचार्यन्तरस्याङ्गत्वे ऽपि न क्षतिः। यथा गर्वादाव् अमर्षस्य, अमर्षादौ वा गर्वस्य। न चैवं सति गुणीभूतव्यङ्ग्यत्वापत्तिः। पृथग्विभावानुभावाभिव्यक्तस्यैव (भावस्य), गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात्। अत एव नान्तरीयकस्य भावस्य ध्वननं भवति। अन्यथा गर्वादिध्वनेर् उच्छेद एव भवेत्।
विभावस् त्व् अत्र व्यभिचारिणो निमित्तकारणसामान्यम्। न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते। यदि तु क्वचित् सम्भवतस् तदा न वार्येते।
हर्षादयस् तु–
हर्षस्मृतिव्रीडामोहधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्राससुप्तविबोधामर्षावहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारचपलताः। प्रतिपक्षकृतधिक्कारादिजन्मा निर्वेदश् चेति त्रयस्त्रिंशद् व्यभिचारिणः। गुरुदेवनृपपुत्रादिविषया रतिश् चेति चतुस्त्रिंशत्।
एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरम् इति परास्तम्। उच्छृङ्खलताया मुनिवचनपराहतत्वात्।
तत्र
इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः॥
तद् उक्तम्–
“देवभर्तृगुरुस्वामिप्रसादः प्रियसङ्गमः।
मनोरथाप्तिर् अप्राप्यमनोहरधनागमः।
तथोत्पत्तिश् च पुत्रादेर् विभावो यत्र जायते।
नेत्रवक्त्रप्रसादश् च प्रियोक्तिः पुलकोद्गमः॥
अश्रुस्वेदादयश् चानुभावा हर्षं तम् आदिशेत्॥” इति।
उदाहरणम्–
“अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना।
अवलोक्य समागतं तदा माम् अथ रामा विकसन्मुखी बभूव॥”
अत्रावधिकाले प्रियागमनं विभावः। मुखविकासो ऽनुभावः।
संस्कारजन्यं ज्ञानं स्मृतिः॥
यथा–
“तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः।
अद्यापि मे हृदयम् उन्मदयन्ति हन्त सायन्तनाम्बुजसहोदरलोचनायाः॥”
चिन्ताविशेषो ऽत्र विभावः। भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः। यद्य् अप्य् अत्रास्या एव स्मृतेः सञ्चारिण्याः, नायिकारूपस्य विभावस्य, हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद् विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम् तथापि स्मृतेर् एवात्र पुरःस्फूर्तिकत्वाच् चमत्कारित्वाच् च तद्ध्वनित्वम्
उक्तम्।
तदादेर् बुद्धिस्थप्रकारावच्छिन्ने शक्तिर् इति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः। बुद्धिस्थत्वं शक्यतावच्छेदकम् इति नये ऽपि स्मृतित्वेन स्मृतेर् व्यक्तिवेद्यतैव। तस्याश् चात्र वाक्यवेद्यत्वे ऽपि पदस्यैव कुर्वद्रूपत्वात् पदध्वनिविषयत्वम्। एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यम् इति परास्तम्। सायन्तनाम्बुजोपमानेन नयनयोर् उत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्दमग्नताप्रकाशः।
“दरानमत्कन्धरबन्धम् ईषन्निमीलितस्निग्धविलोचनाब्जम्।
अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्गं चिरम् अङ्गनायाः॥”
इत्य् अत्र स्मृतिर् न भावः, स्वशब्देन निवेदनाद् अव्यङ्ग्यत्वात्। नापि स्मरणालङ्कारः, सादृश्यामूलकत्वात्। सादृश्यमूलकस्यैव स्मरणस्यालङ्कारत्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वम् इति सिद्धान्तात्। किं तु विभाव एव सुन्दरत्वात् कथञ्चिद् रसपर्यवसायी।
स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेर् उत्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश् चित्तवृत्तिविशेषो व्रीडा॥
यथा–
“कुचकलशयुगान्तर्मामकीनं नखाङ्कं
सपुलकतनु मन्दं मन्दम् आलोकमाना।
विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकितनतनताङ्गी सद्म सद्यो विवेश॥
अत्र प्रियस्य दर्शनम्, तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर् दर्शनं च विभावः। सद्यः सदनप्रवेशो
ऽनुभावः।
यथा वा–
“निरुद्ध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने।
मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयाम्बभूव॥”
पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव। प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः। वदननमनम् अनुभावः।
भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर् मोहः।
“अवस्थान्तरशबलिता सा तथा” इति तु नव्याः।
उदाहरणम्–
“विरहेण विकलहृदया विलपन्ती दयित दयितेति।
आगतम् अपि तं सविधे परिचयहीनेव वीक्षते बाला॥”
अत्र कान्तवियोगो विभावः। इन्द्रियवैकल्यं लज्जाद्यभावश् चानुभावः।
यथा वा–
“शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किञ्चिद् आकुञ्चिताक्षः।
नैवाकर्षत्य् अम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः॥”
लोभशोकभयादिजनितोपप्लवनिवारणकारणीभूतश् चित्तवृत्तिविशेषो धृतिः॥
उदाहरणम्–
“सन्तापयामि हृदयं धावं धावं धरातले किम् अहम्।
अस्ति मम
शिरसि सततं नन्दकुमारः प्रभुः परमः॥”
अत्र विवेकश्रुतसम्पत्त्यादिर् विभावः। चापलाद्युपशमो ऽनुभावः। ननु चोत्तरार्धे चिन्ता नास्तीति वस्तुनो ऽभिव्यक्तेः कथम् अस्य धृतिभावध्वनित्वम् इति चेत्, तस्य धृत्युपयोगितयैवाभिव्यक्तेः।
किम् अनिष्टं मम भविष्यतीत्य् आकारश् चित्तवृत्तिविशेषः शङ्का॥
उदाहरणम्–
“विधिवञ्चितया मया न यातं सखि सङ्केतनिकेतनं प्रियस्य।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर् न जाने॥”
अत्र राजापराधो विभावः। मुखवैवर्ण्यादय आक्षेप्या अनुभावाः। इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता।
आधिव्याधिजन्यबलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदृग्भ्रमणादिहेतुर् दुःखविशेषो ग्लानिः।
यथा–
“शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव।
प्रियम् आगतम् अपि सविधे सत्कुरुते मधुरवीक्षणैर् एव॥”
अत्र प्रियविरहो विभावः। मधुरवीक्षणैर् एवेत्य् एवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां निवृत्तिर् अनुभावः। न चात्र श्रमः शङ्क्यः, कारणाभावात्। केचित् तु व्याध्यादिप्रभवबलनाशं ग्लानिम् आहुः। तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम्। यद्य् अपि “बलस्यापचयो ग्लानिर् आधिव्याधिसमुद्भवः” इति लक्षणवाक्याद् अपचयशब्देन नाश एव प्रतियते, तथापि प्राग् उक्तानुपपत्त्या बलनाशजन्यं दुःखम् एव बलापचयशब्देन
विवक्षितम्।
दुःखदारिद्र्यापराधादिजनितः स्वापकर्षभाषणादिहेतुश् चित्तवृत्तिविशेषो दैन्यम्॥
उदाहरणम्–
“हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता।
अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती॥”
सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयम् उक्तिः। अत्र सीतापरित्यागरूपो ऽपराधस् तज्जन्यं दुःखं वा विभावः। पतितसाम्यरूपस्वापकर्षभाषणम् अनुभावः।
यद् आहुः–
“चिन्तौत्सुक्यान् मनस्तापाद् दौर्गत्याच् च विभावतः।
अनुभावात् तु शिरसो ऽभ्यावृत्तेर् गात्रगौरवात्॥
देहोपस्करणत्यागाद् दैन्यं भावं विभावयेत्॥” इति।
“दौर्गत्यादेर् अनौजस्यं दैन्यं मलिनतादिकृत्।” इति च।
अत्र हतकेन मया विवासिता न तु विधिनेत्य् एतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया। यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम्। पतितस्य तु ब्राह्मणादेर् विधिना श्रुतिसुलभत्वे स्वभावेन कृते ऽपि तेनैव तथाविधं पापम् आचरता स्वतः श्रुतिर् दूरीकृतेति तस्य पतितेन साम्यम्, तस्याश् च श्रुत्येत्य् उपमालङ्कारो दैन्यम् एवालङ्कुरुते। तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तद् एव परिपोष्यते, सेति स्मृत्या च लेशतः प्रतीयमानया।
इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूलेखनाधोमुखत्वादिहेतुश् चित्तवृत्तिविशेषश् चिन्ता॥
यद् आहुः–
“विभावा यत्र दारिद्र्यम् ऐश्वर्यभ्रंशनं तथा।
इष्टार्थापहृतिः शश्वच्छ्वासोच्छ्वासाव् अधोमुखम्॥
सन्तापः स्मरणं चैव कार्श्यं देहानुपस्कृतिः।
अधृतिश् चानुभावाः स्युः सा चिन्ता परिकीर्तिता॥
वितर्को ऽस्याः क्षणे पूर्वे पाश्चात्त्ये वोपजायते॥” इति।
“ध्यानं चिन्ता हितानाप्तेः सन्तापादिकरी मता।” इति च।
उदाहरणम्-
“अधरद्युतिर् अस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी।
अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः॥”
अत्र तदप्राप्तिर् विभावः। अनुतापादय आक्षेप्या अनुभावाः। न चात्रौत्सुक्यध्वनिर् इति वाच्यम्। कस्य कृतैत्य् अनिर्धारितधर्म्यालम्बनायाश् चिन्ताया एव प्रतीयमानतया सतो ऽप्य् औत्सुक्यस्यैतद्वाक्येन प्राधान्येना ऽबोधनात्।
मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश् चित्तवृत्तिविशेषो मदः॥
यदाहुः–
“सम्मोहानन्दसन्दोहो मदो मद्योपयोगजः।” इति। तत्रोत्तमे पुरुषे स्वापो ऽनुभावः। मध्यमे हसितगाने। नीचे तु रोदनपरुषोक्त्यादि। अयं मदस् त्रिविधः, तरुणमध्यमाधमभेदात्। अव्यक्तासङ्गतवाक्यैः सुकुमारस्खलद्गत्या च यो ऽभिनीयते स आद्याः। भुजाक्षेपस्खलितघूर्णितादिभिर् मध्यमः। गतिभङ्गस्मृतिनाशहिक्काच्छर्द्याभिर् अधमः।
उदाहरणम्–
“मधुरतरं स्मयमानः स्वस्मिन्न् एवालपञ् शनैः किम् अपि।
कोकनदयंस् त्रिलोकीम् आलम्बनशून्यम् ईक्षते क्षीबः॥”
अत्र मादकद्रव्यसेवनं विभावः। अव्यक्तालापाद्य् अनुभावः। अत्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान् मदभाव एव प्रधानम् इति न स्वभावोक्त्यलङ्कारस्यप्राधान्यम्, अपि तु तद्ध्वन्युपस्कारकत्वम् एव।
इदं वा पुनर् उदाहरणम्–
“मधुरसान् मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय।
मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले॥”
अत्रापि स एव विभावः। अधिकवर्णोच्चारणादिर् अनुभावः। पूर्वार्धगता ग्राम्योक्तिर् उत्तरार्धे च तरुणीकरे ऽम्बुजोपमेयतया निरूपणीये स्वकरस्य तदुपमेयतया निरूपणं च मदम् एव पोषयतः।
बहुतरशारीरव्यापारजन्मा निःश्वा साङ्गसम्मर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः॥
यद् अहुः–
“अध्वव्यायामसेवाद्यैर् विभावैर् अनुभावकैः।
गात्रसंवाहनैर् आस्य सङ्कोचैर् अङ्गमोटनैः॥
निःश्वासैर्जृम्भितैर् मन्दैः पादोत्क्षेपैः श्रमो मतः॥” इति।
“श्रमः खेदो ऽध्वगत्यादेर् निद्राश्वासादिकृन्मतः।” इति च।
अयं च सत्य् अपि बले जायते, शारीरव्यापाराद् एव च जायते, न तु ग्लानिः। अतो ग्लानेः श्रमस्य भेदः।
उदाहरणम्–
“विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना।
चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दम् अपि क्षमासीत्॥”
अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः। स्पन्दराहित्यशयनादयो ऽनुभावाः। न चात्र निद्राभावध्वननेन गतार्थतेति शङ्क्यम्। सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान् मन्दम् अपि स्पन्दितुं न क्षमासीद् इत्य् अस्यानतिप्रयोजनकत्वापत्तेः, शीङाभिहिततया तस्या व्यङ्ग्यत्वानुपपत्तेश् च। श्रमे त्व् आनुगुण्यम् उचितम्।
रूपधनविद्यादिप्रत्युक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः॥
उदाहरणम्–
“आ मूलाद् रत्नसानोर् मलयवलयिताद् आ च कूलात् पयोधेर्
यावन्तः सन्ति काव्यप्रणयनपटवस् ते विशङ्कं वदन्तु।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां
वाचाम् आचार्यतायाः पदम् अनुभवितुं को ऽस्ति धन्यो मदन्यः॥”
अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः। पराधिक्षेपपरैतादृशवाक्यप्रयोगो ऽनुभावः। इमं चासूयापि लेशतः पुष्णाति। उत्साहप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्माद् अस्य विशेषः। तथा हि वीररसप्रसङ्गे प्राग् उदाहृते “यदि वक्ति-“इत्यादि पद्ये गीष्पतिनागिराम् अधिदेवतयापि साकम् अहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्यो ऽहम् अधिक इति गर्वः, न तु प्रकृतपद्य इव नास्त्य् एव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः।
श्रमादिप्रयोज्यं चेतःसम्मीलनं निद्रा॥
नेत्रनिमीलनगात्रनिष्क्रियत्वादयो ऽस्या अनुभावाः।
उदाहरणम्–
“सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा।
बोधितापि बुबुधे मधूपैर् न प्रातर् आननजसौरभलुब्धैः॥”
रात्रिजागरणश्रमो ऽत्र विभावः। मधुपैर् बोधाभावो ऽनुभावः।
शास्त्रादिविचारजन्यम् अर्थनिर्धारणं मतिः॥
अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयो ऽनुभावाः।
उदाहरणम्–
“निखिलं जगद् एव नश्वरं पुनर् अस्मिन् नितरां कलेवरम्।
अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः॥”
“शरीरम् एतज्जलबुद्बुदोपमम्” इत्यादिशास्त्रपर्यालोचनम् अत्र विभावः। हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर् वितृष्णता चानुभावः। झगिति मतेर् एव चमत्काराद् ध्वनिव्यपदेशहेतुता, न शान्तस्य, विलम्बेन प्रतितेः।
रोगविरहादिप्रभवो मनस्तापो व्याधिः॥
गात्रशैथिल्यश्वासादयो ऽत्रानुभावाः।
यदाहुः–
“एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः।
वातपित्तकफानां स्युर् व्याधयो ये ज्वरादयः॥
इह तत्प्रभवो भावो व्याधिर् इत्य् अभिधीयते॥”
उदाहरणम्–
“हृदये कृतशैवलानुषङ्गा मुहुर् अङ्गानि यतस् ततः क्षिपन्ती।
तदुदन्तपरे मुखे सखीनाम् अतिदीनाम् इयम् आदधाति दृष्टिम्॥”
विरहो ऽत्र विभावः। अङ्गक्षेपादिर् अनुभावः।
भीरोर् घोरसत्त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस् त्रासः॥
अनुभावाश् चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः।
यदाहुः–
“औत्पातिकैर् मनः क्षेपस् त्रासः कम्पादिकारकः।”
उदाहरणम्–
“आलीषु केलीरभसेन बाला मुहुर् ममालापम् उपालपन्ती।”
आराद् उपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमा मयासीत्॥
अत्र पत्या स्ववचनाकर्णनं विभावः। पलायनम् अनुभावः। न चात्र लज्जाया व्यङ्ग्यत्वम् आशङ्कनीयम्। शैशवेनैव तस्या निरासात्।
इदं वा विविक्तम् उदाहरणम्–
“मा
कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम्।
खेलन् न जातु गोपैर् अम्ब विलम्बं करिष्यामि॥”
एषा भगवतो लीलागोपकिशोरस्योक्तिः।
निद्राविभावोत्थज्ञानं सुप्तम्॥
स्वप्न इति यावत्। अस्यानुभावः प्रलापादिः। नेत्रनिमीलनादयस् तु निद्राया एवानुभावा न त्व् अस्य, अनिदञ्जन्यत्वात्। यत् तु प्राचीनैः “अस्यानुभावा निभृतगात्रनेत्रनिमीलनम्” इत्याद्य् उक्तं तदन्यथासिद्धानाम् अपि तेषाम् एतद्भावव्यापकत्वाद् इति ध्येयम्।
उदाहरणम्–
“अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं
तव परिचितः स्नेहः सम्यङ् मयेत्य् अनुभाषिणीम्।
अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत्॥”
एषा प्रवासगतस्य स्वप्ने ऽपि प्रियाम् एवम्भाषिणीं दृष्टवतो निद्रां प्रति कस्यचिद् उक्तिः। यद्य् अप्य् एवम्भूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश् चात्र प्रतीतिपथम् अवतरति, तथापि पुरःस्फूर्तिकतया स्वप्नध्वननम् अत्रोदाहृतम्, न प्रान्ते तयोर् ध्वननं निरोद्धुम् ईष्टे।
निद्रानाशोत्तरं जायमानो बोधो विबोधः॥
निद्रानाशश् च तत्पूर्तिस्वप्नान्तबलवच्छब्दस्पर्शादिभिर् जायत इति त एवात्र विभावाः। अक्षिमर्दनगात्रमर्दनादयो ऽनुभावाः।
तत्र
सङ्क्षेपेणोदाहरणम्–
“नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः।
सुदृशो वचनं शृणोमि यावन् मयि तावत् प्रचुकोप वारिवाहः॥”
अत्र गर्जितश्रवणं विभावः। प्रियावचनश्रवणोल्लासनाशो ऽनुभावस् तून्नेयः। केचिद् अविद्याध्वंसजन्यम् अप्य् अमुम् आमनन्ति। तेषां मते–
“नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत।
स्थितो ऽस्मि गतसन्देहः करिष्ये वचनं तव॥”
इति गीतापद्यम् उदाहार्यम्। न तु वारिवाहविषयाया असूयाया एवात्र वाक्यार्थतेति शङ्क्यम्। विबोधप्रतीतौ हि सत्यां तस्मिन्न् अनौचित्यावगमे सत्य् अनुचितविबोधजनकत्वेन वारिवाहे ऽसूयाया विलम्बेन प्रतीतेः, परमुखनिरीक्षकत्वात्। स्याद् अपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किञ्चिद् अपि स्यात्। नापि स्वप्नस्य, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः। अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य सङ्करः।
इदं तु नोदाहार्यम्–
“गाढम् आलिङ्ग्य सकलां यामिनीं सह तस्थुषीम्।
निद्रां विहाय स प्रातर् आलिलिङ्गाथ चेतनाम्॥”
विबोधस्य चेतनापदवाच्यत्वात्। यथा कश्चित् सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालाव् उपभोगार्थं दत्त्वा यथोचिते काल एकाम् उपभुज्य कालकन्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश् चेतनाम् इति समासोक्तेर् एवेह प्रकाशनात्।
परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश् चित्तवृत्तिविशेषो ऽमर्षः॥
प्राग्वत्
कारणानां कार्याणां च क्रमेण विभावानुभावत्वम्।
उदाहरणम्–
“वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य।
शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषम् जोषम् एवावतस्थे॥”
इह त्व् आकस्मिकस्तनाग्रस्पर्शो विभावः। नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ।
ननु क्रोधामर्षयोः स्थायिसञ्चारिणोर् भावयोः किं भेदकम् इति चेत्, विषयतावैलक्षण्यम् एवेति गृहाण। तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर् वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम्।
व्रीडादिभिर् निमित्तैर् हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषो ऽवहित्थम्॥
तदुक्तम्–
“अनुभावपिधानार्थे ऽवहित्थं भाव उच्यते।
तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः॥”
यथा–
“प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेर्
उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः।
विषज्वालाजालं झगिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम्॥
अत्र
व्रीडा विभावः। तादृशकालियकथाप्रसङ्गो ऽनुभावः। एवं भयादिप्रयोज्यम् अप्य् उदाहार्यम्।
अधिक्षेपापमानादिप्रभवा किम् अस्य करोमीत्याद्याकारा चित्तवृत्तिर् उग्रता॥
यदाहुः–
“नृपापराधो ऽसद्दोषकीर्तनं चोरधारणम्।
विभावाः स्युर् अथो बन्धो वधस् ताडनभनभर्त्सने॥
एते यत्रानुभावास् तदौग्र्यं निर्दयतात्मकम्॥” इति।
यथा–
“अवाप्य भङ्गं खलु सङ्गराङ्गणे नितान्तम् अङ्गाधिपतेर् अमङ्गलम्।
परप्रभावं मम गाण्डिवं धनुर् विनिन्दतस् ते हृदयं न कम्पते॥”
एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनञ्जयस्योक्तिः। युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः। वधेच्छानुभावः। न चामर्षोग्रतयोर् नास्ति भेद इति वाच्यम्। प्राग् उदाहृते ऽमर्षध्वनाव् उग्रताया अप्रतीतेः। नाप्य् असौ क्रोधः। तस्य स्थायित्वेनास्याः सञ्चारिणीत्वेनैव भेदात्।
विप्रलम्भमहापत्तिपरमानन्दादिजन्मा ऽन्यस्मिन्न् अन्यावभास उन्मादः॥
शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्।
उदाहरणम्–
“अकरुणहृदय प्रियतम मुञ्चामि त्वाम् इतः परं नाहम्।
इत्य् आलपति कराम्बुजम् आदायालीजनस्य विकला सा॥”
एषा
प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित् सन्देशहारिण्या उक्तिः। प्रियविरहो ऽत्र विभावः। असम्बद्धोक्तिर् अनुभावः। उन्मादस्य व्याधाव् अन्तर्भावे सम्भवत्य् अपि पृथग् उपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय।
रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम्॥
न चात्र प्राणवियोगात्मकं मुख्यं मरणम् उचितं ग्रहीतुम्। चित्तवृत्त्यात्मकेषु भावेषु तस्याप्रसक्तेः। भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात्।
उदाहरणम्–
“दयितस्य गुणाननुस्मरन्ती शयने सम्प्रति या विलोकितासीत्।
अधुना खलु हन्त सा कृशाङ्गी गिरम् अङ्गीकुरुते न भाषितापि॥”
प्रियविरहो ऽत्र विभाव। वचनविरामो ऽनुभावः। हन्तपदस्यात्रात्यन्तम् उपकारकत्वाद् वाक्यव्यङ्ग्यो ऽप्य् अयं भावः पदव्यङ्ग्यताम् आवहति। एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यम् इति परास्तम्।
दयितस्य गुणान् अनुस्मरन्तीत्य् अनेन व्यज्यमानं “चरमावस्थायाम् अपि तस्या दयितगुणविस्मरणं नाभूद्” इति वस्तु, विप्रलम्भस्य शोकस्य वा चरमम् अभिव्यक्तस्य पोषकम्। अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण सन्दर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः। कवयः पुनर् अमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात्।
सन्देहाद्यनन्तरं जायमान ऊहो वितर्कः॥
स च निश्चयानुकूलः।
“यदि सा मिथिलेन्द्रनन्दिनी नितराम् एव न विद्यते भुवि।
अथ मे कथम् अस्ति जीवितं न विनालम्बनम् आश्रितस्थितिः॥”
स्वात्मनि भगवतो रामस्यैषोक्तिः। भुवि सीतास्ति न वेति सन्देहो ऽत्र विभावः। भ्रूक्षेपशिरोङ्गुलिनर्तनम् आक्षिप्तम् अनुभावः। न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात्। किं भविष्यति कथं भविष्यतीत्य् आद्य् आकारायाश् चिन्तायाः, इदम् इत्थं भवितुम् अर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच् च। न विनेत्यादिनोक्तो ऽर्थान्तरन्यासो ऽप्य् अस्मिन्न् एवानुकूलः।
इष्टासिद्धिराजगुर्वाद्यपराधादिजन्यो ऽनुतापो विषादः॥
उदाहरणम्–
“भास्करसूनाव् अस्तं याते जाते च पाण्डवोत्कर्षे।
दुर्योधनस्य जीवित कथम् इव नाद्यापि निर्यासि॥”
अत्र स्वापकर्षपरोत्कर्षयोर् दर्शनं विभावः। जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः। अस्मिन्न् एव च विषादध्वनौ दुर्योधनस्येत्य् अर्थान्तरसङ्क्रमितवाच्यध्वनिर् अनुग्राहकः। न चात्र त्रासभावध्वनित्वं शक्यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात्। नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात्। नापि दैन्यध्वनित्वम्, सकलसैन्यक्षये ऽपि विपदस् तेनागणनात्। न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात्।
इदं पुनर् अत्र नोदाहार्यम्–
“अयि पवनरयाणां निर्दयानां हयानां
श्लथय गतिम् अहं नो सङ्गरं द्रष्टुम् ईहे।
श्रुतिविवरम् अमी मे दारयन्ति प्रकुप्यद्
भुजगनिभभुजानां बाहुजानां निनादाः॥
अत्र त्रासस्यैव प्रतीयमानत्वेन
विषादस्याप्रतीतेः। लेशतया प्रतितौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात्।
अधुनैवास्य लाभो ममास्त्व् इतीच्छा औत्सुक्यम्॥
इष्टविरहादिर् अत्र विभावः। त्वराचिन्तादयो ऽनुभावाः।
यदाहुः–
“सञ्जातम् इष्टविरहाद् उद्दीप्तं प्रियसंस्मृतेः।
निद्रया तन्द्रया गात्रगौरवेण च चिन्तया॥
अनुभावितम् आख्यातम् औत्सुक्यं भावकोविदैः॥” इति।
उदाहरणम्–
“निपतद्बाष्पसंरोधम् उक्तचाञ्चल्यतारकम्।
कदा नयननीलाब्जम् आलोकेय मृगीदृशः॥”
अनर्थातिशयजनिता चित्तस्य सम्भ्रमाख्या वृत्तिर् आवेगः॥
उदाहरणम्–
“लीलया विहितसिन्धुबन्धन सो ऽयम् एति रघुवंशनन्दनः।
दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः॥
एषा स्वात्मनि मन्दोदर्या उक्तिः। रघुनन्दनागमनम् अत्र विभावः।
कुत्र यामीत्य् एतद् व्यङ्ग्यः स्थैर्याभावो ऽनुभावः। न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात्। परं त्व् आवेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति।
चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्यार्थप्रतिसन्धानविकला चित्तवृत्तिर् जडता॥
इयं च मोहात् पूर्वतः परतश् च जायते।
यद् आह–
“कार्याविवेको जडता पस्यतः शृण्वतो ऽपि वा।
तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा॥
अनुभावास् त्व् अमी तूष्णीं भावविस्मरणादयः।
सा पूर्वं परतो वा स्यान् मोहाद् इति विदां मतम्॥”
उदाहरणम्–
“यद् अवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतो ऽभूत्।
तद् अवधि शिथिलीकृतो मदीयैर् अथ करणैः प्रणयो निजक्रियासु॥”
प्रियविरहो ऽत्र विभावः। करणैश् चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्रमितिषु प्रणयस्य शिथिलीकरणम् अनुभावः। मोहे चक्षुरादिभिश् चाक्षुषादेर् अजननम्, इह
तु प्रकारविशेषवैशिष्ट्येन बाहुल्येनाजननम् इति तस्माद् अस्य विशेषः। अत एवोदाहरणे शिथिलीकृत इत्य् उक्तम्, न तु त्यक्त इति।
अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्॥
अत्र च नासामर्थ्यम्। नापि कार्याकार्यविवेकशून्यत्वम्। तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वे ऽपि ग्लानेर् जडतायाश् चास्य भेदः।
उदाहरणम्–
“निखिलां
रजनीं प्रियेण दूराद् उपयातेन विबोधिता कथाभिः।
अधिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा॥”
एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिद् उक्तिः। अत्र रजनिजागरणं विभावः। अधिकसम्भाषणाभावो ऽनुभावः। जडतायां मोहात् पूर्ववर्तित्वम् उत्तरवर्तित्वं वा नियतम्, न त्व् अत्रेत्य् अपरो विशेषः। गोपनीयविषयत्वाद् यदि कथाभिर् इत्य् अविवक्षितवाच्यं तदा श्रमो ऽस्तु परिपोषकः। श्रमजन्ये ह्य् आलस्ये श्रमस्य पोषकताया अवार्यत्वात्। अतितृप्त्यादिजनिते त्व् आलस्ये श्रमाद् विविक्तविषयत्वं बोध्यम्।
परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश् चित्तवृत्तिविशेषो ऽसूया॥
इमाम् एवासहनादिशब्दैर् व्यवहरन्ति।
यथा–
“कुत्र शैवं धनुर् इदं क्व चायं प्राकृतः शिशुः।
भङ्गस् तु सर्वसंहर्त्रा कालेनैव विनिर्मितः॥”
एषा भग्नहरकार्मुकस्य भगवतो रामस्य पराक्रमम् असहमानानां तत्रत्यानां राज्ञाम् उक्तिः। अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः। प्राकृतशिशुपदगम्या निन्दा अनुभावः।
“तृष्णालोलविलोचने कलयति प्राचीं चकोरव्रजे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर् धुन्वति।
माने मानवतीजनस्य सपदि प्रस्थातुकामे ऽधूना
धातः किं नु विधौ विधातुम् उचितो धाराधराडम्बरः॥”
अत्रापि यद्य् अपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता
कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस् तुल्यत्वाद् अभिव्यक्तेनामर्षेण शबलितैवासौ
न विविक्ततया प्रतियते। नहि विधातुर् अपराध इव भगवतो रामस्यापराधो ऽस्ति येन कवेर् इव वीराणाम् अप्य् अमर्षो ऽभिव्यज्येत। स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम्। अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान् नास्त्य् असूयाध्वनित्वम् इति तु न वाच्यम्। एकध्वनेर् ध्वन्यन्तराविरोधित्वात्। अन्यथा महावाक्यध्वनेर् अवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात्।
वियोगशोकभयजुगुप्सादीनाम् अतिशयाद् ग्रहावेशादेश् चोत्पन्नो व्याधिविशेषो ऽपस्मारः॥
व्याधित्वेनास्य कथने ऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानकयोर् अस्यैव व्याधेर् अङ्गत्वं नान्यस्येति स्फोरणाय। विप्रलम्भे तु व्याध्यन्तरस्यापि च। उदाहरणम्–
“हरिम् आगतम् आकर्ण्य मथुराम् अन्तकान्तकम्।
कम्पमानः श्वसन् कंसो निपपात महीतले॥”
अत्र भयं विभावः। कम्पनिःश्वासपतनादयो ऽनुभावाः।
अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश् चपलता॥
यद् आहु–
“अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश् च मत्सरः।
इति यत्र विभावाः स्युर् अनुभावस् तु भर्त्सनम्॥
वाक्पारुष्यं प्रहारश् च ताडनं वधबन्धने।
तच्चापलम्
अनालोच्य कार्यकारित्वम् इष्यते॥” इति।
उदाहरणम्–
“अहितव्रत पापात्मन् मैवं मे दर्शयाननम्।
आत्मानं हन्तुम् इच्छामि येन त्वम् असि भावितः॥”
एषा भगवदनुरक्तिविघटनोपायम् अपश्यतः प्रह्लादं प्रति हिरण्यकशिपोर् उक्तिः। भगवद्द्वेषोत्थापितः पुत्रद्वेषो ऽत्र विभावः। आत्मवधेच्छा परुषवचनं चानुभावः। न चामर्ष एवात्र व्यज्यत इति वाच्यम्।
सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोर् अमर्षस्य चिरकालसम्भृतत्वेनात्मवधेच्छाया इदम्प्रथमतानुपपत्तेः।
इदम्प्रथमकार्यस्य चेदम्प्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः। न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणम् अभिव्यज्यताम् इति वाच्यम्। प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात्।
नीचपुरुषेष्व्
आक्रोशनाधिक्षेपव्याधिताडनदारिद्र्येष्टविरहपरसम्पद्दर्शनादिभिः, उत्तमेषु त्व् अवज्ञादिभिर् जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिर् निर्वेदः।
उदाहरणम्–
“यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम्॥”
नित्यानित्यवस्तुविवेकजन्यत्वाभावान् नासौ रसव्यपदेशहेतुः।
देवादिविषया रतिर् यथा–
“भवद्द्वारि
क्रुध्यज्जयविजयदण्डाहतिदलत्-
किरीटास् ते कीटा इव विधिमहेन्द्रप्रभृतयः।
वितिष्ठन्ते युष्मन् नयनपरिपातोत्कलिकया
वराकाः के तत्र क्षपितमुर नाकाधिपतयः॥”
अत्रापमानसहनभगवद्द्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर् ब्रह्मादिगता भगवदालम्बना रतिर् नाभिव्यज्यते, अपि तु भगवदैश्वर्यम् अवाङ्मनसगोचर इति चेत् तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वम् अक्षतम् एव।
इदं वोदाहरणम्–
“न धनं न च राज्यसम्पदं न हि विद्याम् इदम् एकम् अर्थये।
मयि धेहि मनाग् अपि प्रभो करुणाभङ्गितरङ्गितां दृशम्॥”
अत्र धनाद्यपेक्षाशून्यस्य भगवद्दृगन्तपाताभिलाषो हि भगवत्य् अत्यन्तानुरक्तिं व्यनक्ति। एवं सङ्क्षेपेण निरूपिता भावाः॥
अथ कथम् अस्य सङ्ख्यानियमः। मात्सर्योद्वेगदम्भेर्ष्याविवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधार्ष्ट्यादीनाम् अपि तत्र तत्र लक्ष्येषु दर्शनात् इति चेत्, न। उक्तेष्व् एवैषाम् अन्तर्भावेण सङ्ख्यान्तरानुपपत्तेः। असूयातो मात्सर्यस्य, त्रासाद् उद्वेगस्य, अवहित्थाख्याद् भावाद् दम्भस्य, अमर्षाद् ईर्ष्यायाः, मतेर् विवेकनिर्णययोः, दैन्यात् क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात् कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात् संशयस्य, चापलाद् धार्ष्ट्यस्य च वस्तुतः सूक्ष्मे भेदे ऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात्। मुनिवचनानुपालनस्य सम्भव उच्छृङ्खलताया अनौचित्यात्। एषु च सञ्चारिभावेषु मध्ये केचन केषाञ्चन विभावा अनुभावाश् च
भवन्ति।
तथा हि– ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयम् ऊह्यम्।
अथ रसाभासः– तत्र
अनुचितविभावालम्बनत्वं रसाभासत्वम्॥
विभावादाव् अनौचित्यं पुनर् लोकानां व्यवहारतो विज्ञेयम्। यत्र तेषाम् अयुक्तम् इति धीर् इति केचिद् आहुः। तद् अपरे न क्षमन्ते। मुनिपत्न्यादिविषयकरत्यादेः सङ्ग्रहे ऽपि बहुनायकविषयाया अनुभयनिष्ठायाश् च रतेर् असङ्ग्रहात्। तत्र विभावगतस्यानौचित्यस्याभावात्। तस्माद् अनौचित्येन रत्यादिर् विशेषणीयः। इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश् च सङ्ग्रह इति। अनौचित्यं च प्राग्वद् एव। तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम्। निर्मलस्यैव रसादित्वात्। “हेत्वाभासत्वम् इव हेतुत्वेन” इत्य् एके। “न ह्य् अनुचितत्वेनात्महानिः, अपि तु सदोषत्वाद् आभासव्यवहारः। अश्वाभासादिव्यवहारवत्” इत्य् अपरे।
उदाहरणम्–
“शतेनोपायानां कथम् अपि गतः सौधशिखरं
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने।
विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां
सनिःश्वासं श्लिष्यत्य् अहह सुकृती राजरमणीम्॥”
अत्रालम्बनम् अनुचितप्रणया राजरमणी। रहोरजन्याद्य् उद्दीपनम्। साहसेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लेषादयश् चानुभावाः। शङ्कादयः सञ्चारिणः। निषिद्धालम्बनकत्वाच् चास्या रतेः, आभासत्वं रसस्य। न चात्र चकितनयनाम् इत्य् अनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेर् अनुभयनिष्ठतेत्य् आभासताहेतुर् वाच्यः।
अस्याश् च चिराय तस्मिन्न् आसक्ताया अन्तःपुरे परपुरुषागमनस्यात्यन्तम् असम्भावनया क एष मां बोधयतीत्य् आदाव् उचित एव त्रासः। अनन्तरं च परिचयाभिव्यक्त्या सो ऽयं मत्प्रियो मदर्थं प्राणान् अपि तृणीकृत्यागत इति ज्ञानाद् उत्पन्नं हर्षम् अभिव्यञ्जयत् स्मेरवदनाम् इति विशेषणं रतिं तदीयाम् अपि व्यनक्ति। परं तु प्राधान्यं नायकनिष्ठाया एव रतेः, सकलवाक्यार्थत्वात्।
यथा वा–
“भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु।
तरुणेषु विलोचनाब्जमालाम् अथ बाला पथि पातयाम्बभूव॥
अत्र कुतश् चिद् आगच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर् युवभिर् अनुगम्यमानायाः कस्याश् चिद् भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसञ्जातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनाद् अभिव्यज्यमाना रतिर् बहुवचनेन बहुविषया गम्यत इति भवत्य् अयम् अपि रसाभासः।
यथा वा–
“भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम्॥”
अत्र रतेर् नववध्वा मनाग् अप्य् अस्पर्शाद् अनुभयनिष्ठत्वेनाभासत्वम्।
यथा चोक्तम्–
“उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च।
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम्॥” इति।
अत्र मुनिगुरुशब्दयोर् उपलक्षणपरतया राजादेर् अपि
ग्रहणम्।
अथात्र किं व्यङ्ग्यम्–
“व्यानम्राश् चलिताश् चैव स्फारिताः परमाकुलाः।
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः॥”
अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यम् अर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोर् औत्सुक्यं च व्यञ्जयन्तीभिर् दृग्भिः पाञ्चाल्या बहुविषयाया रतेर् अभिव्यञ्जनाद् रसाभास एवेति नव्याः। प्राञ्चस् त्व् अपरिणेतृबहुनायकविषयत्वे रतेर् आभासतेत्य् आहुः। तत्र शृङ्गाररस इव शृङ्गाराभासो ऽपि द्विविधः। संयोगविप्रलम्भभेदात्। संयोगाभासस् त्व् अनुपदम् एवोदाहृतः।
विप्रलम्भाभासो यथा–
“व्यत्यस्तं लपति क्षणं क्षणम् अथो मौनं समालम्बते
सर्वस्मिन् विदधाति किं च विषये दृष्टि निरालम्बनाम्।
श्वासं दीर्घम् उरीकरोति न मनाग् अङ्गेषु धत्ते धृतिं
वैदेहीकमनीयताकवलितो हा हन्त लङ्केश्वरः॥”
अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिर् अनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्य् आदिभिर् उक्तिभिर् व्यज्यमानैर् उन्मादश्रममोहचिन्ताव्याधिभिस् तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः। एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः,
महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः। विस्तृतिभयाच् चामी नेहोदाहृताः सुधीभिर् उन्नेयाः।
एवम् एवानुचितविषया भावाभासाः।
यथा–
सर्वे ऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदकलिता विमुखीबभूव।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयाद् अधिदेवतेव॥
गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्य चिद् अप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयम् उक्तिः। अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु, चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वम् अभिव्यज्यमानं व्यतिरेकवपुःस्मृतिम् एव पुष्णातीति सैव प्रधानम्। एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्य् अधिदेवतोपमापि। एषा चानुचितविषयकत्वाद् अनुभयनिष्ठत्वाच् च भावाभासः। यदि पुनर् इयं तत्परिणेतुर् एवोक्तिस् तदा भावध्वनिर् एव॥
अथ भावशान्तिः–
भावस्य प्रागुक्तस्वरूपस्य शान्तिर् नाशः॥
स चोत्पत्त्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृदयचमत्कारित्वात्।
उदाहरणम्–
“मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय।
इति तन्व्याः पतिवचनैर् अपायि नयनाब्जकोणशोणरुचिः॥”
इह तादृशप्रियवचनश्रवणं विभावः। नयनकोणगतशोणरुचेर् नाशः,
तदभिव्यक्तः प्रसादो वानुभावः। उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः।
तथा–
भावोदयो भावस्योत्पत्तिः॥
उदाहरणम्–
“वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी।
अंसदेशवलयीकृतां क्षणाद् आचकर्ष निजबाहुवल्लरीम्॥”
अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः। प्रियांसदेशवलयीकृतनिजबाहुलताकर्षणम् अनुभावः। रोषोदयो व्यङ्ग्यः। यद्य् आपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्वं भावशान्तेर् आवश्यकत्वान् नानयोर् विविक्तो व्यवहारस्य विषयः, तथापि द्वयोर् एकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच् च व्यवहारस्य, अस्ति विषयविभागः।
एवम्–
भावसन्धिर् अन्योन्यानभिभूतयोर् अन्योन्याभिभवनयोग्ययोः सामानाधिकरण्यम्॥
उदाहरणम्–
“यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः।
सङ्कुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः॥”
अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेश् च दर्शनं विभावः। नयनगतसङ्कोचविकासाव् अनुभावः। व्रीडौत्सुक्ययोः सन्धिर् व्यङ्ग्यः।
तथा–
भावशबलत्वं
भावानां बाध्यबाधकभावम् आपन्नानाम् उदासीनानां वा व्यामिश्रणम्॥
एकचमत्कृतिजनकज्ञानगोचरत्वम् इति यावत्।
उदाहरणम्–
“पापं हन्त मया हतेन विहितं कीतापि यद्य् आपिता,
सा माम् इन्दुमुखी विना बत वने किं जीवितं धास्यति।
आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां
राज्यं यातु रसातलं पुनर् इदं न प्राणितुं कामये॥”
अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता। यत् तु काव्यप्रकाशटीकाकारैः “उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता” इत्य् अभ्यधीतय, तन् न। “पश्येत् कश्चिच् चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि” इत्य् अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानाम् उपमर्दलेशशून्यत्वे ऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात्। स्वोत्तरविशेषगुणेन जायमानस् तु नाशो न व्यङ्ग्यः। न वोपमर्दपदवाच्यः, नापि चमत्कारी तस्मात्।
“नारिकेलजलक्षीरसिताकदलमिश्रणे।
विलक्षणो तथास्वादो भावानां संहतौ तथा॥”
अत्रेदं बोध्यम्– य एते भावशान्त्युदयसन्धिशबलताध्वनय उदाहृतास् ते ऽपि भावध्वनय एव। विद्यमानतया चर्व्यमाणेष्व् इवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसन्धीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश् चर्व्यमाणेषु भावेष्व् एव प्राधान्यस्यौचित्यात्, चमत्कृतेस् तत्रैव विश्रान्तेः। यद्य् अप्य् उत्पत्तिविनाशसन्धिशबलतानां तत्सम्बन्धिनां भावानां च
समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते, तथापि स्थितौ भावेषु प्रधानतायाः कॢप्तत्वात्, भावशान्त्यादिष्व् अपि तेष्व् एव शान्तिप्रतियोगित्वादिभिर् व्यज्यमानेषु तस्याः कल्पयितुम् औचित्यात्। किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिर् एवेत्य् अभ्युपेयते तदा व्यज्यमानभावेष्व् अभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात्।
तथा हि–
“उषसि प्रतिपक्षनायिकासदनाद् अन्तिकम् अञ्चति प्रिये।
सुदृशो नयनाब्जकोणयोर् उदियाय त्वरयारुणद्युतिः॥”
अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्। (ननु)उदयस्य वाच्यत्वे ऽपि भावस्यावाच्यत्वाद् धनित्वं सुस्थम् इति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वे ऽप्रधानकृतव्यपदेशानुपपत्तेः। अस्मन्मते तूत्पत्तेर् वाच्यत्वे ऽप्य् उत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद् युक्त एव भावोदयध्वनिव्यपदेशः। एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात्। यथा–
“क्षमापणैकपदयोः पदयोः पतति प्रिये।
शेमुः सरोजनयनानयनारुणकान्तयः॥”
ननु शब्दवाच्यानां प्रशमादीनाम् अरुणकान्त्यैवान्वयात् अरुणकान्तिप्रशमादेर् एव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्ग्यस्य रोषप्रशमादेः, व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात्। न चारुण्यव्यङ्ग्यरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्। वाच्यव्यङ्ग्यप्रतीत्योर् आनुपूर्व्येण सिद्धतया वाच्यान्वयबोधवेलायां
वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः। अन्यथा “सुदृशो नयनाब्जकोणयोः” इत्य् अस्यान्वयो न स्यात्। मैवम्। एवम् अपि–
“निर्वासयन्तीं धृतिम् अङ्गनानां शोभां हरेर् एणदृशो धयन्त्याः।
चिरापराधस्मृतिमांसलो ऽपि रोषः क्षणप्राघुणिको बभूव॥”
इत्यादाव् अपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वे ऽपि प्रधानस्य तत्प्रशमस्य व्यङ्ग्यत्वात्। उभयोर् अप्य् अवाच्यत्वम् अपेक्षितम् इति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर् वाच्यत्वाद् अनुदाहरणत्वापत्तेः। इष्टापत्तिस् तु सहृदयानाम् अनुचितैव। तस्माद् भावप्रशमादिष्व् अपि प्राधान्येन भावानाम् एव चमत्कारित्वम्, प्रशमादेस् तूपसर्जनत्वम् अतो न तस्य वाच्यतादोषः। इदं पुनर् भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्– यद् एकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वम् एव वा प्रकारः। अन्यत्र तु प्रशमावस्थत्वादिर् अपीति। रसस्य तु स्थायिमूलकत्वात् प्रशमादेर् असम्भवः, सम्भवे वा न चमत्कारः, इति न स विचार्यते।
सो ऽयं निगदितः सर्वो ऽपि रत्यादिलक्षणो व्यङ्ग्यप्रपञ्चः स्फुटे प्रकरणे झगिति प्रतितेषु विभावानुभावव्यभिचारिषु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेत प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणाद् अलक्ष्यक्रमो व्यपदिश्यते। यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस् तत्र सामग्रीविलम्बाधीनं चमत्कृतेर् मान्थर्यम् इति संलक्ष्यक्रमो ऽप्य् एष भवति। यथा– “तल्पगतापि च सुतनुः” इति प्राग् उदाहृते पद्ये “सम्प्रति” इत्य् एतदर्थावगतिर् विलम्बेन। न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेर् अलक्ष्यक्रमव्यङ्ग्यत्वम्। अत एव लक्ष्यक्रमप्रसङ्गे–
“एवंवादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती।”
इत्य् अत्र
कुमारीस्वाभाव्याद् अप्य् अधोमुखत्वविशिष्टस्य लीलाकमलपत्त्रगणनस्योपपत्त्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश् चमत्करणाल् लक्ष्यक्रमो ऽयं ध्वनिः” इति प्राहुर् आनन्दवर्धनाचार्याः। रसभावादिर् अर्थो ध्वन्यमान एव, न वाच्यः। तथापि न सर्वो ऽलक्ष्यक्रमस्य विषयः” इति चाभिनवगुप्तपादाचार्याः। स्याद् एतत्, यद्य् अयं रसादिः संलक्ष्यक्रमस्य विषयः स्यात्। अनुरणनभेदगणनप्रस्तावे “अर्थशक्तिमूलस्य द्वादशभेदाः” इत्य् अभिनवगुप्तोक्तिः, “तेनायं द्वादशात्मकः” इति मम्मटोक्तिश् च न सङ्गच्छेत, वस्त्वलङ्कारात्मना द्विविधेन वाच्येन स्वतःसम्भवित्वकविप्रौढोक्ति-निष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस् त्रिभिर् उपाधिभिस् त्रैविध्यम् आपन्नेन षडात्मना वस्त्वलङ्कारयोर् इव रसादेर् अप्य् अभिव्यञ्जनाद् अष्टादशत्वप्रसङ्गात्।
अत्रोच्यते– प्रकटैर् विभावानुभावव्यभिचारिभिर् अलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति, न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम्। संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस् तु वस्तुमात्रतैव, न रसादित्वम् इति तेषाम् आशयस्य वर्णनेन न तदुक्तीनां विरोधः। उपपत्तिस् त्व् अर्थे ऽस्मिन् विचारणीया। रसभावादिर् अर्थ इत्य् अत्र रसादिशब्दो रत्यादिपरः।
तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैर् अवर्णात्मकै रागादिभिश् चाभिव्यक्तिम् आमनन्ति। तत्र वाक्यगतानां पदानां सर्वेषाम् अपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समाने ऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिद् एव ध्वनिव्यपदेशहेतुत्वम्। यथा “मन्दम् आक्षिपति” इत्य् अत्र मन्दम् इत्य् अस्य। रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वम् एव न तु व्यञ्जकत्वम् इति यद्य् अपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वम् इति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकम् एव व्यञ्जकतायाः सिद्धिर् इति प्राञ्चः।
वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वम् एव न रसाभिव्यञ्जकत्वम्, गौरवान् मानाभावाच् च। न हि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं नास्तीत्य् अस्ति नियमः, इन्द्रियत्रये व्यभिचारात्। इत्थं च स्वस्वव्यञ्जकोपनीतानां गुणिनां गुणानाम् उदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्याक्तिविषयतेति तु नव्याः। उदाहरणं तु “तां तमाल” इत्यादि प्राग् उक्तम् एव वाक्यस्य व्यञ्जकतायाम् अपि “आविर्भूता यद् अवधि” इत्यादि च। प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान् निदर्शनानि प्रसिद्धानि। मन्निर्मिताश् च पञ्ज लहर्यो भावस्य। पदैकदेशस्य च “निखिलम् इदं जगद् अण्डकं वहामि” इति करूपतद्धितो वीररसस्य प्राग् एवोदाहृतः। एवं रागादिभिर् अपि व्यङ्ग्यत्वे सहृदयहृदयम् एव प्रमाणम्। एवम् एषां रसादीनां प्राधान्येन निरूपितान्य् उदाहरणानि। गुणीभावे तु वक्ष्यन्ते, नामानि च। तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वम् एव। नामनि रसपदं तु रत्यादिपरम् इत्य् एके। अस्त्य् एव रसादित्वम्, किं तु न ध्वनिव्यपदेशहेतुत्वम् इत्य् अपरे॥