रसगङ्गाधरः

[[रसगङ्गाधरः Source: EB]]

[

रसगड्गाधरः - उपमालंकारः

· उपमालंकारः - लक्षण १

अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यड्गयस्य रमणीयताप्रयो-जका अलंकारा निरूप्यन्ते-तत्रापि विपुलालंकारान्तर्वर्तिन्युपमा तावद्विचार्यते

सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतिः ॥
सौन्दर्यं च चमत्कृत्याधायकत्वम्‍ । चमत्कृतिरानन्दविशेषः सह्लदय-ह्लदयप्रमाणकः । अनन्वये च ‘ गगनं गगनाकारम्‍ ’ इत्यादौ साद्दश्यस्य

द्वितीयसब्रह्मचारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारि-तैव । अत एव तस्यान्वयाभावादनन्वदं तमाहुः ।
व्यतिरेके ‘ तवाननस्य तुलनां दधातु जलजं कथम्‍ ’ इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनः सादृश्यस्य निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापहनुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तूप-मादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि

सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम्‍ । मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसड्रः शड्कनीयः, तयोः संग्राह्यत्वात्‍ । ननु ‘ त्वयि कोपो ममाभाति सुधांशाविव पावकः ’ इत्यादावुपमानस्यात्यन्तमसंभावितत्वा-त्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम्‍, चमत्कारस्तु पुनः केन स्यादिति

चेत्‍, कविना हि खण्डशः पदार्थोपस्थितिमता स्वेच्छया संभावितत्वेना-कारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधका-भावात्‍ । कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम्‍, परमसुकुमारीभवत्कनकनिर्मिताड्रया मणिमयदशनकान्तिनिर्वासित-ध्वान्तायाः कान्ताया भावनया पुरोऽवस्थापिताया आलिड्रनस्याह्लाद-जनकत्वदर्शनात्‍ ।
उपमानोपमेययोः सत्यत्वस्य लक्षणे प्रवेशाभावान्नात्र दोषलेशोऽपि ।

· उपमालंकारः - लक्षण २

अत एव
‘ स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाड्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ ’
इत्यादावपि नानुपपत्तिः । परे तु अस्याः कल्पितोपमाया उपमानान्त-राभावफलकत्वेनालंकारान्तरतामाहुः । तन्न । सादृश्यस्य चमत्कारितयोप-मान्तर्भावस्यैवोचितत्वात्‍ । सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात्‍ । उप-मानान्तराभावफलकत्वं ह्मुपमाविशेषत्वे साधकम्‍, न तूपमाबहिर्भावे ।

अथ
विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम्‍ ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम्‍ ॥ ’

इत्यादौ साधारणधर्मस्याभावात्कथमुपमानिष्पत्तिः ? बुधमौक्तिकयो-रेकैकमात्रवृत्तित्वात्‍ । न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनन-मालक्षितबुधाश्लेषं राकेन्दोर्मण्डलभिव विलसतीति तादृशराकेन्दुमण्डल-निरूपितसादृश्यप्रयोजकविलासाश्रयस्तादृशमाननमितिं तात्पर्यं तदा

विपूर्वकलसत्यर्थशोभाविशेष एव समानो धर्मः । यदि च तादृशमिन्दु-मण्डलमिव यत्तादृशमाननं तद्विलसतीति तादृशसादृश्यावच्छिन्नमानन-मुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्म-

मिव मुखमित्यादाविवाह्लादकत्वादिधर्म उन्नेय इति वाच्यम्‍ । उपमानोप-मेयशोभयोरपि वस्तुतो‍ऽसाधारणत्वात्‍ ।

‘ कोमलातपशोणाभ्रसंध्याकालसहोदरः ।
काषायवसनो याति कुड्‍कुमालेपनो यतिः ॥

इत्यादौ धर्मान्तरस्याप्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसा-धारणत्वात्कथमुपमेति चेत्‍, अत्राहुः- उपमेयगतानामुपमानगतानां

चासाधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्व-कल्पनादुपमासिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुड्‍कुमालेपकोमलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धये‍‌ऽत्यन्त-मसन्नभेदः सेन्द्रुं शक् नुयात्‍, भ्रमेणार्थसिद्धेरभावादिति वाच्यम्‍ । प्रागुक्ते‍ऽपि ‘ त्वयि कोपो ममाभाति सुधांशाविव पावकः ’ इत्यादावुपमा-नोपमेययोरत्यन्तासत्त्वेऽपि कल्पनामात्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयिष्याम : । अयमेव बिम्बप्रतिबिम्ब-भाव इति प्राचीनैरभिधीयते ।

· उपमालंकारः - लक्षण ३

एवम्‍

‘ भुजो भगवतो भाति चञ्चंश्वाणूरचूर्णने ।
जगन्मण्डलसंहारे वेगवानिव धूर्जटिः ॥ ’

अत्र धूर्जटिभगवद्‍भुजयोराकोरण सादृश्यस्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाञ्चल्यवत्त्व-जगन्मण्डल-

संहारनिमितकवेगवत्त्वयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारकभानविशेष्य-त्वस्य साधारणधर्मस्य सिद्धेरुपमासिद्धिः । तत्र चाणूरजगन्मण्ड-लयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्विम्बप्रतिबिम्बभावः । चूर्णनसंहारयोश्वाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्नयोरपि वस्तुत एक-रूपतैवेति वस्तुप्रतिवस्तुभावः । इत्येवं निरूपितमुपमालक्षणम्‍ ।

अथेयमुदाह्लियते-

‘ गुरुजनभय-मद्विलोकनान्तः समुदयदाकुलभावमावहन्त्याः ।
दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥ ’

अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशद्वेन सामान्य-वचनेन समासे प्रतीयमानोपमा सकलवाक्यार्थस्य विप्रलम्भश्रृड्रारस्य स्मृत्युपस्करणद्वारोपस्कारकतयालंकारः । न चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं शक्यम्‍, न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात्‍ । नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः संधिः प्रधानम्‍, तस्य नायिकागतत्वेनानुवाद्यत्वात्‍, उत्तरार्धगतस्मृत्यड्र-त्वाच्च । तस्माद्भावसंध्युपमालंकराभ्यामुपस्कृता स्मृतिर्हापदगम्यः संतापो‍ऽनुभावश्व विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम्‍ ।

अप्पयदीक्षिताः पुनश्वित्रमीमांसायाम्‍ - - ‘ उपमितिक्रियानिष्पत्तिम-त्सादृश्यवर्णनमदुष्टमव्यड्रयमुपमालंकारः । स्वनिषेधापर्यवसायि सादृ-श्यवर्णनं वा तथाभूतं तथा ’ इति लक्षणद्वयमाहुः । तच्चिन्त्यम्‍ । वर्णनस्य विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविर-हेणार्थालंकारताया बाधात्‍ । तस्य सर्वथैवाव्यड्रयत्वादव्यड्रयत्वविशेषण-

वैयर्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते, तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापतेः । एवं ‘ कालोपसर्जने च तुल्यम्‍ ’ इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्या-त्रापि प्रतिपादनात्‍ । न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्व-विशेषणेन वारणं भविष्यतीति वाच्यम्‍ । एतद्वाक्योपप्लुतवाक्यान्तर-

प्रतिपादितैकोपमेयके सादृश्ये तथाप्यतिप्रसड्रात । न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम्‍, विशयस्याचमत्कारित्वात्‍ , चमत्कार-

विषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम्‍ । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात्‍ । नह्यनिष्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते ।

एवं द्वितीयलक्षणे‍ऽपि निषेधापर्यवसायित्वं निरर्थकम्‍ । व्यतिरेके कमला-दिसादृश्यनिषेधस्यानन्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थ सादृश्यस्य निरूपणमिति प्रागेवाभिधानात्‍ । किं च ।

‘ स्तनाभोगे पतन्भाति कपोलात्कुटिलो‍ऽलकः । शशाड्कबिम्बतो मेरौ लम्बमान इवोस्गः ॥

इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः । उपमितिक्रियानिष्पीत्तमत्सादृश्यवर्णनस्यादुष्टाव्यड्र यत्वस्य चात्रापि सत्त्वातूं । न चेयमप्युपमा लक्ष्येति वाच्यम्‍ । ध्वन्यमानोपमानिवारण-प्रयासस्य वैयर्थ्यापत्तेः । नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम्‍ । कल्पितो-पमाया निर्विषयत्वप्रसड्रात ।

‘ व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥ ’

इति स्वकृतसूत्रे‍ऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानात्‍ । ‘ अलंकार-भूतोपमालक्षणत्वे तदेवादुष्टाव्यड्रयत्वविशेषितमिति ’ तत्रैव पुनरभि-धानाच्च । नह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादीस्त कश्चिदतिरिक्तो वाक्यार्थः , येनोपमा तमलंकुर्यात । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम्‍ । उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा ’ इत्येतावतैव स्वाभीष्टार्थलाभात ।

एवम

‘ स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ ’

इति विद्यानाथोक्तं लक्षणमपास्तम्‍ । व्यतिरेके निषेधप्रतियोगिनि सादृश्ये‍ऽतिव्याप्तेः ।

· उपमालंकारः - लक्षण ४

एवम्‍

‘ उपमानोपमेयत्वयोग्ययोरर्थयोर्द्बयोः ।
ह्लद्यं साधर्म्यभुपमेत्युच्यते काव्यवेदिभिः ॥ ’

इति प्राचामपि लक्षणं प्रत्युक्तम्‍ । ह्लद्यतामात्रेण निर्वाहे विशेषणान्तर-वैयर्थ्यात्‍ । एवं काव्यप्रकाशोक्तमपि ‘ साधर्म्यमुपमा भेदे’ इति लक्षणं नातीव रमणीयम्‍ । व्यतिरेके निषेधप्रतियोगिनि सादृश्ये‍ऽतिव्यापनात्‍ । न च पर्यवसितत्वेन साधर्म्य विशेषणीयमिति वाच्यम्‍ । अनन्वयस्थ-सादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः । काव्यालं-कारप्रस्तावे लैकिकालैकिकप्रधानवाच्यव्यड्र योपमासामान्यलक्षणकरणा-नौचित्याच्च । अत एव ‘ भेदाभेदतुल्यत्वे साधर्म्यमुपमा ’ इत्यलंकारसर्व-स्वोक्तमपि लक्षणं तथैव । एवं ‘ प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपेमयस्य सादृश्यमुपमा । इत्यलंकाररत्नाकरोक्तमपि न भव्यम्‍ । श्लेषमूलकोपमायां तादृशशद्बात्मकस्य धर्मस्य कविनैव कल्पनात्‍, तेन रूपेणोपमानस्या-प्रसिद्धेश्व इत्यलं परकीयदूषणगवेषणया । प्रकृतमनुसरामः ।

अस्याश्वोपमायाः प्राचामनुसारेण केचिद्भेदा उदाह्लियन्ते । तथाहि-उपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-श्रौती आर्थी चेति द्विधा भवन्ती वाक्यसमासतद्धितगामितया षोढा । लुप्ता च-उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता,धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेय-लुप्ता, धर्मोपमानवाचकलुप्तेचि तावत्सप्तविधा । तत्रोपमानलुप्ता-वा-क्यगा, समासगा चेति द्विविधा । धर्मलुप्ता-समासगता-श्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च-आर्थ्येव, न श्रौती । इति पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्गता, आधारक्यज्गता, क्यड्रता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्‍ विधा । धर्मोपमानलुप्ता-

वाक्यगता, समासगता चेति द्विविधा । वाचकधर्मलुप्ता । किब्गता, समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता त्वेकविधा । धर्मोपमान वाचकलुप्ता तु समासगतैकविधा । इति । एवं साकल्येनैकोनविंशतिर्लुप्ता-भेदाः पूर्णाभैदैः सह पञ्चविंशतिः क्रमेणोदाह्लियन्ते ।

तत्र पूर्णा श्रौती वाक्यगता यथा-

‘ ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तिः । ’

अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाड्रयात्‍, इवेन समास इत्येव पाठान्नित्यत्वाभावाद्वारिधरेणापि नेवस्य समासः । एषा चोपमा-नोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्य-बोधकस्येवशब्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्या बोधनाच्छ्रौती । पूर्णा आर्थी वाक्यगता यथा-

‘ प्राणापहरणेनासि तुल्यो हालाहलेन मे । शशाड्क केन मुग्धेन सुधांशुरिति भाषितः ॥
पूर्णा श्रौती समासगा यथा-

‘ हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम्‍ । शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥’
अत्रेवेन समासः ।

पूर्णा आर्थी समासगा यथा-
‘ आनन्दनेन लोकानामातापहरणेन च । कलाधरतया चापि राजन्निन्दूपमो भवान्‍ ॥’

पूर्णा श्रौती आर्थी च तद्धितगा यथा-
‘ निखिलजगन्महनीया यस्याभा नवपयोधरवत्‍ । अम्बुजवद्विपुलतरे नयने तद्रह्म संश्रये सगुणम्‍ ॥ ’
अत्र पूर्वार्धे बतेः ‘ तत्र तस्येव’ इति सादृश्ये विधानाच्छ्रौती । उत्तरार्धे ‘ तेन तुल्यं-इति विधानात्सादृश्यवदर्थकतया आर्थी ।

उपमानुलुप्ता वाक्यगा यथा-

‘ यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्नारैः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥’

यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा । उपमाना-भावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवित-त्वादलंकरान्तरमेवात्र नोपमानलुप्तेति नाशड्कनीयम्‍ । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः को‍ऽपि

तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा, नालंकारान्तरम्‍ ।

· उपमालंकारः - लक्षण ५

एतेन

‘ ढुँढुँणंतो हि मरीहिसि कण्टककलिआइँ केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो ण पावहिसि ॥ ’
इत्यत्रासमालंकारो‍ऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकरादयः परास्ताः ।

धर्मलुप्ता शौती वाक्यगता यथा-

‘ कलाधरस्येव कलावशिष्टा विलूनमूला लवलीलतेव । अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥
‘ ग्रीष्मचण्डकरमण्डल - ‘ इति प्रागुदाह्लते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्र-

गतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम्‍, वारिधरसादृश्यं च श्याम-त्वादिना यदि, तदा तत्राप्येषा बोध्या । इयांस्तु विशेषः-यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारि-धरसादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः । धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरण-कर्तृत्वमांत्र विधेयमित्युपमोहेश्यतावच्छेदिका ।

धर्मलुप्ता आर्थी वाक्यगता यथा-
‘ कोपेऽपि वदनं तन्वि तुल्यं कोकनदेत ते । उत्तमानां विकारेऽपि नापैति रमणीयता ॥ ’

धर्मलुप्ता समासगा श्रौत्यार्थी तद्धितगार्थी च यथा-

‘ सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः । पयोधिकल्पा मतिरासफेन्दोर्महीतले‍ऽन्यस्य नहीति मन्ये ॥ ’

र्हषदसमाप्तिरपि भड्रयन्तरेण सादृश्यमेव । वाचकलुप्ता समासगा-‘दरदलदरविन्दसुन्दरं’ इति प्रागुदाह्लते पद्ये ।

कर्माधारक्यज्गता क्यड्रता च यथा-

‘ मलयानिलमनलीयति मणिभवने काननीयति क्षणतः । विरहेण विकलह्लदया निर्जलमीनायते महिला ॥ ’

अत्रानलमिवाचरतीत्यर्थे‍ऽनलशब्दात्‍ ‘ उपमानादाचारे ’ इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन ‘ अधिकरणाच्च ’ इति वार्ति-केन क्यच्‍ । निर्जलमीनशब्दाच ‘ कर्तुः क्यड्‍ सलोपश्च’ इति क्यड्‍ । आचार-मात्रार्थकतया क्यच्क्यडोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिप-त्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता । अनलीयतीत्यादि समुदाय-

स्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्य-सादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ।

कर्तृकर्मणमुल्गता यथा-

‘ निरपायं सुधापायं पयस्तव पिबन्ति ये । जह्‍नुजे निर्जरावासं वसन्ति भुवि ते नराः ॥ ’

अत्र सुधापायमिति सुधामिव, निर्जरावासमिति निर्जरा इवेति ‘ उपमाने कर्मणि च ’ इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल । धर्मोपमानलुप्ता वाक्यगा समासगा च यथा–

‘ गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे । सहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥ ’

‘ तथापि ते समं’ इति हित्वा ‘ भवत्सम’ इति यद्यार्या सुद्धैव विधी-यते तदेदमेवोदाहरणं समासगायाः ।
वाचकधर्मलुप्ता क्किब्गता यथा–

‘ कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्तयस्ते हारन्ति हारन्ति हीरन्ति ॥’

अत्र हारहरहीरशब्दा आचारार्थके क्किपि लुप्ते धातवः । तव हारादि-शब्दा लक्षणया हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृतः क्किबाचारमिति षक्षे वाचकधर्मलोपः स्पष्ट एव : हारादिशब्दा एव लक्षणया तादृश-सादृश्याभिन्नामाचारमितिपक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोध-काभावाल्लोप एव ।

वाचकधर्मलुप्ता समासगा यथा-

‘ शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥

अत्र वदनाम्बुजयोर भेद विवक्षया विशेषणसमासे दन्तालिकान्तीनां केसरसादृश्योक्तिरसंगता स्यात्‍ । यतो ह्मम्बुजतादात्म्यसाधकं दन्तालि-कान्तीनां केसरतादात्म्यं न तु केसरसादृश्यम्‍ । उपमितसमासे तु वदना-म्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्ति-

रुचितैव । अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाह्लता । विधेयतावच्छेदिका तु पूर्णैव ।

वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा-

‘ तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा । ममायं मानुषो लोको नाकलोक इवाभवत्‍ ॥’

तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः । स्वयं तु सा नोपमेया । आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्कर्त्र्यामुपमेयायामुपमानत्वा-

संगतेः । अत आत्मैवात्रोपमेयतयोन्नेयः । मृगचक्षुषेति मृगस्य चक्षुषी इव चक्षुषी अस्या इति ‘ सप्तम्युपमानपूर्वस्य ’ इति समासोत्तरपदलोपौ । मृगपदस्य भृगचक्षुःसदृशलाक्षणिकत्वपक्षे, वृत्तेर्विशिष्टार्थतावाचकतापक्षे-ऽपि स्वस्वमात्रबोधकपदाभावात्रयाणां लोपः । इति पञ्चविंशतिरुपमाभेदाः ।

इहान्यानपि भेदानन्ये निगदन्ति – वाचकलुप्ता षड्‍ विधोपवर्णिता । ‘ कर्तर्युपमाने ’ इति णिनौ सप्तम्यपि दृश्यते । कोकिल इवालपति कोकि-लालपिनीति । तथाष्टम्यपि – ‘ इवे प्रतिकृतौ ’ इति कनि ‘ लुम्मनुष्ये ’ इति लुपि चञ्चेवेत्यर्थ ‘ चञ्ज्रा पुरुषः सोऽ‍यं यः स्वहितं नैव जानीते ’ इत्यत्र ।

नवम्यपि – आचारक्किपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते । ‘ आह्लादि वदनं तस्या शरद्राकामृगाड्कति’ इत्यादौ ।

उपमानलुप्ता वाक्यसमासयोर्द्विविधोपवर्णिता, तृतीयापि दृश्यते –
‘ यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीत्तक्ताकतालीयम्‍ ॥’

इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवाथें ‘ समासाच्च तद्विषयात्‍ ’ इति ज्ञापकात्सभासे काक इव ताल इव काक-तालमितिकाकतालसमागमसदृशश्वोराणामस्य च समागम इत्यर्थः । ततःन्यकाकवधसदृशश्वोरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमाया-भुपम नस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता ।

वाचकोपमानलुप्ता तु नाम्रैव न निर्दिष्टा । साप्यत्र प्रकृत्यर्थे दृश्यते । धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविधैवोक्ता । सा चात्रापि तृतीय-चरणोक्तधर्मनिरासे प्रत्ययार्थे दृष्टा ।

· उपमालंकारः - लक्षण ६

वाचकधर्मलुप्ता क्किप्समासयोर्द्वयोरेव कथिता । सापि ‘ चञ्चा पुरुषः सोडयं योऽत्यन्तं विषयवासनाधीनः ’ इत्यत्र स्वहिताकरणरूपस्य धर्मस्या-नुपादाने कनो लोपे विलोक्यते । एवं च द्वात्रिंशद्भेदाः । अत्रेदमवधेयम्‍–कर्माधारक्यचि क्यडि च वाचकलुप्तोदाहरणं प्राचामसंगतमिव प्रतीयते, धर्मलोपस्यापि तत्र संभवात्‍ । न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम्‍ । धर्ममात्ररूपस्याचारस्योपमा-प्रयोजकत्वाभावात्‍ । ‘ नारीयते सपत्नसेना’ इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्त्योपमानिष्पादकत्वात्‍ । यदि च क्यडर्थ आचारमात्रमुपमानिष्पादकं स्यात्तदा ‘ त्रिविष्टपं तत्खलु भार-तायते ’ इत्यादौ सुप्रसिद्धत्वादिरूपाचारोपस्थितावप्युपमालंकृतेरनिष्पत्तेः, तस्यैव च ‘सुपर्वभिः शोभितमन्तराश्रितैः ‘ इति चरणान्तरनिर्माणे तम्या

निष्पतेः क्यडाद्यर्थः साधारणोऽ‍पि नोपमां प्रजोजयति । उपमाप्रयोजक-तावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधा-नात्‍ । अन्यथा ‘ मुखरूपमिदं वस्तु प्रकुल्लमिव पड्कजम्‍ ’ इत्यादौ पूर्णोंप-मापत्तेरिति दिक्‍ ।
इति सादृश्ये द्विर्भावविधानात्‍ ” इति निगदितं तत्तुच्चम्‍ । अत्र च वाच-क्स्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधिक्यमुद्भावयितुमुचितम्‍, न तु धर्मलुप्तायाम्‍ । धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षनात्‍ । अन्यथा एकलुप्तास्वेव द्विलुप्तानां त्रिलुप्तायाश्व ग्रहणात्पृथगुपादानमसंबद्धमेव स्यात्‍ । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोपः अपि तु धर्ममात्रस्येति वक्तुं शक्यम्‍ । द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात्‍ ।

तदुक्तं कैयटेन ‘ प्रकारे गुणवचनस्य ’ इति सूत्रे सिद्धं त्विति प्रतीकमुपा-दाय-‘ द्विर्वचनस्य प्रकृतिः स्थानी इति तदर्थो विशेष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाव्द्यभिचाराभावात्‍ तद्‍ग्रहणाद्‍गुणवचनो यः शब्दो निर्ज्ञातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः ’ इति ।

· उपमालंकारः - लक्षण ७

इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत–

“-‘नृणां यं सेवमानानां संसारो‍ऽष्यपवर्गति । तं जगत्यभजन्मर्त्यश्वञ्चा चन्द्रकलाधरम्‍ ॥ ’
अत्र किप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि,” तदरमणीय-

मेव । कनो वाचकस्य लोपेऽपि तं चद्न्रकलाधरमभंजन्निति चन्द्रकला-धरभजनराहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं ताव-द्धर्मस्य लोपः । न चोपमेयमर्त्यविशेषणतयोपात्तस्य चन्द्रकलाधरभजन-राहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम्‍ ।

“-‘ यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्वञ्चैवात्महिताकृतेः ॥’

इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति” इति स्वोक्तेरसंगत त्वापत्तेः । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽप-वर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम्‍ । उपमेयगतत्वेनोपमानग-सत्वेन बोपात्तस्य धर्मस्य शाब्द उभयान्वयेऽसत्यापि वस्तुत उभयवृत्ति-त्वज्ञानमेव साधारणताया नियामकमिति चेत्‍, चन्द्रकलाधरभजनराहि-त्ये‍ऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेदकतयैव चन्द्रकला-धरभजनराहित्यं मम विवक्षितम्‍, साधारणधर्मश्च स्वात्महिताऽकरणरूपः

स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितो‍ऽवं दोषः । तुष्यतु भवान्‍ ।

इदमप्यन्यतैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत–

‘रूपयौवनलावण्यस्पृहरणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥’

इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति । तथा हि पुरत इति नगरवाचिनः पुरशब्दात्तसिलि हरिणाक्षीण नगरादित्यर्थस्यासंगतेः । नाहि पूर्ववाचकः पुरशब्दः कापि शूयते । पूर्वशब्दात्तु ‘ पूर्वाधरावराणा-मसिपुरधवश्चैषाम्‍ ’ इत्यसौ पुरादेशे च पुर इति भाव्यम्‍, न तु पुरत इति ।

अत एव ‘ अमुं पुरः पश्यसि देवदारुम्‍ ’ इति प्रायुड्‍क्त महाकविः । एवमेव “ मुखस्य पुरतश्वन्द्रो निष्प्रभः-इत्यप्रस्तुतप्रशंसा ”
इति द्वितीयप्रकरणारम्भे‍ऽप्यपशब्दितं तैः । तथा चाहुर्वैयाकरणा :–“-‘ पत्या पुरतः परतः ’ ‘ आत्मीयं चरणं दधाति पुरतो निम्रोन्नतायां भुवि ’, ‘ पुरतः सुदती समागंत माम्‍ ’ इत्यादयः सर्वे‍ऽपि व्याकरणाज्ञानमूला अपशब्दाः ’ इति ।
इयं चैवंभेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यड्रयानां वस्त्वलं-कारयोर्वाच्ययोश्वोपस्कारकतया पञ्चधा ।

तत्र व्यड्रयवस्तूपस्कारिका यथा-

‘ अविरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्‍ । आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ ’
अत्र तादृंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिमाणे परमं सुखं भवतीति प्राधान्येन व्यड्रयस्य वस्तुन उपस्कारिका भेषजोपमा । वयड्रयालंकारोपस्कारिका यथा-

‘ अड्कायमानमलिके मृगनाभिपड्कं पड्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत्‍ । उल्लासल्लवितकोमलपक्षमूला-श्वञ्चूपुटं चपलयन्ति चकोरपोताः । ’

· उपमालंकारः - लक्षण ८

अत्र प्राधान्येन व्यड्रये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपा-दकस्य भालस्थमृगमदपड्कविषयकस्याड्काभेदारोपस्याड्कसादृश्यरूपदोषमूल-कत्वादुपमात्रालंकारः ।

रसोपस्कारिका तु ‘दरदलदरविन्द-’ इत्यत्र प्रागेवोदाह्लता " रसप-देनासंलक्श्यक्रमस्योपलक्षणाद्भावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा-
‘ नैवापयाति ह्लदयादधिदेवतेव ’ , ‘ वन्यकुरड्रीव वेपते नितराम्‍’ इत्यादिषु प्रागुदाह्लतेषु ।

वाच्यवस्तूपस्कारिका यथा-
‘ अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः । नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥ ’
अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोप- स्कारिका ।

वाच्यालंकारोपस्कारिका यथा-
शिशिरेण यथा सरोरुहं दिवसेनामृतरशिममण्डलम्‍ । न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम्‍ ॥’
अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागोवाभिहितम्‍ ।
अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधनस्यैवाल्मका-सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदीत विशेधः ।

· उपमालंकारः - लक्षण ९

एवमेव
मुख्यतया वाच्यतायामपि । यथा ह्मापणादौ विक्रीयमाणतायां कनकताट-ड्कस्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालंकरणतायां पुनः प्रधानान्तरसांनिध्यात्ताटड्कस्य तद्नतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकारत्वम्‍, एवमेव रसादिसांनिथ्ये रूपकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाद्यलंकारतेति ।

एवं च प्राचां पञ्चविंशतिभेदायाः पुनः पञ्चविधतायां सपादशतं भेदाः । द्वात्रिंशद्भेदवादिनां तु षष्ठयुत्तरं शतम्‍ । इतश्वान्ये‍ऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भावनीयाः । तत्र कचिदनुगाम्येव धर्मः । कचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । कचिदुभयम्‍ । क्कचिद्वस्तुप्रतिवस्तुभा-वेन करम्बितं बिम्बप्रतिबिम्बभावम्‍ । क्कचिदसन्नप्युपचरितः । क्कचिच्च केवलशब्दात्मकः ।

पत्राद्यो यथा-
‘ शरदिन्दुरिवाह्लादजनको रघुनन्दनः । वनस्रजा विभाति स्म सेन्द्रचाप इवाम्बुदः ॥’
अत्र पूर्वार्धे सकृन्निर्देशाद्धर्मोऽनुगामी ।
केवलबिंबप्रतिबिंबभावापन्नः ‘ कोमलातपशोणाभ्र-’ इत्यत्र बोध्यः । द्वितीयार्धे तूभयम्‍ ।
तृतीयो‍ऽपि त्रिविधः- विशेषणमात्रयोर्विशेष्यमात्रयोस्तुद्युगलयोर्वा वस्तुप्रतिवस्तुभावेन करम्बितः ।

तत्राद्यो यथा-
‘ चलद्भृड्रमिवाम्भोजमधीरनयनं मुखम्‍ । तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥’
अत्र चलनाधीरत्वयोर्वशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनो-पादानाद्वम्तुप्रतिवस्तुभावः । तद्विशेषणकयोश्व भृड्रनयनयोर्बिम्बप्रतिबिम्ब-भावः । इति तत्करम्बितोऽयमुच्यते ।

तत्र द्वितीयो यथा-
आलिड्रितो जलधिकन्यकया सलीलं लग्नः प्रियंगुलतयेव तरुस्तमालः । देहावसानसमये ह्लदये मदीये देवश्वकास्तु भगवारविन्दनाभः ॥’

अत्रालिड्रितत्वलग्रत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोश्व जल-धिकन्याप्रियंगुलतयोर्बिम्बप्रतिबिम्बभावः । इत्ययमपि तत्करम्बित एव ।

तत्र तृतीयो यथा-
‘ दशाननेन दृप्तेन नीयमाना बभौ सती । द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी ॥’

अत्र विशेषणयोर्दृप्तत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमा-णत्वयोर्वस्तुप्रीतवस्तुभावेनोभयतः संपुटितो दशाननद्विरदयोर्बिम्बप्रति-बिम्बभावः । इत्ययमपि तत्करम्बितः ।

‘ विमलं वदनं तस्या निष्कलड्कमृगाड्कति ’ इत्यत्र वैमल्यनिष्कलड्कत्व-योर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्न-योरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्म : । न च ‘ कोमलातपशोणाभ्रसंध्याकालसहोदरः ’ इत्यादौ यति-संध्याकालयोरुपमायां धर्मान्तरस्यानवगमात्कुड्‍कुमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्च बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकृते

तु न तथा वस्तुप्रतिवस्तुभावः । वदनमृगाड्कयोः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्‍ । एवं तर्हि ‘ यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ’ इति भवभूति-पद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन विर्वाहे कंधरावृन्तयोर्बिम्ब-प्रतिबिम्बभावस्य वलितत्वाऽऽवृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालं-कारिकैः स्वीकारो विरुद्धः स्यात्‍ । अतो यथास्थितमेव साधु ।

· उपमालंकारः - लक्षण १०

उपचरितो यथा-
‘शतकोटिकठिणचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिषि मित्रं स विकलह्लदयो विधिर्वाच्यः ॥’

एषा सीतां विवासितवतः स्वात्मगता रामस्योक्तिः । अत्र काठिन्यं पार्थिवो धर्मश्चिते उपचरितः ।

केवलशब्दात्मको यथा-
‘ यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव ।’

अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः । एवमेतेषां धर्माणं च संभवति ।

यथा–
‘ श्यामलेनाड्कितं भाले बाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्तभृड्रफुल्लाम्बुजायते ॥’

अत्र भालगताड्क-प्रसुप्तभृड्रो बिम्बप्रतिबिम्बभावमापन्नौ क्यडर्थे आचारेऽनुगामिन्यभेदमापद्य स्थितौ ।

यथा वा-
‘ सिन्दूरारुणवपुषो देवस्य रदाड्‍कुरो गुणाधिपतेः । संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥’

अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमा-पन्नाभ्यां [ धर्माभ्यां ] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यड-र्थोऽनुगामी ।

क्कचिद्धेतुहेतुमद्बावेन । यथा–
‘ खलः कापटयदोषेण दूरेणैव विसृज्यते । अपायशड्किभिर्लैर्विषेणाशीविषो यथा ॥’

अत्र कापटयं विषं च बिम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽ‍नु-गामिनि हेतुः ।

· उपमालंकारः - लक्षण ११

यथा वा-
‘ रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी । अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥ ’

अत्र रूपवत्त्वदुःखदायित्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्ब-प्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन । मिश्रिते, अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम्‍ । प्रकारान्तरं च लक्ष्यानुसारेण सुधीमिः स्वयमुन्नेतुं शक्यम ।

यथा-
‘ यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि । तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥’

अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्वं मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिको-पमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादिते बिमप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकतासंबन्धेन प्रधानीभूतोपमोपमान-कान्तागतायामुपमायां प्रतिबिम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावा-

पद्मनमननम्रीभवनविशेषणयोर्बिम्बप्रतिबिम्बभावमापन्नयोः साधारणधर्म-त्वम्‍ । एवं तैनेव संबन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायामधर-पल्लवयोः । न च तेन सृदृश इत्यादौ तन्निरूपिसादृश्याश्रयस्योपमे-यस्य, तस्य सदृश इत्यादौ च तत्संबन्धिसादृश्याश्रयस्योपमानस्य प्रतीतेः

सिद्धत्वाप्तकृते च सदृशीति शब्दान्निव्वेद्यमाने‍ऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम्‍ । सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुप-मानत्वे‍ऽपि यथातथाशब्दवेद्योपमायां लताया उपमेयत्वे बाधकाभावात्‍ । एवमन्येऽपि प्रकाराः ।

‘ यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका । यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ॥’

एभिर्भेदैः प्रागुक्तानां सधर्माणां भेदानां यथासंभवं गुणने बहुतरा भेदा भवन्ति । तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता । व्यड्रयत्वे व्यड्रयधर्मा, धर्मलोपे गदितैव ।

· उपमालंकारः - लक्षण १२

लक्ष्यतायं यथा-
‘ सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः । क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम्‍ ॥’

इत्यत्रोपमानमहिम्रा शान्तमूर्त्यादिशब्दैर्विरुद्धा धर्मा लक्ष्यन्ते । इयं चोपमा मुख्यार्थस्य क्कचित्साक्षादुपस्कारिणी क्कचिच्चोपस्कार-कान्तरोपस्कारणद्वारा । तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता ।

परम्परया यथा-
‘ नदन्ति मददन्तिन : परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥’

अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारिका

नयनकोणशोणद्युतेर्युगान्तदहनोपमा । इयं चेवयथावादिशव्दैर्वाचकैःप्रतिपादिता वाच्यालंकार : । लक्ष्यापि चालंकुर्वाणा दृश्यते ।

· उपमालंकारः - लक्षण १३

यथा-
‘ नीवीं नियम्य शिथिलामुषसि प्रकाश-मालोक्य वारिजदृशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदरायाः ॥’

अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानां-शहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च तत्रोपमा प्रतीयमाना । अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन

प्रतीयमानायाः स्मृतेरुपस्कारिका । एवं प्रतिभटप्रतिमल्लदिशब्दानां तदी-यन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादेः प्रयोजनस्य सत्तात्सादृश्य-वति लक्षणैव, न व्यञ्चना । मुख्यार्थस्य बाधात्‍ । प्रयोजने पुनर्व्यञ्जनैवेति । क्कचिव्द्यड्रयापि चेयमुपमालंकारः ।

· उपमालंकारः - लक्षण १४

लक्षण १४

यथा-
‘ अद्वितीयं रुचात्मानं मत्वा किं चन्द्र ह्लष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम्‍ ॥’

कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्रं पत्येषोक्तिः । अत्र च अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः, अत एव त्वया-

प्यदृष्टाया आननं त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमा-नायां चन्द्रविषयायां वक्तृगतायामसूयायामलंकारः । एतेनाप्पयदीक्षितै-रुपमालक्षणे दत्तमव्यड्रयत्वविशेषणमयुक्तमेव । नहि व्यड्रयत्वालंकार-त्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यड्रयतायां तु प्रधानत्वालंकार-त्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसाड्क्षिदित्युपस्कारकत्वेन पुनर्विशेष-णीयम्‍, न त्वव्यड्रयत्वेन, प्रागुक्तायामसूयालंकारोपमायामव्याप्त्यापत्तेः ।

विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्धयड्रतया गुणीभूतव्य-ड्रयत्वम्‍, सिद्दार्थस्योपस्करणाभावातु नालंकारत्वमिति न काप्यसंगतिः ।
यच्चापि “ सेयमुपमा संक्षेपतस्त्रिविधा-क्कचित्स्ववैचित्र्यमात्र-विश्रान्ता । यथा ‘ स च्छिन्नमूलः क्षतजेन रेणुः ’ इत्यादौ । क्कचिदुक्तार्थोप-पादनपरा । यथा ‘ अनन्तरत्नप्रभवस्य ’ इत्यादौ ” । कचिब्द्यड्रयप्रधाना

सा इति तैरेव द्रविडशिरोमणिभिरभ्यधीयत । तदप्यह्लद्यमेव । ‘ नयने शिशिरेकरोतु मे शरदिन्दुप्रतिमं मुखं तव’ इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात्‍ । अलंकारभूतोपमासु स्ववैचित्रमात्र-निश्रान्ताया उपमायाः संग्रहे, को नाम ध्वन्यमान्यायास्तस्या निरासायाव्य-ड्रयत्वविशेषणदानदुराग्रहः ? अहो महदेवेदमन्याय्यम्‍-यदलक्षणीयायाःसंग्रहः, लक्षणीयायाश्चासंग्रह इति । प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमानाया इवास्या अपि संग्रहो नानुचितः । न तु स्वस्य यत्नेन ध्वन्य-मानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्ध-व्यड्रयोपस्कारकत्वेनेयं संगृह्यत इत्युच्यते तदा ‘ स्ववैचित्र्यमात्रविश्रान्ता’

इति स्वोक्तिर्विरुद्धा स्यातू । ‘ अनन्तरत्नप्रभवस्य ’ इत्यत्र गुणसमूह-समानाधिकरण एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादि-तार्थसमर्थनात्मकस्य सामान्यरूपय विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणो‍ऽड्कउदाह्लतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशेषस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालंकारो‍ऽयमतिरिक्तः । यथा ‘इको

यणचि, इति वाक्यार्थस्य सामान्यस्य विज्ञानायोकारे दध्यु दकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदाह्लियते तद्वदत्रापीति तत्प्रसड्रे विवेचयिष्यामः ।
यच्चाप्पयदीक्षितैः लुप्तायां तु ‘ नैवं भेदाः । तस्यां साधारणधर्मस्यानुगा मितानियमात्‍ ‘ इत्युक्तम्‍, तन्न । ‘ मलय इव जगति पाण्हुर्वल्मीक इवा.धिधरणि धृतराष्ट्रः’ इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्‍, सर्पाणां दुर्योधनादीनां च बिम्बप्रतिबिम्बभावस्यैव प्रतिपतेः । न च शब्दे-नोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः । श्रौतत्वा-

र्थत्वभ्यां बिम्बप्रतिबिम्बभावस्य द्वैविध्यौचित्यात्‍ । अत एवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संगच्छते ।
इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तवस्तु-विषयसावयवा, एकदेशविवर्तिसावयवा, केवलश्र्लिष्टपरम्परिता, मालारूप-श्र्लिष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता चेत्यष्टधा । पेक्षत्वम्‍ । इयं च शतशः प्रागेवोदाह्लता ।

· उपमालंकारः - लक्षण १५

मालारूपनिरवयवा यथा-
आह्लादिनी नयनयो रुचिरैन्दवीव कण्ठे कृतातिशिशिराम्बुजमालिकेव आनन्दिनी ह्लदि गता रसभावनेव सा नैव विस्मृतिपथं मम जातु याति ॥ ’

यथा वा
‘ कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी । विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥ ’

पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु बिम्बप्रतिबि-म्बभावमापन्नेन्नैक देशकालावच्छेदेनेति विशेषः । अत्राधिकदीप्तिरूपे वाक्यार्थे उपमे उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन

च साधारण्येन सूर्यमण्डलस्य, निष्कलड्कताभिव्यञ्जकत्वेन भस्मीभवन-हेतुत्वेन कृशानुपुञ्जस्य च लड्काप्रतिबिम्बता । मालारूपत्वं चात्रैकोपमेय-कानेकोपमासामानाधिकरण्यात्‍ ।

समस्तवस्तुविषया सावयवा यथा-

‘ कमलति वदनं यस्यामलयन्त्यलका मृणालतो बाहू । शैवालति रोमावलिरद्भुतसरसीव सा बाला ॥’

· उपमालंकारः - लक्षण १६

यथा वा-
‘ ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्तकान्तवदनश्रीः । राकेव रम्यरूपा राघवरमणी विराजते नितराम्‍ ॥ ’

अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया, अड्रो-पमाभिनिष्पाद्यमानत्वाच्च साड्रा भवति ।

एकदेशविवर्तिनी सावयवा यथा–
‘ मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः ’
कविता‍ऽभृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि कारणम्‍ ॥ ’
अत्रोत्तरार्धे उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्य

प्रकृतेऽनुपयोगात्‍ । राज्ञो जलधेरुपमा शब्देनानभिहिताप्यड्रोपमा-भिराक्षिप्ता प्रतीयते, इत्येकदेशविवर्तनादेकदेशविवर्तिनी ।

केवलश्लिष्टपरम्परिता यथा-
‘ नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः । सुरालये खलु क्षीबा देवा इव विरेजिरे ॥ ’

अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति श्लिष्टपरम्परिता, अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात्‍ । मालारूपताविरहाच्च केवला ।

मालारूपश्लिष्टपरम्परिता यथा-
‘ महीभृतां खलु गणे रत्नसानुरिव स्थितः । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥ ’

अत्र श्लेषोपस्थापिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषप-र्वभ्यां राज्ञ उपमयोरुपायः । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशब्दयोः पार्थ-क्याभावादिति चेत्‍, श्लेषे ह्येकशब्दोपात्तत्वेन रूपेणाभेदाव्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात्‍, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात्‍ ।

केवलशुद्धपरम्परिता यथा-
‘ राजा युधिष्ठिरो नाम्रा सर्वधर्मसमाश्रयः । द्रुमाणामिव लोकानां मधुमास इवाभवत्‍ ॥’

मालारूपशुद्धपरम्परिता यथा–
‘ मृगतं हरयन्मध्ये वृक्षतां च पटीरयन्‍ । ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ॥ ’

उपमानयोः परस्परमुपमेययोश्चानुकूल्ये उपमयोरेषोपायता निरूपिता । प्रातिकूल्ये उपायता यथा-

‘ राजा दुर्योधनो नाम्रा सर्वसत्त्वभयंकरः । दीपानामिव साधूनां झञ्झावात इवाभवत्‍ ॥’

अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्व साधुदुर्योधनयोः
प्रातिकूल्येऽप्युपमयोः परस्परमानुकूल्यादुपायतैव ।

· उपमालंकारः - लक्षण १७

लक्षण १७

एवम्‍ -
‘ सरोजतामथ सतां शिशिरर्तवताधुना । दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम्‍ ॥’

इत्यादौ मालारूपतायामपि ।

उपमेयानां स्वस्वोपमानानुपमानानामुपमानतायां रशनोपमा । यथा-
‘ वागिव मधुरा मूर्तिर्मूर्तिरिवात्यन्तनिर्मला कीर्तिः । कीर्तिरिव जगति सर्वस्तवनीया मतिरमुष्य विभोः ॥’

इयं धर्मभेदे ।
धर्मैक्ये तु-
‘ भूधरा इव मत्तेभा मत्तेभा इव सूनवः । सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥’

धर्मलोपे तुतस्येत्यस्यानन्तरम्‍ ‘ भटा इव युधि प्रजाः ’ इति बोध्यम्‍ । इयमेवंभेदा प्राचीनैर्भेदैर्गुणने वागगोचरं भूभानं भजमाना नेयत्तामर्हतीति दिक ।

एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिह्लतालं-कारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंका-रभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालंकुर्वाणगतधर्ममात्रसंस्पर्श-निबन्धनः । क्कचिदसौ शब्दशक्तिमूलानुध्वननविषयः । क्कचिदर्शशक्तिमू-लानुध्वननविषयः ।

आद्यो यथा-
‘ अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमो‌ऽयम्‍ ॥ ’

· उपमालंकारः - लक्षण १८

लक्षण १८

यथा वा-
‘ विमलतरमतिगभीरं सुपवित्रं सत्त्ववत्सुरसम्‍ । हंसावासं स्थानं मानसमिह शोभते नितराम्‍ ॥’

अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य, सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते ।

द्वितीयो यथा-
‘ अद्वितीयं रुचात्मानं दृष्ट्बा किं चन्द्र दृप्यसि । भूमण्डलमिदं सर्वं केन वा परिशोधितम्‍ ॥ ’

अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यड्रया । अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्दर-मित्यत्रारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थैकदेशेन सौन्दर्येणाभेदसंसर्गेणान्वेति ।
तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्न-

सौन्दर्यवदभिन्नमिति धीः । निपातातिरिक्तनामार्थयोर्भेदेनान्वयस्याव्युत्पन्न-त्वादभेदानुसरणम्‍ । एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवात्राप्यभ्यु-पेयः । ‘ समासस्यैव विशिष्टार्थे शक्तिः ’ इत्येके । ‘ अरविन्दपदमेव लक्षणया सर्वार्थबोधकं, सुन्दरपंद तु तात्पर्यग्राहकम्‍ ’ इत्यपरे ।

तथा अरविन्दमिव सुन्दरमित्यत्रेवार्थे सादृश्येऽरविन्दस्य निरूपितत्व-संसर्गेणान्वयः । तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये । एवं चारविन्द-

निरूपितसादृश्यप्रयोजकसौंदर्यवदभिन्नमिति । अरविन्दमिवेत्यत्र त्वर-विन्दनिरूपितसादृश्यवदिति निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपित-विशेष्यता-निपातजन्योपस्थितिप्रयोज्यविशेष्यतान्यतर भिन्नविशेष्यतासंस-र्गेण नामार्थप्रकारकबोध एव विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वादिवा-र्थस्य नञर्थस्येव भेदसंसर्गेण नामार्थविशेष्यत्वे विशेषणत्वे च न दोषः ।

अरविन्दमिव भातीत्यत्रारविन्दनिरूपितसादृश्यस्य प्रकारतासंबन्धेन धात्व-र्थेऽन्वयादरविन्दसादृश्यप्रकारकधीविशेष्य इति । तत्रैव सौन्दर्येणेति धर्मो-पादाने तृतीयार्थः प्रयोज्यत्वं धात्वर्थे भाने इवार्थे सादृश्ये वान्वेति ।

तेन सौन्दर्यप्रयोज्यारविन्दनि रूपितसादृश्यप्रकारकधीविशेष्य इति । तथा गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्कर्तृकक्रियाचां लक्षणया गाजादिगमनादिसदृशगमनाद्यनुकूलकृतिमानिति ।

ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणा-न्वयवारणाय धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वम्‍ । एवं च गज इव गच्छति,

पिक इव रौतीत्यादौ नेवाद्यर्थस्य सादृश्यस्य धात्वर्थेऽन्वयः संभवति । तस्माद्नजादिसादृश्यस्य गमनादिकर्तर्येवान्वयः स्वगमनादिसदृशगमना-दिकर्तृत्वेन समानधर्मेण । इत्थमेव चाख्यातवादशिरोमणिव्याख्यातृ-भिरपि सिद्धान्तितमिति चेत्‍, नैवम्‍ । गज इव गच्छतीत्यत्र सादृश्यस्य

विधेयतया प्रतीतेरपलापापतेः । गज इव यः पुरुषः स गच्छति, पुरुषो यः स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीत्योरानुभविक-त्वात्‍ । एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ वनादेः सर्वथै-वानन्वयापत्तेश्च । ऐवं बिम्बप्रतिबिम्बभूतस्य कारकमात्रस्यानन्वयो बोध्यः । तस्माद्रजनिरूपितसादृश्यप्रयोजकगमनाश्रय इत्येव गज इव गच्छतीत्यत्र धीः । कारकोपादाने तूपमानपदानां तत्कर्तृकक्रियायां लक्षणेत्येव साधु । न च प्रागुक्तकार्यकारणभावस्य धात्वर्थनिष्ठेत्यादेर्व्य भिचारः, तस्यानड्रीकारात्‍ । अड्रीकारे च तूष्णीमारात्पृथगित्याद्यर्थानां

· उपमालंकारः - लक्षण १९

लक्षण १९

धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात्‍ । कथं तर्हि घटो न पश्य-तीत्यादौ घटाभावं पश्यतीति नान्वयबोधः । धात्वर्थनिष्ठविशेष्यतानिरू-पितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धक-त्वकल्पनात्‍ । धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम्‍ । तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्तविचारेण ।
अथारविन्दतुल्यो भातीत्यत्र कथं धीः । तुल्यपदार्थस्य निपातभिन्न-नामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात्‍ तादृशतुल्यत्वादेर्भानोद्देश्यता-वच्छेदकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीतिः । न च तुल्यपदेन

तुल्यंत्वप्रकारको लक्षणयोपस्थापितो ह्मभेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम्‍ । क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्‍, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययविशेषणानां क्लीबतेष्यते इत्यस्योपपत्तेः । धातोरेव लक्षणया सकलार्थबोधकत्वमितरस्य तात्पर्यग्राहकतेत्यपि केचित्‍ । अरविन्दवत्सु-न्दरमित्यत्र वतेः ‘ तेन तुल्यम्‍- ’
इति विहितस्य सादृश्यवदर्थकस्य सादृश्ये

लक्षणा । तस्य सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दर-मित्यत्रेव बोधः । एकत्र शक्त्याऽपरत्र लक्षणया च सादृश्यप्रतिपादना-च्छ्रौत्यार्थी चेति ।

अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति । अरविन्दवत्सौन्दर्यमस्ये त्यत्रारविन्दशब्दस्यारविन्दसौन्दर्यलाक्षणिकतयारवि-न्दसौन्दर्यनिरूपितसादृयाधिकरणमेतत्संबन्धिसौन्दर्यमिति मुखारविन्द-सौन्दर्ययोः सादृश्यबोधे शाब्दे, तयोरभेदाध्यवसायादभिन्नधर्ममूला

पश्चान्मुखारविन्दयोरपि सादृश्यधीः । अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम्‍ । तस्य च सादृश्येऽन्वयादरविन्दनिरूपितसादृश्याश्रया-भिन्नमिति । तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम्‍ । तेनारविन्दनिरूपितसौन्दर्यप्रयोज्यसाद्रुश्यवदभिन्नमिति । अरविन्दमाननं च सममित्यत्र प्रथमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानसी वैयञ्जनिकी वा परस्परनिरूपितसादृश्यस्य प्रतीतिः प्रसिद्धनिरूपित-सादृश्यस्य वा ।

· उपमालंकारः - लक्षण २०

बिम्बप्रतिबिम्बभावापत्रे तु-

‘ कोमलातपशोणाभ्रसंध्याकालसहोदरः । कुड्‍कुमालेपनो याति काशायवसनो यतिः ॥ ’

इत्यादौ कुड्‍कुमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसंध्याकाल-सदृशाभिन्न इति शकत्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाड्‍क्षायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसाने साधारणत्वनिष्पतिः । कुड्‍कुमालेपकाषायवसनाभ्यामयं यतिरित्यत्र कुड्‍कुमा-लेपकाषायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीय-साद्रुश्यनिष्पत्तिप्रयोजकत्वात्प्रोज्यत्वेन सादृश्ये‍ऽन्वयः । एकदेशान्वयः पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव ।

सादृश्यस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणया-रविन्दवृत्तिसमानधर्मः प्रतीयते । तस्य चाभेदेन सुन्दरपदार्थेकदेशेन सुन्दरत्वेनान्वयः । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेपणान्वेति । शेषं प्राग्वतू । सौन्दर्येणारवि-न्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया

अन्यया च निरूपतत्वार्थिकया । सौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धीः । क्यडर्थाचारो धर्ममात्रम्‍ । तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रजोजकतासंसर्गेणाभेदेन वा विशेष-णम्‍ । विशेष्यं चाश्रयतयोपमेयम्‍ । क्यजर्थाचारश्चानुरूपक्तियादिरिति दिक्‍ ।

तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम्‍, निपातत्वादुपसर्गवत्‍ । द्योतकत्वं च स्वसममिव्याह्लतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थ-बोधने तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणाः । उपसर्गाणां द्योतक-त्वमावश्यकम्‍ । अन्यथा उपास्यते गुरुः, अनुभूयते सुखम्‍, इत्यादौ गुर्वा-देर्लेनाभिधानं न स्यात्‍ धात्वर्थकर्मताविरहात्‍ । हवादीनां तु वाचकत्वम्‍, बाधकाभावात्‍ । प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः । अन्यथा अव्यय-त्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिकाः ।

अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः । कविसमय-

प्रसिद्धिराहित्यम्‍, उपमानोपमेययोर्जात्या प्रमाणेन लिड्रसंख्याभ्यां चान-नुरूप्यम्‍, बिम्बप्रतिबिम्बभावे धर्माणभुपमानोपमेयगतानां न्यूनाधिक्यम्‍, अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम्‍, एवमादि ।

· उपमालंकारः - लक्षण २३

अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोर्नास्ति, तयोस्त्राणकर्तृत्वस्य सिद्धत्वात्‍ । यदि तु त्रायत इति प्रार्थनानिर्मुक्तं त्राण-कर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दोषः । अथ त्रायत इति प्रार्थ्य-मानतानिर्मुक्तेऽपि त्राणकर्तृत्वे न साधारणत्वम्‍ । प्रार्थ्यमानताया इव विधे-यतानुवाद्यत्वयोर्भेदकत्वादिति चेत्‍ । सत्यम । इह हि धर्मलोपरहितायामुप-

मायां धर्मवाचकशब्दप्रतिपाद्यैः प्रार्थना । भूतभविष्यद्बर्तमानत्वादिभिर्वि-शेषणैर्विशिष्टधर्मस्योपमानोपमेयसाधारण्याभावे प्रयोजकाभावान्नोपमानि-ष्पत्तिरिति निर्विवादम्‍ । तत्र विधेयत्वानुवाद्यत्वाभ्यां शब्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधारण्यं मास्तु नाम । नह्मुदासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम्‍, अपि तु धर्म-वाचकशब्दनिवेदितैः । एवं । चन्द्रवत्सुन्दरं मुखमित्यत्रापि सुन्दरत्वस्यो-पमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न साधारण्यहानिः ।

ननु
‘ नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः । प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाड्क ॥ ’

इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपों‌ऽड्क आननरूपोपमे-यविशेषणस्वबिम्बाभावात्कस्य प्रतिबिम्बः स्यात्‍ । अत आधिक्यापादकतया

दोषः । न च हिरणनयनसदृशस्य नयनस्योपादानात्तस्यैव बिम्बस्य प्रतिबिम्बः स्यादिति वाच्यम्‍ । तादृश्यनयनस्य बहुव्रीह्यर्थकान्ताबिशेषणतया आननाविशेषणत्वेन बिम्बत्वाभावादिति चेत्‍, मैवम् । शब्देनाननविशेषण-त्वेन तादृशनयनस्याप्रतिपादनेऽपि कान्ताविशेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्तेः । नह्याननमविषयीकृत्य कान्तां विशेष्टुमीष्टे नयनम्‍, अनुभव-विरोधात्‍ । तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रीतपादना-

च्छाबदे बोधे नानन स्य नयनविशिष्टत्वेन विषयत्वमिति चेत्‍, संसर्गत्वे बाधकाभावात्स्वविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात्‍ । यथाकथंचिदुपमेयवृत्तिताज्ञानस्य विम्बताप्रयोजकत्वात्‍ । यद्धा कान्ता-विशेषणतया तादृशनयनयोः शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्य-तया वैयञ्जनिके मानसे वा बोधे बाधकाभावात्‍ । एवं च तादृशवाक्य-प्रयोज्ये ज्ञाने उपमेयविशेषणतया भातस्य तादृशनयनस्य बिबस्य सत्त्वात्तदर्थं च चन्द्रगतस्यैणरूपस्याड्कस्य प्रतिबिम्बतयोपादानमावश्यकमे-वेति नाधिक्यं दोषः । कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिड्रभेदो‍ऽपि नात्र दोषः । एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्वे नास्त्येव दोषत्वम्‍ ।
यथा-
‘ नवाड्रनेवाड्रणेपि गन्तुमेष प्रकम्पते । इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥’

एवमन्यत्रापि ज्ञेयम्‍ । शेषं स्मरणलंकारप्रकरणे विकल्पप्रकारणे च वक्ष्यामः । इत्युपमानिरूपणसंक्षेपः ॥

इति रसगड्राधरे उपमाप्रकरणम्‍ ।

*********

रसगड्गाधरः - उपमेयोपमा अलंकारः

· उपमेयोपमा अलंकारः - लक्षण १

अथारया एव भेद उपमेयोपमा निरूप्यते-

तृतीयसद्दशव्यवच्छेदबुद्धिफलकवर्णनविषयीभूतं परस्परमुपमानो-
पमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरमुपमेयोपमा ॥

‘तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी ’ इत्यत्र परस्परोप-मायामीतव्याप्तिवारणाय भूतान्तम्‍ । अत्र तानवगौरिमभ्यामनुगामि-धर्माभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति । एकेन धर्मेणैकप्रतियोगिके परानुयोगिके सादृश्ये निरुपितेऽपरप्रीतयोगिकस्यैका-नुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शब्देन पुनस्तदुक्तिः स्वनरैर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेदमाक्षिपति । प्रकृते चैकेन तानव-रूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये निरूपिते तेनैव

धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण सिद्धिरिति तदर्थमुपात्तस्य द्वितीयसादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम्‍ ।

‘ सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम्‍ । अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक्‍ ॥ ’

इति तृतीयसदृशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवार-णाय परस्परमिति । लिड्रवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति ।

· उपमेयोपमा अलंकारः - लक्षण २

लक्षण २

अथेयमुदाह्लियते-
‘ कौमुदीव भवती विभआति मे कातराक्षि भवतीव कौमुदी । अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम्‍ ॥ ’

इयं च तावहिऊविधा-उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावद-नुगाम्यादिभिः प्रागुक्तैर्धर्मैरनेकधा ।

अनुगामी धर्मो यथा-
‘ निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादो‍ऽर्थः । शिव इव गुरुर्गरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥ ’

बिम्बप्रतिबिम्बभावमापन्नो यथा-
‘ रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्यः । लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥ ’

अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूपः परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्मः ।
उपचरितो यथा-
‘ कुलिशीमव कठिनमसतां ह्लदयं जानीहि ह्लदयमिव कुलिशम्‍ । प्रकृति : सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥’
केवलशब्दात्मको यथा-
‘ अविरतचिन्तो लोके वृक इव पिशुनो‍ऽत्र पिशुन इव च वृकः । भारतमिव सच्चितं सच्चितमिवाथ भारतं सकृपम्‍ ॥’
व्यक्तधर्मो यथा-
‘ वारिधिराकाशसमो वारिधिसदृशस्तथाकाशः । सेतुरिव स्वर्गड्रा स्वर्गड्रेवान्तरा सेतुः ॥ ’

· उपमेयोपमा अलंकारः - लक्षण ३

अत्रापारत्वादिर्व्यज्यमानो धर्मः । एषा सर्वापि स्फुटे वाक्यभेदे प्रपञ्चिता । आर्थे तु वाक्यभेदे-

‘ अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव । इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदञ्चति परस्परात्मना ॥’

अत्र परस्परात्मना तुलनामुदञ्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्चतीति वाक्यद्वयं विचारकमुल्लसति । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेऽपि भेदाः संभवन्ति । ते चामुयैव दिशा सुबु-द्धिभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते ।

चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्दूषयित्वा

‘ अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥ ’

इति स्वयं लक्षणमाहुः । अस्यार्थः संक्षेपेण सदकृत्यस्तदुक्तरीत्या सह्लदयानां सौकर्यायोच्यते-अन्योन्येनेति । अन्योन्यप्रतियोगिकत्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्मा-श्रया एकधर्मप्रजोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्ये-नेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अत्रान्यो-न्यप्रतियोगिकत्वस्य व्यञ्जनव्यापरमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया

परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रति योगिकत्वविशिष्टायास्तस्या अबो-धनात, परस्परनैरपेक्ष्यस्यात्र वाकारेणाभिधानात्‍ । एकधर्माश्रयेति विशेषणात्‍ ‘ रजोभिर्भूरिव द्यौर्घनसंनिभैर्गजैश्च द्यौरिव भूः ’
इति कस्याचि-त्पद्यस्यार्थे परस्परोपमायां नातिव्याप्तिः, तत्रोपमाप्रयोजकधर्मैक्याभावात्‍ । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि-

कायां । प्रयोजकस्य घनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात्‍ । व्यकत्येति च विशेषणं व्यड्रयोपमेयोपमासंग्रहार्थामितीदमुपमेयो-पमात्वप्रयोजकं लक्षणमिति, तन्न ।

· उपमेयोपमा अलंकारः - लक्षण ४

लक्षण ४

‘ अहं लतायाः सदृशीत्यखर्वं गौराड्रि गर्व न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति ॥’

अत्रान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्र-याया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापतेः । न चात्रान्योन्य-प्रतियोगिकत्वमुपमायां न प्रतीयते, लतादिस्मबन्धिसादृश्याश्रयत्वस्यैवा-

स्मत्पदार्थेऽन्वयादिति वाच्यम्‍ । ‘ मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्‍ ’
इत्युपमेयोपमायामव्याप्तेः । न ह्मयं लताया इत्यत्रोपमेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरार्धोपमायास्तृतीयसदृशव्यवच्छेदाप्रतिपतेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्ये-तदर्थकं गवेषणेनेत्युत्तरार्धं संगच्छते । तृतीयसब्रह्मचारिव्यवच्छेदो ह्युपमे-योपमाजीवितमित्यालंकारिकसिद्धान्तः । अन्यथा ‘ भुवस्तलमिव व्योम

कुर्वन्व्योमेव भूतलम्‍ । इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयर्थ्यापत्तेः । न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणं वाच्यम्‍, विशेषणा-न्तरवैयर्थ्यापत्तेः । विशेषणव्यावर्त्यानामाधुनिकविशेषणेनैव वारणात्‍ । अन्योन्यप्रतितयोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव ।
‘ खमिव जलं जलमिव खम्‍ ’ इत्यादौ खजलयोः सादृश्यान्वये प्रतियोगि-

त्वस्य संसर्गत्वेन वृत्त्यविषयत्वात्‍ । वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्य इत्यभ्युपगभात्‍ । अन्यथा प्रकारतापत्तेः ।

· उपमेयोपमा अलंकारः - लक्षण ५

यदप्यलंकारसर्वस्वकृतोक्तम्‍ ‘ द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः ’ इति, तन्न । अत्र द्वयोरिति व्यर्थम्‍ । एकस्योपमानोपमेयात्म-कत्वे ‘ गगनं गगनाकारम्‍ ’ इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाग्र-सक्तेः । यदि च स्फुटत्वार्थमुपमानोपमेयत्वयोग्यतासंपादकलिड्रवचन-भेदराहित्यप्रतिपत्यर्थ्म कविसमयप्रसिद्धिस्फोरणार्थं वा द्वयोरिति ग्रहणं स्यात्‍, अथापि प्रागुदीरिते ‘ अहं लतायाः सदृशीत्यखर्वम्‍ ’ इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्तेः ।

‘ तद्वल्गुना युगपदुन्मिषितेन ताव- त्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्त-श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम्‍ ॥’

इति कालिदासपद्ये प्रतिपाद्यायाभुपमानोमयेपयोर्युगपदुपमेयोपमान-भावायामुपमेयोपमायां वाक्यभेदाभावादव्याप्तेश्र्व । न चात्रापाततः शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम्‍ । तथापि-

‘ सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ ’

इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः । चेयमुपमेयोपमेति शक्यते वक्तुम्‍, सुखसभये दुःखदोऽपि सुखयति, दुःखसमये च सुखदो-

ऽपि दुःखयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छे-दाप्रतिपत्तेः ।

· उपमेयोपमा अलंकारः - लक्षण ६

एवम्‍-
‘ रजोभिः स्यन्दनोद्धूतैर्गजैश्व घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्‍ ॥ ’

इत्यत्र परस्परोपमायामतिव्याप्तिः । सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम्‍ ।

यच्च विमर्शिनीकारेणोक्तम्‍ “ स च वाक्यभेदः शाब्द आर्थश्व । तत्र

शाब्दो यथा-‘ रजोभिः स्यन्दनोद्धूतैः ’ इत्यादिः । अस्याश्चोपमानान्तर-तिरस्कार एव फलम्‍ । अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्‍ ”
इति, तत्तु-च्छम्‍ । न हि ‘ रजोभिः स्यन्दनोद्धूतैः ’ इत्यत्रोपमानान्तरतिरस्कारः प्रती-यते । द्वयोरुपमयोरेकधर्मकत्वाभावात्‌, आद्याया उपमाया अनुगामिधर्म-प्रयोज्यत्वात्‍, द्वितीयायाश्च बिम्बप्रतिबिंबभावापन्नधर्मप्रयोज्यत्वात्‍ । यदपि ‘ परस्परमुपमानोपमेयत्वमुपमेयोपमा ’ इति लक्षणं विधाय ‘ सविता विधवति- ’ इत्यादि प्रागुक्तपद्यं रत्नाकरेणोदाहारि, तच्च तदीयेनैव ‘ स चोपमानान्तरनिषेधार्थः ’ इति ग्रन्थेन विरुद्धम्‍ । न ह्यस्मिन्पद्ये उपमाना-न्तरनिषेधः प्रतीयत इति प्रागेवावेदनात्‍ । प्रतीयत एवेति चेत्‍, पुनरपि पृच्छ ह्लदयमेव स्वकीयम्‍ । इत्यलं विवादेन ।

इयं चोपमेयोपमा यदि कस्याप्यर्थस्योत्कर्षाधायिका तदालंकारः । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति । एवमलंकारान्तरेऽपि ज्ञेयम्‍ ।

अथ ध्वन्यमानेयभुदाह्लियते-
‘ गाम्भीर्येणातिमात्रेण महिम्रा परमेण च । राघवस्य द्वितीयोऽब्धिरम्बुधेश्वापि राघवः ॥’

द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाव्द्यक्तिरेव । यदि तु लक्षणा तदेदमुदाहरणम्‍ -

‘ सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः । माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्रामु ॥’

अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशेषणस्य लक्षणया बुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभावः ।

अथ दोषाः ।

तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषाः, अनुक्ताश्च विस्तृतिभयात्‍, ते सर्वेऽप्युपमात्वाक्तान्तत्वादस्यामपि बोध्याः । अयं पुनरन्योऽपि दोषः–यदेकोपमावैलक्षण्यमपरस्यामुपमायाम्‍ । यथा– ‘ कमलमिव वदनमस्या वदनेन समं तथा कमलम्‍ ’ अत्र श्रौत्यार्थीकृतं वैलक्षण्यम्‍ । कमलति वदनं तस्याः कमलं वदनायते जगति ’ क्किप्‍क्यडकृतमत्र वैलक्षण्यम्‍ । एवमत्रैव

‘ पद्मं वदनायते’ इति निर्माणे ‘ वक्त्रायते ’ इति वा उपमानोपमेयवाचक-वैलक्षण्यम्‍ । एवंप्रकारैरनेकैर्वैलक्षण्यं यदि सह्लदयोद्वेजकं तदा दोषः ॥

इति रसगंगाधरे उपमेयोपमाप्रकरणम्‍ ।

*********

रसगड्गाधरः - अनन्वय अलंकारः

अनन्वय अलंकारः - लक्षण १

लक्षण १

द्वितीयसद्दशव्यवच्छेदफलकघर्णनविषयीभूतं यदेकोपमानोपमेयकं साद्दश्यं तदनन्वयः ॥

स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः । ‘ लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम्‍ । दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ॥’

अत्र लेहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिश्चित्समये दावज्वालाकीर्णेनोपमीयते, इति तत्सादृश्यवारणाय भूतान्तम्‍ ।
इदं वा प्रत्युदाहरणम्‍ -

‘ नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः । अभिनवस रदीर्घिकाप्रवाहप्रकारपरीतमिव स्फुटं चकासे ॥’
अत्रापि नखकिरणपरम्पराभिरामं हरेः पदाम्बुजं स्वात्मनैव सुरदीर्घि-काप्रवाहप्रकारपरीतेनोपमीयते । संप्रति सुरदीर्धिकाप्रवाहेण भगवत्पादा-

म्बुरुहस्य संबन्धाभावात्सुरनिम्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताव-गमायाभिनवेति प्रवाहविशेषणम्‍ । नह्यत्र सादृश्यवर्णनस्य फलं द्वितीय-सब्रह्मचारिव्यवच्छेदः, तस्याप्रतिपत्तेः ।

‘ स्तनाभोगे पतन्भाति कपोलात्कुटिलो‌ऽलकः । सुधांशुबिम्बतो मेरौ लम्बमान इवोरगः ॥ ’

इति कल्पितोपमानिकायामुपमायामतिप्रसड्रवारणायैकोपमानोपमेयक-मिति । अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसदृश-व्यवच्छेदस्यास्ति प्रतीतिः ।

उदाहरणममृत ( पीयूष ) लहर्याख्ये मदीये गड्रास्तवे-

‘ कृतक्षुद्राघौघानथ सपदि संतप्रमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्वित्तप्रसरणपथातीतचरिता-न्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥’

यथा वा-
‘ इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । परमार्थतो विचारे देवी गड्रा तु गड्रेव ॥’

पूर्वपद्ये वाच्योऽनुगामी धर्मः । इह तु व्यड्रय इति विशेषः । तुशब्दो‍ऽयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवा-त्मकत्वं धर्मं श्रीगड्रायां व्यनक्ति । उभयत्रापि श्रीगड्राविषयकरत्युपस्कार-कत्वादलंकारोऽयम्‍ । बिमप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति । तस्मिंश्व

सति किंचिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदाप्रतिपत्तेश्वानन्वय एव न स्यात्‍ ।

स च पूर्णो लुप्तश्वेति तावव्द्दिविधः । पूर्णस्तूपमावत्षड्विधोऽपि संभवति ।

यथा-

‘ गड्रा ह्लद्या यथा गड्रा, गड्रा गड्रेव पावनी । हरिणा सद्दशो बन्धुर्हरितुल्यः परो हरिः ॥ गुरवद्‍गुरुराराध्यो गुरुवद्नौरवं गुरोः ॥ ’

लुप्तेष्वपि धर्मलुप्तः पञ्चविधो‍ऽपि संभवति, प्रागुक्ते सार्धपद्मे धर्म-वाचकपदमपहाय पदान्तरदाने । तथा वाचकलुप्तः-

‘ रामायमाणः श्रीरामः सीता सीतामनोहरा । ममान्तःकरणे नित्यं विहरेतां जगद्‍गुरू ॥’

इत्यत्र क्यड्‍समासयोः ॥

· अनन्वय अलंकारः - लक्षण २

लक्षण २

एवम्‍-

‘ लड्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभिः परीतः । क्तुद्धं रणे सपदि दाशरथिं दशास्यः संरब्धदाशरथिदर्शमहो ददर्श ॥’

एवं कर्तृणमुलादावप्यूह्मम्‍ ।

‘ अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति । विक्तमार्कमहीपाल तथा त्वं विक्तमार्कसि ॥’

अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोपः । मुखवाक्यार्थस्त्व-नन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता ।

‘ एतावति प्रपञ्चे‍ऽस्मिन्सदेवासुरमानुषे । केनोपमीयतां तज्ज्ञै रामो रामपराक्तमः ॥ ’

अत्र वाचकधर्मोपमानानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादह्लद्यत्वाच्च नोदाह्लताः ।

यत्तु-“ तेन तदेकदेशेनावसितभेदेन बोपमानतया कल्पितेन सादृश्य-मनन्वयः । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसा-धर्मापादनमेकोऽनन्वयः । उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः । उपमेयस्यैव प्रतिबिम्बत्वादिना भेदेनावसितस्य तत्त्वकल्पनं तृतीयः ।

आद्यो यथा- ‘ युद्धे‍ऽर्जुनो‍ऽर्जुन इव प्रथितप्रतापः ’ इत्यादि ।

· अनन्वय अलंकारः - लक्षण ३

लक्षण ३

द्वितीयो यथा-
‘ एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि । अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य ॥ ’

तृतीयो यथा-
‘ गन्धेन सिन्धुरधुरंधरवक्त्र मैत्री-मैरावणप्रभृतयोऽपि न शिक्षितास्ते ।

तत्त्वं कथं त्रिनयनाचलरन्नभिति-स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥’

एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविधः । ”
इति रत्नाकरेणोक्तम्‍ । तन्न । उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे ‘ स्तनाभोगे पतन्भाति-’ इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि तथात्वा-पत्तेः । यद्यर्थातिशयोक्तावतिप्रसक्तेश्व । तादृशप्रतीतिफलकैकोपमानोप-मयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्धदक्षिणार्धयोर्भिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः । न च स तदेकदेशस्तत्प्रतिबिम्बश्चेत्येतदन्यतमप्रतियोगि-कसादृश्यमनन्वयः इति क्कातिव्याप्तिर्वेति वाच्यम्‍ । नास्त्यन्वयोऽस्योति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासंभवात्‍ । अपि चा-

नन्वये ‘ गगनं गगनाकारम्‍ ’ इत्यादाबुपमेयस्यैवोपमानत्वेनोपन्यासादुपमे-यातिरिक्तोपमानविरहप्रतीतिद्वारा निरुपमत्वमुपमेयगतं सिद्धयति । अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथनेन निरूपमत्वं विरुद्धमेव । कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति, तस्या अनु-पमेयत्वात्‍ ।

· अनन्वय अलंकारः - लक्षण ४

लक्षण ४

यदपि चालंकारसर्वस्वकृता ‘ अनन्वयष्वनित्वमत्र भविष्यति । अन्यथाऽलंकारष्वनेर्विषयापहारः स्यात्‍ ’ इत्युक्तम्‍ , तदपि तुच्छम्‍ । अस्य ह्मुपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम्‍ । प्रकृते च वामार्धदक्षिणार्धयोस्तद्वाधितमित्युक्तमेव । कान्तायाः पुनरुप-

माननिषेधस्य व्यड्रयत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्या-प्रत्ययात्‍ । नहि निरुपमत्वप्रतीतिषु सर्वास्वभिन्नोपमानोपमेयकसादृश्यप्रती-तिपूर्वकत्वमिति नियमोऽस्ति । कल्पितोपमातिशयोक्त्योरसमालंकारष्वनौ च व्यभिचारात्‍ । तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि ।

यच्च “ अयमनन्वयो व्यड्रयोऽप्यस्ति ।

यथा-
‘ अद्य या मम गोंविद जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ’

अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागम नप्रभवप्रीति-र्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत्‍ नान्येन, इत्युक्तिभड्रया

त्वदागमनप्रभवप्रीतेः सैव सदृशी न त्वितरप्रभवा इति व्यज्यते ” इत्य-प्ययदीक्षितैरभिहितम्‍, तदपि न । अमुष्यास्त्वदागमनप्रभवायाः प्रीते-र्वारान्तरत्वदागमनप्रभवा प्रीतिः सदृशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यक्त्योः सादृश्यस्या-बाधितत्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमर्हति । ‘ स्वस्मिन्सादृश्य-स्यान्वयाभावादनन्वयः ’ इत्युपमाप्रकरणे स्वयमेवाभिधानात्‍ । उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे बाधात्‍, तादृशप्रीतिसामान्यस्य

· अनन्वय अलंकारः - लक्षण ५

चावयविनो निरुपमतया प्रतीयमानस्यानुपमेयत्वात्पूर्वोदाहरणतुल्यमेवैतत्‍ । क्कचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्य श्रीकृष्णागमनजन्यप्रीतेः सैव सदृशीति मध्ये स्वसादृश्यप्रत्ययकल्पनं पुनर्न सह्लदयह्लदयमारोढुमीष्टे । रत्नाकरोक्तस्यैवानन्वयप्रकारस्यात्र व्यड्रयतेत्यपि न युक्तम्‍, तस्य प्रागेव दूषितत्वात्‍ प्रकृतेऽवाच्यत्वात्‍, स्वयमनन्वय-प्रकरणे तस्य प्रतिपादनविरहाच्च ।
इदं पुनरनन्वयध्वन्युदाहरणम्‍-
“ पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे । भेदेन भुवि न पेदे साधर्म्यं ते रसाल मधुपेन ॥”

अत्र भेदेनेत्युक्त्याऽभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते ।

यथा वा-

‘ नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै-स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥’

अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमण-चरणायां तव तुला दीयेतैवेत्यर्थो‍ऽनन्वयात्मा श्रीगड्रागतनिरुपमत्वपर्यव-सायी इतरपदमहिम्रा व्यज्यते ॥

इति रसगंगाधरेऽनन्वयप्रकरणम्‍ ।

************

रसगड्गाधरः - समालंकारः

समालंकारः - लक्षण १

सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः ॥

अयं चानन्वये व्यड्रयोऽपि तच्चमत्कारानुगुणतया रूपकदीपकादाबुप-मेव न पृथगलंकारव्यपदेशं भजते । वाच्यतायां तु स्वातन्त्रेण चमत्का-रितया पृथग्व्यपदेशभाक्‍ ।

यथा-
‘ भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै-रेतद्‍भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे । धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये-न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥’

यथा वा-
‘ भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्व दानवैः । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम्‍ ॥’
राजस्तुत्युत्कर्षकत्वादत्रासमालंकार : । आत्यन्तिकः क्काचित्कश्च सदृश-निषेधोऽसमोपमानलुप्तयोर्विषयः । सर्वथैवोपमाननिषेधेन सादृश्यस्याप्रति-ष्ठानान्नोपमागन्धोऽपि ।

यत्तु-

“-‘ ढुण्ढुलन्तो मरीहसि कण्टककलिआइं केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि ॥ ’ इति "

नेयमुपमानलुप्तोपमा, तस्याः संभवदुपमानानुपादानविषयत्वात्‍ । अपि त्वसमालंकारः”
इति स्त्नाकरेणोक्तम्‍, तदसत्‍ । मालतीकुसुमसदृशं ध्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं कापि, त्वया तु दुष्प्राप-मेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुम-र्हति नासमालंकारः । अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयाद्‍, न तु-प्राप्स्यसीति । अथासमालंकारष्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथग-लंकारता कथमिति चेत्‍, सत्यम्‍ । दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारो-पपत्तौ कथं नाम पृथगलंकारत्वमिति तुल्यम्‍ । न च दीपकादाबुपमाया व्यड्रयत्वेऽपि गुणीभावात्प्रकृते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारे-णासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम्‍ । यथा हि दीपक-

समासोक्त्यादौ गुणीभूतव्यड्रयसत्त्वेऽप्यलंकारत्वं न हीयते एवमनन्वये प्रधानव्यड्रयसत्त्वे‍ऽपीति न किंचिद्विरुद्धम्‍ । अनन्वयशरीरस्य स्वसादृश्य-मात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशो‍ऽपि सुस्थ एव । दीपकाद्यलंकार-काव्येगुणीभूतस्य व्यड्रयस्य सत्त्वादस्तु नाम गुणीभूतव्यड्रयत्वम्‍ । ध्वनित्वं पुनर्न क्काप्यलंकृतिकाव्ये दृष्टमिति चेत्‍, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसा-दिकाव्ये ध्वनित्वस्य स्फुटत्वात्‍ । प्राञ्चस्तु नेदमलंकारान्तरमित्यप्याहुः ।

अयं चासमालंकारो व्यज्यमानो यथा-
‘ मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्तुधं मा कृथाः । चराचरमिदं जगज्जनयतो विधेर्मानसे पदं न हि दधेतरां तव खलु द्वितीयो नरः ॥’

अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरूढः सो‍ऽग्रेऽपि माना-भावान्नारोहेत्‍ अतः सर्वथैव नास्तीति गम्यते । एवं च व्यज्यमानोऽप्य-समो‌ऽत्र प्रधानीभूतराजस्तुत्युक्तर्षकतयालंकार एव ।

समालंकारः - लक्षण २

मुख्यतया ध्वन्यमानोऽयं यथा-

‘ सदसद्विवेकरसिंकैरालोक्य समस्तलोकमथ कविभिः । गणिता गगनलतादेर्गणनायां तन्वि तव सदृशी ॥’

अयं कचिदुपमानस्य निषेधात्क्कचिच्च साक्षादुपमाया एव । आद्यस्तूप-दर्शितः ।

द्वितीयो यथा-

‘ पूर्णमसुरै रसातलममरैः स्वर्गो वसुंधरा च नरैः । रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ॥’

एवं पूर्णतया लुप्ततया चास्यापि यथासंभवं भेदा उन्नेयाः ॥

इति रसगड्राधरेऽसमालंकारप्रकरणम्‍ ।

*********

रसगड्गाधरः - उदाहरणालंकारः

उदाहरणालंकारः - लक्षण

लक्षण १

सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम्‍ ॥

अर्थान्तरन्यासवारणायोच्यमान इति । वचनं च इव यथा-निदर्शन-दृष्टान्तादिशब्दैः काव्येषु स्फुटम्‍ । न च इव-यथाशब्दयोः सादृश्यवचन-योरवयवावयविभावे । विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम्‍ । लक्षणायाः साम्राज्यात्‍ । अन्यथा ह्मुत्प्रेक्षाबोधकतापि दुर्घटा स्यात्‍ ।

उदाहरणम्‍ -

‘ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराज्ञो गन्धेनोग्रेण लशुन इव ॥’

न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम्‍ । तयोः सामान्यविशेषभा-वेन सादृश्यस्यानुल्लासात्‍ । तथात्वे तु इवादिशब्दानामिव सदृशादिशब्दा-नामप्यलंकारे‍ऽस्मिन्प्रयोगः स्यात्‍ ।

यथा वा-‘ अतिमात्रबलेषु चापलं विदधानः कुमतिर्विनश्यति । त्रिपुरद्विषि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा ॥’

अत्र त्रिपुरद्विड्‍वीरते अतिमात्रबलचापलयोर्विशेषौ । अवलेपकुसुमा-युधौ च कुमतिरित्यत्र गुणप्रधानयोः ।

उदाहरणालंकारः - लक्षण

यथा वा-

‘ उपकारमेव कुरुते विपद्नतः सद्‍गुणो नितराम्‍ । मूर्च्छा गतो मृतो वा निदर्शनं पारदो‍ऽत्र रसः ॥ ’

दृष्टान्तो वा । इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्‍,

निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः । तत्र तावत्‍ ‘ अमितगुणः-’ इति पद्ये क्तियाप्रधानमाख्यातमिति नयेऽमितगुण-पदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुनकर्तृ-कोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति धीः । प्रथमान्तविशेष्यक-

बोधवादिनां तूग्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्ता दृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति । तत्रापि विशेषवाक्यार्थे क्तियान्वयो मृग्यते हेत्वन्तरान्वयार्थम्‍ । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्तियान्वये नोपपतिः स्यात्‍ । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्नताभिन्नः सद्‍गुण उपकारानुकूलकृतिमानिति पूर्व-वाक्यार्थः, अत्रास्मिन्नर्थे मूर्च्छां गतो मृतो वा पारदो निदर्शनमेकदेश

इत्युत्तरवाक्यार्थे गुण इति केषांचित्‍ । इतरेषां तु तादृशकर्तृका तादृशक्तियेति पूर्ववाक्यार्थे तादृशः पारद एकदेश इति । प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात्‍, घटमानयेत्यत्र नीलघटवत्‍ ।

‘ अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत । विनाशेऽप्युन्नतः स्थैर्य न जहाति द्रुमो यथा ॥’

अत्र दधीच्यालम्बनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्य प्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामर्थ्यालम्बन-स्तत्कृतयाञ्चाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारि-भावेन पोषितो मुनिगत उत्साहो गुणः । तत्र चाध्यर्धतृतीयचरणगत-स्यार्थान्तरन्यासस्योत्कर्षकतया स्थितस्य विवेचनद्वारालंकरणं चतुर्थचरण-शकलगतभुदाहरणम्‍ ।

एवमेव-

‘ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलेपि जातम्‍ । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाड्कः ॥’

इति कालिदासपद्ये‍ऽपि बोध्यम्‍ । अस्मिंश्चालंकारेऽवयवावयविभावबो-धकस्येवशब्दादेः प्रयोगः, सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तर-न्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरमुपपादयिष्यामः ।

प्राञ्चस्तु “ नायमलंकारोऽतिरिक्तः । उपमयैव गतार्थत्वात्‍ । न च सामान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम्‍ । ‘ निर्विशेषं न

सामान्यं-’ इति सामान्यस्य यक्तिंचिद्विशेषं विना प्रकृतत्वायोगात्तादृशवि-शेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः ॥”
इत्यप्याहुः ॥

इति रसगंगाधर उदाहरणप्रकरणम्‍ ।

*********

रसगड्गाधरः - स्मरणालंकारः

· स्मरणालंकारः - लक्षण १

साद्दश्यज्ञानोद्वुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकारः ॥

यथा-

‘ दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्‍ । वल्गद्नाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत्‍ ॥’

यथा वा-

‘ भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यतः संगरे । अमन्दकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य ह्लदयं झगित्यधिरुरोह देवेश्वरः ॥’

अनयोः पद्ययोः प्रधानीभूताया राजविषयककविनिष्ठरतेरुत्कर्षकतया

स्मरणमलंकारः आद्ये वाच्यम्‍, द्वितीये तु लक्ष्यमिति विशेषः । वीररसोऽपि चात्र प्रधानोत्कर्षकतयालंकार एव ।

एकीभवत्प्रलयकालपयोधिकल्प-मालोक्य संगरगतं कुरुवीरसैन्यम्‍ । सस्मार तल्पमहिपुंगवकायकान्तं निद्रां च योगकलितां भगवान्मुकुन्दः ॥

अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोद्‍बुद्ध-संस्कारप्रयोज्यम्‍, तथापि सैन्यगतपयोधिसादृश्यदर्शनोद्‍बुद्धपयोधिविषयक-संस्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्येव यक्तिंचित्सादृश्यदर्शनोद्‍बुद्ध-संस्कारप्रयोज्यम्‍ । नहि सादृश्ये स्मर्यमाण़संबन्धित्वं विवक्षितम्‍ । एवं वाच्ययोस्तल्पनिद्रास्मरणयोः, एतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य

चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम्‍ । केचितु सदृशज्ञानोद्‍बुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकारः । भुजगेन्द्र-निद्रादिस्मृतिस्तु नालंकार इत्याहुः ।

स्मरणालंकारः - लक्षण २

लक्षण २

‘ इत एव निजालयं गताया वीनताया गुरुभिः समावृतायाः । परिवर्तितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥’

अत्र स्मरणं चिन्तोद्‍बुद्धसंस्कारप्रयोज्यत्वान्नालंकारः । व्यड्रयत्वविरहाच्च न भावः ।

एवम्‍-
‘ दरानमत्कंधरबन्धमीषन्निमीलितस्निगधविलोचनाब्जम्‍ । अनल्पनिः श्वासभरालसाड्रयाः स्मरामि सड्रं चिरमड्रनायाः ॥’

इहाआप स्मृतिर्न भावो नाप्यलंकारः । व्यड्रयस्यैव व्यभिचारिणो भाव-त्वात्‍ । यथा ‘ सा वै कलड्कविधुरा मधुराननश्रीः ’ । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । तस्याभावे व्यड्रयतायां भावः । तयोरभावे तु वस्तुमात्रम्‍ ।

अप्पयदीक्षितास्तु-
“-‘ स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यड्रयत्वविशेषिता ॥’

यथा-
‘ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ’

यथा वा-
‘ दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम्‍ । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥’

एकत्र सदृशदर्शनात्तत्सदृशकर्भिका स्मृतिः । इतरत्र सदृशदर्शनात्त-त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्य-मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम्‍ । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्‍ ।

स्मरणालंकारः - लक्षण ३

लक्षण ३

‘ सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रो‍ऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरड्रं यतः कासि प्रेयसि हा कुरड्रनयने चन्द्रानने जानकि ॥’

अत्र श्रुतकुरड्रसंबन्धिनस्तत्रयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति-

स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यड्रया अलंकार्यभूता च तव्द्यावृत्त-र्थमव्यड्रत्वविशेषणम्‍ ।

‘ अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय-स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमिति प्रस्तौमि यावद्भुव-स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥

अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणा-लंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाड्रत्वात्प्रेयोलं-कारः । एतव्द्यावृत्तये सादृश्यमूलेति विशेषणम्‍ । ” इत्याहुः ।

तदेतत्सर्वमरमणीयम्‍ । यत्तावदुच्यते सदृशासदृशयोः केशपाशजलनि-धिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति । तत्र सादृश्यमूला

स्मृतिः स्मरणालंकार इत्येतवतैव केशपाशस्मरणस्येव जलनिधिमन्थन-स्मरणस्यपि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम्‍ । एकत्र सादृश्य-दर्शनोद्‍बुद्धसंस्कारजन्यत्वेन, अपरात्र च सादृश्यदर्शनोद्‍बुद्धसंस्कारजलक्ष्मी-स्मरणोद्‍बुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वाविशेषात्‍ । नहि साद्रुश्यभूले-त्युक्ते सदृशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृतेरसंग्रहः स्यात्‍ । यदपि ‘ सौमित्रे ननु सेव्यतां-’ इत्यत्र स्मृतिर्व्यड्रया अलंकार्यभूता च, तव्द्यावृत्तयेऽव्यड्रयत्वविशेषणमित्युक्तम्‍ । तत्र नेयं स्मतिरलंकार्यभूता । किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मादेन संचा-

रिणा परिपोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः । तस्य च स्मृतिरुत्कर्षहेतु-त्वादलंकार एव । अतो नितरां तव्द्यावृत्त्यर्थमव्यड्रयत्वविशेषणदानमनु-चितम्‍ । नहि व्यड्रयत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम्‍ । नित्य-व्यड्रयानां रसभावादीनामपि पराड्रतायामलंकारत्वाभ्युपगमात्‍ । प्रधान-व्यड्रयव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलंकारलक्षणेषु देयमिति प्रागेवा-वेदितम्‍ । यदप्युक्तम्‍ ‘ अत्युच्चाः परितः स्फुरन्ति गिरयः ’ इत्यत्र स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाड्रत्वात्प्रेयोलंकार इति, तन्न । भावस्य हि भावाद्यड्रतायां प्रेयोलंकारत्वम्‍ । नह्यत्र स्मृतिर्भावः । तस्याः स्मरतिना वाच्प केनाभिधानात्‍ । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम्‍ । ‘ व्यभि-चार्यञ्जितो भावः ’ इति सिद्धान्तविरोधात्‍ । तथा चोक्तं सर्वस्वकृता-

स्मरणालंकारः - लक्षण ४

“ प्रेयोलंकारम्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । तत्रापि विभावाद्यागूरितत्वे, यथा ‘ अहो कोपेऽपि कान्तं मुखम्‍’ इति । न तु स्वशब्दनिवेद्यत्वे ।

यथा-
‘ अत्रानुगोदं मृगयानिवृत्तस्तरड्रवातेन विनीतखेदः । रहस्त्वदुत्सड्रनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुप्तम्‍ ॥’

इत्यादाविति । ” ननु भावाद्यड्रीभूतभावात्वं न प्रेयोलंकारलक्षणम्‍ । अपि तु भावाद्यड्रीभूतसंचारित्वमात्रम्‍ । तथा च प्रकृते स्मरणस्य स्वशब्द-निवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वमविरुद्धमेवेति चेत्‍, एवं तर्हीतराड्रीभूतस्थायित्वमात्रं रसालंकारत्वम्‍ , न तु व्यज्य-मानत्वविशिष्टम्‍ , इत्यस्यापि सुवचत्वात्‍ ।

एवं च-

‘ चराचरोभयाकारजगत्कारणविग्रहम्‍ । कल्पान्तकालसंक्तुद्धं हरं सर्वहरं नुमः ॥’

इत्यत्र क्तोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाड्री-

भूतस्थायित्वानपायाद्रसालंकारता स्यात्‍ । न चेष्टापतिः, अपसिद्धान्तात्‍ । तस्याव्द्यज्यमानस्यैव स्थायिनः पराड्रत्वे यथा रसालंकारत्वमेवं व्यज्य-मानस्यैव संचारिणो भावाद्यड्रतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमादाय प्रेयोलंकारता वाच्या, किं तु भूविषयकरतेः पूर्वार्धव्यड्रयाया उत्तरार्ध-व्यड्रयभूभृद्विषयरतिभावाड्रत्वाद्युक्ता प्रेयोलंकारता वक्तुम्‍ ।
उक्तं च मम्मटभट्टैः- ‘ अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य ’ इति । अपि च महदिदमाश्चर्यं यत्‍ स्वेनैव निर्मितः कुवलयानन्दाख्यः संदर्भो विस्मृतः । उक्तं च तत्र- ‘ विभावानुभावाभ्याममिव्यञ्जितो निर्वेदादिर्भावः, स यत्रापरस्याड्रं स प्रेयोलंकारः ’ इति ।

यदपि ‘ सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्‍ ’ इत्यलंकारसर्वस्व-रत्नाकर थोः स्मरणालंकारलक्षणमुक्तम्‍, तदपि न । सदृशस्मरणादुद्‍बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्तेः ।

स्मरणालंकारः - लक्षण ५

लक्षण ५

यथा-

‘ सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा-स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः
स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम्‍ ॥’

अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलध-

रस्य भगवत्सदृशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरति-भावाड्रम्‍ । यदि च ‘ सदृशानुभवात्‍ ’ इत्यपहाय ‘ सदृशज्ञानात्‍ ’ इति लक्षणे निवेश्यते तदा । भवत्यस्यापि संग्रह इति दिक्‍ ।

अथास्य ध्वनिः ।

यथा-

‘ इदं लताभिः स्तबकानताभिर्मनोहरं हन्त वनान्तरालम्‍ । सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो ह्लदयं हरेयुः ॥’

अत्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीनां स्मरणमलंकार्य-स्यान्यस्याभावादनुपसर्जनम्‍, स्तनस्तबकरूपस्य बिमप्रतिबिम्बभावमाप-न्नस्य साधारणधर्मस्य वाच्यत्वे‍ऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाव्द्यड्रयं च । युवत्य इति च ‘ सर्वतोऽक्तिन्नर्थात्‍ ’

इति डीषि साधुः ।

स्मरणालंकारः - लक्षण ६

अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयो-रुपमायामिवात्रापि व्यवस्था । तथा हि उपमायां तावत्क्कचिद्धर्मो नियमेन प्रतीयमानः । साक्षान्नोपादेय एव । यथा ‘ शड्खवत्पाण्डुरच्छविः ’ इत्यत्र पाण्डुरत्वम्‍ । ‘ शड्खवत्पाण्डुरो‍ऽयम्‍ ’ इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात्‍, सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्योपमाप्रयो-जकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिधर्मो वाच्यतां नीयते । यथा वा अरविन्दमिव सुन्दरं मुखम्‍’ इत्यादौ सुन्दरत्वादिः । न नीयते च क्कचित्‍ ,

वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्राबल्यात्‍ । यथा ‘ अरविन्दमिव मुखम्‍ ’ इत्यादौ स एव । अप्रसिद्धश्व धर्मोऽवश्यं साक्षादुपादेयः । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः । यथा ‘ नीरदा इव ते भान्ति बलाकाराजिता भटाः ’ इत्यादौ श्लिष्टशब्दात्मकः । इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव । कश्विदुपादेयानुपादेयश्च । कश्विदुपादेय एवेति सह्लदयसंमतः समयः । एवमेवोपमाजीवातुको‍ऽस्मि-न्स्मरणालंकारे‍ऽपि बोध्यम्‍ । तत्रानुगामिनि धर्मे ‘ स्मृत्यारूढं भवति किमपि ’ इत्यादौ पद्ये निवेदितमेव स्मरणम्‍ । बिम्बप्रतिबिम्बभावान्नेऽपि

धर्मे ‘ भुजभ्रमितपट्टिश- ’ इत्यादिपद्ये निरूपितम्‍ । कुलिशपट्टिशयोर्भूधर-दन्तावलयोश्च बिम्बप्रतिबिम्बभावात्‍ ।

उपचरिते यथा-
‘ क्कचिदपि कार्ये मृदुलं क्कापि च कठिनं विलोक्य ह्लदयं ते । ‘ को न स्मरति नराधिप नवनीतं किं च शतकोटिम्‍ ॥ ’
यथा वा-
‘ अगाधं परितः पूर्णमालोक्य स महार्णवम्‍ । ह्लदयं रामभद्रस्य सस्मार पवनात्मजः ॥’

अत्र मृदुलत्वादयो धर्मा ह्लद्युपचरिताः । इयांस्तु विशेषः- यदेकत्रा-

नुभूयमाने ह्लदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु स्मर्यमाणे ह्लदयेऽनुभूयमानसभुद्रस्येति, सादृश्यस्योभयाश्रयत्वात्‍ ।

केवलशब्दात्मके यथा-

‘ ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन । आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यासः ॥’

अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः । एवमन्येऽपि प्रभेदाः सुधीभिरुन्नेयाः । इह पुनर्दिड्भात्रमुपदर्शितम्‍ ।

इति रसगंगाधरे स्मरणालंकारनिरूपणम्‍ ।

*********

रसगड्गाधरः - रूपकालंकारः

· रूपकालंकारः - लक्षण १

लक्षण १

अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते-

उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्र्चीयमानमुपमान-तादात्म्यं रूपकम्‍ । तदेवोपस्कारकत्वविशिष्टमलंकारः ॥

उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपह्लुतिभ्रान्तिमदतिशयो-क्तिनिदर्शनानां निरासः । अपह्लुतौ स्वेच्छया निषिध्यमानत्वात्‍, भ्रान्तिमति च तज्जनकदोषेणैव प्रतिबध्यमानत्वात्‍, अतिशयोक्तिनिदर्श-नयोश्च साध्यवसानलक्षणामूलकत्वात्‍, उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात्‍ ‘ मुखमिंद चन्द्रः ’ इति प्रात्यक्षिका-

हार्यनिश्वयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणा-त्संभावनात्मनो ‘ नूनं मुखं चन्द्रः ’ इत्याद्युत्प्रेक्षाया व्यावृत्तिः । उपमानो-पमेयविशेषणाभ्यां सादृश्यलाभात्‍ ‘ मुखं मनोरमा रामा ’ इत्यादिशुद्धारोप-विषयतादात्म्यनिरासः । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति ।

तथा चाहुः-

‘ तद्रूपकमभेदो य उपमानोपमेययोः । ’
‘ उपमैव तिरोभूतभेदा रूपकमुच्यते । ’ इति ।

तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्गः, अन्यत्र तु शब्दार्थतया क्कचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते ।

· रूपकालंकारः - लक्षण २

लक्षण २

यत्तु “ सादुश्यप्रयुक्तः संबन्धान्तरप्रयुक्तो वा यावान्‍ भिन्नयोः सामानाधिकरण्यनिर्देशः स सर्वोऽपि रूपकम्‍ । सारोपलक्षणामूलकत्वस्य तुल्यत्वेन साद्रुश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादा-त्म्यस्य संग्रहीतुमौचित्यात्‍ । तस्मात्‍ दुराग्रह एवायं प्राचाम्‍-उपमानो-पमेययोरभेदो रूपकम्‍, न तु कार्यकारणयोः ”
इति रत्नाकरेणोक्तम्‍, तन्न । अपह्लुत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तेः ।

किं च ‘ सादृश्यमूलकं स्मरणं स्मरणालंकारः, न तु चिन्तादिमूलम्‍ ’ इति भवतैव पूर्वमुदितम्‍ । तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य तादूप्यस्य रूपकत्वमभ्युपेयते तदा सादृश्यामूलकस्य चिन्ता-दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम्‍ । न च स्मरणस्य भावत्वमु-च्यमानं निर्विषयं स्यादिति वाच्यम्‍ । तस्य व्यज्यमानविषयत्वेनोपपत्तेः ।

अप्ययदीक्षितास्तु-

“-‘ बिम्बाविषिष्टे निर्दिष्टे विषये यद्यनिह्लुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥’

अत्र बिम्बाविशिष्ट इति विषयविशेषणात्‍ ‘ त्वत्पादनखरत्नानां यदलक्तकमार्जनम्‍ । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥’

इति निदर्शनाया निरासः । तत्र विषयस्य मार्जनस्यालक्तकादिरूप-बिम्बविशिष्टत्वात्‍ । निर्दिष्ट इति विशेषणान्निगीर्णविषयायाम्‍ ‘ कमल-मनम्भसि कमले च कुवलये तानि कनकलतिकायाम्‍ ’ इत्याद्यतिशयोक्तौ नातिव्याप्तिः । अनिह्लुते निषेधास्पृष्ट इति विशेषणादपह्लुतौ नातिव्याप्तिः । उपरञ्जकतामाहार्यतादूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमासो-क्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोर्निश्चयस्यैवा-भावात्‍ । समासोक्तिपरिणामयोर्विषयितादूप्यस्यागोचरत्वात्‍, समासोक्तौ व्यवहारमात्रसमारोपात्‍ । परिणामे चारोप्यमाणस्यैव विषयतादूष्यगो-चरत्वात्‍ । भ्रान्तिमति च सतः कल्पितम्य वा प्रवृत्त्यादिपार्यन्तिकस्वार-सिकभ्रमस्यैव निबन्धनेन तस्यानाहार्यत्वात्‍ । ”

· रूपकालंकारः - लक्षण ३

लक्षण ३

इत्याहुः । तन्न । ‘ त्वप्ता-दनखरत्नानाम्‍ ’ इत्यादिनिदर्शनाव्यावृत्त्यर्थ्म बिम्बाविशिष्टत्वं विषयविशे-षणं तावदयुक्तमेव । यद्यत्र ‘ मुखं चन्द्रः ’ इत्यादिरूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकम्‍, अपि तु निदर्शनेत्युच्यते, तद ‘ मुखं चन्द्रः ’ इत्यपि निदर्शनेत्युच्यताम्‍ । निरस्यतां च रूपकदाक्षिण्यकौपीनम्‍ । किं च ‘ त्वत्पाद-’ इत्यत्र किं पदार्थनिदर्शना, आहोस्विद्वाक्यार्थनिदर्शना ? नाद्यः । बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेद-

प्रतीतेः । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च । न द्वितीयः । वाक्यार्थरूपकोच्छित्त्यापत्तेः । इष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकारणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वा-भ्यामुद्देश्यविधेयभावालिड्रनानालिड्रनाभ्यां च रूपकनिदर्शनयोर्वैलक्ष-ण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थ-निदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यम्‍-

‘ त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥ ’

· रूपकालंकारः - लक्षण ४

अत्र कर्त्रोरभेदस्य शाब्दत्वे‍ऽपि क्तिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकृता तत्प्रकरण उदाह्लतमिति चेत्‍, भ्रान्तेनैव प्रतारितोऽसि । नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव । तथा च सर्वस्वटीकायां विमर्शिन्यामुदाह्लत्म बिम्बप्रतिबिम्बभावेन रूपकम्‍-

‘ कंदर्पद्विपकर्णकम्बु मलिनैर्दानाम्बुभिर्लाञ्छित्म संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिभ्बं कलड्काड्कितम्‍ ॥’

अत्र कलड्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम्‍, लञ्छितत्वाड्कितत्वयोः शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत्‍ । तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येनकेनचिदूपेण शब्देनाभिहित इत्यर्थः, उताहो उपमेयतावच्छेदक-रूपेण शब्देनाभिहिते ? । आद्ये ‘ सुन्दरं कमलं भाति लतायामिदमद्भुतम्‍ ’

इत्यत्रातिप्रसड्र । सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषय-स्याननस्य प्रतिपादनात्‍ । न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम्‍ । कमलपदेन कमलतादूप्ये-णाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूते कमले । अथ तादृशं विषयमुद्दिश्य विषयितादूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलतादूप्यस्याविधानान्नातिप्रसड्र इति चेत्‍ । न । मुखचन्द्रस्तु सुन्दरः ’ इत्यादिरूपके समासगतयोर्विषयविषयिणोः पृथग्विभक्तिमन्तरेणोद्देश्य-

· रूपकालंकारः - लक्षण ५

लक्षण ५

विधेयभावाभावादव्याप्त्यापतेः । द्वितीये त्वनिह्लुत इति विशेषणवैयर्थ्यम्‍ । अपह्लुताबुपमेयतावच्छेद्यस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्ट-त्वादेव लक्षणस्याप्रसक्तेः । निश्चयगताहार्यत्वविशेषणवैयर्थ्यं च । भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपरमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात्‍ । अपि च ‘ नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्‍ ’ इति कुवलयानन्दे त्वयोक्तायामपह्लुतावतिप्रसड्रः । अत्र सुधांशौ सुधांशुत्वनिह्लुवेऽप्यारोपविषयस्यानिह्लवात्‍ । न चेदं रूपकमेवेति

वाच्यम्‍ । त्वदुक्तिविरोधापत्तेः । यच्चाप्युक्तम व्यंग्यत्वविशेषणाच्चेदमेव लंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नहि व्यड्रयत्वालंकार-त्वयोर्विरोधोऽस्ति । प्रधानव्यड्रयरूपकवारणाय पुनरुपस्कारकत्वं विशे-षणमुचितमित्यसकृदावेदनात्‍ । अनलंकारत्वस्य तुल्यतया प्रधानव्यड्रयरू-पकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रातिप्रसड्राच्च ।

यच्च ‘ तद्रूपकमभेदोय उपमानोपमेययोः ’ इत्यादि प्राचीनैरुक्तम्‍, तच्चि-न्त्यम्‍ । अपह्लुत्यादाबुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रस-ड्रात्‍ । अथोपमानोपमेययोरित्युक्त्या उपमेयताच्छेदकं पुसस्कृत्योप-मानतावच्छेदकावच्छिन्नाभेद इत्यर्थलाभादपह्लुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसड्र इति चेत्‍ । न । ‘ नूनं मुखं चन्द्रः ’ इत्याद्युत्प्रे-क्षायां तथाप्यतिप्रसक्तेः । न च-

‘ प्रकृतं यन्निषिघ्यान्यत्साघ्यते सा त्वपह्लुतिः ।’
‘ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्‍ । ’

· रूपकालंकारः - लक्षण ६

लक्षण ६

इत्याद्यपह्लुत्युप्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरिक्तो रूपकस्य ‘ मुखं चन्द्रः ’ इत्यादिर्विषयः स्यात्‍ । यथा ‘ शरमयं बर्हिः ’ इत्येतद्विषया-तिरिक्तः ‘ कुशमयं बर्हिः ’ इत्यस्य । यथा वा क्सादेशविषयातिरिक्तो विषयः सिचः । लोकेऽपि यथा ‘ ब्राह्मणेभ्यो दधि देयम६, तक्रं कौण्डि-न्याय’ इत्यत्र तक्तसंप्रदानातिरिक्तं दध्नः संप्रदानमिति वाच्यम्‍ । वैष-

म्यात्‍ । विशेषशास्त्रं हि स्वविषयातिरिक्तं विषयं ग्राहयत्सामान्यशास्त्रस्य बाधकमित्युच्यते । प्रकृते च रूपकस्य लक्षणं धर्मः । स यद्युत्प्रेक्षादिवृत्तिः स्यात्‍ कस्तमस्माद्विषयान्निरस्य विषयान्तरं ग्राहयेत्‍ । नहि घटत्वं स्वाधिकरणात्पृथिवीत्वं द्रव्यत्वं वा निरम्य विषयान्तरं ग्राहयितुमीष्टे । तस्मादतिप्रसक्तिर्लक्षणेऽस्मिन्दोषः । ननु संभावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत्‍ । नहि । विनिगमका-भावेन संभाव्यमानाभेदस्याप्युत्प्रेक्षास्वरूपत्वात्‍ । विषयसंभावनाऽभेदा-भ्यामुत्प्रेक्षायामलंकारद्वयव्यवहारापत्तेश्च । निश्चीयमानत्वेनाभेदो विशेष-णीय इति चेदस्मदुक्त एव तर्हि पर्यवसितिरिति दिक्‍ ।

तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति तावत्रिविधम्‍ । तत्राद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्‍ । द्वितीयमपि केवलं मालारूपकं चेति द्विविधम्‍ । तृतीयं च श्लिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः ।

· रूपकालंकारः - लक्षण ७

लक्षण ७

तत्र-
परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम्‍ ॥

तत्रापि-

समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्त-वस्तुविषयम्‍ ॥
यत्र च क्कचिदवयवे शब्दोपात्तमारोप्यमाणं क्कचिच्चार्थसामर्थ्या-क्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्व-रूपगोपनेनाऽन्यथात्वेन वर्तनादेशविवर्ति ॥

यद्वा-
एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेक-देशवितर्ति ॥

समस्तवस्तुविषयं सावयवं यथा-

‘ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥’

अत्र समुदायात्मकम्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वे-नाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते । एवं स्थिते समर्थ-करूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य-रूपकस्य तयोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । यथा भटसंघान्तर्गतस्य मुख्यस्य कस्यापि भटम्य जयपराजयाभ्यां भटसंघातो जितः पराजित-श्चेत्युच्यते ।

‘ व्योमाड्रणे सरसि नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डिते‍ऽस्मिन्‍ । आभाति षोडशकलादलमड्कभृड्रं सूराभिमुख्यविकचं शशिपुण्डरीकम्‍ ॥’

अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्ण्यस्य पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योतिः शास्त्रसिद्धम्‍ । तेन सूर्याभिमुख्ये चन्द्रस्य कथं विकास इति न शड्कनीयम्‍ ।

· रूपकालंकारः - लक्षण ८

लक्षण ८

एकदेशविवर्ति सावयवं यथा-

‘ भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो बलादुन्मूल्य द्राडिगडमविवेकव्यतिकरम्‍ । विशुद्धे‍ऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥’

अत्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते । यथा वा-

‘ रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा । मज्जन्ति यत्र सन्तः सेयं तरुणीतरड्रिणी विषमा ॥’

पूर्व तु कवेः समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थ-

कत्वेनाभिमतस्य नयनयोर्मीनरूपकस्येति विशेषः । अत्र च चमत्कार-विशेषजनकतया रूपकसंघातात्मकमपि सावयवरूपकं रूपकालंकृतिभेद-गणनायां गण्यते । यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिक-मिव संघातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते । अन्यथा मालारूप-स्योपमादेस्तद्भेदगणनेऽगणनप्रसड्रात्‍ । एतेन ‘ गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न

तत्संघातात्मकं सावयवं गणनीयम्‍ ’ इति परास्तम्‍ । एवमस्मात्संघाता-त्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्व-परस्परनिरपेक्षत्वाभ्यामस्ति महान्विशेषः ।

· रूपकालंकारः - लक्षण ९

लक्षण ९

निरवयव्म केवलं यथा-

‘ बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते । अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥’

अत्र रूपकद्वयमपि सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम्‍ । मालात्मकत्वविरहाच्च केवलम्‍ ।

निरवयवं मालारूपकं यथा-

‘ धर्धस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः । आज्ञा साक्षाद्व्रह्मणो वेदमूर्तेराकल्पान्तं राजतामेष राजा ॥’

एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम्‍ । परस्परसापेक्ष-त्वविरहाच्च निरवयवम्‍ ।

यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम्‍ । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लोषमूलकत्वे श्लिष्टपरम्परितम्‍ ॥

· रूपकालंकारः - लक्षण १०

लक्षण १०

यथा-
‘ अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतो हि भयं स्यादखिलामपि मेदिनीं चरतः ॥ ’

अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यल्वेऽप्यहि-तानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयतया कवेरभिप्रायः । अत एव भड्रश्लेष-निवेदितो‍ऽहिभयाभावोऽपि संगच्छते ।

इदमेव मालारूपं यथा-

कमलावासकासार : क्षमाधृतिफणीश्वरः । अयं कुवलयस्येन्दुरानन्दयति मानवान्‍ ॥’

शुद्धपरम्परितं केवलं यथा-

‘ देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता-देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥’

अत्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः ।

· रूपकालंकारः - लक्षण ११

लक्षण ११

तदेव मालारूपं यथा-
‘ प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति-र्ज्वालामाला कराला कवलितजगतः क्तोधकालानलस्य । आज्ञा कान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसानां क्षोणीन्दो संगरे ते लसति नयनयोरुद्भटा शोणिमश्रीः ॥

यद्यपि सावयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपाति-रिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धिः संभवति । यथा प्रागुक्ते ‘ सुन्दरि राकासि नात्र संदेहः ’ इत्यत्र मौक्तिकादीनां तारात्वाद्या-रोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्यां राकारोपसिद्धेः, इह तु नयन-शोणिम्रि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते । एवं ‘ कारुण्यकुसु-माकाशः खलः ’ इत्यत्राकाशखलयोः सादृश्यस्याप्रसिद्धतयारोपसिद्धयर्थ-मारोप एवोपाय इति वैलक्षण्यम्‍ ।

कश्चित्तु बह्लारोपात्मकात्सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये बीजमित्याह ।

काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा । धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ॥’

· रूपकालंकारः - लक्षण १२

लक्षण १२

अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणसाला तु चमत्कारविशेषशालित्वाद्नण्यत एव ।

अथ कथं नाम श्लिष्टपरम्परिते ‘ कमलावासकासार ’ इत्यादावेकस्या-

रोपस्यारोपान्तरोपायत्वम्‍ । यतः श्लेषेण कमलानामावासस्य कमलाय़ा वासस्य चाभेदमात्रमत्र प्रतीयते, नैकत्रान्यारोपः । तस्य स्वतन्त्रविषय-निर्देशापेक्षत्वात्‍ । न च शुद्धाभेदप्रत्यय एवारोपः । विषयनिगरणात्मि-कायामतिशयोक्तावपि तत्प्रसड्रात्‍ । न च शुद्धाभेदप्रत्ययेनात्रार्थः यत्संब-न्धिनि यत्संबन्प्यभेदस्तस्मिंस्तदभेद इति ‘ कमलावासकासारः ’ इत्यादौ

राजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजा-श्रयत्वाभेदारोपेण समर्थयितुं शक्यः । श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजा-श्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यभेद-प्रत्ययः स्यात्‍, न तु राजनि विषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धिः । इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्यः । स च न श्लेषसाध्यः इति । सत्यम्‍ । श्लेषेण शुद्धाभेद-प्रतीतौ सत्यां प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि

· रूपकालंकारः - लक्षण १३

लक्षण १३

कासारसंबन्ध्यभेदारोपस्य कल्पनान्नानुपपत्तिः । कथ्म तर्हि परम्परितरूपके ‘ सौजन्यचन्द्रिकाचन्द्रो राजा ’ इत्यादौ रूपकत्वम्‍, अभेदारोपस्य

सत्त्वे‍ऽपि तस्य सादृश्यमूलकत्वाभावात्‍ । इति चेत्‍ , न । समर्थकारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वात्‍ । स्यादेतत्‍ । सौजन्यचन्द्रि-काचन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसं-सर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागतः सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपकं समर्थयितुं प्रभवति, यत्संबन्धिनि यत्सं-बन्घ्यभेद इत्यादिप्रागुक्तन्यायात्‍ । अपि तु सौजन्ये विषये चद्रिन्काभेदः ।

यथा-‘ सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधिः ।’
स च दुरुपपाद एव । न चानयोः समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वत्तुम्‍,

प्रात्यक्षिके हि सामग्र्यास्तुयल्त्वात्तत्‍ । न तु शाब्दबोधे व्युत्पत्तिवैचित्र्य-नियन्त्रिते । एवमन्यत्रापि कथं समासगतशुद्धपरम्परिते द्वयोरारोपयो-र्निर्वाह्मनिर्वाहकभावः । कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपक-मुच्यते ? पुण्डरीकाभेदात्मकस्य पुण्डरीकतादूप्यस्याभानात्‍ । शश्य-भेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम्‍ । एवं नीलिम-दिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमड्कभृड्रमित्यत्रा-प्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्तिः ।

· रूपकालंकारः - लक्षण १४

लक्षण १४

तथा-

‘ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥’

इत्यत्र सुन्दर्यां विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राका-रूपकम्‍ । तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपात्तान्यपि नानुगु-ण्यमाचरन्ति । तारा-चंद्रिका-पूर्णचन्द्राणां मौक्तिक-धवलांशुक-वदना-भिन्नत्वे सिद्धेऽपि न सुन्दर्यां राकातादात्म्यं सेद्धुमीष्टे । प्रत्युत विपरीतं राकायां सुन्दरीतादूप्यम् , तेषां राकासंबन्धित्वात्सर्वमेव व्याकुलमिति ।

अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गो भवति । स च यथा मुखं चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादौ रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणतायाः । एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एव संसर्गः । क्कचिदनुयोगित्वमुखः, क्कचिच्च प्रतियोगि-त्वमुखः, विशेषणविशेष्यभाववैचित्र्यात्‍ । न तु मुखचन्द्र इत्यत्र मुखाभेदः

संसर्गः । तथा सति चन्द्ररूपकानापत्तेः, सुखरूपकापत्तेश्च । स्वप्रतियोगि-काभेद एव विशेषणसंसर्गो न तु स्वानुयोगिकाभेद इति तु दुराग्रहः । एवं च सौचन्यचन्द्रिकेत्यादौ वस्तुतः सौजन्याभेदो न सौजन्यस्य चन्द्रि-काविशेषणस्य संसर्गः, अपि तु चन्द्रिकाऽभेद एव । तथा च सौजन्य-निष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे, भड्रयन्तरेण सौजन्ये चन्द्रिकाऽभेदसिद्धौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परिते नानुपपत्तिः । शशिपुण्डरीकमित्यादावपि शशिनिष्ठाभेदप्रतियोगि पुण्डरीकमिति पर्यवसिते‍ऽर्थे पुण्डरीकाभेदस्य भानात्पुण्डरीकरूपकमव्या-हतम्‍ । एवमन्येष्वप्यवयवरूपकेषु बोध्यम्‍ । एवं सुविमलमौक्तिकतारे

· रूपकालंकारः - लक्षण १५

लक्षण १५

इत्यादावपि ताराद्यभेद एव मौक्तिकादिगतो मौक्तिकादीनां तारादि-विशेषणानां संसर्गीभन्राकारूपकस्य समर्थको भवतीति सर्वं सुस्थम्‍ ।

सोऽयमभेदो यत्रानुयोगित्वमुखस्तत्र रूपकस्य विधेयता । यत्र च प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिक्‍ ।

तर ‘ प्राचीसंघ्यासमुद्यन्महिमदिनमणेः ’ इत्यत्रारोप्यमाणयोः परस्परमारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः ।

प्रातिकूल्ये यथा-

‘ आनन्दमृगदावाग्निः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥ ’

यथा वा-

‘ कारुण्यकुसुमाकाशः कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः । यशःसौरभ्यलशुनः पिशुनः केन वर्ण्यते ॥’

एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्राति-कूल्यमुपमानयोस्तथैवोपमेययोश्च । अनुग्राह्यानुग्राहकभावः पुनरारोपयोर-विशिष्ट एव ।

· रूपकालंकारः - लक्षण १६

लक्षण १६

तथा-

‘ अयं सज्जनकार्पासरक्षणैकहुताशनः । परदुः खाग्निशमनमारुतः केन वर्ण्यते ॥’

अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके । एवं पदार्थरूपकं लेशतो निरूपितमेव ।

वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम्‍ ।

यथा हि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयम्‍ ।

‘ आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत्‍ । क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः ॥’

अत्रात्मनि तपोदानेषु चारोपविषयविशेषणतया बिंबभूतेषु, भास्करम्य सलिलक्षालनादीनां च विषयीविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाड्राम्‍ । ‘ नेदं रूपकम्‍ । रूपके च बिंम्बप्रतिबिम्ब-

· रूपकालंकारः - लक्षण १७

लक्षण १७

भावो नास्ति इति केनाप्यालंकारिकंमन्येन प्रतारितस्य दीर्घश्रवस उक्तिर-पद्धेयैव । ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात्‍ । अत्र यदि रूपकं नाड्रीकुरुषे मैवाड्रीकुर, तर्हि तत्रेवयथादि-शब्दप्रयोगे उपमामपि । एवं ‘ त्वयि कोपो महीपाल सुधांशाविव पावक : ’ इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि

तर्हि तत्रैवेवस्य निरासे ‘ त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ’
इत्यादौ रूपकमपि ।

तथा-

‘ कुड्‍कुमद्रवलिप्ताड्रः काषायवसनो यतिः । कोमलातपबालाभ्रः संध्याकालो न संशयः ॥ ’

इत्यादावपि विशिष्टरूपकं बोध्यम्‍ । त्वयि कोप इत्यत्र विषयिणः । स्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम्‍ । इह तु न तथेति विशेषः । न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या, अभेदस्य निश्चीयमान-त्वात्‍ । उत्प्रेक्षायां च सत्यां संभाव्यमानता स्यात्‍ । अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकविलोपापत्तेः ।

· रूपकालंकारः - लक्षण १८

लक्षण १८

अथ बोधो विचार्यते-

तत्र प्राञ्चः -“विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ, विषये तस्या‍ऽभेदेन संसर्गेण विशेषणतयान्वयः । एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुनवदभिन्नं सुखमिति धीः । अत एवालंकारभाष्यकारः ‘ लक्षणापरमार्थं यावता रूपकम्‍ ’ इत्याह । न च चन्द्रसदृशं मुखमित्युपमातोऽस्य को भेदः । बोधवैलक्षण्याभावेन विच्छित्ति-वैलक्षण्याभावात्‍ । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम्‍ । लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात्‍ ।

निरूढलक्षणातिरिक्ताया लक्षणायाः प्रयोजनवत्तानियमात्‍ । अभेदबुद्धेश्च वृत्तन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम्‍ ” इत्याहुः ।

नव्यास्तु-“ नामार्थयोरभेदसंसर्गेणान्वयम्य व्युत्यत्तिसिद्धत्वाच्चन्द्रा-
भिन्नं मुखमिति लक्षणां विनैव बोधः । फलस्यान्यथैवोपपत्तेर्लक्षणाकल्प-नस्यान्याय्यत्वात्‍ । किं च यदि च रूपके लक्षणा स्यान्मुख चन्द्र इत्यत्रो-पमितविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वम-न्यस्य रूपकत्वमिति व्याहतं स्यात्‍ । अपि च मुखं न चन्द्रसदृशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात । एवं देव-दत्तमुखं चन्द्र एव, यज्ञदत्तमुखं तु न तथा, अपि तु चन्द्रसदृशमित्यादौ नञर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वात्‍,‘ न चन्द्रसदृशश्चन्द्रसदृशम्‍ ’

इति बोधकदर्शनापत्तेश्च । नहि नञः फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्तः, एतदन्वयवेलायां तस्यानुपस्थितेः । तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम्‍ । यद्वा आहार्यान्यत्वस्येव शाब्दान्यत्वस्यापि बाध-निश्चयप्रतिबध्यतावच्छेदककोटौ निवेशः । सति च बाधनिश्चये तद्वत्ता-शाब्दबुद्धेरनुत्पादः, योग्यताज्ञानविरहात्‍ । सति च क्कचिदाहार्ये योग्य-ताज्ञाने तद्‍बुद्धेरिष्टत्वात्‍ । अत एव योग्यताज्ञानस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम्‍ । तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्तिः ।

· रूपकालंकारः - लक्षण १९

अपि च तद्नतधर्मवत्त्वबुद्धेः कथं तदभेदबुद्धिः फलं स्यात्‍ । नहि साधारणधर्मावच्छिन्नाभेदज्ञानस्य तत्तदसाधारणधर्मावच्चिन्नाभेदज्ञाने हेतुत्वं काप्यवगतम्‍ । घटपटयोर्द्रव्यत्वेनाभेदग्रहेऽपि घटत्वादिना भेदग्रहात्‍ । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपतिः फलं स्यात्‍ । प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्तिः ।

अत एव-

‘ कृपया सुधया सिञ्ज हरे मां तापमूर्च्छितम्‍ । जगज्जीवन तेनाहं जीविष्यामि न संशयः ॥’

इत्यादावमृताभिन्नत्वबोधे सत्येव कृपायाः सेके करणत्वेनान्वयः । तादृशसेकस्य जीवने हेतुत्वेन इति दिक्‍ ।

अथ कथं ‘ गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः ‘ इत्यत्र बोधः । श्रृणु-प्राचां तावल्लक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यताया अभे-दस्य वा तृतीयार्थस्यान्वयाद्नाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयम्‍, गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोऽयमिति वा धीः । लक्षणां विनैव अभेदसंसर्गेणान्वयवादिनां पुनरित्थम्‍-कविना स्वे़च्छामात्रादुपकल्पिता

असन्तोऽप्यन्तःकरणपरिणामात्मका अर्था उपनिबध्यर्न्त मुखचन्द्रादयः । तेषु च साधारणधर्माणामस्त्येव प्रयोजकत्वम्‍, तद्दर्शनाधीनत्वात्तन्नि-निर्मितेः । एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञानजन्य-ज्ञानप्रकारत्वं तृतीयार्थः, वह्लिमान्धूमादित्यादौ पञ्चम्यर्थ-तया तस्य कल्पनात्‍ । एवं च गम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोधः । तदिदं रूपकं विषयविषयिणोः सामानाधिकरण्ये

अपदार्थतया संसर्गः । यथा ‘ बुद्धिर्दीपकला ’-इत्यादौ । वैयधिकरण्ये च शब्दार्थतया क्कचिद्विशेष्यम्‍ ।

· रूपकालंकारः - लक्षण २०

लक्षण २०

यथा-

‘ कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-वागामिन्यखिलेश्वरे रतिपतौ तक्तालमस्याज्ञया ।
आस्ये पूर्णशशाड्कता नयनयोस्तादात्म्यमम्भोरुहां किं चासीदमृतस्य भेदविगमः साचिस्मिते तात्तिकः ॥’

अत्र शशाड्कता-तादात्म्य-भेदविगमशब्दैरभिधीयमानं रूपकं प्रथ-

मान्तविशेष्यतावादिनां मते विशेष्यम्‍ । क्तियाविशेष्यतावादिनां तु तत्रैव किंचिव्द्यत्यासेन निष्ठान्तक्रियादाने ।

क्कचिच्च विशेषणम्‍ । यथा-

‘ अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम्‍ ॥’
इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम्‍ ।

· रूपकालंकारः - लक्षण २१

लक्षण २१

एवं मुखचन्द्र इत्यादाबुपमितसमासे तावदुपमैव । विशेषणसमासे तु रूपकम्‍ । बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः ।

‘ मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती । शैवालिनी च केशैः सुरसेयं सुन्दरीसरसी ॥’

इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगि-त्वमुखस्यार्थवशादन्वये, नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । मीनवत्त्वं च स्वाभिन्नद्वारकम्‍ । एतत्स्फोरणायैव नयनाभ्यामित्युक्तम्‍ । मीनाभिन्ननयनवतीति तु पर्यवसितम्‍ । नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादित्युक्तमेव ।

साधारणधर्मश्चात्राप्युपमायामिव क्कचिदनुगामी क्कचिद्विम्बप्रति-

बिम्बभावमापत्रः क्कचिदुपचरितः क्कचिच्च केवलशब्दात्मा । सोऽपि क्कचिच्छब्देनोपात्तः, क्कचित्प्रतीयमानतया नोपात्तः ।

उपात्तोऽनुगामी यथा-

‘ जडानन्धान्पड्‍गून्प्रकृतिबधिरानुक्तिविकला-न्ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन्‍ । निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेजषमसि ॥’

अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषज भागीरथ्योः ।

· रूपकालंकारः - लक्षण २२

लक्षण २२

अयमवानुक्तो यथा-

‘ समृद्धं सौभाग्यं सकलवसुधायाः किमपि त-न्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।

श्रुतीनां सर्वस्वं सकृतमथ मूर्तं सुमनसां सुधासाम्राज्यं ते सलिलमशिवं न शमयतु ॥’

अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्व-परमोत्कर्षा-धायकत्वादिरनुपात्तः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्व-परमगोप्यत्व-निरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरण-क्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसड्रे निरूपितः ।

उपचरितो यथा-

‘ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्‍ । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥’

अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम्‍ ।

केवलशब्दात्मको यथा-

‘ अड्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलनि न संशयः ॥’

· रूपकालंकारः - लक्षण २३

लक्षण २३

अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्तः । आद्यो ह्मभग्नो द्वितीयस्तु भग्नः ।

अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम्‍ ।

यथा-

‘ पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ॥ ’

एवम्‍-

‘ प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि । मनोभवव्याधिमत्त्वान्मृगाड्कः खलु निर्मलः ॥’

इह श्लेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाहूइरूपकं निरवयवम्‍ । हेतुस्तु त्रिषु श्लिष्ट एव " एवमन्येऽपि प्रकारा झेयाः ।

‘ उल्लासः फुल्लपड्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलह्लदां कोकसीमन्तिनीनाम्‍ । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्रामयमुदयगिरिप्रान्ततः प्रादुरासीत्‍ ॥’

अत्रोपमेय उपमानस्य नारोपः, अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राञ्चः । एतन्मतानुसारेणैवास्माभिरपि लक्षितम्‍ । उच्छृड्खलाः पुनरारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम्‍ ।

· रूपकालंकारः - लक्षण २४

ननु-

‘ यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः । कारुण्यकुसुमाकाशः पिशुनः केन वर्ण्यते ॥’

इत्यत्र लशुनहुताशनाकाशैः पिशुनस्य किं साधर्म्यम्‍, येन तेषामस्मिन्‍-रूपकमुच्यत इति चेत्‍, यशःसौरभ्ययोः शान्तिशैत्ययोः कारुण्यकुसुमयोश्च तादूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभाववत्त्वमे-तत्‍ । एवमपि लशुनखलयोस्तादूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेन

यशः सौरभ्ययोस्तादूप्यं सिद्धयेत्‍, यशःसौरभ्ययोस्तादूप्यसिद्धौ च यशो-रूपसौरभ्यशून्यत्वेन लशुनखलयोस्तादूप्यम्‍, इत्यन्योन्याश्रयो नाशड्क-नीयः । सकलसिद्धेः कल्पनामयत्वेन, कल्पनायाश्च स्वप्रतिभाधीनत्वात्‍ । शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकामिः शिलेष्टकाभिर्गृहविशेष-निर्माणाच्च ।

अथास्य ध्वनिः-
तत्र शब्दशक्तिमूलो यथा-
‘ विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले माड्रल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि ।

दुर्वृत्ते शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥’

अत्र शक्तिनियन्त्रणेऽपि बुधत्वशुक्तत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते ।

· रूपकालंकारः - लक्षण २५

यथा वा-

‘ अविरलविगलद्दानोदकधाराऽऽसारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥’

अर्थशक्तिमूलो यथा-

‘ कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्‍ । प्रौढिं भजन्तु कुभुदानि मुदामुदारा-मल्लासयन्तु परितो हरितो मुखानि ॥’

अत्र त्वदीयमाननं कलड्क-चन्द्रिका-विशिष्टचन्द्राभिन्नमिति रूपकं कुमु-दविकासादिना धन्यते, न तु भ्रांतिमान्‍ । कुमुदानां हरितां चाचेतन-त्वात्‍ । न चाचेतनेषु मुदामसंभवादवश्यं कुमुदादिषु चेतनत्वारोपेण भा-व्यम्‍, तेन च भ्रान्तिसिद्धिरिति वाच्यम्‍ । मुत्पदस्य विकासे लाक्षणिकत्वात्‍ ।

इदं वा विविक्तमुदाहरणम्‍-
‘ तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम्‍ । वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥’

इहापि वदनं चन्द्र इति गम्यते ।

· रूपकालंकारः - लक्षण २६

आनन्दवर्धनाचार्यास्तु-

“ प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदधा-न्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बघ्नाति भूयः किमिति दधत इवाभाति कम्पः पयोधेः ॥’

अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनादूपकध्वनिः ” इत्याहुः । तच्चिन्त्यम्‍ । अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्प्यते । तच

प्रकृते राजविशेष्यिकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रांतिमेवाक्षिपति, न रूपकम्‍ । तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात्‍ । कविजलधिगतत्वेन वैयधिकरण्याच्च । अज्ञातमेव केबलं विष्णुतादात्म्यं जलधेः कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः ।

अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिड्रभेदादयो दोषाः संभवन्ति ।

यथा-

‘ बुद्धिरब्धिर्महीपाल यशस्ते सुरनिम्रगा । कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥’

अत्र विषयविषयिणोर्लिड्रादिकृतं वैलक्षण्यं तयोस्तादूप्यबुद्धौ प्रतिकूलम्‍ । क्कचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः । यथा ‘ संतापशान्तिकारित्वाद्वदनं तव चन्द्रमाः ’ इत्यादौ हेतुरूपके ।

इति रसगड्राधरे निरूपितं रूपकप्रकरणम्‍ ।

*********

रसगड्गाधरः - परिणामालंकारः

· परिणामालंकारः - लक्षण

लक्षण १

विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातन्त्र्येण, स परिणामः ॥

अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपका-दस्य भेदः ।

अयमुदह्लियत्ते-

‘ अपारे संसारे विषमविषयारव्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात्संतापं हरिनवतमालस्तिरयतु ॥’

अत्र भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम्‍ । मार्ग-

श्रान्तजनसंतापहारकत्वाद्रमणीयशोभाधारत्वाच्च तमालो विषयितयोपात्तः । अयं समानाधिकरणो वाक्यगः ।

समासगो यथा-

‘ महर्षेर्व्यासपुत्रस्य श्रावं श्रावं वचःसुधाम्‍ । अभिमन्युसुतो राजा परां मुदमवाप्तवान्‍ ॥’

व्यधिकरणो यथा-

‘ अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन । एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात्‍ ॥’

परिणामालंकारः - लक्षण

लक्षण २

अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि

लभ्यते । तच्चारोप्यमाणशुक्लपक्षरजन्याः म्बात्मना बाधितम्‍, योषारूपेण तु संगच्छत इति भवति परिणामः । स च परस्परसापेक्षबहुसंघात्म-कतया सावयवः । तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयार्ध-गतश्चैकः समानाधिकरणः ।

यच्चाप्पयदीक्षिर्तैर्वैयधिकरण्येन परिणामे उदाह्लतम्‍-तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककंधराय गिरिजासड्रैकश्रृड्रआरिणे नागैः कडकणिने नगेन गृहिणे नाथाय सेय्म नतिः ॥’

यथा वा-

‘ द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प-श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व-
न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥’ इति ।

अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासड्रैकश्रृड्रारिणि भवे कविकर्तृका नतिः प्रक्तान्ता । श्रृडआरिता च शेखरादीनि भूषणान्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगः न स्वरू-पेण । एवं दृशोऽपि तिलकरूपयेति रूपकमेव शुद्धं भवितुमर्हति । ननु परिणामे विषयाभिन्नत्वेन विषय्यवतिष्ठत इत्युक्तम्‍, प्रकृते च विषय-

· परिणामालंकारः - लक्षण

लक्षण ३

वाचकेभ्यो नद्यादिशब्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्‍, न । विषयाभिन्नत्वेन विष-यिणो भाने‍ऽपि तेन रूपेण तस्यानुपयोगात्‍ । द्विर्भावः पुष्पकेतोरिति पद्ये‍ऽपि कोविदानन्दजनन-जगदुत्कर्षौ कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादितादूप्येण यथा संभवति न तथा केवलस्वरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरो‍ऽयं कल्पतरु-श्चिन्तामणिर्द्वितीयः कर्ण इन्द्रश्व भूगतोऽयमन्यो दारिद्यमस्माकं परिहरि-ष्यति । हरिः खल्वयं संसार्म हरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दो-

‌ऽप्यारोप्यमाणैः कल्पवृक्षापिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः ? ।

अलंकारसर्वस्वकारस्तु-‘ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः, ’ इति सूत्रयित्वा ‘ आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावाप्तकृतोपर ञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाण-स्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति’ इति व्याख्यातवान्‍ । अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोस्वित्प्रकृतविषयात्मतया उपयोगो‍ऽर्थः ? न तावदाद्यः ।

· परिणामालंकारः - लक्षण

लक्षण ४

‘ दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाड्‍कुरकण्टकाग्रै-र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥’

इति तदुदाह्लतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथा-रूपकार्ये उपयोगेनातिप्रसड्रात्‍ । न द्वितीयः ।

‘ अथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥’

इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसंघटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः, न तु विषयवचोरूपतया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम्‍ । तस्मादस्मदुक्तमेव व्यधिकरणपरिणमस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदो‍ऽपि मीनवती नयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः ।

· परिणामालंकारः - लक्षण

लक्षण ५

केचित्तु “ क्कचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारो-प्यमाणाभिन्नतयावतिष्ठते, तत्रारोप्यमाणपरिणामः । यथा-‘ वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ’ । अत्र वदनमिन्द्वभिन्नतयावतिष्ठते, केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगत्‍ । क्कचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते, तत्र विषयपरिणामः । यथा-‘ वदनेनेन्दुना तन्वी स्मरताप्म विलुम्पति ’ । अत्रेन्दुर्वदनाभिन्न-तयावतिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात्‍ । एवं च परिणाणद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदक-विष-यितावच्छेदकान्यतरपुरस्कारेण निश्वीयमानविषयिविषयान्यतरत्वस्य

तल्लक्षणत्वात्‍ । अत एवोक्तम्‍-‘तदूपकमभेदो य उपमानोपमेययोः’ इति । तस्मान्न रूपकात्परिणामो‍ऽतिरिच्यते” इति वदन्ति ।

· परिणामालंकारः - लक्षण

लक्षण ६

अथ बोधः-
हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धीः । तथा श्रावं श्रावं वचःसुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचःसुधामिति रूपके तु वचोनिष्ठाभेदप्रतियोगिनीं सुधामिति बुद्धिः । एवं च ‘ वदनेनेन्दुना तन्वी समरतापं विलुम्पति ’ इति व्यस्तपरिणामे ‘ वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ’ इति व्यस्तरूपके च बोधवैलक्षण्यम्‍ ।

तथा-

‘ शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु । ह्लदये धारणाद्यस्य न पुनः खेदसंभवः ॥’
इति परिणामे, श्रृण्विति विहाय पिबेति कृते तत्रैव रूपके, ‘ विद्धा मर्मणि वाग्बाणैर्घूर्णन्ते साधवः खलैः । सद्भिर्वचोमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ॥’
इति रूपके च बोधव्यवस्थितिः । तथा ‘ अहीनचद्ना लसताननेन

ज्योत्स्नावती चापि शुचिस्मितेन ’ इति व्यधिकरणपरिणामे‍ऽभेदस्य तृती-यार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धीः । मीनवती नयनाभ्या-मित्यत्र पु सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्धः । तस्य च मीनयोर्नयनाभेदारोपेणासमर्थनान्नयनयोर्मीनाभेदारोपो मृग्यः । स च तृतीयायाः प्रकृत्यर्थाभेदार्थकतायां न संभवतीति यथाकथंचित्तस्याः प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम्‍ । तेन नयननिष्ठाभेदप्रति-योगिमीनयुक्तेति धीः । एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्याभानान्न परिणामः, अपि तु रूपकमेव । इयमेव सरणिः ‘ नद्या शेखरिणे दृशा

· परिणामालंकारः - लक्षण

लक्षण ७

तिलकिने-’ इति प्रागुक्ताप्पयदीक्षितदत्तोदाहरणे, ‘ वचोभिरुपायनं चकार-’ इत्यलंकारसर्वस्वोदाहरणे च बोध्या । यदि पुनरारोप्यमाणे यथा-कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोग-स्तदा ‘ प्रवृत्तोऽस्याः सेक्तुं ह्लदि मनसिजः प्रेमलतिकाम्‍ ’ इति तदुदाह्लत-रूपकस्य परिणामतापत्तिः, प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक्‍ ।

अथ परिणामध्वनिर्विचार्यते-

तत्र यत्तावदप्पयदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्‍-

“ तथाहि-

‘ नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्तम्य यशोयस्य विजृम्भते ॥’

अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्तमणरूप-कार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते इति, तदयुक्तम्‍ । तत्र ह्यारोप्य-माणस्य नृपस्य नृपात्मनैवाक्तमणोपयोगः , न चन्द्रात्मना ” इति ॥ तदसत्‍ । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्‍, येन यशः कर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात्‍ । अपि तु निर-तिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिवि-शेषः । आक्रमणं तु न्यग्भाव एव । एवं चैवंविधविजृम्भणे चन्द्रकर्मकमे-वाक्तमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यड्रयतायामुदाहरणम्‍ । यदपि तैरेव परोक्तिं दूषयित्वा स्वयं परिणामस्य व्यड्रयतायामुक्तम्‍-

“-‘ चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ॥’

· परिणामालंकारः - लक्षण

लक्षण ८

अत्र चिरतापार्तं प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तन्निषेवणादयं तव तापः शान्तिमे ष्यतीति परिणामो व्यज्यते ”
इति, तत्तु-च्छम्‍ । ‘ आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः’ इति स्वयमेवोक्तम्‍ । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्‍ । अपि त विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयतादूप्यम्‍ । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव तापः शान्तिमेष्य-

तीति प्रकृतोपयोगिताया व्यड्रयत्वे‍ऽपि तदवच्छेदकीभूतस्य विषयिणि विषयतादूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात्‍ शक्यसंसर्गत्वाद्वा सर्वथैव न व्यड्रयत्वं वक्तुमुचितम्‍ ।

इदं तूदाहरणं युक्तम्‍-

‘ इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना । ममायं विषमस्तापः केन वा शमयिष्यते ।’

अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात्‍ । न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुम शक्या, तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्य-यात्‍ । यथा ‘ कमलं कनकलतायाम्‍ ’ इत्यादौ कनकलताऽभिन्नायां वनितायां कमलभिन्नं सुखमिति । इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये न पुनर्विरह-तापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषया-भिन्नत्वं मृग्यम्‍ । तच्च व्यड्रयतायामेव भवतीति परिणामध्वनिरेवायम्‍, नातिशयोक्तिः । अयं त्वर्थशक्तिमूलः ।
शब्दशक्तिमूलपरिणामध्वनिर्यथा-

‘ पान्थ मन्दमते किं वा संतापमनुविन्दसि । पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥’

अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यक-स्मरतापवत्तावैशिष्टयबुद्धौ सत्यां सह्लदयस्य तादृशतापशामकरमणीस्तन-रूपविषयतादूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेयाः ।

इति रसगड्राधरे परिणामप्रकरणम्‍ ।

*********

रसगड्गाधरः - ससंदेहालंकारः

· ससंदेहालंकारः - लक्षण १

अथ ससंदेहः-

साद्दश्यमूला भासमानविरोधका समबला नानाकोटयवगाहिनी धी रमणीया ससंदेहालंकृतिः ॥

‘ अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्‍ । परिणेष्यति वा न वा युवायं निरपायं मिथिलधिनाथपुत्रीम्‍ ॥ ’

अत्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्ति-वारणाय सादृश्यमूलेति । सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन ‘ सिंहवत्प्रा-न्तरं गच्छ गृहं सेवस्व वा श्ववत्‍ ’ इत्युपमाविकल्पे वाकारप्रतीतविरोधक-प्रान्तरगमन-गृहसेवन-रूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नाति-प्रसड्रः । तस्य सादृश्यज्ञानरूपत्वात्‍ । मालारूपकातिप्रसड्रवारणाय

भासमानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसाम-ग्रीत्वार्थकम्‍ । एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थं नानेति । स्थाणुर्वा पुरुषो वेति लैकिकसंशयनिवृत्तये रमणीयेति, चमत्कारिणीत्यर्थः । एतच्च विशेषणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम्‍ । एतद्विशेषणद्वयस्य सादृश्यभूलत्वस्य चाभावे संशयमात्रमेव । यद्वा ‘ सादृश्यहेतुका निश्चयसंभावनान्यतरभिन्ना धी रमणीया संशयालंकृतिः ’ ।

· ससंदेहालंकारः - लक्षण २

लक्षण २

सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा ।

आद्या यथा-

‘ मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥’

द्वितीया यथा-

‘ तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।

इति रघुपतेः कायच्छायाविलोकनकौतुकै- र्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥’

· ससंदेहालंकारः - लक्षण ३

लक्षण ३

तृतीया यथा-

‘ चपला जलदाच्च्युता लता वा तरुमुख्यादिति संशये निमग्नः ! गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥’

एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेशः । एवं च-

‘ तं दृष्टवान्प्रथममद्भुतधैर्यवीर्य- गामभीर्यमक्षणविमुक्तसमीपजानिम्‍ । वीक्ष्याथ दीनमबलविरहव्यथार्तं रामो न वायमिति संशयमाप लोकः ॥’

इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलत्वाभावान्न संशयस्यालंकार-त्वम्‍ । एवभारोपमूलोऽयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते ।

यथा-

सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं लिप्त्म वा किमु कुड्‍कुमद्रवभरैरेतन्महीमण्डलम्‍ । संदेहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषां व्रातः प्रातरुपातनोतु भवतां भव्यानि भासां निधेः ॥’

अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगत-कड्कणादिरिव मुख्यतयालंकृतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रिय-माणे किरणव्राते सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति । स च न सारोपः । विषयविषयिणोस्तदनुकूलविभक्तेरभावात्‍ । अतः सिन्दूरत्वादिना संशयधर्मी किरणव्रातोऽध्यवसीयत इति । अत्र विचार्यते-सिन्दूरैः परि-पूरितं किमथवेति पद्ये तावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जग-न्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते । तस्मिंश्च संशये किमिदं सिन्दूररजो वा स्यात्‍, आहोस्विल्लाक्षारसः उताहो कुड्‍कुमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते । यथा पुरोवर्तिनी तुरगे स्थाणुर्वा पुरुषो वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये । एवं च सूर्यकिरणधर्मिकः

संशयो गुणीभूतो व्यञ्जनागभ्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्ववसानमूलता संशयस्य ? एतेनाध्यवसानभूलतां संशयस्य निरूपयतो विमर्शिनीकार-स्योक्तिरपास्ता ।

· ससंदेहालंकारः - लक्षण ४

लक्षण ४

अप्पयदीक्षितास्तु-
‘ अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृड्रारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥’

इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम्‍ । प्रकारम्तु वर्णनीयवनिता-स्रष्ट्टत्वमेकमेवेत्यनेककोटिकत्वाभावाद्विरोधेन परस्परप्रतिक्षेपकतया निब-द्धानेककोटयवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः । तन्न । अत्र हि अस्याः सर्गविधौ यः प्रजापतिरभूत्स किं नु चन्द्रः, किं नु मदनः, किं वा नु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिक : संशयो युक्तो वक्तुम्‍ । एवं च प्रजापतेः प्रथमोद्देशो न स्यात्‍ । यदपि, ‘ साम्यादप्रकृतार्थस्य या धीर-

नवधारणा ’ इति प्राचां लक्षणं महता प्रबन्धेन त एव दूषितवन्तः, तदपि न । साम्यनिमित्ता निश्चयसंभावनान्यतरभिन्ना या धीरिति तदर्थ-करणे दोषाभावात्‍ । निश्चयत्वं तु संशयाघटितमेव निर्वचनीयम्‍ । उक्तेषूदाहरणेषु सोऽयं संशयालंकारः स्वशब्दवेद्यत्वाद्वाच्यः ।

· ससंदेहालंकारः - लक्षण ५

लक्षण ५

लक्ष्यो यथा-

‘ साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा । रामस्य रामामवलोक्य लैकेरिति स्म दोला रुरुहे तदानीम्‍ ॥’
अत्र पर्यायेणोभयकोटयालम्बनतया दोलासादृश्यात्संशयोऽत्र दोला-शब्देन लक्ष्यते ।

व्यड्रयोऽयं यथा-

‘ तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्‍ । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥’

अत्र कमलधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः कमल-मिदमिदं वेति भ्रमरगतः संशयो व्यड्रयः । न च कमलाभेदबुद्धेर्भ्रमर-प्रवृत्त्युपायतयापेक्षणादिदंपदार्थाभेदबुद्धिर्निरर्थिकेति वाच्यम्‍ । एकपदार्थ-धर्मिकापरपदार्थाभेदबुद्धेरपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकत्वेन

कमलाभेदबोधसाम्राज्यात्‍ । कमलत्वमेतद्‍वृत्ति तद्‍वृत्ति वेति संशयाकारः । सोऽय्म संशयध्वनिः ।

· ससंदेहालंकारः - लक्षण ६

लक्षण ६

‘ आज्ञा सुमेषोरविलड्घनीया किं वा तदीया नवचापयष्टिः । वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम्‍ ॥’
यद्यप्यत्रापि वाचकशब्दाभावाव्द्यड्रय एव भवितुमर्हति संशयः , तथापि विषयनिरूपणेन स्फुटमावेदितत्वान्न ध्वनिव्यपदेशस्य हेतुः । अपि

तु गुणीभूतव्यड्रयप्रभेदव्यपदेशस्य । अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः । यत्तु चित्रमीमांसायां संशयघ्वन्युदाहरणप्रसड्रे अप्पयदीक्षिताः-

“-‘ कांचित्काञ्चनगौराड्रीं वीक्ष्य साक्षादिव श्रियम्‍ । वरदः संशयापन्नो वक्षः स्थलमवैक्षत ॥’

अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकार-ताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संश-याकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यड्रयत्वात्संदेहालंकारध्वनिरत्रेति ।

यथा-

‘ दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्ब मनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥’

इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थं लज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्ति-रूपो ध्वनिः ” इत्याहुः , तदेतद्‍ध्वनितत्त्वविज्ञैरुपहसनीयमेव ।

तथाहि । संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थ-संबन्धावगाहि ज्ञानं साक्षा देव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाड्क्षायां वक्षःस्थलावेक्षणेन वक्षःस्थलस्थैव लक्ष्मीस्ततो‍ऽवतीर्य

किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमानः शक्त्या संशयशब्द-निवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति । एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादिविषयभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थ-संशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम्‍ । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात्‍ । तथा च द्वितीयोद्दयोते–
“ शब्दार्थशक्त्याक्षिप्तो‍ऽपि व्यड्रयोऽर्थः कविना पुनः यताविक्तियते स्वोक्त्या सान्यैवालंकृतिर्ध्वनेः ॥’’

· ससंदेहालंकारः - लक्षण ७

इति सूत्रयित्वा-

“ संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्‍ ॥”
अत्र संकेतकालमनस्म ज्ञात्वा लीलापद्मं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनि-मार्गादयमपर एव गुणीभूतव्यड्रयस्य मार्गः ।

यथा वा-

‘ अम्बा शेते‌‍ऽत्र वृद्धा परिणतवयसामणग्रीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याह्लतिव्याजपूर्वम्‍ ॥’

अत्र निःशड्कं रन्तुमायाहीत्यर्थश्चरणत्रयव्यड्रयो‌ऽप्यवसरव्याह्लतेर्व्या-जत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः ”
इत्याहुरानन्दवर्धनाचार्याः ।

तृतीयोद्दयोते च गुणीभूतव्यड्रयनिरूपणे ‘ व्यड्रयस्यार्थस्य यदि मना-गप्युक्त्या प्रकाशनं तदा गुणीभाव एव शोभते । तस्माद्यत्रोक्तिं विना व्यड्रयो‍ऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्याद्‍ध्वनित्वम्‍ ’ इति तद्युक्ति-विवेचने‍ऽभिनवगुप्तपादाचार्याः ।

एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यड्रयस्य वा मनागुक्तिसंस्पर्श-मात्रेण ध्वनित्वं निराकुर्वाणाः ‘ कांचित्काञ्चनगौराड्रीं-’ इति पद्ये शब्दा-भिहितव्यड्रये ध्वनित्वं कथमिव स्वीकुर्वीरन्‍ । एतेन ‘ दर्पणे च परिभोग-

दर्शिनी ’ इति प्रागुक्तपद्मे लज्जाध्वनित्वं यद्दीक्षितरैभ्यधीयत तदप्यपास्त मिति दिक्‍ ।

· ससंदेहालंकारः - लक्षण ८

लक्षण ८

अस्मिंश्च संशये नानाकोटिषु क्कचिदेक एव समानो धर्मः । क्कचित्‍ पृथक्‍ । सोऽपि क्कचिदनुगामी, क्कचिद्विम्बप्रतिबिम्बभावमापन्नः, क्कचिद- निर्दिष्टः, क्कचिन्निर्दिष्टः । तत्र ‘ मरकतमणिमेदिनीधरो वा ’ इति प्रागुदाह्लत-पद्ये श्यामाभिरामत्व्म धर्मिणो रामस्य कोटयोश्च तमालमरकतभूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः ।

स एव निर्दिष्टो यथा-

‘ नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्‍ । सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥’

अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मो निर्दिष्टः । पृथगनु-गामी निर्दिष्टो यथा प्रागुदाह्लते ‘ आज्ञा सुमेषोः ’ इत्यादौ ।

यथा वा-

‘ संपश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम्‍ । सौदामिनी वा सितयामिनी वेल्येवं जनानां ह्लदि संशयो‍ऽभूतू ॥’

अत्रातिमात्रतनुत्वं सौदामिन्या, शोभाभिराभासितसर्वलोकात्वं च सितयामिन्या सह कान्तायाः पृथगनुगामी समानो धर्मः । अत्रैव पूर्वार्धगतविशेषणद्वयत्यागे स एवानिर्दिष्टः । बिम्बप्रतिबिम्बभावमापन्नो यथा ‘ तीरे तरुण्या वदनं सहासं-’ इत्यादौ प्रागुक्ते ।

· ससंदेहालंकारः - लक्षण ९

यथा वा–

‘ सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी । सभुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशय; ॥’ अत्र पल्लवफुल्लपद्मे पाण्याननयोः प्रतिबिम्बकोटयोः पृथड्‍ निर्दिष्टे ।

‘ इदमुदधेरुदरं वा नयनं वात्रेरुतेश्वरस्य मनः । दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥’

अत्र तदानीमिति प्रकरणसाहाय्यवशाहशरथगृहेण धर्मिणाक्षिप्तस्य तत्कालजातस्य भगवतो रामस्य जलघ्युदरादिसंशयकोटित्रयाक्षिप्तः साधारणश्चन्दः प्रतिबिम्बः । इमौ च बिम्बप्रतिबिम्बावनिर्दिष्टावपि

प्रतीयमानौ सादृश्यं प्रयोजयतः । एतेन ‘ अनुगाम्येव धर्मो लुप्तः संभवति, न तु बिम्बितः ’ इति वदन्तः परास्ताः । इति दिक्‍ ।

अयं च क्कचिदनाहार्यः , क्कचिदाहार्यः । यत्र हि कविना परनिष्ठः संशयो निबध्यते प्रायशस्तत्रानाहार्यः । यथा ‘ तीरे तरुण्याः ’ , ‘ मरकत-मणिमेदिनीधरो वा ’ इत्यादिषु प्रागुदाह्लतेषु पद्येषु । तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात्‍ । यत्र च स्वगत एव तत्रा‍ऽऽहार्यः ।

· ससंदेहालंकारः - लक्षण ११

Tags : grammer1rasagangadhar2sanskrit3रसगंगाधर4व्याकरण5संस्कृत6

!\“http://www.khapre.org/portal/service/themes/red/images/menu.search.gif\”7SEARCH

लक्षण ११

यथा-

‘ अलिर्मृगो वा नेत्रं वा यत्र किंचिद्विभासते । अरविन्दं मृगाड्को वा मुख वेदं मृगीद्दशः ॥’

अत्र वक्तुः कवेस्तत्त्वज्ञतया संशयावाहार्यावेव ।

पतम्परितोऽपि चायं संभवति-

‘ विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी-दावाग्निः किमहो महोज्ज्वलयशः शीतांशुदुग्धाम्बुधिः । किं वानड्रभुजड्रदष्टवनिताजीवातुरेवं नृ णां केषामेष नराधिपो न जनयत्यल्पेराः कल्पनाः ॥’

अत्राप्याहार्यः ।
क्कचित्परनिष्ठोऽपि कविना निबध्यमान आहार्यो भवति ।

यथा-

‘ गगनाद्नलितो गभस्तिमानुत वाऽयं शिशिरो विभावसुः । मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥’

अत्र मुनेर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव । यद्यप्यत्र ‘ मुनीनां च मतिभ्रमः ’ इत्युक्त्या तस्यानाहार्य एव संशयो वक्तुं शक्यः , तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपकोटि-द्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात्‍ । इह च कोटयोर्धर्मिसादृश्यदाढर्यायोष्णत्वगगनगतत्व-

रूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्व्म चारोप्यते वक्त्रा । एवमादयोऽन्ये‍ऽपि प्रकाराः सुधीभिः स्वयमुन्नेयाः ।

इति रसगड्राधरे ससंदेहप्रकरणम्‍ ।

*********

रसगड्गाधरः - भ्रान्तिमान् अलंकारः

· भ्रान्तिमान् अलंकारः - लक्षण १

सद्दशे धर्मिणि तादात्म्येन धर्म्यन्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च पशुपक्ष्यादिगता यस्मिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान्‍ ॥

अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहार-स्त्वौपचारिकः । तथा चाहु -

प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥’ इति ।

लक्षणे मीलित-सामान्य-तद्‍गुण-वारणाय धर्मिग्रहणद्वयम्‍ । रूपकवित्ति-वारणायानाहार्य इति कविभिन्नगत इति वा । संशयवारणाय निश्चय इति । इदं रजतमिति रड्रविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानि-र्वर्तित इत्यर्थः । रड्रे रजतमिति बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तितत्वम्‍ ।

‘ अकरुणह्लदय प्रियतम मुञ्चामि त्वामितः परं नाहम्‍ । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥’

इत्यत्र नायिकासंदेशहरस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति । न चात्रोन्मादस्य प्राधान्यात्सकलालंकारसाधारणे-नोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम्‍ । तस्यापि पार्यन्तिकवि-प्रलम्भोपस्कारकत्वात्‍ । यद्बा संदेशहरात्संदेशं श्रुतवतो नायकम्य स्वमित्रं प्रति यदेदं वाक्यं ‘ अकरुणह्लदय-’ इत्यादि, तदास्मिन्नेव पद्ये सेति पदव्यड्रयायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसड्रापत्तेः सादृश्य-प्रयोज्यत्वमावश्यकम्‍ । लक्षणे चात्रैकत्वं विवक्षितम्‍ । अन्यथा वक्ष्य-

माणानेकग्रहीतृकानेकप्रकारकैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेऽति-प्रसड्रापत्तेः । अत एवैकवचनमीप सार्थकम्‍ ।

· भ्रान्तिमान् अलंकारः - लक्षण २

लक्षण २

उदाहरणम्‍-

‘ कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने ॥’

अत्र चातकगतहर्षोपस्कारकतया तद्नता भ्रान्तिरलंकारः । अत्रैव यदि परिफुल्लपतत्रपल्लवैर्भुमुदे चातकपोतकैर्वने ’ इत्युत्तरार्धं निर्मीयते तदायमेव भ्रातिध्वनिः ।

यच्चाप्पयदीक्षितैर्लक्षणमुक्तम-

‘ कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥ ’ इति ।

‘ तत्र कविसंमतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वाक्सं-दर्भे स भ्रान्तिमान् ’ इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थं पिहि-तात्मनीत्युच्यते । न चैतद्युक्तम्‍ । नहि रूपकवाक्ये आरोप्यमाणस्यानु-भवो वर्णते, किं तु तस्माज्जायते । न चात्रानुभवान्तं भ्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेर्वारणाय विषये पिहि-तात्मनीति विशेषणमिति वाच्यम्‍ । अनुभवत्वघटितस्य भ्रान्तिलक्षण-स्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृत्तेः । यदि च रूपकपदं रूपक-बुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदापि विषयतावच्छेदकानवगा-हिनि ‘ मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ’ इति संशयेऽतिप्रसड्रात्‍, ‘ कमलमिति चञ्चरीकाश्चन्द्र इति चकोरास्त्वन्मुख-

मनुधावन्ति ’ इति भ्रांतिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्‍, नह्येतावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्याप्तिकं कर्तुं युक्तम्‍ । यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाह्लतम्‍

· भ्रान्तिमान् अलंकारः - लक्षण ३

लक्षण ३

‘ शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै-स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै-रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम्‍ ॥ ’ इति ।

तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमय-

सिद्धम्‍ , येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम्‍ । अपि च धर्मिणि कलशरूप-कानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजकमेव स-ह्लदयानाम्‍ । नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं शोभते । यथा ‘ मुखकमलं तव चन्द्रवत्प्रतीमः ’ इति प्रागेव निवेदनात्‍ । प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । ‘ तत्रासोलासलीलाः किसलयमनसा पाणयः कीरदष्टाः ’ इत्यत्र विधेयाविमर्शाद्विधेयान्तरमा-काड्क्षितम्‍ । कीरैर्दष्टा इति तु भाव्यम्‍ । जाता इत्यध्याहारेऽपि विवक्षित-

स्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत । एवं ‘ तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः ’ इत्यत्र न तावत्पिकनिनदास्ताडन-योग्याः काकानाम्‍, येन तद्धिया आलपन्त्यस्तैस्ताडयेरन्‍ । नापि पिकनि-नदभ्रम आलपन्तीषु संभवति । संभवन्वा न सादृश्यमूलः । पिकनिकर-धियेति तु भाव्यम्‍ । अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिक-बुघ्द्युत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति

· भ्रान्तिमान् अलंकारः - लक्षण ४

लक्षण ४

चेत्‍, नैवम्‍ । तथाप्रतीतेरसिद्धेः । ‘ चोरबुद्धया हतः साधुः ’ इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः । एवं ‘ दान्तिबुद्धया हतः शूरैर्वराहो वनगोचरः ’ इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेर्वराहवृत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या दन्तबु-द्धयेतिकृते बोधकदर्थनैव । किं च पिकानां हि कूजितादिशब्दैरेव शब्दौ वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः । तथा प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथंचिव्द्यवहितमपि जातान्वयमपि

त्वदरिमृगदृशामिति षष्टयन्तमन्वेतुं शक्नुयात्‍ , न तु तृतीयचरणस्थे आल-पन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्‍ । विभक्तिविपरिणतावपि प्रक्तमभड्रासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्न निर्मितमेव । दीक्षितैस्तु भ्रान्त्यलंकारांशमात्रमादायोदाह्लतमिति दिक्‍ ।

यत्त्वलंकारसर्वस्वकृता लक्षितम्‍ , ‘ सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्‍ ’ इति, तन्न । प्रागुक्ते संशयालंकारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसड्रात्‍ । प्रतीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसड्रात्‍ । विषयतावच्छेदकान-वगाहित्वेन निश्चयो विशेषणीय इति चेत्‍, विशेष्यताम्‍ । तथाप्यतिशयो-क्तिवित्तावतिप्रसक्तिरवारितैव । अनाहार्यत्वेन निश्चयविशेषणत्वे पुनरस्म-दुक्त एव पर्यवसितिः , मतुबर्थासंगतिश्च । तत्र ‘ कनकद्रवकान्तिकान्तया ’

इत्यत्र सीतातडितोर्बिम्बप्रतिबिम्बभावः । युतत्वमिलितत्वयोश्च शुद्ध-सामान्यरूपता ।

‘रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ॥’

अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम्‍ ।

इति रसगड्राधरे भ्रान्तिमत्प्रकरणम्‍ ।

*********

रसगड्गाधरः - उल्लेखालंकारः

· उल्लेखालंकारः - लक्षण १

लक्षण १

विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाःकोकाः क्तन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥’

अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लेककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसड्रवारणायानेकप्रकारक-मिति । ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जातौ । अनेक-गृहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः । तेन द्वयोर्बहूनां वा ग्रहणं निमित्त-वशादिति तु वस्तुकथनमात्रम्‍ ।

उदाहरणम्‍-
‘ नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे-त्युदारतरसिद्धिदेत्यखिलसिद्धसंघैरपि । हरेस्तनुरिति श्रिता मुनिमिरस्तसड्रैरियं तनोतु सम शं तनोः सपदि शन्तनोरड्रना ॥’

अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदा-त्वाद्यनेकप्रकारकग्रहणसमुदायो गड्राविषयकरतिभावो पस्कारकः । शुद्ध एवात्रायमुल्लेखालंकारः , रूपकाद्यमिश्रणात्‍ ।

संकीर्णोऽपि दृश्यते । यथा-
‘ आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चालि पूर्णमृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ’

· उल्लेखालंकारः - लक्षण २

अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः संकीर्णः

‘ वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्येति मतं मम ॥’

अत्र विषयतावच्छेदकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपह्लुत्या संकीर्णः ।

अप्पयदीक्षितास्तु-“ एवमपि यदि-‘ कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम्‍ ॥’

इत्यपह्‍नवोदाहरणविशेषेऽतिव्याप्तिः शड्कया, तदानीनमेकधोलेखनं

निषेधास्पृष्टत्वेन विशेषणीयम्‍ । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससाम-र्थ्याद्नम्यमाननिषेधमिति नातिव्याप्तिः ” इत्याहुः । तन्न । ‘ द्विविधश्चाय-मुल्लेखः शुद्धोऽलंकरान्तरसंकीर्णश्च’ इत्युक्त्वा “ श्रीकण्ठजनपदवर्णने, ‘ यस्तपोवनमिति मुनिभिरगृह्यत’ इत्यादौ शुद्धः , ‘ यमनगरभिति शत्रुभिः, वज्रपञ्जरमिति शरणागतैः’ इत्यादौ भ्रान्तिरूपकादिसंकीर्णः ” इति स्वय-मेवोक्तत्वात्‍ । इहाप्यपह्लुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात्‍ । यदि चैवंविधापह्लुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा-

‘ कपाले मार्जारः पय इति करांल्लेढि शशिन-स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रयमति ॥’

· उल्लेखालंकारः - लक्षण ३

लक्षण ३

इति त्वदुदाह्लतभ्रान्तावतिप्रसड्रः कथं नाम वार्येत । मार्जाराद्यनेक-ग्रहीतृकानेकधोल्लेखनस्य तत्रापि सत्त्वात्‍ । स्वस्वप्रियाहारलिप्सारूपनिमि-त्तभेदाच्च । तस्मत्संकीर्णनिवारणाय यत्नोऽनर्थक एव ।

संशयसंकीर्णो यथा-

‘ भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः । प्रत्यर्थिनश्चार्थिनश्व विकल्पन्त इति त्वयि ॥’

अत्र द्वयोर्ग्रहणयोः प्रत्येकं संशयत्वम्‍ । समुदायस्य तूल्लेखता । अयं च स्वरूपमात्रोल्लेखो स्वरूपोल्लेखः प्रागेव निरूपितः ।

फलानामुल्लेखे फलोल्लेखो यथा-

‘ अर्थिनो दातुमेवेति त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ॥’

हेतूनामुल्लेखे हेतूल्लेखः । यथा-

‘ हरिचरणनखरसड्रादेके हरमूर्धसंस्थितेरन्ये । त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहत्म्यात्‍ ॥’
अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारकत्वम्‍ । अयमपि द्विविधः शुद्धो‍ऽलंकारान्तरसंकीर्णश्च ।

· उल्लेखालंकारः - लक्षण ४

लक्षण ४

शुद्धो यथा-

‘ दीनव्राते दयार्दा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।

लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥’

अत्र दीनव्रातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम्‍ । राज-विषयकरतिभावोपस्कारकोऽयमुल्लेखः । यद्यपि चित्तवृत्तिव्यक्तीनामत्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम्‍ ।

यथा वा-

‘ कातराः परदुःखेषु निजदुःखेष्वकातराः । अर्थेष्वलोभा यशसि सलोभाः सन्ति साधवः ॥’

अत्रपि साधवः सन्तीत्यनेन भृता अपि न भृतास्ते, इतरे पुनरमृता अपि मृता एवेत्यर्थामिव्यक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कार-कोऽयम्‍ ।

यथा वा-

‘ तुषारास्तापसव्राते तामसेषु च तापिनः । दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥’

पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्‍ , इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्तानाम्‍ ।

· उल्लेखालंकारः - लक्षण ५

लक्षण ५

‘ विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः । स्वीयेषु तु गरोद्नारा नानाकाराः क्षितौ खलाः ॥’

अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम्‍ । एवमन्येषां संबन्धिनां भेदेऽप्यूह्यम्‍ ।

संकीर्णो यथा-

‘ गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले । पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥’

अत्रोपमया आपाततः प्रतीयमानथा पर्यवसितया चोत्प्रेक्षया ।

‘ उपरि करवालधाराकाराः क्रूरा भुजंगमपुंगवात्‍ । अन्तः साक्षाट्ट्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥’

अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च संकीर्णः ।

‘ यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाड्क्षिणाम्‍ । गृहं शरणीमच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥’

अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः कारणादूपकेण, विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रान्तिमता, विपक्षभूपालदिभिरनेकैर्ग्रहीतृंभिर्यमत्वादिभिरनेकैर्धर्मैरुल्लेख-नाप्तागुक्तोल्लेखप्रकारेण च सह संकीर्णोयं संबन्धिषष्ठयन्तभेदप्रयुक्त-वण्र्यानेकविधत्वक उल्लेखः ।

· उल्लेखालंकारः - लक्षण ६

लक्षण ६

अत्रेदं बोध्यम्‍-प्रथमनिरूपितोल्लेखप्रकारे ‘ यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञुपुरुष इति याज्ञिकाः, स्वभाव इति

लौकायतिकाः, ब्रह्मेत्यौपनिषदा वदन्ति सो‍ऽयमादिपुरुषो हरिः ’ इत्यादौ तत्तद्‍ग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस चमत्कारजनकताया अनुभवसि-द्धत्वेनालंकारत्वम्‍ । द्वितीये तु प्रकारे ‘ यः शिष्टेषु सदयो दुष्टेषु करालः ’ इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम्‍ । न तु विद्यमानस्यापि ज्ञानांशस्य, चमत्कारित्वेनाननुभवात्‍ । चमत्कारनिबन्धनो ह्यंलकारभाव उपमादीनाम्‍ । अत एवास्माभिः विषयाद्यन्यतमानेकत्व-प्रयुक्तमेकस्य वस्तुनो‍ऽनेकप्रकारत्वम्‍ ’ इति द्वितीय उल्लेखो लक्षितः ।

एवं च ‘ लक्षणद्वयान्तातरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्‍’ इत्याहुः । परे तु ‘ प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेखः । ’ इत्यपि वदन्ति ।

अथोल्लेखस्य ध्वनिः-

यथा-

‘ अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः । विलोक्य गड्रां विचलत्तरड्राममी समस्ताः सुखिनो भवन्ति ॥’

अत्र पूर्वार्धोदीरितानां चतुर्णां विलोकनकर्तृऋणां सुखित्वोक्त्या क्तमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्यो-ल्लेखस्य ध्वनिः ।

संकीर्णस्य यथा-

‘ स्मयमानाननां तत्र तां विलोक्य विलसिनीम्‍ । चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥ ’

अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्लव उल्लेखः ।

अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात्‍ ।

द्वितीयस्योल्लेखस्य ध्वनिर्यथा-

‘ भासयति व्योमगता जगदखिल्म कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥’

अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपाने-कविधत्वं रूपकसंकीर्णं ध्वन्यते ।

इति रसगंगाराधरे उल्लेखप्रकरणम्‍ ।

*********

रसगड्गाधरः - अपहृति अलंकारः

· अपहृति अलंकारः - लक्षण १

उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानता-दात्म्यमपह्लुतिः ॥

रूपकवारणाय तृतीयान्तम्‍ । अस्यां चोपमेयतावच्छेदकस्य निषेधा-दुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते । रूपके तु तयोः सामानाधिकरण्यप्रत्ययात्स निवर्तते ।

उदाहरणम्‍-

‘ स्मितं नैतक्तिं तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढः कुमुदमिमुद्यत्परिमलम्‍ ।

स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥’

इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा ।

· अपहृति अलंकारः - लक्षण २

लक्षण २

निरवयवेयं यथा-

‘ श्यामं सितं च सुदृशो न दृशोः स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ॥’

अत्र प्रतिज्ञातार्थवैपरीत्ये बाधकोपन्यासाद्धेत्वपह्लुतिः । अस्यां च नञा-

दिभिः साक्षात्, परमतीसद्धत्वाद्युपन्यासैश्च किंचिव्द्यवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः । मिषच्छलच्छद्मकपटव्याज-वपुरात्मादिशब्दैस्तु तस्मिंस्तस्यैक्यम्‍ । क्कचिदपह्लवपूर्वकत्वं क्कचिच्चारोपपूर्व-कत्वं क्कचिद्विषयितादूप्य-विषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्कचिदुभयोः शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति । एवम-नेके प्रकाराः संभवन्ति । परं तु न ते वैचित्र्यविशेषमावहन्तीत्यगण-नीयाः । एवमपि दिड्द्मात्रमुपदर्श्यते-तत्र प्रागुक्तायां सावयवापह्लुतौ प्रथमावयवेऽपह्लवपूर्वकत्वमुभयोः शाब्दत्वं विधेयत्वं वाक्यभेदश्च । द्वितीया-

वयवे तु वक्तृगतमूढतोक्त्या तद्नतभ्रान्तिप्रतिप्रतिपत्तिव्यवहिता निषेधप्रति-पतिरिति निषेध आर्थः । तादूप्यं शाब्दम्‍ । विधेयत्ववाक्यभेदापह्लव-पूर्वकत्वानि पूर्ववत्‍ । चतुर्थावयवे पुनरारोपपूर्वकोऽपह्लवः । उभयोः शाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव ।

· अपहृति अलंकारः - लक्षण ३

लक्षण ३

‘ वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा । अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥’

अत्रैकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं अनुवाद्यत्वं च, निवेशनस्य विधेयत्वात्‍ । एवमन्यदप्यूह्यम्‍ । अत्र च लक्षणे आरोप्यमाणमित्यस्या-हार्यनिश्चयविषयीक्रियमाणमित्यर्थः । तेन

‘ संड्‍ग्रामाड्रणसंमुखाहतकियद्विश्वंभराधीश्वर-व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । अड्रारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं मार्तण्डो‍ऽयमुदेति केन पशुना लोके शशाड्कीकृतः ।’

अत्र विरहिजनवाक्ये नायं शशाड्कः , अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपह्लुतेः, न त्वपह्लुत्यलंकारः । तज्ज्ञानस्य दोषविशेषजन्य-त्वेनानाहार्यत्वात्‍, किं तु भ्रान्त्यलंकार एव ।

‘ अलिर्मृगो वा नेत्रं वा यत्र किमचिद्विभासते । अरविन्दं मृगाड्को वा मुखं वेदं मृगीद्दशः ॥’

· अपहृति अलंकारः - लक्षण ४

लक्षण ४

इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधि-करण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रहः । न चात्र विषयनिषेधस्यापदार्थत्वं शड्कयम्‍, वाशब्दार्थत्वात्‍ । यत्तु कुवलया-नन्दाख्ये संदर्भे अप्पयदीक्षितैरपह्लुतिप्रभेदकथनप्रस्तावे पर्यस्तापह्लुत्याख्यं भेदं निरूपयद्भिरभिहितम्‍-

‘ अन्यत्र तस्यारोपार्थः पर्यंस्तापह्लुतिस्तु सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्‍ ॥’ इति ।

अत्र चिन्त्यते-नायमपह्लुतेर्भेदो वक्तुं युक्तः, अपह्लुतिसामान्यलक्षणा-नाक्तान्तत्वात्‍ । तथा हि-‘ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्लुतिः ’ उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापह्लुतिः ’ इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत्स्फुट एव । एवं ‘ विषयापह्लवे वस्त्व-न्तरप्रतीतावपह्लुतिः ’ इत्यलंकारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते ।

‘ प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्‍ । साम्यादपह्लुतिर्वाक्यभेदाभेदवती द्विधा ॥’

· अपहृति अलंकारः - लक्षण ५

लक्षण ५

इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव । तस्मात्‍ ‘ नायं सुधांशुः किं तर्हि सुशांशुः प्रेयसीमुखम्‍ ’ इत्यत्र दृढारोपं रूपकमेव भवि-तुमर्हति, नापह्लुतिः । उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूहं भानात्‍ । तदुक्तं विमर्शिन्याम्‍-“-‘ न विषं विषमिल्याहुर्ब्रह्मस्वं विषमुच्यते ’ । अत्र विषस्य निषेधपूर्वं ब्रह्मस्वविषये आरोप्यमाणत्वाद्‍दृढा-रोपं रूपकमेव, नापह्लुतिः ” इति । यदि च प्राचीनमतमुपेक्ष्यालंकाररत्नाकरे णेव मयाप्ययं प्रकारोऽपह्लुतिमघ्ये गणित इत्युच्यते, तदा आहार्यताद्वप्य-निश्चयस्य समानत्वादूपकभेद एवापह्लुतिरित्यप्युच्यताम्‍ । निरस्यतां च प्राचीनमुखदाक्षिण्यम्‍ । एवमपि चित्रमीमांसागतत्वन्निर्मितापह्लुतिलक्षण-

स्यात्राव्याप्तिः स्थितैव । अपि च यदि ‘ नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्‍ ’ इत्यत्र पर्यस्तापह्लुतिरिच्युत्यते, तदा तस्यामेव त्वत्कृत-चित्रमीमांसागतस्य-

‘ बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्लुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥’

इति रूपकलक्षणस्यातिव्यात्पिर्वज्रलेपायिता स्यात्‍, विषयिणो निह्ल-वेऽपि विषयस्यानिह्लुतत्वात्‍ । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्‍, कुवलयानन्दे च रत्नाकराद्यनुसारेणापह्लुतित्वोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक्‍ ।

· अपहृति अलंकारः - लक्षण ६

लक्षण ६

‘ अनल्पजाम्बूनददानवर्षं तथैव हर्षं जनयञ्जनेषु " दारिद्य्रघर्मक्षपणक्षमो‍ऽयं धाराधरो नैव धराधिनाथः ॥’

सावयवारोपेयमपह्लुतिः ।

आरोपमात्रोपायत्वे परम्परिताप्येषा संभवति । यथा-
‘ मनुष्य इति मूढेन खलः केन निगद्यते । अयं तु सज्जानाम्भोजवनमत्तमतड्रजः ॥’

अस्याश्च ध्वनिर्यथा-

‘ दयिते रदनत्विषां मिषादयि ते‍ऽमी विलसन्ति केसरा; । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽ‍लयः ॥’

अत्र ‘ नैत्रा रदनत्विषः, किं तु किंजल्कपरम्पराः । न चैतेऽलकाः, अपि त्वलयः ’
इति पूर्वोत्तरार्धाभ्यां द्वे अपह्लुती तावत्प्राकटयेनैव निवेदिते ।

· अपहृति अलंकारः - लक्षण ७

लक्षण ७

ताभ्यां च ‘ न त्वं नारी, किं तु कमलिनी ’ इति तृतीयापह्लुतिर्व्यञ्जन-व्यापारेण प्राधान्येन निवेद्यतें, तत्संबन्धिवस्तुनिषेधारोपयोस्तनिषेधा-रोपनिवेदकत्वस्य न्याय्यत्वात्‍ । तुल्ययोगिता तु गुणतया स्थिता ।

यत्त्वप्पयदीक्षितैरपह्लुतिध्वनावुक्तम्‍-

“-‘ त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्तं रचयति सुपर्णीसुतमपि । अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्प्म चाप्म मकरमुपरिष्टाच्च लिखति ॥’

इत्यादावपह्लुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्तसुपर्णलेखनेन ‘ नायं साधारणः पुरुषः, किं तु पुण्डरीकाक्षः ’
इति कयाचिव्द्यञ्जितम्‍ । अन्यया तस्याप्येतादृशं रूपं न संभवतीत्याशयेन ‘ नायं पुण्डरीकाक्षोऽपि, किं मन्मथः ’ इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन ब्यञ्जि-तम्‍ ” इति । तदेतदापातरमणीयम्‍ । यत्तावदुच्यते-‘ चक्तसुपर्णलेखनेन नायं साधारणः पुरुषः, किं तु पुण्डरीकाक्षः ’ इति कयाचिव्द्यञ्जितमिति । तत्रापह्लुतेर्द्वो भागौ-उपमेयनिषेधः उपमानारोपश्चेति । तयोस्तावदुपमा-

नारोपभागः पुण्डरीकाक्षोऽयमित्याकारश्चक्तसुपर्णलेखनेनाभिव्यड्‍ क्तु शक्यः, चक्तसुपर्णयोस्तत्संबन्धित्वात्‍ । न तु नायं साधारणः पुरुष इत्युपमेय-निषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात्‍ । नाप्यनुभवसिद्धः सः, येन तव्द्यञ्जनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तव्द्यञ्जनोपायः शब्दोऽर्थो वा उपलभ्यते, येना-नुभवकलहोऽपि स्यात्‍ । न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्ष-तादात्म्यारोपो दुर्घट इति सोऽपि व्यजयते इति वाच्यम्‍, रूपकोच्छेदा-पत्तेः । मुखं चन्द्रः इत्यादौ मुखनिषेधनमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात्‍ । तत्रापि मुखनिषेधावगमे जितमपह्लुत्या ।

· अपहृति अलंकारः - लक्षण ८

अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रतादूष्य-स्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्‍, प्रकृतेऽपि तर्हि तादृश-

साधारणपुरुषत्वसामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकारकरूपकमेव भवितुमीष्टे, नापह्लुतिः । यदपि चक्तसुपर्णदूरीकरणेन नायं पुण्डरीकाक्ष इति निषेधः, पुष्पचाप-ध्वजगत-मकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यड्रयो भवितुमर्हति, तथापि नासावपह्लुतिः । ‘ प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्‍ ’ इति त्वक्तृतलक्षणस्याप्यत्रासत्त्वात्‍ । अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्ष-

स्यावर्ण्यत्वेनाप्रकृतया प्रकृतनिषेधाभावात्‍ । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम्‍ । प्रकृतपदस्यारोपविषयपरताया ‘ निषिद्धय विषय’-मित्यादिना क्त्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात्‍ । काव्य-प्रकाशकृतापि ‘ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्लुतिः ’ इति सूत्रं व्याचक्षाणेन ‘ उपमेयमसत्यं कृत्वा’ इत्यादिना प्रकृतपदस्योपमेयपरतयैव

व्याख्यानाञ्च । प्राचीनमतसिद्धेयमपह्लुतिर्व्यड्रयत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम्‍, ‘ प्रकृतस्य निषेधेन ’ इत्यादिलक्षणं कुर्वता भवतैव तस्या बहिःकरणात्‍ ।

एवमप्युक्तपद्ये कोऽलंकारो व्यड्रय इति चेत्‍ । विच्छित्तिवैलक्षण्ये-ऽतिरिक्तः, अन्यथा त्वपह्लुतिरेवास्तु । लक्षणं तु तदा प्रसक्तयक्तिंचिद्वस्तु-निषेधसामानाधिकरण्येन क्तियमाणवस्त्वन्तरारोपत्वमेव । तस्मात्सर्व-मेवेदमह्लदयंगमं सह्लदयानाम्‍ ।

इति रसगड्राधरे अपह्रतिप्रकरणम्‍ ।

*********

रसगड्गाधरः - उत्प्रेक्षा अलंकारः

· उत्प्रेक्षा अलंकारः - लक्षण १

अथोत्प्रेक्षाप्रकरणम्‍-

तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयत-द्‍वृत्ति-तत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमित्तकं तत्त्वेन तद्व-त्त्वेन वा संभावनमुत्प्रेक्षा ॥
‘ लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्‍ ’ इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामग्र्यभावेनानुमित्यनुदयाज्जायमा-नायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसड्रवार-णाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यतां गमयति । एतेन
‘ रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥’
इत्यत्र संभावनायाम्‍, ‘ धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः इत्यत्र भ्रान्तौ च नातिप्रसड्रः ।
‘ वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा । जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥’

· उत्प्रेक्षा अलंकारः - लक्षण २

लक्षण २

अत्र जगज्जयसंभावनायामतिप्रसड्रवारणाय रमणीयतद्धर्मनिमित्तक-मिति । स्मितस्य संभावनोत्थापकत्वे‍ऽपि जगद्विजितरूपविषयविषयि-साधारणत्वाभावान्न दोषः । एतेन-
‘ प्रायः पतेद्दयौः शकलीभवेद्‍ ग्लौः सहाचलैरम्बुधिभिः स्खलेद्नौः । नूनं ज्वलिष्यन्ति दिशः समस्ता यद्‍ द्रौपदी रोदिति हा हतेति ॥’
अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापुतायां स्वर्ग-पतनसंभावनायां नातिप्रसड्रः । प्रायः स्थाणुनानेन भवितव्यम्‍, नूनं पुरुषेणानेन भाव्यम्‍, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्व-चञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामतिप्रसड्रः स्यात्‍ , अतो रमणीयत्वं धर्मगतमुपात्तम्‍ । रूपकवित्तावतिप्रसड्रवारणाय संभावन-
मिति । अत्र तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षायाः संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च संग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम्‍ ।
सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च । इव, नूनम, मन्ये, जाने, अवेमि, ऊहे, तर्कयामि, शड्के, उत्प्रेक्षे, इत्यादिभिः क्यडाचारक्किवा-दिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा । यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम६, तत्र प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्‍, तत्र संभावनामात्रमेव, नोत्प्रेक्षा ।

· उत्प्रेक्षा अलंकारः - लक्षण ३

लक्षण ३

सापि प्रत्येकं त्रिविधा- स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति । तत्र जातिगुणक्तियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्ये
नेतरेण वा संबन्धेन जातिगुणक्तियाद्रव्यात्मकैर्व्यस्तैः समुच्चितैरुपात्तैर-नुपात्तैर्निष्पन्नैर्निष्पाद्यैर्वा निमित्तभूतैर्धर्मैर्यथासंभवं जातिगुणाक्रियाद्रव्यात्म-केषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षेति चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्त-प्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा चोच्यते ।
एताश्च क्कचिन्निष्पन्नशरीराः क्कचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्प-विकल्पाः संपद्यन्ते । तथापि दिड्भात्रमुपदर्श्यते ।
आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा-
‘ तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी ’ इति । अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्धये विषयिहिमगिरिमुजगतत्वमवश्यं संपादनीयम्‍ । तेषां च मध्येऽनुपात्तयोः श्वैत्यशैत्ययोर्हिमगिरिसंबन्धित्वादेव भुजगतत्वं संपन्नम्‍ ।
इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्‍, तत्साधनता-ज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात्‍ । एवं च विषयि-गततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विषयगतयोः साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ निमित्तता । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति वक्तुं शक्यम्‍ । उप्तेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेव
विधेयत्वाच्चमत्कृतेर्विश्रमात्‍, उत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्व-याच्च, तयैवात्र व्यपदेशो युक्तः । अनिगीर्णविषया चेयमुपात्तानुपात्तगुण-क्तियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा हिमगिरिभुजस्य कविनैव निष्पादितत्वात्‍ ।
तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा-
‘अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे । रूपान्तराक्तान्तगृहः समन्तात्पुञ्जीभवञ्शुक्ल इवाश्रयार्थी ॥’
अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जी-

· उत्प्रेक्षा अलंकारः - लक्षण ४

लक्षण ४

भवनविशिष्टः शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र बकगतानां कू जननैर्म-ल्यपुञ्जीभवनानां शुक्लगुणगतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वा-त्तत्सिद्धये तेषां विषयिगतत्वं साध्यम्‍ । तत्र नैर्मल्यस्यानुपात्तस्य यथा-कथंचिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निष्पादनाय रूपान्तराक्तान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम्‍ । इहापि प्राग्वत्‍-
साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम्‍ । एवमन्यत्राप्यू-ह्मम्‍ । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति । ह्मम्‍ । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति ।
क्तियास्वरूपोत्प्रेक्षा यथा-
‘ कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः । वान्तेन वैराद्विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥
अत्र प्रथमान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजागीरार्धमग्न-
कृतभूरिशब्दोभयविशिष्टेषु बकेषु विषयेषु ध्वान्तकर्तृकवैरहेतुकनिग-रणकर्माभिन्नोत्प्रेक्षितशशिकिशोरतादात्म्योत्प्रेक्षणपूर्वकं क्रोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्भ्युत्प्रेक्षायां साधारणो धर्मः,
संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरण-निगरणकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकिशोर-तादात्म्यमनुपात्तश्वैत्यनिमित्तकमुत्प्रेक्ष्यते । तत्र यथा विशिष्टोपमायामुप-
मानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्‍ , एवमत्रापि विषयबक-विशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षाविषयिशशिकिशोर-विशेषणतद्विविशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः । ततश्च ध्वान्त-कर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः । क्तोशनशब्दयोरपि बिम्बप्रति-बिम्बभावेनाभेदः । तेन कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः क्रोशनक्तियानुकूल-
व्यापारवन्त इवेति बोधाकारः । आख्याते भावप्राधान्ये त्वभेदेन क्रोशन-क्रियोत्प्रेक्षा । तत्र शाब्दे वृत्ते बकविशेषणतया प्रतीयमानमपि शब्दनं विषयतयावतिष्ठते, अध्यवसानवशात्‍ । क्तोशनाक्तियायां च तादृशबका विशेषणम्‍, तादृशबकेषु चाभेदेन तादृशशशिकिशोराः, न तु शशिकिशोर एव साक्षात्क्रियायाम्‍ । एवं च बकानामनन्वयापत्तेः । विषयविषयि-विशेषणानां प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिः

· उत्प्रेक्षा अलंकारः - लक्षण ५

लक्षण ५

तथा-
‘ राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥’
अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम्‍ । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम्‍ । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्त-निमित्ता, विषयस्योपादानादुपात्तविषया । द्वितीयेऽपि तस्यैव निमित्तस्या-नुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेषः :
तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा-
‘ कलिन्दशैलदियमाप्रयागं केनापि दीर्घा परिखा निखाता । मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥’
अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम्‍ । आकाशत्वस्य स्वरूपात्मकत्वाद्द्रव्योत्प्रेक्षेयम्‍ । अत एवाकाशपदाच्छब्दाश्रच त्वाद्यनुपस्थितिदशायामप्याकाशधीः । नीलत्वरूपनिमित्तस्य विषयिणि सिद्धयर्थं तृतीयचरणोपादानम्‍ । दीर्घत्वरूपनिमित्तसिद्धयर्थं च पूर्वार्धम्‍ ।

· उत्प्रेक्षा अलंकारः - लक्षण ६

लक्षण ६

जात्यादीनामभावोत्प्रेक्षा यथा-
‘ बाहुजानां समस्तानामभाव इव मूर्तिमान्‍ । जयत्यतिबलो लोके जामदग्न्यः प्रतापवान्‍ ॥
अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंसः । ‘ समस्तलोकदुःखानाम्‍ ’ इति प्रथमचरणे कृते गुणाभावः ।
‘ द्यौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे । जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ॥’
अत्रापि चाक्षुशज्ञानसामान्यशून्यत्वेन निमित्तेन पार्यन्तिकः क्रियाभावो धर्मः । एवं द्रव्याभावोत्प्रेक्षापि स्वयमूह्या ।
मालारूपाप्येषा संभवति यथा-
‘ द्विनेत्र इव वासवः करयुगो विवस्वानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः ॥’
अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोध-निवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम्‍ । न चात्रोपमा
शक्यनिरूपणा, द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमाया निष्पादकं तेषां साधारण्यम्‍, तदभावेऽपि परमैश्वर्यादिभिः प्रतीय-मानैस्तस्या निष्पतेः । असुन्दरत्वादुपमानिष्पादकत्वेन कवेरनभिप्रेत-त्वाच्च । नह्यत्र द्विनेत्रत्वादिभिर्धर्मैर्वासवादिसादृश्यं राज्ञः कवेरभिप्राय-विषयः । एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात्‍ । अभेदप्रतिपत्तौ तु सहस्रनेत्रेण, सहस्रकरेण, विधिसृष्टावेकेन, वपुविहीनेन, जलाकारेण, स्वर्गगतेन च, तेन तेन कथमस्याभेद; स्यादिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्येवो-
पयोगः । अत्रैवेवशब्दस्याभावे दृढारोप्म रूपकम्‍ । विषयिगतविशेषणा-नामभावे उपमा । उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः । एवं स्वरूपोत्प्रेक्षादिगुपदर्शिता ।
अथ हेतूत्प्रेक्षा । यथा-
‘ त्वत्प्रतापमहादीपशिखाविपुलकज्जलैः । नूनं नभस्तले नित्यं नीलिमा नूतनायते ॥’

· उत्प्रेक्षा अलंकारः - लक्षण ७

अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्शितस्य हेतुत्वेनोत्प्रेक्षणम्‍ । ‘ कज्जल-लेपनैः ’ इति कृते इयमेव क्तियाहेतूत्प्रेक्षा ।
गुणहेतूत्प्रेक्षा यथा-
‘ परस्परासड्रसुखान्नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः । तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति ॥’
अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्व्म तावत्पञ्चम्यैव निर्दिष्टम्‍ । अपरार्धे धर्मिविशेषणतया अनूद्यमानस्य गुणाभावस्य त्वार्थम्‍ । यथा ‘ भोक्ताभुञ्जानो वा तृप्यति ’ इत्यादौ भोजनादेः ।
यथा वा-
‘ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्‍ । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥’
क्तियाहेतूत्प्रेक्षा यथा-
‘महागुरुकलिन्दमहीधरोदरविदारणाविर्भवन्महापातकावलिवेल्ल-नादिव श्यामलिता ’ इति ।
द्रव्यहेतूत्प्रेक्षा यथा-
‘ वराका यं राकारमण इति वल्गन्ति सहसा सरः स्वच्छं मन्ये मिलदमृतमेतन्मखभुजाम्‍ । अभुष्मिन्या कापि द्युतिरतिघना भाति भिषता-मियं नीलच्छायादुपरि निरपायाद्नगनतः ॥’
अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलड्के उपरिवर्तिनभोहेतुकत्वभुत्प्रेक्ष्यते । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्तः ।
एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा-
‘ नितान्तरमणीयानि वस्तूनि करुणोज्झितः । कालः संहरते नित्यमभावादिव चक्षुषः ॥’
अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा ।
‘ निःसीमशोभासौभाग्यं नताड्रया नयनद्वयम्‍ । अन्योन्यालोकनानन्दविरहादिव चञ्चलम्‍ ॥’

· उत्प्रेक्षा अलंकारः - लक्षण ८

लक्षण ८

अत्र गुणाभावस्य ।
‘ जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम्‍ । वदनेन्दुरुचामिहाप्रचारादिव तन्वड्रि नितान्तकान्तिकान्तम्‍ । ’
इह द्वितीयार्धे क्तियाभावस्य । प्रथमार्थे तु जात्यवच्छिन्नस्य जात्यवच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षैव ।
‘ न नगाः काननगा यद्रुदतीषु त्वदरिभूपसुदतीषु । शकलीभवन्ति शतधा शड्के श्रवणेन्द्रियाभावात्‍ ॥’
इह श्रोत्रत्वस्य जातिगुणक्रियाभ्यो‍ऽतिरिक्तस्य विवेके क्तियमाणे आकाशस्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । निमित्तं क्तियाभाव । एवं हेतूत्प्रेक्षादिक्‍ ।
अथ फलोत्प्रेक्षा-
‘ दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती । वक्षोजतायै किभु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपड्‍ क्तिरेषा ॥ ’
अत्र वक्षोजत्वमवयववृत्ति । जातिस्तलूप्रत्ययार्थः । त्वतलोः प्रकृतिप्रवृत्ति-निमित्ते भावे विधानात्‍ । स एव चात्र तपश्चरणक्रियायाः साहजिक-
जलावस्थानाभिन्नतयाध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते । न चात्र प्राप्ति-क्रियामन्तरेण जातेः शुद्धाया अफलत्वात्क्रियाया एव फलत्वमिति वाच्यम्‍ । प्राप्तेः संसर्गतया तद्‍द्वारैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव-‘ब्राह्मण्याय तपस्तेपे विश्वामित्रः सुदारुणम्‍ ’ इत्यादयः प्रयोगाः ।
गुणफलोत्प्रेक्षा यथा-
‘ वियोगवह्लिकुण्डेऽस्मिन्‍ ह्लदये ते वियोगिनि । प्रियसड्रसुखायेव मुक्ताहारस्तपस्यति ॥’
क्तियाफलोत्प्रेक्षा यथा-
‘ हालाहलकालानलकाकोदरसंगतिं करोति विधुः । अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [ गतः ] ॥ ’
अत्र विरहिवाक्येऽभ्यसनक्तियायास्तुमुना फलत्वं लभ्यते । एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम्‍ ।
इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाह्लताः । वस्तुतस्तु नैषां
चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव । चमत्कारवैलक्षण्यं पुनर्हेतुफल-स्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति । प्रागुदाह्लतेष्वेव पद्येषु वाचका-नामिवादीनां त्यागे प्रतीयमाना, अर्थसामर्थ्यावसेयत्वात्‍ । न तु व्यड्रयेति भ्रमितव्यम्‍, तस्याः प्रकृते प्रसड्राभावात्‍ ।

· उत्प्रेक्षा अलंकारः - लक्षण ९

लक्षण ९

धर्मस्वरूपोत्प्रेक्षा यथा-
‘ निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम्‍ । उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीन्म दीनं विकल इव राजानमतनोत्‍ ॥’
पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्‍-सामानाधिकरण्येनोपात्तम्‍ । अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव बिम्बप्रतिबिम्बभावादिभिर्भिन्न उपात्तो‍ऽनुपात्तश्च । हेतुफल-योर्विषयित्वे तु यं प्रति हेतफले निरूपिते स धर्म : कल्प्यमानोऽपि विषयगतसाहजिकधर्माभिन्नतयाध्यवसीयमानो निमित्तं संपद्यते । स चोपात्त एव भवति । अन्यथा कं प्रति हेतुफलयोरन्वयः स्यादिति संक्षेपः ।
अत्र च प्राचामर्वाचां चानेकधा दर्शनं व्यवस्थितम्‍ । तत्र प्राचामि-त्थम्‍-सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणम्‍, न संबन्धान्तरेण । तथा हि धर्मिस्वरूपोत्प्रेक्षायाम्‍ ‘ मुखं चन्द्रं मन्ये ’ इत्यादौ तावद्विषयिण-श्वन्द्रस्याभेदो विषये मुखे स्फुट एव, नामार्थंयोर्भेदेन साक्षादन्वयस्या-व्युत्पत्तेः । उपात्तविषया चेयम्‍ । एवम्‍ ‘ अस्यां मुनीनामपि मोहमूहे ’ इत्यत्र नैषधपद्ये ( ७/९४ ) धर्मस्वरूपोत्प्रेक्षायामपि मुनिसंबन्धिनि धर्मान्तरे
विषये दमयन्तीविषयकमोहस्य विषयिणो‍ऽभेदेनैवोत्प्रेक्षा । उत्प्रेक्षायाश्च साध्यवसानत्वाद्विषयस्यानुपादानं संगच्छते । निमित्तधर्मश्च तत्तदड्रा-सक्तवृत्तित्वम्‍ । एवम्‍ ‘ लिम्पतीव तमोऽड्रानि वर्षतीवाञ्जनं नभः ’ इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणम्‍ , तस्याख्या-
तार्थविशेषणत्वेनैकदेशत्वात्‍ । नापि लेपनादिकर्तुरभेदेन, तस्य क्तिया-विशेषणत्वेनाप्राधान्यात्‍ । किं तु तमःकर्तृकमड्रकर्मकं लेपनमुत्प्रेक्ष्यते, नभः कर्तृकमञ्जनकर्मकं वर्षणं च । उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तमः-कर्तृकव्यापनस्य निगीर्णत्वादनुपादानम्‍ । अत एव एवमादावियमनुपात्त-विषयोच्यते । निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव । अत एव
‘ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्‍ ’ इति लक्षणं विधायोक्तम्‍
‘ व्यापनादि लेपनादिरूपतया संभावितम्‍ ’ इति मम्भटभट्टैः । एवम्‍ ।
‘ उन्मेषं यो मम न सहते जातिवैरी निशाया-मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षा-ल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥’

· उत्प्रेक्षा अलंकारः - लक्षण १०

इत्यादौ प्राचीनपद्ये हेतूत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मी-रूपे विषये, किं तु तद्धेतुकं कार्यं लगनादिरूपं विषयि तादात्म्येन
साहजिकलगनादौ विषये । कार्यस्य निमित्ततावादिनापि विषयगततत्‍-समानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वात्‍ । अन्यथा हेतुरूप-विषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वादुत्प्रेक्षैव न स्यात्‍ । एवम्‍
‘ चोलस्य यद्भीतिपलयितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥’
इत्यादिपरपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्व-ग्विपाटननिमित्तं ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते । किं तु तत्फलकं भालत्व-ग्विपाटनादिरूपं विषयि कण्टकजविपाटनादौ विषये तादात्म्येनेति सर्वत्रा-भेदेनैव विषये विषयिण उत्प्रेक्षणमिति दर्शनम्‍ ।
तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किंचिदस्ति प्रमाणम्‍, लक्ष्येषु भेदेनाप्युत्प्रेक्षणस्य दर्शनात्‍-‘ अस्यां मुनीनामपि मोह-मूहे ’ इत्यादौ । न च मुनिसंबन्धिनि धर्मविशेषे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम्‍ । भेदेनोत्प्रेक्षणे बाधकाभावेनेदृशकल्पनाया निरर्थकत्वात्‍ । नह्य-भेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम्‍, यदर्थमयमाग्रहः स्यात, लक्षणनिर्मा-णस्य पुरुषाधीनत्वात्‍ । ‘ लिम्पतीव तमोऽड्रानि ’ इत्यत्रापि लेपनादिकर्तृत्वं तमआदिषु विषयेषूत्प्रेक्ष्यत इत्येव युक्तम्‍ । अनुकूलव्यापारात्मकस्य कर्तृत्व-स्यैवाख्यातार्थत्वात्‍ । तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसर्गेणान्वयान्न दोषः ।
‘ भावप्रधानमाख्यातम्‍ ’ इत्यस्य ‘ भावो व्यापारस्तदर्थकमाख्यातं तिड्‍ ’ इत्यर्थकरणान्न विरोधः । ‘ सत्त्वप्रधानानि नामानि ’ इत्युत्तरवाक्य-गतस्य प्रधानशब्दस्याभिधेयपरत्वात्‍ । फलमात्रार्थस्यापि धातोराख्यातार्थ-
व्यापारव्याधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मकाकर्म-क्त्वव्यवहारः । नामार्थयोर्भेदेनान्वयाभावाच्च भावकृदर्थव्यापारस्य न नामार्थेऽन्वयः । अत एव च ‘ कर्तरि कृत्‍ ’ इत्यनेन विशिष्टशक्तिबोधकेन न घञादिषु भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम्‍ । शब्दानु-वृत्तिपक्षस्वीकाराच्च ‘ कर्तरि कृत्‍ ’ इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य ‘ लः
कर्मणि-’ इत्यत्र धर्मपरतायामपि न दोषः । यद्वा आस्तां फलव्यापारौ धातोः, आश्रयश्व तिडोऽर्थः । परं तु देवदत्तः पचमान इत्यादाविव देवदत्तःपचतीत्यादिष्वपि प्रथमान्तार्थ एव तिडर्थस्याभेदेन विशेषणत्वं युक्तम्‍ , न तु भेदेन धात्वर्थभावनायाम्‍ । सर्वजनसिद्धस्योद्देश्यविधेयभावस्य भड्रा-पत्तेः । सत्यां हि गतौ ‘ प्रत्ययार्थे प्रकृत्यर्थो विशेषणम्‍ ’ इत्यस्योत्सर्गस्या-
प्यनुग्रह एव न्याय्यः । ‘ भावप्रधानमाख्यातम्‍ ’ इत्यस्य ‘ भावनार्थको धातुः ’ इत्यर्थकरणान्न विरोधः । न च वैयाकरणमतविरोधो दूषणमिति वाच्यम्‍, स्वतन्त्रत्वेनालंकारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात्‍ । प्रपञ्चयिष्यते चैत-दधिकमुपरिष्टादिति प्रकृतमनुसरामः ।

· उत्प्रेक्षा अलंकारः - लक्षण ११

एव्म च ‘ लिम्पतीव- ’ इत्यादौ भेदेनाभेदेन वा तिडर्थस्यैव प्रथमा-न्तार्थ एवोत्प्रेक्षणम्‍ । न तु धात्वर्थस्य स्वनिगीर्णे व्यापनादौ, सर्वजन-
सिद्धाया इवार्थस्य विधेयताया अनुपपत्तेः । तमःकर्तृकं लेपनमिवेत्यस्मादपि उद्देश्यबोधकशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च । यदि च विषयिसंबन्धिना लेपनादिना विषयसंबन्धिनो व्यापनादेर्निमित्ततासंपत्तये स्वताद्रूप्यसंपाद-नेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपके‍ऽ-प्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च । ‘ लोकान्हन्ति खलो विषम्‍ ’ इत्यादौ खलसंबन्धिनो दुःखदानादेर्विषसंबन्धिह्लननात्मनाध्यव-
सानात्‍ । तस्मान्निमित्तांशेऽतिशयोक्तिरेव । एवम्‍ ‘ उन्मेषं यो मम न सहते ’ इत्यत्र लक्ष्मीरूपे विषये लगनहेतुत्वेन हर्श उत्प्रेक्ष्यते । तत्र साहजिकसंबन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम्‍ । तथा-
‘ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम्‍ । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्‍ ॥’
अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते । तत्र निश्चलत्वनि-मित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम्‍, विश्लेषदुःखसमानाधिकर-णत्वे सति नूपुरवृत्तित्वात्‍ । न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुः खहेतुकमौनमभेदेन । उप्तेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया
उत्सर्गसिद्धत्वात्‍ । विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च । निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम्‍ । तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्य-प्रयोजकत्वात्‍ । एवं फलोत्प्रेक्षायामपि बोध्यम्‍ । एतेन ‘ यद्वा हेतुफलधर्म-स्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा ’ इति प्राचां मतमनुसरता द्रविडपुंगवेन यदुक्तं तदपि परास्तम्‍ ।
अलंकारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थ्म निगदितम-“ विषयि-निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्ववसायः । स च द्विविधः-सिद्धः , साध्यश्च । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा इति । ”
अस्यार्थः- सिद्धत्वं निगीर्णविषयत्वम्‍ । साध्यत्वं च निगीर्यमाणविषय-त्वम्‍ । यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्‍-यथातिशयोक्त्यादौ । यत्र साध्यत्वं तत्र व्यापारस्याध्ववसानाक्तियायाः प्राधान्ये उत्प्रेक्षा इति ।
एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय “-‘ सैषा स्थली यत्र ’ इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रेक्ष्यते । तत्र मौनित्वमेव नूपुरगतनिः- शब्दत्वाभेदेनाध्यवसितं निमित्तम्‍ । ” इत्युक्तम्‍ । एवं ‘ यत्र धर्म एव धर्मिगतत्वेन ’ इत्यादिना धर्मोत्प्रेक्षाप्रसड्रे “ लिम्पतीव तमो‍ऽड्रानि इत्यत्र लेपनक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम्‍ । ” इत्युक्तम्‍ । तदेतत्सर्वं परस्परविरुद्धम्‍ । नहि दुःखगुणोत्प्रेक्षायामभेदगर्भोऽ‍ध्यवसायोऽस्ति । मौनांशे सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति, नोत्प्रेक्षायाः । त्वन्मते मौनस्य निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च । एवं ‘ लिम्प-तीव ’ इत्यत्र लेनपांशाध्यवसायोऽपि । तस्यापि व्यापनरूपतया स्थितस्य
त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च । ‘ व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात्‍ ’ इति स्वयैव बाधकोपन्यासात्‍ । निमित्तांशा-ध्यवसानं तूपमादावपि स्थितम्‍ । किं च, ‘ नूनं मुखं चन्द्रः ’ इत्यादौ कुत्राध्यवसायः, विषयस्य जागरूकत्वात्‍ । न च सिद्धे‍ऽध्यवसाये विष-यस्य जठरवर्तित्वम्‍, साध्ये तु निगीर्यमाणत्वात्पृथगुपलब्धिरिति वाच्यम्‍, साध्याध्यवसाने मानाभावात्‍ । अन्यथा रूपकादेरप्यध्यव सा नगर्भत्वापत्तेः । किं च, अध्यवसानं लक्षणाभेदः । न चात्र विधेयांशे लक्षणास्ति । अभेदा-दिसंसर्गैराहार्यबोधस्यैव स्वीकारात्‍ । तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमाः ।
एवं प्राप्ते ब्रूमः - तत्र तावद्धर्म्युत्प्रेक्षानिष्कर्षः प्राचीनमतपरीक्षावसरे कृत तव । हेतूत्प्रेक्षायां पञ्चम्यर्थो हेतुः, अभेदश्च प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे विश्लेषदुःखाभिन्नहेतुः पञ्चम्यन्तार्थः । तस्य च प्रयोज्य-तासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते । प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने

· उत्प्रेक्षा अलंकारः - लक्षण १२

लक्षण १२

निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः । आश्रयतासंसर्गेण चोत्प्रेक्ष-णम्‍ । उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः, तेनैवेवाद्यर्थान्वयात्‍ । उत्प्रेक्ष्य-तावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मो‍‍ऽतिशयोक्त्या मौनाभि-न्नत्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम्‍ । बद्धमौनं च विषयः । मौनद्वारकं च बद्धमौनस्य प्रयोज्यत्वं संभाव्यते । एवं प्रयोज्यधर्मके धर्मिणि सर्व-
त्रापि धर्मद्वारक एव पञ्चम्यर्थान्वयः । यत्र तु धर्म एव किंचिद्धर्माभिन्न-त्वेनाध्यवसितःसाक्षाद्विषयस्तत्र विषयतावच्छेदकधर्मो निमित्तम्‍ । यथा तत्रैव ‘ विश्लेषदुःखादिव मौनमस्य ’ इति निर्माणे मौनत्वम्‍ । एवं तृती-यार्थेऽपि बोध्यम्‍ ।
फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम्‍ । प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेदः संसर्गः । तच्च साधनतासंसर्गेणान्वेतीति तेनैव संसर्गेणोत्प्रेक्ष्यते, यत्र चोत्प्रे-क्ष्यते तदंशे विशेषणतया भासमानो धर्मो निमित्तम्‍ । स च धर्मिणि विषये
अभिन्नत्वेनाध्यवसितो धर्मः , तथाभूते च धर्मे विषये तद्विशेषणीभूतो‍ऽन्य इति विवेकः । एवं च यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो
न साक्षात्संभवति तत्र प्रधान एव विषये तादृशविशेषणद्वारकप्रयोज्यत्व-प्रयोजकत्वाभ्यां संसर्गाभ्यां हेतुफलयोरुत्प्रेक्षा बोध्या । यद्यपि विशेषणे-ऽपि यथाकथंचिद्धेतुफलयोरन्वयाद्विशेषणस्यापि विषयत्वमुचितम्‍ । तथापि विषयविषयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता । यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात्‍ ।

· उत्प्रेक्षा अलंकारः - लक्षण १३

लक्षण १३

किं च प्राचां मते हेतुफलोत्प्रेक्षास्थले तद्धेतुकतत्फलकयोः कार्यकारण-थोरेव निगीर्णे विषये उत्प्रेक्ष्णात्स्वरूपस्योत्प्रेक्षायामेव पर्यवसानम्‍, न हेतु-फलयोः । एवं च विभागश्चिरंतनानामुच्छिन्नः स्यात्‍ । अथ स्वरूपतादात्म्या-विशेषेऽपि हेतुफलविशेषणकशुद्धस्वरूपोत्प्रोक्षाया हेतुफलविशेषणकस्वरू-पोत्प्रेक्षायामस्ति हेतुफलकृत एव भेद इति चेत्‍ ‘ तनयमैनाकगवेषणलम्बी-
कृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी ’ इति प्रागुदाह्लतायां स्वरूपोत्प्रेक्षायां तनयमैनाकगवेषणरूपस्य फलस्योत्प्रेक्ष्य-विशेषणकोटिप्रविष्टत्वापत्तेः , उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वात्‍ । इत्यलं स्वगोत्रकलहेन ।
उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयो-त्प्रेक्षयैव व्यपदेशः, प्राधान्यात्‍ । तेन ‘ विश्लेषदुःखादिव बद्धमौनम्‍ ’ इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्यः, तस्या अड्रत्वेनानुवाद्यत्वात्‍ । किं तु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव इव-शब्दवेद्यत्वेन विधेयत्वात्‍ । तथा ‘ चोलस्य ’ इति पद्येपि वनान्तगतत्वेन न फलोत्प्रेक्षया व्यपदेशः । नापि ‘ कलिन्दजानीरभरे‍ऽर्धमग्ना ’ इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वान्तकर्तृकवैरहेतुक-निगरणकर्मतादात्म्योत्प्रेक्षया वा, प्रागुक्तादेव हेतोरिति दिक्‍ ।
द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारणः, साधारणीकरणो-पायेनासाधारणोऽपि साधारणीकृतश्च । स चोपायः कचिद्रूपकं क्कचिच्छ्‍लेषः क्कचिदपह्लुतिः क्कचिद्विम्बप्रतिबिम्बभावः क्कचिदुपचार क्कचिदभेदाध्यवसायरूपो‍ऽतिशयः ।
यथा-
‘ नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्‍ । इदमिन्दीवरं मन्ये सुन्दराड्रि तवाननम्‍ ॥’
अत्र प्रथमार्धगतः प्रथमो धर्मो रूपकेण विषयविषयिसाधारणीकृतः । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेन । केवलशब्दात्मको‍ऽप्ययं संभवति ।
‘ अड्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शड्के पड्केरुहाणीति शरीराणि शरीरिणाम्‍ ॥’
अयमुपात्त एव भवति । अर्थमयोऽनुपात्तश्चापि भवति । यथा ‘ द्विनेत्र इव वासवः ’ इत्यादौ जगदीश्वरत्वादिः । न चात्र द्विनेत्रत्वादिरूप उपात्त
एव साधारणो धर्मः । साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम्‍ । तस्यारोपेण साधारणत्वे कृतेऽपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्व-विरहात्‍ । साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव ।
‘ दृष्टिः संभृतमड्रला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारो‍ऽधरः सुन्दरः । क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम्‍ ॥’
अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनस्य धर्मेषु तत्तद्‍ग्रहाश्रिताड्रकत्वेषु विशेषणीभूतैस्तत्ततद्‍ग्रहैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेष-णानां कल्याणादीनां श्लेषेण ता दात्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्तिः ।

· उत्प्रेक्षा अलंकारः - लक्षण १४

यथा वा-
‘ विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः । कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम्‍ ॥’
इहापि विषयविषयिधर्मविशेषणयोरलकालकयोः श्रवणवैश्रवणयोश्च श्लेषेणाभेदे धर्मस्य साधारण्यम ।
यथा व-
‘ नासल्ययोगो वचनेषु कीर्तै तथार्जुनः कर्मणि चापि धर्मः । चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ॥’
अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्व-रूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुण-पुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसाधारणीकृतः ।
‘ स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम्‍ । मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ॥’
अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तः प्रदेशाद्वहिरागमन-मपेक्ष्यम्‍ । तच्च बहिःप्रदेशसंबन्धरूपं माणिक्यमात्रवृत्ति मनसो न संभवतीति माणिक्यापह‍नुत्या मनोगातं क्तियते । बिम्बप्रतिबिम्बभावस्तु ‘ कलिन्दजानीरभरेऽधर्मग्रा ’ इत्यत्रैव निरूपितः ।
‘ माधुर्यपरमसीमा सारस्वतजलधिमथनसंभूता । पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥’
अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसंभवादास्वादश्रवणयोरमुख-
योरुपचारेण मुख्याभ्यां साधारणीकरणम्‍ । लक्षणया शक्याभेदेन लक्ष्यबोधनात्‍ ।
अभेदाध्यवसायमात्रं यथा प्रागुदाह्लतायां हेतूत्प्रेक्षायाम्‍ । ‘ व्यागु-ञ्जन्मधुकरपुञ्जमञ्जुगीताम्‍ ’ इत्यत्र शाखानीचत्व-कंधरानमनयोरभेदा-ध्यवसाय एव त्रपाहेतूत्प्रेक्षानिमित्ततयोपात्तस्य कंधरानमनस्य नीचशाख-नतकंधरोभयसाधारणे बीजम्‍ ।
एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोत्प्रेक्ष्यते सो‍ऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकृदावेदितम्‍ ।
एवं क्कचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा स्वयमुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्था-पनेनानुकूल्यविधानादुपयुज्यते । यथा ‘ द्यौरञ्जनकालीभिः ’ इति प्रागुदाह्लते पद्ये दिवो जलदालीसमावृतत्वरूपो धर्म उपात्तो जगतो निर्लोचनवर्ग-सर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि स्वप्रयोज्यनिबिडान्धकार-प्रयुक्तचाक्षुषज्ञानसामान्यशून्यत्वस्य तथाविधोत्प्रेक्षानिमित्तस्योत्थापनेन ।
विषयो‍ऽप्युपात्तो निरूपित एव । क्कचिदयमपह्‍नुतोऽपि भवति । यथा-
‘ जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम्‍ । उदयति वदनव्याजात्किमु राजा हरिणशावनयनायाः ॥’

इति रसगंगाधर उत्प्रेक्षाप्रकरणम्‍ ।

*********

रसगड्गाधरः - अतिशयोक्ति अलंकारः

अतिशयोक्ति अलंकारः - लक्षण १

विषयिणा विषयस्य निगरणमतिशयः । तस्योक्तिः ॥
तच्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम्‍ । अत्र च
विषये विषयिवाचकपदस्य लक्षणायाः । शक्यतावच्छेदकमात्रप्रकारक-लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम्‍ । अतः शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोर्न विरोधः । परे तु ‘ मात्रविशेषणं न देयम्‍ । तेन लक्ष्यासाधारणो‍ऽपि धर्मो भासते ’ इत्याहुः । केचित्तु
‘ लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैव बोधः । अनन्तरं च व्यापारान्त-रेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोधः । ’ इत्याहुः । बाधज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक्‍ । अत्र चैकपदोपात्तत्वान्नोद्देश्यविधे-यभावः ।
उदाहरणम्‍-
‘ कलिन्दगिरिनन्दिनीतटवनान्तरं भासय-न्सदा पथि गतागतक्लमभरं हरन्प्राणिनाम्‍ । स्फुरत्कनककान्तिभिर्नवलताभिरावेल्लितो ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥’
अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरण-त्रयगतानि विशेषणानि तदनुग्रहार्थ्म विषयविषयिणोः साधारणधर्मतया
साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने । वैयाक-रणानां तूपात्तया तमालभिन्नकर्तृकया श्रमहरणक्तिययोन्नीतं तादृश-कर्तृत्वं तथा तयोः स्थितम्‍ । द्वितीये चरणे चोच्चावचयोनिसंचरणस्य पथ्या-दिना, तृतीयेऽपि लताभिर्गापीनां निगरणम्‍ , तस्मिन्नेवानुग्राहकतया ।
एवं च सावयवेयमतिशयोक्तिः । यत्र चानुग्राहकं न निगरणान्तरं किं तु शुद्धं साधारणधर्मादि, सा निरवयवा ।

अतिशयोक्ति अलंकारः - लक्षण २

लक्षण २

यथा-
‘ नयनानन्दसंदोहतुन्दिलीकरणक्षमा । तिरयत्वाशु संतापं कापि कादम्बिनी मम ॥’
अत्र भगवतो मूर्तिर्निगीर्णा । नामार्थयोरभेदसंसर्गेण विशेष्यविशेषण-भावस्य व्युत्पन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन संसर्गेण विशेष्यविशेषणभावः, न तु प्रकृते । विषयितावच्छेदकरूपेण विषयस्यैव
भागादभेदसंसर्गस्याप्रसक्तेः । अभेदप्रधानातिशयोक्तिरिति प्रवादस्तु प्रागुक्ते संसर्गारोपरूपक इव विषयितावच्छेदकस्यैव भेदाभावरूपतया निर्वाह्यः । तच्च विषयितावच्छेदकं क्कचित्प्रकृते निगरणदार्ढ्याय विषय-मात्रवृत्तिधर्म-स्वसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम्‍ । यथा ‘ कलिन्द-गिरिनन्दिनी ’ इत्यादौ तमालत्वादि । क्कचिदप्रसिद्धमपि कल्पितोपमा-दाबुपमानमिव कविना स्वप्रतिभया कल्पितम्‍, धर्मिण इव धर्मस्यापि कल्पनाया अविरुद्धत्वात्‍ ।
यथा-‘ स्मृतापि तरुणातपम्‍ ’ ।
यथा वा-
‘ जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलय-ञ्जनानां संतापं त्रिविधमपि सद्यः प्रशमयन्‍ । श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो मम स्वान्तध्वान्तं तिरयतु नवीनो जलधरः ॥’
अत्र विषयधर्मविशिष्टतया कल्पितेन लोकोत्तरजलधरत्वेन रूपेण भगवतः प्रतिपादने तत्समानाधिकरणत्वेन कल्पितानां विशेषणानामानु-गुण्यम्‍ । एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेवैव विषय-स्य भानम्‍, न विषय्यभिन्नत्वेनेति स्थिते ‘ रूपकातिशयोक्तिः स्यान्निगी-
र्याध्यवसानतः ’ इत्युक्त्वा ‘ अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शि-तानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम्‍ । तेनात्राप्यभेदा-तिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति ’ कुवलयानन्दे यदुक्तं तन्निरस्तम्‍ ” इति नव्याः । प्राञ्चस्तु ‘ रूपक इवात्रापि विषय्यभेदो भासते । परं तु निगीर्णे विषये इति रूपकादस्या विशेषः । अध्यवसायस्य सिद्धत्वेना-प्राधानान्निश्चयात्मकत्वाच्च साध्याध्यवसानायाः संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्‍ ’ इत्याहुः । कथं तर्हि ‘ कमलमिदमनम्बुजातं जयतितमां कनक-
लतिकायाम्‍ । इत्यादाविदंत्वादेर्विषयतावच्छेदकस्योल्लेखान्निगरणमिति चेत्‍, न । इदमित्यस्य कमलत्वविशिष्टे विशेषणत्व एवातिशयोक्तिः, उद्देश्यताव-च्छेदकत्वे तु रूपकमेव । एवं ‘ गौरयम्‍ ’ , ‘ आयुरेवेदम्‍ ’ इत्यादावपि बोध्यम्‍ । अत एवातिशयोक्तावभेदोऽनुवाद्य एव, न विधेय इति प्राचामुक्तिः संगच्छते । एवमेकः प्रकारोऽतिशयस्य, यत्र भेदेऽप्यभेदः ।

अतिशयोक्ति अलंकारः - लक्षण ३

अथ प्रकारान्तरम्‍-यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थः, इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम्‍ ।
उदाहरणम्-
अन्य जगद्धितमयी मनसः प्रवृत्ति-रन्यैव कापि रचना वचनावलीनाम्‍ । लोकोत्तरा च कृतिराकृतिरार्यह्लद्या विद्यावताम सकलमेव चरित्रमन्यत्‍ ॥ ’
एवमन्यः प्रकारः- यत्रासंबन्धेऽपि संबन्धो वर्ण्योत्कर्षार्थः ।
यथा-
‘ धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ ’
अत्र सिंहीवचने समुच्छलनाऽसंबन्धेऽपि समुच्छलनसंबन्धोक्तिः शौर्यातिशायिका ।
यथा वा-
‘ गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम्‍ । समीहते नित्यमनन्यचेता नभस्वदात्मंभरिवंशनेता ॥’
यथा वा-
‘ तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदानन्म खलु तदा कलया तुलयामहे ॥’
पूर्वत्र निर्णीयमानः , इह तु संभाव्यमान इति विशेषः । तथान्यः प्रकारः-यत्र संबन्धे‌ऽप्यसंबन्धः ।
यथा-
‘ पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम्‍ । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥ ’

अतिशयोक्ति अलंकारः - लक्षण ४

अत्र तोषसंबन्धेऽप्यसंबन्धः ।
एवमेवान्योऽपि प्रकारः- यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्ययः । स च द्वयोः । सहभावात्‍ , प्रयोजकस्य प्रयोज्यानन्तरभावाद्वेति द्वेधा । आद्यो यथा-‘ प्रतिखुरनिकरशिलातलसंघट्टसमुच्चलद्विद्युद्वल्लीकृत-विस्फुलिड्रच्छटापटलानां वाजिनाम्‍ ’ इति हयवर्णने समुच्छलनविद्युद्वल्ली-करणयोः सहोत्पत्तिर्गम्यते ।
द्वितीयो यथा-
‘ पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः । अनन्तरं ते भ्रुकुटीविटड्कात्स्फुरन्ति रोषानलविस्फुलिड्राः ॥’
अत्र भेदद्वये प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः । एवं च ‘ एतद्भेदपञ्चकान्यतमत्वमतिशयोक्तिसामान्यलक्षणम्‍ इति प्राचीनाः ।
अन्ये तु-‘ संबन्धेऽसंबन्धः, असंबन्धे संबन्ध इति भेदद्वयं नाति-शयोक्तिः । एतादृशातिशयस्य रूपकदीपकोपमापह्लुत्यादिषु स्वभावोक्तिभिन्नेषु प्रायशः सर्वेष्वलंकारेषु सत्त्वात्‍ । नहि यथास्थितवस्तूक्तावस्ति काचिद्वि-च्छित्तिः । कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तर-तानापत्तेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्यत्वम्‍, यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनम्‍, कार्यकारणापौर्वापर्यविपर्ययश्चेत्येत-दन्यतमत्वमतिशयोक्तित्वम्‍ ’ इत्याहुः ।
नव्यास्तु-‘ निगीर्याध्यवसानमेवतिशयोक्तिः । प्रभेदान्तरं त्वनुगतरू-पाभावादलंकारान्तरमेव । ननु प्रस्तुतान्यत्वभेदे-भेदेनाभेदस्य, असंबन्धे संबन्ध इति भेदे-संबन्धेनासंबन्धस्य, संबन्धेऽसंबन्ध इति भेदे–असं-बन्धेन संबन्धस्य, कार्यकारणपौर्वापर्यविपर्यये च तेनैवानुपूर्व्यस्य च निगरणं रत्नाकरविमर्शिनीकाराद्युक्तप्रकारेण संभवतीति चेत्‍, न । अन्यत्वादिभिरनन्यवस्तुप्रतीतेरेव चमत्कारित्वम्‍ , न त्वनन्यत्वादिभिः ।
तेषामनुभवासंगतेः । न चान्यतमत्वमनुगतमिति शक्यते वक्तुम्‍ । विच्छित्ति-वैलक्षण्ये सत्यन्यतमत्वस्याप्रयोकत्वात्‍ । अन्यथोपमारूकादिकति-पयान्यतमत्वं सकलान्यतमत्वं वा तल्लक्षणम्‍, उपमादयश्च तद्भेदा इत्येव किंन ब्रूयाः । अलंकारान्तरत्वे गौरवमित्यपि न वाच्यम्‍ । न ह्यत्राक्लप्तपदार्थ-कल्पनं येन गौरवं स्यात्‍ । प्रधानोत्कर्षकतारूपस्यालंकारत्वस्य त्वयापि स्वीकारात्‍ । अलंकारविभाजकोपाधिपरिगणनस्य च पुरुषपरिकल्पित-त्वात्‍ । ’ इत्यपि वदन्ति ।
‘ गगनचरं जलबिम्बं कथमिव पूर्णं वदन्ति विद्वांसः । दशरथचत्वरचारी ह्लज्ज्वरहारी विधुस्तु परिपूर्णः ॥ ’
इत्यादौ विषयिणः स्वाभाविकस्थाननिह्लवेन दृढाध्यवसानातिशयोक्तिः । यत्तु कुवलयानन्दे-
‘ यद्यपह्लुवगर्भत्वं सैव सापह्लुवा मता । त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यान्ति तां विधौ ॥’
इत्यत्र पर्यस्तापह्लुतिगर्भामतिशयोक्तिमाहुस्ताच्चिनत्यम्‍ । पर्यस्तापह्लुतेर-पह्लुतित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात्‍ ।

अतिशयोक्ति अलंकारः - लक्षण ५

लक्षण ५

यदपि तैरेवोक्तम्‍-
‘ संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम्‍ । सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्‍ ॥ ’ इति । तदपि न । अत्रैव ‘ स्पृशन्तीवेन्दुमण्डलम्‍ ’ इति कृते कोऽलंकारः ? उत्-प्रेक्षेति चेत्‍, तर्हिवादेरभावाद्नम्योत्प्रेक्षेयमुचिता । इवादिसत्त्वे या वाच्यो-त्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात्‍ । ‘ त्वक्ती-र्तिभ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्‍ ’ इति त्वदुक्तगम्योत्प्रेक्षायाः ‘ सौधाग्राणि ’ इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात्‍ । तथा हि ‘ त्वत्कीर्तिर् ०’ इत्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गड्राप्रवेशतादात्म्योत्प्रेक्षेति नये
स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तेयम्‍ । कीर्तै स्वर्गड्राकर्मकप्रवेशकर्तृ-त्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूतभ्रमण-श्रान्तत्वरूपहेतूत्प्रेक्षेति नये तु तादृग्गमनतादात्म्याध्यवसितस्वर्गड्रा-प्रवेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । ‘ सौधाग्राणि-’ इत्यत्र परमो-र्ध्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेशवृत्तित्व-रूपानुपात्तधर्मनिमित्ता । तादृशस्पर्शकर्तृत्वोत्प्रेक्षायां तु परमोर्ध्वदेशसंयोग-रूपानुपात्तधर्मनिमित्तेति इयमपि गम्योत्प्रेक्षैव । तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशभुदाहरणमुचितम्‍ । यथास्मदीयं ‘ धीरध्वनिभिर- ’ इत्यादि । सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम्‍ ।
इयं चातिशयोक्तिर्वेदेऽपि दृश्यते । यथा-
‘ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥’
स्मृतौ च–
‘ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥’
अथास्या ध्वनिः-
‘ देव त्वद्दर्शनादेव लीयन्ते पुण्यराशयः । किं चादर्शनतः पापमशेषमपि नश्यति ॥’
पुण्यपापयोः सुखदुःखभोगमात्रनाश्यतया दर्शनाऽदर्शनाभ्यां तज्जन्य-सुखदुःखयो राश्यशेषशब्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपाद-ग्रिमाभ्यां पूर्वयोर्निगरणं व्य ज्यते । न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात् , इति वाच्यम्‍ । नाशोक्तिसामञ्जस्याय नाशकतावच्छेदकाव-
च्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात्‍ । उपमानेन महता क्षुद्रस्योपमेयस्य महत्त्वाधानाय निगरणस्यौचित्याच्च । एतेन ‘ तदप्राप्ति-महादुःख-’ इत्यादिकाव्यप्रकाशो व्याख्यातः ।

इति रसगंगाधरेऽतिशयोक्तिप्रकरणम्‍ ।

*********

रसगड्गाधरः - तुल्ययोगिता अलंकारः

तुल्ययोगिता अलंकारः - लक्षण १

लक्षण १

अथ तुल्ययोगिता-

प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वय-स्तुल्ययोगिता ॥
औपम्यं चात्र गम्यम्‍, तत्प्रयोजकस्य समानधर्मस्योपादानात्‍ । वाच-काभावाच्च । अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरं न तु साधा-रणधर्मरूपमिति विज्ञायते । अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः । केचित्तु-‘ सादृश्यभाव एवातिरिक्तः । सादृश्यं तु तत्तत्साधारणधर्मा-
त्मकमेव । स चेवादिपदानां शक्यतावच्छेदकः । तत्तत्साधारणधर्मवाच-कैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधनेऽपि सादृश्यभावरूपेण बोधो व्यञ्जनसाध्य एव ’ इत्यादि वदन्ति ।
उदाहरणम्‍ -
‘ प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥’
अत्र मानिन्या वर्ण्यत्वात्तदीयत्वेन प्रकृतयोः कर्त्रोरक्ष्रुमानयोर्विगलन-क्तिया समानधर्मत्वेनोपात्ता, विलोचनमनसोरपादानयोश्च । कारकाणां सर्वेषामपि क्तियान्वयस्य तुल्यत्वात्‍ । एवं चतुर्णां क्रियारूपधर्मैक्येऽपि द्वयोर्द्वयोरेवौपम्यं प्रतीयते न परस्परं चतुर्णाम्‍ । तदपादानत्वतत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात्‍ । शेषमुपरिष्टाद्वोध्यम्‍ ।
‘ न्यञ्चति क्यति प्रथमे समुदञ्चति किं च तरुणिमनि सुद्दशः । उल्लसति कापि शोभा वचसां च विभ्रमाणां च ॥’

तुल्ययोगिता अलंकारः - लक्षण २

लक्षण २

अत्र गुणः । यदि च ‘ विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च भृशम्‍ ’ इत्युत्तरार्धं तदा क्रिया । यदि ‘ दधति स्म मधुरिमाणं
वाचो गतयश्च विभ्रामाश्च भृशम्‍ ’ इति क्तियते तदा गुणविशिष्टा क्तिया । केवलगुणेन साक्षात्संबन्धाभावात्‍ केवलक्तियायाश्चाह्लद्यत्वात्‍ ।
अप्रकृतानामेव यथा-
‘ न्यञ्चति बाल्ये सुद्दशः समुदञ्चति गण्डसीम्नि पाण्डिमनि । मालिन्यमाविरासीद्राकाधिपलवलिकनकानाम्‍ ॥’
अत्र गुणः, आविर्भावक्तियायाः साक्षाद्धर्मिभिरनन्वन्वयात्‍ । ‘ न्यञ्चति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च ’ इति कृते क्तिया । ‘ धवली-भवत्यनुदिनं लवली कनकं कलनिधिश्चायम्‍ ’ इति कृते गुणविशिष्टक्तिया ।
‘ त्वयि पाकशासनसमे शासति सकल्म वसुंधरावलयम्‍ । विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥
अत्रोभयसाधारणयोर्गुणक्तिययोरभावाच्छब्दमात्रम्‍ । श्लेषमूलेनाभेदा-ध्यवसानेन पिण्डीकृतोऽर्थो वा ।
यत्त्वलंकारसर्वस्वकृता, तदनुगामिना कुवलयानन्दकृता च ‘ गुण-क्तियाभिः संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः ’ इति चोक्तं तदापाततः ।
‘ शासति त्वयि हे राज न्नखण्डावनिमण्डलम्‍ । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ’
इत्यत्राभावरूपस्यैव धर्मस्यान्वयात्‍ । गुणक्तियेत्युपलक्षणं वा धर्म-मात्रस्य । एवम्‍ ‘ एकस्त्वं दानशीलो‍ऽसि प्रत्यर्थिषु तथार्थिषु ’ इत्यादावपि
दानशीलरूपैकान्वयाल्लक्षणप्रवृत्तिः, यथाकथांचिदनेकत्रैकान्वयस्य चमत्‍-कारिणोऽपेक्षितत्वात । एतेन-
‘ हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्रशात्रवयोः समा ॥’

तुल्ययोगिता अलंकारः - लक्षण ३

लक्षण ३

इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यत्कुवलयानन्दकृता लक्षित-मुदाह्लतं च तत्परास्तम्‍ । अस्या अपि ‘ वर्ण्यानामितरेषां वा धर्मैक्यं तुल्य-
योगिता । ’ इति पूर्वलक्षणाक्तान्तत्वात्‍ । एकानुपूर्वीबोधितवस्तुकर्मकदान-पात्रत्वस्य, परम्परया तादृशशब्दस्य, प्रागुक्तमार्गेणार्थस्य, वा धर्मस्यैक्यात्‍ ।
‘ यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥ ’
इत्यत्रापि कटुत्वविशिष्टस्य निम्बस्यैव परम्परया छेदकसेचकपूजक-
धर्मत्वसंभवात्‍ । न चात्र वृत्तिनियामकसंबन्धेन धर्मिवृत्तित्वं विवक्षितं धर्मस्य, वक्ष्यमाणकारकदीपकादावव्याप्त्यापत्तेः ।
अथ चन्द्र इव सुन्दरं मुखमित्याद्युपमायां चन्द्रमुखयोरेकधर्मान्वया-दतिव्याप्तिः । न चात्र प्रकृतानामेवाप्रकृतानामेवेत्युक्तत्वान्न तथेति वाच्यम्‍ । प्रागुक्ते ‘ प्रिये विषादं-’ इति पद्ये ‘ जगाल मानो ह्लदयादभुष्या विलोचना-
भ्यामिव वारिधारा । ’ इत्युत्तरार्धे कृते प्रकृतयोर्मानवारिधारयोरुपमायां तथाप्यतिव्याप्तेः । चन्द्र इव सुन्दरं मुखमित्यत्रापि वक्ष्यमाणदीपकलक्षणा-तिव्याप्तेश्च । न चौपम्यस्य गम्यत्वे सतीत्यपि विशेषणीयमिति वाच्यम्‍ ।
‘ चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमद्युतिः । हंसास्तु शरदि स्मेरपुण्डरीकमनोरमाः ॥’
इत्यत्र वाचकाभावाद्नम्योपमायां तथाप्यतिप्रसड्रात्‍ । यदि चात्र न व्यड्रया
उपमा, किं तु समासस्य वाच्या, पूर्वपदस्य लक्ष्या चेति सूक्ष्ममीक्ष्यते, तथापि ‘ हंसास्तु मानसभुवश्चन्द्रा एव न संशयः ’ इत्यादिरूपकादि-ष्वतिप्रसड्रः । न ह्यत्रापि चन्द्रादिसादृश्यविशिष्टे चन्द्रादिपदानां लाक्षणिकत्वादुपमा लक्ष्यैवेति शक्यते वक्तुम्‍ । रूपके लक्षणा नास्तीति प्रागेव
प्रतिपादनात्‍ इति चेत्‍, न । यत्र यथोक्तानां धर्मिणां यथोक्तधर्मान्वय एव चमत्कारी, तत्र तुल्ययोगिता, दीपकं वा । यत्र तादृशधर्मान्वयप्रयुक्तं सादृश्यमभेदो वा, तत्रोपमारूपकादिकमेवालंकारताप्रयोजकम्‍ । सुन्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात्‍ । अन्यथा सादृश्यस्यात्र प्रत्ययात्तदादायोपमाव्यवहारस्याप्यापत्तेरिति दिक्‍ ।

तुल्ययोगिता अलंकारः - लक्षण ४

लक्षण ४

एवं च-
‘ दधीचिबलिकर्णेषु हिमहेमाचलब्धिषु । अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥’
इत्यादौ रशनारूपैषा यथासंख्यावष्टब्धा ।
‘ दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः । अथत्वं संगरेः शेषकालानलाब्धयः ॥’
इत्यत्र च स्वरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता । यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वयः सा कारकतुल्ययोगिता ।
यथा-
‘ वसु दातुं यशो धातुं विधातुमरिमर्दनम्‍ । त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान्‍ ॥ ’
अत्र राज्ञः स्तावकवाक्ये प्रकृतानां क्तियाणामेकेन कर्त्रा साधारणेन धर्मेणौपम्यम्‍ ।
यथा वा-
‘ दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सड्रः सतां किमु न मड्रलमातनोति ॥ ’
अत्रार्थान्तरन्यासान्विता ।
‘ केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमाध्वि गड्रे भाग्याधिकाः कतिपये भवतीं पिबन्ति ॥’
अत्रैकं कर्म क्तियाणां साधारणम्‍ ।
व्यड्रयैषा यथा-
‘ अये लीलाभग्नत्रिपुरहरकोदण्डमहिम-न्कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहित-क्षितिः शेषः श्रीमान्कमठकुलचूडामणिरपि ॥’
अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेष-कमठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते ।

इति रसगड्राधरे तुल्ययोगिताप्रकरणम्‍ ।

*********

रसगड्गाधरः - दीपक अलंकारः

दीपक अलंकारः - लक्षण १

लक्षण १

अथ दीपकम्‍-

प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम्‍ ॥
प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम्‍ । प्रकृतार्थमुपात्तो धर्मः प्रसड्रादप्र-कृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम्‍ । यद्वा दीप इव दीपकम्‍, संज्ञायां कन्‍ । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम्‍ ।
उदाहरणम्-
‘ अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम्‍ ॥ ’
यथा वा-
‘ सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः । दयादृष्टेश्च ते राजन्विश्वसंजीवनं गुणः ॥ ’
यथा वा-
‘ मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥’
अत्राभावः साधारणो धर्मः
कस्यचित्प्रकृतत्वे दीपकम्‍, अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कर्त्रादिकारकाणां संनिधानं तेषां स्वसजातीये-
नान्येन सह तुल्ययोगिता, दीपकं वा पृथक्पृथग्भवति, औपम्यस्यापि पृथगेव भासमानत्वात्‍ ।
यथा-
‘ सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति ॥ ’

दीपक अलंकारः - लक्षण २

लक्षण २

अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे ‘ लावण्येन प्रमदा-’ इत्यत्र कर्तृ-करणयोः । ‘ दिवि सूर्य० ’ इत्यत्र कर्त्रधिकरणयोः ।
अमुनैव न्यायेनानेकासां क्तियाणामेककारकान्वये कारकदीपकम ।
यथा-
‘ वसु दातुं यशो धांतु विधातुमरिमर्दनम्‍ । त्रातुं च मादृशान्राजन्नतीव निपुणो भवान्‍ ॥ ’
अत्र वृत्तिहिनस्य कस्यचिद्दीनस्य वचने वसुदान-स्वत्राणलक्षणयोः क्तिययोः प्रकृतयोः , अरिमर्दनस्य चाप्रकृतस्य, यशोधानस्य चोभायात्मनः साधारणं कर्तृकारकम्‍ ।
यथा-
‘ वासयति हीनसत्त्वानतिसत्त्वानुद्धतान्विवासयति । त्रासयति सकलशत्रून्नीतिविदामग्रणीर्नराधिपतिः ॥’
अत्र कस्यचिद्धीनसत्त्वस्य, सत्त्वाधिकमसहमानस्य वा, शत्रुपरि-पीडितस्य वा कस्यचिद्राजानं कंचित्प्रत्युक्तौ सामान्यविशेषरूपायामप्रस्तुत-प्रशंसायामेकस्याः क्तियायाः प्रकृतायाः इतरयोश्चाप्रकृतयोः साधारणं तत्‍ । यदि तु प्रागुक्तवक्तृभिन्नस्य कस्यचिद्राजस्तोतुर्नीतिमात्रबोधकस्य चेयभुक्ति-स्तदा क्तियाणां प्रकृताप्रकृतरूपत्वाभावात्तुल्ययोगितैव । यत्तु-
‘ सकृद्‍वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्‍ । सैव क्रियासु बह्लीषु कारकरयेति दीपकम्‍ ॥ ’
इति लक्षणमुक्त्वा-
‘ स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्‍ । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूल शयने ॥ ’
इति द्वितीयं दीपकमुदाह्लतं काव्यप्रकाशकृद्भिः । तत्र विचार्यते-प्रथमार्धगतलक्षणेनैव दीपक्तियारूपधर्मस्येव क्रियाणामपि कारकरूपधर्मस्य सकृद्‍वृत्तेः साम्राज्यात्‍ । न च क्रियाणां प्रकृताप्रकृतात्मताविरहे‍ऽपि शुद्धप्रकृतत्वे शुद्धाप्रकृतत्वेऽपि वा कारकस्य सकृद्‍वृत्तेर्दीपकत्वम्‍, क्तिया-भिन्नामां तु प्रकृताप्रकृतात्मतायामेव क्तियादेर्धर्मस्येति वैलक्षण्याल्लक्षण-द्वयमिति वाच्यम्‍ । कारकतुल्ययोगितोच्छेदापत्तेः । सकलालंकारिक-सिद्धान्तविरोधापत्तेश्च । लक्षणद्वयस्याननुगतत्वाच्च । तादृशलक्षणद्वयान्यतरवत्त्वस्य लक्षणत्वे गौरवादुपप्लवप्रसड्राच्च । एवं च ‘ स्विद्यति कूणति-’ इत्या-द्युदाहरणमपि न संगच्छते, क्तियाणां शुद्धप्रकृतत्वात्‍ । किं च दीपकतुल्य-योगितादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संमतम्‍ । न चात्र स्वेदनकू-णनादीनामेककारकान्वितानामप्यौपम्यं कविसंरम्भगोचरः । तस्मात्समुच्चया-लंकारच्छायाऽत्रोचिता । अस्मदुदीरितानां वसुदानादीनां हीनसत्त्व-वासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सह्लदयह्लदय-मेव प्रमाणमिति न प्रतिबन्दिदानावसरः । यदि तु स्वेदनादीनामौपम्यं
प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि न तु दीपकमित्यास्तां तावत्‍ । यदपि विमर्शिनीकृतोदाह्लतम्‍-
“ आलिड्रितुं शशिमुखीं च सुधां च पातुं कीर्तिं च साधयितुमर्जयितुं च लक्ष्मीम्‍ ।
स्वद्भक्तिमद्भुतरसां ह्लदये च कर्तुं मन्दादरं जनमहं पशुमेव मन्ये ॥

दीपक अलंकारः - लक्षण ३

अत्रालिड्रनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति । ” तदपि चिन्त्यम्‍ । आलिड्रनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्यावश्यक-त्वेऽपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात्‍ । यः शशिमुखीमालिड्रितुं यश्च सुधां पातुं योऽपि कीर्तिं साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्‍-भक्तिं कर्तुं मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिन्नकर्तृ-
त्वे‍ऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम्‍ । किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्भक्तीनां बिम्बप्रतिबिम्बभाव-कृतम्‍ । नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्राति-कूल्यम्‍ । सर्वेषां पशुत्वोक्त्यपेक्षया सकलतादृशक्तियाकरणमन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात्‍ । यदि तु विमर्शिनीकारोक्तिरवश्यं समर्थनीयेत्या-ग्रहस्तदेत्थं समर्थ्यताम्‍-क्तियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंबन्धेनानेकक्रियासाधारणधर्मस्य
सकृद्‍वृत्तिरस्तीति न दोषः । कारकस्येव कारकविभाजकोपाध्यवच्छेदकस्यापि सकृद्‍वृत्तेः कारकदीपकत्वेन परिभाषितुं शक्यत्वात्‍ । कारकसकृद्‍वृत्तेस्त्व-स्माभिरुक्तमेवोदाहरणमनुसर्तव्यम्‍ ।
अत्रेदं बोध्यम्‍-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति, धर्मसकृद्‍-वृत्तिमूलाया विच्छित्तेरविशेषात्‍ । विच्छित्तिवैलक्षण्यस्यैवालंकारविभागहेतु-त्वात्‍ । न च धर्मस्य सकृद्‍वृत्तेरविशेषे‍ऽपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां
ग्रकृताप्रकृतत्वेन च तुल्ययोगिताया दीपकस्य विशेष इति वाच्यम्‍ । तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । श्लेषे‍ऽपि द्वैतापत्तेश्च । सर्वेषामप्य-लंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्याद्वैलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम्‍, उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात्‍ । तुल्ययोगि-तायां च वैवक्षिकम्‍, उपमानोपमेयस्वरूपाभावात्‍ । अतो वैलक्षण्यमिति वाच्यम्‍ । उपमेयोपमानत्वयोः प्रकृताप्रकृतरूपत्वे मानाभावात्‍ । ‘ खमिव
जलं जलमिव खम्‍ ’ इत्याद्युपमेयोपमायां प्रतीपे चौपम्यानापत्तेश्च । तस्मा-त्तुल्ययोगिताया एव त्रैविष्यमुचितम्‍ । प्रकृतानामेव धर्मस्य सकृद्‍वृत्तिः , अप्रकृतानामेव, प्रकृताप्रकृतानां चेति । एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य पृथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः ।

दीपक अलंकारः - लक्षण ४

लक्षण ४

अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति । यथा-
‘ न भाति रमणीयो‍ऽपि वैराग्येण विना यतिः । वैदुष्येण विना विप्रो नरलोकस्त्वया विना ॥’
‘ लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम्‍ ॥ ’
आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम्‍ । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम्‍ ॥ ’
एवं तुल्ययोगितायामप्यूह्यम्‍ ।
वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावा-त्रैविध्योक्तिरापातमात्रात्‍ । अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततो-‍ऽपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसड्रात्‍ ।
एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम्‍ । बिम्बप्रति-बिम्बभावेनाप्येतत्संभवति । यथा-
‘ शीलभारवती कान्ता पुष्पभारवती लता । अर्थभारवती वाणी भजते कामपि श्रियम्‍ ॥’
‘ लता कुसुमभारेण शीलभारेण सुन्दरी । कविता चार्थभारेण श्रयते कामपि श्रियम्‍ ॥’
इदमेव लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम्‍, अन्यथा तुल्ययोगितायाः । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्तियारूपमनुगामि-मात्रं चमत्कारकारणम्‍, अपि तु कुसुमादिबिम्बप्रतिबिम्बकरम्बितम्‍ । इयांस्तु विशेषः–यत्केवलबिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा ‘ कोमलातपबालाभ्र-’ इत्यादौ । प्रकृते तु न तथा, अनु-
गामिन्म विना धर्मस्वरूपस्यैवानिष्पत्तेः । न हि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्‍वृत्तिः संभवति । तथा ‘ मृतस्य लिप्सा-’ इत्यादिप्रागुक्ते मृतादीनाम्‍, कारकदीपके कारकतुल्ययोगितायां च ‘ वसु दातुं-’ इत्यादौ क्तियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च बिम्बप्रतिबिम्बता बोध्या ।
उत्तरोत्तरस्मिन्पूर्वस्योपकारकतायां मालादीपकम्‍ । यथा-
‘ आस्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्तः करणानुरागरसिकः सभ्यः सभा चामुना । दारिद्य्रानलदह्यमानजगतीपीयूषधाराधर क्षोणीनाथ तया भवांश्च भवता भूमण्डलं भासते ॥’

दीपक अलंकारः - लक्षण ५

एतच्च प्राचामनुरोधादस्माभिरिहोदाह्लतम६ । वस्तुतस्वेतद्दीपकमेव न शक्यं वक्तुम्‍, सादृश्यसंपर्काभावात्‍ । किं त्वेकावलीप्रभेद इति वक्ष्यते ।
अस्मिंश्चालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धर्मिष्वनन्वयो दोषः । यथा प्रागुक्ते पद्ये ‘ रसिकाः सामाजिकास्तैः सभा ’ इति कृते एकवचना-न्तैर्धर्मिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात्‍ । वचनविपरिणामे-नान्वये उपमायामिव स्यादेव दोषः । एवं जहल्लिड्रनामार्थस्य धर्मस्य सकृद्‍वृत्तौ लिड्रभेदो‍ऽपि दोषः । यथा–
‘ जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता । कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ॥’
यदि तु ‘ तपसा नाल्पेन शक्यते लब्धुम्‍ ’ इत्याख्यातान्तं क्रियते तदा लिड्रभेदो न दूषणम्‍ । एवमजहल्लिड्रनामार्थस्य सकृद्‍वृत्तावपि न दोषः ।
यथा-‘ फलमतिशयितं तपस्यायाः ’ इति चतुर्थचरणनिर्माणे ।
एवं पुरुषस्यैकरूप्याभावे दोषः । यथा-
‘ दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः । दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ॥’
यदि त्वमित्यत्र भवानिति क्तियते तदा न दोषः । एवंकालभेदेऽप्यू-ह्मम्‍ । एतेन-
‘ सड्‍ग्रामाड्रणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्‍ । कोदण्डेन शराः शररैरिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम्‍ ॥’
इत प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव ।

इति रसगड्राधरे दीपकप्रकरणम्‍ ।

*********

रसगड्गाधरः - प्रतिवस्तूपमा अलंकारः

प्रतिवस्तूपमा अलंकारः - लक्षण १

अथ प्रतिवस्तूपमा-

तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम्‍ । तस्यां च साधा-रणधर्मस्य सर्वेऽपि प्रकारा यथासंभवं निरूपिताः । सादृश्योपस्कृतस्य
वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थितिः प्रदर्शितैव । इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापिता वाक्यार्थगता प्रतिवस्तूपमा निरूप्यते । न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमितव्यम्‍ । ‘ दि वि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि ’ इत्यादौ वाक्यार्थेऽप्युपमायाः
संभवात्‍ । अत एव भिन्नशब्दोपात्तैकधर्मकत्वेनापि न वैलक्षण्यं वक्तुं शक्यम्‍ । प्रकृते भातिभ्राजतिभ्यां धर्मस्यैकस्यैव प्रतिपत्तेः । तस्माल्लक्षणा-नुसारेणालंकारान्तरेभ्यो वैलक्षण्यमम्या बोध्यम्‍ ।
अथ किमस्या लक्षणम्‍ -‘ वाक्यार्थगतोपमात्वम्‍’ इति चेत्‍ , प्रागुक्त-वाक्यार्थोपमायामतिव्याप्तेः । न चार्थत्वेन तद्विशेषणीयमिति वाच्यम्‍ । दृष्टान्तालंकारे तथाप्यतिप्रसड्रात्‍ । वस्तुप्रतिवस्तुभावापन्नसाधारणधर्म-कत्वेनापि तद्विशेषणीयमिति चेत्‍ । तथापि
‘ तावक्तोकिल विरसान्यापय दिवसान्वनान्तरे निवसन्‍ । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ’

प्रतिवस्तूपमा अलंकारः - लक्षण २

लक्षण २

इत्यप्रस्तुतप्रशंसायामतिप्रसड्रादिति । मैवम्‍ । अप्रस्तुतप्रशंसायां वस्तुप्रतिवस्तुभावस्य भिन्नशब्दोपात्तैकप्रतिपाद्यरूपस्यासंभवात्‍ । एवं च वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकवाक्यार्थयोरार्थमौपम्यं प्रति-वस्तूपमा ॥
‘ आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्‍ । भ्रमद्‍भ्रमरसंभारं स्मरामि सरसीरुहम्‍ ॥’
इत्यत्र स्मरणालंकारेऽतिप्रसड्रवारणाय वाक्यार्थगतमिति । अत्रौपम्य-
स्यार्थत्वेऽपि पदार्थगतत्वमेव, न तु वाक्यार्थगतत्वम्‍, स्मरणस्य तदसंपर्कात्‍ । पदान्तरकृत्यं तूक्तमेव ।
उदाहरणम्‍-
‘ आपद्नतः खलु महाशयचक्तवर्ती विस्तारत्यकृतपूर्वमुदारभावम्‍ । कालागुरुर्दहनमध्यगतः समन्ता-ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥’
अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते ।
यथा वा–
विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकंपृणैः परिमलैः परिपूरितस्य कालागुरोः कठिनतापि नितान्तरम्या ॥’
वैधर्म्येणाप्येषा संभवति-
‘ वंशभवो गुणवानपि सड्रविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम्‍ ॥ ’

प्रतिवस्तूपमा अलंकारः - लक्षण ३

लक्षण ३

यथा वा-
‘ गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम्‍ । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ’
अत्र शाब्देन दृष्टान्तेन तद्नतः सामान्यावच्छिन्नव्यतिरेकसहचार आक्षिप्यते । तेन च सामान्यावच्छिन्नान्वयनियमसिद्धिद्वारा प्रकृतो विशेषा-वच्छिन्नान्वयनिमः सिध्यतीति प्रायशः सर्वत्र वैधर्म्ये सथितिः । एवम-न्वयेन प्रतिवस्तूपमायामपि नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वयदृष्टान्तेन सामान्यान्वयनियमसिद्धिद्वारा तत्सिद्धिः । नियमविशेषरहितकेवलार्थमात्रस्य प्रकृतत्वे त्वप्रकृतवाक्यार्थनिरूपितमौपम्यमात्र गम्यम्‍, न तु नियमः , अप्रयोजकत्वात्‍ । यथा ‘ भैरग्रे भासते चन्द्रो भुवि भाति भवान्बुधैः ’ इत्यादौ ।
ननु कथमस्मिन्नलंकारे सर्वत्रौपम्यं गम्यमित्युच्यते । यावता प्रागु-पदर्शितायां वैधर्म्यप्रतिवस्तूपमायां वाक्यार्थयोरौपम्यस्य बाधात्‍ । नहि पचति नपचतीति वाक्यार्थयोः पाकक्तियामात्रसाम्यादौपम्यं गम्यते ।
निषेधप्रतियोगित्वेनोत्तरवाक्यार्थे तस्या अप्ररोहादिति चेत्‍ न । अप्रकृतवाक्यार्थाक्षिप्तस्य स्ववैपरीत्यस्यैवौपम्याश्रयत्वात्‍ । न च वाक्यार्थ-योरौपम्यमिति यदुक्तं तत्कथं संगच्छतामिति, वाक्यवेद्यस्यैव प्रकृते वाक्यार्थत्वेनेष्टत्वात्‍ । तथा हि-
‘ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम्‍ ॥ ’
अत्र विरलो जानातीति विधिमुखोऽपि प्रकृतवाक्यार्थः ‘ पुरुषविशेषं विना न सर्वे जानन्ति ’ इत्यर्थविशेषमादायैव पर्यवसितो भवतीति निषेध-रूपवाक्यार्थस्य तादृशेनैव द्वितीयवाक्यार्थेन सह गम्यते सादृश्यं स्फुटमेव । यत्र तु ‘ वंशभवः ’ इत्यादौ प्रागुदाह्लते प्रकृतवाक्यार्थो विधिरूपः सड्रविशेष-हेतुकत्वस्य पूजनादौ विधेयत्वादवसीयते, तत्रापि हेतुताघटकव्यतिरेकस्य गुणतया रतीयमानस्यौपम्यं निर्बाधमिति न दोषः । इयं च वाक्यार्थयोः
सामान्यविशेषभावाऽनापन्नयोर्भवति, तत्रैवौपम्यस्य गम्यत्वात्‍ । सामान्य-विशेषयोस्त्वौपम्याप्रतीतेः समर्थ्यसमर्थकयोरर्थान्तरन्यासो वक्ष्यते ।

प्रतिवस्तूपमा अलंकारः - लक्षण ४

लक्षण ४

यत्तु कुवल्यानन्दकृता वैधर्म्यमुदाह्लतम्‍-
‘ विद्वानेव हि जानाति विद्वज्जनपरिश्रमम्‍ । नहि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम्‍ ॥ ’
‘ यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्‍ । नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ ’ इति ।
तत्र ‘ विद्वानेव हि जानाति ’ इति पद्यं भवतु नाम यथाकथंचिद्वैधर्म्यस्यो-दाहरणम्‍ , ‘ यदि सन्ति ’ इति तु न युक्तम्‍ । वैधर्म्योदाहरणं हि प्रस्तुत-
धर्मिविशेषोपारूढार्थदाढर्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्य-न्तरारूढस्याप्रकृतार्थस्य कथनम्‍ । प्रकृते च ‘ यदि सन्ति तदा स्वयमेव प्रकाशन्त ’ इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति । नह्यत्र द्वितीयार्धेन तत्सजातीयोऽर्थो निबध्यते । निबध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः । शपथेन न विभाव्यते, किं तु स्वयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात्‍ । नहि वैधर्य्मे प्रकृतानु-रूप्यं जातुचिद्धटते, व्याघातात्‍ । तस्मात्‍ साधर्म्येणैवेदमुदाहरणं संगतम्‍ , न वैधर्म्येण । न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यार्थेन कथं नाम तद्धटित उत्तरवाक्यार्थः साधर्म्यमर्हतीति वाच्यम्‍ । स्वयमित्यत्राकृष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्यार्थे निवेशितत्वात्‍ । अत्यन्तायोग-व्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात्‍ ।
‘ सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम्‍ । आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते ॥’
अत्र स्वतोऽ‍नुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधर्म्यम्‍ , तथा ‘ यदि सन्ति-’ इति पद्येऽपीति नञ् मात्राश्रयणादेव वैधर्म्यं जगदे, न तु निपुणतरं निरीक्षितमायुष्मता । यदि तु ‘ यदि सन्ति-’ इति पद्यस्य ‘ नहि कस्तूरिका-’ इत्याद्युत्तरार्धं
दूरीकृत्य ‘ वाचा वाचस्पतेर्व्योम्रि विलसन्ति न वल्लयः ’ इति क्तियते, तदा वैधर्म्यं प्रकृतविपरीतार्थघटनाद्युक्तम्‍ ।

प्रतिवस्तूपमा अलंकारः - लक्षण ५

लक्षण ५

अथ-
‘ खलास्तु कुशलाः स्वीयहितप्रत्यूहकर्मणि । निपुणाः फणिनः प्राणानपहर्तुं निरागसाम्‍ ॥ ’
इत्यत्रासंष्ठुलवाक्यार्थेऽतिप्रसड्रः , कुशलनिपुणपदाभ्यामेकस्यैव धर्मस्यो-पादानात्‍ । न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम्‍ । निपुणकुशलपदाभ्यां प्रतिपादितेन शब्दसामान्यात्मना धर्मेण खलफणिनोरौपम्यस्य प्रत्ययात्‍ ।
नापि धर्मिणोरौपम्ये‍ऽपि विशिष्टवाक्यार्थयोस्तन्न तथेति वाच्यम्‍, अव-यवद्वारा तयोरपि तस्य तथात्वात्‍ । स्वभावसिद्धत्वेनानुपात्तधर्मेणौपम्यस्य गम्यत्वाच्चेति चेत्‍ , मैवम्‍ । साधारणधर्मस्य वस्तुप्रतिवस्तुभावोक्त्या तदितरपदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम्‍ । प्रकृते च खलफणिनोःप्राणिहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरण-प्रत्यूहकरणयोर्नाश-प्रागभावपर्यवसितयोराननुरूप्यान्न बिम्बप्रतिबिम्ब-
भाव इति न दोषः । यद्वा अस्त्वत्र प्रतिवस्तूपमा । परं त्वसंष्ठुलतारूपस्य वाक्यार्थसामान्यदोषस्य सत्त्वादचमत्कारिणी, दुष्टोपमादिवत्‍ । वाक्यार्थो हि गाढतरव्युत्पत्तिनिपुणीकृतान्तः करणैर्नानाविधपदार्थरचनापरिवृत्ति-समर्थैरेव कविभी रचितः कामपि कमनीयतामाधत्ते, नेतरः ।
तथा हि-
‘ उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम्‍ । पठत्सु ते उ प्रतिभूपतीनलं विनिद्ररोमाजनि श्रृण्वती नलम्‍ ॥’
अस्मिन्नैषधीयपद्ये ( १। ३४ ) द्वयोः क्तिययोरुद्देश्यविधेयभावेन गुणप्रधानभावमकुर्वता, बन्दिनः षष्ठयन्ततया सप्तम्यन्ततया च द्विः परा-मृशता कविना वाक्यार्थः क्रमेलकवदसंष्ठुलतां प्रापितः । यदि च स एव वाक्यार्थः प्रकारान्तरेण निर्मीयते ‘ उपासनार्थं पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम्‍ । प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि श्रृण्वती नलम्‍ ॥ ’

प्रतिवस्तूपमा अलंकारः - लक्षण ६

इति, सदा ललनाड्रसंनिवेश इव कीदृशीं कमनीयतामावहेदिति सह्लदयैराकलनीयम्‍ ।
एवम्‍-
‘ तवामृतस्यन्दिनि पादपड्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरक्म हि बीक्षते ॥ ’
इति कुवलयानन्दोदाह्लते आलुवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षणप्रतिषेधस्य च ‘ सविशेषणे हि-’ इति
न्यायेनेच्छाप्रतिषेधधर्मपर्यवसायितया यद्यपि धर्मैक्यं सुसंपादम्‍ । अस्तु वा दृष्टान्तालंकारः । तथापि पादपड्कजे निवेशितात्मेत्याधारसप्तम्याः स्थितेऽरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावयोरन्यतरे-णापि प्रकारेण नानुरूपा, इत्यसंष्टुलता स्थितैव । ‘ स्थितोऽरन्विदे मकर-न्दनिर्भरे ’ इति चेत्क्रियते तदा तु रमणीयम्‍ ।
तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्त-द्धटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयानुरूपेण चान्वयेन भाव्यमिति सह्लदयह्लदय्म प्रष्टव्यम्‍ ।
‘ वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलड्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ’
अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा ।

इति रसगंगाधरे प्रतिवस्तूपमाप्रकरणम्‍ ।

*********

रसगड्गाधरः - दृष्टान्तालंकार :

दृष्टान्तालंकार : - लक्षण १

प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च बिम्ब-प्रतिबिम्बभावे दृष्टान्तः ॥
तदुक्तम्‍-‘ दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्‍ ’ इति ।
उदाहरणम्‍-
‘ सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलनि ॥ ’
प्रतिपत्त्यर्थम्‍ । अतः सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेदः ’ इत्याह । तन्न । प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्य-विशिष्टत्वादेकत्र सादृश्यप्रत्ययः, अन्यत्र नेत्यस्याऽऽज्ञामात्रत्वात्‍ । वैपरीत्यस्यापि सुवचत्वाच्च । एतादृशोऽर्थोऽन्यत्रापि स्थित इति प्रकृतार्थ-प्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृश्यापरपर्यायत्वाच्च । अत एव प्रायश; सत्कविनिर्मितेषु लक्ष्येषु प्रकृतवाक्यार्थघटकप्रकृतिप्रत्यया-र्थानुरूपप्रकृतिप्रत्ययार्थघटित एवाप्रकृतवाक्यार्थो दृश्यते । न च भवदु-क्तमपि वैलक्षण्य्म नानयोः पृथगलंकारतायां प्रयोजकम्‍ । औपम्याख्यसा-मान्यलक्षणाक्तान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम्‍ । तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्तेः । इष्टापत्तिरिति चेत्सैवात्रापि दृश्यताम्‍ । प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात्‍ । औपम्यरूप-सामान्यलक्षणसत्त्वाद्वहूनामलंकाराणामुपमा‍ऽवान्तरभेदत्वापत्त्या सकला-लंकारिकसिद्धान्तभड्रप्रसड्राच्च । “-‘ अब्धिर्लड्रित एव वानरभटैः- ’ इत्यादिमुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मो निर्दिष्टस्तथापि नैतन्निबन्धनमौ-पम्यं विवक्षितम्‍ । यन्निबन्धनं च विवक्षितं तत्राब्धिलड्घनादावस्त्येव दिव्य वागुपासनादिना प्रतिबिम्बनम्‍ ” इति त्वन्मूलग्रन्थविरोधाच्च । न च यन्नि-बन्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम् , न पुनरौपम्यमिति वाच्यम्‍ । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृ-ष्ठस्यैव पुनस्तया परामर्शस्य व्युपत्त्तेः । ‘ न चैत्रार्थमोदनः पक्कः, यदर्थं च
पक्कः स मैत्रः ’ इत्यादौ द्वितीयपक्कादिशब्दानामध्याह्लतशाकादिपरत्वे असं-गतेः स्फुटत्वात्‍ । तस्मादस्मदुक्तेनैव पथा प्राचीनैर्विहितो‍ऽलंकारयोरनयो-र्विभागः संगमगीयः । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ-प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयोः किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम् , नालंकारताया इति सुवचम्‍ ।
वैधर्म्येणायं यथा-
‘ जनयन्ति परप्रीतिं नराः सत्कुलसंभवाः । नहि कारस्करः क्कापि तापनिर्वपणक्षमः ॥ ’
यथा वा-
‘ तापत्रयं खलु नृणां ह्लदि तावदेव यावन्न ते वलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पड्केरुहोदरगतानि कुतस्तमांसि ॥ ’
प्रीतिजनन-तापनिर्वापणाभावयोः , तापत्रयावस्थान-तमोदूरीकरण-योश्च वै धर्म्येणात्र बिम्बप्रतिबिम्बभावः ।

इति रसगंगाधरे दृष्टान्तप्रकरणम्‍ ।

*********

रसगड्गाधरः - निदर्शनालंकारः

निदर्शनालंकारः - लक्षण १

अथ निदर्शना-

उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शन ॥
अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति । वाच्यरूपकवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधा-विषयत्वम्‍ । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम्‌ । तद्विशेषणानां तु
बिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम्‍ । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते ।
उदाहरणम्‍-
‘ वामन्तरात्मनि लसन्तमनन्तमज्ञा-स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणिं क्षितिरजःसु गवेषयन्ति ॥ ’
अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेर्भूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला धीः ।
यथा वा-
‘ अन्यैः समानममरैर्जगदन्तरात्म-न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतैर्विवरान्तरालैः ॥

निदर्शनालंकारः - लक्षण २

अथ निदर्शना-

उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शन ॥
अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति । वाच्यरूपकवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधा-विषयत्वम्‍ । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम्‌ । तद्विशेषणानां तु
बिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम्‍ । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते ।
उदाहरणम्‍-
‘ वामन्तरात्मनि लसन्तमनन्तमज्ञा-स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणिं क्षितिरजःसु गवेषयन्ति ॥ ’
अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेर्भूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला धीः ।
यथा वा-
‘ अन्यैः समानममरैर्जगदन्तरात्म-न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतैर्विवरान्तरालैः ॥

निदर्शनालंकारः - लक्षण ३

ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादा-
नात् अस्तु नाम उपात्तयोरार्थोऽभेदः । पदार्थनिदर्शनाया तूपमानशोभादेर-न्यतरस्यैवोपात्तत्वम्‍ , न द्वयोरिति चेत्‍ । शोभाशब्देन शोभात्वेन द्वयोरप्यु-पात्तत्वात्‍ । नह्युपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं येना-व्याप्तिः स्यात्‍ । यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया एव, न पदार्थ-निदर्शनायाः । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्यान्यतरत्रारोपो
लक्षणमस्तु । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना, पदार्थनिदर्श-नायां च निगीर्याध्यवसानरूपयातिशयोक्त्या गतार्थतेति चेत्‍ , न । वाक्यार्थ-निदर्शनायां रूपकस्य गुणीभूतत्वेन तद्‍ध्वनित्वायोगात्‍ । अन्यथा गुणीभूत-योपमया रूपकस्यापि गतार्थतापत्तेः । किं च अस्याश्च शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम्‍ । रूपकस्य तूपमेयगत उपमानाभेदः ,
अतिशयोक्तेश्च । निगरणानिगरणाभ्यां च तयोर्विशेष इत्यन्यत्‍ ।
एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम्‍ । अत एव त्वा-मन्तरात्मनि-’ इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनूद्य शोधयन्त इत्यत्र शोधयन्तीति विधाने, अर्धयोः पौर्वापर्ये च न सौन्दर्यहानिः । रूपकादौ तूच्यमाने व्यड्रयकक्षोद्देश्यविधेयभावस्यापि वाच्यकक्षोहेश्यविधेयभावा-नुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापत्तेरिति सुधीमिराकल-नीयम्‍ ।

निदर्शनालंकारः - लक्षण ४

लक्षण ४

अलंकारसर्वस्वकारस्तु-
‘ त्वत्पादनखरत्नानां यदलक्तकमार्जनम्‍ । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥ ’
इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आह च-‘ यत्र तु प्रकृत-वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्ति-मूला निदर्शनैव युक्ता ’ इति । तन्न । वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वा-पत्तेः । न चेष्टापत्तिः । वाक्यार्थनिदर्शनैव निर्वास्यताम्‍ , स्वीक्तियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात्‍ । युक्तं चैतत्‍ । पदार्थरूपके मुखं चन्द्र इत्यादौ क्लप्रस्य श्रौतस्याभेदारोपस्य रूपकजीवातुत्वकल्पनाया औचित्यात्‍ । ‘ इन्दुशोभां वहत्यास्यं ’ इत्यादिपदार्थनिदंर्शनायामभेदारोपस्या-
भावात्‍ तज्जीवातुत्वायोगाच्च । रूपके बिम्बनं नास्तीति तु शपथमात्रम्‍ , युक्त्यभावात्‍ । अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायाः सावकाशत्वाच्च ।
यत्तु तेनैव लक्षणं निर्मितम्‍-‘संभवता असंभवता वा वस्तुसंबन्धेन गम्यमानमौपम्यं निदर्शना ’ इति । तदपि न । रूपकातिशयोक्त्यादिष्वति-व्यापनात्‍ ।

निदर्शनालंकारः - लक्षण ५

लक्षण ५

यत्त्वलंकारसर्वस्वकारानुसारिणा कुवलयानन्दकृतोक्तम्‍-
‘ वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलड्कता ॥
इति । तत्तु तन्मतदूषणेनैव निवेदितरहस्यमिति न पुनराकुलीक्तियते । यदि तु
‘ त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥ ’
इति पद्यं निर्मीयते तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना इयं तु प्रतीयमानेति वाच्यम्‍ । ‘ मुखं चन्द्र इव ’ इति वाच्योपमा ‘ मुखं चन्द्रः ’ इति प्रतीयमाना , न त्वलंकारान्तरम्‍ इत्यस्यापि सुवच-त्वात्‍ । एवं चारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शना-जीवितम्‍ । स च कर्त्राद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्श-नायाम्‍ । अत एव मम्मटभट्टैरुदाह्लतम्‍-
‘ क्क सूर्यप्रभवो वंशः क चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्‍ ॥ ’ इति ।
नन्वत्र निदर्शना नैव संगच्छते । विषयिण उपादानेऽपि विषयस्यानुपा त्तत्वात्‍ । उभयोपादानं हि तत्रावश्यकम्‍ । अतो ललितालंकार उचित इति चेत्‍, ललितालंकारनिराकरणावसर एवैतव्द्यक्तमुपपादयिष्यामः ।

निदर्शनालंकारः - लक्षण ६

लक्षण ६

परे तु ‘ त्वत्पादनखरत्नानां-’ इत्यत्र दृष्टान्तालंकारमाहुः । तदप्यसत्‍ । बिम्बप्रतिबिम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्त-त्वात्‍ । तस्मात६ ‘ त्वत्पादनखरत्नानां- ’ इत्यत्र वाक्यार्थरूपकमेव, न

निदर्शनेति स्थितम्‍ । एवमसंभवद्वस्तुसंबन्धनिबन्धना पदार्थ-वाक्यार्थ-निदर्शना दर्शिता ।
‘ चूडामणिपदे धत्ते योऽम्बरे रविमागतम्‍ । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥ ’
अत्र ‘ कारीषोऽग्निरध्यापयति ’ ‘ भिक्षा वासयन्ति ’ इतिवदानुकूल्ये णिचः
प्रयोगात्‍ गिरेश्च सूर्योदयदेशावच्छिन्नशिरस्कतारूपस्य गृहमेधिगतसदा-तिथ्यकरणविषयकबोधानुकूलाचरणस्य संभवात्‍ मया इवान्येनाप्यतिथि-सेवा कार्या इत्यौपम्यसद्भावाच्च संभवद्वस्तुसंबन्धमूलपि निदर्शना संभवति ।
न च बोधयन्निव बोधयन्निति प्रतीयमानेयत्मुप्रेक्षा ‘ व्यालिम्पति तमोऽ-ड्रानि नभो वर्षति कृज्जलम्‍ ’ इत्यादाविवेति वाच्यम्‍ । वस्तुनः संभवेनैव तस्या अप्रसक्तेः इत्याहुः ।

निदर्शनालंकारः - लक्षण ७

इदं च ‘ धातुनोक्तक्तिये नित्यं कारके कर्तृतेष्यते ’ इत्युक्तपथेन धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते । यदि तु कृताकृत-विभागानुपपत्तेर्यत्नार्थकात्कृञस्तृति सविषयार्थकधातूत्तरकर्तृप्रत्ययस्या-श्रयत्वे निरूढलक्षणया यत्नाश्रयः कर्तृपदार्थः ,स एव च कर्तृप्रत्ययानां मुख्यार्थः , अचेतनस्तु भाक्त इति नयपथेन निरीक्ष्यते तदा बोधयन्नित्यत्र प्रतीयमानोत्प्रेक्षा संभवत्येव ।
अमुमेव चाशयं मनसिकृत्य मस्मटभट्टैः ‘ स्वस्वहेत्वन्वयस्योक्तिः ’- इत्यादिलक्षणं निदर्शनान्तरस्य कृत्वा उदाह्लते-
‘ उन्नतं पदमवाप्य यो लघुर्लीलयैव स पतेदिति ध्रुवम्‍ । शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥ ’
इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुम वा इत्यस्याभावादुत्प्रेक्षाया असंभवे बोधननिदर्शना युक्ता ।
‘ हालहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम्‍ । व्यालधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम्‍ ॥ ’

निदर्शनालंकारः - लक्षण ८

लक्षण ८

यथा वा-
‘ व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखाः सलिले यस्तु खले चरति सक्तारम्‍ ॥ ’
बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम्‍ ।
इदं चापरं बोध्यम्‍-
‘ यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निष्पत्राकरोज्जगत्‍ ॥ ’
अत्र ‘ भावप्रधानमाख्यातं‍ ’ इति यास्कोक्तरीत्या क्तियाविशेष्यकबोध-वादिनां शाब्द एवाभेदारोपः क्तिययोरिति मुखं चन्द्र इत्यादाविव रूपकमु-चितम्‍ । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः । निष्पत्राकरणं च सपुड्खशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम्‍ ।

इति रसगंगाधरे निदर्शनाप्रकरणम्‍ ।

*********

रसगड्गाधरः - व्यतिरेक अलंकारः

व्यतिरेक अलंकारः - लक्षण १

लक्षण १

अथ व्यतिरेकः-
उपमानादुपमेयस्य गुणविशेषवत्त्वेनोत्कर्षो व्यतिरेकः ॥
प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम्‍ । पत्र चोपमानतामात्रकृत
एवोत्कर्षः, न वैधर्म्यकृतः, साधर्म्यस्यैव प्रत्ययात्‍ । अधिकगुणवत्त्व-मात्रम्‍, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम्‍ , तयोरुपमेयोत्कर्षा-क्षेपमन्तरेणासुन्दरत्वात्‍ । अत एव न सादृश्याभावमात्रम्‍ । उपमा-नादुपमेयस्यापकर्षे‍ऽपि तत्संभवात्‍, तस्य च वास्तवत्वेनासुन्दरत्वात्‍ । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात्‍ ।
उदाहरण-
‘अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पड्कजम्‍ ॥ ’
अयं चोपमेयोत्कर्षकोपमानापकर्षकयोर्वैधर्म्ययोर्द्वयोरप्युपादानानुपा-दानाभ्यामेकतरानुपादानेन च तावच्चतुर्धा । सो‍ऽप्युपमायाः श्रौतीत्वार्थी-त्वाक्षिप्तात्वैर्द्वादशविधो भवन्सश्र्लेषनिः श्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राञ्चः ।

व्यतिरेक अलंकारः - लक्षण २

उदाहरणम्‍-
‘ कटु जल्पति कश्विदल्पवेदी यदि चेदीदृशमत्र किं विदष्मः । कथमिन्दुरिवाननं त्वदीयं सकलड्कः स कलड्कहीनमेतत्‍ ॥ ’
अत्रोभयोरुपादानम्‍ । उपमा च श्रौती । अत्रैव ‘ कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि ’ इति कृते , द्युतिभेदं खलु यो दधाति
नित्यम्‍ ’ इति वा कृते एकतरानुपादानम्‍ । सा च । ‘ कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः ’ इति कृते हेतुसामान्यानुपादानम्‍ । सा च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपा-दाने तथैव न त्वनवगतिः , व्यतिरेकम्योत्कर्षापकर्षरूपत्वात्‍ । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात्‍ । एवम्‍-
‘ नयनानि वहन्तु खञ्जनानामिह नानाविधमड्रभड्रभाग्यम्‍ । सदृशं कथमाननं सुशोभं सुदृशो भडुरसंपदाम्बुजेन ॥ ’
अत्रोभयोपादानम्‍ । आर्थी च । ‘ वदनं तु कथं समानशोभं सुदृशो भडुरसंपदाम्बुजेन ’ [ इति ], ‘ शाश्वतसंपदम्बुजेन ’ इति च कृते एकतरा-नुपादानम्‍ । सा च । ‘ सद्दशं कथमाननं मृगाक्ष्या भविता हन्त निशा-धिनायकेन ’ इति कृते उभयानुपादानम्‍ । सा च । पूर्वार्धे तु निदर्शनैव ।
‘ कतिपयदिवसविलासं नित्यसुखासड्रमड्रलसवित्री । खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम्‍ ॥ ’

व्यतिरेक अलंकारः - लक्षण ३

लक्षण ३

उदाहरणम्‍-
‘ कटु जल्पति कश्विदल्पवेदी यदि चेदीदृशमत्र किं विदष्मः । कथमिन्दुरिवाननं त्वदीयं सकलड्कः स कलड्कहीनमेतत्‍ ॥ ’
अत्रोभयोरुपादानम्‍ । उपमा च श्रौती । अत्रैव ‘ कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि ’ इति कृते , द्युतिभेदं खलु यो दधाति
नित्यम्‍ ’ इति वा कृते एकतरानुपादानम्‍ । सा च । ‘ कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः ’ इति कृते हेतुसामान्यानुपादानम्‍ । सा च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपा-दाने तथैव न त्वनवगतिः , व्यतिरेकम्योत्कर्षापकर्षरूपत्वात्‍ । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात्‍ । एवम्‍-
‘ नयनानि वहन्तु खञ्जनानामिह नानाविधमड्रभड्रभाग्यम्‍ । सदृशं कथमाननं सुशोभं सुदृशो भडुरसंपदाम्बुजेन ॥ ’
अत्रोभयोपादानम्‍ । आर्थी च । ‘ वदनं तु कथं समानशोभं सुदृशो भडुरसंपदाम्बुजेन ’ [ इति ], ‘ शाश्वतसंपदम्बुजेन ’ इति च कृते एकतरा-नुपादानम्‍ । सा च । ‘ सद्दशं कथमाननं मृगाक्ष्या भविता हन्त निशा-धिनायकेन ’ इति कृते उभयानुपादानम्‍ । सा च । पूर्वार्धे तु निदर्शनैव ।
‘ कतिपयदिवसविलासं नित्यसुखासड्रमड्रलसवित्री । खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम्‍ ॥ ’

व्यतिरेक अलंकारः - लक्षण ४

लक्षण ४

अत्रेवादेः सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभा-वाच्छुत्यर्थमार्गोल्लड्घिनी खर्वीकरणेनाक्षिप्तैवोपमा । अत्रैव ‘ निःसड्रैरभि-
लषिता ‘ इत्याद्यचरणनिर्माणे ‘ संपातदुरन्तचिन्तयाकुलितम्‍ ’ इति द्वितीय चरणनिर्माणे वा एकतरानुपादानम्‍ । सा च । ‘ सर्वानर्वाचीनान्निर्वास्य मनोरथाननन्यजुषाम्‍ ’ इति पूर्वार्धे तदनुपादानमिति ।
‘ क्तूरसत्त्वाकुलो दोषाकरभूस्तोयधिर्यथा । न तथा त्वं यतो भूप स्थिरधीरसि निर्मलः ॥ ’
अत्रोपमा श्रौती । श्लेषस्तु स्फुट एव ।
‘ राजन्प्रचण्डमार्तण्डमण्डलोद्दण्डशासन । कथमक्तूरसत्त्वस्त्वं पयोधिरिव गीयसे ॥ ’ इति,
‘ कथं वार्धिरिवासि त्वं यतः स विषभागयम्‍ ’ इति वा कृते एकतरानुपादानम्‍ ।

व्यतिरेक अलंकारः - लक्षण ५

लक्षण ५

‘ महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्त्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ’
अत्रार्थी । त्रिर्दश त्रिदशास्त्रिंशत्‍, तेषामधिपः । ‘ संख्ययाव्ययासन्ना-दूराधिकसंख्याः संख्येये ’ इति बहुव्रीहौ, ‘ बहुव्रीहौ संख्येये-’ इति डचि
च तत्पुरुषः । वृत्तौ गतार्थत्वात्सुचो न प्रयोगः । त्रयो वा दश वा इति बहुव्रीहिर्वा । ‘ भवान्सदा रक्षितगोत्रपक्षः समानकक्षः कथमस्य युक्तः ’ इति , ‘ कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः ’ इति वा कृते एकतरानुपादानम्‍ ।
इदं तु बोध्यम्‍-इहोभयानुपादानभेदत्रयं दुरुपपादम्‍ । वैधर्भानुपा-दाने हि किमाश्रयः श्लेषः स्यात्‍ ? न च यत्र द्विजसुरालयमातरिश्वादि-
शब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोत्थापकस्तत्रैत-दुदाहरणं सूपपादमिति वाच्यम्‍ । तत्र स्वशब्दवेद्यस्यैव वैधर्भ्यस्य संभवात्‍ । इत्थं च चतुर्विंशतिर्भेदा इति प्राचाभुक्तिर्विपुलोदाहरणाभि-ज्ञैर्यथाकथंचिदुपपादनीया । किं चोपमाप्रभेदाः सर्व एवात्र संभवन्तीत्यलं चतुर्विंशतिभेदगणनया ।
नन्वस्यालंकारस्य वैधर्म्यमूलस्योपभाप्रतिकूलत्वमेवोचितम्‍, न तूपमा-गर्भत्वम्‍ । तस्याः साधम्यर्मूलकत्वात्‍ । अस्य च तन्निषेधरूपेणैव प्रवृत्तेः ।
न चेष्टापत्तिः । सिद्धान्तभड्रप्रसड्रात्‍ । सत्यम्‍ । यद्रुणपुरस्कारेण यस्य यत्‍-सादृश्यनिषेध उत्कर्षपर्यवसायी तस्य तद्नुणपुरस्कारेण तत्सादृश्यस्याप्रतिष्ठा-नेऽपि गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वात्‍ । यदि च तत्सादृश्यसामान्य-
निषेधो विवक्षितः स्यात्‍ गुणविशेषपुरस्कारोऽनर्थकः स्यात्‍ । धनेनाय-मस्मादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्व जनीनप्रत्ययात्‍ । एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हत-प्रभमिव बदीकृतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशयः ।
अत्र चालंकारे क्कचिच्छाब्दसादृश्यनिषेधाक्षिप्ताबुपमेयोत्कर्षोपमानाप-कर्षौ, क्कचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्ताबुपमानापकर्ष-सादृश्याभावौ, क्कचित्तादृशेनोपमानापकर्षेणाक्षिप्ताबुपमेयोत्कर्ष-तदभावौ तथा । तत्राद्यःप्राचीनरीत्या सभेद उदाह्लतः । द्वितीयतृतीयावपि प्रायशस्तावद्भेदावेव । तत्र दिड्भात्रमुदाह्लियते-
‘ निशाकरादालि कलड्कपड्किलाद्नुणाधिकं निर्मलमाननं ते । अनल्पमाधुर्यकिरोऽधरादिमा गिरोऽधरा गुप्तरसाः कवीनाम्‍ ॥ ’
अत्र पूर्वार्धे उपमेयोत्कर्षः शाब्दः । उपमानापकर्ष्प-सादृश्याभावावा-क्षिप्तौ । द्वितीयार्थे उपमानापकर्षः शाब्दः । उपमेयोत्कर्ष-सादृश्याभावा-वाक्षिप्तौ । एवं क्कचिहूयोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव ह्लद्य-मिति नोदाह्लतम्‍ । क्कचिच्च त्रयमप्याक्षिप्रमेव ।

व्यतिरेक अलंकारः - लक्षण ६

लक्षण ६

यथा-
‘ अपारे किल संसारे विधिनैको‍ऽर्जुनः कृतः । कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ ’
‘ अशीतलोग्रश्चण्डांशुरनुग्रशिशिरः शशी । उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसादयोः ॥ ’
यथा वा-
‘ स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥’
अत्रोपमान-तद्विशेषणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु व्यड्रय इति कदापि भ्रमितव्यम्‍ । सत्यनुपपत्तिलेशे व्यञ्जनाया अप्ररोहात्‍ । इह च राजविशेषणस्य यथाकथंचित्स्तुत्यर्थत्वेऽप्युपमानतद्विशेषणोपादानस्य नृपोत्कर्षमन्तरेणानुपपत्तेर्जागरूकत्वात्‍ । यत्र तूपमानतद्विशेषणोपादानम-न्तरेणैवोपमेयविशेषणैः ‘ सुन्दरो देवदत्तः ’ इत्यादाविव वस्तुस्थितिप्रकाश-
नेन कृतार्थैरप्याकूतविशेषेण स्वविलक्षणविशेषणविशिष्टधर्म्यन्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनाविषयः । यथा-
‘ न मनागपि राहुरोषशड्का न कलड्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम्‍ । ’
अयं व्यतिरेकध्वनिरर्थशक्तिमूलः ।

व्यतिरेक अलंकारः - लक्षण ७

लक्षण ७

यत्त्वलंकारसर्वस्वकार उपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकमाह । वैलक्षण्यमात्रस्यैव व्यतिरेकत्वात्‍ । उदाजहार च-
‘ क्षीणः क्षीणो‍ऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्‍ । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ’
यच्च तव्द्याख्याता विमर्शिनीकारः सपूर्वपक्षसिद्धान्तं वाचख्यौ; तथा-हि-‘ नन्वत्रोपमानादुपमेयस्य न्यूनत्वं व्यतिरेक इति न युक्तम्‍ । तस्य हि वास्तवत्वेनाह्लद्यत्वात्‍ । यौवनस्य चास्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगु-णत्वमेव विवक्षितम्‍-यदेतच्चन्द्रवद्यातं सन्न पुनरायातीति । यतो‍ऽत्र चन्द्र-वद्नतं सद्यौवन्म अदि पुनरागच्छेत्तत्प्रियं प्रति चिरमीर्ष्याद्यनुबन्धो युज्येत । इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तर-तयैव प्रियेण सह जनुः सफलयितव्यम्‍ । धिगीर्ष्याम्‍ । त्यज प्रियं प्रति
मन्युम्‍ । कुरु प्रसादम्‍ । इति प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेन विवक्षितमिति न्यूनत्वमपि व्यतिरेकः । रसपोषकतया चास्यापि ह्लद्यत्वम्‍ ’ इति । तदुभयमप्यसत्‍ । अस्मिन्हि प्रियहितकारिण्या वचने चन्द्रादप्यधिकगुणत्वमेव विवक्षितम्‍, न न्यूनगुणत्वम्‍ । चन्द्रो हि पुनःपुनरागमनेन लोके सुलभः । अत एव न तादृशमाहात्म्यशाली । इदं च पुनर्यौवनमपुनरागमनेनातिदुर्लभतरत्वाद-त्युत्कृष्टमिति मानादिभिरन्तरायैः शठजनश्लाघनीयैर्विदग्धया भवत्या मुधा गमयितुमसांप्रतमिति तावदुपात्तगुणकृतमुत्कृष्टत्वं स्फुटमेव । सकलसुख-

व्यतिरेक अलंकारः - लक्षण ८

लक्षण ८

निदानत्वाद्यनुपात्तगुणकृतोऽप्युक्तर्षोऽत्र वाक्यार्थपरिपोषाय सह्लदयह्लदय-सरणिमवतरति । अन्यथा किमित्यस्य कदर्ययौवनस्य कृते मया मानाद्वि-रंस्यते, यातु नाम यौवनमिति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्तेः । किं च यत्र कापि शाब्द उपमेयस्यापकर्षस्तत्रापि स तस्य वाक्यार्थपर्य-वसायितयोत्कर्षात्मना परिणमति । यथा-
‘ द्रोहो निरागसां लोके हीनो हालाहलादपि । अयं इन्ति कुलं साग्रं भोक्तारं केवलं तु सः ॥ ’
अत्र हीन इत्यपकर्षो दारुणताधिक्यरूपोत्कर्षात्मना परिणमति ।
एवम्‍
‘ इन्दुस्तु परमोत्कृष्टो यः क्षीणो वर्धते मुहुः । धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत्‍ ॥ ’
इत्यादाद्युपात्तस्यापुनरावर्तित्वस्य तद्धर्मस्य मानप्रतिकूलतया द्वेषेणैव धिक्कारादिकथनम्‍ , न तु वास्तवापकर्षेण, दुर्लभत्वस्य प्रियसमागमोल्लास-कत्वस्य चोत्कर्षस्य स्फुटत्वात्‍ ।
यदपि कुवलयानन्दकृतालंकारसर्वस्वोक्तार्थानुवादकेन न्यूनतायामुदाह्लतम्‍

“-‘ रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
रत्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ’
अत्र सशोकत्वेनाशोकापेक्षयापकर्षः पर्यवस्यति ” इति, तदपि चिन्त्यम्‍ । रत्याद्यनुकूलतया कुतश्चिदड्राद्भूषणापसारणं यथा शोभाविशेषाय भवति , एवं प्रकृते उपमालंकारदूरीकरणमात्रमेव रसानुगुणतया रमणीयम्‍ , न व्यतिरेकः । अत एवासमालंकारं प्राञ्चो न मन्यन्ते । अन्यथा तवा-लंकारान्तरतया तत्स्वीकारापत्तेः ।
यथा-
‘ भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम्‍ ॥ ’

व्यतिरेक अलंकारः - लक्षण ९

लक्षण ९

अत एव ध्वनिकृता सह्लदयधुरन्धरेण ‘ सुकविस्तु रसानुसारेण क्कचि-दलंकारसंयोगं क्कचिदलंकारवियोगं च कुर्यात्‍ ’ इत्युक्त्वा ‘ रक्तस्त्वं-’ इति पद्यं सादृश्यदूरीकरणे उदाजह्ले । अत एव च मम्मटभट्टेः ‘ आधिक्य-
मात्रं व्यतिरेकः ’ इत्युक्तम्‍ । निरस्तं च न्यूनत्वं व्यतिरेके इति । तस्मा-दुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः, नापकर्ष इति स्थितम्‍ । यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहस्तदेदमुदाहार्यम्-
‘ जगत्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन्‍ । कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः ॥ ’
अत्र धर्मद्वयेनैव न्यूनो‍ऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतविच्छि-त्तिविशेषादलंकारता । एवं च लक्षणे‍ऽपकर्षोऽप्येवंजातीयो देयः ।
यदपि कुवलयानन्दकृतानुभयपर्यवसायिनो व्यतिरेकस्योदाहरणमुक्तम्‍-
‘ दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ’
तन्न निपुणं निरीक्षितमायुष्मता । तथा हि-किमत्रोपमानादुत्कर्षरूपो
व्यतिरेकोऽनुभयपर्यवसायी; आहोस्वित्सर्वस्वकाराद्युक्तदिशापकर्षरूपः । स्थितिरस्त्येवेति वाच्यम्‍ । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात्‍ । अर्था-न्तरेणाकृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च ।
अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । ‘ चन्द्रबिम्बमिव नगरं सकलकलम्‍ ’ इत्यादावपि कलकलसहितत्व- कलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात्‍ । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः, प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रीमतव्यम्‍ । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भर-सहः स्यात्‍ आकारशब्दश्लेषोऽनर्थकः स्यात्‍ । कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव ब्रूयात्‍ । नह्यत्र व्यतिरेके श्लेषो‍ऽनुकूलः । प्रत्युत प्रति-कूल एव । उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधर्भ्यस्य साधारणीकरणात्‍ आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात्‍ । एवं हि
कवेराशयः-यत्कृपणकृपाणयोस्तुल्यतैव । दृढतरेत्यादिविशेषणसा-म्यात्‍ । अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एवेति सह्लदयैराकलनीयम्‍ ।
न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः , अह्लद्यत्वाच्च । तस्मादत्र गभ्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्धाटनम्‍ । प्रकृतमनुसरामः ।

व्यतिरेक अलंकारः - लक्षण १०

लक्षण १०

अलंकारान्तरोत्थापितोऽप्ययं संभवति । यथाईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वरः । पार्वत्या सदृशी लक्ष्मीर्माता मातुः समा भुवि ॥ पितास्य काष्ठसदृशः स्वयं पावकसंनिभः ॥ ’
अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतवः ।
अस्य चालंकारस्य सादृश्यगर्भत्वात्‍ सादृश्यस्य च त्रिविधधर्मोत्थापित-
‘ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले । अधरीकरोति नितरां तवाधरो मधुरिमातिशयात्‍ ॥ ’
अत्रारुण्यम्रदिमानावनुगामिनौ ।
बिम्बप्रतिबिम्बभावापन्ने यथा-‘ जलजं ललितविकासं सुन्दरहासं तवाननं हसति ’ । अत्र हासविकासयोर्बिम्बप्रतिबिम्बभावः , ललित्यसौन्दर्य योः शुद्धसामान्यता । श्लेषोपात्तं जडजत्वं स्वाश्रायापकर्षहेतुः ।
एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष
संभवति यथा-
‘ निष्कलड्क निरातड्क चतुः षष्टिकलाधर । सदापूर्ण महीप त्वं चन्द्रोऽसीति मृषा वचः ॥ ’

इति रसगंगाधरे व्यतिरेकप्रकरणम्‍ ।

*********

रसगड्गाधरः - सहोक्ति अलंकारः

सहोक्ति अलंकारः - लक्षण १

लक्षण १

अथ सहोक्तिः-
गुणप्रधानभावावच्छिन्नसहार्थसंबन्धः सहोक्तिः ॥
ह्लद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकृ-दुक्तम्‍ । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभदाध्यव-सानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्या‍ऽनुप्राणने भवतीति वदन्ति ।
‘ अनुकूलभावमथवा परा ड्‍मुखत्वं सहैव नरलोके । अ न्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभौ वहतः ॥ ’
इत्यादावतिप्रसड्रवारणायावच्छिन्नान्तम्‍ ।
उदाहरणम्‍-
‘ केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम्‍ । त्वया रणे निष्करुणेन राजंश्चापस्य जीवा चकृषे जवेन ॥ ’
अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्रा-णितः सहभावः , निष्करुणत्वेन च पौर्वापर्यविपर्ययः ।
यथा वा-
‘ भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कुधाविष्टः । सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम्‍ ॥ ’
पूर्व तु कर्मणः सहोक्तिः, इह कर्तुरिति भेदः ।
‘ त्वयि कुपिते रिपुमण्डलखण्डनपाण्डित्यसंपदुद्दण्डे । गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥ ’
अत्र वर्षण- वर्षवदाचरणयोः श्लेषेणाभेदाध्यवसितिः ।
यथा वा-
‘ बहु मन्यामहे राजन्न वयं भवतः कृतिम्‍ । विपद्भिः सह दीयन्ते संपदो भवता यतः ॥ ’
पूर्वा कर्तृसहोक्तिः , इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता ।
‘ पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ॥ ’

सहोक्ति अलंकारः - लक्षण २

लक्षण २

अत्रोन्मीलननिमीलनयोः पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्रक-टत्वाद्येकोपाध्यवच्छिन्नतयाऽभिन्नीकृतयोरुपादानमित्यस्त्येकक्तियासंबन्धः । अत एव न श्लेषः । तस्य प्रतिपाद्यतावच्छेदकभेद एव स्वीकारात्‍ ।
एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति ।
सहादिशब्दप्रयोगाभावेऽप्येषा संभवति । ’ वृद्धो यूना- ’ इति निर्देशेन तृतीयायाः साम्राज्यात्‍ । परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्नम्या । अप्रधान-
भावस्तु शाब्द एव । ननु कथमप्रधानभावः शाब्द इत्युच्यते ? यावता आर्थः क्तियाद्यन्वयितारूपः स स्यात्‍ पदार्थान्तररूपो वा । उभयथप्यस्य वाचकशब्दाभावादशाब्दत्वमेवेति चेत्‍ न । अस्ति तावत्सखण्डमखण्डं वा प्रधानत्वम्‍ । यद्वशात्‍ अयमस्मिन्नगरे प्रधानो मुख्य इत्यादयो
व्यवहारा आपामरमुल्लसन्ति । तदभावरूपे चाप्रधानत्वे ‘ सहयुक्ते-ऽप्रधाने ’ इति शास्त्रेण तृतीयायाः शक्तेः र्बोधनात्तस्य कथमशाब्दत्वम्‍ । न च सहार्थेन युक्ते वस्तुतोऽप्रधाने तृतीयेति तस्यार्थ; न त्वप्रधानेऽर्थे वाच्ये इति । यथा च नोक्तार्थसिद्धिरिति वाच्यम्‍ । एवं चाप्रधानग्रहणवैयर्थ्या-पत्तेः । ‘ पुत्रेण सहागतः पिता ’ इत्यादौ पित्रादिभ्योऽन्तरड्रत्वात्प्रथमो-
त्पत्तेरे वौचित्यात्‍ । ‘ पुत्रेण सह पितुरागमनम्‍ ’ इत्यादौ कारकविभक्तेः प्राबल्याच्च । अन्यथा ‘ षष्ठी शेषे ’ इत्यत्रापि विशेषणग्रहणापत्तेः । तस्माद्यथा
‘ हेतौ तृतीया ’ इत्यादिशास्त्रं हेतुशक्तिग्राहकमेवं ‘ सहयुक्तेऽप्रधाने ’ इत्य-प्रधानशक्तिग्राहकम्‍ । यथैव तत्र प्रकृत्यर्थस्याभेदेन विभक्त्यर्थेऽन्वयस्त-थेहापि शक्यो वक्तुम्‍ । धर्मिशक्तावपि कर्मत्वादीनामिवाप्राधान्यस्यापि शाब्दत्वमव्याहतमेव । षष्ठीस्थले तु विशेषणशब्दाभावान्नैवमिति स्फुटमेव
वैलक्षण्यम्‍ । एतेन ‘ अप्रधानग्रहणं शक्यमकर्तुम्‍ ’ इति वदन्तो मनोरमा-काराः परास्ताः । उक्तप्रकारेण सार्थक्यसिद्धौ मुनिवचनस्य वैयर्थ्यकल्पना-या अन्याय्यत्वात्‍ ।

सहोक्ति अलंकारः - लक्षण ३

लक्षण ३

‘ न च पुत्रेण सहागतः पिता ’ इत्यादौ पुत्राभिन्नाप्रधानसहित इति
बोधस्याप्रामाणिकत्वान्नोक्तार्थसिद्धिरिति वाच्यम्‍ । ‘ दण्डेन घटः ’ इत्यादौ दण्डजन्यतावान्‍ घट इति हि सर्वजनीने बोधे ‘ हेतौ तृतीया ’ इति मुनिवचनावलम्बेन दण्डाभिन्नहेतुको घटः इति बोधं वदता भवतैवास्याःसरणेर्दर्शितत्वात्‍ । ‘ भावप्रधानमाख्यातं ’ इत्याद्यनेकैर्मुनिवचनैस्तत्र तत्र
त्वत्कृतबोधवैपरीत्यस्यानुपपत्तेश्चेति कृतमप्रसक्तविचारेण ।
प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोर्निर्णायके इत्युक्तत्वादिह न ताभ्यां तयोर्निर्णयः , प्रकृतयोरपि साहित्यसंभवात्‍ । किं तु प्राधान्या-प्राधान्याभ्यामिति । ह्लद्यत्वं चास्या अतिशयोक्तिकृतमित्युक्तम्‍ । यत्र तु सा नास्ति तत्र ‘ पुत्रेण सहागतः पिता ’ इत्यादौ न सहोक्तिरलंकारः ।
अत्र विचार्यते-‘ केशैर्वधूनां ’ इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम्‍ । अतिशयोक्तेरेवात्र चमत्कृत्याधायकत्वेन
सहोक्तेर्नाममात्रत्वात्‍ । ‘ तव कोपोऽरिनाशश्च जायते युगपन्नृप ’ इत्यस्मा-दतिशयोक्त्यलंकारात्‍ ‘ तव कोपोऽरिनाशेन सहैव नृप जायते ’ इत्यत्र गुण-भावमात्रकृतवैलक्षण्ये‍ऽपि विच्छित्तेरविशेषात्‍ तस्यैव चालंकारविभाजक-त्वात्‍ । न च सादृश्यानुप्राणितस्य रूपकोदप्यपृथग्भावापत्तिः । ‘ निशाकर-समानोऽयमयं साक्षान्निशाकरः ’ इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूक-त्वात्‍ । अन्यथा तत्प्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः । अपि च सादृश्यप्र-युक्तरूपकादिषु सादृश्यस्य गुणत्वाच्चमत्कृतिविश्रान्तिधामभ्यो रूपकादिभ्यो
यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्याविर्भूतायाः कार्यकारणपौर्वाप-र्यविपर्ययात्मिकाया अतिशयोक्तेः सकाशादस्याः सहोक्तेरपृथग्भाव एवोचितः ।

सहोक्ति अलंकारः - लक्षण ४

लक्षण ४

नन्वेवं सति सहोक्तेनिर्विषयत्वं स्यात्‍ । सहोक्त्यन्तरस्याप्यभेदाध्यवसा-नरूपातिशयेन कवलीकारादिति चेत्‍, न । अभेदाध्यवसानमूलायां हि सहोक्तावभेदाध्यवसानेन सहोक्तिरुपस्कियत इति न गुणेन प्रधानस्य तिर-स्कारः । अपि तु प्रधानेन गुणस्येत्युक्तदिशा सावकाशैव सहोक्तिः । गुण-
प्रधानभावश्च निराग्रहैः सूक्ष्मदृशावधानीयः । किं च परस्पराभेदाध्यव-सानमात्रमतिशय एव; नातिशयोक्तिः । तस्य श्लेषादावपि सत्त्वात्‍ । सा तूपमानेनोपमेयस्य निगरणम्‍ । एवं च ‘ वर्षन्ति, उन्मीलन्तो निमीलन्तः ’ इत्यादिष्वेकेनापरनिगरणाभावान्नातिशयोक्तिगन्धोऽपि । अतिशयमात्रं तु प्रायशः साधारणधर्मांशे बहूनामलंकाराणामुपस्कारकम्‍ । नहि ‘ शोभते चन्द्रवन्मुखं ’ इत्यादौ चन्द्रमुखशोभयोभयोर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्त-
रेणोपमाःसमुल्लसति । तस्मात्‍ ‘ कार्यकारणपौर्वापर्यविपर्ययमूलः सहोक्तेरेकः प्रकारः ’ इति सर्वस्वकारादीनामुक्तिराग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवंतु नाम सहोक्तेर्विषयः । यदि तु दीपके तुल्ययोगितायां चोपमा-नोपमेययोः प्राधान्येन क्तियादिरूपधर्मान्वयः , इह तु गुणप्रधानभावेनैवेति विशेषः सन्नपि विच्छित्तिविशेषानाधायकतया नालंकारान्तरताप्रयोजकः, अपि तु तदवान्तरभेदतायाः इति विभाव्यते, निरस्यते च प्राचीनमुख-दाक्षिण्यं तदा निविशतामियमप्युक्तालंकारेष्वेव । किंचिद्वैलक्षण्यमात्रेणैवा-लंकारभेदे वचनभड्रीनामानन्त्यादलंकारानन्त्यप्रसड्रादिति । सत्यम्‍ ,
गुणप्रधानभावालिड्रितस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनु-भवन्तःप्राचीना एव सहोक्तेः पृथगलंकारतायां प्रमाणम्‍ । अन्यथा एवं जातीयोपप्लवेन बहु व्याकुलीस्यात्‍ । नैव प्रमाणीकुर्महे वयं मृषा मुकुलितविलोचनान्प्राचः, निवेश्यतां चेयमलंकारान्तरभवनोदरं वराकी इति तु प्रभुतैव केवला । न सह्लदयत्वम्‍ ।

सहोक्ति अलंकारः - लक्षण ५

एवं क्रियायाः साधारणधर्मत्वे इयमुदाह्लता । गुणस्य तथात्वे यथा-
‘ मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत्‍ किं चाभवन्मृगकिशोरदृशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ॥ ’
अत्र यद्यपि क्तियापि गुणेन सह समानधर्मतामनुभवति तथापि तस्या नान्तरीयकत्वेनासुन्दरत्वाद्‍गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम्‍ । शोणत्वाऽऽसक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युप-मेयोपमानगतयोर्निरुक्तगुणयोः श्लेषेण पिण्डीकरणात्सहभावोपपत्तिः । एवं श्लेषाभावेऽपि केवलाध्यवसानेन बोध्यम्‍ ।
यत्रैकमेवोपमेयं विलक्षणसहोक्त्यालम्बनं सा मालासादृश्यान्माला-सहोक्तिः । वैलक्षण्यं च सहोक्तेः स्वसमानाधिकरणसहोक्त्यन्तरापेक्षया
बोध्यम्‍ । ‘ केशैर्वधूनां ’ इत्यत्र केशैः सह कोषैः सह प्राणैः सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणैक्यात्सहोक्तेरभेदः । सति वा यथाकथंचिद्भेदे न वैलक्षण्यम्‍ , धर्मैक्यात्‍ । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्ष-णात्‍ । ‘ उन्मीलन्तो निमीलन्तः ’ इत्यत्र च धर्मवैलक्षण्येऽप्युन्मीलनधर्मो-त्थापितसहोक्तिघटकोपमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापिता-यामपि सहोक्तौ घटकत्वान्न मालारूपत्वम्‍ । ‘ भाग्येन सह रिपूणां-’ इति तूदाहरणमेव ।
यथा वा-
‘ उन्मूलितः सह मदेन बलाद्वलारे-रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव पाणौ धृतो गिरिधरेण गिरिः पुनातु ॥ ’
अत्र नीलातपत्रमणिदण्डरुचो गिरिधारणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिर्निदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः ।

इति रसगंगाधरे सहोक्तिप्रकरणम्‍ ।

*********

रसगड्गाधरः - विनोक्ति अलंकारः

विनोक्ति अलंकारः - लक्षण १

लक्षण १

अथ विनोक्तिः-
विनार्थसंबन्ध एव विनोक्तिः ॥
ह्लद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वा-भ्यां भवति । अरमणीयत्वे यथा-
‘ संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरो न शोभते लोके हरिभक्तिरसं विना ॥ ’
यथा वा-
‘ वदनं विना सुकवितां सदनं साध्वीं विना वनिताम्‍ । राज्यं च विना धनितां न नितान्तं भवति कमनीयम्‍ ॥ ’
रमणीयत्वे यथा-
पड्कैर्विना सरो भाति सदः खलजनौर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥’
पूर्वा तु केवला, इयं तु दीपकानुकूला ।
मिश्रिता यथा-
‘ रागं विना विराजन्ते मुनयो मणयस्तु न । कौटिल्येन विना भाति नरो न कबरीभरः ॥ ’
अत्र प्रतिवस्तूपमानुकूला ।
‘ त्रासैर्विना विराजन्ते शूराः सन्मणयो यथा । न दानेन विना भान्ति नृपा लोके द्विपा इव ॥ ’
अत्र श्लेषमूलोपमानुकूला ।
‘ यथा तालं विना रागो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ’
पूर्व क्रियागुणादिसंबन्ध आवश्यकः इह तूपमामाहात्मादवगतः स इति न तथा ।
इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति, अपि तु विनाशब्दा-र्थवाचकमात्रस्य । तेन नञ्‍-निर्‍-वि-अन्तरेण-ऋते-रहित-विकल इत्यादिप्रयोगे इयमेव ।
‘ निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना । आपातरम्यपुष्पश्रीशोभितः शाल्मीलर्यथा ॥ ’

विनोक्ति अलंकारः - लक्षण २

लक्षण २

अलंकारभाष्यकारस्तु ‘ नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः ’ इत्याह । तस्य मते तु नैतान्युदाहरणानि । इदं तूदाहरणम्‍_
मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम्‍ । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥ ’
अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्धः ।
यथा वा-
‘ शैत्यं विना न चन्द्रश्रीर्थ दीपः प्रभया विना । न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः ॥ ’
अलंकारान्तरसमालिड्रनानिर्भूतमेवास्या ह्लद्यत्वम्‍ , न स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति ।
अथास्या ध्वनिः-
यथा-
‘ विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यड्कारः श्रवणयुगलस्य त्रिपथगे यदन्तर्नायातस्तव लहरिलीलाकलकलः ॥ ’
अत्र त्वद्दर्शनं विना नयनयोः , त्वल्लहरिकोलाहलश्रवणं विना श्रवणोश्चारमणीयत्वं फलप्रश्र-धिक्काराभ्यां व्यज्यते । तस्य च भाव-
ध्वन्यनुग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम्‍ । अन्यथानुग्राहकत्व-लक्षणसंकरोच्छेदापत्तेः । एवं च-
‘ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्‍ । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ’
इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्तिवशा-द्वैलक्षण्यशालि ।

इति रसगड्राधरे विनोक्तिप्रकरणम्‍ ।

*********

रसगड्गाधरः - समासोक्ति अलंकारः

समासोक्ति अलंकारः - लक्षण १

लक्षण १

अथ समासोक्तिः-
यत्र प्रस्तुतधर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापि-ताप्रस्तुतधर्मिंकव्यवहाराभेदेन भासते सा समासोक्तिः ॥
साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनि-वारणाय मात्रेति । तत्र विशेष्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापन-द्वारा तादृशधर्मिकव्यवहारोपस्थापकत्वात्‍ । एवमपि
‘ आबध्नास्यलकान्निरस्यसितमां चोलं रसाकाड्क्षया-लड्कायावशतां तनोषि कुरुषे जड्घललाटक्षतम्‍ । प्रत्यड्रं परिमर्दनिर्दयमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम्‍ ॥ ’
इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपा-दाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रक्रुतश्रृड्रारवृत्तान्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसड्रः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्नतयोर्द्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमति-प्रसड्र इति वाच्यम्‍ । न स्यादतिप्रसड्रः, यदि वर्णनमात्र्म प्रस्तुतं स्यात्‍ । तत्सड्‍ग्रामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसड्रः ।
‘ मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ ’
इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहारः साक्षादुपात्तवाद्विशेष्येणाप्यु-पस्थापित एवेति न तत्रातिव्याप्तिः ।
यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समासोक्तिः ।
तत्र तावत्‍-
‘ विबोधयन्करस्पर्शेः पद्मिनीं मुद्रिताननाम्‍ । परिपूर्णानुरागेण प्रातर्जयति भास्करः ॥ ’
इत्यत्र किरणस्पर्शकरणक-मुकुलितपद्मिनीकर्मक-विकासानुकूलव्यापारव-दभिन्नो भास्करो जयतीति वाक्यार्थः शक्त्यैव तावत्प्रतीयते । हस्तस्पर्श-करणकनायिकाविशेषकर्मकानुनयानुकूलव्यापारवदभिन्न इत्यादिश्चा-परोऽर्थ उभयत्रानुषक्तया तयैव शक्त्या , शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सह्लदया एव प्रमाणम्‍ । एवं च द्वाविमौ वाक्यार्थौ सव्ये-तरगोविषाणवदत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य
कामुकत्वं कमलिन्या नायिकात्वं च सफलप्रतीतिसिद्धं विरुद्धं स्यात्‍ । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विष-यताशाली बोधः स्यात्‍, न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेष-
मूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तथा-प्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव । पद्मिनीशब्दस्थाने नलि-नीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथमियात्‍ ? । तस्मा-द्विशेषणसाम्यमहिम्रा प्रतीतो‍ऽप्रकृतवाक्यार्थ; स्वानुगुणं नायिकादिमर्थमा-क्षिप्य तेन परिपूर्णविशिष्टशरीरः सन्‍ प्रकृतवाक्यार्थे स्वावयवतादात्म्या-पन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्यो-पयोगी, स्वात्मना च रसाद्युपयोगी । अत्र चाप्रकृतार्थस्य पृथक्शब्दानु-
पादानादूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यम्‍ , पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात्‍ । एवं चात्र शक्त्याक्षेपाभ्यां सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशयः ।

समासोक्ति अलंकारः - लक्षण २

लक्षण २

‘ निशामुखं चुम्बति चन्द्र एषः इत्यादौ निशाचन्द्रशब्दयोरश्लिष्टत्वान्मुख-चुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथ्म तावन्नियनायकाक्षेपकत्वम्‍ , कथं वाऽऽक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ । तथात्वे च तयोर्नायकताताटस्थ्ये रसानुद्वोधापत्तेः । तस्मात्‍ ‘ निशामुखं चुम्बति चन्द्रिकैषा ’, ‘ अहर्मुखं चुम्बति चण्डभानुः ’ इत्यादा-
वप्रतीयमानं नायकत्वं प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवं च निशाशशिनोर्नाय-कत्वसिद्धिः श्र्लिष्टविशेषणैः, व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम्‍, शक्तेः प्रकरणादिना नियन्त्रणात्‍ । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थ-तादात्म्येन प्रकृतवाक्यार्थो‌ऽवतिष्ठते । गुणीभूतव्यड्रयभेदश्चायमिति तु रमणीयः पन्थाः ।
अलंकारसर्वस्वकारस्तु-‘ विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तु-तावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वाच्च व्यवहारसमारोपः, न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतरूपरूपित्वाद्रूपकमेव स्यात्‍ ’ इत्याह । तदेतदुक्तिमात्ररमणीयम्‍ । अप्रकृतव्यवहारः प्रकृतकर्तरि नायकादिकस्वकर्तृविशेषित आरोप्यते तदविशेषितो वा ? नाद्यः । एवं च
सति चन्द्रादेर्नायकव्यवहाराश्रयत्वेन नायकसाम्यं सिध्येत्‍ । तच्च श्लेषादि-भित्तिकाभेदाध्यवसायेन व्यवहाराभेदं प्रतिपिपादयिषतः कवेरनभिप्रेत-मेव । अभिप्रेतं तु नायकत्वम्‍ । तच्च नायकस्य व्यवहारविशेषणत्वे न सिध्यति । किं च ‘ निशामुखं चुम्बति चन्द्रः ’ इत्यत्र चन्द्रे नायकव्यव-हारसमारोप एव, न नायकत्वारोपः । एवमेव निशायामपि न नायिका-त्वारोपः , तुल्यन्यायत्वात्‍ । एवं च मुखचुम्बनमात्रस्य नायिकानिर्मुक्त-स्यासुन्दरत्वान्नायकासाधारणव्यवहारत्वायोगाच्च किमारोपेण ? यदि च
निशायां स्त्रीलिड्रव्यड्रयं नायिकात्वमिति निरीक्ष्यते तदा चन्द्रगतपुंलिड्र-व्यड्रयं नायकत्वमपि निरीक्ष्यताम्‍ । न द्वितीयः । नायकसंबन्धित्वेना-ज्ञातस्य मुखचुम्बनमात्रस्याह्लद्यत्वात्‍ । ‘ तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्‍ ’ इति निदर्शनातो वैलक्षण्यायास्मदु क्तवैधर्म्यस्यैवास्थेयत्वाच्च । शिष्टमनुपदमेव वक्ष्यामः ।
यतु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकृता सपूर्वपक्षसिद्धान्तमु-क्तम्‍- “ अत्र च विशेषणसाम्यात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रकृते विशेष्ये तत्समारोपार्थं‌म्‍ । सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भ-गोचरत्वायोगात्‍ । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुता-हेतुः । न तु रूपक इव प्रस्तुते अप्रस्तुतसमारोपो‍ऽस्ति । ‘ मुखं चन्द्रः ’ इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रशब्दसमभिव्याहारवत्‍ ‘ रक्तश्चुम्बति चन्द्रमाः ’ इत्यादौ समासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वा-चकपदसमभिव्याहारस्याभावात्‍ । न चेह ‘ निरीक्ष्य विद्युन्नयनैः पयोदो
मुखं निशायामभिसारिकायाः ’ इत्यत्र निरीक्षणानुगुणनयनोपादानं यथा पयोदस्य द्रष्ट्टपुरुषत्वस्य गमकं तथा किंचिज्जारत्वस्यास्ति । न वा ‘ त्वय्या-गते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकृदतः किमसौ बिभेति ’ इत्यत्र सेतुमन्थकृत्त्वं विष्णोः कार्य यथा राज्ञो विष्णुत्वस्य तथा किंचिदस्ति ।

समासोक्ति अलंकारः - लक्षण ३

लक्षण ३

तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि विशेषणसमर्पितयोर्द्वयोरप्यर्थयोरविशिष्टं प्राधान्यम्‍ , तथाप्य-न्यतराश्रये धर्मिण्यन्यतरारोपस्यावश्यकत्वे, श्रुते प्रकृतव्यवहारधर्मिण्ये-वाप्रकृतव्यवहारस्यारोप उचितः । तस्य च स्वरूपतो ज्ञातस्यारोपे चारुत्वा-भावाक्तामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमानस्य रसानुगुणत्वादा-रोपः । कामुकादेश्च पदादनुपस्थितस्यापि चुम्बनादिना व्यञ्जितस्य व्यव-हारविशेषणत्वम्‍ । तस्मात्‍ ‘ अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ’
इत्यत्र जारसंबन्धितादृशचुम्बनरूपव्यवहाराश्रयश्चन्द्र इत्येव बोधः ” इति ।
तदेतत्सर्वमसंगतम्‍ । यत्तावदुच्यते ‘ मुखं चन्द्र ’ इत्यत्र मुखे चन्द्रत्वा-रोप इति, तन्न । नामार्थयोरभेदेनैवान्वयान्मुखे चन्द्रस्यारोपः, न चन्द्रत्वस्य चन्द्रविशेषणस्य । यदप्युच्यते जारादिपदसमभिव्याहारस्य हेतो-र्विरहान्न चन्द्रादौ जारत्वारोप इति । तत्र श्रौतारोपे तादृशसमभिव्याहार-स्य हेतुत्वम्‍, न त्वार्थारोपे । अन्यथा रूपकध्वनेरुच्छेदापत्तेः । न च
रूपकध्वनावारोप्यमाणासाधारणधर्मोक्तिरारोप्यमाणतादात्म्यव्यञ्जिका, न चेह तथा किंचिदस्तीति वाच्यम्‍ । इहापि परनायिकामुखचुम्बनस्य श्लेष-मर्यादया व्यञ्जनमर्यादया व प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यञ्जकतायाः स्फुटत्वात्‍ । एतेन ‘ विद्युन्‍-नयनैः ’ इत्यत्र ‘ त्वं सेतुमन्थकृत्‍ ’ इत्यत्र च यथा द्रष्ट्टत्व-विष्णुत्वगमकं तथेह नास्तीति निरस्तम्‍ । न च जारत्वस्य चन्द्रादावारोपमन्तरेणापि जारण्यवहारारोपः सिध्यन्ननुपपत्तेरभावान्न जारत्वं गमयेदिति वाच्यम्‍ । गमकं हि द्विविधम्‍-आक्षेपकं व्यञ्जकं च । तत्राक्षेपकमनुपपद्यमानमेव
गमयति । व्यञ्जकं तु नानुपपत्तिमपेक्षते । ‘ गतोऽस्तमर्कः ’ इत्यादौ तथैव दर्शनात्‍ । अन्यथा अर्थापत्त्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसड्रात्‍ । किं च त्वयापि हि जारादेरप्रकृतधर्मिणः प्रतीतिरवश्यं वाच्या आरोप्य-माणव्यवहारविशेषणार्थम्‍ । अन्यथा स्वरूपतो ह्यप्रकृतव्यवहारारोपे चारुतानापत्तेः । एवं चावश्योपस्थाप्यस्य जारादेस्तादृशचुम्बनकर्तरि चन्द्रा-
दावेव तादात्म्येन विशेषणत्वमुचितम्‍ , न तु व्यवहारे भेदेन । चन्द्रस्य जारभिन्नतावगमे परनायिकावदनचुम्बनस्याग्लद्यत्वात्‍ ।

समासोक्ति अलंकारः - लक्षण ४

लक्षण ४

अपि च ‘ निशामुख्म चुम्बति चन्द्र एषः ’ इत्यत्र स्त्रीलिड्रपुंलिड्राभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि नि-र्विवादम । अन्यथा ‘ निशामुख्म चुम्बति चन्द्रिकैषा ’ , ‘ अहर्मुखं चुम्बति भानुबिम्बम्‍ ’ इत्यत्रापि नायकप्रतीत्यापत्तेः । एवं च सामानाधिकरण्येनैव संसर्गेण व्यज्यमानं नायकत्वं निशाशशिनोर्नायकत्वारोप एव पर्यवस्यति ।
“ अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः ”
इति त्वदुपजीव्यग्रन्थविरोधश्च । ‘ अविनाभावादप्रकृतव्यवहारेणाक्षिप्तेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते ’ इति तट्टीकाविरोधश्च । किं च
“ चुम्बना-दिव्यवहारेणाभिव्यक्तस्य नायकस्य व्यवहारविशेषणत्वमेव, न त्वभेदेन चन्द्रादिविशेषणत्वम्‍ । चन्द्रादिपदसमानाधिकरणपदानुपस्थापितत्वात्‍ ”
इत्युकं तत्र तुल्यन्यायत्वान्निशायामपि न नायिकात्वारोपः , अपि तु नायकवदभिव्यक्ताया नायिकाया अपि व्यवहारसंबन्धित्वेनैवावस्थान-
मिति वक्तव्यम्‍ । तच्च बाधितम्‍ । नायिकात्वानालीढकेवलरात्रिमुख-चुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात्‍ । नहि रात्रितादात्म्यं विना नायिकायाः पृथड्‍ मुखं विशेषयितुमस्ति सामर्थ्यम्‍ । अपि च ।
‘ निर्लक्ष्मीकाऽभवत्प्राची प्रतीचीं याति भास्करे । प्रिये विपक्षरमणीरक्ते का मुदमञ्चति ॥ ’
इत्यत्र पूर्वार्धगतायां समासोक्तौ भास्करादीनां नायकत्वाप्रतीतावुत्तरार्धे प्रियत्वादिना समर्थनायाः सर्वथैवानुपपत्तेः । अन्यच्च-अप्रकृतव्यवहारःप्रकृतविशेष्ये प्रकृतव्यवहारताटस्थ्येनारोप्यते, तदभिन्नतया वा ? नाद्यः ।
एवं च प्रकृतविशेष्ये प्रकृताप्रकृतव्यवाहारयोरेकत्र द्वयमिति विषयताशाली बोधः स्यात्‍ । स चासिद्ध इत्युक्तमेव । न द्वितीयः । इतो‍ऽपि प्रक्टुतव्यब-हार एवाप्रकृतव्यवहारस्याभेदेनारोपो वरीयान्‍, न तु भेदसंसर्गेण प्रकृत-विशेष्ये, अभेदांशे व्यवहारांशे चारोपस्वीकारप्रसद्रात्‍ । मम त्वभेदांश-मात्र इति स्फुत एव विशेषः । तस्मादप्रकृताभिन्नतया व्यवसितः प्रकृत-
व्यवहारः स्वविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते । तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीयः । स च न वाक्यार्थरूपके ‘ त्वत्पादनखरत्नानां ’ इत्यत्रेव विशिष्टस्य विशिष्टे । समासोक्तौ तयोः पृथक्छब्दवेद्यत्वाभावात्‍ । किं तु प्रकृतवाक्यार्थघटकाः पदार्थास्तादात्म्ये-नाप्रकृतघटकपदार्थालीढा एव वैशिष्टयमनुभवन्तो महावाक्यार्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीय‍ । अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु वाच्यम्‍ । तस्य शब्दवाच्यत्वात्‍ ।

समासोक्ति अलंकारः - लक्षण ५

अथास्याः केचन भेदा निगद्यन्ते-
विशेषणसाम्य्म श्लेषेण भवति शुद्धसाधारण्येन वा, तदपि धर्मान्तरपुर-
स्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम । तत्र ‘ विबोधयन्करस्पशैं : ’
इत्यत्र धर्मान्तरपुरस्कारेण श्लेषे समुदाह्लतमपि विशेषणसाम्यं पुनरुदा-
ह्लियते-
‘ उत्सड्रे तव गड्रे पायं पायं पयोऽतिमधुरतरम्‍ । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे ॥ ’
अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । श्लिष्टकार्य-पुरस्कारेणाप्युदाह्लतं ‘ संगृह्लास्यलकान्निरस्यसि-’ इत्यत्र ।
शुद्धसाधारण्येन धर्मांन्तरपुरस्कारेण यथा-
‘ अलंकर्तंउ कर्णै भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगद्दशः । कराब्जव्यापारानतिसुकृतसारान्रसयतो जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥
अत्र नवकान्तया क्लेशेन कर्णे क्तियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्र-स्वण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः । यथा वा-
‘ अन्धेन पातभीत्या संचरता विषमविषयेषु । द्दढमिह मया गृहीता हिमगिरिश्रृड्रादुपागता गड्रा ॥ ’
अत्र गिरिश्रृड्रप्रभववेणुयष्टिव्यवहाराभेदेन ।
कार्यसाधारण्येन यथा-
‘ देव त्वां परितः स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि, यस्य तरुणश्चापप्रतापोऽधुना । क्तोडान्तः कुरुतेतरां वसुमतीमाशाः समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’

समासोक्ति अलंकारः - लक्षण ६

लक्षण ६

कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा-
‘ उत्क्षिप्ताः कबरीभरं विवलिताःपार्श्वद्वयं न्यक् कृताः पादाम्भोजयुगं रुषा परिह्लता दूरेण चेलाञ्चलम्‍ । गृह्लन्ति त्वरया भवत्प्रातिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ ’
अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम्‍ । समासोक्तो व्यज्य-मानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम्‍ । तदुपस्कृतवाच्य-स्यैव तु प्राधान्यमित्युक्तम्‍ । तत्र यदि व्यड्रयस्यैव प्राधान्यं स्यात्‍ , न वाच्यस्य, तदा ‘ देव त्वां परितः स्तुवन्तु-’
इति प्रागुदाग्लतपद्ये निन्दा-
व्याजेन स्तुतौ पर्यवसान्म न स्यात्‍ । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहारा-श्रयत्वादिति ध्येयम्‍ ।
“-‘ तन्वी मनोहरा बाला पुष्पाक्षी पुष्पहासिनी । विकासमेति सुभग भवद्दर्शनमात्रतः ॥ ’
अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्यां लताव्यवहारप्रतीतिः । तत्र लतैकगामिविकासाख्यधर्मसमारोपः कारणम्‍ । अन्यथा विशेषण-साम्यमात्रेण नियतलताव्यवहारम्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः ” इत्यलंकारसर्वस्वकार आह, तत्र विचार्यते–नात्र विशेषण-साम्यमात्रेण लताव्यवहारप्रतीतिः , अपि तु लतारूपाऽप्रकृतासाधारण-विकासाऽऽरोपमहिम्नेति भवतैवोक्तम्‍ । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्तिः ? न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम्‌ , अपि तु विशेषणसाम्यगम्य-
त्वम्‍ । प्रकृते च विकासस्याप्यधिकस्य गमकत्वम्‍ , न त्वेतावता विशेषण-साम्यस्य गमकताहानिरिति वाच्यम्‍ । श्लेषेऽतिव्याप्त्यापत्तेः । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम्‍ । एवं च न श्लेषेऽतिव्याप्तिः ।
नापि ‘ तन्वी मनोहरा ’ इत्यत्र लक्षणस्यावर्तनमिति वाच्यम्‍ । ‘ तम्बी मनोहरा ’ इत्यत्र समासोक्तेरेवाभावात्‍ । यत्र साधारणविशेषमहिम्नाऽप्र-कृतस्य स्फूर्तिस्तत्र समासोक्तिः । यत्र त्वसाधारणमहिम्ना, तत्र व्यड्रय-रूपकमिति विषयव्यवस्थापनात्‍ । एवं च प्रकृते साधारणविशेषण-सत्त्वेऽपि न तन्महिम्ना लतायाः स्फूर्तिः, अपि तु विकासमहिम्नेति व्यड्रयरूपकमुचितम्‍ । यथा-
‘ चकोरनयनानन्दि कह्लाराह्लादकारणम्‍ । तमसां कदनं भाति वदनं सुन्दरं तव ॥ ’

समासोक्ति अलंकारः - लक्षण ७

लक्षण ७

इत्यादौ सुन्दरमिति साधारणविशेषणसत्त्वेऽपि रूपकमेव, तथेहापि । क्कचिद्‍गुणीभूतं क्कचित्प्रधानमित्यन्यदेतत्‍ । साधारण्येन विशेषणसाम्य-मूलायाः समासोक्तेस्तु ‘ अन्धेन पातभीत्या संचरता-’ इत्यादिः प्रागस्माभि-रुदाह्लतो विषय इति न निरवकाशत्वम्‍ । तत्र ह्यसाधारणधर्मारोप-मन्तरेण साधारणविशेषणमहिम्रैवाप्रकृतप्रतीतेः । एतेन ‘ तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्येऽप्यप्रकृतसंबन्धिधर्मकार्यसमारोपमन्तरेण तव्द्यवहारप्रतीतिर्न भवति ‘ इति विमर्शिनीकृता यदुक्तं तन्निरस्तम्‍ । तस्मादेवं संभवति विषयविभागे ‘ तन्वी मनोहरा-’ इत्यत्र समासोक्ति-वचनमह्लद्यम्‌ ।
यदपि “ औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा-
‘ दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥ ’
अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभा-सदृशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभाः पुष्पाणीवेत्याद्युपमित-समासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्यक्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययान्न तव्द्यवहारारोपः । एवं सुवेषेत्यपहाय परीतेति कृत्ते उपमारूपक साधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकाराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैक्यभादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम्‍ । आदावन्ते बा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादाम्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थःसमासोक्तेरत्र ” इति तेनैवोक्तम्‍, तदपि न विचारसहम्‍ । दन्तप्रभाः पुष्पाणीवेत्युपमाग्गर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्त लतोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थ-क्यादत्राप्रसक्तेः । न चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरस्वीका-रात्तथोक्तमिति वाच्यम्‍ । अनुपदमेव स्वयं तेन तत्स्वीकारात्‍ ।
‘ हालाहलसमो मन्युरनुकम्पा सुधोपमा । कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटाः ॥ ’

समासोक्ति अलंकारः - लक्षण ८

लक्षण ८

इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवर्त्युपमाया एव स्वीकरणीयत्वाच्च अवश्यकलृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात्‍ । तस्मादौपम्यगर्म-विशेषणोत्थापितः समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेन
शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्तिसमासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीय; । प्रभेदो भवितुमीष्टे, स्वतन्त्रविषयत्वाभावात्‍ ।
यथा-
‘ निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका । हंसावलीहारयुता शरद्विजयतेतराम्‍ ॥ ’
अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिरुत्तरार्धगतेनौपम्य-गर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते । एवं
‘ दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी ’ इति पूर्वार्धे कृते शुद्धसाधारण-विशेषणोत्थापितैव ।
एवं च-
‘ परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी । हंसावलीहारयुता शरद्विजयतेतराम्‍ ॥ ’

समासोक्ति अलंकारः - लक्षण ९

लक्षण ९

इत्यत्रोपमारूपकयोः साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमासस्फूर्तौ तथा-विधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेर्द्वितीययोजनायाः
‘ परिफुल्लाब्जानीव नयनानि ’ इत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु ‘ शरद्वर्षासखी बभौ ’ इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्र-वृत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्याव-श्यकत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया अत एवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सह्लदयप्रीतये पुनर्निवेदितम्‍ ।
‘ अथोपगूढे शरदा शशाड्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽड्रनानां नष्टःपरि भ्रष्टपयोधराणाम्‍ ॥ ’
इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाड्रनात्वसिद्धिरिति नोत्तरा-र्धगतार्थान्तरन्यासानुपपतिः । प्रथमचरणे तूपगूहनसाम्यादस्तु नाम समासोक्तिः ।
यत्तु कुवलयानन्दे “ सारूप्यादपि समासोक्तिर्ट्टश्यते । यथा-
‘ पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्‍ । बहोर्ट्टष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ ’

समासोक्ति अलंकारः - लक्षण १०

लक्षण १०

अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्धयसमृद्धि-
विपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयते ” इत्युक्तम्‍ , तदसत्‍ । समासोक्तिजीवातोर्विशेषणसाम्यस्यात्राभावेन समासोक्तिताया एवानुपपत्तेः । न च विशेषणसाम्यात्साट्टश्याद्वा यत्राप्रस्तुतव्यवहारः प्रस्तुतेन व्यज्यते सा समासोक्तिरिति लक्षणं निर्मास्यत इति वाच्यम्‍ । समासोक्तौ हि प्रकृतवृत्तान्तोऽप्रकृतवृत्तान्ताभेदेन स्थित इति सर्वसंमतम्‍ । त्वयापि च ‘ प्रकृतधर्मिण्यप्रकृतव्यवहार आरोप्यते ’ इत्युक्तम्‍ । एवं स्थिते नह्यत्र स्रोतोवृक्षादिविपर्यासो धनसंतानविपर्यासाद्यभेदेन प्रतीयते नापि वनादौ धनसंतानविपर्यास इति समासोक्त्यन्तरात्सत्यपि वैलक्षण्ये यद्यसौ समासोक्तिरिति शपथः क्तियते तदा अलंकारान्तरमपि सभासोक्ति-कुक्षावेव निक्षिप्यताम्‍ ।
एवं तर्हि ‘ पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां ’ इत्यत्र कोऽलं-कारः ? । अप्रकृतेन वाच्येन प्रकृतव्यवहाराभिव्यक्तिरूपाया अप्रस्तुतप्र-शंसया अत्रासंभवात्प्रकृतस्यैव वाच्यत्वादिति चेत्‍, साधु पृष्टमायुष्मता । समाधानमस्य सप्रपञ्चमप्रस्तुतप्रशंसाप्रकरण एव निवेदयिष्याम इति । किं चालंकारसर्वस्वकृता ‘ साट्टश्यगर्भविशेषणोत्थापिता साट्टश्यमूला समा-सोक्तिः ’ इत्युक्तम्‍ । तत्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक्‍ ।
सेयं लैकिके व्यवहारे लैकिकस्य व्यवहारस्य, शास्त्रीये शास्त्रीय-स्यारोपेण, एतद्विपर्ययेण च चतुर्धा । तत्राद्या प्रागभिहितैव । द्वितीया
यथा -
‘ गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके । बुधेषु सदिति ख्यांत तद्रह्म समुपास्महे ॥ ’
अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानज्व्यवहार-स्य । लैकिके शास्त्रीयस्य यथा-
‘ परार्थव्यासड्रादुजहदथ स्वार्थपरता-सभेदैकत्व्म यो वहति गुणभूतेषु सततम्‍ । स्वभावाद्यस्यान्त : स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ’
अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्र हि ‘ अथ ये वृत्तिं वर्तयन्ति किं त आहुः ’ इत्यादिना जहत्स्वार्था वृत्तिरजहत्स्वार्था वृत्तिरिति पक्षद्वयं निरूपितम्‍ । तत्रैवोपसर्जनार्थे अभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकृता च हरिणा-
‘ यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ ’ इति ।
सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्तम्‍ ।
शास्त्रीये लैकिकस्य यथा-
‘ कृत्वा सूत्रैः सुगूढार्यैः प्रकृतेः प्रत्ययं परम्‍ । आगमान्भावयन्भाति वैयाकरणपुंगवः ॥ ’

समासोक्ति अलंकारः - लक्षण ११

लक्षण ११

अत्र राजव्यवहारस्य । एवं शास्रान्तरव्यवहारे‍ऽपि बोध्यम्‍ । इयं चालंकारान्तरेषु बहुष्वानुगुण्येन स्थिता । यथा-
‘ स्थितेऽपि सूर्ये पद्मिन्यो वर्तन्ते मधुपैः सह । अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ॥ ’
अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते । ‘ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ ’
इह समर्थकत्वेन ।
‘ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्‍ । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ ’
अत्र हि परकृतनिजस्तुत्याकर्णनकंधरानमनादिविशेषणसाम्योत्थापितया समासोक्त्या सज्जनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे
भूशाखासंबन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूप-हेतूत्प्रेक्षा संभवति । अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकता-पत्तेः । इत्युत्प्रेक्षानुगुणा समासोक्तिः । एवम्‍-
‘ राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधारकरः ।
इत्यत्रापि स्वामिसेवकव्यवहारभूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अच्चेतनव्यवहारे प्रकृते चेतनव्यवहारसंबन्धिस्वरूप-हेतु-फलोत्प्रेक्षा-याम्‍, चेतनव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रे-क्षायां च समासोक्तिरेव भूलम्‍ ।

इति रसगंगाधरे समसोक्तिप्रकरणम्‍ ।

*********

रसगड्गाधरः - परिकर अलंकारः

परिकर अलंकारः - लक्षण १

लक्षण १

विशेषणानां साभिप्रायत्वं परिकरः ॥
तच्च प्रकृतार्थोपपादकचमत्कारिव्यड्रयकत्वम्‍ । अत एवास्य हेत्वलं-काराद्वैलक्षण्यम्‍, तत्र व्यड्रयस्यानावश्यकत्वात्‍ । उपपादकता चोपस्का-रक-निष्पादकसाधारणी । व्यड्रयस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते ।
यथा-
‘ मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपदे स्वर्लोककल्लेलिनि त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ॥ ’
अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदूरीकरणस्या-शंसनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परि-णामेन भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं ताव-त्सूपपादमेव । ‘ स्थास्नुजड्रमसंभूतविषहन्त्र्यै नमो नमः इत्याद्यागमबलाच्च विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभाव-
सिद्धमेव । एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि । अत्र नामान्तरस्य सत्त्वेऽपि कालिया-हितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनिःसारीकृतकालिये लोकोत्तरविषहरणशक्तिरुत्पत्तिसिद्धैवासीत्‍ । सा च तयोर्वीचिभिः क्षालना-द्नड्रायां स्वाश्रयरेणुद्वारा संक्रान्तेति गम्यते । न च शक्तेः पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वाच्यम्‍ । क्षालितावशिष्टा लेशरूपा शक्तिश्चरणे काचित्स्थितासीत्‍ यया
संप्रति कालियस्य विषमहारीत्यप्याकूतान्तर्गतमेवेति नानुपपत्तिः । एवं हि वाच्योपस्कारकतयात्र गुणीभावः, न वाच्यसिध्द्यड्रतया ।

परिकर अलंकारः - लक्षण २

लक्षण २

यथा वा-
मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम्‍ । धृतशार्ड्रगदारिनन्दक प्रतिकर्षन्ति कथ्म न बीक्षसे ॥ ’
अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव
निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ड्रेत्यादिविशेषणममोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवेत्याकूत-गर्भम्‍ । ननु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थदोषस्योक्तत्वात्सप्रयोजन-विशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति, न त्वलंकार इति । अत्र विमर्शिनीकारादय आहुः-‘ विशेषणानां बहुत्वमत्र विवक्षितम्‍ ।
साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशयः । एकविशेषणं तु दोषाभावमात्रस्यावकाशः ’ इति । तदसत्‍ । विशेषणानेकत्वं हि व्यड्रया-धिक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम, न तु प्रकृतालंकारशरी-रमेव तदिति शक्यं वक्तुम्‍ । वीचिक्षालितकालियाहितपदे इति प्रागुक्ते एकस्यैव विशेषणस्य चमत्कारिताया अनपह्लवनीयत्वात्‍ ।
‘ अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम्‍ ॥ ’
अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्च ।

परिकर अलंकारः - लक्षण ३

लक्षण ३

यत्तु कुवल्यानन्दकर आह-“ श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावा-त्परिकरत्वोपपत्तिः । यथा- ‘ क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ’ इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये ” इति । तदप्यसत्‍ । यो हीममलंकारं दोषाभावान्तःपातितयालंकारमध्याद्वहिर्भाव-
यति, स किं त्वदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायवि शे-षणेशु विच्छित्तिविशेषं मन्यते, न वा ? आद्ये दोषाभावमात्रेण विच्छि-त्तिविशेषस्यालंकारप्रयोज्यस्यालंकारमन्तरेणानिष्पत्तेः सिद्धं सर्वत्र परिकर-स्यालंकारत्वम्‍ । द्वितीये अन्यत्रेव यमकादिष्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात्‍ । तथा हि-
‘ अनापदि विना मार्गमनिशायायामनातुरः । मृत्तिकाशौचहीनस्तु नरो भवति किल्बिषी ॥ ’
इत्यत्र पर्युदस्तेऽप्यापत्कालादौ यथा केनचिन्मृत्तिकाशौचादि क्तियमाणं न केनापि प्रतिषिध्यते, कर्तुः सामर्थ्यगमकं च भवति, तथा प्रकृतेऽपि
दोषनिषेधविधौ पर्युदस्तेऽपि यमकादौ पुष्टतारूपदोषाभावः कविना संपाद्यमानो न दोषाय भविष्यति, अपि तु रसपोषायैवेति । यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं ब्रूषे, ब्रूहि तदान्यत्रापि तमेव प्रमा-णमिति यमकपर्यन्तानुधावनं निरर्थकमेव । तस्मात्पुष्टार्थतारूपेण दोषाभावेन परिकरालंकारस्य विषयविभागो दुःशक इति प्राप्ते ब्रूमः । सुन्दरत्वे सत्यु-पस्कारकत्वमलंकारत्वम्‍ । चमत्कारापकर्षकाभावत्वं च दोषाभावत्वम्‍ । तदेतद्धर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समाविशेत्तदा का हानिः स्यात्‍ ? । उपधेयसंकरऽप्युपाध्यसंकरात्‍ । यथा ब्राह्मणस्य
मूर्खत्वं दोषः , विद्या तु दोषाभावश्च भवति गुणश्च, तथेहाप्युपपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम्‍ । उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनोपपत्तेः । यथा गुणीभूतव्यड्रयभेदतया संगृहीतापि समासोक्तिरलंकारगणनायां
पुनर्गण्यते । यथा वा प्रासादवासिषु गणितो‍ऽप्युभयवासी भूवासिगण-नायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा प्राचां काव्य-लिड्रमप्यलंकारो न स्यात्‍ । तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात्‍ ।

परिकर अलंकारः - लक्षण ४

लक्षण ४

‘ द्विजराज कलाधार विश्वतापनिवारण । कथ्म मामबलां क्तूरैः करैर्दहसि निर्दय ॥ ’
इत्यादौ विशेषणाधिक्याव्द्यड्रयाधिक्ये चमत्काराधिक्यम्‍ ।
अयं च वाच्यसिद्धयड्रव्यड्रयगर्भत्वेनोपस्कारकव्यड्रयगर्भत्वेन द्विधा-भवन्‍ व्यड्रयस्य वाच्यायमानत्व-तद्विपर्ययाभ्यां चतुर्धा ।
आद्यो यथा-
‘ विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम्‍ । कृपातरड्राकुल मन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥ ’
अत्र गाहनसिद्धयड्रं कृपेत्यादेः समुद्ररूपं व्यड्रयं वाच्यायमानम्‍ ।
द्वितीयो तथा-
‘ खर्वीकृतेन्द्रगर्व त्वरया चक्तेण भिन्ननक्तमुख । लीलात्तकोकमूर्ते मामुद्धर्तुं कथं न शक्तोऽसि ॥ ’
अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्धारो वाच्यतास्पर्शशून्य एवोपालम्भ-सिद्धयड्रम्‍ । तृतीयस्तु ‘ धृतशार्ड्रगदारिनन्दक ’ इत्यत्र, चतुर्थः ‘ वीचिक्षालि-तकालियाहितपदे ’ इत्यत्र च बोध्यः ।

इति रसगंगाधरे परिकरालंकारप्रकरणम्‍ ।

*********

रसगड्गाधरः - श्लेष अलंकारः

श्लेष अलंकारः - लक्षण १

लक्षण १

श्रुत्येऐकयानेकार्थप्रतिपादनं श्लेषः ॥
तच्च द्वेधा । अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आद्यं द्वेधा ।
अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविधः श्लेषः । तत्राद्यः सभड्रो द्वितीयो ह्यभड्र इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रि-विधः । अत्राद्ये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य । तथात्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात्‍ । विशेषणमात्रश्लिष्टतायामपि प्रकृता-
प्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तुसमासोक्तेरेव विषयः । तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवम-प्रकृतेत्यादिर्द्वितीयः । पृथगुपात्तप्रकृताप्रकृतोभयविशेष्यकनानार्थविशेषणं तृतीयः । एतदन्यतमत्वं च लक्षणं पर्यवसितम्‍ । क्तमेणोदाहरणानि-
‘ संभूत्यर्थं सकलजगतो विष्णुनाभिप्रपन्नं यन्नालं स त्रिभुवनगुरुर्वेदनाथो विरिञ्चिः ।
ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं पद्माख्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ॥ ’

श्लेष अलंकारः - लक्षण २

लक्षण २

अत्राशीःप्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मी-भगवन्नाभिकमलयोरु-भयोरपि प्रकृतत्वात्प्रकृतमात्राश्रोतोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभड्रः । विशेष्ययोरश्र्लिष्टत्वेऽप्ययं संभवति । यथात्रैव ‘ पायादाद्यं कमलमथवा योगमायास्वरूपम्‍ ’ इति तुरीयचरणनिर्माणे ।
अयमेवाभड्रात्मको यथा-
‘ करकलितचक्रघटनो नित्यं पीताम्बरस्तमोऽरातिः । निजसेविजाडयनाशनचतुरो हरिरस्तु भूतये भवताम्‍ ॥ ’
विशेष्ययोरश्लिष्टत्वे यथा ‘ जाडयहरणो विष्णुः सूर्यश्च वः पातु ’ इति तस्यैव शेषे कृते ।
अर्थश्लेषो यथा
‘ अर्जुनस्य गुरुर्मायामनुजः पुमान्‍ । गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥ ’
एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः ।
‘ हरिकरसड्रादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलाभा विगलितप्रतिभा ॥ ’
अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्लेषाविषयत्वात्‍ । कमला-भेति विशेष्यांशे, अधिकमिति विशेषणांशे च सभड्रः , अन्यत्राभड्रः ।
अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथात्रैव ‘ कमलायाः कमलस्य च शोभ गलिता तवाननस्याग्रे ’ इत्युत्तरार्धनिर्माणे ।

श्लेष अलंकारः - लक्षण ३

लक्षण ३

प्रकृताप्रकृतोभयविषयो यथा-
‘ अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन । अत्यन्तमाकाड्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥ ’
अत्र प्रकृताप्रकृतयोर्भीष्ममाघयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्‍-भवति तृतीयो भेदः । परं तूपमया संकीर्णः । यदि च ‘ माघो महात्माजनि
हन्त भीष्मः ’ इत्यप्रकृतांशमपि श्लेषग्रस्तं कृत्वा रूपकं क्तियते, तथापि प्रकृत-विशेष्यस्य माघस्याश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रीमतव्यम्‍ , अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात्‍ । यत्र त्वप्रकृतव्यव-हार एव शब्दशक्तिं सहेतापि, न त्वप्रकृतधर्मी, तत्र समासोक्तेरिष्टेः ।
अत्र विचार्यते-अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभि-निविशते, तत्र किमस्य बाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्व-मिति । अत्राहुरुद्भटाचार्याः-“-‘ येन नाप्राप्ते य आरभ्यते तस्य स
बाधकः ’ इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते । न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत । तथाहि अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति । प्रकृताप्रकृतयोस्तु दीपकम्‍ । तदनुमोदिता उपमादयश्च । न च
‘ देव त्वमेव पातालमाशानां त्वं निबन्धनम्‍ । त्वं चामरमरुद्‍भूमिरेको लोकत्रयात्मकः ॥ ’

श्लेष अलंकारः - लक्षण ४

लक्षण ४

इत्यादिकव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम्‍ । रूपकस्यैवात्र स्फुटत्वात्‍ । श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मक-त्वस्य दुरुपपादत्वात्‍ । कथं तर्हि ‘ नदीनां संपदं बिभ्रद्राजायं सागरो यथा ’ इत्यादाबुपमायाः प्रत्यय ? । कथं वा तत्रैव यथाशब्दस्थाने किमुशब्द-दाने उत्प्रेक्षायाः ? । अपर इति कृते च रूपकस्येति चेत्‍ , न । अत्र हि
उपमादीनां प्रतिभानमात्रं न तु वास्तवी स्थितिः । नहि श्वैत्येन शुक्तौ रजतत्वं प्रतायमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतुः श्लेष एव स्वविषये सर्वत्रालंकारः ” इति ।
एतच्चापरे न क्षमन्ते । तथा हि यत्तावदुच्यते येन नाप्राप्त इत्यादि ,
तत्र प्रागुदाह्लते ‘ पद्माख्यं तक्तिमपि ललितं ’ इत्यस्मत्पद्ये, सर्वदोमाधवः पातु यो गड्रां समदीधरत्‍ ’ इत्यादिपरकीयपद्ये च श्लेषातिरिक्तः कोऽलं-कारः ? । तुल्ययोगिता तु सादृश्यप्रत्ययनियता कथमत्र शक्यते वक्तुम्‍ ? नहि लक्ष्मीकमलयोर्हरिहरयोर्वा प्रकृते सादृश्यं प्रतिपिपादयिषितम्‍ । नापि चात्रैकश्रुत्यार्थद्वयोपादानं विनान्यक्तिंचिच्चमत्कारजनकं येनालंकारान्तर-मभ्युपगच्छेम । एकश्रुत्यार्थद्वयोपादानं तु श्लेष एव । एवं च सावकाश-
त्वाच्ल्लेषस्यालंकारान्तरापवादकत्वं न युक्तम्‍ । अत एवोपमादीनां प्रति-
भानमात्रमिति यदुक्तं तदपि न संगतम्‍ । गुणक्तियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्वाधकाभावात्‍ । एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभान-मात्रमिति वक्तुं युक्तम्‍ । पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्त-
त्वान्निरवकाशतयास्य सावकाशस्य स्वविषये बाधौचित्यात्‍ । तथा ‘ समरा-र्चितोऽप्यमरार्चितः ’ इत्यादौ श्लेषस्य तैमिरिकचन्द्रद्वयवत्प्रतिभानमात्रमेव, न त्वलंकारत्वम्‍ । तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात्‍ । विरोधस्य
त्वाभास-रूपस्याप्यलंकारत्वम्‍ , न तु विरोधप्रतिभयोत्पाद्यः श्लेषः । किं च प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्त-
त्वम्‍, अलंकारान्तरत्वपुरस्कारेणेति चेत्‍, एवं तर्हि बाध्यसामान्य-चिन्तया स्वविषये प्राप्तस्य सर्वस्यापि बाधापत्तौ श्लिष्टपरम्परितरूपकस्य श्लिष्टसमासोक्तेश्चोच्छेद एव स्यात्‍ । तस्माच्छ्‍लेषस्य नापवादकत्वम्‍, संकीर्णत्वं तु स्यात्‍ इति ।

श्लेष अलंकारः - लक्षण ५

लक्षण ५

अन्ये तु-“ अलंकारा हि प्राधान्येन चमत्काराधायकाः स्वां स्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा-‘ रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाड्कबिम्बम्‍ ’ इत्यत्र प्रकृताऽप्रकृता-त्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च ‘ राजते वदनं तन्व्या नभसीव निशाकरः ’ इत्यत्र । अत्र एवोच्यते- ‘ प्राधान्येन व्यप-देशा भवन्ति ’ इति । एवं चालंकारान्तरोपस्कारकतया स्थितः श्लेषः
कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव ” इत्यप्याहुः ।
तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता । यत्र तु प्रकृताप्रकृतोभयबि-शेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनेर्विषय इत्युक्तम्‍ । स च यथा-
‘ अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम्‍ ॥ ’
अत्र राजनि प्रस्तुते उदग्दिग्गजो‍ऽप्रस्तुतोऽपि व्यञ्जनमर्यादया
प्रतीयते । तत्राप्रस्तुताभिधानं मा प्रसाड्क्षिदिति प्रस्तुताप्रस्तुतयोरुपमानोप-मेयभावे तात्पर्यं कल्प्यते । इमं च शदशबक्तिमूलानुरणनरूपं ध्वनिमाहुः । उदाह्लतश्व ध्वनिकारैः-
‘ उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्तेऽभिलषिणम्‍ ॥ ’

श्लेष अलंकारः - लक्षण ६

लक्षण ६

मम्मटभट्टैश्व-
‘ भद्रात्मनो दुरधिरोहतनोर्विशाल-वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करो‌‍ऽभूत्‍ ॥ ’
कुवलयानन्दकारस्तु –“ यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्ति-मूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंकारस्य व्यड्रयत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यड्रयत्वाभिप्रायम्‍ । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यक्त्यनपेक्षत्वात्‍ । यद्यपि प्रकृतार्थे प्रक-रणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितद्‍ग्राह्यधनादिवाचिनां राज-करादिपदानामन्योन्यसंनिधानबलात्तद्विषयशक्यन्तरोन्मेषपूर्वकम-
प्रकृतार्थः स्फुरेत्‍, नैतावता तस्य व्यड्रयत्वम्‍ । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्‍ । पर्यवसिते प्रकृतार्थामिधाने स्फुरति चेक्तामं गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढः श्लेषः । यथा-
‘ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ ’
अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते । तत्राभड्र-श्लेष इति सर्वेषामभिमतम्‍ । एवं चाप्रकृतार्थो न व्यड्रयः । ” इत्याह ।
तत्र विचारयामः - यत्तावदुच्यते उपमादेरलंकारस्यैव व्यड्रयत्वं प्राचीनानामभिप्रेतं न त्वप्रकृतार्थस्येति । एवं सति
‘ अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृव्द्यापृतिरञ्जनम्‍ ॥ ’
इत्यादिस्तेषां ग्रन्थः कथमायुष्मता समर्थितः ? । उपमादेर्व्यड्रयत्वस्य वाचकतानियन्त्रणाऽनपेक्षत्वात्‍ । नह्यनेकार्थस्यापि शब्दस्योपमादिवाचकत्वं प्रसक्तं येन तन्नियन्त्रणाय संयोगाद्यनुसरणमर्थवत्स्यात्‍, द्वितीयार्थवाचक-
तायामनियन्त्रितायामप्युपमादेर्व्यड्रयत्वम्य निष्प्रत्यूहत्वात्‍ । तस्मात्तद्‍ग्र-न्थानाकलननिबन्धनं तदभिप्रायवर्णनमिति स्फुटमेव ।
यदप्युच्यते अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्येत्यादि । तर कथमप्र-कृतार्थस्य शक्त्या प्रतिपादनम्‍ ? । तद्विषये शक्तेर्नियन्त्रणस्य तैरेवोक्तत्वात्‍ । अथ नियन्त्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि । एवं च प्रकृत-शक्त्या प्रकृतार्थबोधे जाते सत्यकृतार्थया द्वितीयशक्त्या प्रकृतेतरार्थबोधे न किंचिद्वाधकमिति चेत्‍ । न । प्रथमं ह्यप्रकृतार्थबोधस्याजननमेव कस्य हेतो ? । प्रकरणादिज्ञानेन प्रतिबन्धादिति चेत्‍, प्रकृतार्थबोधोत्तरं सा प्रतिबन्धकता केनापह्लता प्रकणादिज्ञानस्य ? । न च ज्ञानस्याशुविना-
शित्वात्तदानीं प्रकरणज्ञानमेव नष्टमिति वाच्यम्‍ । ज्ञानान्तरस्योत्पत्तौ बाधकाभावात्‍ । सैव ज्ञानव्यक्तिः प्रतिबन्धिकेति तु तत्तव्द्यक्तिसहस्रगतप्र-तिबन्धकत्वसहस्रकल्पनागौरवग्रस्तमेव । तदपेक्षयान्यत्र क्लृप्तव्यञ्जनाख्य-व्यापारस्यैव कल्पयितुं युक्तत्वात्‍ । ‘ जैमिनीयमलं धत्ते रसनायां महामतिः ’ इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च । यदि तु यथाकथंचिदुप-पत्तिः स्यादेवमपि तस्य देवदत्तादौ तत्पुत्रवाक्यादप्रादुर्भावस्तच्छयालका-द्युपहासवाक्यात्प्रादुर्भावश्च न स्यात्‍ । वक्तृबोद्धव्यादिवैशिष्टयस्य व्यड्रयप्र-
तिभामात्रहेतत्वादिति प्राचामाशयः । तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति ।

श्लेष अलंकारः - लक्षण ७

यच्चाप्युच्यते “-‘ अयमतिजरठा : ’ - इत्यादिसमासोक्ताविव गूढश्लेषोस्तु ” इति, तदपि गर्भस्रावेण गलितम्‍ । श्लिष्टविशेषणायां, समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात्‍ । अत एव ध्वनिकृता ‘ गुणीभूत-
व्यड्रयभेदः समासोक्तिः ’ इत्युक्तम्‍ । ‘ समासोक्त्या श्लेषो बाध्यते ’ इत्युद्भट-प्रभृतिभिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम्‍ । श्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत्‍ ।
वयं तु ब्रूमः-अनेकार्थथले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवो‍ऽ-प्यस्ति । योगरूढिस्थले तु सापि दूरापास्ता । यथा-
‘ चाञ्चल्ययोगि नयनं तव जलजानां श्रियं हरतु । विपिने‍ऽतिच्चञ्चलानामपि च मृगाणां कथं नु तां हरति ॥ ’
अत्र नैवाश्चर्यंकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणा-धिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां
तद्‍गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोग-मर्यादया-मूर्खपुत्राणां धनहरणं नेतृभिश्चौरैः सुशकं न तु गवेष-काणामिति जलज-नयन-मृग-शब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जना-व्यापारमुपपादयितुं शक्यते ?। यतो योगशक्ते रूढया दृढनिगडानियन्त्रिता-ताया नास्ति स्वातन्त्र्यम्‍ । अत एव पड्कजादिपदेभ्यः पड्कजनिकर्तृत्वेन कुमुदशैवलदिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोध-
स्यैव कार्यतावच्छेदकत्वादित्युक्म नैयायिकैः । अत एव च ‘ ईशानो भूत-भव्यस्य स एवाद्य स उ श्वः ’ इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चि-ज्जीवः प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते ‘ शब्दादेव प्रमितः ’ इति सूत्रित-मुत्तरमीमांसाकारैर्व्यासचरणैः । तस्मात्प्रागुक्तपद्येऽप्रकृतचोरव्यवहारो न शक्तिवेद्यः , अपि तु व्यक्तिवेद्य एव । मुख्यार्थबाधाद्यभावाल्लक्ष्योऽपि न
शक्यो वक्तुम्‍ । तात्पर्यार्थबाधस्तु तात्पर्यार्थबोधोत्तरबोध्यः । स एव
तु कथ्म स्यादिति व्यञ्जनैव शरणीकरणीया । नहि चोरव्यवहारो‍ऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सह्लदयतो-न्मिषितादस्माव्द्यापारात्‍ ।
इदं पुनरिहावधेयम्‍-‘ रागावृतो वल्गुकराभिमृष्टं श्यामामुखं चुम्बति चारु चन्द्रः ’ इत्यादौ तावत्स मासोक्तिरिति निर्विवादम्‍ । चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च । तदत्रोभयत्रापि श्लिष्टविशेषण-माहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुल्यत्वात्कथमेकत्र गुणी-भावोऽन्यत्र प्राधान्यं च स्यात्‍ । प्रकृतस्य प्राधान्यादप्रकृतस्य तु तदुप-
स्कारकत्वेनोभयत्रापि गुणभावौचित्यात्‍ । नहि विशेष्यस्य श्लिष्टतामात्रेण व्यड्रयस्य प्राधान्यम्‍, अश्लिष्टत्वे चाप्राधान्यं शक्यं संपादयितुम्‍ । नाय-कत्वप्रतीतिरपि क्कचिदर्थशक्तिमूलेन व्यञ्जनेन, क्कचिच्छब्दशक्तिमूलेन तुल्यैव । यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादेः प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यवहारस्यैव, ध्वनै चाभ्युपेयते, तेषामपि व्यड्रयस्यै-कत्र गुणत्वमन्यत्र प्राधान्यं च कस्य हेतोः स्यात्‍ ? । प्रकृताप्रकृतयोरौ-पम्यं गम्यमुच्यतामभेदो वा, सर्वथैव तस्य प्रकृतोपस्कारकत्वाद्‍गुणीभाव एवोचितो न प्राधान्यम्‍ । अन्यथा समासोक्तावपि व्यड्रयस्य प्राधान्या-पत्तेः । तस्माच्छ्लिष्टश्लिष्टविशेष्या समासोक्तिरेवेयम्‍ । अपराड्ररूपगुणीभूत-व्यड्रयभेद इत्यपि शक्यते वक्तुं यदि प्राञ्चो न कुप्यन्ति ।

श्लेष अलंकारः - लक्षण ८

यच्चाप्युच्यते “-‘ अयमतिजरठा : ’ - इत्यादिसमासोक्ताविव गूढश्लेषोस्तु ” इति, तदपि गर्भस्रावेण गलितम्‍ । श्लिष्टविशेषणायां, समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात्‍ । अत एव ध्वनिकृता ‘ गुणीभूत-
व्यड्रयभेदः समासोक्तिः ’ इत्युक्तम्‍ । ‘ समासोक्त्या श्लेषो बाध्यते ’ इत्युद्भट-प्रभृतिभिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम्‍ । श्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत्‍ ।
वयं तु ब्रूमः-अनेकार्थथले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवो‍ऽ-प्यस्ति । योगरूढिस्थले तु सापि दूरापास्ता । यथा-
‘ चाञ्चल्ययोगि नयनं तव जलजानां श्रियं हरतु । विपिने‍ऽतिच्चञ्चलानामपि च मृगाणां कथं नु तां हरति ॥ ’
अत्र नैवाश्चर्यंकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणा-धिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां
तद्‍गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोग-मर्यादया-मूर्खपुत्राणां धनहरणं नेतृभिश्चौरैः सुशकं न तु गवेष-काणामिति जलज-नयन-मृग-शब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जना-व्यापारमुपपादयितुं शक्यते ?। यतो योगशक्ते रूढया दृढनिगडानियन्त्रिता-ताया नास्ति स्वातन्त्र्यम्‍ । अत एव पड्कजादिपदेभ्यः पड्कजनिकर्तृत्वेन कुमुदशैवलदिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोध-
स्यैव कार्यतावच्छेदकत्वादित्युक्म नैयायिकैः । अत एव च ‘ ईशानो भूत-भव्यस्य स एवाद्य स उ श्वः ’ इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चि-ज्जीवः प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते ‘ शब्दादेव प्रमितः ’ इति सूत्रित-मुत्तरमीमांसाकारैर्व्यासचरणैः । तस्मात्प्रागुक्तपद्येऽप्रकृतचोरव्यवहारो न शक्तिवेद्यः , अपि तु व्यक्तिवेद्य एव । मुख्यार्थबाधाद्यभावाल्लक्ष्योऽपि न
शक्यो वक्तुम्‍ । तात्पर्यार्थबाधस्तु तात्पर्यार्थबोधोत्तरबोध्यः । स एव
तु कथ्म स्यादिति व्यञ्जनैव शरणीकरणीया । नहि चोरव्यवहारो‍ऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सह्लदयतो-न्मिषितादस्माव्द्यापारात्‍ ।
इदं पुनरिहावधेयम्‍-‘ रागावृतो वल्गुकराभिमृष्टं श्यामामुखं चुम्बति चारु चन्द्रः ’ इत्यादौ तावत्स मासोक्तिरिति निर्विवादम्‍ । चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च । तदत्रोभयत्रापि श्लिष्टविशेषण-माहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुल्यत्वात्कथमेकत्र गुणी-भावोऽन्यत्र प्राधान्यं च स्यात्‍ । प्रकृतस्य प्राधान्यादप्रकृतस्य तु तदुप-
स्कारकत्वेनोभयत्रापि गुणभावौचित्यात्‍ । नहि विशेष्यस्य श्लिष्टतामात्रेण व्यड्रयस्य प्राधान्यम्‍, अश्लिष्टत्वे चाप्राधान्यं शक्यं संपादयितुम्‍ । नाय-कत्वप्रतीतिरपि क्कचिदर्थशक्तिमूलेन व्यञ्जनेन, क्कचिच्छब्दशक्तिमूलेन तुल्यैव । यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादेः प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यवहारस्यैव, ध्वनै चाभ्युपेयते, तेषामपि व्यड्रयस्यै-कत्र गुणत्वमन्यत्र प्राधान्यं च कस्य हेतोः स्यात्‍ ? । प्रकृताप्रकृतयोरौ-पम्यं गम्यमुच्यतामभेदो वा, सर्वथैव तस्य प्रकृतोपस्कारकत्वाद्‍गुणीभाव एवोचितो न प्राधान्यम्‍ । अन्यथा समासोक्तावपि व्यड्रयस्य प्राधान्या-पत्तेः । तस्माच्छ्लिष्टश्लिष्टविशेष्या समासोक्तिरेवेयम्‍ । अपराड्ररूपगुणीभूत-व्यड्रयभेद इत्यपि शक्यते वक्तुं यदि प्राञ्चो न कुप्यन्ति ।

*********

रसगड्गाधरः - अप्रस्तुतप्रशंसालंकारः

अप्रस्तुतप्रशंसालंकारः - लक्षण १

लक्षण १

अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपस्करणे समासोक्तिरुक्ता । तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते–
अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेणा-प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ॥
प्रशंसनं च वर्णनमात्रम्‍ , न तु स्तुतिः । ‘ धिक्तालस्योन्नततां यस्य च्छायापिनोपकाराय । ’ इत्यादावव्याप्त्यापत्तेः ।
इयं च पञ्चधा-अप्रस्तुतेन स्वसदृशं प्रस्तुतं गम्यते यस्यामित्येका । कार्येण कारणमित्यपरा । कारणेन कार्यमिति तृतीया । सामान्येन विशेष इति चतुर्थी । विशेषण सामान्यमिति पञ्चमी ।
आद्या यथा-
‘ दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाःखलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नरवानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ ’
यथा वा-
‘ यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै-र्मन्थाद्रिभ्रमणभ्रमं ह्लदि हरिद्यूथाधिपाः पेदिरे । सोऽयं तुड्र तिमिड्रिलाड्रगिलनव्यापारकौतूहलः क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ॥ ’

अप्रस्तुतप्रशंसालंकारः - लक्षण २

लक्षण २

यथा वा-
‘ पुरा सरसि मानसे विकचसारसालिस्खल-त्परागसुरभीकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले मरालकुलनायकः कथय रे कथं वर्तताम्‍ ॥ ’
श्लिष्टविशेषणाप्येषा दृश्यते-
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः । अत्यन्तसरसह्लदयो यतः परेषां गुणग्रहीतासि ॥
समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम्‍ । तस्याः प्रकृतालंकारवि-रुद्धात्मिकात्वेनानुग्राहिकात्वायोगात्‍ । यत्तु “-‘ येनास्यभ्युदितेन चन्द्र गमितः क्लन्तिं रवौ तत्र ते युज्येत प्रतिकर्तृमेव न पुनस्तस्यैव पादग्रह; ’
इत्यत्र समासोक्तेरनुग्राहिका ” इति मम्मटभट्टैरुक्तं तत्र विचार्यते-अत्र विशेषणसाम्यमहिम्ना प्रतीयमानः कापुरुषवृत्तान्तः किं प्रस्तुत आहोस्वि-दप्रस्तुतः ? । आद्ये समासोक्तेर्विषय एव नास्ति । ‘ परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः ’ इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात्‍ । परस्या-प्रकृतस्येति तदर्थात्‍ । द्वितीयेऽप्रस्तुतप्रशंसाया नास्ति विषयः, ‘ अप्रस्तुत-प्रशंसा सा या सैव प्रस्तुताश्रया ’ इति तल्लक्षणात्‍ । प्रस्तुत आश्रयः
प्रधानं यस्या इति तदर्थात्‍ । तस्माच्छ्लिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम्‍ ।
इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते । अस्यां च वाक्यार्थः क्कचित्प्त-तीयमानार्थताटस्थ्येनैवावतिष्ठते-यथोक्तोदाहरणेषु । क्कचिच्च स्वगतवि-शेषणान्वययोग्यतामासादयितं प्रतीयमानाभेदमपेक्षते । यथा-
‘ सभुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः । मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥ ’

अप्रस्तुतप्रशंसालंकारः - लक्षण ३

लक्षण ३

यथा वा-
‘ तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन्‍ । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ’
अत्र वृक्षपक्षिणोः संबोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते । ‘ मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपले‍ऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ ’ अत्र त्यागानौचित्यहेतुत्वेन कमलिन्याः स्तुतिरूपं विशेषणमुपात्तम्‍ । तच्च न संभवति । नहि भ्रमरे श्यामत्वादिर्दोषः, कमलिन्याः शोणत्वा-दिर्वा गुणः, येन स्तुतिः स्यात्‍ । अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्ष्यते । पूर्वत्रांशेन, इह तु साकल्येनेति
विशेषः । क्कचिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यम्‍, वाच्यं च किंचिदंशे प्रतीयमानतादात्म्यमपेक्षते । यथा-
‘ सरजस्कां पाण्डुवर्णां कण्टकप्रकराड्किताम्‍ । केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रपः ॥ ’
अत्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरपि सेवनानौचित्ये निमित्तम्‍, न तथा पाण्डुवर्णत्वकण्टकितत्वे । यतः पाण्डुवर्णत्वं केतक्यां न दोषः, प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्या नायिकातादात्म्यम-
पेक्ष्यते । नायिकायां च कण्टकितत्वांशे केतकीतादात्म्यम्‍ । पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुणत्वात्‍ ।
कार्येण कारणं गम्यं यथा-
‘ किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्तीडाकुण्डलितभ्रु शोणनयने दोर्मण्डलं पश्यति । नानाभूषणरत्नजालजटिलास्तकालमेवाभव-न्विन्ध्यक्ष्माधर-गन्धमादनगुहासंबन्धिनो भूरुहाः ॥ ’

अप्रस्तुतप्रशंसालंकारः - लक्षण ४

लक्षण ४

अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते । यदि तु वक्ष्यमाण-रीत्या पर्यायोक्तालंकारस्यायं विषय इत्युच्यते, तदेदं विविक्तभुदाहरणम्‍-
‘ नितरां परुषा सरोजमाला न मृणालनि विचारपेशलनि । यदि कोमलता तवाड्रकानामथ का नाम कथापि पल्लवानाम्‍ ॥ ’
अत्र पल्लवादितिरस्कारेण कार्येण तदड्रानां सौकुमार्यातिशयः कारणम्‍ । कार्यकारणभावश्चेह ज्ञानयोः । तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदड्रसौकुमार्याजन्यत्वेऽपि न क्षतिः ।
कारणेन कार्यं गम्यं यथा-
‘ सृष्टिः सृष्टिकृता पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातप निर्दयं दहसि यज्ज्वालाजटालैः करैः ।
संरम्भारुणलोचनो रणमुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभः ॥ ’
अत्र राजवर्णनाड्रत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तद-ननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते । यदि चात्र कारणं यथाकथंचित्प्रस्तुतमेवेत्युच्यते, तदेदमुदा-हरणम्-
‘ आनम्य वल्गुवचनैर्विनिवारिते‍ऽपि रोषात्प्रयातुमुदिते मयि दूरदेशम्‍ । बाला कराडुलिनिदेशवशंवदेन क्तीडाबिडालशिशुनाशु रुरोध मार्गम्‍ ॥ ’
अत्र प्रवासाद्न्निवृत्तोऽस्मीति प्रस्तुतमप्रस्तुतेन कारणेन गम्यते ।
सामान्ये विशेषो यथा-
‘ कृतमपि महोपकारं पय इव पीत्वा निरातड्कः । प्रत्युत हन्तुं यतते काकोदरसोदरः खलो जगति ॥ ’

अप्रस्तुतप्रशंसालंकारः - लक्षण ५

लक्षण ५

अत्र सामान्यार्थेन प्रस्तुतो विशेषो गम्यते । उपमाप्यस्या आनुगुण्येन स्थिता ।
विशेषेण सामान्यं यथा-
‘ पाण्डित्यं परिह्लत्य यस्य हि कृते बन्दित्वमालम्बितं दुष्प्रापं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः । रूढस्तत्र स चे न्निगीर्य सकलां पूर्वोपकारावलीं दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ’
अत्र दुष्टेषु कृत उपकारः परिणामे न सुख्म जनयतीति प्रस्तुतं विशे-षेण सामान्यं गम्यते ।
यथा वा-
‘ हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमामनम्‍ ॥ ’
अत्र मर्कटवृत्तान्तेनाप्रस्तुतेन । प्रस्तुतमनभिज्ञेषु रमणीयवस्तुसमर्पणं नाशाय भवतीति सामान्यं गम्यते । एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचा-मनुसारेण निरूपिता ।
वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रा-त्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो निगदित एव । यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सो‍ऽप्येकः । यथा जलक्तीडाप्रकरणे
भ्रमरकमलिन्यादिषु पुरःस्थितेषु, नायके च स्वनायिकायामननुरक्ते पार्श्व-वर्तिनि, नायिकासख्याः कस्याश्चिदुक्तौ ‘ मलिनेऽपि रागपूर्णाम-’ इत्या- दिप्रागुदाह्लते पद्ये । अथात्र कथमप्रस्तुतप्रशंसा ? । वाच्यार्थम्य प्रस्तुतत्वे-नैतल्लक्षणानालीढत्वादिति चेत्‍ । न । अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयी-भूतार्थातिरिक्तोऽर्थो विवक्षितः । स च क्कचिदत्यन्ताप्रस्तुतः, क्कचित्प्रस्तुत-श्चेति न को‍ऽपि दोषः । न च ध्वनिमात्रस्याप्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम्‍ । अत एव तत्र सादृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम्‍ ।
एतेन ‘ द्वयोः प्रस्तुतत्वे प्रस्तुताड्‍कुरनामान्योऽलंकारः ’ इति कुवलयानन्दा-द्युक्तमुपेक्षणीयम्‍ । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्‍-भड्रीनामानन्त्यादलंकारानन्त्यप्रसड्र इत्यसकृदावेदितत्वात्‍ । इदं तु बोध्यम्‍-अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमाना-र्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम्‍ । द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम्‍ । कार्यकारणभाव-सामान्य-विशेषभावमूलास्तु चत्वारः प्रकारा गुणीभूतव्यड्रयस्यैव भेदाः । अभि-धादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात्‍ । अथ
‘ आपेदिरेऽम्बरपथ्म परितः पतड्रा भृड्रा रसालमुकुलनि समाश्रयन्त । संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ ’

अप्रस्तुतप्रशंसालंकारः - लक्षण ६

लक्षण ६

अत्र क्षीणराजादितदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेऽप्रस्तुतप्रशंसैवेति निर्विवादम्‍ । यदा तु सरोवृत्तान्तो राजववृत्तान्तश्चेत्युभयं प्रस्तुतं तदापि प्रागुक्तदिशा सैव । यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणीभूतराज-वृत्तान्तरूपव्यड्रयेऽस्मिन्पद्ये कोऽलंकारः ? । न तावदियम्‍ । प्रस्तुतस्यैव प्रशंसनात्‍ । नापि समासोक्तिः । तज्जीवातोर्विशेषणसाम्यस्य सकलालं-कारिकसंमतस्यात्राभावात्‍ । न च विशेषणसाम्यप्रकार इव शुद्धसादृश्य मूलोऽपि तस्या एव प्रकारो वाच्यः । एकधर्मालीढत्वमन्तरेणैकालंकारत्वे
सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्भैदताया अनुक्तेश्च । अत एवालंकारसर्वस्वकारादिभिर्विशेषणवाचिशब्दसाम्यं संरक्ष्यैब समासान्त-राश्रयेण सादृश्यमूलत्वं प्रदर्शितम्‍, न तु तदुपेक्ष्येति चेत्‍ ।
उच्यते-अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः । किं त्वप्रस्तुतेनेति । सा चार्थात्प्रस्तुतस्यैव । एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साऽप्रस्तुतप्रशंसेति । न तु वाच्येनैव व्यड्रयमेवेति । स्यादेतत्‍ । ‘ कमलम-नम्भसि कमले च कुवलये तानि कनकलतिकायाम्‍ ’ इत्यादाविवात्रापि
निगीर्याध्यवसानेनैवोपपत्तिः शक्त्या कर्तुम्‍ । तच्च पदार्थेन पदार्थस्य, वाक्यार्थेन वाक्यार्थस्य वा इत्यन्यदेतत्‍ । अन्वयानुपपत्तिरपि लक्षणाबी-जम्‍ । एवं चातिशयोक्त्यैवोपपत्तौ किं सादृश्यमूलाप्रस्तुतप्रशंसयेति । ननु निगीर्याध्यवसानं हि न तावदत्र संभवति । तत्र हि वाच्यतावच्छेदकरू-पेण लक्ष्यस्य प्रतीतिः, इह तु वाच्यताटस्थ्येनार्थान्तरस्येति विशेषात्‍ । यत्र तु श्लेषादिना विशेषणसाम्यं तत्र तन्माहात्म्यादस्तु नामाभेदाध्यवसाय इति चेत्‍, इहापि वाच्यव्यवहाराभिन्नतयैव च प्रस्तुतव्यवहारप्रत्यय
इत्यवैलक्षण्यमेवेति । सत्यम्‍ । ‘ यस्मिन्खेलति ’ , ‘ दिगन्ते श्रूयन्ते ’ इत्यादौ वाच्यार्थताटस्थ्येनैव व्यड्रयस्य प्रतीतेः सर्वसह्लदयसंमतत्वात्‍ । क्कचित्तु संबोधनस्य तत्तद्विशेषणस्य चानुपपत्त्या अभेदांशोऽप्यपेक्ष्यते, न तावता सर्वत्राभेदेन प्रतीतिः । किं चाप्रस्तुतप्रशंसायां प्रस्तुतं व्यड्रयमिति निर्वि-वादम्‍ । निगीर्याध्यवसाने तु लक्ष्यं स्यात्‍ । अपि च यत्र वाच्यस्यात्यन्ता-प्रस्तुतत्वं तत्राभिधाया अपर्यवसानात्स्यादपि कदाचिल्लक्षणाया अवकाशः । यदा तु द्वयोरप्यर्थयोः प्रागुक्तदिशा प्रस्तुतत्वं तदा तु बाधलेशास्फुरणालू-
लक्षणागन्धो‍‍ऽपि नास्ति । कुतः पुनर्निगरणं लक्षणैकदेशः ? किं त्वागूरण-मेवेति । तत्राप्रस्तुतप्रशंसायाः सादृश्यमूलाया आवश्यकत्वादन्यत्रापि तज्जातीयस्थले सैवोचिता । यदि तु प्रकारस्यास्य ध्वनिप्रभेदत्वात्‍ ध्वने-श्वालंकार्यस्यालंकारत्वानुपपत्तिरिति सूक्ष्ममीक्ष्यते, तदाप्रस्तुतप्रशंसाया भेदान्तरमेव विषय इत्यपि वदन्ति ।

इति रसगंगाधरेऽप्रस्तुतप्रशंसाप्रकरणम्‍ ।

*********

रसगड्गाधरः - पर्यायोक्त अलंकारः

पर्यायोक्त अलंकारः - लक्षण १

अथ पर्यायोक्तम्‍-
विवक्षितस्यार्थस्य भड्रयन्तरेण प्रतिपादनं पर्यायोक्तम्‍ ।
येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भड्रयन्तरम्‍ । आक्षेपो वा । यथा-
‘ त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व-निर्वासनैकचतुरं समरे निरीक्ष्य । केषामरिक्षितिभृतां नवराज्यलक्ष्मीःस्वामिव्रतात्वमपरिरखलितं बभार ॥ ’
अत्र सर्वापि शत्रूणां राज्यसंपत्त्वां प्राप्तेति विवक्षितो‍ऽर्थो न ताद्रूप्येणा-भिहितः, अपि तु स्खलितपातिव्रत्या बभूवेत्याकारेण ।
यथा वा-
‘ सूर्याचन्द्रमसौ यस्य वासो रञ्जयतः करैः । अड्ररागं सृजत्यग्निस्तं वन्दे परमेश्वरम्‍ ॥ ’
अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण, भस्माड्रराग इत्यग्रिसृज्यमानाड्रराग इत्याकारेण च निरूपितः ।
‘ अस्यां च गम्यस्य येनाकारेण गम्यता तदतिरिक्ताकारेण वाच्यता । तेन पर्यायेण भड्रयन्तरेणोक्तमभिहितं व्यड्रय्म यत्रेति प्राचीनैर्निर्मितं लक्षणं व्यड्रयत्ववाच्यत्वयोर्विरोधादसंगतमिति नाशड्कनीयम्‍ । एकस्यैव प्रकारभेदेन वाच्यत्वव्यड्रयत्वयोरविरोधात्‍ । यथा यावकमहारजनदाडिमी-
जपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वे‌ऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न तु वाच्यत्वम्‍ , एवमिहापि, इति मम्मटभट्टाः ।
अलंकारसर्वस्वकरस्तु -‘ गम्यस्यापि भड्रयन्तरेणाभिधानं पर्या-योक्तम्‍ । गम्यस्यैव सतः कथमभिधानमिति चेत्‍ ’ कार्यादिद्वारेण ’ इत्याह ।

पर्यायोक्त अलंकारः - लक्षण २

तस्यायमाशयः-
‘ चक्ताभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिड्रनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्‍ ॥ ’
इति प्राचीनपद्ये राहुशिरश्छेदकारीति व्यड्रयं राहुवधूजनसंबन्धिचुम्बन-मात्रावशिष्टरतोत्सवनिर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इत्यस्यापि
विवेचने क्तियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्मः स्वसमानाधिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति । भगवतस्तु पूर्वप्रकान्तत्वाद्यच्छब्देनाभिहितत्वाच्च न व्यड्रयत्वम्‍ ।
एवम्-
‘ यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणभुखे मानेन ह्लदये हरेः ॥ ’
इति प्राचीनपद्ये‍ऽपि शक्रैरावणै मानमदमुक्तौ जाताविति व्यड्रयमपि मानमदमोकमात्रस्य व्यड्रयत्वे पर्यवस्यति, धर्म्यंशस्याभिधागोचरत्वात्‍ । एवं च यो व्यड्रयांशः स न कदापि रूपान्तरपुरस्कारेणाभिधीयते, यश्चा-भिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाव्द्यञ्जनव्यापारानाश्रय एवेति व्यड्रयस्य प्रकारान्तरेणाभिधानमसंगतमेव । तस्मात्कार्यादिमुखेनोक्तमिव पर्यायोक्तम्‍ । तेनाक्षिप्तमित्येवार्थः । प्राचीनैर्धर्मिणो‍ऽपि यव्द्यड्रयत्वमुक्तं
तद्वैयञ्जनिकबोधविषयस्य समस्तवाक्यार्थस्यैव व्यड्रयत्वमित्यभिप्रायेण । तत्र च विवेके क्तियमाणे केचिदभिधामात्रस्य गोचराः पदार्थाः , केचिच्च व्यक्तिमात्रगोचरा इति ।
अभिनवगुप्तपादाचार्यास्तु-‘ पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यड्रये-नोपलक्षितमुक्तमभिहितं पर्यायोक्तम्‍ ’ इति योगार्थं लक्षणं चाहुः । तेषामयमाशयः- यदि पर्यायशब्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षितार्थतावच्छेदकातिरिक्तधर्मपुरस्कारेणाभिहितमिति योगार्थःस्यात्‍ । तथा च ‘ दशवदननिधनकारी दादारथिः पुण्डरीकाक्षः ’ इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसड्रः ।
न च व्यड्रयं तत्र तेन प्रकारेणोक्तं तप्तर्यायोक्तमिति वाच्यम्‍ । व्यड्रयस्य योगार्थानन्तर्गतत्वात्‍ । न च योगार्थान्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम्‍ । एवं तर्हि व्यड्रयस्य लक्षणप्रवेशावश्यकत्वे पर्यायशब्देन व्यड्रयस्यैव ग्रहीतुमुचितत्वात्‍ । व्यड्रयेन ह्युपलक्षित-मुक्तं प्रकारान्तरेणैव भवतीति प्रकारान्तरग्रहणं नात्यावश्यकमिति । अत एवास्माभिराक्षेपो वेति पक्षान्तरमप्युक्तम्‍ । इदं पुनरवशिष्यते-‘ वापीं स्नातुमितो गातासि न पुनस्तस्याधमस्यान्तिकम्‍ ’ इति सकलप्रसिद्धध्वन्यु-दाहरणेऽधमनिकटगमननिषेधरूपेण तन्निकटगमनविशिष्टायाः, अधम-
त्वेन रूपेण वा दूतीसंभोगकर्तुरभिधानात्पर्यायोक्तप्रसंगः प्राचीनपक्ष इवास्मिन्नपि पक्षे भवति । स च व्यड्रयविशेषग्रहणेन तैरिवैतैरपि निरसनीयः । मध्यस्थपक्षे तु नेदमपि दूषणम्‍ ।

पर्यायोक्त अलंकारः - लक्षण ३

लक्षण ३

तदेवं पक्षाणां निष्कर्षे स्थिते यदस्मिन्प्रकरणे कुवलयानन्दकारेणोक्तं तत्सर्वमविचारितरमणीयमेव । तथा हि यत्तावदुच्यते-“-‘ नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ ’ । अत्र भगवान्वासुदेवः स्वाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहितः ” इति, तन्न । अत्र हि राहुवधूकुचौ येन मुधा कृतावित्यभिहितेन राहुवधूकुचवैयर्थ्यकारि-
त्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावन्निर्विवादम्‍ । भगवद्वासु-देवत्वं तु विशेषणमर्यादालभ्यं न काव्यमार्गीयव्यड्रयकक्षामारोढुं प्रभवति । अन्यथा ‘ नमो राहुशिरश्छेदकारिणे दुःखहारिणे इत्यत्रापि भगवद्वासुदेव-स्वव्यड्रयताप्रयुक्तं पर्यायोक्तमलंकारः स्यात्‍ । विशेषणमर्यादालभ्यस्य च धर्मस्य किंचिव्द्यड्रयतास्पर्थः सन्नपि न स काव्यमार्गे गण्यते । असुन्दर-त्वात्‍ । अन्विताभिधाने अतिविशेषवपुष इव सामान्यरूपाणां पदार्था-
नामन्वये । किं च ‘ राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः ’ इत्यत्र भगवतः स्वशब्देनाभिधेयस्य स्वाधारणरूपेणाप्यगम्यत्वाद्राहुशिरश्छेद-कारित्वेनैव व्यड्रयत्वमेष्टव्यम्‍, न स्वासाधारणधर्मरूपेण । न चात्र पर्यायोक्तं नास्तीति कस्यापि संमतम्‍ । यदप्युक्तम्‍ ‘ सर्वस्वकारस्य लोचन-कर्तुश्च सर्वोऽप्ययं क्लेशः किमिति न विद्मः ’ इति, तत्र यदर्थं तेषां क्लेश-
स्तत्तु तन्मतनिष्कर्षावसर एव निरूपितम्‍ । यदप्युक्तम्‍ “-‘ चक्राभिघात-प्रसभाज्ञया-’ इति प्राचीनोदाहरणे यद्राहुशिरश्छेदावगमनं तत्र प्रागुक्त-रीत्या प्रस्तुताड्‍कुर एव । यत्तु प्रस्तुतेन राहोः शिरोमात्रावशेषेणालिड्रन-वन्धत्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते भगवदूपेणाव-गमनं तत्पर्यायोक्तस्य विषयः ” इति, तदपि न । यदि राहुशिरच्छेदाव-गमनं त्वत्कल्पितस्य प्रस्तुताड्‍कुरस्य विषयः स्यात्तदा किं पर्यायोक्तेन ? भगवदूपेणावगमनं तु विशेषणमर्यादालभ्यत्वेनासुन्दरम्‍ ‘ नमो राहुशिर-श्छेदकारिणे ’ इत्यादाविव न कस्याप्यलंकारस्य विषय इत्युक्तमेव । प्रस्तुताड्‍कुरस्य प्राचीनैरस्वीकाराच्च । स्वीकारे वा प्रस्तुतेन स्वसदृशो
वाक्यार्थः प्रस्तुत एव यत्र व्यज्यते, स तस्य विषयोऽस्तु । न तु कार्येण प्रस्तुतेन कारणावगमनम्‍ । अन्यथा ‘ ह्यप्रस्तुतेन कार्येण प्रस्तुतकारणाव-गमने अप्रस्तुतप्रशंसैव । प्रस्तुतेन कार्येण प्रस्तुतस्यैव कारणस्यावगमनं तु पर्यायोक्तस्य विषयः ’ इत्यंलकारसर्वस्वकारादिभिः प्राचीनैः कृतो विषयविभाग उच्छिन्न एव स्यात्‍ । ‘ राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तं ज्ञेयम्‍ ’ इति त्वदुपजीव्यग्रन्थविरोधाच्च । तस्मादत्र राहुशिरश्छेदकारित्वेनावगमःपर्यायोक्तस्य विषयः, न तु भगवदूपेणेति सह्लदयैराकलनीयम्‍ ।

पर्यायोक्त अलंकारः - लक्षण ४

लक्षण ४

अस्मिंश्चालंकारे व्यड्रयं वाच्यपरम्‍ । अप्रस्तुतप्रशंसायां तु वाच्यं व्यड्रयपरम्‍ । तेनायमलंकारो वाच्यसिद्धयड्रगुणीभूतव्यड्रयभेद इति-ध्वनिकारानुयायिनः ।
यत्तु-
“-‘ स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्‍ । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ ’
इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्नरोऽपि विषयभेदो‍ऽस्ति’ इति स्वमूलग्रन्थाशयं वर्णयता विमर्शिनीकारेणोक्तम्‍ , तन्न । नहि ‘ चक्राभि-घातप्रसभाज्ञयैव-’ इति पद्ये चुम्बनमात्रशेषरतोत्सवांशे बाधो‍ऽस्ति, येन लक्षणा स्यात्‍ । एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम्‍ । अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम्‍ , अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भड्रः स्यात्‍ । लक्षणायां हि
लक्ष्यस्यैव प्राधान्यं स्यात्‍, न वाच्यस्य । ‘ यत्र वाच्योऽर्थोऽर्थान्तरं स्वो-पस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्‍ । यत्र स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुत-मर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसा ’ इति तन्मूलग्रन्थविरोधाच्च । नहि लक्षणा आगूरणं भवति । तस्मात्पर्यायोक्ते वाच्यस्य प्राधान्यम्‍ , अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम्‍ ।

पर्यायोक्त अलंकारः - लक्षण ५

लक्षण ५

इदं तु बोध्यम्‍-ध्वनिकारात्प्राचीनैर्भामहोद्भटप्रभृतिभिः स्वग्रन्थेषु
कुत्रापि ध्वनीगुणीभूतव्यड्रयादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न स्वीक्रियन्त इत्याधुनिकानां वाचोयु क्तिरयुक्तैव । यतः समासोक्तिव्याज-स्तुत्यप्रस्तुतप्रशंसाद्यलंकारनिरूपणे कियन्तोऽपि गुणीभूतव्यड्रयभेदास्तैरपि निरूपिताः । अपरश्च सर्वोऽपि व्यड्रयप्रपञ्जः पर्यायोक्तकुक्षौ निक्षिप्तः । न ह्यनुभवसिद्धोऽर्थो बालेनाप्यपह्लोतुं शक्यते । ध्वन्यादिशब्दैः परं व्यवहारो न कृतः । नह्येतावतानड्रीकारो भवति । प्राधान्यादलंकार्यो हि ध्वनिर-लंकारस्य पर्यायोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम्‍ ।
अयं चालंकारः क्कचित्कारणेन वाच्येन कार्यम्य गम्यत्वे, क्कचित्कार्येण कारणस्य, क्कचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति विपुलविषयः । तत्र ‘ त्वां सुन्दरीनिवह-’ इति पद्ये पातिव्रत्यस्खलनेन
कारणेन तं प्रति प्राप्तिः कार्यं गम्यते । समासोक्तिरत्रोत्थापिका । एतेन ‘ कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेर्वैचित्र्याभावात्‍ ’ इति टीका-कारोक्तमपास्तम्‍ ।
‘ अपकुर्वद्भिरनिशं धृतराष्ट्र तवात्मजैः । उप्यन्ते मृत्युबीजानि पाण्हुपुत्रेषु निश्चितम्‍ ॥ ’
अत्र बीजवापेन कारणेन कुलक्षयः कार्यरूपो गम्यते । कार्येण कारणस्य गम्यत्वे यथा-
‘ त्वद्विपक्षमहीपालाः स्वर्बालाधरपल्लवम्‍ । पीडयन्तितरां तीव्रदारुणैर्दशनक्षतैः ॥ ’
अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते ।

पर्यायोक्त अलंकारः - लक्षण ६

लक्षण ६

तदुभयोदासीनेन यथा-‘ सूर्याचन्द्रमसौ यस्य-’ इति पूर्वोदाह्लते पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण, नापि कारणेन, केवलं सहचरितेन गगनाम्बरत्वं गम्यते । एवम्‍-
‘ यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुगः । सर्वाड्रावरणपटीकृतकनकाण्डः स वामनो जयति ॥ ’
इत्यत्र च्विप्रत्ययेन तद्भेदावगमादूपकासंभवेन पर्यायोक्तं भवितुमहेति । गम्यं चान्तर्व्याप्तचरणकत्वमन्तर्व्याप्ताड्रकत्वं च ।
तदेवं संक्षेपतस्त्रिविधः । वाग्भड्रीनां तु पर्यालोचनो एकस्मिन्नेव विषयेऽनन्तप्रकारः संपद्यते, किभुत विषयभेदे । यथा-‘ इह भवद्भिराग-
न्तव्यम्‍ ’ इति विषये ‘ अयं देशोऽलंकर्तव्यः ’ इति, ‘ पवित्रीकर्तव्यः इति, ‘ सफलजन्मा कर्तव्यः ’ इति, ‘ प्रकाशनीयः ’ इति, ‘ देशस्यास्य भाग्यान्यु ज्जीवनीयानि ’ इति , ‘ तमांसि तिरस्करणीयानि ’ इति, ‘ अस्मन्नयनयोः संतापो हरणीयः ’ इति, ‘ मनोरथः पूरणीयः ’ इत्यादिः । कार्यादीनां त्वारोपेण निष्पत्तिरन्वेष्टव्या ।
एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसया विषयापहारमाशड्कय कार्यकारणयोरपि प्रस्तुतत्वे पर्यायोक्तम्‍, कार्यस्याप्रस्तुतत्वे कारणस्य च प्रस्तु-तत्वे कार्यरूपाप्रस्तुतप्रशंसेति विषयविवेकः सर्वस्वकृता कृतः । तत्र न्यून-
विषयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न सड्रच्छत एव । परं त्वनेन तस्या विषयापहारमाशड्कय विषयविभागः कर्तुमुचितः ।

इति रसगंगाधरे पर्यायोक्तप्रकरणम्‍ ।

*********

रसगड्गाधरः - व्याजस्तुति अलंकारः

व्याजस्तुति अलंकारः - लक्षण १

लक्षण १

अथ व्याजस्तुतिः-
आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयोः क्तमेण पर्यवसानं व्याजस्तुतिः ।
तृतीयातत्पुरुष-कर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम्‍ । आमुखेत्यादिविशेषणेन तयोः पर्यवसानाभावं वदन्बाधितत्वमभिप्रैति ।
अत एव नास्या ध्वनित्वम्‍ । ध्वनौ हि निर्बाधेन वाच्येनाऽऽगूरणमहिम्रा-र्थान्तरमवगभ्यते । न चैवं प्रकृते ।
आद्या यथा-
उर्वीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति । प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम्‍ । प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ ’
अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति ।
द्वितीया यथा-
‘ किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥’

व्याजस्तुति अलंकारः - लक्षण २

लक्षण २

अत्र दुश्चरितोत्कीर्तनप्रस्तावे स्तुतिस्तथाभूता निन्दायाम्‍ । अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहिम्रा प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति । तत्र यावानंशो बाधितस्तावानेवानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठते । इयं चालंकारान्तरसंकीर्णा यथा-
‘ देव त्वां परितः स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना ।
क्रोडान्तःकुरुतेतरां वसुमतीमाशाः समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’
अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः । तन्मूला च निन्दा स्तुतौ पर्यवस्यति ।
यथा वा-
‘ अये राजन्नाकर्णय कुतुकमाकर्णनयन स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥ ’
अत्रार्थान्तरन्यासपोषिता । ननु कथमत्र व्याजस्तुतिः । वाच्याभ्या-मेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्या अभ्युपगमात्‍ । नह्यत्र चापप्रतापस्य केवलस्य केवलवसुमत्याद्यालिड्रनं वाच्यभूतं निन्दास्पदं भवति । समासोक्त्या त्वाविर्भूतो विटव्यवहारो निन्दास्पदमपि न वाच्यः, अपि तु गम्य इति चेत्‍, आमुखप्रतीतपदेन हि प्रतीतावपर्यव-
सितत्वमात्रमत्र विवक्षितम्‍ । न तु वाच्यत्वपर्यन्तम्‍ , गौरवात्‍ । प्रकृते च किं तावता स्तव्यस्त्वमित्यादिना निन्दाया एवोपोद्वलनात्समासोक्ति-साचिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न को‍ऽपि दोषः । एवं च
‘ भाग्यं ते शाल्मलितरो वद किं परिकथ्यते । द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम्‍ ॥ ’
इत्यत्रास्तुतप्रशंसासंकीर्णाप्येषा भवति । एतेन
‘ किं वृत्तान्तैः परगृहागतैः , किं तु नाहं समर्थ-
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । देशे देशे विपणिषु तथा चत्वरे वल्लभा देव कीर्तिः ॥ ’

व्याजस्तुति अलंकारः - लक्षण ३

लक्षण ३

इत्यत्र प्राचीनपद्ये “ प्रकान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणि-त्योन्मूलिता, न तु प्ररोहं गमिता ” इति यत्सर्वस्वकृतोक्तम्‍ । यच्चापि तव्द्या-ख्यायां विमर्शिन्याम्‍ ‘ अनुदाहरणमेवैतत्पद्यं व्याजस्तुतेः ’ इति ध्वन्यालोच-नकारोक्तिं कटाक्षेण लक्ष्यीकृत्योक्तं तन्निरस्तम्‍ । ‘ किं वृत्तान्तैः ’ इत्यादिना निन्दाया एव प्रथममुन्नयनात्समासोक्तेरुद्नतेर्वाच्यत्वस्यातन्त्रत्वात्‍ । अन्वय-
क्तमेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पश्चात्प्र-करणादिपर्यालोचनवशाद्वयुत्क्रमेणान्वयबोधाच्च । तस्माद्‍ध्वन्यालोच-नकारैरुक्तमुदाहरणं संगतमेव ।
इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्यते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं भवेत्तदा भवति । वैयधिकरण्ये तु न, इति प्राचामलंकारशास्त्रप्रवर्तकानां समयः । अत एव यत्र शब्देनाभिधीय-
माना स्तुतिर्निन्दा वा बाधितस्वरूपा निन्दायां स्तुतौ च स्वसमर्पणेन पर्यवस्यतीति तैस्तत्र तत्र स्वग्रन्थेषूपनिबद्धम्‍ । एवं च
‘ परोपसर्पणानन्तचिन्तानलशिखाशतैः । अचुम्बितान्तः करणाः साधु जीवीन्त पादपाः ॥ ’
इत्यादिषु सांसारिकजननिन्दापर्यवसायिन्यामपि पादपस्तुतै न व्याज-स्तुतित्वम्‍ , प्रथमप्रतीयमानस्तुतेरबाधितत्वात्‍ । एवं निन्दया स्तुतेर्गम्य-त्वेऽपि । तथा अन्यस्य स्तुत्यान्यस्तुतौ, अन्यनिन्दायां वान्यनिन्दायां गम्यमानायां नास्या अलंकृतेर्विषयः । पूर्वोक्तादेव हेतोः । यथा-
‘ ये त्वां ध्यायन्ति सततं त एव कृतिनां वराः । मुधा गतं पुराराते भवदन्यधियां जनुः ॥ ”

व्याजस्तुति अलंकारः - लक्षण ४

लक्षण ४

अत्र पूर्वोत्तरार्धगताभ्यां ध्यातृस्तुतिनिन्दाभ्यां ध्येयस्तुतिनिन्दयोरव-गमः । एवं स्थिते कुवलयानन्दकर्त्रा स्तुतिनिन्दाभ्यां वैयधिकरण्येन निन्दा-स्तुत्योः स्तुतिनिन्दयोर्वावगमे प्रकारचतुष्टयं व्याजस्तुतेर्यदधिकमुक्तं तदपा-स्तम्‍ । यदि तु प्राचीनसंकेतसेतुं निर्भिद्य स्वरुचिरमणीया सरणिराद्रियते तदा निवेश्यन्तां सर्वेऽपि व्यड्रयप्रकारा गुणीभूतव्यड्रप्रकारा वा अलंकारोदरेषु । निवेश्यतां वा व्याजस्तुतिरपि योगार्थालीढत्वादप्रस्तुत-प्रशंसायाम्‍ । निरस्यतां च कार्यकारणादिविषयकत्वदुराग्रहस्तस्या इति बहुव्याकुली स्यात्‍ । एवं तर्हि पूर्वोक्तं प्रकारचतुष्टयं कुत्रान्तर्भवतु ? इति
चेत्‍ , व्यड्रयभेदेष्विति गृहाण । नहि व्यड्रयभेदाः सर्वे‍ऽप्यपरिमिता अलंकारप्रकारगोष्पदे अन्तर्भावयितुं शक्यन्ते । यच्चापि कुवलयानन्दकृता निन्दाया गम्यत्वे उदाह्लतम्‍-
“-‘ अर्धं दानववैवरिणा गिरिजयाप्यर्धं शिवस्याह्लतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गड्रा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदुष्यादि
दारिद्य्रादि जानन्नदि बहुप्रदानेन रक्षितुं शक्तो मह्यं किमपि न ददासीति निन्दा व्यज्यते ” इत्युक्तं च । तन्न ।
‘ साधु दूति पुनः साधु कर्तव्यं किमतः परम्‍ । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ”
इत्यनुपदमेव त्वदुदाह्लतपद्येनास्यातितमां वैलक्षण्यात्‍ । तत्र हि साधु किमतः पर्म कर्तव्यमिति वर्णैरुदीरिता साधुकारिणीत्वरूपा स्तुतिः श्रुत- मात्रैव बाधिता सती विपरीतेऽर्थे स्वात्मसमर्पणेन पर्यवस्यति । इह तु सर्व-ज्ञत्वमधीश्वरत्वं न तथा । राजवर्णनप्रस्तावे राजगताऽज्ञत्वपामरत्वयोर-
विवक्षितत्वात्‍ । अत एव सर्वज्ञो‍ऽपि मां न रक्षितवानसि इत्युपालम्भरूपापि निन्दा नात्र विवक्षिता । सर्वज्ञस्य समर्थस्य तव दरिद्रोऽहं रक्षितुं योग्य इति स्वविज्ञापनाया एव प्रत्युत विवक्षितत्वात्‍ । अस्तु वा त्वदुक्तोपालम्भ-रूपा निन्दात्र गम्या । तुष्यतु भवानेवमपि । ‘ साधु दूति पुनः साधु ’ इति पद्ये साधुकारिणीत्वमिव नास्मिन्पद्ये सर्वज्ञत्वमधीश्वरत्वं च विद्युद्‍-भडुरप्रतिभमिति शक्यं वक्तुम्‍ । उपालम्भरूपाया निन्दाया अनुत्थानापत्तेःप्रतीतिविरोधाच्चेति सह्लदयैराकलनीयं किमुक्तं द्रविडपुंगवेनेति ।

इति रसगंगाधरे व्याजस्तुतिप्रकरणम्‍ ।

*********

रसगड्गाधरः - अक्षेप अलंकारः

अक्षेप अलंकारः - लक्षण १

लक्षण १

अथाक्षेपः-
‘ उपमेयस्योपमानसंबन्धिसकलप्रयोजननिष्पादनक्षमत्वादुपमान- कैमर्थ्यमुपमानाधिक्षेपरूपमाक्षेपः । ’
इति केचिदाहुः । तन्मते चेत्थमुदाहरणं निर्माणीयम्‍-
‘ अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम्‍ ॥ ’
यथा वा-
‘ वसुधावलयपुरंदर विलसति भवतः कराम्भोजे । चिन्तामणिकल्पदुमकामगवीभिः कृतं जगति ॥ ’
आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्‍, द्वितीये त्वार्थमिति भेदः । अपरे तु-
‘ पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेपः । इत्याहुः । तेषां मते इदमुदाहरणीयम्‍-
‘ सुराणामारामादिह झगिति झञ्झानिलहताःपतेयुः शाखीन्द्रा यदि तदखिलो नन्दति जनः । किमेभिर्वा कार्यं शिव शिव विवेकेन विकलै-श्चिरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ॥ ’

अक्षेप अलंकारः - लक्षण २

लक्षण २

अत्र किमेभिरित्युत्तरार्धेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्रं पक्षान्तरालम्बनेन क्रियते । यथा वा-
‘ किं निःशड्कं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाह्लवी निकटे ॥ ’
अन्ये तु-
“-‘ निषेधो वक्तुमिष्टय यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥
विशेषं व्यड्रयरूपमर्थविशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदृशः कथनादिप्रत्याख्यानरूपः । स वक्ष्यमाणविषय उक्तविषय-श्चेति द्विविधः ”
इत्याहुः । तेषां मते इत्थमुदाहार्यम्‍-
‘ रीतिम गिराममृतवृष्टिकिरां त्वदीयां तां चाकृतिं कृतिवरैरभिनन्दनीयाम्‍ । लोकोत्तरामथ कृतिं करुणारसार्द्रां ज्ञांतु न कस्यचिदुदेति मनःप्रसारः ॥ ”
अत्र करिष्यमाणस्य मनःप्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतां बोधीयतुम ।
‘ श्वासोऽनुमानवेद्यः शीतान्यड्रानि निश्चला दृष्टिः । तस्याः सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ ’
अलंकारसर्वस्वकारादयस्तु-
“ प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठिवत्वादाभासमात्ररूपः कस्य-चिदर्थविशेषस्य विधानं व्यनक्ति स एकः । यश्चाप्राकरणिकस्य विधिस्तादृश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविधोऽप्ययमाक्षेपः ।
तत्र निषेधाभासरूप आक्षेपस्तावहिऊविधः-उक्तविषयो वक्ष्यमाण-
विषयश्चेति । उक्तविषयोऽपि द्विविधः-क्कचिद्वस्तुमात्रनिषेधात्क्कचिद्वस्तु-कथननिषेधात्‍ । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव सामान्य-धर्मावच्छिन्नप्रतियोगिताकःशब्दात्समर्प्यमाणोऽपि विशेषरूपेष्टनिषेधात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाधत्ते । सोऽपि द्विविधः-सामान्याश्रययक्तिंचिद्विशेषनिरूपणानिरूपणाभ्याम्‍ । तत्र निरूपितेषु यक्तिंचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टविषय एव संपद्यते । अनिरूपितेषु तु सुतराम्‍ । चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टोऽर्थः, तस्य च निषेधः तस्याप्यसत्यत्वम्‍, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुप-युज्यते । तेन नात्र निषेधविधिः । न वा विहितनिषेधः । अपि तु
निषेधेनासत्येन विधेराक्षिप्यमाणत्वाद्योगार्थादाक्षेपः । स च प्रागुक्तदिशा चतुर्विधः ।

अक्षेप अलंकारः - लक्षण ३

लक्षण ३

विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेपः । अत्रापि अनि-ष्टोऽर्थः तस्य विधिः, तस्याप्याभासत्वम्‍, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । ” इत्याहुः ।
एतेषां मते चेत्थमुदाहरणं निर्माणीयम्‍-
‘ न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम्‍ । रणसीन्नि तवावलोकने तरुणार्को दिनकौशिकायते ॥ ’
‘ मा पाहीति विधिर्विधेयविषयो वाच्यः स्वतन्त्रे कथं नोपेक्ष्यो भवतास्मि दीन इति गीः श्लाघ्या न संख्यावताम्‍ । एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे वक्तव्यप्रतिभादरिद्रमतयः किंचिन्नहि ब्रूहमे ॥ ’
‘ रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अलमथवा पापात्मन्कृतया कथयापि ते हतया । ’
‘ श्वासोऽनुमानवेद्यः शीतान्यड्रानि निश्चला दृष्टिः । तस्याः किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता ॥ ’
तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो बाधितो मिथ्यावादित्वनिषेधात्मना
पर्यवस्यन्नुत्तरार्धगतस्यार्थस्य सत्यत्वरूप्म विशेष्म व्यनक्ति । एवं द्वितीय-पद्ये रक्षणदानयोः कथनस्येष्टत्वान्निषेधो बाधितस्तयोर्विवक्षितत्वे पर्य-वस्यन्नवश्यानुष्ठेयताम्‍ । तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्य-रूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेधः कथ्यमान-स्तस्य चिन्तितदुः खप्रदताम्‍ । चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्र्वासतानवादिकं कथयित्वा क्तियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषयःसंस्तस्या मुखादनिःसरणीयताम्‍ । एषु निषेधस्याप्रतिष्ठानान्न विहितनिषेधः, नापि निषेधविधि; ।

अक्षेप अलंकारः - लक्षण ४

लक्षण ४

‘ तपोनिधे कौशिक रामचंद्रं निनीषसे चेन्नय किं विकल्पैः । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥ ’
अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थं व्यनक्तीति विध्याभासरूपोऽयमाक्षेपः । एवमुदाहरणेषु स्थितेषु प्राचीन-मतानुसारीण्याक्षेपोदाहरणान्येतेषां मते‍ऽनुदाहरणान्येव । इत्थं च प्राथमिकमतसिद्ध आक्षेपः प्रतीपप्रभदेः । द्वितीयमतसिद्धस्तु विहित-निषेध एव । न पुनराक्षेपः । तत्र निषेधस्यानाभासरूपत्वात्‍-इति तदाशयः । इतरे तु-
“-‘ निषेधमात्रमाक्षेपः । ’
चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यड्रयार्थे सति संभवतिति सव्यड्रयो निषेधः सर्वोऽप्याक्षेपालंकारः । एवं चोपमेयकृतो-
पमानकैमर्थक्य-पक्षान्तरालब्मनकृतप्राचीनपक्षकैमर्थक्य-विशेषप्रतिपादन-प्रयोजकोक्तवक्ष्यमाणकथनकैमर्थक्यानामनुपदोक्तनिषेधविध्याभासयोश्च-संग्रहः ”
इत्यप्याहुः ।
अथाक्षेपध्वनिस्तन्मतानुसारेणोदाह्लियते-
‘ त्वामवश्यं सिसृक्षन्यः सृजति स्म कलाधरम्‍ । किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुनेः ॥ ’

अक्षेप अलंकारः - लक्षण ५

लक्षण ५

अत्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमा-दाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य ब्रह्मणो वैदुष्यं नास्तीत्यंशमा-दाय च ध्वनिः । ननु किं वाच्यं तस्य वैदुष्यमिति वैदुष्योक्तेः सबाधाया झटिति वैदुष्याभावे पर्यवसानात्‍, उपमानकैमर्थ्यस्यापि झगित्येव प्रतीतेर्वाच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति ? । नैष दोषः । ब्रह्मणो हि त्वां सिसृक्षतः करणपातवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्दुं निर्मितवतः किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवश्यं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुश्याभाव-चन्द्रकैमर्थयोः पर्यवसान-मिति न ध्वनित्वस्खलनम्‍ । येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनिः, अपि त्वयम्‍-
‘ त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते । समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम । ’
अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्यमानो
मिथ्यावादित्वाभावरूपेण पर्यवस्यन्नुत्तरार्धार्थस्य सत्यतारूपं विशेषं गमयति । इत्थं स्वस्वाभिमानभेदादाक्षेपाणां भेदात्तदूध्वनीनां स्थिते विवेके-
‘ स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणाण्‍ । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥ ’
इति पद्यं ध्वनिकारैराक्षेपध्वनित्वेनोदाह्ल तं ‘ स्वाभिमताक्षेपानभिव्यक्तेर-नुदाहरणमेवैतत्‍ ’

अक्षेप अलंकारः - लक्षण ६

लक्षण ६

इति निर्युक्तिकं वदन्नलंकारसर्वस्वकृत्परास्तः । नह्याभास-रूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा । नापि प्राचामाचार्याणाम्‍ । न चापि युक्तिः । येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि । प्रत्युत वैपरीत्यमेवोचितम्‍ । ध्वनिकृतामालंकारिकसरणिव्यवस्थापकत्वात्‍ । न-त
ह्यास्मिञ्शास्त्रे आक्षेपादिशब्दसंकेतग्राहकं प्रमाणान्तरमस्ति, ऋते प्राचीन-वचनेभ्यः । अन्यथा सकलविपर्यासापत्तेः । यत्तु
‘ नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥ ’
इति पद्यमलंकारसर्वस्वकारमतेनोदाह्लत्येत्थमुक्तं कुवलयानन्दकृता-‘ अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निशेधो‍ऽनुपपन्नः संधिकालो-चितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वे‍ऽपि राजानो भृत्यभावे-न संरक्षणीया इति विशेषमाक्षिपति ’ इति । तन्न । त्वदुक्तम्य विशेषस्य निषेधाव्यड्रयत्वात्‍ । नहि न वयं राजसंदेशहारिण इत्युक्ते तव न
कश्चिदपि शत्रुभावेनावलोकनीयः किं तु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषोऽवगम्यते । अवगम्यते च जगत्कुटुम्बिन इत्याद्युत्त-रार्धे प्रयुक्ते । यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषस्तं निषेध आक्षि-पतीति युक्तं वक्तुम्‍, न तु परकीयं विशेषम्‍ । तथा हि राजसंदेशहारिणा प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये स्वस्मिन्खनिषेधस्य बाधाद्राजसं-देशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्तृत्वादिधर्मवन्त उपस्थाप्यन्ते । प्रयोजनं च तन्निषेधे सति स्वगतस्य सत्यवक्तृत्वादेः , स्व वचनगतस्य सत्यत्वादेर्वा प्रत्ययः । अयमेव च विशेषस्याक्षेपः । एवं स्थिते किमुच्यते तव न कश्चिदपि शत्रुभावेनेत्यादि । यदि तु पूर्वोक्तादेव बाधा-द्राजपदस्य शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनास्मत्‍
स्वामिनः शत्रव एव न भवन्ति किं तु भृत्यभावेन पालनीया इति विशेषो-ऽवगम्यत इत्युच्यते, तदा तृतीयकक्ष्यारूढो नास्मत्स्वामिन इति निषेध आक्षेपः स्यात्‍ , न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेधः, यदि तु परम्परया यथाकथंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि ‘ संधिकालेचित-कैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्‍ ’ इत्यादेस्त्वद्वचनस्यासंगति-रेव । नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आक्षेप्तुं शक्यते, किं तूत्तरार्धेनाक्षिप्तः परिपोष्टुम्‍ । तस्माद्यत्र त्वया निषेधस्य पर्यवसानमुक्तं स एव विशेषस्तस्याक्षेष्यः, न तु विशेषान्तरम् । अत एव “-‘बालक नाहं दूती -’ इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिर्विशेषो व्यज्यते” इत्यलंकारसर्वस्वकृतोक्तं संगच्छते ।

इति रसगंगाधरे आक्षेपप्रकरणम् ।

*********

रसगड्गाधरः - विरोधमूलालंकाराः

विरोधमूलालंकाराः - लक्षण १

लक्षण १

अथ विरोधमूलालंकारा :—
एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधिकरणासंबद्धत्वम्, एकाधिकरणासंबद्धत्वभानं वा विरोधः ॥
यद्व :—
एकाधिकरणासंबद्धत्वेन प्रसिद्धयोरेकाधिकरणसंबद्धत्वेन प्रतिपादनं सः ॥
स च प्ररूढोऽप्ररूढश्च । प्ररोहश्च बाधबुद्धयनभिभूतत्वम् । तद्वैपरीत्य
प्ररोहः । तत्राद्यो दोषस्य विषयः, द्वितीयश्वालंकारस्य । अत एवेमं विरो-धाभासमाचक्षते । आ ईषद्भासत इत्याभासः । विरोधश्चासावाभास-श्चेति । आमुख एव प्रतीयमानो झगिति जाय्यमानाविरोधबुद्धितिरस्कृत इति यावत्‍ । तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो विरोधा-
प्ररोहः । तत्राद्यो दोषस्य विषयः, द्वितीयश्चालंकारस्य । अत एवेमं विरो-धाभासमाचक्षते । आ ईषद्भासत इत्याभासः । विरोधश्चासावाभास-श्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत्‍ । तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो विरोधालंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः । अस्य च जातिगुणाक्रिया-द्रव्यानां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्तिया-द्रव्यैः, क्रियायाः क्रियाद्रव्याभ्याम्‍, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदाः । क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना । नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपा ।

विरोधमूलालंकाराः - लक्षण २

Tags : grammer1rasagangadhar2sanskrit3रसगंगाधर4व्याकरण5संस्कृत6

!\“http://www.khapre.org/portal/service/themes/red/images/menu.search.gif\”7SEARCH

लक्षण २

उदाहरण-
‘ कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन्‍ । सुदृशो दहनायते स्म राका भवनाकाशमथाभवत्पयोधिः ॥ ’
अत्र पुरः स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदुःखजनकत्व-विमर्शनान्निवर्तते ।
‘ त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले । महान्तोऽप्यणवो राजन्नणवश्च महत्तराः ॥ ’
खलानामुक्तयो हन्त कोमलाः शीतला अपि । ह्लदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ॥ ’
‘ विचारिते महिमनि त्वदीये नित्यनिर्मले । परमात्मन्गगनमप्याधत्ते परमाणुताम्‍ ॥ ’
‘ हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यूनः स्मरपराधीनान्निर्दया हन्त योषितः ॥ ’
‘ कान्तारे विलपन्तीनां त्वदरातिमृगीदृशाम्‍ । देवनानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ॥ ’
इत्यादि स्वयमूह्यम्‍ ।
अत्र जात्यादिरिति धर्ममात्रं विवक्षितम्‍, उपलक्षणपरत्वात्‍ । तेन ‘ यः किल बालकोऽपि पुराणपुरुषः ’ , विशुद्धमूर्तिरपि नीलाम्बुदनिभः ’ , जगद्धित-कृदपि जगदहितकृत्‍ ’ , ‘ अगोद्वारकोऽपि नागोद्धारकः’, इत्यादौ सखण्डो-पाधेरभावस्य च परिग्रह : । वस्तुतो जात्यादिभेदानामह्लद्यत्वाच्छुद्वत्वश्लेष-पूलत्वाभ्यां द्विविधो ज्ञेयः ।

विरोधमूलालंकाराः - लक्षण ३

लक्षण ३

ननु ‘ हितकृदप्यहितकृत्‍ ’ , ‘ अगोद्धारकोऽपि नागोद्धारकः ’ इत्यादौ
विरोधस्य प्रतिभामात्रम्‍, श्लेष एव त्वलंकारः । तस्य स्वविषये प्रायशः सर्वालंकारापवादकत्वादिति चेत्‍, कविः श्रृणोति । इदं तु बोध्यम्‍-यत्रापिशब्दादिर्विरोधस्य द्योतकस्तत्र विरोधः शाब्दः, अन्यत्र त्वार्थ इति तावत्प्राचां सिद्धान्तः । तत्र शाब्दत्वं शब्दकरणकप्रतीतिगोचरत्वं विरोधस्य न घटते । ‘ त्रयोऽप्यत्रयः ’ इत्यादौ नियतेषु विशेषणविशेष्यसंसर्गेषु विरोधस्य कुत्राप्यसमावेशात्‍ । न च तदधिकरणावृत्तित्वमिव तप्रति-योगिकत्वमपि विरोध; । तथा च प्रकृते नञर्थोत्तरपदार्थयोः प्रतियोगित्वस्य
संसर्गत्वात्संसर्ग एव विरोधस्य समावेश इति वाच्यम्‍ । ‘ सुप्तोऽपि प्रबुद्धः ’ इत्यादौ तथाप्यसमावेशात्‍ । नहि सुप्तः सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्न इति शाब्दधीरनुभवसिद्धा, येन लक्षणादिकुसृष्टौ यतेमहि । अत्राहुः-‘ सुप्तोऽपि प्रबुद्धः ’ , ‘ त्रयोऽप्यत्रयः ’ इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्व-जागरितत्वादिधर्मद्वयस्यादाबुपस्थितौ संबन्धिज्ञानादपिशब्दसाचिव्यात्त-द्नतो विरोधोऽपि स्मर्यते । अनन्तरं च प्रतिबन्धकज्ञानसामग्र्‍या बलवत्त्वा-द्विरुद्धाविमौ धर्माविति मानसे वैयञ्जनिके वा विरोधबोधे जाते तेन प्रतिरोधाच्छयितजागरितयोरभेदबुद्धेरनुत्पादाहिउतीयशक्त्या प्रादुर्भावितं
द्वितीयार्थमादायान्वयबोधः , न तु विरुद्धार्थम्‍ । विरोधधीश्च शिथिलमूला निवर्तमानापि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्षः ।
नव्यास्तु-‘ अर्थद्वयप्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योल्लासकः द्वितीयश्चान्वयबोधविषय इति तत्सत्यम्‍ । परं तु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषमित्ति-काभेदाव्यवसाय इत्युक्तदिशा अभिन्नतया भासत । एवं चाविरुद्धं द्वितीया र्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निःशेषतया निवृत्तेरभावादर्धमृतः श्वसन्निव विरोधोऽपि मानसं बोधान्तरमारोहति । अत एव चमत्कारीत्युच्यते । नहि निःशेषतया निवृत्तश्चमत्कारं जनयितुमीष्टे । न चान्तरेण चमत्कारजनकतामलंकारो भवति । तस्माद्विरोधधियो नातीव शिथिलमूलत्वम्‍ , नापि चात्यन्तिकी निवृत्तिः ’ त्याहुः ।

विरोधमूलालंकाराः - लक्षण ४

लक्षण ४

ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतम्‍ । निपातानां शाब्दिकनये शक्तेरस्वीकारादिति चेत्‍, न । निरूढलक्षणाया
इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वात्‍ । अथ जात्योर्द्रव्ययोश्च विरोधालंकारो न भवितुमीष्टे । ‘ कुसुमानि शराश्चन्द्रो वाडवो दुःखिते ह्लदि ’ इत्यादावारोपमूलस्य रूपकस्यैवोल्लासात्‍ । यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि ‘ मुखं चन्द्रः ’ इत्यत्रापि स एव । न च रूपकविषयस्य सर्वस्यापि विरोधेनाक्रान्तत्वान्निर्विषयत्वापत्त्या स्वविषये रूपकं विरोधस्य गुणादौ सावकाशस्यापवाद इति वाच्यम्‍ । ‘ कुसुमानि शराः ’ ,‘ मृणालवलयादि दवदहनराशिः ’ , ‘ चन्द्रो वाडवः ’ , ‘ शंकरचूडा-पगा कालिन्दी’ इत्यादौ त्वदभीष्टविरोधस्यासिद्धिप्रसड्रादिति चेत्‍, सत्यम्‍ ।
इह हि अलंकारवर्गे यो यत्र सह्लदयचमत्कृतिपथमवतरति स एव तत्रालंकार इति निर्विवादम्‍ । एवं च रूपके ‘ मुखं चन्द्रः ’ इत्यादौ यद्यप्यस्ति विरोध-स्तथापि न स तत्र प्रतिपिपादयिषितः । अपि तु चन्द्रनिष्ठाह्लादकत्वादि-सकलगुणानां मुखे प्रतिपत्त्यर्थं चन्द्राभेद एवेति स चमत्कारी, न विरोधः । प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वानुदूषित इति नालंकारः,विद्यमानताया अकिंचित्करत्वात्‍ । ‘ कुसुमानि शराः ’ इत्यादौ तु विरहिण्या-दीनामवस्थाया अत्यद्भुतत्वस्य विवक्षितत्वात्तदानुगुण्यायान्तर्गर्भितोऽ-प्यार्थो विरोधः समुल्लसतीति स एवालंकारः । न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नामाभूदलंकारः, विरोधस्थले तु ‘ कुसुमानि
शराः ’ इत्यादौ विरोधोत्थापनार्थमभेदस्यावश्यं विवक्षणीयत्वादूपकापत्ति-रिति वाच्यम्‍ । विरोधविवक्षानालिड्रितत्वस्य रूपकलक्षणे निवेश्यत्वात्‍ ।
यद्वा अभेदस्यात्र विरोधोत्थापनार्थमुपात्तस्याचमत्कारित्वादूपकालंकार-त्वमयुक्तम्‍ । तत्तदलंकारलक्षणेषु अलंकारसामान्यलक्षणे वा चमत्कारित्व स्योक्तत्वात्‍ । यदि तु विरहिण्याद्यवस्थाया अत्यद्भुतत्वादि न विवक्षितम-प्यर्थश्च न गर्भीकृतः, किं तु पीडाजनकत्व-श्यामत्वाद्यतिशयमात्रं विव-क्ष्यते, तदात्र रूपकमेव । यदि वा नगरविशेषस्थितेरद्भुतत्वविवक्ष्या यत्र हि नारीणां मुखं चन्द्र इत्युच्यते, तदा विरोधाभास एवेति ध्येयम्‍ ।

विरोधमूलालंकाराः - लक्षण ५

लक्षण ५

ननु ‘ सुप्तोऽपि प्रबुद्धः ’ इत्यादौ यथैकेनार्थेन विरोधस्योत्थापनमपरेण च निवृत्तिः, एवम्‍ ‘ गड्रायां घोषः ’, ‘ मञ्चाः क्रोशन्ति ’ ,‘ कुन्ताः प्रविशन्ति ’ इत्यादावपि शक्येन तस्योत्थानं लक्ष्येण च निवृत्तिरिति विरोधाभास-प्रसड्रः । न च दृष्टान्ते विरोधोत्थापक-निवर्तकयोरर्थयोः शक्त्यैवोप-स्थितिः, दार्ष्टान्तिके तु पृथग्वृत्त्येति वैलक्षण्यभिति वाच्यम्‍ । सत्यपि वैलक्षण्ये त्वदुक्तविरोधामासलक्षणातिप्रसड्रस्यानिवारणात्‍ । नहि
लक्षणे विरोधोत्थापक-निवर्तकयोरेकवृत्तिवेद्यत्वमेकजातीयवृत्तिवेद्यत्वं वा विवक्षितम्‍ । तथा सति ‘ कुसुमानि शराः ’ इत्यादौ प्राचीनरीत्याऽव्याप्ति-प्रसड्रादिति चेत्‍, विरोधस्यात्र प्रतिभानेऽपि कविसंरम्भागोचरत्वेना-चमत्कारित्वात्‍ ।
अयं च विरोधालंकारः कुवलयानन्दकृता उत्प्रेक्षाशिरस्कोऽप्युदाह्लतः ।
यथा-
‘ प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥ ’ इति ।
विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्या विरोधस्य समाधानं तत्र विरोधाभास इष्यते । यथा-‘रिपुराजिरसभावभञ्जनोऽप्यरिपुराजिरस-भावभञ्जनः ’ इत्यादौ । इह तूत्प्रेक्षया विरोधसमाधानात्मिकया मुखस्थि-तया विरोधस्योत्थानमेव भग्नमिति कथमनुत्तिष्ठन्नेव विरोधश्चमत्कार-मूलमलंकारभावं वहेत्‍ ।

इति रसगंगाधरे विरोधप्रकरणम्‍ ।

*********

रसगड्गाधरः - विभावना अलंकारः

विभावना अलंकारः - लक्षण १

लक्षण १

अथ विभावना-
कारणव्यतिरेकसमानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्ति-र्विभावना ॥
तदुक्तम्‍-‘ क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ’ इति । क्रियाशब्देनात्र कारणं विवक्षितम्‍ । अत्र कारणव्यतिर्रेकसामानाधि-क्रण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधःप्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते । यथा-
‘ विनैव शस्त्रं ह्लदयानि यूनां विवेकभाजामपि दारयन्त्यः । अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः ॥ ’
अत्र हि दारणे शस्त्रं कारणम्‍ । तदभावेऽपि दारणमुपनिबध्यमानमा-पाततो विरुद्धमपि कामिनीविलासरूपहेतुकतय़ा पर्यवस्यति ।
नन्वत्र यस्य कार्यस्योत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते । यदीयकारणव्यतिरेकश्च प्रतीयते नहि तस्य कार्य-स्योत्पत्तिर्निबध्यते । दारणं चेह पीडाविशेषो विवक्षितः, न तु द्विधा-भावः । शस्त्रं च न कामपीडायाः कारणम्‍, अपि तु द्वैधीकरणस्येति चेत्‍, न मुख्यं हि दारणं द्विधाभावनम्‍ । गौणं च कामादिजनितपीडाविशेषः । तयोर्गैणभुख्ययोर्दारणयोः सादृश्यमूलेनाभेदाध्यवसानरूपेणा-तिशयेन सति भेदस्थगने, द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योप-निबन्धनान्न दोषः । एवं चास्मिन्नलंकारे सर्वत्रापि कार्यांशे अभेदाध्यवसान-रूपातिशयोक्तिरनुप्राणकतया स्थिता । तया च पायसादिपिण्डवदेकी-कृतस्य वस्तुतः सदृशवस्तुद्वयस्यैकावयवसंबन्धिकारणव्यतिरेकसामानाधि-करण्येनापरावयवमादाय पर्यवसानं भवति ।
तत्र च कार्यांशः कारणाभावरूपविरोधिनो बाध्यतयैव स्थितः , न बाधकतया । कार्यांशस्य कल्पितत्वात्कारणाभावस्य च स्वभावसिद्धत्वात्‍ । अत एव कार्यांशो रूपान्तरेण पर्यवस्याति । अत एव च समबलविरोधि-द्वयघटिताद्विरोधालंकारादस्य वैलक्शण्यम्‍ । तथा चोक्तम्‍-
‘ कारणस्य निषेधेन वाध्यमानः फलोदयः । विभावनायामाभाति, विरोधोऽन्योन्यबाधनम्‍ ॥ ’ इत्याहुः ।

विभावना अलंकारः - लक्षण २

लक्षण २

अथातिशयोक्तिर्न सर्वस्यां विभावनायामनुप्राणिका । किं तु क्कचित्‍ ।
‘ निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ’
इत्यत्र विभावनायामतिशयोक्तेरध्यवसानमूलाया अननुप्राणकत्वादिति । ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निबध्यमाना हि विभावना । न चात्रोपादानान्तराभावे जगत उत्पत्तिः परमेश्वरादसंभवन्ती येन विभावना स्यात्‍ । ‘ नासदासीत्‍ ’ , ‘ सदेव सोम्येद-मग्र आसीत्‍ ’ , ‘ आत्मा वा इदमेक एवाग्र आसीत्‍ ’ , ‘ असद्वा इदमग्र आसीत्ततो वै सदजायत ’ इत्यादिश्रुतिभ्यः , ‘ अहमेवासभेवाग्रे नान्यद्यत्‍-सदसत्परम्‍’ इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवदतिरिक्तवस्तुजातप्रतिषेधा-वगमात्‍ । तस्मादत्र विभावनाया एव संभावना नास्ति क्क पुनरतिशयो-क्त्यनुप्राणितत्वव्यभिचार इति चेत्‍, न । अत्र हि भगवतः सकाशात्‍-
केवलस्य जगत उत्पत्तिर्न कवेरभिप्रेता । येन तस्या उपादानान्तरव्यतिरेकेऽपि भगवतः सकाशात्संभवादसंभवमूला विभावना न स्यात्‍ । किं तु जग-द्रूपस्य चित्रस्य । चित्रस्य च केवलस्योपादानानां मषी-हरितालादीनामा-धारस्य भित्त्यादेश्चाभावे केवलाकाशे जागर्त्येवोत्पत्तेरसंभवः । स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेकमादाय निवर्तत इति ‘ निरुपादानसंभारम्‍ ’ इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयोक्त्यनु-प्राणितत्वव्यभिचारः । एतेन ‘ विभावनायां सर्वत्रातिशयोक्तिरनुप्राणिका ’ इति सर्वस्वकारोक्तिरपास्ता । तथा “-‘ निरुपादानसंभारम्‍ ’ इत्यत्र विभावनाया एवाभावात्कुत्र व्यभिचारः ”

विभावना अलंकारः - लक्षण २

लक्षण २

इति वदन्‍ विमर्शिनीकारोऽपि
प्रत्युक इति । उच्यते-मा स्म भूत्सर्वत्र विभावनायामतिशयोक्ति रनुप्राणिका । आहार्याभेदबुद्धिमात्रमेवानुप्राणकम्‍ । तच्च क्कचिदतिशयोक्त्या, क्कचिच्च रूपकेणेति न दोषः ।
यत्तु -“ कारणं विना कार्योत्पत्तिरेका । कारणानामसम-ग्रत्वे द्वितीया । सत्यपि । सत्यपि प्रतिबन्धके कार्योत्पत्तिस्तृतीया । अकारणात्का-र्योत्पत्तिश्वतुर्थी । विरुद्धात्कार्यजन्म पञ्चमी । कार्यात्कारणजन्म षष्ठी । क्रमेणोदाहरणानि-
‘ अप्यलाक्षारसासिक्तं रक्तं तन्व्याः पदाम्बुजम्‍ । ’
‘ अस्त्रेरतीक्ष्णकठिनैर्जगज्जयति मन्मथः । ’
‘ सातपत्रं दहत्याशु प्रतापतपनस्तव । ’
‘ शड्खद्वीणानिनादोऽयभुदेति महदद्भुतम्‍ । ’
‘ शीतांशोः किरणा हन्त दहन्ति सुदृशो दृशौ ।’
‘ यशःपयोधिरभवत्करकल्पतरोस्तव । ’
इति षट्‍प्रकारां विभावनाभुदाजहार कुवलयानन्दकृत्‍ । तत्रेदं वक्तव्यम्‍-
‘ कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । ’
‘ अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ॥ ’
इत्यादिभिर्विभावनाप्रकारानालक्षयता विनापि कारणं कार्योत्पत्तिरित्यप्येको विभावनाप्रकार इत्युक्तं भवति । अन्यथा चतुर्थीत्वाद्यसंगतेः । एवं च यथा-‘ सादृश्यमुपमा भेदे ’ , ‘ तद्रूपकमभेदो य उपमानोपमेययोः ’
इत्यादिभिर्लक्षितस्योपमा-रूपकादिसामान्यस्य पूर्णादय सावयवादयश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्‍ ? यल्लक्षितस्य विभावना-सामान्यस्यामी भवतोक्ताः प्रकारा उपपद्येरन्‍ । कारणं विना कार्योत्पत्ते. स्तु प्रकारान्तः पातित्वात्‍ । अथातिशयोक्त्यादिष्विव तादृशसकलप्रकारा-न्यतमत्वं सामान्यलक्षणमुम्रेयमिति चेत्‍, एवमपि प्रथमप्रकाराहिउतीय-प्रकारस्य वैलक्षण्यं दुरुपपादमेव । कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारण-
तावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात्‍ । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात्‍ । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात्‍ । इति तृतीयोऽपि भेदो न विलक्षणः । चतुर्थेऽपि भेदे कारणाभावः आर्थः । ‘ शड्‍खाद्वीणानिनादोऽयम्‍ ’ इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम्‍ । तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात्षट्‍प्रकारा इत्यनुपपन्नमेव ।
यदि तु यथाकथंचित्कुवलयानन्दोक्तिः समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-तथा हि विनापि कारणं कार्यजन्मेति विभावनायाः सामान्यलक्षणम्‍ । इयं च तावहूएधा-शाब्दी, आर्थी च । शाब्दी त्रिविधा-प्रतिबन्धका-तिरिक्तकारणव्यक्तिप्रतियोगिकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तौ यदवीच्छन्नत्ववैकल्यप्रयुक्तः कार्याभावस्तद्वैकल्योक्तिपूर्विका, स च कारण-तावच्छेदकधर्मः क्कचित्कारणतावच्छेदकसंबन्धश्च, प्रतिबन्धकोक्तिपूर्विकाचेति । आर्थ्यपि त्रिविधा-प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात्‍ ।

विभावना अलंकारः - लक्षण ३

लक्षण ३

प्रकृतकार्यविरुद्धकार्यस्य कारणात्‍ । स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति एतदर्थकमेव ह्यकारणादित्यादि ।
इयं च विभावना द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च । तत्रा-नुक्तनिमित्ता ‘ विनैव शस्त्रं ’ इत्यत्र दर्शिता । विलासानां मन्मथपीडा-जनकानामनुपात्तत्वात्‍ । उक्तनिमित्ता यथा-
‘ यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां ह्लदयानि दह्यन्ते ॥ ’
अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यति । यत्तु–
“-‘ असंभृतं मण्डनमड्रयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥ ’
अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतिपादनाद्यौवनस्य चोक्त-
त्वादुक्तनिमित्ता विभावना । न तु प्रथमतृतीयचरणयोः, संभरणपुष्पयो-र्मण्डनमस्त्रं च प्रत्यहेतुत्वात्‍ । ”
इत्यलंकारसर्वस्वकारादिभिरुक्तं तत्र विचार्यते-विरोधभूला हि विभावनाद्यलंकाराः । विरोधस्यैव विद्युत्प्रभावदापा-ततः प्रतिभासमान्य चमत्कारबीजत्वात्‍ । अत्र ह्यासभिन्नविशिष्टं मदकारणत्वं यौवनस्योक्तम्‍ । एवं च यौवनस्य मदकारणतायाः शब्देनै-वोपात्तत्वात्‍ यागे व्रीहियवयोरिव मदे यौवनासवयोः परस्परनिरपेक्ष-कारणत्वावगतेर्विरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव नास्ति । कुतः
पुनरुक्तनिमित्ता विभावना ? । न चासवस्य प्रसिद्धमदकारणत्वात्तेन विना मदोत्पत्तिवर्णने विरोधप्रतिभा भवत्येवेति वाच्यम्‍ । भवेत्सा, यदि यौवनस्य मदकारणत्वं कविना साक्षान्न प्रतिपाद्येत । प्रतिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्ततया कविना प्रतिपादितमिदमपि प्रसिद्धकारण-मिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोध-प्रतिभानं भवितुमर्हति । तस्मादत्र प्रथमतृतीयचरणयोर्न्यूनाभेदरूपकम्‍ । द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेकः । अस्मन्निर्मिते तूदाहरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुतत्वाद्दहन-मन्तरेण दाहोत्पत्तिवर्णने विरोध अपाततः प्रतीयत एवेति सह्लदयैरा-कलनीयम्‍ ।
अथ ‘ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ’ इत्यत्र विभाव-नापत्तिः ? , नन्वस्तु , किं नश्छिन्नमिति चेत्‍ । आलंकारिकैरत्र तस्या अन-ड्रीकारात्‍ । ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वेन कारणा-भावो विशेषणीयः ।

विभावना अलंकारः - लक्षण ४

लक्षण ४

प्रकृते च कारणत्वावच्छिन्नप्रतियोगिताकः प्रसिद्ध-कारणत्वावच्छिन्नपतियोगिताको वाऽभावो न तादृशरूपावच्छिन्नप्रति-योगिताक इति चेत्‍, ‘ खला विनैवापराधं भवन्ति खलु वैरिणः ’ इत्यत्र तथाप्यतिव्यापनात्‍ । अपराधाभावस्य तथात्वात्‍ । न च कार्याशोऽतिशयोक्त्याली-ढत्वेनाभेदनिश्चयालीढत्वेन वा विशेषणीय इति वाच्यम्‍ । ‘ खला विनैवाप-राध्म दहन्ति खलु सज्जनान् ’ इत्यादौ तथापि दोषानुद्धारादिति चेत्‍ । मैवम्‍ । कार्याशे यद्विषयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपितायाः कारणताया
अवच्छेदकमिह ग्राह्यम्‍ । दाहत्वं चेह विषयितावच्छेदकम्‍ । तदवच्छि-न्नाभिन्नत्वेन पीडाया अध्यवसानात्‍ । नहि दाहत्वावच्छिन्नकार्यतानि-भिन्नत्वेनाध्यवसिता या पीडा तन्निष्ठाकार्यतानिरूपितकारणताया इति तदवच्छिन्नप्रतियोगिताकाभावसामानाधिकरण्येन कार्योत्पत्तिवर्णने‍ऽपि नात्र विभावनाप्रसड्रः । यदि तु ‘ खला विनैव दहनं दहन्ति जगती-तलम्‍ ’ इति क्तियते तदा भवत्येव विभावना । एवम्‍-
‘ कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्‍ । सा च सुकुमारसुभगेत्युत्पातपरभ्परा केयम्‍ ॥ ’
इति परकीयपद्येऽतिशयोक्त्युदाहरणेऽप्यस्त्येव विभावना । परंतु ‘ कमलमनम्भसि ’ इत्यंशे शाब्दी । ‘ कमले च ’ इत्यादौ त्वार्थीति संक्षेपः ।

इति रसगंगाधरे विभावनाप्रकरणम्‍ ।

*********

रसगड्गाधरः - विशेषोक्ति अलंकारः

विशेषोक्ति अलंकारः - लक्षण १

लक्षण १

अथ विशेषोक्तिः-
प्रसिद्धकारणकलापसामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्ति-विशेषोक्तिः ॥
तत्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोधः प्रतिभासमानः प्रसिद्धेतरकारणवैकल्यधिया निवर्तते । यथा-
‘ उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद्वहिर्याति ॥ ’
यथा वा-
‘ प्रतिपलमखिलांल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि । हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः ॥’
अत्रोपनिषदर्थविमर्शे सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ सत्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्तनिमित्ता । विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धकस्यानुपात्तत्वात्‍ । अत्रैव ‘ रागान्धं चित्तमिदम्‍ ’ इति निर्माणे उक्तनिमित्ता । केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च-
‘ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं ह्लतम्‍ ॥ ’
अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रती-यते । इह तु न तथा । किं तु भविष्यति किंचिन्निमित्तमित्याकारेणेत्यनु-क्तनिमित्तातोऽचिन्त्यनिमित्ताया भेद इति ह्येषामाशयः । अन्ये तु-‘ नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणम्‍, भेदान्तरकल्पनागौरवप्रसड्रात्‍ । किं तु चिन्त्यमचिन्त्यं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं सानुक्तनिमित्ता । तेनाचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति ’इत्याहुः ।
अत्र च कारणसमवधानं कार्यानुत्पत्तेर्बाध्यमि बहवः । वस्तुतस्तु कार्यानुत्पत्तिरेवास्मिन्नलंकारे बाध्या ।

विशेषोक्ति अलंकारः - लक्षण २

लक्षण २

‘ कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ’
‘ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हतम्‍ ॥ ’
इति प्राचीनप्रसिद्धोदाहरणेषु कारणसमवधानस्य कामशरीरनाशरूप-स्य प्रमाणसिद्धत्वेन बाध्यत्वायोगात्‍ । यतः कामस्य शरीरनाशेऽपि शक्ति-बलयोर्नाशः कुतो न जात इत्येव सर्वजनीनः प्रत्ययः, न तु शक्तिबलयोः सतोः कथं शरीरनाश इति ।
‘ दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते । जगदेतन्नमस्तस्मै कस्मैचिद्वोधभानवे ॥ ’
इत्यत्रोदयाभावे जगद्दर्शनस्य, उदयसत्त्वे दर्शनाभावस्य वर्णनेऽपि न विभावनाविशेषोक्ती । नह्यत्र साहजिकसूर्योदयो वर्ण्यते येन तयोः प्रसड्रः स्यात्‍ । तथात्वे तूक्तिसंभव एव न स्यात्‍ । किं तु ब्रह्मात्मैक्य-बोधसूर्योदयः । तस्य च जगददर्शनमेव कार्यम्‍ । न तु जगद्दर्शनम्‍ ।
तथात्वे तु सूर्योदयस्येवास्याप्युक्तिसंभवो न स्यात्‍ । अत एव व्यतिरोको-ल्लासस्तादूप्यरूपकालीढे संगच्छते ।
कारणाभाव-कार्याभावयोर्यत्र प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योः शाब्दत्वम्‍ । यथा-
‘ भगवद्वदनाम्भोजं पश्यन्त्या अप्यहर्निशम्‍ । तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृशः ॥’

विशेषोक्ति अलंकारः - लक्षण ३

लक्षण ३

लोके ह्यसंनिकर्षस्तृष्णाकारणम्‍ । तदभावे संनिकर्षेऽपि तृष्णोपनि
बद्धा । तथा संनिकर्षस्तृप्तिकारणम्‍ । तस्मिन्सत्यपि तृप्त्यभावो बोधितः । परंतु कारणाभाव-कार्याभावयोर्न प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अभुमेव चार्थं मनसिकृत्य मम्भटभट्टैः ‘ यः कौमा-रहरः ’ इति पद्यमुदाह्लत्योक्तम्‍-‘ अत्र स्फुटो न कश्चिदलंकारः ’ इति । वामनस्तु-‘ एकगुणहानिकल्पनायां साम्यदाढर्य विशेषोक्तिः ’ इत्याह ।
उदाजहार च ‘ द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्‍ ’ इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासन-सहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदम्‍, न विशेषोक्तिः । एवं च-
‘ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शुंभुर्भगवान्बादरायणः ॥ ’
इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि तदेव । यथा-‘ धर्मो वपुष्मान्भुवि कार्तवीर्यः ’ इत्यादौ । एतेन ‘ एकगुणहान्यु-
पचयादिकल्पनायां साम्यदार्ढ्य विशेषणम्‍ ’ इति विशेषालंकारं लक्षय-न्तो‍‍ऽपि प्रत्युक्ताः ।

इति रसगंगाधरे विशेषोक्तिप्रकरणम्‍ ।

*********

रसगड्गाधरः - असंगति अलंकारः

असंगति अलंकारः - लक्षण १

लक्षण १

अथासंगतिः-
विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगतिः ॥
‘ स्पृशति त्वयि यदि चापं स्वापं प्रापन्न केऽपि नरपालाः । शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं स्वपितु ॥ ’
अत्र चापस्पर्श-नयनशोणिम्नोर्हेत्वोः स्वापनाशरूपकार्यवैयधिकरण्ये-ऽतिप्रसड्रवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थयोरेव तयोः
कार्यप्रयोजकतया विरोधानवकाशात्‍ । ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम्‍ । चापस्पर्शस्य तु लीलया कृतस्य स्वरूपतो हेतुत्वाभावाज्‍ ज्ञानं स्वापनाशे हेतुत्वेनाभ्युप-गन्तव्यम्‍ । एवं च तस्य कथं वैयधिकरण्यमिति चेत्‍, न । प्रयोजक-स्यापि हेतुपदेनात्र ग्रहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्मक-रोषानुमितिलिड्रत्वात्‍ ।
उदाहरणम्‍-
‘ अड्रैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । प्रहरति हि कुसुमबाणो जगतीतलवर्तिनो यूनः ॥ ’

असंगति अलंकारः - लक्षण २

Tags : grammer1rasagangadhar2sanskrit3रसगंगाधर4व्याकरण5संस्कृत6

!\“http://www.khapre.org/portal/service/themes/red/images/menu.search.gif\”7SEARCH

लक्षण २

यथा वा-
‘ दृष्टिर्मृगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी । मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ॥ ’
अत्राद्योदाहरणे शुद्धा, द्वितीये तु श्लेषोपबृंहितेति विशेषः । प्रहरती-त्यत्राभेदाध्यवसायलक्षणेनातिशयेनापराधनिमित्तकताडनरूपतयावस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फुरन्विरोधो विषयांशवि-
मर्शोत्तरं तं प्रति कुसुमश्रीहरणाभिव्यक्तशोभाविशेषस्य भावनोपनीतस्य तद्भावनाया वा हेतुत्वस्य प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राण-कम्‍, विरोधाभासश्चोत्कर्षकः । एवमन्यत्रापि बोध्यम्‍ ।
अस्यां च ‘ विभावनायामिव कार्यांशेऽतिशयोक्त्यनुप्राणनमावश्यकम्‍ । अन्यथा विरोधो दुष्परिहर एव स्यात्‍ ’ , इत्यलंकारसर्वस्वकारादीनां मतम्‍ । तच्च ‘ दृष्टिर्मृगीदृशः ’ इत्यस्मन्निर्मितोदाहरणे व्यभिचारादसंगतम्‍ । नहि ‘ मुच्यन्ते बन्धनात्केशाः ’ इत्यत्र केशबन्धनमुक्त्यंशेऽतिशयोक्तिरस्ति । किं तु श्लेषभित्तिकाभेदाध्यवसानमात्रम्‍ । तस्माद्येन केनापि प्रकारेण कार्यांशेऽभेदाध्यवसानमावश्यकमिति तु संगतम्‍ । यद्यपि ‘ दृष्टिर्मृगीदृशः ’
इत्यादौ कारणांशेऽपि श्लेषादिनाऽभेदाध्यव्यवसायः संभवति, तथापि नासा तदंशे नियतः ।
‘ खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभोरण । स्विद्यन्ति हन्त परितस्तद्रूपविलेकिनस्तरुणाः ॥ ’

असंगति अलंकारः - लक्षण ३

लक्षण ३

इत्यादौ भारजनितखेदांशे तदभावात्‍ । न च तत्रापि जलपूर्णघटादि-भारजनितखेदेन सह नितम्बभारजनितखेदस्याभेदाध्यवसायोऽस्त्येवेति वाच्यम्‍ । नितम्बभारजनितखेदस्य स्वस्वरूपेणापि खेदजनकत्वेन भारान्त-
रजनितखेदाध्यवसायानपेक्षणात्‍ । ‘ सा बाला व्ययमप्रगल्भमनसः सा स्त्री वयं कातराः ’ इति प्राचीनानां पद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवाच्च ।
यत्तु ‘ विरोधालंकारे ह्मेकस्मिन्नधिकरणे द्वयोः संबन्धाद्विरोधप्रति-भानम्‍, असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्‍ इति विमर्शिनीकर आह, तदसत्‍ । इहापि तत्तत्कार्यतावच्छेदकधर्मतत्तत्का-रणवैयधिकरण्यरूपयोर्धर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोध-प्रतिभानोत्पत्तेः । तस्माद्विरोधालंकारे उत्पत्तिविमर्शं विनैव विरोधप्रति-भानम्‍ । इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्तिः इति वैलक्षण्य-मिति । वस्तुस्तु-व्यधिकरणत्वेन प्रसिद्धयोः समानाधिकरणत्वेनोप-
निबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयोर्द्वयोर्वैयधिकर-ण्येनोपनिबन्धनेऽसंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम्‍ । तेन ‘ नेत्रं निरञ्जनं तस्याः शून्यास्तु वयमद्भुतम्‍ ’ इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पादकभावलक्षणसंबन्धानन्त-र्भावेण शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिः संगच्छते । यथा-श्रुते तु सा न स्यात्‍ । इथं च स्फुट एव विरोधालंकारादसंगतेर्भेदः ।
यस्तु पुनर्विरोधालंकारादतिरिक्तः शुद्धविरोधांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यूतः , औपम्यांश इवोपमामूलेषु, सोऽलंकाराणां कतिपयानां निर्वर्तकः, नतु स्वयं पृथगलंकारास्पदम्‍, अलंकाराणां
भणितिविशेषमात्ररूपत्वात्‍ । एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोषः । यत्तु-
“-‘ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥
अपारिजातां वसुधां चिकीर्षन्द्यां तथाऽकृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुरा‍ऽकरोः ॥ ’

असंगति अलंकारः - लक्षण ४

लक्षण ४

अत्र श्रीकृष्णं प्रति शक्तस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्वितीय । यथा वा-
‘ त्वत्खड्रखण्डितसपत्नविलसिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर ।
नेत्रेषु कंकणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ ’
‘ मोहं जगत्रयभुवामपनेतुमेत-दादाय रूपमखिलेश्वर देहभाजाम्‍ । निःसीमकान्तिरसनीरधिनाभुनैव मोहं प्रवर्धयसि मुग्धविलसिनीनाम्‍ ॥ ’
अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोप-न्यस्तम्‍ । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यतेईति लक्षणानुगतिः ”
इति कुवलयानन्दकृताऽसंगतेरन्यद्भेदद्वयं लक्षयित्वोदाह्लतम्‍, तन्न । तत्र तावत्‍ ‘ अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः ’
इत्यत्र पारिजात-राहित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैय-धिकरण्योपनिबन्धात्‍, ‘ विरुद्ध्म भिन्नदेशत्व्म कार्यहेत्वोरसंगतिः ’ इति
प्राथमिकाऽसंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिकीर्षायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वस्य प्रसिद्धेः । न च पारिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम्‍ । आलंकारिकनये तस्यापि जन्यत्वस्येष्टेः । लक्षणे कार्यकारणपदयोरुपलक्षण-त्वस्योक्तत्वाच्च । ‘ गोत्रोद्धारप्रवृत्तोऽपि ’ इत्युदाहरणे तु ‘ विरुद्धात्कार्य-संपत्तिर्दृष्टा काचिद्विभावना ’ इति पञ्चमविभावनालक्षणाऽऽक्तान्तत्वाद्विभा-वनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । गोत्रोद्धारविषयकप्रवृत्ते-र्गोत्रोद्भेदरूपकार्ये विरुद्धत्वात्‍ । सिद्धान्तेऽपि विभावनाविशेषोक्त्योः संकर
एवात्रोचितः । ‘ नेत्रेषु कंकणं ’ इत्यादौ कंकणत्व-नेत्रालंकारत्वयोर्व्यधिकरण-त्वेन प्रसिद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम्‍ । एवं मोहनिवर्तकत्व-मोहजनकत्वयोरपीति । ननु तवापि विरोधाभासेनैवोप-पत्तेर्विभावनादिकल्पनानर्थक्यमिति चेत्‍, न । दत्तोत्तरत्वात्‍ ।

इति रसगंगाधरेऽसंगातिप्रकरणम्‍ ।

*********

**रसगड्गाधरः - विषमालंकाराः **

विषमालंकाराः - लक्षण १

Tags : grammer1rasagangadhar2sanskrit3रसगंगाधर4व्याकरण5संस्कृत6

!\“http://www.khapre.org/portal/service/themes/red/images/menu.search.gif\”7SEARCH

लक्षण १

अननुरूपसंसर्गो विषमम्‍ ॥
अनुरूपमिति योग्यतायामव्ययीभावः । अनुरूपं यत्र न विद्यत इति विगृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते । योग्यता च युक्तमिदमिति
लैकिकव्यवहारगोचरता । संसर्गश्च तावहिऊयिधः-उत्पत्तिलक्षणः संयोगादिलक्षणश्च । तत्रोत्पत्तिलक्षणस्य संसर्गस्यायोग्यत्वं कारणात्स्व-गुणविलक्षणगुणकार्योत्पत्त्या । इष्टसाधनतया निश्चितात्कारणादनिष्ट-कार्योत्पत्तिभिः । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपतिर-स्कार्यान्यतरगुणस्वरूपतया अयोग्यत्वम्‍ । एवं चाननुरूपसंसर्गत्वेन सामान्ये-नोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदाः संगृह्यन्ते । क्तमेणोदाहरणानि-
‘ अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः । उदभवदयं देव त्वत्तः कथं परमोल्बण-प्रलयदहनज्वालाजालालाकुलो महसां गणः ॥ ’
अत्र माधुर्यशैत्याह्लादकत्वप्रसादाद्यनेकगुणयुक्तात्कारणात्ताद्विरुद्धगुण-युक्तस्य प्रतापस्योत्पत्तिरित्यननुरूपः कार्यकारणभावः । अभेदाध्यवसान-लक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेत-
कार्यरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्ब्य स्फुरितो विरोधो विषय्यंशविमर्शोत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम्‍ , तदुत्थापितविरोधाभासस्य च परिपोषकत्वम्‍ । अयमेव चांशोऽत्र कविप्रतिभानिर्मितत्वादलंकारताबीज्‍म ।
इष्टसाधनतया ज्ञातात्कारणादनिष्टकार्योत्पत्तिभिरित्यत्रैकशेषघटित एकशेषो बोध्यः । न इष्टमनिष्तं अनर्थः । तादृशकार्योत्पत्तिश्च । न इष्ट-कार्योत्पत्तिरनिष्टकार्योत्पत्तिः सा चेत्यनिष्टकार्योत्पत्ती । ते च अनिष्टकार्यो-त्पतिश्च अनिष्टकार्योत्पत्तयः ताभिरिति । अनेनेष्टकार्यानुत्पत्त्यनिष्ट-
कार्योत्पत्ती मिलिते एको भेदः । प्रत्येकं च भेदद्वयम्‍ । इति त्रयो भेदाः संगृहीता भवन्ति । इष्टं च-स्वस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दुःख-साधनवस्तुनिवृत्तिश्च परस्य दुःखसाधनवस्तुप्रापणं सुखसाधननिवृत्ति-श्चेति चतुर्विधम्‍ । तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम्‍ । अनिष्टं च-स्वस्य दुःखसाधनवस्तुप्राप्तिः, परस्य सुखसाधनवस्तुप्राप्तिः, दुःखसाधनवस्तुनाशश्चेति त्रिविधम्‍ । स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टप्राप्तिघटिते भेदद्वयेऽति त्रैविध्यम्‍ ।

विषमालंकाराः - लक्षण २

लक्षण २

दिडभात्रं तूपदर्श्यते-उदाहरणम्‍-
‘ दूरीकर्तु प्रियं बाला पद्मेनाताडयद्रुषा । स बाणेन हतस्तेन तामाशु परिषस्वजे ॥ ’
अत्र प्रियदूरीकरणरूपेष्टार्थं प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रिय-दूरीकरणं तु दूरापास्तम्‍, प्रत्युत तत्कर्तृकपरिष्वड्ररूपानिष्टस्योत्पत्तिः ।
यथा वा-
‘ खञ्जनदृशा निकुञ्जं गतवत्या गां गवेषयितुम्‍ । अपहारिताः समस्ता गावो हरिवदनपड्कजालोकात्‍ ॥ ’
पूर्वोदाहरणे वास्तवमेवानिष्टम्‍ , इह तु सकलेन्द्रियहरणं यद्यपि लोकेऽनिष्टप्रायमेव तथापि तत्पुरस्कारेणेह चमत्कृतिराहित्याद्नोहरणपुर-
स्कारेणैव चमत्कारात्‍ श्लेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानि-ष्टात्मना स्थितं तदिति विशेषः । गवेष्यमाणगवीरूपेष्टाप्राप्रेरनुक्तत्वात्‍-केवलनिष्टप्राप्तेरिदभुदाहरणम्‍, पूर्वं तूभयस्येति विशेषो न वाच्यः । समस्त-गवीहरणेन सामान्येन गवेष्यमाणाया अपि गोरपहारस्य प्रत्ययात्‍ । एवमिष्टाप्राप्त्यनिष्टप्राप्त्युभयकृता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्तेः पूर्वोक्तत्रिभेदेनानिष्टेन संसृष्टावियमेव द्वादश-किधा । तत्र स्वस्य सुखसाधनवस्त्वप्राप्ति-दुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाह्लतः । स्व स्यस्य दुःखसाधनवस्त्वनिवृत्ति-दुःखान्तर-साधानाप्तिरूपद्वयं यथा-
‘ रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम्‍ । सुद्दशः शिव शिव सकले जाता सकलेवरे जगत्यरुचिः ॥ ’
अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिर्विलक्षणा या काचित्सा निवृत्तैवेति वक्तुं शक्यते, तथापि जगद्रूरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रूपारुचिनिवृत्तेरप्रत्यय एव । अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दुःखान्तर-साधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम्‍ ।
परस्य दुःखसाधनानवाप्तिः स्वस्य दुःखान्तरसाधनप्राप्तिरित्युभयं
यथा-
‘ पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम्‍ । स्मरस्य स्वर्वालानयनसुममालर्चितमहो वपुः सद्यो भालानलभसितजालास्पदमभूत्‍ ॥ ’
परस्य सुखसाधनाऽनिवृत्तिः स्वस्य दुःखसाधनप्राप्तिरित्युभयं यथा-
‘ न मिश्रयति लोचने सहसितं न संभाषते कथासु तव किं च सा विरचयत्यरालां भ्रुवम्‍ । विपक्षसुदृशः कथामिति निवेदयन्त्य पुरः प्रियस्य शिथिलीकृतः स्वविषयो‍ऽनुरागग्रहः ॥ ’

विषमालंकाराः - लक्षण ३

लक्षण ३

अत्र कयाचित्प्रौढनायिकया सपत्न्यां प्रियेणाज्ञातयौवनात्वेनैव विदितायां तदनुरागप्रतिबन्धार्थं प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकीर्षितोऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दुःख-
साधननिवृत्तौ सुखस्येव सुखसाधननिवृत्तौ प्रतिनियतकारणं जन्यत्वेन दुःख-स्यानैयत्यात्पृथगुपादानम्‍ । एवमष्टावन्येऽप्युभयभेदा ऊह्याः । केवलेष्टा-
प्राप्तिर्यथा-
‘ प्रभातसमयप्रभां प्रणयिनि ह्लुवाना रसा-दभुष्य नयनाम्बुजं सपदि पाणिनामीलयत्‍ । अनेन खलु पद्मिनीपरिमललिपाटच्चरैः समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥ ’
अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाधन-तयेष्टः । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव । यद्वा तादृश-ज्ञानं तस्या दुःखसाधनम्‍, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न तथेति
सैव । एवं च द्विप्रकारापीष्टाप्राप्तिरेवात्र संभवति । प्रकारान्तरं चास्या अप्यूह्यम्‍ । केवलनिष्टप्राप्तिर्यथा-
‘ मुकुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुतटे । उदभूतकाण्डदहनज्वालाजालाकुलो देहः ॥ ’
अत्र नेष्टाप्राप्तिः । मुकुलितनयनमित्यनेन कण्डूयनजन्यसुखस्य प्राप्तेः । किं त्वनिष्टप्राप्तिरेव । अस्या अपि भेदद्वयं यथायथमूह्यम्‍ । ग्रन्थविस्तर-भयान्नेहोदाह्लियते । एते चेष्टसाधनत्वेन निश्चितात्कारणादनिष्टार्योत्पत्तीनां सर्वेऽपि प्रभेदा वक्ष्यमाणविषादनालंकारसंकीर्णा एवेति तत्प्रकरणे निरूपयिष्यामः ।
यत्तु-‘ अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्‍ ’ इति विषभभेद-
लक्षणं निर्माय ‘ अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषम-पदेनान्वयः ’ इत्युक्तं कुवलयानन्दकृता , तन्न । अव्युत्पत्तेः । अस्मिन्ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसभुच्चितस्य विद्यादेर्द्रव्यान्वयिन्येवान्वयादृरव्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्विवादम्‍ । प्रकृते त्वनिष्टस्याप्नोतिनान्वयः , इष्टानवाप्तेश्च तच्छब्दपरा-मृष्टेन विषमेणेति वैषम्यात्‍ । प्रत्युत लक्षणवाक्येऽपिशब्दोऽनिष्टां धियमु-त्पादयति । अनिष्टस्यावास्प्तिरिष्टस्य चेति प्रतीतेः । चकारसमुच्चितया इष्टानवाप्त्या अनिष्टावाप्तेरेकवारं मिलितायास्तत्पदपरामृष्टेन विषमेणान्वया-
द्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयाद्भेदत्रयसंग्रह इति तु स्यादपि । न त्वपिशब्दविकत्थनम्‍ । यदपि तेनैवोदाह्लतम्‍ -‘ भक्ष्याशयाऽहिमञ्जूषां दष्ट्वऽऽखुस्तेन भक्षितः ’ इति । अत्र क्त्वाप्रकृतिक्रियाकर्तृकर्तृकोत्तरकाल-बर्तिक्रियान्तरस्याप्रयुक्तत्वादगभ्यमानत्वाच्च प्रविष्ट इति पदाकाड्क्षितया न्यूनपदत्वम्‍ । यदपि केवलेष्टानवाप्तौ तेनैवोदाजह्ले-
‘ खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ ’
इति । तदपि न समणीयम्‍ । अत्र भरभुग्नविततेत्यादिना बाहुगतास्थिसंधि-भड्ररूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाड्रचूर्णीभाव-गर्वापहाररूपायाश्व स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन ‘ शैलपतनरूपानिष्टा-वाप्तिस्तु भगवत्कराम्बुजस्पर्शमहिम्ना न ज्ञाता ’ इति यदुक्तम्‍ , तदप्यसार-मेव । अनिष्टानामुक्तवात्‍ ।
एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपत्वं निरूपितम्‍ । संयोगादिलक्षण-संसर्गस्याननुरूपत्वं यथा-
‘ वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल-त्करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥ ’
अत्र सतीशिखामणेर्भगवत्या राघवधर्मपत्न्याःपरमप्रभावयुक्तत्वा-द्राक्षसीभिरनाश्यत्वेऽपि रक्षः कर्तृकनाशस्वरूपयोग्यतावच्छेदकमनुष्यत्व-जातियोगेन स्वरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । ननु-
‘ क्क शुक्तयः क्क वा मुक्ताः क्क पड्कः क्क च पड्कजम्‍ । क्क मृगाः क्क च कस्तूरी धिग्विधातुर्विदग्धताम्‍ ॥ ’
इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसड्रः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात्‍ । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता
अर्थाः काव्येऽलंकारपदास्पदम्‍ । नच ‘ यथा पद्मं तया मुखम्‍ ’ इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रत्तिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम्‍ । सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेऽभेदांशस्य कविप्र-तिभामात्राधीनत्वात्‍ । नहि पद्ममुखयोः शोभारूपो धर्मो जात्यादिवद्वस्तु एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं सादृश्यमलंकार-बहिर्भूतमेव । यथा-‘ पद्ममिवास्या मुखं द्रव्यम्‍ ’ इत्यादौ । एवं च ‘ वनान्तः खेलन्ती ’ इति पद्यप्रतिपाद्यायाः सीता-राक्षसवधूसंसर्गाननुरूपताया लैकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम्‍ । एतेन-
‘ अरण्यानी क्केयं धृतकनकसूत्रः क्क स मृगः क्क मुक्ताहारोऽयं क्क च स पतगः क्केयमबला ।
क्क तत्कन्यारत्नं ललितमहिभर्तुः क्क च वयं स्वमाकूतं धाता कमपि । निभृतं पल्लवयति ॥ ’
इत्यलंकारसर्वस्वकृतोदाह्लतमपि प्रत्युक्तम्‍ । इयमेव च पद्यान्तरे‍ऽपि क्कवि प्रतिभानुत्थापितार्थके सरणिरिति । सत्यम्‍ । एवं तर्हि
‘ क सा कुसुमसाराड्री सीता चन्द्रकलोपमा । क रक्षः खदिराड्रारमध्यसंवासवैशसम्‍ ॥ ’
इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता । किं तु या कुसुम-सारखदिराड्रारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलैकिकत्वात्कवि-प्रतिभापेक्षित्वम्‍ ।

इति रसगंगाधरे विषमालंकारप्रकरणम्‍ ।

*********

रसगड्गाधरः - समालंकारः

समालंकारः - लक्षण १

लक्षण १

अथ समालंकारः-

अनुरूपसंसर्गः समम्‍ ॥
संसर्गः पूर्ववहिउविधः । तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं कारणात्‍-स्वसमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तु संसर्गस्तादृशगुणोत्पत्त्या, यक्तिं चिदिष्टप्राप्त्यर्थं प्रयुक्तात्‍ कारणात्तत्प्राप्त्या च । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपानु-ग्राह्यान्यतरगुणस्वरूपतयाऽनुरूपत्वम्‍ । एवं चानुरूपसंसर्गत्वेन सामान्य-लक्षणेन सर्वे भेदाः संगृहीता भवन्ति । यथा-
‘ कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम्‍ । यस्मान्निदानमस्या लोकनमस्याड्‍ घ्रिपड्कजस्तु भवान्‍ ॥ ’
यथा वा-
‘ मन्त्रार्पितहविर्दीप्तहुताशनतनूभुवः शिखास्पर्शेन पाञ्चाल्याः स्थाने दग्धः सुयोधनः ॥ ’
पूर्वं कारणकार्यधर्मयोः श्लेषेणैक्यसंपादनम्‍, इह तु मरण-दाहयोर-भेदाध्यवसानरूपेणातिशयेनेति विशेषः ।
द्वितीयो भेदो यथा-
‘ वडवानकालकूटलक्ष्मीमकरण्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम्‍ ॥ ’
लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता ।
तृतीये यथा-
‘ नितरां धनमाप्रुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावकी खलु सेवा जनवाञ्छितप्रदा ॥ ’
[ अत्र मरण-बहुधनयोः श्लेषेणैक्ये बहुधनरूपेष्टात्मना वाञ्छितार्था-प्तिरूपसमालंकारचमत्कारः । ]

समालंकारः - लक्षण २

लक्षण २

अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुति-स्फूर्तिदशायां समालंकारस्तावदप्रत्यूह एव । मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूर्णाड्रतया तया विषमालंकारो बाध्यते ।
यत्तु कुवलयानन्दकृता-
‘ उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन्‍ । उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ॥ ’
इत्युदाह्लत्य, ‘ अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारः, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो न निवार्यते ’ इत्युक्तम्‍ तत्रोदाहरणे मामुच्चाटनं लम्भयसे इति द्विकर्मकत्वं कथम्‍ ? गति-’ आदिसूत्रस्य प्राचीनरीत्या नियमविधित्वपक्षे लभेरण्य-न्तकर्तुः कर्मत्वस्य व्यावर्तनात्‍ । यदा तु-
‘ परत्वादन्तरड्रत्वादुपजीव्यतयापि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता ॥ ’
इति नवीनरीत्या अपूर्वविधित्वमुच्यते, श्रौतं णिजन्तार्थक्तियायाः प्राधान्य-मुत्सृज्याऽऽर्थ पूर्वक्तियाया एव प्राधान्यमनुरुध्यते तदा त्वप्रसक्तिरेवेति ।
उच्चाटन मया लम्भयसे इति तु भाव्यम्‍ । एवमपि लभेर्यथाकथंचिद्नत्य-र्थतां संपाद्य प्रयोग उपपाद्यते, तथापि ‘ प्राथमिककक्षायां समालंकारो न निवार्यते ’ इत्यनेन ‘ द्वितीयकक्षायां विषमालंकारोऽस्तु नाम ’ इत्यागूरितम-
सदेवं । तादृशवैषमस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तयापवादस्यैव न्याय्यत्वात्‍ । न च वैपरीत्यम्‍ ’ परिपूर्णचमत्कारभूमेर्व्याजस्तुतेस्त्वया-प्यनपह्लवात्‍ ।
संयोगादिलक्षणस्यानुरूपता द्वेधा-स्तुतिपर्यवसायिनी, निन्दापर्यव-सायिनी च । आद्या यथा-
‘ अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदां पतन्विश्वोद्धर्त्रीं गदविदलितः सिद्धभिषजम्‍ । तृषार्तः पीयूषप्रकारनिधिमत्यन्तशिशुकः
सवित्रीं प्राप्तस्वामहमिह विदध्याः समुचितम्‍ ॥ ’

समालंकारः - लक्षण ३

लक्षण ३

अनाथत्वादिविशिष्टस्य स्नेहार्द्रत्वादिविशिष्टेन संसर्गस्यानुरूपता भागी-रथीस्तुतिपर्यवसायिनी । द्वितीया यथा-
‘ युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि । सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ’
अत्राप्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षिप्ते प्रस्तुते पर्यवस्यति । एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्तः समालंकारोऽपि प्रपञ्चितः ।
यत्तु-‘ विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्‍ ’ इति विषमालंकारं लक्षितवता ,‘ तद्विपर्ययः समम्‍ ’ इति समालंकारं लक्षयि-त्वा- “ तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्चरम एव भेदो गृह्यते । तद्विपर्ययस्यैव चारुत्वात्‍ । न त्वाद्यभेदद्वयम्‍ । तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य, वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया
चारुताविरहात्‍ । एवं चानुरूपसंघटनात्मक एव समालंकारः । न तु विषमांलकार इव भेदत्रयात्मकः ” इत्यलंकारसर्वस्वकृतोक्तम्‍ । विवेचितं च विमर्शिनीकृता-‘ कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा । नहि तस्या उपनिबन्धश्चारुतामावहति ’ इति । तदुभयमसत्‍ । वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्लेषादिना धर्मैक्यसंपादनद्वाराऽनुरूपतावर्णने, वस्तुतो-ऽनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्नने च चारुताया अनुप-दमेव दर्शितत्वात्‍ । तस्मात्सममपि त्रिविधमेव ।

इति रसगंगाधरे समालंकारप्रकरणम्‍ ।

*********

रसगड्गाधरः - विचित्रालंकारः

विचित्रालंकारः - लक्षण १
लक्षण १
अथ विचित्रालंकारः-

इष्टसिद्धयर्थमिष्टैषिणा क्रियमाणमिष्टविपरीताचरण्म विचित्रम् ॥
विपरीतत्वं च प्रतिकूलत्वम् । यथा-
‘ बन्धोन्मुक्त्यै खलु मखभुखान्कुर्वते कर्मपाशा-नन्तःशान्त्यै मुनिशतमताऽनल्पचिन्तां वहन्ति ।
तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ ’
अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम्, यज्ञादिकर्मकरणस्य यज्ञादीनां पाशत्वासिद्धौ बन्धमुक्तिविपरीतत्वासंगतेः । द्वितीयचरणगतं तु शुद्धम्, शान्तौ चिन्तायाः स्वरूपेणैव विपरीतत्वात् ।
यदि तु इष्टैषिणो भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्स्वतः सिद्धे इष्टे तदनु-कूलाभासप्रयोगोऽपीष्टैषिकर्तृको विचित्रभित्युच्यते, लक्षणे च विपरीतपद-स्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम् । यथा-
‘ विष्वद्रीचा भुवनमखिलं भासते यस्य धाम्रा सर्वेषामप्यहमयमिति यत्ययालम्बनं यः
तं पृच्छन्ति स्वह्लदयगतावेदिनो विष्णुमन्या-नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ ’
अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थं परा-
न्प्रति प्रश्रोऽनुकूलाभासः । मुख्यमनुकूलं तु स्वह्लदयमेव । ‘ यत्साक्षादपरो-क्षात् ’ इति वचनात् । न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः , विषमे पुरुषकृतेरनपेक्षणात् । कार्यकारणगुणवैलक्षण्येनैव तद्भेदनिरूपणाच्च ।

इति रसगंगाधरे विचित्रालंकारप्रकरणम् ।
रसगंगाधरः – अथाधिकालंकार
अथाधिकालंकार
आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितरस्यातिन्यून-त्वकल्पनमधिकम् ॥

यथा-

‘ लोकानां विपदं धुनोषि, तनुषे संपत्तिमत्युत्कटा-मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसद्मोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥ ’

अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयायाः परममहत्त्वं फलितम् तेन च व्याजस्तुतिः परिपोष्यते ।

‘ गिरामविषयो राजन्विस्तारस्तव चेतसः । सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥ ’

अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महत्त्वं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते, तदा श्रृड्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् ।

‘ ब्रह्माण्डमण्डले भान्ति न ये पिण्डीकृता अपि । परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥’

अत्रोभयविधस्याप्यलंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमि-त्यनेन यत्राधाराधेययोरन्यतस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नाति-प्रसड्रः । एवं च-

काहं तमोमहदहंखचराग्निवार्भू-संवेष्टिताण्डघटसप्तवितस्तिकायः । क्केदृग्विधाविगणिताण्डपराणुचर्या-वाताध्वरोमविवरस्य च ते महित्वम् ॥ ’

इति श्रीभागवतदशमस्कन्ध ( १४/११ ) गतं ब्रह्मस्तुतिपद्यमस्यालंका-रस्यानुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसि-द्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन-

‘ द्यौरत्र क्कचिदाश्रिता, प्रविततं पातालमत्र क्कचि- त्क्काप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै-र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥ ’

इत्यलंकारसर्वस्वकारेण यदुदाह्लतं तदपि प्रत्युक्तम् ।

इति रसगंगाधरेऽधिकालंकारप्रकरणम् ॥

रसगंगाधरः - अथान्योन्यालंकारः
अथान्योन्यालंकारः
द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् ॥

विशेषश्च क्तियादिरूपः । यथा-

‘ सदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया । अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥ ’

अत्र गुणरूपविशेषाधानम्, रुचेर्गुणत्वात् । न च विधानरूपक्तिया-त्मकविशेषाधानमिह शड्कयम् । भावनासामान्यरूपस्य विधानस्याचमत्कारि-त्वेनाविशेषत्वात् ।

‘ परपूरुषदृष्टिपातवज्राहतिभीता ह्लदयं प्रियस्य सीता । अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥ ’

अत्र क्तियारूपविशेषाधानम् ।

यत्तु-

“-‘ यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाडुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥ ’

अत्र प्रपापालिकायाः पथिकेन स्वासक्त्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमीभलषन्त्या विरलाडुलिकरणतश्चिरं पानीयपानानुवृत्ति-संपादनेनोपकारः कृतः । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः । ”
इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुष्मतो ग्रन्थ-कर्तुर्व्युत्पत्तिशैथिल्यभुद्निरति । तथा हि-स्वमुखावलोकनमभिलषन्त्या

इत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम् , न पान्थबोधकत्वम् । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगतिः स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्ति-रिति वाच्यम् । तदिदमस्मद्युष्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीय-त्वात् । सा च प्रकृते यद्विशेषणघटकत्वेन स्वनिजादयः शब्दा उपात्तास्त-द्वोधका इत्येवंरूपा । तेन ‘ स्वदाररतानां विप्राणामहं भक्तः, देवदत्तस्य पुत्रः स्वमातृभक्तः ’ इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इति

च न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीतिः । अत एव-‘ निजतनुस्व-च्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ’इत्यत्र ‘ दण्डपादगता तनुः प्रतीयते । भवानीगता तु सा अप्रेक्षिता ’ इति व्युत्पन्नशिरोमणिभिर्मम्मटभट्टैः काव्यप्रकाशेऽभिहितम् । न चेदं श्रुति-काटवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम् । शाब्दव्युत्पत्तौ काव्यस्या-

नन्तर्भावात् । मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापत्तेश्च । किं च परस्परोपकारो हि स्वव्य-धिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटकः, न तु स्वसमाना-धिकरणतत्साध्योऽपि । तत्र हि तुषारशिशिरीकरणन्यायेनान्यव्यापारस्या-नावश्यकतया चमत्कारिताविरहात् । इह हि धारातनूकरणाडुलिविरली-

करणयोः कर्तृभ्यां स्वस्वकर्तृकचिरकालदर्शनार्थं प्रयुक्तयोस्तत्रैवोपयोग-श्चमत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सह्लदया विचारयन्तु ।

इति रसगंगाधरेऽन्योन्यालंकारप्रकरणम् ।
रसगंगाधरः - विशेषालंकारः
विशेषालंकारः
प्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकारः । यच्चै-कमाधेयं परिमितयक्तिंचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकारः ॥

युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्तिः । एवं च ग्रन्था-न्तरगतानि लक्षणान्यतिप्रसक्तान्येव ।

“ यच्च किंचित्कार्यमारभमाणस्यासंभाविताशक्यवस्त्वन्तरनिर्वर्तनं स तृतीयो विशेषप्रकारः । एवं चैतदन्यतमत्वं विशेषालंकारसामान्य-लक्षणम् ”

इति प्राञ्चः ।

तत्र प्रथमः प्रकारो द्विविधः-आधारान्तरगतत्वेनाधेयं वर्ण्यमानम्, निराधारत्वेन च । क्तमेणोदाहरणानि-

‘ अये राजन्नाकर्णय कुतुकमार्णनयन त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् । त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥ ’

अत्र दिड्भौलिगतत्वेन ।

‘ युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥ ’

द्वितीयः प्रकारो यथा-

नयने सुदृशां पुरो रिपुणां वचने वश्यगिराम महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तःस्थित एव स्थितिमाप रामचन्द्रः ॥ ’

तृतीयः प्रकारो यथा-

‘ कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम् । दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृत-ज्वालभिर्जगतीतलं कवलयन्कालानलो गोचरः ॥ ’

अत्र रामदर्शनं कुर्वतां कालानलदर्शनरूपाशक्यवस्त्वन्तरनिर्वर्तनम् ।

ननु-

‘ लोभाद्वराटिकानां विक्तेतुं तक्तमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ ’

इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीयप्रकारस्यातिव्याप्तिः । दधिविक्तयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाशक्यवस्त्वन्तरनिर्वर्तने तदभेदाध्यवसाननिबन्धनत्वं विशेषणम् । ‘ कालानलो वीक्षितः ’ इत्यनुपदमुदाह्लते विशेषालंकारे यथा अशक्यवस्त्वन्तर-रूपकालानलवीक्षणं राम-कालानलयोस्तद्दर्शनयोर्वा अभेदाध्यवसानेन

निर्वर्तितम्, न तथा ‘ दधि विक्रेतुमतन्त्या ’ इत्यत्र महेन्द्रनीलमणिदर्शन-मित्यदोषः । न च भगवति नीलमण्यभेदाध्यवसानेन निर्वर्तितमेव तदिति वाच्यम् । किंचित्कार्यमारभमानस्येत्यत्र यत्कार्यं विशेषणतया प्रविष्टं तेन सहाशक्यवस्त्वन्तरस्याभेदस्य विवक्षितत्वात् । प्रकृते च तक्तविक्तयेण सह नीलमणेरभेदस्यानध्यवसानात् । न चातिशयोक्त्या विशेषालंकारतृतीय-प्रकारस्य गतार्थत्वं वाच्यम् । एतदुदाहरणे रामस्य विषयस्य कालानलेन विषयिणा निगरणाभावात् । नापि रूपकेण । विषयविषयिणोः सामाना-

धिकरण्यविरहेणारोपासिद्धेः । न च स्मृत्या । कालानलस्य वीक्षणकर्मत्व-श्रवणेन स्मृतिकर्मत्वासिद्धेः । तस्मादशक्यवस्त्वन्तरकरणं विशेषालंकार-स्यैव प्रभेद इति प्राचामाशयः ।

अत्र विचार्यते-विशेषालंकारस्यायं प्रभेद इति कथं विज्ञायते । नहि रूपकादिवदलंकारस्यास्य किंचित्सामान्यलक्षणमस्ति, येन तदाक्तान्तत्वे-नाशक्यवस्त्वन्तरकरणत्वस्य तत्प्रकारतामभ्युपगच्छेम । न चान्यतमत्व-मेव तथाविधमस्तीति वाच्यम् । अनेनैव प्रकारेणेतरालंकारभेदत्वस्यापि

सुवचत्वात् । अनुगतलक्षणं विना प्राचीनोक्तिराज्ञामात्रमेव राज्ञा मिति तद-पेक्षया पृथगलंकारतोक्तिरेव रमणीया । अपि च ‘ येन दृष्टोऽसि देव त्वं तेन दृष्टो हुताशनः ’, ‘ तेन दृष्टा वसुंधरा ’ इत्यादौ वस्त्वन्तरस्य हुताशन-वसुधादर्शनादेरशक्यासंभावितत्वयोरभावात्प्रकृतालंकारासंभवेन निदर्शना स्वीक्रियते यदि, तदा ‘ येन दृष्टोऽसि देव त्वं तेन दृष्टः सुरेश्वरः ’ इत्यादौ विशेषालंकारेऽपि सैव शरणीक्तियताम् । नहि हुताशन इत्यत्र सुरेश्वर इत्यत्र च विच्छित्तिभेदोऽस्ति । एवं च प्राचीनानुसारेण ‘ कोदण्डच्युत-’ इत्यादि यदस्माभिरुदाह्लतं तदपि न विशेषसरणिमारोढुमीष्टे । एतेन ‘ त्वां पश्यता मला लब्धं कल्पवृक्षनिरीक्षणम् ’ इत्यादि कुवलयानन्दोक्तमुदाहरणं गतार्थम् । तस्मादिदभुदाहरणम्-

‘ किं नाम तेन न कृतं सुकृतं पुरारे दासीकृता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलभ्या येनार्चितोऽसि करुणाकर हेलयापि ॥ ’

अत्र यावस्त्रिवर्गप्राप्तिरशक्यकरणम् । नह्यत्र भगवदर्चनेन सुकृत-करणादीनां सादृश्यं विवक्षितम् , येन निदर्शनादि संभाव्येत । किं तु कार्यकारणभावः । एवं चेदानीमशक्यवस्त्वन्तरनिर्वर्तने अभेदाध्यवसाननि-बन्धनत्वं न विशेषणम् । न च ‘ दधि विक्तेतुमटन्त्या ’ इत्यत्रातिव्याप्तिः । द्वयोः संकरस्य तत्रेष्टेरिति वदन्ति ।

इति रसगंगाधरे विशेषालंकारप्रकारणम् ।
रसगंगाधरः - व्याघातः
व्याघातः
अथ व्याघातः-

यत्र होकेन कर्त्रा येन कारणेन कार्य किंचिन्निष्पादितं निष्पि-पादयिषितं वा तदन्येन कर्त्रा तेनैव कारणेन कारणेन तद्विरुद्धकार्यस्य निष्पा-दनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ॥
अत्र व्याघाते पूर्वकर्त्रपेक्षया कर्त्रन्तरस्य वैलक्षण्यप्रत्ययाव्द्यतिरेक-सिद्धिः फलम् । कर्तृत्वं चेह कार्योद्देशेन प्रवर्तमानत्वम् । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः ।
उदाहरणम्-
‘ दीनद्रुमान्वचोभिः खलनिकरैरनुदिनं दलितान् । पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणाः ॥’
इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुष-मधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुरन्विरोधः प्रातिस्विकरूपेण तत्त-त्कार्यहेतुताविमर्शान्निवर्तत इति विरोधमूलत्वम् । इदं तु नोदाहरणम्-
‘ पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढा यान्ति शान्तिमनुत्तमाम् ॥ ’
अत्र दुर्जनसज्जनयोर्मद-शमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरिति लक्षण-गतकर्तृविशेषणेनासंग्रहः । न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम् । आश्रयविशेषस्वभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वय-
जनने बाधकविरहाद्व्याहतेरेवाभावादुदाहरणत्वासंगतेः । नहि लोक-सिद्धोऽर्थः काव्यालंकारास्पदं भवितुमर्हति-
अपरो ब्याघातो यथा-
विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे तद सह नयस्व मां प्रणययन्त्रणायन्त्रितः ।
अथ प्रकृतिभीरुरित्यखिलभीतिभड्रक्षमा-न्न जातु भुजमण्डलादवहितो बहिर्भावय ॥ ’
इदं दण्डकां प्रविविक्षुं भगवन्तं दाशरथिं प्रति भगवत्या जानक्या वाक्यम् । उभयविधेऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यभिति प्राचां सिद्धान्तः । तथा च तेषामुदाहरणम्-
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ’ इति ।
अत्र विचार्यते-व्यतिरेक एवात्रालंकारः । जयिनीर्विरूपाक्षस्य वाम-लोचना इति तस्यैव प्रकाशनात् । न चात्र व्यतिरेकोत्थापकतया व्याघातः स्थित इति वाच्यम् । एवमपि तस्यालंकारताया असिद्धेः । न ह्यलंकारो-स्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः । ‘ आननेनाकलड्केन जय-तीन्दुं कलड्किनम् ’ इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनोपपत्तेः । नह्यस्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन स्वातन्त्र्यमभ्युपगच्छेम ।.
तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरोऽस्ति विच्छित्ति-विशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम् ।
यत्तु-
‘ लुब्धो न विसृजत्यर्थं नरो दारिद्यशड्कया । दातापि विसृजत्यर्थं तयैव ननु शड्कया ॥ ’
इति कुवलयानन्द उदाह्लतम्, तन्न ।
एवं श्लेषातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमान-
स्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽति-रिक्ताः काञ्चनस्येव कड्कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणा-मुपमाभेदत्वापत्तेर्बहु व्याकुलीस्यादिति परस्परच्छायामात्रानुसारिणो ब भिन्नविच्छित्तयो भिन्ना एवेत्यपरे ।

इति रसगंगाधरे व्याघातप्रकरणम् ।
रसगंगाधरः - शृड्खलामूला अलंकाराः
शृड्खलामूला अलंकाराः
अथ शृड्खलामूला अलंकाराः-

तत्र,

पड्क्तिरूपेण निबद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्, उत्तरो-त्तरस्य वा पूर्वपूर्वस्मिन्संसृष्टत्वं श्रृड्खला ॥

तच्च कार्यकारणता-विशेषणविशेष्यतादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः, वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । नह्यस्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिष्वनुप्राणकतया स्थितोऽप्यभेदांशः समान-धर्मांशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । साव-यवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । नहि विशेषनिर्मुक्तं सामान्यमस्ति येन विविक्तो विषयः स्यात् । तस्माच्छृड्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमु-परिष्टाद्विवेचयिष्यामः ।

रसगंगाधरः - कारणमाला अलंकारः
कारणमाला अलंकारः
सैव शृडखला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला ॥
तत्र पूर्वं पूर्वं कारणं परं परं कार्यमित्येका । पूर्वं पूर्वं कार्यं परं परं कारणमित्यपरा । यथाक्तमेण यथा-
‘ लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ॥ ’
‘ स्वर्गापवर्गौ खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागधेयं भाग्यं च शंभो तव पादभक्तिः ॥’
इह च यद्यादौ कारणोक्तिरेव स्तूयते तदा पुनस्तस्य कारणं तस्यापि कारणमिति, तत्कस्यचित्कारणं तदपि कस्यचिदिति वा कारणमाला
युक्ता । यदा तु कार्योक्तिस्तदा तस्य कार्यं तस्यापि कार्यमिति, तत्कस्यचि-त्कार्यं तदपि कस्यचिदिति वा युक्ता । सर्वथैव यः शब्दः कार्यकारणतोप-स्थापक आदौ प्रयुक्तः स एव निर्वाह्यः । एवंक्रमेण निबन्धनमाकाड्क्षानु-रूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्तमं स्यात् ।
यथा प्राचीनानां पद्यम्-
‘ जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ ’
अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनयः कस्य कारणमिति वा आकाड्क्षोदेति । कारणस्यैव
श्रुतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातम्, कार्यं पुनरस्य किमिति क्कचिदाकाड्क्षा तु कार्यत्व-कारणत्वयोः संबन्धिपदार्थत्वात्कारणश्रुत्युत्तर-मेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया । न त्वसौ सार्वत्रिकी । एवं च विनयः कस्य कारणमित्याकाड्क्षायां गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति, तथापि न साक्षादित्यह्लदयं-गममेव । तथा गुणप्रकर्षात्किमाप्यत इत्याकाड्क्षायां गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोषः । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ
रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेर-कुण्ठितत्वविरहाद्दोषः स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथा चोक्तम्-‘ न सोऽस्ति प्रत्ययो लोके यःशब्दानुगमादृते ’ इति । तत्तच्छब्दस्य विशिष्टश्चार्थः स्वरूपेणाभिन्नोऽपि विशेषणभेदाद्विलक्षणः प्रतीयते कुण्डगोलकादिवत् । ननु कुण्डगोलकादि-पदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमित्तमित्यस्तु भिन्ना-
कारः प्रत्ययः । ताम्रः शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्या-भिन्नत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् ।
‘ उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ’
इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा ‘ उदेति मविता ताम्रो रक्त एवास्तमेति च ’ इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्षण्या-न्यथानुपपत्त्यानुभवबलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्तिः शब्दानां कल्प्यतें । सा च वृत्तिसंबन्धेनार्थविशिष्टशाब्दज्ञानत्वेन शब्दविशिष्टार्थो-
पस्थितित्वेन च सामान्यकार्यकारणभावरूपा । घटत्वादितत्तत्प्रवृत्तिनिमित्त-प्रकारकबोधत्वेन तु वृत्तिसंबन्धेन घटविशिष्टपदज्ञानत्वादिना च विशे-षतोऽपरः कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्य-
सामग्र्या जनकतेति न कश्चिद्दोषः । यद्वा वृत्तिसंबन्धेन घटादिविशिष्टपद-ज्ञानत्वेन घटादिपद-घटत्वोभयप्रकारघटादिविशेष्यकोपस्थितित्वेन च कार्यकारणभावः । पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वाच्छाब्द-बोधेऽपि पदभानम् । अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय । एत-दभिसंधायैवोक्तम्-‘ न सोऽस्ति ’ इत्यादि ।

इति रसगंगाधरे कारणमालाप्रकरणम् ।
रसगंगाधरः - एकावली अलंकारः
एकावली अलंकारः
अथैकावली-

सैव शृड्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली ॥

सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा । तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्वैविध्यम् । स्वसं-बन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । स्वव्यतिरेकेण विशेष्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम् । उदाहरणम्-

‘ स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रियाः । परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः ॥ ’

अत्र स्थापकम् ।

‘ नार्यः स यो न स्वहितं समीक्षते न तद्धितं यन्न परानुतोषणम् । न ते परे यैर्नहि साधुताऽऽश्रिता न साधुता सा नहि यत्र माधवः ॥ ’
अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोषः ।

‘ धर्मेण बुद्धिस्तव देव शुद्धा बुद्धया निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ॥ ’ इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोत्तरं विशेष्यते । अस्मिंश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्तियमाणो यद्येकरूपः स्यात्त-दायमेव मालादीपकशब्देन व्यवह्लियते प्रा़चीनैः । तथा चोक्तम्-‘ माला-दीपकमाद्यं चेद्यथोत्तरगुणावहम् ’ इति । तत्र मालाशब्देन श्रृड्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकभुच्यते । तेनैकदेशस्थसर्वोपकारकक्रियादिशालिनी श्रृड्खलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति नभ्रमि-

तव्यम्, तस्य सादृश्यगर्भतायाः सकलालंकारिकसिद्धत्वात् । इह च श्रृड्खलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि । तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदाहरणं दीपकप्रकरणेऽस्माभिरिति नेहातीवायस्यते । एतेन ‘ दीपकैकावली-योगान्मालादीपकमिष्यते ’ इति यदुक्तं कुवलयानन्दकृता तद्भ्रान्तिमात्र-विलसितमिति सुधीभिरालोचनीयम् ।

इति रसगंगाधरे एकावलीप्रकरणम् ।

रसगंगाधरः - सार अलंकारः
अथ सारः-

सैव संसर्गस्योत्कृष्टापकृष्टभावरूपत्वे सारः ॥
तत्रापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षापकर्षाभ्यां द्वैविध्यम् ।
‘ संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः । साधुष्वपि स्पृहाहीनास्तेषु धन्या निराशयाः ॥ ’
इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति । एकविषयता-यामवस्थादिभेदाश्रयणभावश्यकम् । उत्कर्षापकर्षयोर्भेदनियतत्वात् । नह्य-वस्थादिभेदकं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं न्यूनं वा भवितुं प्रभवति । एकविषय उत्तरोत्तरोत्कर्षो यथा-
‘ जब्मीरश्रियमतिलड्घय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाभ्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ॥ ’
अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयो-रेवोत्कर्ष इत्येकविषयत्वम् । यद्यपि परिमाणभेदेन द्रव्यभेदोऽपि मतविशेषे शक्यते वक्तुम्, तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपा-दम् । यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायोऽत्र
प्रतीयते तदा सोऽप्यस्तु । नहि तेन पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षरूपः सारोऽन्यथासिद्धः शक्यः कर्तुम् ।
अनेकविषयः स एव यथा-
‘ गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः ॥ ’
वेदेऽप्ययमलंकारो दृश्यते-
‘ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥’
पूर्वं तु गुणकृत उत्कर्षः, इह तु स्वरूपमात्रकृत इति विशेषः । न
चात्र गुणकृत उत्कर्षो वाच्यः । पुरुषस्य निर्गुणत्वेनाभ्युपगमात् । न च तत्रापि विनाशरहितत्वादिर्गभ्यमानो गुण उत्कर्षक इति वाच्यम् । तस्य तादृशाधिकरणभिन्नत्वे मानाभावात् । अनयैव दिशापकर्षोऽप्युदाहार्यः ।
इदं तु बोध्यम्-एकविषये श्रृड्खलाया अचारुत्वात्तदनुप्राणितः सारो न चारुतां धत्ते । तस्याः स्वाभाविकभेदापेक्षित्वेनावस्थादिकृत्तभेदेऽनुल्ला-सात् । अत एवास्मिन्विषये वर्धमानकालंकारोऽन्यैड्रीकृतः । तल्लक्षणं च ‘ रूपधर्माभ्यामाधिक्ये वर्धमानकम् ’ इति कृतम् । तस्मात्कारणमालदिर्यथा श्रृड्खलैकविषयः, न तथा सारः शक्यो वक्तुम्, एकविषयेऽलंका-
रान्तराभ्युपगमप्रसड्रात् । ‘ गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्टये सारः ’ इति तु लक्षणं सारस्य युक्तम् । स च क्कचिच्छृड्खलानुप्राणितः , क्कचित्स्व-तन्त्र इत्यनेकविषयत्वमेकविषयत्व च सुस्थम् । एवं शृड्खलविषयाणाम-लंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलंकारत्वे सिद्धे श्रृड्खलाया विरोधाऽभेदसाधर्म्यादिवदनुप्राणकतैवोचिता, न पृथगलंकारता । तथात्वेऽभेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्ति-वैलक्षण्यम्, अपि तूपमाविच्छित्तिरेवेति संप्रदायः । ननु केयं विच्छित्तिः ?
उच्यते-अलंकाराणां परस्परविच्चेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंस-र्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्तिः ।

इति रसगंगाधरे सारप्रकरणम् ॥
रसगंगाधरः - काव्यलिंग अलंकारः
काव्यलिंग अलंकारः
अथ काव्यलिड्रम्-

अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिड्रितः प्रकृ-तार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिड्रम् ॥
उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम् । अनुमानार्थान्तरन्यास-योर्वारणायानालिड्रितान्तम् । उपमादिवारणायोपपादकत्वेनेत्यन्तम् । पञ्च-म्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम् । तेन ‘ भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः ’ इत्यादौ नायमलं-कारः । गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेनालंकारिकैः काव्यलिड्रता-
भ्युपगमात् । तच्च सुबन्ततिडन्तार्थत्वाभ्यां तावहिउविधम् । आद्यमपि शब्दान्तरार्थविशेषितशरीरम्, शुद्धैकसुबन्तार्थरूप्म चेति द्वेधा । अत्राप्याद्यं साक्षात्परम्परया वा वाक्यार्थविशेषितम्, सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिडन्तार्थभूतमपि साक्षात्परम्परया या वाक्यान्तरार्थविशेषि-तम्, सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम् । शुद्धभेदस्तु तिडन्तार्थस्य न संभवति, क्रियायाः कारकविशेषितत्वावश्यंभावात् । शिष्टमग्रे निरूप-यिष्यते । उदाहरणम्-
‘ विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ ’
अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कर्ष-स्यापाततोऽघटमानस्योपपादनायानवरतसकललो कपापहरणसमानाधिकरणः श्रमाभावः सुबन्तमात्रार्थविशेषितः सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्तः ।
‘ त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यापि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाक्तान्तह्लदये पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ ’
अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये स्वात्मपवित्रीकरणं वक्त्रा निबद्धम् । तच्च क्षुद्रत्वात्तादृशसिद्धयसमर्थं विशेषकान्तरमाकाड्क्षतीति तीर्थकर्तृकत्रपाकरणम् , कपालिप्रभृतिकर्तृककर्णभुद्रणं चेति वाक्यार्थद्वयं स्वात्मरूपकर्मद्वारा विशेषकमुपात्तम् । तद्विशिष्टं च तादृशपवित्रीकरणं भागीरथ्युपारूढं तादृशकार्योपपादनसमर्थमिति भवति हेतुः ।
‘ पद्मासनप्रमुखनिर्जरचित्तवृत्ति-दुष्प्रापदिव्यमहिमन्भवतो गुणौघान् । तुष्टूषतो मम नितान्तविश्रृडखलस्य मन्तुं शिशोः शिव न मन्तुमिहासि योग्यः ॥ ’
अत्र शिशुत्वं शुद्धैकसुबन्तार्थोऽपराधक्षमाकरणे हेतुः । तथा
दिव्यमहिमत्वमचिन्त्यमाहात्म्यं सुबन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादि-चित्तदुष्प्रापत्वे । एवं तादृशपरमेश्वरगुणकर्मकस्तवो मन्तौ । तादृशस्तवे च विश्रृडखलत्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् ।
‘ तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः ।
इदानीमौदास्यं यदि भजसि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ’
अत्र निराधार इत्यादिनाभिव्यक्ते वक्तृनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृका-वज्ञापुरपथनयनरूपः सुबन्तार्थविशेषितस्तिडन्तार्थ उपपादकः ।
‘ विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतया । तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ’
अत्रापि पृथिवीविवेकनाशोपपादने तिडन्तार्थस्य धारणस्य सुबन्तार्थ-विशेषितस्य तस्यैव जनधारणामनो वा असामर्थ्यात्साधुवञ्चनरूपपूर्व-वाक्यार्थविशेषितं धारणं हेतुः । विशेषणत्वं च कर्मणि विशेषणत्वात्पर-म्परया बोध्यम् । एते च भेदाः प्राचीनकल्पितपदार्थ-वाक्यार्थभेदद्वयवच्चातुर्य-मात्रेण कल्पिताः , न तु वैचित्र्यविशेषेण ।
अथानुमानादस्य को विशेषः ? ननु व्याप्यत्व-पक्षधर्मत्वाभ्यां ज्ञाय-मानमेवार्थसाधकमनुमानम्, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्य-लिड्रमिति विशेष इति चेत् न, उपपादकं हि सत्यां युक्तौ । सा तु सति
व्यभिचार-पक्षावृत्तित्वयोरन्यतरस्यापि ज्ञाने न संभवति । यथा‘ विनि-न्द्यान्युन्मत्तैः ’ इत्युदाह्लतपद्ये तादृशश्रमाभाव उत्कर्षव्यभिचरितो भागीर-थ्यवृत्तिर्वेति ज्ञाने जात्वपि न सर्वोत्कर्षः सेद्धुमीष्टे । सेद्धुमीष्टे च सर्वो-त्कर्षोव्यभिचरितो भागीरथीवृत्तिश्चे ति ज्ञाने । एवं हेतोः सर्वत्राप्युपपाद्या-व्यमिचरितज्ञान एवोपपत्तिः । अन्यथा तु इदमेवमनेवं वा स्यादिति संदेह नुमितिसरणिमेवाभिनिविशन्ते । न च समर्थना दृढप्रत्ययः, न त्वनुमितिरिति
वाच्यम् । स हीन्द्रियसंनिकर्षाभावान्न प्रात्यक्षिकः । अनुमितिसामग्र्या बलवत्त्वान्न शाब्दः । अत एव न मानसोऽपीति । सत्यम्, काव्यलिड्रं प्रकृतार्थोपपादकम् । उपपत्तिश्चानुमितिरेव । व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूर्तेः । तथापि नानुमानालंकारस्यात्र विषयः । श्रोतुर्यल्लिड्र-कानुमितिबुबोधयिषया कविः काव्यं निर्मिमीते तल्लिड्रमनुमानालंकृते-र्विषयः, काव्यव्यापारगोचरीभूतानुमितिकरणमिति निष्कर्षः । काव्यलिड्र-ज्ञानजानुमितिस्तु न कविना श्रोतुर्बुबोधयिषिता । अत एवासौ न काव्य-व्यापारगोचरः । श्रोतुः केवलं कारणवशाज्जायत इति नास्त्येवात्र जाय-
मानायामप्यनुमितावनुमानालंकृतेर्विषयः । ‘ तस्मिन्मणिव्रातमहान्धकारे ’ इति वक्ष्यमाणपद्ये तु बुबोधयिषितैवानुमितिरित्यस्त्यनुमानविषयः । अपि च कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकृतिं प्रयोजयति । श्रोतृनिष्ठा महावाक्यार्थनिश्चयानुकूला तु काव्यलिड्रमिति महान्विशेषः । एवं च काव्यलिड्रातिप्रसड्रवारणायानुमानलक्षणप्रविष्टानुमितौ काव्य-व्यापारगोचरत्वं विशेषणं देयम् ।
यत्तु ‘ समर्थनीयस्यार्थस्य काव्यलिड्रं समर्थकम् ’ इति कुवलयानन्दकारो
लक्षणमकार्शीत्तदपि सामान्यविशेषभावानालिड्रितत्वविशेषणरहितं चेद-र्थान्तरन्यासे स्यादेवातिप्रसक्तम् । यदपि,
“-‘ यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघेरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽ पि त्वद्नमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ’
‘ मृग्यश्च दर्भाड्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ ’
पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुः । उत्तरत्र तु संबोधने व्यापारयन्त्य इति भृगीविशेषणत्वेनानेकपदार्थो हेतुरुक्तः ”
इत्य-लंकारसर्वस्वकृतोक्तम्, अनुमोदितं च कुवलयानन्दकृता । तदुभयमसत् ।
अनुमानार्थान्तरन्यासविषये हेत्वलंकारो नेति तावत्सर्वसंमतम् । अन्यथा तयोरुच्छेदापत्तेः । अयं चानुमानस्यैव विषयः । चतुर्थचरणे दैवरूपे पक्षे नायिकाड्रसादृश्यदर्शनजन्यसुखासहिष्णुत्वरूपसाध्यस्य चरणत्रयवेद्येन तत्तदड्रसादृश्याधारविघटकत्वेन हेतुना सिद्धेः स्फुटत्वात् । दैवं नायिका-ड्रसादृश्यदर्शनजन्य-मदिष्टसुखासहिष्णु, तत्तन्नायिकाड्रसादृश्याधारवि-घटकत्वात्, मदीयशत्रुभूतयज्ञदत्तादिवदिति च प्रयोगः । भृग्यश्चेति द्वितीयपद्ये यद्यपि संबोधने वक्तृनिष्ठे मृगीनेत्रव्यापारो ज्ञायमान उत्पादकः,
तथापि नासाबुत्पादकता अनुमितिकरणताया अतिशेत इत्यनुमानालंकार एव युक्तः । इयांस्तु विशेषः-यत्पूर्वपद्येऽनुमितिर्गम्या, इह पुन-र्बुध्यतेर्वाच्या । मृग्यो दक्षिणानिलसंपर्कवत्यः , दक्षिणाभिमुखविलक्षणनेत्र-व्यापारवत्त्वादिति च प्रयोगः । वैलक्षण्यं चोत्पक्ष्मेत्यादिनोक्तं बोध्यम् ।
अत्र वदन्ति-काव्यलिड्रं नालंकारः । वैचित्र्यात्मनो विच्छित्ति-
विशेषस्याभावात् । स हि जन्यतासंसर्गेण कविप्रतिभाविशेषः, तन्निर्मितत्व-प्रयुक्तश्चमत्कृतिविशेषो वेत्युक्तम् । न चानयोरन्यतरस्याप्यत्र संभवः । हेतु-हेतुमद्भावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वर्त्यत्वायोगात् । अत एव चमत्कृतिरपि दुर्लभा । श्लेषादिसंमिश्रणेन विच्छित्तिविशेषोऽत्राप्यस्तीति तु न वाच्यम् । तस्य श्लेषाद्यंशप्रयोज्यत्वेन काव्यलिड्रस्यालंकारताया-स्तथाप्यसिद्धेः । यत्र तूपस्कारकवैचित्र्याद्विलक्षणं तदुपस्कार्यवैचित्र्यं तत्रास्तु नामोपस्कारकादुपस्कार्यस्य पृथगलंकारत्वम् । यथातिशयोक्तेर्हेतुफलोत्प्रे-क्षयोः । यत्र तूपस्कारकवैचित्र्य एव विश्रान्तिस्तत्रोपस्कार्यमनलंकार
एव । यथा प्रकृते । एवं तर्हि बहूनामलंकारत्वेन प्राचीनैरुरीकृतानामन-लंकारतापत्तिरिति चेत्, अस्तु । किं नश्छिन्नम् । तस्मात् ‘ निर्हेतुरूपदोषा-भावः काव्यलिड्रम् ’ इत्यपि वदन्ति ।

इति रसगंगाधरे काव्यलिंगप्रकरणम् ।
रसगंगाधरः - अर्थान्तरन्यास अलंकारः
अर्थान्तरन्यास अलंकारः
अथार्थान्तरन्यासः-

सामान्येन विशेषस्य विशेषण सामान्यस्य वा यत्समर्थनं तद-र्थान्तरन्यासः ॥
समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थमेवेति
दृढप्रत्ययः । निश्च इति यावत् । तत्र प्रकृतयोः सामान्यविशेषयोः समर्थ्य-त्वम् , अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो दृश्यते । तच्च तावत्साधर्म्यवैधर्भ्याभ्यां द्विविधम् । उदाहरणम्-
‘ करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विश्रृड्खलैः । कथमालि श्रृणोषि सादरं विपरीतग्रहणा हि योषितः ॥’
अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौ-चित्यं प्रतिपाद्यते । तच्च तस्यानिष्टसाधनत्वे संगच्छते । अनिष्टसाधनत्व-भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपाद्यते । तच्च
संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च ।
‘ उपकारमेव कुरुते विपद्नतः सद्गुणो नितराम् । मूर्च्छां गतो मृतो वा रोगानपहरति पारदः सकलान् ॥ ’
अत्र विपद्नतसद्गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूर्च्छितमृत-पारदकर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च । पारदवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति ।
‘ अहन्नेको रणे रामो यातुधानाननेकशः । असहाया महात्मानो यान्ति कांचन वीरताम् ॥ ’
अत्र विशेषस्य सामान्यं समर्थकम् । वैपरीत्ये तु सामान्यस्य विशेषः । ‘ असहाया-’ इत्याद्युत्तरार्धमपास्य ‘ नूनं सहायसंपत्तिमपेक्षन्ते बलेज्झिताः ’
इति कृते विशेषो वैधर्म्येण सामान्यस्य । अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्रकृते तु वैपरीत्यम् । अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थः शाब्दश्चालंकार-ताप्रयोजकः । न तु काव्यलिड्रे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यतः
इत्यादेः प्रतिपादकस्याभावे आर्थः । स तु कथितः ‘ मूर्च्छा गतो मृतो वा ’ इत्यत्र । तत्सत्त्वे शाब्दः । सोऽपि ‘ विपरीतग्रहणा हि ’ इत्यत्र ।
तथा वा-
भवत्या हि व्रात्याधमपतितपाखण्डपरिष-त्परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ’
अत्र भगवत्या भागीरथ्याः स्तोतुश्च वृत्तान्तयोर्विशेषयोः समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते ।
ननु सामान्यार्थो विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषा-नुमितिप्रयोजकमित्येवार्थः पर्यवस्यति । अन्यथा स्वभावादेर्दुष्परिहरत्वा-दिव्यभिचारज्ञानदशायां तादृशार्थस्य समर्थकत्वाप्रतिपत्तेः । प्रतीतिविशदी-करणं समर्थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते । अतिशेते च विशेषार्थेन सामान्यार्थ-
समर्थनरूपोऽधिकरणविशेषारूढसहचारज्ञानाहितव्याप्तिज्ञानदाढर्यात्मेति चेत्, कविः श्रृणोति । न चैवमपि विशेषय सामान्यसमर्थनं नार्थान्तर-न्यासभेदो भवितुमीष्टे । प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वाच्यम् । इवादिप्रयोगाभावस्यैवात्र ततो वैलक्षण्यात् । एवमपि वाचका-भावादार्थोऽयमुदाहरणालंकारोऽस्तु, न त्वर्थान्तरन्यासभेद इति चेत् , इद-मस्ति वैलक्षण्यम्-सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः ।
अनुवाद्यांशमात्रे विशेषत्वम्, विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्य-विधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालंकारस्य विषयः,द्वितीया त्वर्थान्तरन्यासभेदस्य । एवं च ‘ मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ’ इत्युदाहरणालंकारगते विशेषे उपकारमेव कुरुत इति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्तिया विधेया । ‘ रोगानपहरति पारदः सकलान् ’ इत्यर्थान्तरन्यासगते तु प्रुथगुपात्तविशेषरूपेणेति । लक्षणे त्वस्य विशेषेणत्यत्रोभयांशविशेषो ग्राह्यः । तेनोदाहरणालंकृतौ नाति-प्रसड्रः । यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्पृथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंकारोऽ-
र्थान्तरन्यासस्य, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकस्यातिशयोक्तिश्च विशेषः उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवचं स्यात्, तत्रापि विशेषस्याल्पत्वात् । किं चोदाहरणालंकारो न प्राचां मनःसंतोष-मावहति, उपमयैव तैस्तस्य निरासात् । अतस्तेषां । विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विना नान्यत्र प्रवेष्टुमीष्ट इति ।
अत्र हि प्रतिज्ञा-हेत्ववयवयोरिवाकाडड्क्षाक्तमप्राप्तं समर्थ्यसमर्थक-वाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । नह्यत्र समर्थकं समर्थ्यानुपपत्त्युत्था-पितायामाकाड्क्षायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि
प्रतीतिवैशद्यार्थ्म कविभिस्तस्याभिधानात् । एवं च वैपरीत्येऽपि न दोषः । यथा-
‘ दीनानामथ परिहाय सुष्कसस्यान्यौदार्यं वहति पयोधरो हिमाद्रौ । औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादृशां विवेकः ॥ ’
अत्र दानेनासंभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो विशेष उत्तरार्धगते सामान्ये प्रस्तुते समर्थकः । एवमप्रकृतैः प्रकृतस्य समर्थनमुदाह्लतम् । प्रकृतेन प्रकृतसमर्थनं यथा-
‘ कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु । हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः ॥ ’
जलक्तीडायां दूरं गच्छेति वदन्तीं कामिनीं प्रति नायकस्योक्तिरियम् । अस्यां वृत्तान्तद्वयमपि प्रकृतम् । क्कचित्प्रकृतेनाप्रकृतस्य समर्थनं सं-
भवति । परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति । आपाततस्तु तस्या-प्रकृतत्वम्, सर्वथैवाप्रकृतस्य समर्थनाऽप्रसक्तेः । यथा-
‘ प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा । यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥ ’

अत्र कामुकयोः प्रक्रान्तेन वृत्तन्तेन विशेषेण दातृयाचकवृत्तान्तोऽ-प्रस्तुतः सामान्यात्मा समर्थ्यते ।
यत्तु ‘ कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम् ’ इत्यपि भेद-द्वयमर्थान्तरन्यासस्यालंकारसर्वस्वकारो न्यरूपयत् , तन्न । तस्य काव्य-लिड्रविषयत्वात् । अन्यथा ‘ वपुःप्रादुर्भावात्-’ इति सकलालंकारिक-
सिद्धं काव्यलिड्रोदाहरणमसंगतं स्यात् । अपरार्धे वाक्यार्थद्वयस्य कारण-त्वेनार्थान्तरन्यासोदाहरणतापत्तेः । यदपि विमर्शिनीकार आह-“ विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं
तत्रार्थान्तरन्यासः । यत्र पुनः स्वतःसिद्धस्यैव विशदीकरणार्थं तदेकदेश-भूतो विशेष उपादीयते तत्रोदाहरणालंकारः । यथा ‘ निमज्जतीन्दोः किरणेष्विवाड्कः ’ इत्यत्र ” इति । तदपि न ।
‘ निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शड्खमपि पीतम् ॥ ’
इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्धत्वेनोपपादनान-पेक्षत्वात् । नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशयः,
येनोपपादनापेक्षा स्यात् । अस्त्येव तर्कस्थल इवाहार्योऽत्रापि संशय इति चेत्, त्वदुक्तोदाहरणालंकारेऽपि तस्य साम्राज्यात् । तस्मादस्मदुक्तैव व्यवस्थानुसर्तव्या ।
कुवलयानन्दकारस्तु-“-‘ यस्मिन्विशेषसामान्यविशेषाः स विक-स्वरः ’ ‘ अनन्तरत्नप्रभवस्य-’ इत्यादि ।
‘ कर्णारुंतुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पड्के न शड्केत कः ॥ ’
पूर्वमुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकस्वरालंकारः ” इत्याह । तदपि तुच्छम् । ‘ उपकारमेव कुरुते ’ इत्युदाहरणालंकारोक्तास्मदुदाहरणे प्राथमिकविशेषस्याभावात्त्वदुक्तो विकस्वरालंकारो न संभवतीति कश्चिद-लंकारस्त्वयापि वाच्यः । एवं चार्थान्तरन्यासस्य तस्य चार्थान्तरन्यास-
प्रभेदयोश्च संसृष्टयैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकारस्वी-कारानौचित्यात् । अन्यथोपमादिप्रभेदानामनुग्राह्यानुग्राहकतया संनिवेशेऽ-लंकारान्तरकल्पनापत्तेः । ‘ वीक्ष्य रामं घनश्यामं ननृतुः शिखिनो बने ’ इत्यत्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसड्राच्च ।

इति रसगंगाधरेऽथीन्तरन्यासप्रकरणम् ।
रसगंगाधरः - अनुमानालंकारः
अनुमानालंकारः
अथानुमानालंकारः -

अनुमितिकरणमनुमानम् ॥
अनुमितिश्चानुमितित्ववती । अनुमितित्वं चानुमिनोमीति मानस-
साक्षात्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्य-ज्ञानं वानुमितिः । तस्याश्च करणं व्याप्तिप्रकारकलिड्रनिश्चय इत्येके । व्याप्यत्वेन निश्चीयमानं लिड्रमित्यपरे । इदं च साधारणमनुमानम् । अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता । यथा-
‘ तस्मिन्मणिव्रातहतान्धकारे पुरे निशालेपविधानदक्षे । सद्यो वियुक्ता दिवसावसानं कोकाः सशोकाः कथयन्ति नित्यम् ॥ ’
अत्र कथनं स्फुटबोधः । स चानुभित्यात्मकः कोकवियोगरूपस्य लिड्रस्य व्याप्यत्वेन निश्चयात्करणादुत्पद्यते । तत्र चान्धकारविशेषा-
भावस्य तत्सामान्याभावत्वेनाप्यवसाने सति निशालोपविधानदक्षता-सिद्धौ दिवसावसानसिद्धयभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कवि-प्रतिभोल्लिखितत्वम् । वक्ष्यमाणभुन्मीलितमिति न मन्तव्यम् । तस्याप्य-नुमानताया एव स्थापयिष्यमाणत्वात् । यथा वा-
‘ अम्लायन्यदरातिकैरवकुलान्यग्लसिषुः सत्वरं दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः । सन्मार्गाः प्रसरन्ति साधुनलिनान्यल्लासमातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥ ’
पूर्वत्र लिड्रलिड्रिनोः शुद्धत्वम्, इह तु रूपकानुप्राणितत्वमिति विशेषः । कविप्रतिभोल्लिखितत्वं पुनः स्फुटमेव । इह यत्र लिड्रलिड्रिनोः सत्त्वं तत्र मन्ये शड्के अवैमि जाने इत्यादिपदानामनुमितिबोधकत्वम्, यत्र तु सादृश्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेकः । तेन चक्षुश्चमत्कृतिं धत्ते यदहो किल कोकिलः ॥ ’
इत्यादावनुमैव नोत्प्रेक्षा ।
अत्रैदं वोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम् । यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम् । यथा ‘ कोकाः सशोकाः ’ इत्यादौ । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् । यथा ‘ अम्लायन्-’ इति पद्ये,‘तद्भावी तव देव संप्रति महोमार्तण्डबिम्बोदयः ’ इति चतुर्थचरणनिर्माणे । साध्यस्याप्यनुपादाने लिड्रमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम् । यथा-
‘ गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥ ’
अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते । एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते । करणस्य ज्ञायमानलिड्रत्वपक्षे वाच्यतायाः केवलाया आपत्तेः । लिड्रज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरना-
पत्तेः । अतोऽनुमितिरेवानुमानम् । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमान-त्वध्वन्यमानत्वानां साम्राज्यम्, ल्युटश्च करण इव भावेऽपीति ।

इति रसगंगाधरेऽनुमानप्रकरणम् ।
रसगंगाधरः - यथासंख्य अलंकारः
अथ यथासंख्यम्-

उपदेशक्तमेणार्थानां संबन्धो यथासंख्यम् ।
पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च प्रथ मस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादिक्तमेण संबन्धे भवतीति योगार्थ एव लक्षणम् । यथा-
‘ यौवनोद्नमनितान्तशड्किताः शीलशौर्यबलकान्तिलेभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥ ’
अत्र यौवनोद्नमनितान्तशड्किताः संकुचन्ति, शौर्यबलकान्तिलेभिता विकसन्तीति प्रथमद्वितीयक्तिययोः क्रमेण प्रथमद्वितीयविशेषणावच्छिन्नेन
कर्त्रान्वयः । स च शाब्दः , समासाभावेन शब्दानामप्यन्वयात् । भावसंधिश्चात्र प्रधानम् । यथा वा-
‘ द्रुमपड्कजविद्वांसः सर्वसंतोषपोषकाः । मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ॥ ’
इह दीपकानुप्राणकम् । यथा वा-
‘ वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ । अरिशूललञ्छितकरौ भीति मे हरिहरौ हरताम् ॥’
इहोभयत्राऽऽर्थः । पूर्वं समासेन समासान्वयेऽवयवानामन्वयस्य
पार्ष्ठिकत्वात् । इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे किं नियामकम् । अत्र केचित्-“ योग्यताज्ञानमेव नियामकम् । तथाहि ‘ वृन्दापितृगहनचरौ ’ इत्यत्र हरौ श्मशानचारित्वस्य, हरे वृन्दावनचारि-त्वस्य च बाधितत्वादन्वयबोधाभावे हरौ वृन्दावनचारित्वस्य, हरे श्मशानचारित्वस्य च योग्यत्वादन्वयबोधो जायमानः क्रमिकान्वयबोधे पर्यवस्यति । एवमन्यत्रापि ” इत्याहुः ।
अन्ये तु-“ योग्यताज्ञानस्य नियामकत्वे क्रमभड्रस्य दोषता न स्यात् । ‘ कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रमसाविव ’ इत्यादौ कीर्तौ चन्द्र-सादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्तमोक्तस्यापि योग्यतावशादेव प्रतीत्युपपत्तेः । नहि क्तमिकमेव योग्यम्, अपक्तममयोग्यम्, येन तव मुख्यार्थहतिः स्यात् । भवति चानुभवसिद्धा सा । तस्मादन्वयिसमसंख्य-
पदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च ‘ कीर्तिप्रतापौ ’ इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चय-पराहत इति मुख्यार्थहतिसद्भावात्क्रमभड्रस्य दोषत्वसाम्राज्यम् । नन्व-न्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा ‘ यथासंख्यमनुदेशः समानाम् ’ इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु
‘ लोमादिपामादिपिच्छादिभ्यः शनेलचः ’ इत्यादिषु लैकिकसामग्रीबलादेव यथासंख्यान्वयबोधोपपत्तेः । योग्यतामात्रबलात् तथाबोधोपपादकमते तु शास्त्रमात्रचक्षुष्कैः प्रकृतिविशेषप्रत्ययविशेषसंबन्धरूपाया योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधारर्थं ‘ यथासंख्यं ’ इति सूत्रमिति चेतू ’ न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादृशबोधार्थं सूत्रसार्थक्यात् ” इत्याहुः ।
इदं तु बोध्यम्-यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृ-ह्लीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोढुं प्रभवतीति तु विचा-रणीयम् । नह्यस्मिंल्लोकसिद्धे कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतो ऽप्युपलब्धिरस्ति, येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽ-पक्तमत्वरूपदोषाभाव एव यथासंख्यम् । एवं चोद्भटमतानुयायिनामुक्तयःकूतकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः तु नव्याः ।
इति रसगंगाधरे यथासंख्यप्रकरणम् ।
रसगंगाधरः - पर्याय अलंकारः
पर्याय अलंकारः
अथ पर्यायः-

क्तमेणानेकाधिकरणमेकमाधेयमेकः पर्यायः । क्तमेणानेकाधेयक-मेकमधिकरणमपरः ॥
एतदन्यान्यत्वं च सामान्यलक्षणम्, न तु योगार्थमात्रम् । अतिप्र-सक्तेः । ‘ परावनुपात्यय इणः ’
इति पाणिनिस्मृता अनुपात्ययमात्रस्य घञु-
पाधित्वेनोक्तेः । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभेदेऽतिप्रसड्रवारणाय क्रमेणेति । तत्र चाधेयस्य युगपदनेकाधारसंबन्धान्नातिप्रसड्रः । द्वितीयलक्षणे वक्ष्य-
माणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेकः । उदाहरणम्-
आयाता कमलासनस्य भवनाद्द्रष्टुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदथओ नीत्वा पुनः कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ ’
अत्र प्रथमचरणगतमधिकरणमार्थम् । विश्लेषावधिपञ्चम्यां विश्लेषस्यो-पश्लेषमन्तरेणासिद्धया औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । कमलासन-स्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधि-
करणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव । ‘ ल्यब्लोपे कर्मण्यधिकरणे च ’ इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्धान्तात् । इतरचरणत्रयगतं तु शाब्दम् । यथा वा-
‘ मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम् । संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ॥ ’
पूर्वमवरोहः इह त्वारोहः , पूर्वपूर्वत्यागेऽरुचिबीजोपादानं चेति विशेषः । अपरः पर्यायो यथा-
‘ विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया-दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि ।
गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनयुगमिन्दीवरदृशः । ’
अत्र क्कचिदनपावृते स्थलविशेषे गुरूञ्शुश्रूषमाणायाश्चिरप्रोषितमसंभा-वितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मिन्नधि-करणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपदसंभवात्कारणक्तम-वशाच्च क्रमिकत्वम् । यथा वा-
‘ प्रथमं श्रितकञ्चकोरकाभावथ शोभामनुभूय कन्दुकानाम् । अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥ ’
अत्रापि कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् । यदि
च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच्च न बाध्यबाधकभावः । यत्तु-
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना मृगशावाक्षि ह्लदयेऽप्येष दृश्यते ॥ ’
इति कुवलयानन्दकृता विकासपर्यायो निजगदे, तच्चिन्त्यम् । एकसंबन्ध-नाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् , ‘ श्रोणीबन्ध-स्त्यजति तनुतां सेवते मध्यभागः ’ इति काव्यप्रकाशोदाह्लते, ‘ प्रागर्णवस्य
ह्लदये-’ इत्यादिसर्वस्वकारोदाह्लते च तथैव दृष्टत्वाच्च अस्मिन्नलंकार-लक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषयः सारालंकार उचितः, यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति स चायुष्मता नोट्टड्कित एव । इदं तु बोध्यम्-
‘ प्रथमं चुम्बितचरणा उड्घाजानूरुनाभिह्लदयानि । आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ ’
अत्र न तावत्पर्यायः, उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्ष-णात् । यतोऽत्र मुखविषयकभावनायाः सर्वाड्रविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम् , न तु मज्जत्विति । तथा-
पूर्वं नयनयोर्लग्ना ततो मग्ना मनस्यभूतू । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥ ’
इत्यत्रापि । नापि सारः, उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेव-मादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः ।
इहान्यदप्यवधेयम्-यत्राधाराधेयतत्संबन्धक्रमेषु क्कचिदपि कवि-कल्पनापेक्षा तत्रैवायमलंकारः । यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चि-दलंकारः । अत एव ‘ श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भयां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । ’ इति काव्यप्रकाशकृता, ‘ प्रागर्णव-स्य ह्लदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम । ’ इति सर्वस्वकृता च निदर्शितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्तमोऽपि कल्पितः ।
नहि ब्रह्मलोकस्थया देवतया, पयोधिस्थया सुधया च, वाचो वाडभाधुर्यस्य चाभेदो लोकसिद्धस्तादृशः क्तमो वा । एवं स्थिते, ‘ अधुना पुलिनं तत्र यत्र स्रोतः पुराभवत् ’ इति कुवलयानन्दगतमुदाहरणं ‘ यत्र पूर्वं घटस्तत्राधुना पटः ’ इति वाक्यवल्लैकिकोक्तिमात्रमित्यनुदाहार्यमेव ।

इति रसगंगाधरे पर्यायप्रकरणम् ।
रसगंगाधरः - परिवृत्ति अलंकारः
परिवृत्ति अलंकारः
अथ परिवृत्तिः -

परकीययक्तिंचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किंचिद्वस्तु-समर्पणं परिवृत्तिः ॥
क्तय इति यावत् । सा च तावहिउविधा-समपरिवृत्तिर्विषमपरिवृत्ति-श्चेति । समपरिवृत्तिरपि द्विविधा-उत्तमैरुत्तमानां न्यूनैर्न्यूनानां चेति । विषमपरिवृत्तिरपि तथा-उत्तमैर्न्यूनानां न्यूनैरुत्तमानां चेति । क्रमेणो-
दाहरणानि-
‘ अड्रानि दत्त्वा हेमाड्रि प्राणान्क्तीणासि चेत्रृणाम् । युक्तमेतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥ ’
अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धेतु विषमैव ।
‘ अस्थिमालामयीं दत्वा मुण्डमालामयीं तनुम् । गृह्लतां त्वत्पुरस्थानां को लाभः स्मरशासन ॥’
‘ गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरड्रदृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ’
‘ किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलनि सत्वरम् ॥’
एषु दानादानव्यवहारः कविकल्पित एव, न तु वास्तवः । यत्र वास्तव-स्तत्र नालंकारः । यथा-‘क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ताभि-र्बदरफलनि यत्र बालाः । ’
इदं चापरं बोध्यम्- अत्र परस्मै स्वकीययक्तिंचिद्वस्तुसमर्पणमित्येता-वत्पर्यन्तं लक्षणे विवक्षितम्, न तु स्वकीययत्किंचिद्वस्तुत्यागमात्रम् । ‘ किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम् । इत्यत्राति-व्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् । पूर्वावस्थात्यागपूर्वक-मुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात् । एवं स्थिते ‘ विनिमयोऽत्र
किंचित्त्यक्त्वा कस्यचिदादानम्’ इत्यलंकारसर्वस्वकृता यल्लक्षणं परिवृत्तेः कृतम्, यच्च ‘ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ’ इत्युदाह्लतम्, तदुभयमप्यसदेव ।

इति रसगंगाधरे परिवृत्तिप्रकरणम् ।
रसगंगाधरः - परिसंख्या अलंकारः
परिसंख्या अलंकारः
अथ परिसंख्या-

सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाव्द्यावृत्तिः परिसंख्या ॥
नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव । पाक्षिक-प्राप्ति-युगपत्प्राप्तिरूपस्यावान्तरविशेषस्याविवक्षणात् । अत एव वैया-
करणानां मते परिसंख्यापि नियमशब्देनोच्यते । तथा हि-‘ कृत्तद्धित-समासाश्च ’ इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धांतः । तत्र हि समासे पाक्षिक्याः प्रातिपदिकसंज्ञायाः प्राप्तेरभावात्कथं नाम पराभिमतो
नियम उपपद्यते । युगपद्धि समास-समासेतरपदसंघातयोः ‘ अर्थवत् ’ -सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति । पूर्वतन्त्रे तु नियमपरिसंख्ययोर्भेदेन परिभाषणम् । यदाहुः-
विधिरत्यन्तमप्राप्ते, नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ ’
विधिः- ‘ स्वर्गकामो यजेत ’ इत्यादिः । यागादेः प्रकारान्तरेणाप्राप्तेः ।
नियमः-‘ व्रीहीनवहन्ति, समे देशे यजेत ’ इत्यादिः । पुरोडाशनिर्माण-फलोपधायकतावच्छेदककोटिप्रविष्टाया वितुषतायाः संपादकत्वेनावहननस्य
प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदेश-प्रा-प्तेर्विषमदेशसमवधानकालावृत्तित्वेन, च पाक्षिकत्वात् । परिसंख्या-‘ इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते’ , ‘ पञ्च पञ्चनखा भक्ष्याः ’
इत्यादिः । रशनाग्रहणलिड्रेनाश्वाभिधानीगर्दभाभिधान्योरादानस्य युग-पत्प्राप्तत्वात् इत्यलमप्रकृतचिन्तया ।
इयं च तावहिउविधा-शुद्धा प्रश्रपूर्विका च । द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा । यथा-
‘ सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्पृहं चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काड्क्षसे मधुरिपोर्गाथा तदालप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ ’
अत्र यदिघटितवाक्यैर्निवेदितय रागप्राप्तस्य सेवादेः कर्मतायाः
परमेश्वरे विषयान्तरे च प्राप्तत्वे न लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसड्राद्-विषयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्ति-स्तात्पर्यविषयतया कल्प्यमानत्वादार्थी शुद्धा च ।
‘ किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोपकाररसिंक तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासंचयः ॥ ’
अत्र हरिपादभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थी प्रश्रपूर्विका च ।
तीर्थं गंगा तदितरदपां निर्मल्म संघमात्रं देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य-त्तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः ॥ ’
अत्र मात्रादिप दैस्तीर्थत्वादिव्यावृत्तिः प्रतीयत इति शाब्दी शुद्धा । ‘ किं मित्रमन्ते सुकृतं न लोकाः किं ध्येयमीशस्य पदं न तोकाः किं काम्यमव्याजसुखं न भोगाः किं जल्पनीयं हरिनाम नान्यत् ॥ ’
अत्र शाब्दी प्रश्रपूर्विका चेति प्राचां मतम् । अन्ये तु ‘ व्यावृत्ते-रार्थत्व एव परिसंख्यालंकारः, अन्यथा तु शुद्धा परिसंख्यैव । यथा
हेतुत्वस्यार्थत्व एव हेत्वलंकारः, अन्यथा हेतुमात्रम् । अतो भेदद्वय-मेवास्याः ’ इत्याहुः ।
अपरे तु “ व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम् । ‘ पञ्च पञ्चनखा भक्ष्याः , समे यजेत, रात्सस्य ’ इत्यादावपि तदापत्तेः । किं तु कविप्रतिभानिर्मिता या तादृशव्यावृत्तिस्तस्याः । यथा-‘ यस्मिञ्शासति वसुमतीपाकशासने
महानसेषु संतापः, शरधिह्लदयेषु सशल्यता, मञ्जीरेषु मौखर्यम्, भेरीषु ताडनम्, कामिनीनां कुन्तलेषु कौटिल्यम्, गतिषु मान्द्यम् इत्यादौ । अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तहूरा तत्प्रतियोगिक-व्यावृत्तिर्निर्मिता । एवं च ‘ सेवायां यदि साभिलाषमसि ’ इत्यत्र नान्यः सेव्य इत्यर्थस्य प्रतीतेः परिसंख्यास्तु, न तु परिसंख्यालंकारः । व्यावृत्ते-र्वास्तवत्वेन कविप्रतिभानपेक्षणात् । ‘ किं तीर्थं हरिपादपद्मभजनम् ’ इत्यत्र
तु प्रश्रपूर्वकं दृढारोपरूपकम् । अन्यथा ‘ न विषं विषमित्याहुर्ब्रह्मस्वं विष-मुच्यते ’ इत्यत्रापि परिसंख्यापत्तेः । ‘ किं शास्त्रं ’ इत्यंशे तु परिसंख्यामात्रम् । ‘ तीर्थं गड्रा तदितरदपां निर्मलं संघमात्रम् , इत्यत्रापि परिसंख्यैव शुद्धा । प्रागुक्ताद्धेतोरनार्थत्वात् । तस्मात् ‘ महानसेषु संतापः ’ इत्यादिकमेवास्या उदाहरणम् ” इत्याहुः ।

इति रसगंगाधरे परिसंख्याप्रकरणम् ।

रसगंगाधरः - अर्थापत्ति अलंकारः
अर्थापत्ति अलंकारः
अथार्थापत्तिः-

केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिर्थापत्तिः ॥
न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यैर्द्वादशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विंशति-भेदा । दिड्भात्रेणोदाह्लियते-
‘ लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेद्वालिशाः ।
अद्य श्र्वः फणिनां शकुन्तशिशवो दन्तावलनां शशाः सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति शालावृकाः ॥ ’
अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च ।
‘ यदि ते चरणाम्बुजं ह्लदा वहतो मे न हतो विपद्नणः । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ॥ ’
अत्र न हत इति विद्यमानतारूपात्प्रकृतार्थाज्जितमित्यापाद्यमानस्याप्रकृ-तार्थस्य सर्वोत्कर्षेण वर्तनरूपस्याधिक्यम् । न चात्र विपद्नणस्यावस्थान-
मात्रेण तमोगणानामवस्थानभापादयितुमुचितम्, न तु जयः अनानुरूप्यात्, इति शड्कयम् । भगवच्चरणसंनिधाने यद्येकस्य विपद्नणस्य स्वास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोषः ।
सदैव स्नेहार्द्रे सुरततिनि निष्किञ्चनजने यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा ददीरन्नर्थिभ्यः किमिति कणभिक्षामपि जडाः ॥ ’
अत्राभावेनाभावापादनम् । स्नेहार्द्रजाह्लवीरूपप्रकृतार्थापेक्षया चिन्ता-रत्नादीनाम जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् ।
‘ मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ॥ ’
इयं राज्ञा नलेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्रत्युक्तिः । अत्रापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्वयमपि प्रकृतम् । पुरुषसिंहापेक्षाया वनस्य नपुंसकत्वान्न्यूनत्वम् । अत एव किं चित्रमित्युक्तम् ।
‘ उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा । सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥ ’
अत्राप्रकृतेन ब्रह्माण्डादनेन समस्तभूतानामनित्यत्वं कैमुतिकन्यायेन प्रकृतं प्रतिपाद्यते ।
‘ न भवानिह मे लक्ष्यः क्षत्रवर्णविलेपिनः । के वा विटपिनो राम कुलाचलभिदः पवेः ॥’
रामं प्रति जामदग्न्यस्येयमुक्तिः । अत्र प्रतिवस्तूपमा महावाक्यार्थः । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्यार्थ-गतायामर्थापत्तावापाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ । उपमान-वाक्यार्थगतायां त्वप्रकृताविति । अनया दिशान्यदप्यूह्मम् ।
अत्र विचार्यते-नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते । आपा-दकस्यार्थस्यापतितमर्थं विनानुपपत्तेरत्राभावात् । नाप्यनुमाने । आपततोऽ-र्थस्यापादकासमानाधिकरणत्वेन व्याप्यत्व-पक्षधर्मत्वयोर्दूरापास्तत्वात् । न
च येन कारणेनैकार्थसिद्धिस्तेनैव लिड्रेनापरार्थानुमानमिति वाच्यम् । अर्थान्तरसिद्धेरनुमित्यात्मकताविरहात् । यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकारः, न तु भवत्येवेति । नापि यद्यर्थातिशयोक्तौ । तस्या विपरी-तार्थ एव द्वयोर्विश्रान्तेः । न चेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वाद्यथाश्रुत एव विश्रान्तेः । तस्माद्येन न्यायेनैकोऽर्थः सिद्ध-
स्तेनैव न्यायेनापरोऽप्यर्थः सेद्भुमर्हतीत्येवंरूपेयमर्थापत्तिः । अस्यां चार्था-न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा-न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा-लंकारत्वम् । यथा ‘ फणिनां शकुन्तशिशवः ’ इत्यादौ । अन्यथा तु कैमु-तिकन्यायतामात्रम् । यथा ‘ उदुम्बरफलानीव ’ इत्यादौ । प्राचीनरीत्या तु प्रागिदमुदाह्लतमस्मामिः । अत एव तत्र कैभुतिकन्यायेनेत्युक्तम् । एवं च ‘ कमपरमवशं न विप्रकुर्यर्विभुमपि तं यदमी स्पृशन्ति भावाः ’,
‘ अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्रि स्थितवति वयं के पुनरमी ’ इत्यादि सर्वस्वकृता यदुदाह्लतं तन्नातीव ह्लदयंगमम ।
यत्तु-‘ कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते ’ इति कुवलयानन्द-कृता असा लक्षणं निर्मितं, तदसत् । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेना-धिकार्थापत्तावव्याप्तेः । यथा-
‘ तवाग्रे यदि दारिद्य्रं स्थितं भूप द्विजन्मनाम् । शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥ ’
अत्र शनैः शब्दमहिम्रा राजाग्रे दारिद्य्रस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति ।

इति रसगंगाधरेऽर्थापत्तिप्रकरणम् ।

रसगंगाधरः - विकल्प अलंकारः
अथ विकल्पः-

विरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः ॥
एकस्मिन्धर्मिणी स्वस्वप्रापकप्रमाणप्राप्तयोरत एव तुल्यबलयोर्विरुद्ध-योर्विरुद्धत्वादेव युगपत्प्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवसन्ना । अयं च सभुच्चयस्य प्रतिपक्षभूतो व्यतिरेक इवोपमायाः । अत्र च विकल्प्य-
मानयोरौपम्यमलंकारताबीजम्, तदादायैव चमत्कारस्योल्लासात् । अन्यथा तु विकल्पतामात्रम् । यथा ‘ जीवनं मरणं वास्तु नैव धर्मं त्यजाम्यहम् ’
इत्यादौ । अत्र जीवनमरणयोर्नौपम्यस्य प्रतीतिः उदाहरणम्-
‘ प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान् । यमं भजस्व रामं वा यथेच्छसि तथाचर ॥ ’
अत्रार्पणतर्पणभजनेषु मानरक्षणप्रमाणेन यथाक्तमं कर्मतया प्राणगृध्र-यमानाम्, जीवनरक्षणप्रमाणेन सीताद्विजरामाणां प्राप्तानां यौगपद्यासं-
भवात्पर्यायेण प्राप्तिः । कर्मणोः क्तियाफलेनैव समानधर्मेणौपभ्यम् । नन्बत्र यथार्पि-तर्प्यादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपभ्यं गम्यते, तथा ‘ जीवनं मरणं वा ’ इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोःकर्त्रोरपि तद्नन्तुं युजयत इति चेत्, युज्यते, न तु गम्यते । अथ तत्कुतो हेतोः ? कवि-
तात्पर्यविरहादिति गृहाण । नह्यत्र मरणं जीवनं च समानमिति कवेरभि-प्रेतम् । किं तु ‘ विषं भुड्क्ष्व, मा चास्य गृहे भुड्थाः ’ इतिवत् धर्मोद्धेतो-र्मरणमपि ज्याय;, न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्यम् । तदर्थं च मरणस्योपात्तत्वादविवक्षिताधिकरणकतया औपम्यस्यानिष्पत्तिरेव ।
क्कचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः । यथा भगवद्नीतासु ‘ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । ’ अत्र
महीभोग-स्वर्गप्राप्त्योरुत्तमत्वेनौपम्यं विवक्षितम् । तथा च धात्वर्थयोरयं विकल्प इत्येके । आख्यातार्थयोरित्यपरे । सर्वथैव न महीस्वर्गयोरिति स्थितम् । तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम् ।
कर्तृरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा ‘ हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम् ’ इत्यत्राप्यौपम्यप्रत्ययापत्तेः ।
यत्तु-
“-‘ भक्तिप्रह्लविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ’
अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम् ” इत्यलंकारसर्वस्व-कृतोक्तम् । तच्चिन्त्यम् । भवार्तिशमने तनु-नेत्रद्वन्द्वयोर्द्वयोरपि युग-
पत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात् । ‘ विरोधे विकल्पः ’ इति हि तेनैवोक्तम् । न च तनुमध्ये नेत्रयोःप्रविष्टत्वात्पृथगभिधानानौचित्येऽपि यत्पृथगभिधानं तद्वक्तुस्तनु-नेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गभयतीति वाच्यम् । वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेन वैवक्षिकस्याप्रयोजकत्वात् । विकल्पस्यात्रासुन्दरत्वाच्च । वस्तुतस्तु ‘ सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यादाविवात्रापि श्लेषमूलोपमैवालंकारः । तनुर्वेति
तनुरिवेत्यर्थः । ‘ वा रयाद्विकल्पोपमयोः ’ इति वाशब्दस्येवार्थकत्वाभिधा-नात् । न च लिड्रवचनभेद उपमायां दोष इति वाच्यम् । साधारणधर्म स्योपमानसामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव लिड्रवचनभेदस्य दोषताया अभ्युपगतेः । यथा-‘ हंसीव धवलश्चन्द्रःसरांसीवामलं नभः । ’ अत्र हंसी धवला, चन्द्रो धवलः, सरांस्यमलनि, नभो ह्ममलमिति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीते-रुपमायाः सम्यगनिष्पत्तेः । नन्वेवं सति ‘ सरांसीव नभः ’ इत्यादौ
लुप्तोपमायां कथं वचनभेदो दोष इति चेत्, तत्रापि प्रतीयमानसाधारण-धर्मस्य वैरूप्यादेवेत्यभ्युपगमात् । न च प्रतीयमानस्य धर्मस्य स्वशब्दा-नालिड्रिततया सुतरां लिड्रानालिड्रनेन नास्ति वैरूप्यमिति शड्कयम् । शब्दालिड्रितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहुः-‘ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ’ इति । यद्वा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द
एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम् । एवं स्थिते राजते भासते इत्यादितिडन्तप्रतिपाद्ये साधारणधर्मे यथा लिड्रवचनभेदो न
दोषस्तथात्रापीति । अत एव ‘ यस्मिन्नतिसरसो जनो जनपदाश्च ’ इति तुल्ययोगितापि संगच्छते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । श्लिष्टे धर्मलिड्रसंख्याभेदादि नैव दूषणमिति प्रतिप्रसवा-च्चेति दिक् ।

इति रसगंगाधरे विकल्पप्रकरणम् ।

रसगंगाधरः - समुच्चय अलंकारः
समुच्चय अलंकारः
अथ समुच्चयः-

युगपत्पदार्थानामन्वयः समुच्चयः ॥
प्राग्वदाह-अथेति ।
युगपदिति क्तमव्यावृत्त्यर्थम्, न त्वेकक्षणप्रतिपत्त्यर्थम् । तेन किंचि-त्कालभेदेऽपि न समुच्चयभड्रः । स तावाहिउविधः- धर्मिभेद-धर्म्यैक्या-भ्याम् । धर्म्यैक्येऽपि द्वैविध्यम्-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये,कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन्नयाद्योर्भेदयोर्गुणानां क्तियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारम-
णीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशड्कयम् । समाधौ हि एकेन कार्ये निष्पाद्यमानेऽप्यन्येनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषयः । अस्मिंस्तु समुच्चयप्रभेदे यत्रैककार्यं संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति, कार्यस्य च न कोऽप्यतिशयः सः । क्रमेणोदाहरणानि-
‘ प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्तं च पथिकह्लदयं कपोलपाली मृगीदृशः पाण्डुः ॥ ’
‘ उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ॥ ’
अत्राद्ये गुणानां द्वितीये क्तियाणां च यौगपद्येन भिन्नधर्म्यन्वयः । ‘ आताम्रा सिन्धुकन्याधवचरणनखोल्लसिकान्तिच्छटाभि- र्ज्योत्स्नाजालैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः । स्वाभाव्यादच्छमुक्ताफलरचितलसद्गुच्छसच्छायकाया पायादायासजालादमरसरिदघव्रातजातश्रमान्नः ॥ ’
‘ देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्तोडान्तः कुरुतेतरां वसुमतीमाशाः समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’
अत्राद्ये गुणानां द्वितीये क्तियाणामेकधर्म्यन्वयः । यद्यपि हरिचरणनख-संसर्गसमये नास्ति हरजटासंसर्ग इति रक्तपीतवर्णयोर्यौगपद्यस्यासंभवः , तथापि साहजिकश्वैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्येवेति न दोषः ।
‘ समुत्पत्तिः पद्मारमणपदपद्मामलनखा-न्निवासः कंदर्पप्रतिभटजटाजूटभवने । अथायं व्यासड्रः पतितजननिस्तारणविधे-र्न कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥ ’
अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थं स्पर्धयेवापतन्तो रमणीयाः ।
‘ पाटीरद्रुभुजंगपुंगवमुखोद्भूता वपुस्तापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालभृणालकोमलतनुः प्राणान्कथ्म रक्षतु ॥ ’
अत्रापि त्रयोऽपि जीवनाशार्थमापतन्तोऽरमणीयाः ।
‘ जीवितं मृत्युनां लीढं संपदः श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥ ’
अत्र जीवितादयः स्वाभाव्याद्रमणीया इति निःसारयितुमशक्याः विशेषणमाहात्म्याच्चारमणीया इति दुः खजनकाश्च, अत एव शल्यतुल्याः । रमणीयाऽरमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः, सहचर-भिन्नत्वदोषापत्तेः । एबमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति ।
‘ शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ॥ ’
शरीरदयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयानां सभुच्चये अरमणीयानां च समालंकारेण, रमणीयारमणी-यानां च विषमालंकारेण च संकीर्णत्वान्नैते प्रभेदा युक्ताः सभुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्त-भेदत्वापत्तेरिति वाच्यम् । ‘ समुत्पत्तिः पद्मारमण-’ इत्यत्र, ‘ पाटीरद्रु-
भुजंग-’ इत्यत्र च समालंकारस्याविवक्षितत्वात् । नहि हरिचरणनख-संभूति-हरजटाजूटनिवास-पतितनिस्तारणव्यासड्रानां परस्परं योगो योग्य इति कवेरभिप्रेतम् । किं तु भगवत्या भागीरथ्या उत्कर्षं जनयितुं त्रयो-ऽपि बालायाः प्राणनाशार्थं बद्धपरिकरा इति । अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात् -खेदोऽनुपपत्र एव स्यात् । अथ बालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां योगांशो समालंकार-
स्यात्यन्तमप्रतीतेर्विषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्सभुच्चयस्यासं-कीर्णतैव । एवं ‘ जीवितं मृत्युना लीढम् ’ इत्यादौ जीवितादे रमणीयस्य मृत्यु-लीढत्वादिना अरमणीयत्वेऽपि न मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम् । रमणीयानामचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च स्वाभि-लषिताननुगुणत्वाच्छ यत्वप्रयोजकत्वम् । अतस्तृतीयप्रभेदस्यापि न विषमसंकीर्णत्वेनान्यथासिद्धिः । एतेन ‘ सद्योगासद्योगसदसद्योगैर्न सभुच्चयः प्रभेदवान् । समविषमसंकरेणैवान्यथासिद्धेः ’ इति रत्नाकरोक्त-मपास्तम् ।

इति रसगंगाधरे समुच्चयप्रकरणम् ।

रसगंगाधरः - समाधि अलंकारः
Tags : grammerrasagangadharsanskritरसगंगाधरव्याकरणसंस्कृत
SEARCH
समाधि अलंकारः
अथ समाधिः-

एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधानाहित-सौकर्यं समाधिः ॥
तच्च कार्यस्यानायासेन सिद्धया साड्रसिद्धया च । पूर्वोपेक्षया विशेषस्तूक्त एव । उदाहरणम्-
‘ आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातड्कं ह्लदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावक्तामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ’
अत्र रात्रिसंनिधानादपि सिद्धयतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा-
स्मरदीपदीप्तदृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः । झटिति प्रादुरभूवन्सख्यादिव चञ्चलाः परितः ॥ ’
इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणा-दुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः ।
‘ नवप्रसड्रं दयितस्य लोभादड्रीकरोति स्म यदा नताड्री । श्लथं तदालिड्रनमप्यकस्माद्धनो निनादैर्घनतां निनाय ॥’
अत्र घनध्वनिभिरालिड्रनस्य साड्रतासिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः ।
‘ कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौलौ मनसिजमहिमानं मन्यमानो मिलिन्दः ॥ ’
अत्र जीवितनाशं प्रति वातवान-चञ्चरीकगुञ्जितयोरहमहमिकया हेतुत्वा-देकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्न-धर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीबितनाशरूपैककार्यात्मकैकध-र्मिकस्तयोरेव कारणयोः सभुच्चयः संकीर्णः ।

इति रसगंगाधरे समाधिप्रकरणम् ॥
रसगंगाधरः - प्रत्यनीक अलंकारः
अथ प्रत्यनीकम्-

प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रत्यनीकम् ॥
अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणाद्गुणीभूतेऽपि सादूश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिर-स्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिरस्कारः क्तियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते । अत्र च
प्रतिपक्षगतं बलवत्त्वम् । आत्मगतं दुरर्बलत्वं च गम्यते । संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविधः । तथा-
‘ रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥’
‘ जितमौक्तिकसंपदां रदानां सहवासेन सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मैक्तिकं ते ॥ ’
पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्व-शाब्दत्वाभ्यां च वैलक्षण्यम् । एवमन्यदप्यूह्यम् ।
अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र द्वितीयोदाहरणे ताबद्धेत्वंशः शाब्दः उत्प्रेक्षांशमात्रमार्थम् । प्रथमो-
दाहरणे तु द्वयमप्यार्थम् । पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य स्वात्म-कर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीतेः । अस्मिन्नलं-कारे हेतुत्वं निश्चीयमानम्, हेतूप्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्, प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्तेः । वाचकस्येवादेरभा-वाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात्
‘ यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ ’
इत्यलंकारसर्वस्वकृतोदाह्लते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्-वक्त्रसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना ।
‘ मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टह्लदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥ ’
इति कुवलयानन्दकारेणोदाह्लते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्मः । प्रतिपक्षगतबलवत्त्व-स्वात्मगतदुर्बलत्वयोः प्रतीतेर्हेतूत्प्रेक्षान्त-रादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तदविना-
भावित्वात् । किं तु तदवान्रतविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदा-द्धटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ।

इति रसगंगाधरे प्रत्यनीकप्रकरणम् ।
रसगंगाधरः - प्रतीप अलंकारः
प्रतीप अलंकारः
अथ प्रतीपम्-
प्रसिद्धौपम्यवैपरीत्येन वर्ण्यमानमौपम्यमेकं प्रतीपम् ॥
तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया, न तु प्रकारान्तरेण ।
उपमानोपमेययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्षं परि-हर्तुं द्वितीयप्रदर्शनेनाल्लास्यमानं सादृश्यमपंर द्विविधम् ॥
अपमानस्य कैमर्थ्यं चतुर्थम् ॥
सादृश्यविघटनं पञ्चमम् ॥
तत्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य, यच्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्य-स्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम् । औपम्यप्रतिष्ठानं च निषिध्यमानसादृशाव्द्यतितेकात् । नन्वौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, श्रृणु ।
उपमाने हि साधारणधर्मसंबन्धोऽनूद्योपमेये विधीयत इति तावन्निर्वि-वादम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्यास् । ते च क्रमेण न्यूनत्वाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोषः । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव । चतुर्थस्य तु
निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पञ्चमस्य प्रथमवदिति ।
उदाहरणम्-
‘ किं जल्पसि मुग्धतया हन्त ममाड्रं सुवर्णवर्णमिति । तद्यदि पतति हुताशे तदा हताशे तवाड्रवर्णं स्यात् ॥ ’
अत्र पूर्वार्धोपमागम्यं सुवर्णवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं बालाड्रवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम्,
उपमा तु स्वप्नेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते ।
‘ माहात्म्यस्य परोऽवधिर्निजगृहं गभ्भीरतायाः पिता रत्नानामहमेक एव भुवने को वापरो मादृशः । इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो दुग्धाबधे भवता समो विजयते दिल्लीधरावल्लभः ॥ ’
निभाल्य भूयो निजगौरिमाणं मा नाम मानं ह्लदये विधासीः । गृहे गृहे पश्य तवाड्रवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥ ’
उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् ‘ अभूदप्रत्यूहः ’
इत्यादी । पञ्चमो यथा-
‘ करिकुम्भतुलामुरोजयोः क्तियमाणां कविभिर्विश्रृड्खलैः । कथमालि श्रृणोषि सादरं विपरीतार्थविदो हि योषितः ॥ ’
अत्र कथं श्रृणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तर-न्यासोऽप्यमुमेवार्थ्म पुष्णाति ।
तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः पञ्चम-स्त्वनुक्तवैधर्म्ये व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्य-मुपमा । नह्याद्ये प्रतीपे ‘ मुखमिव कमलम् ’ इत्यादौ सादृश्यस्यानिष्पत्तिर-सौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात्, सौन्दर्यविशेषस्य त्वयाप्य. भ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलदि-
प्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम, उपमा-विशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाद्यं प्रतीपं प्रसिद्धोपमावदु-पमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदाबुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमा-सामान्यात्, तदनुस्यूतत्वेनैव तत्प्रतीतेः । नहि द्राक्षा माधुर्यातिशयेन पार्थि-
वान्तराद्विलक्षणेत्यपार्थिवी भवति । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलंकारताप्रयोजकः स्यात्, पुरस्कारोऽपि तथा स्यार्त् । यथा-
‘ एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना-मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाःसाधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः ॥ ’
अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम्, तस्य गर्वितत्वेनाविव-अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम्, तस्य गर्वितत्वेनाविव-क्षणात् । किं तु तदनुतापनाशः । एवं च फलवैलक्षण्यमात्रेणालंकारान्त-रत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात्, प्रतीपषष्ठप्रभेदत्वं वा ।
किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगलंकारत्वं स्यात्, न प्रतीपप्रभेदत्वम् प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्ष-णाभावात् । अन्यतमत्वं तु दूषणसहस्रग्रस्तत्वादलक्षणमेवेत्यसकृदुक्तम् । उपमालक्षंण तु सकलसाधारणम् । चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्तेषा-मस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्तैव प्रभेदस्य ।

इति रसगंगाधरे प्रतीपप्रकरणम् ।
रसगंगाधरः - प्रौढोक्ति अलंकारः
प्रौढोक्ति अलंकारः
अथ प्रौढोक्तिः-

कस्मिंश्चिदर्थे किंचिद्धर्मंकृतातिशयप्रतिपिपादयिषया प्रसिद्ध-तद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः ॥
संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा । ‘ वल्मीकोदरसंभूतकपिकच्छूसहोदराः । हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टयः ॥ ’
अत्र कपिकच्छूसहोदरत्वेन मारकत्वं न प्राप्रोति, अपि तु पीडाजनकत्व-मात्रम् । कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षितः ।
अतो वल्मीकोदरसंभूतत्वं सर्पाधिकरणवृत्तितारूपं कपिकच्छूविशेषण्म मारकतावच्छेदकत्वेन स्वप्रतिभया कविना कल्पितम् । यथा वा-
‘ मन्थाचलभ्रमणबेगवशंवदा ये दुग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि-र्धाता ससर्ज तव देव दयादृगन्तान् ॥ ’
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवे-र्बुबोधयिषिताः, अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणे-ष्वौषधीसंसर्गो विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा-
‘ त्वदड्रणसभुद्भूता सिक्ता कुड्कुमवारिभिः । त्वदड्रतुलनां याति कदाचिल्लवलीलता ॥ ’
अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्धये नायिकासामानाधिकरण-कुड्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरणविषयस्तदैवायम-लंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः ।
यथा-
‘ त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नैज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥ ’
अत्र यशसो धवलतातिशयस्तत्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति तदंशे सम एवालंकारः । अंशुकृतश्चन्द्रे चन्द्रकृतश्च भगवति भगवत्कृतो राज-नीत्येवमुत्तरोत्तरमुपचयिमानो राजगतस्त्वनुक्तत्वात्प्रौढोक्तेरेव विषयः ।
एवं च
‘ शशश्रृड्रधनुर्लसत्करा गगनाम्भोरुहमालिकाधराः । तनयैःसह भाविजन्मनां तव खेलन्ति नरेद्र वैरिणः ॥ ’
इत्यादावेकस्य मिथ्यात्बसिद्धयर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यव-सित्याख्यमलंकारान्तरमिति न वक्तव्यम्, प्रौढोक्त्यैव गतार्थत्वात् । ‘ केशाः कलिन्दजातीरतमालस्तोममेचकाः ’ इत्यादौ प्राचीनकृतप्रौढोक्त्युदाहरणे
यथा तमालेषु श्यामत्वातिशयार्थं श्यामत्वाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते, तथा वैरिष्वपि मिथ्यात्वसिद्धये मिथ्यात्वाधिकरणशशश्रृड्रा-दिसंबन्ध इत्यस्यापि सुवचत्वात् । तत्र श्यामत्वातिशयःइह तु मिथ्यात्व-मात्रं न तु तस्यातिशयः सिद्धयतीति वैलक्षण्यं तु न वाच्यम् । तमाल-स्तोमे प्रमाणान्तरेण सिद्धेऽपि श्यामत्वे कालिन्दीसंसर्गोद्भावनं पुनः श्यामत्वसाधनेनातियागूरकमेव स्यात् । वैरिषु तु मिथ्यात्वस्यासिद्ध-त्वाच्छशशृड्रादिसंबन्धैर्मिथ्यात्वस्य सिद्धिरित्यार्थसमाजाधीनेयमतिशय-सिद्धिर्वैलक्षण्यं न प्रयोजयति । यत्तु ‘ वेश्यां वशयेत्खस्रजं वहन् ’ इति
कुवलयानन्दकृता मिथ्याध्यवसितेरुदाहरणं निर्मितं तत्तु निदर्शनयैव गतार्थम् । निदर्शनागर्भात्र मिथ्याध्यवसितिरिति तु न युक्तम् । मिथ्या-ध्यवसितेरेव मिथ्यात्वात् । यदि च मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् , सत्याध्ववसितिरपि तथा स्यात् । यथा-
‘ हरिश्चन्द्रेण संज्ञप्ताः प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सड्रे मातर्गड्रे गुणास्तव ॥ ’
अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवम्
‘ मध्ये सुधासमुद्रस्य सितामयगृहोदरे । पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ’
अत्रापि सुधासमुद्रादिसंबन्धादुक्तिषु माधुर्यातिशयः प्रतीयमानः कस्या-
लंकारस्य गोचरः स्यात् ? अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्यास्तां तावत् ।

इति रसगंगाधरे प्रौढोक्तिप्रकरणम् ।

रसगंगाधरः - ललित अलंकारः
ललित अलंकारः
अथ ललितम्-

प्रकृतधर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृत-व्यवहारसंबन्धो ललितालंकारः ॥ ’
‘ आददानः परद्रव्यं विष भक्षयसि धुवम् ’ इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति । यथा-
‘ क वा रामः कामप्रतिभटललाटंतपबल-स्तव क्कामी वीरा रणशिरसि धीरा मखभुजाम् । दिधक्षोस्त्रैलोक्यं प्रलयशिखिनः पद्ममथन-प्रगल्भैः प्रालेयैः प्रशममसि कर्तुं व्यवसितः ॥ ’
अत्र प्रकृते धर्मिणि रावणे परदत्तपुरोडाशादिकमश्रतां देवानामग्रे धीरैः कुम्भकर्णादिभिर्वीरैर्भगवतो रामस्य पराभवमिच्छन्नित्येवं कण्ठरवेण तादृ-शेच्छारूपं प्रकृतव्यवहारं विषयमनुक्त्वैव तादृशप्रालेयकरणकतादृशाग्नि-प्रशमनव्यवसायरूपोऽप्रकृतव्यवहारो विषय्युपात्तः । विषयोपादाने तु निदर्शनैव । यथा वा-
‘ नान्यास्ति किं भूमितले सुरूपा सीतैव वा किं भवतोऽनुरूपा । आकर्षता चन्दनशाखिशाखाम प्रबोधितोऽयं भवता फणीन्द्रः ॥ ’
अत्रापि राघवसंबन्धिनायिकाहरणप्रयुक्तं तदीयक्रोधोद्वोधमनुक्त्वैव चन्दनसंबन्धिशाखाकर्षणप्रयुक्तं फणीन्द्रप्रबोधनमुपन्यस्तम् । न चात्र भेदेऽप्यभेद इत्यतिशयोक्त्या गतार्थतेति वाच्यम् । तत्र हि पदार्थेन पदार्थस्यैवाभेदाध्यवसानं ‘ कनकलतायां विराजते चन्द्रः ’ इत्यादौ दृष्टम् , न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि सादृश्य-मूलयाप्रस्तुतप्रशंसया । धर्म्यंशेऽप्रस्तुतत्वविरहात् । नापि निदर्शनया ।
एकधर्मिगतव्यवहारद्वयोपादान एव तस्या इष्टेः । अत एव ‘ उपात्ततोः ’ इति तल्लक्षणे । विशेषणभुक्तम् । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वाद-लंकारान्तरमेव । एवं च
‘क सूर्यप्रभवो वंशः क्क चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ ’
इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहार्षीत्तदसंगतमेव । ललितस्याव-श्याभ्युपगम्यत्वान्निदर्शनाया अत्राप्राप्तेश्च । तदित्थं ललितस्यालंकारान्त-रत्वमुरीकुर्वतामाशयः ।
अन्ये तु “ ललितं नालंकारान्तरम् , निदर्शनयैव गतार्थत्वात् । नन्वेक-धर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तु-तव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्, श्रूयतामायुष्मता । इह तावदलंकाराः प्रायशः श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न पृथगलंकारत्वेन गण्यन्ते । किं तु पृथग्भेदत्वेन, तदलंकारसामान्य-लक्षणेन क्रोडीकरणात् । इदं पुनर्वाक्यार्थनिदर्शनास्वरूपम्-व्यवहार-द्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभेदः । तत्र व्यवहारद्वयवद्धर्म्य-भेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । किं तु प्रतिपादन-
मात्रम् । तेन ‘ परद्रव्यं हरन्मर्त्यो गिलति क्ष्वेडसंचयम् ’ इत्यत्र व्यवहार-द्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव ‘ धिक्परखं तथाप्येष गिलति क्ष्वेडसंचयम् ’ इत्यत्राऽऽर्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकृतव्यवहारवद्धर्मि-णोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम् । एकत्र श्रोती-त्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते । पदार्थनिदर्शनास्वरूपं तूपमा-नोपमेयधर्ययोरभेदाध्यवसायमूल उपमेय उपमानधर्मसंबन्ध इति पृथ-गेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम् । यदि तु ललितं पृथगलंकारः स्यात् लुप्तोपमादिरप्युपमादेः पृथक्स्यात्, त्वदुक्तयुक्ते-
स्तुल्यत्वात् । नन्वतिशयोक्तिरेवं सति रूपक एव विलियते । विषय-विषयिणोर्द्वयोरप्युपादाने श्रौतं रूपकम्, विषयिमात्रोपादाने त्वार्थ-मित्यस्यापि सुवचत्वात् । सत्यम् । यत्र ह्मलंकारशररिमुभयत्राप्यविल-क्षणं तत्रैकालंकारव्यपदेशो युक्तः । यथा सादृश्यं निष्पाद्यमानमुपमा-शरीरं लुप्तोपमादिष्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः, नालंकारान्तरेण । लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्याव-र्तमानोऽपि नोपमात्वव्यावर्तकः, तथान्यत्रापीति स्थितिः । एवं च विषय-तावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूपक-
शरीरस्य विषयितावच्छेदकरूपेणाऽऽभासमानविषयात्मकादतिशयोक्ति-स्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम् । निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमित्येकालंकारत्वमेव ” इत्याहुः ।
‘ आहार्यनिश्चयविषयीभूतो विषये विषय्यभेदो रूपकस्वरूपमुच्यते । न निवेश्यते च विषयतावच्छेदकादि, गौरवात् । : एवं चातिशयोक्तेर्निगी-
र्याध्यवसानरूपाया रूपकभेदत्वमस्तु नाम । का नो हानिः । एवमपह्लुते-रपि । विषयतावच्छेदकनिह्लवानिह्लवनिगरणानि रूपकस्यैवावान्तरविशेषाः ’
इति तु नव्याः । एतन्मतरीत्या तु ललितस्य निदर्शनातःपृथगलंकारत्बं मनोरथललितमेवेति । एवं च ‘ तितीर्षुर्दुस्तरं मोहादुडुपेनासि सागरम् ’ इत्यत्र निदर्शना साधु संगच्छते । क्क सूर्येत्यादिना स्वमति-सूर्यप्रभववंश-योरत्यन्ताननुरूपत्वकथनोत्तरमुडुपकरणकसागरतरणेच्छाया अप्रकृतायाः कथनेन तादृशमतिकरणकवर्णनेच्छायाः प्रकृतायाःप्रतिपत्तेः ।
यत्तु –“-‘ अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ’ इति पद्ये कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्त-मुक्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालं-कारः ”
इति कुवलयानन्दकार आह । तदत्यन्तमसंगतम् । अत्र कथ-मन्यस्य दशामन्यो नेतुं शक्य इति वसन्तमुक्तवनदशां निःश्रीकत्वल-क्षणामनायीति हि पर्यवसन्नोऽर्थः । तत्र निःश्रीकत्वरूपकार्यद्वारा कारणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेर्विषयः । दशयोरेकत्वा-ध्यवसानं तु पदार्थनिदर्शनाया अतिशयोक्तेर्वेत्यन्यदेतत् । एवं च पदार्थ-निदर्शनोपबृंहितस्य पर्यायोक्तस्यैवात्र विषयः, न ललितस्य । किं च त्वदुक्तं ललितालंकारलक्षणमपि नात्र संभवति । तच्च “-‘ प्रस्तुते वर्ण्य-वाक्यार्थप्रतिबिम्बस्य वर्णनम् ’ प्रस्तुते धर्मिणि वर्णनीयं वाक्यार्थमवर्ण-यित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम् ”
इत्यादिना ग्रन्थेन भवता विवेचितम् । इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्याग-कर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्या-प्यवर्णनात्कथं संगच्छताम् । यदि पुनः ‘ अकारि देशः कतमस्त्वयाद्य निरस्तचन्द्रः कठिनाशयेन ’ इति पद्यं स्यात्तदा स्यादपि तव मनोरथः । न च तादृशवनदशाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम् ।
दशाशब्देन तद्दशासदृशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायोगात् । अन्यथा पदार्थनिदर्शनोच्छेदापत्तेः । एवम्
‘ रामो विजयते यस्य क्षणात्सामर्षवीक्षणात् । दावाग्निदग्धकान्तारलीलां लड्कापुरी दधौ ॥ ’
इत्यादौ ललितस्यालंकारान्तरतामभ्युपगच्चतामपि मते न तस्य विषयः, किं तु निदर्शनायाः । अत एव
‘ उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्रि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ’
इति प्राचां निदर्शनोदाहरणमपि संगच्छते । तव तु रशिमरज्जुनियन्त्रित-पार्श्वद्वयसंलग्नसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधर्म्यारूढतया प्रकृतार्थानु-पादानाल्ललितमेव स्यात् । प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं प्रक-रणादिना गम्यत्वे ललितम्, अन्यथा निदर्शनेति चेत् ‘ क्क सूर्यप्रभवः । इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव ।

इति रसगंगाधरे ललितालंकार प्रकरणम् ।

रसगंगाधरः - प्रहर्षण अलंकारः
प्रहर्षण अलंकारः
अथ प्रहर्षणम्-

साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् ॥
इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभी-प्सितार्थलाभ इत्येका विधा, वाञ्छितार्थसिद्धयर्थं यत्ने क्रियमाणे ततोऽप्य-धिकतरार्थलाभ इत्यपरा । उपायसिद्धयर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थं लक्षणे साक्षादित्युक्तम् । क्रमेणो-दाहरणानि-
‘ तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्या शयितः पराड्मुखः । किं मूर्च्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे ॥ ’
अत्र यत्रसामान्यशून्यस्यापीष्टलाभः ।
‘ केलीमन्दिरमागतस्य शनकैरालीरपास्येड्रितैः सुप्तायाः सरुषः सरोरुहदृशः संजीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥ ’
अत्र भामिन्या रोषनिवारणाय यत्ने क्तियमाणे रोषनिवारणादप्यधि-कतरसुखप्रदः कामुकस्य भामिनीकर्तृकः स्वकरकर्मकस्तत्कुचाधिकरणक आसड्रः । न चात्र तृतीयभेदः शड्कयः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुप-स्थितेः । यथा वा-
‘ लोभाद्वराटिकानां विक्तेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ ’
अत्र प्रहर्षणद्वितीयभेदः स्फुट एव । अननुरूपसंबन्धमादाय विषमा-लंकारश्च । तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयि-णोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणि-भगवदु-भयसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो वराटिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननु-रूप एवेति वाच्यम् । एवं तर्हि तक्रविक्तयकर्तृत्वेनैवाज्ञानित्वलाभे वरा-टिकालोभरू पहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । यादृशवाञ्छित-सिद्धयर्थं यत्नः क्रियते तादृषवाञ्छितसिद्धौ तु समालंकार एव ।
तद्दर्शनोपायविमर्शनार्थं मया तदालीसदनं गतेन । तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ॥ ’
अत्र तद्दर्शनोपायसिद्धयर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव
तद्दर्शनलाभः । यत्तु-
‘ चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ ’
इति पद्यम् ‘ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् ’ इति प्रहर्षणद्वितीय-प्रभेदं लक्षयित्वोदाह्लतं कुवलयानन्दकृता । तदसत् । वाञ्छितादधि-कार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोषानतिशये प्रहर्षणशब्दयोगा-
र्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणक-विश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छिता-दधिकप्रदत्वेन दातुरुत्कर्षो भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वाराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वाञ्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यात्तद्युक्तम् ।

इति रसगंगाधरे प्रहर्षणप्रकरणम् ।

रसगंगाधरः - विषादन अलंकारः
विषादन अलंकारः
अथ विषादनम्-

अभीष्टार्थविरुद्धलाभो विषादनम् ॥
अस्य चाभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव
कृता जातश्च विरुद्धार्थलाभः सः, यत्र चेष्टार्थं प्रयुक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः, अपि तु स्वकारणवशात्स च विविक्तो विषयः । यत्र त्विष्टार्थ्म प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तत्र तादृशकारणविरुद्धार्थयो-रुत्पादकोत्पाद्यभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम् , इष्यमाणविरुद्धार्थ-लाभसत्त्वाच्च विषादनमिति संकीर्णतैव । एवं चास्य विषमभेदैर्गतार्थतेति नाशड्कनीयम्, विषमरहितस्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात् । यथा-
‘ स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने चञ्चूकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-त्यन्तः संप्रविवेश वारणकराकारः फणिग्राभणीः ॥ ’
अत्र हि विषमप्रभेदस्य नास्ति विषयः, इष्टार्थं कारणप्रयोगाभावात् । इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्याननु-रूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयावस्थितम् ।
‘ चेलाञ्चलेनाननशीतरशिंम संवृण्वतीनां हरिदृश्वरीणाम् । गोपाड्रनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥ ’
अत्रेष्टस्याननगोपनस्य विरुद्धोऽर्थो नीविस्खलनम्, कारणीभूतत्रपा-संधानपरिपन्थित्वात् । तच्च सात्त्विककम्परूपात्स्वकारणादेवोत्पन्नम्, न तु
गोपनानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुत्कात्कारणादिष्टानुत्पत्तिरत्रा-स्ति । चेलाञ्चलावरणेनाननगोपनरूपस्येष्टस्योत्पत्तेः । अतो विषादनमे-वात्र, न विषमम् ।
अत्रेदं बोव्यम्-इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिरिति यो विषमस्य भेदः प्राक्प्रत्यपादि सोऽनेन विषादनेन ग्रस्तत्वादस्यैव प्रभेदो भवितुमीष्टे, न तु विषमस्येति कश्चिद्यदि ब्रूयात्स प्रष्टव्यः-न विषमस्येति यदुक्तं तत्कस्य हेतोः ? विषादनेनेव विषमेणापि कार्यकारणसंसर्गाननु-रूपतालक्षणेन ग्रस्तत्वात् । न चात्रैकस्यान्यापवादकत्वं युक्तम् । द्वयोरपि सावकाशत्वात्, भिन्नविषयत्वाच्च । विरुद्धलाभांशो विषादनस्य, विरुद्ध-लाभेष्टार्थप्रयुक्तकारणयोःसंसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवो-
चाम । तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्यः ।

इति रसगंगाधरे विषादनप्रकरणम् ।

रसगंगाधरः - उल्लास अलंकारः
अथोल्लासः-

अन्यदीयगुणदोषप्रयुक्त मन्यस्य गुणदोषयोराधानमुल्लासः ॥
तच्च गुणेन गुणस्य, दोषस्य वा । दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि-
‘ अलभ्यं सौरभ्यं हरति सततं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतह्लदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा-त्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ’
अत्र लहरीणां पावनत्वातिशयेन पावमानस्य पावनत्वगुणान्तरं वर्णितम् ।
‘ विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो-र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥ ’
अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्दविमुखयोर्नयनयोःश्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वा-
‘ हिंसाप्रधानैः खलु यातुधानैर्याऽनीयताऽपावनतां सदैव । रामाड्घ्रियोगादथ सापि वन्या विन्ध्यस्य धन्याऽऽस्त मुनेः सतीव ॥ ’
अत्र दोषेण दोषः पूर्वार्धे, द्वितीयार्धे तु गुणेन गुण इति विशेषः ।
यथा वा-
‘ भूषितानि हरेर्भक्तैर्दूषितानि पराड्मुखैः । स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥ ’
अत्रोत्तरोत्तरव्यापकतया तथेति विशेषः । ‘ श्वपाकानां व्रातैरमितविचिकित्साविचलितै-र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् । मुदा माभुद्धर्तुं जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ ’
अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धर्त्र्याः श्रीगड्रायाः श्लाघ्यत्वं गुणः । यथा वा-
‘ श्ववृत्तिव्यासड्रो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्रावं श्रावं मम तु पुनरेवंविधगुणा-नृते त्वक्तो नाम क्षणमपि निरीक्षेत वदनम् ॥ ’
इहापि प्राग्वदेव । किं तु व्यड्रयः स इति विशेषः । ‘ काव्यलिड्रेन गतार्थोऽयम्, नालंकारान्तरत्वभूमिमारोहति ’ इत्येके । ‘ लैकिकार्थमय-त्वादनलंकार एव’ इत्यपरे ।

इति रसगंगाधरे उल्लासप्रकरणम् ।

रसगंगाधरः - अवज्ञा अलंकारः
अथावज्ञा-

तद्विपर्ययोऽवज्ञा ॥
तस्योल्लासस्य विपर्ययोऽभावः । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुणदोषा-ऽऽधानाभावः इति पर्यवसितोऽर्थः । यथा-
‘ निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ’
अत्र पूर्वार्धे प्रपञ्चानित्यत्वबोधकतारूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णितः ।

‘ मध्येगलं विहरतां गरलं निकामं नागाधिपः शिरसि, भालतले हुताशः । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः ॥ ’

अत्र तापकतारूपगरलदिदोषप्रयुक्तस्य भगवन्मूर्तौ क्रूरत्वादिदोषाधान-स्याभावः । न चात्रातद्नुणो वक्ष्यमाणोऽलंकार इति वाच्यम् । यतो यमुना-जलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूर्ते-र्गरलदिगतक्रूरत्वाग्रहणं विवक्षितम् । अपि तु तादृशक्रूरत्वप्रयुक्तस्य क्रूर-त्वान्तरस्यानाविष्करणमित्यस्ति विशेषः । ‘ निश्णातोऽपि-’ इत्यादौ तु तदूगुणस्याप्रसक्तिरेव ।

‘ मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमन्दमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रताना-मास्येषु यास्यसि सतां विपुलं विलासम् ॥ ’

अत्र पूर्वार्धेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोषस्य निषिध्यमानत्वादप्रतिष्ठानेनाभावः शाब्दः, वाणीगतरमणीयतारूपगुण-प्रयुक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधाप्यवज्ञा । उत्तरार्धे तु सह्लदयगुणेन सरसतारूपेण वाण्या उल्लासरूपगुणाधानमित्यु-ल्लास एव । विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तरमित्यपि वदन्ति ।

इति रसगंगाधरेऽवज्ञाप्रकरणम् ।

रसगंगाधरः - अनुज्ञा अलंकारः
अनुज्ञा अलंकारः
अथानुज्ञा-

उत्कटगुणविशेषलालसया दोषत्वेन प्रसिद्धस्यापि वस्तुनः प्रार्थनमनुज्ञा ॥

यथा-

‘ प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ॥ ’

अत्र हरिभक्तिलालसया कृषीवलकुलजन्मनः प्रार्थनम् ।

इति रसगंगाधरेऽनुज्ञाप्रकरणम् ।

रसगंगाधरः - तिरस्कार अलंकारः
Tags : grammerrasagangadharsanskritरसगंगाधरव्याकरणसंस्कृत
SEARCH
तिरस्कार अलंकारः
अथ तिरस्कारः-

एवम्-

दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः ॥

यथा-

‘ श्रियो मे मा सन्तु क्षणमपि च माद्यद्नजघटा-मदभ्राभ्यद्भृड्रावलिमधुरसंगीतसुभगाः ।

योः संभवः ? यावता प्रार्थनमिच्छा तिरस्कारश्च द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता । गुणे च द्विष्टसाधनता-ज्ञानाभावाहेउषोऽपि तथा । वैपरीत्यं तु कारणसत्त्वादुचितमिति चेत्, मै-

वम्, दोषगुणयोर्गुणदोषांशमादायेष्ट-द्विष्टसाधनताज्ञानयोः सत्त्वात्त्वदुक्तं कारणं तावदव्याहतम् । उत्कटद्विष्टाननुबन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति, उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेषं प्रति कारणत्वस्य वाच्यत्वाद्वैपरीत्यमपि नोचितम् । अन्यथा सुखदुःखोभयसाधनेषु चान्द्रा-यणकलञ्जभक्षणादिषु हरीतकी-दधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम

एव स्यात् । अत्र च पुरुषकालप्रवेश आवश्यकः । उत्कटतत्पुरुषीय-

तात्कालिकद्विष्टाननुबन्धितत्पुरुषीयतात्कालिकेच्छाविषयफलसाधनताज्ञानं तत्पुरुषीयोपायेच्छां प्रति कारणम् । एवमुत्कटतत्पुरुषीयतात्कालिकेष्टान-नुबन्धितत्पुरुषीयतात्कालिकद्वेषविषयफलसाधनताज्ञानं तत्पुरुषीयोपाय-द्वेषं प्रति । तेन पुरुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोषः

इदं तु बोध्यम्-फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते । एवं फले उत्कटद्वेषेणोपायेऽपि द्वेष एव । एवं च सुखदुःखोभयसाधनेषु

चान्द्रायणादिषु यदि स्वसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्सा-धनेषु चान्द्रायणादिष्वपि सैव । अथ स्वसामग्रीवशात्प्रथमं दुःखे उत्क-टद्वेषस्तदा चान्द्रायणादिषु स एव, उत्कटसामग्र्या बलवत्त्वकल्पनात् । उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेषः । एकसाधनजन्ये

इष्टानिष्टरूपे फलद्वये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वेषश्च न संभवीत । तथा सति चान्द्रायणादिष्वेकस्मिन्नेव सभये इच्छाद्वेषयोर्द्व-योरप्यापत्तेः एवं च बलवदनिष्टाननुबन्धित्वं बलवदिष्टाननुबन्धित्वं चोपायेच्छाद्वेषयोः कारणतावच्छेदके न देयमेवेत्याहुः ।

अन्ये तु फलेच्छा-फलसाधनताज्ञानयोर्द्वयोरुपायेच्छां प्रति, फलद्वेष-फलासाधनताज्ञानयोरुपायद्वेषं प्रति च कारणत्वम् । उत्कटसामग्र्या बलवत्त्वाच्चेष्टानिष्टोभयसाधने न दोष इत्यपि वदन्ति । एवं चेष्टानिष्टोभय-

साधने दोषे गुणे च गुणेन दोषेण च मिश्रिते सह्लदयानामिच्छाद्वेषयोरु-चितैवोत्पत्तिः, हरितकीकदलभक्षणयोरिवेति ।

इति रसगंगाधरे तिरस्कारप्रकरणम् ।

रसगंगाधरः - लेश अलंकारः
लेश अलंकारः
अथ लेशः-

गुनस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः ॥ ’

यथा-

‘ अपि बत गुरुगर्वं मा स्म कस्तूरि यासी-रखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥ ’

‘ नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्दनद्रुमाः ॥ ’

पुर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम् ।

‘ स्खलन्ती स्वर्लोकादवनितलशोकापह्लतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ॥ ’

अत्र दोषोऽपराध; । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति । न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शड्कयम् । मुख-प्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात् । नहि ‘ अपि बत गुरु-गर्वं ’ इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम्, अपि तु जनकप्राणापहारित्वेन निन्दायामेव । अत एवाप्रस्तुतकस्तूरीवृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि

तस्यामेव विश्रान्तिः । एवं ‘ नैर्गुण्यमेव साधीयः ’ इत्यत्र शाख्यन्तराणां निद्धा न विवक्षिता, किं तु सुखावस्थानम् । गुणिनः स्वगुणैर्दुः खितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वात्, प्रत्युत स्तुतेरेव वाच्य-त्वात् । ‘ स्खलन्ती स्वर्लोकात् ’ इति पद्ये भागीरथीस्तुतिप्रकरणपठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्यं तदा व्याजस्तुतिरप्यस्तु । तस्याः साव-काशत्वेनैतद्वाधकत्वायोगात् ।

‘ रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनदकोषेषु । सत्स्वेव राजपुंगव किं दातास्मीति गर्वमावहसि ॥ ’

अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तसकल-वस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रवि-तुरगाद्यदानस्यागुणत्वाद्गुणदोषयोर्भिन्नविषयत्वेनावस्थानेन लेशस्पर्शलेशर-हिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम् । अत एव लेशोऽपि न-

व्याजस्तुतेर्बाधक इति प्रागुक्तजाह्लवीस्तुतौ द्वयोरपि समावेशः ।

इति रसगंगाधरे लेशप्रकरणम् ।

रसगंगाधरः - तद्गुण अलंकारः
तद्गुण अलंकारः
अथ तद्गुणः-

स्वगुणत्यागपूर्वकं स्वसंनिहितवस्वन्तरसंबन्धिगुणग्रहणं तद्गुणः ॥
यथा-
‘ नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः । बन्धूकभावमानिन्ये रागेणाधरवर्तिना ॥ ’
यथा वा-
‘ अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः । हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ ’
अत्राद्ये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्तद्गुणः । द्वितीयेऽपि पूर्वार्धे स्पष्ट एव तद्गुणः । परं तूत्तरार्धगतेन प्रतिप्रसवतुल्येन हासेनापोह्यमानत्वाद्भडुरः । यदि तु हासेनाधरसितीकरणद्वारा तदरुणिम्रो बाधस्तदा तत्राप्यपरस्तद्गुणः । इमं केचित्पूर्वरूपमामनन्ति । यद्यप्यु-ल्लासेऽप्यन्यदीयगुणेनान्यस्य गुणाधानमस्ति, तथापि तत्रान्यदीयगुणप्रयुक्तं गुणान्तरं चूर्णादिक्षारताप्रयुक्तं हरिद्रादेः शोणत्वमिवाधीयते । प्रकृते तु जपा कुसुमलैहित्यं स्फटिक इवान्यदीयगुण एवान्यत्रेति ततोऽस्य भेदः ।
इति रसगंगाधरे तद्गुणप्रकरणम् ।

रसगंगाधरः - अतद्गुण अलंकारः
अतद्गुण अलंकारः
अथातद्गुणः-

तद्विपर्ययोऽतद्गुणः ॥

यथा-

‘ कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव ह्लदयमत्यन्तमृदुलम । मृगाड्रानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ॥ ’

अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, स्वगुणत्यागाभावस्त्वार्थः । उत्त-रार्धगते दृष्टान्ते तु स्वगुणत्यागाभावः शाब्दः, परगुणाग्रहणं त्वार्थम् । न चायमव ज्ञाया नातिरिच्यते । उल्लासविपर्ययो ह्यवज्ञा । तद्गुणविपर्ययश्चात-द्गुण इति प्रतियोगिभेदादेव भेदस्य सिद्धेः । ‘ अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्व-समत्वाभ्यां द्वैविध्यम् ’ इति सर्वस्वकारः । तस्यायमाशयः-अपकृष्टसंबन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्या-

नाधायकत्वादनल्मकारतैवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति । अन्ये तु-‘ अवान्तरचमत्कारविशेषस्याभावाहैउविध्यमपि न’ इति वदन्ति । अन्ये तु-‘ सति गुणग्रहणहेतावत्कृष्टगुणवस्तुसंनिधाने तद्गुणग्रह-णरूपकार्याभावात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेदः, न त्वलंकारा-न्तरम् । कार्यकारणभावो नात्र विवक्षितः । किं तु संनिधोनऽपि तद्गुण-ग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेऽपीत्यपिना विरोधोऽपि विवक्षितः इति गम्यते । अन्यथा

जीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणे न भवतीति कथमुच्यते न विवक्षित इति ’ इत्यप्याहुः ।

इति रसगंगाधरेऽतद्रुणप्रकरणम् ।

रसगंगाधरः - मीलित अलंकारः
मीलित अलंकारः
अथ मीलितम्-

स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिड्रैरतिसाम्याद्भिन्नत्वेना-गृह्यमाणानां वस्त्वन्तरलिड्रानां स्वकारणाननुमापकत्वं मीलितम् ॥

संग्रहश्च-

‘ भेदाग्रहेण लिड्रानां लिड्रैः प्रत्यक्षवस्तुनः । अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥’

सामान्यवारणाय अनध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्रहणमस्त्येवेति न तत्र प्रसड्रः । उदाहरणम्-

‘ जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते । तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥ ’

अत्र सुरतगमकानां स्वेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितै-स्तैर्भेदस्याग्रहात्सुरतस्याप्रकाशः । यथा वा-

‘ सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ ’

अत्र प्रियेण ताम्बूलं कुतो न गृह्लासीत्युक्ते एतावन्तं समयं ताम्बूलनि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । पूर्वोदाहरणे प्रत्यक्ष-वस्तुलिड्रान्यागन्तुकानि, अत्र तु साहजिकानीति विशेषः ।

इति रसगंगाधरे मीलितालंकारप्रकरणम् ।

रसगंगाधरः - सामान्य अलंकारः
सामान्य अलंकारः
अथ सामान्यम्-

प्रत्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणकृतं तद्भिन्नत्वेनाग्रहणं सामान्यम् ॥

भीलिते तु निगूह्यमानस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्तिः ।

उदाहरणम्-

‘ यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते । पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः ॥ ’

अत्र चन्द्रिकान्तः पृथक्त्वेन हिमाचल-चमरीपुच्छयोरदर्शना-दुत्प्रेक्षोत्पत्तिरिति तस्यां सामान्यं गुणः ।

केचित्तु–“ प्रागुक्तलक्षणे ‘ भिन्नत्वेनाग्रहणं ’ इत्यपहाय ‘ भिन्नजातीय-

त्वेनाग्रहणं ’ इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालंकारः ।

यथा-

‘ स्तबकभरैर्ललिताभिश्चलिताभिर्मारुतैर्नृप लताभिः । वृतमुपवनमेवासीदरिमहिलानां महावनं भवतः ॥ ’

अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात् । तच्च तासां प्रत्यक्षेण त्वदीयैर्भटैर्लताभिः सह तत्तव्द्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्न-जातीयत्वेनाग्रहणान्निष्पद्यते । पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं स्यात् ”
इत्याहुः ।

ननु भेदाग्रह एव मीलित-सामान्य-तद्गुण-साधारण एकोऽलंकारोऽस्तु । किमलंकारत्रयेण ? मीलिते तावत्प्रकृताप्रकृतधर्मिगुणानां भेदाग्रह उपपा-दित एव । सामान्ये केषांचिद्गुणगुणिभेदाग्रहः, केषांचित्क्कचिदयं क्कचि-ज्जातिमात्रभेदाग्रहश्च । तद६गुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः । न चावा-न्तरभेदसत्त्वान्नैकालंकारत्वमुपपद्यत इति वाच्यम् । लुप्तोपमादितः पूर्णो-पमादेःपृथगलंकारतापत्तेः । तस्माद्भेदाग्रहस्य त्रयो मीलितादयोऽवान्तर-भेदा इति युक्तम्, न तु पृथगलंकारा इति चेत् , उच्यते-एवं तर्ह्यभेदोऽ-प्येकोऽलंकारः । तदवान्तरभेदा रूपकपरिणामाद्यतिशयोक्तिप्रभुखा इत्यपि शक्यते वक्तुम् । विच्छित्तिभेदस्तु प्रकृतेऽपि तुल्यः ।

यत्तु-“ मीलितरीत्या भेदाग्रहे प्रात्ते केनचिद्धेतुना भेदज्ञाने सति मीलितप्रतिद्वन्द्वि उन्मीलितम् । सामान्यरीत्या जातिभेदाग्रहे प्राप्ते केन-चिद्धेतुना सति वैजात्यग्रहे सामान्यप्रतिद्वन्द्वि विशेषकं चेत्यलंकारद्वयम् ।

यथा-

‘ हिमाद्रिं त्वद्यशोमृष्टं सुराः शीतेन जानते । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ ’-”

इति कुवलयानन्दकृदाह । तन्न । अनुमानालंकारेणैव गतार्थत्वादनयोर-

लंकारान्तरत्वायोगात् । न चात्र प्रत्यक्षसामग्र्या बलवत्तेनानुमितेरनुद-यान्नानुमानालंकृतिःशक्यनिरूपणेति वाच्यम् । व्याप्तिविशिष्टपक्षधर्मता-

ज्ञानजन्यज्ञानस्यैवानुमानालंकारलक्षणवाक्यगतेनानुमितिपदेन ग्रहणात् । अत एव तत्रास्माभिः पक्षान्तरमुक्तम् । प्रकृते च विशेषदर्शनहेतुकस्य प्रत्यक्षस्यैव तथात्वात् । नहि प्रमाणविभाजकानां नैयायिकानामिवालंका-

रिकाणामपि सरणिः, येन प्रत्यक्षत्वानालिड्रितामनुमितिं परिभाषेमहि । न चैवंविधे विषये नानुमितिपदप्रयोगोऽभ्यर्हितानामिति वाच्यम् । तथाप्यु-न्मीलितादिवत्परिभाषाया अनिवारणात् । अस्तु वानुमितित्वजातियुक्तै-वानुमितिः । तथापि प्रकृते प्रतिबन्धकवशात्तस्या अनुदयेऽपि त-

त्करणस्याप्रत्यूहत्वेनानुमानत्वमव्याहतम् । नहि सत्यप्यग्रौ मणिमन्त्रादिभिः प्रतिबद्धो दाहो न भवतीति दाहकरणमग्निर्नेति वक्तुं शक्यम् । फलायोगव्य-वच्छेदस्तु न करणतायाः प्रयोजकः अपि तु व्यापार एवेति । एतेन ‘ विशेष-दर्शनस्य कोटयन्तरभानप्रतिबन्धकत्वेन चक्षःसंयोगादिरूपस्वसामग्री-

वशादेवोत्पन्ने तादृशप्रत्यक्षे हेतुतायां मानाभावात्पारिभाषिक्यप्यत्र नानु-मितिः । अतस्तत्करणमनुमानं कथं नाम स्यात् ’ इति परास्तम् । यदप्युक्तम्-“ तद्गुणरीत्यपि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा-

‘ नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि-र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र । नेद्रुग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य-द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्य प्रबोधः ॥ ’-” इति ।

तदपि न । तद्गुणे हि गुणयोर्भेदानध्यवसायः , न तु वस्तुनोरिति निर्वि-वादम् । अत्र नाभीकमलपरिमलेन भगवत्त्वेन भगवज्ज्ञाने जातेऽपि

तदीयगुणे नीलिमनि यशोगुणधावल्यभेदानध्यवसायरूपस्य तद्गुणस्य निर्बाधत्वात्कथंकारं तत्प्रतिद्वन्द्विता उन्मीलितस्योच्यते ? यदि चैकस्मिन्-वस्तुनि संनिहितवस्त्वन्तरगुणवद्धेदानध्यवसायस्तद्गुणजीवितमित्युच्यते, तथाप्यत्र तद्गुणो निर्बाधः । भगवतः श्वेतभिन्नत्वेन ज्ञानस्योपायशून्यत्वे-नायोगात् । न च नीलत्वव्याप्यभगवत्त्वज्ञानमेवोपायः । प्राड्नीलोऽपि कारणविशेषमहिम्रा संप्रति श्वेतो जात इति बुद्धे; प्रत्यक्षानुगृहीतायास्त-थाप्यनपायात् । अत एव त्वदुपजीव्येनालंकारसर्वस्वकृता उन्मीलितवि-

शेषकयोश्चर्चैव न कृता । अतः प्राचीनैः कृतविभागेष्वलंकारेष्विदंप्रथमोत्प्रे-क्षितस्य यावदलंकारस्य शक्योऽन्तर्भावः कर्तुम् । न तावत्पृथगलंकारत्व-वाचोयुक्त्या विगलितश्रृड्खलत्वमात्मनो नाटयितुं सांप्रतं मर्यादावशं-वदैरार्यैरिति ।

यत्तु-

‘ वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृड्राः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥ ’

इत्यत्र सामान्यभुदाह्लत्य काव्यप्रकाशे ‘ निमित्तान्तरजनितापि नानात्व प्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते । प्रतीतस्य त्यागा-योगात् ’ इत्युक्तम् । अत्रोत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेर्न चमत्कारि-त्वम्, किं तूत्तरप्रतीतेरेवेति तयैव व्यपदेशो न्याय्यः । अन्यथा

व्यतिरेकेऽप्युपमापत्तेः । विरोधाभासस्तु पूर्वोत्तरप्रतीतिद्वयात्मक इति भवति चमत्कारी ।

इति रसगंगाधरे सामान्यलंकारप्रकरणम् ।

रसगंगाधरः - उत्तरालंकारः
अथोत्तरालंकारः-

प्रश्रप्रतिबन्धकज्ञानविषयीभूतोऽर्थ उत्तरम् ॥

प्रश्रश्च ज्ञीप्सा । भावे नडो विधानात् । सा ज्ञानविषयेच्छा । सा चोत्तरवाक्याद्विषयीभूते ज्ञाने जाते निवर्तते । ननु जिज्ञासा ज्ञानेष्टसाधन-

ताज्ञानसाध्या । जाते हि ज्ञानेष्टसाधनताज्ञाने तदूपस्यैव विषयीभूत-ज्ञानस्य सिद्धत्वात्कथमुत्पत्तुमर्हतीति । मैवम् । ‘ किमेकं दैवतं लोके ’
इत्यादिप्रश्रवाक्यादेकदैवतत्वव्याप्यधर्मप्रकारकं ज्ञानमिष्टसाधनमिति ज्ञान-जन्या प्रयोक्तृगता तादृशं ज्ञानं मे जायतामितीच्छानुमीयते । साच प्रष्टुः कुतश्चिद्दैवतत्वप्रकारकोपस्थितावेकसंबन्धिज्ञानाधीनायां दैवतत्व-व्याप्यधर्मत्वेन रूपेण तादृशधर्मोपस्थितौ च सत्यां तस्यां गृहीतेन दैवत-

त्बंव्याप्यधर्मप्रकारकज्ञानत्वेन सामान्येन भाविन्युत्तरवाक्यजन्यज्ञाने इष्टसाधानताज्ञानादुत्पद्यते । तस्याश्च तादृशप्रकारकज्ञानत्वेन सामान्यरूपेण विष्णुर्दैवतमित्यादीनि ज्ञानान्येव दैवतत्वव्याप्यधर्मांशे निरवच्छिन्नप्रकार-

ताभाञ्जि विषय इति तैरेवोत्तरवाक्यादुत्पन्नेः सा प्रतिबध्यते । जनकीभूत-ज्ञानं विषय एव तस्या न भवतीति न तत्सिद्धिः प्रतिबन्धिकेति न दोषः । तच्चोत्तरं द्विविधम्-उन्नीतप्रश्रम् , निबद्धप्रश्रं च ।

क्तमेणोदाहणानि–

‘ त्वमिव पथि कः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ जीवामि ॥ ’

अत्र कस्यचित्पान्थस्य पुरंध्र्याः कंचित्पथिकान्तरं प्रत्युत्तरेण तत्कर्तृकःकुशलप्रश्रोऽनुमीयते कुशलमपृष्टायाःकुशलोक्तेरयोगात् ।

‘ किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि मुदे मम कथयिष्यति याहि पान्थ तव जाया ॥ ’

अत्राद्यप्रश्रस्य हेतुं चेद्वदसि तदा प्रतिकरिष्यामीति व्यड्रयम् । उत्तरस्य तु-न मया पतिव्रतया हेतुर्वक्तुं परपुरुष्म प्रति योग्यः, न च त्वया प्रति-कर्तुं शक्य इति । द्वितीयप्रश्रस्य त्वलं पातिव्रत्येनाविदग्धजनहठमात्रवि-लसितेन । स्वपरसंतोष एव संसारसार इति । द्वितीयोत्तरस्य तु-या मम दशा सैव तव जायाया अपि दशास्ति । सैव प्रतिक्तियताम् । नहि स्वकीयं सदनं दह्यमानमुपेक्ष्य कश्चित्परसदनाग्रिं प्रतिकरोति । अथ यदि परोपकारः स्वकीयां क्षतिमपि सोढ्वा करणीय इत्यस्ति मनीषा, तदा तवैवंविधोपकारे प्रवृत्तस्य जायायाः केनचिदन्येन भवादृशेनोपकारः

करणीय इति त्वयैव तस्या ममेव परपुरुषपराड्मुख्या विरहो दूरीकर्तव्य इति ।

उन्नीतप्रश्रे सकृदुत्तरस्य चारुत्वम्, निबद्धप्रश्रे तु प्रश्रोत्तरयोरसकृदुप-न्यासे तदिति प्राञ्चः । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्रोत्तरयोर-न्यतरस्योभयोश्च साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधा ।

‘ प्रियो ह्लदयवर्ती मे न सां मुञ्चति जातुचित् । उत्तरे नावकाशोऽस्ति दूरतस्ते मनोरथः ॥ ’

अत्र केनचित्पान्थने कांचित्साध्वीं प्रति कुत्र तव प्रियोऽस्तीति कृतः

प्रश्र उन्नीतः प्रियनैकटये तद्वञ्चनेन तदनैकटये च स्वाच्छन्द्येनावयो-र्विलासो मान्मथो भविष्यतीत्यभिप्रायगर्भितः । अन्यथा ‘ दूरतस्ते मनो-रथः ’ इत्यस्यासंगत्यापत्तेः । उत्तरं तु स्फुटत्वात्तदगर्भितम् ।

‘ सुवर्णस्य कृते तन्वि देशं देशमटाभ्यहम् । तस्य दुष्प्रापताहेतोश्चिन्ताक्तान्तं मनो मम ॥ ’

अत्र कस्य हेतोश्चिन्ताक्रान्तं ते मन इति कस्याश्चित्स्फुटार्थे ग्रामी-णायाः प्रश्रे कस्यचिन्नागरिकस्योत्तरं ‘ रूप यदि ददासि तदा मम चिन्ता गमिष्यती ’ त्यभिप्रायगर्भम् ।

‘ रोगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्टे । मा हन्त कातरा भू रसक्रियायां नितान्तनिपुणोऽस्मि ॥ ’

अत्र ‘ नापृष्टः कस्यचिद्ब्रूयात ’ इत्यादिनीत्या वैद्यकर्तृकप्रतिज्ञोन्नीतः प्रश्रो-‘ वैद्य, रोगस्य मे चिकित्सां करिष्यसि ? ’ इत्याकारो विदग्धनायिका-रूपाया वक्त्र्या वैशिष्टयात्संभोगरूपेणाभिप्रायेण गर्भितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । प्रश्रोत्तरयोर्द्वयोरपि निरभिप्रायत्वे ‘ त्वमिव पथिकः ’ इति कथितमेवोदाहरणम् । एते ह्युन्नीतप्रश्रभेदाः । एवं निबद्धप्रश्रभेदा अप्युदाहार्याः । ‘ किमिति कृशासि ’ इति पद्यमपि चतुर्णां निबद्धप्रश्रभेदानामुदाहरणभावमर्हति वक्तृवैदग्ध्यावैदग्धव्यवस्थयेति ।

अत्राहुः - अलंकारे ह्यस्मिन्प्रश्रोत्तरगतमसकृदुपनिबद्धत्वं जीवातुः । तथैव चमत्कारोदयात् । तेन सकृत्प्रश्रस्य सकृदुत्तरं नालंकारस्य भूमिः ।

न चोन्नीतप्रश्रोत्तरेऽव्याप्तिः उन्नीतस्य प्रश्रस्यैकत्वादनुपनिबन्धाच्चोत्तरस्या-प्येकत्वादिति वाच्यम् । प्रश्रगतमुन्नीतत्वमत्रोत्तरेणाऽऽक्षिप्तत्वं न विवक्षितम् । किं तु प्रश्रोत्तरपरभ्परायां प्राचीनोत्तरश्रवणजन्यत्वमात्रम् । यथा-

‘ श्यामं यज्ञोपवीतं तव किमिति मषीसंगमात्कुत्र जातः सोऽयं शीतांशुकन्यापयसि कथमभूत्तज्जलं कज्जलाक्तम् ।

व्याकुप्यन्नूरदीनक्षितिरमणरिपुक्षोणिभृत्पक्ष्मलाक्षी-लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः संगमेन ॥ ’

अत्र ‘ कुत्र जातः ’ इत्यादिप्रश्रो ‘ मषीसंगमात् ’ इत्याद्युत्तरश्रवणादुद्नत इत्युन्नीत उच्यते । आद्यप्रश्रस्त्वनुन्नीतोऽप्युत्तरोत्थापनार्थं निबद्ध इति ।

एवं चास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्रोदाहरणान्यनुदाहरणान्येव । अलं-

कारस्यास्य द्वैविष्यमपि न प्रश्रस्योन्नीतत्व-निबद्धत्वाभ्याम् । किं तून्नीतत्वा-नुन्नीतत्वाभ्यां ज्ञेयम् । वस्तुतस्तु-प्रश्रोत्तरयोराकूतगर्भत्वे तावतैव चम-त्कारान्नासकृदुपादानापेक्षा । आकूतविरहे त्वसकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्रे । आक्षिप्तप्रक्षे तु प्रश्राक्षेपकृतं चमत्कारं यदि मन्यन्ते सह्लदयास्तदा सकृदुपादानेऽप्यलंकारत्वमस्तु ।

प्रकारान्तेरणाप्यस्य भेदाः संभवन्ति । पद्यान्तर्वर्तित्वेन पद्यबहिर्वर्ति-त्वेन तावहैउविध्यम् । तत्राद्यस्याभिन्नवाक्योद्नीर्णत्व-भिन्नवाक्योद्नीर्णत्वाभ्यां पुनर्द्वैविध्यम् । पद्यान्तर्वर्ति-पद्यबहिर्वर्तिनोर्द्वयोरप्युत्तरयोःसकृच्छब्द-श्रुतिपर्याप्तत्वेन शब्दावृत्तिपर्याप्तत्वेन, अनेकेषां प्रश्रानामेकपदनिवेदितो-त्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वम् । दिड्भात्रेणोदाह्लियते-

किं कुर्वते दरिद्राः कासारवती धरा मनोज्ञतरा । कोपावनस्त्रिलोक्यां ……………………… ॥

*******************************************************************************

]


  1. %22http://www.khapre.org/portal/url/keywords/grammer/word%22 ↩︎ ↩︎ ↩︎ ↩︎

  2. %22http://www.khapre.org/portal/url/keywords/rasagangadhar/word%22 ↩︎ ↩︎ ↩︎ ↩︎

  3. %22http://www.khapre.org/portal/url/keywords/sanskrit/word%22 ↩︎ ↩︎ ↩︎ ↩︎

  4. %22http://www.khapre.org/portal/url/keywords/%e0%a4%b0%e0%a4%b8%e0%a4%97%e0%a4%82%e0%a4%97%e0%a4%be%e0%a4%a7%e0%a4%b0/word%22 ↩︎ ↩︎ ↩︎ ↩︎

  5. %22http://www.khapre.org/portal/url/keywords/%e0%a4%b5%e0%a5%8d%e0%a4%af%e0%a4%be%e0%a4%95%e0%a4%b0%e0%a4%a3/word%22 ↩︎ ↩︎ ↩︎ ↩︎

  6. %22http://www.khapre.org/portal/url/keywords/%e0%a4%b8%e0%a4%82%e0%a4%b8%e0%a5%8d%e0%a4%95%e0%a5%83%e0%a4%a4/word%22 ↩︎ ↩︎ ↩︎ ↩︎

  7. %22http://www.khapre.org/portal/service/themes/red/images/menu.search.gif%22 ↩︎ ↩︎ ↩︎ ↩︎